Ānandagiri Ṭīkā — Bṛhadāraṇyaka
Ānandagiri
हरये परमानन्दपरिज्ञानवपुर्भृते ॥१॥ 【भाष्यम्】 【भाष्यम्】 नमस्त्रय्यन्तसन्दोहसरसीरुहभानवे ।
गुरवे परपक्षौघध्वान्तध्वंसपटीयसे ॥२॥ 【भाष्यम्】 【भाष्यम्】
इति बृहदारण्यकोपनिषद्भाष्यटीकायां षष्ठाध्यायस्य पञ्चमं वंशब्राह्मणम् ॥५॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंसपरिव्राजकाचार्यशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां बृहदारण्यकोपनिषद्भाष्यटीकायां षष्ठोऽध्यायः ॥६॥ 【भाष्यम्】 【भाष्यम्】 यदविद्यावशाद्विश्वं दृश्यते रशनाहिवत् ।
यद्विद्यया च तद्धानिस्तं वन्दे पुरुषोत्तमम् ॥१॥ 【भाष्यम्】 【भाष्यम्】 नमस्त्रय्यन्तसन्दोहसरसीरुहभानवे ।
गुरवे परपक्षौघध्वान्तध्वंसपटीयसे ॥२॥ 【भाष्यम्】 【भाष्यम्】 भगवत्पादाब्जद्वन्द्वं द्वन्द्वनिबर्हणम् ।
सुरेश्चरादिसद्भृङ्गैरवलम्बितमाभजे ॥३॥ 【भाष्यम्】 【भाष्यम्】 बृहदारण्यके भाष्ये शिष्योपकृतिसिद्धये ।
सुरेश्वरोक्तिमाश्रित्य क्रियते न्यायनिर्णयः ॥४॥ 【भाष्यम्】 【भाष्यम्】 काण्वोपनिषद्विवरणव्याजेनाशेषामेवोपनिषदं शोधयितुकामो भगवान्भाष्यकारो विघ्नोपशमादिसमर्थं शिष्टाचारप्रमाणकं परापरगुरुनमस्काररूपं मङ्गलमाचरति — ओं नमो ब्रह्मादिभ्य इति । वेदो हिरण्यगर्भो वा ब्रह्म तन्नमस्कारेण सर्वा देवता नमस्कृता भवन्ति तदर्थत्वात्तदात्मकत्वाच्च ‘एष उ ह्येव सर्वे देवाः’(बृ. उ. ३ । ९ । ९) इति श्रुतेः । आदिपदेन परमेष्ठिप्रभृतयो गृह्यन्ते । यद्यपि तेषामुक्तो ब्रह्मान्तर्भावस्तथाऽपि तेष्वनादरनिरासार्थं पृथग्ग्रहणम् । चतुर्थी नमो योगे । नमःशब्दस्त्रिविधप्रह्वीभावविषयः । ननु ब्रह्मविद्यां वक्तुकामेन किमित्येते नमस्क्रियन्ते सैव हि वक्तव्येत्यत आह — ब्रह्मविद्येति । एतेषां तत्संप्रदायकर्तृत्वे वंशब्राह्मणं प्रमाणयति — वंशऋषिभ्य इति । यद्यपि तत्र पौतिमाष्यादयो ब्रह्मान्ताः संप्रदायकर्तारः श्रूयन्ते तथाऽपि गुरुशिष्यक्रमेण ब्रह्मणः प्राथम्यमिति तदादित्वमिति भावः । संप्रत्यपरगुरून्नमस्करोति — नमो गुरुभ्य इति । यद्यपि ब्रह्मविद्यासंप्रदायकर्त्रन्तर्भावादेते प्रागेव नमस्कृतास्तथाऽपि शिष्याणां गुरुविषयादरातिरेककार्यार्थं पृथग्गुरुनमस्करणं ‘यस्य देवे परा भक्तिः’ (श्वे. उ. ६ । २३) इत्यादिश्रुतेरिति । यदुद्दिश्य मङ्गलमाचरितं तत्प्रतिज्ञातुं प्रतीकमादत्ते — उषा वा इति । एतेन चिकीर्षिताया वृत्तेर्भर्तृप्रपञ्चभाष्येणागतार्थत्वमुक्तम् । तद्धि ‘द्वया हे’(बृ. उ. १ । ३ । १) त्यादिमाध्यन्दिनश्रुतिमधिकृत्य प्रवृत्तम् । इयं पुनः ‘उषा वा अश्वस्य’ (बृ. उ. १ । १ । १) इत्यादिकाण्वश्रुतिमाश्रित्येति । अथोद्देश्यं निर्दिशति — तस्या इति । भर्तृप्रपञ्चभाष्याद्विशेषान्तरमाह — अल्पग्रन्थेति । अस्या ग्रन्थतोऽल्पत्वेऽपि नार्थतस्तथात्वमिति ग्रन्थस्य ग्रहणम् । वृत्तिशब्दो भाष्यविषयः । सूत्रानुकारिभिर्वाक्यैः सूत्रार्थस्य स्वपदानां चोपवर्णनस्य भाष्यलक्षणस्यात्र भावादिति । ननु कर्मकाण्डाधिकारिणो विलक्षणोऽधिकारी न ज्ञानकाण्डे संभवति अर्थित्वादेः साधारणत्वाद्वैराग्यादेश्च दुर्वचनत्वात् । न च निरधिकारं शास्त्रमारम्भमर्हतीत्यत आह — संसारेति । कर्मकाण्डे हि स्वर्गादिकामः संसारपरवशो नरपशुरधिकारी । इह तु संसाराद्व्यावृत्तिमिच्छवो विरक्ताः । न च वैराग्यं दुर्वचं शुद्धबुद्धेर्विवेकिनो ब्रह्मलोकान्ते संसारे तत्संभवात् । उक्तं हि – “शोध्यमानं तु तच्चित्तमीश्वरार्पितकर्मभिः । वैराग्यं ब्रह्मलोकादौ व्यनक्त्याशु सुनिर्मलम् ॥“ इति । अतो यथोक्तविशिष्टाधिकारिभ्यो वृत्तेरारम्भः संभवतीत्यर्थः । तथाऽपि विषयप्रयोजनसंबन्धानामभावे कथं वृत्तिरारभ्यते तत्राऽह — संसारहेत्विति । प्रमातृताप्रमुखः कर्तृत्वादिरनर्थः संसारस्तस्य हेतुरात्माविद्या तन्निवृत्तेः साधनं ब्रह्मात्मैकत्वविद्या तस्याः प्रतिपत्तिरप्रतिबद्धायाः प्राप्तिस्तदर्थं वृत्तिरारभ्यत इति योजना । एतदुक्तं भवति – सनिदानानर्थनिवृत्तिः शास्त्रस्य प्रयोजनम् । ब्रह्मात्मैक्यविद्या तदुपायः । तदैक्यं विषयः । संबन्धो ज्ञानफलयोरुपायोपेयत्वम् । शास्त्रतद्विषययोर्विषयविषयित्वं तदारभ्यं शास्त्रमिति । प्रयोजनादिषु प्रवृत्त्यङ्गतयोक्तेष्वपि सर्वव्यापाराणां प्रयोजनार्थत्वात्तस्य प्राधान्यम् । उक्तं हि – “सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते ॥“इति । तथा च शास्त्रारम्भौपयिकं प्रयोजनमेव नामव्युत्पादनद्वारा व्युत्पादयति — सेयमिति । अध्यात्मशास्त्रेषु प्रसिद्धा सन्निहिता चात्र ब्रह्मात्मैक्यविद्या तन्निष्ठानां सर्वकर्मसंन्यासिनां सनिदानस्य संसारस्यात्यन्तनाशकत्वाद्भवत्युपनिषच्छब्दवाच्या । ‘उपनिषदं भो ब्रूहि’ (के. उ. ४ । ७) इत्याद्या च श्रुतिः । तस्मादुपनिषच्छब्दवाच्यत्वप्रसिद्धेर्विद्यायास्ततो यथोक्तफलसिद्धिरित्यर्थः । कथं तस्यास्तच्छब्दवाच्यत्वेऽप्येतावानर्थो लभ्यते तत्राऽह — उपनिपूर्वस्येति । अस्यार्थः – “षद्लृविशरणगत्यवसादनेषु” इति स्मर्यते । सदेर्धातोरुपनिपूर्वस्य क्विबन्तस्य सहेतुसंसारनिवर्तकब्रह्मविद्यार्थत्वादुपनिषच्छब्दवाच्या सा भवत्युक्तफलवती । उपशब्दो हि सामीप्यमाह । तच्चासति संकोचके प्रतीचि पर्यस्यति । निशब्दश्च निश्चयार्थस्तस्मादैकात्म्यं निश्चितं तद्विद्या सहेतुं संसारं सादयतीत्युपनिषदुच्यते उक्तं हि – ‘अवसादनार्थस्य चावसादात्’ इति । ब्रह्मविद्यैव चेदुपनिषदिष्यते कथं तर्हि ग्रन्थे वृद्धास्तच्छब्दं प्रयुञ्जते न खल्वेकस्य शब्दस्यानेकार्थत्वं न्याय्यमित्याशङ्क्याऽऽह — तादर्थ्यादिति । ग्रन्थस्य ब्रह्मविद्याजनकत्वादुपचारात्तत्रोपनिषत्पदमित्यर्थः । यथोक्तविद्याजनकत्वे ग्रन्थस्य किमिति तदध्येतॄणां सर्वेषां विद्या न भवतीत्याशङ्क्यश्रवणादिपराणामेवारण्यानुवचनादिनियमाधीताक्षरेभ्यस्तज्जन्मेति बृहदारण्यकनामनिर्वचनपूर्वकमाह — सेयमिति । अथारण्यानुवचनादिनियमाधीतवेदान्तानामपि केषाञ्चिद्विद्यानुपलम्भात्कुतो यथोक्ताक्षरेभ्यस्तदुत्पत्तिरित्यत आह — बृहत्त्वादिति । उपनिषदन्तरेभ्यो ग्रन्थपरिमाणातिरेकादस्य बृहत्त्वं प्रसिद्धमर्थतोऽपि तस्य तदस्ति ब्रह्मणोऽखण्डैकरसस्यात्र प्रतिपाद्यत्वात्तज्ज्ञानहेतूनां चान्तरङ्गाणां भूयसामिह प्रतिपादनात् । अतो बृहत्त्वादारण्यकत्वाच्च बृहदारण्यकम् । नचैतदशुद्धबुद्धेरधीतमपि विद्यामादधाति । “कषाये कर्मभिः पक्वे ततो ज्ञानम्”(भा.शान्ति.२७०।३८) इति स्मृतेरित्यर्थः । ज्ञानकाण्डस्य विशिष्टाधिकार्यादिवैशिष्ट्येऽपि कर्मकाण्डेन नियतपूर्वापरभावानुपपत्तिलभ्यः संबन्धो वक्तव्यः । स च परीक्षकविप्रतिपत्तेरशक्यो विशेषतो ज्ञातुमित्याशङ्क्याऽऽह तस्येति । प्रतिज्ञातं संबन्धं प्रकटयितुमसिद्धप्रमाणभावानां वेदान्तानां संबन्धाभिधानावसराभावात्तत्प्रामाण्यं प्रतिपाद्य पश्चात्तेषां कर्मकाण्डेन संबन्धविशेषवचनमुचितमिति मन्वानस्तत्प्रामाण्यं साधयति — सर्वोऽपीति । प्रत्यक्षानुमानाभ्यामित्यागमातिरिक्तप्रमाणोपलक्षणार्थम् । एषोऽर्थोऽध्ययनविध्युपात्तः सर्वोऽपि काण्डद्वयात्मको वेदो मानान्तरानधिगतं यदिष्टोपायादि तज्ज्ञापनपरस्तथा चाज्ञातज्ञापकत्वाविशेषात्तुल्यं प्रामाण्यं काण्डयोरिति । अथवा वेदनं वेदोऽनुभवः । स च शब्देतरमानायोग्यो रूपादिहीनत्वात् । ‘एतदप्रमयम्’ इति हि श्रुतिः । स चेष्टानिष्टप्राप्तिपरिहारोपायस्तस्यैव तत्तदात्मनाऽवस्थानात् । ‘सच्च त्यच्चाभवत्’(तै. उ. २ । ६ । १) इत्यादिश्रुतेः । स च प्रकाशनः सर्वप्रकाशकत्वात् । ‘तमेव भान्तमनुभाति सर्वम्’ (क. उ. २ । २ । १५) इति श्रुतेः । स च परोऽविद्यातत्कार्यातीतत्वात् । ‘विरजः पर आकाशात्’(श.ब्रा.१४.७.२.२३ ) इत्यादिश्रुतेः । एवंरूपो वेदपदवेदनीयश्चिदेकरसः प्रत्यग्धातुरैव सर्वोऽपि कार्यकारणात्मकः प्रपञ्चः । ‘आत्मैवेदं सर्वम्’(छा. उ. ७ । २५ । २) इति श्रुतेः । तथा च यथोक्तं वस्तु प्रकाशयन्तो वेदान्ता विधिवाक्यवत्प्रमाणमिति । अथवा प्रत्यक्षादिनाऽनवगतो योऽसाविष्टप्राप्त्याद्युपायो ब्रह्मात्मा तस्य प्रकाशनपरः सर्वोऽप्ययं वेदः । तस्यैवाज्ञातत्वात्तत्र कर्मकाण्डं कर्मानुष्ठानप्रयुक्तबुद्धिशुद्धिद्वारा ब्रह्माधिगतावारादुपकारकम् । ‘विविदिषन्ति यज्ञेन’(बृ. उ. ४ । ४ । २२) इति श्रुतेः । ज्ञानकाण्डं तु साक्षादेव तत्रोपयुक्तम् । परमपुरुषस्यौपनिषदत्वश्रवणात् । ‘सर्वे वेदा यत्पदमामनन्ति’ (क. उ. १ । २ । १५) इति च श्रुतेः । तद्युक्तं कर्मकाण्डवज्ज्ञानकाण्डस्यापि प्रामाण्यमिति । अधिकारिसौलभ्यप्रतिपादनद्वारा ज्ञानकाण्डप्रामाण्यमेव स्फुटयति — सर्वपुरुषाणामिति । अयमर्थः – सुखं मे स्याद्दुःखं मा भूदिति स्वभावतः शास्त्रं विना सर्वेषां पुरुषाणामनवच्छिन्नसुखादिमात्रेऽभिलाषोपलम्भात्तन्मात्रस्य च मोक्षत्वात्तकामिनो ज्ञानकाण्डाधिकारिणः सुलभत्वात्तस्मिन्प्रमां स्वार्थविषयामादधत्कथं तदप्रमाणमिति । ननु वेदस्य कार्यपरतया प्रामाण्यात्कर्मकाण्डवत्काण्डान्तरस्यापि कार्यपरतया प्रामाण्यमेष्टव्यमिति नेत्याह — दृष्टविषय इति । क्रियाकारकफलेतिकर्तव्यतानामन्यतमस्मिन्कार्ये समीहितप्राप्त्याद्युपायभूते व्युत्पत्तिकाले प्रत्यक्षादिसिद्धे तथाविधकार्यधियोऽन्यथालब्धत्वात्तत्र नाऽऽगमोऽनुसन्धेयः । न हि लोकवेदयोस्तद्भिद्यते अलौकिके तस्मिन्नव्युत्पत्तिप्रसंगात् । नचाव्युत्पन्नानि पदानि बोधकान्यतिप्रसंगात् । न च ब्रह्मण्यपि तुल्या व्युत्पत्त्यनुपपत्तिः । तस्मिन्ब्रह्मत्वेनाऽऽत्मत्वेन च प्रसिद्धेः । तत्तत्सामान्योपाधौ विज्ञानादिपदानां व्युत्पत्तेः सुकरत्वात् । तानि चालौकिकमखण्डं प्रत्यग्ब्रह्म निर्लुण्ठितसामान्यविशेषं लक्षणया बोधयन्ति । तस्माद्ब्रह्मैव वेदप्रमाणकं न कार्यमिति भावः । किं च तिष्ठतु वेदान्तप्रामाण्यं कर्मकाण्डेऽपि व्यतिरिक्तात्मास्तित्वादौ सिद्धेऽर्थे प्रामाण्यमावश्यकम् । तदभावे तत्प्रामाण्यायोगात् । न हि भविष्यद्देहसंबन्ध्यात्मसद्भावानधिगमे पारलौकिकप्रवृत्तिविश्रम्भः । तस्मात्कर्मकाण्डप्रामाण्यमिच्छता सिद्धेऽर्थे भविष्यद्देहसंबन्धिन्यात्मनि स्वर्गादौ च तत्प्रामाण्यस्याभ्युपेयत्वात्कार्ये वेदप्रामाण्यानियमाद्वेदान्तानामपि स्वार्थे मानत्वं सिद्ध्यतीत्याह — न चेति । ननु देहान्तरसंबन्ध्यात्मज्ञानं विनाऽपि विधिवशाददृष्टार्थक्रियासु प्रवृत्तिः स्यादिति नेत्याह — स्वभावेति । यदाऽऽत्मा देहान्तरसंबन्धी शास्त्रान्मानान्तराच्च न प्रमितस्तदा भोक्तुरनवगमान्न प्रेक्षापूर्वकारी यागाद्यनुतिष्ठेत् । लोकायतस्य व्यतिरिक्तात्मास्तित्वमजानतो जन्मान्तरेष्टानिष्टप्राप्तिहानीच्छया वैदिकक्रियास्वप्रवृत्तेर्दर्शनात् । अतो नातिरिक्तात्मज्ञानं विना साम्परायिके प्रवृत्तिरित्यर्थः । ननु विधयः साधनविशेषं बोधयन्तो नातिरिक्तात्मास्तित्त्ववादौ मानं वाक्यभेदप्रसंगादित्यत आह — तस्मादिति । अतिरिक्तात्मधियं विना पारलौकिकप्रवृत्त्यनुत्पत्त्या कर्मकाण्डप्रामाण्यायोगादिति यावत् । विधीनां श्रुत्यर्थाभ्यामुभयार्थत्वमविरुद्धमित्यर्थः । न केवलं विधिभिरेवार्थादाक्षिप्तमतिरिक्तात्मास्तित्वं किन्तु श्रुत्याऽपि स्वमुखेनोक्तमित्याह — येयमिति । निर्णयदर्शनाद्व्यतिरिक्तात्मास्तित्वमिति संबन्धः । तत्रैव प्रकृतोपयोगित्वेनोपक्रमोपसंहारान्तरे दर्शयति — यथा चेति । पूर्ववदेव संबन्धद्योतनार्थं चकारः उपक्रमोपसंहारैकरूप्यात्कठवल्लीनामतिरिक्तात्मास्तित्वे तात्पर्यमुक्त्वा बृहदारण्यकवाक्यस्यापि तत्र तात्पर्यमाह — स्वयमिति । न हि प्रसिद्धजडत्वस्य देहादेः स्वयञ्ज्योतिष्ट्वमिति ज्योतिर्ब्राह्मणगतोपक्रमस्तद्विषयो देहादिव्यतिरिक्तात्मानमधिकरोति । तं प्रेतं विद्याकर्मणी पूर्वोपार्जिते फलदानायानुगच्छतः । स च गत्वा ज्ञानकर्मानुगुणं फलमनुभवतीति शारीरकब्राह्मणगतोपसंहारोऽपि जन्मान्तरसंबन्धविषयः । न चात्रैव भस्मीभवतो देहादेर्जन्मान्तरसंबन्धो युक्तः । तेनाऽऽत्मा देहादिव्यतिरिक्तो जन्मान्तरसंबन्धी सिद्धो ब्राह्मणाभ्यामित्यर्थः । अजातशत्रुब्राह्मणे च व्येव त्वा ज्ञपयिष्यामीत्युपक्रमो व्यतिरिक्तात्मास्तित्वविषयः । न हि प्रत्यक्षे देहादौ जिज्ञासाऽस्ति । तत्रैवोपसंहारे ‘य एष विज्ञानमयः पुरुषः’(बृ. उ. २ । १ । १६) इति विज्ञानमयविशेषणादतिरिक्तात्मास्तित्वं दर्शितं न हि देहादेर्विज्ञानमयत्वमस्ति तस्मात्तदप्युपक्रमोपसम्हाराभ्यां व्यतिरिक्तात्मास्तित्वं गमयतीत्याह — ज्ञपयिष्यामीत्युपक्रम्येति । नचोदाहृतानां वाक्यानामप्रामाण्यम् । तत्प्रामाण्यस्यौत्पत्तिकसूत्रहेत्वविशेषादभ्युपेयत्वादिति भावः । यथोक्तात्मन्यहम्प्रत्ययो मानं तत्र देहाकारास्फुरणादतिरिक्तात्मास्तित्वस्य तेनैव स्फूर्त्युपपत्तेरतो न तत्र श्रुतिप्रामाण्यमिति शङ्कते — तत्प्रत्यक्षेति । प्रत्यक्षस्य विषयोऽवकाशो यस्मिन्नित्यतिरिक्तात्मास्तित्वमुच्यते । यद्यपि व्यतिरिक्तात्मास्तित्वं त्वदभिप्रायेणाहन्धीगोचर तथाऽपि न सा व्यतिरेकमात्मनो गोचरयति युक्त्यागमविवेकशून्यानामहम्प्रत्ययभाजां व्यतिरेकप्रत्ययप्राप्तौ विपश्चितां विप्रतिपत्त्यभावप्रसंगादिति परिहरति — न वादीति । वेदप्रतिकूला वादिनो नास्तिका नैव विवादं मुञ्चन्तीत्याह — न हीति । तेषु प्रातिकूल्यसंभावनार्थं विशेषणं नेत्यादि । इति वदन्तः सन्तो नोऽस्माकं प्रतिकूला न हि स्युरेवं वेदनस्यैवासंभवादध्यक्षविरोधादिति योजना । प्रत्यक्षे विषये विप्रतिपत्त्यभावे दृष्टान्तमाह — न हीति । तत्र व्यभिचारं शङ्कते — स्थाण्वादाविति । प्रत्यक्षे धर्मिणि स्थाणुर्वापुरुषो वेति विप्रतिपत्तेरुपलम्भान्न प्रत्यक्षे विप्रतिपत्त्यभावो व्यभिचारादिति शङ्कार्थः । आदिपदेन पाषाणादौ गजादिविप्रतिपत्तिः संगृह्यते । किं प्रत्यक्षमात्रे विप्रतिपत्तिः किं वा तेन विविक्ते प्रतिपन्ने । नाऽऽद्योऽङ्गीकारात् । नचैवमात्मनि प्रत्यक्षे विप्रतिपत्तावपि नाऽऽगमान्वेषणा । तेनैव तन्निरासेन तन्निर्णयादिति । मन्वानो द्वितीयं दूषयति — नेत्यादिना । प्रत्यक्षतो विविक्तेऽर्थे विप्रतिपत्त्यभावं प्रपञ्चयति — न हीति । आत्मनः स्थूलदेहव्यतिरिक्तत्वं न प्रत्यक्षमिति प्रतिपाद्य सूक्ष्मदेहव्यतिरिक्तत्वमपि नाहम्प्रत्ययग्राह्यमित्याह — वैनाशिकास्त्विति । ते खल्वहमिति धियमनुभवन्ति । तथाऽपि देहान्तरं स्थूलदेहातिरिक्तं सूक्ष्मं तत्र प्रधानभूताया बुद्धेरतिरिक्तस्याऽत्मनो नास्तित्वमेव पश्यन्ति । तन्नाहन्धया सूक्ष्मदेहातिरिक्तात्मसिद्धिरित्यर्थः । किं च प्रत्यक्षस्य विषयो रूपादिस्तद्राहित्यं तद्वैलक्षण्यं तदात्मनोऽस्ति । ‘अशब्दमस्पर्शमरूपम्’(क. उ. १ । ३ । १५) इत्यादिश्रुतेः न हि रूपादि तदाधारं विना प्रत्यक्षं क्रमते । अतो न देहाद्यतिरिक्तात्मास्तित्वस्य प्रत्यक्षात्प्रसिद्धिरित्याह — तस्मादिति । प्रत्यक्षतो विविक्ते विप्रतिपत्त्ययोगात् । प्रकृते च तद्दर्शनादिति यावत् । अथेच्छादयः क्वचिदाश्रिता गुणत्वाद्रूपवदित्यनुमानादतिरिक्तात्मसिद्धिरिति नेत्याह — तथेति । नाऽऽत्मास्तित्वप्रसिद्धिरिति संबन्धार्थस्तथाशब्दः । अयं भावः – इच्छादीनां स्वातन्त्र्ये स्वरूपासिद्धिः पारतन्त्र्ये परस्पराश्रयत्वमाधारस्येदानीमेव साध्यमानत्वात् । क्वचिच्छब्देन चाऽश्रयमात्रवचने सिद्धसाधनत्वं मनस्तदाश्रयस्य सिद्धत्वादात्मोक्तौ च दृष्टान्तस्य साध्यविकलतेति । ’यः प्राणेन प्राणिति’ इत्यादिश्रुत्या प्राणनादिव्यापाराख्यस्य लिङ्गस्याऽऽत्मास्तित्वे प्रदर्शितत्वात्तस्य च व्याप्तिसापेक्षस्य प्रत्यक्षादिसिद्धात्मविषयत्वान्न तस्य शब्दैकगम्यतेति शङ्कते — श्रुत्येति । आत्मनः स्वातन्त्र्येण लिङ्गगम्यत्वाभिप्रायेण श्रुत्या लिङ्गं नोपन्यस्तमिति परिहरति — नेति । योऽचेतनव्यापारः स चेतनाधिष्ठानपूर्वको यथा रथादिव्यापारः । प्राणनादिव्यापारस्याप्यचेतनव्यापारत्वाच्चेतनाधिष्ठानपूर्वकत्वमिति संभावनामात्रेण लिङ्गोपन्यासः । न हि निश्चायकत्वेन तदुपन्यस्यते । आत्मनो जन्मान्तरसंबन्धस्य प्रमाणान्तरेणाग्रहणात्तद्व्याप्तलिङ्गायोगादित्याह — जन्मान्तरेति । ननु व्यतिरिक्तात्मास्तित्वमागमैकगम्यं चेत्कथं तत्प्रत्यक्षमनुमेयं चेति वादिनो वदन्तीति तत्राऽऽह — आगमेन त्विति । ’येयं प्रेते विचिकित्से’त्याद्यागमेन ‘को ह्येवान्यात्’(तै. उ. २ । ७ । १) इत्यादिवेदोक्तैश्च प्राणनादिभिर्लौकिकैर्लिङ्गविशेषैरात्मास्तित्वे सिद्धे यथोक्तात्मसिद्धिमनुसरन्तो वादिनो वैदिकमेवाहम्प्रत्ययं प्रतिलभमाना वैदिकान्येव च लिङ्गानि पश्यन्तः स्वोत्प्रेक्षानिर्मितानि तानीति कल्पयन्तो द्विधाऽऽत्मानं वदन्ति । वस्तुतस्त्वात्मा यथोक्तश्रुत्यैकसमधिगम्य इत्यर्थः । तस्यास्येत्यादिना काण्डयोः संबन्धं प्रतिज्ञाय तादर्थ्येन सिद्धेऽर्थे वेदान्तप्रामाण्यं सर्वोऽपीत्यादिना प्रसाध्याधुना कर्मभिः शुद्धबुद्धेर्वैराग्यादिद्वारा ज्ञानोत्पत्तिरिति तयोः संबन्धं कथयति — सर्वथाऽपीति । आगमात्मानान्तराद्वा व्यतिरिक्तात्मास्तित्वप्रतिपत्तावपीत्यर्थः । पुरुषार्थोपायविशेषार्थिनस्तज्ज्ञापनार्थं कर्मकाण्डमारब्धं चेत्तर्हि तत्रोक्तकर्मभिरेव विवक्षितपुमर्थसिद्धेर्वेदान्तारम्भवैयर्थ्यान्न संबन्धोक्तिः सावकाशेत्याशङ्क्याऽऽह — नत्विति । आत्माज्ञानं खल्वनर्थकारणमन्वयव्यतिरेकशास्त्रगम्यं मिथ्याज्ञानकार्यलिङ्गकं च । तच्चाकर्तृभोक्तृब्रह्मात्मज्ञानादपनेयम् । न हि तत्कर्मकाण्डोक्तैरेव कर्मभिः शक्यमपनेतुं विरोधाभावात् । तस्मात्तद्धानार्थं ज्ञानसिद्धये वेदान्तारम्भभावादुक्तसंबन्धसिद्धिरित्यर्थः । यदि कर्मभिरज्ञानं न निवर्तते । मा निवर्तिष्ट । सत्येव तस्मिन्कर्मवशान्मोक्षः स्यादित्याशङ्क्याऽऽह — यावद्धीति । सम्यग्ज्ञानमेव साक्षान्मोक्षहेतुर्न कर्म । तत्तु प्रणाड्या तदुपयोगि । न हि सत्येवाज्ञाने मुक्तिः । तस्मिन्सति संसारस्य दुर्वारत्वात् । तस्मात्कर्मकाण्डस्य वैराग्यद्वारा प्रवेशो मुक्ताविति भावः । अयमित्यज्ञो निर्दिश्यते । रागद्वेषादीत्यादिशब्देनाविद्यास्मिताभिनिवेशादयो गृह्यन्ते । दोषाणां स्वाभाविकत्वं शास्त्रानपेक्षत्वम् । अपिकारः संभावनार्थः । दृष्टत्वमन्वयव्यतिरेकसिद्धत्वम् । अदृष्टत्वं शास्त्रमात्रगम्यत्वम् । अधर्मोपचयप्राचुर्ये हेतुमाह — स्वाभाविकेति । अथ वैराग्यार्थं कर्मफलं प्रपञ्चयन्नधर्मफलमाह — तत इति । उक्तं हि – “शरीरजैः कर्मदोषैर्याति स्थावरतां नरः”(मनु १२.९) इति । तत्किं पुण्योपचयाभावादनवकाशं स्वर्गादिफलमिति नेत्याह — कदाचिदिति । शास्त्रीयसंस्कारस्य बलीयस्त्वे फलितमाह — तत इति । आदिशब्दो वाग्देहविषयः । फलविभागं वक्तुं कर्म भिनत्ति — तद्द्विविधमिति । तस्य मुक्तिफलत्वं निरसितुं फलं विभजते — तत्रेति । केवलमिष्टादिकर्मेति शेषः । ‘कर्मणा पितृलोकः” इति हि वक्ष्यति । तस्मिन्फले नानात्वमभिप्रेत्याऽऽदिशब्दः । ’विद्यया देवलोकः’ इति श्रुतिमाश्रित्याऽऽह — ज्ञानेति । देवलोको यस्याऽऽदिर्ब्रह्मलोको यस्यान्तस्तस्यार्थस्य प्राप्तिरेव फलमस्येति विग्रहः । उक्तेऽर्थे शतपथीं श्रुतिं प्रमाणयति — तथा चेति । सर्वत्र परमात्मभावनापुरःसरं नित्यं कर्मानुतिष्ठन्नात्मयाजी, कामनापुरःसरं देवान्यजमानो देवयाजी । तयोर्मध्ये कतरः श्रेयानिति विचारे सत्यात्मयाजी श्रेयानिति निर्णयः कृतः । अतो ज्ञानपूर्वकं कर्म देवलोकस्य कामनापूर्वं तु पितृलोकस्य प्रापकमित्यर्थः । ’प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् । इह वाऽमुत्र वा काम्यं कर्म कीर्त्यते ॥ निष्कामं ज्ञानपूर्वं तु निवृत्तमभिधीयते ।’ इत्यादि मनुस्मृतिं चात्रैवोदाहरति — स्मृतिश्चेति । धर्माधर्मयोरेकैकस्य फलमुक्त्वा मिश्रयोः फलमाह — साम्ये चेति । उक्तं हि – ‘उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः’(नै.सि.१.४१) इति । त्रिविधमपि कर्मफलं वैराग्यार्थं संक्षिप्योपसंहरति — एवमिति । सा चाविद्याकृतत्वादनर्थरूपेत्याह — स्वाभाविकेति । विचित्रकर्मजन्यतया तस्या वैचित्र्यमाह — धर्माधर्मेति । तर्हि धर्माधर्माभ्यामेव तन्निर्माणसंभवात्कृतमविद्ययेत्यत आह — नामेति । तेषां सूक्ष्मावस्थाऽविद्या तदालम्बनेति यावत् धर्मादेरविद्यायाश्च निमित्तत्वोपादानत्वाभ्यामुपयोग इति भावः । ननु संसारगतेराविद्यत्वमयुक्तं प्रत्यक्षादिप्रतिपन्नत्वात्तन्नामरूपाभ्यामेव व्याक्रियतेति श्रुतौ च नामरूपात्मनो जगतोऽभिव्यक्तिश्रवणान्न च प्रामाणिकस्याविद्याकृतत्वमत आह — तदेवेदमिति । जगतः स्वरूपमात्मा तत्राध्यस्तत्वात्तस्मादात्मतत्त्वेऽनभिव्यक्ते प्रत्यक्षादिना श्रुत्या चाभिव्यक्तमिव दृश्यमानमपि जगदनभिव्यक्तमेवेति न तस्याविद्याकृतत्वक्षतिरिति भावः । अविद्याकृतां संसारगतिमनुभाषते — स एष इति । नन्वविद्याकृतत्वे कथमनादित्वमित्याशङ्क्य तस्य प्रवाहरूपेणेत्याह — बीजाङ्कुरादिवदिति । चैतन्यवदात्मनि तस्याविद्याकृतत्वानुपपत्तिमाशङ्क्य नानारूपत्वेन ततो विलक्षणत्वादेकरूपे युक्तं तस्य कल्पितत्वमित्याह — क्रियेति । तर्हि कादाचित्कतया साधनापेक्षामन्तरेण नाशो भविष्यतीत्याशङ्क्याऽऽह — अनादिरिति । अनादेरपि संसारस्य प्रागभाववन्निवृत्तिः स्यादिति चेत्तथाऽपि ब्रह्मविद्यामन्तरेण नाशो नास्तीत्याह — अनन्त इति । प्रयत्नतो हेयत्वं द्योतयितुमनर्थ इति विशेषणम् । नैसर्गिक इति पाठे तु कारणरूपेण तत्त्वमुन्नेयम् । यस्मात्कर्म संसारफलं न मोक्षं फलयति तस्मात्सनिदानसंसारनिवर्तकात्मज्ञानार्थत्वेन साधनचतुष्टयसंपन्नमधिकारिणमधिकृत्य वेदान्तारम्भः संभवतीत्युपसंहरति — इत्येतस्मादिति । यथोक्तज्ञानार्थत्वेनोपनिषदारम्भे ‘ब्रह्म वा इदमग्र आसीत्’ (बृ. उ. १ । ४ । १०) इत्यारब्धव्यं तस्मादारभ्य ज्ञानोपदेशात् ‘उषा वा अश्वस्य’ (बृ. उ. १ । १ । १) इत्यारम्भस्तु न युक्तः साक्षादत्र तदनुक्तेरित्याशङ्क्यास्मादारभ्योपनिषदारम्भेऽभीष्टं फलमभिधित्समानः प्रथममश्वमेधोपासनफलमाह — अस्य त्विति । राजयज्ञत्वादश्वमेधस्य तदनधिकारिणामपि ब्रह्मणादीनां तत्फलार्थिनामस्मादेवोपासनात्तदाप्तिरिति मत्वा श्रुतौ तदुपासनोक्तीत्यर्थः । किमत्र नियामकमित्याशङ्क्य विकल्पश्रवणं केवलस्यापि ज्ञानस्य साधनत्वं सूचयतीत्यर्थतो विकल्पश्रुतिमुदाहरति — विद्ययेति । तत्फलप्राप्तिरिति पूर्वेण संबन्धः । तत्रैव श्रुत्यन्तरमाह — तद्धेति । तदेतत्प्राणदर्शनं लोकप्राप्तिसाधनं प्रसिद्धमिति यावत् । आदिशब्देन केवलोपास्त्या ब्रह्मलोकाप्तिवादिन्यः श्रुतयो गृह्यन्ते । अश्वमेधे यदुपासनं तस्याप्यश्वादिवत्तच्छेषत्वेन फलवत्त्वान्न स्वातन्त्र्येण तद्वत्त्वमङ्गेषु स्वतन्त्रफलाभावादिति शङ्कते — कर्मविषयत्वमिति । ज्ञानस्य क्रत्वर्थत्वं दूषयति — नेति । पूर्वत्रार्थतो दर्शितां विकल्पश्रुतिमत्र हेतुतया स्वरूपतोऽनुक्रामति — योऽश्वमेधेनेति । “सर्वं पाप्मानं तरति तरति ब्रह्महत्या”मिति संबन्धः । ज्ञानकर्मणोस्तुल्यफलत्वस्य न्याय्यत्वादिति शेषः । उपास्तिफलश्रुतेरर्थवादत्वमाशङ्क्याश्वमेधवदुपास्तेरपि कर्मत्वाद्विहितत्वात्कर्मप्रकरणाद्व्युत्थितत्वाच्च मैवमित्याह — विद्येति । फलश्रुतेरर्थवादत्वाभावे हेत्वन्तरमाह — कर्मान्तरे चेति । अश्वमेधातिरिक्ते कर्मणि ‘अयं वाव लोकोऽग्निरि’त्यादौ चित्याग्न्यादावेतल्लोकादिसंपादनस्य स्वतन्त्रफलोपासनस्य दर्शनान्न फलश्रुतेरर्थवादतेत्यर्थः । अश्वमेधोपासनं न क्रत्वर्थं किन्तु पुरुषार्थं तत्र चाधिकारोऽश्वमेधक्रत्वनधिकारिणामपीत्येतावदेवेष्टं चेदुपासने कर्मप्रकरणस्थेऽपि तल्लाभाद्विद्याप्रकरणे नास्याध्ययमर्थवदित्याशङ्क्याऽऽह — सर्वेषां चेति । परत्वे हेतुः — समष्टीति । अनुवृत्तव्यावृत्तरूपहिरण्यगर्भप्राप्तिहेत्त्वात्तस्य श्रेष्ठतेत्यर्थः । तस्य पुण्यश्रेष्ठत्वेऽपि प्रकृते किमायातं तदाह — तस्य चेति । यदा क्रतुप्रधानस्याश्वमेधस्योपास्तिसहितस्यापि संसारफलत्वं तदाऽल्पीयसामग्निहोत्रादीनां संसारफलत्वं किंवाच्यमित्यस्मिन्कर्मराशौ बन्धहेतौ विरक्ताः साधनचतुष्टयविशिष्टा ज्ञानमपेक्षमाणास्तदुपाये श्रवणादावेव सर्वकर्मसंन्यासपूर्वके कथं प्रवर्तेरन्नित्याशयवती श्रुतिरुपासनां विद्यारम्भेऽभिदधाति । तेनोषा वा अश्वस्येत्याद्युपनिषदारम्भो युक्तोऽस्य विशिष्टाधिकारिसमर्पकत्वादित्यर्थः । उपासनफलस्य संसारगोचरत्वमेव कुतः सिद्धमत आह — तथा चेति । ‘अशनाया हि मृत्युः’(बृ. उ. १ । २ । १) ‘स वै नैव रेमे’(बृ. उ. १ । ४ । ३) ‘सोऽबिभे’(बृ. उ. १ । ४ । २) दिति भयारत्यादिश्रवणादुपास्तियुक्तक्रतुफलस्य सूत्रस्य बन्धमध्यपातित्वाद्विशिष्टोऽपि क्रतुर्न मुक्तये पर्याप्नोतीत्यर्थः । उक्ते सर्वकर्मणां बन्धफलत्वे नित्यनैमित्तिकानां न तत्फलत्वं तेषां विध्युद्देशे फलाश्रुतेर्नष्टाश्वदग्धरथन्यायेन मुक्तिफलत्वलाभादिति शङ्कते — न नित्यानामिति । ’एतावान्वै काम’ इति सर्वकर्मणामविशेषेण फलसंबन्धश्रवणात्पश्वादेश्च काम्यफलत्वस्य तद्विध्युद्देशवशात्सिद्धत्वात् ‘कर्मणापितृलोक’(बृ. उ. १ । ५ । १६) इति वाक्यस्य नित्यादिकर्मफलविषयत्वान्न मोक्षफलत्वाशङ्केति परिहरति — नेति । उक्तमेव स्फुटयति — सर्वं हीति । पत्नीसंबन्धे मानमाह — जायेति । तथाऽपि कथं कर्मणः सर्वस्य कामोपायत्वं तत्राऽऽह — एतावान्वै काम इति । कथं तर्हि तेषां फलभेदो लभ्यते तत्राऽऽह — पुत्रेति । अथैवं फलविभागे कथं समष्टिव्यष्टिप्राप्तिफलत्वमश्वमेधस्योक्तमत आह — त्र्यन्नात्मकतां चेति । अस्याध्यायस्यावसाने कर्मफलस्य हिरण्यगर्भरूपतां त्रयमित्याद्या श्रुतिरुपसंहरिष्यतीत्यर्थः । उपसंहारश्रुतेस्तात्पर्यमाह — सर्वकर्मणामिति । कर्मफलं संसारश्चेत्प्राक्तदनुष्ठानात्तदभावान्मुक्तानां पुनर्बन्धः स्यादित्याशङ्क्याऽऽह — इदमेवेति । तर्हि तस्यामवस्थायामिति यावत् । तस्य पुनर्व्याकरणे कारणमाह — तदेवेति । व्याकृताव्याकृतात्मनः संसारस्य प्रामाणिकत्वेन सत्यत्वमाशङ्क्याविद्याकृतत्वेन तन्मिथ्यात्वमुक्तं स्मारयति — सोऽयमिति । स एव हि भ्रान्तिविषयो न प्रामाणिकस्तत्कुतोऽस्य सत्यतेत्यर्थः । कथमस्याऽऽत्मन्यद्वये कूटस्थे प्राप्तिरित्याशङ्क्याऽऽह — क्रियेति । समारोपे मूलकारणमाह — अविद्ययेति । आत्मन्यविद्यारोपितं द्वैतमित्यत्र ‘द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चे’(बृ. उ. २ । ३ । १) त्यादिवाक्यं प्रमाणयति — मूर्तेति । नन्वात्मन्यारोपो नोपपद्यते तस्य नित्यशुद्धबुद्धमुक्तस्वभावस्य द्वैतविलक्षणत्वादसति सादृश्येऽध्यासासिद्धेरत आह — अत इति । संसाराद्वैलक्षण्यमेव प्रकटयति — अनामेति । आदिपदेनान्येऽपि विपर्ययभेदाः संगृह्यन्ते । आरोपे प्रमिणोमि करोमि भुञ्जे चेत्यनुभवं प्रमाणयति — अवभासत इति । आत्मन्यध्यासः सादृश्याद्यभावेऽपि नभसि मलिनत्वादिवद्यतोऽनुभूयतेऽतः सविलासाविद्यानिवर्तकब्रह्मविद्यार्थत्वेनोपनिषदारम्भः संभवतीत्युपसंहरति — अत इति । एतावदित्यनर्थात्मत्वोक्तिः । तत्त्वज्ञानादज्ञाननिवृत्तौ दृष्टान्तमाह — रज्ज्वामिवेति । प्रतीकमादाय व्याचष्टे — उषा इत्यादिना । स्मारणार्थत्वमेव निपातस्य स्फुटयति — प्रसिद्धमिति । शास्त्रीये लौकिके च व्यवहारे प्रसिद्धो ब्राह्मो मुहूर्तस्तं कालमिति यावत् । उषसि शिरःशब्दप्रयोगे दिनावयवेषु तस्य प्राधान्यं हेतुमाह — प्राधान्यादिति । तथापि कथं तत्र तच्छब्दप्रयोगस्तत्राऽऽह — शिरश्चेति । आश्वमेधिकाश्वशिरस्युषसो दृष्टिः कर्तव्येत्याह — अश्वस्येति । कालादिदृष्टिरश्वाङ्गेषु किमिति क्षिप्यतेऽश्वाङ्गदृष्टिरेव तेषु किं न स्यादित्याशङ्क्याऽऽह — कर्माङ्गस्येति । अङ्गेष्वनङ्गमतिक्षेपे हेत्वन्तरमाह — प्राजापत्यत्वं चेति । अश्वस्य सेत्स्यतीति शेषः, तत्र हेतुः — प्रजापतीति । ननु कालादिदृष्ट्योऽश्वावयवेष्वारोप्यन्ते न तस्य प्रजापतित्वं क्रियते तत्राऽऽह — कालेति । कालाद्यात्मको हि प्रजापतिः । तया च यथा प्रतिमायां विष्णुत्वकरणं तद्दृष्टिस्तथा कालादिदृष्टिरश्वावयवेषु तस्य प्रजापतित्वकरणम् । अश्वमेधाधिकारी हि सत्यश्वे कर्मणो वीर्यवत्तरत्वार्थं कालादिदृष्टीरश्वावयवेषु कुर्यात् । तदनधिकारी त्वश्वाभावे स्वात्मानमश्वं कल्पयित्वा स्वशिरःप्रभृतिषु कालादिदृष्टिकरणेन प्रजापतित्वं संपाद्य प्रजापतिरस्मीति ज्ञानात्तद्भावं प्रतिपद्येतेति भावः । चक्षुषि सूर्यदृष्टौ हेतुमाह — शिरस इति । उषसोऽनन्तरत्वं सूर्ये दृष्टं चक्षुषि च शिरसोऽनन्तरत्वं दृश्यते तस्मात्तत्र तद्दृष्टिर्युक्तेत्यर्थः । तत्रैव हेत्वन्तरमाह — सूर्येति । “आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्” इति श्रुतेश्चक्षुषि सूर्योऽधिष्ठात्री देवता तेन सामीप्यात्तत्र तद्दृष्टिरित्यर्थः । अश्वप्राणे वायुदृष्टौ चलनस्वाभाव्यं हेतुः । अश्वस्य विदारिते मुखे भवत्वग्निदृष्टिस्तथाऽपि पर्यायोपादानं व्यर्थमित्याशङ्क्य क्रव्यादादिव्यावृत्त्यर्थं विशेषणमित्याह — वैश्वानर इत्यग्नेरिति । “अग्निर्वाग्भूत्वा मुखं प्राविशत्” इति श्रुतिमाश्रित्य मुखे तद्दृष्टौ हेतुमाह — मुखस्येति । अधिकमासमनुसृत्य त्रयोदशमासो वेत्युक्तम् । शरीरे संवत्सरदृष्टिरित्यत्राऽऽत्मत्वं हेतुमाह — कालेति । आत्मा हस्तादीनामङ्गानामिति शेषः । कालावयवानां संवत्सरस्याऽऽत्मत्ववदङ्गानां शरीरस्याऽऽत्मत्वे प्रमाणमाह — मध्यं हीति । पुनरुक्तेरर्थवत्त्वमाह — अश्वस्येति । पृष्टे द्युलोकदृष्टौ हेतुमाह — ऊर्ध्वत्वेति । उदरेऽन्तरिक्षदृष्टौ निमित्तमाह — सुषिरत्वेति । पादा अस्यन्ते यस्मिन्निति व्युत्पत्तिमाश्रित्य विवक्षितमाह — पादेति । अश्वस्य हि खुरे पादासनत्वसामान्यात्पृथिवीदृष्टिरित्यर्थः । पार्श्वयोर्दिक्चतुष्टयदृष्टौ हेतुमाह — पार्श्वेनेति । द्वे पार्श्वे चतस्रश्च दिशस्तत्र कथं तयोस्तदारोपणं द्वाभ्यामेव द्वयोः संबन्धादिति शङ्कते — पार्श्वयोरिति । यद्यपि द्वे दिशौ द्वाभ्यां पार्श्वाभ्यां संबध्येते तथाऽप्यश्वस्य प्राङ्मुखत्वे प्रत्यङ्मुखत्वे च दक्षिणोत्तरयोस्तन्मुखत्वे च प्राक्प्रतीच्योर्दिशोस्ताभ्यां संबन्धसंभवात्तत्र तद्दृष्टिरविरुद्धेति परिहरति — नेत्यादिना । तदुपपत्तौ चाश्वस्य चरिष्णुत्वं हेतूकर्तव्यम् । पार्श्वास्थिष्ववान्तरदिशामारोपे पार्श्वदिक्संबन्धो हेतुः । ऋतवः संवत्सरस्याङ्गानि हस्तादीनि च देहस्यावयवास्तस्मादृतुदृष्टिरङ्गेषु कर्तव्येत्याह — ऋतव इति । अस्ति मासादीनां संवत्सरसन्धित्वमस्ति च शरीरसन्धित्वं पर्वणामतस्तेषु मासादिदृष्टिरित्याह — सन्धीति । युगसहस्राभ्यां प्राजापत्यमेकमहोरात्रम् । अयनाभ्यां दैवम् । पक्षाभ्यां पित्र्यम् । षष्टिघटिकाभिर्मानुषमिति भेदः । प्रतिष्ठाशब्दस्य पादविषयत्वं व्युत्पादयति — प्रतितिष्ठतीति । पादेष्वहोरात्रदृष्टिसिद्ध्यर्थं युक्तिमुपपादयति — अहोरात्रैरिति । अस्थिषु नक्षत्रदृष्टौ हेतुमाह — शुक्लत्वेति । नभःशब्देनान्तरिक्षं किमिति न गृह्यते मुख्ये सत्युपचारायोगादित्याशङ्क्य पुनरुक्तिं परिहर्तुमित्याह — अन्तरिक्षस्येति । उदकं सिञ्चन्ति मेधा मांसानि रुधिरमतः सेककर्तृत्वसामान्यान्मांसेषु मेधदृष्टिरित्याह — उदकेति । अश्वजठरविपरिवर्तिन्यर्धजीर्णे सिकतादृष्टौ हेतुमाह — विश्लिष्टेति । किमिति गुदशब्देन पायुरेव न गृह्यते शिराग्रहणे हि मुख्यार्थातिक्रमः स्यात्तत्राह — बहुवचनाच्चेति । चकारोऽवधारणार्थः । यद्यपि बहूक्त्या शिराभ्योऽर्थान्तरमपि गुदशब्दमर्हति तथाऽपि स्यन्दनसादृश्यात्तास्वेव सिन्धुदृष्टिरिति तासामिह ग्रहणमिति भावः । कुतो मांसखण्डयोर्द्वित्वमेकत्र बहुवचनाद्बहुत्वप्रतीतेरित्याशङ्क्य दारा इतिवद्बहूक्तेर्गतिमाह — क्लोमान इति । तयोः पर्वतदृष्टौ हेतुद्वयमाह — काठिन्यादित्यादिना । क्षुद्रत्वसाधर्म्यादोषधिदृष्टिर्लोमसु महत्त्वसामान्याद्वनस्पतिदृष्टिश्चाश्वकेशेषु कर्तव्येत्याह — यथासंभवमिति । पूर्वत्वसामान्यान्मध्याह्नात्प्रागवस्थादित्यदृष्टिरश्वस्य नाभेरूर्ध्वभागे कर्तव्येत्याह — उद्यन्नित्यादिना । अपरत्वसादृश्यादश्वस्य नाभेरपरार्धे मध्याह्नादनन्तरभाव्यादित्यदृष्टिःकार्येत्याह — निम्लोचन्नित्यादिना । विजृम्भत इत्यादौ प्रत्ययार्थो न विवक्षितः । विजृम्भणं मुखविदारणं विद्योतनं पुनर्मेघगतमतो विद्योतनदृष्टिर्जृम्भणे कर्तव्येत्याह — मुखेति । स्तनयतीति स्तनितमुच्यते तद्दृष्टिर्गात्रकम्पे कर्तव्येत्यत्र हेतुमाह — गर्जनेति । मूत्रकरण वर्षणदृष्टौ कारणमाह — सेचनेति । अश्वस्य हेषितशब्दे नास्त्यारोपणमित्यतो न सादृश्यं वक्तव्यमित्याह —
नात्रेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 एवमुपनिषदारम्भे स्थिते प्राथमिकब्राह्मणयोरवान्तरतात्पर्यमाह — तत्र तावदिति । आद्यस्य पुनरवान्तरतात्पर्यं दर्शयति — तत्रेति । नन्वश्वमेधस्याङ्गबाहुल्ये कस्मादश्वाख्याङ्गविषयमेवोपासनमुच्यते तत्राऽऽह — प्राधान्यादिति । तदेव कथमिति तदाह — प्राधान्यं चेति । प्रजापतिदेवताकत्वाच्चाश्वस्य प्राधान्यमित्याह — प्राजापत्यत्वाच्चेति । अश्वावयवेषु कालादिदृष्टीर्विधायाश्वं प्रजापतिरूपं विवक्षित्वा कण्डिकान्तरं गृहीत्वा तात्पर्यमाह — अहरित्यादिना । ग्रहौ हवनीयद्रव्याधारौ पात्रविशेषावग्रतः पृष्ठतश्चेति संज्ञपनात्प्रागूर्ध्वं चेति यावत् । प्रसिद्धातावदहनि दीप्तिः सौवर्णे च ग्रहे साऽस्त्यतस्तस्मिन्नहर्दृष्टिरिति दर्शनं विभजते — अहरिति । अश्वसंज्ञपनात्पूर्वं यो महिमाख्यो ग्रहः स्थाप्यते स चेदहर्दृष्ट्योपास्यते कथं सोऽश्वमन्वजायतेति पश्चादश्वस्य तज्जन्मवाचोयुक्तिरिति शङ्कते — अहरश्वमिति । नायं पश्चादर्थोऽनुशब्दः किन्तु लक्षणार्थः । तथा चाश्वस्य प्रजापतिरूपत्वात्तं लक्षयित्वा ग्रहस्य यथोक्तस्य प्रवृत्तेरुपदेशादश्वमन्वजायतेत्यविरुद्धमिति परिहरति — अश्वस्येति । तदेव स्फुटयति — प्रजापतिरिति । काललोकदेवतात्मा प्रजापतिरश्वात्मना दृश्यमानोऽत्राहर्दृष्ट्या दृष्टेन ग्रहेण लक्ष्यते । तथा चाश्वमन्वजायतेति श्रुतिरविरुद्धेत्यर्थः । अनुशब्दो न पश्चाद्वाचीत्यत्र दृष्टान्तमाह — वृक्षमिति । यदा वृक्षं लक्षयित्वा तस्याग्रे विद्युद्विद्योतते तदा वृक्षमनु विद्योतते सेति प्रयुज्यते । तथाऽत्राप्यनुशब्दो न पश्चादर्थ इत्यर्थः । यत्र च स्थाने ग्रहः स्थाप्यते तत्पूर्वसमुद्रदृष्ट्या ध्येयमित्याह — तस्येति । पूर्वत्रमत्र सादृश्यम् । कथं सप्तमी प्रथमार्थे योज्यते छन्दस्यर्थानुसारेण व्यत्ययसंभवादित्याह — विभक्तीति । यथा सौवर्णे ग्रहेऽर्दृष्टिरुपदिष्टा तथा राजते ग्रहे रात्रिदृष्टिः कर्तव्येत्याह — तथेति । अस्ति हि चन्द्रातपवत्त्वाद्रात्रेः शौक्ल्यमस्ति च राजतस्य ग्रहस्य तद्युक्तं तत्र रात्रिदर्शनमित्याह — वर्णेति । रजतं सुवर्णाज्जघन्यमह्नश्च रात्रिरतो वा सादृश्यात्तत्र रात्रिदृष्टिरित्याह — जघन्येति । प्रजापतिरूपं प्रकृतमश्वं लक्षयित्वा तत्संज्ञपनात्पश्चादस्य प्रवृत्तिं दर्शयति — एनमिति । तदासादनस्थाने पश्चिमसमुद्रदृष्टिर्विधेयेत्यह — तस्येति । कथमेतौ ग्रहौ महिमाख्यावुक्तौ महत्त्वोपेर्तत्वादित्याह — महिमेति । अथाश्वविषयं दर्शनमादिश्य ग्रहविषयं तदादिशतो वाक्यभेदः स्यान्नेत्याह — अश्वस्येति । किमत्र नियामकमित्याशङ्क्य पुनरुक्तिरिति मत्वाऽऽह — तावित्यादिना । वैशब्दार्थकथनम् — एवेति । वाक्यशेषोऽप्यत्रानुगुणीभवतीत्याह — तथा चेति । हयशब्दनिष्पत्तिपुरःसरं तदर्थमाह — हय इति । वाज्यादिशब्दानां जातिविशेषवाचित्वादत्रापि तदेव ग्राह्यमिति पक्षान्तरमाह — जातीति । देवायनां देवत्वप्रापकत्वं कथमस्त्येत्याशङ्क्याह — प्रजापतित्वादिति । अश्वं स्तोतुमारभ्य कल्पान्तरोक्त्या तन्निन्दावचनमनुचितमिति शङ्कते — नन्विति । उपक्रमविरोधो नास्तीति परिहरति — नेत्यादिना । समुत्पद्य भूतानि द्रवन्त्यस्मिन्निति व्युत्पत्त्या परमगम्भीरस्येश्वरस्य समुद्रशब्दतामाह — परमात्मेति । तत्र योनित्वमुत्पादकत्वं बन्धुत्वं स्थापकत्वं समुद्रत्वं विलापकत्वमिति भेदः । अथ परमात्मयोनित्वादिवचनमुपास्याश्वस्य क्वोपयुज्यते तत्राऽऽह — एवमिति । श्रुत्यन्तरानुरोधेन समुद्रो योनिरित्यत्र समुद्रशब्दस्य रूढिमनुजानाति —
अप्सुयोनिरिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 अश्वादिदर्शनोक्त्यनन्तरमग्निदर्शनं वक्तुं ब्राह्मणान्तरमवतारयति — अथेति । नैवेहेत्यादौ तद्दृष्टिर्नास्तीति चेत्सत्यं तत्राग्नेर्जन्म वक्तुं भूमिका क्रियत इत्याह — अग्नेरिति । वायोरग्निरित्यादौ प्रसिद्धं तज्जन्मेति चेत्सत्यं तद्विशेषस्यात्र जन्मोक्तिरित्याह — अश्वमेधेति । दर्शने विधित्सिते किं जन्मोक्त्येति चेत्तत्राऽऽह — तद्विषयेति । अग्निदर्शनस्य विधातुमिष्टस्य सिद्ध्यर्थमुपास्याग्निस्तुतिफला तदुत्पत्तिरिष्टा शुद्धजन्मत्वादुत्कृष्टत्वेनायमुपास्यो राजादिवदित्यर्थः । तात्पर्यमुक्त्वा वाक्यमादायाक्षराणि व्याचष्टे — नैवेत्यादिना । नामरूपाभ्यां विभक्तो विशेषो यस्मिन्निति बहुव्रीहिः । अत्र शून्यवादी लब्धावकाशोऽविमृश्य परेष्टश्रुत्यवष्टम्भेन स्वपक्षमाह — किमित्यादिना । कार्यस्य प्रागसत्त्वे हेत्वन्तरमाह — उत्पत्तेश्चेति । विमतं प्रागसदुत्पद्यमानत्वाद्यन्नैवं न तदेवं यथा परेष्टं ब्रह्मेत्यर्थः । हेत्वसिद्धिं शङ्क्तित्वोत्तरमाह — उत्पद्यते हीति । घटग्रहणं कार्यमात्रस्योपलक्षणार्थम् । उक्तमनुमानं निगमयति — अत इति । तत्र तार्किको ब्रूते — नन्विति । यदुक्तं न कार्यं कारणं वाऽऽसीदिति तत्र भागे बाधो भागे चानुमतिरित्यर्थः । कार्यस्यापि कथं प्रागसत्त्वोपपत्तिरित्याशङ्क्याऽऽह — यन्नेति । एतेनानुमानस्य सिद्धसाध्यतोक्ता । कार्यवत्कारणप्स्यापि प्रागसत्त्वं किं न स्यादित्याशङ्क्योक्तहेत्वभावुन्मैवमित्याह — नन्विति । शून्यवाद्याह — न प्रागुत्पत्तेरिति । विमतं प्रागसद्योग्यत्वे सति तदाऽनुपलब्धत्वात्संमतवत् । न चासिद्धो हेतुः श्रुतेरनतिशङ्क्यत्वात् । तद्विरोधे सत्युपलब्धेराभासत्वादित्यर्थः । तदेव प्रपञ्चयति — अनुपलब्धिश्चेदिति । कार्यवत्कारणस्यापि प्रागसत्त्वे प्राप्ते सिद्धान्तयति — नेत्यादिना । नैवेत्यादिश्रुतिरव्यक्तनामरूपादिविषया न प्रागसत्त्वं कार्यकारणयोराह । अन्यथा वाक्यशेषविरोधादित्यर्थः । श्रुतिं विवृणोति — यदि हीति । द्वयोरसत्त्वे का वाचोयुक्तेरिनुपपत्तिस्तत्राऽऽह — न हीति । मा तर्हि वाक्यमेव भूदित्याशङ्क्याऽऽह — ब्रवीति चेति । मृत्युनेत्यादिवाक्यार्थमुपसंहरति — तस्मादिति । श्रुतेः प्रामाण्यादिति । तत्प्रामाण्यस्य प्रमाणलक्षणे स्थितत्वादिति यावत् । परकीयेऽनुमाने श्रुतिविरोधमभिधायानुमनविरोधमाह — अनुमेयत्वाच्चेति । कार्यकारणयोः सत्त्वस्यानुमेयतया तदसत्त्वमनुमातुमशक्यम् । उपजीव्यविषयतया सत्त्वानुमानस्य बलीयस्त्वादित्यर्थः । कार्यकारणवयोः सत्त्वानुमानं प्रतिज्ञाय प्रथमं कारणसत्त्वमनुमिनोति — अनुमीयते चेत्यादिना । कार्यस्य सत्त्वेऽनुमानमाह — कार्यस्य हीति । विमतं पूर्वं सत् कार्यत्वात्कुम्भवदित्यर्थः । नानुपमृद्य प्रादुर्भावादिति न्यायेन दृष्टान्तस्य साध्यवैकल्यं चोदयति — घटादीति । न तावदसिद्धो घटः स्वकारणमुपमृद्नात्यसतोऽकारकत्वात्सिद्धस्य तूपमर्दकत्वेनासत्पूर्वकत्वमिति कुतः साध्यविकलतेत्याह — नेति । किञ्चान्वयिद्रव्यमेव सर्वत्र कारणं न पिण्डाकारविशेषोऽनन्वयादनवस्थानाच्चेति कुतः साध्यवैकल्यमित्याह — मृदादेरिति । तदेव स्फुटयति — मृत्सुवर्णादीति । तत्रेति दृष्टान्तोक्तिः । किञ्चान्वयव्यतिक्रेकाभ्यां कारणमवधेयम् । न च पिण्डाभावे घटो न भवतीति व्यतिरेकोऽस्ति । पिण्डाभावेऽपि शकलादिभ्योऽपि घटाद्युद्भावोपलम्भादित्याह — तदभाव इति । तदेव स्फुटयति — असत्यपीति । त्वन्मतेऽपि व्यतिरेकराहित्यं तुल्यमित्याशङ्क्याऽऽह — असतीति । मृदाद्येव घटादिकारणं चेत्किमिति पिण्डादौ सत्येव ततो घटाद्यनुत्पत्तिरित्याशङ्क्याऽऽह — सर्वमिति । ब्रह्मणि त्वविद्यावशादुत्पत्तिरिति भावः । अन्वयिद्रव्यं पूर्वोत्पन्नस्वकार्यतिरोधानेन कार्यान्तरं जनयति चेत्कार्यतादात्म्येन स्वयमपि नश्येत्तत्रोत्तरकार्योत्पत्तिहेत्वभावादित्याशङ्क्याऽऽह — न चेति । कार्यान्तरेऽप्यनुवृत्तिदर्शनात्कार्यान्तरात्मना भावाच्चेत्यर्थः । अन्वयिद्रव्यस्यैव कारणत्वे फलितमाह — तस्मादिति । अन्वयिनो मृदादेर्मानाभावेनाभावान्न कारणतेति शङ्कते — पिण्डादीति । तदेव चोद्यं विवृणोति — पिण्डादीत्यादिना । मृद्घटः सुवर्णं कुण्डलमित्यादितादात्म्यप्रत्ययस्य पिण्डाद्यतिरिक्तमृदाद्याभावेऽनुपपत्तेरनुगतं मृदाद्युपेयमिति परिहरति — नेति । किञ्च या पिण्डात्मना पूर्वेद्युर्मृदासीत्सैव घटाद्यभूदिति प्रत्यभिज्ञया मृदोऽन्वयिन्याः सिद्धेस्तत्कारणत्वं दुरपह्नवमित्याह — मृदादीति । यत्सत्तत्क्षणिकं यथा दीपः सन्तश्चेमे भावा इत्यनुमानात्सर्वार्थानां क्षणिकत्वसिद्धेरन्वयदृष्टिः सादृश्याद्भ्रान्तिरिति शङ्कते — सादृश्यादिति । प्रत्यभिज्ञासिद्धस्थाय्यर्थविरुद्धं क्षणिकार्थबोधिलिङ्गमनुष्णतानुमानवन्न मानमिति दूषयति — नेत्यादिना । सादृश्यादीत्यादिशब्देन प्रत्यभिज्ञाभ्रान्तित्वादि गृह्यते । प्रत्यक्षात्कारणैक्यं गम्यते । अनुमानात्तद्भेदः । अतो द्वयोर्विरुद्धत्वस्याव्यभिचारित्वान्नाध्यक्षेणानुमानबाधो वैपरीत्यसंभवादित्याशङ्क्याऽऽह — नचेति । प्रत्यभिज्ञामुपजीव्यक्षणिकत्वानुमानाप्रवृत्तावप्युजीव्यतीयत्वात्तत्प्राबल्यादुपजीवकजातीयकमुक्तानुमानं दुर्बलं तद्बाध्यमित्यर्थः । प्रत्यभिज्ञा स्वार्थे स्वतो न मानं बुद्ध्यन्तरसंवादादेव बुद्धीनां मानत्वस्य बौद्धैरिष्टत्वात् । न च बुद्ध्यन्तरं स्थाययित्वसाधकमस्तीति प्रत्यभिज्ञायमानस्यापि क्षणिकत्वमित्याशङ्क्याऽऽह — सर्वत्रेति । प्रसंगमेव प्रकटयति — यदि चेति । क्षणिकत्वादिबुद्धेरपि स्वार्थे स्वतो मानत्वाभावात्तादृग्बुद्ध्यन्तरापेक्षायां तस्यापि तथात्वेनानवस्थानाद्बुद्धेः स्वतःप्रामाण्यमुपेयम् । तथा च प्रत्यभिज्ञानं सर्वं तथैवाबाधादित्यर्थः । किं च प्रत्यभिज्ञाया भ्रान्तित्वं वदता स्वरूपानपह्नवात्तदिदम्बुद्ध्योः सामानाधिकरण्येन संबन्धो वाच्यः, स च वक्तुं न शक्यते क्षणद्वयसंबन्धिनो द्रष्टुरभावादित्याह — तदिदमिति । असति संबन्धे बुद्ध्योः सादृश्यात्तद्बुद्धिरिति शङ्क्यते — सादृश्यादिति । तयोः स्वसंवेद्यत्वाद्ग्राहकान्तरस्य चाभावान्न सादृश्यसिद्धिरिति दूषयति — न तदिदम्बुद्ध्योरिति । तथाऽपि किमिति सादृस्यासिद्धिरित्याशङ्क्याऽऽह — असति चेति । सादृश्यासिद्धिमभ्युपेत्य शङ्कते — असत्येवेति । यत्र सत्येवार्थे धीस्तत्रैव साधकपेक्षा नान्यत्रेति भावः । तत्र बाह्यार्थवादिनं प्रत्याह — न तदिदम्बुद्ध्योरिति । विज्ञानवाद्याह — असदिति । तथा सत्यनालम्बनं क्षणिकविज्ञानमित्यस्यापि ज्ञानस्यातद्विषयतया विज्ञानवादासिद्धिरित्याह — नेति । शून्यवाद्याह — तदपीति । सर्वा धीरसद्विषयेत्येषा धीरसद्विषया स्यात्ततश्च सर्वबुद्धेरसद्विषयत्वासिद्धिरिति दूषयति — नेत्यादिना । परपक्षासंभवात्तत्प्रत्यभिज्ञायाः स्थायिहेतुसिद्धौ दृष्टान्तस्य साध्यवैकल्यं परिहृत्यावान्तरप्रकृतमुपसंहरति — तस्मादिति । संप्रति कारणसत्त्वानुमानं निगमयति — अत इति । कार्यकारणयोर्द्वयोरपि प्रागुत्पत्तेः सत्त्वमनुमेयमिति प्रतिज्ञाय कारणास्तित्वं प्रपञ्चितमिदानीं कार्यास्तित्वानुमानं दर्शयति — कार्यस्य चेति । प्रागुत्पत्तेः सद्भावः प्रसिद्ध इति चकारार्थः । प्रतिज्ञाभागं विभजते — कार्यस्येति । हेतुभागमाक्षिपति — कथमिति । अभिव्यक्तिर्लिङ्गमस्येति व्युत्पत्त्या कथमभिव्यक्तिलिङ्गत्वादिति कार्यसत्त्वे हेतुरुच्यते सिद्धे हि सत्त्वेऽभिव्यक्तिर्लिङ्गमस्येति सिद्ध्यति तद्बलाच्च सत्त्वसिद्धिरित्यन्योन्याश्रयादित्यर्थः । संप्रतिपन्नयाऽभिव्यक्त्या विप्रतिपन्नं सत्त्वं साध्यते तन्नान्योन्याश्रयत्वमिति परिहरति — अभिव्यक्तिरिति । कथं तर्हीहानुमानं प्रयोक्तव्यमित्याशङ्क्य प्रथमं व्याप्तिमाह — यद्धीति । यदभिव्यज्यमानं तत्प्रागभिव्यक्तेरस्ति यथा तमोन्तःस्थं घटादीत्यर्थः । संप्रत्यनुमिनोति — तथेति । विमतं प्रागभिव्यक्तेः सत् अभिव्यक्तिविषयत्वात् यद्ध्यभिव्यज्यते तत्प्राक्सत्संप्रतिपन्नवदित्यर्थः । ननु तमोन्तःस्थो घटोऽभिव्यञ्जकसामीप्यादभिव्यज्यते न तत्र प्राक्कालिकं सत्त्वं प्रयोजकमित्याशङ्क्याऽऽह — न हीति । उक्तेऽनुमाने कार्यस्य सदोपलब्धिप्रसंगं विपक्षे बाधकमाशङ्कते — नेत्यादिना । उक्तानुमाननिषेधो नञर्थः । अविद्यमानत्वाभावादिति च्छेदः । अनुमाने बाधकोपन्यासं विवृणोति — न हीति । वर्तमानवदतीतमागामि च घटादि सदेव चेदुपलब्धिसामग्र्यां सत्यां तद्वत्प्राग्जनेर्नाशाच्चोर्ध्वमुपलभ्येत न चैवमुपलभ्यते तस्मादयुक्तं कार्यस्य सदा सत्त्वमित्यर्थः । मृत्पिण्डग्रहणं विरोधिकार्यान्तरोपलक्षणार्थम् । असन्निहिते सतीति च्छेदः । न तावद्विद्यमानत्वमात्रं कार्यस्य सदोपलम्भापादकं सतोऽपि घटादेरभिव्यक्त्यनभिव्यक्त्योरुपलब्धत्वादिति समाधत्ते — नेति । अभिव्यक्तिसामग्रीसत्त्वं त्वभिव्यक्तिसाधकं न तु सतस्तत्सामग्रीनियमोऽस्तीत्यभिप्रेत्याऽऽह — द्विविधत्वादिति । उत्पन्नस्य कुड्याद्यावरणमनुत्पन्नस्य विशिष्टं कारणमिति द्वैविध्यमेव प्रतिज्ञापूर्वकं साधयति — घटादीति । यदोपलभ्यमानकारणावयवानां कार्यान्तराकारेण स्थितिस्तदा नेदं कार्यमुपलभ्यते तत्रान्यथा चोपलभ्यत इत्यन्वयव्यतिरेकसिद्धं कारणस्य कार्यान्तररूपेण स्थितस्य कार्यावरकत्वमिति द्रष्टव्यम् । विशिष्टस्य कारणस्याऽऽवरकत्वसिद्धौ सिद्धमर्थमाह — तस्मादिति । प्राक्कार्यास्तित्वे सिद्धे सदा तदुपलब्धिप्रसंगबाधकं निराकृत्य नष्टो घटो नास्तीत्यादिप्रयोगप्रत्ययभेदानुपपत्तिं बाधकान्तरमाशङ्क्याऽऽह — नष्टेति । कपालादिना तिरोभावे नष्टव्यवहारः पिण्डाद्यावरणभङ्गेनाभिव्यक्तावुत्पन्नव्यवहारो दीपादिना तमोनिरासेनाभिव्यक्तौ भावव्यवहारः पिण्डादिना तिरोभावेऽभावव्यवहारः । तदेवं कार्यस्य सदा सत्त्वेऽपि प्रयोगप्रत्ययभेदसिद्धिरित्यर्थः ॥ पिण्डादि न घटाद्यावरणं तेन समानदेशत्वात् । यद्यस्याऽऽवरणं न तत्तेन समानदेशं यथा कुड्यादीति शङ्कते — पिण्डेति । व्यतिरेक्यनुमानं विवृणोति — तम इत्यादिना । अनुमानफलं निगमयति — तस्मादिति । किमिदं समानदेशत्वं किमेकाश्रयत्वं किंवैककारणत्वमिति विकल्प्याऽऽद्यं विरुद्धत्वेन दूषयति — नेत्यादिना । क्षीरेण संकीर्णस्योदकादेराव्रियमाणस्येति यावत् । द्वितीयमुत्थापयति — घटादीति । यस्येदं कार्यं तस्मिन्मृदात्मनि तेषामवस्थानात्तद्वत्तेषामनावरणत्वमित्यर्थः घटावस्थमृन्मात्रवृत्तिकपालादेर्घटानावरणत्वमिष्टमेवेति सिद्धसाध्यता । अव्यक्तघटावस्थमृद्वृत्तिकपालादेरनावरणत्वसाधने हेत्वसिद्धिर्घटस्य कपालादेश्चाऽऽश्रयमृदवयवभेदादिति दूषयति — न, विभक्तानामिति । विद्यमानस्यैवाऽऽवृतत्वादनुपलब्धिश्चेदावरणतिरस्कारे यत्नः स्यान्न घटादेरुत्पत्तावतोऽनुभवविरोधः सत्कार्यवादिनः स्यादिति शङ्कते — आवरणेति । तदेव प्रपञ्चयति — पिण्डेति । यत्राऽवृतं वस्तु व्यज्यते तत्राऽऽवरणभङ्ग एव यत्न इति व्याप्त्यभावान्नानुभवविरोधोऽस्तीति दूषयति — नानियन्मादिति । अनियमं साधयति — न हीति । तमसाऽवृते घटादौ दीपोत्पत्तौ यत्नोऽस्तीत्यत्र चोदयति — सोऽपीति । अनुभवविरोधमाशङ्क्योक्तमेव व्यनक्ति — दीपादीति । दीपस्तमस्तिरयति चेत्कथं कुम्भोपलब्धिरत आह — तस्मिन्निति । तत्र हेतुमाह — न हीति । अनुभवमनुसृत्य परिहरति — नेत्यादिना । किमिदानीमावरणभङ्गे प्रयत्नो नेत्येव नियमोऽस्तु नेत्याह — क्वचिदिति । अनियमं निगमयन्ननुभवविरोधाभावमुपसंहरति — तस्मादिति । किञ्चाभिव्यञ्जकव्यापारे सति नियमेन घटो व्यज्यते तदभावे नेत्यन्वयव्यतिरेकावधारितो घटार्थः । कुलालादिव्यापारस्तस्यार्थवत्त्वार्थमभिव्यक्त्यर्थ एव प्रयत्नो वक्तव्यः आवरणभङ्गस्त्वार्थिक इत्याह — नियमेति । उक्तं स्मारयन्नेतदेव विवृणोति — कारण इत्यादिना । आवृत्तिभङ्गार्थे यत्ने यतो घटानुपलब्धिरतस्तदुपलब्ध्यर्थत्वेन नियतः सन्यत्नः सफलः स्यादिति फलितमाह — तस्मादिति । प्रकृतमभिव्यक्तिलिङ्गकमनुमानं निर्दोषत्वादादेयं मन्वानस्तत्फलमुपसंहरति — तस्मात्प्रागिति । कार्यस्य सत्त्वे युक्त्यन्तरमाह — अतीतेति । विमतं सदर्थं प्रमाणत्वात्संप्रतिपन्नवदित्यर्थः । तदेवानुमानं विशदयति — अतीत इति । अत्रैवोपपत्त्यन्तरमाह — अनागतेति । आगामिनि घटे तदर्थित्वेन लोके प्रवृत्तिर्दृष्टा न चात्यन्तासति सा युक्ता तेन तस्यासद्विलक्षणतेत्यर्थः । किञ्च योगिनामीशस्य चातीतादिविषयं प्रत्यक्षज्ञानमिष्टं तच्च विद्यमानोपलम्भनमतो घटस्य सदा सत्त्वमित्याह — योगिनां चेति । ईश्वरसमुच्चयार्थश्चकारः । भविष्यद्ग्रहणमतीतोपलक्षणार्थम् । ऐश्वरं यौगिकं चेति द्रष्टव्यम् । प्रसंगस्येष्टत्वमाशङ्क्याऽऽह — न चेति । अधिकबलं हि बाधकं न चानतिशयादैशादिज्ञानादधिकबलं ज्ञानं दृष्टमतो बाधकाभावान्न तन्मिथ्येत्यर्थः । तस्य सम्यक्त्वेऽपि पूर्वोत्तरकालयोरसद्घटविषयत्वं किं न स्यादित्याशङ्क्याऽऽह — घटेति । पूर्वोत्तरकालयोरिति शेषः । घटस्य प्रागसत्त्वाभावे हेत्वन्तरमाह — विप्रतिषेधादिति । स हि कारकव्यापारदशायामसन्निति कोऽर्थः किं तस्य भविष्यत्त्वादि तदा नास्ति किं वाऽर्थक्रियासामर्थ्यम् आद्ये व्याहतिं साधयति — यदीति । घटार्थं कुलालादिषु व्याप्रियमाणेषु सत्सु घटो भविष्यतीति प्रमाणेन निश्चितं चेत्कथं तद्विरुद्धं प्रागसत्त्वमुच्यते । कारकव्यापारावच्छिन्नेन हि कालेन घटस्य भविष्यत्त्वेनातीतत्वेन वा भविष्यत्यभूदिति वा संबन्धो विवक्ष्यते । तथा च तस्मिन्नेव काले घटस्य तथाविधसत्त्वनिषेधे व्याहतिरतिव्यक्तेत्यर्थः । तामेवाभिनयति — भविष्यन्निति । यो हि कारकव्यापारदशायां भविष्यत्त्वादिरूपेणास्ति स तदा नास्तीत्युक्ते तस्य तस्यामवस्थायां तेनाऽऽकारेणासत्त्वमर्थो भवति । तथा च घटो यदा येनाऽऽकारेणास्ति स तदा तेनाऽऽकारेण नास्तीति व्याहतिरित्यर्थः । द्वितीयमुत्थापयति — अथेति । प्रागुत्पत्तेर्घटार्थं कुलालादिषु प्रवृत्तेषु सोऽसन्नित्यसच्छब्दार्थं स्वयमेव विवेचयति — तत्रेत्यादिना । तत्र सिद्धान्ती ब्रूते — न विरुध्यत इति । कथं पुनः सत्कार्यवादिनस्तदसत्त्वमविरुद्धमित्याह — कस्मादिति । प्रागुत्पत्तेस्तुच्छव्यावृत्तिरूपं सत्त्वं घटस्य सिषाधयिषितं तच्चेद्भवानपि तस्य सदातनमनर्थक्रियासामर्थ्यं निषेधन्ननुमन्यते नाऽऽवयोर्विप्रतिपत्तिरित्यभिप्रेत्याऽऽह — स्वेन हीति । ननु त्वन्मते सर्वस्य मृन्मात्रत्वाविशेषात्पिण्डादेर्वर्तमानता घटस्य स्यात्तस्य चातीतता भविष्यत्ता च पिण्डकपालयोः स्यादिति साङ्कर्यमाशङ्क्याऽऽह — न हीति । व्यवहारदशायां यथाप्रतिभासमनिर्वाच्यसंस्थानभेदाश्रयणादित्यर्थः । प्रागवस्थायां घटस्यार्थक्रियासामर्थ्यलक्षणसत्त्वनिषेधे विरोधाभावमुपपादितमुपसंहरति — तस्मादिति । उक्तमेव व्यतिरेकद्वारा विवृणोति यदीत्यादिना । यदा कारकाणि व्याप्रियन्ते तदा घटोऽसन्निति तस्य भविष्यत्त्वादिरूपं तत्काले निषिध्यते चेदुक्तविधया व्याघातः स्यात् । न च तस्य तस्मिन्काले भविष्यत्त्वादिरूपं तत्त्वं निषिध्यते । अर्थक्रियासामर्थ्यस्यैव निषेधात्तन्न तद् विरोधावकाशोऽस्तीत्यर्थः । न हि पिण्डस्येत्यादिना साङ्कर्यसमाधिरुक्तस्तमिदानीं सर्वतन्त्रसिद्धान्ततया स्फुटयति — न चेति । भविष्यत्त्वमतीतत्वं चेति शेषः । कार्यस्य प्रागुत्पत्तेर्नाशाच्चोर्ध्वमसत्त्वाभावे हेत्वन्तरमाह — अपि चेति । तदेवानुमानतया स्पष्टयितुं दृष्टान्तं साधयति — चतुर्विधानामिति । षष्ठी निर्धारणे । घटान्योन्याभावस्य घटादन्यत्वे तत्राप्यन्योन्याभावान्तराङ्गीकारादनवस्थेत्याशङ्क्याऽऽह — दृष्ट इति । न यौक्तिकमन्यत्वं किन्तु घटो न भवति पट इति प्रातीतिकं तथा च घटाभावः पटादिरेवेति पटादेस्ततोऽन्यत्वाद्घटान्योन्याभावस्यापि घटादन्यत्वसिद्धिरित्यर्थः । ननु घटाभावः पटादिरित्ययुक्तं विशेषणत्वेन घटस्यापि पटादावन्तर्भावप्रसंगादिति चेन्मैवं दृष्टपदेन निराकृतत्वात् । घटाभावस्य पटादित्वाभावेऽपि न स्वातन्त्र्यमभावत्वविरोधात् । नापि तदन्योन्याभावः पटादेर्धर्मः संसर्गाभावान्तर्भावापातात् । न च स घटस्यैव धर्मः स्वरूपं वा घटो घटो न भवतीति प्रतीत्यभावादित्यभिप्रेत्याऽऽह — न घटस्वरूपमेवेति । यदि प्रतीतिमाश्रित्य घटान्योन्याभावः पटादिरिष्यते तदा पटादेर्भावस्याभावत्वविधानाद्व्याघात इत्याशङ्क्याऽऽह — न चेति । स्वरूपपररूपाभ्यां सर्वं सदसदात्मकमिति हि वृद्धाः । तथा च पटादेः स्वेनाऽत्मना भावत्वं घटतादात्म्याभावात्तदभावत्वं चेत्यव्याहतिरित्यर्थः । सिद्धे प्रतीत्यनुसारिणि दृष्टान्ते विवक्षितमनुमानमाह — एवमिति । किं च तेषामभावानां घटाद्भिन्नत्वात्पटवदेव सत्त्वमेष्टव्यमित्यनुमानान्तरमाह — तथेति । अनुमानफलं कथयति — एवं चेति । तेषां घटादन्यत्वे तस्यानाद्यनन्तत्वमद्वयत्वं सर्वात्मत्वं च प्राप्नोति । सत्त्वे च तेषामभावाभावान्न भावाभावयोर्मिथः संगतिरित्यर्थः । ननु प्रसिद्धोऽभावो भाववदशक्योऽपह्नोतुमिति चेत्स तर्हि घटस्य स्वरूपमर्थान्तरं वेति विकल्प्याऽऽद्यमनूद्य दूषयते — अथेत्यादिना । प्रागभावादेर्घटत्वेऽपि संबन्धं कल्पयित्वा घटस्येत्युक्तिरिति शङ्कते — अथेति । संबन्धस्य कल्पितत्वे संबन्धिनोऽप्यभावस्य तथात्वं स्यादिति दूषयति — तथाऽपीति । यत्र संबन्धं कल्पयित्वा व्यपदेशस्तत्र न वास्तवो भेदो यथा राहुशिरसोस्तथाऽत्रापि कल्पिते संबन्धे भेदस्य तथात्वाद्वास्तवत्त्वं संबन्धिनोरन्यतरस्य स्यात् । न चाभावस्तथा सापेक्षत्वादतो घटस्तथेत्यर्थः । कल्पान्तरमनुवदति — अथेति । अनुमानफलं वदद्भिर्घटस्य कारणात्मना ध्रुवत्ववचनेन समाहितमेतदित्याह — उक्तोत्तरमिति । असत्कार्यवादे दोषान्तरमाह — किञ्चेति । स्वहेतुसंबन्धः सत्तासंबन्धो वा जन्मेति तार्किकाः । न च प्रागुत्पत्तेरसतः संबन्धस्तस्य सतोर्वृत्तेरित्यर्थः । युतसिद्धयो रज्जुघटयोर्मिथःसंयोगे पृथक्सिद्धिरपेक्ष्यतेऽयुतसिद्धानां परस्परपरिहारेण प्रतीत्यनर्हाणां कार्यकारणादीनां मिथोयोगे पृथक्सिद्ध्यभावो न दोषमावहतीति शङ्कते — अयुतेति । परिहरति — नेति । उक्तमेव स्फोरयति — भावेति । व्यवहारदृष्ट्या कार्यकारणयोः साधितां तुच्छव्यावृत्तिमुपसम्हरति — तस्मादिति । नैवेहेत्यत्र सर्वस्य प्रागुत्पत्तेरसत्त्वशङ्का मृत्युनेत्यादिवाक्यव्याख्यानेन निरस्ता । संप्रति मृत्युशब्दस्य अर्थान्तरे रूढत्वान्न तेनाऽवरणं जगतः संभवतीत्याक्षिपति — किंलक्षणेनेति । अनभिव्यक्तनामरूपमध्यक्षाद्ययोग्यमपञ्चीकृतपञ्चमहाभूतावस्थातिरिक्तं मायारूपं साभासं मृत्युरित्युच्यते । न हि सर्वं कार्यमवान्तरकारणादुत्पत्तुमर्हतीत्यभिप्रेत्याह — अत आहेति । कथं यथोक्तो मृत्युरशनायया लक्ष्यते । न हि मूलकारणस्याशनायादिमत्त्वम् । अशनायापिपासे प्राणस्येति स्थितेरिति शङ्कते — कथमिति । मूलकारणस्यैव सूत्रत्वं प्राप्तस्य सर्वसंहर्तृत्वान्मृत्युत्वे सति वाक्यशेषोपपत्तिरिति परिहरति — उच्यत इति । प्रसिद्धमेव प्रकटयति — यो हीति । तथापि प्रसिद्धं मृत्युं हित्वा कथं हिरण्यगर्भोपादानमत आह — बुद्ध्यात्मना इति । उक्तं हेतुं कृत्वा फलितमाह — इति स इति । ननु न तेन जगदाव्रियते मूलकारणेनैव तदावरणात्तत्कथं वाक्योपक्रमोपपत्तिरत आह — तेनेति । ननु हिरण्यगर्भे प्रकृते कथं स्रष्टरि नपुंसकप्रयोगस्तत्राऽऽह — तदिति मनस इति । वाक्यार्थमधुना कथयति — स प्रकृत इति । भूतसृष्ट्यतिरेकेण भौतिकस्य मनसः सृष्टिरयुक्तेति मत्वा पृच्छति — केनेति । अपञ्चीकृतानां भूतानां हिरण्यगर्भदेहभूतानां प्रागेवालब्धात्मकत्वात्तेभ्यो मनोव्यक्तिरविरुद्धेति मन्वानो ब्रूते — उच्यत इति । स्वात्मवत्त्वस्य स्वाभाविकत्वान्न तदाशंसनीयमित्याशङ्क्य वाक्यार्थमाह — अहमिति । मनसो व्यक्तस्योपयोगमाह — स प्रजापतिरिति । ननु तैत्तिरीयकाणामाकाशादिसृष्टिरुच्यते तत्कथमिहापामादौ सृष्टिवचनं तत्राऽऽह — अत्रेति । सप्तम्या हिरण्यगर्भकर्तृकसर्गोक्तिः । त्रयाणां पञ्चीकृतानामिति यावत् । नन्वाकाशाद्या तैत्तिरीये सृष्टिरिह त्वबाद्येत्युदितानुदितहोमवद्विकल्पो भविष्यति । नेत्याह — विकल्पेति । पुरुषतन्त्रत्वात्क्रियाया युक्तो विकल्पः सिद्धेर्थे तु पुरुषानधीने नासौ संभवत्यतः सृष्टिर्विवक्षिता चेदाकाशाद्येव सा युक्ता विद्याप्रधानत्वात्तु नाऽऽदरः सृष्टाविति भावः । अपामादौ सृष्टिवचनमनुपयुक्तं न स्रष्टुस्ताभिरेव पूजा सिद्ध्यतीत्याशङ्क्याऽऽश्वमेधिकाग्नेरर्कनामसिद्ध्यर्थं तदुपयोगमुपन्यस्यति — अर्चत इति । कोऽसौ हेतुरित्यपेक्षायामर्चतिपदावयवस्यार्कशब्देन संगतिरिति मन्वानः सन्नाह — अर्कत्वमिति । एवं मृत्योरर्कत्वेऽपि कथमग्नेरर्कत्वमित्याशङ्क्य मृत्युसंबन्धादित्याह — अग्नेरिति । किमर्थमग्नेरर्कनामनिर्वचनमित्याशङ्क्यापूर्वसंज्ञायोगस्य फलान्तराभावादुपासनार्थमित्याह — अग्नेरिति । निर्वचनमेव स्फोरयति — अर्चनादिति । फलवत्त्वाच्च यथोक्तनामवतोऽग्नेरुपास्तिरत्र विवक्षितेत्याह —
य एवमिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 अपामर्कत्वश्रवणान्नाग्नेरर्कत्वमिति शङ्कते — कः पुनरिति । प्रकरणमाश्रित्य तासामर्कत्वमौपचारिकमित्युत्तरमाह — उच्यत इति । तास्वन्तर्हिरण्मयमण्डं संबभूवेति श्रुतिमनुसरन्नुपचारे हेत्वन्तरमाह — अप्सु चेति । मुख्यमर्कत्वमपां वारयति — न पुनरिति । ननु ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’ (जै. सू. ३ । ३ । १४) इतिन्यायात्प्रकरणादापो वा अर्क इति वाक्यं बलवदित्याशङ्क्य वाक्यसहकृतं प्रकरणमेव केवलवाक्याद्बलवदित्याशयवानाह — वक्ष्यति चेति । भूतान्तरसहितास्वप्सु कारणभूतासु पृथिवीद्वारा पार्थिवोऽग्निः प्रतिष्ठित इत्युक्तमिदानीं पृथिवीसर्गं ताभ्यो दर्शयति — तदित्यादिना । अप्सु भूतान्तरसहितासूत्पन्नासु सतीष्विति सप्तम्यर्थः । शर इव शर इत्युक्तमेव व्याचष्टे — दध्न इवेति । संघाते सहकारिकारणमाह — तेजसेति । यत्तदिति पदे नपुंसकत्वेन श्रुते कथं तयोः शरशब्देन कारणस्योच्छूनत्ववाचिना पुंल्लिङ्गेनान्वयस्तत्राऽऽह — लिङ्गव्यत्ययेनेति । उक्तानुपपत्तिद्योतनार्थो वाशब्दः । व्यत्ययेनान्वयमेवाभिनयति — योऽपामिति । वाक्यतात्पर्यमाह — ताभ्य इति । स्थूलप्रपञ्चात्मकविराजः सूक्ष्मप्रपञ्चात्मकसूत्रादुत्पत्तिं वक्तुं पातनिकामाह — तस्यामिति । उक्तेऽर्थे लोकप्रसिद्धिमनुकूलयति — सर्वो हीति । इदानीं विराडुत्पत्तिमुपदिशति — किं तस्येत्यादिना । अग्निशब्दार्थं स्फुटयति — सोऽण्डस्येति । तस्य प्रथमशरीरित्वे मानमाह —
स वा इति ॥२॥ 【भाष्यम्】 【भाष्यम्】 विराजो ध्यानार्थमवच्छेदभेदमाह — स चेति । कोऽस्य त्रेधाभावस्य कर्तेति वीक्षायामाह — स्वयमेवेति । कथमेकस्य त्रिधात्वमन्यथा वा कथमेकत्वमित्याह — कथमिति । मृदो घटशरावाद्यनेकरूपत्ववद्विराजो बहुरूपत्वं साधयति — आहेत्यादिना । कथमग्निं तृतीयमित्यश्रुतं कल्प्यते तत्राऽऽह — सामर्थ्यस्येति । वाय्वादित्ययोरिवाग्नेरपि संख्यापूरणत्वशक्तेरविशिष्टत्वादग्निं तृतीयमकुरुतेत्युपसंख्यायते स त्रेधाऽऽत्मानमिति चोपक्रमादित्यर्थः । ननु किमयं त्रेधाभावो विराट्स्वरूपोपमर्देन क्रियते न हि स तस्मिन्सत्येव युक्तो विरोधादित्याह — स एष इति । यथा तन्त्ववस्थानुपमर्दनेन मूलकारणात्पटो जायते तथा सर्वेषां भूतानां प्राणतया साधारणोऽप्ययं स्वेनैव स्वतन्त्रेणानुगतेन मृत्युरूपेण त्रेधाविभागस्य कर्ता । न चैकस्य बहुरूपत्वविरोधो मायाविवदुपपत्तेरित्यर्थः । तस्य प्राचीत्यादेस्तात्पर्यमाह — तस्येति । उक्तानि विशेषणानि प्रकरणाविच्छेदार्थमनूद्यन्ते । अग्निविषयं दर्शनमिदानीमुच्यते चेन्नैवेहेत्यादि पूर्वोक्तमनर्थकमित्याशङ्क्याऽऽह — सर्वा हीति । स्तुतिमेवाभिनयति — इत्थमिति । कर्माङ्गस्याग्नेः संस्कर्तव्यत्वाच्चित्याग्निशिरसि प्राचीदृष्टिः कर्तव्येत्याह — तस्येति । आरोपे सादृश्यमाह — विशिष्टत्वेति । शिरसोऽनन्तरभावित्वात्तद्बाह्वोरैशान्यादिदृष्टिमाह — असौ चेति । कथमीर्मशब्दो बाहुवाचीत्याशङ्क्य तदुत्पत्तिमाह — ईरयतेरिति । गत्यर्थयोगादीर्मशब्दो बाहुमधिकरोतीत्यर्थः । तत्पुच्छादिषु प्रतीच्यादिदृष्टीरध्यस्यति — अथेत्यादिना । चित्यस्याग्नेः शिरसि बाह्वोः प्राच्यादिदृष्टिकरणानन्तरमित्यर्थः । सक्थिपदं पृष्ठनिष्ठोन्नतास्थिद्वयविषयम् । उभयशब्देन प्राचीप्रतीचीद्वयं गृह्यते । उरसि पृथिवीदृष्टिमाह — इयमिति । उपास्यमग्निमुक्तमनुवदति — स एष इति । तस्योपासनार्थमेवाप्सु प्रतिष्ठितत्वं गुणमुपदिशति — अग्निरिति । भूतान्तरसहितानामपां सर्वलोककारणत्वादशेषलोकात्मकोऽग्निस्तत्र प्रतिष्ठितः संभवतीत्यत्र श्रुत्यन्तरं संवादयति — एवमिति । यथैतेषु लोकेषु सर्वं कार्यं प्रतिष्ठितं तथेति यावत् । लोकशब्देन स्थूलानां भूतानां सन्निवेशविशेषा गृह्यन्ते । अप्सु भूतान्तरसहितासु कारणभूतास्विति यावत् । फलश्रुतिं व्याचष्टे — यत्रेति । अथोपास्तिफलमपपुनर्मृत्युं जयतीत्यादिना वक्ष्यते । किमिदमस्थाने फलसंकीर्तनमत आह —
गुणेति ॥३॥ 【भाष्यम्】 【भाष्यम्】 उत्तरग्रन्थमवतार्य तस्य पूर्वग्रन्थेन संबन्धं वक्तुं वृत्तं कीर्तयति — सोऽकामयतेत्यादिना । अवान्तरव्यापारमन्तरेण कर्तृत्वानुपपत्तिरिति मत्वा पृच्छति — स किं व्यापार इति । कामनादिरूपमवान्तरव्यापारमुत्तरवाक्यावष्टम्भेन दर्शयति — उच्यत इति । कामनाकार्यं मनःसंयोगमुपन्यस्यति — स एवमिति । कोऽयं मनसा सह वाचो द्वन्द्वभावस्तत्राऽऽह — मनसेति । वाक्यार्थमेव स्फुटयति — त्रयीविहितमिति । वेदोक्तसृष्टिक्रमालोचनं प्रजापतेर्नेदं प्रथमं संसारस्यानादित्वादिति वक्तुमनुशब्दः । “सोऽकामयत” इत्यादौ सर्वनाम्नोऽव्यवहितविराड्विषयत्वमाशङ्क्य परिहरति — कोऽसावित्यादिना । कथं तया मृत्युर्लक्ष्यते तत्राऽऽह — अशनायेति । किमिति तर्हि पुनरुक्तिरित्याशङ्क्याऽऽह — तमेवेति । अन्यत्रानन्तरप्रकृते विराडात्मनीति यावत् । अवान्तरव्यापारान्तरमाह — तदित्यादिना । प्रसिद्धं रेतो व्यावर्तयति — ज्ञानेति । ननु प्रजापतेर्न ज्ञानं कर्म वा संभवति । तत्रानधिकारादित्याशङ्क्याऽऽसीदित्यस्यार्थमाह — जन्मान्तरेति । वाक्यस्यापेक्षितं पूरयित्वा वाक्यान्तरमादाय व्याकरोति — तद्भावेत्यादिना । ननु संवत्सरस्य प्रागेव सिद्धत्वान्न प्रजापतेस्तन्निर्माणेन तदात्मत्वमित्याशङ्क्योत्तरं वाक्यमुपादत्ते — न ह पुरेति । तद्व्याचष्टे — पूर्वमिति । प्रजापतेरादित्यात्मकत्वात्तदधीनत्वाच्च संवत्सरव्यवहारस्याऽऽदित्यात्पूर्वं तद्व्यवहारो नाऽऽसीदेवेत्यर्थः । कियन्तं कालमण्डरूपेण गर्भो बभूवेत्यपेक्षायामाह — तमित्यादिना । अवान्तरव्यापारमनेकविधमभिधाय विराडुत्पत्तिमाकाङ्क्षाद्वारोपसंहरति — यावानित्यादिना । केयं पूर्वमेव गर्भतया विद्यमानस्य विराजः सृष्टिस्तत्राऽऽह — अण्डमिति । विराडुत्पत्तिमुक्त्वा शब्दमात्रस्य सृष्टिं विवक्षुर्भूमिकां करोति — तमेवमिति । अयोग्येऽपि पुत्रभक्षणे प्रवर्तकं दर्शयति — अशनायावत्त्वादिति । विराजो भयकारणमाह — स्वाभाविक्येति । इन्द्रियं देवतां च व्यावर्तयति —
वाक्शब्द इति ॥४॥ 【भाष्यम्】 【भाष्यम्】 इदानीमृगादिसृष्टिमुपदेष्टुं पातनिकां करोति — स इत्यादिना । ईक्षणप्रतिबन्धकसद्भावं दर्शयति — अशनायावानपीति । अभिपूर्वो मन्यतिरिति । रुद्रोऽस्य पशूनभिमन्येत नास्य रुद्रः पशूनभिमन्यत इत्यादि शास्त्रमत्र प्रमाणयितव्यम् । अन्नस्य कनीयस्त्वे का हानिरित्याशङ्क्याऽऽह — बहु हीति । तथाऽपि विराजो भक्षणे का क्षतिस्तत्राऽह — तद्भक्षणे हीति । तस्यान्नात्मकत्वात्तदुत्पादकत्वाच्चेति शेषः । कारणनिवृत्तौ कार्यनिवृत्तिरित्यत्र दृष्टान्तमाह — बीजेति । यथोक्तेक्षणानन्तरं मिथुनभावद्वारा त्रयीसृष्टिं प्रस्तौति — स एवमिति । ननु विराजः सृष्ट्या स्थावरजङ्गमात्मनो जगतः सृष्टेरुक्तत्वात्किं पुनरुक्त्येत्याशयेन पृष्ट्वा परिहरति — किं तदिति । गायत्र्यादीनीत्यादिपदेनोष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगतीछन्दांस्युक्तानि । केवलानां छन्दसां सर्गासंभवात्तदारूढानामृग्यजुःसामात्मनां मन्त्राणां सृष्टिरत्र विवक्षितेत्याह — स्तोत्रेति । उद्गात्रादिना गीयमानमृग्जातं स्तोत्रं तदेव होत्रादिना शस्यमानं शस्त्रम् । स्तुतमनुशंसतीति हि श्रुतिः । यन्न गीयते न च शस्यतेऽध्वर्युप्रभृतिभिश्च प्रयुज्यते तदप्यत्र ग्राह्यमित्यभिप्रेत्याऽदिपदम् (यजूंषि) । अत एव त्रिविधानित्युक्तम् । अजादयो ग्राम्याः पशवो गवयादयस्त्वारण्या इति भेदः । कर्मसाधनभूतानसृजतेति संबन्धः । स मनसा वाचं मिथुनं समभवदित्युक्तत्वात्प्रागेव त्रय्याः सिद्धत्वान्न तस्याः सृष्टिः श्लिष्टेति शङ्कते — नन्विति । व्यक्ताव्यक्तविभागेन परिहरति — नेत्यादिना । इति मिथुनीभावसर्गयोरुपपत्तिरिति शेषः । अत्तृसर्गश्चान्नसर्गश्चेति द्वयमुक्तम् । इदानीमुपास्यस्य प्रजापतेर्गुणान्तरं निर्दिशति — स प्रजापतिरित्यादिना । कथं मृत्योरदितिनामत्वं सिद्धवदुच्यते तत्राह — तथा चेति । अदितेः सर्वात्मत्वं वदता मन्त्रेण सर्वकारणस्य मृत्योरदितिनामत्वं सूचितमिति भावः । मृत्योरदितित्वविज्ञानवतोऽवान्तरफलमाह — सर्वस्येति । सर्वात्मनेति कुतो विशिष्यते तत्राऽऽह — अन्यथेति । सर्वरूपेणावस्थानाभावे सर्वान्नभक्षणस्याशक्यत्वादित्यर्थः । विरोधमेव साधयति — न हीति । फलस्योपासनाधीनत्वात्प्रजापतिमदितिनामानमात्मत्वेन ध्यायन्ध्येयात्मा भूत्वा तत्तद्रूपत्वमापन्नः सर्वस्यान्नस्यात्ता स्यादित्यर्थः । अन्नमन्नमेवास्य सदा न कदाचित्तदस्यात्तृ भवतीति वक्तुमनन्तरवाक्यमादत्ते — सर्वमिति । अत एवेत्युक्तं व्यक्तीकरोति —
सर्वात्मनो हीति ॥५॥ 【भाष्यम्】 【भाष्यम्】 उपास्तिविधौ सफले सति समाप्तिरेव ब्राह्मणस्योचिता किमुत्तरग्रन्थेनेत्याशङ्क्य प्रतीकमादाय तात्पर्यमाह — सोऽकामयतेत्यादिना । तदेवाश्वमेधस्याश्वमेधत्वमित्येतदन्तं वाक्यमिदमा निर्दिश्यते । भूयोदक्षिणाकत्वादश्वमेधस्य भूयस्त्वम् । इतिशब्दोऽकामयतेत्यनेन संबध्यते । कथं पुनस्तेन यक्ष्यमाणस्य प्रजापतेर्भूयःशब्दोक्तिः । न हि स पूर्वमश्वमेधमन्वतिष्ठत्कर्मानधिकारित्वात्तत्राऽऽह — जन्मान्तरेति । तदेव स्पष्टयति — स प्रजापतिरिति । अथातीते जन्मनि यजमानोऽश्वमेधस्य कर्ताऽभूत् । अधुना हिरण्यगर्भो भूयो यजेयेत्याह । तथा च कर्तृभेदाद्भूयःशब्दसामञ्जस्यमत आह — स तद्भावेति । स प्रजापतिरश्वमेधवासनाविशिष्टो ज्ञानकर्मफलत्वेन कल्पादौ निर्वृत्तो भूयो यजेयेत्याह कर्तृभोक्त्रोरैक्येन साधकफलावस्थयोर्यजमानसूत्रयोर्भेदाभावादित्यर्थः । प्रजापतिरीश्वरो न तस्य दुःखात्मकक्रत्वनुष्ठानेच्छा युक्तेत्याशङ्क्य प्रकृतिवशात्तदुपपत्तिमभिप्रेत्याऽऽह — सोऽश्वमेधेति । कथमेतावता विवक्षितास्तुतिः सिद्धेत्याशङ्क्याऽऽह — एवमिति । श्रमकार्यमाह — स तप इति । चक्षुरादीनां यशस्त्वे हेतुमाह — यशोहेतुत्वादिति । तदेव साधयति — तेषु हीति । प्राणा एवेति तथाशब्दार्थः । सत्सु हि तेषु शरीरे बलं भवतीति पूर्ववदेव हेतुरुन्नेयः । उक्तमर्थं व्यतिरेकद्वारा स्फोरयति — न हीति । प्राणानां यशस्त्वं वीर्यत्वं चोपसंहृत्य वाक्यार्थं निगमयति — तदेवमिति । तत्प्राणेष्वित्यादि व्याचष्टे — तदेवमित्यादिना । शरीरान्निर्गतस्य प्रजापतेर्मुक्तत्वमाशङ्क्याऽऽह —
तस्येति ॥६॥ 【भाष्यम्】 【भाष्यम्】 सम्यग्ज्ञानाभावादासंगे सत्यपि न पुनस्तस्मिन्प्रवेशो युक्तः परित्यक्तपरिग्रहायोगादिति शङ्कते — स तस्मिन्निति । अज्ञानवशात्परित्यक्तपरिग्रहोऽपि संभवतीत्याह — उच्यत इति । वीतदेहस्य कामनाऽयुक्तेति शङ्कते — कथमिति । सामर्थ्यातिशयादशरीरस्यापि प्रजापतेस्तदुपपत्तिरिति मन्वानो ब्रूते — मेध्यमिति । कामनाफलमाह — इति प्रविवेशेति । तथापि कथं प्रकृतनिरुक्तिसिद्धिरित्याशङ्क्याऽऽह — यस्मादिति । यच्छब्दो यस्मादिति व्याख्यातः । देहस्याश्वत्वेऽपि कथं प्रजापतेस्तथात्वमित्याशङ्क्य तत्तादात्म्यादित्याह — तत इति । अश्वस्य प्रजापतित्वेन स्तुतत्वात्तस्योपास्यत्वं फलतीति भावः । तथापि कथमश्वमेधनामनिर्वचनमित्याशङ्क्याऽऽह — यस्माच्चेति । क्रतोस्तदात्मकस्य प्रजापतेरिति यावत् । देहो हि प्राणवियोगादश्वयत्पुनस्तत्प्रवेशाच्च मेधार्होऽभूदतः सोऽश्वमेधस्तत्तादात्म्यात्प्रजापतिरपि तथेत्यर्थः । ननु प्रजापतित्वेनाश्वमेधस्य स्तुतिर्नोपयोगिनी, अग्नेरुपास्यत्वेन प्रस्तुतत्वात्क्रतूपासनाभावादत आह — क्रियेति । ननु क्रत्वङ्गस्याश्वस्याश्वमेधक्रत्वात्मनश्चाग्नेरुक्तरीत्या स्तुतत्वात्तदुपास्तेश्च प्रागेवोक्तत्वादेष ह वा अश्वमेधमित्यादिवाक्यं नोपयुज्यते तत्राऽऽह — क्रतुनिर्वर्तकस्येति । उक्तं च चित्यस्याग्नेस्तस्य प्राची दिगित्यादिना प्रजापतित्वमिति शेषः । अश्वोपासनमग्न्युपासनं चैकमेवेति वक्तुमुत्तरं वाक्यमित्याह — तस्यैवेति । य एवमेतददितेरदितित्वं वेदेत्यादौ प्रागेव विहितमुपासनं किं पुनरारम्भेणेत्याशङ्क्याऽऽह — पूर्वत्रेति । यद्यपि विधिरदितित्वं वेदेति श्रुतस्तथाऽपि स गुणोपास्तिविधिर्न प्रधानविधिः । अत्र तु प्रधानविधिरुपास्तिप्रकरणत्वादपेक्ष्यते । अतोऽश्वमेधं वेदेति प्रधानविधिरिति भावः । तात्पर्यमुक्त्वा वाक्यमादायाक्षराणि व्याकरोति — एष इति । यथोक्तमित्युत्तरत्र प्रजापतित्वमनुकृष्यते । तमनवरुध्येत्यादि प्रदर्श्यमानविशेषणम् । विधिरत्र स्पष्टो न भवतीत्याशङ्क्याऽऽह — तस्मादिति । अश्वमेधो विशेष्यत्वेन संबध्यते । एवंशब्दात्प्रसिद्धार्थत्वं भाति कुतो विधिरित्याह — कथमिति । एष ह वा अश्वमेधं वेदेत्यादौ विवक्षितस्य विधेर्भूमिकां करोति — तत्रेत्यादिना । उपास्तिविधिप्रस्तावः सप्तम्यर्थः । कथं नु पशुविषयं दर्शनं तद्दर्शयति — तत्रेति । एवमनन्तरवाक्ये प्रवृत्ते सतीति यावत् । अथ विवक्षितविधिमभिदधाति — यस्माच्चेति । प्रजापतिरित्थं फलावस्थायाममन्यतेत्यत्र किं प्रमाणमित्याशङ्क्य संप्रति तत्कार्यभूतासु प्रजासु तथाविधचेष्टादृष्टिरित्याह — अत एवेति । प्रोक्षितं मन्त्रसंस्कृतं पशुमिति यावत् । फलावस्थप्रजापतिवदित्येवंशब्दार्थः । उपासनविधिरुक्तः संप्रति प्रतीकमादाय तात्पर्यमाह — एष इति । द्विविधो हि क्रतुः कल्पितपशुहेतुको बाह्यतद्धेतुकश्च । स च द्विप्रकारोऽपि फलरूपेण स्थितः सवितैवेत्युपास्तिफलं वक्तुमेतद्वाक्यमित्यर्थः । विशेषोक्तिं विना नास्ति बुभुत्सोपशान्तिरित्याह — कोऽसाविति । क्रतुफलात्मकः सविता मण्दलं देवता वेति सन्देहे द्वितीयं गृहीत्वा तस्येत्यादि व्याचष्टे — तस्यास्येति । आदित्योदयास्तमयाभ्यामहोरात्रद्वारा सम्वत्सरव्यवस्थानात्तन्निर्मातुस्तस्य युक्तं तत्तादात्म्यमित्यर्थः । क्रतोरादित्यत्वमुक्त्वा तदङ्गस्याग्नेस्तद्वक्तुमयमग्निरर्क इति वाक्यं तस्यार्थमाह — तस्यैवेति । ननु पूर्वोक्तस्यैवाग्नेरादित्यत्वं कुतो नियम्यतेऽन्यश्चित्योऽग्निरन्यश्चाग्निरादित्यः किं न स्यादित्याशङ्क्याऽऽह — तस्य चेति । तथाऽपि कथं तस्यैवाऽऽदित्यत्वं तत्राऽऽह — तथा चेति । तस्य प्राचीत्यादिना लोकात्मकत्वं चित्याग्नेरुक्तं तदिहाप्युच्यते तस्मात्तस्यैवात्राऽऽदित्यत्वमिष्टमित्यर्थः । अग्न्यादित्यभेदस्य लोकवेदसिद्धत्वान्न तयोरेकेन क्रतुना तादात्म्यमित्याशङ्क्याऽऽह — ताविति । यथाविशेषितत्वमादित्यरूपत्वम् । कुतस्तस्य चार्कस्य क्रतुरूपत्वं साधनत्वेन भेदादित्याशङ्क्योपचारादित्याह — क्रियात्मक इति । तथाऽपि कथमादित्यस्य क्रतुतादात्म्योक्तिरित्याशङ्क्याऽऽह — क्रतुसाध्यत्वादिति । नन्वादित्यस्य क्रतुफलत्वेन क्रतुत्वे तद्धेतोरग्नेस्तादात्म्यायोगादुक्तमग्नेरादित्यत्वमित्याशङ्क्याऽऽह — क्रतुसाध्यत्वादिति । नन्वादित्यस्य क्रतुफलत्वेन क्रतुत्वे तद्धेतोरग्नेस्तादात्म्यायोगादयुक्तमग्नेरादित्यत्वमित्याशङ्क्याऽऽह — ताविति । क्रतुफलत्वात्तदात्मा सविता तद्धेतुश्चित्योऽग्निस्तावुक्तविभागाद्व्युत्पादितोपासनादिव्यापारौ सन्तावेकैव प्राणाख्या देवतेति तयोरैक्योक्तिरित्यर्थः । एकैवेत्युक्ते प्रकृतयोरग्न्यादित्ययोरन्यतरपरिशेषं शङ्कते — का सेति । कथं द्वयोरेकत्वमेकत्वे वा कथं द्वित्वं तत्राऽऽह — पूर्वमपीति । उक्तेऽर्थे वाक्योपक्रममनुकूलयति — तथा चेति । पुनरित्यादेरर्थं निगमयति — सा पुनरिति । ननु फलकथनार्थमुपक्रम्य प्राणात्मनाऽग्न्यादित्ययोरेकत्वं वदता प्रक्रान्तं विस्मृतमिति नेत्याह — यः पुनरिति ।
एकत्वमभिन्नत्वम् ॥७॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणान्तरमवतार्य तस्य पूर्वेण संबन्धाप्रतीतेर्न सोऽस्तीत्याक्षिपति — द्वया हेत्याद्यस्येति । विवक्षितं संबन्धं वक्तुं वृत्तं कीर्तयति — कर्मणामिति । ‘सा काष्ठा सा परा गति’ (क. उ. १ । ३ । ११) रिति श्रुतेरुक्ता परा गतिर्मुक्तिरित्याशङ्क्याऽऽह — मृत्य्वात्मभाव इति । अश्वमेधोपासनस्य साश्वमेधस्य केवलस्य वा फलमुक्तं नोपास्त्यन्तराणां कर्मान्तराणां चेत्याशङ्क्याश्वमेधफलोक्त्योपास्त्यन्तराणां केवलानां समुच्चितानां च फलमुपलक्षितमित्याह — अश्वमेधेति । वृत्तमनूद्योत्तरब्राह्मणस्य तात्पर्यमाह — अथेति । ज्ञानयुक्तानां कर्मणां संसारफलत्वप्रदर्शनानन्तरमिति यावत् । ज्ञानकर्मणोरुद्भावकस्य प्राणस्य स्वरूपं निरूपयितुं ब्राह्मणमित्युत्थाप्योत्थापकत्वं संबन्धमुक्तमाक्षिपति — नन्विति । मृत्युमतिक्रान्तो दीप्यत इति मृत्योरतिक्रमस्य वक्ष्यमाणज्ञानकर्मफलत्वात्पूर्वत्र च तद्भावस्य तत्फलस्योक्तत्वादुभयस्यापि फलस्य भेदात्पूर्वोत्तरयोर्ज्ञानकर्मणोर्विषयशब्दितोद्देश्यभेदान्न पूर्वोक्तयोस्तयोरुद्भवकारणप्रकाशनार्थं ब्राह्मणमित्यर्थः । पूर्वोत्तरज्ञानकर्मफलभेदाभावादेकविषयत्वात्तदुद्भावकप्रकाशनार्थं ब्राह्मणं युक्तमिति परिहरति — नायमिति । वाक्यशेषविरोधं शङ्कित्वा दूषयति — नन्वित्यादिना । स्वाभाविकः शास्त्रानाधेयो योऽयं पाप्मा विषयासंगरूपः स मृत्युस्तस्यातिक्रमणं वाक्यशेषे कथ्यते न हि हिरण्यगर्भाख्यमृत्योरतः पूर्वोक्तज्ञानकर्मभ्यां तुल्यविषयत्वमेवोत्तरज्ञानकर्मणोरित्यर्थः । ज्ञानकर्मणोरुद्भावकत्वं वक्तुं ब्राह्मणमारभ्यतामाख्यायिका तु किमर्थेत्याशङ्क्य तस्यास्तात्पर्यमाह — कोऽसाविति । कथं यथोक्तो ब्राह्मणाख्यायिकयोरर्थः शक्यो ज्ञातुमित्याकाङ्क्षां निक्षिप्याक्षराणि व्याकरोति — कथमित्यादिना । निपातार्थमेव स्फुटयति — वर्तमानेति । प्रजापतिशब्दो भविष्यद्वृत्त्या यजमानं गोचरयतीत्याह — वृत्तेति । इन्द्रादयो देवा विरोचनादयश्चासुरा इत्याशङ्कां वारयति — तस्यैवेति । यजमानेषु प्राणेषु देवत्वमसुरत्वं च विरुद्धं न सिद्ध्यतीति शङ्कते — कथमिति । तेषु तदुभयमौपाधिकं साधयति — उच्यत इति । शास्त्रानपेक्षयोर्ज्ञानकर्मणोरुत्पादकमाह — प्रत्यक्षेति । सन्निधानासंन्निधानाभ्यां प्रमाणद्वयोक्तिः । स्वेष्वेवासुषु रमणं नामाऽऽत्मम्भरित्वम् । तत इत्यादिवाक्यद्वयं व्याचष्टे — यस्माच्चेति । देवानामल्पत्वं प्रपञ्चयति — स्वाभाविकी हीति । महत्तरत्वे हेतुर्दृष्टप्रयोजनत्वादिति । असुराणां बहुत्वं प्रपञ्चयति — शास्त्रजनितेति । असुराणां बाहुल्यमिति शेषः । तदेव साधयति — अत्यन्तेति । उभयेषां देवासुराणां मिथः संघर्षं दर्शयति — देवाश्चेति । कथं ब्रह्मादीनां स्थावरान्तानां भोगस्थानानां स्पर्धानिमित्तत्वमित्याशङ्क्य तेषां शास्त्रीयेतरज्ञानकर्मसाध्यत्वात्तयोश्च देवासुरजयाधीनत्वात्तस्य च स्पर्धापूर्वकत्वात्परम्परया लोकानां तन्निमित्तत्वमित्यभिप्रेत्य विशिनष्टि — स्वाभाविकेति । का पुनरेषां स्पर्धा नामेत्याशङ्क्याऽऽह — देवानां चेति । तामेव सफलां विवृणोति — कदाचिदित्यादिना । अधिकृतैरसुरपराजये देवजये च प्रयतितव्यमित्यनुग्रहबुद्ध्या जयफलमाह — एवमिति । आकाङ्क्षापूर्वकमनन्तरवाक्यमादाय व्याकरोति — त एवमित्यादिना । योऽयमुद्गीथो नाम कर्माङ्गभूतः पदार्थस्तत्कर्तुः प्राणस्य स्वरूपाश्रयणमेव कथं सिद्ध्यतीत्याशङ्क्याऽऽह — उद्गीथेति । किं तत्कर्म किं वा ज्ञानं तदाह — कर्मेति । तदेतान्यसतो मा सद्गमयेत्यादीनि यजूंषि जपेदिति विधित्स्यमानमिति योजना । द्वया हेत्यादि न ज्ञाननिरूपणपरं जपविधिशेषत्वेनार्थवादत्वात्तत्कुतोऽत्र ज्ञानस्य निरूप्यमाणत्वमित्याक्षिपति — नन्विति । आभिमुख्येनाऽऽरोहति देवभावमनेनेत्यभ्यारोहो मन्त्रजपस्तद्विधिशेषोऽर्थवादो द्वया हेत्यादिवाक्यमित्यर्थः । उपास्तिविधिश्रवणात्तत्परं वाक्यं न जपविधिशेष इति दूषयति — नेति । मा भूज्जपविधिशेषस्तथाऽप्युद्गायेत्यौद्गात्रस्य कर्मणः सन्निधाने पुरातनकल्पनाप्रकारस्य द्वया हेत्यादिना श्रवणात्तद्विधिशेषोऽर्थवादोऽयमिति शङ्कते — उद्गीथेति । नेदं वाक्यं ज्ञानं चोद्गीथविधिशेषस्तत्प्रकरणस्थत्वाभावेन सन्निध्यभावादिति दूषयति — नाप्रकरणादिति । उद्गीथस्तर्हि क्व विधीयते न खल्वविहितमङ्गं भवति तत्राऽऽह — उद्गीथस्य चेति । अन्यत्रेति कर्मकाण्डोक्तिः । अथोद्गायेत्युद्गीथविधिरपीह प्रतीयते तत्कथं सन्निधिरपोद्यते तत्राऽऽह — विद्येति । उद्गीथविधिरिह प्रतीयमानः प्राणस्योद्गातृदृष्ट्योपासनविधिरन्यथा प्रकरणविरोधादित्यर्थः । जपविधिशेषत्वमुद्गीथविधिशेषत्वं वा ज्ञानस्य नास्तीत्युक्तम् । इदानीं जपविधिशेषत्वाभावे युक्त्यन्तरमाह — अभ्यारोहेति । अनित्यत्वं साधयति — एवमिति । प्राणविज्ञानवताऽनुष्ठेयो जपो न तद्विज्ञानात्प्रागस्ति । तेनासौ पश्चाद्भावी प्रागेव सिद्धं विज्ञानं प्रयोजयतीत्यर्थः । तस्यापि प्राचीनत्वं कथमित्याशङ्क्याऽऽह — विज्ञानस्य चेति । ’य एवं विद्वान्पौर्णमासीं यजत’ इतिवद्य एवं वेदेति विज्ञानं श्रुतम् । न हि प्रयाजादि पौर्णमासीप्रयोजकम् । तस्या एव तत्प्रयोजकत्वात् । तथा प्राणवित्प्रयोज्यो जपो न विज्ञानप्रयोजकः तस्य स्वप्रयोजकत्वेन प्रागेव सिद्धेरावश्यकत्वादित्यर्थः । फलवत्त्वाच्च प्राणविज्ञानं स्वतन्त्रं विधित्सितमित्याह — तद्धेति । प्राणोपास्तेर्विवक्षितत्वे हेत्वन्तरमाह — प्राणस्येति । ’यद्धि स्तूयते तद्विधीयते’ इति न्यायमाश्रित्योक्तमेव प्रपञ्चयति — न हीति । इतश्च प्राणोपास्तिरत्र विधित्सितेत्याह — मृत्युमिति । फलवचनं प्राणस्यानुपास्यत्वे नोपपद्यत इति संबन्धः । उक्तमेव व्यनक्ति — प्राणेति । मृत्युमोक्षणानन्तरं वागादीनां यदग्न्यादित्वं फलं तदध्यात्मपरिच्छेदं हित्वोपासितुराधिदैविकप्राणस्वरूपापत्तेरुपपद्यते । तस्माद्विधित्सितैवात्र प्राणोपास्तिरित्यर्थः । उक्तन्यायेन प्राणोपास्तिमुपेत्य प्राणदेवतां शुद्ध्यादिगुणवतीमाक्षिपति — भवत्विति । यथा प्राणस्योपास्तिः शास्त्रदृष्टत्वादिष्टा तथाऽस्य गुणसंबन्धः श्रुतत्वादेष्टव्य उपास्तावुपास्ये च गुणवति प्राणे प्रामाणिकत्वप्राप्तेरविशेषादिति सिद्धान्ती ब्रूते — नन्विति । प्राणस्योपास्यत्वेऽपि विशुद्ध्यादिगुणवादस्य स्तुत्यर्थत्वेनार्थवादत्वसंभवान्न यथोक्ता देवता स्यादिति पूर्ववाद्याह — न स्यादिति। विशुद्ध्यादिगुणवादस्यार्थवादत्वेऽपि नाभूतार्थवादत्वमिति परिहरति — नेति । विशुद्ध्यादिगुणविशिष्टप्राणदृष्टेरत्र फलप्राप्तिः श्रुता न सा ज्ञानस्य मिथ्यार्थत्वे युक्ता सम्यग्ज्ञानादेव पुमर्थप्राप्तेः संभवादतः स्तुतिरपि यथार्थैवेत्यर्थः । लोकदृष्टान्तं व्याचष्टे — यो हीति । इहेति वेदाख्यदार्ष्टान्तिकोक्तिः । ननु विशुद्ध्यादिगुणवतीं देवतां वदन्ति वाक्यान्युपासनाविध्यर्थत्वान्न स्वार्थे प्रामाण्यं प्रतिपद्यन्ते तत्राऽह — न चेति । अन्यपराणामपि वाक्यानां मानान्तरसम्वादविसम्वादयोरसतोः स्वार्थे प्रामाण्यमनुभवानुसारिभिरेष्टव्यमित्यर्थः । ननु प्राणस्य विशुद्ध्यादिवादो न स्वार्थे मानमन्यपरत्वादादित्ययूपादिवाक्यवदता आह — न चेति । आदित्ययूपादिवाक्यार्थज्ञानस्य प्रत्यक्षादिनाऽपवादवद्विशुद्ध्यादिगुणविज्ञानस्य नापवादः श्रुतस्तस्माद्विशुद्ध्यादिवादस्य स्वार्थे मानत्वमप्रत्यूहमित्यर्थः । विशुद्ध्यादिगुणकप्राणविज्ञानात्फलश्रवणात्तद्वादस्य यथार्थत्वमेवेत्युपसंहरति — तत इति । लोकवद्वेदेऽपि सम्यग्ज्ञानादिष्टप्राप्तिरनिष्टपरिहारश्चेत्यन्वयमुखेनोक्तमर्थं व्यतिरेकमुखेनापि समर्थयते — विपर्यये चेत्यादिना । शास्त्रस्यानर्थार्थत्वमिष्टमिति शङ्कां निराचष्टे — न चेति । अपौरुषेयस्यासंभावितसर्वदोषस्याशेषपुरुषार्थहेतोः शास्त्रस्यानर्थार्थत्वमेष्टुमशक्यमित्यर्थः । शास्त्रस्य यथाभूतार्थत्वं निगमयति — तस्मादिति । उपासनार्थं ज्ञानार्थं चेति शेषः । शास्त्राद्यथार्थप्रतिपत्तेः श्रेयःप्राप्तिरित्यत्र व्यभिचारं चोदयति — नामादाविति । तदेव स्फुटयति — स्फुटमिति । अब्रह्मणि ब्रह्मदृष्टिरतस्मिंस्तद्बुद्धित्वान्मिथ्या धीः सा च यावन्नाम्नो गतमित्यादिश्रुत्या फलवती ततः शास्त्राद्यथार्थप्रतिपत्तेरेव फलमित्ययुक्तमित्यर्थः । भेदाग्रहपूर्वकोऽन्यस्यान्यात्मतावभासो मिथ्याज्ञानमत्र तु भेदे भासमानेऽन्यत्रान्यदृष्टिर्विधीयते । यथा विष्णोर्भेदे प्रतिमायां गृह्यमाणे तत्र विष्णुदृष्टिः क्रियते तन्नेदं मिथ्याज्ञानमित्याह — नेति । नञर्थं स्पष्टयति — नामादाविति । प्रश्नपूर्वकं हेतुं व्याचष्टे — कस्मादिति । प्रतिमायां विष्णुदृष्टिं प्रत्यालम्बनत्वमेव न विष्णुतादात्म्यं नामादेस्तु ब्रह्मतादात्म्यं श्रुतमिति वैषम्यमाशङ्क्यऽऽह — आलम्बनत्वेनेति । उक्तमर्थं वैधर्म्यदृष्टान्तेन स्पष्टयति — यथेति । कर्ममीमांसको ब्रह्मविद्वेषं प्रकटयन्प्रत्यवतिष्ठते — ब्रह्मेति । केवला तद्दृष्टिरेव नाम्नि चोद्यते चोदनावशाच्च फलं सेत्स्यति ब्रह्म तु नास्ति मानाभावादित्यर्थः । अथ यथा देवानां प्रतिमादिषूपास्यमानानामन्यत्र सत्त्वं यथा च वस्वाद्यात्मनां पितृणां ब्राह्मणादिदेहे तर्प्यमाणानामन्यत्र सत्त्वं तथा ब्रह्मणोऽपि नामादावुपास्यत्वादन्यत्र सत्त्वं भविष्यतीत्याशङ्क्याऽऽह — एतेनेति । नामादौ ब्रह्मदर्शनेनेति यावत् । दृष्टान्तासिद्धेर्न क्वापि ब्रह्मास्तीति भावः । सत्यज्ञानादिलक्षणं ब्रह्म नास्तीत्ययुक्तम् ‘सदेव सोम्येदम्’(छा. उ. ६ । २ । १) इत्यादिश्रुतेरित्याह — नेति । किं च ब्रह्मदृष्टिः सत्यार्था शास्त्रीयदृष्टित्वादियमेवर्गग्निः सामेतिदृष्टिवदित्याह — ऋगादिष्विति । तदेवं स्पष्टयति — विद्यमानेति । ताभिर्दृष्टिभिः सामान्यं दृष्टित्वं तस्मादिति यावत् । यत्तु दृष्टान्तासिद्धिरिति तत्राऽऽह — एतेनेति । ब्रह्मदृष्टेः सत्यार्थत्ववचनेनेति यावत् । ब्रह्मास्तित्वे हेत्वन्तरमाह — मुख्यापेक्षत्वादिति । उक्तमेव विवृणोति — पञ्चेति । पञ्चाग्नयो द्युपर्जन्यपृथिवीपुरुषयोषितः । आदिपदं वाग्धेन्वादिग्रहार्थम् । ननु वेदान्तवेद्यं ब्रह्मेष्यते न च तेभ्यस्तद्धीः सिद्ध्यति तेषां विधिवैधुर्येणाप्रामाण्यात्तत्कुतो ब्रह्मसिद्धिरत आह — क्रियार्थैश्चेति । विमतं स्वार्थे प्रमाणमज्ञातज्ञापकत्वात्सम्मतवत् । अतो वेदान्तशास्त्रादेव ब्रह्मसिद्धिरित्यर्थः । सिद्धसाध्यर्थभेदेन वैषम्यादविशिष्टत्वमनिष्टमित्याशङ्क्योक्तं विवृणोति — यथा चेति । विशिष्टत्वं स्वरूपोपकारित्वं फलोपकारित्वं च । पञ्चमोक्तं प्रकारं पराम्रष्टुमेवमित्यादिष्टम् । अलौकिकत्वं साधयति — प्रत्यक्षादीति । किञ्च वेदान्तानामप्रामाण्यं बुद्ध्यनुत्पत्तेर्वा संशयाद्युत्पत्तेर्वा नाऽऽद्य इत्याह — न चेति । न द्वितीय इत्याह — न चानिश्चितेति । कोटिद्वयास्पर्शित्वादबाधाच्चेत्यर्थः । क्रियार्थैर्वाक्यैर्विद्यार्थानां वाक्यानां साधर्म्यमुक्तमाक्षिपति — अनुष्ठेयेति । साधर्म्यस्यायुक्तत्वमेव व्यनक्ति — क्रियार्थैरिति । वाक्योत्थबुद्धेर्यथार्थत्वाद्विध्यभावेऽपि वाक्यप्रामाण्यमज्ञातज्ञापकत्वेनाविरुद्धमिति परिहरति — न ज्ञानस्येति । अनुष्ठेयनिष्ठत्वमन्तरेण कुतो वस्तुनि प्रयोगप्रत्यययोस्तथार्थत्वमित्याशङ्क्य तयोर्विषयतया तथार्थत्वं तदपेक्षस्वप्रामाण्यार्थत्वं वेति विकल्प्याऽऽद्यं दूषयति — न हीति । तदुभयविषयस्य कर्तव्यार्थस्य तथात्वं न कर्तव्यत्वापेक्षं किन्तु मानगम्यत्वादन्यथा विप्रलम्भकविधिवाक्येऽपि तथात्वापत्तेरित्यर्थः । द्वितीयं प्रत्याह — न चेति । बुद्धिग्रहणं प्रयोगोपलक्षणार्थम् । कर्तव्यतार्थविषयप्रयोगादेर्नानुष्ठेयविषयत्वान्मानत्वं किन्तु प्रमाकरणत्वात्तज्जन्यत्वाच्चान्यथोक्तातिप्रसक्तितादवस्थ्यादतोऽनुष्ठेयनिष्ठत्वं मानत्वेऽनुपयुक्तमित्यर्थः । कुतस्तर्हि कार्याकार्यधियावित्याशङ्क्याऽऽह — वेदेति । वैदिकस्यार्थस्याबाधेन तथार्थत्वे सिद्धे समीहितसाधनत्वविशिष्टं चेद्वस्तु तदा कर्तव्यमिति धियाऽनुतिष्ठति । तच्चेदनिष्टसाधनत्वविशिष्टं तदा न कार्यमिति धिया नानुतिष्ठति । अतो मानात्तस्यानुष्ठानाननुष्ठानहेतू कार्याकार्यधियावित्यर्थः । तथाऽपि ब्रह्मणो वाक्यार्थत्वं पदार्थत्वं वा नाऽऽद्य इत्याह — अननुष्ठेययत्व इति । तस्याकार्यत्वेऽपि वाक्यार्थत्वं किं न स्यादित्याशङ्क्याह — न हीति । उभयत्रासतीतिच्छेदः । द्वितीयं दूषयति — पदार्थत्वे चेति । ब्रह्मणः शास्त्रार्थत्वमेतदित्युच्यते कार्यास्पृष्टेऽर्थे वाक्यप्रामाण्यं दृष्टान्तेन साधयति — नेत्यादिना । शुक्लकृष्णलोहितमिश्रलक्षणं वर्णचतुष्टयं तद्विशिष्टो मेरुरस्तीत्यादिप्रयोगे मेर्वादावकार्येऽपि सम्यग्धीदर्शनात्तत्त्वमसिवाक्यादपि कार्यास्पृष्टे ब्रह्मणि सम्यग्ज्ञानसिद्धिरित्यर्थः । दृष्टान्तेऽपि कार्यधीरेव वाक्यादुदेतीत्याशङ्क्याऽऽह — न चेति । ननु तत्र क्रियापदाधीना पदसंहतिर्युक्ता वेदान्तेषु पुनस्तदभावात्पदसंहत्ययोगात्कुतो वाक्यप्रमाणत्वं ब्रह्मणः संभवति तत्राऽऽह — तथेति । विमतमफलं सिद्धार्थज्ञानत्वात्सम्मतवदित्यनुमानात्तत्त्वमादेः सिद्धार्थस्यायुक्तं मानत्वमिति शङ्कते — मेर्वादीति । श्रुतिविरोधेनानुमानं धुनीते — नेत्यादिना । विद्वदनुभवविरोधाच्च नैवमित्याह — संसारेति । फलश्रुतेरर्थवादत्वेनामानत्वादनुमानबाधकतेत्याशङ्क्याऽऽह — अनन्येति । पर्णमयीत्वाधिकरणन्यायेन जुह्वाः फलश्रुतेरर्थवादत्वं युक्तम् । ब्रह्मधियोऽन्यशेषत्वप्रापकाभावात्तत्फलश्रुतेरर्थवादत्वासिद्धिरिति । अन्यथा शारीरकानारम्भः स्यादित्यर्थः । श्रुत्यनुभवाभ्यां वाक्योत्थज्ञानस्य फलवत्त्वदृष्टेर्युक्ता कार्यास्पृष्टे स्वार्थे तत्त्वमस्यादेर्मानतेत्युक्तं संप्रति शास्त्रस्य कार्यपरत्वानियमे हेत्वन्तरमाह — प्रतिषिद्धेति । यद्यपि कलञ्जभक्षणादेरधःपातस्य च संबन्धो न कलञ्जं भक्षयेदित्यादिवाक्यात्प्रतीयते तथाऽपि तस्यानुष्ठेयत्वाद्वाक्यस्यानुष्ठेयनिष्ठत्वसिद्धिरित्याशङ्क्याऽऽह — न चेति । संबन्धस्याभावार्थत्वान्नानुष्ठेयतेत्यर्थः । अभक्षणादि कार्यमिति विधिपरत्वमेव निषेधवाक्यस्य किं न स्यादित्याशङ्क्याऽऽह — न चेति । तस्यापि कार्यार्थत्वे विधिनिषेधभेदभङ्गान्नञश्च स्वसंबन्ध्यभावबोधने मुख्यस्यार्थान्तरे वृत्तौ लक्षणापातान्निषिद्धविषये रागादिना प्रवृत्तक्रियावतो निषेधशास्त्रार्थधीसंस्कृतस्य निषेधश्रुतेरकरणात्प्रसक्तक्रियानिवृत्त्युपलक्षितादौदासीन्यादन्यदनुष्ठेयं न प्रतिभातीत्यर्थः । भावविषयं कर्तव्यत्वं विधीनामर्थोऽभावविषयं तु निषेधानामिति विशेषमाशङ्क्याऽह — अकर्तव्यतेति । अभावस्य भावार्थत्वाभावात्कर्तव्यताविषयत्वासिद्धिरिति हिशब्दार्थः । प्रतिषेधज्ञानवतोऽपि कलञ्जभक्षणादिज्ञानदर्शनात्तन्निवृत्तेर्नियोगाधीनत्वात्तन्निष्ठमेव वाक्यमेष्टव्यमिति चेन्नेत्याह — क्षुधार्तस्येति । विषलिप्तबाणहतस्य पशोर्मांसं कलञ्जं ब्रह्मवधाद्यभिशापयुक्तस्यान्नपानाद्यभोज्यं तस्मिन्नभक्ष्येऽभोज्ये च प्राप्ते यद्भ्रमज्ञानं क्षुत्क्षामस्योत्पन्नं तन्निषेधधीसंस्कृतस्य तद्धीस्मृत्या बाध्यमित्यत्र लौकिकदृष्टान्तमाह — मृगतृष्णिकायामिति । तथाऽपि प्रवृत्त्यभावसिद्धये विधिरर्थ्यतामिति चेन्नेत्याह — तस्मिन्निति । तदभावः प्रवृत्त्यभावो न विधिजन्यप्रयत्नसाध्यो निमित्ताभावेनैव सिद्धेरित्यर्थः । दृष्टान्तमुपसंहरति — तस्मादिति । दार्ष्टान्तिकमाह — तथेति । न केवलं तत्त्वमस्यादिवाक्यानां सिद्धवस्तुमात्रपर्यवसानता किन्तु सर्वकर्मनिवर्तकत्वमपि सिद्ध्यतीत्याह — तथेति । अकर्त्रभोक्तृब्रह्माहमितिज्ञानसंस्कृतस्य प्रवृत्तीनामभावः स्यादिति संबन्धः । अस्माद्ब्रह्मभावाद्विपरीतोऽर्थो यस्य कर्तृत्वादिज्ञानस्य तन्निमित्तानामनर्थार्थत्वेन ज्ञायमानत्वादिति हेतुः । कदा पुनस्तासामभावः स्यादत आह — परमात्मादीति । भ्रान्तिप्राप्तभक्षणादिनिरासेन निवृत्तिनिष्ठतया निषेधवाक्यस्य मानत्ववत्तत्त्वमादेरपि प्रत्यगज्ञानोत्थकर्तृत्वादिनिवर्तकत्वेन मानत्वोपपत्तिरिति समुदायार्थः । दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमाशङ्कते — नन्विति । तस्य निषिद्धत्वादनर्थार्थत्वमेव यद्वस्तुयाथात्म्यं तज्ज्ञानेन निषेधे कृते तत्संस्करद्वारा संपादितस्मृत्या शास्त्रीयज्ञानेन विपरीतज्ञाने बाधिते तत्कार्यप्रवृत्त्यभावो निमित्ताभावे नैमित्तिकाभावन्यायेन युक्तो न तथाऽग्निहोत्रादिप्रवृत्त्यभावो युक्तः । ब्रह्मविदाऽग्निहोत्रादि न कर्तव्यमिति निषेधानुपलम्भादित्यर्थः । तत्त्वमस्यादिवाक्येनार्थान्निषिद्धमग्निहोत्रादीति मन्वानः साम्यमाह — नेत्यादिना । शास्त्रीयप्रवृत्तीनां गर्भवासादिहेतुत्वादनर्थार्थत्वमहं कर्तेत्याद्यभिमानकृतत्वेन विपरीतज्ञाननिमित्तत्वम् । एतदेव दृष्टान्तावष्टम्भेन स्पष्टयति — कलञ्जेति । काम्यानामज्ञानहेतुत्वानर्थार्थत्वाभ्यां विदुषस्तेषु प्रवृत्त्यभावो युक्तो नित्यानां तु शास्त्रमात्रप्रयुक्तानुष्ठानत्वान्नाज्ञानकृतत्वं प्रत्यवायाख्यानर्थध्वंसित्वाच्च नानर्थकरत्वमतस्तेषु प्रवृत्त्यभावो युक्तो न भवतीति शङ्कते — नन्विति । नित्यानां शास्त्रमात्रकृतानुष्ठानत्वमसिद्धमिति परिहरति — नेत्यादिना । तदेव प्रपञ्चयति — यथेति । अविद्यादीत्यादिशब्देनास्मितादिक्लेशचतुष्टयोक्तिः । तैरविद्यादिभिर्जनितेष्टप्राप्तौ तादृगनिष्टप्राप्तौ च क्रमेण रागद्वेषवतः पुरुषस्येष्टप्राप्तिमनिष्टपरिहारं च वाञ्छतस्ताभ्यामेव रागद्वेषाभ्यामिष्टं मे भूयादनिष्टं मा भूदित्यविशेषकामनाभिः प्रेरिताविशेषप्रवृत्तियुक्तस्य नित्यानि विधीयन्ते । स्वर्गकामः पशुकाम इति विशेषार्थिनः काम्यानि । तुल्यं तूभयेषां केवलशास्त्रनिमित्तत्वमित्यर्थः । किं च काम्यानां दुष्टत्वं ब्रुवता नित्यानामपि तदिष्टमुत्पत्तिविनियोगप्रयोगाधिकारविधिरूपे विशेषाभावादित्याह — न चेति । कथं तर्हि काम्यनित्यविभागस्तत्राऽऽह — कर्तृगतेनेति । स्वर्गकामः पशुकाम इति विशेषार्थिनः काम्यविधिरिष्टं मे स्यादनिष्टं मा भूदित्यविशेषकामप्रेरिताविशेषितप्रवृत्तिमतो नित्यविधिरित्युक्तमित्यर्थः । नन्वविद्यादिदोषवतो नित्यानि कर्माणीत्ययुक्तं परमात्मज्ञानवतोऽपि यावज्जीवश्रुतेस्तेषामनुष्ठेयत्वादित्याशङ्क्य श्रुतेरविरक्तविषयत्वान्मैवमित्याह — न परमात्मेति । “योगारूढस्य तस्यैव शमः कारणमुच्यते” इति स्मृतेर्ज्ञानपरिपाके कारणं कर्मोपशम एव प्रतीयते न तथा कर्मविधिरित्यर्थः । न केवलं विहितं नोपलभ्यते न संभवति चेत्याह — कर्मनिमित्तेति । यदा नासि त्वं संसारी किन्त्वकर्त्रभोक्तृ ब्रह्मासीति श्रुत्या ज्ञाप्यते तदा देवतायाः संप्रदानत्वं करणत्वं व्रीह्यादेरित्येतत् सर्वमुपमृदितं भवति । तत्कथमकर्त्रादिज्ञानवतः संभवति कर्मविधिरित्यर्थः । उपमृदितमपि वासनावशादुद्भविष्यति । ततश्च विदुषोऽपि कर्मविधिः स्यादित्याशङ्क्याऽऽह — न चेति । वासनावशादुद्भूतस्याऽऽभासत्वादात्मस्मृत्या पुनः पुनर्बाधाच्च विदुषो न कर्मप्रवृत्तिरित्यर्थः । किञ्चानवच्छिन्नं ब्रह्मास्मीति स्मरतस्तदात्मकस्य देशादिसापेक्षं कर्म निरवकाशमित्याह — नहीति । विदुषो भिक्षाटनादिवत्कर्मावसरः स्यादिति शङ्कते — भोजनादीति । अपरोक्षज्ञानवतो वा परोक्षज्ञानवतो वा भोजनादिप्रवृत्तिः नाऽऽद्यः । अनभ्युपगमात्तत्प्रवृत्तेर्बाधितानुवृत्तिमात्रत्वादग्निहोत्रादेरबाधिताभिमाननिमित्तस्य तथात्वानुपपत्तेरित्यभिप्रेत्याऽऽह — नेति । न द्वितीयः । परोक्षज्ञानिनः शास्त्रानपेक्षक्षुत्पिपासादिदोषकृतत्वात्तत्प्रवृत्तेरिष्टत्वादित्याह — अविद्यादीति । अग्निहोत्राद्यपि तथा स्यादिति चेन्नेत्याह — न त्विति । भोजनादिप्रवृत्तेरावश्यकत्वानुपपत्तिं विवृणोति — केवलेति । न तु तथेत्यादि प्रपञ्चयति — शास्त्रनिमित्तेति । तर्हि शास्त्रविहितकालाद्यपेक्षत्वान्नित्यानामदोषप्रभवत्वं भवेदित्याशङ्क्याऽऽह — दोषेति । एवं दोषकृतत्वेऽपि नित्यानां शास्त्रसापेक्षत्वात्कालाद्यपेक्षत्वमविरुद्धमित्याह — एवमिति । भोजनादेर्दोषकृतत्वेऽपि ‘चातुर्वर्ण्यं चरेद्भैक्षं’ ‘यतीनां तु चतुर्गुणम्’ (मनु ५.१३७) इत्यादिनियमवद्विदुषोऽग्निहोत्रादिनियमोऽपि स्यादिति शङ्कते — तद्भोजनादीति । विदुषो नास्ति भोजनादिनियमोऽतिक्रान्तविधित्वात् । न चैतावता यथेष्टचेष्टापत्तिः अधर्माधीनाऽविवेककृता हि सा । न च तौ विदुषो विद्येते अतोऽविद्यावस्थायामप्यसतीः यथेष्टचेष्टा विद्यादशायां कुतः स्यात् । संस्कारस्याप्यभावात् । बाधितानुवृत्तेश्च । अग्निहोत्रादेस्त्वनाभासत्वान्न बाधितानुवृत्तिरित्याह — नेति । किञ्चाविदुषां विविदिषूणामेव नियमः । तेषां विधिनिषेधगोचरत्वात् । न च तेषामप्येष ज्ञानोदयपरिपन्थी । तस्यान्यनिवृत्तिरूपस्य स्वयङ्क्रियात्वाभावात् । नापि स क्रियामाक्षिपन्ब्रह्मविद्यां प्रतिक्षिपति । अन्यनिवृत्त्यात्मनस्तदाक्षेपकत्वासिद्धेरित्याह — नियमस्येति । कर्मसु रागादिमतोऽधिकाराद्विरक्तस्य ज्ञानाधिकाराज्ञानिनो हेत्वभावादेव कर्माभावात्तस्य भोजनाद्यतुल्यात्वात्तत्त्वमादेः सर्वव्यापारोपरमात्मकज्ञानहेतोर्निवर्तकत्वेन प्रामाण्यं प्रतिपादितमुपसम्हरति — तस्मादिति । तस्य विधिरुत्पादकं वाक्यम् । तस्य निषेधवाक्यवत्तत्त्वज्ञानहेतोस्तद्विरोधिमिथ्याज्ञानध्वंसित्वादशेषव्यापारनिवर्तकत्वेन कूटस्थवस्तुनिष्ठस्य युक्तं प्रामाण्यम् । मिथ्याज्ञानध्वंसे हेत्वभावे फलाभावन्यायेन सर्वकर्मनिवृत्तेरित्यर्थः । तत्पदोपात्तं हेतुमेव स्पष्टयति — कर्मप्रवृत्तीति । यथा प्रतिषेध्ये भक्षणादौ प्रतिषेधशास्त्रवशात्प्रवृत्त्यभावस्तथा तत्त्वमस्यादिवाक्यसामर्थ्यात्कर्मस्वपि प्रवृत्त्यभावस्य तुल्यत्वात्प्रामाण्यमपि तुल्यमित्यर्थः । प्रतिषेधशास्त्रसाम्ये तत्त्वमस्यादिशास्त्रस्योच्यमाने तथैव निवृत्तिनिष्ठत्वं स्यान्न वस्तुप्रतिपादकत्वमित्याशङ्क्याऽऽह — तस्मादिति ।
प्रतिषेधो हि प्रसक्तक्रियां निवर्तयंस्तदुपलक्षितौदासीन्यात्मके वस्तुनि पर्यवस्यति । तथा तत्त्वमस्यादिवाक्यस्यापि वस्तुप्रतिपादकत्वमविरुद्धमित्यर्थः । वेदान्तानां सिद्धे प्रामाण्यवदर्थवादादीनामन्यपराणामपि संवादविसंवादयोरभावे स्वार्थे मानत्वसिद्धौ सिद्धा विशुद्ध्यादिगुणवती प्राणदेवतेति चकारार्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानमिह परीक्ष्यमाणमित्येतत्प्रसंगागतं विचारं परिसमाप्य ते ह वाचमित्यादि व्याचष्टे — ते देवा इति । अचेतनाया वाचो नियोज्यत्वं वारयति — वागभिमानिनीमिति । नियोक्तॄणां देवानामभिप्रायमाह — वाग्देवतेति । नन्वौद्गात्रं कर्म जपमन्त्रप्रकाश्या देवता निर्वर्तयिष्यति न तु वाग्देवतेति तत्राऽऽह — तामेवेति । असतो मा सद्गमयेति जपमन्त्राभिधेयां दृष्टवन्त इति पूर्वेण संबन्धः — वागाद्याश्रयं कर्तृत्वादि दर्शयतोऽर्थवादस्य प्रासंगिकं तात्पर्यमाह — अत्र चेति । आत्माश्रये कर्तृत्वादाववभासमाने तस्य वागाद्याश्रयत्वमयुक्तमित्याह — कस्मादिति । परस्य जीवस्य वा कर्तृत्वादि विवक्षितमिति विकल्प्याऽऽद्यं दूषयति — यस्मादिति । विचारदशायां वागादिसंघातस्य क्रियादिशक्तिमत्त्वात्कर्तृत्वादिस्तदाश्रयो यस्मात्प्रतीतस्तस्मात्परस्याऽऽत्मनः स्वतस्तच्छक्तिशून्यस्य न तदाश्रयत्वमित्यर्थः । किञ्चाविद्याश्रयः सर्वो व्यवहारो न तद्धीने परस्मिन्नवतरतीत्याह — तद्विषय इति । “कर्ता शास्त्रार्थवत्त्वात्” इति न्यायेन कर्तृत्वमात्मनोऽङ्गीकर्तव्यमित्याशङ्क्य ‘यथा च तक्षोभयथा’(ब्र. सू. २.३.४०) इति न्यायादौपाधिकं तस्मिन्कर्तृत्वमित्यभिप्रेत्याऽऽह — वक्ष्यति हीति । यदुक्तमविद्याविषयः सर्वो व्यवहार इति तत्र वाक्यशेषमनुकूलयति — इहापीति । इतश्च परस्मिन्नात्मनि कर्तृत्वादिव्यवहारो नास्तीत्याह — अव्याकृतात्त्विति । अनामरूपकर्मात्मकमित्यस्मादुपरिष्टात्तत्पदमध्याहर्तव्यं पृथगविद्याविषयात्क्रियाकारकफलजातादिति शेषः । मा भूत्परमात्मा कर्तृत्वाद्याश्रयो जीवस्तु स्यादिति द्वितीयमाशङ्क्याऽऽह — यस्त्विति । जीवशब्दवाच्यस्य विशिष्टस्य कल्पितत्वान्न तात्त्विकं कर्तृत्वादिकं किन्तु तद्द्वारा स्वरूपे समारोपितमिति भावः । आत्मनि तात्त्विककर्तृत्वाद्यभावे फलितमर्थवादतात्पर्यमुपसम्हरति — तस्मादिति । तात्पर्यमर्थवादस्योक्त्वा नियुक्तया वाग्देवतया यत्कृतं तदुपन्यस्यति — तथेत्यादिना । उद्गातृत्वं जपमन्त्रप्रकाश्यत्वं चाऽऽत्मनोऽङ्गीकृत्य वागुद्गाने प्रवृत्ता चेत्तया कश्चिदुपकारो देवानामुद्गानेन निर्वर्तनीयः स च नास्तीति शङ्कते — कः पुनरिति । वदनादिव्यापारे सति यः सुखविशेषसंघात्स निष्पद्यते स एव कार्यविशेष इत्याह — उच्यत इति । यो वाचीति प्रतीकमादाय व्याख्यायते कथं पुनर्वाचो वचनं चक्षुषो दर्शनमित्यादिना निष्पन्नं फलं सर्वसाधारणमित्याशङ्क्यानुभवमनुसृत्याऽऽह — सर्वेषामिति । किञ्च देवार्थमुद्गायन्त्या वाचः स्वार्थमपि किञ्चिदुद्गानमस्ति । तथा च ज्योतिष्टोमे द्वादश स्तोत्राणि तत्र त्रिषु पवमानाख्येषु स्तोत्रेषु याजमानं फलमुद्गानेन कृत्वा शिष्टेषु नवसु स्तोत्रेषु यत्कल्याणवदनसामर्थ्यं तदात्मने स्वार्थमेवाऽऽगायदित्याह — तं भोगमिति । ऋत्विजां क्रीतत्वान्न फलसंबन्धः संभवतीत्याशङ्क्याऽऽह — वाचनिकमिति । ’अथाऽऽत्मनेऽन्नाद्यमागायत्’ इति श्रुतमित्यर्थः । कल्याणवदनसामर्थ्यस्य स्वार्थत्वं समर्थयते — तद्धीति । कल्याणवदनं वाचोऽसाधारणं चेत्कस्तर्हि यो वाचीत्यादेर्विषयस्तत्राऽऽह — यत्त्विति । वाग्देवतायामसुराणामवकाशं दर्शयति — तत्रेति । स्वार्थे परार्थे चोद्गाने सतीति यावत् । कल्याणवदनस्याऽऽत्मना वाचैव संबन्धे योऽयमासंगोऽभिनिवेशः स एवावसरो देवतायास्तमवसरं प्राप्येत्यर्थः । अवसरमेव व्याकरोति — रन्ध्रमिति । अस्मानतीत्येति संबन्धः । कोऽसावसुरात्ययस्तं व्याचष्टे — स्वाभाविकमिति । तत्रोपायमुपन्यस्यति — शास्त्रेति । असुरानभिभूय केनात्मना देवाः स्थास्यन्तीति विवक्षायामाह — ज्योतिषेति । प्रजापतेर्वाचि पाप्मा क्षिप्तोऽसुरैरिति कुतोऽवगम्यते तत्राऽऽह — स यः स पाप्मेति । प्रतिषिद्धवदनमेव पाप्मेत्ययुक्तमदृष्टस्य क्रियातिरिक्तत्वाङ्गीकारादित्याशङ्क्याऽऽह — येनेति । असभ्यं सभानर्हं स्त्रीवर्णनादि । बीभत्सं भयानकं प्रेतादिवर्णनम् । अनृतमयथादृष्टवचनम् । आदिशब्दात्पिशुनत्वं गृह्यते । किमत्र प्रजापतेर्वाचि पाप्मसत्त्वे मानमुक्तं भवतीत्याशङ्क्य स एव स पाप्मेति व्याकरोति — अनेनेति । प्राजापत्यासु प्रजासु प्रतिपन्नेनासत्यवदनादिना लिङ्गेन तद्वाचि पाप्माऽनुमीयते । विमतं कारणपूर्वकं कार्यत्वाद्घटवत् । न च प्रजागतं दुरितं प्राजापत्यं तद्विना हेत्वन्तरादेव स्यात्कारणानुविधायित्वात्कार्यस्य । न च तत्कारणेऽपि परस्मिन्प्रसंगः ‘अपापविद्धम्’(ई. उ. ८) इति श्रुतेः । न च ‘न ह वै देवान्पापं गच्छति’(बृ.उ.१।५।२०)
इति श्रुतेर्न सूत्रेऽपि पापवेधस्तस्य फलावस्थस्यापापत्वेऽपि यजमानावस्थस्य तद्भावादित्यर्थः । आद्यसकाराभ्यां कारणस्थं पाप्मानमनूद्य तस्यैव कार्यस्थत्वमुच्यते । उत्तराभ्यां तु कार्यस्थं पाप्मानमनूद्य तस्यैव कारणस्थत्वमिति विभागम् ॥२॥ 【भाष्यम्】 【भाष्यम्】 वाग्देवताया जपमन्त्रप्रकाश्यत्वमुपास्यत्वञ्च नेति निर्धार्यावशिष्टपर्यायचतुष्टयस्य तात्पर्यमाह — तथैवेति । परीक्षाफलनिर्णयमाह — देवानाञ्चेति । अनुपास्यत्वे हीत्वन्तरमाह — इतरेति । इतरः कार्यकरणसंघातस्तस्मिन्नव्यापकत्वं परिच्छिन्नत्वमतश्चानुपास्यत्वं जपमन्त्राप्रकाश्यत्वञ्चेत्यर्थः । उक्तैरिन्द्रियैरनुक्तेन्द्रियाण्युपलक्षणीयानीति विवक्षित्वोपसम्हरति — एवमिति । वागादिवत्त्वगादिषु कल्पकाभावान्न पाप्मवेधोऽस्तीत्याशङ्क्याऽऽह — कल्याणेति । पाप्मभिरुपासृजन्पाप्मनाऽविध्यन्नित्यनयोरस्ति पौनरुक्त्यमित्याशङ्क्य व्याख्यानव्याख्येयभावान्नैवमित्याह — इति यदुक्तमिति ॥३ –४ –५ –६॥ संप्रति मुख्यप्राणस्य मन्त्रप्रकाश्यत्वमुपास्यत्वं च वक्तुमुत्तरवाक्यमुपादाय व्याकरोति — वागादीति । क्रमेणोपासीना इति संबन्धः वागादिषु नैराश्यानान्तर्यमथशब्दार्थः । विवक्षितार्थज्ञापकोऽसाधारणो देहतदवयवव्यापारोऽभिनयः । दोषासंसर्गिणं दोषेण संसृष्टं कर्तृमिच्छा कुतो जातेत्याशङ्क्याऽऽह — स्वेनेति । तदभ्यासानुवृत्त्या तस्य पाप्मसंसर्गकरणस्याभ्यासवशादिति यावत् । उक्तमर्थं दृष्टान्तेन स्पष्टयति — कथमित्यादिना । असुरनाशेनाऽऽसंगजनितपाप्मवियोगे हेतुमाह — असंसर्गेति । वक्ष्यमाणं सोऽग्निरभवदित्यादिनेति शेषः । वागादीनां स्थितानां नष्टानां च कुतोऽग्न्यादिरूपत्वमित्याशङ्क्याह — पूर्वमपीति । न तर्हि तेषां परिच्छेदाभिमानः स्यादित्याशङ्क्याऽऽह — स्वाभाविकेनेति । परिच्छेदाभिमानादग्न्याद्यात्माभिमानस्य बलवत्त्वं सूचयति — शास्त्रेति । न केवलमत्रोक्तानामेवासुराणामसंसर्गधर्मिप्राणाश्रयाद्विनाशः किन्तु तत्तुल्यजातीयानामपीत्यभिप्रेत्याऽऽह — किञ्चेति । वागादीनामग्न्यादिभावापत्तिवचनेन तत्संहतस्य यजमानस्य देवताप्राप्तिरासुरपाप्मध्वंसश्च फलमित्युक्तं तत्र पूर्वकल्पीययजमानस्यातिशयशालित्वाद्यथोक्तफलवत्त्वेऽपि नेदानीन्तनस्यैवमित्याशङ्क्य भवतीत्यादिश्रुतिमवतारयति — यथेति । पूर्वकल्पनाप्रकारेण पूर्वजन्मस्थो यजमानः शास्त्रप्रकाशितं वर्तमानप्रजापतित्वं प्रतिपन्नो यथेति संबन्धः । पूर्वयजमान इत्यस्य व्याख्या अतिक्रान्तकालिक इति । पुराकल्पमेव दर्शयति — एतामिति । तेनेति श्रुत्युक्तेनेत्येतत् । तेनैव विधिना श्रुतिप्रकाशितेन क्रमेण मुख्यं प्राणमात्मत्वेनोपगम्येति शेषः । सपत्नो भ्रातृव्यस्तस्य द्विषन्निति कुतो विशेषणमर्थसिद्धत्वाद्द्वेषस्येत्याशङ्क्याऽऽह — यत इति । तस्य द्वेष्टृत्वनियमे हेतुमाह — पारमार्थिकेति । अपरिछिन्नदेवतात्वमत्र पारमार्थिकमात्मस्वरूपं विवक्षितं तत्तिरस्करणकारणत्वादुक्तपाप्मनो विशेषणमर्थवदिति शेषः । ‘यदाग्नेयोऽष्टाकपाल’ इतिवद् ‘य एवं वेदे’ति प्रसिद्धार्थोपबन्धेऽपि विधिपरं वाक्यमतश्चैवं विद्यादिति विवक्षितमित्यभिप्रेत्याऽऽह —
यथोक्तमिति ॥७॥ 【भाष्यम्】 【भाष्यम्】 प्राणस्याऽऽत्मत्वादि व्यक्तीकर्तुमाख्यायिकाश्रुतिं विभजते — ते प्रजापतीति । वागादयश्चेत्प्राणमाश्रित्य फलावस्थास्तर्हि किमति प्राणं स्मरन्ति प्राप्तफलत्वादित्याशङ्क्याऽऽह — स्मरन्ति हीति । विचारफलमुपलब्धिं कथयति — लोकवदिति । तामेवोपलब्धिमाकाङ्क्षाद्वारेण विवृणोति — कथमिति । दृष्टान्तं स्पष्टयति — सर्वो हीति । तथा देवा विचार्य प्राणमास्यान्तराकाशस्थं निर्धारितवन्त इत्याह — तथेति । किमनया कथया सिद्धमित्याशङ्क्याऽऽह — यस्मादिति । उपलब्धिसिद्धेऽर्थे युक्तिं समुच्चिनोति — विशेषेति । सर्वानेव वागादीनविशेषेणाग्न्यादिभावेन प्राणः संजितवान् । न चामध्यस्थः साधारणं कार्यं निर्वर्तयति । अतो युक्तितोऽप्ययमास्यान्तराकाशे वर्तमानः सिद्ध इत्यर्थः । अयास्यत्ववदाङ्गिरसत्वं गुणान्तरं दर्शयति — अत एवेति । सर्वसाधारणत्वादेवेति यावत् । तथाऽपि कुतोऽस्याङ्गिरसत्वं साधारणेऽपि नभसि तदनुपलब्धेरित्याशङ्क्य परिहरति — कथमित्यादिना । अङ्गेषु चरमधातोः सारत्वप्रसिद्धेर्न प्राणस्य तथात्वमिति शङ्कित्वा समाधत्ते — कथं पुनरित्यादिना । कस्माच्च हेतोरित्यादिचोद्यपरिहारमुपसम्हरति — यस्माच्चेति । वाक्यार्थं प्रपञ्चयति —
आत्मा हीति ॥८॥ 【भाष्यम्】 【भाष्यम्】 फलवत्प्रधानोपास्तेरुक्तत्वात्ते होचुरित्याद्युत्तरवाक्यं गुणोपास्तिपरमित्याह — फलमिति । फलवन्तं प्रधानविधिमुक्त्वा संप्रत्याख्यायिकामेवाऽऽश्रित्य गुणविशिष्टं प्राणोपासनमाहानन्तरश्रुतिरित्यर्थः । शङ्कोत्तरत्वेन चोत्तरग्रन्थमवतारयति — कस्माच्चेति । विशुद्धत्वस्योक्तत्वाद्धेत्वन्तरं जिज्ञास्यमिति द्योतयितुं चशब्दः । करणानां कार्यस्य तदवयवानां च प्राणो यस्मादात्मा व्यापकस्तस्मात्स एवाश्रयितव्य इत्युपपत्तिनिरूपणार्थं तस्य व्यापकत्वमित्येतमर्थमाख्यायिकया दर्शयन्ती श्रुतिर्हेत्वन्तरमाहेति योजना । तच्छब्दस्तस्मादर्थे । प्राणस्य शुद्धत्वाद्व्यापकत्वाच्चोपास्यत्वमुक्तं तस्य शुद्धत्वं वागादिवदसिद्धमित्याशङ्कते — स्यान्मतमिति । शङ्कामाक्षिप्य समाधत्ते — नन्वित्यादिना । शवेन स्पृष्टिर्यस्यास्ति तेन स्पृष्टेऽपरस्तस्याशुद्धवागादिसंबन्धादशुद्धत्वाशङ्का प्राणस्योन्मिषतीत्यर्थः । तात्पर्यं दर्शयन्नुत्तरवाक्यमुत्तरत्वेनावतारयति — आहेति । नन्वत्र प्राणो वोच्यते स्त्रीलिङ्गेनार्थान्तरोक्तिप्रतीतेरित्याशङ्क्याऽऽह — यं प्राणमिति । तस्यामूर्तस्य परोक्षत्वादपरोक्षवाची च कथमेतच्छब्दो युज्यते तत्राऽऽह — सैवेति । कथं प्राणे देवताशब्दो न हि तस्य तच्छब्दत्वं प्रसिद्धमित्याशङ्क्याऽऽह — देवता चेति । यागे हि देवता कारकत्वेन गुणभूता प्रसिद्धा । तथा प्राणोऽपि द्रव्याद्यन्यत्वे सति विहितक्रियागुणत्वाद्देवतेत्यर्थः । प्राणोपास्तेर्द्विविधं फलं पापहानिर्देवताभावश्च तत्र पापहानेरेव प्रधानफलस्यात्र श्रवणाद्दुर्गुणविशिष्टप्राणोपास्तिरिह विवक्षितेति वाक्यार्थमाह — यस्मादिति । न तावत्प्राणदेवताया दूर्नामत्वं निरूढं तत्र तच्छब्दप्रसिद्धेरदर्शनान्नापि यौगिकं प्राणस्य प्रत्यग्वृत्तेर्दूरत्वाभावादित्याक्षिपति — कुतः पुनरिति । परिहरति — आहेति । कथं पाप्मसन्निधौ वर्तमानस्य ततो दूरत्वमित्याशङ्क्याऽऽह — असंश्लेषेति । उपास्ते सदा भावयतीति यावत् । ब्रह्मज्ञानादिव प्राणतत्त्वज्ञानात्फलसिद्धिसंभवे किं सदा तद्भावनयेत्याशङ्क्य भावनापर्यायोपासनशब्दार्थमाह — उपासनं नामेति । दीर्घकालादरनैरन्तर्यरूपविशेषणत्रयं विवक्षित्वाऽऽह — लौकिकेति । तस्य मर्यादां दर्शयति — यावदिति । मनुष्योऽहमितिवद्देवोऽहमिति यस्य जीवत एवाभिमानाभिव्यक्तिस्तस्यैव देहपातादूर्ध्वं तद्भावः फलतीत्यत्र प्रमाणमाह — देवो भूत्वेति ।
का देवता रूपं तवेति किन्देवतोऽसीति तद्भावो भातीत्यर्थः ॥९॥ 【भाष्यम्】 【भाष्यम्】 कथं पाप्मा मृत्युरुच्यते तत्राऽऽह — स्वाभाविकेति । अपहत्येत्यत्र पूर्ववदन्वयः । प्राणदेवता चेत्पाप्मनां हन्ति सदैव किं न हन्यादित्याशङ्क्याऽऽह — प्राणात्मेति । भवतु प्राणो वागादीनां पाप्मनोऽपहन्ता विदुषस्तु किमायातमित्याशङ्क्याऽऽह — विरोधादेवेति । अनन्ताकाशदेशत्वाद्दिशामन्ताभावाद्यत्राऽऽसामित्याद्ययुक्तमिति शङ्कते — नन्विति । शास्त्रीयज्ञानकर्मसंस्कृतो जनो मध्यदेशः प्रसिद्धस्यापि तदधिष्ठितत्वेन मध्यदेशत्वात्तत्राप्यन्त्यजाधिष्ठितदेशस्य पापीयस्त्वस्वीकारादतस्तं जनं तदधिष्ठितं च देशमवधिं कृत्वा तेनैव निमित्तेन दिशां कल्पितत्वादानन्त्याभावात्पूर्वोक्तजनातिरिक्तजनस्य तदधिष्ठितदेशस्य चान्तत्वोक्तेर्मध्यदेशादन्यो देशो दिशामन्त इत्युक्ते न काचिदनुपपत्तिरिति परिहरति — उच्यत इति । किमित्यन्त्यजनेष्वित्यधिकावापः क्रियते तत्राऽऽह — इति सामर्थ्यादिति । देशमात्रे पाप्मावस्थानानुपपत्तेरित्यर्थः । तामेवानुपपत्तिं साधयति — इन्द्रियेति । भवतु यथोक्तो दिशामन्तस्तथा च पाप्मसंसर्गोऽस्तु तथाऽपि किमायातमित्याशङ्क्य तस्य शिष्टैस्त्याज्यत्वमित्याह — तस्मादिति । निषेधद्वयस्य तात्पर्यमाह — जनशून्यमपीति । प्राणोपास्तिप्रकरणे निषेधश्रुतेस्तदुपासकेनैवायं निषेधोऽनुष्ठेयो न सर्वैरित्याशङ्क्याऽऽह — नेदित्यादिना ।
इत्थं श्रुत्युक्तं निषेधं न चेदहं कुर्यां ततः पाप्मानमनुगच्छेयं निषेधातिक्रमादिति सर्वस्य भयं जायते न प्राणोपासकस्यैव । अतः सर्वोऽपि पापाद्भीतो नोभयं गच्छेद्वाक्यं हि प्रकरणाद्बलवदित्यर्थः ॥१०॥ 【भाष्यम्】 【भाष्यम्】 कण्डिकान्तरमवतार्य वृत्तं कीर्तयति — सा वा इति । नित्यानुष्ठानात्पापहानिर्धर्मात्पापक्षयश्रुतेः । न चेदमुपासनं नित्यं नैमित्तिकं वा देवतात्मत्वकामिनो विधानात्तत्कथं पापमेवंविदो दूरे भवतीत्याक्षिपति — कथं पुनरिति । विरोधिसन्निपाते पूर्वध्वंसमावश्यकं मन्वानः समाधत्ते उच्यत इति । उक्तमेव व्यनक्ति — इन्द्रियेति । इन्द्रियाणां विषयेषु संसर्गे योऽभिनिवेशस्तेन जनितः पाप्मा परिच्छेदाभिमानोऽपरिच्छिन्ने प्राणात्मन्यात्माभिमानवतो विरुध्यते परिच्छेदापरिच्छेदयोर्विरोधस्य प्रसिद्धत्वादित्यर्थः । विरोधं साधयति — वागादीति । पाप्मनो वागादिविशेषवत्यात्मनि विशिष्टेऽभिमानहेतुत्वादाधिदैविकापरिच्छिन्नाभिमाने ध्वंसो युज्यते । दृश्यते हि चाण्डालभाण्डावलम्बिनो जलस्य गङ्गाद्यविशेषभावापत्तावपेयत्वनिवृत्तिः । ’अशुच्यपि पयः प्राप्य गङ्गां याति पवित्रताम्’ इति न्यायादित्यर्थः । यन्नैसर्गिकाज्ञानजन्यं तदागन्तुकप्रमाणज्ञानेन निवर्तते यथा रज्जुसर्पादिज्ञानं नैसर्गिकाज्ञानजन्यश्च पाप्मा तेन प्रामाणिकप्राणविज्ञानेन तद्ध्वस्तिरित्याह — स्वाभाविकेति । नन्वभिमानयोर्विरोधाविशेषाद्बाध्यबाधकत्वव्यवस्थायोगाद्द्वयोरपि मिथो बाधः स्यात्तत्राऽऽह — शास्त्रजनितो हीति । उक्तमेव पापध्वंसरूपं विद्याफलं प्रपञ्चयितुमुत्तरवाक्यमित्याह — तदेतदिति । मृत्युमपहत्य यत्राऽऽसां दिशामन्तस्तद्गमयाञ्चकारेति संबन्धः । द्विविधमुपास्तिफलं पापहानिर्देवताभावश्च । तत्र पापहानिमुपदिशता प्रासंगिकः, साधारणो निषेधो दर्शितः । संप्रति देवताभावं वक्तुमुत्तरवाक्यमिति प्रतीकोपादानपूर्वकमाह — सा वा एषेति । अथशब्दावद्योतितमर्थं कथयति — यस्मादिति । पाप्मापहन्तृत्वमनूद्यावशिष्टं भागं व्याचष्टे —
तस्मात्स एवेति ॥११॥ 【भाष्यम्】 【भाष्यम्】 सामान्योक्तमर्थं विशेषेण प्रपञ्चयति — स वै वाचमित्यादिना । कथं वाचः प्राथम्यं तदाह — उद्गीथेति । वाचो मृत्युमतिक्रान्ताया रूपं प्रश्नपूर्वकं प्रदर्शयति — तस्या इति । अनग्नेरग्नित्वविरोधं धुनीते — सा वागिति । पूर्वमपि वाचोऽग्नित्वे नोपासनालभ्यं तदग्नित्वमित्याशङ्क्याऽऽह — एतावानिति । उक्तं विशेषं विशदयति — प्रागिति ॥१२ –१३– १४– १५ ॥ वागादीनामग्न्यादिदेवतात्वप्राप्तावुपासकस्य किमायातं न हि तदेव तस्य फलमित्याशङ्क्याऽऽह — यथेति । देवतात्वप्रतिबन्धकान्पाप्मनः सर्वानपोह्योक्तवर्त्मना वागादीनामुपासकोपाधिभूतानामग्न्यादिदेवताप्त्यैव सोऽपि सदा प्राणमात्मत्वेन ध्यायन्भावनाबलाद्वैराजं पदं पूर्वयजमानवदाप्नोतीति भावः । कस्येदं फलमित्याकाङ्क्षायामुपासकं विशिनष्टि — यो वागादीति । उक्तोपासनस्य प्रागुक्तं फलमनुगुणमित्यत्र मानमाह —
तं यथेति ॥१६॥ 【भाष्यम्】 【भाष्यम्】 उपास्यस्य प्राणस्य कार्यकरणसंगातस्य विधारकत्वं नाम गुणान्तरं वक्तुमुत्तरवाक्यम् , तदादाय व्याकरोति — अथेत्यादिना । कथमुद्गातुर्विक्रीतस्य फलसंबन्धस्तत्राऽऽह — कर्तुरिति । अन्नागानमार्त्विज्यमित्यत्र प्रश्नपूर्वकं वाक्यशेषमनुकूलयति — कथमित्यादिना । तमेव हेतुमाह — यस्मादिति । प्राणेनैव तदद्यत इति संबन्धः । यस्मादित्यस्य तस्मादित्यादिभाष्येणान्वयः । अनितेर्धातोरनशब्दश्चेत्प्राणपर्यायस्तर्हि कथं शकटे तच्छब्दप्रयोगस्तत्राऽऽह — अनःशब्द इति । इतश्च प्राणस्य स्वार्थमन्नागानं युक्तमित्याह — किञ्चेति । प्राणेन वागादिवदात्मार्थमन्नमागीतं चेत्तर्हि तस्यापि पाप्मवेधः स्यादित्याशङ्क्याऽऽह — यदपीति ।
इहान्ने देहाकारपरिणते प्राणस्तिष्ठति तदनुसारिणश्च वागादयः स्थितिभाजोऽतः स्थित्यर्थं प्राणस्यान्नमिति न पाप्मवेधस्तस्मिन्नस्तीत्यर्थः ॥१७॥ 【भाष्यम्】 【भाष्यम्】 भर्ता श्रेष्ठः पुरो गन्तेत्यादिगुणविधानार्थं वाक्यान्तरमादत्ते — ते देवा इति । तस्य विवक्षितमर्थं वक्तुमादावाक्षिपति — नन्विति । अयुक्तत्वे हेतुमाह — वागादीनामिति । अवधारणानुपपत्तिं दूषयति — नैष दोष इति । यथा प्राणस्योपकारोऽन्नकृतो न वागादिद्वारकस्तथा तेषामपि नासौ प्राणद्वारको विशेषाभावादिति शङ्कते — कथमिति । वाक्येन परिहरति — एतमर्थमिति । आह विशेषमिति शेषः । तेषां देवत्वं साधयति — स्वविषयेति । तत्र प्रसिद्धं प्रमाणयितुं वैशब्द इत्याह — वा इति । स्मरणार्थ इति । तत्प्रसिद्धस्यार्थस्येति शेषः । वाक्यार्थमाह — इदं तदिति । एतावत्त्वमेव व्याचष्टे — तत्सर्वमिति । किमिदं प्राणार्थमन्नागानं नाम तदाह — आगानेनेति । का पुनरेतावता भवतां क्षतिस्तत्राऽऽह — वयञ्चेति । अन्नमन्तरेण ममापि स्थातुमशक्तेर्मददर्थं तदागीतमिति चेत्तत्राह — अत इति । आभजस्वेति श्रूयमाणे कथमन्यथा व्याख्यायते तत्राऽऽह — णिच इति । तवैवान्नस्वामित्वमस्माकमपि तत्र प्रवेशमात्रं स्थित्यर्थमपेक्षितमिति वाक्यार्थमाह — अस्मांञ्चेति । वैशब्दो यद्यर्थे प्रयुक्तः । प्राणं परिवेष्ट्य तदनुज्ञया वागादीनामन्नार्थिनामवस्थानं चेत्तेषामपि प्राणवदन्नसंबन्धः स्यादित्याशङ्क्याऽऽह — तथेति । त्यक्तप्राणस्यान्नबलाद्वागादिस्थित्यनुपलब्धेरित्यर्थः । वागादीनामन्नजन्योपकारस्य प्राणद्वारत्वे सिद्धे फलितमाह — तस्मादिति । तेषामन्नकृतोपकारस्य प्राणद्वारकत्वे वाक्यशेषं संवादयति — तदेवेति । विद्याफलं दर्शयन्गुणजातमुपदिशति — वागादीति । वेदनमेव व्याचष्टे — वागादयश्चेति । स च प्राणोऽहमस्मीति वेदेति चकारार्थः । अनामयावी व्याधिरहितो दीप्ताग्निरिति यावत् । संप्रति प्राणविद्यां स्तोतुं तद्विद्यावद्विद्वेषिणो दोषमाह — किञ्चेति । इदानीं प्राणविदं प्रत्यनुरागे लाभं दर्शयति — अथेत्यादिना । ते देवा अब्रुवन्नित्यादौ गुणविधिर्विवक्षितो न विशिष्टविधिर्गुणफलस्यैवात्र श्रवणादित्याह — सर्वमेतदिति । उत्तरग्रन्थस्य व्यवहितेन संबन्धं वक्तुं व्यवहितमनुवदति — कार्यकारणानामिति । अनन्तरग्रन्थमवतारयति — अस्मादिति । किमित्यङ्गिरसत्वसाधको हेतुः साधनीयस्तत्राऽऽह —
तद्धेत्विति ॥१८॥ 【भाष्यम्】 【भाष्यम्】 तर्हि यदुपपादनीयं तदुच्यतां किमित्युक्तस्य पुनरुक्तिरित्याशङ्क्याऽऽह — उत्तरार्थमिति । प्रतिज्ञानुवादो वक्ष्यमाणहेतोरुपयोगीत्यर्थः । यथोपन्यस्तमेवेत्यादि प्रपञ्चयति — प्राणो वा इति । उक्तार्थनिर्णयहेतुं पृच्छति — कथमिति । तत्र प्रसिद्धिं हेतुं कुर्वन्परिहरति — प्राणो हीति । प्रसिद्धिमेव प्रकटयति — प्रसिद्धिमिति । स्मारणं प्रसिद्धस्याऽऽङ्गिरसत्वस्येति शेषः । प्रसिद्धिरसिद्धेति शङ्कते — कथमिति । तामन्वयव्यतिरेकाभ्यां साधयति — अत आहेति । पदार्थमुक्त्वा वाक्यार्थमाह — यस्मात्कस्मादिति । उक्तेन व्यतिरेकेणानुक्तमन्वयं समुच्चेतुं चशब्दः । तस्माच्छब्दस्योपरिभावेन संबन्धमुक्तं स्फुटयति — तस्मादिति । अन्वयव्यतिरेकाभ्यामङ्गरसत्वे प्राणस्य सिद्धे फलितमाह — अत इति । उक्तन्यायादङ्गरसत्वे सिद्धेऽपि कथमात्मत्वं सिध्येदित्याशङ्क्याऽऽह — आत्मेति । अस्तु प्राणः संघातस्याऽऽत्मा तथाऽपि किं स्यात्तदाह — तस्मादिति । भवतु प्राणाधीनं संघातस्य जीवनं तथाऽपि कथं तस्यैवोपास्यत्वमित्याशङ्क्याऽऽह —
तस्मादपास्येति ॥१९॥ 【भाष्यम्】 【भाष्यम्】 संप्रत्यव्यवहितं संबन्धं दर्शयति — अनन्तरं चेति । प्रकारान्तरं बुभुत्स्यमानमिति सूचयितुं चशब्दः । ‘बृहस्पतिर्देवानां पुरोहित आसीत्’(जैमिनीयब्रा.०१-१२५) इति श्रुतेर्देवपुरोहितो बृहस्पतिरुच्यते तत्कथं प्राणस्य बृहस्पतित्वमिति शङ्कते — कथमिति । देवपुरोहितं व्यावर्तयितुमुत्तरवाक्येनोत्तरमाह — उच्यत इति । प्रसिद्धवचनं कथमित्याशङ्क्याऽऽह — बृहतीछन्द इति । सप्त हि गायत्र्यादीनि प्रधानानि च्छन्दांसि तेषां मध्यमं छन्दो बृहतीत्युच्यते । सा च बृहती षट्त्रिंशदक्षरा प्रसिद्धेत्यर्थः । भवतु यथोक्ता बृहती तथाऽपि कथम् ‘वाग्वै बृहती’(श.ब्रा.१४.४.१.२२) इत्युक्तं तत्राऽऽह — अनुष्टुप् चेति । द्वात्रिंशदक्षरा तावदनुष्टुबिष्टा, सा चाष्टाक्षरैश्चतुर्भिः पादैः षट्त्रिंशदक्षरायां बृहत्यामन्तर्भवत्यवान्तरसंख्याया महासंख्यायामन्तर्भावादित्याह — सा चेति । वागनुष्टुभोरनुष्टुब्बृहत्योश्चोक्तमैक्यमुपजीव्य फलितमाह — अत इति । भवतु वागात्मिका बृहती तथाऽपि तत्पतित्वेन प्राणस्य कथमृक्पतित्वमित्याशङ्क्याऽऽह — बृहत्यां चेति । सर्वात्मकप्राणरूपेण बृहत्याः स्तुतत्वात्तत्र सर्वासामृचामन्तर्भावः संभवति, तस्मात्प्राणस्य बृहस्पतित्वे सिद्धमृक्पतित्वमित्यर्थः । प्राणरूपेण स्तुता बृहतीत्यत्र प्रमाणमाह — प्राणो बृहतीति । तथाऽपि प्राणस्य विवक्षितमृगात्मत्वं कथं सिद्ध्यतीत्याशङ्क्याऽऽह — प्राण इति । तस्य तदात्मत्वे हेत्वन्तरमाह — वागात्मत्वादिति । तासां तदात्मत्वेऽपि कथं प्राणेऽन्तर्भावो न हि घटो मृदात्मा पटेऽन्तर्भवतीति शङ्कते — तत्कथमिति । प्राणस्य वाङ्निष्पादकत्वात्तद्भूतानामृचां कारणे प्राणे युक्तोऽन्तर्भाव इत्याह — आहेत्यादिना । प्राणस्य तन्निर्वर्तकत्वेऽपि न तस्मिन्वाचोऽन्तर्भावो न हि घटस्य कुलालेऽन्तर्भावो न हि घटो मृदात्मा पटोऽन्तर्भवतीति शङ्कते — तत्कथमिति । प्राणस्य वाङ्निष्पादकत्वात्तद्भूतानामृचां कारणे प्राणे युक्तोऽन्तर्भाव इत्याह — आहेत्यादिना । प्राणस्य तन्निर्वर्तकत्वेऽपि न तस्मिन्वाचोऽन्तर्भावो न हि घटस्य कुलालेऽन्तर्भाव इत्याशङ्क्याऽऽह — कौष्ठ्येति । कोष्ठनिष्ठेनाग्निना प्रेरितस्तद्गतो वायुरूर्ध्वं गच्छन्कण्ठादिभिरभिहन्यमानो वर्णतया व्यज्यते तदात्मिका च वाङ्निर्णीता देवताधिकरण ऋक्च वागात्मिकोक्ता तद्युक्तं तस्याः प्राणेऽन्तर्भूतत्वमित्यर्थः । ऋगात्मत्वं प्राणस्य प्रकारान्तरेण साधयति — पालनाद्वेति । सत्ताप्रदत्वे सति स्थापकत्वं तादात्म्यव्याप्तमित्यभिप्रेत्योपसंहरति —
तस्मादिति ॥२०॥ 【भाष्यम्】 【भाष्यम्】 यजुषामात्मेति पूर्वेण संबन्धः । बृहस्पत्यादिधर्मकं प्राणोपासनं वक्तुं वाक्यान्तरमवतारयति — एष इति । तस्य विधान्तरेण तात्पर्यामाह — न केवलमिति । कार्यं स्थूलशरीरं प्रत्यक्षतो निरूप्यमाणं रूपात्मकं करणं च ज्ञानक्रियाशक्तिमत्कर्मभूतं तयोरात्मा प्राण इत्युक्त्वा नामराशेरपि तथेति वक्तुं कण्डिकाचतुष्टयमित्यर्थः । किमिति प्राणस्याऽऽत्मत्वेन सर्वात्मत्वोक्त्या स्तुतिरित्याशङ्क्याऽऽह — उपास्यत्वायेति । उशब्दोऽप्यर्थो बृहस्पतिशब्दादुपरि संबध्यते । नियतपादाक्षराणामृचां प्राणत्वे कुतस्तद्विपरीतानां यजुषां तत्त्वमिति शङ्कित्वा परिहरति — कथमिति । तथाऽपि कथं प्राणो यजुषामात्मेत्याशङ्क्याऽऽह — वग्वै ब्रह्मेति । निर्वर्तकत्वं पालयितृत्वं चात्रापि तुल्यमित्याह — पूर्ववदिति । रूढिमाश्रित्य शङ्कते — कथं पुनरिति । वाक्यशेषविरोधान्नात्र रूढिः संभवतीति परिहरति — उच्यत इति । वाग्वै सामेत्यन्ते वाचः सामसामानाधिकरण्येन निर्देशाद्वेदाधिकारोऽयमिति योजना । तथाऽपि कथमृक्त्वं यजुष्ट्वं वा बृहतीब्रह्मणोरिति तत्राऽऽह — तथा चेति । परिशेषमेव दर्शयति — साम्नीति । इतश्च वाक्समानाधिकृतयोर्बृहतीब्रह्मणोरृग्यजुष्ट्वमेष्टव्यमित्याह — वाग्विशेषत्वाच्चेति । तत्रैव हेत्वन्तरमाह — अविशेषेति । प्रसंगमेव व्यतिरेकमुखेन विवृणोति — सामेति । द्वितीयश्चकारोऽवधारणार्थः । किञ्च वाग्वै बृहती वाग्वै ब्रह्मेति वाक्याभ्यां बृहतीब्रह्मणोर्वागात्मत्वं सिद्धं ; न च तयोर्वाङ्मात्रत्वं वाक्यद्वयेऽपि वाग्वै वागिति पौनरुक्त्यप्रसंगात्तस्माद्बृहतीब्रह्मणोरेष्टव्यमृग्यजुष्ट्वमित्याह — वाङ्मात्रत्वे चेति । तत्रैव स्थानमाश्रित्य हेत्वन्तरमाह —
ऋगिति ॥२१॥ 【भाष्यम्】 【भाष्यम्】 ऋग्यजुष्ट्वं प्राणस्य प्रतिपाद्य तस्यैव सामत्वं साधयति — एष इत्यादिना । तदेव स्पष्टयति — सर्वेति । साशब्दो हि सर्वनाम । तथा च यः स्त्रीलिङ्गः सर्वशब्दस्तेनाभिधेयं वस्तु वागित्यर्थः । अमः प्राण इत्युक्तमुपपादयति — सर्वपुंशब्देति । पुंलिङ्गेन सर्वेण शब्देनाभिधेयं वस्तु प्राण इत्यर्थः । तत्र श्रुत्यन्तरं प्रमाणयति — केनेति । आचार्यस्य शिष्यं प्रत्येतद्वाक्यम् । पौंस्नानि पुंसो वाचकानि । तथाऽपि कस्य सामशब्दवाच्यत्वमित्याशङ्क्य फलितमाह — वागिति । वागुपसर्जनः प्राणः सामशब्दाभिधेय एकवचननिर्देशादित्यर्थः । ननु ‘गीतिषु सामाख्ये’ति न्यायाद्विशिष्टा काचिद्गीतिः सामेत्युच्यते तत्कुतो वागुपसर्जनस्य प्राणस्य सामत्वमत आह — तथेति । प्राणस्य सामत्वे सतीति यावत् । प्रगीते मन्त्रवाक्ये सामशब्दस्य वृद्धैरिष्टत्वादस्ति प्राणादिव्यतिरेकेण सामेत्याशङ्क्याऽऽह — स्वरेति । आदिपदेन पदवाक्यादिग्रहः । वागुपसर्जने प्राणे मुख्यः सामशब्दस्तत्संबन्धादितरत्र गौणौ मञ्चादिशब्दवदित्यर्थः । उक्तेऽर्थे तत्साम्नः सामत्वमिति वाक्यं योजयति — यस्मादिति । इदं सामेदं सामेति यद्व्यवह्रियते तद्वाक्प्राणात्मकमेवोच्यते सा चामश्चेति व्युत्पत्तेर्यस्मादेवं तस्मात्प्रसिद्धस्य साम्नो यत्सामत्वं तन्मुख्यसामनिर्वर्त्यत्वाद्गौणमेव सदध्येतृव्यवहारे प्रसिद्धमिति योजना । प्रकारान्तरेण प्राणस्य सामत्वमुपासनार्थमुपन्यस्यति — यदित्यादिना । प्रकारान्तरद्योती वाशब्दोऽत्र न श्रूयत इत्याशङ्क्याऽऽह — वाशब्द इति । निमित्तान्तरमेव प्रश्नपूर्वकं प्रकटयति — केनेत्यादिना । ननु प्राणस्य तत्तच्छरीरपरिमाणत्वे परिच्छिन्नत्वादानन्त्यानुपपत्तिस्तत्कथमस्य विरुद्धेषु शरीरेषु समत्वमित्याशङ्क्याऽऽह — पुत्तिकादीति । समशब्दस्य यथाश्रुतार्थत्वं किं न स्यादित्याशङ्क्याऽऽह — न पुनरिति । आधिदैविकेन रूपेणामूर्तत्वं सर्वगतत्वं च द्रष्टव्यम् । ननु प्रदीपो घटे संकुचति प्रासादे च विकसति तथा प्राणोऽपि मशकादिशरीरेषु संकोचमिभादिदेहेषु विकासं चाऽऽपद्यतामिति समत्वासिद्धिरित्याशङ्क्याऽऽह — न चेति । प्राणस्य सर्वगतत्वे समत्वश्रुतिविरोधमाशङ्क्याऽऽह — सर्वगतस्येति । खण्डादिषु गोत्ववच्छरीरेषु सर्वत्र स्थितस्य प्राणस्य तत्तच्छरीरपरिमाणाया वृत्तेर्लाभः । संभवति सर्वगतस्यैव नभसस्तत्र तत्र कूपकुम्भाद्यवच्छेदोपलम्भादित्यर्थः । फलश्रुतिमवतार्य व्याकरोति — एवमिति । फलविकल्पे हेतुमाह — भावनेति । वेदनं व्याकरोति — आ प्राणेति ।
इदञ्च फलं मध्यप्रदीपन्यायेनोभयतः संबन्धमवधेयम् ॥२२॥ 【भाष्यम्】 【भाष्यम्】 प्रस्तावादिशब्दवदुद्गीथशब्दस्यापि भक्तिविशेषे रूढत्वाद्दुगीथेनात्ययामेत्यत्र चौद्गात्रे कर्मणि प्रयुक्तत्वात्कथमुद्गीथः प्राण इत्याशङ्क्याऽऽह — उद्गीथो नामेति । नञ्पदस्योभयतः संबन्धः । सामशब्दितस्य प्राणस्य प्रकृतत्वादिति हेतुमाह — सामाधिकारादिति । न तावदुद्गीथशब्दस्य प्राणे रूढिस्तस्य तस्मिन्वृद्धप्रयोगादर्शनान्नापि योगोऽवयववृत्तेरदृष्टेरिति शङ्कते — कथमिति । योगवृत्तिमुपेत्य परिहरति — प्राण इति । उच्छब्दो नास्यार्थस्य वाचको निपातत्वादित्याशङ्क्याऽऽह — उत्तब्धेति । तथाऽपि कथं प्राणो वा उदित्युक्तं तत्राऽह — प्राणेति । ’वायुर्वै गौतम तत्सूत्रम्’ इत्यादिश्रुतेरित्यर्थः । उद्गीथभक्तेः शब्दविशेषत्वेऽपि गीथा वागिति कथमुच्यते तत्राऽऽह — गायतेरिति । अथावधारणं साधयति — न हीति । तथाऽति कथं प्राणस्योद्गीथत्वमित्याशङ्क्य वागुपसर्जनस्य तस्य तथात्वं कथयति —
उच्चेति ॥२३॥ 【भाष्यम्】 【भाष्यम्】 क्रियापदनिष्पत्तिप्रकारं सूचयति — तोरिति । तुप्रत्ययस्यायमाशिषि विषये तातङादेशः ‘तुह्योस्तातङाशिष्यन्यतरस्याम्’(पा.सू. ७।१।३५.) इति स्मरणादित्यर्थः । मूर्धपातप्रापकं दर्शयति — यदीति । अनृतवादित्वस्य प्रापकाभावादप्राप्तिरिति शङ्कते — कथं पुनरिति । उद्गानस्य बुद्ध्यादिसन्निधानात्तद्देवता प्रजापत्यादिलक्षणा किं तस्मिन्देवता किंवा वर्णस्वरादिसन्निधानात्तद्देवतैव तत्र देवतेति विप्रतिपत्तेरनृतवादित्वे शङ्किते ब्रह्मदत्तः शपथेन निर्णयं चकारेत्याह — उच्यत इति । प्राणाद्वाक्संयुक्तादन्येनायास्यो यद्युदगायदिति संबन्धः । नन्वयास्याङ्गिरसशब्दवाच्यो मुख्यप्राणो देवतात्वान्नोद्गाता भवितुमुत्सहते तत्राऽऽह — मुख्येति । उक्तार्थदार्ढ्यायेत्युक्तमुपसम्हरति — इति विज्ञान इति । उक्तरीत्या शपथक्रियया प्राण एवोद्गीथदेवतेत्यस्मिन्विज्ञाने प्रत्ययो विश्वासस्तस्य यद्दार्ढ्यं तस्य कर्तव्यत्वमाख्यायिकया दर्शयति श्रुतिरिति यावत् । आख्यायिकार्थस्यैव वाचेत्यादिनोक्तेः पौनरुक्त्यमित्याशङ्क्याऽऽह — तमिममिति ।
शपथस्य स्वातन्त्र्येणाप्रामाण्येऽपि श्रुतिमूलतया प्रामाण्यं सिद्ध्यतीति भावः ॥२४॥ 【भाष्यम्】 【भाष्यम्】 तद्धापीत्यादिवाक्यस्य प्रकृतानुपयोगमाशङ्क्याऽऽह — उक्तार्थेति । उद्गीथदेवता प्राणो न वागादिरित्युक्तार्थः । ‘जीवति तु वंशे युवा’(पा.सू. ४.१.१६३) इति स्मरणात्पित्रादौ वंश्ये जीवति पौत्रप्रभृतेर्यदपत्यं तद्युवसंज्ञकमिति द्रष्टव्यम् । उद्गीथदेवता प्राण एवेति निर्धार्य स्वसुवर्णप्रतिष्ठागुणविधानार्थमुत्तरकण्डिकात्रयमवतारयति — तस्येत्यादिना । किमित्यादौ फलमभिलप्यते तत्राऽऽह — फलेनेति । सौस्वर्यं स्म् भूषणमित्यत्रानुभवमनुकूलयति — तेन हीति । कथं तर्हि कण्ठगतं माधुर्यं संपादनीयमित्याशङ्क्याऽऽह — यस्मादिति । प्राणोऽहं ममैव गीतिभावमापन्नस्य सौस्वर्यं धनमिति प्रकृते प्राणविज्ञाने गुनविधिर्विवक्षितश्चेत्किमित्युद्गातुरन्यत्कर्तव्यमुपदिश्यत इत्याशङ्क्य दृष्टफलतयेत्याह — इदं त्विति । अथेच्छायां कर्तव्यत्वेन विहितायां तावन्मात्रे सिद्धेऽपि कथं सौस्वर्यं सिध्येन्नहि स्वर्गकामनामात्रेण स्वर्गः सिध्यत्यत आह — साम्न इति । तस्य सुस्वरत्वेन तच्छब्दितस्य प्राणस्योपासकात्मकस्य स्वरवत्त्वप्रत्यये कार्ये सति विहितेच्छामात्रेण साम्नः न सौस्वर्यं भवतीत्यस्मात्सामर्थ्याद्दन्तधावनादि कर्तव्यमित्येतदत्र विधित्सितमिति योजना । सौस्वर्यस्य सामभूषणत्वे गमकमाह — तस्मादिति । दृष्टान्तमनन्तरवाक्यावष्टम्भेन स्पष्टयति — प्रसिद्धं हीति । भवति हास्य स्वमिति प्रागेवोक्तत्वादनर्थिका पुनरुक्तिरित्याशङ्क्याऽऽह —
सिद्धस्येति ॥२५॥ 【भाष्यम्】 【भाष्यम्】 साम्नो गुणान्तरमवतारयति — अथेति । तर्हि पुनरुक्तिः स्यात्तत्राऽऽह — एतावानिति । लाक्षणिकं कण्ठ्योऽयं वर्णो दन्त्योऽयमिति लक्षणज्ञानपूर्वकं सुष्ठु वर्णोच्चारणं ममैव सामशब्दितप्राणभूतस्य धनमिति यावत् । लाक्षणिकसौस्वर्यगुणवत्प्राणविज्ञानवतो यथोक्तफललाभे हेतुमाह — सुवर्णशब्देति । वाक्यार्थमाह — लौकिकमेवेति । फलेन प्रलोभ्याभिमुखीकृत्य किं तत्सुवर्णमिति शुश्रूषवे ब्रूते — तस्येति । गुणविज्ञानफलमुपसम्हरति — भवतीति ।
साम्नस्तच्छब्दवाच्यस्य प्राणस्य स्वरूपभूतस्येति यावत् ॥२६॥ 【भाष्यम्】 【भाष्यम्】 उपास्यस्य प्रतिष्ठागुणत्वेऽपि कथमुपासकस्य तद्गुणत्वं तत्राऽऽह — तं यथेति । आदिपदादुरःशिरःकण्ठदन्तौष्ठनासिकातालूनि गृह्यन्ते । किमित्यष्टौ स्थानानि वागित्युच्यन्ते तत्राऽऽह — वाचि हीति । पक्षान्तरमाह — अन्न इति । अन्नशब्देन तत्परिणामो देहो गृह्यते । एकीयपक्षे युक्तिमाह — इहेति । कथं तर्हि प्रतिष्ठागुणस्य प्राणस्य विज्ञानं कर्तव्यमत आह —
अनिन्दितत्वादिति ॥२७॥ 【भाष्यम्】 【भाष्यम्】 अथातः पवमानानामित्यादिवाक्यमवतारयति — एवमिति । तत्राथशब्दं व्याचष्टे — यद्विज्ञानवत इति । अतःशब्दार्थमाह — यस्माच्चेति । इहेति प्राणविदुक्तिः । कदा तर्हि जपकर्म कर्तव्यं तत्राऽऽह — तस्येति । उद्गीथेनात्ययाम त्वं न उद्गायेति च प्रकरणादुद्गीथेन संबन्धाज्जपस्य सर्वत्रोद्गानकाले प्राप्तौ पवमानानामेवेति वचनात्कालनियमसिद्धिरित्यर्थः । स वै खल्वित्यादिवाक्यतात्पर्यमाह — पवमानेष्विति । ननु कर्तव्यत्वेनाभ्यारोहः श्रूयते जपकर्म विधित्सितमिति चोच्यते किं केन संगतमित्याशङ्क्याऽऽह — अस्य चेति । अभ्यारोहशब्दस्य न तत्र रूढिर्वृद्धप्रयोगाभावादित्याशङ्क्याऽऽह — आभिमुख्येनेति । यजुर्मन्त्राणामनियतपादाक्षरत्वादसतो मा सद्गमयेत्यारभ्यैको वा द्वौ वा मन्त्रावित्याशङ्क्याऽऽह — एतानीति । यद्यमी याजुषा मन्त्रास्तर्हि मान्त्रेण स्वरेण वैभाषिकग्रन्थोक्तेन भाव्यमित्याशङ्क्याऽऽह — द्वितीयेति । यत्र स्वरो विवक्षितस्तत्र तृतीयानिर्देशो दृश्यते । ‘उच्चैरृचा क्रियत उच्चैः साम्नोपांशु यजुषा’(मै.सं.३.६.) इति । प्रकृते तु द्वितीयानिर्देशाज्जपकर्ममात्रं प्रतीयते मान्त्रस्तु स्वरो न प्रतिभातीत्यर्थः । केन तर्हि स्वरेण प्रयोगो मन्त्राणामिति चेत्तत्राऽऽह — ब्राह्मणेति । भवतु शातपथेन स्वरेण मन्त्राणां प्रयोगस्तथाऽपि किमार्त्विज्यं किंवा याजमानं जपकर्मेति वीक्षायामाह — याजमानमिति । व्याचिख्यासितयजुषां स्वरूपं दर्शयति — एतानीति । मन्त्रार्थशब्देन पदार्थो वाक्यार्थस्तत्फलं चेति त्रयमुच्यते । लौकिकं तमो व्यावर्तयति — सर्वं हीति । पूर्वोक्तपदेन व्याख्यातं तमो गृह्यते । वैपरीत्ये हेतुमाह — प्रकाशात्मकत्वादिति । ज्ञानं तेन साध्यमिति यावत् । पदार्थोक्तिसमाप्तावितिशब्दः । उत्तरवाक्याभ्यां वाक्यार्थस्तत्फलं चेति द्वयं क्रमेणोच्यत इत्याह — पूर्ववदिति । फलवाक्यमादाय पूर्वस्माद्विशेषं दर्शयति — अमृतमिति । प्रथमद्वितीयमन्त्रयोरर्थभेदाप्रतीतेः पुनरुक्तिमाशङ्क्यावान्तरभेदमाह — पूर्वो मन्त्र इति । तथाऽपि तृतीये मन्त्रे पुनरुक्तिस्तदवस्थेत्याशङ्क्याऽऽह — पूर्वयोरिति । वृत्तमनूद्योत्तरवाक्यमवतार्य व्याचष्टे — याजमानमिति । यथा प्राणस्त्रिषु पवमानेषु साधारणमागानं कृत्वा शिष्टेषु स्तोत्रेषु स्वार्थमागानमकरोत्तथेत्याह — प्राणविदिति । तद्विदोऽपि तद्वदागाने योग्यतामाह — प्राणभूत इति । हेतुवाक्यमादौ योजयति — यस्मादिति । प्रतिज्ञावाक्यं व्याचष्टे — तस्मादिति । किमिति व्यत्यासेन वाक्यद्वयव्याख्यानमित्याशङ्क्यार्थाच्चेति न्यायेन पाठक्रममनादृत्येति परिहरति — यस्मादित्यादिना । स एष एवंविदुद्गाताऽऽत्मने यजमानाय वा यं कामं कामयते तमागानेन साधयति यस्मादिति हेतुग्रन्थस्तस्मादिति प्रतिज्ञाग्रन्थात्प्रागेव संबध्यत इति योजना । वृत्तं कीर्तयति — एवं तावदिति । तत्र कर्मसमुच्चिते ज्ञाने देवताप्तौ शङ्कासंभवो नास्ति मिथः सहकृतयोर्ज्ञानकर्मणोस्तदाप्तिहेतुत्वादित्याह — तत्रेति । समनन्तरं वाक्यमवतारयति — अत इति । समुच्चयात्फलाप्तेर्दृष्टत्वादिति यावत् । न हेत्यादिना पदानि छिन्दन्वाक्यमादाय व्याकरोति — अलोकार्हत्वायेति । तदेव स्फुटयति — न हीति । तत्र दृष्टान्तमाह — न हीति । दृश्यमानमाशंसनं तर्हि कस्मिन्विषये स्यादित्याशङ्क्याऽऽह — असन्निकृष्टेति । प्राणात्मना व्यवस्थितस्य विदुषस्तदात्मभावं कदाचिदहं न प्रपद्येयमित्याशंसनं नास्तीति निगमयति — तस्मादिति । कर्मसमुच्चितादुपासनात्केवलाच्च प्राणात्मत्वं फलमुक्तं तत्र समुच्चितादुद्गातुर्यजमानस्य वा फलं केवलाच्चोपासनात्तयोरन्यतरस्यान्यस्य वा कस्यचिदिति जिज्ञासमानः शङ्कते — कस्येति । ज्ञानकर्मणोरुभयत्र समभावादुभयोरपि वचनात्फलसिद्धिः । आश्रमान्तरविषयं तु केवलज्ञानस्य लोकजयहेतुत्वमित्यभिप्रेत्याऽऽह — य एवमिति । एवंशब्दस्य प्रकृतपरामर्शित्वात्पूर्वोक्तं सर्वं वेद्यस्वरूपं संक्षिपति — अहमस्मीत्यादिना । तस्य वागादिभ्यो विशेषं दर्शयति — इन्द्रियेति । किमिदानीं प्राणस्यैवोपास्यतया वागादिपञ्चकमुपेक्षितमिति नेत्याह — वागादीति । तस्य प्राणाश्रयत्वेऽपि कुतो देवतात्वमासंगपाप्मविद्धत्वादित्याशङ्क्याऽऽह — स्वाभाविकेति । अन्नकृतोपकारं प्राणद्वारा वागादौ स्मारयति — सर्वेति । रूपकर्मात्मके जगति प्राणस्य स्वरूपमनुसन्धत्ते — आत्मा चेति । नामात्मके जगति प्राणस्याऽऽत्मत्वमुक्तं स्मारयति — ऋगिति । सति सामत्वे गीतिभावावस्थायां प्राणस्योक्तं बाह्यमान्तरं च सौस्वर्यं सौवर्ण्यमिति गुणद्वयमनुवदति — ममेति । तस्यैव वैकल्पिकीं प्रतिष्ठामुक्तामनुस्मारयति — गीतीति । य एवमित्यादिनोक्तं परामृशति — एवङ्गुणोऽहमिति । इत्येवमभिमानाभिव्यक्तिपर्यन्तं यो ध्यायति तस्येदं फलमित्युपसम्हरति —
इतीति ॥२८॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणान्तरमवतार्य पूर्वेण संबन्धं वक्तुं वृत्तं कीर्तयति — आत्मैवेत्यादिना । केवलप्राणदर्शनेन च प्रजापतित्वप्राप्तिर्व्याख्यातेति संबन्धः । इदानीमात्मेत्यादेस्तद्धेदमित्यतः प्राक्तनग्रन्थस्याऽऽपाततस्तात्पर्यमाह — प्रजापतेरिति । आदिपदेन सर्वात्मत्वादि गृह्यते । फलोत्कर्षोपवर्णनं कुत्रोपयुज्यते तत्राऽऽह — तेन चेति । कर्मकाण्डपदेन पूर्वग्रन्थोऽपि संगृहीतः । फलातिशयो हेत्वतिशयापेक्षोऽन्यथाऽऽकस्मिकत्वापातादतो ज्ञानकर्मफलभूतसूत्रविभूतिरुच्यमाना ज्ञानकर्मणोर्महत्त्वं दर्शयतीत्याह — सामर्थ्यादिति । आपातिकं तात्पर्यमुक्त्वा परमतात्पर्यमाह — विवक्षितं त्विति । किञ्च विमतं संसारान्तर्भूतं कार्यकरणात्मत्वादस्मदादिकार्यकरणवदित्याह — कार्येति । प्राजापत्यपदस्य संसारान्तर्भूतत्वे हेत्वन्तरमाह — स्थूलेति । स्थूलत्वं साधयति — व्यक्तेति । अनित्यत्वाद्दृश्यत्वाच्च प्रजापतित्वं संसारान्तर्गतमित्याह — अनित्येति । इतिशब्दो विवक्षितार्थसमाप्त्यर्थः । किमित्येतद्विवक्षितमुपवर्ण्यते तत्राऽऽह — ब्रह्मविद्याया इति । तच्चेदं विवक्षितार्थवचनमेकाकिन्या विद्याया वक्ष्यमाणाया मुक्तिहेतुत्वमित्युत्तरार्थमिति द्रष्टव्यम् । यदा हि कर्मज्ञानफलं प्रजापतित्वं संसार इत्युच्यते तदा तत्पर्यन्तात्सर्वस्मात्तस्माद्विरक्तस्य वक्ष्यमाणविद्यायामधिकारः सेत्स्यतीत्यर्थः । अथ यस्य कस्यचिदर्थितामात्रेण तत्राधिकारसंभवाद्वैराग्यं न मृग्यमित्याशङ्क्याऽऽह — न हीति । उभयत्रापि विषयशब्दः पूर्वेण समानाधिकरणः । विवक्षितमर्थमुपसम्हरति — तस्मादिति । वैराग्यमन्तरेण ज्ञानानधिकाराज्ज्ञानादिफलस्य प्रजापतित्वस्योत्कर्षवतः संसारत्ववचनं ततो विरक्तस्य वक्ष्यमाणविद्यायामधिकारार्थम् । विरक्तस्य विद्याधिकारे मोक्षादपि वैराग्यं स्यादित्याशङ्क्याऽऽह — तथा चेति । ननु मोक्षार्थं विद्यायां प्रवर्तितव्यं मोक्षश्चापुरुषार्थत्वान्न प्रेक्षावता प्रार्थ्यते तत्राऽऽह — तदेतदिति । आपातिकमनापातिकञ्च तात्पर्यमुक्त्वा प्रतीकमादायाक्षराणि व्याकरोति — आत्मैवेति । तस्याश्वमेधाधिकारे प्रकृतत्वं सूचयति — अण्डज इति । पूर्वस्मिन्नपि ब्राह्मणे तस्य प्रस्तुतत्वमस्तीत्याह — वैदिकेति । स एवाऽऽसीदिति संबन्धः । स्थित्यवस्थायामपि प्रजापतिरेव समष्टिदेहस्तत्तद्व्यष्ट्यात्मना तिष्ठतीति विशेषासिद्धिरित्याशङ्क्याऽऽह — तेनेति । आत्मशब्देन परस्यापि ग्रहसंभवे किमिति विराडेवोपादीयत इत्याशङ्क्य वाक्यशेषादित्याह — स चेति । वक्ष्यमाणमन्वालोचनादि विराडात्मकर्तृकमेवेत्याह — स एवेति । स्वरूपधर्मविषयौ द्वौ विमर्शौ । नान्यदिति वाक्यमादायाक्षराणि व्याचष्टे — वस्त्वन्तरमिति । दर्शनशक्त्यभावादेव वस्त्वन्तरं प्रजापतिर्न दृष्ट्वानित्याशङ्क्याऽऽह — केवलं त्विति । सोऽहमित्यादि व्याचष्टे — तथेति । यथा सर्वात्मा प्रजापतिरहमिति पूर्वस्मिञ्जन्मनि श्रौतेन विज्ञानेन संस्कृतो विराडात्मा तथेदानीमपि फलावस्थः सोऽहं प्रजापतिरस्मीति प्रथमं व्याहृतवानिति योजना । व्याहरणफलमाह — तत इति । किमिति प्रजापतेरहमिति नामोच्यते साधारणं हीदं सर्वेषामित्याशङ्क्योपासनार्थमित्याह — तस्येति । आध्यात्मिकस्य चाक्षुषस्य पुरुषस्याहमिति रहस्यं नामेति यतो वक्ष्यत्यतः श्रुतिसिद्धमेवैतन्नामास्य ध्यानार्थमिहोक्तमित्यर्थः । प्रजापतेरहंनामत्वे लोकप्रसिद्धिं प्रमाणयितुमुत्तरं वाक्यमित्याह — तस्मादिति । उपासनार्थं प्रजापतेरहंनामोक्त्वा पुरुषनामनिर्वचनं करोति — स चेत्यादिना । पूर्वस्मिञ्जन्मनि साधकावस्थायां कर्माद्यनुष्ठानैरहमहमिकया प्रजापतित्वप्रेप्सूनां मध्ये पूर्वो यः सम्यक्कर्माद्यनुष्ठानैः सर्वं प्रतिबन्धकं यस्माददहत्तस्मात्स प्रजापतिः पुरुषः इति योजना । उक्तमेव स्फुटयति — प्रथमः सन्निति । सर्वस्मादस्मात्प्रजापतित्वप्रतिपित्सुसमुदायात्प्रथमः सन्नौषदिति संबन्धः । आकाङ्क्षापूर्वकं दाह्यं दर्शयति — किमित्यादिना । पूर्वं प्रजापतित्वप्रतिबन्धकप्रध्वंसित्वे सिद्धमर्थमाह — यस्मादिति । पुरुषगुणोपासकस्य फलमाह — यथेति । अयं प्रजापतिरिति भविष्यद्वृत्त्या साधकोक्तिः , पुरुषः प्रजापतिरिति फलावस्थः स कथ्यते । कोऽसावोषतीत्यपेक्षायामाह — तं दर्शयतीति । पुरुषगुणः प्रजापतिरहमस्मीति यो विद्यात्सोन्यानोषतीत्यर्थः । विद्यासाम्ये कथमेषा व्यवस्थेत्याशङ्क्याऽऽह — सामर्थ्यादिति । हेतुसाम्ये दाहकत्वानुपपत्तेस्तत्प्रकर्षवानितरान्दहतीत्यर्थः । प्रसिद्धं दाहमादाय चोदयति — नन्विति । तथा च तत्प्रेप्सायोगात्तदुपास्त्यसिद्धिरित्यर्थः । विवक्षितं दाहं दर्शयन्नुत्तरमाह — नैष दोष इति । तदेव स्पष्टयति — उत्कृष्टेति । प्राप्नुवन्भवतीति शेषः । औपचारिकं दाहं दृष्टान्तेन साधयति — यथेति ।
आजिर्मर्यादा तां सरन्ति धावन्तीत्याजिसृतस्तेषामिति यावत् ॥१॥ 【भाष्यम्】 【भाष्यम्】 अहमेकाकी कोऽपि मां हनिष्यतीत्यात्मनाशविषयविपरीतज्ञानवत्त्वात्प्रजापतिर्भीतवानित्यत्र किं प्रमाणमित्याशङ्क्य कार्यगतेन भयलिङ्गेन कारणे प्रजापतौ तदनुमेयमित्याह — यस्मादिति । तत्सामान्यादेकाकित्वाविशेषादिति यावत् । प्रजापतेः संसारान्तर्भूतत्वे हेत्वन्तरमाह — किञ्चेति । यथाऽस्मदादिभी रज्जुस्थाण्वादौ सर्पपुरुषादिभ्रमजनितभयनिवृत्तये विचारेण तत्त्वज्ञानं संपाद्यते तथा प्रजापतिरपि भयस्य तद्धेतोश्च विपरीतधियो ध्वस्तिहेतुं तत्त्वज्ञानं विचार्य संपादितवानित्यर्थः । परमार्थदर्शनमेव प्रश्नपूर्वकं विशदयति — कथमित्यादिना । तस्मिन्नित्यत्र तस्मादित्यादि पठितव्यम् । मच्छब्दोपलक्षितं प्रत्यक्चैतन्यमद्वितीयब्रह्मरूपेण ज्ञात्वा सहेतुं भीतिं प्रजापतिरक्षिपदित्युक्तमिदानीं तत्त्वज्ञानफलमाह — तत इति । कस्माद्धीत्यादेरुत्तरस्य पूर्वेण पौनरुक्त्यमित्याशङ्क्य विदुषो हेत्वभावान्न भयमित्युक्तसमर्थनार्थत्वादुत्तरस्य नैवमित्याह — तस्येत्यादिना । अनुपपत्तौ हेतुमाह — यस्मादिति । परमार्थदर्शनेऽपि वस्त्वन्तरात्किमिति भयं न भवतीत्याशङ्क्याऽऽह — द्वितीयञ्चेति । अन्वयव्यतिरेकाभ्यां द्वैतस्याविद्याप्रत्युपस्थापितत्वेऽपि कुतस्तदुत्थद्वैतदर्शनं भयकारणं न भवतीत्याशङ्क्याऽऽह — न हीति । तत्त्वज्ञाने सत्यायोगात्तदुत्थं द्वैतं तद्दर्शनं चायुक्तमित्यतो हेत्वभावाद्भयानुपपत्तिरित्यर्थः । अद्वैतज्ञाने भयनिवृत्तिरित्यत्र मन्त्रं संवादयति — तत्रेति । विराडैक्यदर्शनेनैव प्रजापतेर्भयमपनीतं नाद्वैतदर्शनेनेत्यस्मिन्नर्थेऽपि यन्मदन्यन्नास्तीत्यादि शक्यं व्याख्यातुमित्याशङ्क्याङ्गीकुर्वन्नाह — यच्चेति । तदेव प्रश्नद्वारा प्रकटयति — कस्मादित्यादिना । प्रथमव्याख्यानानुसारेण चोद्यमुत्थापयति — अत्रेति । प्रजापतेर्ब्रह्मात्मैक्यज्ञानाद्भीतिध्वस्तिरुक्ता न च तस्य तज्ज्ञानं युक्तं हेत्वभावादित्याह — कुत इति । यस्मादस्माकमैक्यधीस्तस्मादेव तस्यापि स्यादित्याशङ्क्याऽऽह — को वेति । न हि तस्य शास्त्रश्रवणमाचार्याभावान्नापि संन्यासस्तस्य त्रैवर्णिकविषयत्त्वान्नापि शमादि ऐश्वर्यासक्तत्वादतोऽस्मासु प्रसिद्धश्रवणादिविद्याहेत्वभावान्न प्रजापतेरैक्यधीर्युक्तेत्यर्थः । उपदेशानपेक्षमेव प्रजापतेरैक्यज्ञानं प्रादुर्भूतमिति शङ्कते — अथेति । अतिप्रसक्त्या प्रत्याह — अस्मदादेरिति । प्रजापतेर्यजमानावस्थायामाचार्यस्य सत्त्वाच्छ्रवणाद्यावृत्तेरैक्यज्ञानोदयात्तत्संस्कारोत्थं तथाविधमेव तज्ज्ञानं फलावस्थायामपि स्यादिति चोदयति — अथेति । दूषयति — एकत्वेति । अज्ञानध्वंसित्वेनार्थवत्त्वमित्याशङ्क्याऽऽह — यथेति । तत्र गमकमाह — यत इति । दार्ष्टान्तिकमाह — एवमिति । नन्वस्मिन्नेव जन्मनि प्रजापतेरैक्यधीरनपेक्षा जायते ‘ज्ञानमप्रतिघं यस्य’ इति स्मृतेः । न च तदुत्पत्त्यनन्तरमेव सहेतुं बन्धनं निरुणद्धि भयारत्यादिफलेन प्रारब्धकर्मणा प्रतिबन्धादतो मरणकालिकं तदज्ञानध्वंसीति शङ्कते — अन्त्यमेवेति । प्रवृत्तफलस्य कर्मणः स्वोपपादकाज्ञानलेशाद्विज्ञानशक्तिप्रतिबन्धकत्वेऽपि, जन्मान्तरसर्वसंसारहेत्वज्ञानध्वंसिज्ञानसामर्थ्यप्रतिबन्धकत्वे मानाभावान्मध्ये जातं ज्ञानमनिवर्तकमित्यशक्यं वक्तुम् । अन्त्यस्य च ज्ञानस्य निवर्तकत्वे नान्त्यत्वं हेतुः । यजमानान्तरस्यान्त्ये ज्ञाने तद्ध्वंसित्वादृष्टेरन्त्यत्वस्याज्ञानध्वंसित्वेनानियमात् । न च यजमानान्तरे प्रजापतौ चान्त्यं ज्ञानं ज्ञानत्वादज्ञानध्वंसि, पूर्वज्ञानेषु बन्धहेत्वज्ञानध्वंसित्वादृष्टेर्ज्ञानत्वहेतोरनैकान्त्यात् । न चान्त्यमैक्यज्ञानमैक्यज्ञानत्वादज्ञानध्वंसीति युक्तम् । उपान्त्यतादृग्ज्ञानवदन्त्येऽपि तदयोगात् । उपान्त्ये हेतोरनैकान्त्यादित्यभिप्रेत्य दूषयति — नेत्यादिना । क्लृप्तकारणाभावात्तदन्तरेण चोत्पत्तावतिप्रसंगात्संस्काराधीनत्वेऽपि विशेषाभावादन्त्यस्य च ज्ञानस्याज्ञानध्वंसित्वासिद्धेरयुक्तं प्रजापतेरेकत्वदर्शनमित्युपसम्हरति — तस्मादिति । प्रजापतेः सुप्तप्रतिबुद्धवत्प्रकृष्टादृष्टोत्थकार्यकरणवत्त्वात्पूर्वकल्पीयपदपदार्थवाक्यस्मरणवतः स्मृतिविपरिवर्तिनो वाक्याद्विचार्यमाणाददृष्टसहकृतात्तत्त्वज्ञानं स्याल्लोके विशिष्टादृष्टोत्थकार्यकरणानां प्रज्ञाद्यतिशयदर्शनात्तेन च ज्ञानेन जन्मान्तरहेत्वविद्याक्षयेऽप्यारब्धं कर्म तज्जं भयारत्याद्यविद्यालेशतो भविष्यतीति परिहरति — नैष दोष इति । संगृहीतमर्थं समर्थयते — यथेत्यादिना । धर्मादिचतुष्टयाद्विपरीतमधर्मादिचतुष्टयं तत्र हेतोः सर्वस्य पाप्मनो ज्ञानाद्यतिशयेन नाशादिति यावत् । उत्कृष्टत्वं प्रकृष्टज्ञानादिशालित्वम् । उक्तजन्मफलमाह — तदुद्भवञ्चेति । तस्य ज्ञानादिवैशारद्ये पौराणिकीं स्मृतिमुदाहरति — तथा चेति । अप्रतिघमप्रतिबद्धं निरङ्कुशमित्येतत्प्रत्येकं संबध्यते यस्यैतच्चतुष्टयं सहसिद्धं स निरवर्ततेति संबन्धः । सहसिद्धत्वस्मृतेः ‘सोऽबिभेत्’(बृ. उ. १ । ४ । २) इतिश्रुतिविरुद्धत्वादप्रामाण्यमिति विरोधाधिकरणन्यायेन शङ्कते — सहसिद्धत्व इति । सत्येव सहजे ज्ञाने स्वहेतोर्भयमपि स्यादिति चेन्नेत्याह — न हीति । अन्येनाऽऽचार्येणानुपदिष्टमेव प्रजापतेर्ज्ञानमुदेतीत्येवमर्थपरत्वात्सहसिद्धवाक्यस्य । तज्ज्ञानात्प्राक्तस्य भयमविरुद्धमूर्ध्वं चाज्ञानलेशादतो न विरोधः श्रुतिस्मृत्योरिति समाधत्ते — नेत्यादिना । ज्ञानोत्पत्तेराचार्याद्यनपेक्षत्वे श्रद्धादिविधानानर्थक्यादनेकश्रुतिस्मृतिविरोधः स्यादिति शङ्कते — श्रद्धेति । आदिपदेन शमादिग्रहः । अस्मदादिषु तेषां हेतुत्वमिति चेन्नेत्याह — प्रजापतेरिवेति । चोदितं विरोधं निराकरोति — नेत्यादिना । निमित्तानां विकल्पः समुच्चयो गुणवत्त्वमगुणत्त्वमित्यनेन प्रकारेण कार्योत्पत्तौ विशेषसंभवान्न श्रद्धादिविध्यानर्थक्यमित्यर्थः । संग्रहवाक्यं विवृणोति — लोके हीति । तद्धि सर्वं विकल्पादि यथा ज्ञातुं शक्यं तथैकस्मिन्नेव नैमित्तिके रूपज्ञानाख्यकार्ये दर्शयामीत्याह — तद्यथेति । तत्र विकल्पमुदाहरति — तमसीत्यादिना । समुच्चयं दर्शयति — अस्माकं त्विति । विकल्पितानां समुच्चितानां च निमित्तानां गुणवदगुणवत्त्वप्रयुक्तं भेदं कथयति — तथेति । आलोकविशेषस्य गुणवत्त्वं बहुलत्वमगुणवत्त्वं मन्दप्रभत्वं चक्षुरादेर्गुणवत्त्वं निर्मलत्वादि तिमिरोपहतत्वादि चागुणवत्त्वमिति भेदः । दृष्टान्तं प्रतिपाद्य दार्ष्टान्तिकमाह — एवमिति । तथाऽन्यस्यापि प्रजापतितुल्यस्य वामदेवादेर्जन्मान्तरीयसाधनवशादीश्वरानुग्रहादस्मिञ्जन्मनि स्मृतवाक्यादैक्यज्ञानमुदेतीति शेषः । भृगुस्तत्तुल्यो वाऽधिकारी क्वचिदित्युच्यते । तपोऽन्वयव्यतिरेकाख्यमालोचनम् । श्वेतकेतुप्रभृतिषु ज्ञाननिमित्तानां समुच्चयं दर्शयति — क्वचिदित्यादिना । एकान्तं नियतमावश्यकं ज्ञानोदयलाभे निमित्तत्वमिति यावत् । अथ प्रणिपातादिव्यतिरेकेण न प्रजापतेरपि ज्ञानं संभवति सामग्र्यभावादत आह — अधर्मादीति । प्रणिपातादेर्ज्ञानोदयप्रतिबन्धकनिवर्तकत्वात्प्रजापतेश्च तन्निवृत्तेर्जन्मान्तरीयसाधनायत्तत्वादाधुनिकप्रणिपातादिना विना स्मृतवाक्यादेवैक्यधीः संभवतीत्यर्थः । तर्हि श्रवणादिव्यतिरेकेणापि प्रजापतेर्ज्ञानं स्यादित्याशङ्क्याऽऽह — वेदान्तेति । न तैर्विना ज्ञानं कस्यचिदपि स्यात्प्रजापतेस्तु जन्मान्तरीयश्रवणवशादिदानीमनुस्मृतवाक्यात्तदुत्पत्तिरिति शेषः । तर्हि श्रद्धादिकमपि प्रतिबन्धकनिवर्तकत्वेन प्रजापतेरादरणीयं तन्निवृत्तिमन्तरेण ज्ञानोत्पत्त्यनुपपत्तेरित्याशङ्क्याऽऽह — पापादीति । आत्ममनसोर्मिथः संयुक्तयोः संबन्धि यत्पापं यत्कार्यं च रागादि तेन ज्ञानोत्पत्तौ प्रतिबन्धस्य पूर्वोक्तेन न्यायेन क्षये सति प्रजापतेरीश्वरानुग्रहात्स्मृतवाक्यस्य परमार्थज्ञानोत्पत्तौ केवलस्य निमित्तत्वात्तस्याऽऽधुनिकश्रद्धाद्यतिरेकेण ज्ञानोदयेऽपि न तद्विधिवैयर्थ्यम् । अस्माकं तद्वशादेव तदुत्पत्तेर्वाक्यतात्पर्यादिज्ञानं सर्वेषामेव ज्ञानसाधनमाचार्यादिषु पुनर्विकल्पसमुच्चयावित्यर्थः । अधिकारिभेदेन ज्ञानहेतुषु विकल्पेऽपि तेषामस्मासु समुच्चयान्न श्रुतिस्मृतिविरोधोऽस्तीत्युपसंहरति —
तस्मादिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानकर्मफलं सौत्रं पदमुत्कृष्टत्वान्मुक्तिस्तदन्यमुक्त्यभावात्तद्धेतुसम्यग्धीसिद्धये प्रवृत्तिरनर्थिकेत्याशङ्क्य सोऽबिभेदित्यस्य तात्पर्यमाह — यदिदमिति । तुष्टूषितं स्तोतुमभिप्रेतमिति यावत् । आह विवक्षितार्थसिद्ध्यर्थं हेतुं भयभाक्त्वमिति शेषः । ज्ञानकर्मफलं त्रैलोक्यात्मकसूत्रत्वमुत्कृष्टमपि संसारान्तर्भूतमेव न कैवल्यमिति वक्तुमुत्तरं वाक्यमित्यर्थः । प्रजापतेर्भयाविष्टात्वेन संसारान्तर्भूतत्वमुक्तमिदानीं तत्रैव हेत्वन्तरमाह — इतश्चेति । अरत्याविष्टत्वे प्रजापतेरेकाकित्वं हेतूकरोति — यत इति । कार्यस्थारतिः कारणस्थारतेर्लिङ्गमित्यनुमानं सूचयति — इदानीमपीति । आदिपदेन भयाविष्टत्वादिग्रहः अरतिं प्रतियोगिनिरुक्तिद्वारा निर्वक्ति — रतिर्नामेति । कथं तर्हि यथोक्तारतिनिरसनमित्याशङ्क्य स द्वितीयमैच्छदित्येतद्व्याचष्टे — स तस्या इति । स हेत्यस्य वाक्यस्य पातनिकाङ्करोति — तस्येति । तेन भावेनेति यावत् । कथमभिमानमात्रेण यथोक्तपरिमाणत्वं तत्राऽऽह — सत्येति । निपातोऽवधारणे । तस्यैव पुनरनुवादोऽन्वयार्थः । परिमाणमेव प्रश्नपूर्वकं विवृणोति — किमित्यादिना । संप्रति स्त्रीपुंसयोरुत्पत्तिमाह — स तथेति । ननु द्वेधाभावो विराजो वा संसक्तस्त्रीपुम्पिण्डस्य वा नाऽऽद्यः । सशब्देन विराड्ग्रहयोगात्तस्य कर्मत्वाद्द्वितीये त्वात्मशब्दानुपपत्तिस्तत्राऽऽह — इममिति । तथा च सशब्देन कर्तृतया विराड्ग्रहणमविरुद्धमित्यर्थः । तदेव स्फुटयति — नेत्यादिना । कस्य तर्हि द्विधाकरणमित्याशङ्क्याऽऽह — किं तर्हीति । तच्च द्विधाकरणकर्मेति शेषः । कथं तर्हि तत्राऽऽत्मशब्दः संभवतीत्याशङ्क्याऽऽह — स एव चेति । तथाभूतः संसक्तजायापुम्परिमाणोऽभूदिति यावत् । न केवलं मनुः शतरूपेत्यनयोरेव दम्पत्योरिदं निर्वचनं किन्तु लोकप्रसिद्धयोः सर्वयोरेव तयोरेतद्द्रष्टव्यं सर्वत्रास्य संभवादित्याह — लौकिकयोरिति । उक्ते निर्वचने लोकानुभवमनुकूलयति — तस्मादिति । प्रागिति सहधर्मचारिणीसंबन्धात्पूर्वमित्यर्थः । आकाङ्क्षाद्वारा षष्ठीमादायानुभवमवलम्ब्य व्याचष्टे — कस्येत्यादिना । बृगलशब्दो विकारार्थः । अनुभवसिद्धेऽर्थे प्रामाणिकसम्मतिमाह — एवमिति । द्वेधापातने सत्येको भागः पुरुषोऽपरस्तु स्त्रीत्यत्रैव हेत्वन्तरमाह — यस्मादिति । उद्वहनात्प्रागवस्थायामाकाशः पुरुषार्धः स्त्र्यर्धशून्यो यस्मादसंपूर्णो वर्तते तस्मादुद्वहनेन प्राप्तस्त्र्यर्धेन पुनरितरो भागः पूर्यते यथा विदलार्धोऽसंपूर्णः संपुटीकरणेन पुनः संपूर्णः क्रियते तद्वदिति योजना । पूर्वमपि स्वाभाविकयोग्यतावशेन संसर्गोऽभूदनादित्वात्संसारस्येति सूचयितुं पुनरित्युक्तम् । पुरुषार्धस्येतरार्धस्य च मिथः संबन्धान्मनुष्यादिसृष्टिरित्याह —
तामित्यादिना ॥३॥ 【भाष्यम्】 【भाष्यम्】 स्मार्तं प्रतिषेधमिति । ‘न सगोत्रां समानप्रवरां भार्यां विन्देते’त्यादिकमिति यावत् । ’अकृत्यं हीदं यद्दुहितृगमनं मातृतश्चाऽऽपञ्चमात्पुरुषात्पितृतश्चाऽऽसप्तमादि’ति स्मृतेरिति मत्वाऽऽह — कथमिति । तयोर्जात्यन्तरगमनं कथमित्याशङ्क्याऽऽह — यद्यपीति । शतरूपायां गोभावमापन्नायामृषभादिभावो मनोर्भवतु तावता यथोक्तदोषपरिहारस्तयोर्वडवादिभावे तु न कारणमस्तीत्याशङ्क्याऽऽह — उत्पाद्येति । ततस्तया गोभावादनन्तरमिति यावत् । गवां जन्मार्थं मिथः संभवनं ततःशब्दार्थः । तत्र तेषामुत्पत्तौ सत्यामिति यावत् । वाक्यद्वये वीप्सा विवक्षितेत्याह — तामिति । तामेवाभिनयति — तामजामिति । तां वडवां तां गर्दभीं चेत्यपि द्रष्टव्यम् । ततो मिथः संभवनाद्यथोक्तादिति यावत् । विशेषाणामानन्त्यात्प्रत्येकमुपदेशासंभवं मन्वानः संक्षिप्योपसम्हरन्ति — एवमेवेति । तद्विभजते — इदं मिथुनमिति ।
पशुकर्मप्रयोगो न्यायः ॥४॥ 【भाष्यम्】 【भाष्यम्】 यद्यपि मन्वादिसृष्टिरेवोक्ता तथापि सर्वा सृष्टिरुक्तैवेति सिद्धवत्कृत्याऽऽह — स प्रजापतिरिति । अवगतिं प्रश्नपूर्वकं विशदयति — कथमित्यादिना । कथं सृष्टिरस्मीत्यवधार्यते कर्तृक्रिययोरेकत्वायोगादित्याशङ्क्याऽऽह — सृज्यत इतीति । पदार्थमुक्त्वा वाक्यार्थमाह — यन्मयेति । जगच्छब्दादुपरि तच्छब्दमध्याहृत्याहमेव तदस्मीति संबन्धः । तत्र हेतुमाह — मदभेदत्वादिति । एवकारार्थमाह — नेति । मदभेदत्वादित्युक्तमाक्षिप्य समाधत्ते — कुत इत्यादिना । न हि सृष्टं स्रष्टुरर्थान्तरं तस्यैव तेन तेन मायाविवदवस्थानादित्यर्थः । ततः सृष्टिरित्यादि व्याचष्टे — यस्मादिति । किमर्थं स्रष्टुरेषा विभूतिरुपदिष्टेत्याशङ्क्याऽऽह — सृष्ट्यामिति । जगति भवतीति संबन्धः । वाक्यार्थमाह —
प्रजापतिवदिति ॥५॥ 【भाष्यम्】 【भाष्यम्】 ननु सर्वा सृष्टिरुक्तोक्तञ्च प्रजापतेर्विभूतिसंकीर्तनफलं किमवशिष्यते यदर्थमुत्तरं वाक्यमित्याशङ्क्याऽऽह — एवमिति । आदावभ्यमन्थदिति संबन्धः । अभिनयप्रदर्शनमेव विशदयति — अनेनेति । मुखादेरग्निं प्रति योनित्वे गमकमाह — यस्मादिति । प्रत्यक्षविरोधं शङ्कित्वा दूषयति — किमित्यादिना । हस्तयोर्मुखे च योनिशब्दप्रयोगे निमित्तमाह — अस्ति हीति । प्रजापतेर्मुखादित्थमग्निः सृष्टोऽपि कथं ब्राह्मणमनुगृह्णाति तत्राऽऽह — तथेति । उक्तेऽर्थे श्रुतिस्मृतिसंवादं दर्शयति — तस्मादिति । ’अग्नेयो वै ब्राह्मणः’ इत्याद्या श्रुतिस्तदनुसारिणी च स्मृतिर्द्रष्टव्या । ’अग्निमसृजत’ इत्येतदुपलक्षणार्थमित्यभिप्रेत्य सृष्ट्यन्तरमाह — तथेति । बलभिदिन्द्रः । आदिशब्देन वरुणादिर्गृह्यते । क्षत्त्रियं चासृजतेत्यनुवर्तते । उक्तमर्थं प्रमाणेन द्रढयति — तस्मादिति । ’ऐन्द्रो राजन्यः’ इत्याद्या श्रुतिस्तदनुसारिणी च स्मृतिरवधेया । विशं चासृजतेति पूर्ववत् । ईहाश्रयादूरुतो जातत्वं वस्वादेर्ज्येष्ठत्वं च तच्छब्दार्थः । ‘पद्भ्यां शूद्रो अजायत’(ऋ.१०.९०.१३) इत्याद्या श्रुतिस्तथाविधा च स्मृतिरनुसर्तव्या । अग्निसर्गस्य वक्ष्यमाणेन्द्रादिसर्गोपलक्षणत्वे सति सृष्टिसाकल्यादेष उ एव सर्वे देवा इत्युपसंहारसिद्धिरिति फलितमाह — तत्रेति । उक्तेन वक्ष्यमाणोपलक्षणं सर्वशब्दः सूचयतीति भावः । किञ्च सृष्टिरत्र न विवक्षिता किन्तु येन प्रकारेण सृष्टिश्रुतिः स्थिता तेन प्रकारेण देवतादि सर्वं प्रजापतिरेवेति विवक्षितमित्याह — यथेति । तत्र हेतुमाह — स्रष्टुरिति । तथाऽपि कथं देवतादि सर्वं प्रजापतिमात्रमित्याशङ्क्याऽऽह — प्रजापतिनेति । तद्यदिदमित्यादिवाक्यस्य तात्पर्यमाह — अथेति । स्रष्टा प्रजापतिरेव सृष्टं सर्वं कार्यमिति प्रकरणार्थे पूर्वोक्तप्रकारेण व्यवस्थिते सत्यनन्तरं तस्यैव स्तुतिविवक्षया तद्यदिदमित्याद्यविद्वन्मतान्तरस्य निन्दार्थं वचनमित्यर्थः । मतान्तरे निन्दितेऽति कथं प्रकरणार्थः स्तुतो भवतीत्याशङ्क्याऽऽह — अन्येति । एकैकं देवमित्यस्य तात्पर्यमाह — नामेति । काठकं कालापकमितिवन्नामभेदात्क्रतुषु तत्तद्देवतास्तुतिभेदाद्घटशकटादिवदर्थक्रियाभेदाच्च प्रत्येकं देवानां भिन्नत्वात्कर्मिणामेतद्वचनमित्यर्थः । आदिशब्देन रूपादिभेदात्तद्भिन्नत्वं संगृह्णाति । नन्वत्र कर्मिणां निन्दा न प्रतिभाति तन्मतोपन्यासस्यैव प्रतीतेरित्याशङ्क्याऽऽह — तन्नेति । एकस्यैव प्राणस्यानेकविधो देवताप्रभेदः शाकल्यब्राह्मणे वक्ष्यत इति विवक्षित्वा विशिनष्टि — प्राण इति । अग्न्यादयो देवाः सर्वं प्रजापतिरेवेत्युक्तं संप्रति तत्स्वरूपनिर्दिधारयिषया तत्र विप्रतिपत्तिं दर्शयति — अत्रेति । हिरण्यगर्भस्य परत्वमाद्ये द्वितीये कल्पे संसारित्वं विधेयमिति विभागः । तत्र पूर्वपक्षं गृह्णाति — पर एव त्विति । नन्वेकस्यानेकात्मकत्वं मन्त्रवर्णादवगम्यते न तु परमात्मत्वं प्रजापतेरित्याशङ्क्य ब्राह्मणवाक्यमुदाहरति — एष इति । ब्रह्मप्रजापती सूत्रविराजौ । एषशब्दः परात्मविषयः । स्मृतेश्च पर एव हिरण्यगर्भ इति संबन्धः । तत्रैव वाक्यान्तरं पठति — योऽसाविति । कर्मेन्द्रियाविषयत्वमतीन्द्रियत्वम् । अग्राह्यत्वं ज्ञानेन्द्रियाविषयत्वम् । तत्र हेतुमाह — सुक्ष्मोऽव्यक्त इति । न च तस्यासत्त्वं प्रमात्रादिभावाभावसाक्षित्वेन सदा सत्त्वादित्याह — सनातन इति । इतश्च तस्य नासत्त्वं सर्वेषामात्मत्वादित्याह — सर्वेति । अन्तःकरणाविषयत्वमाह — अचिन्त्य इति । योऽसौ परमात्मा यथोक्तविशेषणः स एव स्वयं विराडात्मना भूतवानित्याह — स एवेति । मन्त्रब्राह्मणस्मृतिषु परस्य सर्वदेवतात्मत्वदृष्टेरत्र च सूत्रस्य तत्प्रतीतेस्तस्य परत्वमित्युक्तमिदानीं पूर्वपक्षान्तरमाह — संसार्येवेति । सर्वपाप्मदाहश्रवणमात्रेण कथं प्रजापतेः संसारित्वं तत्राऽऽह — न हीति । ’अन्तस्तद्धर्मोपदेशादि’त्यत्र परस्यापि सर्वपाप्मोदयाङ्गीकारान्नेदं संसारित्वे लिङ्गमित्याशङ्क्याऽऽह — भयेति । असृजतेति च श्रवणादिति संबन्धः । न केवलं मर्त्यत्वश्रुतेरेव संसारित्वं किन्तु जन्मश्रुतेश्चेत्याह — हिरण्यगर्भमिति । यथोक्तहेतूनां संसार्येव स्यादिति प्रतिज्ञयाऽन्वयः । कर्मफलदर्शनाधिकारे ब्रह्मेत्याद्यायाः स्मृतेश्च तत्फलभूतस्य प्रजापतेः संसारित्वमेवेत्याह — स्मृतेश्चेति । विराड्ब्रह्मेत्युच्यते । विश्वसृजो मन्वादयः । धर्मस्तदभिमानिनी देवता यमः । महान्प्रकृतेराद्यो विकारः सूत्रम् । अव्यक्तं प्रकृतिरिति भेदः । अस्तु तर्हि द्विविधवाक्यवशात्प्रजापतेः संसारित्वमसंसारित्वं चेत्याशङ्क्याऽऽह — अथेति । तद्द्विविधवाक्यश्रवणानन्तर्यमथशब्दार्थः । एवंशब्दः संसारित्वासंसारित्वप्रकारपरामर्शार्थः । विरोधकृतमप्रामाण्यं निराकरोति — नेत्यादिना । स्वतोऽसंसारित्वं कल्पनया च संसारित्वमिति कल्पनान्तरसंभवाद्द्विविधश्रुतीनामविरोधात्प्रामाण्यसिद्धिरित्यर्थः । कल्पनया संसारित्वमित्येतद्विशदयति — उपाधीति । औपाधिकी परस्य विशेषकल्पनेत्यत्र प्रमाणमाह — आसीत इति । स्वारस्येन कूटस्थोऽप्यात्मा मनसः शीघ्रं दूरगमनदर्शनात्तदुपाधिको दूरं व्रजति । यथा स्वप्ने शयानोऽपि मनसो गतिभ्रान्त्या सर्वत्र यातीव भाति तथा जागरेऽपीत्यर्थः । कल्पितेन हर्षादिविकारेण स्वाभाविकेन तदभावेन च युक्तमात्मानं न कश्चिदपि निश्चेतुं शक्नोतीत्याह — कस्तमिति । आदिपदेन ‘ध्यायती’(बृ. उ. ४ । ३ । ७) वेत्यादिश्रुतयो गृह्यन्ते । उदाहृतश्रुतीनां तात्पर्यमाह — उपाधीति । किं तर्हि पारमार्थिकं तदाह — स्वत इति । पूर्वेण संबन्धः । हिरण्यगर्भस्य वास्तवमवास्तवं च रूपं निरूपितमुपसंहरति — एवमिति । तस्याप्यस्मदादिवन्न स्वतो ब्रह्मत्वं किन्तु संसारित्वमेव स्वाभाविकमित्याशङ्क्य दृष्टान्तस्य साध्यविकलतामाह — तथेति । सर्वजीवानामेकत्वं नानात्वञ्चेति पूर्वेण संबन्धः । तेषां स्वतो ब्रह्मत्वे प्रमाणमाह — तत्त्वमिति । कस्तर्हि हिरण्यगर्भे विशेषो येनासावस्मदादिभिरुपास्यते तत्राऽऽह — हिरण्यगर्भस्त्विति । ननु श्रुतिस्मृतिवादेषु क्वचित्तस्य संसारित्वमपि प्रदर्श्यते सत्यं तत्तु कल्पितमित्यभिप्रेत्याऽऽह — संसारित्वं त्विति । अस्मदादिषु तुल्यमेतदित्याशङ्क्याऽऽह — जीवानां त्विति । कथं तर्हि ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘क्षेत्रज्ञं चापि मां विद्धि’(भ. गी. १३ । २) इत्यादिश्रुतिस्मृतिवादाः संगच्छन्ते तत्राऽऽह — व्यावृत्तेति । स्वमते तत्त्वनिश्चयमुक्त्वा, परमते तदभावमाह — तार्किकैस्त्विति । नन्वेकजीववादेऽपि सर्वव्यवस्थानुपपत्तेस्तत्त्वनिश्चयदौर्लभ्यं तुल्यमिति चेन्नेत्याह — ये त्विति । स्वप्नवत्प्रबोधात्प्रागशेषव्यवस्थासंभवादूर्ध्वं च तदभावस्येष्टत्वादेकमेव ब्रह्मानाद्यविद्यावशादशेषव्यवहारास्पदमिति पक्षे न काचन दोषकलेति भावः । सर्वदेवतात्मकस्य प्रजापतेः स्वतोऽसंसारित्वं कल्पनया वैपरीत्यमिति स्थिते सत्यथेत्याद्युत्तरग्रन्थस्य तात्पर्यमाह — तत्रेति । विवक्षित इत्युत्तरग्रन्थप्रवृत्तिरिति शेषः । तस्य विषयं परिशिनष्टि — तत्राग्निरिति । अत्राद्ययोर्निर्धारणार्था सप्तमी । संप्रति प्रतीकमादायाक्षराणि व्याकरोति — अथेति । अत्तुः सर्गान्तन्तर्यमथशब्दार्थः रेतसः सकाशादपां सर्गेऽपि सोमशब्दे किमायातमित्याशङ्क्याऽऽह — द्रवात्मकश्चेति । श्रद्धाख्याहुतेः सोमोत्पत्तिश्रवणात्तत्र शैत्योपलब्धेश्चेति भावः । सोमस्य द्रवात्मकत्वे फलितमाह — तस्मादिति । अग्नीषोमयोरन्नान्नादयोः सृष्टावपि जगति स्रष्टव्यान्तरमवशिष्टमस्तीत्याशङ्क्याऽऽह — एतावदिति । आप्यायकः सोमो द्रवात्मकत्वादन्नं चाऽऽप्यायकं प्रसिद्धं तस्मादुपपन्नं यथोक्तं वाक्यं सप्तम्यर्थः । यथाश्रुतमवधारणमवधीर्य कुतो विधान्तरेण तद्व्याख्यानमित्याशङ्क्याऽऽह — अर्थ बलाद्धीति । अन्नादस्य संहर्तृत्वादग्नित्वमन्नस्य च संहरणीयतया सोमत्वमवधारयितुं युक्तमित्यर्थः । नन्वन्नस्य सोमत्वेन न नियमोऽग्नेरपि जलादिना सम्हारान्न चात्तुरग्नित्वेन नियमः सोमस्यापि कदाचिदिज्यमानत्वेनात्तृत्वात्तत्कुतोऽर्थबलमित्याशङ्क्याऽऽह — अग्निरपीति । सोऽपि संहार्यश्चेत्सोम एव स च संहर्ता चेदग्निरेवेत्यवधारणसिद्धिरित्यर्थः । प्रजापतेः सर्वात्मत्वमुपक्रम्य जगतो द्वेधाविभक्तत्वाभिधानं कुत्रोपयुक्तमित्याशङ्क्य तस्य सूत्रे पर्यवसानात्तस्मिन्नात्मबुद्ध्योपासकस्य सर्वदोषराहित्यं फलमत्र विवक्षितमित्याह — एवमिति । अनुग्राहकदेवसृष्टिमुक्त्वा तदुपासकस्य फलोक्त्यर्थमादौ देवसृष्टिं स्तौति — सैषेति । ’अग्निर्मूर्धा’ इत्यादिश्रुतेरग्न्यादयोऽस्यावयवास्तत्कथं तत्सृष्टिस्ततोऽतिशयवतीत्याशङ्कते — कथमिति । प्रजापतेर्यजमानावस्थापेक्षया देवसृष्टेरुत्कृष्टत्ववचनमविरुद्धमिति परिहरति — अत आहेति । देवसृष्टेरतिसृष्टित्वाभावशङ्कानुवादार्थोऽथशब्दः । ज्ञानस्येत्युपलक्षणं कर्मणोऽपीति द्रष्टव्यम् । अतिसृष्ट्यामित्यादि व्याचष्टे — तस्मादिति ।
देवादिस्रष्टा तदात्मा प्रजापतिरहमेवेत्युपासितुस्तद्भावापत्त्या तत्स्रष्टृत्वं फलतीत्यर्थः ॥६॥ 【भाष्यम्】 【भाष्यम्】 पूर्वोत्तरग्रन्थयोः संबन्धं वक्तुं प्रतीकमादाय वृत्तं कीर्तयति — तद्धेत्यादिना । तस्याऽऽदेयत्वार्थं वैदिकमित्युक्तम् । साधनमित्युक्ते मुक्तिसाधनं पुरःस्फुरति तन्निरस्यति — ज्ञानेति । एकरूपस्य मोक्षस्यानेकरूपं न साधनं भवतीति भावः । मुक्तिसाधनं मानवस्तुतन्त्रं तत्त्वज्ञानमिदं तु कारकसाध्यमतोऽपि न तद्धेतुरित्याह — कर्त्रादीति । किञ्चेदं प्रजापतित्वफलावसानम् । ‘मृत्युरस्याऽऽत्मा भवति’(बृ.उ.१।१।७) इति श्रुतेः । न च तदेव कैवल्यं भयारत्यादिश्रवणादतोऽपि नेदं मुक्त्यर्थमित्याह — प्रजापतित्वेति । किञ्च नित्यसिद्धा मुक्तिरिदं तु साध्यफलमतोऽपि न मुक्तिहेतुरित्याह — साध्यमिति । किञ्च मुक्तिर्व्याकृतादर्थान्तर’मन्यदेव तद्विदितादि’त्यादिश्रुतेः । इदं तु नामरूपं व्याकृतमतोऽपि न तद्धेतुरित्याह — एतावदेवेति । संप्रत्यव्याकृतकण्डिकामवतारयन्प्रवेशवाक्यात्प्राक्तनस्य तद्धेदमित्यादेर्वाक्यस्य तात्पर्यमाह — अथेति । ज्ञानकर्मफलोक्त्यान्तर्यमथशब्दार्थः । बीजावस्था साभासप्रत्यगविद्या तस्या निर्देष्टुमिष्टत्वमेव न साक्षान्निर्देश्यत्वमनिर्वाच्यत्वादिति वक्तुं निर्दिदिक्षतीत्युक्तम् । वृक्षस्य बीजावस्थां लोको निर्दिशतीति संबन्धः । यज्ज्ञाने पुमर्थाप्तिस्तदेव वाच्यं किमिति प्रत्यगविद्योच्यते तत्राऽऽह — कर्मेति । उद्धर्तव्य इति तन्मूलनिरूपणमर्थवदिति शेषः । अथ पुरुषार्थमर्थयमानस्य तदुद्धारोऽपि क्वोपयुज्यते तत्राऽऽह — तदुद्धरणे हीति । ननु संसारस्य मूलमेव नास्ति स्वभाववादात्प्रधानाद्येव वा तन्मूलं नाज्ञातं ब्रह्मेत्याशङ्क्य श्रुतिस्मृतिभ्यां परिहरति — तथा चेति । ऊर्ध्वमुत्कृष्टं कारणं कार्यापेक्षया परमव्याकृतं मूलमस्येत्यूर्ध्वमूलो हिरण्यगर्भादयो मूलापेक्षयाऽवाच्यः शाखा इत्यवाक्शाखः । एवम् ‘ऊर्ध्वमूलमधःशाखम्’(भ. गी. १५ । १) इत्यादिगीतापि नेतव्या । अस्ति हि संसारस्य मूलम् । ‘नेदममूलं भविष्यति’ (छा. उ. ६ । ८ । ३)
इति श्रुतेस्तच्चाज्ञातं ब्रह्मैवेति श्रुतिस्मृतिप्रसिद्धमिति भावः ॥६॥ 【भाष्यम्】 【भाष्यम्】 संप्रति प्रतीकमादाय पदानि व्याचष्टे — तद्धेत्यादिना । अप्रत्यक्षाभिधानेन तदिति सर्वनाम्ना बीजावस्थं जगदभिधीयते । परोक्षत्वादिति संबन्धः । कथं जगतो बीजावस्थत्वमित्याशङ्क्य तर्हीत्यस्यार्थमाह — प्रागिति । कथं तस्य परोक्षत्वं तत्राऽऽह — भूतेति । निपातार्थमाह — सुखेति । हशब्दार्थमभिनयति — किलेति । यथावर्णितमित्यनर्थत्वेन संसारेऽसारत्वोक्तिः । पदद्वयसामानाधिकरण्यलब्धमर्थमाह — तदिदमिति । एकत्वभिनयेनोदाहरति — तदेवेति । एकत्वावगतिफलं कथयति — अथेति । सामानाधिकरण्यवशादेकत्वे निश्चिते सत्यनन्तरम् – ‘नासतो विद्यतो भावो नाभावो विद्यते सतः’(भ. गी. २। १६) इति स्मृतिरनुसृता भवतीति भावः । अज्ञातं ब्रह्म जगतो मूलमित्युक्त्वा तद्विवर्तो जगदिति निरूपयति — तदेवम्भूतमिति । तृतीयामित्थम्भावार्थत्वेन व्याचष्टे — नाम्नेति । क्रियापदप्रयोगाभिप्रायं तदनुवादपूर्वकमाह — व्याक्रियतेति । तत्र पदच्छेदपूर्वकं तद्वाच्यमर्थमाह — व्याक्रियतेत्यादिना । स्वयमेवेति कुतो विशेष्यते कारणमन्तरेण कार्योत्पत्तिरयुक्तेत्याशङ्क्याऽऽह — सामर्थ्यादिति । निर्हेतुकार्यसिद्ध्यनुपपत्त्याऽऽक्षिप्तो नियन्ता जनयिता कर्ता चोत्पत्तौ साधनक्रियाकरणव्यापारस्तन्निमित्तं तदपेक्ष्य व्यक्तिभावमापद्यतेति योजना । नामसामान्यं देवदत्तादिना विशेषनाम्ना संयोज्य सामान्यविशेषवानर्थो नामव्याकरणवाक्ये विवक्षित इत्याह — असावित्यादिना । असौशब्दः श्रौतोऽव्ययत्वेन नेयः । रूपसामान्यं शुक्लकृष्णादिना [विशेषेण] संयोज्योच्यते रूपव्याकरणवाक्येनेत्याह — तथेत्यादिना । अव्याकृतमेव व्याकृतात्मना व्यक्तमित्येतत्सुप्तप्रबुद्धदृष्टान्तेन स्पष्टयति — तदिदमिति । तद्धेत्यत्र मूलकारणमुक्त्वा तन्नामरूपाभ्यामित्यादिना तत्कार्यमुक्तमिदानीं प्रवेशवाक्यस्थसशब्दापेक्षितमर्थमाह — यदर्थ इति । काण्डद्वयात्मनो वेदस्याऽऽरम्भो यस्य परस्य प्रतिपत्त्यर्थो विज्ञायते ; कर्मकाण्डं हि स्वार्थानुष्ठानाहितचित्तशुद्धिद्वारा तत्त्वज्ञानोपयोगीष्यते ज्ञानकाण्डं तु साक्षादेव तत्रोपयुज्यते ‘सर्वे वेदा यत्पदमामनन्ति’(क. उ. १ । २ । १५) इति च श्रूयते स परोऽत्र प्रविष्टो देहादाविति योजना । सर्वस्याऽऽम्नायस्य ब्रह्मात्मनि समन्वयमुक्त्वा तत्र विरोधसमाधानार्थमाह — यस्मिन्निति । अध्यासस्य चतुर्विधख्यातीनामन्यतमत्वं वारयति — अविद्ययेति । तस्या मिथ्याज्ञानत्वेन सादित्वादनाद्यध्यासहेतुत्वासिद्धिरित्याशङ्क्याऽऽह — स्वाभाविक्येति । विद्याप्रागभावत्वमविद्याया व्यावर्तयति — कर्त्रिति । न हि तदुपादानत्वमभावत्वे संभवति न चोपादानान्तरमस्तीति भावः । अन्वयस्तु सर्वत्र यच्छब्दस्य पूर्ववद् द्रष्टव्यः । आत्मनि कर्तृत्वाध्यासस्याविद्याकृतत्वोक्त्या समन्वये विरोधः समाहितः । संप्रत्यध्यासकारणस्योक्तत्वेऽपि निमित्तोपादानभेदं साङ्ख्यवादमाशङ्क्योक्तमेव कारणं तद्भेदनिराकरणार्थं कथयति — यः कारणमिति । श्रुतिस्मृतिवादेषु परस्य तत्कारणत्वं प्रसिद्धमिति भावः । नामरूपात्मकस्य द्वैतस्याविद्याविद्यमानदेहत्वाद्विद्यापनोद्यत्वं सिध्यतीत्याह — यदात्मके इति । व्याकर्तुरात्मनः स्वभावतः शुद्धत्वे दृष्टान्तमाह — सलिलादिति । व्याक्रियमाणयोर्नामरूपयोः स्वतोऽशुद्धत्वे दृष्टान्तमाह — मलमिवेति । यथा फेनादि जलोत्थं तन्मात्रमेव तथाऽज्ञातब्रह्मोत्थं जगद्ब्रह्ममात्रं तज्ज्ञानबाध्यञ्चेति भावः । नित्यशुद्धत्वादिलक्षणमपि वस्तु न स्वतोऽज्ञाननिवर्तकं केवलस्य तत्साधकत्वाद्वाक्योत्थबुद्धिवृत्त्यारूढं तु तथेति मन्वानो ब्रूते — यश्चेति । ’आकाशो ह वै नाम नामरूपयोर्निवहिता ते तदन्तरा तद्ब्रह्म’ इति श्रुतिमाश्रित्याऽऽह — ताभ्यामिति । नामरूपात्मकद्वैतासंस्पर्शित्वादेव नित्यशुद्धत्वमशुद्धेर्द्वैतसंबन्धाधीनत्वात्तत्राविद्या प्रयोजिकेत्यभिप्रेत्य तत्संबन्धं निषेधति — बुद्धेति । तस्मादेव दुःखाद्यनर्थासंस्पर्शित्वमाह — मुक्तेति । विद्यादशायां शुद्ध्यादिसद्भावेऽपि बन्धावस्थायां नैवमिति चेन्नेत्याह — स्वभाव इति । अव्याकृतवाक्योक्तमज्ञातं परमात्मानं परामृशति — स इति । तमेव कार्यस्थं प्रत्यञ्चं निर्दिशति — एष इति । आत्मा हि स्वतो नित्यशुद्धत्वादिरूपोऽपि स्वाविद्यावष्टम्भान्नामरूपे व्याकरोतीति तत्सर्जनस्याविद्यामयत्वं विवक्षित्वाऽऽह — अव्याकृते इति । तयोरात्मना व्याकृतत्वे तदतिरेकेणाभावः फलतीति मत्वा विशिनष्टि — आत्मेति । जनिमन्मात्रमिहशब्दार्थं कथयति — ब्रह्मादीति । तत्रैव दुःखादिसंबन्धो नाऽऽत्मनीति मन्वानो विशिनष्टि — कर्मेति । ब्रह्मात्मैक्ये पदद्वयसामानाधिकरण्याधिगते हेतुमाह — प्रविष्ट इति । परमात्मा स्रष्टा सृष्टे प्रविष्टो जगतीत्यादिष्टमाक्षिपति — नन्विति । पूर्वापरविरोधं समाधत्ते — नेत्यादिना । व्याक्रियतेति कर्मकर्तृप्रयोगाज्जगत्कर्तुरविवक्षितत्वमुक्तमित्याशङ्क्याह — आक्षिप्तेति । मुच्यते वत्सः स्वयमेवेतिवत्कर्मकर्तरि लकारो व्याकरणसौकर्यापेक्षया सत्येव कर्तरि निर्वहतीति भावः । अव्याकृतशब्दस्य नियन्त्रादियुक्तजगद्वाचित्वे हेत्वन्तरमाह — इदंशब्देति । कथमुक्तसामानाधिकरण्यमात्रादव्याकृतस्य जगतो नियन्त्रादियुक्तत्वं तत्राऽऽह — यथेति । नियन्त्रादीत्यादिशब्देन कर्तृकरणादिग्रहणम् । निमित्तादीत्यादिपदेनोपादानमुच्यते । विमतं नियन्त्रादिसापेक्षं कार्यत्वात्संप्रतिपन्नवदित्यर्थः । कस्तर्हि प्रागवस्थे संप्रतितने च जगति विशेषस्तत्राऽऽह — व्याकृतेति । कथं पुनरव्याकृतशब्देन जगद्वाचिना परो गृह्यत एकस्य शब्दस्यानेकार्थत्वायोगादत आह — दृष्टश्चेति । उक्तमेव स्फुटयति — कदाचिदिति । उभयविवक्षया ग्रामशब्दप्रयोगस्य दार्ष्टान्तिकमाह — तद्वदिति । इहेत्यव्याकृतवाक्योक्तिः । निवासमात्रविवक्षया ग्रामशब्दप्रयोगस्य दार्ष्टान्तिकमाह — तथेति । निवासिजनविवक्षया तत्प्रयोगस्यापि दार्ष्टान्तिकं कथयति — तथा महानिति । अव्याकृतवाक्ये परस्य प्रकृतत्वात्तस्य प्रवेशवाक्ये सशब्देन परामृष्टस्य सृष्टे कार्ये प्रवेश उक्तस्तच्च प्रकारान्तरेणाऽऽक्षिपति — नन्विति । कथमिति सूचितामनुपपत्तिमेव स्पष्टयति — अप्रविष्टो हीति । दृष्टान्तावष्टम्भेन प्रवेशवादी शङ्कते — पाषाणेति । तदेव विवृणोति — अथापीत्यादिना । परस्य परिपूर्णस्य क्वचित्प्रवेशाभावेऽपीति यावत् । तच्छब्दः दृष्टकार्यविषयः । धर्मान्तरं जीवाख्यम् । दृष्टान्तं व्याचष्टे — यथेति । पाषाणाद्बाह्यः सर्पादिस्तत्र प्रविष्ट इति शङ्कापोहार्थं सहजविशेषणम् । सर्पादेरश्मादिरूपेण स्थितभूतपञ्चकपरिणामत्वात्तत्र सहजत्वं पाषाणादौ यानि भूतानि स्थितानि तेषां परिणामः सर्पादिस्तद्रूपेण तत्र भूतानामनुप्रवेशवदपरिच्छिन्नस्यापि परस्य जीवाकारेण बुद्ध्यादौ प्रवेशसिद्धिरित्यर्थः । आक्षेप्ता ब्रूते — नेति । तदेव स्पष्टयति — यः स्रष्टेति । ननु तक्ष्णा निर्मिते वेश्मनि ततोऽन्यस्यापि प्रवेशो दृश्यते तथा परेण सृष्टे जगत्यन्यस्य प्रवेशो भविष्यति नेत्याह — यथेति । पाषाणसर्पन्यायेन कार्यस्थस्यैव परस्य जीवाख्ये परिणामे तत्सृष्ट्वेत्यादिश्रवणमनुपपन्नमिति व्यतिरेकं दर्शयति — नत्विति । अस्तु तर्हि परस्य मार्जारादिवत्पूर्वावस्थानत्यागेनावस्थानान्तरसंयोगात्मा प्रवेशो नेत्याह — न चेति । निरवयवोऽपरिच्छिन्नश्चाऽऽत्मा तस्य स्थानान्तरेण वियोगं प्राप्य स्थानान्तरेण सह संयोगलक्षणो यः प्रवेशः स सावयवे परिच्छिन्ने च मार्जारादौ दृष्टप्रवेशसदृशो न भवतीति योजना । वियुज्येति पाठे तु स्फुटैव योजना । प्रवेशश्रुत्या निरवयवत्वासिद्धिं शङ्कते — सावयव इति । प्रवेशश्रुतेरन्यथोपपत्तेर्वक्ष्यमाणत्वान्नैवमिति परिहरति — नेत्यादिना । अमूर्तत्वं निरवयत्वम् । पुरुषत्वं पूर्णत्वम् । प्रकारान्तरेण प्रवेशोपपत्तिं शङ्कते — प्रतिबिम्बेति । आदित्यादौ जलादिना सन्निकर्षादिसंभवात्प्रतिबिम्बाख्यप्रवेशोपपत्तिः । आत्मनि तु परस्मिन्नसंगेऽनवच्छिन्ने केनचिदपि तदभावान्न यथोक्तप्रवेशसिद्धिरित्याह — न वस्त्वन्तरेणेति । प्रकारान्तरेण प्रवेशं चोदयति — द्रव्य इति । परस्यापि कार्ये प्रवेश इति शेषः । गुणापेक्षया परस्य दर्शयन्परिहरति — नेत्यादिना । स्वातन्त्र्यश्रवणमेष सर्वेश्वर इत्यादि । पनसादिफले बीजस्य प्रवेशवत्कार्ये परस्य प्रवेशः स्यादिति शङ्कित्वा दूषयति — फल इत्यादिना । विनाशादीत्यादिशब्देनानात्मत्वानीश्वरत्वादि गृह्यते । प्रसंगस्येष्टत्वमाशङ्क्य निराचष्टे — न चेति । जन्मादीनां धर्माणां धर्मिणो भिन्नत्वाभिन्नत्वासंभवादिन्यायः । बीजफलयोरवयवावयवित्वं पाषाणसर्पयोराधाराधेयतेत्यपुनरुक्तिः । परस्य सर्वप्रकारप्रवेशासंभवे प्रवेशश्रुतेरालम्बनं वाच्यमित्याशङ्क्य पूर्वपक्षमुपसंहरति — अन्य एवेति । जगतो हि परः स्रष्टेति वेदान्तमर्यादा स्रष्टैव च प्रवेष्टा प्रविश्य व्याकरवाणीति प्रवेशव्याकरणयोरेककर्तृत्वश्रुतेस्तस्मात्परस्मादन्यस्य प्रवेशो न युक्तिमानिति सिद्धान्तयति — नेत्यादिना । तत्रैव तैत्तिरीयश्रुतिं संवादयति — तथेति । ऐतरेयश्रुतिरपि यथोक्तमर्थमुपोद्बलयतीत्याह — स एतमेवेति । श्रीनारायणाख्यमन्त्रमप्यत्रानुकूलयति — सर्वाणीति । वाक्यान्तरमुदाहरति — त्वं कुमार इति । अत्रैव वाक्यशेषस्याऽनुगुण्यं दर्शयति — पुर इति । उदाहृतश्रुतीनां तात्पर्यमाह — न परादिति । परस्य प्रवेशे प्रविष्टानां मिथो भेदात्तदभिन्नस्य तस्यापि नानात्वप्रसक्तिरिति शङ्कते — प्रविष्टानामिति । न परस्यानेकत्वमेकत्वश्रुतिविरोधादिति परिहरति — नेत्यादिना । विचार विचचारेति यावत् । परस्य प्रवेशे नानात्वप्रसंगं प्रत्याख्याय दोषान्तरं चोदयति — प्रवेश इति । तेषां संसारित्वेऽपि परस्य किमायातं तदाह — तदनन्यत्वादिति । श्रुत्यवष्टम्भेन दूषयति — नेति । अनुभवमनुसृत्य शङ्कते — सुखित्वेति । नासंसारित्वमिति शेषः । गूढाभिसन्धिरुत्तरमाह — नेति । आगमो हि परस्यासंसारित्वे मानं त्वयोच्यते स चाध्यक्षविरुद्धो न स्वार्थे मानं न च वैपरीत्यं ज्येष्ठत्वेन बलवत्त्वादिति शङ्कते — प्रत्यक्षादीति । शङ्किते पूर्ववादिनि स्वाशयमाविष्कृतवति सिद्धान्ती स्वाभिसन्धिमाह — नोपाधीति । उपाधिरन्तःकरणं तदाश्रयत्वेन जनितो विशेषश्चिदाभासस्तद्गतदुःखादिविषयत्वात्प्रत्यक्षादेराभासत्वात्तेनाऽत्मन्यसंसारित्वागमस्य न विरोधोऽस्तीत्यर्थः । किञ्च प्रत्यक्षादीनामनात्मविषयत्वादात्मविषयत्वाच्चाऽऽगमस्य भिन्नविषयतया नानयोर्मिथो विरोधोऽस्तीत्यभिप्रेत्याऽऽत्मनोऽध्यक्षाद्यविषयत्वे श्रुतीरुदाहरति — न दृष्टेरिति । सुख्यहमित्यादिप्रतिभासस्य तर्हि का गतिरित्याशङ्क्य पूर्वोक्तमेव स्मारयति — किं तर्हीति । बुद्ध्यादिरुपाधिस्तत्राऽऽत्मप्रतिच्छाया तत्प्रतिबिम्बस्तद्विषयमेव सुख्यहमित्यादिविज्ञानमिति योजना । आत्मनो दुःखित्वाभावे हेत्वन्तरमाह — अयमिति । अयं देहोऽहमिति दृश्येन द्रष्टुस्तादात्म्याध्यासदर्शनाद्दृश्यविशिष्टस्यैव प्रत्यक्षविषयत्वान्न केवलस्याऽऽत्मनो दुःखादिसंसारोऽस्तीत्यर्थः । किञ्चास्थूलादिविशेषणमक्षरं प्रक्रम्य तस्यैव प्रत्यगात्मत्वं दर्शयन्ती श्रुतिरात्मनः संसारित्वं वारयतीत्याह — नान्यदिति । किञ्च पादयोर्दुःखं शिरसि दुःखमिति देहावयवावच्छिन्नत्वेन तत्प्रतीतेस्तद्धर्मत्वनिश्चयान्नाऽऽत्मनि संसारित्वं प्राणाणिकमित्याह — देहेति । श्रुतिवशादात्मनः संसारित्वं शङ्कते — आत्मनस्त्विति । सुखं तावदात्माश्रय’मात्मनस्तु कामाये’ति सुखसाधनस्याऽऽत्मार्थत्वश्रुतेरतस्तदविनाभूतं दुःखमपि तत्रेत्यात्मन्यसंसारित्वमयुक्तमित्यर्थः । आविद्यकसंसारित्वानुवादेनाऽऽत्मनोतिशयानन्दत्वप्रतिपादकमात्मनस्तु कामायेत्यादिवाक्यमिति मत्वाऽऽह — नेति । तदाविद्यकसंसारानुवादीत्यत्र गमकमाह — यत्रेति । अनेन हि वाक्येनाविद्यावस्थायामेवाऽऽत्मार्थत्वं सुखादेरभ्युपगम्यते । अतो न तस्याऽऽत्मधर्मत्वमित्यर्थः । आत्मनि संसारित्वस्याप्रतिपाद्यत्वेऽपि गमकमाह — तत्केनेति । आत्मनोऽसंसारित्वे विद्वदनुभवमनुकूलयितुं चशब्दः । तर्कशास्त्रप्रामाण्यादात्मनः संसारित्वमिति शङ्कते — तार्किकेति । बुद्ध्यादिचतुर्दशगुणवानात्मेति तार्किकसमयस्तेन विरोधात्तस्यासंसारित्वमयुक्तं तर्काविरुद्धो हि सिद्धान्तो भवतीत्यर्थः । सर्वतर्काविरोधी वा कतिपयतर्काविरोधी वा सिद्धान्तः नाऽऽद्यः । तार्किकादिसिद्धान्तस्यापि मिथो वैदिकतर्कैश्च विरोधादसिद्धिप्रसंगात् । द्वितीये तु श्रौततर्काविरोधादात्मासंसारित्वसिद्धान्तोऽपि सिद्ध्येदित्यभिसन्धायाऽऽह — न युक्त्याऽपीति । किञ्च दुःखादिरात्मधर्मो न भवति वेद्यत्वाद्रूपादिवदित्याह — न हीति । प्रत्यक्षाविषयत्वोक्त्या प्रतीचस्तद्विषयदुःखाविशेष्यत्वमुक्तमयुक्तं प्रत्यक्षाप्रत्यक्षयोः शब्दाकाशयोरिव दुःखात्मनोरपि गुणगुणित्वसंभवादिति शङ्कते — आकाशस्येति । यत्र धर्मधर्मिभावस्तत्रैकज्ञानगम्यत्वं दृष्टं यथा शुक्लो घट इति तद्व्यापकं व्यावर्तमानं दुःखात्मनोर्धर्मधर्मित्वं व्यावर्तयति शब्दाकाशयोरपि गुणगुणिभावो नास्माकं सम्मतः शब्दतन्मात्रमाकाशमिति स्थितेरित्याशयेनाऽऽह — नैकेति । कथं तदनुपपत्तिस्तत्राऽऽह — न हीति । नित्यानुमेयस्येति जरत्तार्किकमतानुसारेण साङ्ख्यसमयानुसारेण चोक्तम् । आधुनिकं तार्किकं प्रत्याह — तस्य चेति । सुखादिवदात्मनोऽपि प्रत्यक्षेण विषयीकरणे सत्येकस्मिन्देहे तदैक्यसम्मतेरात्मान्तरस्य तत्रायोगादेकत्र भोक्तृद्वयानिष्टेः पुरुषान्तरस्यान्यं प्रत्यप्रत्यक्षत्वाद्द्रष्ट्रभावादात्मदृश्यत्वासिद्धिरित्यर्थः । दीपस्य स्वव्यवहारहेतुत्वेन विषयविषयित्ववदेकस्यैवाऽऽत्मनो द्रष्टृदृश्यत्वसिद्धेर्द्रष्ट्रभावो नास्तीति शङ्कते — एकस्यैवेति । आत्मनो विषयविषयित्वं कार्त्स्न्येनांशाभ्यां वा । आद्येऽपि युगपत्क्रमेण वा । नाऽऽद्य इत्याह — न युगपदिति । क्रियायां गुणत्वं कर्तृत्वं तत्र प्राधान्यं कर्मत्वमतो युगपदेकक्रियां प्रत्येकस्य साकल्येन गुणप्रधानत्वायोगान्नैवमित्यर्थः । न द्वितीयः । एकभावेऽन्याभावादिति मत्वा कल्पान्तरं प्रत्याह — आत्मनीति । एतेन प्रदीपदृष्टान्तोऽपि प्रतिनीतस्तस्यांशाभ्यां तद्भावे प्रकृताननुकूलत्वात् । ननु विज्ञानवादिनो युगपदेकस्य विज्ञानस्य साकल्येन ग्राह्यग्राहकत्वमुपयन्ति तथा त्वदात्मनोऽपि स्यात्तत्राऽऽह — एतेनेति । एकस्योभयत्वनिरासेनेत्यर्थः । मा भूत्प्रत्यक्षमागमिकं पारिभाषिकं वाऽऽत्मनः संसारित्वम् । आनुमानिकं तु भविष्यति दुःखादि क्वचिदाश्रितं गुणत्वाद्रूपादिवदित्याश्रये सिद्धे परिशेषादात्मनस्तदाश्रयत्वादित्याशङ्क्याऽऽह — प्रत्यक्षेति । न हि मिथो विरुद्धयोर्गुणगुणित्वमनुमेयं दुःखादेश्च साभासबुद्धिस्थत्वात्पारिशेष्यासिद्धिरित्यर्थः । साभासान्तःकरणनिष्ठदुःखादीत्यत्र प्रमाणाभावात्कथं सिद्धसाधनत्वमित्याशङ्क्य दुःख्यहमित्यादिप्रत्यक्षस्य तत्र प्रमाणत्वादुक्तानुमानस्य सिद्धसाध्यतया परिशेषासिद्धिरित्याह — दुःखस्येति । यत्र रूपादिमति देहे दाहच्छेदादि दृष्टं तत्रैव तत्कृतदुःखाद्युपलम्भान्नाऽऽत्मनस्तद्वत्त्वमिति हेत्वन्तरमाह — रूपादिति । यत्त्वात्ममनःसंयोगादात्मनि बुद्ध्यादयो नव वैशेषिका गुणा भवन्तीति तद्दूषयति — मनःसंयोगजत्वेऽपीति । दुःखस्याऽऽत्मनि मनःसंयोगजत्वेऽभ्युपगतेऽपि मनोवदात्मनः संयोगित्वात्सावयवत्वादिप्रसंगादात्मत्वमेव न स्यादित्यर्थः । तत्र संयोगित्वेन सक्रियत्वं साधयति — नहीति । संप्रति सक्रियत्वेन सावयवत्वं प्रतिपादयति — न चेति । यद्वा दुःखाद्यात्मनो विक्रियेति कैश्चिदिष्टत्वात्तस्य सक्रियत्वमविरुद्धमित्याशङ्क्याऽऽह — न चेति । आत्मा न परिणामी निरवयवत्वान्नभोवदिति भावः । किञ्चाऽऽत्मा न गुणी नित्यत्वात्सामान्यवदित्याह — अनित्येति । नित्यं पश्याम इति शेषः । वाशब्दो नञनुकर्षणार्थः । आकाशे व्यभिचारमाशङ्क्याऽऽह — न चेति । आकाशस्य नित्यत्वं चेत् ‘आत्मन आकाशः संभूतः’(तै. उ. २ । १। १) इत्यादिश्रुतिविरोधः स्यादिति सूचयितुमागमवादिभिरित्युक्तम् । परमाण्वादौ व्यभिचारमाशङ्क्याऽऽह — न चान्य इति । न तावदणवः सन्ति त्र्यणुकेतरसत्त्वे मानाभावाद्दिशश्चाऽऽकाशेऽन्तर्भवन्ति कालस्तु ‘सर्वे निमेषा जज्ञिर’ इत्यादिश्रुतेरुत्पत्तिमान्मनोऽप्यन्नमयं श्रुतिप्रसिद्धमतो न क्वचिद्व्यभिचार इति भावः । यस्मिन्विक्रियमाणे तदेवेदमिति बुद्धिर्न विहन्यते तदपि नित्यमिति न्यायेन परिणामवादी शङ्कते — विक्रियमाणमिति । तत्प्रत्ययस्तदेवेदमिति प्रत्ययः । विक्रियां वदता द्रव्यस्यावयवान्यथात्वं वाच्यं तदेव तस्यानित्यत्वमत्यन्ताभावस्य प्रामाणिकत्वे दुर्वचत्वादिति परिहरति — न द्रव्यस्येति । आत्मनः सक्रियत्वं सावयवत्वं वाऽऽस्तु तथाऽपि नानित्यत्वमिति स्याद्वादी शङ्कते — सावयवत्वेऽपीति । यत्सावयत्वं तदवयवसंयोगकृतं यथा पटादि तथा सति संयोगस्य विभागावसानत्वादवयवविभागे द्रव्यनाशोऽवश्यम्भावीति दूषयति — न सावयवस्येति । यत्सावयवं तदवयवसंयोगपूर्वकमिति न व्याप्तिः । सावयवेष्वेव वज्रादिष्ववयवसंयोगपूर्वकत्वे प्रमाणाभावादिति शङ्कते — वज्रादिष्विति । विमतमवयवसंयोगपूर्वकं साववयत्वात्पटवदित्यनुमानेन परिहरति — नानुमेयत्वादिति । आत्मनो मनःसंयोगजन्यदुःखादिगुणत्वे सावयवत्वसक्रियत्वानित्यत्वादिप्रसंगं प्रतिपाद्य प्रकृतमुपसंहरति — तस्मादिति । आत्मनोऽनर्थध्वंसार्थशास्त्रारम्भान्यथानुपपत्त्या संसारितेत्यर्थापत्त्या शङ्कते — परस्येति । अविद्याविद्यमानमात्मस्थमनर्थभ्रमं निराकर्तुं तदारम्भः संभवतीत्यन्यथोपपत्त्या समाधत्ते — नाविद्येति । परस्यैवाविद्याकृतसंसारित्वभ्रान्तिध्वंसार्थं शास्त्रमित्येतद्दृष्टान्तेन स्पष्टयति — आत्मनीति । यत्तु परस्यादुःखित्वमन्यस्य च दुःखिनोऽसत्त्वं तत्राऽऽह — कल्पितेति । न तावत्परस्मादन्यो दुःखी ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ३ । ७ । २३) इत्यादिश्रुतेः । स पुनरनाद्यनिर्वाच्याज्ञानसंबन्धात्तज्जन्यैर्बुद्ध्यादिभिरैक्याध्यासमापन्नः संसरति । तथा च कल्पिताकारद्वारा दुःखिनः परस्याऽऽत्मनोङ्गीकारान्नार्थापत्तेरुत्थानमित्यर्थः । परस्य प्रवेशे प्राप्तां दोषपरम्परां पराकृत्य तत्प्रवेशस्वरूपं निरूपयति — जलेति । यथा जले सूर्यादेः प्रतिबिम्बलक्षणः प्रवेशो दृश्यते तथाऽऽत्मनोऽपि सृष्टे कार्ये काल्पनिकः प्रवेश इत्यर्थः । अनवच्छिन्नाद्वयचिद्धातोर्वस्त्वन्तरेण सन्निकर्षासंभवान्न प्रतिबिम्बाख्यप्रवेशः संभवतीत्याशङ्क्य वस्त्वन्तरकल्पनया कल्पितसन्निकर्षाद्यादाय प्रतिबिम्बपक्षं साधयति — आत्मेति । तदेव प्रपञ्चयति — प्रागुत्पत्तेरित्यादिना । स्वाभिप्रेतं प्रवेशं प्रतिपाद्य परेष्टं पराचष्टे — न त्विति । कुतश्चिद्दिशो देशात्कालाच्चापक्रमणेन दिगन्तरे देशान्तरे कालान्तरे च प्राप्तिलक्षण इति यावत् । यत्तु परस्मादन्यस्य प्रवेष्टृत्वमिति तत्राऽऽह — न चेति । अथेदं प्रवेशादि वस्तुतो विद्यमानमस्तु किमित्याविद्यं कल्प्यते तत्राऽऽह — उपलब्धीति । आत्मज्ञानार्थत्वेन प्रवेशादीनां कल्पितत्वात्तद्वाक्यानां न स्वार्थे पर्यवसानमित्यर्थः । फलवत्सन्निधावफलं तदङ्गमिति न्यायमाश्रित्योक्तमेव प्रपञ्चयति — उपलब्धेरित्यादिना । ततःशब्दो भक्तियोगपरामर्शी । तदित्यात्मज्ञानमुच्यते । तस्याग्र्यत्वं साधयति — प्राप्यते हीति । सृष्ट्यादिवाक्यानामैक्यज्ञानार्थत्वे हेत्वन्तरमाह — भेदेति । कल्पितं प्रवेशं प्रतिपादितमुपसंहरति — तस्मादिति । का पुनरस्य प्रवेशस्य मर्यादेत्याशङ्क्याऽऽह — आ नखाग्रेभ्य इति । संभवति मर्यादान्तरे किमिति प्रवेशस्येयमेव मर्यादेत्याशङ्क्याऽऽह — नखाग्रेति । दृष्टान्तद्वयमाकाङ्क्षापूर्वकमुत्थापयति — तत्रेति । प्रवेशाधारो देहादिः सप्तम्यर्थः । प्रथमोदाहरणप्रतीकोपादानम् — यथेति । तद्व्याचष्टे — लोक इति । तत्र प्रवेशितत्वं क्षुरस्य कथं सिद्धमत आह — अन्तःस्थ उपलभ्यत इति । विश्वम्भरशब्दस्याग्निविषयत्वं व्युत्पादयति — विश्वस्येति । तस्य तद्भर्तृत्वं महाभूतत्वाज्जाठरत्वाद्वा द्रष्टव्यम् । काष्ठादावग्नेरवहितत्वे युक्तिमाह — तत्रेति । दृष्टान्तद्वये विवक्षितमंशमनूद्य दार्ष्टान्तिकमाह — यथेत्यादिना । आत्मनो जाग्रत्स्वप्नयोर्देहे द्वयी वृत्तिः स्वापे तु सामान्यवृत्तिरेवेत्यवान्तरविभागमाह — तत्र हीति । अवस्थाद्वयं सप्तम्यर्थ; न केवलं विशेषवृत्तिरेव तदोपलब्धा किन्तु सामान्यवृत्तिश्चेति चकारार्थः । अवस्थान्तरे सैवेत्यपि तस्यैवार्थः । वाक्यान्तरमवतारयितुं भूमिकामाह — तस्मादिति । यस्मादुभयी वृत्तिरात्मनः शरीरे दृश्यते तस्मात्तत्रैव जलसूर्यवदविद्यया प्रविष्टोऽयमिति योजना । व्याकृताज्जगतः सकाशादात्मानं पृथक्कर्तुं तं न पश्यन्तीति वाक्यं तद्व्याचष्टे — तमात्मानमिति । विशिष्टं पश्यन्तोऽपि केवलमात्मानं न पश्यन्तीति यावत् । चाक्षुषत्वनिषेधस्येष्टत्वमाशङ्क्य व्याचष्टे — नोपलभन्त इति । उक्तनिषेधमाक्षिपति — नन्विति । प्रतिषेध्यस्य प्राप्तिं दर्शयन्परिहरति — नेत्यादिना । ’तन्नामरूपाभ्यां’ । स एष इत्यादिवाक्यानां ज्ञानार्थत्वे मानमाह — रूपमिति । विशिष्टस्य दर्शनेऽपि पूर्णस्यादर्शने हेतूक्तिरनन्तरवाक्यमित्याह — तत्रेति । प्रतिज्ञावाक्यार्थे स्थिते सतीति यावत् । तस्मात्तद्दर्शनेऽपि पूर्णस्यादर्शनमिति शेषः । विशिष्टस्यापि पूर्णत्वमात्मत्वादन्यथा प्राणनादिकर्तृत्वायोगादिति शङ्कते — कुत इति । प्राणनादिक्रियाकर्ता प्राणादिभिः संहतत्वात्पूर्णो न भवतीत्युत्तरवाक्यैरुत्तरमाह — उच्यत इति । आत्मनि प्राणशब्दप्रवृत्तिमुपपादयति — प्राणनक्रियाकर्तृत्वादिति । तत्कर्तृत्वादात्मा प्राण उच्यते प्राणितीति व्युत्पत्तेरिति योजना । सदृष्टान्तमेवकारार्थमाह — नान्यामिति । एवकारार्थमनूद्य हेत्वर्थमुपसंहरति — तस्मादिति । स्वापावस्थायां समस्तकरणोपसंहारेऽपि प्राणस्य व्यापारदर्शनात्प्राधान्यावगमात्प्राणन्नित्यादिवाक्यमादौ व्याख्याय क्रियाशक्तित्वेन प्राणसादृश्याद्वाचो वदन्नित्येतत्पूर्वकमुत्तरवाक्यानि व्याचष्टे — तथेत्यादिना । प्राणनवदनाभ्यामनुक्तकर्मेन्द्रियव्यापारमुपलक्ष्य वाक्यद्वयतात्पर्यमाह — प्राणन्नेवेति । प्राणवागाद्युपाधिद्वारेणाऽऽत्मनीति शेषः । दृष्टिश्रुतिभ्यामनुक्तज्ञानेन्द्रियव्यापारोपलक्षणं कृत्वाऽनन्तरवाक्ययोस्तात्पर्यमाह — पश्यन्निति । चक्षुराद्युपाधिद्वाराऽत्मनीति पूर्ववत् । उक्तबुद्धीन्द्रियव्यापाराभ्यामनुक्तं तद्व्यापारमुपलक्ष्याऽऽत्मनः स्रष्टृत्वादिपरिच्छेदो न सिद्ध्यति संबन्धं विनोपलक्षणायोगादित्याशङ्क्याऽऽह — नामरूपेत्यादिना । प्रकाश्यप्रकाशकातिरिक्तज्ञेयाभावात्तदुपलम्भे च चक्षुःश्रोत्रयोरिव त्वगादेरपि करणत्वादेकार्थत्वरूपसंबन्धादुपलक्षणसंभवादात्मनः स्रष्टृत्वादिसिद्धिरित्यर्थः । तथाप्युक्तकर्मेन्द्रियव्यापारेणानुक्ततद्व्यापारोपलक्षणादात्मनो न गन्तृत्वादिपरिच्छेदः संगच्छते विना संबन्धमुपलक्षणासिद्धेरित्याशङ्क्याऽऽह — क्रिया चेत्यादिना । सर्वा क्रिया नामरूपव्यङ्या प्राणाश्रया च तत्र प्राणाश्रयनामविषयोच्चारणक्रियाव्यञ्जकत्वं वाचो हस्तादीनां तदाश्रयादानादिव्यञ्जकता तस्मादेकाश्रयक्रियाव्यञ्जकत्वयोगादुपलक्षणसंभावादात्मनो गन्तृत्वादिसिद्धिरित्यर्थः । शक्तिद्वयोद्भवोक्त्या समस्तसंसारस्य प्रतीच्यध्यासोऽत्र विवक्षित इत्याह — एतदेवेति । उद्भूतं शक्तिद्वयमेतच्छब्दार्थः, उक्तेऽर्थे वाक्यशेषमनुकूलयति — त्रयमिति । आत्मा मन्वानः सन्मन इत्युच्यते मनुत इति व्युत्पत्तेरिति वाक्यान्तरं व्याचष्टे — मन्वान इति । करणे प्रसिद्धस्य मनःशब्दस्य कथमात्मनि वृत्तिरित्याशङ्क्य व्युत्पत्तिभेदमाह — ज्ञानशक्तीत्यादिना । आत्मादिशब्देभ्यो विशेषमाह — तानीति । कृत्स्नात्मवस्त्ववद्योतकानि न भवन्तीत्येतदेव स्फुटयति — एवं हीति । प्राणादीनां कर्मनामत्वे सतीति यावत् । अवद्योत्यमानोऽपि न कृत्स्नो दृष्टः स्यादिति शेषः । अकृत्स्नदर्शिनोऽप्यात्मदर्शित्वमाशङ्क्याऽऽह — स य इति । आत्मोपासितुरात्मदर्शनासत्त्वमयुक्तमिति शङ्कित्वा परिहरति — कस्मादित्यादिना । तस्माद्विशिष्टात्मदर्शी न ब्रह्मात्मत्वदर्शीति शेषः । उपास्तिर्ज्ञानमुपास्त इति न जानाति स्वभावादुपासनमित्युक्तत्वात् । तथा च जानन्न जानातीति व्याहतिरित्याशङ्क्याऽऽह — यावदिति । एवं वेदेत्येतदेव विव्रियते — पश्यामीत्यादिना । आकाङ्क्षापूर्वकं विद्यासूत्रमवतारयति — कथमिति । तत्र व्याख्येयं पदमादत्ते — आत्मेतीति । तद्व्याचष्टे प्राणादीनीति । तस्मिन्दृष्टे पूर्वोक्तदोषपराहित्यं दर्शयति — स तथेति । तत्तद्विशेषणव्याप्तिद्वारेणेति यावत् । कथं तत्तद्विशेषोपसंहारी तेन तेनाऽत्मना तिष्ठन्कृत्स्नः स्यात्तत्राह — वस्तुमात्रेति । स्वतोऽस्य प्राणनादिसंबन्धे संभवति किमित्युपाधिसंबन्धेनेत्यासंक्याऽऽह — तथा चेति । आत्मनि सर्वोपसंहारवति दृष्टे पूर्वोक्तदोषाभावात्तं पश्यन्नेवाऽऽत्मदर्शीत्युपसंहरति — तस्मादिति । यथोक्तात्मोपासने पूर्वोक्तदोषाभावे प्रागुक्तमेव हेतुं स्मारयति — एवमिति । तस्यार्थं स्फोरयति — स्वेनेति । वाङ्मनसातीतेनाकार्यकरणेन प्रत्यग्भूतेनेति यावत् । आकाङ्क्षापूर्वकमुत्तरवाक्यमवतार्य व्याकरोति — कस्मादित्यादिना । तस्माद्यथोक्तमात्मानमेवोपासीतेति शेषः । अस्यैव द्योतको द्वितीयो हिशब्दः । विद्यासूत्रं विधिस्पर्शं विना विवक्षितेऽर्थे व्याख्यायापूर्वविधिरयमिति पक्षं प्रत्याह — आत्मेत्येवेति । अत्यन्ताप्राप्तार्थो ह्यपूर्वविधिर्यथा स्वर्गकामोऽग्निहोत्रं जुहुयादिति । नायं तथा पक्षे प्राप्तत्वादात्मोपासनस्य । तस्य तत्प्राप्तिश्च पुरुषविशेषापेक्षया विचारावसाने स्पष्टीभविष्यतीत्यर्थः । इदानीमात्मज्ञानस्याविधेयत्वख्यापनार्थं वस्तुस्वभावालोचनया नित्यप्राप्तिमाह — यत्साक्षादिति । उत्पाद्यतामुक्तश्रुतिभिरात्मविज्ञानं किं तावतेत्यत आह — तत्रेति । कारकादीत्यादिपदं तदवान्तरभेदविषयम् । नन्वविद्यायामपनीतायामपि रागद्वेषादिसद्भावाद्वैधी प्रवृत्तिः स्यान्नहि विद्वदविदुषोर्व्यवहारे कश्चिद्विशेषः ‘पश्वादिभिश्चाविशेषादि’ति न्यायादत आह — तस्यामिति । बाधितानुवृत्तिमात्रान्न वैधी प्रवृत्तिरबाधिताभिमानमन्तरेण तदयोगादिति भावः । विदुषः सुषुप्ततुल्यत्वं व्यावर्तयति — पारिशेष्यादिति । श्रौतज्ञानात्पूर्वमपि सर्वासां चित्तवृत्तीनां जन्मनैवाऽऽत्मचैतन्यव्यञ्जकत्वात्प्राप्तमात्मज्ञानं श्रौते तु ज्ञाने नास्त्यनात्मेति स्फुरणमात्मज्ञानमेवेति नित्यप्राप्तिमभिप्रेत्याऽऽह — तस्मादिति । अस्मिन्पक्ष इति नित्यप्राप्तत्वपक्षोक्तिः । अपूर्वविधिवादी शङ्कते — तिष्ठतु तावदिति । सर्वेषां स्वभावतो विषयप्रवणानीन्द्रियाणि नाऽऽत्मज्ञानवार्तामपि मृष्यन्ते तदत्यन्ताप्राप्तत्वादात्मज्ञाने भवत्यपूर्वविधिरिति भावः । विशिष्टस्याधिकारिणः शाब्दज्ञानं शब्दादेव सिद्धमिति कथमप्राप्तिरित्याशङ्क्याऽऽह — ज्ञानेति । न खल्वत्र शाब्दज्ञानं विवक्षितं किन्तूपासनम् । उपासनं नाम मानसं कर्म तदेव ज्ञानावृत्तिरूपत्वाज्ज्ञानमित्येकत्वे सत्यप्राप्तत्वाद्विधेयमित्यर्थः । तयोरेकत्वं विवृणोति — नेत्यादिना । अनेन हीत्यादौ वेदशब्दस्यार्थान्तरविषयत्ववन्न स वेदेत्यत्रापि किं न स्यादित्याशङ्क्यऽऽह — अनेनेति । उक्तश्रुतिभ्यो यद्विज्ञानं श्रुतं तदुपासनमेवेति योजना । ‘स योऽत एकैकमुपास्ते’(बृ. उ. १ । ४ । ७) इत्युपक्रमात् ‘आत्मेत्येवोपासीत’ इत्युपसंहाराच्च न स वेदेत्यत्र तावद्वेदशब्दस्योपासनार्थत्वमेष्टव्यमन्यथोपक्रमोपसंहारविरोधात् । तथा चार्धवैशसासंभवादुपासनमेव सर्वत्र वेदनं न तच्च सर्वथैवाप्राप्तमिति तस्मिन्नपूर्वविधिः स्यादिति भावः । इतश्च तस्मिन्नेष्टव्यो विधिरित्याह — न चेति । अतः प्रवर्तको विधिरुपेय इति शेषः । स चात्यन्ताप्राप्तविषयत्वान्नियमादिरूपो न भवतीत्याह — तस्मादिति । आत्मोपास्तिर्विधेयेत्यत्र हेत्वन्तरमाह — कर्मविधीति । कर्मात्मज्ञानविध्योः शब्दानुसारेणाविशेषमभिदधाति — यथेत्यादिना । संप्रत्यर्थतोऽप्यविशेषमाह — मानसेति । तदेव दृष्टान्तेन स्पष्टयति — यथेति । यदि क्रिया विधीयते कथं ज्ञानात्मिकेति विशेष्यते तत्राऽऽह — तथेति । इतश्चाऽत्मोपासने विधिरस्तीत्याह — भावनेति । वेदान्तेषु भावनोपेक्षितांशत्रयोपपत्तिं विशदयितुं दृष्टान्तमाह — यथेति । भावनाया विधीयमानत्वे सतीति शेषः । प्रेरणाधर्मकः शब्दव्यापारः स्वज्ञानकरणकः स्तुत्यादिज्ञानेतिकर्तव्यताकः पुरुषप्रयत्नभाव्यनिष्ठः शब्दभावनोच्यते । स्वर्गं यागेन प्रयाजादिभिरुपकृत्य साधयेदिति पुरुषप्रवृत्तिरर्थभावनेति विभागः दृष्टान्तस्थमर्थं दार्ष्टान्तिके योजयति — तथेत्यादिना । त्यागो निषिद्धकाम्यवर्जनम् । उपरमो नित्यनैमित्तिकत्यागः । तितिक्षादीत्यादिपदं समाधानादिसंग्रहार्थमित्यंशत्रयमिति संबन्धः । शास्त्रं ‘शान्तो दान्त’(बृ. उ. ४ । ४ । २३) इत्यादि । उक्तप्रकारमंशत्रयमन्यदपि सुलभमिति वक्तुमादिपदम् । विधियुक्तानां वेदान्तानां कार्यपरत्वेऽपि तद्धीनानां तेषां वस्तुपरतेत्याशङ्क्याऽऽह — यथा चेति । विध्युद्देशत्वेन तच्छेषत्वेनेति यावत् । अस्थूलादिवाक्यानामारोपितद्वैतनिषेधेनाद्वयं वस्तु समर्पयतां कथमुपास्तिविधिशेषत्वमित्याशङ्क्याऽऽह — नेत्यादिना । ’ब्रह्म वेद ब्रह्मैव भवति’ ‘तरति शोकमात्मवित्’(छा. उ. ७ । १ । ३) इत्यादीनां फलार्पकत्वेनोपास्तिविध्युपयोगमभिप्रेत्याऽऽह — फलञ्चेति । मोक्षो ब्रह्मप्राप्तिः । आत्मोपासनं विधेयमिति पक्षमुक्त्वा पक्षान्तरमाह — अपर इति । तस्यानुपयोगमाशङ्क्याऽऽह — तेनेति । शाब्दस्य ज्ञानस्यासंस्पृष्टापरोक्षात्मविषयत्वाभावमितिशब्देन हेतूकरोति । ज्ञानान्तरं वेदान्तेषु विधेयमित्यत्र मानमाह — एतस्मिन्निति । पक्षद्वये प्राप्ते प्रथमपक्षं प्रत्याह — नार्थान्तराभावादिति । तत्र नञर्थमेव स्वयं व्याचष्टे — न चेति । शाब्दज्ञानवतो विषयाभावान्न विधिः संभवत्यविद्यातत्कार्यनिवृत्तौ स्वयं फलावस्थत्वाच्चेत्यर्थः । हेतुभागं प्रश्नपूर्वकं विवृणोति — कस्मादित्यादिना । आत्मोपदेशेनानात्मनिषेधद्वारा वाक्योत्थज्ञानातिरेकेणेति यावत् । कर्तव्यान्तराभावेऽपि वाक्यजन्यविज्ञानमेव विधेयं स्यादित्याशङ्क्याऽऽह — तत्र हीति । दृष्टान्तेऽपि वाक्योत्थज्ञानातिरेकेण पुरुषप्रवृत्तिरसिद्धेत्याशङ्क्याऽऽह — न हीति । तदनुष्ठानं तर्हि वाक्यार्थज्ञानाधीनमिति व्यर्थो विधिस्तत्राऽऽह — तच्चेति । अधिकारो विधिपुरुषसंबन्धस्तत्कृतज्ञानापेक्षमनुष्ठानमित्यर्थवान्विधिरित्यर्थः । तर्हि प्रकृतेऽपि वाक्योत्थज्ञानव्यतिरेकेण पुरुषव्यापारसंभवाद्विधिसाफल्यमित्याशङ्क्याऽऽह — नत्विति । अथ विमतं प्रवर्तकं वैदिकज्ञानत्वाद्विधिवाक्योत्थज्ञानवदित्याशङ्क्य प्रवर्तकविषयत्वमुपाधिरित्याह — नहीति । मिथ्याज्ञानानिवर्तकत्वमुपाध्यन्तरमाह — अब्रह्मेति । वाक्योत्थज्ञानस्य तन्निवर्तकत्वेऽपि प्रवर्तकत्वं किं न स्यादित्याशङ्क्याऽऽह — न चेति । द्वितीयोपाधेः साधनव्याप्तिं शङ्कते — वाक्येति । ब्रह्मात्मैक्यधीपरवाक्योत्थविज्ञानस्याज्ञानतत्कार्यध्वंसित्वध्रौव्यान्न साधनव्याप्तिरित्याह — नेत्यादिना । तद्वादित्वाद्वस्तुपरत्वादिति यावत् । उक्तानां वाक्यानां विध्यपेक्षितार्थसमर्पकत्वेन तच्छेषत्वं शङ्क्तितमनुभाषते — द्रष्टव्येति । सिद्धान्तोपक्रमेण समाहितमेतदित्याह — नेति । तदेव स्पष्टयति — आत्मेति । परोक्तमुद्भावयति — आत्मस्वरूपेति । कुत्र तर्हि विधिरात्मज्ञाने वा वाक्यश्रवणे वा तदर्थज्ञानस्मृतिसन्ताने वा चित्तवृत्तिनिरोधे वा नाऽऽद्य इत्याह — नाऽऽत्मवादीति । द्वितीयं शङ्कते — तच्छ्रवणेऽपीति । अनिष्टार्थवादिवाक्यस्यासत्यादिलक्षणस्य विधिं विना श्रवणात्तत्त्वमादेरपि तस्मादृते श्रवणमविरुद्धमित्यभिसन्धाय दोषान्तरमाह — नेत्यादिना । तत्त्वमादिश्रवणप्रयोजको विधिरात्मनोऽपि प्रयुङ्क्ते श्रवणमिति चेन्नैवं स खल्वध्ययनविधिरन्यो वा आद्ये तदपेक्षया श्रुतस्य तत्त्वमस्यादेः स्वार्थबोधित्वं कर्मवाक्यवदिति स्वार्थनिष्ठत्वाविशेषः, द्वितीये तस्याप्रमाणत्वात्तदीयस्वपरनिर्वाहकत्वं दूरोत्सारितमित्यभिप्रेत्यानवस्थां विवृणोति — यथेत्यादिना । तृतीयमाशङ्कते — वाक्यजनितेति । ततः सा विधेयेति शेषः । तस्या विधेयत्वं दूषयति — नेति । अर्थप्राप्तिं विवृणोति — यदैवेति । अनात्मस्मृतिहेत्वज्ञाननिवृत्तौ तत्कार्यस्मृत्यनुपपत्तेः स्वभावबलप्राप्तैवाऽऽत्मस्मृतिरित्युक्तमिदानीमनात्मस्मृतेरनर्थत्वस्यान्वयव्यतिरेकसिद्धत्वाच्चाऽऽत्मस्मृतिः स्वभावप्राप्तेत्याह — अनर्थत्वेति । अनात्मनोऽनर्थत्वनिश्चयाच्च तदीयस्मृत्यनुपपत्तावितरस्मृतिरर्थप्राप्तेत्याह — आत्मावगताविति । आत्मनश्च परमेष्टत्वावगमादर्थप्राप्ता तदीयस्मृतिरित्याह — आत्मवस्तुनश्चेति । अर्थप्राप्त्या विधेयत्वाभावमुपसंहरति — तस्मादिति । अनात्मस्मृतिहेत्वज्ञानाभावादिस्तच्छब्दार्थः । अर्थतः चिदेकरसात्मस्वभावबलादिति यावत् । दृष्टफलत्वाच्चाऽत्मस्मृतिर्न विधेयेत्याह — शोकेति । मिथ्याज्ञानमेव सा निवर्तयति न शोकादीत्याशङ्क्याऽऽह — विपरीतेति । आत्मस्मृतेः शोकादिनिवर्तकत्वे मानमाह — तथा चेति । चतुर्थमुत्थापयति — निरोधस्तर्हीति । यदि वाक्योत्थज्ञानादेरविधेयत्वं तर्हि चित्तवृत्तिनिरोधो मुक्तिसाधनत्वेन विधीयतां तस्योक्तज्ञानादेरर्थान्तरत्वादित्यर्थः । चोद्यमेव विवृणोति — अथापीति । अर्थान्तरत्वात्तस्य विधेयतेति शेषः । तस्य मुक्तिहेतुत्वेन विधेयत्वे योगशास्त्रं संवादयति — तन्त्रान्तरेष्विति । ’अथ योगानुशासनमि’ति निःश्रेयसहेतुः समाधिः सूत्रितस्तस्य च लक्षणमुक्तं ‘योगश्चित्तवृत्तिनिरोध’(यो.सू.१-२) इति । तन्निरोधावस्थायां चाऽऽत्मनः स्वरूपप्रतिष्ठत्वं कैवल्यमाख्यातं तदा द्रष्टुः स्वरूपेऽवस्थानमित्येवं योगशास्त्रे मुक्तिहेतुत्वेनेष्टो निरोधविधिरित्यर्थः । योगशास्त्रादपि बलवतीं श्रुतिमाश्रित्योत्तरमाह — नेत्यादिना । चित्तवृत्तिनिरोधस्य मुक्तिहेतुत्वेऽपि न विधेयत्वं विधिं विना तत्सिद्धेरित्याह — अनन्येति । न तावद्यथाकथञ्चिन्निरोधो विधेयः सर्वस्यापि तत्संभवाद्विधिवैयर्थ्यान्नापि सर्वात्मना तन्निरोधो विधेयो ज्ञानादेव तत्सिद्धेर्विध्यानर्थक्यादित्यर्थः । ’नान्यः पन्था विद्यते’ ‘ज्ञानादेव तु कैवल्यमि’त्यादिशास्त्रमनुसरन्नुपेत्यवादं त्यजति — अभ्युपगम्येति । निरोधस्य मुक्तिहेतुत्वमिदमा परामृष्टम् । योगशास्त्रमपि श्रुतिस्मृतिविरोधे न प्रमाणम् । ‘एतेन योगः प्रयुक्त’(ब्र. सू. २.१.३) इति न्यायादिति भावः । वेदान्तेषु विधेयाभावोक्त्या विधिर्निरस्तः संप्रत्यंशत्रयवती भावना तेष्वस्तीत्युक्तं दूषयति — आकाङ्क्षेति । तदेव स्फुटयितुमुक्तमनुवदति — यदुक्तमिति । आगमावष्टम्भेन निराचष्टे — तदसदिति । विधिमन्तरेण वाक्यार्थज्ञाने प्रवृत्त्ययोगाद्वैधमेव ज्ञानं सर्वाकाङ्क्षानिवर्तकमित्याशङ्क्याऽऽह — न चेति । यथा कर्मकाण्डे स्वाध्यायविधेरर्थावबोधपर्यन्तत्वेन ज्योतिष्टोमादिविध्यर्थज्ञाने विध्यन्तरं नापेक्षते तथा ज्ञानकाण्डेऽपि स्यादित्यर्थः । तत्रापि वेदः कृत्स्नोऽधिगन्तव्य इति विध्यन्तरप्रयुक्तमेव वाक्यार्थज्ञानमित्याशङ्क्याऽऽह — विध्यन्तरेति । श्रुतहान्यश्रुतकल्पनाप्रसंगाच्च न विधिशेषत्वं वेदान्तानामित्याह — न चेति । वेदान्तः स्वार्थे न मानं सिद्धार्थवाक्यत्वात्सोऽरोदीदित्यादिवदित्यनुमानात्तेषां विधिशेषत्वं प्रामाण्यार्थमेष्टव्यमिति शङ्कते — वस्तुस्वरूपेति । तदेवानुमानं प्रपञ्चयति — अथापीति । विधेरश्रुतत्वेऽपीति यावत् । फलवन्निश्चितज्ञानाजनकत्वमुपाधिरिति मन्वानः समाधत्ते — न विशेषादिति । नञर्थं स्पष्टयति — न वाक्यस्येति । विशेषं व्याचष्टे — किं तर्हीति । तस्य प्रामाण्यप्रयोजकत्वमन्वयव्यतिरेकाभ्यां दर्शयति — तद्यत्रेति । सामान्यन्यायं प्रकृते योजयन्पृच्छति — किञ्चेति । किं तेषु तादृग्ज्ञानमुत्पद्यते न वेति प्रश्नार्थः । द्वितीयेऽनुभवविरोधः स्यादिति मत्वा पक्षान्तरमनूद्य प्रत्याह — उत्पद्यते चेदिति । प्रामाण्ये हेतुसद्भावान्नाप्रामाण्यमित्यर्थः । निश्चितज्ञानजनकत्वेऽपि फलवत्त्वविशेषणमसिद्धमित्याशङ्क्याऽऽह — किंवेति । विद्वदनुभवफलश्रुतिसिद्धं विशेषणमिति भावः । दृष्टान्तं विघटयितुं प्रश्नान्तरं प्रस्तौति — एवमिति । वेदान्तेष्विवेति यावत् । किं वा नेति शेषः । आद्ये साध्यवैकल्यं मत्वा द्वितीयं दूषयति — न चेदिति । तर्हि तद्दृष्टान्तेन तत्त्वमस्यादेरपि स्यादप्रामाण्यमित्याशङ्क्याऽऽह — तदप्रामाण्य इति । विमतं स्वार्थे मानं यथोक्तज्ञानजनकत्वाद्दर्शादिवाक्यवदिति भावः । विपक्षे दोषमाह — तदप्रामाण्ये चेति । प्रवर्तकज्ञानजनकत्वमुपाधिरिति शङ्कते — नन्विति । साधनव्याप्तिं धुनीते — आत्मेति । प्रवर्तकधीजनकत्वं धर्मिणि नास्तीत्यङ्गीकरोति — सत्यमिति । तर्हि यथोक्तोपाधिसद्भावादनुमानानुत्थानमित्याशङ्क्याऽऽह — नैष दोष इति । न हि प्रवर्तकधीजनकत्वं प्रामाण्ये कारणं निषेधवाक्येष्वप्रामाण्यप्रसंगात् । न च निवर्तकधीजनकत्वमपि तथा; विधावप्रामाण्यप्रसंगात् । नोभयं प्रत्येकमुभयकारणत्वाभावेनाप्रामाण्यादिति भावः । वेदान्तेषु प्रवर्तकधीजनकत्वाभावो न केवलमदोषः किन्तु गुण इत्याह — अलङ्कारश्चेति । ’आत्मानं चेदि’त्यादिश्रुते’रेतद्बुध्वे’त्यादिस्मृतेश्चाऽऽत्मज्ञानं कृतकृत्यतानिदानम् । न च ज्ञानस्य प्रवर्तकत्वे तद्युक्तं प्रवृत्तीनां क्लेशाक्षेपकत्वादतो यथोक्तज्ञानजनकत्वं वाक्यानां भूषणमेवेत्यर्थः । शब्दोत्थं ज्ञानं विधेयमिति प्रतिक्षिप्य पूर्वोक्तपक्षान्तरमनुवदति — यत्तूक्तमिति । उपासनार्थत्वमित्यात्मोपासनेन तत्साक्षात्कारं भावयेदित्येवमर्थत्वमित्यर्थः । अभ्युपगमवादेन परिहरति — सत्यमिति । यथोक्तेषु वाक्येष्वात्मोपासनं तत्साक्षात्कारमुद्दिश्य विधीयते चेत्प्रकृतेऽपि वाक्ये तत्संभवान्नापूर्वविधिरिति प्रक्रमो भज्येतेत्याशङ्क्याऽऽह — किन्त्विति । कथं तर्हि विध्यङ्गीकारवाचोयुक्तिरित्याशङ्क्याऽऽह — पक्ष इति । यथा पक्षे प्राप्तस्यावघातस्य व्रीहीनवहन्तीति नियमरूपो विधिरङ्गीकृतस्तथाऽऽत्मोपासनस्यापि पक्षे प्राप्तस्य तदेव कर्तव्यं नानात्मोपासनमिति यो नियमस्तदर्थता प्रकृतवाक्यस्येति न प्रक्रमविरोधोऽस्तीत्यर्थः । पाक्षिकीं प्राप्तिमुक्तामाक्षिपति — कथमिति । का पुनरत्रानुपपत्तिरित्याशङ्क्याऽऽह — यावतेति । आत्मनि वाक्योत्थे विज्ञाने सत्यनात्मस्मृतिहेतूनां मिथ्याज्ञानादीनामपनीतत्वाद्धेत्वभावे फलाभाव इति न्यायेन तासामसंभवादात्मस्मृतिसन्ततिरेव पुनः सदा स्यात्प्रकारान्तरायोगादिति सिद्धान्तिनोक्तत्वान्नाऽऽत्मोपासनस्य पक्षे प्राप्तिरित्यर्थः । तस्य नित्यप्राप्तिमुक्तामङ्गीकरोति — बाढमिति । तर्हि नियमविधिवाचोयुक्तिरयुक्तेत्याशङ्क्याऽऽह — यद्यपीति । आत्मनि नित्यापरोक्षसंविदेकताने स्मरणं विस्मरणं वा यद्यपि नोपपद्यते तथाऽपि तयोस्तस्मिन्ननुभवसिद्धत्वान्नियमविधेः सावकाशत्वमित्याशयेनाऽऽह — शरीरेति । अथाऽऽरब्धफलस्यापि कर्मणः सम्यग्ज्ञानान्निवृत्तेर्न विदुषो वागादीनां प्रवृत्तिरत आह — लब्धेति । यथा मुक्तस्येषुपाषाणादेरप्रतिबन्धाद्यावद्वेगं प्रवृत्तिरवश्यम्भाविनी तथा प्रवृत्तफलस्य कर्मणो ज्ञानेनोपजीव्यतया ततो बलवत्त्वात्तद्वशाद्विदुषोऽपि यावद्भोगं वागादिप्रवृत्तिध्रौव्यमित्यर्थः । आरब्धकर्मप्राबल्ये फलितमाह — तेनेति । आरब्धस्य कर्मणो यथोक्तेन न्यायेन प्राबल्ये तद्वशात्क्षुधादिदोषो यदोद्भवति तदाऽऽत्मनि विस्मरणादिसंभवात्तज्ज्ञानप्राप्तेः पाक्षिकत्वादवश्यम्भाविकर्मापेक्षया तद्दौर्बल्यं स्यादित्यर्थः । तथाऽपि नियमविध्यङ्गीकारस्य किमायातं तदाह — तस्मादिति । ज्ञानस्य पक्षे प्राप्तत्वं तच्छब्दार्थः । आदिपदं ब्रह्मचर्यशमदमादिसंग्रहार्थम् । विज्ञायेत्यादिवाक्यानां नियमविध्यर्थत्वमुपसंहरति — तस्मादिति । आदिपदेन प्रकृतमपि वाक्यं संगृह्यते । तच्छब्दार्थमेव स्पष्टयति — अन्यार्थेति । शाब्दज्ञानादेव पुमर्थसिद्धेस्तस्य तदावृत्तेस्तृतीयज्ञानस्य वा विधेयत्वाभावाद्वेदान्ताः शुद्धे सिद्धेऽर्थे मानमित्युक्तमिदानीमितिशब्दप्रयुक्तं चोद्यमुत्थापयति — अनात्मेति । आत्मशब्दादूर्ध्वमितिशब्दप्रयोगादात्मशब्दार्थस्योपास्यत्वेनाविवक्षितत्वादात्मगुणकस्यानात्मनोऽव्याकृतशब्दितस्य प्रधानस्योपासनमस्मिन्वाक्ये विवक्षितमित्यर्थः । उक्तमेवार्थं दृष्टान्तेन स्पष्टयति — यथेत्यादिना । अनात्मोपासनमेवात्र विधित्सितमित्यत्र हेत्वन्तरमाह — आत्मेति । तदेव प्रपञ्चयति — परेणेति । ततो वैलक्षण्यं दर्शयति — इह त्विति । वैलक्षण्यान्तरमाह — इतिपरश्चेति । वैलक्षण्यफलमाह — अत इति । नात्रानात्मोपासनं विवक्षितमिति परिहरति — नेत्यादिना । हेत्वर्थं स्फुटयति — अस्यैवेति । आत्मनश्चेदुपास्यत्वं तदा प्रक्रमविरोधः स्यादिति शङ्कते — प्रविष्टस्येति । आत्मनो दर्शनप्रतिषेधं प्रकटयति — यस्येति । तस्यैवेति नियमे हेतुमाह — प्रकृतेति । तच्छब्दस्य प्रकृतपरामर्शित्वात्प्रविष्टस्य च प्रकृतत्वात्तस्य तेनोपादानादिति हेत्वर्थः । पूर्वपक्षं निगमयति — तस्मादिति । प्राणनादिविशिष्टस्य परिच्छिन्नत्वात्तस्य दृष्टत्वेऽपि पूर्णस्य न दृष्टतेति निषेधश्रुतिपर्यवसानान्नोपक्रमविरोधोऽस्तीति परिहरति — नेत्यादिना । तदेव विशदयति — दर्शनेति । कथमयमभिप्रायभेद श्रुतेरवगम्यते तत्राऽऽह — प्राणनादीति । प्राणन्नेवेत्यादिना क्रियाविशेषविशिष्टत्वेनाऽऽत्मनो विशेषणात्तस्य दृष्टत्वेऽपि नासौ परिपूर्णो दृष्टः स्यादिति श्रुतेराशयो लक्ष्यते केवलस्य तु तस्योपास्यत्वमभिसंहितमकृत्स्नत्वदोषाभावादित्यर्थः । उक्तमर्थं व्यतिरेकमुखेन साधयति — आत्मनश्चेदिति । तस्यानुपास्यत्वार्थं तद्वचनमर्थवदित्याशङ्क्य तदुपास्यत्वनिषेधस्याऽऽत्मोपास्यत्वे पर्यवसानमभिप्रेत्याऽऽह — अतोऽनेकैकेति । उपक्रमोपसंहाराभ्यामुपास्यत्वमात्मनो दर्शितमिदानीमितिशब्दप्रयोगादनात्मोपासनमिदमित्युक्तं प्रत्याह — यस्त्विति । प्रयोगशब्दादुपरिष्टात्सशब्दो द्रष्टव्यः । इतिशब्दस्य यथोक्तार्थत्वाभावे दोषमाह — अन्यथेति । न चाऽऽत्मनः स्वातन्त्र्येणानुपास्यत्वार्थमितिशब्दोऽर्थवान्पूर्वापरवाक्यविरोधादिति द्रष्टव्यम् । इतिशब्दमन्तरेण वाक्यप्रयोगे दोषमाह — तथेति । तस्य शब्दप्रत्ययविषयत्वमिष्टमेवेति चेत्तत्राऽऽह — तच्चेति । आत्मोपास्यत्ववाक्यवैलक्षण्यादनात्मोपासनमेतदित्युक्तं तद्दूषयति — यत्त्विति । आत्मैव ज्ञातव्यो नानात्मेति प्रतिज्ञायामत्र हीत्यादिना हेतुरुक्तः संप्रति तदेतत्पदनीयमित्यादिवाक्यापोह्यं चोद्यमुत्थापयति — अनिर्ज्ञातत्वेति । उत्तरमाह — अत्रेति । निर्धारणमेव स्फोरयति — अस्मिन्निति । नान्यदित्युक्तत्वादनात्मनो विज्ञातव्यत्वाभावश्चेदनेन हीत्यादिशेषविरोधः स्यादिति शङ्कते — किं नेति । तस्याज्ञेयत्वं निषेधति — नेति । तस्यापि ज्ञातव्यत्वे नान्यदिति वचनमनवकाशमित्याह — किं तर्हीति । तस्य सावकाशत्वं दर्शयति — ज्ञातव्यत्वेऽपीति । आत्मनः सकाशादनात्मनोऽर्थान्तरत्वात्तस्याऽऽत्मज्ञानाज्ज्ञातव्यत्वायोगाज्ज्ञातव्यत्वे ज्ञानान्तरमपेक्षितव्यमेवेति शङ्कते — कस्मदिति । उत्तरवाक्येनोत्तरमाह — अनेनेति । आत्मन्यानात्मजातस्य कल्पितत्वात्तस्य तदतिरिक्तस्वरूपाभावात्तज्ज्ञानेनैव ज्ञातत्वसिद्धेर्नास्ति ज्ञानान्तरापेक्षेत्यर्थः । लोकदृष्टिमाश्रित्यानेनेत्यादिवाक्यार्थमाक्षिपति — नन्विति । आत्मकार्यत्वादनात्मनस्तस्मिन्नन्तर्भावात्तज्ज्ञानेन ज्ञानमुचितमिति परिहरति — अस्येति । सत्योपायाभावादात्मतत्त्वस्य पदनीयत्वासिद्धिरिति शङ्कते — कथमिति । असत्यस्यापि श्रुत्याचार्यादेरर्थक्रियाकारित्वसंभवादात्मतत्त्वस्य पदनीयत्वोपपत्तिरित्याह — उच्यत इति । विवित्सितं लब्धुमिष्टम् । अन्वेषणोपायत्वं दर्शयितुं पदेनेति पुनरुक्तिः । अनेनेत्यत्र वेदेति ज्ञानेनोपक्रम्यानुविन्देदिति लाभमुक्त्वा कीर्तिमित्यादिश्रुतौ पुनर्ज्ञानार्थेन विदिनोपसंहारादनुविन्देदिति श्रुतेरुपक्रमोपसंहारविरोधः स्यादिति शङ्कते — नन्विति । शङ्कितं विरोधं निराकरोति — नेति । कथं तयोरैकार्थ्यं ग्रामादौ तदेकत्वाप्रसिद्धेरित्याशङ्क्याऽऽह — आत्मन इति । ग्रामादावप्राप्ते प्राप्तिरेव लाभो न ज्ञानमात्रं तथाऽत्रापि किं न स्यादित्याशङ्क्याऽऽह — नेत्यादिना । ज्ञानलाभशब्दयोरर्थभेदस्तर्हि कुत्रेत्याशङ्क्याऽऽह — यत्र हीति । अनात्मनि लब्धृलब्धव्ययोर्ज्ञातृज्ञेययोश्च भेदे क्रियाभेदात्फलभेदसिद्धिरित्यर्थः । नन्वात्मलाभोऽपि ज्ञानाद्भिद्यते लाभत्वादनात्मलाभवदित्याशङ्क्य ज्ञानहेतुमात्रानधीनत्वमुपाधिरित्याह — स चेति । अप्राप्तत्वं व्यक्तीकरोति — उत्पाद्येति । तद्व्यवधानमेव साधयति — कारकेति । किञ्चानात्मलाभोऽविद्याकल्पितः कादाचित्कत्वात्सम्मतवदित्याह — स त्विति । किञ्चासावविद्याकल्पितोऽप्रामाणिकत्वात्संप्रतिपन्नवदित्याह — मिथ्येति । प्रकृते विशेषं दर्शयति — अयं त्विति । वैपरीत्यमेव स्फोरयति — आत्मत्वादिति । आत्मनस्तर्हि नित्यलब्धत्वान्न तत्रालब्धत्वबुद्धिः स्यादित्याशङ्क्याऽऽह — नित्येति । आत्मन्यलाभोऽज्ञानं लाभस्तु ज्ञानमित्येतद्दृष्टान्तेन स्पष्टयति — यथेत्यादिना । शुक्तिकायाः स्वरूपेण गृह्यमाणाया अपीति योजना । आत्मलाभोऽविद्यानिवृत्तिरेवेत्यत्रोक्तं वक्ष्यमाणं च गमकं दर्शयति — तस्मादिति । अविरोधमुपसंहरति — तस्मादित्यादिना । तयोरेकार्थत्वेऽपि कथमनुविन्देति मध्ये प्रयुज्यते — तत्राऽऽह – विन्दतेरिति । आदिमध्यावसानानामविरोधमुक्त्वा कीर्तिमित्यादिवाक्यमवतार्य व्याकरोति — गुणेत्यादिना ।
इतिशब्दादुपरिष्टाद्यथेत्यस्य संबन्धः । ज्ञानस्तुतिश्चात्र विवक्षिता ज्ञानिनामीदृक्फलस्यानभिलषितत्वादिति द्रष्टव्यम् ॥७॥ 【भाष्यम्】 【भाष्यम्】 आत्मनः पदनीयत्वे तस्यैवाज्ञातत्वसंभवो हेतुरुक्तोऽधुना तत्रैव हेत्वन्तरत्वेनोत्तरवाक्यमवतारयति — कुतश्चेति । अन्यदनात्मेति यावत् । विरक्तस्य पुत्रे प्रीत्यभावात्कथमात्मनस्तत्प्रियतरत्वमित्याशङ्क्याऽऽह — पुत्रो हीति । प्रियतरमात्मतत्त्वमिति शेषः । लोकदृष्टिमेवावष्टभ्याऽऽह — तथेति । वित्तपदेन मानुषवित्तवद्दैवं वित्तमपि गृह्यते । विशेषाणामानन्त्यात्प्रत्येकं प्रदर्शनमशक्यमित्याशयेनाऽऽह — तथाऽन्यस्मादिति । पुत्रादौ प्रीतिव्यभिचारेऽपि प्राणादौ तदव्यभिचारादात्मनो न प्रियतमत्वमिति शङ्कते — तत्कस्मादिति । पदान्तरमादाय व्याकुर्वन्परिहरति — उच्यत इत्यादिना । अन्तरतरत्वे प्रियतमत्वसाधने हेतुरात्मत्वमित्यभिप्रेत्य विशेष्यं व्यपदिशति — यदयमिति । आत्मनो निरतिशयप्रेमास्पदत्वेऽपि कुतस्तस्यैव पदनीयत्वमित्याशङ्क्य वाक्यार्थमाह — यो हीत्यादिना । पुत्रादिलाभे दारादीनां कर्तव्यत्वेन प्राप्तप्रयत्नविरोधादात्मलाभे प्रयत्नः सुकरो न भवतीत्याशङ्क्याऽऽह — कर्तव्यतेति । आत्मनो निरतिशयप्रेमास्पदत्वे युक्तिं पृच्छति — कस्मादिति । आत्मप्रियस्योपादानमनुसन्धानमितरस्यानात्मप्रियस्य हानमननुसन्धानम् । विपर्ययोऽनात्मनि पुत्रादावभिनिवेशेनाऽऽत्मप्रियस्याननुसन्धानमिति विभागः । युक्तिलेशं दर्शयितुमनन्तरवाक्यमवतारयति — उच्यत इति । यः कश्चिदात्मप्रियवादी स तस्मादन्यं प्रियं ब्रुवाणं प्रति ब्रूयादिति संबन्धः । वक्तव्यं प्रश्नपूर्वकं प्रकटयति — किमित्यादिना । आत्मप्रियवादिन्येवं वदत्यपि पुत्रादिनाशस्तद्वाक्यार्थो नियतो न सिद्ध्यतीत्याशङ्क्य परिहरति — स कस्मादित्यादिना । हशब्दोऽवधारणार्थः समर्थपदादुपरि संबध्यते । तस्मादेवं वक्तीति शेषः । उक्तं सामर्थ्यमनूद्य फलितमाह — यस्मादिति । अथाऽत्मप्रियवादिना यथोक्तं सामर्थ्यमेव कथं लब्धमित्याशङ्क्याऽऽह — यथेति । ’अतोऽन्यदार्तमि’त्यनात्मनो विनाशित्वाद्विनाशिनश्च दुःखात्मकत्वात्तत्प्रियत्वस्य भ्रान्तिमात्रत्वादात्मनस्तद्वैपरीत्यान्मुख्या प्रीतिस्तत्रैवानात्मन्यमुख्येति भावः । पक्षान्तरमनूद्य वृद्धप्रयोगाभावेन दूषयति — ईश्वरशब्द इति । अनात्मन्यमुख्या प्रीतिरिति स्थिते फलितमाह — तस्मादिति । उपास्तिमनूद्य तत्फलं कथयति — स य इति । अनुवादद्योतको हशब्दः प्रियमात्मसुखं तस्यापि लौकिकसुखवन्नाशः सुखत्वादित्याशङ्किते तन्निरासार्थमनुवादमात्रमत्र विवक्षितमित्याह — नित्येति । फलश्रुतेर्गत्यन्तरमाह — आत्मप्रियेति । महद्धीदमात्मप्रियग्रहणं यत्तन्निष्ठस्य प्रियं न प्रणश्यति तस्मात्तदनुसन्धानं कर्तव्यमिति स्तुत्यर्थं फलकीर्तनमित्यर्थः । पक्षान्तरमाह — प्रियगुणेति । यो मन्दः सन्नात्मदर्शी तस्य प्रियगुणविशिष्टात्मोपासने प्रियं प्राणादि न नश्यतीति फलं विधातुं फलवचनमित्यर्थः । नन्वात्मानं प्रियमुपासीनस्य प्रियं प्राणादि विद्यासामर्थ्यान्न नश्यति तथा च मन्दविशेषणं मन्दमित्याशङ्क्याऽऽह — ताच्छील्येति ।
ताच्छील्येऽर्थे विहितस्योकञ्प्रत्ययस्य श्रुत्योपादानात्स्वभावहानायोगाच्च प्रमरणशीलत्वाभावेऽपि प्राणादेरात्यन्तिकमप्रमरणमविवक्षितमित्यर्थः ॥८॥ 【भाष्यम्】 【भाष्यम्】 तदाहुरित्यादेर्गतेन ग्रन्थेन संबन्धं वक्तुं वृत्तं कीर्तयति — सूत्रितेति । तस्यां प्रमाणमाह — यदर्थेति । तर्हि सूत्रव्याख्यानेनैव सर्वोपनिषदर्थसिद्धेस्तदाहुरित्यादि वृथेत्याशङ्क्याऽऽह — तस्येति । विद्यासूत्रं व्याख्यातुमिच्छन्ती श्रुतिः सूत्रितविद्याविवक्षितप्रयोजनाभिधानायोपोद्घातं चिकीर्षति । प्रतिपाद्यमर्थं बुद्धौ संगृह्य तादर्थ्येनार्थान्तरोपवर्णनस्य तथात्वाच्चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं प्रचक्षत इति न्यायादित्यर्थः । यद्ब्रह्मविद्ययेत्यादिवाक्यप्रकाश्यं चोद्यं तच्छब्देनोच्यते प्रकृतसंबन्धासंभवादित्याह — तदितीति । ब्राह्मणमात्रस्य चोद्यकर्तृत्वं व्यावर्तयति — ब्रह्मेति । उत्प्रेक्षया ब्रह्मवेदनेच्छावत्त्वं व्यावर्तयितुं तदेव विशेषणं विभजते — जन्मेति । जन्म च जरा च मरणञ्च तेषां प्रबन्धे प्रवाहे चक्रवदनवरतं भ्रमणेन कृतं यदायासात्मकं दुःखं तदेवोदकं यस्मिन्नपारे संसाराख्ये महोदधौ तत्र प्लवभूतं तरणसाधनमिति यावत् । तत्तीरं तस्य संसारसमुद्रस्य तीरं परं ब्रह्मेत्यर्थः । तेषां विविदिषायाः साफल्यार्थं तत्प्रत्यनीके संसारे वैराग्यं दर्शयति — धर्मेति । निर्वेदस्य निरङ्कुशत्वं वारयति — तद्विलक्षणेति । उत्तरवाक्यमवतार्य व्याचष्टे — किमित्यादिना । अथ परा यया तदक्षरमधिगम्यत इति श्रुत्यन्तरमाश्रित्याऽऽह — यद्ययेति । मनुष्या यन्मन्यन्ते तत्र विरुद्धं वस्तु भातीति शेषः । मनुष्यग्रहणस्य कृत्यमाह — मनुष्येति । ननु देवादीनामपि विद्याधिकारो देवताधिकरणन्यायेन वक्ष्यते तत्कुतो मनुष्याणामेवाधिकारज्ञापनमित्यत आह — मनुष्या इति । विशेषतः सर्वाविसंवादेनेति यावत् । तथाऽपि किमिति ते ज्ञानान्मुक्तिं सिद्धवद्ब्रुवन्तीत्याशङ्क्याऽऽह — यथेति । उभयत्र कर्मब्रह्मणोरिति यावत् । उत्तरवाक्यमुपादत्ते — तत्रेति । मनुष्याणां मतं तच्छब्दार्थः । वस्तुशब्देन ज्ञानात्फलमुच्यते । आक्षेपगर्भस्य चोद्यस्य प्रवृत्तौ विरोधप्रतिभासो हेतुरित्यतः शब्दार्थः । तद्ब्रह्म परिच्छिन्नमपरिच्छिन्नं वेति कुतो ब्रह्मणि चोद्यते तत्राऽह — यस्येति । प्रश्नान्तरं करोति — तत्किमिति । ब्रह्म स्वात्मानमज्ञासीदतिरिक्तं वेतिप्रश्नस्य प्रसंगं दर्शयति — यस्मादिति । सर्वस्य व्यतिरिक्तविषये ज्ञानं प्रसिद्धं तत्किं विचारेणेत्याशङ्क्याऽऽह — ब्रह्म चेति । सर्वं खल्विदं ब्रह्मेत्यादौ ब्रह्मणः सर्वात्मत्वश्रवणादतिरिक्तविषयाभावादात्मानमेवावेदिति पक्षस्य सावकाशतेत्यर्थः । किंशब्दस्य प्रश्नार्थत्वमुक्त्वाऽऽक्षेपार्थमाह — तद्यदीति । ब्रह्म हि किञ्चिदज्ञात्वा सर्वमभवज्ज्ञात्वा वा नाऽऽद्यो ब्रह्मविद्यानर्थक्यादित्युक्त्वा द्वितीयमनुवदति — अथेति । स्वरूपमन्यद्वा ज्ञात्वा ब्रह्मणः सर्वापत्तिरिति विकल्प्योभयत्र साधारणं दूषणमाह — विज्ञानेति । द्वितीये दोषान्तरमाह — अनवस्थेति । बहिरेवाऽऽक्षेपं परिहरति — न तावदिति । अज्ञात्वैव ब्रह्मणः सर्वभावोऽस्मदादेस्तु ज्ञानादिति शास्त्रार्थे वैरूप्यम् । न चास्मदादेरपि तदन्तरेण तद्भावः शास्त्रानर्थक्यात् । ज्ञानाद्ब्रह्मणः सर्वभावापक्षे स्वोक्तं दोषमाक्षेप्ता स्मारयति — फलेति । स्वतोऽपरिच्छिन्नं ब्रह्माविद्यातत्कार्यसंबन्धात्परिच्छिन्नवद्भाति तन्निवृत्त्यौपाधिकं सर्वभावस्य साध्यत्वं न चानवस्था ज्ञेयान्तरानङ्गीकारान्नापि[स्व]क्रियाविरोधो विषयत्वमन्तरेण वाक्यीयबुद्धिवृत्तौ स्फुरणादिति परिहरति — नैकोऽपीति । एतेन विद्यावैयर्थ्यमपि परिहृतमित्याह — अर्थेति ।
यद्यपि ब्रह्मापरिच्छिन्नं नित्यसिद्धं तथाऽपि तत्राविद्यातत्कार्यध्वंसरूपस्यार्थविशेषस्य ज्ञानादुपपत्तेर्न तद्वैयर्थ्यमित्यर्थः ॥९॥ 【भाष्यम्】 【भाष्यम्】 अत्र वृत्तिकृतां मतानुसारेण ब्रह्मशब्दार्थमाह — ब्रह्मेति । तस्य परिच्छिन्नत्वाज्ञानेन सर्वभावस्य साध्यत्वसंभवादिति हेतुमाह — सर्वभावस्येति । सिद्धान्ते यथोक्तहेत्वनुपपत्तिं दोषमाह — न हीति । सा तर्हि विज्ञानसाध्या मा भूदित्यत आह — विज्ञानेति । हिरण्यगर्भस्य नोपदेशजन्यज्ञानाद्ब्रह्मभावः ‘सहसिद्धं चतुष्ट्यम्’ इति स्मृतेः । स्वाभाविकज्ञानवत्त्वात्तस्मात्तत्सर्वमभवदिति चोपदेशाधीनधीसाध्योऽसौ श्रुतौ । न चाऽऽसीदित्यतीतकालावच्छेदस्त्रिकाले तस्मिन्युज्यते । समवर्ततेति च जन्ममात्रं श्रूयते । कालात्मके तत्संबन्धस्य स्वाश्रयपराहतत्वान्मनुष्याणां प्रकृतत्वाच्च नापरं ब्रह्मेह ब्रह्मशब्दमित्यपरितोषाद्वृत्तिकारमतं हित्वा ब्रह्मेति ब्रह्मभावी पुरुषो निर्दिश्यत इति भर्तृप्रपञ्चोक्तिमाश्रित्य तन्मतमाह — मनुष्येति । तदेव प्रपञ्चयति — सर्वमित्यादिना । द्वैतकत्वं सर्वजगदात्मकमपरं हिरण्यगर्भाख्यं ब्रह्म तस्मिन्विद्या हिरण्यगर्भोऽहमित्यहङ्ग्रहोपास्तिस्तस्या समुच्चितया तद्भावमिहैवोपगतो हिरण्यगर्भपदे यद्भोज्यं ततोऽपि दोषदर्शनाद्विरक्तः सर्वकर्मफलप्राप्त्या निवृत्तिकामादिनिगडः साध्यान्तराभावाद्विद्यामेवार्थयमानस्तद्वशाद्ब्रह्मभावी जीवोऽस्मिन्वाक्ये ब्रह्मशब्दार्थ इति फलितमाह — अत इति । कथं ब्रह्मभाविनि जीवे ब्रह्मशब्दस्य प्रवृत्तिरित्याशङ्क्याऽऽह — दृष्टश्चेति । आदिशब्देन “गृहस्थः सदृशीं भार्यां विन्देते”(गौ.ध.सू.१.४.३) त्यादि गृह्यते । इहेति प्रकृतवाक्यकथनम् । भर्तृप्रपञ्चव्याख्यानं दूषयति — तन्नेति । ब्रह्मशब्देन परस्मादर्थान्तरस्य ग्रहे तस्य सर्वभावापत्तेः साध्यत्वादनित्यत्वापत्तेर्न तन्मतमुचितमित्यर्थः । साध्यस्यापि मोक्षस्य नित्यत्वमाशङ्क्य यत्कृतकं तदनित्यमिति न्यायमाश्रित्याऽऽह — न हीति । सामान्यन्यायं प्रकृते योजयति — तथेति । भवतु सर्वभावापत्तेरनित्यत्वं का हानिस्तत्राऽऽह — अनित्यत्वे चेति । किञ्च जीवस्याब्रह्मत्वं तवाविद्याकृतं पारमार्थिकं वेति विकल्प्याऽऽद्यमनूद्य दूषयति — अविद्याकृतेति । तत्रानुवादभागं विभजते — प्रागित्यादिना । ब्रह्मभाविपुरुषकल्पना व्यर्थेत्युक्तं व्यक्तीकरोति — तदेति । तस्मिन्पक्षे यद्ब्रह्मज्ञानात्पूर्वमपि परमार्थतः परं ब्रह्माऽऽसीत्तदेव प्रकृते वाक्ये ब्रह्मशब्देनोच्यत इति युक्तं वक्तुं तद्धि ब्रह्मशब्दस्य मुख्यमालम्बनमिति योजना । गौर्बाहीक इतिवदमुख्यार्थोऽपि ब्रह्मशब्दो निर्वहतीत्याशङ्क्याऽऽह — यथेति । निरतिशयमहत्त्वसंपन्नं वस्तु ब्रह्मशब्देन श्रुतमश्रुतस्तु ब्रह्मभावी पुरुषः श्रुतहान्या चाश्रुतकल्पना न न्यायवती तस्मात्तत्कल्पना न युक्तेतिव्यावर्त्यमाह — नत्विति । अग्निरधीतेऽनुवाकमित्यादौ श्रुतहान्याऽश्रुतोपादानं दृष्टमित्याशङ्क्याऽऽह — महत्तर इति । तत्राग्निशब्दस्य मुख्यार्थत्वे सत्यन्विताभिधानानुपपत्त्या वाक्यार्थासिद्धेस्तज्ज्ञाने प्रयोजने श्रुतमपि हित्वाऽश्रुतं गृह्यते प्रकृते त्वसति प्रयोजनविशेषे श्रुतहान्यादिर्न युक्तिमतीत्यर्थः । मनुष्याधिकारं निर्वोढुं ब्रह्मभाविपुरुषकल्पनेत्याशङ्क्य महत्तरविशेषणम् । यद्ब्रह्मविद्ययेति परस्यापि तुल्यमधिकृतत्वं तस्य चाविद्याद्वाराऽधिकारित्वमविरुद्धमित्यग्रे स्फुटीभविष्यतीति भावः । द्वितीयं कल्पमुत्थापयति — अविद्येति । ब्रह्मविद्यावैयर्थ्यप्रसंगान्मैवमिति दूषयति — न तस्येति । अनुपपत्तिमेव साधयति — न हीति । साक्षादारोपमन्तरेणेति यावत् । वस्तुधर्मस्य परमार्थभूतस्य पदार्थस्येत्यर्थः । विद्यायास्तर्हि कथमर्थवत्त्वं साधयति — न हीति । साक्षादारोपमन्तरेणेति यावत् । वस्तुधर्मस्य परमार्थभूतस्य पदार्थस्येत्यर्थः । विद्यायास्तर्हि कथमर्थवत्त्वं तत्राऽऽह — अविद्यायास्त्विति । सर्वत्र शुक्त्यादाविति यावत् । विमतमविद्यात्मकं विद्यानिवर्त्यत्वाद्रजतादिवदित्यभिप्रेत्य दार्ष्टान्तिकमाह — तथेति । विमतं न कारकं विद्यात्वाच्छुक्तिविद्यावदित्याशयेनाऽऽह — न त्विति । अब्रह्मत्वादेर्वास्तवत्वायोगादयुक्ता ब्रह्मभाविपुरुषकल्पनेत्युपसंहरति — तस्मादिति । ब्रह्मण्यविद्यानिवृत्तिर्विद्याफलमित्यत्र चोदयति — ब्रह्मणीति । न हि सर्वज्ञे प्रकाशैकरसे ब्रह्मण्यज्ञानमादित्ये तमोवदुपपन्नमिति भावः । तस्याज्ञातत्वमज्ञत्वं वाऽऽक्षिप्यते नाऽऽद्य इत्याह — न ब्राह्मणीति । नहि तत्त्वमसीति विद्याविधानं विज्ञाते ब्रह्मणि युक्तं पिष्टपिष्टिप्रसंगात् । अतस्तदज्ञातमेष्टव्यमित्यर्थः । ब्रह्मात्मैक्यज्ञानं शास्त्रेण ज्ञाप्यते तद्विषयं च श्रवणादि विधीयते तेन तस्मिन्नज्ञातत्वमेष्टव्यमित्युक्तमर्थं दृष्टान्तेन साधयति — न हीति । मिथ्याज्ञानस्याज्ञानाव्यतिरेकाद्ब्रह्मण्यविद्याध्यारोपणायां शुक्तौ रूप्यारोपणं दृष्टान्तितमिति द्रष्टव्यम् । कल्पान्तरमालम्बते — न ब्रूम इति । ब्रह्माविद्याकर्तृ न भवतीत्यस्य यथाश्रुतो वाऽर्थस्तदन्यस्तदाश्रयोऽस्तीति वा तत्राऽद्यमङ्गीकरोति — भवत्विति । अनादित्वादविद्यायाः कर्त्रपेक्षाभावात् विना च द्वारं ब्रह्मणि भ्रान्त्यनभ्युपगमादित्यर्थः । द्वितीयं प्रत्याह — किं त्विति । ब्रह्मणोऽन्यश्चेतनो नास्तीत्यत्र श्रुतिस्मृतीरुदाहरति — नान्योऽतोऽस्तीत्यादिना । ब्रह्मणोऽन्योऽचेतनोऽपि नास्तीत्यत्र मन्त्रद्वयं पठति — यस्त्विति । ब्रह्मणोऽन्यस्याज्ञस्याभावे दोषमाशङ्कते — नन्विति । किमिदमानर्थक्यमवगतेऽनवगते वा चोद्यते तत्राऽऽद्यमङ्गीकरोति — बाढमिति । द्वितीये नोपदेशानर्थक्यमवगमार्थत्वादिति द्रष्टव्यम् । उपदेशवदवगमस्यापि स्वप्रकाशे वस्तुनि नोपयोगोऽस्तीति शङ्कते — अवगमेति । अनुभवमनुसृत्य परिहरति — न । अनवगमेति । सा वस्तुनो भिन्ना चेदद्वैतहानिरभिन्ना चेज्ज्ञानाधीनत्वासिद्धिरिति शङ्कते — तन्निवृत्तेरिति । अनवगमनिवृत्तेर्दृश्यमानतया स्वरूपापलापायोगात्प्रकारान्तरासंभवाच्च पञ्चमप्रकारत्वमेष्टव्यमिति मत्वाऽऽह — न दृष्टेति । दृष्टमपि युक्तिविरोधे त्याज्यमित्याशङ्क्याऽऽह — दृश्यमानमिति । दृष्टविरुद्धमपि कुतो नेष्यते तत्राऽऽह — न चेति । अनुपपन्नत्वमङ्गीकृत्योक्तम् , तदेव नास्तीत्याह — न चेति । युक्तिविरोधे दृष्टिराभासीभावतीति शङ्कते — दर्शनेति । दृष्टिविरोधे युक्तेरेवाऽभासत्वं स्यादिति परिहरति — तत्रापीति । अनुपपन्नत्वं हि सर्वस्य दृष्टिबलादिष्टं दृष्टस्य त्वनुपपन्नत्वे न किञ्चिन्निमित्तमस्तीत्यर्थः । ब्रह्मभाविपुरुषकल्पनां निराकृत्य स्वपक्षे शास्त्रस्यार्थवत्त्वमुक्तं संप्रति प्रकारान्तरेण पूर्वपक्षयति — पुण्य इति । आदिशब्देन ‘योऽयं विज्ञानमयः प्राणेषु’(बृ. उ. ४ । ३ । ७) इत्याद्या श्रुतिर्गृह्यते । ‘कुरु कर्मैव तस्मात्त्वम्’ (भ. गी. ४ । १५) इत्याद्या स्मृतिः । न्यायो मिथो विरुद्धयोरेकत्वायोगः । विलक्षणत्वमन्यत्वे हेतुः । जीवस्य परस्मादन्यत्वेऽपि न तस्य ततोऽन्यत्वमित्याशङ्क्याऽऽह — तद्विलक्षणश्चेति । परस्य तद्विलक्षणत्वं श्रुतितो दर्शयित्वा तत्रैवोपपत्तिमाह — कणादेति । क्षित्यादिकमुपलद्भिमत्कर्तृकं कार्यत्वाद्घटवदित्याद्योपपत्तिः । तयोर्मिथो भेदे हेत्वन्तरमाह — संसारेति । जीवस्य स्वगतदुःखध्वंसे दुःखं मे मा भूदित्यर्थित्वेन प्रवृत्तिर्दृष्टा नेशस्य साऽस्ति दुःखाभावादतो भेदस्तयोरित्यर्थः । इतश्चेश्वरस्य न प्रवृत्तिर्हेतुफलयोरभावादित्याह — अवाकीति । मिथो भेदे श्रौतं लिङ्गान्तरमाह — सोऽन्वेष्टव्य इति । तत्रैव लिङ्गान्तरमाह — मुमुक्षोश्चेति । गतिर्देवयानाख्या तस्या मार्गविशेषोऽर्चिरादिर्देशो गन्तव्यं ब्रह्म तेषामुपदेशा”स्तेऽर्चिषमभिसंभवन्ती”त्यादयस्तथाऽपि कथं भेदसिद्धिस्तत्राऽऽह — असतीति । मा भूद्गतिरित्याशङ्क्याऽऽह — तदभावे चेति । कथं तर्हि गत्यादिकमुपपद्यते तत्राऽऽह — भिन्नस्येति । जीवेश्वरयोर्मिथो भेदे हेत्वन्तरमाह — कर्मेति । भेदे सत्युपपन्ना भवन्तीति शेषः । तदेव स्फुटयति — भिन्नश्चेदिति । तद्भेदे प्रामाणिकेऽपि कथं ब्रह्मभाविपुरुषकल्पनेत्याशङ्क्योपसंहरति — तस्मादिति । ब्रह्मभाविनो जीवस्य ब्रह्मशब्दवाच्यत्वे ब्रह्मोपदेश्याऽनर्थक्यप्रसंगान्नैवमिति दूषयति — नेत्यादिना । प्रसंगमेव प्रकटयति — संसारी चेदिति । विधिशेषत्वेन ब्रह्मोपदेशोऽर्थवानिति चेत्तत्र किं कर्मविधिशेषत्वेनोपास्तिविधिशेषत्वेन वा तदर्थवत्त्वमिति विकल्याऽऽद्यं दूषयति — तद्विज्ञानस्येति । अविनियोगाद्विनियोजकश्रुत्याद्यभावादिति शेषः । कल्पान्तरमादत्ते — संसारिण इति । उपदेशस्य ज्ञानार्थत्वात्तदनपेक्षत्वाच्च संपत्तेस्तस्य कथं तादर्थ्यमित्याशङ्क्याऽऽह — अनिर्ज्ञाते हीति । व्यतिरेकमुक्त्वाऽन्वयमाचष्टे — निर्ज्ञातेति । पदयोः सामानाधिकरण्येन जीवब्रह्मणोरभेदावगमान्न संपत्पक्षः संभवतीति समाधत्ते — नेत्यादिना । कथमेकत्वे गम्यमानेऽपि संपदोऽनुपपत्तिरित्याशङ्क्याऽऽह — अन्यस्य हीति । एकत्वे हेत्वन्तरमाह — इदमिति । एकत्वे फलितमाह — तस्मादिति । किञ्च संपत्तिपक्षे तदापत्तिः फलमन्यद्वेति विकल्प्य द्वितीयं प्रत्याह — न चेति । आद्यं दूषयति — संपत्तिश्चेदिति । ’तं यथा यथे’त्यादिवाक्यमाश्रित्य शङ्कते — वचनादिति । संपत्तेरमानत्वान्न तद्बलादन्यस्यान्यत्वमित्याह – श्रुतिश्च न पूर्वसिद्धसूत्रादिभावाभिधायिनी तत्सादृश्याप्त्या तद्भावोपचारादतो ब्रह्मभावः स्वतः सिद्धो न साम्पादिक इत्याह — विज्ञानस्येति । अथान्यस्यान्यभावे यथोक्तं वचनमेव शक्त्याध्यायकमित्याशङ्क्याऽह — न चेति । ब्रह्मोपदेशानर्थक्यप्रसंगान्न ब्रह्मभाविपुरुषकल्पनेत्युक्त्वा तत्रैव हेत्वन्तरमाह — स एष इति । ब्रह्मोपदेशस्य संपच्छेषत्वे दोषान्तरमाह — इष्टार्थेति । तदेव विवृण्वन्निष्टमर्थमाचष्टे — सैन्धवेति । यथोक्तं वस्तु तात्पर्यगम्यमस्यामुपनिषदीत्यत्र हेतुमाह — काण्डद्वयेऽपीति । मधुकाण्डावसानगतमवधारणं दर्शयति — इत्यनुशासनमिति । मुनिकाण्डान्ते व्यवस्थितमुदाहरति — एतावदिति । न केवलमुपदेशस्य संपच्छेषत्वे बृहदारण्यकविरोधः किन्तु सर्वोपनिषद्विरोधोऽस्तीत्याह — तथेति । इष्टमर्थमित्थमुक्त्वा तद्बाधनं निगमयति — तत्रेति । ननु बृहदारण्यके ब्रह्मकण्डिकायां जीवपरयोर्भेदोऽभिप्रेत उपसंहारे त्वभेद इति व्यवस्थायां तद्विरोधः शक्यः समाधातुमित्यत आह — तथा चेति । ब्रह्मभाविपुरुषकल्पनायामुपदेशानर्थक्यमिष्टार्थबाधश्चेत्युक्तमिदानीं ब्रह्मेत्यादिवाक्ये ब्रह्मशब्देन परस्याग्रहणे तद्विद्याया ब्रह्मविद्येति संज्ञानुपपत्तिं दोषान्तरमाह — व्यपदेशानुपपत्तेश्चेति । अत्रोक्तब्रह्मशब्दार्थाद्वेदितुर्जीवादन्यस्तदात्मानमित्यत्राऽऽत्मशब्देन परो गृह्यते तद्विद्या च ब्रह्मविद्येति संज्ञासिद्धिरिति शङ्कते — आत्मेतीति । वाक्यशेषविरोधान्नैवमित्याह — नाहमिति । तदेव प्रपञ्चयति — अन्यश्चेति । यथोक्तावगमे फलितमाह — तथा च सतीति । अत्यन्तभेदे व्यपदेशानुपपत्तिं विशदयति — संसारीति । जीवब्रह्मणोर्भेदाभेदोपगमादभेदेन ब्रह्मविद्येति व्यपदेशः सेत्स्यतीत्याशङ्क्याऽऽह — न चेति । स्यातां वा ब्रह्मात्मनोर्भेदाभेदौ तथाऽपि भिन्नाभिन्नविद्यायां ब्रह्मविद्येति नियतो व्यपदेशो न स्यादित्याह — न चेति । निमित्तं विषयः । भिन्नाभिन्नविषया विद्या ब्रह्मविषयापि भवत्येवेति व्यपदेशसिद्धिमाशङ्क्याऽऽह — तदेति । उभयात्मकत्वाद्वस्तुनस्तद्विद्याऽपि तथेति विकल्पोपपत्तिमाशङ्क्याऽऽह — न चेति । अस्तु तर्हि वस्तु ब्रह्म वाऽब्रह्म वा वैकल्पिकमित्याशङ्क्याऽऽह — श्रोतुरिति । संशयितमपि ज्ञानं वाक्यादुत्पद्यते चेत्तावतैव पुरुषार्थः श्रोतुः सिद्ध्यतीत्याशङ्क्याऽऽह — निश्चितञ्चेति । श्रोतुर्निश्चितज्ञानस्य फलवत्त्वेऽपि वक्तुः संशयितमर्थं वदतो न काचन हानिरित्याशङ्क्याऽऽह — अत इति । निश्चितस्यैव ज्ञानस्य पुमर्थसाधनत्वं न संशयितस्येत्यतःशब्दार्थः । जीवपरयोरत्यन्तभेदस्य भेदाभेदयोश्चायोगात्परमेव ब्रह्म ब्रह्मशब्दवाच्यं न जीवस्तद्भावीत्युक्तं संप्रत्यत्यन्ताभेदपक्षे दोषमाशङ्कते — ब्रह्मणीति । तदात्मानमेवावेदिति ज्ञातृत्वं ब्रह्मण्युच्यते तदयुक्तं तस्य ज्ञानमूर्तित्वादत एव न तत्कर्मत्वमपि । न च स्वकर्तृकर्मज्ञानान्मुक्तिः परस्य क्रियाकारकफलविलक्षणत्वादतो न परं ब्रह्म ब्रह्मशब्दितमित्यर्थः । शास्त्रं ब्रह्मणि साधकत्वादि दर्शयति तच्चापौरुषेयमदोषान्नोपालम्भार्हं तथा च तस्मिन्नविद्यं साधकत्वाद्यविरुद्धमिति समाधत्ते — न शास्त्रेति । स चायुक्तस्तस्यापौरुषेयत्वेनासंभावितदोषत्वादिति शेषः । ननु ब्रह्मणो नित्यमुक्तत्वपरिरक्षणार्थं शास्त्रमप्युपालभ्यते । नेत्याह — न चेति । शास्त्राद्धि ब्रह्मणो नित्यमुक्तत्वं गम्यते साधकत्वादिति च तस्य तेनैवोच्यते न चार्धजरतीयमुचितं तथा च वास्तवं नित्यमुक्तत्वं कल्पितमितरदित्यास्थेयम् । यदि तस्य नित्यमुक्तत्वार्थं सर्वथैव साधकत्वादि नेष्यते तदा स्वार्थपरित्यागः स्यात्साधकत्वादिना विनाऽभ्युदयनिःश्रेयसयोरसंभवात् । न च ब्रह्मणोऽन्यश्चेतनोऽचेतनो वाऽस्ति ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ३ । ७ । २३) ‘ब्रह्मैवेदं सर्वम्’ इत्यादिश्रुतेस्तस्माद्यथोका व्यवस्थाऽऽस्थेयेत्यर्थः । किञ्च सर्वस्यापि संसारस्य ब्रह्मण्यविद्ययाऽध्यासात्तदन्तर्भूतं साधकत्वाद्यपि तत्राध्यस्तमित्यभ्युपगमे काऽनुपपत्तिरित्याह — न चेति । तस्य तस्मिन्कल्पितत्वं कुतोऽवगतमित्याशङ्क्याऽऽह — एकधेति । उक्तश्रुतितात्पर्यं संकलयति — सर्वो हीति । सर्वस्य द्वैतव्यवहारस्य ब्रह्मणि कल्पितत्वे प्रकृतचोद्यस्याऽऽभासत्वं फलतीत्याह — अत्यल्पमिति । परपक्षं निराकृत्य स्वपक्षं दर्शयति — तस्मादिति । तद्व्यतिरेकेण जगन्नास्तीति सूचयति — वैशब्द इति । तत्पदार्थमुक्त्वा त्वम्पदार्थं कथयति — इदमिति । तयोर्वस्तुतो भेदं शङ्कित्वा पदान्तरं व्याचष्टे — प्रागिति । तस्यापरिच्छिन्नत्वमाह — सर्वं चेति । कथं तर्हि विपरीतधीरित्याशङ्क्याऽऽह — किन्त्विति । यथाप्रतिभासं कर्तृत्वादेर्वास्तवत्वमाशङ्क्य शास्त्रविरोधान्मैवमित्याह — परमार्थतस्त्विति । तद्विलक्षणमध्यस्तसमस्तसंसाररहितमिति यावत् । किमु तद्ब्रह्मेति चोद्यं परिहृत्य किं तदवेदिति चोद्यन्तरं प्रत्याह — तत्कथञ्चिदिति । पूर्ववाक्योक्तमविद्याविशिष्टमधिकारित्वेन व्यवस्थितं ब्रह्म नासि संसारीत्याचार्येण दयावता कथञ्चिद्बोधितमात्मानमेवावेदिति संबन्धः । आत्मैव प्रमेयस्तज्ञानमेव प्रमाणमित्येवमर्थत्वमेवकारस्य विवक्षन्नाह — अविद्येति । प्रकृतमात्मशब्दार्थं विविच्य वक्तुं पृच्छति — ब्रूहीति । स एष इह प्रविष्ट इत्यत्राऽऽत्मनो दर्शितत्वात्प्राणनादिलिङ्गस्य तस्य त्वयैवानुसन्धातुं सत्यत्वान्नास्ति वक्तव्यमित्याह — नन्विति । आत्मानं प्रत्यक्षयितुं पृच्छतस्तत्परोक्षवचनमनुत्तरमिति शङ्कते — नन्वसाविति । आत्मानञ्चेत्प्रत्यक्षयितुमिच्छसि तर्हि प्रत्यक्षमेव तं दर्शयामीत्याह — एवं तर्हीति । नेदं प्रतिज्ञानुरूपं प्रतिवचनमिति चोदयति — नन्वत्रेति । प्रत्यक्षत्वाद्दर्शनादिक्रियायास्तत्कर्तुः स्वरूपमपि तथेत्याशङ्क्याऽऽह — न हीति । यदि दर्शनादिक्रियाकर्तृस्वरूपोक्तिमात्रेण जिज्ञासा नोपशाम्यति तर्हि दृष्ट्यादिसाक्षित्वेनाऽऽत्मोक्त्या तुष्यतु भवानित्याह — एवं तर्हि दृष्टेरिति । पूर्वस्मात्प्रतिवचनादस्मिन्प्रतिवचने द्रष्टृविषयो विशेषो नास्तीति शङ्कते — नन्विति । विशेषाभावं विशदयति — यदीत्यादिना । घटस्य द्रष्टा दृष्टेर्द्रष्टेति विशेषे प्रतीयमाने तदभावोक्तिर्व्याहतेत्याशङ्क्याऽऽह — द्रष्टव्य एवेति । तथा द्रष्टर्यपि विशेषो भविष्यतीत्याशङ्क्याऽऽह — द्रष्टा त्विति । वृत्तिमदन्तःकरणावच्छिन्नः सविकारो घटद्रष्टा कूटस्थचिन्मात्रस्वभावः सन्निधिसत्तामात्रेण बुद्धितद्वृत्तीनां द्रष्टा दृष्टेर्द्रष्टेति विशेषमङ्गीकृत्य परिहरति — नेत्यादिना । एतदेव स्फुटयति — अस्तीति । सप्तमी द्रष्टारमधिकरोति । दृष्टेद्रष्टुस्तावदन्वयव्यतिरेकाभ्यां विशेषं विशदयति — यो दृष्टेरिति । भवतु दृष्टिसद्भावे द्रष्टुः सदा तद्द्रष्टृत्वं तथाऽपि कथं कूटस्थदृष्टित्वमित्याशङ्क्याऽऽह — तत्रेति । नित्यत्वमुपपादयति — अनित्या चेदिति । उक्तपक्षपरामर्शार्था सप्तमी । कादाचित्के द्रष्टृदृश्यत्वे दृष्टान्तमाह — यथेति । घटादिवद्दृष्टिरपि कदाचिदेव द्रष्ट्रा दृश्यते न सर्वदेत्यनिष्टापत्तिमाशङ्क्याऽऽह — न चेति । विकार्णश्चित्तस्याद्रष्टृत्वं क्रमद्रष्टृत्वमन्यथाद्रष्टृत्वं च दृष्टं तत्साक्षिणो व्यावर्तमानं तस्य निर्विकारत्वं गमयतीति भावः । दृष्टिद्वयं प्रमाणाभावादश्लिष्टमिति शङ्कते — किमिति । तदुभयमङ्गीकरोति — बाढमिति । तत्रानित्यान् दृष्टिमनुभवेन साधयति — प्रसिद्धेति । उक्तमर्थं युक्त्या व्यक्तीकरोति — नित्यैवेति । संप्रति नित्यां दृष्टिं श्रुत्या समर्थयते — द्रष्टुरिति । तत्रैवोपपत्तिमाह — अनुमानाच्चेति । तदेव विवृणोति — अन्धस्यापीति । जागरिते चक्षुरादिहीनस्यापि पुंसः स्वप्ने वासनामयघटादिविषया दृष्टिरुपलब्धा या च सा तस्मिन्काले चक्षुरादिजनितदृष्ट्यभावेऽपि स्वयमविनश्यन्त्यनुभूयते सा द्रष्टुः स्वभावभूता दृष्टिर्नित्यैष्टव्या । विमतं नित्यमव्यभिचारित्वात्परेष्टात्मवदिति प्रयोगोपपत्तिरित्यर्थः । नन्वात्मा दृष्टिस्तदभावश्चेत्कथं दृष्टेर्द्रष्टेत्युक्तमतमाह — तथेति । नित्यत्वे हेतुः — अविपरिलुप्तयेति । नित्यद्वयं परिहर्तुं स्वरूपभूतयेत्युक्तम् । तस्या दृष्ट्यन्तरापेक्षां वारयति — स्वयमिति । उक्तमविपरिलुप्तत्वं व्यनक्ति — इतरामिति । आत्मा दृष्टेर्द्रष्टेति स्थिते फलितमाह — एवञ्चेति । अन्यश्चेतनोऽचेतनो वेति शेषः । नित्यदृष्टिस्वभावमात्मपदार्थं परिशोध्य श्रुत्यक्षराणि योजयति — तद्ब्रह्मेति । वाक्यशेषविरोधं चोदयति — नन्विति । किं कर्मत्वेनाऽऽत्मनो ज्ञानं विरुद्ध्यते किं वा साक्षित्वेनेति वाच्यं नाऽऽद्योऽनभ्युपगामदित्याह — नेति । न द्वितीय इत्याह — एवमिति । तदेव स्पष्टयति — एवं दृष्टेरिति । तर्हि तद्विषयं ज्ञानान्तरमपेक्षितव्यमिति कुतो विरोधो न प्रसरतीत्याशङ्क्याऽऽह — अन्यज्ञानेति । न विप्रतिषेध इति पूर्वेण संबन्धः संगृहीतमर्थं विवृणोति — नचेति । नित्यैव स्वरूपभूतेति शेषः । विज्ञातत्वं वाक्यीयबुद्धिवृत्तिव्याप्यत्वम् । अन्यां दृष्टिं स्फुरणलक्षणाम् । आत्मविषयस्फुरणाकाङ्क्षाभावं प्रतिपादयति — निवर्तते हीति । आत्मनि स्फुरणरूपे स्फुरणस्यान्यस्यासंभवेऽपि कुतस्तदाकाङ्क्षोपशान्तिरित्याशङ्क्याऽऽह — न हीति । किञ्च द्रष्टरि दृश्याऽदृश्या वा दृष्टिरपेक्ष्यते नाऽऽद्य इत्याह — नचेति । आदित्यप्रकाश्यस्य रूपादेस्तत्प्रकाशकत्वाभावादिति भावः । न द्वितीय इत्याह — नचेति । आत्मनो वृत्तिव्याप्यत्वेऽपि स्फुरणव्याप्यत्वाङ्गीकरणान्न वाक्यशेषविरोधोऽस्तीत्युपसंहरति — तस्मादिति । वाक्यान्तरमाकाङ्क्षापूर्वकमादत्ते — तत्कथमिति । तदक्षराणि व्याचष्टे — दृष्टेरिति । इतिपदमवेदित्यनेन संबध्यते । ब्रह्मशब्दं व्याचष्टे — ब्रह्मेतीति । ब्रह्माहम्पदार्थयोर्मिथो विशेषणविशेष्यभावमभिप्रेत्य वाक्यार्थमाह — तदेवेति । आचार्योपदिष्टेऽर्थे स्वस्य निश्चयं दर्शयति — यथेति । इतिशब्दो वाक्यार्थज्ञानसमाप्त्यर्थः । इदानीं फलवाक्यं व्याचष्टे — तस्मादिति । सर्वभावमेव व्याकरोति — अब्रह्मेति । ब्रह्मैवाविद्यया संसरति विद्ययां च मुच्यत इति पक्षस्य निर्दोषत्वमुपसम्हरति — तस्माद्युक्तमिति । वृत्तं कीर्तयति — यत्पृष्टमिति । यथाऽग्निहोत्रादि मनुष्यत्वादिजातिमन्तमर्थित्वादिविशेषणवन्तं चाधिकारिणमपेक्षते न तथा ज्ञानमिति वक्तुं तद्यो यो देवानामित्यादिवाक्यं तदक्षराणि व्याचष्टे — तत्तत्रेति । यथोक्तेन विधिनाऽन्वयादिकृतपदार्थपरिशोधनादिनेत्यर्थः । ज्ञानादेव मुक्तिर्न साधनान्तरादित्येवकारार्थः । विवक्षितमधिकार्यनियमं प्रकटयति — तथेत्यादिना । यो यः प्रत्यबुध्यत स एव तदभवदिति पूर्वेण संबन्धः । ब्रह्मैवाविद्यया संसरति मुच्यते च विद्ययेत्युक्तत्वाद्देवादीनां विद्याविद्याभ्यां बन्धमोक्षोक्तिस्तद्विरुद्धेत्याशङ्क्याऽऽह — देवानामित्यादीति । तत्त्वदृष्ट्यैव भेदवचने का हानिरित्याशङ्क्याऽऽह — पुर इति । आविद्यकं भेदमनूद्य तत्तदात्मना स्थितब्रह्मचैतन्यस्यैव विद्याविद्याभ्यां बन्धमोक्षोक्तेर्न पूर्वापरविरोधोऽस्तीति फलितमाह — अत इति । अविद्यादृष्टिमनूद्य तत्त्वदृष्टिमन्वाचष्टे — परमार्थतस्त्विति । प्रबोधात्प्रागपि तत्र तत्र देवादिशरीरेषु परमार्थतो ब्रह्मैवाऽऽसीच्चेदौपदेशिकं ज्ञानमनर्थकमित्याशङ्क्याऽऽह — अन्यथैवेति । नानाजीववादस्य तु नावकाशः प्रक्रमविरोधादित्याशयेनाऽऽह — तदिति । तथैवेत्युत्पन्नज्ञानानुसारित्वपरामर्शः । तद्धैतदित्यादिवाक्यमवतार्य व्याकरोति — अस्या इति । मन्त्रोदाहरणश्रुतिमेव प्रश्नद्वारा व्याचष्टे — कथमित्यादिना । ज्ञानान्मुक्तिरित्यस्यार्थवादोऽयमिति द्योतयितुं किलेत्युक्तम् । आदिपदं समस्तवामदेवसूक्तग्रहणार्थम् । तत्रावान्तरविभागमाह — तदेतदिति । शतृप्रत्ययप्रयोगप्राप्तमर्थं कथयति — पश्यन्निति । “लक्षणहेत्वोः क्रियायाः” इति हेतौ शतृप्रत्ययविधानान्नैरन्तर्ये च सति हेतुत्वसंभवात्प्रकृते च प्रत्ययबलाद्ब्रह्मविद्यामोक्षयोर्नैरन्तर्यप्रतीतेस्तया साधनान्तरानपेक्षया लभ्यं मोक्षं दर्शयति श्रुतिरित्यर्थः । अत्रोदाहरणमाह — भुञ्जान इति । भुजिक्रियामात्रसाध्या हि तृप्तिरत्र प्रतीयते तथा पश्यन्नित्यादावपि ब्रह्मविद्यामात्रसाध्या मुक्तिर्भातीत्यर्थः । तद्धैतदित्यादि व्याख्याय तदिदमित्यद्यवतारयितुं शङ्कते — सेयमिति । ऐदंयुगीनानां कलिकालवर्तिनामिति यावत् । उत्तरवाक्यमुत्तरत्वेनावतार्य व्याकरोति — तद्व्युत्थापनायेति । तस्य ताटस्थ्यं वारयति — यत्सर्वभूतेति । प्रविष्टे प्रमाणमुक्तं स्मारयति — दृष्टीति । व्यावृत्तं बाह्येषु विषयेषूत्सुकं साभिलाषं मनो यस्य स तथोक्तः । एवंशब्दार्थमेवाऽऽह अहमिति । तदेवं ज्ञानं विवृणोति — अपोह्येति । यद्वा मनुष्योऽहमित्यादिज्ञाने परिपन्थिनि कथं ब्रह्माहमिति ज्ञानमित्याशङ्क्याऽह — अपोह्येति । अहमित्यात्मज्ञानं सदा सिद्धमिति न तदर्थं प्रयतितव्यमित्याशङ्क्याऽऽह — संसारेति । केवलमित्यद्वितीयत्वमुच्यते । ज्ञानमुक्त्वा तत्फलमाह — सोऽविद्येति । यत्तु देवादीनां महावीर्यत्वाद्ब्रह्मविद्यया मुक्तिः सिद्ध्यति नास्मदादीनामल्पवीर्यत्वादिति तत्राऽऽह — नहीति । श्रेयांसि बहुविघ्नानीति प्रसिद्धिमाश्रित्य शङ्कते — वार्तमानिकेष्विति । शङ्कोत्तरत्वेनोत्तरवाक्यमादाय व्याकरोति — अत आहेत्यादिना । यथोक्तेनान्वयादिना प्रकारेण ब्रह्मविज्ञातुरिति संबन्धः । अपिशब्दार्थं कथयति — किमुतेति । अल्पवीर्यास्तत्र विघ्नकरणे पर्याप्ता नेति किमुत वाच्यमिति योजना । आप्राप्तप्रतिषेधायोगमभिप्रेत्य चोदयति — ब्रह्मविद्येति । शङ्कानिमित्तं दर्शयन्नुत्तरमाह — उच्यत इति । अधमर्णानिवोत्तमर्णा देवादयो मर्त्यान्प्रति विघ्नं कुर्वन्तीति शेषः । कथं देवादीन्प्रति मर्त्यानामृणित्वं तत्राऽऽह — ब्रह्मचर्येणेति । यथा पशुरेवं स देवानामिति मनुष्याणां पशुसादृश्यश्रवणाच्च तेषां पारतन्त्र्याद्देवादयस्तान्प्रति विघ्नं कुर्वन्तीत्याह — पश्विति । ’अथो अयं वा आत्मा सर्वेषां लोकः’ इति च सर्वप्राणिभोग्यत्वश्रुतेश्च सर्वे तद्विघ्नकरा भवन्तीत्याह — अथो इति । लोकश्रुत्यभिप्रेतमर्थं प्रकटयति — आत्मन इति । यथाऽधमर्णान्प्रत्युत्तमर्णा विघ्नमाचरन्ति तथा देवादयः स्वास्थितिपरिरक्षणार्थं परतन्त्रान्कर्मिणः प्रत्यमतत्वप्राप्तिमुद्दिश्य विघ्नं कुर्वन्तीति तेषां तान्प्रति विघ्नकर्तृत्वशङ्का सावकाशैवेत्यर्थः । पशुनिदर्शनेन विवक्षितमर्थं विवृणोति — स्वपशूनिति । पशुस्थानीयानां मनुष्याणां देवादिभी रक्ष्यत्वे हेतुमाह — महत्तरामिति । इतश्च देवादीनां मनुष्यान्प्रति विघ्नकर्तृत्वममृतत्वप्राप्तौ संभावितमित्याह — तस्मादिति । ततश्च तेषां तान्प्रति विघ्नकर्तृत्वं भातीत्याह — यथेति । स्वलोको देहः । एवंवित्त्वं सर्वभूतभोज्योऽहमिति कल्पनावत्त्वम् । क्रियापदानुषङ्गार्थश्चकारः । ब्रह्मवित्त्वेऽपि मनुष्याणां देवादिपारतन्त्र्याविघातात्किमिति ते विघ्नमाचरन्तीत्याशङ्क्याऽऽह — ब्रह्मवित्त्व इति । देवादीनां मनुष्यान्प्रति विघ्नकर्तृत्वे शङ्कामुपपादितामुपसंहरति — तस्मादिति । न केवलमुक्तहेतुबलादेव किन्तु सामर्थ्याच्चेत्याह — प्रभाववन्तश्चेति । सामर्थ्याच्चेद्विद्याफलप्राप्तौ तेषां विघ्नकरणं तर्हि कर्मफलप्राप्तावपि स्यादित्यतिप्रसंगं शङ्कते — नन्विति । भवतु तेषां सर्वत्र विघ्नाचरणमित्यत आह — हन्तेति । अविस्रम्भो विश्वासाभावः । सामर्थ्याद्विघ्नकर्तृत्वेऽतिप्रसक्त्यन्तरमाह — तथेति । अतिप्रसंगान्तरमाह — तथा कालेति । विघ्नकरणे प्रभुत्वमिति पूर्वेण संबन्धः । ईश्वरादीनां यथोक्तकार्यकरत्वे प्रमाणमाह — एषां हीति । “एष ह्येव साधु कर्म कारयति” । “कर्म हैव तदूचतुरि”(बृ. उ. ३ । २ । १३) त्यादिवाक्यं शास्त्रशब्दार्थः । देवादीनां विघ्नकर्तृत्ववदीश्वरादीनामपि तत्संभवाद्वेदार्थानुष्ठाने विश्वासाभावात्तदप्रमाण्यं प्राप्तमिति फलितमाह — अतोऽपीति । किमिदमवैदिकस्य चोद्यं किं वा वैदिकस्येति विकल्प्याऽऽद्यं दूषयति — नेत्यादिना । दध्याद्युत्पिपादयिषया दुग्धाद्यादानदर्शनात्प्राणिनां सुखदुःखादितारतम्यदृष्टेः स्वभाववादे च नियतनिमित्तादानवैचित्र्यदर्शनयोरनुपपत्तेस्तदयोगात्कर्मफलं जगदेष्टव्यमित्यर्थः । द्वितीयं प्रत्याह — सुखेति । ’कर्म हैव’ इत्याद्या श्रुतिः । ‘कर्मणा बद्ध्यते जन्तुः’ इत्याद्या स्मृतिः । जगद्वैचित्र्यानुपपत्तिश्च न्यायः । कथमेतावता देवादीनां कर्मफले विघ्नकर्तृत्वाभावस्तत्राऽऽह — कर्मणामिति । कथं हेतुसिद्धिरित्याशङ्क्य कर्मणः स्वोत्पत्तौ देवाद्यपेक्षां व्यतिरेकमुखेन दर्शयति — कर्म हीति । स्वफलेऽपि तस्य तत्सापेक्षत्वमस्तीत्याह — लब्धेति । निष्पन्नमिति कर्म पूर्वोक्तं कारकमनपेक्ष्य स्वफलदाने शक्तं न भवतीत्यर्थः । कर्मणः स्वोत्पत्तौ स्वफले च कारकसापेक्षत्वे हेतुमाह — क्रियाया हीति । कारकादीनामनेकेषां निमित्तानामुपादानेन स्वभावो निष्पद्यते यस्याः सा तथोक्ता तस्या भावः कारकाद्यनेकनिमित्तोपादानस्वाभाव्यं तस्मादुभयत्र परतन्त्रं कर्मेत्यर्थः । देवादीनां कर्मापेक्षितकारकत्वे फलितमाह — तस्मादिति । इतोऽपि कर्मफले नाविस्रम्भोऽस्तीत्याह — कर्मणामिति । एषां देवादीनां क्वचिद्विघ्नलक्षणे कार्ये कर्मणां वशवर्तित्वम् एष्टव्यं प्राणिकर्मापेक्षामन्तरेण विघ्नकरणेऽतिप्रसंगादतोन्यत्रापि सर्वत्र तेषां तदपेक्षा वाच्येत्यर्थः । तत्र तेषां कर्मवशवर्तित्वे हेत्वन्तरमाह — स्वसामर्थ्यस्येति । विघ्नलक्षणं हि कार्यं दुःखमुत्पादयति । न च दुःखमृते पापादुपपद्यते। दुःखविषये पापसामर्थ्यस्य शात्राधिगतस्याप्रत्याख्येयत्वात्तस्मात्प्राणिनामदृष्टवशादेव देवादयो विघ्नकरणमित्यर्थः । देवादीनां कर्मपारतन्त्र्ये कर्म तत्परतन्त्रं न स्यात्प्रधानगुणभाववैपरीत्यायोगादित्याशङ्क्याऽऽह — कर्मेति । इतश्च नामीषां नियतो गुणप्रधानभावोऽस्तीत्याह — दुर्विज्ञेयश्चेति । इतिशब्दो हेत्वर्थः । यथो गुणप्रधानकृतो मतिविभ्रमो लोकस्योपलभ्यते तस्मादसौ दुर्विज्ञेयो न नियतोऽस्तीति योजना । मतिविभ्रमे वादविप्रतिपत्तिं हेतुमाह — कर्मैवेत्यादिना । कथं तर्हि निश्चयस्तत्राऽऽह — तत्रेति । वेदवादानुदाहरति — पुण्यो वा इति । आदिपदेन ‘धर्मरज्ज्वा व्रजेदूर्ध्वम्’ इत्यादयः स्मृतिवादा गृह्यन्ते । सूर्योदयदाहसेचनादौ कालज्वलनसलिलादेः प्राधान्यप्रसिद्धेर्न कर्मैव प्रधानमित्याशङ्क्याह — यद्यपीति । अनैकान्तिकत्वमप्रधानत्वम् । तत्र हेतुमाह — शास्त्रेति । श्रुतिस्मृतिलक्षणं शास्त्रमुदाहृतम् । जगद्वैचित्र्यानुपपत्तिर्न्यायः । कर्मफले देवादीनां विघ्नकर्तृत्वं प्रसंगागतं निराकृत्य विद्याफले तेषां तदाशङ्कितं निराकरोति नाविद्येति । तत्र नञर्थमुक्त्वानुवादपूर्वकं विशदयति — यदुक्तमिति । तत्र प्रश्नपूर्वकं पूर्वोक्तं हेतुं स्फुटयति — कस्मादिति । आत्मनो ब्रह्मत्वप्राप्तिरूपाया मुक्तेरज्ञानध्वस्तिमात्रत्वात्तस्याश्च ज्ञानेन तुल्यकालत्वात्तस्मिन्सति तस्य फलस्याऽऽवश्यकत्वाद्देवादीनां विघ्नाचरणे नावकाशोऽस्तीत्यर्थः । उक्तमेवार्थमाकाङ्क्षापूर्वकं दृष्टान्तेन समर्थयते — कथमित्यादिना । ब्रह्मविद्यातत्फलयोः समानकालत्वे फलितमाह — अत इति । देवादीनां ब्रह्मविद्याफले विघ्नकर्तृत्वाभावे हेत्वन्तरमाह — यत्रेति । यस्यां विद्यायां सत्यां ब्रह्मविदो देवादीनामात्मत्वमेव तस्यां सत्यां कथं ते तस्य विघ्नमाचरेयुः । स्वविषये तेषां प्रातिकूल्याचरणानुपपत्तेरित्यर्थः । उक्तेऽर्थे समनन्तरवाक्यमुत्थाप्य व्याचष्टे — तदेतदाहेति । कथं ब्रह्मविद्यासमकालमेव ब्रह्मविद्देवादीनामात्मा भवति तत्राऽऽह — अविद्यामात्रेति । यथेदं रजतमिति रजताकारायाः शुक्तिकायाः शुक्तिकात्वमविद्यामात्रव्यवहितं तथा ब्रह्मविदोऽपि सर्वात्मत्वे तन्मात्रव्यवधानात्तस्याश्च विद्योदये नान्तरीयकत्वेन निवृत्तेर्युक्तं विद्यातत्फलयोः स्मानकालत्वम् । उक्तं चैतत्प्रतिवचनदशायामित्यर्थः । उक्तस्य हेतोरपेक्षितं वदन्ब्रह्मविदो देवाद्यात्मत्वे फलितमाह — अत इति । कैवल्ये तेषां विघ्नाकर्तृत्वे कुत्र तत्कर्तृतेत्याशङ्क्याऽऽह — यस्य हीति । तेषां निरङ्कुशप्रसरत्वं वारयति — नत्विति । सफलः प्रयत्न इति पूर्वेणसंबन्धः । तस्य निरवकाशत्वादिति हेतुमाह — अवसरेति । ज्ञानस्यानन्तरफलत्वात्तत्फले देवादीनां न विघ्नकर्तृतेत्युक्तमुपेत्य स्वयूथ्यः शङ्कते — एवं तर्हीति । ज्ञानस्यान्तरफलत्वे न तदज्ञानं निवर्तयेदज्ञानमिव तत्त्वज्ञानमपि ब्रह्मास्मीति ज्ञानसन्तत्यभावात् । न चाऽऽद्यमेव ज्ञानमज्ञानध्वंसि प्रागिवोर्ध्वमपि रागादेस्तत्कार्यस्य च दृष्टत्वात् । अतो देहपातकालीनं ज्ञानमज्ञानं निवर्तयतीति कुतो जीवन्मुक्तिरित्यर्थः । अन्त्यज्ञानस्याज्ञाननिवर्तकत्वं तत्सन्ततेर्वा प्रथमे तस्यान्त्यत्वादात्मविषयत्वाद्वा तद्ध्वंसितेति विकल्प्योभयत्र दृष्टान्तभावं मत्वा द्वितीये दोषान्तरमाह — न प्रथमेनेति । तदेवानुमानेन स्फोरयति — यदि हीति । कल्पान्तरं शङ्कयति — एवं तर्हीति । अविच्छिन्ना ज्ञानसन्ततिरज्ञानं निवर्तयतीत्येदद्दूषयति — नेत्यादिना । जीवनादिहेतुकः प्रत्ययो बुभुक्षितोऽहं भोक्ष्येऽहमित्यादिलक्षणः । तस्य बुभुक्षाद्युपप्लुतस्य ब्रह्मास्मीत्यविच्छिन्नप्रत्ययसन्ततेश्च विरुद्धतया यौगपद्यायोगे हेतुमाह — विरोधादिति । प्रत्ययसन्ततिमुपपादयन्नाशङ्कते — अथेति । उक्तरीत्या प्रत्ययसन्ततिमुपेत्य दूषयति — नेत्यादिना । तमेव दोषं विशदयति — इयतामिति । शास्त्रार्थो ज्ञानसन्ततिरज्ञानं निवर्तयतीत्येवमात्मकः । आत्मेत्येवोपासीतेति श्रुतेरात्मज्ञानसन्ततिमात्रसद्भावे ततो विद्याद्वाराऽविद्याध्वस्तिरिति शास्त्रार्थनिश्चयसिद्धिरित्याह — सन्ततीति । आत्मधीसन्ततेः सत्त्वेऽपि न साऽऽत्मविषयत्वाद्विद्याद्वाराऽविद्यां निवर्तयति । आद्य द्वित्रिक्षणस्थात्मधीसन्ततौ व्यभिचारादिति परिहरति — नाद्यन्तयोरिति । पूर्वस्मिन्प्रत्यये नाविद्यानिवर्तकत्वमन्त्ये तु तथेत्युक्ते तस्यान्त्यत्वात्तथात्वं चेद्दृष्टान्ताभावः । आत्मविषयत्वात्तथात्वे प्रथमप्रत्यये व्यभिचारः स्यादित्युक्तौ दोषौ । आद्या सन्ततिर्नाविद्याध्वंसिनी । अन्त्या तु तथेत्यङ्गीकारेऽपि विशेषाभावादन्त्यत्वात्तस्या निवर्तकत्वे दृष्टान्ताभावः । आत्मविषयत्वात्तद्भावे त्वनैकान्तिकत्वमित्येतावेव दोषौ स्यातामित्युक्तं विवृणोति — प्रथमेति । अन्त्यप्रत्ययस्य तत्सन्ततेश्चाविद्यानिवर्तकत्वाऽसंभवे प्रथमस्यापि रागाद्यनुवृत्त्या तदयोगाज्ज्ञानमज्ञानानिवर्तकमेवेति चोदयति — एवं तर्हीति । श्रुतिविरोधेन परिहरति — न तस्मादिति । तासामर्थवादत्वेनाविवक्षितत्वं शङ्कते — अर्थवाद इति चेदिति । अतिप्रसंगेन दूषयति — न सर्वेति । यथोक्तश्रुतीनामर्थवादत्वेऽपि कथं सर्वशाखोपनिषदां तत्त्वप्रसक्तिरित्याशङ्क्याऽऽह — एतावदिति । एतावन्मात्रार्थत्वमात्मज्ञानात्तदज्ञाननिवृत्तिरित्येतावन्मात्रस्यार्थस्य सद्भावः । अहन्धीगम्ये प्रतीचि तासां प्रवृत्तेः संवादविसंवादाभ्यां मानत्वायोगादस्त्येवार्थवादतेति प्रसंगस्येष्टत्वं शङ्कते — प्रत्यक्षेति । प्रमातुरहन्धीगम्यता नाऽऽत्मनस्तत्साक्षिणस्तस्य वेदान्ता ब्रह्मत्वं बोधयन्तीति न संवादादिशङ्केत्याह — नोक्तेति । विद्वदनुभवमाश्रित्यापि फलश्रुतेरर्थवादत्वं समाहितमित्याह — अविद्येति । आत्मज्ञानस्य तदज्ञाननिवर्तकत्वे स्थिते परमतस्य निरवकाशत्वं फलतीत्याह — तस्मादिति । चोद्यस्यानवकाशत्वमेव विशदयति — अविद्यादीति । ज्ञानसन्ततेरन्त्यज्ञानस्य वाऽज्ञानध्वंसित्वासिद्धेराद्यमेव ज्ञानं तथेत्युक्तं संप्रति परोक्तमनुवदति — यत्तूक्तमिति । दर्शनान्नाऽऽद्यं ज्ञानमज्ञानध्वंसीतिइ शेषः । प्रारब्धकर्मशेषस्य विद्वद्देहस्थितिहेतुत्वाद्विदुषाऽपि यावदारब्धक्षयं रागाद्याभासाविरोधात्तत्क्षये च देहाभासजगदाभासयोरभावान्नाऽऽद्यज्ञानस्याज्ञाननिवर्तकत्वानुपपत्तिरित्युत्तरमाह — न तच्छेषेति । तदेव पेरपञ्चयति — येनेत्यादिना । यच्छब्दस्याऽऽक्षिपतीत्यनेन संबन्धः । आक्षेपकत्वनियमं साधयति — विपरीतेति । मिथ्याज्ञानेन रागादिदोषेण च निमित्तेन प्रवृत्तत्वादिति यावत् । तथाभूतस्येत्यस्य विवरणं विपरीतप्रत्ययेत्यादि । कर्मैव षष्ठ्या विशेष्यते । तावन्मात्रं प्रतिभासमात्रशरीरम् । प्रारब्धकर्मणोऽप्यज्ञानजन्यत्वेन ज्ञाननिवर्त्यत्वान्न ज्ञानिनस्ततो देहाभासादि संभवतीत्याशङ्क्याऽऽह — मुक्तेषुवदिति । यथा प्रवृत्तवेगस्येष्वादेर्वेगक्षयादेवाप्रतिबद्धस्य क्षयस्तथा भोगादेवाऽऽरब्धक्षयो ‘भोगेन त्वितरे क्षपयित्वा संपद्यत’ इति न्यायान्न ज्ञानादित्यर्थः । तद्धेतुकस्य विपरीतप्रत्ययादिप्रतिभासकार्यजनकस्येति यावत् । ननु ज्ञानमनारब्धकर्मवदारब्धमपि कर्म कर्मत्वाविशेषान्निवर्तयिष्यति नेत्याह — तेनेति । अविद्यालेशेन सहाऽऽरब्धस्य कर्मणो विद्या निवर्तिका न भवतीत्यत्र हेतुमाह — अविरोधादिति । न हि ज्ञानादारब्धं कर्म क्षीयते तदविरोधित्वादविद्यालेशाच्च तदवस्थितेरन्यथा जीवन्मुक्तिशास्त्रविरोधादिति भावः । आरब्धस्य कर्मणो ज्ञानानिवर्त्यत्वे ज्ञानं कर्मनिवर्तकमिति कथं प्रसिद्धिरित्याह — किं तर्हीति । प्रसिद्धिविषयमाह — स्वाश्रयादिति । ज्ञानाविरोधियदज्ञानकार्यमनारब्धं कर्म ज्ञानाश्रयप्रमात्राद्याश्रयादज्ञानात्फलात्मना जन्माभिमुखं तन्निवर्तकं ज्ञानमिति प्रसिद्धिरविरुद्धेत्यर्थः । विमतं न ज्ञाननिवर्त्य कर्मत्वादारब्धकर्मवदित्यनुमानादनारब्धमपि कर्म न ज्ञाननिरस्यमित्याशङ्क्याऽऽह — अनागतत्वादिति । अनारब्धं कर्म फलरूपेणाप्रवृत्तत्वात्प्रवृत्तेन ज्ञानेन निवर्त्यम् । आरब्धं तु कर्म फलरूपेण जातत्वात्तद्भोगादृते न निवृत्तिमर्हति । अनुमानं त्वागमापबाधितमप्रमाणमित्यर्थः । नन्वनारब्धकर्मनिवृत्तावपि विदुषश्चेदारब्धकर्म न निवर्तते तथा च यथापूर्वं विपरीतप्रत्ययादिप्रवृत्तेर्विद्वदविद्वद्विशेषो न स्यादत आह — किञ्चेति । हेतुसिद्ध्यर्थं विपरीतप्रत्ययविषयं विशदयति — अनवधृतेति । संप्रति विद्वद्विषये विषयाभावाद्विपरीतप्रत्ययस्यानुत्पत्तिमुपन्यस्यति — स चेति । आशयस्यागृहीतविशेषस्य सामान्यमात्रस्यालम्बनस्येति यावत् । आश्रयस्येति पाठेऽप्ययमेवार्थः । विदुषो विपरीतप्रत्ययादिप्रतिभासेऽपि न यथापूर्वं तत्सत्त्वं यस्य तु यथापूर्वं संसारित्वमित्यादिन्यायविरोधादिति मत्वोक्तम् — न पूर्ववदिति । तत्रानुभवं प्रमाणयति — शुक्तिकादाविति । यथाऽज्ञानवतो विपरीतप्रत्ययभावोऽनुभूयते तथा तद्वतोऽपि क्वचिद्विपरीतप्रत्यायो दृश्यते । तथा च कथं तवानुभवविरोधो न प्रसरेदित्याशङ्क्य परोक्षज्ञानवति विपरीतप्रत्ययसत्त्वेऽपि नापरोक्षज्ञानवति तद्दार्ढ्यमित्यभिप्रेत्याऽऽह — क्वचित्त्विति । परोक्षज्ञानाधारः सप्तम्यर्थः । पञ्चमी त्वपरोक्षज्ञानार्था । अकस्मादित्यज्ञानातिरिक्तक्लृप्तसामग्र्यभावोक्तिः । विदुषो मिथ्याज्ञानाभावमुक्त्वा विपक्षे दोषमाह — सम्यगिति । तत्पूर्वकमनुष्ठानमादिशब्दार्थः । सम्यग्ज्ञानाविस्रम्भे दोषान्तरमाह — सर्वञ्चेति । ज्ञानादज्ञानध्वंसे तदुत्थमिथ्याज्ञानस्य सविषयस्य बाधितत्वान्न विदुषो रागादिरित्युपपाद्य ज्ञानान्मोक्षे तज्जन्ममात्रेण शरीरं स्थितिहेत्वभावात्पतेदिति सद्योमुक्तिपक्षं प्रत्याह — एतेनेति । प्रवृत्तफलस्य कर्मणो भोगादृते क्षयो नास्तीत्युक्तेन न्यायेनेति यावत् । आरब्धकर्मणा देहस्थितिमुक्त्वेतरेषां ज्ञाननिवर्त्यत्वमुपसम्हरति — ज्ञानोत्पत्तेरिति । तस्य ह न देवाश्च नेति विदुषो विद्यफलप्राप्तौ विघ्ननिषेधश्रुत्यनुपपत्त्या यथोक्तोऽर्थोभातीत्यर्थः । न केवलं श्रुतार्थापत्त्या यथोक्तार्थसिद्धिः किन्तु श्रुतिस्मृतिभ्यामपीत्याह — क्षीयन्ते चेत्यादिना । जीवन्मुक्तिं साधयता ज्ञानफले प्रतिबन्धाभाव उक्त इदानीं पूर्वोक्तं शङ्काबीजमनुवदति — यत्त्विति । ऋणित्वं हि विदुषोऽविदुषो वेति विकल्प्याऽऽद्यं दूषयन्द्वितीयमङ्गीकरोति — तन्नेत्यादिना । ऋणित्वस्येति शेषः । तदेव स्फुटयति — अविद्यावानिति । अविदुषोऽस्ति कर्तृत्वादीत्यत्र मानमाह — यत्रेति । वक्ष्यमाणवाक्यार्थं प्रकृतोपयोगित्वेन कथयति — अनन्यदिति । ऋणित्वं विदुषो नेत्युक्तं व्यक्तीकर्तुं तस्य नास्ति कर्तृत्वादीत्यत्रापि प्रमाणमाह — यत्र पुनरिति । विद्यायां सत्यामविद्यायास्तत्कृतानेकत्वभ्रमस्य च प्रहाणं यत्र संपद्यते तत्र तस्मादेव कारणात्तत्केनेत्यादिना कर्मादेरसंभवं दर्शयतीति योजना । प्रमाणसिद्धमर्थं निगमयति — तस्मादिति । अविद्याविषयमृणित्वमित्येतत्प्रपञ्चयन्नविद्यासूत्रमवतारयति — एतच्चेति । तदणित्वमविद्याविषयं यथा स्फुटं भवति तथाऽथ योऽन्यामित्यादावनन्तरग्रन्थ एव कथते प्रथममित्यर्थः । तदक्षराणि व्याकरोति — अथेत्यादिना । विद्यासूत्रानन्तर्यमविद्यासूत्रस्याथशब्दार्थः । यागो गन्धपुष्पादिना पूजा । बल्युपहारो नैवेद्यसमर्पणम् । प्रणिधानमैकाग्र्यम् । ध्यानं तत्रैवानन्तरितप्रत्ययप्रवाहकरणम् । आदिपदं प्रदक्षिणादिग्रहणार्थम् । भेददर्शनमत्रोपासनं न शास्त्रीयमित्यभिप्रेत्यैतदेव विवृणोति — अन्योऽसाविति । तस्य प्रदक्षिणादिग्रहणार्थम् । भेददर्शनमत्रोपासनं न शास्त्रीयमित्यभिप्रेत्यैतदेव विवृणोति — अन्योऽसाविति । तस्य मूलमाह — न स इति । वाक्यान्तरमवतार्य व्याचष्टे — न स केवलमिति । सोऽविद्वानेवमुक्तदृष्टान्तवशात्पशुरिव देवानां भवति तेषां मध्ये तस्यैकैकेन बहुभिरुपकारैर्भोग्यत्वादिति योजना । पशुसाम्ये सिद्धमर्थं कथयति — अत इति । अथानेनाविद्यासूत्रेण किं कृतं भवतीत्यपेक्षायामविद्यायाः संसारहेतुत्वं सूचितमिति वक्तुमविद्याकार्य कर्मफलं संक्षिपति — एतस्येत्यादिना । कर्मसहायभूता विद्या देवताध्यानात्मिका । शास्त्रीयवत्स्वाभाविककर्मणोऽपि द्वैविध्यं सूचयितुं चशब्दः । तत्र तु सहकारिणीविद्या नग्नस्त्रीदर्शनादिरूपेति भेदः । कथं यथोक्तं कर्मफलमविद्यावतः स्यादित्याशङ्क्याऽऽह — यथा चेति । सूत्रद्वैविध्यसिद्ध्यर्थं विद्यासूत्रार्थमनुक्रामति — विद्यायाश्चेति । सूत्रान्तराशङ्कां वारयति — सर्वा हीति । कथमेतदवगम्यते तत्राऽऽह — यथेति । मनुष्याणामविद्यावतां देवपशुत्वे स्थिते फलितमाह — यस्मादिति । तत्र प्रमाणत्वेनोत्तरं वाक्यमुत्थापयति — एतदिति । किमिदमविद्यावतो देवादिपालनमित्याशङ्क्य वाक्यतात्पर्यमाह — इम इन्द्रादय इति । अभिसन्धिरविद्यावतः पुरुषस्येति शेषः । एकस्मिन्नेवेत्यादिवाक्यमादाय व्याचष्टे — तत्रेति । मनुष्याणां पशुभावाद्व्युत्थानमप्रियं देवानामिति स्थिते तदुपायमपि तत्त्वज्ञानं तेषां देवा विद्विषन्तीत्याह — तस्मादिति । तत्त्वविद्यया दौलभ्यं कथञ्चनेत्युक्तम् । मनुष्याणामुत्कर्षं देवा न मृष्यन्तीत्यत्र प्रमाणमाह — तथा चेति । तेषां ब्रह्मविद्यया कैवल्यप्राप्तिः सुतरामनिष्टेति भावः । देवादीनां मनुष्येषु ब्रह्मज्ञानस्याप्रियत्वेऽपि किं स्यादित्याशङ्क्याऽऽह — अत इति । तेषां विघ्नमारचयतामभिप्रायमाह — अस्मदिति । तर्हि देवादिभिरुपहतानां मनुष्याणां मुमुक्षैव न संपद्येतेत्याशङ्क्याऽऽह — यं त्विति । उक्तं हि – “न देवा दण्डमादाय रक्षन्ति पशुपालवत् । यं हि रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥”(विदुरनीति ३-४०) इति । तर्हि किमिति सर्वानेव देवा नानुगृह्णन्तीत्याशङ्क्याऽऽह — विपरीतमिति । देवतापराङ्मुखममुमोचयिषितमिति यावत् । संप्रति देवाप्रियवाक्येन ध्वनितमर्थमाह — तस्मादिति । अविद्वत्सु मनुष्येषु देवादीनां स्वातन्त्र्यं तच्छब्दार्थः श्रद्धादिप्रधानस्तदाराधनपरः सन्देवादीनां प्रियः स्यात्तद्विपक्षस्य मुमुक्षावैफल्यादित्यर्थः । तत्प्रीत्विषयश्च तत्प्रसादासादितवैआग्यः सर्वाणि कर्माणि संन्यस्य विद्याप्रापकश्रवणादिकं प्रत्येकाग्रमनाः स्यादित्याह — अप्रमादीति । श्रवणादिकमनुतिष्ठन्नपि वर्णाश्रमाचारपरो भवेदन्यथा विद्यालक्षणे फले प्रतिबन्धसंभवादित्याशयेनाऽऽह — विद्यां प्रतीति । भयादिनिमित्ता ध्वनेर्विकृतिः काकुरुच्यते । यथाऽऽह – ’काकुः स्त्रियां विकारो यः शोकभीत्यादिभिध्वनेः’ इति । तया काक्वा काण्वश्रुतेः स्वरकम्पेन भयमुपलक्ष्य देवादिभजने कल्प्यते तात्पर्यमित्याह —
काक्वेति ॥१०॥ 【भाष्यम्】 【भाष्यम्】 इदानीं प्रश्नमनूद्य तदुत्तरत्वेन ब्रह्मेत्यादिश्रुतिमवतारयति — यदीत्यादिना । ब्रह्मकण्डिकामित्थं व्याख्याय ब्रह्म वा इदमित्यादिवाक्यस्यातीतेन संबन्धं वक्तुं वृत्तं कीर्तयति — सूत्रित इति । शास्त्रार्थशब्दो ब्रह्मविद्याविषयः । तदाहुरित्यादिनोक्तमनुवदति — तस्य चेति । अर्थवादस्तद्यो यो देवानामित्यदिः । संबन्धो ज्ञानस्य सर्वापत्तिफलेन साध्यसाधनत्वमधिकारिणाऽऽश्रयाश्रयित्वमैक्येन विषयविषयित्वमिति विभागः । अविद्यासूत्रे वृत्तं कथयति — अविद्यायाश्चेति । संसारस्याधिकारः प्रवृत्तिरुत्पत्तिरिति यावत् । यथा पशुरित्यादिनोक्तमनुभाषते — तत्रेति । अविद्याधिकारः सप्तम्यर्थः । तत्राविद्याकार्यं प्रपञ्चयितुमध्यायशेषप्रवृत्तिरिति मन्वानोऽविद्याविवर्तचातुर्वर्ण्यसृष्टिप्रकटनार्थं तदेतद्ब्रह्मेत्यस्मात्प्राक्तनं वाक्यमित्याकाङ्क्षापूर्वकमाह — किं पुनरिति । ब्रह्म वा इदमित्यादिवाक्यमिदमा परामृश्यते । वर्णानेव विशिनष्टि — यन्निमित्तेति । यैर्निमित्तैर्ब्राह्मण्यादिभिः संबद्धेषु कर्मस्वयमविद्वानधिकृतः पशुरिव संसरतीति पशुनिदर्शनश्रुतौ प्रसिद्धं तानि निमित्तानि दर्शयितुमुत्तरं वाक्यं प्रवृत्तमित्यर्थः । अथेत्यभ्यमन्थदित्यत्रानुग्राहकदेवतासर्गं प्रक्रम्याग्नेरेव सृष्टिरुक्ता नेन्द्रादीनामत्र त्वविद्यां प्रस्तुत्य तेषां सोच्यते तत्र कः श्रुतेरभिप्रायस्तत्राऽऽह — एतस्येति । पूर्वमग्निसर्गानन्तरमिन्द्रादिसर्गो वाच्योऽपि नोक्तः फलाभावात् । इह त्वविदुषस्तत्कार्यवर्णाद्यभिमानिनः कर्माधिकृतिरित्येतस्यार्थस्य प्रदर्शनार्थं तदाविद्यत्वविवक्षया स व्युत्पाद्यत इत्यर्थः । अग्निसर्गोऽपि तर्हि तद्वदत्रैव वाच्यो विशेषाभावादित्याशङ्क्याऽऽह — अग्नेस्त्विति । प्रजापतेः सृष्टिपूर्तये चेदग्निसृष्टिस्तत्रोक्ता हतेन्द्रादिसर्गोऽपि तत्रैव वाच्योऽन्यथा तदपूर्तेरित्याशङ्क्याऽऽह — अयञ्चेति । तर्हि तत्रोक्तस्य कस्मादत्रोक्तिः पुनरुक्तेरित्याशङ्क्यैतस्यैवार्थस्येत्यत्रोक्तं स्मारयति — इह त्विति । संगतिमुक्त्वा वाक्यमादाय व्याचष्टे — ब्रह्मेति । अग्रे क्षात्रादिसर्गात्पूर्वमिति यावत् । वैशब्दस्यावधारणार्थत्वं वदन्वाक्यार्थोक्तिपूर्वकमेकमित्यस्यार्थमाह — इदमिति । द्वितीयमेवकारं व्याचष्टे — नाऽऽसीदिति । कथं तर्हि तस्य कर्मानुष्ठानसामर्थ्यसिद्धिरित्याशङ्क्य समनन्तरवाक्यं व्याचष्टे — तत इति । तदेवसृष्टमाकाङ्क्षाद्वारा स्पष्टयति — किं पुनरिति । एका चेत्क्षत्रजातिः सृष्टा कथं तर्हि यान्येतानीति बहूक्तिरित्याशङ्क्याऽऽह – तद्व्यक्तिभेदेनेति । क्षत्रजातेरेकत्वात्कथं क्षत्राणीति बहुवचनमित्याशङ्क्य ‘जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्’(प.सू१-२-५८) इति स्मृतिमाश्रित्याऽऽह — जातीति । बहूक्तेगत्यन्तरमाह — व्यक्तीति । तासां बहुत्वाज्जातेश्च तदभेदात्तत्रापि भेदमुपचर्य बहूक्तिरित्यर्थः । क्षत्राणीति बहुवचनमिति यावत् । तेषां विशेषतो ग्रहणं क्षत्रस्योत्तमत्वं ख्यापयितुमिति मन्वानः सन्नाह — कानि पुनरित्यादिना । ननु किमिति देवेषु क्षत्त्रसृष्टिरुच्यते ब्राह्मणस्य कर्मानुष्ठानसामर्थ्यसिद्ध्यर्थं मनुष्येष्वेव तत्सृष्टिरुपदेष्टव्येत्याशङ्क्याऽऽह — तदन्विति । तथाऽपि विवक्षिता सृष्टिर्मुखतो वक्तव्येत्याशङ्क्योपोद्घातोऽयमित्याह — तदर्थ इति । तस्मादित्यादि व्याचष्टे — यस्मादिति । क्षत्रस्य नियन्तृत्ववदुत्कर्षे हेत्वन्तरमाह — तस्मादिति । ब्रह्मेति प्रसिद्धं ब्राह्मण्याख्यमिति यावत् । उक्तम्मेव प्रपञ्चयति — राजसूयेति । आसन्द्यां मञ्चिकायाम् । क्षत्रे स्वकीयं यशः समर्पयतो ब्राह्मणस्य निष्कर्षमाशङ्क्याऽऽह — सैषेति । तयोर्ब्राह्मणत्वस्य तुल्यत्वात्कुतोऽवान्तरभेदः क्षत्त्रमपि क्रतुकाले ब्राह्मण्यं प्राप्नोतीत्याशङ्क्याऽऽह — तस्मादिति । क्षत्त्रस्य ब्रह्माभिभवे दोषश्रवणाच्च तस्य तदपेक्षया तद्गुणत्वमित्याह — यस्त्विति । प्रमादादपीति वक्तुमुशब्दः । य उ एनं हिनस्तीति प्रतीकग्रहणं यस्तु पुनरित्यादिव्याख्यानमिति भेदः । ईयसुनस्तरबर्थस्य प्रयोगे हेतुमाह — पूर्वमपीति । ब्राह्मणाभिभवे पापीयस्त्वमित्येतदुदाहरणेन बुद्धावारोपयति —
यथेति ॥११॥ 【भाष्यम्】 【भाष्यम्】 कर्तृब्राह्मणस्य नियन्तुश्च क्षत्रियस्य सृष्टत्वात्किमुत्तरेणेत्याशङ्क्याऽऽह — क्षत्र इति । तद्व्याचष्टे — कर्मण इति । ब्रह्म ब्राह्मणोऽस्मीत्यभिमानी पुरुषः । तथा क्षत्त्रसर्गात्पूर्वमिवेति यावत् । कथं तर्हि लौकिकसामर्थ्यसंपादनद्वारा कर्मानुष्ठानमत आह — स विशमिति । देवजातानीत्यत्र तकारो निष्ठा । गणं गणं कृत्वा किमित्याख्यानं विशामित्याशङ्क्याऽऽह — गणेति । विशां समुदायप्रधानत्वमद्यापि प्रत्यक्षमित्याह —
प्रायेणेति ॥१२॥ 【भाष्यम्】 【भाष्यम्】 कर्तृपालयितृधनार्जयितॄणां सृष्टत्वात्कृतं वर्णान्तरसृष्ट्येत्याशङ्क्याऽऽह — स परिचारकेति । शौद्रं वर्णमसृजतेत्यत्रौकारो वृद्धिः । पुष्यतीति पुषेत्युक्तत्वात्प्रश्नस्यानवकाशत्वमाशङ्क्याऽऽह — विशेषत इति । पूषशब्दस्यार्थान्तरे प्रसिद्धत्वात्कथं पृथिव्यां वृत्तिरित्याशङ्क्याऽऽह —
स्वयमेवेति ॥१३॥ 【भाष्यम्】 【भाष्यम्】 ननु चातुर्वर्ण्ये सृष्टे तावतैव कर्मानुष्ठानसिद्धेरलं धर्मसृष्ट्येत्यत आह — स चतुर इति । अनियताशङ्क्या नियामकाभावे तस्यानियतत्वसंभावनयेति यावत् । तच्छब्दः स्रष्टृब्रह्मविषयः । कुतो धर्मस्य सर्वनियन्तृत्वं क्षत्त्रस्यैव तत्प्रसिद्धेरित्याह — तत्कथमिति । अनुभवमनुसृत्य परिहरति — उच्यत इत्यादिना । तदेवोदाहरति — यथेति । राज्ञा स्पर्धमान इति शेषः । धर्मस्योत्कृष्टत्वेन नियन्तृत्वे सत्यादभिन्नत्वं हेत्वन्तरमाह — यो वा इति । कथं धर्मस्य सत्यत्वं स हि पुरुषधर्मो वचनधर्मः सत्यत्वमित्यवान्तरभेदादित्याशङ्क्याऽऽह — स एवेति । यथोक्ते विवेके लोकप्रसिद्धिं प्रमाणयति — यस्मादिति । उभयशब्दो धर्मसत्यविषययोः धर्मं वदतीत्येतदेव विभजते — प्रसिद्धमिति । यथा शास्त्रानुसारेण वदन्तं धर्मं वदतीति वदन्ति तथा पूर्वोक्तवदनवैपरीत्येन धर्मं वदन्तं सत्यं वदतीत्याहुरिति योजना । धर्ममेव व्याचष्टे — लौकिकमिति । सत्यं वदतीत्येतदेव स्फुटयति — शास्त्रादिति । कार्यकारणभावेनानयोरेकत्वमुपसम्हरति — एतदिति । शास्त्रार्थसंशये शिष्टव्यवहारान्निश्चयो यथा याववराहादिशब्देषु, धर्मसंशये तु शास्त्रार्थवशान्निर्णयो यथा चैत्यवन्दनादिव्युदासेनाग्निहोत्रादौ । अतो हेतुहेतुमद्भावादुभयोरैक्यमिति भावः । धर्मस्य सत्यादभेदे फलितमाह — तस्मादिति । तस्य सर्वनियन्तृत्वेऽपि प्रकृते किमायातं तदाह — तस्मात्स इति । तर्हि यथोक्तधर्मवशादेव कर्मानुष्ठानसिद्धेर्वर्णाश्रमाभिमानस्याकिञ्चित्करत्वमित्याशङ्क्याऽऽह — अत इति । धार्मिकत्वाद्यभिमानो ब्राह्मण्याद्यभिमानं पुरोधायानुष्ठापकश्चेत्तदभिमानोऽपि तथैवाभिमानान्तरं पुरस्कृत्यानुष्ठापयेदित्याशङ्क्याऽऽह — तानि चेति ।
न खल्वविदुषो धार्मिकस्य ब्राह्मण्यादिषु निमित्तेषु सत्सु कर्मप्रवृत्तौ निमित्तान्तरमपेक्ष्यते प्रमाणाभावादित्यर्थः ॥१४॥ 【भाष्यम्】 【भाष्यम्】 पुनरुक्तिवैयर्थ्यमाशङ्क्योक्तम् — उत्तरार्थ इति । पूर्वत्र देवेषु दर्शितस्य वर्णविभागस्य मनुष्येषूत्तरग्रन्थेन योजनार्थ इति यावत् । सृष्टवर्णचतुष्टयनिविष्टमवान्तरविभागमभिधातुमारभते — यत्तदिति । नान्येन देवान्तररूपेण क्षत्त्रादिविकारमन्तरेणेति यावत् । विकारान्तरमग्निब्राह्मणलक्षणम् । क्षत्त्रियेणेत्यत्र विवक्षितमर्थमाह — इन्द्रादिदेवताधिष्ठित इति । वैश्येनेति वस्वाद्यधिष्ठितत्वमुच्यते । शूद्रेणेति पूषाधिष्ठितत्वम् । अग्न्यादिभावमापन्नस्य क्षत्त्रादिभावो न तु क्षत्त्रादिभावमापन्नस्याग्न्यादिभाव इत्येतावन्मात्रेण ब्रह्मणोविकृतत्वाविकृतत्वमग्निब्राह्मणस्तुत्यर्थमुक्तमित्यभिप्रेत्य तस्मादित्यादि व्याचष्टे — यस्मादिति । यथोक्तप्रार्थनाया न्याय्यत्वं साधयति — तदर्थमेवेति । कर्मफलदानार्थमिति यावत् । मनुष्याणां मध्ये कमपि मनुष्यमवलम्ब्य कर्मफलभोगापेक्षायामधिकरणसंप्रदानभावेनावस्थिताग्नीन्द्रादिनिमित्तक्रियापेक्षा नास्ति किन्तु ब्राह्मणजातिप्राप्तिमात्रेण तत्संबद्धं जप्यादिकर्मावश्यम्भावीति । तन्मात्रेण पुरुषार्थः सिध्यतीति प्रतीकग्रहणपूर्वकमाह — मनुष्याणामिति । कुत्र तर्हि यथोक्तक्रियापेक्षेति तत्राऽऽह — यत्र त्विति । देवानां मध्येऽग्निसंबद्धमेव कर्म कृत्वा पुरुषार्थलाभो मनुष्याणां मध्ये तु ब्राह्मण्यप्रयुक्तजप्यादिमात्रेण तत्प्राप्तिरित्यत्र प्रमाणमाह — स्मृतेश्चेति । जप्यग्रहणं जातिमात्रप्रयुक्तकर्मोपलक्षणार्थम् । अन्यदग्निसंबद्धं कर्म । कोऽयं ब्राह्मणो नाम तत्राऽऽह — मैत्र इति । सर्वेषु भूतेष्वभयप्रदो विशिष्टजातिमानिति यावत् । ननु यथोक्तस्मृतेर्ब्राह्मण्यप्रतिलम्भमात्रादभ्युदयलाभेऽपि कुतस्ततो निःश्रेयससिद्धिस्तत्राऽऽह — पारिव्राज्येति । ’ब्राह्मणा व्युत्थायाथ भिक्षाचर्यञ्चरन्ती’ति ब्राह्मणस्य पारिव्राज्यं श्रूयते । तच्च ‘संन्यासाद्ब्रह्मणः स्थान’मिति ब्रह्मलोकसाधनं मन्यते । अतश्च ब्राह्मणजातिनिमित्तं लोकमिच्छन्तीति युक्तमित्यर्थः । ब्राह्मणे मनुष्येष्वित्यस्यार्थमुपसम्हरति — तस्मादिति । हेतुवाक्यमादाय व्याचष्टे — यस्मादिति । हिशब्दार्थो यस्मादित्युक्तः यत्स्रष्टृ ब्रह्म तदेताभ्यां यस्मत्साक्षादभवत्तस्मादग्नावेवेत्यादि युक्तमिति योजना । अग्नौ हुत्वा ब्राह्मणे च दत्त्वा परमात्मलक्षणं लोकमाप्तुमिच्छन्तीति भर्तृप्रपञ्चव्याख्यानमनुवदति — अत्रेति । सप्तमी तस्मादित्यादिवाक्यविषया । प्रक्रमालोचनायां कर्मफलमिह लोकशब्दार्थो न परमात्मा प्रक्रमभङ्गप्रसंगादिति दूषयति — तदसदिति । कर्माधिकारार्थं कर्मसु प्रवृत्तिसिद्ध्यर्थमिति यावत् । वाक्यशेषगतविशेषणवशादपि कर्मफलस्यैवात्र लोकशब्दवाच्यत्वमित्याह — परेण चेति । तदेव प्रपञ्चयति — यदि हीति । परपक्षे स्वमिति विशेषणं व्यावर्त्याभावान्न घटते चेत्त्वत्पक्षेऽपि कथं तदुपपत्तिरित्याशङ्क्याऽऽह — स्वलोकेति । परशब्दोऽनात्मविषयः । ननु प्रकृते वाक्ये लोकशब्देन परमात्मा नोच्यते चेदुत्तरवाक्येऽपि तेन नासावुच्येत विशेषाभावादित्याशङ्क्य विशेषणसामर्थ्यान्नैवमित्याह — स्वत्वेन चेति । कर्मफलविषयत्वेनापि विशेषणस्य नेतुं शक्यत्वान्न विशेषसिद्धिरित्याशङ्क्याऽऽह — अविद्येति । तेषां स्वरूपव्यभिचारे वाक्यशेषं प्रमाणयति — ब्रवीति चेति । उत्तरवाक्यव्यावर्त्यं पूर्वपक्षमाह — ब्रह्मणेति । अत्पुनरचेतनमकिञ्चित्करमित्याशङ्क्याऽऽह — तच्चेति । सर्वैरेव वणैः स्वस्य कर्तव्यतया तान्प्रति नियन्तृ भूत्वेति योजना । तस्य पुमर्थोपायत्वप्रसिद्धिमादाय फलितमाह — तस्मादिति । अविदितोऽपीति च्छेदः । देवतागुणवत्कर्म मुक्तिहेतुरिति पक्षं प्रतिक्षेप्तुमुत्तरं वाक्यमुत्थापयति — अत आहेति । झानादेव मुक्तिर्न कर्मणेत्यागमप्रसिद्धमिति निपातयोरर्थः । तत्र निमित्तमुपादानञ्चेति द्वयं संक्षिपति — अविद्येति । निमित्तं निवृणोति — अग्न्यधीनेति । आत्माख्यस्य लोकस्य सत्त्वे हेतुमाह — आत्मत्वेनेति । अहं ब्रह्मास्मीत्यदृष्ट्वेति संबन्धः । यः परमात्मानमविदित्वेव म्रियते तमेनं परमात्मा न पालयतीति योजना । परमात्मनः स्वरूपत्वादविदितस्यापि पालयितृत्वं स्यादित्याशङ्क्याऽऽह — स यद्यपीति । लोकशब्दादुपरिष्टात्तथाऽपीति द्रष्टव्यम् । अविदित इत्यस्य व्याख्यानमविद्ययेत्यादि । परमात्माख्यो लोको नाज्ञातो भुनक्तीत्यत्र कर्मफलभूतं लोकं वैधर्म्यदृष्टान्ततया दर्शयति — अस्व इवेति । अज्ञातस्यापालयितृत्वे साधर्म्यदृष्टान्तमाह — संक्येति । यथा लौकिको दशमो दशमोऽस्मीत्यज्ञातो न शोकादिनिवर्तनेनाऽऽत्मानं भुनक्ति तथा परमात्माऽपीत्यर्थः । तत्रैव श्रुत्युक्तं दृष्टान्तद्वयं व्याचष्टे — यथा चेत्यादिना । अविद्यादीत्यादिशब्देन तदुत्थं सर्वं संगृह्यते । यदिहेत्यादिवाक्यापोह्यं चोद्यमुत्थापयति — नन्विति । नन्वनिष्टफलनिमित्तस्यापि कर्मणः फलप्राप्तिध्रौव्यात्कथं कर्मणा मोक्षः सेत्स्यति तत्राऽऽह — इष्टेति । बाहुल्यमश्वमेधादिकर्मणो महत्तरत्वं तद्धि दुरितमभिभूय मोक्षमेव संपादयिष्यतीत्यर्थः । यत्कृतकं तदनित्यमिति न्यायमाश्रित्य परिहरति — तन्नेत्यादिना । सप्तम्यर्थः संसारः इहेतिनिपातार्थं सूचयति — अद्भुतवदिति । अनेवंवित्त्वं व्याकरोति — स्वं लोकमिति । यथोक्तो विधिरन्वयव्यतिरेकादिः पुण्यकर्मच्छिद्रेषु दुरितप्रसक्तिं निवारयति — नैरन्तर्येणेति । तथा पुण्यं संचिन्वतोऽभिप्रायमाह — अनेनेति । प्रक्रान्तयच्छब्दापेक्षितं कथयति — तत्कर्मेति । प्रागुक्तन्यायद्योती हेति निपातः । कारणरूपेण कार्यस्य द्रुवत्वमाशङ्क्याऽऽह — तत्कारणयोरिति । मुक्तेरनित्यत्वदोषसमाधिस्तर्हि केन प्रकारेण स्यादित्याशङ्क्याऽऽह — अत इति । आत्मशब्दार्थमाह — स्वं लोकमिति । तदेव स्फुटयति — आत्मानमितीति । आत्मशब्दस्य प्रकृतस्वलोकविषयत्वे हेत्वन्तरमाह — इह चेति । प्रयोगे तु पुनरुक्तिभयादर्थान्तरविषयत्वमपि स्यादित्यर्थः । विद्याफलमाकाङ्क्षाद्वारा निक्षिपति — स य इति । कर्मफलस्य क्षयित्वमुक्त्वा कर्मणोऽक्षयत्वं वदतो व्याहतिमाशङ्क्याऽऽह — कर्मेति । वाक्यस्य विवक्षितमर्थं वैधर्म्यदृष्टान्तेन व्याचष्टे — यथेति । अविदुष इति च्छेदः । कर्मक्षयेऽपि वा विदुषो दुःखाभावे दृष्टान्तमाह — मिथिलायामिति । आत्मानमित्यादि केवलज्ञानान्मुक्तिरित्येवम्परतया व्याख्यातं संप्रति तत्र भर्तृप्रपञ्चव्याख्यामुत्थापयति — स्वात्मेति । आत्मलोकोपासकस्य कर्माभावे कथं तदक्षयवाचोयुक्तिरित्याशङ्क्य कर्माभावस्यासिद्धिमभिसन्धाय कर्मसाध्यं लोकं व्याकृताव्याकृतरूपेण भिनत्ति — लोकशब्दार्थञ्चेति । औत्प्रेक्षिकी कल्पना न तु श्रौतीति वक्तुं किलेत्युक्तम् । तत्राऽऽद्यं लोकशब्दार्थमनूद्य तदुपासकस्य दोषमाह — एक इति । परिच्छिन्नः कर्मात्मा तत्साध्यो व्याकृतावस्थो लोकस्तस्मिन्नहङ्ग्रहोपासकस्येति यावत् । किलशब्दस्तु पूर्ववत् । द्वितीयं लोकशब्दार्थमनूद्य तदुपासकस्य लाभं दर्शयति — तमेवेति । यथा कुण्डलादेरन्तर्बहिरन्वेषणे सुवर्णातिरिक्तरूपानुपलम्भात्तद्रूपेणास्य नित्यत्वं तथा कर्मसाध्यं हिरण्यमर्गादिलोकं कार्यत्वादव्याकृतं कारणमेवेत्यङ्गीकृत्य यस्तस्मिन्नहम्बुद्ध्योपास्ये तस्यापरिच्छिन्नकर्मसाध्यलोकात्मोपासकत्वाद्ब्रह्मवित्त्वं कर्मित्वं च घटते तस्य खल्वात्मैव कर्म तेन तस्य तन्न क्षीयते । यः पुनरद्वैतावस्थामुपास्ते तस्याऽऽत्मैव कर्म भवतीति हि भर्तृप्रपञ्चैरुक्तमित्यर्थः । आत्मानमित्यादिसमुच्चयपरमिति प्राप्तं पक्षं प्रत्याह — भवतीति । श्रौतत्वाभावे हेतुमाह — स्वलोकेति । स्वं लोकमदृष्ट्वेत्यत्र स्वलोकशब्देन परस्य प्रकृतस्याऽत्मानमेवेत्यत्र प्रकृतहानाप्रकृतप्रक्रियापरिहारार्थमुक्तत्वान्नात्र लोकद्वैविद्यकल्पना युक्तेत्यर्थः । लोकशब्देनात्र परमात्मपरिग्रहे हेत्वन्तरमाह — स्वं लोकमितीति । यथा लोकस्य स्वशब्दार्थो विशेषणं तथाऽऽत्मानमित्यत्र स्वशब्दपर्यायात्मशब्दार्थस्तस्य विशेषणं दृश्यते न च कर्मफलस्य मुक्त्यमात्मत्वमतो लोकशब्दोऽत्र परमात्मैवेत्यर्थः । प्रकरणाद्विशेषणाच्च सिद्धमर्थं दर्शयति — तत्रेति । परस्यैव लोकशब्दार्थत्वे हेत्वन्तरमाह — परेणेति । उक्तमेव प्रपञ्चयति — पुत्रेति । अथ परेषु वाक्येषु परमात्मा लोकशब्दार्थः प्रकृते तु कर्मफलमिति व्यवस्थेति चेन्नैवमेकवाक्यत्वसंभवे तद्भेदस्यान्याय्यत्वादित्याह — तैरिति । एकवाक्यत्वसंभावनामेव दर्शयति — इहापीति । यथोत्तरत्राऽऽत्मादिशब्देन लोको विशेषिस्तथाऽऽत्मानमित्यत्राप्यात्मशब्देन विशेष्यते । पूर्ववाक्ये च स्वं लोकमदृष्ट्वेति स्वशब्देनाऽऽत्मवाचिना तस्य विशेषणं दृश्यते । तथा च पूर्वापरालोचनायामेकवाक्यत्वसिद्धिरित्यर्थः । प्रकरणेन तस्य लोकशब्दार्थत्वमयुक्तं लिङ्गविरोधादिति चोदयति — अस्मादिति । तदेव विवृणोति — इहेत्यादिना । अर्थवादस्थं लिङ्गं न प्रकरणाद्बलवदिति मत्वा समाधत्ते — नेत्यादिना । स्तुतिमेव स्पष्टयति — स्वस्मादेवेति । लोकाज्ज्ञातादिति शेषः । यथा छान्दोग्ये स्तुत्यर्थमात्मनः स्रष्टृत्वमुच्यते तथाऽत्राप्यात्मलोकं स्तोतुमेतत्फलवचनमित्याह — आत्मत इति । भवतु वा मा भूदस्माद्ध्येवेत्यादिरर्थवादस्तथाऽपि तस्य सर्वात्मत्वप्रदर्शनार्थत्वाद्युक्तमत्र लोकशब्देन परमात्मग्रहणमित्याह — सर्वात्मेति । तस्मात्तत्सर्वमभवदिति वाक्यं दृष्टान्तयति — पूर्ववदिति । किञ्चाऽऽत्मशब्दस्य त्रिधापरिच्छेदशून्यार्थवाचिताया यच्चाऽऽप्नोतीत्यादिन्यायेन सिद्धत्वात्तत्समानाधिकरणलोकशब्दस्यापि तदर्थत्वात्परस्यैवात्र लोकत्वमित्याह — यदि हीति । किञ्च यदि लोकशब्देन परं हित्वाऽर्थान्तरमुच्यते तदा सविशेषणं वाक्यं स्यादन्यथा स्वं लोकमिति प्रकृतपरमात्मलोकस्य त्वत्पक्षेऽन्तरोक्तब्रह्मलोकस्य च व्यावृत्त्ययोगात् । न चात्र सविशेषणं वाक्यं दृष्टमतः स्वं लोकमिति प्रकृतः परमात्मैवात्रापि लोक इत्याह — अन्यथेति । विशेषणं विनैवास्मादित्यत्र परापराभ्यामर्थान्तरं किं न स्यादित्याशङ्क्याऽऽह — न हीति ।
स्वं लोकमिति प्रकृते परमात्मन्यात्मानमेवेति विशेषिते चाव्याकृताख्या परापराभ्यामन्तरालावस्था न प्रतिपत्तुं शक्यते तस्याः श्रुतत्वाभावादित्यर्थः ॥१५॥ 【भाष्यम्】 【भाष्यम्】 अपिपर्यायस्याथोशब्दस्यासंगतिमाशङ्क्य व्याकरोति — अथो इतीति । परस्यापि प्रकृतत्वात्ततो विशिनष्टि — गृहीति । गृहित्वे हेतुरविद्वानित्यादि । इतरपर्युदासार्थं कर्माधिकृत इत्युक्तम् । कथमुक्तस्याऽऽत्मनः सर्वभोग्यतेत्याशङ्क्याऽऽह — सर्वेषामिति । तदेव प्रश्नद्वारा प्रकटयति — कैः पुनरिति । यजतिजुहोत्योस्त्यागर्थत्वेनाविशेषात्पुनरुक्तिमाशङ्क्य यजतिचोदनाद्रव्यदेवताक्रियासमुदाये कृतार्थत्वादिति न्यायेनाऽऽह — याग इति । आसेचनं प्रक्षेपः । उक्तञ्च – जुहोतिरासेचनावधिकः स्यादिति जै० सू० ४–२–२८ । यथोक्तसोमादिभिर्देवादीन्प्रत्युपकुर्वतो गृहिणौ विद्यया प्रतिबन्धसंभवात्तदुपकारित्वव्यावृत्तिरित्याशङ्क्याऽऽह — यस्मादिति । पूर्वेषामथशब्दानामभिप्रेतमर्थमनूद्य समनन्तरवाक्यमनूद्य तदर्थमाह — तस्मादिति । देवादीनां कर्माधिकारिणि कर्तृत्वादिपरिपालनमेव परिरक्षणमिति विवक्षित्वा पूर्वोक्तं स्मारयति — तस्मादिति । यथोक्तं कर्म कुर्वन्यद्यपि देवादीन्प्रत्युपकरोति तथाऽपि न तत्कर्तृत्वमावश्यकं मानाभावादित्याशङ्क्याऽऽह — तद्वा इति । भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञो ब्रह्मयज्ञश्चेत्येवं पञ्चमहायज्ञाः । ननु श्रुतमपि विचारं विना नानुष्ठेयं न हि रुद्ररोदनादि श्रुतमित्येवानुष्ठीयते तत्राऽऽह — मीमांसितमिति । ’तदेतदवदयते तद्यजते स यदग्नौ जुहोती’त्याद्यवधानप्रकरणम् । ‘ऋणं ह वाव जायते जायमानो योऽस्ती’त्यादिनाऽर्थवादेनेति शेषः । वाक्यान्तरमादाय व्याख्यातुं पातनिकाङ्करोति — आत्मैवेत्यादिना । कर्मैव बन्धनं तत्राधिकारोऽनुष्ठानं तस्मिन्निति यावत् । विद्याधिकारस्तदुपायै श्रवणादौ प्रवृत्तिस्तत्रेत्यर्थः । यथोक्ताधिकारिणो देवादिभी रक्षणं प्रवृत्तिमार्गे नियमेन प्रवर्तकमिति शङ्कते — नन्विति । उक्तमङ्गीकरोति — बाढमिति । तर्हि प्रवर्तकान्तरं न वक्तव्यं तत्राऽऽह — कर्माधिकारेति । कर्मस्वधिकारेण स्वगोचरत्वं प्राप्तानेव देवादयोऽपि रक्षन्ति न सर्वाश्रमसाधारणं ब्रह्मचारिणमतोऽस्य कर्ममार्गे प्रवृत्तौ देवादिरक्षणस्याहेतुत्वाद्ब्रह्मचारिणो निवृत्तिं त्यक्त्वा प्रवृत्तिपक्षपाते कारणं वाच्यमित्यर्थः । मनुष्यमात्रं कर्मण्येव बलात्प्रवर्तयन्ति तेषामचिन्त्यशक्तित्वादित्याशङ्क्याऽऽह — अन्यथेति । स्वगोचरारूढानेवेत्येवकारस्य व्यावर्त्यं कीर्तयति — न त्विति । विशिष्टाधिकारो गृहस्थानुष्ठेयकर्मसु गृहस्थत्वेन स्वामित्वं तेन देवगोचरतामप्राप्तमित्यर्थः । देवादिरक्षणस्याकारणत्वे फलितमाह — तस्मादिति । प्रत्यगविद्या यथोक्ताधिकारिणो नियमेन प्रवृत्त्यनुरागे हेतुरिति शङ्कते — नन्विति । तदेव स्फुटयति — अविद्वानिति । तस्याः स्वरूपेण प्रवर्तकत्वं दूषयति — साऽपीति । अविद्यायस्तर्हि प्रवृत्त्यन्वयव्यतिरेकौ कथमित्याशङ्क्य कारणकारणत्वेनेत्याह — प्रवर्तकेति । सत्यन्यस्मिन्कारणेऽकारणमेवाविद्या प्रवृत्तेरिति चेत्तत्राऽऽह — एवं तर्हीति । उत्तरवाक्यमुत्तरत्वेनावतार्य तस्मिन्विवक्षितं प्रवर्तकं संक्षिपति — तदिहाभिधीयत इति । तत्रार्थतः श्रुत्यन्तरं संवादयति — स्वाभाविक्यामिति । तत्रैव भगवतः सम्मतिमाह — स्मृतौ चेति । ’अथ केन प्रयुक्तोऽयम्’ इत्यादिप्रश्नस्योत्तरम् – ‘काम एष क्रोध एष रजोगुणसमुद्भवः’(भ. गी. ३ । ३७) इत्यादि । ’अकामतः क्रिया काचिद्दृश्यते नेह कस्यचित् । यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्’ ॥ इति वाक्यमाश्रित्याऽऽह — मानवे चेति । दर्शितमिति शेषः । उक्तेऽर्थे तृतीयाध्यायशेषमपि प्रमाणयति —
स एषोऽर्थ इति ॥१६॥ 【भाष्यम्】 【भाष्यम्】 कण्डिकान्तरमवतार्य वृत्तमनूद्याऽऽकाङ्क्षापूर्वकं तात्पर्यमाह — अथो इत्यादिना । अत्रेत्यविद्यावस्था पूर्वग्रन्थो वा दृश्यते । एवं तात्पर्यमुक्त्वा प्रतीकमादय पदानि व्याकरोति — आत्मैवेत्यादिना । वर्णी द्विजत्वद्योतको ब्रह्मचारीति यावत् । कथं तर्हि हेत्वभावे तस्य कामित्वमपि स्यादित्याशङ्क्याऽऽह — जायादीति । सशब्दं व्याकुर्वन्नुत्तरवाक्यमादयावशिष्टं व्याचष्टे — स्वाभाविक्येति । कामनाप्रकारं प्रश्नपूर्वकं प्रकटयति — कथमिति । कर्माधिकारहेतुत्वं तस्याः साधयति — तयेति । प्रजां प्रति जायाया हेतुत्वद्योतकोऽथशब्दः । प्रजाया मानुषवित्तान्तर्भावमभ्युपेत्य द्वितीयोऽथशब्दः । तृतीयस्तु वित्तस्य कर्मानुष्ठानहेतुत्वविवक्षयेति विभागः । कर्मानुष्ठानफलमाह — येनेति । तत्किं नित्यनैमित्तिककर्मणामेवानुष्ठानं नेत्याह — काम्यानि चेति । क्रियापदमनुक्रष्टुं चशब्दः कामशब्दस्य यथाश्रुतमर्थं गृहीत्वैतावानित्यादिवाक्यस्याभिप्रायमाह — साधनलक्षणेति । अस्याः साधनैषणायाः फलभूता इति संबन्धः । द्वयोरेषणात्वमुक्त्वा लोकैषणां परिशिनष्टि — तदर्था हीति । कथं तर्हि साधनैषणोक्तिरित्याशङ्क्याऽऽह — सैकेति । एतेन वाक्यशेषोऽप्यनुगुणी भवतीत्याह — अत इति । साधनवत्फलमपि काममात्रं चेत्कथं तर्हि श्रुत्या साधनमात्रमभिधायैतावानवध्रियते तत्राह — फलार्थत्वादिति । उक्ते साधने साध्यमार्थिकमित्यत्र दृष्टान्तमाह — भोजन इति । साधनोक्तौ साध्यस्यार्थादुक्तेरेतावानिति द्वयोरनुवादेऽपि कथमेषणार्थे कामशब्दस्तत्र प्रयुज्यते, न हि तौ पर्यायौ, न च तदवाच्यत्वे तयोरनर्थकतेत्याशङ्क्य पर्यायत्वमेषणाकामशब्दयोरुपेत्याह — ते एते इति । चेष्टनमेव स्पष्टयति — कर्ममार्ग इति । अग्निमुग्धोऽग्निरेव होमादिद्वारेण मम श्रेयःसाधनं नाऽऽत्मज्ञानमित्यभिमानवान्धूमतान्तो धूमेन ग्लानिमापन्नो धूमता वा ममान्ते देहावसाने भवतीति मन्यमानः ‘ते धूममभसंभवन्ती’ति श्रुतेः । स्वं लोकमात्मानम् । वाक्यान्तरमत्थाप्य व्याचष्टे — कथमित्यादिना । तस्मादेतावत्त्वमवधार्यते तेषामिति शेषः । उक्तमेवार्थं लोकदृष्टिमवष्टभ्य स्पष्टयति — न हीति । लब्धव्यान्तराभावेऽपि कामयितव्यान्तरं स्यादित्याशङ्क्याऽऽह – लब्धव्येति । एतद्व्यतिरेकेण साध्यसाधनातिरेकेणेति यावत् । तयोर्द्वयोरपि कामत्वविधायिश्रुतेरभिप्रायमाह — एतदुक्तमिति । कामस्यानर्थत्वात्साध्यसाधनयोश्च तावन्मात्रत्वात्सर्गादौ पुमर्थताविश्वासं त्यक्त्वा स्वप्नलाभतुल्याभ्यस्त्रिसृभ्योऽप्येषणाभ्यो व्युत्थानं संन्यासात्मकं कृत्वा काङ्क्षितमोक्षहेतुं ज्ञानमुद्धिश्य श्रवणाद्यावर्तयेदित्यर्थः । तस्मादपीत्यादि व्याचष्टे — यस्मादिति । प्राकृतस्थितिरेषा न बुद्धिपूर्वकारिणामिदं वृत्तमित्याशङ्क्याऽऽह — प्रजापतेश्चेति । तत्र हेतुत्वेन पूर्वोक्तं स्मारयति — सोऽबिभेदित्यादिना । तत्रैव कार्यलिङ्गकानुमानं सूचयति — तस्मादिति । स यावदित्यादिवाक्यमादाय व्याचष्टे — स एवमिति । पूर्वः सशब्दो वाक्यप्रदर्शनार्थः । द्वितीयस्तु व्याख्यानमध्यपातीत्यविरोधः । अर्थसिद्धमर्थमाह — पारशेष्यादिति । तस्य कृत्स्नतेत्येतदवतार्य व्याकरोति — यदेत्यादिना । अकृत्स्नत्वाभिमानिनो विरद्धं कृत्स्नत्वमित्याह — कथमिति । विरोधमन्तरेण कार्त्स्न्यार्थं विभागं दर्शयति — अयमिति । विभागे प्रस्तुते मनसो यजमानत्वकल्पनायां निमित्तमाह — तत्रेति । उक्तमेव व्यनक्ति — यथेति । तथा मनसो यजमानत्वकल्पनावदित्यर्थः । वाचि जायात्वकल्पनायां निमित्तमाह — मन इति । वाचो मनोऽनुवृत्तित्वं स्वरूपकथनपुरःसरं स्पोरयति — वागितीति । प्राणस्य प्रजात्वकल्पनां साधयति — ताभ्याञ्चेति । कथं पुनश्चक्षुर्मानुषं वित्तमित्युच्यते पशुहिरण्यादि तथेत्याशङ्क्याऽऽह — तत्रेति । आत्मादित्रये सिद्धे सतीति यावत् । आदिपदेन कायचेष्टा गृह्यते । मानुषमिति विशेषणस्यार्थवत्त्वं समर्थयते — तद्विविधमिति । संप्रति चक्षुशो मानुषवित्तत्वं प्रपञ्चयति — गवादीति । तत्पदपरामृष्टमेवार्थं व्याचष्टे — तेन संबन्धादिति । तत्स्थानीयं मानुषवित्तस्थानीयं तेन मानुषेण वित्तेनेत्येतत् । संबन्धमेव साधयति — चक्षुषा हीति । तस्माच्चक्षुर्मानुषं वित्तमिति शेषः । आकाङ्क्षापूर्वकमुत्तरवाक्यमुपादत्ते — किं पुनरिति । तद्व्याचष्टे — देवेति । तत्र हेतुमाह — कस्मादित्यादिना । यजमानादिनिर्वर्त्यं कर्म प्रश्नपूर्वकं विशदयति — किं पुनरित्यादिना । इहेति संपत्तिपक्षोक्तिः । शरीरस्य कर्मत्वप्रसिद्धमिति शङ्कित्वा परिहरति — कथं पुनरिति । अस्येति यजमानोक्तिः । हिशब्दार्थो यत इत्यनूद्यते । तस्य कृत्स्नतेत्युक्तमुपसंहरति — तस्येति । उक्तरीत्या कृत्स्नत्वे सिद्धे फलितमाह — तस्मादिति । अस्येति दर्शनोक्तिः । पशोः पुरुषस्य च पाङ्कत्वं तच्छब्दार्थः । पुरुषस्य पशुत्वाविशेषात्पृथग्ग्रहणमयुक्तमित्याशङ्क्याऽऽह — पशुत्वेऽपीति । न केवलं पशुपुरुषयोरेव पाङ्कत्वं किन्तु सर्वस्येत्याह — किं बहुनेति । तस्मादाध्यात्मिकस्य दर्शनस्य यज्ञत्वं पञ्चत्वयोगादविरुद्धमिति शेषः । संपत्तिफलं व्याकरोति — एवमिति । व्याख्यातार्थवाक्यमनुवदन्ब्राह्मणमुपसंहरति — य एवं वेदेति ।
साध्यं साधनं च पाङ्कं सूत्रात्मना ज्ञात्वा तच्चाऽऽत्मत्वेनानुसन्धानस्य तदाप्तिरेव फलं तत्क्रतुन्यायादित्यर्थः ॥१७॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणान्तरमवतार्य संगतिं वक्तुं वृत्तं कीर्तयति — यत्सप्तान्नानीत्यादिना । तत्रेत्यतिक्रान्तब्राह्मणोक्तिः । उपास्तिशब्दितं भेददर्शनमविद्याकार्यमनेनानूद्य न स वेदेति तद्धेतुरविद्या पूर्वत्र प्रस्तुतेति योजना । अथो अयमित्यत्रोक्तमनुवदति — सवर्णाश्रमाभिमान इति । आत्मैवेदमग्र आसीदित्यादावुक्तं स्मारयति — कामप्रयुक्त इति । वृत्तमनूद्योत्तरग्रन्थमवतारयितुमपेक्षितं पूरयति — यथा चेति । गृहिणो जगतश्च परस्परं स्वकर्मोपार्जितत्वमेष्टव्यमन्यथाऽन्योन्यमुपकारकत्वायोगादित्यर्थः । ननु सूत्रस्यैव जगत्कर्तृत्वं ज्ञानक्रियातिशयवत्त्वान्नेतरेषां तदभावादत आह — एवमिति । पूर्वकल्पीयविहितप्रतिषिद्धज्ञानकर्मानुष्ठाता सर्वो जन्तुरुत्तरसर्गस्य पितृत्वेनात्र विवक्षितो न तु प्रजापतिरेवेत्युक्तमर्थं संक्षिप्याऽऽह — सर्वस्येति । सर्वस्य मिथो हेतुहेतुमत्त्वे प्रमाणमाह — एतदेवेति । सर्वस्यान्योन्यकार्यकारणत्वोक्त्या कल्पितत्ववचनं कुत्रोपयुज्यते तत्राऽऽह — आत्मैकत्वेति । एवं भूमिकां कृत्वोत्तरब्राह्मणतात्पर्यमाह — यदसाविति । उच्यन्ते ध्यानार्थमिति शेषः । अन्यत्वे हेतुः — भोज्यत्वादिति । तेन ज्ञानकर्मभ्यां जनकत्वेनेति यावत् । ब्राह्मणमवतार्य मन्त्रमवतारयति —
एतेषामिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 तत्राऽऽद्यमन्त्रभागमादाय व्याचष्टे — यत्सप्तान्नानीति । अजनयदिति क्रियाया विशेषणं यदिति पदम् । तथा च तद्युक्तं पितृत्वादिति शेषः । ग्रन्थार्थधारणशक्तिर्मेधा । कृच्छ्रचान्द्रायणादि तपः । ते कस्मादत्र न गृह्यते तत्राऽऽह — ज्ञानकर्मणी इति । तयोः प्रकृतत्वं प्रकटयति — पाङ्क्तं हीति । इतरयोरप्रकृतत्वं हेतूकृतमनूद्य फलितमाह — तस्मादिति । ज्ञानकर्मणोः प्रकृतत्वमुक्तं हेतुमादाय वाक्यं पूरयति — अत इति । यत्सप्तान्नानीत्यादिमन्त्रभागं व्याख्याय ब्राह्मणवाक्यसमुदायतात्पर्यमाह — तत्रेति । मन्त्रब्राह्मणात्मको ग्रन्थः सप्तम्यर्थः । मेधया हीत्यादिब्राह्मणमाकाङ्क्षापूर्वकमुत्थापयति — तत्र यदिति । प्रकृतमन्त्रसमुदायः सप्तम्या परामृश्यते । व्याख्यानमेव संगृह्णाति — प्रसिद्धो हीति । न केवलं हिशब्दान्मन्त्रस्य प्रसिद्धार्थत्वं किन्तु मन्त्रस्वरूपालोचनायामपि तत्सिध्यतीत्याह — यदिति । मन्त्रार्थस्य प्रसिद्धत्वे मन्त्रस्यानुगुणत्वं हेतूकृत्य फलितमाह — अत इति । तत्प्रसिद्धिमुपपादयितुं पृच्छति — नन्विति । साध्यसाधनात्मके जगति यत्पितृत्वमविद्यावतो भावि तत्प्रत्यक्षत्वात्प्रसिद्धम् अनुभूयते हि जायादि संपादयन्नविद्वानित्याह — उच्यत इति । श्रुत्या च प्रागुक्तत्वात्प्रसिद्धमेतदित्याह — अभिहितञ्चेति । यच्च मेधातपोभ्यां स्रष्टृत्वं मन्त्रब्राह्मणयोरुक्तं तदपि प्रसिद्धमेव विद्याकर्मपुत्राणामभावे लोकत्रयोत्पत्त्यनुपपत्तेरित्याह — तत्र चेति । पूर्वोत्तरग्रन्थः सप्तम्यर्थः । पुत्रेणैवायं लोको जय्य इत्यादौ वक्ष्यमाणत्वाच्चास्यार्थास्य प्रसिद्धतेत्याह — वक्ष्यमाणञ्चेति । मन्त्रार्थस्य प्रसिद्धत्वे मन्त्रस्य प्रसिद्धार्थविषयं ब्राह्मणमुपपन्नमित्युपसंहरति — तस्मादिति । प्रकारान्तरेण मन्त्रार्थस्य प्रसिद्धत्वमाह — एषणा हीति । फलविषयत्वं तस्याः स्वानुभवसिद्धमिति वक्तुं हिशब्दः । तस्या लोकप्रसिद्धत्वेऽपि कथं मन्त्रार्थस्य प्रसिद्धत्वमत आह — एषणा चेति । जायाद्यात्मकस्य कामस्य संसारारम्भकत्ववन्मोक्षेऽपि कामः संसारमारभेत कामत्वाविशेषादित्यतिप्रसंगमाशङ्क्याऽऽह — ब्रह्मविद्येति । तस्या विषयो मोक्षः । तस्मिन्नद्वितीयत्वाद्रागादिपरिपन्थिनि कामापरपर्यायो रागो नावकल्पते । न हि मिथ्याज्ञाननिदानो रागः सम्यग्ज्ञानाधिगम्ये मोक्षे संभवति । श्रद्धा तु तत्र भवति तत्त्वबोधाधीनतया संसारविरोधिनि तन्न संसारानुषक्तिर्मुक्तावित्यर्थः । शास्त्रीयस्य जायादेः संसारहेतुत्वे कर्मादेरशास्त्रीयस्य कथं तद्धेतुत्वमित्याशङ्क्याऽऽह — एतेनेति । अविद्योत्थस्य कामस्य संसारहेतुत्वोपदर्शनेनेति यावत् । स्वाभाविकाभ्यामविद्याधीनकामप्रयुक्ताभ्यामित्यर्थः । इतश्च तयोर्जगत्सृष्टिप्रयोजकत्वमेष्टव्यमित्याह — स्थावरान्तस्येति । यत्सप्तान्नानीत्यादिमन्त्रस्य मेधया हीत्यादिब्राह्मणस्य चाक्षरोत्थमर्थमुक्त्वा तात्पर्यमाह — विवक्षितस्त्विति । शास्त्रपरवशस्य शास्त्रवशादेव साध्यसाधनभावादशास्त्रीयाद्वैतमुख्यसंभवान्न तस्यात्र विवक्षितमित्यर्थः । शास्त्रीयस्य साध्यसाधनभावस्य विवक्षितत्वे हेतुमाह — ब्रह्मेति । तदेव प्रपञ्चयति — सर्वो हीति । दुःखयतीति दुःखस्तद्धेतुरिति यावत् । प्रकृतमन्त्रब्राह्मणव्याख्यासमाप्तावितिशब्दो विवक्षितार्थप्रदर्शनसमाप्तो वा । मन्त्रब्राह्मणयोः श्रुत्यर्थाभ्यामर्थमुक्त्वा समनन्तरग्रन्थमवतारयति — तत्रेति । सप्तविधेऽन्ने सृष्टे सतीति यावत् । व्याख्यानमेव विवृणोति — अस्येत्यादिना । साधारणमन्नमसाधारणीकुर्वतो दोषं दर्शति — स य इति । तत्परो भवतीत्युक्तं विवृणोति — उपासनं हीति । ब्राह्मणोक्तेऽर्थे मन्त्रं प्रमाणति — तथा चेति । मोघं विफलं देवाद्यनुपभोग्यमन्नं यदि ज्ञानदुर्बलो लभते तदा स वध एव तस्येति साधारणमन्नस्यासाधारणीकरणं निन्दितमित्यर्थः तत्रैव स्मृतीरुदाहरति — स्मृतिरपीति । ‘न वृथा घातयेत्पशुम् । न चैकः स्वयमश्नीयाद्विधिवर्जं न निर्वपेत्’ इति पादत्रयं द्रष्टव्यम् । ‘इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तान्’(भ. गी. ३ । १२) इति शेषः । ‘अन्नेन अभिशंसति । स्तेनः प्रमुक्तो राजनि यावन्नानृतसंकरः’(आ.ध.सू.) इत्युत्तरं पादत्रयम् । तत्राऽऽद्यपादस्यार्थो भ्रूणहा श्रेष्ठब्राह्मणघातकः । यथाऽऽहुः – ‘वरिष्ठब्रह्महा चैव भ्रूणहेत्यभिधीयते’ इति । स्वस्यान्नभक्षके स्वपापं मार्ष्टि शोधयतीत्यन्नदातुः पापक्षयोक्तेरितरस्यासाधारणीकृत्य भुञ्जानस्य पापितेति । “अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः । स भुञ्जानो न जानाति श्वगृर्ध्रैर्जग्धिमात्मनः ॥”(म.स्मृ. ३ । ११५) इत्यादिवाक्यमादिशब्दार्थः । आकाङ्क्षापूर्वकं हेतुमवतार्य व्याकरोति — कस्मादित्यादिना । सर्वभोज्यत्वं साधयति — यो मुख इति । परस्य श्वामार्जारादेरिति यावत् । पीडाकरत्वे हेतुमाह — ममेदमिति । प्रागुक्तदृष्टिफलमाचष्टे — तस्मादिति । साधारणमन्नसाधारणीकुर्वाणस्य पापानिर्वृत्तिरित्यत्र हेत्वन्तरमाह — दुष्कृतं हीति । यदा हि मनुष्याणां दुष्कृतमन्नमाश्रित्य तिष्ठति तदा तदासाधारणीकुर्वतो महत्तरं पापं भवतीत्यर्थः । एकमस्येत्यादिमन्त्रब्राह्मणयोः स्वपक्षार्थमुक्त्वा भर्तृप्रपञ्चपक्षमाह — गृहिणेति । यदन्नं गृहिणा प्रत्यहमग्नौ वैश्वदेवाख्यं निवर्त्यते तत्साधारणमिति भर्तृप्रपञ्चैरुक्तमित्यर्थः । साधारणपदानुपपत्तेर्न युक्तमिदं व्याख्यानमिति दूषयति — तन्नेति । वैश्वदेवस्य साधारणत्वमप्रामाणिकमित्युक्तमिदानीं तस्याप्रत्यक्षत्वादिदमा परामर्शश्च न युक्तिमानित्याह — नापीति । इतश्च साधारणशब्देन सर्वप्राण्यन्नं ग्राह्यमित्याह — सर्वेति । वैश्वदेवग्रहेऽपीतरग्रहः स्यादिति चेन्नेत्याह — वैश्वदेवेति । यत्तु परपक्षे यदिदमद्यत इति वचो नानुकूलमिति तन्नास्मत्पक्षेऽस्तीत्याह — तत्रेति । प्रत्यक्षं साधारणान्नं सप्तम्यर्थः । विपक्षे दोषमाह — यदि हीति । प्रसंगस्येष्टत्वं निराचष्टे — इष्यते हीति । परपक्षे वाक्यशेषविरोधं दोषान्तरमाह — न चेति । श्येनादितुल्यत्वं तस्य व्यावर्तयति — न च तस्येति । अनिषिद्धस्यापि तस्य स्वभावजुगुप्सितत्वात्तदनुष्ठानुयायिनः पापानिवृत्तिरित्याशङ्क्याऽऽह — न चेति । ‘अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ।’ इत्यकरणे वैश्वदेवस्य प्रत्यवायश्रवणाच्च तदनुष्ठानुयिनो न पाप्मलेशोऽस्तीत्याह — अकरणे चेति । सर्वसाधाणान्नग्रहे तु तत्परस्य निन्दावचनमुपपद्यते तेन तदेव ग्राह्यमित्याह — इतरत्रेति । तत्रैव श्रुत्यन्तरं संवादयति — अहमिति । अर्थिभ्योऽविभज्यान्नमदत्त्वा स्वयमेव भुञ्जानं नरमहमन्नमेव भक्षयामि तमनर्थभाजं करोमीत्यर्थः । मन्त्रान्तरमादायाऽऽकाङ्क्षाद्वारा ब्राह्मणमुत्थाप्य व्याचष्टे — द्वे देवानित्यादिना । हुतप्रहुतयोर्देवान्नत्वे संप्रतितनमनुष्ठानमनुकूलयति — यस्मादिति । पक्षान्तरमुपन्यस्य व्याकरोति — अथो इति । यदि दर्शपूर्णमासौ देवान्ने कथं तर्हि हुतप्रहुते इति पक्षस्य प्राप्तिस्तत्राऽऽह — द्वित्वेति । तर्हि द्वे देवानिति श्रुतद्वित्वस्य हुतप्रहुतयोरपि संभवान्न प्रथमपक्षस्य पूर्वपक्षत्वमत आह — यद्यपीति । प्रसिद्धतरत्वे हेतुमाह — मन्त्रेति । ‘अग्नये जुष्टं निर्वपामि’ ‘अग्निरिदं हविरजुषत’ इत्यादिमन्त्रेषु दर्शपूर्णमासयोर्देवान्नत्वस्य प्रतिपन्नत्वादिति यावत् । इतश्च दर्शपूर्णमासयोरेव देवान्नत्वमिति वक्तुं सामान्यन्यायमाह — गुणेति । गुणप्रधानयोरेकत्र साधारणशब्दात्प्राप्तौ सत्यां प्रथमतरा प्रधाने भवत्यवगतिर्गौणमुख्ययोर्मुख्ये कार्यसंप्रत्यय इति न्यायादित्यर्थः । अस्त्वेवं प्रस्तुते किं जातं तदाह — दर्शपूर्णमासयोश्चेति । तयोर्निरपेक्षश्रुतिदृष्टतया सापेक्षस्मृतिसिद्धहुताद्यपेक्षया प्राधान्यं सिद्धं तथा च प्रदानयोस्तयोरितरयोश्च गुणयोरेकत्र प्राप्तौ प्रधानयोरेव द्वे देवानिति मन्त्रेण ग्रहो युक्तिमानित्यर्थः । दर्शपूर्णमासयोर्देवान्नत्वे समनन्तरनिषेधवाक्यमनुकूलयति — यस्मादिति । इष्टियजनशीलो न स्यादिति संबन्धः । ननु तद्यजनशीलत्वाभावे कुतो दर्शपूर्णमासयोर्देवार्थत्वं न हि तावन्निष्पन्नौ तदर्थावित्याशङ्क्याऽऽह — इष्टिशब्देनेति । किं पुनरस्मिन्वाक्ये काम्येष्टिविषयत्वमिष्टिशब्दस्येत्यत्र नियामकं तत्र किलशब्दसूचितां पाठकप्रसिद्धिमाह — शातपथीति । काम्येष्टीनामनुष्ठाननिषेधे स्वर्गकामवाक्यविरोधः स्यादित्याशङ्क्याऽऽह — ताच्छील्येति । तत्र विहितस्योकञ्प्रत्ययस्यात्र प्रयोगात्काम्येष्टियजनप्रधानत्वमिह निषिध्यते तच्च देवप्रधानयोर्दर्शपूर्णमासयोरवश्यानुष्ठेयत्वसिद्ध्यर्थं न तु ताः स्वतो निषिध्यन्ते तन्न स्वर्गकामवाक्यविरोधोऽस्तीत्यर्थः । पश्वन्नविषयं मन्त्रपदमादाय प्रश्नपूर्वकं तदर्थं कथयति — पशुभ्य इति । पशूनां पयोऽन्नमित्येतदुपपादयितुं पृच्छति — कथं पुनरिति । पयो हीति प्रतीकमुपादाय व्याकरोति — अग्र इति । ‘पशवो द्विपादश्चतुष्पादश्च’ इति श्रुतिमाश्रित्य मनुष्याश्चेत्युक्तम् । उचितं हीत्यत्र हिशब्दस्तस्मादर्थे यस्मादित्युपक्रमात् । औचित्यं व्यतिरेकद्वारा साधयति — अन्यथेति । नियमेन प्रथमं पशूनां तदुपजीवनमसंप्रतिपन्नमिति शङ्कते — कथमिति । मनुष्यविषये वा प्रश्नस्तदितरपशुविषये वेति पृच्छति — उच्यत इति । तत्राऽऽद्यमनुभावावष्टम्भेन प्रत्याचष्टे — मनुष्याश्चेति । चकारो मनुष्यमात्रसंग्रहार्थः । तेनैव पयसैवेति यावत् । घृतं वेति वाशब्दो वक्ष्यमाणविकल्पद्योतकः । जातरूपं हेम त्रैवर्णिकेभ्योऽन्येषां जातकर्माभावाद्योग्यतामनतिक्रम्य स्तनमेव जातं कुमारं प्रथमं पाययन्तीत्याह — यथासंभवमिति । यद्वा तेषां जातकर्मानधिकृतानां जातं कुमारं घृतं वा स्तनं वा प्रथमं पाययन्तीति यावत् । पशुविषयं प्रश्नं पशवश्चेतिसूचितसमाधानं प्रत्याह — स्तनमेवेति । पशूनां जातं वत्समिति संबन्धः । पशूनां पयोऽन्नमित्यत्र लोकप्रसिद्धिं प्रमाणयति — अथेति । द्विपात्पश्वधिकारविच्छेदार्थोऽथशब्दः । प्रतिवचनं व्याचष्टे — नाद्यापीति । ननु येषामग्रे घृतोपजीवित्वमुपलभ्यते पयस्ते नोपजीवन्ति घृतपयसोर्भेदादतः पश्वन्नत्वं पयसो भागासिद्धमत आह — यच्चेति । ननु घृतमुपजीवन्तोऽपि पय एवोपजीवन्तीत्ययुक्तं तद्भेदस्योक्तत्वात्तत्राऽऽह — घृतस्यापीति । मन्त्रपाठक्रममतिक्रम्य पश्वन्ने व्याख्याते प्रत्यवतिष्ठते — कस्मादिति । द्वे देवानभाजयदिति व्याख्याते साधने साधनत्वाविशेषात्पयोऽपि बुद्धिस्थमित्यर्थक्रममाश्रित्य परिहरति — कर्मेति । तदेव स्पष्टयति — कर्म हीति । यद्यपि पयोरूपं साधनमाश्रित्य कर्म प्रवृत्तं तथाऽपि दर्शपूर्णमासानन्तर्यं कथं पयसः सिध्यति तत्राऽऽह — तच्चेति । वित्तेन पयसा साध्यं कर्मान्नत्रयस्य साधनमित्यत्र दृष्टान्तमाह — यथेति । पूर्वोक्तौ दर्शपूर्णमासौ द्वे देवान्ने वक्ष्यमाणस्यान्नत्रयस्य यथा साधनं तथा पयसोऽप्यग्निहोत्रादिद्वारा तत्साधनत्वात्कर्मकोटिनिविष्टत्वात्तद्व्याख्यानानन्तर्यं पयोव्याख्यानस्य युक्तमित्यर्थः । पाठक्रमस्तर्हि कथमित्याशङ्क्यार्थक्रमेण तद्बाधमभिप्रेत्याह — साधनत्वेति । आनन्तर्यं पाठक्रमः । अकारणत्वमविवक्षितत्वम् । पाठक्रमादर्थक्रमस्य बलीयस्त्वात्तेनेतरस्य बाध्यत्वमित्येत्प्रथमे तन्त्रे स्थितमित्यभिप्रेत्याऽऽह — इति चेति । पश्वन्नस्य चतुर्थत्वेन व्याख्याने हेत्वन्तरमाह — व्याख्यान इति । व्याख्यानसौकर्यं साधयति — सुखं हीति । प्रतिपत्तिसौकर्यं प्रकटयति — व्याख्यातानीति । चत्वारि साधनानि त्रीणि साधनानीति विभज्योक्तौ वक्तृश्रोत्रोः सौकर्येण धीर्भवति ततश्च पाठक्रमातिक्रमः श्रेयानित्यर्थः । पश्वन्नस्य सर्वाधिष्ठानविषये मन्त्रमवतार्य प्रश्नपूर्वकं तदीयं ब्राह्मणं व्याचष्टे — तस्मिन्नित्यादिना । मन्त्राद्भेदो ब्राह्मणे न प्रतिभातीत्याशङ्क्याऽऽह — तत्रेति । पयसि हीति । ब्राह्मणे हिशब्दस्य प्रसिद्धावद्योतकत्वमस्ति । तेन च हेतुना हिशब्देन तस्मिन्नित्यादिकं मन्त्रपदं व्याख्यातमिति योजना । मन्त्रार्थस्य लोकप्रसिद्ध्यभावान्न प्रसिद्धावद्योतिना हिशब्देन व्याख्यानं युक्तमिति शङ्कते — कथमिति । कार्यं कारणे प्रतिष्ठितमिति न्यायेन वैदिकीं प्रसिद्धिमादाय समाधत्ते — कारणत्वनेति । पयसो द्रवद्रव्यमात्रस्य कुतः सर्वजगत्कारणत्वमित्याशङ्क्याऽऽह — कारणत्वञ्चेति । तत्समवायित्वेऽपि कुतो जगतः कारणतेत्याशङ्क्याऽऽह — अग्निहोत्रादीति । ‘ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतः’ इत्यादयः श्रुतिवादा द्युपर्जन्यव्रीह्यादिक्रमेणाग्निहोत्राहुत्योर्गर्भाकारप्राप्तिं दर्शयन्ति । “अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥” इत्यादयः स्मृतिवादाः । पयसि हीत्यादि ब्राह्मणमुपसंहरति — अत इति । पयसः सर्वजगदाधारत्वस्य श्रुतिस्मृतिप्रसिद्धत्वादिति यावत् । सर्वं पयसि प्रतिष्ठितमिति विधित्सितदर्शनस्तुतये शाखान्तरीयमतं निन्दितुमुद्भावयति — यत्तदिति । न केवलेन कर्मणा मृत्युजयः किन्तु दर्शनसहितेनेति दर्शयितुमग्निहोत्राहुतिषु संख्यां कथयति — संवत्सरेणेति । उक्ताहुतिसंख्यायां संवत्सरावच्छिन्नायामग्निहोत्रविदां संप्रतिपत्त्यर्थं किलेत्युक्तम् । ननु प्रत्यहं सायं प्रातश्चेत्याहुती द्वे विद्येते तत्कथमाहुतीनां षष्ट्यधिकानि त्रीणि शतानि संवत्सरेण भवन्ति तत्राऽऽह — सप्त चेति । प्रत्येकमहोरात्रावच्छिन्नाहुतिप्रयोगाणामेकस्मिन्संवत्सरे पूर्वोक्ता संख्या तत्रैव प्रयोगार्धानां विंशत्यधिका सप्तशतरूपा संख्येति सिद्धमित्यर्थः । आहुतीनां संख्यामुक्त्वा तासु याजुष्मतीनामिष्टकानां दृष्टिमाह — याजुष्मतीरिति । तासामपि षष्ट्यधिकानि त्रीणि शतानि संख्यया भवन्ति । तथा च प्रत्यहमाहुतीरभिनिष्पद्यमानाः संख्यासामान्येन याजुष्मतीरिष्टकाश्चिन्तयेदित्यर्थः । आहुतिमयीनामिष्टकानां संवत्सरावयवाहोरात्रेषु संख्यासामान्येनैव दृष्टिमन्वाचष्टे — संवत्सरस्येति । तान्यपि षष्ट्यधिकानि त्रीणि शतानि प्रसिद्धानि । तथा च तेषु यथोक्तेष्विष्टकादृष्टिः श्लिष्टेत्यर्थः । चित्येऽग्नौ संवत्सरात्मप्रजापतिदृष्टिमाह — संवत्सरमिति । यः संवत्सरः प्रजापतिस्तं चित्यमग्निं विद्वांसः संपादयन्ति । अहोरात्रेष्टकाद्वारा तयोः संख्यासामान्यादित्यर्थः । दृष्टिमनूद्य फलं दर्शयति — एवमिति । उक्तसंख्यासामान्येनाग्निहोत्राहुतीरग्न्यवयवभूतयाजुष्मतीसंज्ञकेष्टकाः संपाद्य तद्रूपेणाऽऽहुतीर्ध्यायन्नाहुतीमयीश्चेष्टकाः संवत्सरावयवाहोरात्राणि तेनैव संपाद्य पुरुषनाडीस्थसंख्यासामान्येन तन्नाडीस्तान्येवाहोरात्राण्यापाद्य तद्रूपेणाऽऽहुतीरिष्टका नाडीश्चानुसन्दधानो नाड्यहोरात्रयाजुष्मतीद्वारा पुरुषसंवत्सरचित्यानां समत्वमापाद्याहमग्निः संवत्सरात्मा प्रजापतिरेवेति ध्यायन्नग्निहोत्रं पयसा संवत्सरं जुह्वद्विद्यया सहितहोमवशात्प्रजापतिं संवत्सरात्मकं प्राप्य मृत्युमपजयतीत्यर्थः । एकीयमतमुपसंहृत्य तन्निन्दापूर्वकं मतान्तरमाह — इत्येवमित्यादिना । एवं विद्वानित्युक्तं व्यक्तीकरोति — यदुक्तमिति । तत्तथैव विद्वानेकाहोरात्रावच्छिन्नाहुतिमात्रेण जगद्रूपं प्रजापतिं प्राप्य मृत्युमुपजयतीत्याह — तदेकेनेति । उक्तेऽर्थे श्रुतिमवतार्य व्याचष्टे — तदुच्यत इति । सर्वं हीत्यादिहेतुवाक्यमाकाङ्क्षापूर्वकमुत्थाप्य व्याकरोति — कः पुनरित्यादिना । यथोक्तदर्शनवशादेकयैवाऽऽहुत्या मृत्युमपजयतीत्यत्र ब्राह्मणान्तरं संवादयति — अथेति । यथा संवत्सरमित्याद्युक्तं तथा ‘यदहरेवे’त्याद्यपि ब्राह्मणान्तरे सूचितमित्यर्थः । ब्रह्म हिरण्यगर्भभावी जीवः स्वयम्भु परस्यैव तदात्मनाऽवस्थानात्तपोऽतप्यत कर्मान्वतिष्ठत् । यत्कृतकं तदनित्यमिति न्यायेन कर्मनिन्दाप्रकारमाह — तदैक्षतेति । कर्मसहायभूतामुपासनामुपदिशति — हन्तेति । उपासनामनूद्य समुच्चयफलं कथयति — तत्सर्वेष्विति । श्रेष्ठत्वेऽपि राजकुमारवदस्वातन्त्र्यमाशङ्क्याऽऽह — स्वाराज्यमिति । अधिष्ठाय पालयितृत्वमाधिपत्यम् । पश्वन्ने व्याख्याते प्रश्नरूपं मन्त्रपदमादत्ते — कस्मादिति । ननु चत्वार्यन्नानि व्याख्यातानि त्रीणि व्याचिख्यासितानि तेष्वव्याख्यातेषु कस्मादित्यादिप्रश्नः कस्मादित्याशङ्क्य साधनेषूक्तेषु साध्यानामपि तेषामर्थादुक्तत्वमस्तीत्यभिप्रेत्य प्रश्नप्रवृत्तिं मन्वानो व्याचष्टे — यदेति । सर्वदेत्यस्य व्याख्या नैरन्तर्येणेति । अन्नानां सदा भोक्तृभिरविद्यमानत्वे हेतुमाह — तन्निमित्तत्वादिति । भोक्तॄणां स्थितेरन्ननिमित्तत्वात्तैः सदाऽद्यमानानि तानि यवपूर्णकुसूलवद्भवन्ति क्षीणानीत्यर्थः । किञ्च ज्ञानकर्मफलत्वादन्नानां यत्कृतकं तदनित्यमिति न्यायेन क्षयः संभवतीत्याह — कृतेति । अस्तु तर्हि तेषां क्षयो नेत्याह — न चेति । भवतु तर्हि स्वभावादेव सप्तान्नात्मकस्य जगतोऽक्षीणत्वं नेत्याह — भवितव्यञ्चेति । स्वभाववादस्यातिप्रसंगित्वादित्यर्थः । प्रश्नं निगमयति — तस्मादिति । प्रतिवचनमादाय व्याचष्टे — तस्येत्यादिना । तेषां पितृत्वे हेतुमाह — मेधयेति । भोगकालेऽपि विहितप्रतिषिद्धज्ञानकर्मसंभवात्प्रवाहरूपेणान्नक्षयः संभवतीत्यर्थः । तत्र प्रतिज्ञाभागमुपादायाक्षराणि व्याचष्टे — तदेतदिति । हेतुभागमुत्थाप्य विभजते — कथमित्यादिना । तस्मात्तदक्षयः संभवति प्रवाहात्मनेति शेषः । उक्तहेतुं व्यतिरेकद्वारोपपादयितुं यद्धैतदित्यादिवाक्यं तद्व्याचष्टे — यदिति । अन्वयव्यतिरेकसिद्धं हेतुं निगमयति — तस्मादिति । तथा यथाप्रज्ञमिति पठितव्यम् । साध्यं निगमयति — तस्मादिति । अक्षयहेतौ सिद्धे फलितमाह — तस्माद्भुज्यमानानीति । धिया धियेत्यादिश्रुतेः स हीदमित्यत्रोक्तं परिहारं प्रपञ्चयन्त्याः सप्तविधान्नस्य कार्यत्वात्प्रतिक्षणध्वंसित्वेऽपि पुनः पुनः क्रियमाणत्वात्प्रवाहात्मना तदचलं मन्दाः पश्यन्तीत्यस्मिन्नर्थे तात्पर्यमाह — अत इति । प्रज्ञाक्रियाभ्यां हेतुभ्यां लक्ष्यते व्यावर्त्यते निष्पाद्यते यः प्रबन्धः समुदायस्तदारूढस्तदात्मकः सर्वो लोकश्चेतनाचेतनात्मको द्वैतप्रपञ्चः साध्यत्वेन साधनत्वेन च वर्तमानो ज्ञानकर्मफलभूतः क्षणिकोऽपि नित्य इव लक्ष्यते । तत्र हेतुः — संहतेति । संहतानां मिथः सहायत्वेन स्थितानामनेकेषां प्राणिनामनन्तानि कर्माणि वासनाश्च तत्सन्तानेनावष्टब्धत्वाद्दृढीकृतत्वादिति यावत् । प्रातीतिकमेव संसारस्य स्थैर्यं न तात्त्विकमिति वक्तुं विशिनष्टि — नदीति । असारोऽपि सारवद्भातीत्यत्र दृष्टान्तमाह — कदलीति । अशुद्धोऽपि शुद्धवद्भातीत्यत्रोदाहरणमाह — मायेत्यादिना । अनेकोदाहरणं संसारस्यानेकरूपत्वद्योतनार्थम् । केषां पुनरेष संसारोऽन्यथा भातीत्यपेक्षायां “संसाराय पराग्दृशामि”ति न्यायेनाऽऽह — तदात्मेति । किमिति प्रतिक्षणप्रध्वंसि जगदिति श्रुत्योच्यते तत्राऽऽह — तदेतदिति । वैराग्यमपि कुत्रोपयुज्यते तत्राऽऽह — विरक्तानां हीति । इति वैराग्यमर्थवदिति शेषः । पुरुषोऽन्नानामक्षयहेतुरित्युपपाद्य तज्ज्ञानमनूद्य तत्फलमाह — यो वैतामित्यादिना । यथोक्तमनुवदति — पुरुष इति । फलविषयं मन्त्रपदमुपादाय तदीयं ब्राह्मणमवतार्य व्याकरोति — सोऽन्नमित्यादिना । यथोक्तोपासनावतो यथोक्तं फलम् । प्राधान्येनैव सोऽन्नमत्तीति संबन्धः । विदुषोऽन्नं प्रति गुणत्वाभावे हेतुमाह — अन्नानामिति । उक्तमर्थं संगृह्णाति — भोक्तैवेति । प्रशस्तिसिद्धये प्रपञ्चयति —
स देवानित्यादिना ॥२॥ 【भाष्यम्】 【भाष्यम्】 साधनात्मकमन्नचतुष्टयमन्नाक्षयकारणाम्, अक्षित्वगुणप्रक्षेपेण पुरुषोऽपासनमस्य फलं चोक्तमिदानीमाब्राह्मणसमाप्तेरुत्तरग्रन्थस्य तात्पर्यमाह — पाङ्क्तस्येत्यादिना । ब्राह्मणशेषस्य तात्पर्यमुक्त्वा मन्त्रभेदमनूद्याऽऽकाङ्क्षाद्वारा ब्राह्मणमुत्थाप्य व्याचष्टे — त्रीणीत्यादिना । ज्ञानकर्मभ्यां सप्तान्नानि सृष्ट्वा चत्वारि भोक्तृभ्यो विभज्य त्रीण्यात्मार्थं कल्पादौ पिता कल्पितवानित्यर्थः । अन्यत्रेत्यादि वाक्यमुपादत्ते — तेषामिति । षष्ठी निर्धारणार्था । तत्र मनसोऽस्तित्वमादौ साधयति — अस्ति तावदिति । आत्मेन्द्रियार्थसान्निध्ये सत्यपि कदाचिदेवार्थधीर्जायमाना हेत्वन्तरमाक्षिपति । न चादृष्टादि सदिति युक्तं तस्य दृष्टसंपादत्वात्तस्मादर्थादिसान्निध्ये ज्ञानकादाचित्कत्वानुपपत्तिर्मनःसाधिकेत्यर्थः । लोकप्रसिद्धिरपि तत्र प्रमाणमित्याह — यत इति । अतोऽस्ति बाह्यकारणादतिरिक्तं विषयग्राहि कारणमिति शेषः । तामेव प्रसिद्धिमुदाहरणनिष्ठतयोदाहरति — किं दृष्टवानित्यादिना । तत्रैवान्वयव्यतिरेकावुपन्यस्यति — तस्मादिति । यथोक्तार्थापत्तिलोकप्रसिद्धिवशादिति यावत् । विमतमात्माद्यतिरिक्तापेक्षं तस्मिन्सत्यपि कादाचित्वाद्घटवदित्यनुमानं (च) तच्छब्दार्थः । तस्मादनुमानादन्यदस्ति मनो नामेति संबन्धः रूपादिग्रहणसमर्थस्यापि सत इति प्रमातोच्यते । अन्तःकरणस्य चक्षुरादिभ्यो वैलक्षण्यमाह — सर्वेति । समनन्तरवाक्यं फलितार्थविषयत्वेनाऽऽदत्ते — तस्मादिति । तच्छब्देनोक्तं हेतुं स्पष्टयति — तद्व्यग्रत्व इति । कामादिवाक्यमवतार्य व्याकुर्वन्मनसः स्वरूपं प्रति संशयं निरस्यति — अस्तित्व इति । अश्रद्धादिवदकामादिरपि विवक्षितोऽत्रेति मत्वा मनोबुद्ध्योरेकत्वमुपेत्योपसंहरति — इत्येतदिति । द्वैतप्रवृत्त्युन्मुखं मनो भोक्तृकर्मवशान्नार्थाकारेण विवर्तत इत्यभिप्रेत्यानन्तरवाक्यमवतारयति — मनोस्तित्वमिति । तदेवान्यत्कारणं स्फोरयति — यस्मादिति । तस्मादस्ति विवेककारणमन्तःकरणमिति संबन्धः । चक्षुरसंप्रयोगात्तेन स्पर्शविशेषादर्शनेऽपि संप्रयुक्तया त्वचा विनाऽपि मनो विशेषदर्शनं स्यादित्याशङ्क्याऽऽह — यदीति । त्वङ्मात्रस्य स्पर्शमात्रग्राहित्वेन विवेकत्वायोगादित्यर्थः । विवेचके कारणान्तरे सत्यपि कुतो मनःसिद्धिस्तत्राऽऽह — यत्तदिति । वृत्तं कीर्तयति — अस्ति तावदिति । उत्तरग्रन्थमवतारयितुं भूमिकां करोति — त्रीणीति । एवं भूमिकामारचय्याऽऽध्यात्मिकवाग्व्याख्यानार्थं यः कश्चेत्यादि वाक्यमादाय व्याकरोति — अथेत्यादिना । शब्दपर्यायो ध्वनिर्द्विविधो वर्णात्मकोऽवर्णात्मकश्च । तत्राऽऽद्यो व्यवहर्तृभिस्ताल्वादिस्थानव्यङ्ग्यो द्वितीयो मेघादिकृतः । स सर्वोऽपि वागेवेत्यर्थः । प्रकाशमात्रं वागित्युक्त्वा तत्र प्रमाणमाह — इदं तावदिति । तस्मादभिदेयनिर्णायकत्वान्नासावपलापार्हेति शेषः । वाचोऽपि प्रकाश्यत्वात्कथं प्रकाशकमन्त्रवागित्युक्तमित्याशङ्क्याऽऽह — एषेति । दृष्टान्तं समर्थयते — न हीति । प्रकारान्तरेण सजातीयेनेति शेषः । प्रकाशिकाऽपि वाक्प्रकाश्या चेत्तत्रापि प्रकाशकान्तरमेष्टव्यमित्यनवस्था स्यात्तन्निरासार्थमेषा हि नेति श्रुतिः प्रकाशकमात्रं वागित्याह । स्वपरनिर्वाहकस्तुशब्दः । तस्मात्प्रकाशकत्वं कार्यं यत्र दृश्यते तत्र वाचः स्वरूपमनुगतमेवेत्याह — तद्वदित्यादिना । आध्यात्मिकप्राणविषयं वाक्यमवतार्य व्याकरोति — अथेति । मुखादौ संचार्या संचरणार्हा हृदयसंबन्धिनी या वायुवृत्तिः, तत्र प्राणशब्दप्रवृत्तौ निमित्तमाह — प्रणयनादिति । पुरतो निःसरणादिति यावत् । हृदयादधो देशे वृत्तिरस्येत्यधोवृत्तिरानाभिस्थानो हृदयादारभ्य नाभिपर्यन्तं वर्तमान इति यावत् । व्यायमनं प्राणापानयोर्नियमनं कर्मास्येति तथोक्तः । वीर्यवत्कर्मारण्यामग्न्युत्पादनादि । उत्कर्षो देहे पुष्टिः । आदिपदेनोत्क्रान्तिरुक्ता । प्राणशब्देनानशब्दस्य पुनरुक्तिमाशङ्क्याऽऽह — अन इत्येषामिति । तथाऽपि तृतीयस्य प्राणशब्दस्य ताभ्यां पुनरुक्तिरित्याशङ्क्याऽऽह — प्राण इतीति । साधारणासाधारणवृत्तिमान्प्राण इत्यपौनरुक्त्यमित्यर्थः । मनसो दर्शनादिवद्वाचोऽभिधेयप्रकाशनवच्च प्राणस्यापि कार्यं वक्तव्यमित्याशङ्क्याऽऽह — कर्म चेति । एतन्मय इत्यत्र मयटो विकारार्थत्वं वृत्तसंकीर्तनपूर्वकं कथयति — व्याख्यातानीति । आध्यात्मिकानां वागादीनामनारम्भकत्वं वारयति — प्राजापत्यैरिति । आरब्धस्वरूपं प्रश्नपूर्वकमनन्तरवाक्येन निर्धारयति — कोऽसाविति । कार्यकरणसंघाते कथमात्मशब्दप्रवृत्तिरित्याशङ्क्याऽऽह — आत्मस्वरूपत्वेनेति । वाङ्मय इत्यादिवाक्यस्य पूर्वेण पौनरुक्त्यमाशङ्क्याऽऽह —
अविशेषेणेति ॥३॥ 【भाष्यम्】 【भाष्यम्】 वागादीनामाध्यात्मिकविभूतिप्रदर्शनानन्तरमाधिभौतिकविभूतिप्रदर्शनार्थमुत्तरग्रन्थमवतारयति — तेषामेवेति ।
तत्रेत्युक्तं सामान्यं परामृशति ॥४॥ 【भाष्यम्】 【भाष्यम्】 त्रिलोकीवाक्यवदुत्तरं वाक्यं विज्ञातादिवाक्यात्प्राक्तनं नेतव्यमित्याह — तथेति ॥५–६–७॥ विज्ञातादिवाक्यमादाय तद्गतं विशेषं दर्शयति — विज्ञातमिति । विज्ञातं सर्वं वाचो रूपमिति प्रतिज्ञातोऽर्थः सप्तम्यर्थः । प्रकाशकत्वेऽपि कथं वाचो विज्ञातत्वमित्याशङ्क्याऽऽह — कथमिति । प्रकाशात्मकत्वमेव कुतो वाचः सिद्धमित्याशङ्क्याऽऽह — वाचेति ।
वाग्विशेषस्तद्विभूतिः ॥८॥ सन्दिह्यमानाकारत्वात्संकल्पविकल्पात्मकत्वादिति यावत् । तस्मात्सर्वं विजिज्ञास्यं मनोरूपमिति संबन्धः । पूर्ववद्वाग्विभूतिविदो यथा फलमुक्तं तद्वदिति यावत् ॥९॥ 【भाष्यम्】 【भाष्यम्】 अनिरुक्तश्रुतेरविज्ञातरूपो यस्मात्प्राणस्तस्मादविज्ञातं सर्वं प्राणस्य रूपमिति योजना । विज्ञातादिरूपातिरेकेण लोकवेदाद्यभावाद्विज्ञातादिरूपाभिधानेनैव वागादीनां लोकाद्यात्मत्वे सिद्धे किमर्थं त्रयो लोका इत्यादिवाक्यमित्याशङ्क्य तथैव ध्यानार्थमित्याह — विज्ञातेति । भूरादिष्वेकैकत्र विज्ञातादिदृष्टेर्वागादेश्च व्यवस्थितत्वात्कुतो विज्ञातादेर्वागाद्यात्मकत्वं नियन्तुं शक्यमित्याशङ्क्याऽऽह — सर्वत्रेति । प्राणविभूतिविदः संपति फलं कथयति — प्राण इति । लोके विज्ञातस्यैव भोज्यत्वोपलम्भादविज्ञातादिरूपेण प्राणादेर्न भोज्यत्वोपपत्तिरित्याशङ्क्याऽऽह — शिष्येति ।
शिष्यैरविवेकिभिः सन्दिह्यमानोपकारा अपि गुरवस्तेषां भोज्यतामपद्यामाना दृश्यन्ते पुत्रादिभिश्चातिबालैरविज्ञातोपकाराः पित्रादयस्तेषां भोज्यत्वमापद्यन्ते तथा प्रकृतेऽपि संभवतीत्यर्थः ॥१०॥ 【भाष्यम्】 【भाष्यम्】 समनन्तरसन्दर्भस्य तात्पर्यमुक्त्वा वाक्याक्षराणि योजयति — तस्या इति । कथमाधाराधेयभावो वाचो निर्दिश्यते तत्राऽऽह — द्विरूपा हीति । उक्तमर्थं संक्षिप्य निगमयति — तदुभयमिति । अध्यात्ममधिभूतं च या वाक्परिच्छिन्ना तस्यास्तुल्यपरिणामित्वमाधिदैविकवागंशत्वादंशांशिनोश्च तादात्म्यात्तया सह दर्शयति — तत्तत्रेति । तावानयमग्निरिति प्रतीकमादाय व्याकरोति — आधेय इति ।
समानमुत्तरमित्यस्यायमर्थः अध्यात्ममधिभूतं च मनःप्राणयोराधिदैविकमनःप्राणांशत्वात्तादात्म्याभिप्रायेण तुल्यपरिमाणत्वमुच्यते तथा च वाचा समानं प्राणादावुत्तरवाक्ये कथ्यमानं समानपरिमाणत्वमिति ॥११॥ 【भाष्यम्】 【भाष्यम्】 वृत्तमनूद्य तस्यै वाचः पृथिवीत्याद्यवतारयति — व्याख्यात इति । आधिदैविकार्थस्तद्विभूतिप्रदर्शनार्थ इति यावत् । आधिदैविकवाग्विभूतिव्याख्यानानन्तर्यमथशब्दार्थः । मनसो द्वैरूप्यमुक्त्वा व्याप्तिमभिधत्ते — तत्तत्रेति । मन एवास्याऽऽत्मा वाग्जाया प्राणः प्रजेत्यध्यात्मं मन एव पिता वाङ्माता प्राणः प्रजेत्यधिभूतं च वाङ्मनसयोः प्राणस्य प्रजात्वमुक्तं तथाऽधिदैवेऽपि तस्य तत्प्रजात्वं वाच्यमित्यभिप्रेत्याऽऽह — ताविति । कथमादित्यस्य मनसः प्राणं प्रति पितृत्वं वाचो वाऽग्नेर्मातृत्वं तत्राऽऽह — मनसेति । सावित्रं पाकमाग्नेयं च प्रकाशमृते कार्यसिद्ध्यदर्शनात्तयोः सिद्धं जनकत्वमित्यर्थः । कर्मशब्देन कार्यमुच्यते तत्करिष्यामीति प्रत्येकमभिसन्धिपूर्वकमादित्याग्न्योर्द्यावापृथिव्योरन्तराले संगतिरासीदित्याह — कर्मेति । संगतिकार्यमभिप्रायानुसारि दर्शयति — तत इति । वायोरिन्द्रत्वासपत्नत्वगुणविशिष्टस्योपासनमभिप्रेत्याऽऽह — यो जात इति । द्वितीयस्य सपत्नत्वे वागादेरपि तथात्वं स्यादित्याशङ्क्याऽऽह — प्रतिपक्षत्वेनेति । यथोक्तसपत्नव्याख्यानफलमाह — तेनेति । असपत्नगुणकप्राणोपासने फलवाक्यं प्रमाणयति — तत्रेति ।
प्राणस्यासपत्नत्वे सिद्धे सतीति यावत् । प्रासंगिकत्वं प्रजोत्पत्तिप्रङ्गादागतत्वम् ॥१२॥ 【भाष्यम्】 【भाष्यम्】 आधिदैविकयोर्वाङ्मनसयोर्विभूतिनिर्देशानन्तर्यमथेत्युक्तम् । नन्वेतस्येत्येतच्छब्देन प्रजात्वेनोक्तस्य प्राणस्य किमिति न ग्रहणं तत्राऽऽह — न प्रजेति । अन्नत्रयस्य समप्रधानत्वेन प्रकृतत्वादेतच्छब्देन प्रधानपरामर्शोपपत्तौ नाप्रधानं परामृश्यत इत्यर्थः । पूर्ववद्वाचो मनसश्च पृथिवी द्यौश्च शरीरं यथा तथेत्यर्थः । द्वैरूप्ये प्राणस्योक्ते व्याप्तिमविशिष्टां व्याचष्टे — तत्रेति । तावानित्यादि प्रतीकमादाय व्याचष्टे — चन्द्र इति । वाङ्मनःप्राणानामाधिदैविकरूपेणोपासनं विधातुं वृत्तं कीर्तयति — तानीति । एतेभ्योऽतिरिक्तमधिष्ठानमस्तीत्याशङ्क्य विशिनष्टि — कार्यात्मकमिति । प्रजापतिरेतेभ्योऽतिरिक्तोऽस्तीत्याशङ्क्याऽऽह — समस्तानीति । सोपस्करं वृत्तमनूद्य वाक्यमादाय व्याचष्टे — त एत इति । तुल्यां व्याप्तिमेव व्यनक्ति — यावदिति । तावदशेषं जगद्व्याप्येति योजना । तुल्यव्याप्तिमत्त्वमुपजीव्याऽऽह — अत एवेति । तेषां यावत्संसारभावित्वमभिव्यनक्ति — न हीति । कार्यकरणयोर्यावत्संसारभावित्वेऽपि प्राणानां किमायातमत आह — कार्येति । तेषु परिच्छिन्नत्वेन ध्याने दोषमाह — स य इति । एवं पातनिकां कृत्वा विवक्षितमुपासनामुपदिशति —
अथेति ॥१३॥ 【भाष्यम्】 【भाष्यम्】 अवतारितं ग्रन्थं व्याचष्टे — योऽयमित्यादिना । कथं प्रजापतेस्तिथिभिरापूर्यमाणत्वमपक्षीयमाणत्वं च तत्राऽऽह — प्रतिपदाद्याभिरिति । वृद्धेर्मर्यादां दर्शयति — यावदिति । अपक्षयस्य मर्यादामाह — यावद्ध्रुवेति । अवशिष्टममावास्यायां निविष्टां कलां प्रपञ्चयन्द्वितीयकलोत्पत्तिं शुक्लप्रतिपदि दर्शयति — स प्रजापतिरिति । प्राणिजातमेव विशिनष्टि — यदप इति । स्थावरं जङ्गमं चेत्यर्थः । ओषध्यात्मनेत्युपलक्षणं जलात्मनेत्यपि द्रष्टव्यम् । फलभूते प्रजापतौ पाङ्क्तत्वं वक्तुमुपक्रान्तं तदद्यापि नोक्तमित्याशङ्क्याऽऽह — एवमिति । तदेव पाङ्क्तत्वं व्यनक्ति — दिवेति । कलानां वित्तवद्वित्तत्वे हेतुमाह — उपचयेति । पाङ्क्तत्वनिर्देशेन लब्धमर्थमाह — एवमेष इति । संप्रति कृत्स्नस्य प्रजापतेरुपक्रमानुसारित्वं दर्शयति — जायेति । भवतु प्रजापतेरुक्तरीत्या पाङ्क्तत्वं तथाऽपि कथं पाङ्क्तकर्मफलत्वं तत्राऽऽह — कारणेति । पाङ्क्तकर्मफलत्वं प्रजापतेरुक्त्वा प्रासंगिकमर्थमाह — यस्मादिति । अपि कृकलासस्येति कुतो विशेषोक्तिरित्याशङ्क्याऽऽह — कृकलासो हीति । कुतस्तस्य पापात्मत्वं तत्राऽऽह — दृष्टोऽपीति । विशेषनिषेधस्य शेषानुज्ञापरत्वाद्विरोधः सामान्यशास्त्रेण स्यादिति शङ्कते — नन्विति । तीर्थशब्दः शास्त्रविहितप्रदेशविषयः । साधारण्येन सर्वत्र निषिद्धाऽपि हिंसा विशेषतोऽमावास्यायां निषिध्यमाना सोमदेवतापूजार्था । ततः शेषानुज्ञाभावान्न सामान्योक्तिविरोधोऽस्तीति परिहरति —
बाढमिति ॥१४॥ 【भाष्यम्】 【भाष्यम्】 अन्नत्रये फलवद्ध्यानविषये व्याख्याते वक्तव्याभावात्किमुत्तरग्रन्थेनेत्याशङ्क्य वृत्तं कीर्तयति — पितेति । तेषां तत्फलत्वे प्रमाणाभावमादाय शङ्कते — तत्रेति । प्रकृतं व्याख्यानं सप्तम्यर्थः । कार्यलिङ्गकमनुमानं प्रमाणयन्नुत्तरमाह — उच्यत इति । अनुमानमेव स्फुटयितुमन्नेषु पाङ्क्तत्वावगतिं दर्शयति — यस्मादिति । तस्मात्तत्कारणमपि तादृशमिति शेषः । कथं पुनस्तस्य पाङ्क्तत्वधीरित्याशङ्ख्याऽऽह — वित्तेति । आत्मा जाया प्रजेति त्रयं संग्रहीतुमपिशब्दः । उक्तं हेतुं व्यक्तीकुर्वन्नुक्तं स्मारयति — तत्रेति । अन्नत्रयं सप्तम्यर्थः । तथाऽपि कथं पाङ्क्तत्वमित्याशङ्क्यानन्तरग्रन्थमवतारयति — तत्र वित्तेति । सप्तमी पूर्ववत् । यत्पूर्वमाधिदैविकत्र्यन्नात्मकप्रजापत्युपासनमुक्तं तदहमस्मि प्रजापतिरित्यहङ्ग्रहेण कर्तव्यमित्याह — यो वा इति । प्रत्यक्षमुपलभ्यमानं प्रजापतिं प्रश्नद्वारा प्रकटयति — कोऽसाविति । तस्य प्रजापतित्वमप्रसिद्धमित्याशङ्क्य परिहरति — केनेत्यादिना । कलानां जगद्विपरिणामहेतुत्वं कर्मेत्युक्तं वित्तेऽपि कर्महेतुत्वमस्ति तेन तत्र कलाशब्दप्रवृत्तिरुचितेत्याह — वित्तेति । यथा चन्द्रमाः कलाभिः शुक्लकृष्णपक्षयोरापूर्यतेऽपक्षीयते च तथा स विद्वान्वित्तेनैवोपचीयमानेनाऽऽपूर्यतेऽपचीयमानेन चापक्षीयते । एतच्च लोकप्रसिद्धत्वान्न प्रतिपादनसापेक्षमित्याह — स चन्द्रवदिति । आत्मैव ध्रुवा कलेत्युक्तं तदेव रथचक्रदृष्टान्तेन स्पष्टयति — तदेतदिति । नाभिः चक्रपिण्डिका तत्स्थानीयं वा नभ्यं तदेव प्रश्नद्वारा स्फोरयति — किं तदिति । शरीरस्य चक्रपिण्डिकास्थानीयत्वमयुक्तं परिवारादर्शनादित्याशङ्क्याऽऽह — प्रधिरिति । शरीरस्य रथचक्रपिण्डिकास्थानीयत्वे फलितमाह — तस्मादिति । पदार्थमुक्त्वा वाक्यार्थमाह —
जीवंश्चेदिति ॥१५॥ 【भाष्यम्】 【भाष्यम्】 वावशब्दस्यावधारणरूपमर्थं विवृणोति — त्रय एवेति । तदेव लोकत्रयं प्रश्नद्वारा स्फोरयति — के त इत्यादिना । जयो नाम पुत्रेण मनुष्यलोकस्यातिक्रम इति केचित्तान्प्रत्याह — साध्य इति । पुत्रेणास्य साध्यत्वमसिद्धमित्याशङ्क्याऽऽह — यथा चेति । द्विविधो हि मनुष्यलोकजयः कर्तव्यशेषानुष्ठानं भोगश्च । तत्राऽऽद्यमाश्रित्यान्ययोगव्यवच्छेदमेवकारार्थं दर्शयति — नान्येनेति । द्वितीये त्वयोगव्यवच्छेदस्तदर्थो ज्योतिषेमं लोकं जयतीति साधनान्तरेणापि मनुष्यलोकजयश्रुतेरिति भावः । पूर्ववाक्यस्थमेवकारमुत्तरवाक्ययोरनुषक्तमुपेत्य वाक्यद्वयं व्याचष्टे — कर्मणेत्यादिना । साधनद्वयापेक्षया फलद्वारकमुत्कर्षं विद्यायां दर्शयति —
देवलोक इति ॥१६॥ 【भाष्यम्】 【भाष्यम्】 अन्नत्रयात्मनि प्रजापतावहङ्ग्रहोपासनस्य सफलस्योक्तत्वाद्वक्तव्याभावादुत्तरग्रन्थवैयर्थ्यमित्याशङ्क्य तद्विषयं वक्तुं वृत्तमनुवदति — एवमिति । साधनोक्त्यैव फलमुक्तं तयोर्मिथोबद्धत्वात्प्राजापत्यं च फलं प्रागेव दर्शितं तत्किमुत्तरग्रन्थेनेत्याशङ्क्य सामान्येन तत्प्रतीतावपीदमस्येति विशेषो नोक्तस्तदुक्त्यर्थमुत्तरा श्रुतिरित्याह — तत्रेति । पूर्वग्रन्थः सप्तम्यर्थः । नियमो नावगत इति संबन्धः । उपन्यासः प्रारम्भः । वृत्तमनुवदति — एवमिति । पुत्रादिवज्जायावित्तयोरपि प्रकृतत्वात्फलविशेषे विनियोगो वक्तव्य इत्याशङ्क्याऽऽह — जाया त्विति । न पृथक्पुत्रकर्मभ्यामिति शेषः । न पृथक्साधनं कर्मणः सकाशादिति द्रष्टव्यम् । भवत्वेवं साधनत्रयनियमस्तथाऽपि विद्याकर्मणी हित्वा समनन्तरग्रन्थे किमिति पुत्रनिरूपणमित्याशङ्क्याऽऽह — विद्याकर्मणोरिति । यथोक्ते चोद्ये पुत्रस्य लोकहेतुत्वज्ञानार्थं संप्रत्तिवाक्यमित्याह — अत इति । अथात इति पदद्वयं व्याख्याय संप्रत्तिपदं व्याचष्टे — संप्रत्तिरिति । किमिदं संप्रदानं नाम तदाह — संप्रत्तिरिति । तदेव कर्म विशदयति — पुत्रे हीति । अनेन प्रकारेणेति वक्ष्यमाणप्रकारोक्तिः । अरिष्टादीत्यादिपदेन दुःस्वप्नादिसंग्रहः । प्रत्याह वाक्यत्रयमिति संबन्धः । पुत्रस्याहं ब्रह्मेत्यादिप्रतिवचने हेतुमाह — स त्विति । मया कार्यं यदध्ययनादि तदेवावशिष्टं त्वया कार्यमिति पुत्रस्य प्रागनुशिष्टभावे प्रतिवचनानुपपत्तिरित्यर्थः । यद्वै किञ्चेत्यादिवाक्यानां पुत्रानुमन्त्रणवाक्यैरर्थभेदाभावात्पुनरुक्तिरित्याशङ्क्याऽऽह — एतस्येति । यद्वै किञ्चेत्यादिवाक्ये वाक्यार्थमाह — योऽध्ययनेति । त्वं ब्रह्मेतिवाक्यवत्त्वं यज्ञ इति वाक्यमपि शक्यं व्याख्यातुमित्याह — तथेति । ब्राह्मणार्थं संगृह्णाति — मत्कर्तृका इति । त्वं लोक इत्यस्य व्याख्यानं ये वै के चेत्यादि । तत्र पदार्थानुक्त्वा वाक्यार्थमाह — इत इति । किमिति त्वत्कर्तृकमध्ययनादि मयि समर्प्यते त्वयैव किं नानुष्ठीयते तत्राऽऽह — इत ऊर्ध्वमिति । कर्तव्यतैव बन्धनं तद्विषयः क्रतुः संकल्पस्तस्मादिति यावत् । स पुत्र इत्यादेस्तात्पर्यमाह — स चेति । तत्रेति यथोक्तानुशासनोक्तिः । एतन्मा सर्वमित्यादि प्रतीकमादाय व्याचष्टे — सर्वं हीति । अनद्यतने भूतेऽर्थे विहितस्य लङो भविष्यदर्थं कथमित्याशङ्क्याऽऽह — छन्दसीति । पुत्रानुशासनस्य फलवत्त्वमाह — यस्मादित्यादिना । कृतसंप्रत्तिकः सन्पिता किं करोतीत्यपेक्षायामाह — स पितेति । कोऽयं प्रवेशो न हि विशिष्टस्य केवलस्य वा बिले सर्पवत्प्रवेशः संभवत्यत आह — अध्यात्मेति । हेतुर्मिथ्याज्ञानादिः । वागादिष्वाविष्टेष्वपि कुतोऽर्थान्तरस्य पितुरावेशधीरित्याशङ्क्याऽऽह — वागिति । तद्भावित्वमेव स्फोरयति — अहमिति । भावनाफलमाह — तस्मादिति । पुत्रविशेषणात्परिच्छिन्नत्वं पितुस्तदवस्थमित्याशङ्क्याऽऽह — सर्वेषां हीति । मृतस्य पितुरितो लोकाद्व्यावृत्तस्य कथं यथोक्तरूपत्वमित्याशङ्क्याऽऽह — एतदुक्तमिति । पुत्ररूपेणात्र स्थितमेव विभजते — नैवेति । मृतोऽपि पिताऽनुशिष्टपुत्रात्मनाऽत्र वर्तते नास्मादत्यन्तं व्यावृत्तः फलरूपेण च परत्रेति भावः । उक्तेऽर्थ ऐतरेयश्रुतिं संवादयति — तथा चेति । षष्ठीप्रथमाभ्यां पितापुत्रावुच्येते । स यदीत्यादिवाक्यमवतार्य व्याकरोति — अथेत्यादिना । अकृतमकृतादिति च च्छेदः । तस्मादिति प्रतीकमादाय व्याकरोति — पूरणेनेति । तदेव प्रपञ्चयति — इदं तदिति । पुत्रवैशिष्ट्यं निगमयति — स पितेति । पुत्रेणैतल्लोकजयमुपसंहरति — एवमिति । यथोक्तात्पुत्राद्विद्याकर्मणोर्विशेषमाह — न तथेति । कथं तर्हि ताभ्यां पिता तौ जयति तत्राऽऽह — स्वरूपेति । तदेव स्फुटयति — न हीति । अनुशिष्टपुत्रेणैतल्लोकजयिनं पितरमधिकृत्याथैनमित्यादि वाक्यं तद्व्याकरोति — अथेति ।
पुत्रप्रकरणविच्छेदार्थोऽथशब्दः ॥१७॥ 【भाष्यम्】 【भाष्यम्】 आवेशप्रकारबुभुत्सायामुत्तरवाक्यप्रवृत्तिं प्रतिजानीते — कथमित्यदिना । पृथिव्यै चेत्यादिवाक्यस्य व्यावर्त्यं पक्षं वृत्तानुवादपूर्वकमुत्थापयति — एवमिति । अत्रेति वैदिकं पक्षं निर्धारयितुं सप्तमी । बहुवदनशीलत्वे हेतुः — श्रुत्युक्तेति । मोक्षार्थतामृणापाकरणश्रुतिस्मृतिभ्यां वदन्तीति शेषः । मीमांसकपक्षं प्रकृतश्रुतिविरोधेन दूषयति — तेषामिति । कथमित्याशङ्क्य श्रुतेरादिमध्यावसानालोचनया पुत्रादेः संसारफलत्वावगमान्न मुक्तिफलतेत्याह — जायेत्यादिना । पुत्रादीनाञ्चेति चकारादेतावान्वै काम इति मध्यसंग्रहः । यदुक्तमृणापाकरणश्रुतिस्मृतिभ्यां पुत्रादेर्मुक्तिफलतेति तत्राऽऽह — तस्मादिति । पुत्रादेः श्रुतं संसारफलत्वं पराम्रष्टुं तच्छब्दः । श्रुतिशब्दः स्मृतेरुपलक्षणार्थः । श्रुतिस्मृत्योरविरक्तविषयत्वे वाक्यशेषमनुकूलयति — वक्ष्यति चेति । मीमांसकपक्षं निराकृत्य भर्तृप्रपञ्चपक्षमुत्थापयति — केचित्त्विति । मनुष्यलोकजयस्ततो व्यावृत्तिर्यथेत्यपेरर्थः । पुत्रादिसाधनाधीनतया लोकत्रयव्यावृत्तावपि कथं मोक्षः संपद्यते न हि पुत्रादीन्येव मुक्तिसाधनानि विरक्तत्वविरोधादित्याशङ्क्याऽऽह — तस्मादिति । पृथिव्यै चेत्याद्योत्तरा श्रुतिरेव मीमांसकमतवद्भर्तृप्रपञ्चमतमपि निराकरोतीति दूषयति — तेषामिति । कथं सा तन्मतं निराकरोतीत्याशङ्क्य श्रुतिं विशिनष्टि — कृतेति । त्र्यन्नात्मोपासितुस्तदाप्तिवचनविरुद्धं परमतमित्युक्तं तदाप्तेरेव मुक्तित्वादित्याशङ्क्याऽऽह — न चेति । तथाऽपि कथं यथोक्तं फलं मोक्षो न भवति तत्राऽऽह — मेधेति । त्र्यन्नात्मनो ज्ञानकर्मजन्यत्वे हेतुमाह — पुनः पुनरिति । सूत्राप्तेरमुक्तित्वे हेत्वन्तरमाह — यद्धेति । कार्यकरणवत्त्वश्रुतेरपि सूत्रभावो न मुक्तिरित्याह — शरीरमिति । अविद्यातदुत्थद्वैतस्य त्र्यात्मकत्वेनोपसंहारात्तदात्मसूत्रभावो बन्धान्तर्भूतो न मुक्तिरिति युक्त्यन्तरमाह — त्रयमिति । नन्वविरक्तस्याज्ञस्य सूत्राप्तिफलमपि कर्मादिविरक्तस्य विदुषो मुक्तिफलमिति व्यवस्थितिर्नेत्याह — न चेदमिति । न हि पृथिव्यै चेत्यादिवाक्यस्यैकस्य सकृच्छ्रुतस्यानेकार्थत्वम् । भिद्यते हि तथा वाक्यमिति न्यायादित्यर्थः । पृथिव्यै चेत्यादिवाक्यावष्टम्भेन पक्षद्वयं प्रतिक्षिप्य तदक्षराणि व्यचष्टे — पृथिव्या इति । एनमित्युक्तमनूद्य व्याकरोति — एनमिति । कथं पुनः सूत्रात्मभूता वागुपासकमाविशति तत्राह — सर्वेषां हीति । तर्हि तयोरभेदादविदुषोऽपि व्याप्तैव वागिति विदुषि विशेषो नास्तीत्याशङ्क्याऽऽह — सा हीति । दैव्यां वाचि दोषविगममुत्तरवाक्येन साधयति — सा चेति । विद्वद्वाचः स्वरूपं संक्षिपति —
अमोघेति ॥१८॥ 【भाष्यम्】 【भाष्यम्】 वाचि दर्शितन्यायं मनस्यतिदिशति — तथेति । यन्मनः स्वभावनिर्मलत्वेन दैवमित्युक्तं तदेव विशिनष्टि — येनेति ।
असाविति विद्वदुक्तिः । येन मनसा विद्वान्न शोचत्यपि तद्धेत्वभावात्तद्दैवमिति पूर्वेण संबन्धः ॥१९॥ 【भाष्यम्】 【भाष्यम्】 मनस्युक्तं न्यायं प्राणेऽतिदिशति — तथेति । तमेव दैवं प्राणं प्रश्नपूर्वकं प्रकटयति — स वा इति । स एवंविदित्यादि व्याचष्टे — स य इति । विदिरत्र लाभार्थः । न केवलं यथोक्तमेव विद्याफलं किन्तु फलान्तरमप्यस्तीत्याह — किञ्चेति । सर्वभूतात्मत्वे तद्दोषयोगात्प्राजापत्यं पदमनादेयमित्युत्तरवाक्यव्यावर्त्यामाशङ्कामाह — अथेति । सर्वप्राणिसुखदुःखैरित्यस्मादूर्ध्वं सशब्दोऽध्याहर्तव्यः । सर्वात्मके विदुष्येकैकभूतनिष्ठदुःखयोगो नास्तीत्युत्तरमाह — तन्नेति । तदेव प्रपञ्चयति — परिच्छिन्नेति । परिच्छिन्नधीत्वेऽपि सूत्रात्मके विदुषि सर्वभूतान्तर्भावात्तद्दुःखादियोगः स्यादेवेत्याशङ्क्य जठरकुहरविपरिवर्तिक्रिमिदोषैरस्माकमसंसर्गवत्प्रकृतेऽपि संभवान्मैवमित्यभिप्रेत्याऽऽह — मरणेति । नोपपद्यते विदुषो दुःखमिति पूर्वेण संबन्धः । दृष्टान्तं विवृणोति — यथेति । मैत्रस्य स्वहस्ताद्यभिमानवतस्तद्दुःखादियोगवद्विदुषः सूत्रात्मनः स्वांशभूतसर्वभूताभिमानिनस्तद्दुःखादिसंसर्गः स्यादित्याशङ्क्य दार्ष्टान्तिकमाह — तथेति । ममतवतादीत्यादिपदेनाहन्ताग्रहणं तदेव दुःखनिमित्तं मिथ्याज्ञानम् । आदिशब्देन रागादिरुक्तः । उक्तेऽर्थे श्रुतिमवतार्य व्याचष्टे — तदेतदिति । शुभमेव गच्छतीति संबन्धः । फलरूपेण वर्तमानस्य कथं कर्मसंबन्धः स्यादित्याशङ्क्याऽऽह — फलमिति । उक्तमेव व्यनक्ति —
निरतिशयं हीति ॥२०॥ 【भाष्यम्】 【भाष्यम्】 उपासनोक्त्यानन्तर्यमथशब्दार्थं कथयति — अनन्तरमिति । विचारणामेव स्फोरयति — एषामिति । प्रवृत्तायां मीमांसायां प्राणव्रतमभग्नत्वेन धारणीयमिति निर्धारणार्थमाख्यायिकां प्रणयति — तत्रेत्यादिना । कथं वागादिषु करणेषु कर्मशब्दप्रवृत्तिरित्याशङ्क्याऽऽह — कर्मार्थानीति । तदीयसृष्टेरुपयोगमुपदर्शयितुं भूमिकाङ्करोति — तानीति । स्पर्धाप्रकारं प्रश्नपूर्वकं प्रकटयति — कथमित्यादिना । यथाकर्म स्वीयं स्वीयं व्यापारमनुसृत्य व्रतं दध्रिरे वागादीनि करणानीत्यर्थः । प्रजापतेर्वागादिषु श्रमद्वारा स्वकर्मप्रच्युतिरासीदित्यत्र कार्यलिङ्गकमनुमानं प्रमाणयति — तस्मादिति । वागादीनां भग्नव्रतत्वनिर्धारणानन्तर्यमथशब्दार्थः । प्राजापत्ये प्राणे मृत्युग्रस्तस्वाभावे कार्यलिङ्गकमनुमानं सूचयति — तेनेति । प्रवर्तते प्राण इति संबन्धः । तथाऽपि कथं प्राणस्य व्रतं धार्यमित्यपेक्षायामाह — तानीति । ज्ञानार्थमनुसन्धानप्रकारमेव दर्शयति — अयमिति । तस्य श्रेष्ठत्वे फलितमाह — हन्तेति । इतिशब्दं व्याकरोति — एवं विनिश्चित्येति । अस्माकं वागादीनां व्रतानि मृत्योर्वारणाय न पर्याप्तानीति विनिश्चित्य दध्रिरे प्राणव्रतमेवेति संबन्धः । प्राणरूपत्वमुक्त्वा करणानां तन्नामत्वमाह — यस्मादिति । यस्मादित्यस्य तस्मादिति व्यवहितेन संबन्धः । प्राणरूपं चलनात्मत्वमिति कुतो निश्चीयते तत्राऽऽह — न हीति । तर्हि करणेषु प्रकाशात्मकत्वमेव न चलनात्मत्वमित्याशङ्क्याऽऽह — चलनेति । संप्रति विद्याफलमाह — य एवमिति । तदेव स्पष्टयति — यस्मिन्निति । तपती सूर्यसुता तस्या वंशस्तापत्यः । कस्येदं फलमित्युक्ते पूर्वोक्तमेव स्फुटयति — य एवमित्यादिना । न केवलं विद्याया यथोक्तमेव फलं किन्तु फलान्तरमप्यस्तीत्याह — किञ्चेति । प्राणविदा सह स्पर्धा न कर्तव्येति भावः । इत्यध्यात्ममित्यस्याऽऽनर्थक्यमाशङ्क्याऽऽह —
इत्येवमिति ॥२१॥ 【भाष्यम्】 【भाष्यम्】 अथेत्यादिवाक्यस्य वक्तव्यशेषाभावादानर्थक्यमाशङ्क्य व्यवहितोपासनानुवादेन तदङ्गव्रतविधानार्थमुत्तरं वाक्यमित्यानर्थक्यं परिहरति — त एत इत्यादिना । व्रतमित्यवश्यानुष्ठेयं कर्मोच्यते । जिज्ञासायाः सत्त्वमतः शब्दार्थः । अध्यात्मदर्शनमुक्त्वाऽधिदैवतदर्शनं वक्तुमनन्तरवाक्यमवतारयति — अथेति । तर्हि ज्वलिष्यामित्यादि किमर्थमित्याशङ्क्याऽऽह — कस्येति । वदिष्यामीत्यादावुक्तं व्याख्यानमिहापि द्रष्टव्यमित्याह — अध्यात्मवदिति । यथादैवतं स्वं स्वं देवताव्यापारमनतिक्रम्यान्या दैवता विद्युदाद्या दध्रिरे व्रतमित्यर्थः । स यथेत्यादि व्याचष्टे — सोऽध्यात्ममिति । वायुरपि मृत्युनाऽनाप्तः स्वकर्मणो न प्रच्यावितः स्वेन वायुव्रतेनाभग्नव्रत इति शेषः । तदेव साधयति — म्लोचन्तीति । ब्राह्मणोक्तमर्थमुपसंहरति —
एवमिति ॥२२॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणार्थदार्ढ्यार्थं मन्त्रमवतार्य व्याकरोति — अथेत्यादिना । सूर्योऽधिदैवमुदयकाले वायोरुद्गच्छति । तत्र चापरसन्ध्यासमयेऽस्तं गच्छति । स एव चाध्यात्मं प्रबोधसमये चक्षुरात्मना प्राणादुदेति पुरुषस्य स्वापसमये च तस्मिन्नेवास्तं गच्छतीति यतश्चेत्यादौ विभागः । श्लोकस्योत्तरार्धं प्राणादित्यादिब्राह्मणव्यवहितं श्लोके पूर्णताज्ञापनार्थं प्रथमं व्याचष्टे — तं देवा इति । धारणस्य प्रकृतत्वात्सामान्येन च विशेषं लक्षयित्वाऽऽह — धृतवन्त इति । स एवेति धर्मपरामर्शः । तत्रेति सप्तमी संपूर्णमन्त्रमधिकरोति । इमं मन्त्रमिति पूर्वार्धोक्तिः । उत्तरार्धस्य ब्राह्मणमाकाङ्क्षापूर्वकमुत्थाप्य व्याचष्टे — तमित्यादिना । तैरभग्नं देवैरभग्नत्वेन मीमांसितं तेऽनुगच्छन्तीत्यर्थः । विशेषणस्यार्थवत्त्वं साधयति — यत्त्विति । उक्तं हेतुमग्निरहस्यमाश्रित्य विशदयति — अथेति । यथाऽत्रेत्युपमार्थोऽथशब्दः । अनुगच्छति शाम्यतीत्येतत् । वायुमनु तदधीन एव तस्मिन्काल उद्वात्यस्तमेति । उदवासीदस्तं गत इत्यर्थः । इतिशब्दोऽग्निरहस्यवाक्यसमाप्त्यर्थः। अध्यात्मं प्राणव्रतमधिदैवञ्च वायुव्रतमित्येकमेव व्रतं धार्यमिति मन्त्रब्राह्मणाभ्यां प्रतिपाद्य तस्मादिति व्याचष्टे — यस्मादिति । न हि वागादयोऽग्न्यादयो वा परिस्पन्दविरहिणः स्थातुमर्हन्ति तेन प्राणादिव्रतं तैरनुवर्त्यत एवेत्यर्थः । एकमेवेति नियमे प्राणव्यापारस्याभग्नत्वं हेतुमाह — न हीति । तदनुपरमे फलितमाह — तस्मादिति । ननु प्राणनाद्यभावे जीवनासंभवात्तस्याऽऽर्थिकत्वात्तदनुष्ठानमविधेयमित्याशङ्क्यैवकारलभ्यं नियमं दर्शयति — हित्वेति । नेदित्यादिवाक्यस्याक्षरार्थमुक्त्वा तात्पर्यार्थमाह — यद्यहमिति । प्राणव्रतस्य सकृदनुष्ठानमाशङ्क्य सर्वेन्द्रियव्यापारनिवृत्तिवरूपं संन्यासमामरणमनुवर्तयेदित्याह — यदीति । विपक्षे दोषमाह — यदि हीति । प्राणादिपरिभवपरिहारार्थं नियमं निगमयति — तस्मादिति । विद्याफलं वक्तुं भूमिकाङ्करोति — तेनेति । व्रतमेव विशिनष्टि — प्राणेति । प्रतिपत्तिमेव प्रकटयति — सर्वभूतेष्विति । संप्रति विद्याफलं कथयति — एवमिति । कथमेकस्मिन्नेव विज्ञाने फलविकल्पः स्यादित्याशङ्क्य विज्ञानप्रकर्षापेक्षं सायुज्यं तन्निकर्षापेक्षं च सालोक्यमित्याह —
विज्ञानेति ॥२३॥ 【भाष्यम्】 【भाष्यम्】 प्रपञ्चितस्याविद्याकार्यस्य संक्षेपेणोपसंहारार्थं ब्राह्मणान्तरमवतारयति — तदेतदिति । फलमपि ज्ञानकर्मणोरुक्तविशेषणवद्यदेतत्प्रस्तुतमिति संबन्धः । अव्याकृतप्रक्रियायामुक्तं स्मारयति — या चेति । व्याकृताव्याकृतस्य जगतः संगृहीतं रूपमाह — सर्वमिति । वाङ्मनःप्राणाख्यं त्रयमिति शङ्कां प्रत्याह — किं तदित्यादिना । किमर्थः पुनरयमुपसंहार इत्याशङ्क्याऽऽह — अनात्मैवेति । आत्मशब्दार्थमाह — यत्साक्षादिति । अनात्मत्वेन जगतो हेयत्वं तच्छब्देन परामृश्यते । वैराग्यमपि किमर्थमित्याशङ्क्याऽऽह — न हीति । अविरक्तोऽपि कुतूहलितया तत्राधिकारी स्यादित्याशङ्क्याऽऽह — बाह्येति । अनात्मप्रवणमप्यात्मानं प्रत्याययिष्यत्यात्मनः सर्वात्मत्वात्कुतो विरोध इत्याशङ्क्याह — तथेति । कथं तर्हि प्रत्यगात्मधीस्तत्राऽऽह — कश्चिदिति । उपसंहारस्येत्थं सफलत्वेऽपि सर्वस्य जगतो नामादिमात्रत्वं प्रमाणाभावादयुक्तमिति शङ्कते — कथमिति । अनुमानैः संभावनां दर्शयति — अत्रेति । तत्र तत्कार्यत्वहेतुकमनुमानमाह — तेषामिति । वागित्येदुक्थमिति संबन्धः । इन्द्रियव्यावृत्त्यर्थं वाक्पदार्थमाह — शब्देति । संगृहीतमर्थं विवृणोति — यः कश्चेत्यादिना । उक्थत्वमुपपादयितुमुत्तरं वाक्यमित्याह — तदाहेति । कार्यकारणभावेऽपि किमायातमत आह — कार्यञ्चेति । सर्वे नामविशेषास्तन्मात्रत्वात्तत्त्वतो न भिद्यन्ते तत्कार्यत्वाद्यद्यत्कार्यं तत्ततो न भिद्यते यथा मृदो घट इत्यर्थः । सर्वे नामविशेषास्तत्सामान्ये कल्पिताः प्रत्येकं तदनुविद्धत्वाद्रज्ज्विदमंशानुविद्धसर्पादिवदित्यनुमानान्तरमाह — तथेति । कार्याणां कारणेऽन्तर्भाववदिति यावत् । उक्तमेव प्रश्नपूर्वकं प्रपञ्चयति — कथमित्यादिना । सामत्वं साधयति — एतद्धीति । इतश्च नामविशेषा नाममात्रेऽन्तर्भवन्तीत्याह — किञ्चेति । नामविशेषाणां नाममात्रादात्मलाभात्तस्मादविशेषात्तत्रैवान्तर्भाव इत्यक्षरार्थः । सर्वे नामविशेषास्तत्सामान्यान्न पृथग्वस्तुतः सन्ति तेनाऽऽत्मवत्त्वाद्ये येनाऽऽत्मवन्तस्ते ततोऽन्ये वस्तुतो न सन्ति यथा मृदाऽऽत्मवन्तो घटादयो वस्तुतस्ततोऽन्ये न सन्तीत्युक्तेऽनुमाने व्याप्तिं साधयति — यस्य चेति । हेतुसमर्थनार्थमुत्तरं वाक्यमुत्थापयति — कथमित्यादिना । अतः शब्दमात्रात्तद्विशेषाणामात्मलाभो भवतीति शेषः । तत्रैव युक्तिमाह — ततो हीति । तत्रैव वाक्यमवतार्य व्याचष्टे — तदित्यादिना । तस्मात्तन्मात्रात्तद्विशेषाणामात्मलाभ इति वाक्यशेषः । प्रथमकण्डिकया सिद्धमर्थमुपसंहरति — एवमिति । उपपत्तित्रयमुत्तरवाक्यद्वयेऽपि तुल्यमित्यादिशति —
एवमुत्तरयोरिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 तत्र व्याख्यानसापेक्षाणि पदानि व्याकरोति — अथेत्यादिना ।
नामव्याख्यानानन्तर्यमथशब्दार्थः । चक्षुरुक्थमिति संबन्धः । चक्षुरिति चक्षुःशब्दाभिधेयं चक्षुविषयसामान्यमभिधीयते तच्च रूपसामान्यं तदपि प्रकाश्यमात्रमिति योजना ॥२॥ 【भाष्यम्】 【भाष्यम्】 रूपप्रकरणानन्तर्यमथेत्युच्यते । क्रियाविशेषाणां क्रियामात्रेऽन्तर्भावं प्रश्नद्वारा स्फोरयति — कथमित्यादिना । आत्मशब्देनात्र शरीरनिर्वर्त्यकर्मग्रहणे पुरुषविधब्राह्मणशेषमनुकूलयति — आत्मना हीति । तत्रैवोपपत्तिमाह — शरीरे चेति । तथाऽपि कथमात्मशब्दः शरीरनिर्वर्त्यं कर्म ब्रूयादित्याशङ्क्य लक्षणयेत्याह — अत इति । संक्षेपस्यापि संक्षेपान्तरमाह — तदेतदिति । तदेतत्त्रयं त्रिदण्डविष्टम्भवत्संहतं सदेकमिति संबन्धः । कथं संहतत्वमत आह — इतरेतराश्रयमिति । रूपं विषयमाश्रित्य नामकर्मणी सिध्यतः स्वातन्त्र्येण निर्विषययोस्तयोः सिद्ध्यदर्शनान्नामकर्मणी चाऽऽश्रित्य रूपं सिध्यति । न हि ते हित्वा किञ्चिदुत्पद्यत इत्यर्थः । वाचकेन वाच्यस्य इतरेतरस्य ताभ्याञ्च क्रियायास्तया तयोरपेक्षादर्शनादन्योन्यमभिव्यञ्जकत्वमाह — इतरेतरेति । सति नाम्नि रूपसंहारदर्शनाद्रूपे च सति नामसंहारदृष्टेः सतोश्च तयोः कर्मणस्तस्मिंश्च सति तयोरुपसंहारोपलम्भादितरेतरप्रलयमित्याह — इतरेतरप्रलयमिति । त्रयाणामेकत्वं विरुद्धमिति शङ्कित्वा परिहरति — केनेत्यादिना । कथं कार्यकरणसंघातात्मना त्रयाणामेकत्वं तत्राऽऽह — तथेति । नामरूपकर्मणां कार्यकरणसंघातमात्रत्वेऽपि ततो व्यतिरिक्तं संघातादन्यत्स्यादित्याशङ्क्याऽऽह — एतावदिति । नामादित्रयस्य संघातमात्रत्वे कथं व्यवहारासाङ्कर्यमित्याशङ्क्याऽऽह — आत्मेति । संघातोऽयमात्मशब्दितः स्वयमेकोऽपि सन्नध्यात्मादिभेदेन स्थितं त्रयमेव भवतीति व्यवहारासाङ्कर्यमित्यर्थः । एकस्मिन्नपि संघाते कारणरूपेणावान्तरविभागमाह — तदेतदिति । आत्मभूतस्तस्योपाधित्वेन स्थित इति यावत् । अविनाशी स्थूलदेहे गच्छत्यपि यावन्मोक्षं न गच्छतीत्यर्थः । सच्च त्यच्च सत्यं भूतपञ्चकं तदात्मके नामरूपे इत्याह — नामेति । कारणयाथात्म्यं कथयति — क्रियात्मकस्त्विति । पञ्चीकृतपञ्चमहाभूतात्मकं तत्कार्यं सर्वं सच्च त्यच्चेति व्युत्पत्तेः सत्यं वैराजं शरीरं कार्यमपञ्चीकृतपञ्चमहाभूततत्कार्यात्मककरणरूपसप्तदशकलिङ्गस्य सूत्राख्यस्याऽऽयतनं तस्यैवाऽऽच्छादकं तत्खल्वनात्माऽपि स्थूलदेहच्छन्नत्वाद्दुर्विज्ञानं तेनापि च्छन्नं प्रत्यग्वस्तु सुतरामिति तज्ज्ञानेऽवहितैर्भाव्यमिति भावः । इदानीमविद्याकार्यप्रपञ्चमुपसंहरति — एतदिति । अविद्याविषयविवरणस्य वक्ष्यमाणोपयोगमुपसंहरति — अत इति ।
प्रपञ्चिते सत्यविद्याविषये ततो विरक्तस्याऽऽत्मानं विविदिषोस्तज्ज्ञापनार्थं चतुर्थप्रमुखः सन्दर्भो भविष्यति । तस्मादविद्याविषयविवरणमुपयोगीति भावः ॥३॥ 【भाष्यम्】 【भाष्यम्】 तृतीयेऽध्याये सूत्रितविद्याविद्ययोरविद्या प्रपञ्चिता, संप्रति विद्यां प्रपञ्चयितुं चतुर्थमध्यायमारभमाणो वृत्तं कीर्तयति — आत्मेति । किमित्यर्थान्तरेषु सत्स्वात्मतत्त्वमेवानुसन्धातव्यं तत्राऽऽह — तदन्वेषणे चेति । तस्यैवान्वेष्टव्यत्वे परप्रेमास्पदत्वेन परमानन्दत्वं हेत्वन्तरमाह — तदेवेति । आत्मतत्त्वज्ञानस्य सर्वापत्तिफलत्वाच्च तदेवान्वेष्टव्यमित्याह — आत्मानमिति । उक्तया परिपाट्या सिद्धमर्थं संगृह्णाति — आत्मतत्त्वमिति । उक्तमर्थान्तरमनुवदति — यस्त्विति । सोऽविद्याविषय इति संबन्धः । कथं भेददृष्टिविषयस्याविद्याविषयत्वं तत्राऽऽह — अन्योऽसाविति । यो भेददृष्टिपरः स न वेदेत्यविद्या तद्दृष्टिमूलं सूत्रिता तेन तद्विषयो भेददृष्टिविषय इत्यर्थः । कथं यथोक्तौ विद्याविद्याविषयावसंकीर्णाववसातुं शक्येते तत्राऽऽह — एकधेति । सप्तान्नब्राह्मणे वृत्तमर्थं कथयति — तत्र चेति । विद्याविद्याविषययोरिति यावत् । आदिपदं साध्यसाधनावान्तरभेदसंग्रहार्थम् । यथोक्तो भेद एव विशेषः । तस्मिन्विनियोगो व्यवस्थापनं तेनेत्यर्थः । उपसंहारब्राह्मणान्ते वृत्तमनुभाषते — स चेति । अथवोक्तौ विद्याविद्याविषयौ कथमसंकीर्णौ मन्तव्यावित्याशङ्क्याह — एकधेति । तत्रोत्तरग्रन्थस्य विषयपरिशेषार्थं पुरुषविधब्राह्मणशेषमारभ्योक्तं दर्शयति — तत्र चेति । तर्हि समाप्तत्वादविद्याविषयस्य कथमविदुषो गार्ग्यस्य प्रवृत्तिरित्याशङ्क्य तदर्थमवान्तरविभागमनुवदति — स चेति । तावेव प्रकारौ दर्शयन्नादौ सूक्ष्मं शरीरमुपन्यस्यति — अन्तरिति । तस्य बाह्यकरणद्वारा स्थूलेषु विषयेषु प्रकाशकत्वममृतत्वं च व्युत्पादितम् । द्वितीयं प्रकारमाचक्षाणः स्थूलं शरीरं दर्शयति — बाह्यश्चेति । तस्य कयापि विधया सूक्ष्मदेहं प्रत्यप्रकाशकत्वादप्रकाशकत्वम् आगमापायित्वेनावहेयत्वं सूचयति — उपजनेति । यथा गृहस्य तृणादि बहिरङ्गं तथा सूक्ष्मस्य देहस्य स्थूलो देहस्तथाऽपि तृणादि विना गृहस्य व्यवहारयोग्यत्ववत्तस्यापि स्थूलदेहं विना न तद्योग्यत्वमिति मत्वाऽऽह — तृणेति । तस्य पूर्वप्रकरणान्ते नामरूपे सत्यमित्यत्र प्रस्तुतत्वमस्तीत्याह — सत्येति । सर्वथा बाधवैधुर्यं सत्यत्वमिति शङ्कां निरस्तुं विशिनष्टि — मर्त्य इति । तस्य कार्यं दर्शयति — तेनेति । वृत्तमनूद्याजातशत्रुब्राह्मणमवतारयति — स एवेति । आदित्यचन्द्रादयो बाह्याधारभेदाः । अनेकधात्वमतिष्ठामूर्धेत्यादिवक्ष्यमाणगुणवशाद्द्रष्टव्यम् । कथं तर्हि तस्यैकत्वं तत्राऽऽह — प्राण इति । प्राणस्य नानात्वमेकत्वं चोक्तं तत्रैकत्वं विवृणोति — तस्यैवेति । प्राणस्यैव स्वभावभूतोऽनात्मलक्षणः पिण्डः समष्टिरूपो हिरण्यगर्भादिशब्दैरुपाधिविषयैस्तत्र तत्र श्रुतिस्मृत्योरुच्यते । स च “अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ”(मु.उ. २-१-४) इत्यादिश्रुतेः सूर्यादिभिः प्रविभक्तैः करणैरुपेतो भवतीत्यर्थः । यद्ब्रह्म समस्तं व्यस्तं च तदिदं हिरण्यगर्भमात्रमेव न तस्मादधिकमस्तीति हिरण्यगर्भं स्तौति — एकञ्चेति । एकत्वं विशदीकृत्य प्राणस्य नानात्वं विशदयति — प्रत्येकञ्चेति । गोत्वादिसामान्यतुल्यत्वं व्यावर्तयति — चेतनावदिति । केवलभोक्तृत्वपक्षं वारयति — कर्त्रिति । वक्ता पूर्वपक्षवादीति यावत् । तस्मादमुख्याद्ब्रह्मणो विपरीतं मुख्यं ब्रह्म तस्मिन्नात्मदृष्टी राजा श्रोता सिद्धान्तवादीत्यर्थः । किमिति वक्तृश्रोतृरूपाख्यायिका प्रणीयते तत्राऽऽह — एवं हीति । एवंशब्दार्थमेव स्फुटयति — पूर्वपक्षेति । अतो भवितव्यमाख्यायिकयेति शेषः । आख्यायिकानङ्गीकारे दोषमाह — विपर्यये हीति । यथा तर्कशास्त्रेण समर्प्यमाणोऽर्थो ज्ञातुं न शक्यत औत्प्रेक्षिकतर्काणां निरङ्कुशत्वात्तथा केवलमर्थोऽनुगम्यते प्रश्नप्रतिवचनभावरहितैर्यैर्वाक्यैस्तैः समर्प्यमाणोऽपि दुर्विज्ञेयोऽर्थः स्याद्यद्याख्यायिका नानुश्रीयते तेन सा सुखप्रतिपत्त्यर्थमनुसर्तव्येत्यर्थः । कुतो दुर्विज्ञेयत्वं तत्राऽऽह — अत्यन्तेति । यथोक्तस्य वस्तुनो दुर्विज्ञेयत्वे श्रुतिस्मृतिसंवादं दर्शयति — तथा चेति । सुसंस्कृता परिशुद्धा देवबुद्धिः सात्त्विकी बुद्धिः । सामान्यमात्रबुद्धिस्तामसी राजसी च बुद्धिः । अतिगह्वरत्वमत्यन्तगम्भीरत्वम् । संरम्भस्तात्पर्यम् । ब्रह्मणो दुर्विज्ञेयत्वे फलितमाह — तस्मादिति । आख्यायिकायाः सुखप्रतिपत्त्यर्थत्वमुक्त्वाऽर्थान्तरमाह — आचारेति । उत्तमादधमेन प्रणिपातोपसदनादिद्वारा विद्या ग्राह्या । अधमात्तूत्तमेन तद्व्यतिरेकेण श्रद्धादिमात्रेण सा लभ्येत्याचारप्रकारज्ञापनार्थश्चायमारम्भ इत्यर्थः । आख्यायिकाया यथोक्तेऽर्थेऽन्वितत्वं कथयति — एवमिति । वक्तृश्रोत्रोर्मध्ये यथोक्ताचारवता श्रोत्रा विद्या लब्धव्या । वक्त्रा च तादृशेन सोपदेष्टव्येत्येषोऽर्थोऽस्यामाख्यायिकायामनुगतो गम्यते । तस्मादाचारविशेषं दर्शयितुमेषाऽऽख्यायिका युक्तेत्यर्थः । आगमानुसारिगुरुसंप्रदायादेव तत्त्वधीर्लभ्यते । यस्तु केवलस्तर्कस्तद्वशान्नैषा बुद्धिः सिद्ध्यति । तथा च केवलतर्कप्रयुक्ता तत्त्वबुद्धिरिति संभावनानिषाधार्थाऽख्यायिकेति पक्षान्तरमाह — केवलेति । केवलेन तर्केण तत्त्वबुद्धिर्न सिद्ध्यतीत्यत्र श्रुतिस्मृती दर्शयति — नैषेति । मतिं दद्यादिति शेषः । प्रकारान्तरेणाऽऽख्यायिकामवतार्य तत्राऽऽख्यायिकानुगुण्यं दर्शयति — तथा हीति । श्रद्धा ब्रह्मज्ञाने परमं साधनमित्यत्र भगवतोऽपि सम्मतिमाह — श्रद्धावानिति । आख्यायिकार्थे बहुधा स्थिते तदक्षराणि व्याचष्टे — अत्रेत्यादिना । पूर्वपक्षवादित्वे हेतुमाह — अविद्याविषयेति । गर्वितत्वे हेतुमाह — असम्यगिति । इयमेव नु वाङ्निमित्तमित्यत्रापि कस्मादित्यनुषज्यते । अतो ब्रह्म ते ब्रवाणीति वागेव सहस्रदाने निमित्तमिति शेषः । श्रुतिं व्याचष्टे — जनक इति । प्रसिद्धं जनकस्य दातृत्वादि तदवद्योतको वैनिपात इति यावत् । वाक्यार्थमाह — जनको दित्सुरित्यादिना ।
संभावितवानसीति प्रागुक्तं वाङ्मात्रं सहस्रदाने निमित्तमिति शेषः । तस्मान्मुग्धप्रसिद्ध्यतिक्रमणादिति यावत् । तत्सर्वं दातृत्वादिकमित्यर्थः । इतिशब्दोऽभिप्रायसमाप्त्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 हृदि प्रविष्टो भोक्ताऽहमित्यादि प्रत्यक्षं प्रमाणयति — अहमिति । दृष्टिफलं नैरन्तर्याभ्यासं दर्शयति — उपास इति । तावता मम किमायातं तदाह — तस्मादिति । मा मेति प्रतीकमादायाभ्यासस्यार्थमाह — मा मेतीति । विनिवारयन्प्रत्युवाचेति संबन्धः । एकस्य माङो निवारकत्वमपरस्य संवादेन संगतिरिति विभागे संभवति कुतो द्विर्वचनमित्याशङ्क्याऽऽह — मा मेत्याबाधनार्थमिति । तदेव स्फुटयति — एवमिति । त्वदुक्तेन प्रकारेण यो विज्ञानविषयोऽर्थस्तस्मिन्नावयोर्विज्ञानसाम्यादेव समानेऽपि विज्ञानवत्त्वे सत्यस्मानविज्ञानवत इव स्वीकृत्य तमेवार्थमस्मान्प्रत्युपदेशेन ज्ञापयता भवता वयं बाधिताः स्याम इति योजना । तथाऽपि गार्ग्यस्य कथमीषद्बाधनं तत्राऽऽह — अत इति । अतिष्ठाः सर्वेषामित्यादिवाक्यं शङ्काद्वाराऽवतार्य व्याकरोति — अथेत्यादिना । एतं पुरुषमिति शेषः । इतिशब्दो गुणोपास्तिसमाप्त्यर्थः । पूर्वोक्तरीत्या त्रिभिर्गुणैर्विशिष्टं ब्रह्म तदुपासकस्य फलमपि जानामीत्युक्त्वा फलवाक्यमुपादत्ते — स य इति । किमिति यथोक्तं फलमुच्यते तत्राऽऽह — यथेति ।
मनसि चेति चकाराद्बुद्धौ चेत्यर्थः ॥२॥ 【भाष्यम्】 【भाष्यम्】 य एकः पुरुषस्तमेवाहं ब्रह्मोपासे त्वं चेत्थमुपास्स्वेत्युक्ते, मा मेत्यादिना प्रत्युवाचेत्याह — इति पूर्ववदिति । भानुमण्डलतो द्विगुणं चन्द्रमण्डलमिति प्रसिद्धिमाश्रित्याऽऽह — महानिति । कथं पाण्डरं वासश्चन्द्राभिमानिनः प्राणस्य संभवतीत्याशङ्क्याऽऽह — अप्शरीरत्वादिति । पुरुषो हि शरीरेण वाससेव वेष्टितो भवति पाण्डरत्वं चापां प्रसिद्धमापो वासः प्राणस्येति च श्रुतिरतो युक्तं प्राणस्य पाण्डरवासस्त्वमित्यर्थः । न केवलं सोमशब्देन चन्द्रमा गृह्यते किन्तु लताऽऽपि समाननामधर्मत्वादित्याह — यश्चेति । तं चन्द्रमसं लतात्मकं बुद्धिनिष्ठं पुरुषमेकीकृत्याहङ्ग्रहेणोपास्तिरित्यर्थः । संप्रत्युपास्तिफलमाह — यथोक्तेति । यज्ञशब्देन प्रकृतिरुक्ता । विकारशब्देन विकृतयो गृह्यन्ते । यथोक्तोपासकस्य प्रकृतिविकृत्यनुष्ठानसामर्थ्यं लीलया लभ्यमित्यर्थः । अन्नाक्षयस्योपासनानुसारित्वादुपपन्नत्वमभिप्रेत्योपासकं विशिनष्टि —
अन्नात्मकेति ॥३॥ 【भाष्यम्】 【भाष्यम्】 संवाददोषेण चन्द्रे ब्रह्मण्यपि प्रत्याख्याते ब्रह्मान्तरमाह — तथेति । कथमेकमुपासनमनेकफलमित्याशङ्क्याऽऽह —
विद्युतामिति ॥४॥ 【भाष्यम्】 【भाष्यम्】
अप्रवर्तित्वमप्रवर्तकत्वमक्रियावत्त्वं वा ॥५॥ 【भाष्यम्】 【भाष्यम्】 कथमेकस्मिन्वायावपराजिता सेनेति गुणः संभवति तत्राऽऽह — मरुतामिति । विशेषणत्रयस्य फलत्रयं क्रमेण व्युत्पादयति — जिष्णुरित्यादिना ।
अन्यतस्त्यानादन्यतो मातृतो जातानाम् ॥६॥ 【भाष्यम्】 【भाष्यम्】 यद्धविर्विष्यते क्षिप्यते तत्सर्वं भस्मीकरणेन सहते तेनाग्निर्विषासहिः । यथा पूर्वं विद्युतां बाहुल्यादात्मनि प्रजायां च फलबाहुल्यमुक्तं तथाऽत्राप्यग्नीनां बहुलत्वादुपासकस्याऽऽत्मनि प्रजायां च दीप्ताग्नित्वं सिद्ध्यतीत्याह —
अग्नीति ॥७॥ 【भाष्यम्】 【भाष्यम्】 प्रतिरूपत्वं प्रतिकूलत्वमित्येद्व्यावर्तयति — अनुरूप इति ।
अन्यच्च फलमिति संबन्धः । अस्मादुपासितुरित्यर्थः । तथाविधः श्रुतिस्मृत्यनुकूल इति यावत् ॥८॥ 【भाष्यम्】 【भाष्यम्】 हार्दे चेत्येतदेव स्पष्टयति — तत्त्वेति ।
सर्वत्रैकेति विशेषणस्य देवतेति विशेष्यतया संबध्यते । तदेव रोचिष्णुरित्यर्थः ॥९॥ 【भाष्यम्】 【भाष्यम्】 आहैतमेवाहमित्यादीति शेषः । तस्य गुणवदुपासनस्येत्यर्थः सर्वमायुरित्येद्व्याचष्टे —
यथोपात्तमिति ॥१०॥ 【भाष्यम्】 【भाष्यम्】 का पुनरसावेका देवता तत्राऽऽह — आश्विनाविति । तस्य देवस्येति यावत् । यथोक्तं गुणद्वयमुपपादयति — दिशामिति ।
द्वितीयवत्त्वं साधुभृत्यादिपरिवृतत्वम् ॥११॥ 【भाष्यम्】 【भाष्यम्】 शब्दब्रह्मोपसकस्येव तमोब्रह्मोपासकस्यापि फलमित्याह — फलमिति । फलभेदाभावे कथमुपासनभेदः स्यादित्याशङ्क्याऽऽह —
मृत्योरिति ॥१२॥ 【भाष्यम्】 【भाष्यम्】 व्यस्तानि ब्रह्माण्युपन्यस्य समस्तं ब्रह्मोपदिशति — प्रजापताविति । आत्मवत्त्वं वश्यात्मकत्वम् । फलस्याऽऽत्मगामित्वान्न प्रजायां तदभिधानमुचितमित्याशङ्क्याऽऽह —
बुद्धीति ॥१३॥ 【भाष्यम्】 【भाष्यम्】 विचारार्था प्लुतिरिति कथयति — किमेतावदिति । वाक्यार्थं चोद्यसमाधिभ्यां स्फुटयति — किमित्यादिना । आदित्यादेरविदितत्वनिषेधं प्रतिज्ञाय हेतुमाह — न फलवदिति । नैतानि वाक्यानि फलवद्विज्ञानपराण्यर्थवादत्वादित्याशङ्क्याऽऽह — न चेति । फलवत्त्वाच्चापूर्वविधिपराण्येतानि वाक्यानीत्याह — तदनुरूपाणीति । अर्थवादत्वेऽपि तेषामपूर्वार्थत्वं किं न स्यादित्याशङ्क्याऽऽह — अर्थवादत्व इति । वाक्यानां फलवद्विज्ञानपरत्वमुपेत्य निषेधवाक्यस्य गतिं पृच्छति — कथं तर्हीति । तस्याऽऽनर्थक्यं परिहरति — नैष दोष इति । अधिकृतापेक्षत्वाद्वेदनप्रतिषेधस्येत्युक्तं स्फुटयति — ब्रह्मेति । नैतावतेत्यविशेषेणामुख्यब्रह्मज्ञानमपि निषिद्धमिति चेन्नेत्याह — यदीति । किञ्च निष्कामेन चेदेतान्युपासनान्यनुष्ठीयन्ते तदैतेषां ब्रह्मज्ञानार्थत्वादमुख्यब्रह्मज्ञाननिषेधमन्तरेण न निषेधोपपत्तिरित्याह — एतावद्विज्ञानेति । आदित्यादिकमेव मुख्यं ब्रह्मेति निषेधानर्थक्यं तदवस्थमित्याशङ्क्याऽऽह — अविद्येति । आदित्यादेर्मुख्यब्रह्मत्वासंभवान्निषेधस्योपपन्नत्वात्तत्सामर्थ्यसिद्धमर्थमुपन्यस्यति — तस्मादिति । उपगमनवाक्यमुत्थाप्य व्याचष्टे —
तच्चेति ॥१४॥ 【भाष्यम्】 【भाष्यम्】 “अब्राह्मणादध्ययनमापत्काले विधीयते । अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः ॥ नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् ॥” इत्यादीन्याचारविधिशास्त्राणि । आदित्यादिब्रह्मभ्यो विशेषमाह — यस्मिन्निति । प्राणस्य व्याप्रियमाणस्यैव संबोधनार्थं प्रयुक्तानामाश्रवणादापेषणाच्चोत्थानात्तस्याभोक्तृत्वं सिध्यतीति फलितमाह — तस्मादिति । तौ ह सुप्तमित्यादिसुप्तपुरुषगत्युक्तिमाक्षिपति — कथमिति । गार्ग्यकाश्याभिमतयोरुभयोरपि जागरिते करणेषु सन्निधानाविशेषात्तत्रैव किमिति विवेको न दर्शित इत्यर्थः । जागरिते करणेषु द्वयोः सन्निधानेऽपि साङ्कर्याद्दुष्करं विवेचनमिति परिहरति — जागरितेति । ब्रह्मशब्दादूर्ध्वं सशब्दमध्याहृत्य योजना । तर्हि स्वामिभृत्यन्यायेन तयोर्विवेकोऽपि सुकरः स्यादित्याशङ्क्याऽऽह — किन्त्विति । किं तद्विवेकावधारणकारणं तदाह — यद्द्रष्टृत्वमिति । कथं तदनवधारितविशेषमिति तदाह — तच्चेति । इहेति जागरितोक्तिः । यद्यपि जागरितं हित्वा सुप्ते पुरुषे विवेकार्थं तयोरुपगतिस्तत्र च भोक्तैव संबोधितः स्वनामभिस्तच्छब्दं श्रोष्यति नाचेतनस्तथापि नेष्टविवेकसिद्धिर्गार्ग्यकाश्याभीष्टात्मनोरुत्थितसंशयादिति शङ्कते — नन्विति । संशयं निराकरोति — नेत्यादिना । विशेषावधारणमेव विशदयति — यो हीत्यादिना । स्वव्यापारस्तुमुलशब्दादिः । यथानिर्ज्ञातो यथोक्तैर्विशेषणैरुपलब्धं रूपमनतिक्रम्य वर्तमानः । प्राणस्योक्तविशेषणवतः । स्वापेऽवस्थानेऽपि तस्य तदा भोगाभावस्तत्र भोक्त्रन्तराभ्युपगमादित्याशङ्क्याऽऽह — न चेति । तस्यैव भोक्तृत्वे फलितामाह — तस्मादिति । अस्तु तस्य प्राप्तशब्दश्रवणं तत्राऽह — न चेति । परिशेषसिद्धमर्थमाह — तस्मादिति । प्राणस्याभोक्तृत्वं व्यतिरेकद्वारा साधयति — भोक्तृस्वभावश्चेदिति । न च भुङ्क्ते तस्मादभोक्तेति शेषः । उक्तमर्थं दृष्टान्तेन स्पष्टयति — न हीत्यादिना । उलपं बालतृणम् । विपक्षे दोषमाह — न चेदिति । उक्तमर्थं संक्षिप्याह — यथेत्यादिना । प्राणस्याभोक्तृत्वमुपसंहरति — तस्मादिति । यद्यपि प्राणः स्वापे शब्दादीन्न प्रतिबुध्यते तथाऽपि भोक्तृस्वभावो भविष्यति नेत्याह — न हीति । संबोधनशब्दाश्रवणमतःशब्दार्थः । तस्य स्वनामाग्रहणं संबन्धाग्रहणकृतं नानात्मत्वकृतमिति शङ्कते — संबोधनार्थेति । शङ्कामेव विशदयति — स्यादेतदित्यादिना । देवतायाः संबन्धाग्रहणमयुक्तं सर्वज्ञत्वादित्युत्तरमाह — न देवतेति । तदेव प्रपञ्चयति — यस्य हीत्यादिना । तयेति ग्रहणकर्तृनिर्देशः । अवश्यमिति सूचितामनुपपत्तिमाह — अन्यथेति । आदिपदेन यागस्तुतिनमस्कारादि गृह्यते संव्यवहारोऽभिज्ञाभोगप्रसादादिः । संबोधननामाग्रहस्तत्कृतानात्मत्वदोषश्च त्वदिष्टात्मनोऽपि तुल्य इति शङ्कते — व्यतिरिक्तेति । संगृहीतं चोद्यं विवृणोति — यस्य चेति । तदा सुषुप्तिदशायां प्रतिपत्तिर्युक्तेति संबन्धः । तद्विषयत्वादित्यतिरिक्तात्मविषयत्वादिति यावत् । अस्त्येवातिरिक्तस्याऽऽत्मनः संबोधनशब्दश्रवणादीति चेन्नेत्याह — न च कदाचिदिति । त्वदिष्टात्मनः संबोधनशब्दाप्रतिपत्तावपि भोक्तृत्वाङ्गीकारस्तच्छब्दार्थः । अभोक्तृत्वे प्राणस्येति शेषः । यथा हस्तः पादोऽङ्गुलिरित्यादिनामोक्तौ मैत्रो नोत्तिष्ठति सर्वदेहाभिमानित्वेन तन्मात्रानभिमानित्वादेवं काश्येष्टात्मनः सर्वकार्यकरणाभिमानित्वादङ्गुलिस्थानीयप्राणमात्रे तदभावात्तन्नामाग्रहणं न त्वचेतनत्वादिति परिहरति — न तद्वत इति । तदेव स्फुटयति — यस्येति । प्राणमात्रे प्राणादिकरणवतोऽभिमानाभावे फलितमाह — तस्मादिति । चन्द्रस्यापि प्राणैकदेशत्वात्तन्नामभिः संबोधने कृत्स्नाभिमानी स नोत्तिष्ठति । अत्राप्यङ्गुल्यादिदृष्टान्तोपपतत्तेरित्याशङ्क्याऽऽह — न त्विति । गोत्ववत्तस्य सर्ववस्तुषु समाप्तेरहमिति सर्वत्राभिमानसंभवाच्चन्द्रनामोक्तावपि नाप्रतिपत्तिर्युक्तेत्यर्थः । प्राणवच्चिदात्मनोऽपि पूर्णतया सर्वात्माभिमानसिद्धेर्बोधाबोधौ तुल्यावित्याशङ्क्याऽऽह — देवतेति । विशिष्टस्यात्मनो देवतायामात्मतत्त्वाभिमानाभावादितरस्य च कूटस्थज्ञप्तिमात्रत्वेन तदयोगान्न तुल्यतेत्यर्थः । प्रकारान्तरेण प्राणस्याभोक्तृत्वं वारयन्नाशङ्कते — स्वनामेति । अयुक्तं प्राणेतरस्य भोक्तृत्वमिति शेषः । तदेव विवृणोति — सुषुप्तस्येति । विशेषं दर्शयन्नुत्तरमाह — नाऽऽत्मेति । काश्याभीष्टात्मनः सुप्तत्वविशेषप्रयुक्तं फलमाह — सुषुप्तत्वादिति । प्राणस्यापि संहृतकरणत्वात्स्वनामग्रहणमित्याशङ्क्य तस्यासुप्तत्वकृतं कार्यं कथयति — न त्विति । न हि करणस्वामिनि व्याप्रियमाणे करणोपरमः संभवति तस्य चानुपरतकरणस्य स्वनामाग्रहणमयुक्तमित्यर्थः । प्राणनामत्वेनाप्रसिद्धनामभिः संबोधनात्तदनुत्थानं नानात्मत्वादिति शङ्कते — अप्रसिद्धेति । तदेव स्पष्टयति — सन्ति हीति । प्रसिद्धमनूद्याप्रसिद्धं विधेयमिति लौकिको न्यायः । अप्रसिद्धसंज्ञाभिः संबोधनस्यायुक्तत्वे फलितमाह — तस्मादिति । चन्द्रदेवताऽस्मिन्देहे कर्त्री भोक्त्री चाऽऽत्मेति गार्ग्याभिप्रायनिषेधे देवतानामग्रहस्य तात्पर्यात्तद्ग्रहोऽर्थवानिति परिहरति — न देवतेति । तदेव प्रपञ्चयति — केवलेति । प्राणादिनामभिः संबोधनेऽपि तन्निराकरणं कर्तुं शक्यमित्याशङ्क्याऽऽह — न हीति । लौकिकनाम्नो देवताविषयत्वाभावादित्यर्थः । प्राणस्याभोक्तृत्वेऽपीन्द्रियाणां भोक्तृत्वमिति केचित्तान्प्रत्याह — प्राणेति । प्राणकरणचन्द्रदेवतानामभोक्तृत्वेऽपि देवतान्तरमत्र भोक्तृ स्यादित्याशङ्क्याऽऽह — देवतान्तरभावाच्चेति । भोक्तृत्वाशङ्कानुपपत्तिरिति पूर्वेण संबन्धः । तत्रोपक्रमविरोधं शङ्कते — नन्विति । दर्शितत्वाद्देवतान्तराभावो नास्तीति शेषः । स्वतन्त्रो देवतान्तरभेदो नास्तीति समाधत्ते — न तस्येति । प्राणे देवताभेदस्यैक्ये युक्तिमाह — अरनाभीति । न देवतान्तरस्य भोक्तृत्वं गार्ग्यस्य स्वपक्षविरोधादिति शेषः । सर्वश्रुतिष्वित्युक्तं ताः संक्षेपतो दर्शयति — एष इति । कति देवा याज्ञवल्क्येत्यादिना संक्षेपविस्ताराभ्यां सर्वेषां देवनां प्राणात्मन्येवैकत्वमुपपाद्यते । अतो न देवताभेदोऽस्तीत्याह — सर्वदेवानामिति । प्राणात् पृथग्भूतस्य देवस्याऽऽत्मातिरेके सत्यसत्त्वापत्तेश्च प्राणान्तर्भावः सर्वदेवताभेदस्येति वक्तुं चशब्दः । करणानामभोक्तृत्वे हेत्वन्तरमाह — तथेति । देवताभेदेष्विवेति यावत् । अनाशङ्का भोक्तृत्वस्येति शेषः । तत्रोदाहरणान्तरमाह — देहभेदेष्विवेति । न हि हस्तादिषु प्रत्येकं भोक्तृत्वं शङ्क्यते । तथा श्रोत्रलेत्रादिष्वपि न भोक्तृत्वाशङ्का युक्ता । तेषु स्मृतिरूपज्ञानस्येच्छाया योऽहं रूपमद्राक्षं स शब्दं श्रृणोमीत्यादिप्रतिसन्धानस्य चायोगादित्यर्थः । अनुपपत्तिमेव स्फुटयति — न हीति । क्षणिकविज्ञानस्य निराश्रयस्य भोक्तृत्वाशङ्काऽपि प्रतिसन्धानासंभवादेव प्रत्युक्तेत्याह — विज्ञानेति । प्राणादीनामनात्मत्वमुक्त्वा स्थूलदेहस्य तद्वक्तुं पूर्वपक्षयति — नन्विति । संघातो भूतचतुष्टयसमाहारः स्थूलो देह इति यावत् । गौरोऽहं पश्यामीत्यादिप्रत्यक्षेण तस्याऽऽत्मत्वदृष्टेरिति भावः । प्रमाणाभावादतिरिक्तकल्पना न युक्तेत्याह — किं व्यतिरिक्तेति । संघातस्याऽऽत्मत्वं दूषयति — नाऽऽपेषण इति । विशेषदर्शनं व्यतिरेकद्वारा विशदयति — यदि हीति । प्राणेन सहितं स्थूलशरीरमेव संघातस्तन्मात्रो यदि भोक्ता स्यादिति योजना । त्वत्पक्षेऽपि कथं पेषणापेषणयोरुत्थाने विशेषः स्यादित्याशङ्क्याऽऽह — संघातेति । तस्य संघातेन संबन्धविशेषाः स्वकर्मारभ्यत्वात्मीयत्वस्वप्राणपरिपाल्यत्वादयस्तेषामनेकत्वात्पेषणापेषणयोरिन्द्रियोद्भवाभिभवकृतवेदनायाः स्फुटत्वास्फुटत्वात्मको विशेषो युक्तः सुखदुःखमोहानामुत्तममध्यमाधमकर्मफलानां कर्मोद्भवाभिभवकृतविशेषसंभवाच्च यथोक्तो विशेषः संभवतीत्यर्थः । परपक्षेऽपि तथैव विशेषः स्यादित्याशङ्क्याऽऽह — नत्विति । न हि तत्र स्वकर्मारभ्यत्वादयः संबन्धविशेषाः कर्मफलभेदो वा युज्यते । संघातवादिनाऽतीन्द्रियकर्मानङ्गीकारात् । अतः संघातमात्रे भोक्तरि प्रतिबोधे विशेषासिद्धिरित्यर्थः । शब्दस्पर्शादीनां पटुत्वमतिपटुत्वं मान्द्यमतिमान्द्यमित्येवमादिना कृतो विशेषो बोधे दृश्यते सोऽपि संघातवादे न सिध्यतीत्याह — तथेति । अयुक्त इति यावत् । चकारो विशेषानुकर्षणार्थः । मा तर्हि प्रतिबोधे विशेषो भूदित्याशङ्क्याऽऽह — अस्ति चेति । विशेषदर्शनफलमाह — तस्मादिति । आदिशब्देन गुणादि गृह्यते अन्यः संघातादिति शेषः । देहादेरनात्मत्वमुक्त्वा प्राणस्यानात्मत्वे हेत्वन्तरमाह — संहतत्वाच्चेति । हेतुं साधयति — गृहस्येति । यथा नेमिरराश्च मिथः संहन्यन्ते तथैव प्राणस्य संहतिरित्याह — अरनेमिवच्चेति । किञ्च प्राणे नाभिस्थानीये सर्वं समर्पितमिति श्रूयते तद्युक्तं तस्य संहतत्वमित्याह — नाभीति । संहतत्वफलमाह — तस्मादिति । प्राणस्य गृहादिवत्पारार्थ्येऽपि संहतशेषित्वमेषितव्यं गृहादेस्तथा दर्शनादित्याशङ्क्याऽऽह — स्तम्भेति । स्वात्मना स्तम्भादीनां जन्म चोपचयश्चापचयश्च विनाशश्च नाम चाऽऽकृतिश्च कार्यं चेत्येते धर्मास्तन्निरपेक्षतया लब्धा सत्ता स्फुरणं च येन स च तेषु स्तम्भादिषु विषयेषु द्रष्टा च श्रोता च मन्ता च विज्ञाता च तदर्थत्वं तेषां तत्संघातस्य च दृष्ट्वा प्राणादीनामपि तथात्वं भवितुमर्हतीति मन्यामह इति संबन्धः । प्राणादिः स्वातिरिक्तद्रष्टृशेषः संहतत्वाद्गृहादिवदित्यनुमानात्सत्तायां तत्प्रतीतौ च प्राणादिविक्रियानपेक्षतया सिद्धो द्रष्टा निर्विकारो युक्तस्तस्य विकारवत्त्वे हेत्वभावादिति भावः । प्राणदेवतापारार्थ्यानुमानं व्याप्त्यन्तरविरुद्धमिति शङ्कते — देवतेति । प्राणदेवतायाश्चेतनत्वमेव कथमभ्युपगतं तत्राऽऽह — प्राणस्येति । तथाऽपि प्रकृतेऽनुमाने कथं व्याप्त्यन्तरविरोधस्तत्राऽऽह — चेतनावत्त्वे चेति । यो येन समः स तच्छेषो न भवति । यथा दीपो दीपान्तरेण तुल्यो न तच्छेष इति व्याप्तिविरोधः स्यादित्यर्थः । नायं विरोधः समाधातव्यः शेषशेषिभावस्यात्राप्रतिपाद्यत्वादिति परिहरति — न निरुपाधिकस्येति । तदेव स्फुटयति — क्रियेत्यादिना । उपनिषदारम्भो निरुपाधिकं स्वरूपं ज्ञापयितुमित्यत्र गमकमाह — ब्रह्मेति । द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चेत्यादिदर्शनादस्यामुपनिषदि सोपाधिकमपि ब्रह्म विवक्षितमित्याशङ्क्याऽऽह — न चेति । द्वित्ववादस्य कल्पितविषयवत्त्वान्नेति नेतीति निर्विशेषवस्तुसमर्पणादतोऽन्यदार्तमिति चोक्तेरत्र निरुपाधिकमेव ब्रह्म प्रतिपाद्यमिति भावः । शेषशेषिभावस्याप्रतिपाद्यत्वे फलितमाह — तस्मादिति । किमर्थं तर्हि शेषशेषिभावस्तत्र तत्रोक्तस्तत्राऽऽह — विशेषवतो हीति । सोपाधिकस्य शेषशेषिभावो विवक्षितस्तत्र च स्वामिभृत्यन्यायेन विशेषसंभवादसिद्धं समत्वमित्यर्थः । न विपरीतस्य निरुपाधिकस्य शेषशेषित्वमस्तीत्यत्र हेतुमाह — निरुपाख्यो हीति । शेषशेषित्वाद्यशेषविशेषशून्य इत्यर्थः । पाणिपेषवाक्यविचारार्थं संक्षिप्योपसंहरति —
आदित्यादिति ॥१५॥ 【भाष्यम्】 【भाष्यम्】 वृत्तमनूद्यान्तरग्रन्थमवतार्य व्याचष्टे — स एवमित्यादिना । एतत्स्वपनं यथा भवति तथेति यावत् । यत्रेत्युक्तं कालं विशिनष्टि — प्रागिति । तदा क्वाभूदिति संबन्धः । विज्ञानमय इत्यत्र विज्ञानं परं ब्रह्म तद्विकारो जीवस्तेन विकारार्थे मयडिति केचित्तन्निराकरोति — विज्ञानमिति । अन्तःकरणप्रायत्वमात्मनो न प्रकल्प्यते तस्यासंगस्य तेनासंबन्धादित्याक्षिपति — किं पुनरिति । असंगस्याप्याविद्यं बुद्ध्यादिसंबन्धमुपेत्य परिहरति — तस्मिन्निति । तत्साक्षित्वाच्च तत्प्रायत्वमित्याह — उपलब्धृत्वं चेति । नियामकाभावं शङ्कित्वा परिहरति — कथमित्यादिना । एकस्मिन्नेव वाक्ये पृथिवीमय इत्यादौ प्रायार्थत्वोपलम्भाद्विज्ञानमय इत्यत्रापि तदर्थत्वमेव मयटो निश्चितमित्युक्तमिदानीं जीवस्य परमात्मरूपविज्ञानविकारत्वस्य श्रुतिस्मृत्योरप्रसिद्धत्वाच्च प्रायार्थत्वमेवेत्याह — परेति । अप्रसिद्धमपि विज्ञानविकारत्वं श्रुतिवशादिष्यतामित्याङ्क्याऽऽह — य एष इति । य एष विज्ञानमय इत्यत्र विज्ञानमयस्यैष इति प्रसिद्धवदनुवादादप्रसिद्धविज्ञानविकारत्वं सर्वनामश्रुतिविरुद्धमित्यर्थः । जीवो ब्रह्मावयवस्तत्सदृशो वा तदर्थो मयडित्याशङ्क्याऽऽह — अवयवेति । ब्रह्मणो निरवयवत्वश्रुतेस्तस्यैव जीवरूपेण प्रवेशश्रवणाच्च प्रकृते वाक्ये मयटोऽवयवाद्यर्थायोगान्निर्विषयत्वासंभवाच्च पारिशेष्यात्पूर्वोक्ता प्रायार्थतैव तस्य प्रत्येतव्येत्यर्थः । विज्ञानमयपदार्थमुपसंहरति — तस्मादिति । यत्रेत्यादि व्याख्याय वाक्यशेषमवतार्य तात्पर्यमाह — क्वैष इति । स्वरूपज्ञापनार्थं प्रश्नप्रवृत्तिरित्येतत्प्रकटयति — प्रागिति । कार्याभावेनेत्युक्तं व्यनक्ति — न हीति । तस्मादित्यस्यार्थमाह — अकर्मप्रयुक्तत्वादिति । किं तथास्वाभाव्यमिति तदाह — यस्मिन्निति । द्वितीयप्रश्नार्थं संक्षिपति — यतश्चेति । उक्तेऽर्थे प्रश्नद्वयमुत्थापयति — एतदिति । तथास्वाभाव्यमेवेति संबन्धः । एतदित्यधिकरणमपादानं च गृह्यते । किमिति तं प्रत्युभयं पृच्छ्यते स्वकीयां प्रतिज्ञां निर्वोढुमित्यभिप्रेत्याऽऽह — बुद्धीति । ननु शिष्यत्वाद्गार्ग्येणैव प्रष्टव्यं स चेदज्ञत्वान्न पृच्छति तर्हि राज्ञस्तस्मिन्नौदासीन्यमेव युक्तं तत्राऽऽह — इत्येतदुभयमिति । तदु हेत्यादि व्याकरोति — एवमिति ।
एतदागमनं यथा भवति तथेति यावत् । तत्र क्रियापदयोर्यथाक्रमं वक्तुं प्रष्टुं वेत्याभ्यां संबन्धः ॥१६॥ 【भाष्यम्】 【भाष्यम्】 कूटस्थचिदेकरसोऽयमात्मा । तत्र क्रियाकारकफलव्यवहारो वस्तुतो नास्तीति विवक्षितोऽर्थस्तस्य प्रकटीकरणार्थं प्रस्तुतं प्रश्नद्वयमनुवदति — यत्रेति । उपाधिरन्तःकरणं तस्य स्वभावस्तदुपादानमज्ञानं तेन जनितमन्तःकरणगतमभिव्यक्तं विशेषविज्ञानं चैतन्याभासलक्षणं तेन करणेनेत्यर्थः । वागादीनां स्वस्वविषयगतं प्रतिनियतं प्रकाशनसामर्थ्यं विज्ञानमित्यर्थः । य एषोऽन्तरिति प्रतीकमादाय व्याचष्टे — मध्य इति । आकाशशब्दस्य भूताकाशविषयत्वमाशङ्क्याऽऽकाशोऽर्थान्तरत्वादिव्यपदेशादिति न्यायेनाऽऽह — आकाशशब्देनेति । सद्रूपे ब्रह्मण्येव सुषुप्तस्य शयनं भूताकाशे तु न भवतीत्यत्र च्छान्दोग्यश्रुतिसम्मतिमाह — श्रुत्यन्तरेति । कीदृगत्र शयनं विवशक्षितमित्याशङ्क्याऽऽह — लिङ्गेति । स्वापाधिकारे स्वाभाविकत्वमविद्यामात्रसम्मिश्रितत्वं ‘सति संपद्य न विदुः’ इत्यादिश्रुतेरिति द्रष्टव्यम् । तानि यदेत्यादिवाक्याकाङ्क्षापूर्वकमादत्ते — यदेत्यादिना । विज्ञानानि तत्साधनानीत्येतत् । पुरुष इति प्रथमा षष्ट्यर्थेऽतो वक्ष्यति — अस्य पुरुषस्येति । अश्वकर्णादिनाम्नो विशेषमाह — गौणमेवेति । गौणत्वं व्युत्पादयति — स्वमेवेति । नाम्नोऽर्थव्यभिचारस्यापि दृष्टत्वान्न तद्वशात्स्वापे स्वरूपावस्थानमिति शङ्कामनूद्य तद्गृहीत एवेत्यादि वाक्यमुत्थाप्य व्याचष्टे — सत्यमित्यादिना । का पुनरात्मनः स्वापावस्थायामसंसारित्वरूपेऽवस्थानमित्यत्र युक्तिरिहोक्ता भवति तत्राऽऽह — वागादीति । तदा सुषुप्त्यवस्थायां तेनाऽऽत्मना चैतन्याभासेन हेतुनेत्यर्थः । स्वापे करणोपसंहारं विवृणोति — कथमित्यदिना । तदुपसंहारफलं कथयति —
तस्मादिति ॥१७॥ 【भाष्यम्】 【भाष्यम्】 अन्वयव्यतिरेकाभ्यां वागाद्युपाधिकमात्मनः संसारित्वमुक्तं तत्र व्यतिरेकासिद्धिमाशङ्कते — नन्विति । व्यतिरेकासिद्धौ फलितमाह — तस्मादिति । स्वप्नस्य रज्जुसर्पवन्मिथ्यात्वेन वस्तुधर्मत्वाभावान्नाऽऽत्मनः संसारित्वमित्युत्तरमाह — न मृषात्वादिति । तदुपपादयन्नादौ स यत्रेत्यादीन्यक्षराणि योजयति — स प्रकृत इत्यादिना । अथात्र स्वप्नस्वभावो निर्दिश्यते न तस्य मिथ्यात्वं कथ्यते तत्राऽऽह — मृषैवेति । स्वप्ने दृष्टानां महाराजत्वादीनां जाग्रत्यनुवृत्तिराहित्यं व्यभिचारदर्शनम् । स्वप्नस्य मिथ्यात्वे सिद्धमर्थमाह — तस्मादिति । विमता लोका न मिथ्या तत्कालाव्यभिचारित्वाज्जाग्रल्लोकवदिति शङ्कते — ननु च यथेति । साध्यवैकल्यं वक्तुं सिद्धान्ती पाणिपेषवाक्योक्तं स्मारयति — ननु चेति । जाग्रल्लोकस्य मिथ्यात्वे फलितमाह — तत्कथमिति । प्रादुर्भावे जाग्रल्लोकस्य कर्तृत्वं प्राकरणिकमेष्टव्यम् । तत्र पूर्ववादी दृष्टान्तं साधयति — सत्यमित्यादिना । अन्वयव्यतिरेकाख्यो न्यायः । देहद्वयस्याऽऽत्मनश्च विवेकमात्रं प्रागुक्तं न तु प्राधान्येनाऽऽत्मनः शुद्धिरुक्तेति विभागमङ्गीकृत्य वस्तुतोऽसन्तमपि दृष्टान्तं सन्तं कृत्वा तेन स्वप्नसत्यत्वमाशङ्क्य तन्निरासेनात्यन्तिकी शुद्धिरात्मनः स्वप्नवाक्येनोच्यते तथा च जाग्रतोऽपि तथा मिथ्यात्वादात्मैकरसः शुद्धः स्यादित्याशयवानाह — इत्यसन्नपीति । पाणिपेषवाक्ये जाग्रन्मिथ्यात्वोक्त्याऽर्थादुक्ता शुद्धिरत्रापि सैवोच्यते चेत्पुनरुक्तिरित्याशङ्क्याह — सर्वो हीति । यत्किञ्चित्सामान्यात्पौनरुक्त्यं सर्वत्र तुल्यम् । अवान्तरभेदादपौनरुक्त्यं प्रकृतेऽपि समं पूर्वत्र शुद्धिद्वारस्याऽऽर्थिकत्वादिह वाचनिकत्वादिति भावः । जाग्रद्दृष्टान्तेन स्वप्नसत्यत्वचोद्यसंभवाद्वाच्यस्तस्य समाधिरिति पूर्ववादिमुखेनोक्त्वा समाधिमधुना कथयति — न तावदिति । विमता न द्रष्टुरात्मनो धर्मा वा तद्दृश्यत्वाद्घटवदित्यर्थः । किञ्च स्वप्नदृष्टानां जाग्रद्दृष्टादर्थान्तरत्वेन दृष्टेर्मिथ्यात्वमित्याह — महाराज इति । तेषां जाग्रद्दृष्टादर्थान्तरत्वमसिद्धमित्याशङ्क्याह — न चेति । प्रामाणसामग्र्यभावाच्च स्वप्नस्य मिथ्यात्वमित्याह — न चेति । योग्यदेशाभावाच्च तन्मिथ्यात्वमित्याह — न चेति । देहाद्बहिरेव स्वप्नदृष्ट्यङ्गीकाराद्योग्यदेशसिद्धिरित्याशङ्क्याऽऽह — देहस्थस्येति । एतदेव साधयितुं शङ्कयति — नन्विति । तत्र स यथेत्यादिवाक्यमुत्तरत्वेनावतार्य व्याचष्टे — न बहिरित्यादिना । यथाकामं तं तं काममनतिक्रम्येत्यर्थः । एतदिति क्रियाया ग्रहणस्य विशेषणमेतद्ग्रहणं यथा भवति तथेत्यर्थः । परिवर्तनमेव विवृणोति — कामेति । योग्यदेशाभावे सिद्धे सिद्धमर्थं दर्शयति — तस्मादिति । स्वप्नस्य मिथ्यात्वे तद्दृष्टान्तत्वेन जडत्वादिहेतुना जागरितस्यापि तथात्वं शक्यं निश्चेतुमित्याह — तथेति । द्वयोर्मिथ्यात्वे प्रतीचो विशुद्धिः सिद्धेत्युपसंहरति — तस्मादिति । अक्रियाकारकफलात्मक इति विशेषणं समर्थयते — यस्मादिति । जागरितं दृष्टान्तीकृत्य दार्ष्टान्तिकमाह — तथेति । द्रष्टृदृश्यभावे सिद्धे फलितमाह — तस्मादिति । अन्यत्वफलं कथयति —
विशुद्ध इति ॥१८॥ 【भाष्यम्】 【भाष्यम्】 स्वप्नेऽपि शुद्धिरुक्ता किं सुषुप्तिग्रहेणेत्याशङ्क्याऽऽह — यदेति । गतो भवति तदा सुतरामस्य शुद्धिः सिध्यतीति शेषः । तमेव सुप्तिकालं प्रश्नपूर्वकं प्रकटयति — कदेति । विकल्पं व्यावर्तयति — पूर्वं त्विति । वृत्तमनूद्य प्रश्नपूर्वकं सुषुप्तिगतिप्रकारं दर्शयति — एवं तावदिति । हितफलप्राप्तिनिमित्तत्वान्नाड्यो हिता उच्यते । तासां देहसंबन्धानामन्वयव्यतिरेकाभ्यामन्नरसविकारत्वमाह — अन्नेति । तासामेव मध्यमसंख्यां कथयति — ताश्चेति । तासां च हृदयसंबन्धिनीनां ततो निर्गत्य देहव्याप्त्या बहिर्मुखत्वमाह — हृदयादिति । ताभिरित्यादि व्याकर्तुं भूमिकाङ्करोति — तत्रेति । शरीरं सप्तम्यर्थः । शरीरे करणानां बुद्धितन्त्रत्वे किं स्यात्तदाह — तेनेति । तथाऽपि जीवस्य किमायातमित्याशङ्क्याऽऽह — तां विज्ञानमय इति । भोगशब्दो जागरविषयः । बुद्धिविकासमनुभवन्नात्मा जागर्तीत्युच्यते, तत्संकोचं चानुभवन्स्वपितीत्यत्र हेतुमाह — बुद्धीति । बुद्ध्यनुविधायित्वं परामृश्य ताभिरित्यादि व्याचष्टे — तस्मादिति । प्रत्यवसर्पणं व्यावर्तनम् । पदार्थमुक्त्वा वाक्यार्थमाह — तप्तमिवेति । कर्मत्वे देहस्य कर्तृत्वे चाऽऽत्मनो दृष्टान्तद्वयम् । हृदयाकाशे ब्रह्मणि शेते विज्ञानात्मेत्युक्त्वा पुरीतति शयनमाचक्षाणस्य पूर्वापरविरोधः स्यादित्याशङ्क्याऽऽह — स्वाभाविक इति । औपचारिकमिदं वचनमित्यत्र हेतुमाह — न हीति । इयमवस्थेति प्रकृता सुषुप्तिरुच्यते । उक्तेषु दृष्टान्तेषु विवक्षितमंशं दर्शयति — एषाञ्चेति । दुःखमपि तेषां प्रसिद्धमित्याशङ्क्याऽऽह — विक्रियमाणानां हीति । कुमारादिस्वापस्यैव दृष्टान्तत्वं किं न स्यादित्याशङ्क्याऽऽह — न तेषामिति । तत्स्वापस्य दृष्टान्तत्वमस्मत्स्वापस्य दार्ष्टान्तिकमिति विभागमाशङ्क्याऽऽह — विशेषाभावादिति । क्वैष तदाऽभूदिति प्रश्नस्योत्तरमुपपादितमुपसंहरति — एवमिति । स यथेत्यादेः संगतिं वक्तुं वृत्तं संकीर्तयति — क्वैष इति । किं पुनराद्यप्रश्ननिर्णयेन फलति त्वम्पदार्थशुद्धिरित्याह — अनेनेति । शुद्धिद्वारा ब्रह्मत्वं च तस्योक्तमित्याह — असंसारित्वञ्चेति । उत्तरग्रन्थस्य तात्पर्यमाह — कुत इति । पूर्वेणोत्तरस्य गतार्थत्वं शङ्कते — नन्विति । स्थित्यवधेरेव निर्धारितत्वादागत्यवधेर्निर्दिधारयिषया प्रश्ने प्रतिवचनं सावकाशमित्याशङ्क्याऽऽह — तथा सतीति । अपौरुषेयी श्रुतिरशेषदोषशून्यत्वादनतिशङ्कनीयेति सिद्धान्ती गूढाभिसन्धिराह — किं श्रुतिरिति । न श्रुतिराक्षिप्यते निर्दोषत्वादिति पूर्ववाद्याह — नेति । श्रुतेरनाक्षेपत्वे त्वदीयं चोद्यं निरवकाशमित्याह — किं तर्हीति । तस्य सावकाशत्वं पूर्ववादी साधयति — द्वितीयस्येति । पूर्ववादिन्यपादानादर्थान्तरे पञ्चम्याः शुश्रूषमाणे सत्येकदेशी ब्रवीति — एवं तर्हीति । कथमन्यार्थत्वं तदाह — अस्त्विति । तर्हि तस्यामपादानार्थत्वेन पुनरुक्तत्वामवस्थायामित्यर्थः । एकदेशिनं पूर्ववादी दूषयति — नेति । अपादानार्थतावदित्यपेरर्थः । तदेव सफुटयति — आत्मनश्चेति । जगतः सर्वस्य चेतनस्याचेतनस्य चेति वक्तुं चशब्दः । तर्हि भवत्वपादानार्था पञ्चमीत्याशङ्क्य पूर्ववादी पूर्वोक्तं स्मारयति — नन्विति । सर्वाविद्यातज्जनिर्मुक्तं प्रत्यगद्वयं ब्रह्म प्रश्नद्वयव्याजेन प्रतिपिपादयिषितमिति न पुनरुक्तिरिति सिद्धान्ती स्वाभिसन्धिमुद्घाटयति — नैष देष इति । यथोक्तं वस्तु प्रश्नाभ्यां विवक्षितमिति कुतो ज्ञातमित्याशङ्क्य तद्वक्तुं तार्तीयमर्थमनुवदति — इह हीति । विद्याविषयनिर्णयस्य कर्तव्यत्वमत्र न प्रतिभातीत्याशङ्क्याऽऽह — तन्निर्णयाय चेति । अन्यथा प्रक्रमभङ्गः स्यादिति भावः । किं तद्याथात्म्यं तदाह — तस्य चेति । कथं यथोक्तयाथात्म्यव्याख्यानोपयोगित्वं प्रश्नयोरित्याशङ्क्य तयोः श्रौतमर्थमाह — तत्रेति । प्रश्नप्रवृत्तिमुक्त्वा प्रतिवचनप्रवृत्तिमाह — सेति । निवर्तयितव्येति तत्प्रवृत्तिरिति शेषः । संप्रति प्रतिवचनयोस्तात्पर्यमाह — नायमिति । स्वात्मन्येवाभूदित्यत्र प्रमाणमाह — स्वात्मानमिति । सुषुप्तौ स्वात्मन्येव स्थितिरतःशब्दार्थः । प्रबोधदशायामात्मन एवाऽऽगमनापादानत्वमित्यत्र मानत्वेनान्तरश्रुतिमुत्थापयति — तच्छ्रुत्यैवेति । स्थित्यागत्योरात्मन एवावधित्वमित्यत्रोपपत्तिमाह — आत्मेति । वस्त्वन्तराभावस्यासिद्धिं शङ्कित्वा दूषयति —
नन्वित्यादिना ॥१९॥ 【भाष्यम्】 【भाष्यम्】 वृत्तानुवादपूर्वकमुत्तरश्रुतिनिरस्यामाशङ्कामाह — दर्शनवृत्तावित्यादिना । तत्रेति स्वप्नोक्तिः । कामादिसंबन्धश्चकारार्थः । निवर्त्यशङ्कासद्भावान्निवर्तकानन्तरश्रुतिप्रवृत्तिं प्रतिजानीते — अत इति । स्वात्माप्रविभक्तेनेत्युक्तमन्वयं व्यतिरेकद्वारा स्फोरयति — न चेति । असहायस्य कारणत्वे दृष्टान्तमुक्त्वा कूटस्थस्य तद्भावे दृष्टान्तमाह — यथाचेति । माध्यन्दिनश्रुतिमाश्रित्याह — सर्व एत इति । तस्येत्याद्यवतार्य व्याचष्टे — यस्मादित्यादिना । ननु प्रत्यग्भूतस्य ब्रह्मणो वाचकेषु शब्दान्तरेष्वपि सत्सु किमित्येतच्छब्दविषयमादरणं क्रियत तत्राऽऽह — शास्त्रेति । ब्राह्मणवाक्यार्थोऽपि कथं निश्चीयतामित्याशङ्क्याऽऽह — एतस्येति । उक्तमङ्गीकृत्य विशेषदृष्ट्या संशयानो विचारं प्रस्तौति — भवत्विति । सन्दिग्धं सप्रयोजनं च विचार्यमिति न्यायेन सन्देहमुक्त्वा विचारप्रयोजकं प्रयोजनं पृच्छति — किञ्चात इति । कस्मिन्पक्षे किं फलतीति पृष्टे प्रथमपक्षमनूद्य तस्मिन्फलमाह — यदीति । यद्विज्ञानान्मुक्तिस्तस्यैव ज्ञेयता न जीवस्येत्याशङ्क्याऽऽह — तद्विज्ञानादिति । ब्रह्मज्ञानादेव सा न संसारिज्ञानादित्याशङ्क्याऽऽह — स एवेति । तद्विद्या ब्रह्मविद्या तदेव ब्रह्म न संसारीत्याशङ्क्याऽऽह — तद्विद्यैवेति । आद्यकल्पीयफलसमाप्तावितिशब्दः । पक्षान्तरमनूद्य तस्मिन्फलमाह — अथेत्यादिना । किमत्र नियामकमित्याशङ्क्य ब्रह्म वा इदमित्यादि शास्त्रमित्याह — सर्वमेतदिति । ब्रह्मोपनिषत्पक्षे शास्त्रप्रामाण्यात्सर्वं समञ्जसं चेत्तथैवास्तु किं विचारेणेत्याशङ्क्य जीवब्रह्मणोर्भेदोऽभोदो वेति विकल्प्याऽऽद्ये दोषमाह — किन्त्विति । अभेदपक्षं दूषयति — संसारिणश्चेति । उपेदेशानर्थक्यादभेदपक्षानुपपत्तिरिति शेषः । विशेषानुपलम्भस्य संशयहेतुत्वमनुवदति — यत इति । पक्षद्वये फलप्रतीतिं परामृशति — एवमिति । अन्वयव्यतिरेककौशलं पाण्डित्यम् । एतदित्यैकात्म्योक्तिः । महत्त्वं मोहस्य विचारोत्थनिर्णयं विनाऽनुच्छिन्नत्वम् । तस्य स्थानमालम्बनं केनापि नोक्तं प्रतिवचनं यस्य किं तदैकात्म्यमिति प्रश्नस्य तस्य विषयभूतमिति यावत् । न हि येन केनचिदैकात्म्यं प्रष्टुं प्रतिवक्तुं वा शक्यते । ‘श्रवणायापि बहुभिर्यो न लभ्यः’(क.उ. १-२-७) इत्यादिश्रुतेरित्यर्थः । विचारप्रयोजकमुक्त्वा तत्कार्यं विचारमुपसंहरति — अत इति । संशयादिना विचारकार्यतामवतार्य पूर्वपक्षयति — न तावदिति । जगत्कर्ता हीश्वरो विवक्ष्यते प्रकृते च सुषुप्तिविशिष्टाज्जीवाज्जगज्जन्मोच्यते तस्मादीश्वरो जीवादतिरिक्तो नास्तीत्यर्थः । तदेव प्रपञ्चयति — नेत्यादिना । प्रकृतेऽपि जीवे जगत्कारणत्वमीश्वरस्यैवात्र श्रुतमित्याशङ्क्याऽऽह — न चेति । तत्र प्रकरणविरोधं हेतुमाह — विज्ञानेति । श्रुत्यन्तरवशादपि जीव एवात्र जगत्कर्तेत्याह — समानप्रकरणे चेति । श्रुत्यन्तरस्य च जीवविषयत्वं जगद्वाचित्वाधिकरणपूर्वपक्षन्यायेन द्रष्टव्यम् । वाक्यशेषवशादपि जीवस्यैव वेदितव्यत्वं वाक्यान्वयाधिकरणपूर्वपक्षन्यायेन दर्शयति — तथा चेति । जीवातिरिक्तस्य परस्य वेदितव्यस्याभावे पूर्वोत्तरवाक्यानामानुकूल्यं हेत्वन्तरमाह — तथा चेत्यादिना । इतश्च जीवस्यैव वेद्यतेत्याह — सर्वेति । तत्रैव हेत्वन्तरमाह — तथेति । स वै वेदितव्य इत्यत्र न स्पष्टं जीवस्य वेदितव्यत्वमिह तु स्पष्टमिति भेदः । स्वापावस्थाज्जीवाज्जगज्जन्मश्रुतेस्तस्यैव वेद्यत्वदृष्टेश्च जगद्धेतुरीश्वरो वेदान्तवेद्यो नास्तीत्युक्ते सेश्वरवादी चोदयति — अवस्थान्तरेति । चोद्यमेव विवृणोति — अथापीति । उक्तोपपत्तिसत्त्वेऽपीति यावत् । नावस्थाभेदाद्वस्तुभेदस्तथाऽननुभवादपराद्धान्ताच्चेति परिहरति — नादृष्टत्वादिति । अवस्थाभेदाद्वस्तुभेदाभावं दृष्टान्तेन स्पष्टयति — नहीति । तत्रैव हेत्वन्तरमाह — न्यायाच्चेति । जागरादिविशिष्टस्यैव स्वापवैशिष्ट्यात्तस्य संसारित्वान्नेश्वरोऽन्योऽस्तीत्युक्त्वा तदभावे वादिसंमतिमाह — तथा चेति । आदिशब्दो लोकायतादिसमस्तनिरीश्वरवादिसंग्रहार्थः — युक्तिशतैरिति । तस्य देहित्वेऽस्मदादितुल्यत्वात्तदभावे मुक्तवज्जगत्कर्तृत्वायोगाज्जीवानामेवादृष्टद्वरा तत्कर्तृत्वसंभवात्तस्याकिञ्चित्करत्वमित्यादिभिरित्यर्थः । जीवो जगज्जन्मादिहेतुर्न भवति तत्रासमर्थत्वापाषाणवत्तच्च संसारित्वादिति शङ्कते — संसारिणोऽपीति । ईश्वरस्येवेत्यपेरर्थः । अयुक्तं प्राणादिकर्तृत्वमिति शेषः । संग्रहवाक्यं विवृणोति — यन्महतेत्यादिना । कालात्ययापदेशेन दूषयति — न शास्त्रादिति । निरीश्वरवादमुपसंहरति — तस्मादिति । सेश्वरवादमुत्थापयति — यः सर्वज्ञ इत्यादिना । तान्पृथिव्याद्यभिमानिनः पुरुषान्निरुह्योत्पाद्य योऽतिक्रान्तवान्स एष सर्वविशेषशून्य इति यावत् । उदाहृताः श्रुतयः स्मृतयश्च । न्यायस्तु विचित्रं कार्यं विशिष्टज्ञानपूर्वकं प्रासादादौ तथोपलम्भादित्यादिः । प्रकरणमनुसृत्य जीवस्य प्राणादिकारणत्वमुक्तं स्मारयति — नन्विति । नेदं जीवस्य प्रकरणमिति परिहरति — नेत्यादिना । प्रतिवचनस्थाकाशशब्दस्य परविषयत्वमसिद्धमित्याङ्क्याऽऽह — क्वैष इति । इतश्चाकाशशब्दस्य परमात्मविषयतेत्याह — दहरोऽस्मिन्निति । य आत्माऽपहतपाप्मेत्यात्मशब्दप्रयोगः । प्रतिवचने परस्याऽऽकाशशब्दवाच्यत्वे फलितमाह — प्रकृत एवेति । तस्य प्रकृतत्वे लब्धमर्थमाह — तस्मादिति । इतश्च परस्मादेव प्राणादिसृष्टिरित्याह — संसारिण इति । यन्महता प्रपञ्चेनेत्यादाविति शेषः । अस्तीश्वरो जगत्कारणं ब्रह्म तदेव जीवस्य स्वरूपं तस्येयमुपनिषदिति सिद्धान्तमाशङ्क्य दूषयति — अत्र चेति । तृतीयोऽध्यायः सप्तम्यर्थः । का पुनः सा ब्रह्मविद्येति तत्राऽऽह — ब्रह्मविषयञ्चेति । इति ब्रह्मविद्यां प्रसिद्धमिति शेषः । चतुर्थे ब्रह्मविद्या प्रस्तुतेत्याह — ब्रह्मेति । सत्यमस्ति प्रस्तुता ब्रह्मविद्या सा जीवविद्याऽपि भवति जीवब्रह्मणोरभेदादित्याशङ्क्याऽऽह — तत्रेति । ब्रह्मविद्यायां प्रस्तुतायामिति यावत् । इदानीं न गृह्णीयादिति संबन्धः । मिथो विरुद्धत्वप्रतीत्यवस्थायामित्येतत् । अन्योन्यविरुद्धत्वं तच्छब्दार्थः । विपक्षे दोषमाह — परमिति । कथं तर्हीश्वरे मतिं कुर्यादित्याशङ्क्य स्वामित्वेनेत्याह — तस्मादिति । आदिपदं प्रदक्षिणादिसंग्रहार्थम् । ऐकात्म्यशास्त्रादात्ममतिरेव ब्रह्मणि कर्तव्येत्याशङ्क्याऽऽह — न पुनरिति । का तर्हि शास्त्रगतिस्ताऽऽह — ब्रह्मेति । मुख्यार्थत्वसंभवे किमित्यर्थवादतेत्याशङ्क्याऽऽह — सर्वेति । संसारित्वासंसारित्वादिना मिथो विरुद्धयोर्जीवेश्वरयोः शीतोष्णवदैक्यानुपपत्तिर्न्यायः । विज्ञानात्मविषयत्वं तटस्थेश्वरविषयत्वं चोपनिषदो निवारयन्परिहरति — नेत्यादिना । परस्यैव प्रवेशादिमन्त्रब्राह्मणवादानुदाहरति — पुर इत्यादिना । यत्त्वहं ब्रह्मेति न गृह्णीयादिति तत्राऽऽह — सर्वश्रुतिषु चेति । शास्त्रीयमप्येकत्वमनिष्टप्रसंगान्न स्वीकर्तव्यमिति शङ्कते — यदेति । परस्य संसारित्वे तदसंसारित्वशास्त्रानर्थक्यं फलितमाह — तथा चेति । संसारिणोऽनन्यस्यापि परस्यासंसारित्वे संसारित्वाभिमतोऽप्यसंसारीत्युपदेशानर्थक्यं तं विनैव मुक्तिसिद्धिरिति दोषान्तरमाह — असंसारित्वे चेति । तत्राऽऽद्यं दोषं विवृणोति — यदि तावदिति । ‘न लिप्यते लोकदुःखेन बाह्य’ इत्याद्याः श्रुतयः । ‘यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते’(भ.गी.१८-१७) इत्याद्याः स्मृतयः । कूटस्थासंगत्वादयो न्यायाः । द्वितीयं दोषप्रसंगमापाद्य प्रकटयति — अथेत्यादिना । दोषद्वये स्वयूथ्यसमाधिमुत्थापयति — अत्रेति । कथं तर्हि तस्य कार्ये प्रविष्टस्य जीवत्वं तत्राऽऽह — किं तर्हीति । जीवस्य ब्रह्मविकारत्वेऽपि ततो भेदान्नाहं ब्रह्मेति धीः अभेदे ब्रह्मणोऽपि संसारितेत्याशङ्क्याऽऽह — स चेति । तथाऽपि कथं शङ्कितदोषाभावस्तत्राऽऽह — येनेति । एवमिति भिन्नाभिन्नत्वपरामर्शः । सर्वमित्युपदेशादिनिर्देशः । एकदेशिमतं निराकर्तुं विकल्पयति — तत्रेति । एता गतय इत्येते पक्षा वक्ष्यमाणाः संभवन्ति न गत्यन्तरमित्यर्थः । यथा पृथिवीशब्दितं द्रव्यमनेकावयवसमुदायस्तथा भूतभौतिकात्मकानेकद्रव्यसमुदायः सावयवः परमात्मा तस्यैकदेशश्चैतन्यलक्षणस्तद्विकारो जीवः पृथिव्येकदेशमृद्विकारघटशरावादिवदित्येकः कल्पः । यथा भूमेरूषरादिदेशो नखकेशादिर्वा पुरुषस्य विकारस्तथाऽवयविनः परस्यैकदेशविकारो जीव इति द्वितीयः कल्पः । यथा क्षीरं स्वर्णं वा सर्वात्मना दधिरुचकादिरूपेण परिणमते तथा कृत्स्न एव परो जीवभावेन परिणमेदिति कल्पान्तरम् । तत्राऽऽद्यमनूद्य दूषयति — तत्रेत्यादिना । नानाद्रव्याणां समाहारो वा तानि वाऽन्योन्यापेक्षाणि परश्चेन्न तस्यैक्यं स्यान्नहि बहूनां मुख्यमैक्यं समाहारस्य च समुदायापरपर्यायस्य समुदायिभ्यो भेदाभेदाभ्यां दुर्भणत्वेन कल्पितत्वादित्यर्थः । तर्हि ब्रह्मणो मुख्यमैक्यं मा भूत्तत्राऽऽह — तथा चेति । न हि तन्नानात्वं कस्यापि सम्मतमिति भावः । द्वितीयमनूद्य निराकरोति — अथेत्यादिना । सर्वदैव पृथगवस्थितेष्ववयवेषु जीवेष्वनुस्यूतश्चेतनोऽवयवी परश्चेत्तर्हि यथा प्रत्यवयवं मलसंसर्गे देहस्य मलिनत्वं तथा परस्य जीवगतैर्दुःखैर्महद्दुःखं स्यादिति प्रथमकल्पनाद्द्वितीयाऽपि कल्पना न युक्तेत्यर्थः । तृतीयं प्रत्याह — क्षीरवदिति । ‘न जायते म्रियते वा विपश्चित्’ इत्याद्याः श्रुतयः । ‘न जायते म्रियते वा कदाचित्’ (भ. गी. २ । २०) इत्याद्याः स्मृतयः । श्रुत्यादिकोपस्येष्टत्वमाशङ्क्य वैदिकं प्रत्याह — स चेति । श्रुतिस्मृती विवेचयन्पक्षत्रयसाधारणं दूषणमाह — निष्कलमित्यादिना । कूटस्थस्य निरवयवस्य कार्त्स्नैकदेशाभ्यां परिणामासंभवो न्यायः । जीवस्य परमात्मैकदेशत्वे दोषान्तरमाह — अचलस्येति । एकदेशस्यैकदेशिव्यतिरेकेणाभावाज्जीवस्य स्वर्गादिषु गत्यनुपपत्तिरित्युक्तमन्यथा परस्यापि गतिः स्यान्नहि पटावयवेषु चलत्सु पटो न चलतीत्याह — परस्य वेति । उक्तं यदि तावत्परमात्मेत्यादाविति शेषः । जीवस्य संसारित्वेऽपि परस्य तन्नास्तीति शङ्कते — परस्येति । परस्य निरवयवत्वश्रुतेरवयवस्फुटनानुपपत्तिं मन्वानो दूषयति — तथाऽपीति । यत्र परस्यावयवः स्फुटयति तत्र तस्य क्षत्तं प्राप्नोति तदीयावयवसंसरणे च परमात्मनः प्रदेशान्तरेऽवयवानां व्यूहे सत्युपचयः स्यात्तथा च परस्यावयवा यतो निर्गच्छन्ति तत्र च्छिद्रताप्राप्तिर्यत्र च ते गच्छन्ति तत्रोपचयः स्यादित्यकायमव्रणमस्थूलमनण्वह्रस्वमित्यादिवाक्यविरोधो भवेदित्यर्थः । परस्यैकदेशो विज्ञानमात्मेति पक्षे दुःखित्वमपि तस्य दुर्वारमापतेदिति दोषान्तरमाह — आत्मावयवेति । मृल्लोहविस्फुलिङ्गदृष्टान्तश्रुतिवशात्परस्यावयवा जीवाः सिध्यन्तीत्यतो जीवानां परैकदेशत्वे नोक्तो दोषोऽवतरति युक्त्यपेक्षया श्रुतेर्बलवत्त्वादिति शङ्कते — अग्निविस्फुलिङ्गादीति । शास्त्रार्थो युक्तिविरुद्धो न सिध्यतीति दूषयति — न श्रुतेरिति । नञर्थं विवृणोति — न शास्त्रमिति । हेतुभागमाकाङ्क्षापूर्वकं विभजते — किं तर्हीति । स्मृत्यादिव्यावृत्त्यर्थमज्ञातानामित्युक्तम् । अस्तु शास्त्रमज्ञातार्थज्ञापकं तथाऽपि परस्य नास्ति सावयवत्वमित्यत्र किमायातमिति पृच्छति — किञ्चात इति । शास्त्रस्य यथोक्तस्वभावत्वे यत्परस्य निरवयवत्वं फलति तदुच्यमानं समाहितेन श्रोतव्यमित्याह — शृण्विति । तत्र प्रथमं लोकाविरोधेन शास्त्रप्रवृत्तिं दर्शयति — यथेति । आदिपदेन भावाभावादि गृह्यते । पदार्थेष्वेव भोक्तृपारतन्त्र्याद्धर्मशब्दः तेषां लोकप्रसिद्धपदार्थानां दृष्टान्तानामुपन्यासेनेति यावत् । तदविरोधि लोकप्रसिद्धपदार्थाविरोधीत्यर्थः । वस्त्वन्तरं निरवयवादि दार्ष्टान्तिकम् । तदविरोध्येवेत्येवकारस्य व्यावर्त्यमाह — न लौकिकेति । विपक्षे दोषमाह — उपादीयमानोऽपीति । सामान्येनोक्तमर्थं दृष्टान्तविशेषनिविष्टतया स्पष्टयति — न हीति । अग्नेरुष्णत्वमादित्यस्य तापकत्वमन्यथेत्युच्यते । ननु लौकिकं प्रमाणं लौकिकपदार्थाविरुद्धमेव स्वार्थं समर्पयति वैदिकं पुनरपौरुषेयं तद्विरुद्धमपि स्वार्थं प्रमापयेदलौकिकविषयत्वादत आह — न चेति । ननु श्रुतेरज्ञातज्ञापकत्वे लोकानपेक्षत्वात्तद्विरोधेऽपि का हिनिस्तत्राऽऽह — न चेति । लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधक इति न्यायात्तदनपेक्षा श्रुतिर्नाज्ञातं ज्ञपयितुमलमित्यर्थः । शास्त्रस्य लोकानुसारित्वे सिद्धे फलितमाह — तस्मादिति । प्रसिद्धो न्यायो लौकिको दृष्टान्तः । न हि नित्यस्याऽऽकाशादेः सावयवत्वं परश्च नित्योऽभ्युपगतस्तन्न तस्य सावयवत्वेनांशांशित्वकल्पना वस्तुतः संभवति लोकविरोधादित्यर्थः । जीवस्य परांशत्वानङ्गीकारे श्रुतिस्मृत्योर्गतिर्वक्तव्येति शङ्कते — क्षुद्रा इति । तयोर्गतिमाह — नेत्यादिना । विस्फुलिङ्गे दर्शितं न्यायं सर्वत्रांशमात्रेऽतिदिशति — तथा चेति । दृष्टान्ते यथोक्तनीत्या स्थिते दार्ष्टान्तिकमाह — तत्रेति । परमात्मना सह जीवस्यैकत्वविषयं प्रत्ययमाधातुमिच्छन्तीति तथोक्ताः । तेषामेकत्वप्रत्ययावतारहेतुत्वे हेत्वन्तरं संगृह्णाति — उपक्रमेति । तदेव स्फुटयति — सर्वासु हीति । उक्तमर्थमुदाहरणनिष्ठतया विभजते — तद्यथेति । इहेति प्रकृतोपनिषदुक्तिः । आदिशब्देनांशांशित्वादि गृह्यते । विवृतं संग्रहवाक्यमुपसंहरति — तस्मादिति । तेषां स्वार्थनिष्ठत्वे दोषं वदन्नेकत्वप्रत्ययार्थत्वे हेत्वन्तरमाह — अन्यथेति । ‘संभवत्येकवाक्यत्वे वाक्यभेदश्च नेष्येते’ इति न्यायेनोक्तं प्रपञ्चयति — सर्वोपनिषत्स्विति । किञ्च तेषां स्वार्थनिष्ठत्वे श्रुतफलाभावात्फलान्तरं कल्पनीयम् । न चैकत्वप्रत्ययविषयतया तत्फले निराकाङ्क्षेषु तेषु तत्कल्पना युक्ता । दृष्टे सत्यदृष्टकल्पनानवकाशादित्याह — फलान्तरञ्चेति । उत्पत्त्यादिश्रुतीनां स्वार्थनिष्ठत्वासंभवे फलितमुपसंहरति — तस्मादिति । तत्त्वमस्यादिवाक्यमैक्यपरं तच्छेषः सृष्ट्यादिवाक्यमित्युक्तेऽर्थे द्रविडाचार्यसम्मतिमाह — अत्र चेति । तत्र दृष्टान्तरूपामाख्यायिकां प्रमाणयति — कश्चिदिति । जातमात्रे प्रागवस्थायामेव राजाऽसीत्यभिमानाभिव्यक्तेरित्यर्थः । ताभ्यां तत्परित्यागे निमित्तविशेषस्यानिश्चितत्वद्योतनार्थं किलेत्युक्तम् । व्याधिजाति प्रत्ययः तत्प्रयुक्तो व्याधोऽस्मीत्यभिमानो यस्य स तथा व्याधजातकर्माणि तत्प्रयुक्तानि मांसविक्रयणादीनि । राजाऽस्मीत्यभिमानपूर्वकं तज्जातिप्रयुक्तानि परिपालनादीनि कर्माणि । अज्ञानं तत्कार्यं चोक्त्वा ज्ञानं तत्फलं च दर्शयति — यदेत्यादिना । बोधनप्रकारमभिनयति — न त्वमिति । कथं तर्हि शबरवेश्मप्रवेशस्तत्राऽऽह — कथञ्चिदिति । राजाऽहमस्मीत्यभिमानपूर्वकमात्मनः पितृपैतामहीं पदवीमनुवर्तत इति संबन्धः । दार्ष्टान्तिकरूपामाख्यायिकामाचष्टे — तथेति । जीवस्य परस्माद्विभागे निमित्तमज्ञानं तत्कार्यञ्च प्रसिद्धमिति द्योतयितुं किलेत्युक्तम् । संसारधर्मानुवर्तने हेतुमाह — परमात्मतामिति । उक्ताविद्यातत्कार्यविरोधिनीं ब्रह्मात्मविद्यां लम्भयति — न त्वमिति । राजपुत्रस्य राजाऽस्मीति प्रत्ययवद्वाक्यादेवाधिकारिणि ब्रह्मास्मीति प्रत्ययश्चेत्कृतं विस्फुलिङ्गादिदृष्टान्तश्रुत्येत्याशङ्क्याऽऽह — अत्रेति । तथाऽपि कथं ब्रह्मप्रत्ययदार्ढ्यं तत्राऽऽह — विस्फुलिङ्गस्येति । दृष्टान्तेष्वेकत्वदर्शनं तस्मादिति परामृष्टम् । उत्पत्त्यादिभेदे नास्ति शास्त्रतात्पर्यमित्यत्र हेत्वन्तरमाह — सैन्धवेति । चकारोऽवधारणादिति पदमनुकर्षति । संगृहीतमर्थं विवृणोति — यदि चेत्यादिना । निन्दावचनं च न प्रायोक्ष्यतेति संबन्धः । एकत्वस्यावधारणफलमाह — तस्मादिति । एकत्वस्य भेदसहत्वं वारयितुमेकरूपविशेषणम् । आदिशब्देन प्रवेशनियमने गृह्येते । न तत्प्रत्ययकरणायेत्यत्र तच्छब्देनोत्पत्त्यादिभेदो विवक्षितः । किञ्च परस्यैकदेशो विज्ञानात्मेत्यत्र तदेकदेशः स्वाभाविको वा स्यादौपाधिको वेति विकल्प्याऽऽद्यं दूषयति — न चेति । विपक्षे दोषमाह — अदेशस्येति । द्वितीयमुत्थपयति — अथेति । एकदेशस्यौपाधिकत्वपक्षे परस्मिन्विवेकवतां तदखण्डत्वबुद्धिभाजां तदेकदेशो वस्तुतः पृथग्भूत्वा व्यवहारालम्बनमिति नैव बुद्धिर्जायत औपाधिकस्य स्फटिकलौहित्यवन्मिथ्यात्वादित्युत्तरमाह — न तदेति । ननु जीवे कर्ताऽहं भोक्ताऽहमिति परिच्छिन्नधीः सर्वेषामुपलभ्यते । सा च तस्य वस्तुतोऽपरिच्छिन्नब्रह्ममात्रत्वान्मञ्चक्रोशनधीवदुपचरिता । तस्मादुभयेषामुक्तात्मबुद्धिदर्शनात्मपरमात्मैकदेशत्वं जीवस्य दुर्वारमिति चोदयति — अविवेकिनामिति । तत्राविवेकिनां यथोक्ता बुद्धिरुपचरिता न भवत्यतस्मिंस्तद्बुद्धित्वेनाविद्यात्वादिति परिहरति — नेत्यादिना । तथाऽपि विवेकिनामीदृशधीरुपचरितेति चेत्तत्राऽऽह — विवेकिनाञ्चेति । तेषां संव्यवहारोऽभिज्ञाभिवदनात्मकस्तावन्मात्रस्याऽऽलम्बनमाभासभूतोऽर्थस्तद्विषयत्वात्तद्बुद्धेरपि मिथ्याबुद्धित्वादुपचरितत्वासिद्धिरित्यर्थः । विवेकिनामविवेकिनाञ्चाऽऽत्मनि परिच्छिन्नधीरुपलब्धेत्येतावता न तस्य वस्तुतो ब्रह्मांशत्वादि सिध्यतीत्येतद्दृष्टान्तेन साधयति — यथेति । अविवेकिनामिवेत्यपेरर्थः । ब्रह्मणि वस्तुतोंऽशादिकल्पना न कर्तव्येति दार्ष्टान्तिकमुपसंहरति — अत इति । अंशांशिनोर्विशदीकरणमेकदेशैकदेशीति । अतःशब्दोपात्तमेव हेतुं स्फुटयति — सर्वकल्पनेति । सर्वासां कल्पनानामपनयनमेवार्थः सारत्वेनाभीष्टस्तत्परत्वादुपनिषदां तदेकसमाधिगम्ये ब्रह्मणि न कदाचिदपि कल्पनाऽस्तीत्यर्थः । उपनिषदां निर्विकल्पकवस्तुपरत्वे फलितमाह — अतो हित्वेति । ब्रह्मणो निर्विशेषत्वेऽप्यात्मनस्तदेकदेशस्य सविशेषत्वं किं न स्यादित्याशङ्क्याऽऽह — नाऽऽत्मानमिति । आत्मा निर्विशेषश्चेत्कथं तस्मिन्व्यवहारत्रयमित्याशङ्क्याऽऽह — तस्मादिति । आत्मनि सर्वो व्यवहारो नामरूपोपाधिप्रयुक्त इत्यत्र प्रमाणमाह — रूपं रूपमिति । असंसारधर्मिणीत्युक्तं विशेषणं विशदयति — न स्वत इति । भ्रान्त्या संसारित्वमात्मनीत्र मानमाह — ध्यायतीति । कूटस्थत्वासंगत्वादिर्न्यायः । परमात्मनः सांशत्वपक्षो निराकृतः । ननु तस्य निरंशत्वेऽपि कुतो जीवस्य तन्मात्रत्वं तदेकदेशत्वादिसंभवादत आह — एकदेश इति । कथं तर्हि ‘पादोऽस्य विश्वा भूतानि’(ऋ. १० । ८ । ९० । ३) ‘ममैवांशो जीवलोके’(भ. गी. १५ । ७) ‘अंशो नानाव्यपदेशात्’(ब्र. सू. २-३-४२.) ‘ सर्व एत आत्मनो व्युच्चरन्ति’ इति श्रुतिस्मृतिवादास्तत्राऽऽह — अंशादीति । न्यायागमाभ्यां जीवेश्वरयोरंशांशित्वादिकल्पनां निराकृत्य वेदान्तानामैक्यपरत्वे स्थिते सति द्वैतासिद्धिः फलतीत्याह — सर्वोपनिषदामिति । एकत्वज्ञानस्य सनिदानद्वैतध्वंसित्वमथशब्दार्थः । प्रकृतं ज्ञानं तत्पदेन परामृश्यते । इत्यद्वैतमेव तत्त्वमिति शेषः । किमर्थमिति प्रश्नं मन्वानो द्वैतिनां मतमुत्थापयति — कर्मकाण्डेति । वेदान्तानामैक्यपरत्वेऽपि कथं तत्प्रामाण्यविरोधप्रसंगस्तत्राऽऽह — कर्मेति । तथाऽपि कथं विरोधावकाशः स्यादित्याशङ्क्याऽऽह — विज्ञानात्मेति । केवलाद्वैतपक्षे कर्मकाण्डविरोधमुक्त्वा तत्रैव ज्ञानकाण्डविरोधमाह — कस्य वेति । परस्य नित्यमुक्तत्वादन्यस्य स्वतः परतो वा बद्धस्याभावाच्छिष्याभावस्तथा चाधिकार्यभावादुपनिषदारम्भासिद्धिरित्यर्थः । कर्मकाण्डास्य काण्डान्तरस्य च प्रामाण्यानुपपत्तिर्विज्ञानात्माभेदं कल्पयतीत्यर्थापत्तिद्वयमुक्तं तत्र द्वितीयामर्थापत्तिं प्रपञ्चयति — अपि चेति । का पुनरुपदेशस्यानुपपत्तिस्तत्राऽऽह — बद्धस्येति । तदभाव इत्यत्र तच्छब्दो बद्धमधिकरोति । निर्विषयं निरधिकारम् । किञ्च यद्यर्थापत्तिद्वयमुक्त्वा विधयोत्तिष्ठति तर्हि भेदस्य दुर्निरूपत्वात्कथं कर्मकाण्डं प्रमाणमिति यद्ब्रह्मवादिना कर्मवादी चोद्यते तद्ब्रह्मवादस्य कर्मवादेन तुल्यम् । ब्रह्मवादेऽपि शिष्यशासित्रादिभेदाभावे कथमुपनिषत्प्रामाण्यमित्याक्षेप्तुं सुकरत्वाद्यश्चोपनिषदां प्रतीयमानं शिष्यशासित्रादिभेदमाश्रित्य प्रामाण्यमिति परिहारः स कर्मकाण्डस्यापि समानः । तत्रापि प्रातीतिकभेदमादाय प्रामाण्यस्य सुप्रतिपन्नत्वात् न च भेदप्रतीतिर्भ्रान्तिर्बाधाभावादित्यभिप्रेत्याऽऽह — एवं तर्हीति । चोद्यसाम्यं विवृणोति — येनेति । इति चोद्यसाम्यात्परिहारस्यापि साम्यमिति शेषः । ननु कर्मकाण्डं भेदपरं ब्रह्मकाण्डमभेदपरं प्रतिभाति न च वस्तुनि विकल्पः संभवत्यतोऽन्यतरस्याऽप्रामाण्यमत आह — एवं तर्हीति । तुल्यमुपनिषदामपि स्वार्थाविघातकत्वमित्याशङ्क्याऽऽह — उपनिषदामिति । स्वार्थः शब्दशक्तिवशात्प्रतीयमानः सृष्ट्यादिभेदः । यत्तूच्यते कर्मकाण्डस्य व्यावहारिकं प्रामाण्यं न तात्त्विकम् , तात्त्विकं तु काण्डान्तरस्येति तत्राऽऽह — न हीति । यद्धि प्रामाण्यस्य व्यावहारिकत्वं तदेव तस्य तात्त्विकत्वं न हि प्रमाणं तत्त्वं च नाऽऽवेदयति व्याघातादित्यभिप्रेत्य दृष्टान्तमाह — न हीति । स्वार्थविघातात्कर्मकाण्डविरोधाच्चोपनिषदामप्रामाण्यमित्युक्तमुपसंहर्तुमितिशब्दः । उपनिषदप्रामाण्ये हेत्वन्तरमाह — प्रत्यक्षादीति । प्रत्यक्षादीनि निश्चितानि भेदप्रतिपत्त्यर्थानि प्रमाणानि तैरिति विग्रहः । अध्ययनविध्युपादापितानां कुतस्तासामप्रामाण्यमित्याशङ्क्याऽऽह — अन्यार्थता वेति । सिद्धान्तयति — नेत्यादिना । तदेव स्फुटयितुं सामान्यन्यायमाह — प्रमाणस्येति । स्वार्थे प्रमोत्पादकत्वाभावेऽपि प्रामाण्यमिच्छन्तं प्रत्याह — अन्यथेति । यथोक्तप्रयोजकप्रयुक्तं प्रामाण्यमप्रामाण्यं वेत्येतस्मिन्पक्षे किं फलतीति पृच्छति — किञ्चेति । तत्र किमुपनिषदः स्वार्थं बोधयन्ति न वेति विकल्प्याऽऽद्यमनूद्य दूषयति — यदि तावदिति । द्वितीयमुत्थाप्य निराकरोति — नेत्यादिना । अग्निर्यथा शीतं न करोति तथोपनिषदोऽपि ब्रह्मैकत्वे प्रमां न कुर्वन्तीति वदन्तं प्रति प्रतिबन्दिग्रहो न युक्तोऽनुभवविरोधादित्यशङ्क्याऽऽह — यदीति । तर्हि स्वार्थे प्रमितिजनकत्वाद्वाक्यस्य प्रामाण्यं स्यादित्याशङ्क्याऽऽह — प्रतिषेधेति । उपनिषदप्रामाण्ये भवद्वाक्याप्रामाण्यं तत्प्रामाण्ये तूपनिषत्प्रामाण्यं दुर्वारमिति साम्ये प्राप्ते व्यवस्थापकः समाधिर्वक्तव्य इत्याह — अत्रेति । उक्तमेवार्थं चोद्यसमाधिभ्यां विशदयति — नन्वित्यादिना । प्रतिषेधमङ्गीकृत्योक्ता । यथोक्तोपनिषदुपलम्भे सति तस्य निरवकाशत्वात्प्रद्वेषानुपपत्तिरित्याह — प्रतिषेधेति । उपनिषदुत्थाया धियो वैफल्यात्तासाममानतेत्याशङ्क्याऽऽह — शोकेति । एकत्वप्रतिपत्तिस्तावदापातेन जायते । सा च विचारं प्रयुज्य मननादिद्वारा दृढीभवति । सा पुनरशेषं शोकादिकमपनयतीति पारम्पर्यजनितं फलमिति द्रष्टव्यम् । स्वार्थे प्रमाजनकत्वादुपनिषदां प्रामाण्यमित्युक्तमुपसंहरति — तस्मादिति । प्रामाण्यहेतुसद्भावादुपनिषदां प्रामाण्यं प्रतिपाद्य तदप्रामाण्यं परोक्तमनुवदति — यच्चोक्तमिति । कथं हि तासां स्वार्थविघातकत्वं किं ताभ्यो ब्रह्मैकमेवाद्वितीयं नैव चेति प्रतिपत्तिरुत्पद्यते किं वा काश्चिद्ब्रह्मैकत्वप्रतिपत्तिमन्याश्चोपनिषदस्तत्प्रतिषेधं कुर्वन्तीति विकल्प्याऽऽद्यं दूषयति — तदपि नेति । तदेव प्रपञ्चयति — न हीति । एकस्य वाक्यस्यानेकार्थत्वमङ्गीकृत्य वैधर्म्योदाहरणमुक्तमाह — अभ्युपगम्येति । तस्याङ्गीकारवादत्वे हेतुमाह — न त्विति । उक्तमर्थं व्यतिरेकद्वारा विवृणोति — सति चेति । भवत्वेकस्य वाक्यस्यानेकार्थत्वं नेत्याह — न त्वति । कस्तर्हि तेषां समयस्तत्राऽऽह — अर्थैकत्वादिति । तदुक्तं प्रथमे तन्त्रे – अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विविभागे स्यादिति । द्वितीयं दूषयति — न चेति । एकस्य वाक्यस्यानेकार्थत्वं लोके दृष्टमित्याशङ्क्याऽऽह — यत्त्विति । तदेकदेशस्येत्यादिवाक्यं विवृणोति — अग्निरिति । अनुवादकबोधकभागयोरेकवाक्यत्वाभावं फलितमाह — अत इति । हेत्वर्थमुक्तमेव स्फुटयति — प्रमाणान्तरेति । शीतः शैशिरोऽग्निरित्येद्बोधकमेव चेद्वाक्यं कथं तर्हि तत्र बोधकस्य विरुद्धार्थधीरित्याशङ्क्याऽऽह — यत्त्विति । स्वार्थविघातकत्वादप्रामाण्यमुपनिषदामित्येतन्निराकृत्य चोद्यन्तरमनूद्य निराकरोति — यच्चेत्यादिना । तस्मिन्नितीष्टार्थप्रापकसाधनोक्तिः । ननूपनिषद्वाक्यं ब्रह्मात्मैकत्वं साक्षात्प्रतिपादयदर्थात्कर्मकाण्डप्रामाण्यविघातकमिति चेत्तत्र तदप्रामाण्यमनुपपत्तिलक्षणं विपर्यासलक्षणं वेति विकल्प्याऽऽद्यमनूद्य दूषयति — न चेति । विदितपदतदर्थसंगतेर्वाक्यार्थन्यायविदस्तदर्थेषु प्रमोत्पत्तिदर्शनादित्यर्थः । स्वार्थे प्रमामुत्पादयति वाक्यं मानान्तरविरोधादप्रमाणमित्याशङ्क्याऽऽह — असाधारणे चेदिति । स्वगोचरशूरत्वात्प्रमाणानामित्यर्थः । विमतं न प्रमोत्पादकं प्रमाणाहृतविषयत्वादनुष्णाग्निवाक्यवदिति शङ्कते — ब्रह्मेति । प्रत्यक्षविरोधादनुमानमनवकाशमिति परिहरति — नेत्यादिना । इतश्च कर्मकाण्डस्य नाप्रामाण्यमिति वदन् द्वितीयं प्रत्याह — अपि चेति । यथाप्राप्तस्येत्यस्यैव व्याख्यानमविद्याप्रत्युपस्थापितस्येति । साध्यसाधनसंबन्धबोधकस्य कर्मकाण्डस्य न विपर्यासो मिथ्यार्थत्वेऽपि तस्यार्थक्रियाकारित्वसामर्थ्यानपहारात्प्रामाण्योपपत्तेरिति भावः । ननु कर्मकाण्डस्य मिथ्यार्थत्वे मिथ्याज्ञानप्रभवत्वादनर्थनिष्ठत्वेनाप्रवर्तकत्वादप्रामाण्यमित्यत आह — यथेति । विमतमप्रमाणं मिथ्यार्थत्वाद्विप्रलम्भकवाक्यवदित्याशङ्क्य व्यभिचारमाह — यथाकाम्येष्विति । अग्निहोत्रादिषु काम्येषु कर्मसु मिथ्याज्ञानजनितं मिथ्याभूतं काममुपादाय शास्त्रप्रवृत्तिवन्नित्येष्वपि तेषु साधनमसदेवाऽऽदाय शास्त्रं प्रवर्ततां तथापि बुद्धिमन्तो न प्रवर्तिष्यन्ते वेदान्तेभ्यस्तन्मिथ्यात्वावगमादित्याशङ्क्याऽऽह — न चेति । अविद्यावतां कर्मसु प्रवृत्तिमाक्षिपति — विद्यावतामेवेति । द्रव्यदेवतादिज्ञानं वा कर्मसु प्रवर्तकमिति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूषयति — नेत्यादिना । कर्मकाण्डप्रामाण्यानुपपत्तिरित्याद्यामर्थापत्तिं निराकृत्य द्वितीयामर्थापत्तिमतिदेशेन निराकरोति — एतेनेति । कर्मकाण्डस्याज्ञं प्रति सार्थकत्वोपपादनेनेति यावत् । ननु कर्मकाण्डं साध्यसाधनसंबन्धं बोधयत्प्रवृत्त्यादिपरमतो रागादिवशात्तदयोगाच्छास्त्रीयप्रवृत्त्यादिविषयस्य द्वैतस्य सत्यत्वमन्यथा तद्विषयत्वानुपपत्तिरित्यर्थापत्त्यन्तरमायातमिति तत्राऽऽह — पुरुषेच्छेति । न प्रवृत्तिनिवृत्ती शास्त्रवशादिति शेषः । तदेव स्फुटयति — अनेका हीति । शास्त्रस्याकारकत्वात्प्रवर्तकत्वाद्यभावमुक्त्वा तत्रैव युक्त्यन्तरमाह — दृश्यन्ते हीति । तर्हि शास्त्रस्य किं कृत्यमित्याशङ्क्याऽऽह — तस्मादिति । तत्र संबन्धविशेषोपदेशे सतीति यावत् । यथारुचि पुरुषाणाम्प्रवृत्तिश्चेत्परमपुरुषार्थं कैवल्यमुद्दिश्य सम्यग्ज्ञानसिद्धये तदुपायश्रवणादिषु संन्यासपूर्विका प्रवृत्तिर्बुद्धिपूर्वकारिणामुचितेत्याशङ्क्याऽऽह — तथेति । रागादिवैचित्र्यानुसारेणेति यावत् । उक्तं हि – “अपि वृन्दावने शून्ये शृगालत्वं स इच्छति । न तु निर्विषयं मोक्षं गन्तुमर्हति गौतम ॥” इत्यादि । तर्हि कथं पुरुषार्थविवेकसिद्धिस्तत्राऽऽह — यस्येति । पुरुषार्थदर्शनकार्यमाह — तदनुरूपाणीति । स्वाभिप्रायानुसारेण पुरुषाणाम्पुरुशार्थप्रतिपत्तिरित्यत्र गमकमाह — तथाचेति । यथा दकारत्रये प्रजापतिनोक्तदेवादयः स्वाभिप्रायेण दमाद्यर्थत्रयं जगृहुस्तथा स्वाभिप्रायवशादेव पुरुषाणां पुरुषार्थप्रतिपत्तिरित्यर्थवादतोऽवगतमित्यर्थः । पूर्वोक्तकाण्डयोरविरोधमुपसंहरति — तस्मादिति । एकस्य वाक्यस्य द्व्यर्थत्वायोगादिति यावत् । अर्थाद्बाधकत्वमाशङ्क्याऽऽह — न चेति । एतावता वेदान्तानां ब्रह्मैकत्वज्ञापकत्वमात्रेणेत्यर्थः । वेदान्तानामबाधकत्वेऽपि कर्मकाण्डस्य तत्प्रामाण्यनिवर्तकत्वमस्तीत्याशङ्क्याऽऽह — नापीति । स्वपक्षे सर्वविरोधनिरासद्वारा स्वार्थे वेदान्तानां प्रामाण्यमुक्तं संप्रति तार्किकपक्षमुत्थापयति — तत्रेति । ऐक्ये शास्त्रगम्ये स्वीकृते सतीति यावत् । सर्वं प्रमाणमित्यागमवाक्यं प्रत्यक्षादि चेत्यर्थः । कथमैक्यावेदकमागमवाक्यं प्रत्यक्षादिना विरुध्यते तत्राऽऽह — तथेति । यथा ब्रह्मैकत्वे प्रवृत्तस्य शास्त्रस्य प्रत्यक्षादिविरोधं मन्यन्ते तथा तमस्मान्प्रति चोदयन्त्यपीति योजना । तत्र प्रत्यक्षविरोधं प्रकटयति — शब्दादय इति । संप्रत्यनुमानविरोधमाह — तथेति । स्वदेहसमवेतचेष्टातुल्यचेष्टा देहान्तरे दृष्टा सा च प्रयत्नपूर्विका विशिष्टचेष्टात्वात्सम्मतवदित्यनुमानविरुद्धमद्वैतशास्त्रमित्यर्थः । तत्रैव प्रमाणान्तरविरोधमाह — तथा चेति । मानत्रयविरोधान्न ब्रह्मैकत्वमिति प्राप्ते प्रत्याह — ते तु कुतर्केति । इति दूष्यता तेषामिति शेषः । द्वैतग्राहिप्रमाणविरुद्धमद्वैतमिति वदतां कथं शोच्यतेति पृच्छति — कथमिति । त्र ब्रह्मैकत्वे प्रत्यक्षविरोधं परिहरति — श्रोत्रादीति । तथात्वे तदेकत्वाभ्युपगमविरोधः स्यादिति शेषः । यथा सर्वभूतस्थमेकमाकाशमित्यत्र न शब्दादिभेदग्राहिप्रत्यक्षविरोधस्तथैकं ब्रह्मेत्यत्रापि न तद्विरोधोऽस्तीत्याह — अथेति । तस्य कल्पितभेदविषयत्वादिति भावः । अनुमानविरोधं परोक्तमनुवदति — यच्चेति । या चेष्टा सा प्रयत्नपूर्विकेत्येतावता नाऽऽत्मभेदः स्वप्रयत्नपूर्वकत्वस्यापि संभवादनुपलब्धिविरोधे त्वनुमानस्यैवानुत्थानात्स्वदेहचेष्टायाः स्वप्रयत्नपूर्वकत्ववत्परदेहचेष्टायास्तद्यत्नपूर्वकत्वे चाऽऽदावेव स्वपरभेदः सिध्येत्स च नाध्यक्षात्परस्यानध्यक्षत्वान्नानुमानादन्योन्याश्रयादित्याशयवानाह — भिन्ना इति । दोषान्तराभिधित्सया शङ्कयति — अथेति । अस्मदर्थं पृच्छति — के यूयमिति । स हि स्थूलदेहो वा करणजातं देहद्वयादन्यो वा । नाऽऽद्यः । तयोरचेतनत्वादनुमातृत्वायोगात् । न तृतीयस्तस्याविकारित्वादिति भावः । किंशब्दस्य प्रश्नार्थतां मत्वा पूर्ववाद्याह — शरीरेति । आत्मा देहादिबहुसाधनविशिष्टोऽनुमाता क्रियाणामनेककारकसाध्यत्वादेवं विशिष्टात्मकर्तृकानुमानात्प्रतिदेहमात्मभेदधीरित्यर्थः । विशिष्टस्याऽऽत्मनोऽनुमानकर्तृकत्वे क्रियाणामनेककारकसाध्यत्वादिति हेतुश्चेत्तदा तव देहादेश्चैकैकस्याप्यनेकत्वं स्यादित्युत्तरमाह — एवं तर्हीति । तदेव विवृणोति — अनेकेति । आत्मनो देहादीनां चानुमानकारकाणां प्रत्येकमवान्तरक्रियाऽस्ति वह्न्यादिषु तथा दर्शनात्तथा चाऽऽत्मनोऽवान्तरक्रिया किमनेककारकसाध्या किंवा न आद्येप्यात्मातिरिक्तानेककारकसाध्या किंवा तदनतिरिक्ततत्साध्या वा नाऽऽद्योऽनवस्थानात् । द्वितीये त्वात्मनोऽनेकत्वापत्तेर्नैरात्म्यं स्यान्न चावान्तरक्रिया नानेककारकसाध्या प्रधानक्रियायामपि तथात्वप्रसंगात् । एतेन देहादिष्वपि कारकत्वं प्रत्युक्तमिति भावः । यत्त्वात्माऽऽत्मप्रतियोगिकभेदवान्वस्तु वाद्घटवदिति, तत्राऽऽत्मा प्रतिपन्नोऽप्रतिपन्नो वेति विकल्प्य द्वितीयं प्रत्याह — यो हीति । प्रतिपन्नत्वपक्षेऽपि भेदेनाभेदेन वा तत्प्रतिपत्तिरुभयथाऽपि नानुमानप्रवृत्तिरित्याह — तत्रेति । इतश्चाऽऽत्मभेदानुमानानुत्थानमित्याह — केनेति । किंशब्दस्याऽऽक्षेपार्थत्वं स्फुटयति — न हीति । जन्मादीनां प्रतिनियमादिलिङ्गवशादात्मभेदः सेत्स्यति चेन्नेत्याह — यानीति । आत्मनः सजातीयभेदे लिङ्गाभावं दृष्टान्तेन साधयति — यदेति । किञ्चौपाधिको वा स्वाभाविको वाऽत्मभेदः साध्यते नाऽऽद्यः सिद्धसाध्यत्वादित्यभिप्रात्याह — नहीति । न द्वितीय इत्याह — स्वतस्त्विति । आत्मा द्रव्यत्वातिरिक्तापरजातीयोऽश्रावणविशेषगुणवत्त्वाद्घटवदित्यनुमानान्तरमाशङ्क्यान्यतरासिद्धिं दर्शयति — यद्यदिति । ताभ्यामात्मनोऽन्यत्वाभ्युपगमे मानमुपन्यस्यति — आकाश इति । तत्रैवोपपत्तिमाह — उत्पत्तीति । अनुमानाविरोधमुपसंहरति — अत इति । आगमविरोधमुक्तन्यायातिदेशेन निराकरोति — एतेनेति । औपाधिकभेदाश्रयत्वेन व्यवहारस्योपपन्नत्वोपदर्शनेनेति यावत् । प्रत्यक्षानुमानागमैरद्वैतस्याविरोधेऽपि स्याद्विरोधोऽर्थापत्त्येति चेदत आह — यदुक्तमिति । उपदेशो यस्मै क्रियते यस्य चोपदेशग्रहणप्रयुक्तं फलं तयोर्ब्रह्मैकत्वे सत्युपदेशानर्थक्यमित्यनुवादार्थः । किं क्रियाणामनेककारकसाध्यत्वादेवं चोद्यते किंवा ब्रह्मणो नित्यमुक्तत्वादिति विकल्प्याऽऽद्यं दूषयति — तदपीति । तासामनेककारकसाध्यत्वस्य प्रत्यु (पर्यु)दस्तत्वादिति भावः । यदि ब्रह्मणो नित्यमुक्तत्वाभिप्रायेणोपदेशानर्थक्यं चोद्यते तत्र नित्यमुक्ते ब्रह्मणि ज्ञातेऽज्ञाते वा तदानर्थक्यं चोद्यत इति विकल्प्याऽऽद्यमङ्गीकरोति — एकस्मिन्निति । द्वतीयमुत्थापयति — अथेति । उपदेशस्तावदनेकेषां कारकाणां साध्यतया विषयस्तदानर्थक्यमज्ञाते नित्यमुक्ते ब्रह्मणि चोद्यते चेदित्यर्थः । सर्वैरात्मवादिभिरुपदेशस्य ज्ञानार्थमिष्टत्वात्तद्विरोधादज्ञाते ब्रह्मणि तदानर्थक्यचोद्यमनुपपन्नमित्याह — न स्वत इति । अद्वैते विरोधान्तराभावेऽपि तार्किकसमयविरोधोऽस्तीत्याशङ्क्याऽऽह — तस्मादिति । प्रमाणविरोधाभावस्तच्छब्दार्थः । आर्यमर्यादां भिन्दानाश्चाटा विवक्ष्यन्ते । भटास्तु सेवका मिथ्याभाषिणस्तेषां सर्वेषां राजानस्तार्किकास्तैरप्रवेश्यमानाक्रमणीयमिदं ब्रह्मात्मैकत्वमिति यावत् । शास्त्रादिप्रसादशून्यैरागम्यत्वे प्रमाणमाह — कस्तमिति । देवतादेर्वरप्रसादेन लभ्यमित्यत्र श्रुतिस्मृतिवादाः सन्ति तेभ्यश्च शास्त्रादिप्रसादहीनैरलभ्यं तत्त्वमिति निश्चितमित्यर्थः । शास्त्रादिप्रसादवतामेव तत्त्वं सुगममित्यत्र श्रौतं स्मार्तञ्च लिङ्गान्तरं दर्शयति — तदेजतीति । ब्रह्मणोऽद्वितीयत्वे सर्वप्रकारविरोधाभावे फलितमाह — तस्मादिति । संसारिणो ब्रह्मणोऽर्थान्तरत्वाभावे श्रुतीनामानुकूल्यं दर्शयति — तस्मादिति । अद्वैते श्रुतिसिद्धे विचारनिष्पन्नमर्थमुपसंहरति —
तस्मात्परस्येति ॥२०॥ 【भाष्यम्】 【भाष्यम्】 क्रियावतो मृदादेर्घटाद्युत्पत्तिदर्शनाद्ब्रह्मणोऽक्रियात्वात्ततो न प्राणाद्युत्पत्तिरिति शङ्कते — तत्कथमिति । सृष्टेर्मायामयत्वमाश्रित्य श्रुत्या परिहरति — उच्यत इति । वृत्तवर्तिष्यमाणयोः संगतिं वक्तुं वृत्तं कीर्तयति — ब्रह्मेति । ब्रह्म ते ब्रवाणीति प्रक्रम्य व्येव त्वा ज्ञापयिष्यामीति प्रतिज्ञाय जगतो जन्मादयो यतस्तदद्वितीयं ब्रह्मेति व्याख्यातमित्यर्थः । जन्मादिविषयस्य जगतः स्वरूपं पृच्छति — किमात्मकमिति । विप्रतिपत्तिनिरासार्थं तत्स्वरूपमाह — पञ्चेति । कथं तर्हि नामरूपकर्मात्मकं जगदित्युक्तं तत्राऽऽह — भूतानिति । तत्र गमकमाह — नामरूपे इति । भूतानां सत्यत्वे कथं ब्रह्मणः सत्यत्ववाचोयुक्तिरित्याशङ्क्याऽऽह — तस्येति । तत्सत्यमित्यवधारणाद्बाध्येषु भूतेषु सत्यत्वासिद्धिरिति शङ्कयित्वा समाधत्ते — कथमित्यादिना । सच्च त्यच्च सत्यमिति व्युत्पत्त्या भूतानि सत्यशब्दवाच्यानि विवक्ष्यन्ते चेत्कथं तर्हि कार्यकारणसंघातस्य प्राणानां च सत्यत्वमुक्तं तत्राऽऽह — मूर्तेति । यथोक्तभूतस्वरूपत्वात्कार्यकरणानां तदात्मकानि भूतानि सत्यानीत्यङ्गीकारात्कार्यकरणानां सत्यत्वं प्राणा अपि तदात्मकाः सत्यशब्दवाच्या भवन्तीति प्राणा वै सत्यमित्यविरुद्धमित्यर्थः । एवं पातनिकां कृत्वोत्तरब्राह्मणद्वयस्य विषयमाह — तेषामिति । उपनिषद्व्याख्यानाय ब्राह्मणद्वयमित्युक्तिविरुद्धमेतदित्याशङ्क्याऽऽह — सैवेति । कार्यकरणात्मकानां भूतानां स्वरूपनिर्धारणैवोपनिषद्व्याख्येत्यत्र हेतुमाह — कार्येति । ब्राह्मणद्वयमेवमवतार्य शिशुब्राह्मणस्यावान्तरसंगतिमाह — अत्रेत्यादिना । उपनिषदः काः, कियत्यो वेत्युपसंख्यातव्यमित्याकाङ्क्षायामिति शेषः । ब्रह्म चेदवधारयितुमिष्टं तर्हि तदेवावधार्यतां किमिति मध्ये करणस्वरूपमवधार्यते तत्राऽऽह — पथीति । ब्राह्मणतात्पर्यमुक्त्वा तदक्षराणि योजयति — यो हेत्यादिना । विशेषणस्यार्थवत्त्वार्थं भ्रातृव्यान्भिनत्ति — भ्रातृव्या हीति । के पुनरत्र भ्रातृव्या विवक्ष्यन्ते तत्राऽऽह — सप्तेति । कथं श्रोत्रादीनां सप्तत्वं द्वारभेदादित्याह — विषयेति । कथं तेषां भ्रातृव्यत्वमित्याश्ङ्क्य विषयाभिलाषद्वारेणेत्याह — तत्प्रभावा इति । तथाऽपि कथं तेषां द्वेष्टृत्वमत आह — ते हीति । अथेन्द्रियाणि विषयविषयां दृष्टिं कुर्वन्त्येवाऽऽत्मविषयामपि तां करिष्यन्ति तन्न यथोक्तभ्रातृव्यत्वं तेषामिति तत्राऽऽह — प्रत्यगिति । इन्द्रियाणि विषयप्रवणानि तत्रैव दृष्टिहेतवो न प्रत्यगात्मनीत्यत्र प्रमाणमाह — काठके चेति । फलोक्तिमुपसंहरति — तत्रेति । उक्तविशेषणेषु भ्रातृव्येषु सिद्धेष्विति यावत् । प्राणे वागादीनां विषक्तत्वे हेतुमाह — पड्वीशेति । यथा जात्यो हयश्चतुरोऽपि पादबन्धनकीलान्पर्यायेणोत्पाट्योत्क्रामति तथा प्राणो वागादीनीति निदर्शनवशात्प्राणे विषक्तानि वागादीनि सिद्धानीत्यर्थः शरीरस्य प्राणं प्रत्याधानत्वं साधयति — तस्य हीति । शरीरस्याधिष्ठानत्वं स्फुटयति — अस्मिन्हीति । प्राणमात्रे विषक्तानि करणानि नोपलब्धिद्वाराणीत्यत्र प्रमाणमाह — तथा हीति । देहाधिष्ठाने प्राणे विषक्तानि तान्युपलब्धिद्वाराणीत्यत्रानुभवमनुकूलयति — शरीरेति । तत्रैवाजातशत्रुब्राह्मणसंवादं दर्शयति — तच्चेति । शरीराश्रिते प्राणे वागादिषु विषक्तेषूपलब्धिरुपलभ्यमानत्वमिति यावत् । प्रत्याधानत्वं शिरसो व्युत्पादयति — प्रदेशेति । बलपर्यायस्य प्राणस्य स्थूणात्वं समर्थयते — बलेति । अयं मुमूर्षुरात्मा यस्मिन्काले देहमबलभावं नीत्वा सम्मोहमिव प्रतिपद्यते तदोत्क्रामतीति षष्ठे दर्शनादिति यावत् । बलावष्टम्भोऽस्मिन्देहे प्राण इत्यत्र दृष्टान्तमाह — यथेति । भर्तृप्रपञ्चपक्षं दर्शयति — शरीरेति । उक्तं हि प्राण इत्युच्छ्वासनिःश्वासकर्मा वायुः शारीरः शरीरपक्षपाती गृह्यते । एतस्यां स्थूणायां शिशुः प्राणः करणदेवता लिङ्गपक्षपाती गृह्यते । स देवः प्राण एतस्मिन्बाह्ये प्राणे बद्ध इति । तद्व्याख्यातुं भूमिकां करोति — अन्नं हीति । त्वगसृङ्मांसमेदोमज्जास्थिशुक्रेभ्यः सप्तभ्यो धातुभ्यो जातं साप्तधातुकम् । तथाऽपि कथमन्नस्य दामत्वं तदाह —
तेनेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 न चात्र मन्त्रेण किञ्चित्क्रियते किन्त्वन्नाक्षयहेतुत्वात्प्राणस्य सप्ताक्षितय इत्युपनिषदो विवक्ष्यन्ते तत्राऽऽह — यद्यपीति । मन्त्रेण कस्यचिदनुष्ठानस्य करणे विवक्षिते तिष्ठतिरुपपूर्वो यद्यप्यात्मनेपदी भवति तथाऽऽप्यत्र सप्त रुद्रादिदेवतानामानि मन्त्रवदवस्थितानि तैश्च करणान्युपासनानुष्ठानान्यत्र क्रियन्ते । अतस्तिष्ठतेरुपपूर्वस्याऽऽत्मनेपदविरुद्धमिति योजना । लोहितरेखाभी रुद्रस्य प्राणं प्रत्यनुगतेरनन्तरमित्यथशब्दार्थः । पर्जन्यस्यान्नद्वारा प्राणाक्षयहेतुत्वे प्रमाणमाह — पर्जन्य इति । कथं पुनरेतेषां प्राणं प्रत्यक्षितव्यं सर्वेषां सिध्यति तत्राऽऽह — एता इति । संप्रत्युपास्तिफलमाह —
इत्येवमिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 यो हि शिशुमित्यादौ सूत्रितशिश्वादिपदार्थान्व्याख्यायानन्तरसन्दर्भस्य तात्पर्यं दर्शयन्नुत्तरवाक्यमुपादाय व्याकरोति — इदानीमित्यादिना । तनु यत्र मन्त्रेणोपस्थानं क्रियते तत्रैवोपपूर्वस्य तिष्ठतेरात्मनेपदं भवति । उक्तं हि – ‘उपान्मन्त्रकरणे’ (पा.सू.१।३।२५) इति । दृश्यते चाऽऽदित्यं गायत्र्योपतिष्ठत इति । रुद्रादिशब्दानां देवताविषयत्वान्मन्त्रस्यापि तद्विषयतेत्याशङ्क्य चक्षुषि रुद्रादिगणस्योक्तत्वादिन्द्रियसंबन्धात्तस्य करणग्रामत्वप्रतीतेस्तद्विषयः श्लोको न प्रसिद्धदेवताविषय इत्यभिप्रेत्याह — तत्तत्रेति । मन्त्रस्य व्याख्यानसापेक्षत्वं तत्रोच्युते । शिरश्चमसाकारत्वमस्पष्टमित्याशङ्क्य समाधत्ते — कथमित्यादिना । वागष्टमीत्युक्तं तस्याः सप्तमत्वेनोक्तत्वान्न चैकस्या द्वित्वमित्याशङ्क्याऽऽह — ब्रह्मणेति । शब्दराशिर्ब्रह्म तेन संवादः संसर्गस्तं गच्छन्ती शब्दरीशिमुच्चारयन्ती वागष्टमी स्यादिति यावत् । तथाऽपि सप्तमत्वं विहाय कथमष्टमत्वं तत्राऽऽह — तद्धेतुमिति ।
वक्तृत्वात्तृत्वभेदेन द्विधा वागिष्टा । तत्र वक्तृत्वेनाष्टमी सप्तमी चात्तृत्वेनेत्यविरोधः रसना तूपलब्धिहेतुरिति भावः ॥३॥ 【भाष्यम्】 【भाष्यम्】 विपर्ययेण वेत्येतत्पूर्ववदित्युच्यते । अत्रिः सप्तम इति संबन्धः । अत्रित्वे हेतुरदनक्रियायोगादिति । हेतुं साधयति — वाचा हीति । साध्यमर्थं निगमयति — तस्मादिति । तर्हि कथमत्रिरिति व्यपदेश्यतेऽत आह — अत्तिरेवेति । प्राणस्य यदन्नजातमेतस्य सर्वस्यात्ता भवत्यत्रिनिर्वचनविज्ञानादिति संबन्धः । सर्वमस्येत्यादिवाक्यमर्थोक्तिपूर्वकं प्रकटयति — अत्तैवेति । न केवलमत्रिनिर्वचनविज्ञानकृतमेतत्फलं किन्तु प्राणयाथात्म्यवेदनप्रयुक्तमित्याह —
य एवमिति ॥४॥ 【भाष्यम्】 【भाष्यम्】 संबन्धं वक्तुं वृत्तं कीर्तयति — तत्रेति । अजातशत्रुब्राह्मणावसानं सप्तम्यर्थः । उपनिषदो रुद्याद्यभिदानानि । चकारादुक्तमित्यनुषङ्गः । उत्तरब्राह्मणतात्पर्यमाह — ते किमात्मका इति । ब्रह्मणो निर्धारणीयत्वात्किमिति भूतानां सतत्त्वं निर्धार्यते तत्राऽऽह — यदुपाधीति । तेषामुपाधिभूतानां स्वरूपावधारणार्थं ब्राह्मणमिति संबन्धः । सत्यस्य सत्यमित्यत्र षष्ट्यन्तसत्यशब्दितं हेयं प्रथमान्तसत्यशब्दितमुपादेयं तयोराद्यस्वरूपोक्त्यर्थमथेत्यतः प्राक्तनं वाक्यं तदूर्ध्वमाब्राह्मणसमाप्तेरादेयनिरूपणार्थमिति समुदायार्थः । सविशेषमेव ब्रह्म न निर्विशेषमिति केचित्तान्निराकर्तुं विभजते — तत्रेति । ब्राह्मणार्थे पूर्वोक्तरीत्या स्थिते सतीति यावत् । ‘द्वे वाव’ इत्यादिश्रुतेः सोपाधिकं ब्रह्मरूपं विवृणोति — पञ्चभूतेति । शब्दप्रत्ययविषयत्वं सोपाख्यत्वम् । निरुपाधिकं ब्रह्मरूपं दर्शयति — तदेवेति । एवं भूमिकामारचय्याक्षराणि व्याकरोति — तत्रेत्यादिना । द्वैरूप्ये सतीति यावत् । अमूर्तं चेत्यत्र चकारादेवकारानुषक्तिः । विवक्षितब्रह्मणो रूपद्वयमवधारितं चेन्मर्त्यत्वादीनि वक्ष्यमाणविशेषणान्यवधारणविरोधादयुक्तानीत्याशङ्काऽऽह — अन्तर्णीतेति । मूर्तामूर्तयोरन्तर्भावितानि स्वात्मनि यानि विशेषणानि तान्याकाङ्क्षाद्वारा दर्शयति — कानि पुनरित्यादिना ।
यद्गतिपूर्वकं स्थास्नु तत्परिच्छिषं स्थितमिति योजना । विशेष्यमाणत्वं प्रत्यक्षेणोपलभ्यमानत्वम् ॥१॥ 【भाष्यम्】 【भाष्यम्】 तत्रेति निर्धारणार्था सप्तमी । तत्र प्रत्येकं मूर्तामूर्तचतुष्टयविशेषणत्वे सतीति यावत् । कथं स्थितत्वे मर्त्यत्वं तत्राऽऽह — परिच्छिन्नं हीति । तदेव दृष्टान्तेन स्पष्टयति — यथेत्यादिना । अतो मर्त्यत्वान्मूर्तत्वमिति शेषः । मूर्तत्वमर्त्यत्वयोरन्योन्यहेतुहेतुमद्भावं द्योतयितुं वाशब्दः । कथं पुनश्चतुर्षु धर्मेषु विशेषणविशेष्यभावो हेतुहेतुमद्भावश्च निश्चेतव्यस्तत्राऽऽह — अन्योन्येति । रूपरूपिभावस्यापि व्यवस्थाभावमाशङ्क्याऽऽह — सर्वथाऽपीति । तस्यैतस्यैष रस इत्येव वक्तव्ये किमिति मूर्तस्येत्यादिना विशेषणचतुष्टयमनूद्यते तत्राऽऽह — तत्रेति । सारत्वं साधयति — त्रयाणां हीति । तत्र प्रतिज्ञामनूद्य हेतुमाह — एतदिति । एतेन सवितृमण्डलेन कृतानि विभज्यमानान्यसंकीर्णानि शुक्लं कृष्णं लोहितमित्येतानि रूपाणि विशेषणानि येषां पृथिव्यप्तेजसां तानि तथा ततो भूतत्रयकार्यमध्ये सवितृमण्डलस्य प्राधान्यमित्यर्थः । य एष तपतीत्यस्यार्थमाह — आधिदैविकस्येति । हेतुवाक्यमादाय तस्य तात्पर्यमाह — सत इति । मण्डलमेवैतच्छब्दार्थः । मण्डलपरिग्रहे हेतुमाह — मूर्तो हीति । मूर्तग्रहणस्योपलक्षणत्वाच्चतुर्णामन्वयो हेत्वर्थः । अतश्च मण्डलात्मा सविता भूतत्रयकार्यमध्ये भवति प्रधानं कार्यकारणयोरैकरूप्यस्यौत्सर्गिकत्वादित्याह — सारिष्ठश्चेति । मण्डलं चेदाधिदैविकं कार्यं किं पुनस्तथाविधं करणमिति तदाह —
यत्त्विति ॥२॥ 【भाष्यम्】 【भाष्यम्】 आधिदैविकं मूर्तमभिधाय तादृगेवामूर्तं प्रतीकोपादानपूर्वकं स्फुटयति — अथेत्यादिना । अमूर्तमुभयत्र हेतुत्वेन संबध्यते । अपरिच्छिन्नत्वमविरोधे हेतुः । अमूर्तत्वादीनां मिथो विशेषणविशेष्यभावो हेतुहेतुमद्भावश्च यथेष्टं द्रष्टव्य इत्याऽऽह — पूर्ववदिति । पुनरुक्तिरपि पूर्ववत् । य एष इत्यादि प्रतीकग्रहणं तस्य व्याख्यानं करणात्मक इत्यादि । यथा भूतत्रयस्य मण्डलं सारिष्ठमुक्तं तद्वदित्याह — पूर्ववदिति । सारिष्ठत्वमनूद्य हेतुमाह — एतदिति । तादर्थ्याद्भूतद्वयस्य भूतत्रयोपसर्जनस्य स्वयम्प्रधानस्य हिरण्यगर्भारम्भार्थत्वादिति यावत् । भूतद्वयं भूतत्रयोपसर्जनमिति शेषः । हेतुमवतार्य व्याचष्टे — त्यस्य हीति । पुरुषशब्दादुपरिष्टात्सशब्दो द्रष्टव्यः । अमूर्तत्वादिविशेषणचतुष्टयवैशिष्ट्यं साधर्म्यम् । तत्फलमाह — तस्मादिति । स्वमतमुक्त्वा भर्तृप्रपञ्चमतमाह — रस इति । त्यस्य हीत्यादी रसशब्देन भूतद्वयकारणमुक्तं न च तच्चेतनादन्यत् । न च जीवः, तथाऽसामर्थ्यात् । नापि परः, कौटस्थ्यात् । तस्माच्चेतनः सूत्रक्षेत्रज्ञस्तथेत्यर्थः । सोऽपि कथं भूतद्वयकारणमत आह — तत्रेति । परकीयपक्षः सप्तम्यर्थः । तत्कर्मणस्तत्रासाधाराण्यमसंप्रतिपन्नमित्यभिप्रेत्य किलेत्युक्तम् । यथाऽऽहुः – यो ह्येतस्मिन्मण्डले विज्ञानात्मैष खल्वविद्याकर्मपूर्वप्रज्ञापरिष्कृतो विज्ञानात्मत्वमापद्यते तदेतत्कर्मरूपं विज्ञानात्मनस्तद्वाय्वन्तरिक्षप्रयोक्तृ भवतीति । ननु हिरण्यगर्भदेहस्य पञ्चभूतात्मकत्वाद्भूतद्वयोत्पत्तावपीतरभूतोत्पत्तिं विना कुतोऽस्य भोगः सिध्यतीत्यत आह — तत्कर्मेति । वाय्वन्तरिक्षाधारं तद्रूपपरिणतमिति यावत् । वाय्वन्तरिक्षयोर्भूतत्रयोपसर्जनयोरिति शेषः । प्रयोक्ता हिरण्यगर्भविज्ञानात्मा । निराकरोति — तन्नेति । कथं मूर्तरसेन सह यथोक्तामूर्तरसस्यातुल्यतेत्याशङ्क्याऽऽह — मूर्तस्येति । अमूर्तश्चासौ रसश्चेत्यमूर्तरसस्तेनेति यावत् । अमूर्तरसस्य चेतनत्वे तु रसयोर्वैजात्यं स्यादिति भावः । अस्तु तयोर्वैजात्यं नेत्याह — यथाहीति । मूर्तं मर्त्यं स्थितं सदिति मूर्तस्य धर्मचतुष्टयममूर्तममृतं व्यापि त्यदित्यमूर्तस्य विभजनमसंकीर्णत्वेन प्रदर्शनं यथा रसवतोर्मूर्तामूर्तयोस्तुल्यत्वमुक्तं तथा रसयोरपि तयोस्तुल्येनैव प्रकारेण प्रदर्शनमुचितं नत्वमूर्तरसश्चेतनो मूर्तरसस्त्वचेतन इति युक्तो विभागोऽर्धजरतीयस्याप्रामाणिकत्वादित्याह — तथेति । अर्धवैशसं परिहर्तुं शङ्कते — मूर्तरसेऽपीति । अमूर्तरसवन्मूर्तरसशब्देनापि चेतनस्यैव ब्रह्मणो मण्डलापन्नस्य ग्रहणमित्येतद्दूषयति — अत्यल्पमिति । मण्डलस्य चेतनकार्यतया चेतनत्वे सर्वस्य तत्कार्यतया तन्मात्रत्वाद्रसयोश्चेतनतेति विशेषणानर्थक्यमित्यर्थः । मण्डलाधारस्य चेतनत्वं पुरुषशब्दश्रुतिवशादेष्टव्यमिति शङ्कते — पुरुषशब्द इति । अनुपपत्तिं परिहरति — नेत्यादिना । तदेव व्याकरोति — न वा इति । इत्थं विभक्ताः सन्तो नैव शक्ष्यामो व्यवहारं प्रजनयितुमित्यालोच्य त्वक्चक्षुःश्रोत्रजिह्वाघ्राणवाङ्मनोरूपानिमान्सप्त पुरुषानेकं पुरुषं संहतं लिङ्गं करवामेति च निश्चित्यामी प्राणाः सप्त पुरुषानुक्तानेकं पुरुषं लिङ्गात्मानं कृतवन्त इत्यर्थः । आदिशब्देन लौकिकमपि दर्शनं संगृह्यते । श्रुत्यन्तरं तैत्तिरीयकम् । पुरुषशब्दप्रयोगः स वा एष पुरुषोऽन्नरसमय इत्यादिः । परकीयं व्याख्यानं प्रत्याख्याय प्रकृतं श्रुतिव्याख्यानमनुवर्तयति —
इत्यधिदैवतमिति ॥३॥ 【भाष्यम्】 【भाष्यम्】 चक्षुषो रसत्वं प्रतिज्ञापूर्वकं प्रकटयति — आध्यात्मिकस्येत्यादिना । चक्षुषः सारत्वे शरीरावयवेषु प्राथम्यं हेत्वन्तरमाह — प्राथम्याच्चेति । तत्र प्रमाणमाह — चक्षुषी एवेति । संभवतो जायमानस्य जन्तोश्चक्षुषी एव प्रथमे प्रधाने संभवतो जायेते । “शश्वद्ध वै रेतसः सिक्तस्य चक्षुषी एव प्रथमे संभवत” इति हि ब्राह्मणमित्यर्थः । चक्षुषः सारत्वे हेत्वन्तरमाह — तेज इति । शरीरमात्रस्याविशेषेण निष्पादकं तत्र सर्वत्र सन्निहितमपि तेजो विशेषतश्चक्षुषि स्थितम् । “आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्”(ऐ.उ.१-२-४) इति श्रुतेः । अतस्तेजःशब्दपर्यायरसशब्दस्य चक्षुषि प्रवृत्तिरविरुद्धेति भावः । इतश्च तेजःशब्दपर्यायो रसशब्दश्चक्षुषि संभवतीत्याह — तैजसं हीति । प्रतिज्ञार्थमुपसंहरति — एतत्सारमिति । हेतुमवतार्य तस्यार्थमाह — सतो हीति ।
चक्षुषो मूर्तत्वान्मूर्तभूतत्रयकार्यत्वं युक्तं साधर्म्याद्देहावयवेषु प्राधान्याच्च तस्याऽऽध्यात्मिकभूतत्रयसारत्वसिद्धिरित्यर्थः ॥४॥ 【भाष्यम्】 【भाष्यम्】 कुतो विशेषोक्तिरित्याशङ्क्याऽऽह — दक्षिण इति । शास्त्रस्य तेन वा दक्षिणेऽक्षिणि विशेषस्य प्रत्यक्षत्वादित्यर्थः । द्वितीयव्याख्यानमाश्रित्य हेत्वर्थं स्फुटयति — लिङ्गस्येति । हेतुमनूद्य तदर्थं कथयति — त्यस्येति ।
यथा पूर्वत्र चक्षुषि मूर्तादिचतुष्टयदृष्ट्या तादृग्भूतत्रयसारतोक्ता तथाऽत्रापि लिङ्गात्मन्यमूर्तत्वादिचतुष्टयस्य विशेषेणाग्रहणादमूर्तत्वादिना साधर्म्यात्तथाविधभूतद्वयसारत्वं तस्य शरीरे प्राधान्याच्च तत्सारत्वसिद्धिरित्यर्थः ॥५॥ 【भाष्यम्】 【भाष्यम्】 तस्य हेत्यादेर्वृत्तानुवादपूर्वकं संबन्धमाह — ब्रह्मण इति । विभागो विशेषः । तस्याधिदैवं प्रकृतस्यैतस्याध्यात्मं सन्निहितस्यामूर्तरसभूतान्तःकरणस्यैव रागादिवासनेति वक्तुं तस्येत्यादि वाक्यमित्यर्थः । कथमिदं रूपं लिङ्गस्य प्राप्तमिति तदाह — मूर्तेति । मूर्तामूर्तवासनाभिर्विज्ञानमयसंयोगेन च जनितं बुद्धे रूपमिति यावत् । नेदमात्मनो रूपं तस्यैकरसस्यानेकरूपत्वानुपपत्तेरिति विशिनष्टि — विचित्रमिति । वास्तवत्वशङ्कां वारयति — मायेति । वैचित्र्यमनुसृत्यानेकोदाहरणम् । अन्तःकरणस्यैव रागादिवासनाश्चेत्कथं पुरुषस्तन्मयो दृश्यते तत्राऽऽह — सर्वेति । तदेव व्याकुर्वन्विज्ञानवादिनां भ्रान्तिमाह — एतावन्मात्रमिति । बुद्धिमात्रमेवाहंवृत्तिविशिष्टं स्वरसभङ्गुरं रागादिकलुषितमात्मा न्यायः स्थायी क्षणिको वेति यत्र ते भ्रान्तास्तस्य रूपं वक्ष्याम इति संबन्धः । तार्किकाणामपि बौद्धवद्भ्रान्तिमुद्भावयति — एतदेवेति । अन्तःकरणमेवाहन्धीग्राह्यं रागादिधर्मकमात्मा तस्य वासनामयं रूपं पटस्य शौक्ल्यवद्गुणः स च संसार इति यत्र तार्किका भ्रान्तास्तस्य रूपं वक्ष्याम इति पूर्ववत् । साङ्ख्यानां भ्रान्तिमाह — इदमति । कथमस्य त्रिगुणत्वादिकं सिध्यति तत्राऽऽह — प्रधानाश्रयमिति । केन प्रकारेणान्तःकरणमात्मार्थमिष्यते तत्राऽऽह — पुरुषार्थेनेति । नान्तःकरणमेवाऽऽत्मा किन्त्वन्यः सर्वगतः सर्वविक्रियाशून्यः स्वप्रकाशस्तस्य भोगापवर्गानुगुण्येन प्रधानात्मकमन्तःकरणं तत्सधर्मकं प्रवर्तत इति यत्र कापिला भ्राम्यन्ति तस्य रूपं वक्ष्याम इति संबन्धः । यत्र विचित्रा विपश्चितां भ्रान्तिस्तदन्तःकरणं तस्य हेत्यत्रोच्यते नाऽऽत्मेति स्वपक्षमुक्त्वा भर्तृप्रपञ्चपक्षमुत्थापयति — औपनिषदंमन्या इति । कीदृशी प्रक्रियेत्युक्ते राशित्रयकल्पनां वदन्नादावधमं राशिं दर्शयति — मूर्तेति । उत्कृष्टराशिमाचष्टे — परमात्मेति । राश्यन्तरमाह — ताभ्यामिति । तान्येतानि त्रीणि वस्तूनि मूर्तामूर्तमाहारजनादिरूपमात्मतत्त्वमिति परोक्तिमाश्रित्य राशित्रयकल्पनामुक्त्वा मध्यमाधमराशेर्विशेषमाह — प्रयोक्तेति । उत्पादकत्वं प्रयोक्तृत्वम् । कर्मग्रहणं विद्यापूर्वप्रज्ञयोरुपलक्षणम् । साधनं ज्ञानकर्मकारणं कार्यकरणजातं तदपि प्रयोज्यमित्याह — साधनञ्चेति । इतिशब्दो रात्रित्रयकल्पनासमाप्त्यर्थः । परकीयकल्पनान्तरमाह — तत्रेति । रात्रित्रये कल्पिते सतीति यावत् । सन्धिकरणमेव स्फोरयति — लिङ्गाश्रयश्चेति । तत इत्युक्तिपरामर्शः । साङ्ख्यत्वभयात्त्रस्यन्तो वैशेषिकचित्तमप्यनुसरन्तीति संबन्धः । कथं तच्चित्तानुसरणं तदुपपादयति — कर्मराशिरिति । कथं निर्गुणमात्मानं कर्मराशिराश्रयतीत्याशङ्क्याऽऽह — सपरमात्मैकदेश इति । अन्यत इति कार्यकरणात्मकाद्भूतराशेरिति यावत् । यदा भूतराशिनिष्ठं कर्मादि तद्द्वाराऽऽत्मन्यागच्छति तदा स कर्तृत्वादिसंसारमनुभवतीत्याह — स कर्तेति । स्वतस्तस्य कर्मादिसंबन्धत्वेन संसारित्वं स्यादिति चेन्नेत्याह — स चेति । निर्गुण एव विज्ञानात्मेति शेषः । साङ्ख्यचित्तानुसारार्थमेव परेषां प्रक्रियान्तरमाह — स्वत इति । नैसर्गिक्यप्यविद्या परस्मादेवाभिव्यक्ता सती तदेकदेशं विकृत्य तस्मिन्नेवान्तःकरणाख्ये तिष्ठतीति वदन्तोऽनात्मधर्मोऽविद्येत्युक्त्या साङ्ख्यचित्तमप्यनुसरन्तीत्यर्थः । अविद्या परस्मादुत्पन्ना चेत्तमेवाऽऽश्रयेन्न तदेकदेशमित्याशङ्क्याऽऽह — ऊषरवदिति । यथा पृथिव्या जातोऽप्यूषरदेशस्तदेकदेशमाश्रयत्येवमविद्या परस्माज्जाताऽपि तदेकदेशमाश्रयिष्यतीत्यर्थः । तदेतद्दूषयितुमुपक्रमते — सर्वमेतदिति । तार्किकैः सह सन्धिकरणादिकमेतत्सर्वमधिकृत्य सामञ्जस्येन पूर्वोक्तानां कल्पनानामापातेन रमणीयत्वमनुभवन्तीति यावत् । यथोक्तकल्पनानां श्रुतिन्यायानुसारित्वाभावात्त्याज्यत्वं सूचयति — नेत्यादिना । कर्मद्वयं प्रत्येकं क्रियापदेन संबध्यते । नञश्चोभयत्रान्वयः । कथं यथोक्तकल्पनानामापातरमणीयत्वेन श्रुतिन्यायबाह्यत्वमिति पृच्छति — कथमिति । यदुक्तं परस्यैकदेशो विज्ञानात्मेति तत्र तदेकदेशत्वं वास्तवमवास्तवं वा प्रथमे स परस्मादभिन्नो भिन्नो वेति विकल्प्याऽऽद्यं दूषयति — उक्ता एवेति । आदिशब्देन श्रुतिस्मृतिविरोधो गृह्यते । कल्पान्तरं प्रत्याह — नित्यभेदे चेति । भेदाभेदयोर्विरुद्धत्वादनुपपत्तिश्चकारार्थः । लिङ्गोपाधिरात्मा परस्यांश इति कल्पान्तरं शङ्कते — लिङ्गभेद इति । उपचरितत्वं कल्पितत्वम् । लिङ्गोपाधिना कल्पितः परांशो जीवात्मेत्युक्ते स्वापादौ लिङ्गध्वंसे नाऽऽत्मेति स्याल्लिङ्गाभावे तदधीनजीवाभात्ततश्च तद्वियोगेऽपि लिङ्गस्था वासना जीवे तिष्ठतीति प्रक्रियाऽनुपपन्नेति दूषयति — तथेति । यत्तु परस्मादविद्यायाः समुत्थानमिति तन्निराकरोति — अविद्यायाश्चेति । आदिपदेनानात्मधर्मत्वमविद्याया गृह्यते । परस्मादविद्योत्पत्तौ तस्यैव संसारः स्यात्, तयोरैकाधिकरण्यात् । अतश्चाविद्यायां सत्यां न मुक्तिर्न च तस्यां नष्टायां तत्सिद्धिः कारणे स्थिते कार्यस्यात्यन्तनाशायोगात् । कार्याविद्यानाशे तत्कारणपराभावस्तथा च मोक्षिणोऽभावान्मोक्षासिद्धिः । न चानात्मधर्मोऽविद्या, विद्याया अपि तद्धर्मत्वप्रसंगात्तयोरेकाश्रयत्वादिति भावः । यत्तु लिङ्गोपरमे तद्गता वासनाऽऽत्मन्यस्तीति तत्राऽऽह — न चेति । पुटकादौ तु पुष्पाद्यवयवानामेवानुवृत्तिरिति भावः । इतश्च वासनाया जीवाश्रयत्वमसंगतमित्याऽऽह — न चेति । ननु जीवे समवायिकारणे मनःसंयोगादसमवायिकारणात्कामाद्युत्पत्तिरित्युदाहृतश्रुतिषु विवक्ष्यते तत्राऽऽह — न चाऽऽसामिति । दृश्यमानसंसारमौपाधिकमभिधाय जीवस्य ब्रह्मत्वोपपादने तात्पर्यं श्रुतीनामुपक्रमोपसंहारैकरूप्यादिभ्यो गम्यते तन्नार्थान्तरकल्पनेत्यर्थः । इतश्च यथोक्तश्रुतीनां नार्थान्तरकल्पनेत्याह — एतावन्मात्रेति । सर्वासामुपनिषदामेकरसेऽर्थे पर्यवसानं फलवत्त्वादिलिङ्गेभ्यो गम्यते तत्कथमुक्तश्रुतीनामर्थान्तरकल्पनेत्यर्थः । ननूपनिषदामैक्यादर्थान्तरमपि प्रतिपाद्यं व्याख्यातारो वर्णयन्ति तत्कथमर्थान्तरकल्पनानुपपत्तिरत आह — तस्मादिति । सर्वोपनिषदात्मैक्यपरत्वप्रतिभासस्तच्छब्दार्थः । ननु परैरुच्यमानोऽपि वेदार्थो भवत्येव किमित्यसौ द्वेषादेव त्यज्यते तत्राऽऽह — तथाऽपीति । न चार्थान्तरस्य वेदार्थत्वं तत्र तात्पर्यलिङ्गाभावादिति भावः । लिङ्गवियोगेऽपि पुंसि वासनाऽस्तीत्येतन्निराकृत्य राशित्रयकल्पनां निराकरोति — न चेति । कथं सिद्धान्तेऽपि वावशब्दादिसामञ्जस्यं तत्राऽऽह — यदेति । राशित्रयपक्षे जीवस्य रूपमध्येऽन्तर्भावे निषेध्यकोटिनिवेशः स्याद्रूपिमध्येऽन्तर्भावे श्रुतिः शिक्षणीयेत्याह — अन्यथेति । भवत्वेवं श्रुतेः शिक्षेति तत्राऽऽह — तदेति । रूपिमध्ये जीवान्तर्भावकल्पनायामिति यावत् । विषयभेदेनोपक्रमाविरोधं चोदयचति — अथेति । इत्थं व्यवस्थायां जीवद्वारा विक्रियमाणस्य परस्य रूपे मूर्तामूर्ते इत्युक्तिरयुक्ता वासनाकर्मादेरपि तद्द्वारा तत्संबन्धाविशेषादिति दूषयति — तदेति । विज्ञानात्मद्वारा परस्य विक्रियमाणत्वमङ्गीकृत्योक्तं तदेव नास्तीत्याह — न चेति । तथाभूतस्यान्यथाभूतस्य च विक्रियाया दुरुपपादत्वादित्यर्थः । किञ्च जीवस्य ब्रह्मणो वस्त्वन्तरत्वमात्यन्तिकमनात्यन्तिकं वा नाऽऽद्य इत्याह — न चेति । न द्वितीयो भेदाभेदनिरासादिति द्रष्टव्यम् । परपक्षदूषणमुपसंहरति — तस्मादिति । एवमादिकल्पना राशित्रयं जीवस्य कामाद्याश्रयत्वमित्याद्याः । अक्षरबाह्यत्वे फलितमाह — न हीति । वेदार्थोपकारित्वाभावे सिद्धमर्थं कथयति — तस्मादिति । तस्य हेत्यत्र परकीयप्रक्रियां प्रत्याख्याय स्वमते तच्छब्दार्थमाह — योऽयमिति । प्रकृतत्वाल्लिङ्गात्मग्रहे जीवस्यापि पाणिपेषवाक्ये तद्भावात्तस्यैवात्र तच्छब्देन ग्रहः स्यादिति शङ्कते — नन्विति । प्रकृतत्वेऽपि तस्य निर्विशेषब्रह्मत्वेन ज्ञापयितुमिष्टत्वान्न वासनामयं संसाररूपं तत्त्वतो युक्तमिति परिहरति — नैवमिति । इतश्च जीवस्य न वासनारूपिता किन्तु चित्तस्येत्याह — यदि हीति । निषेध्यकोटिप्रवेशादिति भावः । नायं जीवस्याऽऽदेशः किन्तु ब्रह्मणस्तटस्थस्येति शङ्कयित्वा दूषयति — नन्वित्यादिना । षष्ठावसाने विज्ञातारमरे केनेत्यात्मानमुपक्रम्य स एष नेति नेत्यात्मशब्दात्तस्यैवाऽऽदेशोपसंहारादिहापि तस्यैवाऽऽदेशो न तटस्थस्येत्यर्थः । इतश्च प्रत्यगर्थस्यैवायमादेश इत्याह — विज्ञापयिष्यामीति । तदेव समर्थयते — यदीति । कथमेतावता प्रतिज्ञार्थवत्त्वं तदाह — येनेति । ज्ञनफलं कथयति — शास्त्रेति । अन्वयमुखेनोक्तमर्थं व्यतिरेकमुखेन साधयति — अथेत्यादिना । विपर्यये गृहीते ब्रह्मकण्डिकाविरोधं दर्शयति — नाऽऽत्मानमिति । तच्छब्देन जीवपरामर्शसंभवे फलितमाह — तस्मादिति । ननु लिङ्गस्य चेदेतानि रूपाणि किमित्युपन्यस्यन्ते परमात्मरूपस्यैव वक्तव्यत्वादत आह — सत्यस्य चेति । इन्द्रगोपोपमानेन कौसुम्भस्य गतत्वान्महारजनं हरिद्रेति व्याख्यातम् । तत्र लोकप्रसिद्धिं दर्शयति — येनेति । ऊर्णादीत्यादिपदं कम्बलादिग्रहार्थम् । मनसि वासनावैचित्र्ये किङ्कारणमिति तदाह — क्वचिदिति । चित्तवृत्तिशब्देन सत्त्वादिगुणपरिणामो विवक्षितः । परिमितदृष्टान्तोक्त्या वासनानामपि परिमितत्वं दृष्टान्तदार्ष्टान्तिकयोः साम्यादित्याशङ्क्याऽऽह — नैषामिति । तत्र वाक्यशेषं संवादयति — तथा चेति । वासनानन्त्यात्तदीयपरिमितिप्रदर्शने परिमितदृष्टान्तपरिग्रहस्यातात्पर्ये कुत्र तात्पर्यमित्याशङ्क्याऽऽह — तस्मादिति । प्रकारप्रदर्शनमेवाभिनयति — एवम्प्रकाराणीति । अन्त्यवासनादिविशिष्टसूत्रोपास्तिं फलवतीं तत्प्रकर्षाभिधानपूर्वकमिभदधाति — यत्त्वित्यादिना । व्यक्तिः सर्वस्य वस्तुजातस्येति शेषः । तदीयमित्यस्य व्यक्तीकरणं हिरण्यगर्भस्येति तदेव स्फुटयति — यथेत्यादिना । वृत्तमनूद्यानन्तरग्रन्थमवतारयति — एवमित्यादिना । तस्यैव ब्रह्मण इति संबन्धः । कस्मादनन्तरमित्युक्ते तद्दर्शयन्नन्तःशब्दं चापेक्षितं पूरयन्व्याकरोति — सत्यस्येति । यथोक्तादेशस्याभावपर्यवसायित्वं मन्वानः शङ्कते — नन्विति । निरवधिकनिषेधासिद्धेस्तदवधित्वेन सत्यस्य सत्यं ब्रह्म निर्देष्टुमिष्टमिति परिहरति — उच्यत इति । ब्रह्मणो विधिमुखेन निर्देशे संभाव्यमाने किमिति निषेधमुखेन तन्निर्दिश्यते तत्राऽऽह — यस्मिन्निति । तद्विधिमुखेन निर्देष्टुमशक्यमिति शेषः । नामरूपाद्यभावेऽपि ब्रह्मणि शब्दप्रवृत्तिमाशङ्क्याऽऽह — तद्द्वारेणेति । जात्यादीनान्यतमस्य ब्रह्मण्यपि संभवत्तद्द्वारा तत्र शब्दप्रवृत्तिः स्यादिति चेन्नेत्याह — न चेति । उक्तमर्थं वैधर्म्यदृष्टान्तेन स्पष्टयति — गौरिति । तथा जात्याद्यभावान्न ब्रह्मणि शब्दप्रवृत्तिरिति शेषः । कथं तर्हि क्वचिद्विधिमुखेन ब्रह्मोपदिश्यते तत्राऽऽह — अध्यारोपितेति । विज्ञानानन्दादिवाक्येषु शबले गृहीतशक्तिभिः शब्दैर्लक्ष्यते ब्रह्मेत्यर्थः । ननु लक्षणामुपेक्ष्य साक्षादेव ब्रह्म किमिति न विवक्ष्यते तत्राऽऽह — यदा पुनरिति । निर्देष्टुं लक्षणामुपेक्ष्य साक्षादेव वक्तुमिति यावत् । तत्र शब्दप्रवृत्तिनिमित्तानां जात्यादीनामभावस्योक्तत्वादित्यर्थः । विधिमुखेन निर्देशासंभवे फलितमाह — तदेति । प्राप्तो निर्देशो यस्य विशेषस्य तत्प्रतिषेधमुखेनेति यावत् । एवं ब्रह्म निर्दिदिक्षितं चेदेकेनैव नञाऽलं कृतं द्वितीयेनेत्याशङ्क्याऽऽह — इदञ्चेति । वीप्साया व्याप्तिः सर्वविषयसंग्रहस्तदर्थं नकारद्वयमित्युक्तमेव व्यनक्ति — यद्यदिति । विषयत्वेन प्राप्तं सर्वं न ब्रह्मेत्युक्ते सत्यविषयः प्रत्यगात्मा ब्रह्मेत्येकत्वे शास्त्रपर्यवसानान्नैराकाङ्क्ष्यं श्रोतुः सिध्यतीत्याह — तथा चेति । इतिशब्दस्य प्रकृतपरामर्शित्वात्प्रकृतमूर्तामूर्तादेरन्यत्वे ब्रह्मणो नकारपर्यवसानं किमिति नेष्यते तत्राऽऽह — अन्यथेति । आशङ्कानिवृत्त्यभावे दोषमाह — तथा चेति । अनर्थकश्चेति चकारेण समुच्चितं दोषान्तरमाह — ब्रह्मेति । उक्तमर्थमन्वयमुखेन समर्थयते — यदा त्विति । सर्वोपाधिनिरासेन तत्र तत्र विषयवेदनेच्छा यदा निवर्तिता तदा यथोक्तं प्रत्यग्ब्रह्माहमिति निश्चित्याऽऽकाङ्क्षा सर्वतो व्यावर्तते । तेन निर्देशस्य सार्थकत्वं यदा चोक्तरीत्या ब्रह्माऽऽत्मेत्येव प्रज्ञाऽऽवस्थिता भवति तदा प्रतिज्ञावाक्यमपि परिसमाप्तार्थं स्यादिति योजना । वीप्सापक्षमुपसंहरति — तस्मादिति । आदेशस्य प्रक्रमाननुगुणत्वमाशङ्क्यानन्तरवाक्येन परिहरति — नन्वित्यादिना । न हीति प्रतीकोपादानम् । यस्मादित्यस्य हिशब्दार्थस्य तस्मादित्यनेन संबन्धः । व्याप्तव्याः संग्राह्या विषयीकर्तव्या ये प्रकारास्ते नकारद्वयस्य विषयाः सन्तो निर्दिश्यन्त इति नेति नेत्यस्मादित्यनेन भागेनेति योजना । इतिशब्दाभ्यां व्याप्तव्यसर्वप्रकारसंग्रहे दृष्टान्तमाह — यथेति । ग्रामो ग्रामो रमणीय इत्युक्ते राज्यनिविष्टरमणीयसर्वग्रामसंग्रहवत्प्रकृतेऽपीतिशब्दाभ्यां विषयभूतसर्वप्रकारसंग्रहे नकाराभ्यां तन्निषेधसिद्धिरित्यर्थः । यथोक्तान्निषेधरूपान्निर्देशादन्यनिर्देशनं यस्माद्ब्रह्मणो न परमस्ति तस्मादित्युपसंहारः अथेत्यादिवाक्यं प्रकृतोपसंहारत्वेन व्याचष्टे —
यदुक्तमित्यादिना ॥६॥ 【भाष्यम्】 【भाष्यम्】 संबन्धाभिधित्सया वृत्तं कीर्तयति — आत्मेत्येवेति । किमित्यात्मतत्त्वमेव ज्ञातव्यं तत्राऽऽह — तदेवेति । इत्थं सूत्रितस्य विद्याविषयस्य वाक्यस्य व्याख्यानमेव विषयस्तत्र विद्या साधनं साध्या मुक्तिरिति संबन्धो मुक्तिश्च फलमित्येते तदात्मानमित्यादिना दर्शिते इत्याह — इत्युपन्यस्तस्येति । विद्याविषयमुक्तं निगमयति — एवमिति । उक्तमर्थान्तरं स्मारयति — अविद्यायाश्चेति । अन्योऽसावित्याद्यारभ्याविद्याया विषयश्च संसार उपसंहृतस्त्रयमित्यादिनेति संबन्धः संसारमेव विशिनष्टि — चातुर्वर्ण्येति । चातुर्वर्ण्यं चातुराश्रम्यमिति प्रविभागादिनिमित्तं यस्य पाङ्क्तस्य कर्मणस्तस्य साध्यसाधनमित्येवमात्मक इति यावत् । तस्यानादित्वं दर्शयति — बीजाङ्कुरवदिति । तमेव त्रिधा संक्षिपति — नामेति । स चोत्कर्षापकर्षाभ्यां द्विधा भिद्यते तत्राऽऽद्यमुदाहरति — शास्त्रीय इति । उत्कृष्टो हि संसारस्त्र्यन्नात्मभावः शास्त्रीयज्ञानकर्मलभ्य इत्यर्थः । द्वितीयं कथयति — अधोभावश्चेति । निकृष्टः संसारः स्वाभाविकज्ञानकर्मसाध्य इत्यर्थः । किमित्यविद्याविषयो व्याख्यातो न हि स पुरुषस्योपयुज्यते तत्राऽऽह — एतस्मादिति । प्रत्यगात्मैव विषयस्तस्मिन्या ब्रह्मेति विद्या तस्यामिति यावत् । तार्तीयमनूद्य चातुर्थिकमर्थं कथयति — चतुर्थे त्विति । एवं वृत्तमनूद्योत्तरब्राह्मणतात्पर्यमाह — अस्या इति । किमिति संन्यासो विधित्स्यते कर्मणैव विद्यालाभादित्याशङ्क्याऽऽह — जायेति । अविद्याया विषय एव विषयो यस्येति विग्रहः । तस्मात्संन्यासो विधित्सित इति पूर्वेण संबन्धः । ननु प्रकृतं कर्माविद्याविषयमपि किमित्यात्मज्ञानं तादर्थ्येनानुष्ठीयमानं नोपनयति तत्राऽऽह — अन्येति । तदेव दृष्टान्तेन स्पष्टयति — न हीति । पाङ्क्तस्य कर्मणोऽन्यसाधनत्वमेव कथमधिगतमित्याशङ्क्याऽऽह — मनुष्येति । सोऽयं मनुष्यलोकः पुत्रेणैव जय्यः कर्मणा पितृलोको विद्यया देवलोक इति विशेषितत्वम् । श्रुतत्वमेव विशेषितत्वोक्तिद्वारा स्फुटीकृतमिति चकारेण द्योत्यते । ननु ब्रह्मविद्या स्वफले विहितं कर्मापेक्षते श्रौतसाधनत्वाद्दर्शादिवत्तथा च समुच्चयान्न कर्मसंन्याससिद्धिरत आह — न चेति । कर्मणां काम्यत्वेऽपि ब्रह्मविदस्तानि किं न स्युरित्याशङ्क्याऽऽह — ब्रह्मविदश्चेति । इतश्च तस्य पुत्रादिसाधनानुपपत्तिरित्याह — येषामिति । समुच्चयपक्षमनुभाष्य श्रुतिविरोधेन दूषयति — केचित्त्विति । श्रुतिविरोधमेव स्फोरयति — पुत्रादीति । अविद्वद्विषयत्वं श्रुतं तत्प्रकारेण तेषामुपदेशादिति शेषः । किं प्रजया करिष्याम इत्यत आरभ्य येषां नोऽयमात्माऽयं लोक इति च विद्याविषये श्रुतिरिति योजना । एष विभागः श्रुत्या कृतस्तैः समुच्चयवादिभिर्न श्रुत इति संबन्धः । न केवलं श्रुतिविरोधादेव समुच्चयासिद्धिः किन्तु युक्तिविरोधाच्चेत्याह — सर्वेति । द्वितीयश्चकारोऽवधारणार्थो नञा संबध्यते । स्मृतिविरोधाच्च समुच्चयासिद्धिरित्याह — व्यासेति । तत्र प्रथमं पूर्वोक्तं युक्तिविरोधं स्फुटयति — कर्मेति । प्रतिकूलवर्तनं निवर्त्यनिवर्तकभावः । संप्रति स्मृतिविरोधं स्फोरयति — यदिदमिति । प्रसिद्धं वेदवचनं कुरु कर्मेत्यज्ञं प्रति यदिदमुपलभ्यते विवेकिनं प्रति च त्यजेति तत्र कां गतिमित्यादिः शिष्यस्य व्यासं प्रति प्रश्नस्तस्य बीजमाह — एताविति । विद्याकर्माख्यावुपायौ परस्परविरुद्धत्वे वर्तेते साभिमानत्वनिरभिमानत्वादिपुरस्कारेण प्रातिकूल्यात्समुच्चयानुपपत्तेर्यथोक्तस्य प्रश्नस्य सावकाशत्वमित्यर्थः । इत्येवं पृष्ठस्य भगवतो व्यासस्येति शेषः । विरोधो ज्ञानकर्मणोः समुच्चयस्येति वक्तव्यम् । समुच्चयानुपपत्तिमुपसंहरति — तस्मादिति । कथं तर्हि ब्रह्मविद्या पुरुषार्थसाधनमिति तत्राऽऽह — सर्वविरोधादिति । सर्वस्य क्रियाकारकफलभेदात्मकस्य द्वैतेन्द्रजालस्य ब्रह्मविद्यया विरोधादिति यावत् । एकाकिनी ब्रह्मविद्या मुक्तिहेतुरिति स्थिते फलितमाह — इति पारिव्राज्यमिति । न केवलं संन्यासस्य श्रवणादिपौष्कल्यदृष्टद्वारेण विद्यापरिपाराकाङ्गत्वं श्रुत्यादिवशादवगम्यते किन्तु लिङ्गादपीत्याह — एतावदेवेति । तत्रैव लिङ्गान्तरमाह — षष्ठसमाप्तविति । एतच्चोभयतः संबध्यते । यदि कर्मसहितं ज्ञानं मुक्तिहेतुस्तदा किमिति कर्मणः सतो याज्ञवल्क्यस्य पारिव्राज्यमुच्यते तस्मात्तत्त्यागस्तदङ्गत्वेन विधित्सत इत्यर्थः । तत्रैव लिङ्गान्तरमाह — मैत्रेय्यै चेति । न हि मैत्रेयी भर्तरि त्यक्तकर्मणि स्वयं कर्माधिकर्तुमर्हति पतिद्वारमन्तरेण भार्यायास्तदनधिकारात् । यथा च तस्यै कर्मशून्यायै मुक्तेः साधनत्वेन विद्योपदेशात्कर्मत्यागस्तदङ्गत्वेन ध्वनित इत्यर्थः । तत्रैव हेत्वन्तरमाह — वित्तेति । किमहं तेन कुर्यामिति वित्तं निन्द्यते । अतश्च तत्साध्यं कर्म ज्ञानसहायत्वेन मुक्तौ नोपकरोतीत्यर्थः । तदेव विवृणोति — यदि हीति । तन्निन्दावचनमित्यत्र तच्छब्देन वित्तमुच्यते । त्वत्पक्षे वा कथं निन्दावचनमिति तत्राऽऽह — यदि त्विति । किञ्च ब्राह्मणोऽहं क्षत्रियोऽहमित्याद्यभिमानस्य कर्मानुष्ठाननिमित्तस्य निन्दया सर्वमिदमात्मैवेति प्रत्यये श्रुतेस्तात्पर्यदर्शनाद्विद्यालिङ्गत्वेन संन्यासो विधित्सत इत्याह — कर्माधिकारेति । ननु जाग्रति विधौ कर्मानुष्ठानमशक्यमपहारयितुमत आह — न हीति । ननु वर्णाश्रमाभिमानवतः संन्यासोऽपीष्यते स कथं तदभावे तत्राऽऽह — यस्यैवेति । अर्थप्राप्तश्चेत्यवधारणार्थश्चकारः । प्रयोजकज्ञानवतो वैधसंन्यासाभ्युपगमादविरोध इति भावः । आत्मज्ञानाङ्गत्वं संन्यासस्य श्रुतिस्मृतिन्यायसिद्धं चेत्किमर्थमियमाख्यायिका प्रणीयते तत्राऽऽह — तस्मादिति । विध्यपेक्षितार्थवादसिद्ध्यर्थमाख्यायिकेति भावः । भार्यामामन्त्र्य किं कृतवानिति तदाह — उद्यासन्निति । वैशब्दोऽवधारणार्थः । आश्रमान्तरं यास्यन्नेवाहमस्मीति संबन्धः । यथोक्तेच्छानन्तरं भार्यायाः कर्तव्यं दर्शयति — अत इति । सति भार्यादौ संन्यासस्य तदनुज्ञापूर्वकत्वनियमादिति भावः । कर्तव्यान्तरं कथयति — किञ्चेति । आवयोर्विच्छेदः स्वाभाविकोऽस्ति किं तत्र कर्तव्यामित्याशङ्क्याऽऽह — पतिद्वारेणेति । त्वयि प्रव्रजिते स्वयमेवाऽऽवयोर्विच्छेदो भविष्यतीत्याशङ्क्याऽऽह — द्रव्येति ।
वित्ते तु न स्त्रीस्वातन्त्र्यमिति भावः ॥१॥ 【भाष्यम्】 【भाष्यम्】 मैत्रेयी मोक्षमेवापेक्षमाणा भर्तारं प्रत्यानुकूल्यमात्मनो दर्शयति — सैवमिति । कर्मसाध्यस्य गृहप्रासादादिवन्नित्यत्वानुपपत्तिराक्षेपनिदानम् । कथंशब्दस्य प्रश्नार्थपक्षे वाक्यं योजयति — तेनेति । कथं तेनेत्यत्र कथंशब्दस्य किमहं तेनेत्यत्रत्यं किंशब्दमुपादाय वाक्यं योजनीयम् । वित्तसाध्यस्य कर्मणोऽमृतत्वसाधनत्वमात्रासिद्धौ तत्प्रकारप्रश्नस्य निरवकाशत्वादित्यर्थः । मुनिरपि भार्याहृदयाभिज्ञः सन्तुष्टः सन्नापेक्षं प्रश्नं च प्रतिवदतीत्याह — प्रत्युवाचेति । वित्तेन ममामृतत्वाभावे तदकिञ्चित्करमवसेयमित्याशङ्क्याऽऽह —
किं तर्हीति ॥२॥ 【भाष्यम्】 【भाष्यम्】 वित्तस्यामृतत्वसाधनाभावमधिगम्य तस्मिन्नास्थां त्यक्त्वा मुक्तिसाधनमेवाऽऽत्मज्ञानमात्मार्थं दातुं पतिं नियुञ्जाना ब्रूते —
सा हीति ॥३॥ 【भाष्यम्】 【भाष्यम्】 भार्यापेक्षितं मोक्षोपायं विवक्षुस्तामादौ स्तौति — स हेत्यादिना ।
वित्तेन साध्यं कर्म तस्मिन्नमृतत्वसाधने शङ्किते किमहं तेन कुर्यामिति भार्यायाऽपि प्रत्याख्याते सतीति यावत् । स्वाभिप्रायो न कर्म मुक्तिहेतुरिति तस्य भार्याद्वाराऽपि संपत्तौ सत्यामित्यर्थः ॥४॥ 【भाष्यम्】 【भाष्यम्】 अमृतत्वसाधनमात्मज्ञानं विवक्षितं चेदात्मा वा अरे द्रष्टव्य इत्यादि वक्तव्यं किमिति न वा अरे पत्युरित्यादिवाक्यमित्याशङ्क्याऽऽह — जायेति । उवाच जायादीनात्मार्थत्वेन प्रियत्वमात्मनश्चानौपाधिकप्रियत्वेन परमानन्दत्वमिति शेषः प्रतीकमादाय व्याचष्टे — न वा इति । किं तन्निपातेन स्मार्यते तदाह — प्रसिद्धमिति । यथोक्ते क्रमे नियामकमाह — पूर्वं पूर्वमिति । यद्यदासन्नं प्रीतिसाधनं तत्तदनतिक्रम्य तस्मिन्विषये पूर्वं पूर्वं वचनमिति योजना । तत्र हेतुमाह — तत्रेति । न वा अरे सर्वस्येत्ययुक्तं पत्यादीनामुक्तत्वादंशेन पुनरुक्तिप्रसंगादित्याशङ्क्याऽऽह — सर्वग्रहणमिति । उक्तवदनुक्तानामपि ग्रहणं कर्तव्यं न च सर्वे विशेषतो ग्रहीतुं शक्यन्ते तेन सामान्यार्थं सर्वपदमित्यर्थः । सर्वपर्यायेषु सिद्धमर्थमुपसंहरति — तस्मादिति । ननु तृतीये प्रियत्वमात्मन आख्यातं तदेवात्रापि कथ्यते चेत्पुनरुक्तिः स्यात्तत्राऽऽह — तदेतदिति । अथोपन्यासविवरणाभ्यां प्रीतिरात्मन्येवेत्ययुक्तं पुत्रादावपि तद्दर्शनादत आह — तस्मादिति । आत्मनो निरतिशयप्रीत्यास्पदत्वेन परमानन्दत्वमभिधायोत्तरवाक्यमादाय व्याचष्टे — तस्मादित्यादिना । कथं पुनरिदं दर्शनमुत्पद्यते तत्राऽऽह — श्रोतव्य इति । श्रवणादीनामन्यतमेनाऽऽत्मज्ञानलाभात्किमिति सर्वेषामध्ययनमित्याशङ्क्याऽऽह — एवं हीति । विध्यनुसारित्वमेवंशब्दार्थः । श्रुतत्वाविशेषाद्विकल्पहेत्वभावाच्च सर्वैरेवाऽऽत्मज्ञानं जायते चेत्तेषां समप्रधानत्वमाग्नेयादिवदापतेदित्याशङ्क्याऽऽह — यदेति । श्रवणस्य प्रमाणविचारत्वेन प्रधानत्वादङ्गित्वं मनननिदिध्यासनयोस्तु तत्कार्यप्रतिबन्धप्रध्वंसित्वादङ्गत्वमित्यङ्गाङ्गिभावेन यदा श्रवणादीन्यसकृदनुष्ठानेन समुच्चितानि तदा सामग्रीपौष्कल्यात्तत्त्वज्ञानं फलशिरस्कं सिध्यति । मननाद्यभावे श्रवणमात्रेण नैव तदुत्पद्यते । मननादिना प्रतिबन्धाप्रध्वंसे वाक्यस्य फलवज्ज्ञानजनकत्वायोगादित्यर्थः । परामर्शवाक्यस्य तात्पर्यमाह — यदेत्यादिना । कर्मनिमित्तं ब्रह्मक्षत्रादि तदेव वर्णाश्रमावस्थादिरूपमात्मन्यविद्ययाऽध्यारोपितस्य प्रत्ययो मिथ्याज्ञानं तस्य विषयतया स्थितं क्रियाद्यात्मकं तदुपमर्दनार्थमाहेति संबन्धः । अविद्याध्यारोपितप्रत्ययविषयमित्येतदेव व्याकरोति — अविद्येति । अविद्याजनितप्रत्ययविषयत्वे दृष्टान्तमाह —
रज्ज्वामिति ॥५॥ 【भाष्यम्】 【भाष्यम्】 आत्मनि विदिते सर्वं विदितमिव्युक्तमाक्षिपति — नन्विति । दृष्टिविरोधं निराचष्टे — नैष दोष इति । आत्मनि ज्ञाते ज्ञातमेव सर्वं ततोऽर्थान्तरस्याभावादित्युक्तमेव स्फुटयति — यदीत्यादिना । आकाङ्क्षापूर्वकमुत्तरवाक्यमुदाहृत्य व्याचष्टे — कथमित्यदिना । पुरुषं विशेषतो ज्ञातुं प्रश्नमुपन्यस्य प्रतीकं गृहीत्वा व्याकरोति — कमित्यादिना । पराकरणे पुरुषस्यापराधित्वं दर्शयति — अनात्मेति । परमात्मातिरेकेण दृश्यमानामपि ब्राह्मणजातिं स्वस्वरूपेण पश्यन्कथमपराधी स्यादित्याशङ्क्याऽऽह — परमात्मेति । इदं ब्रह्मेत्युत्तरवाक्यानुवादस्तस्य व्याख्यानं यान्यनुक्रान्तानीत्यादि । आत्मैव सर्वमित्येतत्प्रतिपादयति — यस्मादित्यादिना ।
स्थितिकाले तिष्ठति तस्मादात्मेव सर्वं तद्व्यतिरेकेणाग्रहणादिति योजना ॥६॥ 【भाष्यम्】 【भाष्यम्】 स्थित्यवस्थायां सर्वस्याऽऽत्ममात्रत्वं ज्ञातुमशक्यं ज्ञापकाभावादित्याक्षिपति — कथं पुनरिति । घटः स्फुरतीत्यादिप्रत्ययमाश्रित्य परिहरति — चिन्मात्रेति । स यथा दुन्दुभेरित्यादि वाक्यमवतारयति — तत्रेति । सर्वत्र चिदतिरेकेणासत्त्वं सप्तम्यर्थः । दृष्टान्ते विवक्षितं संक्षिपति — यत्स्वरूपेति । दुन्दुभिदृष्टान्तमादायाक्षराणि व्याचष्टे — स यथेत्यादिना । शब्दविशेषानेव विशदयति — दुन्दुभीति । कथं तर्हि दुन्दुभिशब्दविशेषाणां ग्रहणं तदाह — दुन्दुभेस्त्विति । दुन्दुभिशब्दसामान्यस्येति यावत् । उक्तेऽर्थे दुन्दुभ्याघातस्येत्यादिवाक्यमुत्थाप्य व्याचष्टे — दुन्दुभ्याघातस्येति । वाशब्दार्थमाह — तद्गता विशेषा इति । उक्तमर्थं व्यतिरेकमुखेन विशदयति — न त्वति । विवक्षितं दार्ष्टान्तिकमाचष्टे — तथेति ।
तत्रैव वस्तुविशेषग्रहणसंभावनामभिप्रेत्य स्वप्नजागरितयोरित्युक्तम् ॥७॥ 【भाष्यम्】 【भाष्यम्】 तथा दुन्दुभिदृष्टान्तवदिति यावत् । शङ्खस्य तु ग्रहणेनेत्यादिवाक्यमादिशब्दार्थः । दुन्दुभेस्तु ग्रहणेनेत्यादिवाक्यं दृष्टान्तयति —
पूर्ववदिति ॥८॥ 【भाष्यम्】 【भाष्यम्】 तथेति दृष्टान्तद्वयपरामर्शः । एकेनैव दृष्टान्तेन विवक्षितार्थसिद्धौ किमित्यनेकदृष्टोन्तोपादानमित्याशङ्क्याऽऽह — अनेकेति । इहेति जगदुच्यते श्रुतिर्वा । सामान्यबहुत्वमेव स्फुटयति — अनेक इति । तेषां स्वस्वसामान्येऽन्तर्भावेऽपि कुतो ब्रह्मणि पर्यवसानमित्याशङ्क्याऽऽह — तेषामिति । कथमित्यस्मात्पूर्वं तथेत्यध्याहारः । इति मन्यते श्रुतिरिति शेषः । विमतं नाऽऽत्मातिरेकि तदतिरेकेणागृह्यमाणत्वाद्यद्यदतिरेकेणागृह्यमाणं तत्तदतिरेकि न भवति यथा दुन्दुभ्यादिशब्दास्तत्सामान्यातिरेकेणागृह्यमाणास्तदतिरेकेण न सन्तीत्यनुमानं विवक्षन्नाह — दुन्दुभीति । शब्दत्वेऽन्तर्भावस्तथा प्रज्ञानघने सर्वं जगदन्तर्भवतीति शेषः । दृष्टान्तत्रयमवष्टभ्य निष्टङ्कितमर्थमुपसंहरति —
एवमिति ॥९॥ 【भाष्यम्】 【भाष्यम्】 स यथाऽऽद्रैधाग्नेरित्यादिवाक्यस्य तात्पर्यमाह — एवमित्यादिना । स्थितिकालवदित्येवंशब्दार्थः तत्र वाक्यमवतार्य व्याचष्टे — इत्येतदिति । महतोऽनवच्छिन्नस्य भूतस्य परमार्थस्येति यावत् । निःश्वसितमिवेत्युक्तं व्यनक्ति — यथेति । अरे मैत्रेयि ततो जातमिति शेषः । तदेवाऽऽकाङ्क्षापूर्वकं विशदयति — किं तदित्यादिना । इतिहास इति ब्राह्मणमेवेति संबन्धः । संवादादिरित्यादिपदेन प्राणसंवादादिग्रहणम् । असद्वा इदमग्र आसीदित्यादीत्यत्राऽऽदिशब्देनासदेवेदमग्र आसीदिति गृह्यते । देवजनविद्या नृत्यगीतादिशास्त्रम् । वेदः सोऽयं वेदाद्बहिर्न भवतीत्यर्थः । इत्याद्या विद्येति संबन्धः । आदिशब्दः शिल्पशास्त्रसंग्रहार्थः । प्रियमित्येनदुपासीतेत्याद्या इत्यत्राऽऽदिशब्दः सत्यस्य सत्यमित्युपनिषत्संग्रहार्थः । तदेते श्लोका इत्यादय इत्यत्राऽऽदिशब्देन तदप्येष श्लोको भवति । असन्नेव स भवतीत्यादि गृह्यते । इत्यादीनीत्यादिपदमथ योऽन्यां देवतामुपास्ते ब्रह्मविदाप्नोति परमित्यादि ग्रहीतुम् । अर्थवादेषु व्याख्यानपदप्रवृत्तौ हेत्वभावं शङ्कित्वा पक्षान्तरमाह — अथवेति । इतिहासादिशब्दव्याख्यानमुपसंहरति — एवमिति । ब्राह्मणमितिहासादिपदवेदनीयमिति शेषः । ऋगादिशब्दानामितिहासादिशब्दानां च प्रसिद्धार्थत्यागे को हेतुरित्याशङ्क्य निःश्वसितश्रुतिरितिहासादिशब्दानां प्रसिद्धार्थत्यागे हेतुः परिशेषस्त्वन्यत्रेत्यभिप्रेत्याऽऽह — एवं मन्त्रेति । ननु प्रथमे काण्डे वेदस्य नित्यत्वेन प्रामाण्यं स्थापितं तदनित्यत्वे तद्धानिरित्यत आह — नियतेति । नियतेत्यादौ वेदो विशेष्यते । कल्पान्तेऽन्तर्हितान्वेदानित्यादिवाक्यान्नियतरचनावत्त्वं वेदस्य गम्यते । ‘अनादिनिधना’इत्यादेश्च सदातनत्वं तस्य निश्चीयते । न च कृतकत्वादप्रामाण्यं प्रत्यक्षादौ व्यभिचारात् । न च पौरुषेयत्वादनपेक्षत्वहेत्वभावादप्रामाण्यम् । बुद्धिपूर्वप्रणीतत्वाभावेन तत्सिद्धेः । न चोन्मत्तवाक्यसादृश्यमबाधितार्थत्वादिति भावः । सिद्धे वेदस्य प्रामाण्ये फलितमाह — तस्मादिति । नामप्रपञ्चसृष्टिरेवात्रोपदिष्टा न रूपप्रपञ्चसृष्टिः सा चोपदेष्टव्या सृष्टिपरिपूर्तेरन्यथाऽनुपपत्तेरित्याशङ्क्याऽऽह — नामेति । यद्यपि नामतन्त्रा रूपसृष्टिरिति नामसृष्टिवचनेन रूपसृष्टिरर्थादुक्ता तथाऽपि सर्वसंसारसृष्टिर्नोक्ता नामरूपयोरेव संसारत्वे प्राक्तत्सृष्टेः संसारो न स्यादित्याशङ्क्याऽऽह — नामरूपयोरिति । सर्वावस्थयोर्व्यक्ताव्यक्तावस्थयोरिति यावत् । नामप्रपञ्चस्यैवात्र सर्गोक्तिमुपपादितामुपसंहरति — इतीति । अतःशब्दार्थं स्फुटयति — तद्वचनेनेति । निःश्वसितश्रुतिं विधान्तरेणावतारयति — अथवेत्यादिना । मिथ्यात्वेऽपि प्रतिबिम्बवत्प्रामाण्यसंभवादुन्मत्तादिवाक्यानां च मिथ्याज्ञानाधीनप्रयत्नजन्यत्वेनामानत्वाद्वेदस्य तदभावाद्विषयाव्यभिचाराच्च नाप्रामाण्यमित्याह — तदाशङ्केति ।
अन्यो ग्रन्थो बुद्धादिप्रणीतः ‘स्वर्गकामश्चैत्यं वन्देते’त्यादिः ॥१०॥ 【भाष्यम्】 【भाष्यम्】 स यथा सर्वासामपामित्यादिसमनन्तरग्रन्थमुत्थापयति — किञ्चान्यदिति । तदेव व्याकरोति — न केवलमिति । प्रलयकाले च प्रज्ञानव्यतिरेकेणाभावाज्जगतो ब्रह्मत्वमिति संबन्धः । उक्तमर्थं दृष्टान्तेन स्पष्टयते — जलेति । तथाऽपि प्रज्ञानमेवैकमेव स्यान्न ब्रह्मेत्याशङ्क्याऽऽह — तस्मादिति । सत्यज्ञानादिवाक्याद्ब्रह्मणस्तन्मात्रत्वादित्यर्थः । यथोक्तं ब्रह्म चेत्प्रतिपत्तव्यं किमिति तर्हि स यथेत्यादि वाक्यमित्याशङ्क्य तच्छेषत्वेन प्रलयं दर्शयितुं दृष्टान्तवचनमेतदित्याह — अत आहेति । प्रलीयतेऽस्मिन्निति प्रलय एकश्चासौ प्रलयश्चेत्येकप्रलयः तडागादिगतानामपां कुतः समुद्रे लयो न हि तासां तेन संगतिरित्याशङ्क्याऽऽह — अविभागेति । अत्र हि समुद्रशब्देन जलसामान्यमुच्यते । तद्व्यतिरेकेण च जलविशेषाणामभावो विवक्षितस्तेषां तत्संस्थानमात्रत्वादतश्चाऽऽसामस्मिन्नविभागस्य प्राप्तिरिति समुद्रेऽविभागप्राप्तिरित्यर्थः । पिच्छिलादीनामित्यादिशब्देनानुक्तस्पर्शंविशेषाः सर्वे गृह्यन्ते । विषयाणामिन्द्रियकार्यत्वाभावात्कुतः स्पर्शानां त्वचि विलयः स्यादित्याशङ्क्याऽऽह — त्वगितीति । स्पर्शविशेषाणां स्पर्शसामान्येऽन्तर्भावं प्रपञ्चयति — तस्मिन्निति । तथाऽपि समस्तस्य जगतो ब्रह्मव्यतिरेकेणाभावाद्ब्रह्मत्वमित्येतत्कथं प्रतिज्ञातमित्याशङ्क्य परम्परया ब्रह्मणि सर्वप्रविलयं दर्शयितुं क्रममनुक्रामति — तथेति । मनसि सति विषयविषयिभावस्य दर्शनादसति चादर्शनान्मनःस्पन्दितमात्रं विषयजातमिति तस्य तद्विषयमात्रे प्रविष्टस्य तदतिरेकेणासत्त्वमित्यर्थः । संकल्पविकल्पात्मकमनःस्पन्दितद्वैतस्य संकल्पात्मके मनस्यन्तर्भावात्तस्य च संकल्पस्याध्यवसायपारतन्त्र्यदर्शनादध्यवसायात्मिकायां च बुद्धौ तद्विषयस्य पूर्ववदनुप्रवेशान्मनोविषयसामान्यस्य बुद्धिविषयसामान्ये प्रविष्टस्य तद्व्यतिरेकेणासत्त्वमित्याह — एवमिति । सर्वं जगदुक्तेन न्यायेन बुद्धिमात्रं भूत्वा तद्यच्छेच्छान्त आत्मनीति श्रुत्या ब्रह्मणि पर्यवस्यतीत्याह — विज्ञानमात्रमिति । ननु जगदिदं विलीयमानं शक्तिशेषमेव विलीयते । तत्त्वज्ञानादृते तस्य निःशेषनाशानाश्रयणात् । तथा च कुतो ब्रह्मैकरसस्य प्रतिपत्तिरत आह — एवमिति । शक्तिशेषलयेऽपि तस्या दुर्निरूपत्वाद्वस्त्वेकरसस्य धीरविरुद्धेति भावः । एकायनप्रक्रियातात्पर्यमुपसंहरति — तस्मादिति । घ्राणविषयसामान्यमित्यादावेकायनमिति सर्वत्र संबन्धः । कथं पुनरत्र प्रतिपर्यायं ब्रह्मणि पर्यवसानं तत्राऽऽह — तथेति । यथा सर्वेषु पर्यायेषु ब्रह्मणि पर्यवसानं तथोच्यत इति यावत् । पूर्ववदिति त्वग्विषयसामान्यवदित्यर्थः । संकल्पे लय इति शेषः । विज्ञानमात्र इत्यत्रापि तथैव । एवं सर्वेषां कर्मणामित्यादेरर्थमाह — तथा कर्मेन्द्रियाणामिति । क्रियासामान्यानां सूत्रात्मसंस्थानभेदत्वमभ्युपेत्याऽऽह — तानि चेति । क्रियाज्ञानशक्त्योश्चिदुपाधिभूतयोश्चिदभेदाभेदमभिप्रेत्य प्राणश्चेत्यादि भाष्यम् । तत्र तयोरन्योन्याभेदे मानमाह — यो वा इति । श्रुतिमुखात्करणलयो न प्रतिभाति स्वयं च व्याख्यायते तत्र को हेतुरिति पृच्छति — नन्विति । श्रुत्या करणलयस्यानुक्तत्वमङ्गीकरोति — बाढमिति । पृष्टमभिप्रायं प्रकटयति — किन्त्विति । करणस्य विषयसाजात्यं विवृणोति — विषयस्यैवेति । किमत्र प्रमाणमित्याशङ्क्यानुमानमति सूचयति — प्रदीपवदिति । चक्षुषस्तेजसं रूपादिषु मध्ये रूपस्यैव व्यञ्जकद्रव्यत्वात्संप्रतिपन्नवदित्यादीन्यनुमानानि शास्त्रप्रकाशिकायामधिगन्तव्यानि । करणानां विषयसाजात्ये फलितमाह — तस्मादिति ।
पृथग्विषयप्रलयादिति शेषः । एकायनप्रक्रियासमाप्तावितिशब्दः ॥११॥ 【भाष्यम्】 【भाष्यम्】 उदकं विलीयमानमित्ययुक्तं काठिन्यविलयेऽपि तल्लयादर्शनादित्याशङ्क्याऽऽह — यत्तदिति । न हेति प्रतीकमादाय व्याचष्टे — नैवेति । अन्वयप्रदर्शनार्थं नैवेति पुनरुक्तम् । महद्भूतमेकद्वैतमित्युत्तरत्र संबन्धः । अस्यार्थस्य सर्वोपनिषत्प्रसिद्धत्वप्रदर्शनार्थो वैशब्दः । इदं महद्भूतमित्यत्रेदंशब्दार्थं विशदयति — यस्मादित्यादिना । तदिदं परमात्माख्यं महद्भूतमिति पूर्वेण संबन्धः । खिल्याभावापत्तिकार्यं कथयति — मर्त्येत्यादिना । कोऽसौ खिल्यभावोऽभिप्रेतस्तत्राऽऽह — नामरूपेति । कार्यकारणसंघाते तादात्म्याभिमानद्वारा जात्याद्यभिमानोऽत्र खिल्यभाव इत्यर्थः । इतिशब्देनाभिमतो लक्ष्यते । यथोक्ते खिल्यभावे सति कुतो भूतस्य महत्त्वमित्याशङ्क्याऽऽह — स खिल्यभाव इति । खिल्यभावः स्वशब्दार्थः । परस्य परिशुद्धत्वार्थमजरादिविशेषणानि । केन रूपेणैकरस्यं तदाह — प्रज्ञानेति । तस्यापरिच्छिन्नत्वमाह — अनन्त इति । तस्य सापेक्षत्वं वारयति — अपार इति । प्रतिभासमाने भेदे कथं यथोक्तं तत्त्वमित्याशङ्क्याऽऽह — अविद्येति । भवतु यथोक्ते तत्त्वे खिल्यभावस्य प्रवेशस्तथाऽपि किं स्यादित्यत आह — तस्मिन्निति । महत्त्वं साधयति — सर्वेति । भूतत्वमुपपादयति — त्रिष्वपीति । महदित्युक्ते पारमार्थिकं चेति विशेषणं किमर्थमित्याशङ्क्याऽऽह — लौकिकमिति । जाग्रत्कालीनं परिदृश्यमानं हिमवदादि महद्यद्यपि भवति तथाऽपि स्वप्नमायादिसमत्वान्न तत्परमार्थवस्तु । न हि दृश्यं जडमिन्द्रजालादेर्विशिष्यतेऽतो लौकिकान्महतो ब्रह्म व्यावर्तयितुं विशेषणमित्यर्थः । आपेक्षिकं स्यादानन्त्यमिति शेषः । अवधारणरूपमर्थमेव स्फोरयति — नान्यदिति । एतेभ्यो भूतेभ्यः समुत्थायेत्यादिसमनन्तरवाक्यव्यावर्त्यामाशङ्कामाह — यदीदमिति । वस्तुतः शुद्धत्वे किं सिध्यति तदाह — संसारेति । तर्हि तस्मिन्निमित्ताभावान्न तस्य खिल्यत्वमिति मत्वाऽऽह — किंनिमित्त इति । खिल्यभावमेव विशिनष्टि — जात इति । अनेकः संसाररूपो धर्मोऽशनायापिपासादिस्तेनोपद्रुतो दूषित इति यावत् । खिल्यभावे निमित्तं दर्शयन्नुत्तरमाह — उच्यत इति । एतच्छब्दार्थं व्याकरोति — यानीति । स्वच्छस्य परमात्मनः कार्यकारणविषयाकरपरिणतानीति संबन्धः । तानि व्यवहारसिद्ध्यर्थं विशिनष्टि — नामरूपात्मकानीति । तेषामतिदुर्बलत्वं सूचयति — सलिलेति । स्वच्छत्वे दृष्टान्तमाह — सलिलोपमस्येति । तेषां प्रत्यक्षत्वेऽपि प्रकृतत्वाभावे कथमेतच्छब्देन परामर्शः स्यादित्याशङ्क्याऽऽह — येषामिति । उक्तमेकायनप्रक्रियायामिति शेषः ब्रह्मणि प्रज्ञानघने भूतानां प्रलये दृष्टान्तमाह — नदीति । हेतौ पञ्चमीति दर्शयति — हेतुभूतेभ्य इति । पूर्वस्मिन्ब्राह्मणे षष्ठ्यन्तसत्यशब्दवाच्यतया तेषां प्रकृतत्वमाह — सत्येति । यथा सैन्धवः सन्खिल्यः सिन्धोस्तेजः संबन्धमपेक्ष्योद्गच्छति तथा भूतेभ्यः खिल्यभावो भवतीत्याह — सैन्धवेति । समुत्थानमेव विवृणोति — यथेत्यादिना । तान्येवेत्यादि व्यचष्टे — येभ्य इति । खिल्यहेतुभूतानि तत्र हेतुत्वोपेतानीति यावत् । ब्रह्मविद्योत्पत्तौ हेतुमाह — शास्त्रेति । तत्फलं सदृष्टान्तमाचष्टे — नदीति । यथा सलिले फेनादयो विनश्यन्ति तथा तेषु भूतेषु विनश्यत्सु सत्स्वनु पश्चात्खिल्यभावो नश्यतीत्याह — सलिलेति । किं पुनर्भूतानां खिल्यभावस्य च विनाशे सत्यवशिष्यते तत्राऽऽह — यथेति । तत्रेति कैवल्योक्तिः उक्तमेव वाक्यार्थं स्फुटयति — नास्तीति । ब्रह्मविदोऽशरीरस्य विशेषसंज्ञाभावं कैमुतिकन्यायेन कथयति — शरीरावस्थितस्येति ।
सुषुप्तस्येति यावत् । सर्वतः कार्यकारणविमुक्तस्येति संबन्धः ॥१२॥ 【भाष्यम्】 【भाष्यम्】 स यथा सैन्धवखिल्य इत्यादेः संबन्धं वक्तुं वृत्तं कीर्तयति — तत्रेत्यादिना । पूर्वः सन्दर्भस्तत्रेत्युच्यते । प्रतिज्ञातेऽर्थे पूर्वोक्तं हेतुमनूद्य साध्यसिद्धिं फलं दर्शयति — तस्मादिति । उक्तहेतोर्यथोक्तं ब्रह्मैव सर्वमिदं जगदिति यत्प्रतिज्ञातमिदं सर्वं यदयमात्मेति तत्पूर्वोक्तदृष्टान्तप्रबन्धरूपतर्कवशात्साधितमिति योजना । उत्तरवाक्यस्य विषयपरिशेषार्थमुक्तप्रलये पौराणिकसम्मतिमाह — स्वाभाविक इति । कार्याणां प्रकृतावाश्रितत्वं स्वाभाविकत्वम् । प्रलयान्तरेऽपि तेषां सम्मतिं संगिरते — यस्त्विति । द्वितीयप्रलयमधिकृत्यानन्तरग्रन्थमवतारयति — अविद्येति । तत्रेत्यात्यन्तिकप्रलयोक्तिः । उक्तं परमार्थदर्शनमेव व्यक्तीकर्तुं चोदयति — एवमिति । तेन याज्ञवल्क्येनेति यावत् । इति वदता विरुद्धधर्मवत्त्वमुक्तमिति शेषः । एवं वदनेऽपि कुतो विरुद्धधर्मवत्त्वोक्तिस्तत्राऽऽह — कथमिति । एकस्यैव विज्ञानघनत्वे संज्ञाराहित्ये च कुतो विरोधधीरित्याशङ्क्याऽऽह — न हीति । विरोधबुद्धिफलमाह — अत इति । अत्रेत्युक्तविषयपरामर्शः । न वा इति प्रतीकं गृहीत्वा व्याकरोति — अर इति । मोहनं वाक्यं ब्रवीत्येव भवानिति शङ्कते — नन्विति । समाधत्ते — न मयेति । कथं तर्हि ममैकस्मिन्नेव वस्तुनि विरुद्धधर्मवत्त्वबुद्धिरित्याशङ्क्याऽऽह — त्वयैवेति । त्वया तर्हि किमुक्तमिति तत्राऽऽह — मया त्विति । खिल्यभावस्य विनाशे प्रत्यगात्मस्वरूपमेव विनश्यतीत्याशङ्क्याऽऽह — न पुनरिति । ब्रह्मस्वरूपस्यानाशे विज्ञानघनस्य किमायातमित्याशङ्क्याऽऽह — तदिति । विज्ञानघनस्य प्रत्यक्त्वं दर्शयति — आत्मेति । कथं तर्हि तान्येवानुविनश्यतीति तत्राऽऽह — भूतनाशेति । खिल्यभावस्याविद्याकृतत्वे प्रमाणमाह — वाचाऽऽरम्भणमिति । खिल्यभाववत्प्रत्यगात्मनोऽपि विनाशित्वं स्यादिति चेन्नेत्याह — अयं त्विति । पारमार्थिकत्वे प्रमाणमाह — अविनाशीति । अविनाशित्वफलमाह — अत इति । पर्याप्तं विज्ञातुमिति संबन्धः । इदमित्यादिपदानां गतार्थत्वादव्याख्येयत्वं सूचयति — यथेति । विज्ञानघन एवेत्यत्र वाक्यशेषं प्रमाणयति —
नहीति ॥१३॥ 【भाष्यम्】 【भाष्यम्】 आत्मनो विज्ञानघनत्वं प्रामाणिकं चेत्तर्हि निषेधवाक्यमयुक्तमिति शङ्कते — कथमिति । अविद्याकृतविशेषविज्ञानाभावाभिप्रायेण निषेधवाक्योपपत्तिरित्युत्तरमाह — शृण्विति । यस्मिन्नुक्तलक्षणे खिल्यभावे सति यस्माद्यथोक्ते ब्रह्मणि द्वैतमिव द्वैतमुपलक्ष्यते तस्मात्तस्मिन्सतीतर इतरं जिघ्रतीति संबन्धः । द्वैतमिवेत्युक्तमनूद्य व्याचष्टे — भिन्नमिवेति । इवशब्दस्योपमार्थत्वमुपेत्य शङ्कते — नन्विति । द्वैतेन द्वैतस्योपमीयमानत्वाद्दृष्टान्तस्य दार्ष्टान्तिकस्य च तस्य वस्तुत्वं स्यादुपमानोपमोययोश्चन्द्रमुखयोर्वस्तुत्वोपलम्भादित्यर्थः । द्वैतप्रपुञ्चस्य मिथ्यात्ववादिश्रुतिविरोधान्न तस्य सत्यतेति परिहरति — न वाचाऽऽरम्भणमिति । तत्र तस्मिन्खिल्यभावे सतीति यावत् । स्वप्नादिद्वैतमिव जागरितेऽपि द्वैतं यस्मादालक्ष्यते तस्मात्परमात्मनः सकाशादितरोऽसावात्मा खिल्यभूतोऽपरमार्थः सन्नितरं जिघ्रतीति योजना । परस्मादितरस्मिन्नात्मन्यपरमार्थे खिल्यभूते दृष्टान्तमाह — चन्द्रादेरिति । इतरशब्दमनूद्य तस्यार्थमाह — इतरो घ्रातीति । अविद्यादशायां सर्वाण्यपि कारकाणि सन्ति कर्तृकर्मनिर्देशस्य सर्वकारकोपलक्षणत्वादित्याह — इतर इति । क्रियाफलयोरेकशब्दत्वे दृष्टान्तं विवृणोति — यथेति । दृष्टान्तेऽपि विप्रतिपत्तिमाशङ्क्यानन्तरोक्तं हेतुमेव स्पष्टयति — क्रियेति । अतश्च जिघ्रतीत्यत्रापि क्रियाफलयोरेकशब्दत्वमविरुद्धमिति शेषः । उक्तं वाक्यार्थमनूद्य वाक्यान्तरेष्वतिदिशति — इतर इति । तथेतरो द्रष्टेतरेण चक्षुषेतरं द्रष्टव्यं पश्यतीत्यदि द्रष्टव्यमिति शेषः । उत्तरेष्वपि वाक्येषु पूर्ववाक्यवत्कर्तृकर्मनिर्देशस्य सर्वकारकोपलक्षणत्वं क्रियापदस्य च क्रियातत्फलाभिधायित्वं तुल्यमित्याह — सर्वमिति । यत्र हीत्यादिवाक्यार्थमुपसंहरति — इयमिति । यत्र वा अस्येत्यादिवाक्यस्य तात्पर्यमाह — यत्र त्विति । उक्तेऽर्थे वाक्याक्षराणि व्याचष्टे — यत्रेति । तमेवार्थं संक्षिपति — यत्रैवमिति । सर्वं कर्तृकरणादीति शेषः । तत्केनेत्यादि व्याकरोति — तत्तत्रेति । किंशब्दस्याऽऽक्षेपार्थं कथयति — सर्वत्र हीति । ब्रह्मविदोऽपि कारकद्वारा क्रियादि स्वीक्रियतामित्याशङ्क्याऽऽह — आत्मत्वादिति । सर्वस्याऽऽत्मत्वासिद्धिमाशङ्क्य सर्वमात्मैवाभूदिति श्रुत्या समाधत्ते — न चेति । कथं तर्हि सर्वमात्मव्यतिरेकेण भातीत्याशङ्क्याऽऽह — तस्मादिति । भेदभानस्याविद्याकृतत्वे फलितमाह — तस्मात्परमार्थेति । तद्धेतोरज्ञानस्यापनीयत्वादिति शेषः । एकत्वप्रत्ययादज्ञाननिवृत्तिद्वारा क्रियादिप्रत्यये निवृत्तेऽपि क्रियादि स्यान्नेत्याह — अत इति । करणप्रमाणयोरभावे कार्यस्य विरुद्धत्वादिति यावत् । ननु किंशब्दे प्रश्नार्थे प्रतीयमाने कथं क्रियातत्साधनयोरत्यन्तनिवृत्तिर्विदुषो विवक्ष्यते तत्राऽऽह — केनेति । किंशब्दस्य प्रागेव क्षेपार्थत्वमुक्तं तच्च क्षेपार्थं वचो विदुषः सर्वप्रकारक्रियाकारकाद्यसंभवप्रदर्शनार्थमित्यत्यन्तमेव क्रियादिनिवृत्तिर्विदुषो युक्तेत्यर्थः । सर्वप्रकारानुपपत्तिमेवाभिनयति — केनचिदिति । कैवल्यावस्थामास्थाय संज्ञाभाववचनमित्युक्त्वा तत्रैव किम्पुनर्न्यायं वक्तुमविद्यावस्थायामपि साक्षिणो ज्ञानाविषयत्वमाह — यत्रापीति । येन कूटस्थबोधेन व्याप्तो लोकः सर्वं जानाति तं साक्षिणं केन करणेन को वा ज्ञाता जानीयादित्यत्र हेतुमाह — येनेति । येन चक्षुरादिना लोको जानाति तस्य विषयग्रहणेनैवोपक्षीणत्वान्न साक्षिणि प्रवृत्तिरित्यर्थः । आत्मनोऽसन्दिग्धभावत्वाच्च प्रमेयत्वासिद्धिरित्याह — ज्ञतुश्चेति । किञ्चाऽऽत्मा स्वेनैव ज्ञायते ज्ञात्रन्तरेण वा । नाऽऽद्य इत्याह — न चेति । न द्वितीय इत्याह — न चाविषय इति । ज्ञात्रन्तरस्याभावात्तस्याविषयोऽयमात्मा कुतस्तेन ज्ञातुं शक्यते । न हि ज्ञात्रन्तरमस्ति नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुतेरित्यर्थः । आत्मनि प्रमातृप्रमाणयोरभावे ज्ञानाविषयत्वं फलतीत्याह — तस्मादिति । विज्ञातारमित्यादिवाक्यस्यार्थं प्रपञ्चयति — यदा त्विति ।
तदेवं स्वरूपापेक्षं विज्ञानघनत्वं विशेषविज्ञानापेक्षं तु संज्ञाभाववचनमित्यविरोध इति ॥१४॥ 【भाष्यम्】 【भाष्यम्】 पूर्वोत्तरब्राह्मणयोः संगतिं वक्तुं वृत्तं कीर्तयति — यत्केवलमिति । कैवल्यं व्याचष्टे — कर्मनिरपेक्षमिति । तच्चाऽऽत्मज्ञानमुक्तमिति संबन्धः । ततो निराकाङ्क्षत्वं सिद्धमिति चकारार्थः । आत्मज्ञानं संन्यासिनामेवेति नियन्तुं विशिनष्टि — सर्वेति । ननु कुतस्ततो नैराकाङ्क्ष्यं सत्यपि तस्मिन्विज्ञेयान्तरसंभवादत आह — आत्मनि चेति । न वा अरे पत्युरित्यादावुक्तं स्मारयति — आत्मा चेति । तस्य निरतिशयप्रेमास्पदत्वेन परमानन्दत्वे फलितमाह — तस्मादिति । स चेद्दर्शनार्हस्तर्हि तद्दर्शने कानि साधनानीत्यासंक्याऽऽह — स चेति । दर्शनप्रकारा दर्शनस्योपायप्रभेदाः । श्रवणमननयोः स्वरूपविशेषं दर्शयति — तत्रेति । कोऽसौ तर्को येनाऽऽत्मा मन्तव्यो भवति तत्राऽऽह — तत्र चेति । दुन्दुभ्यादिग्रन्थः सप्तम्यर्थः । उक्तमेव तर्कं संगृह्णाति — आत्मैवेति । प्रधानादिवादमादाय हेत्वसिद्धिशङ्कायां तन्निराकरणार्थमिदं ब्राह्मणमिति संगतिं संगिरन्ते — तत्रायमिति । कथं हेत्वसिद्धिशङ्कोद्ध्रियते तत्राऽऽह — यस्मादिति । तस्मात्तथाभूतं भवितुमर्हतीत्युत्तरत्र संबन्धः । अन्योन्योपकार्योपकारकभूतं जगदेकचैतन्यानुविद्धमेकप्रकृतिकं चेत्यत्र व्याप्तिमाह — यच्चेति । दृष्टं स्वप्नादीति शेषः । दृष्टान्ते सिद्धमर्थं दार्ष्टान्तिके योजयति — तस्मादिति । तच्छब्दार्थं स्फुटयति — परस्परेति । तथाभूतमित्येककारणपूर्वकादि गृह्यते । विमतमेककारणं परस्परोपकार्योपकारकभूतत्वात्स्वप्नवदित्ययुक्तं हेत्वसिद्धेः । न हि सर्वं जगत्परस्परोपकार्योपरारकभूतमित्याशङ्क्याऽऽह — एष हीति । हेत्वसिद्धिशङ्कां परिहर्तुं ब्राह्मणमिति संगतिमुक्त्वा प्रकारान्तरेण तामाह — अथवेति । प्रतिज्ञाहेतू क्रमेणोक्त्वा हेतुसहितस्य प्रतिज्ञार्थस्य पुनर्वचनं निगमनमित्यत्र तार्किकसम्मतिमाह — तथा हीति । भर्तृप्रपञ्चानां ब्राह्मणारम्भप्रकारमनुवदति — अन्यैरिति । द्रष्टव्यादिवाक्यादाराभ्याऽऽदुन्दुभिदृष्टान्तादागमवचनं श्रोतव्य इत्युक्तश्रवणनिरूपणार्थम् । दुन्दुभिदृष्टान्तादारभ्य मधुब्राह्मणात्प्रागुपपत्तिप्रदर्शनेन मन्तव्य इत्युक्तमनननिरूपणार्थमागमवचनम् । निदिध्यासनं व्याख्यातुं पुनरेतद्ब्राह्मणमित्यर्थः । एतद्दूषयति — सर्वथाऽपीति । श्रवणादेर्विधेयत्वेऽविधेयत्वेऽपीति यावत् । अन्वयव्यतिरेकाभ्यां श्रवणे प्रवृत्तस्य तत्पौष्कल्ये सत्यर्थलब्धं मननं न विधिमपेक्षते । यथा तर्कतो मतं तत्त्वं तथा तस्य तर्कागमाभ्यां निश्चितस्योभयसामर्थ्यादेव निदिध्यासनसिद्धौ तदपि विध्यनपेक्षमेवेत्यर्थः । त्रयाणां विध्यनपेक्षत्वे फलितमाह — तस्मादिति । इति परकीयव्याख्यानमयुक्तमिति शेषः । सिद्धान्तेऽपि श्रवणादिविध्यभ्युपगमात्कथं परकीयं प्रस्थानं प्रत्याख्यातमित्याशङ्क्याऽऽह — सर्वथापि त्विति । तद्विध्यभ्युपगमेऽपीति यावत् । एवं संगतिं ब्राह्मणस्योक्त्वा तदक्षराणि व्याकरोति — इयमित्यादिना । यदुक्तं मध्विव मध्विति तद्विवृणोति — यथेति । न केवलमुक्तं मधुद्वयमेव किन्तु मध्वन्तरं चास्तीत्याह — किञ्चेति । पुरुषशब्दस्य क्षेत्रविषयत्वं वारयति — स चेति । तस्य पृथिवीवन्मधुत्वमाह — स च सर्वेषामिति । सर्वेषां च भूतानां तं प्रति मधुत्वं दर्शयति — सर्वाणि चेति । नन्वाद्यमेव मधुद्वयं श्रुतमश्रुतं तु मधुद्वयमशक्यं कल्पयितुं कल्पकाभावादत आह — चशब्देति । प्रथमपर्यायार्थमुपसंहरति — एवमिति । पृथिवी सर्वाणि भूतानि पार्थिवः पुरुषः शरीरश्चेति चतुष्टयमेकं मध्विति शेषः । मधुशब्दार्थमाह — सर्वेति । अस्येति पृथिव्यादेरिति यावत् । परस्परोपकार्योपकारकभावे फलितमाह — अत इति । अस्येति सर्वं जगदुच्यते । उक्तं च यस्मात्परस्परोपकार्योपकारकभूतमित्यादि । भवत्वनेन न्यायेन मधुपर्यायेषु सर्वेषु कारणोपदेशो ब्रह्मोपदेशस्तु कथमित्याशङ्क्याऽऽह — यस्मादिति । स प्रकृत आत्मैवायं चतुर्धोक्तो भेद इति योजना । इदमिति चतुष्टयकल्पनाधिष्ठानविषयं ज्ञानं परामृशति । इदं ब्रह्मेत्यत्र चतुष्टयाधिष्ठानमिदंशब्दार्थः । तृतीये च तस्य प्रकृतत्वं दर्शयति — यद्विषयेति । इदं सर्वमित्यत्र ब्रह्मज्ञानमिदमित्युक्तम् । सर्वं सर्वाप्तिसाधनमिति यावत् । तदेव स्पष्टयति —
यस्मादिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 यथा पृथिवी मधुत्वेन व्याख्याता तथाऽऽपोऽपि व्याख्येया इत्याह — तथेति । रैतस इति विशेषणस्यार्थमाह — अध्यात्ममिति ।
‘आपो रेतो भूत्वा शिश्नं प्राविशन्’ इति हि श्रुत्यन्तरम् ॥२॥ 【भाष्यम्】 【भाष्यम्】 पृथिव्यामप्सु चोक्तं न्यायमग्नावतिदिशति — तथेति । वाङ्मय इत्यस्यार्थमाह — वाचीति ।
अग्निर्वाग्भूत्वा मुखं प्राविशदिति हि श्रूयते ॥३॥ 【भाष्यम्】 【भाष्यम्】 अग्नावुक्तं न्यायं वायौ योजयति — तथेति । ‘वायुः प्राणो भूत्वा नासिके प्राविशत्’ इति श्रुत्यन्तरमाश्रित्याऽऽह — अध्यात्ममिति । पृथिव्यादीनां तदन्तर्वर्तिनां च पुरुषाणामेकवाक्योपात्तानामेकरूपं मधुत्वमिति शङ्कां परिहरन्नवान्तरविभागमाह — भूतानामिति । पृथिव्यादीनां कार्यत्वं तेजोमयादीनां करणत्वमित्यत्र सप्तान्नाधिकारसंमतिमाह —
तथा चोक्तमिति ॥४॥ 【भाष्यम्】 【भाष्यम्】 यद्यप्यादित्यस्तृतीये भूतेऽन्तर्भवति तथापि देवताभेदमाश्रित्याग्नावुक्तं न्यायं तस्मिन्नतिदिशति — तथेति । ‘आदित्यश्चक्षुर्भूत्वा अक्षिणि प्राविशत्’ इति श्रुतिमाश्रित्याऽऽह —
चाक्षुष इति ॥५॥ 【भाष्यम्】 【भाष्यम्】 आदित्यगतं न्यायं दिक्षु संपादयति — तथेति । ‘दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्’(ऐ.उ.१-२-४) इति श्रुतेः श्रोत्रमेव दिशामध्यात्मं तथा चाध्यात्मं श्रौत्र इत्येव वक्तव्ये कथं प्रातिश्रुत्क इति विशेषणमित्याशङ्क्याऽऽह — दिशामिति ।
तथाऽपीत्यस्मिन्नर्थे तुशब्दः ॥६॥ 【भाष्यम्】 【भाष्यम्】 दिक्षु व्यवस्थितं न्यायं चन्द्रे दर्शयति — तथेति । ‘चन्द्रमा मनो भूत्वा हृदयं प्राविशत्’ इति श्रुतिमनुसृत्याऽऽह —
अध्यात्ममिति ॥७॥ 【भाष्यम्】 【भाष्यम्】 चन्द्रवद्विद्युतोऽपि मधुत्वमाह — तथेति । अध्यात्मं तैजस इत्यस्यार्थमाह —
त्वगिति ॥८॥ 【भाष्यम्】 【भाष्यम्】 पर्जन्योऽपि विद्युदादिवत्सर्वेषां भूतानां मधु भवतीत्याह — तथेति । अध्यात्मं शाब्दः सौवर इत्यस्यार्थमाह — शब्दे भव इति ।
यद्यप्यध्यात्मं शब्दे भव इति व्युत्पत्त्या शाब्दः पुरुषस्तथाऽपि स्वरे विशेषतो भवतीत्यध्यात्मं सौवरः पुरुष इति योजना ॥९॥ 【भाष्यम्】 【भाष्यम्】 स्तनयित्नावुक्तं न्यायमाकाशेऽतिदिशति —
तथेति ॥१०॥ 【भाष्यम्】 【भाष्यम्】 धर्मस्य शास्त्रैकगम्यत्वेन परोक्षत्वादयमिति निर्देशानर्हत्वमाशङ्क्याऽऽह — अयमितीति । यद्यपि धर्मोऽप्रत्यक्षोऽयमिति निर्देशानर्हस्तथाऽपि पृथिव्यादिधर्मकार्यस्य प्रत्यक्षत्वात्तेन कारणस्याभेदमौपचारिकमादाय प्रत्यक्षघटादिवदयं धर्म इति व्यपदेशोपपत्तिरित्यर्थः । कोऽसौ धर्मो यस्य प्रत्यक्षत्वेन व्यपदेशस्तत्राऽऽह — धर्मश्चेति । व्याख्यातस्तच्छ्रेयोरूपमत्यसृजत धर्ममित्यादाविति शेषः । तर्हि तस्य प्रत्यक्षत्वान्न चोदनालक्षणत्वमित्याशङ्क्य गौणत्वमुख्यत्वाभ्यामविरोधमभिप्रेत्याऽऽह — श्रुतीति । तस्मिन्नेव कार्यलिङ्गकमनुमानं सूचयति — क्षत्त्रादीनामिति । तत्रैवानुमानान्तरं विवक्षित्वोक्तम् — जगत इति । जगद्वैचित्र्यकारित्वे हेतुमाह — पृथिव्यादीनामिति । धर्मस्य प्रत्यक्षेण व्यपदेशे हेत्वन्तरमाह — प्राणिभिरिति । तेनानुष्ठीयमानाचारेण प्रत्यक्षेण धर्मस्य लक्ष्यमाणत्वेनेति यावत् । ननु तृतीयेऽध्याये ‘यो वै स धर्मः सत्यं वै तदि’(बृ.उ.१-४-१४) ति सत्यधर्मयोरभेदवचनात्तयोर्भेदेनात्र पर्यायद्वयोपादानमनुपपन्नमत आह — सत्येति । कथमेकत्वे सति भेदेनोक्तिरित्याशङ्क्याऽऽह — दृष्टेति । अदृष्टेन रूपेण कार्यारम्भकत्वं प्रकटयति — यस्त्विति । सामान्यात्मनाऽऽरम्भकत्वमुदाहरति — सामान्यरूपेणेति । विशेषात्मना कार्यारम्भकत्वं व्यनक्ति — विशेषेति । धर्मस्य द्वौ भेदावुक्तौ तयोर्मध्ये प्रथममधिकृत्य यश्चेत्यादि वाक्यमित्याह — तत्रेति । द्वितीयं विषयीकृत्य यश्चायमध्यात्ममित्यादि प्रवृत्तमित्याह —
तथेति ॥११॥ 【भाष्यम्】 【भाष्यम्】 पर्यायान्तरं वृत्तमनूद्योत्थापयति — आकाशान्ता इति । प्रतिशरीरिणं सर्वेषां शरीरिणां प्रत्येकमिति यावत् । इदं सत्यमित्यस्मिन्पर्याये सत्यशब्दार्थमाह — तथा दृष्टेनेति । सोऽपीत्यपिशब्दो धर्मोदाहरणार्थः । द्वयोरपि प्रकारयोर्विनियोगं विभजते — सामान्यरूप इति । उभयत्र समवेतशब्दस्तत्र तत्र कारणत्वेनानुगत्यर्थः । यश्चायमस्मिन्नित्यादिवाक्यस्य विषयमाह — तत्रेति । सत्ये यश्चेत्यादि वाक्यमिति शेषः । यश्चायमध्यात्ममित्यादिवाक्यस्य विषयमाह — तथाऽध्यात्ममिति । सत्यस्य पृथिव्यादौ कार्यकारणसंघाते च कारणत्वे प्रमाणमाह —
सत्येनेति ॥१२॥ 【भाष्यम्】 【भाष्यम्】 इदं मानुषमित्यत्र मानुषग्रहणं सर्वजात्युपलक्षणमित्यभिप्रेत्याऽऽह — धर्मसत्याभ्यामिति । कथं पुनरेषा जातिः सर्वेषां भूतानां मधु भवति तत्राऽऽह — तत्रेति । भोगभूमिः सप्तम्यर्थः । यश्चायमस्मिन्नित्यादिवाक्यद्वयस्य विषयभेदं दर्शयति — तत्रेति ।
व्यवहारभूमाविति यावत् । धर्मादिवदित्यपेरर्थः । निर्देष्टुः स्वशरीरनिष्ठा जातिराध्यात्मिकी शरीरान्तराश्रिता तु बाह्येति भेदः । वस्तुतस्तु तत्र नोभयथात्वमित्यभिप्रेत्य निर्देशभागित्युक्तम् ॥१३॥ 【भाष्यम्】 【भाष्यम्】 अन्तिमपर्यायमवतारयति — यस्त्विति । आत्मनः शारीरेण गतत्वात्पुनरुक्तिरनुपयुक्तेति शङ्कते — नन्विति । अवयवावयविविषयत्वेन पर्यायद्वयमपुनरुक्तमिति परिहरति — नेत्यादिना । परमात्मानं व्यावर्तयति — सर्वभूतेति । चेतनं व्यवच्छिनत्ति — कार्येति । यश्चायमस्मिन्नित्यादिवाक्यस्य विषयमाह — तस्मिन्निति । यश्चायमध्यात्ममिति किमिति नोक्तमित्याशङ्क्याऽऽह — एकदेशेनेति । अत्रेत्यन्तपर्यायोक्तिः । यश्चायमात्मेत्यस्यार्थमाह —
यस्त्विति ॥१४॥ 【भाष्यम्】 【भाष्यम्】 स वा अयमात्मेत्यस्यार्थमाह — यस्मिन्निति । परिशिष्टः पूर्वपर्यायेष्वनुपदिष्टोऽन्त्ये च पर्याये यश्चायमात्मेत्युक्तो निज्ञानमयो यस्मिन्नात्मनि खिल्यदृष्टान्तवचसा प्रवेशितस्तेन परेणाऽऽत्मना तादात्म्यं गतो विद्वानत्राऽऽत्मशब्दार्थः । उक्तमात्मशब्दार्थमनूद्य सर्वेषामित्यादि व्याचष्टे — तस्मिन्निति । अविद्यया कृतः कार्यकरणसंघातः एवोपाधिस्तेन विशिष्टे जीवे तस्मिन्परमार्थात्मनि ब्रह्मणि ब्रह्मविद्यया प्रवेशिते स एवायमात्मा यथोक्तविशेषणः सर्वैरुपास्यः सर्वेषां भूतानामधिपतिरिति संबन्धः । व्याख्येयं पदमादाय तस्य वाच्यमर्थमाह — सर्वेषामिति । तस्यैव विवक्षितोऽर्थः सर्वैरुपास्य इत्युक्तः । स्वातन्त्र्यं व्यतिरेकद्वारा स्फोरयति — नेत्यादिना । सर्वेषां भूतानां राजेत्येतावतैव यथोक्तार्थसिद्धौ किमित्यधिपतिरिति विशेषणमित्याशङ्क्याऽऽह — राजत्वेति । राजत्वजात्यनाक्रान्तोऽपि कश्चित्तदुचितपरिपालनादिव्यवहारवानित्युपलब्धिं न पुनस्तस्य स्वातन्त्र्यं राजपरतन्त्रत्वात्तस्मात्ततो व्यवच्छेदार्थमधिपतिरिति विशेषणमित्यर्थः । राजाऽधिपतिरित्युभयोरपि मिथो विशेषणविशेष्यत्वमभिप्रेत्य वाक्यार्थं निगमयति — एवमिति । उक्तस्य विद्याफलस्य तृतीयेनैकवाक्यत्वमाह — यदुक्तमिति । तदेव व्याख्यातं स्फोरयति — एवमिति । मैत्रेयीब्राह्मणोक्तक्रमेणेति यावत् । एवमित्यस्यार्थं कथयति — यथेति । मधुब्राह्मणे पूर्वब्राह्मणे चोक्तक्रमेणाऽऽत्मनि श्रवणादित्रयं संपाद्य विद्वान्ब्रह्माभवदिति संबन्धः । ननु मोक्षावस्थायामेव विदुषो ब्रह्मत्वापरिच्छिन्नत्वं न प्राच्यामविद्यादशायामित्याशङ्क्याऽऽह — तस्मादिति । समानाधिकरणं पञ्चमीत्रयम् । एवंलक्षणादहं ब्रह्मास्मीति श्रवणादिकृतात्तत्त्वसाक्षात्कारादिति यावत् । अब्रह्मत्वादिधीध्वस्तिस्तर्हि कथमित्याशङ्क्याऽऽह — तां त्विति । वृत्तमनूद्योत्तरग्रन्थमवतारयति — परिसमाप्त इति । यस्य शास्त्रस्यार्थो विषयप्रयोजनाख्यो ब्रह्मकण्डिकायां चतुर्थादौ च प्रस्तुतस्तस्यार्थो यथोक्तन्यायेन निर्धारित इत्यनुवादार्थः । सर्वात्मभूतत्वं सर्पादिवत्कल्पितानां सर्वेषामात्मभावेन स्थितत्वम् । सर्वं ब्रह्म तद्रूपत्वं सर्वात्मकम् । सर्व एत आत्मान कुतो भेदोक्तिरात्मैक्यस्य शास्त्रीयत्वादित्याशङ्क्याऽऽह — जलचन्द्रवदिति । दार्ष्टान्तिकभागस्य संपिण्डितमर्थमाह — सर्वमिति । उक्तस्य सर्वात्मभावस्य तृतीयेनैकवाक्यत्वं निर्दिशति — यदुक्तमिति । सर्वात्मभावे विदुषः सप्रपञ्चत्वं स्यादित्याशङ्क्याऽऽह — स एष इति । सर्वेण कल्पितेन द्वैतेन सहितमधिष्ठानभूतं ब्रह्म प्रत्यग्भावेन पश्यन्विद्वान्सर्वोपाधिस्तत्तद्रूपेण स्थितः सर्वो भवति । तदेवं कल्पितं सप्रपञ्चत्वमविद्वद्दृष्ट्या विदुषोऽभीष्टमित्यर्थः विद्वद्दृष्ट्या तस्य निष्प्रपञ्चत्वं दर्शयति — निरुपाधिरिति । निरुपाख्यत्वं शब्दप्रत्ययगोचरत्वं ब्रह्मणः सप्रपञ्चत्वमविद्याकृतं निष्प्रपञ्चत्वं तात्त्विकमित्यागमार्थाविरोध उक्तः । कथं तर्हि तार्किका मीमांसकाश्च शास्त्रार्थं विरुद्धं पश्यन्तो ब्रह्मास्ति नास्तीत्यादि विकल्पयन्तो मोमुह्यन्ते तत्राऽऽह — तमेतमिति । वादिव्यामोहस्याज्ञानं मूलमुक्त्वा प्रकृते ब्रह्मणो द्वैरूप्ये प्रमाणमाह — तमित्यादिना । तैत्तिरीयश्रुतावादिशब्देनाहमन्नमन्नमदन्तमद्मीत्यादि गृह्यते । छान्दोग्यश्रुतावादिशब्देन सत्यकामः सत्यकङ्कल्पो विजरो विमृत्युरित्यादि गृहीतम् । श्रुतिसिद्धे द्वैरूप्ये स्मृतिमपि संवादयति — तथेति । पूर्वोक्तप्रकारेणाऽऽगमार्थविरोधसमाधाने विद्यमानेऽपि तदज्ञानाद्वादिविभ्रान्तिरित्युपसंहरति — इत्येवमादीति । विकल्पमेव स्फुटयति — अस्तीति । सर्वत्र श्रुतिस्मृतिष्वात्मनीति यावत् । के तर्हि पारमविद्यायाः समधिगच्छन्ति तत्राऽऽह — तस्मादिति । ब्रह्मज्ञानफलमाह —
स एवेति ॥१५॥ 【भाष्यम्】 【भाष्यम्】 तद्यथेत्यादिवाक्यार्थं विस्तरेणोक्त्वा वृत्तं कीर्तयति — परिसमाप्तेति । ब्रह्मविद्या परिसमाप्ता चेत्किमुत्तरग्रन्थेनेत्याशङ्क्याऽऽह — एतस्या इति । इयमिति प्रवर्ग्यप्रकरणस्थामाख्यायिकां परामृशति — आनीतेदं वै तन्मध्वित्यादिना ब्राह्मणेनेति शेषः । तदेतदृषिरित्यादेस्तात्पर्यमाह — तस्या इति । तद्वां नरेत्यादिरेको मन्त्रः । आथर्वणायेत्यादिपरः । मन्त्रब्राह्मणाभ्यां वक्ष्यमाणरीत्या ब्रह्मविद्यायाः स्तुतत्वे किं सिध्यतीत्याशङ्क्याऽऽह — एवं हीति । तस्या मुक्तिसाधनत्वं दृष्टान्तेन स्फुटयति — यथेति । केन प्रकारेण ब्रह्मविद्यायाः स्तुतत्वं तदाह — अपि चेति । अपिशब्दः स्तावकब्राह्मणसंभावनार्थः । मन्त्रद्वयसमुच्चयार्थश्चशब्दः । एवं शब्दसूचितं स्तुतिप्रकारमेव प्रकटयति — येन्द्रति । तस्या दुष्प्राप्यत्वे हेतुमाह — यस्मादिति । महान्तमायासं स्फुटयति — ब्राह्मणस्येति । कृतार्थेनापीन्द्रियेण रक्षितत्वे विद्याया दौर्लभ्ये च फलितमाह — तस्मादिति । न केवलमुक्तेन प्रकारेण विद्या स्तूयते किन्तु प्रकारान्तरेणापीत्याह — अपि चेति । तदेव प्रकारान्तरं प्रकटयति — सर्वेति । केवलयेत्यस्य व्याख्यानं कर्मनिरपेक्षयेति । तत्र हेतुमाह — यस्मादिति । किमिति कर्मप्रकरणे प्राप्ताऽपि प्रकरणान्तरे कथ्यते तत्राऽऽह — कर्मणेति । प्रसिद्धं पुमर्थोपायं कर्म त्यक्त्वा विद्यायामेवाऽऽदरे तदधिकता समधिगतेति फलितमाह — तस्मादिति । प्रकरान्तरेण ब्रह्मविद्यायाः स्तुतिं दर्शयति — अपि चेति । अनात्मरतिं त्यक्त्वाऽऽत्मन्येव रतिहेतुत्वान्महतीयं विद्येत्यर्थः । विधान्तरेण तस्याः स्तुतिमाह — अपि चैवमिति । कथं ब्रह्मविद्या भार्यायै प्रीत्यर्थमेवोक्तेति गम्यते तत्राऽऽह — प्रियमिति । आख्यायिकायाः स्तुत्यर्थत्वं प्रतिपाद्य वृत्तमनूद्याऽऽकाङ्क्षापूर्वकं तामवतार्य व्याकरोति — तत्रेत्यादिना । ब्रह्मविद्या सप्तम्यर्थः । पदार्थमुक्त्वा वाक्यार्थमाह — यदिति । दध्यङ्ङित्यादि व्याकुर्वन्नाकाङ्क्षापूर्वकं प्रवर्ग्यप्रकरणस्थामाख्यायिकामनुकीर्तयति — कथमित्यादिना । आभ्यामश्विभ्यामिति यावत् । केन कारणेनोवाचेत्यपेक्षायामाह — तदेनयोरिति । एनयोरश्विनोस्तन्मधु प्रीत्यास्पदमासीत्तद्वशात्ताभ्यां प्रार्थितो ब्राह्मणस्तदुवाचेत्यर्थः । यदश्विभ्यां मधु प्रार्थितं तदेतेन वक्ष्यमाणेन प्रकारेण प्रयच्छन्नेवैनयोरश्विनोराचार्यत्वेन ब्राह्मणः समीपगमनं कृतवानित्याह — तदेवेति । आचार्यत्वानन्तरं ब्राह्मणस्य वचनं दर्शयति — स होवाचेति । एतच्छब्दो मध्वनुभवविषयः । यद्यर्थो यच्छब्दः । तच्छब्दस्तर्हीत्यर्थः । वां युवामुपनेष्ये शिष्यत्वेन स्वीकरिष्यामीति यावत् । तौ देवभिषजावश्विनौ शिरश्छेदनिमित्तं मरणं पञ्चम्यर्थः । नावावामुपनेष्ये शिष्यत्वेन स्वीकरिष्यसि यदेति यावत् । अथशब्दस्तदेत्यर्थः । ब्राह्मणस्यानुज्ञानन्तर्यमथेत्युक्तम् । मधुप्रवचनान्तर्यं तृतीयस्याथशब्दस्यार्थः । यदश्वस्य शिरो ब्राह्मणे निबद्धं तस्य च्छेदनानन्तर्यं चतुर्थस्याथशब्दस्यार्थः । तर्हि समस्तमपि मधु प्रवर्ग्यप्रकरणे प्रदर्शितमेवेति कृतमनेन ब्राह्मणेनेत्याशङ्क्याऽऽह — यावत्त्विति । प्रवर्ग्यप्रकरणे स्थिताऽऽख्यायिका किमर्थमत्राऽऽनीतेत्याशङ्क्य तस्या ब्रह्मविद्यायाः स्तुत्यर्थेयमाख्यायिकेत्यत्रोक्तमुपसंहरति — तत्रेति । ब्राह्मणभागव्याख्यां निगमयति — इदमिति । तद्वामित्यादिमन्त्रमुत्थाप्य व्याचष्टे — तदेतदिति । कथं लाभायापि क्रूरकर्मानुष्ठानमत आह — लाभेति । ननु प्रतिषेधे मुख्यो नकारः कथमिवार्थे व्याख्यायते तत्राऽऽह — नकारस्त्विति । वेदे पदादुपरिष्टाद्यो नकारः श्रुतः स खलूपचारः सन्नुपमार्थोऽपि संभवति न निषेधार्थ एवेत्यर्थः । तत्रोदाहरणमाह — यथेति । “अश्वं न गूढमश्विने”त्यत्र नकारो यथोपमार्थीयस्तथा प्रकृतेऽपीत्यर्थः । तदेव स्पष्टयति — अश्वमिवेति । यद्वदिति । उपमार्थीये नकारे सति वाक्यस्वरूपमनूद्य तदर्थं कथयति — तन्यतुरित्यादिना । विद्यास्तुतिद्वारा तद्वन्तावश्विनावत्र न स्तूयते किन्तु क्रूरकर्मकारित्वेन निन्द्येते तदा चाऽऽख्यायिका विद्यास्तुत्यर्थेत्ययुक्तमिति शङ्कते — नन्विति । आख्यायिकाया विद्यास्तुत्यर्थत्वमविरुद्धमिति परिहरति — नैष इति । लोममात्रमपि न मीयत इति यस्मात्तस्माद्विद्यास्तुत्या तद्वतोः स्तुतिरेवात्र विवक्षितमिति योजना । यद्यपि क्रूरकर्मकारिणोरश्विनोर्न दृष्टहानिस्तथाऽप्यदृष्टहानिः स्यादेवेत्याशङ्क्य कैमुतिकन्यायेनाऽऽह — न चेति । कथं पुनर्निन्दायां दृश्यमानायां स्तुतिरिष्यते तत्राऽऽह — निन्दामिति । न हि निन्दा निन्द्यं निन्दितुमपि तु विधेयं स्तोतुमिति न्यायादित्यर्थः । यथा निन्दा न निन्द्यं निन्दितुमेव तथा स्तुतिरपि स्तुत्यं स्तोतुमेव न भवति किन्तु निन्दितुमपि । तथा च नानयोर्व्यवस्थितत्वमित्याह — तथेति । तद्वामित्यादिमन्त्रस्य पूर्वार्धं व्याख्यायाऽऽख्यायिकायाः स्तुत्यर्थत्वविरोधं चोद्धृत्योत्तरार्धं व्यचष्टे — दध्यङ्नामेति ।
यत्कक्ष्यं ज्ञानाख्यं मधु तदाथर्वणो युवाभ्यामश्वस्य शिरसा प्रोवाच । यच्चासौ मधु युवाभ्यामुक्तवांस्तदहमाविष्कृणोमीति संबन्धः ॥१६॥ 【भाष्यम्】 【भाष्यम्】 समानार्थत्वे किमिति पुनरुच्यते तत्राऽऽह — मन्त्रान्तरेति । तुल्यार्थस्य ब्राह्मणस्य तात्पर्यमाह — तथेति । विशेषणकृत्यं दर्शयन्व्याकरोति — दध्यङ्नामेति । प्रथममश्व्यमित्यादि पदार्थवचनमवश्वस्येत्यादौ छित्त्वेत्यस्य कर्मोक्तिरवश्व्यं शिर इत्यत्र त्वन्यार्थमुक्तमिति विभागः । प्रेक्षापूर्वकारिणामीदृशी प्रवृत्तिरयुक्तेति शङ्कित्वा समाधत्ते — स किमर्थमिति । ऋतायन्नित्यत्रार्थसिद्धमर्थं कथयति — जीवितादपीति । “यज्ञस्य शिरोऽच्छिद्यत ते देवा अश्विनावब्रुवन्भिषजौ वै स्थ इदं यज्ञस्य शिरः प्रतिधत्तम् ।” इत्यादिश्रुत्यन्तरमाश्रित्याऽऽह — यज्ञस्येत्यादिना । प्रवर्ग्यकर्मण्येवं प्रवृत्तेऽपि प्रकृते विज्ञाने किमायातं तदाह — तत्रेति । उक्तमेव संगृह्णाति — यज्ञस्येति ।
यद्यथोक्तं दर्शनं तत्वाष्ट्रं मधु यच्च तन्मधु तत्प्रवोचदिति संबन्धः अध्यायद्वयप्रकाशितं तृतीयचतुर्थाभ्यामध्यायाभ्यां प्रकटमिति यावत् ॥१७॥ 【भाष्यम्】 【भाष्यम्】 उक्तमन्त्राभ्यां वक्ष्यमाणमन्त्रयोरपुनरुक्तत्वादर्थवत्त्वं वक्तुं वृत्तं कीर्तयति — उक्ताविति । आख्यायिकाविशेषणप्राप्तं संकोचं परिहरति — द्वयोरिति । उत्तरमन्त्रद्वयप्रवृत्तिं प्रतिजानीते — ब्रह्मेति । संप्रत्यवान्तरसंगतिमाह — यत्कक्ष्यं चेति । हिरण्यगर्भकर्तृकं शरीरनिर्माणमत्र नोच्यते किन्तु प्रकरणबलादीश्वरकर्तृकमित्याह — यत इति । शरीरसृष्ट्यपेक्षया लोकसृष्टिप्राथम्यं पुरस्ताद्देहसृष्ट्यनन्तरं प्रवेशात्पूर्वमिति यावत् । स हि सर्वेषु शरीरेषु वर्तमानः पुरि शेते इति व्युत्पत्त्या पुरिशयः सन्पुरुषो भवतीत्युक्त्वा प्रकारान्तरेण पुरुषत्वं व्युत्पादयति — नेत्यादिना । वाक्यद्वयस्यैकार्थत्वमाशङ्क्य सर्वं जगदोतप्रोतत्वेनाऽऽत्मव्याप्तमित्यर्थविशेषमाश्रित्याऽऽह — बाह्यभूतेनेति । पूर्णत्वे सत्यात्मनः ‘दिव्यो ह्यमूर्तः’ (मु. उ. २ । १ । २) इत्यादिश्रुतिमाश्रित्य फलितमाह — एवमिति । मन्त्रब्राह्मणयोरर्थवैमत्यमाशङ्क्याऽऽह —
पुर इति ॥१८॥ 【भाष्यम्】 【भाष्यम्】 प्राचीनमेव ब्राह्मणमनूद्य मन्त्रान्तरमवतारयति — इदमिति । प्रतिशब्दस्तन्त्रेणोच्चारितः । रूपं रूपमुपाधिभेदं प्रति प्रतिरूपो रूपान्तरं प्रतिबिम्बं बभूवेत्येतत्प्रतिरूपो बभूवेत्यत्र विवक्षितमिति योजना । अनुरूपो वेत्युक्तं विवृणोति — यादृगित्यादिना । उक्तमर्थमनुभवारूढं करोति — नहीति । रूपान्तरभवने कर्त्रन्तरं वारयति — स एव हीति । प्रतिख्यापनाय शास्त्राचार्यादिभेदेन तत्त्वप्रकाशनायेत्यर्थः । तदेव व्यतिरेकेणान्वयेन च स्फुटयति — यदि हीत्यादिना । मायाभिः प्रज्ञाभिरिति परपक्षमुक्त्वा स्वपक्षमाह — मायाभिरिति । मिथ्याधीहेतुभूतानाद्यनिर्वाच्यदण्डायमान ज्ञानवशादेष बहुरूपो भाति । प्रकारभेदात्तु बहूक्तिरिति वाक्यार्थमाह — एकरूप एवेति । अविद्याप्रज्ञाभिर्बहुरूपो गम्यत इति पूर्वेण संबन्धः । परस्य बहुरूपत्वे निमित्तं प्रश्नपूर्वकं निवेदयति — कस्मादित्यादिना । यथा रथे युक्ता वाजिनो रथिनं स्वगोचरं देशं प्रापयितुं प्रवर्तन्ते तथाऽस्य प्रतीचो रथस्थानीयो शरीरे युक्ता हरयः स्वविषयप्रकाशनाय यस्मात्प्रवर्तन्ते तस्मादिन्द्रियाणां तद्विषयाणां च बहुलत्वात्तत्तद्द्रूपैरेष बहुरूपो भातीति योजना । हरिशब्दस्येन्द्रियेषु प्रवृत्तौ निमित्तमाह — हरणादिति । प्रतीचो विषयान्प्रतीति शेषः । इन्द्रियबाहुल्ये हेतुमाह — प्राणेति । इन्द्रियविषयबाहुल्यात् प्रत्यगात्मा बहुरूप इति शेषः । नन्वात्मानं प्रकाशयितुमिन्द्रियाणि प्रवृत्तानि न तु रूपादिकमेव तत्कथं तद्विषवशादात्मनोऽन्यथा प्रथेत्याशङ्क्याऽऽह — तत्प्रकाशनायेति । तस्मादिन्द्रियविषयबाहुल्यादित्यत्रोक्तमुपसंहरति — तस्मादिति । यद्वा यथोक्तश्रुतिवशेन लब्धमर्थमाह — तस्मादिति । यस्मादिन्द्रियाणि पराग्विषये प्रवृत्तानि तस्मात्तैरिन्द्रियैर्विषयस्वरूपैरेवायं प्रत्यगात्मा गम्यते न तु स्वासाधारणेन रूपेणेत्यर्थः । युक्ता हीति संबन्धमाश्रित्य शङ्कते — एवं तर्हीति । अयमित्यादिवाक्येन परिहरति — अयमिति । तत्तदिन्द्रियादिरूपेणाऽऽत्मन एवाविद्यया भानात्संबन्धस्य च कल्पितत्वान्नाद्वैतहानिरित्यर्थः । इन्द्रियानन्त्ये हेतुमाह — प्राणिभेदस्येति । वाक्यार्थव्याख्यानार्थमित्थं गतेन सन्दर्भेण भूमिकामारचय्य तत्परं वाक्यमवतार्य व्याकरोति — किं बहुनेत्यादिना । न केवलमध्यायद्वयस्यैवार्थोऽत्र संक्षिप्योपसंहृतः किन्तु सर्ववेदान्तानामित्याह — एष इति । तस्योभयविधपुरुषार्थरूपत्वमाह — एतदिति । वक्तव्यान्तरपरिशेषशङ्कां परिहरति —
परिसमाप्तश्चेति ॥१९॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मविद्यां संक्षेपविस्तराभ्यां प्रतिपाद्य वंशब्राह्मणतात्पर्यमाह — अथेति । महाजनपरिगृहीता हि ब्रह्मविद्या तेन सा महाभागधेयेति स्तुतिः । ब्राह्मणस्यार्थान्तरमाह — मन्त्रश्चेति । स्वाध्यायः स्वाधीनोच्चारणक्षमत्वे सत्यध्यापनं जपस्तु प्रत्यहमावृत्तिरिति भेदः । यथोक्तनीत्या ब्राह्मणारम्भे स्थिते वंशशब्दार्थमाह — तत्रेति । तदेव स्फुटयति — यथेति । शिष्यावसानोपलक्षिणीभूतात्पौतिमाष्यादारभ्य तदादिर्वेदाख्यब्रह्ममूलपर्यन्तोऽयं वंशः पर्वणः पर्वणो भिद्यत इति संबन्धः । वंशशब्देन निष्पन्नमर्थमाह — अध्यायचतुष्टयस्येति । अथात्र शिष्याचार्यवाचकशब्दाभावे कुतो व्यवस्थेति तत्राऽऽह — तत्रेति । परमेष्ठिब्रह्मशब्दयोरेकार्थत्वमाशङ्क्याऽऽह — परमेष्ठीति । कुतस्तर्हि ब्रह्मणो विद्याप्राप्तिस्तत्राऽऽह — तत इति । स्वयम्प्रतिभातवेदो हिरण्यगर्भो नाऽऽचार्यान्तरमपेक्षते । ईस्वरानुगृहीतस्य तस्य, बुद्धावाविर्भूताद्वेदादेव विद्यालाभसंभवादित्यर्थः । कुतस्तर्हि वेदो जायते तत्राऽऽह — यत्पुनरिति । परस्यैव ब्रह्मणो वेदरूपेणावस्थानात्तस्य नित्यत्वान्न हेत्वपेक्षेत्यर्थः । आदावन्ते च कृतमङ्गला ग्रन्थाः प्रचारिणो भवन्तीति द्योतयितुमन्ते ब्रह्मणे नम इत्युक्तम् । तद्व्याचष्टे — तस्मा इति ॥१–२–३॥ मधुकाण्डे त्वाष्ट्रं कक्ष्यं चेति मधुद्वयं व्याख्यातं संप्रति काण्डान्तरारभ्यं प्रतिजानीते — जनक इति । ननु पूर्वस्मिन्नध्यायद्वये व्याख्यातमेव तत्त्वमुत्तरत्रापि वक्ष्यते तथा च पुनरुक्तेरलं मुनिकाण्डेनेति तत्राऽऽह — उपपत्तीति । तुल्यमुपपत्तिप्रधानत्वं मधुकाण्डस्यापीति चेन्नेत्याह — मधुकाण्डं हीति । ननु प्रमाणादागमादेव तत्त्वज्ञानमुत्पत्स्यते किमुपपत्त्या तत्प्रधानेन काण्डेन चेति तत्राऽऽह — आगमेति । करणत्वेनाऽऽगमः तत्त्वज्ञानहेतुरुपपत्तिरुपकरणतया पदार्थपरिशोधनद्वारा तद्धेतुरित्यत्र गमकमाह — श्रोतव्य इति । करणोपकरणयोरागमोपपत्त्योस्तत्त्वज्ञानहेतुत्वे सिद्धे फलितमुपसंहरति — तस्मादिति । यथोक्तरीत्या काण्डारम्भेऽपि किमित्याख्यायिका प्रणीयते तत्राऽऽह — आख्यायिका त्विति । विज्ञानवतां पूजाऽत्र प्रयुज्यमाना दृश्यते । तथा च विज्ञानं महाभागधेयमिति स्तुतिरत्र विवक्षितेत्यर्थः । विद्याग्रहणे दानाख्योपायप्रकारज्ञापनपरा वाऽऽख्यायिकेत्यर्थान्तरमाह — उपायेति । कथं पुनर्दानस्य विद्याग्रहणोपायत्वं तत्राऽऽह — प्रसिद्धो हीति । ‘गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा’ इत्यादौ दानाख्यो विद्याग्रहणोपायो यस्मात्प्रसिद्धस्तस्मात्तस्य तदुपायत्वे नास्ति वक्तव्यमित्यर्थः । ‘दाने सर्वं प्रतिष्ठितम्’ इत्यादिश्रुतिषु विद्वद्भिरेष विद्याग्रहणोपायो दृष्टस्तामान्न तस्योपायत्वे विवदितव्यमित्याह — विद्वद्भिरिति । उपपन्नं च दानस्य विद्याग्रहणोपायत्वमित्याह — दानेनेति । भवतु दानं विद्याग्रहणोपायस्तथाऽपीयमाख्यायिका कथं तत्प्रदर्शनपरेत्याशङ्क्याऽऽह — प्रभूतमिति । ननु समुदितेषु ब्राह्मणेषु ब्रह्मिष्ठतमं निर्धारयितुं राजा प्रवृत्तस्तत्कथमन्यपरेण ग्रन्थेन विद्याग्रहणोपायविधानायाऽऽख्यायिकाऽऽरभ्यते तत्राऽऽह — तस्मादिति । उपलम्भो यथोक्तस्तच्छब्दार्थः । इतश्चाऽऽख्यायिका विद्याप्राप्त्युपायप्रदर्शनपरेत्याह — अपि चेति । तस्मिन्वेद्येऽर्थे विद्या येषां ते तद्विद्यास्तैः सह संबन्धश्च तैरेव प्रश्नप्रतिवचनद्वारा वादकरणं च विद्याप्राप्तावुपाय इत्यत्र गमकमाह — न्यायविद्यायामिति । तत्त्वनिर्णयफलां हि वीतरागकथामिच्छन्ति । तद्विद्यसंयोगादेर्विद्याप्राप्त्युपायत्वेऽपि कथं प्रकृते तत्प्रदर्शनपरत्वमत आह — तच्चेति । तद्विद्यसंयोगादीति यावत् । न केवलं तर्कशास्त्रवशादेव तद्विद्यसंयोगे प्रज्ञावृद्धिः किन्तु स्वानुभववशादपीत्याह — प्रत्यक्षा चेति । आख्यायिकातात्पर्यमुपसंहरति — तस्मादिति । राजसूयाभिषिक्तः सार्वभौमो राजा सम्राडित्युच्यते । बहुदक्षिणेन यज्ञेनायजदिति संबन्धः । अश्वमेधे दक्षिणाबाहुल्यमश्वमेधप्रकरणे स्थितम् । ब्राह्मणा अभिसंगता बभूवुरिति संबन्धः । कुरुपञ्चालानामिति कुतो विशेषणं तत्राऽऽह — तेषु हीति । तत्र यज्ञशालायामिति यावत् । विजिज्ञासामेवाऽऽकाङ्क्षापूर्विकां व्युत्पादयति — कथमित्यादिना । अनूचानत्वमनुवचनसमर्थत्वम् । एषां मध्येऽतिशयेनानूचानोऽनूचानतमः स कः स्यादिति योजना । एकस्य पलस्य चत्वारो भागास्तेषामेको भागः पाद इत्युच्यते । प्रत्येकं शृङ्गयोर्दश दश पादाः संबध्येरन्निति शङ्कां निराकर्तुं विभजते — पञ्चेति ।
एकैकस्मिञ्शृङ्ग आबद्धा बभूवुरिति पूर्वेण संबन्धः ॥१॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणा वेदाध्ययनसंपन्नास्तदर्थनिष्ठा इति यावत् । उत्कालयतूद्गमयतु । यतो याज्ञवल्क्याद्यजुर्वेदविदः सकाशाद्ब्रह्मचारी सामविधिं शृणोति ऋक्षु चाध्यारूढं साम गीयते त्रिष्वेव च वेदेष्वन्तर्भूतोऽथर्ववेदस्तस्मादर्थाद्यजुर्वेदिनो मुनेः शिष्यस्य सामवेदाध्ययनानुपपत्तेर्वेदचतुष्टयविशिष्टो मुनिरित्याह — अत इति । निमित्तनिवेदनपूर्वकं ब्राह्मणानां सभ्यानां क्रोधप्राप्तिं दर्शयति — याज्ञवल्क्येनेति । क्रोधानन्तर्यमथशब्दार्थं कथयति — क्रुद्धेष्विति । अश्वलप्रश्नस्य प्राथम्ये हेतुः — राजेति । याज्ञवल्क्यमित्यनुवादोऽन्वयप्रदर्शनार्थः । प्रश्नमेव प्रश्नपूर्वकं विशदयति — कथमित्यादिना । अनौद्धत्यं ब्रह्मविदो लिङ्गमिति सूचयति — स हेति । किमिति तर्हि स्वगृहं प्रति गावो ब्रह्मिष्ठपणभूता नीतास्तत्राऽऽह — इदानीमिति । न तस्य तादृशी प्रतिज्ञा प्रतिभातीत्याशङ्क्याऽऽह —
तत एवेति ॥२॥ 【भाष्यम्】 【भाष्यम्】 तत्र प्रथमं मुनेराभिमुख्यमापादयितुं संबोधयति — याज्ञवल्क्येति । उक्तरीत्याऽऽश्वलप्रश्ने प्रस्तुते तस्योद्गीथाधिकारेण संगतिमाह — तत्रेति । मधुकाण्डे पूर्वत्र व्याख्याते यदुद्गीथप्रकरणं तस्मिनासंगपाप्मनो मृत्योरपत्ययः समुच्चितेन कर्मणा संक्षेपतो व्याख्यात इति संबन्धः । तस्यैवोद्गीथदर्शनस्येति यावत् । परीक्षाविषयो विचारभूमिरियं प्रश्नप्रतिवचनरूपो ग्रन्थ इत्यर्थः । तच्छब्दः समनन्तरनिर्दिष्टग्रन्थविषयः । दर्शनमुद्गीथोपासनं तस्य विशेषो वागादेरग्न्याद्यात्मत्वविज्ञानं तत्सिद्ध्यर्थोऽयं प्रक्रमः । एवमवान्तरसंगतिमुक्त्वा प्रश्नाक्षराणि व्याचष्टे — यदिदमिति । मृत्युनाऽऽप्तमित्यनेन मृत्युनाऽभिपन्नमित्यस्य गतार्थत्वमाशङ्क्याऽऽह — न केवलमिति । कर्मणो मृत्युत्वात्तेन मृत्योरत्ययायोगात्तदत्ययसाधनं किञ्चिद्दर्शनमेव वाच्यमित्याशयेन पृच्छति — केनेति । दर्शनविषयं प्रश्नमाक्षिपति — नन्विति । येन मुख्यप्राणात्मदर्शनेनातिमुच्यते तदुद्गीथप्रक्रियायामेवोक्तं तथाच मृत्योरत्ययोपायस्य विज्ञानस्य निर्ज्ञातत्वात्केनेतिप्रश्नानुपपत्तिरिति योजना । तस्यैव परीक्षाविषयोऽयमित्यादावुक्तमादाय परिहरति — बाढमिति । उद्गीथप्रकरणे वागादेरग्न्याद्यात्मत्वदर्शनरूपो यो विशेषो वक्तव्योऽपि नोक्तस्तदुक्त्यर्थोऽयं प्रश्नप्रतिवचनरूपो ग्रन्थ इति कृत्वा केनेत्यादिप्रशोपपत्तिरित्यर्थः । कीदृक्पुनर्दर्शनं मृत्युजयसाधनं होत्रेत्यादावुक्तमित्याशङ्क्याऽऽह — एतस्येति । व्याचष्टे वाग्वै यज्ञस्येतादिनेति शेषः । व्याख्यानमेव विशदयितुं पृच्छति — कः पुनरिति । दर्शनविषयं दर्शयन्नुत्तरमाह — उच्यत इति । यज्ञशब्दस्य यजमाने वृद्धप्रयोगो नास्तीत्याशङ्क्याऽऽह — यज्ञ इति । यजमानस्य या वागध्यात्मं सैवाधियज्ञे होताऽस्तु तथाऽपि कथं तयोर्देवतात्मना दर्शनमित्याह — कथमिति । तयोरग्न्यात्मना दर्शनमुत्तरवाक्यावष्टम्भेन व्याचष्टे — तत्तत्रेति । कथं पुनर्वागग्न्योरेकत्वं तदाह — तदेतदिति । तयोरेकत्वेऽपि कुतो हेतुस्तदैक्यमित्याशङ्क्याऽऽह — स चेति । स मुक्तिरित्येतदवतारयितुं भूमिकां करोति — यदेतदिति । न केवलमेतदुभयं मृत्युना संस्पृष्टमेव किन्तु तेन वशीकृतं चेत्याह — स्वाभाविकेति । मृत्युनाऽऽप्तं मृत्युनाऽभिपन्नमित्यनयोरर्थमनूद्य होत्रेत्यादेरर्थमनुवदति — तदनेनेति । साधनद्वयं तच्छब्दार्थः । यजमानग्रहणं होतुरुपलक्षणम् । उक्तेऽर्थे समनन्तरवाक्यमवतार्य व्याकरोति — तदेतदाहेति । मुक्तिशब्दस्तत्साधनविषयः । पदार्थमुक्त्वा वाक्यार्थमाह — अग्निस्वरूपेति । वाचो होतुश्चाग्निस्वरूपेण दर्शनमेव मुक्तिहेतुरिति यावत् । उक्तमर्थं प्रपञ्चयति — यदैवेति । स मुक्तिरित्यस्यार्थमुपसंहरति — तस्मादिति । वाक्यान्तरं समुत्थाप्य व्याचष्टे — साऽतिमुक्तिरिति । मुक्त्यतिमुक्त्योरसंकीर्णत्वं दर्शयति — साधनद्वयस्येति । प्राप्तिरतिमुक्तिरिति संबन्धः । तामेव संगृह्णाति — या फलभूतेति । फलभूतायामग्न्यादिदेवताप्राप्तौ कथमतिमुक्तिशब्दोपपत्तिरित्याशङ्क्याऽऽह — तस्या इति । ननु वागादीनामग्न्यादिभावोऽत्र श्रूयते यजमानस्य तु न किञ्चिदुच्यते तत्राऽऽह — यजमानस्येति । तर्हि तेनैव गतार्थत्वादनर्थकमिदं ब्राह्मणमित्याशङ्क्य बाढमित्यादिनोक्तं स्मारयति — तत्रेति । दर्शनवत्फलेऽपि विशेषः स्यादित्याशङ्क्याऽऽह —
मृत्युप्राप्तीति ॥३॥ 【भाष्यम्】 【भाष्यम्】 प्रश्नान्तरमवतार्य तात्पर्यमाह — याज्ञवल्क्येति । आश्रयभूतानि कानि तानीत्याशङ्क्याऽऽह — दर्शपूर्णमासादीति । कर्मणो मुक्तिरुक्ता चेत्कालादपि सोक्तैव तस्य कर्मान्तर्भावेन मृत्युत्वादित्याशङ्क्याऽऽह — पृथगिति । कर्मनिरपेक्षतया कालस्य मृत्युत्वं व्युत्पादयति — क्रियेति । कालस्य पृथङ्मृत्युत्वे सिद्धे फलितमाह — तस्मादिति । उत्तरग्रन्थस्थप्रश्नयोर्विषयं भेत्तुं कालं भिनत्ति — स चेति । आदित्यश्चन्द्रश्चेति कर्तृभेदाद्वैविध्यमुन्नेयम् । कालस्य दैरूप्ये सत्याद्यकण्डिकाविषयमाह — तत्रेति । अहोरात्रयोर्मृत्युत्वे सिद्धे ताभ्यामतिमुक्तिर्वक्तव्या तदेव कथमित्याशङ्क्याऽऽह — अहोरात्राभ्यामिति । यज्ञसाधनं च तथा ताभ्यां जायते वर्धते नश्यति चेति संबन्धः । प्रतिवचनव्याख्याने यज्ञशब्दार्थमाह — यजमानस्येति । स मुक्तिरित्यस्य तत्पर्यार्थमाह — यजमानस्येत्यादिना । तस्यैवाक्षरार्थं कथयति — सोऽध्वर्युरिति । यथोक्तरीत्याऽऽदित्यात्मत्वेऽपि कथमहोरात्रलक्षणान्मृत्योरतिरिमुक्तिरत आह — आदित्येति ।
’नोदेता नास्तमेता’ इत्यादिश्रुतेरादित्ये वस्तुतो नाहोरात्रे स्तः । तथा च तदात्मनि विदुष्यपि न ते संभवत इत्यर्थः ॥४॥ 【भाष्यम्】 【भाष्यम्】 कण्डिकान्तरस्य तात्पर्यमाह — इदानीमिति । नन्वहोरात्रादिलक्षणे काले तिथ्यादिलक्षणस्य कालस्यान्तर्भावात्ततोऽतिमुक्तावुक्तायां तिथ्यादिलक्षणादपि कालादसावुक्तैवेति कृतं पृथगारम्भेणेति तत्राऽऽह — अहोरात्रयोरिति । अविशिष्टयोर्वृद्धिक्षयशून्ययोरिति यावत् । कथं तर्हि तिथ्यादिक्षणात्कालादतिमुक्तिरत आह — अतस्तदापत्त्येति । चन्द्राप्राप्त्या तिथ्याद्यत्ययो माध्यन्दिनश्रुत्योच्यते काण्वश्रुत्या तु वायुभावापत्त्या तदत्यय उक्तः । तथा च श्रुत्येर्विरोधे कः समाधिरित्याशङ्क्याऽऽह — तत्रेति । काण्वश्रुताविति यावत् । उद्गातुरपि प्राणात्मकवायुरूपत्वं श्रुतिद्वयानुसारेण दर्शयति — स एवेति । न केवलमुद्गातुः प्राणत्वं प्रतिज्ञामात्रेण प्रतिपन्नं किन्तु विचार्य निर्धारितं चेत्याह — वाचेति । प्राणचन्द्रमसोश्चैकत्वं सप्तान्नाधिकारे निर्धारितमित्याह — अथेति । उक्तया रीत्या प्राणादीनामेकत्वे श्रुत्येरविरोधं फलितमाह — प्राणेति । मनोब्रह्मणोश्चन्द्रमसा प्राणोद्गात्रोश्च वायुनोपास्यत्वेनोपसंग्रहे मृत्युतरणे विशेषो नास्तीति श्रुत्योर्विकल्पेनोपपत्तिरित्यर्थः । उपसंहरति प्राणमुद्गातारं च तद्रूपेणोपास्यतया संगृह्णाति काण्व श्रुतिरित्यर्थः । इतश्च काण्वश्रुतिरुपपन्नेत्याह — अपि चेति । वायुः सूत्रात्मा तन्निमित्तौ स्वावयवस्य चन्द्रमसो वृद्धिह्रासौ । सूत्राधीना हि चन्द्रादेर्जगतश्चेष्टेत्यर्थः । वृद्ध्यादिहेतुत्वे फलितमाह — तेनेति । कर्तुश्चन्द्रस्येत्यर्थः । वायोश्चन्द्रमसि कारयितृत्वेऽपि प्रकृते किमायातं तदाह — अत इति । उदितानुदितहोमवद्विकल्पमुपेत्याविरोधमुपसंहरति — तेनेति ।
श्रुत्यन्तरं माध्यन्दिनश्रुतिः । साधनद्वयस्येत्युभयत्र संबध्यते । तत्राऽऽदौ मनसो ब्रह्मणश्चेत्यर्थः । उत्तरत्र प्राणस्योद्गातुश्चेत्यर्थः । तच्छब्दश्चन्द्रविषयः ॥५॥ 【भाष्यम्】 【भाष्यम्】 यदिदमन्तरिक्षमित्यादि प्रश्नान्तरं वृत्तानुवादपूर्वकमुपादत्ते — मृत्योरिति । व्याख्यानव्याख्येयभावेन क्रियापदे नेतव्ये । इत्येतत्प्रश्नरूपमुच्यते समनन्तरवाक्येनेति यावत् । तद्व्याचष्टे — यदिदमिति । केनेतिप्रश्नस्य विषयामाह — यत्त्विति । प्रश्नविषयं प्रपञ्चयति — अन्यथेति । आलम्बनमन्तरेणेति यावत् । प्रश्नार्थं संक्षिप्योपसंहरति — केनेति । अक्षरन्यासोऽक्षराणामर्थेषु वृत्तिरिति यावत् । मनो वै यज्ञस्येत्यादेरर्थमाह — तत्रेति । व्यवहारभूमिः सप्तम्यर्थः । वाक्यार्थमाह — तेनेति । तृतीया तृतीयाभ्यां संबध्यते । दर्शनफलमाह — तेनेति । वागादीनामग्न्यादिभावेन दर्शनमुक्तं त्वगादीनां तु वाय्वादिभावेन दर्शनं वक्तव्यं तत्कथं वक्तव्यशेषे सत्युपसंहारोपपत्तिरित्याशङ्क्याऽऽह — सर्वाणीति । वागादावुक्तन्यायस्य त्वगादावतिदेशोऽत्र विवक्षित इत्याह — एवं प्रकारा इति । अथशब्दो दर्शनप्रभेदकथनानन्तर्यार्थः । केयं संपन्नामेति पृच्छति — संपन्नामेति । उत्तरमाह — केनचिदिति । महतां फलवतामश्वमेधादिकर्मणां कर्मत्वादिना सामान्येनाल्पीयस्सु कर्मसु विवक्षितफलसिद्ध्यर्थं संपत्तिस्संपदुच्यते । यथाशक्त्यग्निहोत्रादिनिर्वर्तनेनाश्वमेधादि मया निर्वर्त्यत इति ध्यानं संपदित्यर्थः । यद्वा फलस्यैव देवलोकादेरुज्ज्वलत्वादिसामान्येनाऽऽज्याद्याहुतिषु संपादनं संपदित्याह — फलस्येति । संपदनुष्ठानावसरमादर्शयति — सर्वोत्साहेनेति । असंभवोऽनुष्ठानस्य यदेति शेषः । कर्मिणामेव संपदनुष्ठानेऽविकार इति दर्शयितुमाहिताग्निः सन्नित्युक्तम् । अग्निहोत्रादीनामिति निर्धारणे षष्ठी । यथासंभवं वर्णाश्रमानुरूपमिति यावत् । आदायेत्यस्य व्याख्यानमालम्बनीकृत्येति । न केवलं कर्मित्वमेव संपदनुष्ठातुरपेक्ष्यते किन्तु तत्फलविद्यावत्त्वमपीत्याह — कर्मेति । तदेव कर्मफलमेवेत्यर्थः । कर्माण्येव फलवन्ति न संपदस्तत्कथं तासां कार्यतेत्याशङ्क्याऽऽह — अन्यथेति । विहिताध्ययनस्यार्थज्ञानानुष्ठानादिपरम्परया फलवत्त्वमिष्टम् । न चाश्वमेधादिषु सर्वेषामनुष्ठानसंभवः कर्मस्वधिकृतानामपि त्रैवर्णिकानां केषाञ्चिदनुष्ठानासंभवादतस्तेषां तदध्ययनार्थवत्त्वानुपपत्त्या संपदामपि फलवत्त्वमेष्टव्यमित्यर्थः । महतोऽश्वमेधादिफलस्य कथमल्पीयस्या संपदा प्राप्तिरित्याशङ्क्य शास्त्रप्रामाण्यादित्यभिप्रेत्याऽऽह — यदीति । तदा तत्पाठः स्वाध्यायार्थ एवेति पूर्वेण संबन्धः । अध्ययनस्य फलवत्त्वे वक्तव्ये फलितमाह — तस्मादिति । तेषां राजसूयादीनामिति यावत् । ब्राह्मणादीनां राजसूयाद्यध्ययनसामर्थ्यात्तेषां संपदैव तत्फलप्राप्तावपि किं सिध्यति तदाह — तस्मात्संपदामिति । कर्मणामिवेति दृष्टान्तार्थोऽपिशब्दः । तासां फलवत्त्वे फलितमाह —
अत इति ॥६॥ 【भाष्यम्】 【भाष्यम्】 संपदामारम्भमुपपाद्य प्रश्नवाक्यमुत्थापयति — याज्ञवल्क्येतीति । प्रतीकमादाय व्याचष्टे — कतिभिरित्यादिना । कतिभिः कतमा इति प्रश्नयोर्विषयभेदं दर्शयति — संख्येयेति । स्तोत्रिया नामान्याऽपि काचिदृग्जातिरस्तीत्याशङ्क्याऽऽह — सर्वास्त्विति ।
अन्या वेति शस्त्रजातिग्रहः । विधेयभेदात्सर्वशब्दापुनरुक्तिः । अतश्च संपत्तिकरणादित्यर्थः । संख्यासामान्यात्त्रित्वाविशेषादिति यावत् । प्राणभृज्जातं लोकत्रयं विवक्षितम् ॥७॥ 【भाष्यम्】 【भाष्यम्】 प्रथमः संख्याविषयो द्वितीयस्तु संख्येयविषयः प्रश्न इति विभागं लक्षयति — पूर्ववदिति । तेन सामान्येनोज्ज्वलत्वेनेति यावत् । उक्तमर्थं संक्षिप्याऽऽह — देवलोकाख्यमिति । कथं मांसाद्याहुतीनां पितृलोकेन सह यथोक्तं सामान्यमत आह — पितृलोकेति । अधोगमनमपेक्ष्येति ।
अस्ति हि सोमाद्याहुतीनामधस्ताद्गमनमस्ति च मनुष्यलोकस्य पापप्रचुरस्य तादृग्गमनं तदपेक्ष्येत्यर्थः । अतः सामान्यादिति यावत् ॥८॥ 【भाष्यम्】 【भाष्यम्】 दक्षिणत आहवनीयस्येति शेषः । प्रासंगिकं बहुवचनमित्युक्तं प्रकटयति — एकयाहीति । जल्पकथा प्रस्तुतेति हृदि निधाय बहूक्तेर्गत्यन्तरमाह — अथवेति । मनसो देवतात्वं साधयति — मनसेति । वर्तनी वर्त्मनी तयोर्वाङ्मनसयोर्वर्त्मनोरन्यतरां वाचं मनसा मौनेन ब्रह्मा संस्करोति वाग्विसर्गे प्रायश्चित्तविधानादिति श्रुत्यन्तरस्यार्थः । तथाऽपि कथं संपदः सिद्धिस्तत्राऽऽह — तच्चेति । देवाः सर्वे यस्मिन्मनस्येकं भवन्त्यभिन्नत्वं प्रतिपद्यन्ते तस्मिन्विश्वदेवदृष्ट्या भवत्यनन्तलोकप्राप्तिरिति श्रुत्यन्तरस्यार्थः । अनन्तमेवेत्यादि व्याचष्टे — तेनेति ।
उक्तेन प्रकारेणेति यावत् । तेन मनसि विश्वदेवदृष्ट्यध्यासेनेत्यर्थः । स इत्युपासकोक्तिः ॥९॥ 【भाष्यम्】 【भाष्यम्】 पूर्ववदित्यभिमुखीकरणायेत्यर्थः । प्रतिवचनमुपादत्ते — स्तोत्रिया वेति । प्रगीतमृग्जातं स्तोत्रमप्रगीतं शस्त्रम् । कतमास्तास्तिस्र इत्यादेस्तात्पर्यमाह — ताश्चेति । प्रश्नान्तरं वृत्तमनूद्योपादत्ते — तत्रेति । यज्ञाधिकारः सप्तम्यर्थः । पुरोनुवाक्यादिना लोकत्रयजयलक्षणं फलं केन सामान्येनेत्यपेक्षायां संख्याविशेषेणेत्युक्तं स्मारयति — तदिति । अधियज्ञे त्रयमुक्तं स्मारयित्वाऽध्यात्मविशेषं दर्शयितुमुत्तरो ग्रन्थ इत्याह — उच्यत इति । प्राणादौ पुरोनुवाक्यादौ च पृथिव्यादिलोकदृष्टिरिति प्रश्नपूर्वकमाह — कतमा इति । अपाने याज्यादृष्टौ हेत्वन्तरमाह — अपानेन हीति । हस्ताद्यादानव्यापारेणेति यावत् । प्राणापानव्यापारव्यतिरेकेण शस्त्रप्रयोगस्य श्रुत्यन्तरे सिद्धत्वाद्व्याने शस्यादृष्टिरित्याह — अप्राणन्निति । तत्र पुरोनुवाक्यादिषु चेति यावत् । इहेत्यनन्तरवाक्योक्तिः । सर्वमन्यदिति संख्यासामान्योक्तिः । किं तद्विशेषसंबन्धसामान्यं तदाह — लोकेति ।
पृथिवीलक्षणेन लोकेन सह प्रथमत्वेन संबन्धसामान्यं पुरोनुवाक्यायामस्ति तेन तया पृथिवीलोकमेव प्राप्नोतीत्यर्थः । अश्वलस्य तूष्णीभावं भजतोऽभिप्रायमाह । नायमिति ॥१०॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणान्तरमवतारयन्नाख्यायिका किमर्थेति शङ्कमानं प्रत्याह — आख्यायिकेति । याज्ञवल्क्यो हि विद्याप्रकर्षवशादत्र पूजाभागी लक्ष्यते नाऽऽर्तभागस्तथा विद्यामान्द्यादतो विद्यास्तुत्यर्थेयमाख्यायिकेत्यर्थः । इदानीं ब्राह्मणार्थं वक्तुं वृत्तं कीर्तयति — मृत्योरिति । मृत्युस्वरूपं पृच्छति — कः पुनरसाविति । तत्स्वरूपनिरूपणार्थं ब्राह्मणमुत्थापयति — स चेति । मृत्युरिति संबन्धः । स्वाभाविकं नैसर्गिकमनादिसिद्धमज्ञानं तस्मादासंगः स आस्पदमिवाऽऽस्पदं यस्य स तथेति विग्रहः । तस्य विषयमुक्त्वा व्यप्तिमाह — अध्यात्मेति । तस्य स्वरूपमाह — ग्रहेति । यथोक्तमृत्युव्याप्तिमग्न्यादीनां कथयति — तस्मादिति । तान्यपि ग्रहातिग्रहगृहीतान्येवार्थोन्द्रियसंसर्गित्वादित्यर्थः । तद्गतो विशेषोऽग्न्यादिगतो दृष्टिभेद इति यावत् । कश्चिद्व्याख्यात इति संबन्धः । सूत्रस्यापि मृत्युग्रस्तत्वमभिप्रेत्याऽऽह — तच्चेति । अग्न्यादित्याद्यात्मकं सौत्रं पदमिति यावत् । फलं यथोक्तमृत्युग्रस्तमिति शेषः । किमिति मृत्योर्बन्धनरूपस्य स्वरूपमुच्यते तत्राऽऽह — एतस्मादिति । ननु मोक्षे कर्तव्ये बन्धरूपोपवर्णनमनुपयुक्तमित्याशङ्क्याऽऽह — बद्धस्य हीति । अग्न्यादीनां यथोक्तमृत्युव्याप्तिमुक्तां व्यक्तीकरोति — यदपीति । अविनिर्मुक्त एवातिमुक्तोऽपीति शेषः । तथाऽपि कथं सूत्रस्य यथोक्तमृत्युव्याप्तिस्तत्राऽऽह — तथा चेति । तथाऽपि कथमग्न्यादीनां मृत्युव्याप्तिर्न हि तत्र प्रमाणमस्ति तत्राऽऽह — एक इति । बहवा इति च्छान्दसम् । तथाऽपि विदुषो मृत्योरतिमुक्तस्य न तदाप्तिरित्याशङ्क्याऽऽह — तदात्मेति । सौत्रे पदे मृत्युव्याप्तिं प्रकारान्तरेण प्रकटयति — न चेति । मनसि कार्यकरणरूपेण दिवश्चाऽऽदित्यस्य चैक्यमस्तु तथाऽपि कथं ग्रहातिग्रहगृहीतत्वं सूत्रस्येत्याशङ्क्याऽऽह — मनश्चेति । वागादेर्वक्तव्यादेश्च ग्रहत्वेऽतिग्रहत्वे च हिरण्यगर्भे किमायातमित्याशङ्क्याऽऽह — तथेति । कर्मफलस्य संसारत्वाच्च तत्फलं सौत्रं पदं मृत्युग्रस्तमेवेत्याह — सुविचारितं चेति । यदेव कर्मबन्धप्रवृत्तिप्रयोजकं तदेव बन्धनिवृत्तेर्न कारणमतः कर्मफलं हैरण्यगर्भं पदं बन्धनमेवेत्यर्थः । स्वमतमुक्त्वा मतान्तरमाह — केचित्त्विति । सर्वमेव कर्मेति शेषः । स्वर्गकामवाक्ये देहात्मत्वनिवृत्तिर्गोदोहनवाक्ये स्वतन्त्राधिकारनिवृत्तिर्नित्यनैमित्तिकविधिष्वर्थान्तरोपदेशेन स्वाभाविकप्रवृत्तिनिरोधो निषेधेषु साक्षादेव नैसर्गिकप्रवृत्तयो निरुध्यन्ते तदेवं सर्वमेव कर्मकाण्डं निवृत्तिद्वारेण मोक्षपरमित्यर्थः । ननु शास्त्रीयात्कर्मणो हेतोरुत्तरमुत्तरं कार्यकरणसंघातमतिशयवन्तमाऽग्रजात्प्रतिपद्यमानः संघातात्पूर्वस्मान्मुच्यते तत्कुतो निवृत्तिपरत्वं कर्मकाण्डस्येत्याशङ्क्याऽऽह — अतः कारणादिति । यद्धीदमुत्तरमुत्तरं सातिशयं फलं प्राजापत्यं पदं तदपि प्रासादारोहणक्रमेण व्यावृत्तिद्वारा मोक्षमवतारयितुं न तु तत्रैव प्राजापत्ये पदे श्रुतेस्तात्पर्यं तस्यापि निरतिशयफलत्वाभावादित्यर्थः । फलितमाह — इत्यत इति । यस्मात्पूर्वं पूर्वं परित्यज्योत्तरमुत्तरं प्रतिपद्यमानस्तत्तन्निवृत्तिद्वारा मुक्त्यर्थमेव तत्तत्प्रतिपद्यते न तु तत्तत्पदप्राप्त्यर्थमेव वाक्यं पर्यवसितं तस्यान्तवत्त्वेनाफलत्वात् । तस्माद्द्वैतक्षयपर्यन्तं सर्वोऽपि फलविशेषो मृत्युग्रस्तत्वात्प्रासादारोहणन्यायेन मोक्षार्थोऽवतिष्ठते हिरण्यगर्भपदप्राप्त्या द्वैतक्षये तु वस्तुतो मृत्योराप्तिमतीत्य परमात्मरूपेण स्थितो मुक्तो भवति । तथा च मनुष्यभावादूर्ध्वमर्वाक्च परमात्मभावान्मध्ये या तत्तत्पदप्राप्तिः सा खल्वापेक्षिकी सती गौणी मुक्तिर्मुख्या तु पूर्वोक्तैवेत्यर्थः । सर्वमेतदुत्प्रेक्षामत्रेणाऽऽरचितं न तु बृहदारण्यकस्य श्रुत्यन्तरस्य वाऽर्थ इति दूषयति — सर्वमेतदिति । सर्वैकत्वलक्षणो मोक्षो बृहदारण्यकार्थ एवास्माभिरुच्यते तत्कथमस्मदुक्तमबार्हदारण्यकमिति शङ्कते — नन्विति । अङ्गीकरोति — बाढमिति । अङ्गीकृतमंशं विशदयति — भवतीति । एतत्सर्वैकत्वमारण्यकार्थो भवत्यपीति योजना । कथं तर्हि सर्वमेतदबार्हदारण्यकमित्युक्तं तत्राऽऽह । न त्विति । त्वदुक्तया रीत्या कर्मश्रुतीनां यथोक्तमोक्षार्थत्वं न घटते तेन सर्वमेतदौत्प्रेक्षिकं न श्रौतमित्युक्तमित्यर्थः । कर्मश्रुतीनां मोक्षार्थत्वाभावं समर्थयते — यदि हीति । तस्मात्तासां न मोक्षार्थतेति शेषः । किञ्च संसारस्तावद्धर्माधर्महेतुकस्तौ च विधिनिषेधाधीनौ तयोश्चेत्त्वदुक्तरीत्या मोक्षार्थत्वं तदा हेत्वभावात्संसार एव न स्यादित्याह । यदि चेति । विधिनिषेधयोर्निवृत्तिद्वारा मुक्त्यर्थत्वेऽपि विध्यादिज्ञानादनुनिष्पादितो यः कर्मपदार्थस्तस्यायं स्वभावो यदुत कर्तारमनर्थेन संयुनक्तीति चोदयति — अथेति । मोक्षार्थमपि कर्मकाण्डं संसारार्थं भवतीति सदृष्टान्तमाह — यथेति । प्रमाणाभावेन परिहरति — नेति । तदेव व्यनक्ति — अद्वैतार्थत्व इति । अन्यस्य बन्धस्येति यावत् । अनुपपत्तिं स्फोरयति — न प्रत्यक्षमिति । कर्मश्रुतिवाक्यस्यावान्तरतात्पर्यं यथाश्रुतेऽर्थे गृह्यते निवृत्तिद्वारा मुक्तौ तु महातात्पर्यमित्यङ्गीकृत्य शङ्कते — उभयमिति । कृत्रिमाः क्षुद्राः सरितः कुल्यास्तासां प्रणयनं शाल्यर्थं पानीयार्थमाचमनीयाद्यर्थं च प्रदीपश्च प्रासादशोभार्थं कृतो गमनादिहेतुरपि भवति वृक्षमूले च सेचनमनेकार्थं तथा कर्मकाण्डमनेकार्थमित्युपपादयति — कुल्येति । एकस्य वाक्यस्य यथाश्रुतेनार्थेनार्थवत्वे संभवति नान्यत्र तात्पर्यं कल्प्यं कल्पकाभावान्न च त्वदुक्तया रीत्याऽनेकार्थत्वलक्षणो धर्मो वाक्यस्यैकस्योपपद्यतेऽर्थैकत्वादेकं वाक्यमिति न्यायादिति परिहरति — तन्नैवमिति । वाक्यस्यानेकार्थत्वाभावेऽपि तदर्थस्य कर्मणो बन्धमोक्षाख्यानेकार्थत्वं स्यादित्याशङ्क्याऽऽह — न चेति । परोक्तं दृष्टान्तं विघटयति — कुल्येति । विद्यां चाविद्यां चेत्यादयो मन्त्राः समुच्चयपरा दृष्टाः समुच्चयश्च कर्मकाण्डस्य निवृत्तिद्वारा मोक्षार्थत्वमित्यस्मिन्नर्थे सिद्ध्यतीति शङ्कते — यदपीति । कर्मकाण्डस्योक्तरीत्या मोक्षार्थत्वे नास्ति प्रमाणमिति परिहरति — अयमेवेति । मन्त्राणां समुच्चयपरत्वात्तस्य च यथोक्तार्थाक्षेपकत्वात्कुतोऽस्यार्थस्य प्रमाणागम्यतेत्याशङ्क्याऽऽह — मन्त्राः पुनरिति । तेषां न समुच्चयपरतेत्यग्रे व्यक्तीभविष्यतीत्यर्थः । परमतासंभवे स्वमतमुपसंहरति — तस्मादिति । बन्धननिरूपणमनुपयोगीत्याशङ्क्याऽऽह — तस्मान्मोक्ष इति । यत्तु कर्मकाण्डं बन्धाय मुक्तये वा न भवति किन्त्वन्तरावस्थानकारणमिति तद्दूषयति — न चेति । यथा न जागर्ति न स्वपितीति विषयग्रहणच्छिद्रेऽन्तरालेऽवस्थानं दुर्घटं यथा चार्धं कुकुट्याः पाकार्थमर्धञ्च प्रसवायेति कौशलं नोपलभ्यते तथा कर्मकाण्डं न बन्धाय नापि साक्षान्मोक्षायेति व्याख्यानं कर्तुं न जानीम इत्यर्थः । यत्तु श्रुतिरेवोत्तरोत्तरपदप्राप्त्यभिधानव्याजेन मोक्षो पुरुषमवतारयतीति तत्राऽऽह — यत्त्विति । मृत्योराप्तिमतीत्य मुच्यत इत्युक्त्वा यदेतद्ग्रहातिग्रहवचनं तदयं सर्वः साध्यसाधनलक्षणो बन्ध इत्यनेनाभिप्रायेणोच्यते तस्यार्थेन मृर्त्युपदार्थेनान्वयदर्शनादत योजना । अर्थसंबन्धादित्युक्तं स्फुटयति — ग्रहातिग्रहाविनिर्मोकादिति । एषा हि श्रुतिर्बन्धमेव प्रतिपादयति न तु मोक्षे पुरुषमवतारयतीति भावः । ननु पुरुषस्यापेक्षितो मोक्षः प्रतिपाद्यतां किमित्यनर्थात्मा बन्धः प्रतिपाद्यते तत्राऽऽह — निगडे हीति । बन्धज्ञानं विना ततो विश्लेषायोगान्मुमुक्षोः सप्रयोजकबन्धज्ञानार्थत्वेनान्तरब्राह्मणप्रवृत्तिरित्युपसंहरति — तस्मादिति । कति ग्रहा इत्यादिः प्रथमः संख्याविषयः प्रश्नः कतमे त इति द्वितीयः संख्येयविषय इत्याह — पूर्ववादति । संप्रति प्रश्नमाक्षिपति — तत्रेत्यादिना । आद्यं प्रश्नमाक्षिप्य द्वितीयमाक्षिपति — अपि चेति । विशेषतश्चाज्ञातेष्वति चशब्दार्थः । मुक्त्यतिमुक्तिपदार्थद्वयप्रतियोगिनौ बन्धनाख्यौ ग्रहातिग्रहौ सामान्येन प्राप्तौ प्रश्नस्तु विशेषबुभुत्सायामिति प्रष्टा चोदयति — ननु चेति । तथाऽपि प्रश्नद्वयमनुपपन्नमित्याक्षेप्ता ब्रूते — ननु तत्रेति । वाग्वै यज्ञस्य होतेत्यादाविति यावत् । निर्ज्ञातत्वाद्विशेषस्येति शेषः । अतिमोक्षोपदेशेन त्वगादेरपि सूचितत्वात्तेषु चतुष्ट्वस्यानिर्धारणादविशेषेण प्रतिपन्नेषु वागादिषु विशेषबुभुत्सायां संख्यादिविषयत्वे प्रश्नस्योपपन्नार्थत्वान्नाऽऽक्षेपोपपत्तिरिति समाधत्ते — नानवधारणार्थत्वादिति । तदेव स्पष्टयति — न हीति । तत्र पूर्वब्राह्मणे वागादिष्विति यावत् । फलितां प्रथमप्रश्नोपपत्तिं कथति — इह त्विति । ननु ग्रहाणामेव पूर्वत्रोपदेशातिदेशाभ्यां प्रतिपन्नत्वात्तेषु विशेषबुभुत्सायां कति ग्रहा इति प्रश्नेऽप्यतिग्रहाणामप्रतिपन्नत्वात्कथं कत्यतिग्रहा इति प्रश्नः स्यादत आह — तस्मादिति । पूर्वस्माद्ब्राह्मणादिति यावत् । वागादयो वक्तव्यादयश्च चत्वारो ग्रहाश्चातिग्रहाश्च यद्यपि विशेषतो निर्ज्ञातास्तथाऽप्यतिदेशप्राप्ताश्चत्वारो विशेषतो न ज्ञायन्ते । तेन तेषु विशेषतो ज्ञानसिद्धये प्रश्न इत्यभिप्रेत्य विशिनष्टि —
नियमेनेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 द्वितीये प्रश्ने परिहारमुत्थापयति — तत्राहेति । घ्राणशब्दस्य घ्राणविषयत्वे पूर्वोत्तरग्रन्थयोर्वागादीनां प्रकृतत्वं हेतुमाह — प्रकरणादिति । तस्य गन्धेन गृहीतत्वसिद्ध्यर्थं विशिनष्टि — वायुसहित इति । अपानशब्दस्य गन्धविषयत्वे गन्धस्यापानेनाविनाभावं हेतुमाह — अपानेति । तत्रैव हेत्वन्तरमाह — अपानोपहृतं हीति । अपश्वासोऽत्रापानशब्दार्थः । उक्तेऽर्थे वाक्यं पातयति —
तदेतदिति ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 वाचो ग्रहत्वमुपपादयति — वाचा हीति । आसंगस्य विषयः शब्दादिरेवाऽऽस्पदं यस्या वाचस्तयेति विग्रहः । तत्सिद्ध्यर्थमध्यात्मपरिच्छिन्नयेति विशेषणम् । असत्यं परपीडाकरं मिथ्यावचनं तदेव स्वदृष्टमात्रविरोध्यनृतं विपरीतं वा । आदिपदेनेष्टानिष्टोक्तिग्रहः । वाचि प्रकृतायां स नाम्नेति कथमुच्यते तत्राऽऽह — स वागाख्य इति । वक्तव्येन वाचो वशीकृतत्वं साधयति — वक्तव्यार्थेति । तादर्थ्येन वचनकरणत्वेनेति यावत् । वचनार्थे वाचो वक्तव्येन वशीकृतत्वे फलितमाह — तेनेति । तत्कार्यं वचनं मोक्षश्चासाधारणे देवतात्मनि पर्यवासनम् । वक्तव्यार्थोक्तिं विना वाचोऽपर्यवसाने सिद्धमर्थमाह — अत इति । वाचोऽतिग्रहगृहीतत्वमनुभवेन साधयति — वक्तव्येति । वाचा हीत्यादेरपानेन हीत्यादिना तुल्यार्थत्वादव्याख्येयत्वमाह — समानमिति । घ्राणं वाग्जिह्वा चक्षुः श्रोत्रं मनो हस्तौ त्वगित्युक्तान्ग्रहान्निगमयति — इत्येत इति । गन्धो नाम रसो रूपं शब्दः कामः कर्म स्पर्श इत्यतिग्रहानपि निगमयति —
स्पर्शपर्यन्ताश्चेति ॥ ३॥ ४॥ ५॥ ६॥ ७॥ ८ ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 प्रतीकमादाय व्याचष्टे — यदिदमिति । यदिदं व्याकृतं जगत्सर्वं मृत्योरन्नमिति योजना । तस्य तदन्नत्वं साधयति — सर्वमिति । मृत्योरन्नत्वसंभावनायां श्रुत्यन्तरं संवादयति — सर्वमिति । मृत्योर्मृत्युमधिकृत्य प्रश्नस्य करटदन्तनिरूपणवदप्रयोजनत्वमाशङ्क्याऽऽह — अयमिति । सत्येव ग्रहातिग्रहलक्षणे मृत्यौ मोक्षो भविऽष्यतीति चेन्नेत्याह — ग्रहेति । अस्तु तर्हि ग्रहातिग्रहनाशे मुक्तिरित्यत आह — स यदीति । न च मृत्योर्मृत्युरस्त्यनवस्थानादित्युक्तमिति भावः । पक्षेऽनवस्थानात्पक्षे चामुक्तेरित्यतः शब्दार्थः । अस्तिपक्षं परिगृह्णाति — अस्ति तावदिति । मृत्योर्मृत्युर्ब्रह्मात्मसाक्षात्कारो विवक्षितस्तस्याप्यन्यो मृत्युरस्ति चेदनवस्था नास्ति चेत्तद्धेत्वज्ञानस्यापि स्थितेरमुक्तिरिति शङ्कते — नन्विति । तत्रास्तिपक्षं परिगृह्य परिहरति — नानवस्थेति । यथोक्तस्य मृत्योः स्वपरविरोधित्वान्न किञ्चिदवद्यमित्यर्थः । उक्तं पक्षं प्रश्नद्वारा प्रमाणारूढं करोति — कथमिति । दृष्टत्वं स्पष्टयति — अग्निस्तावदिति । दृष्टत्वफलमाचष्टे — गृहाणेति । तस्य कार्यं कथयति — तेनेति । अप पुनर्मृत्युं जयतीत्यस्य पातनिकां करोति — तस्मिन्निति । उक्तमेव व्यक्तीकरोति — बन्धनं हीति । प्रसाधितं मृत्योरपि मृत्युरस्तीति प्रदर्शनेनेति शेषः । मोक्षोपपत्तौ फलितमाह — अत इति । पुरुषप्रयासः शमादिपूर्वकश्रवणादिः । तत्फलस्य ज्ञानस्य फलं दर्शयन्वाक्यं योजयति — अत इति ।
ज्ञानं पञ्चम्यर्थः ॥१० ॥ 【भाष्यम्】 【भाष्यम्】 सम्यग्ज्ञानस्याप पुनर्मृत्युं जयतीत्युक्त्यं फलं विशदीकर्तुं प्रश्नान्तरमुत्थापयति — परेणेति । परेण मृत्युना परमात्मदर्शनेनेति संबन्धः । ग्रहातिग्रहलक्षणो बन्धः सप्तम्यर्थः । ग्रहशब्देन प्रयोज्यराशिर्गृहीतः । नामादीनां स्थूलानां बहिष्ठत्वेन स्वरसतस्त्यक्तत्वात्कथं तदुत्क्रान्तिः पृच्छ्यते तत्राऽऽह — वासनारूपा इति । तेषामनुत्क्रान्तौ मुक्त्यसंभवं सूचयति — प्रयोजका इति । उत्क्रान्तिपक्षे ध्रुवं जन्म मृतस्य चेति न्यायात्पुनरुत्पत्तिः स्यादनुत्क्रान्तिपक्षे मरणप्रसिद्धिर्विरुध्येतेति भावः । द्वितीयं पक्षं परिहरति — नेति होवाचेत्यादिना । कार्याणि करणानि च सर्वाणि परेणाऽऽत्मना सहाविभागं गच्छन्ति सन्त्यस्मिन्नेव विदुषि समवनीयन्त इति संबन्धः । तेषां विदुषि विलये हेतुमाह — स्वयोनाविति । विद्वानेव हि पूर्वमविद्यया तेषां योनिरासीत्तस्मिन्विद्यादशायां तद्बलादविद्यायामपनीतायां परिपूर्णे तत्त्वे तेषां पर्यवसानं संभवतीत्यर्थः । कारणे कार्याणां प्रविलये दृष्टान्तमाह — ऊर्मय इति । प्राणादीनां कारणसंसर्गाख्यो लयश्चेत्पुनरुत्पत्तिः स्यादित्याशङ्क्य ज्ञाने सत्यज्ञानध्वंसान्नैवमित्यभिप्रेत्याऽऽह — तथा चेति । सविषयाण्येकादशेन्द्रियाणि वायवश्च पञ्चेति षोडश कलास्तासां स्वातन्त्र्यमाश्रयान्तरं च वारयति — पुरुषायणा इति । तासां निवृत्तिश्च पुरुषव्यतिरेकेण नास्तीति सूचयति — पुरुषं प्राप्येति । प्राणाश्चेन्नोत्क्रामन्ति तर्हि मृतो न भवतीति प्रतीतिविरोधं शङ्कित्वा परिहरति — न तर्हीत्यादिना । दृतिशब्दो भस्त्राविषयः । प्रकृतं वाक्यं प्रत्यक्षसिद्धदेहमरणानुवदकमित्यभिप्रेत्याऽऽह —
बन्धनेति ॥११॥ 【भाष्यम्】 【भाष्यम्】 प्राणा नोत्क्रामन्तीति विशेषणमाश्रित्य प्रश्नान्तरमादत्ते — मुक्तस्येति । पक्षद्वयेऽपि प्रयोजनं कथयति — अथेत्यादिना । यत्पुत्रक्षेत्राद्यभूत्तदधुना नाममात्रावशेषमित्युक्ते नावशिष्टं किञ्चिदिति यथाऽवगम्यते तथाऽत्रापि नाममात्रं म्रियमाणां विद्वांसं न जहातीत्युक्ते न किञ्चिदवशिष्टमिति दृष्टिः स्यादिति प्रत्युक्तितात्पर्यमाह — सर्वमिति । यथाश्रुतमर्थमाश्रित्य प्रत्युक्तिं व्याचष्टे — नाममात्रं त्विति । विदुषो नामनित्यत्वे हेत्वन्तरमुत्तरवाक्यावष्टम्भेन दर्शयति — नित्यं हीति । अनन्तशब्दान्नाम्नो व्यक्तिप्राचुर्ये प्रतिभाति कुतो नित्यतेत्याशङ्क्याऽऽह — नित्यत्वमेवेति । व्यक्तिभेदस्य प्रसिद्धत्वान्न तद्वक्तव्यं ब्रह्मविदः स्वदृष्ट्या नामापि न शिष्यते परदृष्ट्या तदवशेषोक्तिः शुको मुक्त इत्यादिव्यपदेशदर्शनादतो नामनित्यत्वं व्यावहारिकमिति भावः । ब्रह्मास्मीति दर्शनेन विश्वान्देवानात्मत्वेनोपगम्यानन्तं लोकं जयतीति सिद्धानुवादो ब्रह्मविद्यां स्तोतुमित्यभिप्रेत्यानन्तरवाक्यमादत्ते — तदानन्त्येति । तद्व्याचष्टे —
तन्नामानन्त्येति ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 यत्रास्येत्यादेस्तात्पर्यं वृत्तानुवादपूर्वकं कथयति — ग्रहातिग्रहरूपमित्यादिना । किमेनमित्यादिवाक्यस्य स्वव्याख्यामुक्त्वा यत्रेत्यादेस्तात्पर्यं चोक्तम् । इदानीं भर्तृप्रपञ्चप्रस्थानमुत्थापयति — अत्रेति । किमेनमित्यादाविति यावत् । समुच्चयानुष्ठानाद्देहयोः सप्रयोजकयोर्नाशेऽपि पुंसो मुक्तिर्न चेत्तर्हि तस्य बद्धत्वायोगात्कामसौ दशामवलम्बतामित्याशङ्क्याऽऽह — नामावशिष्ट इति । क्षितेरूषरवदवस्थितात्माविद्यया परस्मात्परिच्छिन्नश्चेदात्मा तर्हि बन्धपक्षस्यैव स्यान्नतु भोज्याज्जगतो व्यावृत्तिरित्याशङ्क्याऽऽह — उच्छिन्नेति । सर्वस्य कर्मादिफलस्य सूत्रात्मनः समुच्चयासादितस्य भोगादप्राप्तार्थाभावात्कामासिद्ध्या कर्माभावात्प्रयोजकराशेरुच्छित्तिरित्यर्थः । किमेनमित्यादावन्तरालावस्थस्य विद्याधिकारिणो निर्धारणात्तदपेक्षितविद्याशेषत्वेनोषस्तप्रश्नादेरारम्भं संभावयति — तस्येति । इतिशब्दो वर्णयन्तीत्यनेन संबध्यते । तर्हि यत्रोषस्तप्रश्नादौ ब्रह्मविद्योच्यते तस्यैवाऽऽरम्भो युक्तो यत्रास्येत्यादिस्तु वृथेत्याशङ्क्य फलवद्विद्याप्राप्तिशेषत्वेन निवर्त्यमृत्युप्रयोजकनिर्धारणार्थो यत्रेत्यादिरित्यभिप्रेत्याऽऽह — एवमिति । हिरण्यगर्भादन्योऽनन्यो वा विद्याधिकारी प्रथमेऽपि मृतस्य जीवतो वा विद्याधिकारो विवक्षितस्त्वयेति पृच्छति — तत्रेति । तत्रऽऽद्यमाक्षिपति — विशीर्णेष्विति । आक्षेपं स्फुटयितुं तदीयामुक्तिमनुवदति — समवनीतेति । नाममात्रावशिष्टस्याधिकारो विद्यायामिति शेषः । समवनीतप्राणस्येत्यत्र श्रुतिं संवादयति — मृत इति । कथमेतावता यथोक्ताक्षेपसिद्धिस्तत्राऽऽह — न मनोरथेनेति । उपसंहृतप्राणस्य श्रवणाद्यधिकारित्वमेतच्छब्दार्थः । द्वितीयं शङ्कते — अथेति । अपावृतो विद्याधिकारीति शेषः । जीवतो भोज्याद्व्यावर्तनं सम्यग्धियं विना दुःशकमिति मत्वा पृच्छति — तत्त्विति । अप्राप्ते कामो भवति प्राप्ते निवर्तत इति प्रसिद्धेरपरविद्यया कर्मसमुच्चितया हैरण्यगर्भपदप्राप्तिरेव तन्निवृत्तिकारणमिति शङ्कते — समस्तेति । अपरविद्यासमुच्चितं कर्म हैरण्यगर्भभोगप्रापकं न भोग्यान्निवृत्तिसाधनमिति तृतीये व्युत्पादितमिति परिहरति — तत्पूर्वमेवेति । उक्तमेव व्यक्तीकुर्वन्विभजते — कर्मसहितेनेति । अथैकमेव समुच्चितं कर्मोभयार्थं किं न स्यादत आह — नचेति । उभयार्थत्वाभावं समर्थयते — हिरण्यगर्भेत्यादिना । समुच्चितं कर्म नोभयार्थमित्यत्र दृष्टान्तमाह — न हीति । हिरण्यगर्भो विद्याधिकारीति पक्षं निक्षिपति — अथेति । दूषयति — तत इति । ननु महानुभावानामस्मद्विशिष्टानामेव ब्रह्मविद्योपदिश्यमाना मोक्षं फलयति नास्माकमित्याशङ्क्याऽऽह — सर्वेषामिति । न च त्वन्मतेऽपि यद्द्वारा श्रवणादि कृत्वा विद्योदयस्तद्द्वारैव चिदात्मनो मुक्तिसिद्धौ कृतमितरत्र श्रवणादिनेति वाच्यम् । द्वारभेदस्यानुष्ठातृविभागाधीनप्रवृत्तिप्रयुक्तप्रयोजनवद्विद्योदयस्य च काल्पनिकत्वेन यथाप्रतीति व्यवस्थोपपत्तेः । वस्तुतो निर्विशेषे चिन्मात्रे नाविद्याविद्ये बन्धमुक्ती चेत्यभिप्रेत्य परपक्षनिराकरणमुपसंहृत्य श्रुतिव्याख्यानं प्रस्तौति — तस्मादिति । कर्तव्ये श्रुतिव्याख्याने यत्रेत्याद्याकाङ्क्षापूर्वकमवतारयति — तत्रेति । तत्र पुरुषशब्देन विद्वानुक्तोऽनन्तरवाक्ये तत्संनिधेरित्याशङ्क्य वक्ष्यमाणकर्माश्रयत्वलिङ्गेन बाध्यः संनिधिरित्यभिप्रेत्याऽऽह — असम्यग्दर्शिन इति । संनिधिबाधे लिङ्गान्तरमाह — निधीयत इति । तस्य हि पुनरादानयोग्यद्रव्यनिधाने प्रयोगदर्शनादिहापि पुनरादानं लोहितादेराभात्यतः प्रसिद्धः संसारिगोचर एवायं प्रश्न इत्यर्थः । अविदुषो वागादिलयाभावाद्वाङ्मनसि दर्शनादिति न्यायात्तस्य चात्र श्रुतेर्विद्वानेव पुरुषस्तदीयकलाविलयस्य श्रुतिप्रसिद्धत्वादित्याशङ्क्याऽऽह — सर्वत्र हीति । अग्न्याद्यंशानां वागादिशब्दितानामपक्रमणेऽपि करणानां तदभावे तदधिष्ठानस्य देहस्यापि भावेन भोगसंभवान्न प्रश्नावकाशोऽस्तीत्याशङ्क्याऽऽह — तत्रेति । देवतांशेषूपसंहृतेष्विति यावत् । तेषां ताभिरनधिष्ठितत्वे सत्यर्थक्रियाक्षमत्वं फलतीत्याह — न्यस्तेति । करणानामधिष्ठातृहीनानां भोगहेतुत्वाभावेऽपि कथमाश्रयप्रश्नो भोक्तुः स्यादित्याशङ्क्याऽऽह — विदेहश्चेति । प्रश्नं विवृणोति — यमाश्रयमिति । आहरेत्यादिपरिहारमवतारयति — अत्रेति । मीमांसका लोकायता ज्योतिर्विदो वैदिका देवताकाण्डीया विज्ञानवादिनो माध्यमिकाश्चेत्यनेके विप्रतिपत्तारः । जल्पन्यायेन परस्परप्रचलितमात्रपर्यन्तेन विचारेणेति यावत् । अत्रेति प्रश्नोक्तिः । ननु प्रष्टाऽऽर्तभागो याज्ञवल्क्यश्च प्रतिवक्तेति द्वाविहोपलभ्येते । तथा च तौ हेत्यादिवचनमयुक्तं तृतीयस्यात्राभावादत आह — तौ हेत्यादीति । तत्रेत्येकान्ते स्थित्वा विचारावस्थायामिति यावत् । न केवलं कर्म कारणमूचतुः किन्तु तदेव कालादिषु हेतुष्वभ्युपगतेषु सत्सु प्रशशंसतुः । अतः प्रशंसावचनात्कर्मणः प्राधान्यं गम्यते न तु कालादीनामहेतुत्वं तेषां कर्मस्वरूपनिष्पत्तौ कारकतया गुणभावदर्शनात्फलकालेऽपि तत्प्राधान्येनैव तद्धेतुत्वसंभवादित्याह — न केवलमिति । पुण्यो वै पुण्येनेत्यादि व्याचष्टे —
यस्मादत्यादिना ॥१३॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणान्तरमवतार्य वृत्तं कीर्तयति — अथेत्यादिना । उक्तमेव तस्य मृत्युत्वं व्यक्तीकरोति — यस्मादिति । अग्निर्वै मृत्युरित्यादावुक्तं स्मारयति — तस्मादिति । यत्रायमित्यादावुक्तमनुद्रवति — मुक्तस्य चेति । यत्रास्येत्यादौ निर्णीतमनुभाषते — तत्रेति । पूर्वब्राह्मणस्थो ग्रन्थः सप्तम्यर्थः । तस्य चावधारितमित्यनेन संबन्धः । संसरतां मुच्यमानानां च यानि कार्यकरणानि तेषामिति वैयधिकरण्यम् । अनुपादानमुपादानमित्युभयत्र कार्यकरणानामिति संबन्धः । कर्मणो भावाभावाभ्यां बन्धमोक्षावुक्तौ तत्राभावद्वारा कर्मणो मोक्षहेतुत्वं स्फुटयति — तत्क्षये चेति । तस्य भावद्वारा बन्धहेतुत्वं प्रकटयति — तच्चेति । पुण्यपापयोरुभयोरपि संसारफलत्वाविशेषात्पुण्यफलवत्पापफलमप्यत्र वक्तव्यमन्यथा ततो विरागायोगादित्याशङ्क्य वर्तिष्यमाणस्य तात्पर्यं वक्तुं भूमिकां करोति — तत्रेति । पुण्येष्वपुण्येषु च निर्धारणार्था सप्तमी । स्वभावदुःखबहुलेष्वित्युभयतः संबध्यते । तर्हि पुण्यफलमपि सर्वलोकप्रसिद्धत्वान्नात्र वक्तव्यमित्याशङ्क्याऽऽह — यस्त्विति । शास्त्रीयं सुखानुभवमिति शेषः । इहेति ब्राह्मणोक्तिः शास्त्रीयं कर्म सर्वमपि संसारफलमेवेति वक्तुं ब्राह्मणमित्युक्त्वा शङ्कोत्तरत्वेनापि तदवतारयति — पुण्यमेवेत्यादिना । मोक्षस्य पुण्यसाध्यत्वं विधान्तरेण साधयति — यावद्यावदिति । कथं तस्या निवर्तनमित्याशङ्क्याऽऽह — ज्ञानसहितस्येति । समुच्चितमपि कर्म संसारफलमेवेत्यत्र हेतुमाह — व्याकृतेति । मोक्षेऽपि स्वर्गादाविव पुरुषार्थत्वाविशेषात्कर्मणो व्यापारः स्यादित्याशङ्क्याऽऽह — न त्विति । अकार्यत्वमुत्पत्तिहीनत्वम् । नित्यत्वं नाशशून्यत्वम् । अव्याकृतधर्मित्वं व्याकृतनामरूपराहित्यम् । ’अशब्दमस्पर्शम्’ इत्यादि श्रुतिमाश्रित्याऽऽह — अनामेति । ’निष्कलं निष्क्रियम्’ इत्यादिश्रुतिमाश्रित्याऽऽह — क्रियेति । चतुर्विधक्रियाफलविलक्षणे मोक्षे कर्मणो व्यापारो न संभवतीति भावः । नन्वा स्थाणोरा च प्रजापतेः सर्वत्र कर्मव्यापारात्कथं मोक्षे प्रजापतिभावलक्षणे तद्व्यापारो नास्ति तत्राऽऽह — यत्र चेति । कर्मफलस्य सर्वस्य संसारत्वमेवेति कुतः सिध्यति तत्राऽऽह — इत्यस्येति । विद्यासहितमपि कर्म संसारफलं विद्यैव मोक्षार्थेतिस्वपक्षशुद्ध्यर्थं विचारन्पूर्वपक्षयति — यत्त्विति । यथा केवलं विषदध्यादि मरणज्वरादिकरमपि मन्त्रशर्करादियुक्तं जीवनपुष्ट्याद्यारभते तथा स्वतो बन्धफलमपि कर्म फलाभिलाषमन्तरेणानुष्ठितं विद्यासमुच्चितं मोक्षाय क्षममित्यर्थः । मुक्तेः साध्यत्वाङ्गीकारे समुच्चितकर्मसाध्यत्वं स्यान्न तु तस्याः साध्यत्वं धीमात्रायत्तत्वादित्युत्तरमाह — तन्नेति । हेतुमेव साधयति — बन्धनेति । किं तद्बन्धनं तदाह — बन्धनं चेति । अविद्यानाशोऽपि कर्मारभ्यो भविष्यतीति चेन्नेत्याह — अविद्यायाश्चेति । मोक्षो न कर्मसाध्योऽविद्यास्तमयत्वाद्राज्ज्वविद्यास्तमयवदित्यर्थः । तत्रैव हेत्वन्तरमाह — दृष्टविषयत्वच्चेति । न कर्मसाध्या मुक्तिरिति शेषः । तदेव स्पष्टयति — उत्पत्तीति । उक्तमेव कर्मसामर्थ्यविषयमन्वयव्यतिरेकाभ्यां साधयति — उत्पादयितुमिति । अपसिद्ध्वत्वादिति च्छेदः । उत्पत्त्यादीनामन्यतमत्वान्मोक्षस्यापि कर्मसामर्थ्यविषयता स्यादिति चेन्नेत्याह — न चेति । नित्यत्वादात्मत्वात्कूटस्थत्वान्नित्यशुद्धत्वान्निर्गुणत्वाच्चेत्यर्थः । आत्मभूतो यथोक्तो मोक्षस्तर्हि किमिति सर्वेषां न प्रथत इत्याशङ्क्याऽऽह — अविद्येति । उक्तं कर्मसामर्थ्यं पूर्ववाद्यङ्गीकरोति — बाढमिति । अङ्गीकारमेव स्फोरयति — भवत्विति । एवंस्वभावतोत्पादनादौ समर्थता । का तर्हि विप्रतिपत्तिस्तत्राऽऽह — विद्यासंयुक्तस्येति । अन्यथा स्वभावश्चतुर्विधक्रियाफलविलक्षणेऽपि मोक्षो समर्थतेति यावत् । उत्पत्त्यादौ समर्थस्य कर्मणो विद्यासंयुक्तस्य तद्विलक्षणेऽपि मोक्षे सामर्थ्यमस्तीत्यत्र दृष्टान्तमाह — दृष्टं हीति । उक्तदृष्टान्तवशात्कर्मणोऽपि केवलस्य संसारफलस्य विद्यासंयोगान्मुक्तिफलत्वमपि स्यादित्याह — तथेति । समाधत्ते — नेत्यादिना । अतीन्द्रियत्वात्कर्मणो मुक्तिसाधनत्वे प्रत्यक्षाद्यसंभवेऽप्यर्थापत्तिरस्तीति शङ्कते — नन्विति । नित्येषु कर्मसु मोक्षातिरिक्तस्य फलस्य श्रुतस्याभावे सति तदुपलभ्यमानचोदनाया मोक्षफलत्वं विनाऽनुपपत्तिस्तेषां तत्साधनत्वे मानमित्यर्थः । ननु ‘विश्वजिता यजेते' त्यत्र यागकर्तव्यतारूपो नियोगोऽवगम्यते तस्य नियोज्यसापेक्षत्वात् ‘स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वादि’ ति न्यायेन स्वर्गकामो नियोज्योऽङ्गीकृतस्तथा नित्येष्वपि कर्मसु भविष्यति स्वर्गो नियोज्यविशेषणमत आह — न हीति । जीवञ्जुहुयादिति जीवनविशिष्टस्य नियोज्यस्य लाभान्न नित्येषु स्वर्गो नियोज्यविशषणमित्यर्थः । ननु जीवनविशिष्टोऽपि फलाभावे न नियोज्यः स्यात्तथा च कर्मणा पितृलोक इति श्रुतं फलं तेषु कल्पयिष्यते नेत्याह — नापीति । नित्यविधिप्रकरणे पितृलोकवाक्यस्याश्रवणादित्यर्थः । तर्हि फलाभावाच्चोदनैव मा भूदिति चेन्नेत्याह — चोद्यन्ते चेति । तथाऽपि फलान्तरं कल्प्यतामित्याशङ्क्य कल्पकाभावान्मैवमित्यभिप्रेत्याऽऽह — पारिशेष्यादिति । मुक्तेर्यत्कल्पकं तदेव फलान्तरस्यापि किं न स्यादित्याशङ्क्य तस्य निरतिशयफलविषयत्वान्मुक्तिकल्पकत्वमेवेत्यभिप्रेत्याऽऽह — अन्यथेति । अनुपपत्त्या चेन्नियोज्यलाभाय नित्येषु फलं कल्प्यते कथं तर्हि विश्वजिन्न्यायो न प्राप्नोतीति सिद्धान्ती प्रत्याह — नन्विति । उक्तमेव विवृणोति — मोक्षे वेति । अकल्पिते सतीति च्छेदः । श्रुतार्थापत्त्या विधेः श्रुतस्य प्रवर्तकत्वानुपपत्त्येति यावत् । विश्वजितीव नित्येषु मोक्षे फले कल्प्यमाने सति फलितमाह — नन्वेवमिति । कथमित्युक्तामनुपपत्तिमेव स्फुटयति — फलं चेति । फलकल्पनायां विश्वजिन्न्यायोऽवतरति मोक्षस्तु स्वरूपस्थितित्वेनानुत्पाद्यत्वात्फलमेव न भवतीति शङ्कते — मोक्ष इति । निग्रहमुद्भावयन्नुत्तरमाह — नेति । प्रतिज्ञाहानिं प्रकटयति — कर्मेत्यादिना । कर्मकार्यत्वं मुक्तेरुपेत्योक्तं तदेवायुक्तमित्याह — कर्मकार्यत्वे चेति । फलत्वेऽपि कर्मकार्यत्वं न मुक्तेरस्तीत्युक्तं दोषं परिहर्तुं चोदयति — अथेति । प्रतिज्ञाविरोधेन प्रतिविधत्ते — नित्यानामिति । फलत्वमङ्गीकृत्य कार्यत्वेऽनङ्गीकृते कथं व्याघात इत्याशङ्क्याऽऽह — न चेति । विशेषोऽर्थगत इति शेषः । फलत्वमङ्गीकृत्य कार्यत्वानङ्गीकारे व्याघातमुक्त्वा वैपरीत्येऽपि तं व्युत्पादयति — अफलं चेति । आद्यं व्याघातं दृष्टान्तेन स्पष्टयति — नित्यानामिति । दृष्टान्तेन व्याघातं परिहरन्नाशङ्कते — ज्ञानवदिति चेदिति । तदेव स्फुटयति — यथेति । दृष्टान्तं विघटयति — नेति । ज्ञानस्य मोक्षव्यवधिभूताज्ञाननिवर्तकत्वान्मोक्षस्तेनाक्रियमाणोऽपि तत्कार्यमिति व्यपदेशभाग्भवतीत्यर्थः । तदेव स्फुटयति — अज्ञानेति । दार्ष्टान्तिकं निराचष्टे — न त्विति । यत्कर्मणा निवर्त्येत तन्मोक्षस्य व्यवधानान्तरं कल्पयितुं न तु शक्यमिति संबन्धः । व्यवधानध्वंसे कर्मणोऽप्रवेशेऽपि मुक्तावेव तत्प्रवेशः स्यादिति चेन्नेत्याह — नित्यत्वादिति । नित्यकर्मनिवर्त्यं व्यवधानान्तरं मा भूदज्ञानमेव तन्निवर्त्यं भविष्यति तथा च मोक्षस्य कर्मकार्यत्वं शक्यमुपचरितुमिति शङ्कते — अज्ञानमेवेति । कर्मणो ज्ञानाद्विलक्षणत्वान्नाज्ञाननिवर्तकत्वमित्युत्तरमाह — न विलक्षणत्वादिति । वैलक्षण्यमेव प्रकटयति — अनभिव्यक्तिरिति । इतश्च ज्ञाननिवर्त्यमेवाज्ञानमित्याह — यदीति । अन्यतमेन नित्यादिना व्यस्तेन वा श्रौतेन स्मार्तेन वेत्यर्थः । कर्माज्ञानयोरविरोधो हेत्वर्थः । अज्ञाननिवर्तकत्वं कर्मणो नान्वयव्यतिरेकसिद्धं किन्त्वदृष्टमेव कल्प्यमिति शङ्कते — अथेति । दृष्टे सत्यदृष्टकल्पना न न्याय्येति परिहरति — न ज्ञानेनेति । उक्तमर्थं दृष्टान्तेन बुद्धावारोपयति — यथेत्यादिना । अदृष्टेति च्छेदः । अस्तु ज्ञानादज्ञानध्वस्तिः किन्तु कर्मसमुच्चितादित्याशङ्क्याऽऽह — ज्ञानेनेति । ननु कर्मभिरविरुद्धमपि हिरण्यगर्भादिविज्ञानमस्ति तथा च समुच्चितं ज्ञानमज्ञानध्वंसि भविष्यति नेत्याह — यदविरुद्धमिति । नित्यानां कर्मणां समुच्चितानामसमुच्चितानां च स्वरूपस्थितौ मोक्षे तत्प्रतिबन्धकाज्ञानध्वस्तौ वा नादृष्टं सामर्थ्यं कल्प्यमित्युक्तमिदानीं तत्कल्पनामङ्गीकृत्यापि दूषयति — किञ्चेति । कर्मणां नास्ति मोक्षे सामर्थ्यमित्येतदुक्तादेव कारणान्न भवति । किन्त्वन्यच्च कारणं तत्रास्तीत्यर्थः । तदेव दर्शयितुं विचारयति — कल्प्ये चेति । विरोधमभिनयति — द्रव्येति । कार्यत्वाभावं समर्थयते — यस्मिन्निति । पक्षान्तरमाह — किंवेति । सामर्थ्यविषयं विशदयति — यच्चेति । कथमिह निर्णयस्तत्राऽऽह — पुरुषेति । कल्पयितव्यं फलमिति संबन्धः । उत्पत्त्यादीनामन्यतमो हि कर्मभिरविरुद्धो विषयः । तत्रैव नित्यकर्मचोदनानुपपत्तेरुपशान्तत्वान्नित्यकर्मफलत्वेन मोक्षस्तद्व्यवधानाज्ञाननिवृत्तिर्वा न शक्यते कल्पयितुम् । कर्माज्ञानयोर्विरोधाभावादृष्टं सामर्थ्यं यस्मिन्नुत्पत्त्यादौ तद्विषयत्वाच्च कर्मणस्तद्विलक्षणे मोक्षे न व्यापारः । तथा च नित्यकर्मविधिवशात्पुरुषप्रवृत्तिसंपादनाय फलं चेत्कल्पयितव्यं तर्हि तदुत्पत्त्यादीनामन्यतममेव तदविरुद्धं कल्प्यमित्यर्थः । इतिशब्दः श्रुतार्थापत्तिपरिहारसमाप्त्यर्थः । मोक्ष एव नित्यानां कर्मणां फलत्वेन कल्पयितव्यः पारिशष्यन्यायादिति शङ्कते — पारिशेष्येति । पारिशेष्यन्यायमेव विशदयति — सर्वेषामिति । सर्वं स्वर्गपशुपुत्रादीति यावत् । तथाऽपि मोक्षादन्यदेव नित्यकर्मफलं किं न स्यात्तत्राऽऽह — न चेति । मोक्षस्यापीतरकर्मफलनिवेशमाशङ्क्याऽऽह — परिशिष्टश्चेति । तस्य फलत्वमेव कथं सिद्धं तत्राऽऽह — स चेति । परिशषायातमर्थं निगमयति — तस्मादिति । पारिशेष्यासिद्ध्या दूषयति — नेति । कर्मफलव्यक्त्यानन्त्यमुक्तं व्यनक्ति — न हीति । फलवत्फलसाधनानां फलविषयेच्छानां चाऽऽनन्त्यं कथयति — तत्साधनानामिति । तदानन्त्ये हेतुमाह — अनियतेति । इच्छाद्यानन्त्ये हेत्वन्तरमाह — पुरुषेति । एतावत्वं नाम नास्तीत्युभयत्र संबन्धः । पुरुषस्येष्टं फलं शोभनाध्यासविषयभूतं तत्र विषयिणां शोभनाध्यासेन प्रयुक्तत्वादिति हेत्वर्थः । इच्छाद्यानन्त्यं प्राणिभेदेषु दर्शयित्वा तदानन्त्यमेकैकस्मिन्नपि प्राणिनि दर्शयति — प्रतिप्राणि चेति । इच्छाद्यानन्त्ये फलितमाह — तदानन्त्याच्चेति । साधनादिष्वेतावत्त्वाज्ञानेऽपि किं स्यात्तदाह — अज्ञाते चेति । इतिशब्दः पारिशेष्यानुपपत्तिसमाप्त्यर्थः । प्रकारान्तरेण पारिशेष्यं शङ्कते — कर्मेति । तामेव शङ्कां विशदयति — सत्यपीति । तथाऽपि कथं मोक्षस्य परिशिष्टत्वं तदाह — मोक्षस्त्विति । परिशेषफलमाह — तस्मादिति । शङ्कितं परिशेषं दूषयति — नेत्यादिना । अर्थापत्तिपरिशेषौ पराकृत्यार्थापत्तिपराकरणं प्रपञ्चयितुं प्रस्तौति — तस्मादिति । अन्यथाऽप्युपपत्तिं प्रकटयति — उत्पत्तीति । नित्यानामुत्पत्त्यादिफलत्वेऽपि मोक्षस्य तत्फलत्वं सिध्यतीति शङ्कते — चतुर्णामिति । तत्र मोक्षस्योत्पाद्यत्वं दूषयति — न तावदिति । उभयत्रातःशब्दो नित्यत्वपरामर्शी । असंस्कार्यत्वे हेत्वन्तरमाह — असाधनेति । तदेव व्यक्तिरेकमुखेन विवृणोति — साधनात्मकं हीति । इतश्च मोक्षस्यासंस्क्रियमाणत्वमित्याह — न चेति । यथा यूपस्तक्षणाष्टाश्रीकरणाभ्यञ्जनादिना संस्क्रियते यथा चाऽऽहवनीयः संस्कारेण निष्पाद्यते न तथा मोक्षो नित्यशुद्धत्वान्निर्गुणत्वाच्चेत्यर्थः । पक्षान्तरमनुभाष्य दषयति — पारिशेष्यादित्यादिना । एकत्वं पूर्णत्वम् । साधनवैलक्षण्यं फलवैलक्षण्यं कल्पयतीति शङ्कते — इतरैरिति । हेतुवैलक्षण्यासिद्धौ कल्पकाभावात्फलवैलक्षण्यासिद्धिरिति दूषयति — न कर्मत्वेति । निमित्तकृतहेतुवैलक्षण्यवशात्फलवैलक्षण्यसिद्धिरिति शङ्कते — निमित्तेति । निमित्तवैलक्षण्यं फलवैलक्षण्यस्यानिमित्तमिति परिहरति — न क्षामवत्यादिभिरिति । तदेव प्रपञ्चयति — यथा हीति । यस्याऽऽहिताग्नेरग्निर्गृहान्दहेदग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेदित्यत्र दहेदिति विधिविभक्त्या प्रसिद्धार्थयच्छब्दोपहितया गृहदाहाख्यनिमित्तपरामर्शेनाग्नये क्षामवते पुरोडाशमित्यादिना क्षामवती विधीयते । यस्योभयं हविरार्तिमार्च्छेत्स ऐन्द्रं पञ्चशरावमोदनं निर्वपेदित्यत्र चाऽऽर्च्छेदिति विधिविभक्त्या निर्वपेदिति विधास्यमाननिर्वापनिमित्तं हविरार्तिमनूद्य निर्वापो विधीयते । भिन्ने जुहोति स्कन्ने जुहोत्यथ यस्य पुरोडाशौ क्षीयतस्तं यज्ञं वरुणो गृह्णाति यदा तद्धविस्सन्तिष्ठेताथ तदेव हविर्निर्वपेद्यज्ञो हि यज्ञस्य प्रायश्चित्तमिति च भेदनादिनिमित्तं प्रायश्चित्तमुक्तं न च तन्मुक्तिफलं तथा निमित्तभेदेऽपि न नित्यं कर्म मुक्तिफलमित्यर्थः । क्षामवत्यादितुल्यत्वं नित्यकर्मणां कुतो लब्धमित्याशङ्क्याऽऽह — तैश्चेति । क्षामवत्यादिभिरिति यावत् । अविशेषे हेतुर्नैमित्तिकत्वेनेति । तदेव कथमिति चेत्तत्राऽऽह — जीवनादीति । दार्ष्टान्तिकं स्पष्टयति — तथेति । नित्यं कर्म कर्मान्तराद्विलक्षणमपि न मोक्षफलमित्यत्र दृष्टान्तमाह — आलोकस्येति । चक्षुरन्तरैरुलूकादिचक्षुषो वैलक्षण्येऽपि न रसादिविषयत्वमित्यत्र हेतुमाह — रसादीति । वैलक्षण्यं तर्हि कुत्रोपयुज्यते तत्राऽऽह — सुदूरमपीति । मनुष्यान्विहायोलूकादौ गत्वाऽपीति यावत् । यद्विषये रूपादावित्यर्थः । विशेषो दूरसूक्ष्मादिरतिशयः । दार्ष्टान्तिकं पूर्ववादानुवादपूर्वकमाचष्टे — यत्पुनरित्यादिना । तत्तत्रेति यावत् । तदेव वृणोति — निरभिसन्धेरिति । विद्यासंयुक्तं कर्म विशष्टकार्यकरमित्यत्र शतपथश्रुतिं प्रमाणयति — देवयाजीति । तदाहुरित्युपक्रम्य देवयाजिनः श्रेयानित्यादौ काम्यकर्तुर्देवयाजिनः सकाशादात्मशुद्ध्यर्थं कर्म कुर्वन्नात्मयाजी श्रेयानित्यात्मयाजिनो विशेषश्रवणात्सर्वक्रतुयाजिनामात्मयाजी विशिष्यत इति स्मृतेश्च विशिष्टस्य कर्मणो विशिष्टकार्यारम्भकत्वमविरुद्धमित्यर्थः । छान्दोग्येऽपि विद्यासंयुक्तस्य कर्मणो विशिष्टकार्यारम्भकत्वं दृष्टमित्याह — यदेवेति । नन्वात्मयाजिशब्दो नित्यकर्मानुष्ठायिविषयो न भवति । ’सर्वभूतेषु चाऽऽत्मानं सर्वभूतानि चाऽऽत्मनि । संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति’ इत्यत्र परमात्मदर्शनविषये तस्य प्रयुक्तत्वादत आह — यस्त्विति । यदि समम्पश्यन्भवेत्तदा परेणाऽऽत्मनैकीभूतः स्वराड्भवतीत्यात्मज्ञानस्तुतिरत्र विवक्षिता । महती हीयं ब्रह्मविद्या यद्ब्रह्मविदेवाऽऽत्मयाजी भवति । नहि तस्य तदनुष्ठानं पृथगपेक्षते । ब्रह्मवित्पुण्यकृदिति च वक्ष्यतीत्यर्थः । परदर्शनवत्यात्मयाजिशब्दस्य गत्यन्तरमाह — अथ वेति । भूता या पूर्वस्थितिस्तामपेक्ष्याऽऽत्मयाजिशब्दो विदुषीत्यर्थः । तदेव प्रपञ्चयति — आत्मेति । तेषां तत्संस्कारार्थत्वे प्रमाणमाह — इदमिति । तत्रैव स्मृतिं प्रमाणयति — तथेति । गर्भसंबन्धिभिर्होमैर्मौञ्जीनिबन्धनादिभिश्च बैजिकमेवैनः शमयतीत्यस्मिन्प्रकरणे नित्यकर्मणां संस्कारार्थत्वं निश्चितमित्यर्थः । संस्कारोऽपि कुत्रोपयुज्यते तत्राऽऽह — संस्कृतश्चेति । यो हि नित्यकर्मानुष्ठायी स तदनुष्ठानजनितापूर्ववशात्परिशुद्धबुद्धिः सम्यग्धीयोग्यो भवति । ‘महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः’(म.स्मृ. २। २८) इति स्मृतेरित्यर्थः । कदा पुनरेषा सम्यग्धीरुत्पद्यते तत्राऽऽह — तस्येति । उत्पन्नस्य सम्यग्ज्ञानस्य फलमाह । सममिति । कथं पुनः सम्यग्ज्ञानवत्यात्मयाजिशब्द इत्याशङ्क्य पूर्वोक्तं स्मारयति — आत्मेति । किमितीह भूतपूर्वगतिराश्रितेति तत्राऽऽह — ज्ञानयुक्तानामिति । ऐहिकैरामुष्मिकैर्वा कर्मभिः शुद्धबुद्धेः श्रवणादिवशादैक्यज्ञानं मुक्तिफलमुदेति । कर्म तु विद्यासंयुक्तमपि संसारफलमेवेति भावः । तत्रैव हेत्वन्तरमाह — किञ्चेति । विद्यायुक्तमपि कर्म बन्धायैवेत्यत्र न केवलमुक्तमेव कारणं किन्त्वन्यच्च तदुपपादकमस्तीत्यर्थः । तदेव दर्शयति — ब्रह्मेति । सात्त्विकीं सत्त्वगुणप्रसूतज्ञानसमुच्चितकर्मफलभूतमिति यावत् । अत्र हि विद्यायुक्तमपि कर्म संसारफलमेवेति सूच्यते । ‘एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य कर्मणः । त्रिविधस्त्रिविधः कर्मसंसारः सार्वभौतिकः’(म.स्मृ. १२। ५१) इत्युपसंहारादिति चकारार्थः । किञ्च । ‘प्रवृत्तं कर्म संसेव्य देवानामेति सार्ष्टिताम्’(म.स्मृ. १२। ९०) इति कर्मफलभूतदेवतासदृशैश्वर्यप्राप्तिमुक्त्वा तदतिरेकेण ‘निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै’(म.स्मृ. १२। ९०) इति भूतेष्वप्ययवचनान्न समुच्चयस्य मुक्तिफलतेत्याह — देवसार्ष्टीति । ‘निवृत्तं सेवमानस्तु भूतान्यप्येति पञ्च वै’ इति पाठान्मुक्तिरेव समुच्चयानुष्ठानाद्विवक्षितेति चेन्नेत्याह — भूतानीति । ज्ञानमेव मुक्तिहेतुरिति प्रतिपादकोपनिषद्विरोधान्नायं पाठः साधीयानित्यर्थः । ननु विग्रहवती देवतैव नास्ति मन्त्रमयी हि सा देवताशब्दप्रत्ययालम्बनमतो ब्रह्मा विश्वसृज इत्यादेरर्थवादत्वान्न तद्बलेन नित्यकर्मणां मुक्तिसाधनत्वं निराकर्तुं शक्यमत आह — न चेति । ज्ञानार्थस्य संपश्यन्नात्मयाजीत्यादेरिति शेषः । किञ्च “अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति ।(या.स्मृ.३-२१९) शरीरजैः कर्मदोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् । श्वसूकरखरोष्ट्राणां गोजाविमृगपक्षिणाम् । चण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति” इत्यादिवाक्यैः प्रतिपादितफलानां प्रत्यक्षेणापि दर्शनाद्यथा तत्र नाभूतार्थवादत्वं तथा यथोक्ताध्यायस्यापि नाभूतार्थवादतेत्याह — विहितेति । किञ्च वङ्गादिदेशे छर्दिताश्यादिप्रेतानां प्रत्यक्षत्वादध्ययनरहितानामपि स्त्रीशूद्रादीनां वेदोच्चारणदर्शनेन ब्रह्मग्रहसद्भावावगमाच्च न ब्रह्मादिवाक्यस्यार्थवादतेत्याह — वान्तेति । ननु स्थावरादीनां श्रौतस्मार्तकर्मफलत्वाभावान्न तद्दर्शनेन वचनानां भूतार्थत्वं शक्यं कल्पयितुमत आह — न चेति । सेवादिदृष्टकारणसाम्येऽपि फलवैषम्योपलम्भादवश्यमतीन्द्रियं कारणं वाच्यम् । न च तत्र श्रुतिस्मृती विहायान्यन्मानमस्ति । तथा च श्रौतस्मार्तकर्मकृतान्येव स्थावरादीनि फलानीत्यर्थः । संनिहितासंनिहितेषु स्थावरादिषु प्रत्यक्षानुमानयोर्थयायोगं प्रवृत्तिरुन्नेया । स्थावराणां जीवशून्यत्वादकर्मफलत्वमिति केचित्तान्प्रत्याह — न चैषामिति । अस्मदादिवदेव वृक्षादीनां वृद्ध्यादिदर्शनात्सजीवत्वप्रसिद्धेस्तस्मात्पश्यन्ति पादपा इत्यादिप्रयोगाच्च तेषां कर्मफलत्वसिद्धिरित्यर्थः । स्थावरादीनां कर्मफलत्वे सिद्धे फलितमाह — तस्मादिति । ब्रह्मादीनां पुण्यकर्मफलत्वेऽपि प्रकृते किं स्यात्तदाह — तस्मादिति । कर्मविपाकप्रकरणस्याभूतार्थवादत्वाभावे दृष्टान्तेऽपि तन्न स्यादिति शङ्कते — तत्रापीति । अङ्गीकरोति — भवत्विति । कथं तर्हि वैधर्म्यदृष्टान्तसिद्धिरत आह — न चेति । वैधर्म्यदृष्टान्ताभावमात्रेण कर्मविपाकाध्यायस्य नाभूतार्थवादतेत्यस्य न्यायस्य नैव बाधः साधर्म्यदृष्टान्तादपि तत्सिद्धेरित्यर्थः । ननु ‘प्रजापतिरात्मनो वपामुदखिदत्’ इत्यादीनामभूतार्थवादत्वाभावे कथमर्थवादाधिकरणं घटिष्यते तत्राऽऽह — न चेति । तदघटनायामपि नास्मात्पक्षक्षतिस्तवैव तदभूतार्थवादत्वं त्यजतस्तद्विरोधादित्यर्थः । ननु कर्मविपाकप्रकरणस्यार्थवादत्वाभावेऽपि ब्रह्मादीनां काम्यकर्मफलत्वान्न ज्ञानसंयुक्तनित्यकर्मफलत्वं ततो मोक्ष एव तत्फलमित्यत आह — न चेति । तेषां काम्यानां कर्मणामिति यावत् । देवसार्ष्टिताया देवैरिन्द्रादिभिस्समानैश्वर्यप्राप्तेरित्यर्थः । उक्तत्वात् ‘प्रवृत्तं कर्म संसेव्य देवानामेति सार्ष्टिताम्’ इत्यत्रेति शेषः । ननु विद्यासंयुक्तानां नित्यानां कर्माणां फलं ब्रह्मादिभावश्चेत्कथं तानि ज्ञानोत्पत्त्यर्थान्यास्थीयन्ते तत्राऽऽह — तस्मादिति । कर्मणां मुक्तिफलत्वाभावस्तच्छब्दार्थः । साभिसन्धीनां देवताभावे फलेऽनुरागवतामिति यावत् । नित्यानि कर्माणि श्रौतानि स्मार्तानि चाग्निहोत्रसन्ध्योपासनप्रभृतीनि निरभिसन्धीनि फलाभिलाषविकलानि परमेश्वरार्पणबुद्ध्या क्रियमाणानि । आत्मशब्दो मनोविषयः । कर्मणां चित्तशुद्धिद्वारा ज्ञानोत्पत्त्यर्थत्वे प्रमाणमाह — ब्राह्मीति । कथं तर्हि कर्मणां मोक्षसाधनत्वं केचिदाचक्षते तत्राऽऽह — तेषामिति । संस्कृतबुद्धीनामिति यावत् । कर्मणां परम्परया मोक्षसाधनत्वं कथं सिद्धवदुच्यते तत्राऽऽह — यथा चेति । अयमर्थस्तथेति शेषः । निरस्तमप्यधिकविवक्षया पुनरनुवदति — यत्त्विति । विषादेर्मन्त्रादिसहितस्य जीवनादिहेतुत्वं प्रत्यक्षादिसिद्धमतो दृष्टान्ते कार्यारम्भकत्वे विरोधो नास्तीत्याह — तत्रेति । कर्मणो विद्यासंयुक्तस्य कार्यान्तरारम्भकत्वलक्षणोऽर्थः शब्देनैव गम्यते । न च तत्र मानान्तरमस्ति । न च समुच्चितस्य कर्मणो मोक्षारम्भकत्वप्रतिपादकं वाक्यमुपलभ्यते तदभावे कर्मणि विद्यायुक्तेऽपि विषदध्यादिसाधर्म्यं कल्पयितुं न शक्यमित्याह — यस्त्विति । कर्मसाध्यत्वे च मोक्षस्यानित्यता स्यादिति भावः । ‘अपाम सोमममृता अभूम’ इत्यादिश्रुतेर्मोक्षस्य कर्मसाध्यस्यापि नित्यत्वमिति चेन्नेत्याह — न चेति । यत्कृतं तदनित्यमित्यनुमानानुगृहीतं तद्यथेहेत्यादिवाक्यं तद्विरोधेनार्थवादश्रुतेः स्वार्थेऽप्रामाण्यमित्यर्थः । प्रमाणान्तरविरुद्धेऽर्थे प्रामाण्यं श्रुतेर्नोच्यते चेदद्वैतश्रुतेरपि कथं प्रत्यक्षादिविरुद्धे स्वार्थे प्रामाण्यमित्याशङ्क्याऽऽह — श्रुते त्विति । तत्त्वमस्यादिवाक्यस्य षड्विधतात्पर्यलिङ्गैस्सदद्वैतपरत्वे निर्धारिते सद्भेदविषयस्य प्रत्यक्षादेराभासत्वं भवतीत्यर्थः । तदेव दृष्टान्तेन साधयति — यथेत्यादिना । यदविवेकिनां यथोक्तं प्रत्यक्षं तद्यद्यपि प्रथमभावित्वेन प्रबलं निश्चितार्थं च तथाऽपि तस्मिन्नेवाऽऽकाशादौ विषये प्रवृत्तस्याऽऽप्तवाक्यादेर्मानान्तरस्य यथार्थत्वे सति तद्विरुद्धं पूर्वोक्तमविवेकिप्रत्यक्षमप्याभासीभवति । तथेदं द्वैतविषयं प्रत्यक्षाद्यद्वैतागमविरोधे भवत्याभास इत्यर्थः । ननु तात्पर्यं नाम पुरुषस्य मनोधर्मस्तद्वशाच्चेदद्वैतश्रुतेर्यथार्थत्वं तर्हि प्रतिपुरुषमन्यथैव तात्पर्यदर्शनात्तद्वशादन्यथैव श्रुत्यर्थः स्यादित्याशङ्क्य दार्ष्टान्तिकं निगमयन्नुत्तरमाह — तस्मादित्यादिना । तादर्थ्यमर्थपरत्वं तथात्वं याथार्थ्यं शब्दधर्मस्तात्पर्यं तच्च षड्विधलिङ्गगम्यं तथा च शब्दस्य पुरुषाभिप्रायवशान्नान्यथार्थत्वमित्यर्थः । उक्तमर्थं दृष्टान्तेन स्पष्टयति — न हीति । विचारार्थमुपसंहरति — तस्मादिति । विद्यासंयुक्तस्यापि कर्मणो मोक्षारम्भकत्वासंभवस्तच्छब्दार्थः । मा भूत्कर्मणां मोक्षार्थत्वं किं तावतेत्याशङ्क्य ब्राह्मणारम्भं निगमयति — अत इति । ब्रह्मणारम्भमेवं प्रतिपाद्य तदक्षराणि व्याकरोति — अथेति । याज्ञवल्क्यमभिमुखीकृत्य भुज्युः स्वस्य पूर्वनिर्वृत्तां कथां कथयंस्तामवतारयितुमश्वेमधस्वरूपं तत्फलं च विभज्य दर्शयति — आदाविति । ऋतुरुक्त इति पूर्वेण संबन्धः । क्रतोर्द्वैविध्यमाह — ज्ञानेति । अश्वमेधस्य द्विधा विभक्तस्य सर्वकर्मोत्कर्षमुद्गिरति — सर्वकर्मणामिति । तस्य पुण्यश्रेष्ठत्वे मानमाह — भ्रूणहत्येति । समष्टिव्यष्टिफलश्चेत्युक्तं स्पष्टयति — तेनेति । अश्वमेधेन सहकरिकामनाभेदेन समष्टिं समनुगतरूपां व्यष्टीश्च व्यावृत्तरूपा देवताः प्राप्नोतीत्यर्थः । काः पुनर्व्यष्टयो विवक्ष्यन्ते तत्राऽऽह — तत्रेति । अग्निरादित्यो वायुरित्याद्या व्यष्टयो देवताः सोऽग्निरभवदित्यादावण्डान्तर्वर्तिन्योऽश्वमेधफलभूता दर्शिता इत्यर्थः । का तर्हि समष्टिर्देवतेत्युक्ते तत्रैवोक्तं स्मारयति — मृत्युरिति । तामेव समष्टिरूपां देवतां प्रपञ्चयितुमिदं ब्राह्मणमिति वक्तुं पातनिकां करोति — मृत्युश्चेति । प्राणात्मकबुद्धिधर्मोऽशनाया कथं मृत्योर्लक्षणं तत्राऽऽह — बुद्ध्यात्मेति । तर्हि बुद्धेर्व्यष्टित्वान्मृत्युरपि तथा स्यादित्याशङ्क्याऽऽह — समष्टिरिति । प्रागेव व्यष्ट्युत्पत्तेरुत्पन्नत्वेन समष्टित्वं साधयति — प्रथमज इति । सर्वाश्रयत्वं दर्शयति — सूत्रमिति । तत्र वायुर्वै गौतमेत्यादि वाक्यं प्रमाणमिति सूचयति — वायुरिति । तथाऽपि कथं प्रथमजत्वं भूतानां प्रथममुत्पत्तेरित्याशङ्क्याऽऽह — सत्यमिति । हिरण्यगर्भस्योक्तलक्षणत्वेऽपि किमायातां मृत्योरित्याशङ्ग्याऽऽह — हिरण्यगर्भ इति । जगदेव समष्टिव्यष्टिरूपं न सूत्रमित्याशङ्क्याऽऽह — यदात्मकमिति । द्वैतं व्यष्टिरूपमेकत्वं समष्टिरूपं तत्सर्वं यदात्मकं तस्येति संबन्धः । तस्योक्तप्रमाणत्वं प्रकटयति — यः सर्वेति । विज्ञानात्मानं व्यावर्तयति — लिङ्गमिति । ‘त्यस्य ह्येष रसः’ इति श्रुतिमनुसृत्याऽऽह — अमूर्तेति । तस्य साधनाश्रयत्वं दर्शयति — यदाश्रितानीति । तस्यैव फलाश्रयत्वमाह — यः कर्मणामिति । परा गतिरित्यस्यैव व्याख्यानं परं फलमिति । एवं भूमिकामारचय्यानन्तरब्राह्मणमवतारयति — तस्येति । प्रश्नमेव प्रकटयति — कियतीति । सर्वतः परितो मण्डलभावमासाद्य स्थितेति यावत् । ननु किमिति सा वक्तव्या तस्यामुक्तायामपि वक्तव्यसंसारावशेषादाकाङ्क्षाविश्रान्त्यभावादत आह — तस्यामिति । इयान्बन्धो नाधिको न्यूनो वेत्यन्यव्यवच्छेदेन बन्धपरिमाणपरिच्छेदार्थं कर्मफलव्याप्तिरत्रोच्यते तत्परिच्छेदश्च वैराग्यद्वारा मुक्तिहेतुरिति भावः । ब्राह्मणस्यैवं प्रवृत्तावपि किमिति भुज्युः स्वस्य पूर्वनिर्वृत्तां कथामाहेत्याशङ्क्याऽऽह — तस्य चेति । समष्टिव्यष्ट्यात्मदर्शनस्यालौकिकत्वप्रदर्शनेन वा किं स्यात्तदाह — तेन चेति । इति मन्यते भुज्युरिति शेषः । जल्पे परपराजयेनाऽऽत्मजयस्येष्टत्वादित्यर्थः । धिष्ण्यत्वमग्नेरुपास्यत्वम् । ‘अग्निर्वै देवानां होता’ इति श्रुतिमाश्रित्याऽऽह — ऋत्विगिति । यथोक्तगन्धर्वशब्दार्थसंग्रहे लिङ्गमाह — विशिष्टेति । तस्यान्यथासिद्धिं दूषयति — न हीति । अथैनमित्यादेरर्थं विवृणोति — भुवनेति । भवत्वेवं गन्धर्वं प्रति भवतः प्रश्नस्तथाऽपि किमायातं तदाह — स चेति । तेन गन्धर्ववचनेनेति यावत् । दिव्येभ्यो गन्धर्वेभ्यः सकाशादित्येतत् । एतज्ज्ञानाभावे त्वज्ञानमप्रतिभा ब्रह्मिष्ठत्वप्रतिज्ञाहानिश्चेत्याह — अत इति । प्रष्टुरभिप्रायमुक्त्वा प्रश्नाक्षराणि व्याचष्टे — सोऽहमिति ।
प्रथमा तावत्क्व पारिक्षिता अभवन्नित्युक्तिर्गन्धर्वप्रश्नार्था । द्वितीया तदनुरूपप्रतिवचनार्था । यो हि क्व पारिक्षिता अभवन्निति प्रश्नो गन्धर्वं प्रति कृतस्तस्य प्रत्युक्तिं सर्वां सोऽस्मभ्यमब्रवीदिति तत्र विवक्ष्यते । तृतीया तु मुनिं प्रति प्रश्नार्थेति विभागः ॥१॥ 【भाष्यम्】 【भाष्यम्】 अज्ञानादिनिग्रहं परिहरन्नुत्तरमाह — स होवाचेति । स्मरणार्थो गन्धर्वाल्लब्धस्य ज्ञानस्येति शेषः । किमुवाचेत्यपेक्षायामाह — अगच्छन्निति । अहोरात्रमादित्यरथगत्या यावान्पन्था मितस्तावान्देशो द्वात्रिंशद्गुणितस्तत्किरणव्याप्तः । स च चन्द्ररश्मिव्याप्तेन देशेन साकं पृथिवीत्युच्यते । ‘रविचन्द्रमसोर्यावन्मयूखैरवभास्यते । ससमुद्रसरिच्छैला तावती पृथिवी स्मृता’(ब्रह्मपुराणम् २३-३) इति स्मृतेरित्याह — द्वात्रिंशतमित्यादिना । अयं लोक इत्यस्यार्थमाह — तावदिति । तत्र लोकभागं विभजते — यत्रेति । उक्तं लोकमनूद्यावशिष्टस्यालोकत्वमाह — एतावानिति । तमिति प्रतीकमादाय व्याचष्टे — लोकमित्यादिना । अन्वयं दर्शयितुं तं लोकमिति पुनरुक्तिः । तत्र पौराणिकसंमतिमाह — यं घनोदमिति । उक्तं हि - ‘अण्डस्यास्य समन्तात्तु संनिविष्टोऽमृतोदधिः । समन्ताद्घनतोयेन धार्यमाणः स तिष्ठति ॥’ इति । तद्यावतीत्यादेस्तात्पर्यमाह — तत्रेति । लोकादिपरिमाणे यथोक्तरीत्या स्थिते सतीति यावत् । कपालविवरस्यानुपयुक्तत्वात्किं तत्परिमाणचिन्तयेत्याशङ्क्याऽऽह — येनेति । व्यवहारभूमिः सप्तम्यर्थः । परमात्मानं व्यावर्तयति — योऽश्वमेध इति । सुपर्णशब्दस्य श्येनसादृश्यमाश्रित्य चित्येऽग्नौ प्रवृत्तिं दर्शयति — यद्विषयमिति । उक्तार्थं पदमनुवदति — सुपर्ण इति । भूत्वेत्यस्यार्थमाह — पक्षेति । ननु चित्योऽग्निरण्डाद्बहिरश्वमेधयाजिनो गृहीत्वा स्वयमेव गच्छतु किमिति तान्वायवे प्रयच्छति तत्राऽऽह — मूर्तत्वादिति । आत्मनश्चित्यस्याग्नेरिति यावत् । तत्रेत्यण्डाद्बाह्यदेशोक्तिः । इति युक्तं वायवे प्रदानमिति शेषः । आख्यायिकासमाप्तावितिशब्दः । परितो दुरितं क्षीयते येन स परिक्षिदश्वमेधस्तद्याजिनः पारिक्षितास्तेषां गतिं वायुमिति संबन्धः । मुनिवचने वर्तमाने कथामाख्यायिकासमाप्तिस्तत्राऽऽह — समाप्तेति । वायुप्रशंसायां हेतुमाह — यस्मादिति । किम्पुनर्यथोक्तवायुतत्त्वविज्ञानफलं तदाह —
एवमिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणान्तरमवतारयति — अथेति । तस्यापुनरुक्तमर्थं वक्तुमार्तभागप्रश्ने वृत्तं कीर्तयति — पुण्येति । भुज्युप्रश्नान्ते सिद्धमर्थमनुद्रवति — पुण्यस्य चेति । नामरूपाभ्यां व्याकृतं जगद्धिरण्यगर्भात्मकं तद्विषयमुत्कर्षं विशिनष्टि । समष्टीति । कथं यथोक्तोत्कर्षस्य पुण्यकर्मफलत्वं तत्राऽऽह — द्वैतेति । संप्रत्यनन्तरब्राह्मणस्य विषयं दर्शयति — यस्त्विति । माध्यमिकानामन्येषां चाऽऽद्यो विवादः किंलक्षणो देहादीनामन्यतमस्तेभ्यो विलक्षणो वेति यावत् । इत्येवं विमृश्याऽऽत्मनो देहादिभ्यो विवेकेनाधिगमायेदं ब्राह्मणमित्याह — इत्यात्मन इति । विवेकाधिगमस्य भेदज्ञानत्वेनानर्थकरत्वमाशङ्क्य कहोलप्रश्नतात्पर्यं संगृह्णाति — तस्य चेति । ब्राह्मणसंबन्धमुक्त्वाऽऽख्यायिकासंबन्धमाह — आख्यायिकेति । विद्यास्तुत्यर्था सुखावबोधार्था चाऽऽख्यायिकेत्यर्थः । भुज्युप्रश्ननिर्णयानन्तर्यमथशब्दार्थः । संबोधनमभिमुखीकरणार्थम् । द्रष्टुरव्यवहितमित्युक्ते घटादिवदव्यवधानं गौणमिति शङ्क्येत तन्निराकर्तुमपरोक्षादित्युक्तम् । मुख्यमेव द्रष्टुरव्यवहितं स्वरूपं ब्रह्म । तथा च द्रष्ट्रधीनसिद्धत्वाभावात्स्वतोऽपरोक्षमित्यर्थः । श्रोत्रं ब्रह्म मनो ब्रह्मेत्यादि यथा गौणं न तथा गौणं द्रष्टुरव्यवहितं ब्रह्माद्वितीत्वादित्याह — न श्रोत्रेति । उक्तमव्यवधानमाकाङ्क्षाद्वाराऽनन्तरवाक्येन साधयति — किं तदित्यादिना । तस्य परिच्छिन्नत्वशङ्कां वारयति — सर्वस्येति । सर्वनामभ्यां प्रत्यग्ब्रह्म विशेष्यं समर्प्यत इतरैस्तु शब्दैर्विशेषणानीति विभागमभिप्रेत्याऽऽह — यद्यः शब्दाभ्यामिति । इतिरुच्यत इत्यनेन संबध्यते । इतिशब्दो द्वितीयः प्रश्नसमाप्त्यर्थः । तमेव प्रश्नं विवृणोति — विस्पष्टमिति । त्वमर्थे वाक्यार्थान्वययोग्ये पृष्टे तत्प्रदर्शनार्थं प्रत्युक्तिमवतारयति — एवमुक्त इति । सर्वान्तर इति विशेषोक्त्या प्रश्नस्य विशेषणान्तराणामनास्थामाशङ्क्यऽऽह — सर्वविशेषणेति । एष सर्वान्तर इति भागस्यार्थं विवृणोति — यत्साक्षादिति । एषशब्दार्थं प्रश्नपूर्वकमाह — कोऽसाविति । आत्मशब्दार्थं विवृणोति — योऽयमिति । येनेत्यत्र सशब्दो द्रष्टव्यः । षष्ठ्यर्थं स्पष्टयति — तवेति । प्रश्नान्तरमुत्थाप्य प्रतिवक्ति — तत्रेत्यादिना । सर्वान्तरस्तवाऽऽत्मेत्युक्ते सतीति यावत् । तृतीयो मातृसाक्षी प्रणीयते प्राणनविशिष्टः क्रियत इति यावत् । कथमेतावता सन्देहोऽपाकृत इत्याशङ्क्य विवक्षितमनुमानं वक्तुं व्याप्तिमाह — सर्वा इति । या खल्वचेतनप्रवृत्तिः सा चेतनाधिष्ठानपूर्विका यथा रथादिप्रवृत्तिरित्यर्थः । येन क्रियन्ते सोऽस्तीति संबन्धः । दृष्टान्तस्य साध्यवैकल्यं परिहरति — न हीति । संप्रत्यनुमानमारचयति — तस्मादिति । विमता चेष्टा चेतनाधिष्ठानपूर्विकाऽचेतनप्रवृत्तित्वाद्रथादिचेष्टावदित्यर्थः । प्रतिपद्यते प्राणादीतिशेषः । अनुमानफलमाह — तस्मात्सोऽस्तीति ।
चेष्टयति कार्यकरणसंघातमिति शेषः ॥१॥ 【भाष्यम्】 【भाष्यम्】 प्रश्नप्रतिवचनयोरननुरूपत्वमाशङ्कते — स होवाचेति । दृष्टान्तमेव स्पष्टयति — असावित्यादिना । प्रत्यक्षं गामश्वं वा दर्शयामीति पूर्वं प्रतिज्ञाय पश्चाद्यश्चलत्यसौ गौर्यो वा धावति सोऽश्व इति चलनादिलिङ्गैर्यथा गवादि व्यपदिशत्येवमेव ब्रह्म प्रत्यक्षं दर्शयामीति मत्प्रश्नानुसारेण प्रतिज्ञाय प्राणनादिलिङ्गैस्तद्व्यपदिशतस्ते प्रतिज्ञाहानिरनवधेयवचनता च स्यादित्यर्थः । प्रतिज्ञाप्रश्नावनुसर्तव्यौ बुद्धिपूर्वकारिणेति फलितमाह — किं बहुनेति । प्रत्युक्तितात्पर्यमाह — यथेति । प्रतिज्ञानुवर्तनमेवाभिनयति — तत्तथेति । कतमो याज्ञवल्क्येत्यादिप्रश्नस्य तात्पर्यमाह — यत्पुनरिति । न दृष्टेरित्यादिवाक्यस्य तात्पर्यं वदन्नुत्तरमाह — तदशक्यत्वादिति । आत्मनो वस्तुत्वाद्घटादिवद्विषयीकरणं नाशक्यमिति शङ्कते — कस्मादिति । वस्तुस्वरूपमनुसृत्य परिहरति — आहेति । घटादेरपि तर्हि वस्तुस्वाभाव्यान्मा भूद्विषयीकरणमिति मन्वानः शङ्कते — किं पुनरिति । दृष्ट्यादिसाक्षित्वं वस्तुस्वाभाव्यं ततश्चाविषयत्वं न चैवं वस्तुस्वाभाव्यं घटादेरस्तीत्युत्तरमाह — दृष्ट्यादीति । दृट्यादिसाक्षिणोऽपि दृष्टिविषयत्वं किं न स्यादित्याशङ्क्याऽऽह — दृष्टेरिति । यथा प्रदीपो लौकिकज्ञानेन प्रकाश्यो न स्वप्रकाशकं ज्ञानं प्रकाशयति तथा दृष्टिसाक्षी दृष्ट्या न प्रकाश्यत इत्यर्थः । दृष्टेर्द्रष्टैव नास्तीति सौगतास्तान्प्रत्याह — दृष्टिरितीति । लौकिकीं व्याचष्टे — तत्रेति । पारमार्थिकीं दृष्टिं व्याकरोति — या त्विति । नन्वात्मा नित्यदृष्टिस्वभावश्चेत्कथं द्रष्टेत्यादिव्यपदेशः सिध्यति तत्राऽऽह — सा क्रियमाणयेति । साक्ष्यबुद्धितद्वृत्तिगतं कर्तृत्वं क्रियात्वं चाऽऽध्यासिकं नित्यदृग्रूपे व्यवह्रियत इत्यर्थः । आत्मनो नित्यदृष्टिस्वभावत्वे कथं ‘पश्यति न पश्यति चे’ति कादाचित्को व्यवहार इत्याशङ्क्याऽऽह — याऽसाविति । या बहुविशेषणा लौकिकी दृष्टिरसौ तत्प्रतिच्छायेति संबन्धः । तथा च या तत्प्रतिच्छाया तया व्याप्तैवेति यावत् । किमित्यौपचारिको व्यपदेशो मुख्यस्तु किं न स्यादित्याशङ्क्याऽऽह — न त्विति । दृष्टेर्वस्तुतो न विक्रियावत्वमित्यत्र वाक्यशेषमनुकूलयति — तथा चेति । उक्तेऽर्थे न दृष्टेरित्यादिश्रुतिमवतार्य व्याचष्टे — तमिममित्यादिना । उक्तमेव प्रपञ्चयति — याऽसाविति । न दृष्टेरित्यादिवाक्यार्थं निगमयति — तस्मादिति । उक्तन्यायमुत्तरवाक्येष्वतिदिशति — तथेति । उक्तं वस्तुस्वाभाव्यमुपसंहृत्य फलितमाह — एष इति । न दृष्टेरित्यत्र स्वपक्षमुक्त्वा भर्तृप्रपञ्चपक्षमाह — न दृष्टेरिति । कथमक्षराणामन्यथा व्याख्येत्याशङ्क्य तदिष्टमक्षरार्थमाह — दृष्टेरिति । इति शब्दो व्याचक्षत इत्यनेन संबध्यते । एवं व्याकुर्वतामभिप्रायमाह — दृष्टेरितीति । कर्मणि षष्ठीमेव स्फुटयति — सा दृष्टिरिति । षष्ठीं व्याख्याय द्वितीयां व्याचष्टे — द्रष्टारमितीति । पदार्थमुक्त्वा वाक्यार्थमाह — तेनेति । उक्तां परकीयव्याख्यां दूषयति । तत्रेति । दृष्टिकर्तृत्वविवक्षायां तृजन्तेनैव तत्सिद्धेः षष्ठी निरर्थिकेत्यर्थः । कथं पुनर्व्याख्यातारो यथोक्तं दोषं न पश्यन्ति तत्राऽऽह — पश्यतां वेति । षष्ठीनैरर्थक्यं प्रागुक्तमाकाङ्क्षाद्वारा समर्थयते — कथमित्यादिना । कियत्तर्हीहार्थवदित्याशङ्क्याऽऽह — तदेति । तत्र हेतुमाह — यस्मादिति । क्रिया धात्वर्थः । कर्ता प्रत्ययार्थः । तथा चैकेनैव पदेनोभयलाभात्पृथक्क्रियाग्रहणमनर्थकमित्यर्थः । दृष्टेरित्यस्यानर्थकत्वं दृष्टान्तेन साधयति — गन्तारमित्यादिना । अर्थवादत्वेन तर्हीदमुपात्तमित्याशङ्क्याऽऽह — न चेति । विधिशेषत्वाभावादस्मदुक्तगत्या चार्थवत्त्वसंभवादित्यर्थः । अथ परपक्षे निरर्थकमेवेदं पदं प्रमादात्पठितमिति चेन्नेत्याह — न चेति । सर्वेषां काण्वमाध्यन्दिनानामिति यावत् । कथं तर्हीदं पदमनर्थकमिति परेषां प्रतीतिस्तत्राऽऽह — तस्मादिति । कथं पुनर्भवतामपि दृशेर्द्विरुपादानमुपपद्यते तत्राऽऽह — यथा त्विति । प्रदर्शयितव्यपदादुपरिष्टादितिशब्दो द्रष्टव्यः । कर्तृकर्मविशेषणत्वेन साक्षिसाक्ष्यसमर्पकत्वेनेति यावत् । तत्समर्पणमिति कुत्रोपयुज्यते तत्राऽऽह — आत्मेति । दृष्ट्यादिसाक्ष्यात्मा न तद्विषय इति तत्स्वरूपनिश्चयार्थं साक्ष्यादिसमर्पणामित्यर्थः । आत्मा नित्यदृष्टिस्वभावो न दृश्याया दृष्टेर्विषय इत्येष चेन्न दृष्टेरित्यादिवाक्यस्यार्थस्तदा नहीत्यादिनाऽस्यैकवाक्यत्वं सिध्यति । तस्माद्यथोक्तार्थत्वमेव न दृष्टेरित्यादिवाक्यस्येत्याह — न हीति । आत्मा कूटस्थदृष्टिरित्यत्र तलवकारश्रुतिं संवादयति — तथा चेति । तस्य कूटस्थदृष्टित्वे हेत्वन्तरमाह — न्यायाच्चेति । तमेव न्यायं विशदयति — एवमेवेति । विपक्षे दोषमाह — विक्रियावच्चेति । इतश्चाऽऽत्मनो नास्ति विक्रियावत्त्वमित्याह — ध्यायतीवेति । अन्यथा विक्रियावत्त्वे सतीति यावत् । अविक्रियत्वेऽपि श्रुत्यक्षराण्यनुपपन्नानीति शङ्कते — नन्विति । न तेषां विरोधो दृष्टं दृष्ट्यादिकर्तृत्वमनुसृत्य प्रवृत्ते लौकिके वाक्ये तदर्थानुवादित्वादुक्तश्रुत्यक्षराणां स्वार्थे प्रामाण्याभावादिति परिहरति — नेत्यादिना । न दृष्टेरित्यादीन्यपि तर्हि श्रुत्यक्षराणि न स्वार्थे प्रमाणानीत्याशङ्क्याऽऽह । न दृष्टेरिति । अन्योऽर्थो दृष्ट्यादिकर्ता । यथोक्तोऽर्थो दृष्ट्यादिसाक्षी । द्रष्टृपदस्य साक्षिविषयत्वे सिद्धे दृष्टेरिति साक्ष्यसमर्पणात्तदर्थवत्त्वोपपत्तिरित्युपसंहरति — तस्मादिति । पक्षान्तरं निराकृत्य स्वपक्षमुपपाद्यानन्तरं वाक्यं विभजते — एष इति । अन्यदार्तमितिविशेषणसामर्थ्यसिद्धमर्थमाह —
एतदेवेति ॥२॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणत्रयार्थं संगतिं वक्तुमनुवदति — बन्धनमिति । चतुर्थब्राह्मणार्थं संक्षिपति — यश्चेति । उत्तरब्राह्मणतात्पर्यमाह — तस्येति । उषस्तप्रश्नानन्तर्यमथशब्दार्थः । पूर्ववदित्यभिमुखीकरणार्थं संबोधितवानित्यर्थः । बन्धध्वंसिज्ञानप्रश्नो नात्र प्रतिभाति किन्त्वनुवादमात्रमित्याशङ्क्याऽऽह — यं विदित्वेति । तं व्याचक्ष्वेति पूर्वेण संबन्धः । प्रश्नयोरवान्तरविशेषप्रदर्शनार्थं परामृशति — किमुषस्तेति । तत्र पूर्वपक्षं गृह्णाति — भिन्नावितीति । उक्तमर्थं व्यतिरेकद्वारा विवृणोति — यदि हीत्यादिना । अथैकं वाक्यं वस्तुपरं तस्यार्थवादो द्वितीयं वाक्यं नेत्याह — न चेति । द्वयोर्वाक्ययोस्तुल्यलक्षणत्वे फलितमाह — तस्मादिति । तत्राऽऽद्यं वाक्यं क्षेत्रज्ञमधिकरोति द्वितीयं परमात्मनमित्यभिप्रेत्याऽऽह — क्षेत्रज्ञेति । ब्राह्मणद्वयेनार्थद्वयं विवक्षिमिति भर्तृप्रपञ्चप्रस्थानं प्रत्याह — तन्नेति । प्रश्नप्रतिवचनयोरेकरूपत्वान्नार्थभेदोऽस्तीत्युक्तमुपपादयति — एष त इति । तथाऽप्यर्थभेदे काऽनुपपत्तिस्तत्राऽऽह — न चेति । तदेवोपपादयति — एको हीति । कार्यकरणसंघातभेदादात्मभेदमाशङ्क्याऽऽह — न चेति । जातितः स्वभावतोऽहमहमित्येकाकारस्फुरणादित्यर्थः । इतश्च न तत्त्वभेद इत्याह — द्वयोरिति । तदेव स्फुटयति — यदीति । द्वयोर्मध्ये यद्येकं ब्रह्मागौणं तदेतरेण गौणेनावश्यं भवितव्यं तथाऽऽत्मत्वादि यद्येकस्येष्टं तदेतरस्यानात्मत्वादीति कुतः स्यादिति चेत्तत्राऽऽह — विरुद्धत्वादिति । उक्तोपपादनपूर्वकं द्विःश्रवणस्याभिप्रायमाह — यदीत्यादिना । अनेकमुख्यत्वासंभवाद्वस्तुतः परिच्छिन्नस्य घटवदब्रह्मत्वादनात्मत्वाच्चैकमेव मुख्यं प्रत्यग्भूतं ब्रह्मेत्यर्थः । यदि जीवश्वरभेदाभावात्प्रश्नयोर्नार्थभेदस्तर्हि पुनरुक्तिरनर्थिकेत्याशङ्क्याऽऽह — तस्मादिति । तर्हि स एव विशेषो दर्शयितव्यो येन पुनरुक्तिरर्थवतीत्याशङ्क्याऽऽह — यत्त्विति । अनुक्तविशेषकथनार्थमुक्तपरिमाणं निर्णेतुमुक्तानुवादश्चेदनुक्तो विशेषस्तर्हि प्रदर्श्यतामिति पृच्छति — कः पुनरिति । बुभुत्सितं विशेषं दर्शयति — उच्यत इति । इति शब्दः क्रियापदेन संबध्यते । किमित्येष विशेषो निर्दिश्यते तत्राऽऽह — यद्विशेषेति । अर्थभेदासंभवे फलितमाह — तस्मादिति । योऽशनायेत्यादिना तु विवक्षितविशेषोक्तिरिति शेषः । एकमेवाऽऽत्मतत्त्वमधिकृत्य प्रश्नावित्यत्र चोदयति — नन्विति । विरुद्धधर्मवत्त्वान्मिथो भिन्नौ प्रश्नार्थावित्येतद्दूषयति — नेति । परिहृतत्वमेव प्रकटयति — नामरूपेति । तयोर्विकारः कार्यकरणलक्षणः संघातः स एवोपाधिभेदस्तेन संपर्कस्तस्मिन्नहंममाध्यासस्तेन जनिता भ्रान्तिरहं कर्तेत्याद्या तावन्मात्रं संसारित्वमित्यनेकशो व्युत्पादितं तस्मान्नास्ति वस्तुतो विरुद्धधर्मवत्त्वमित्यर्थः । किं च सविशेषत्वनिर्विशेषत्वश्रुत्योर्विषयविभागोक्तिप्रसंगेन संसारित्वस्य मिथ्यात्वं मधुब्राह्मणान्तेऽवोचामेत्याह — विरुद्धेति । कथं तर्हि विरुद्धधर्मवत्वप्रतीतिरित्याशङ्क्याऽऽह — यथेति । परेणपुरुषेणाज्ञानेन वाऽध्यारोपितैः सर्पत्वादिभिर्धर्मैर्विशिष्टा इति यावत् । स्वतश्चाध्यारोपेण विनेत्यर्थः । प्रतिभासतो विरुद्धधर्मवत्त्वेऽपि क्षेत्रज्ञेश्वरयोर्भिन्नत्वाद्भिन्नार्थावेव प्रश्नाविति चेन्नेत्याह — न चैवमिति । निरुपाधिकरूपेणासंसारित्वं सोपाधिकरूपेण संसारित्वमित्यविरोध उक्तः । इदानीमुपाध्यभ्युपगमे सद्वयत्वं सतश्चैव घटादेरुपाधित्वदृष्टेरिति शङ्कते — नामेति । सलिलातिरोकेण न सन्ति फेनादयो विकारा नापि मृदाद्यतिरेकेण तद्विकारः शरावादयः सन्तीति दृष्टान्ताख्ययुक्तिबलादाविद्यनामरूपरचितकार्यकरणसंघातस्याविद्यामात्रत्वत्तस्याश्च विद्यया निरासान्नैवमिति परिहरति — नेत्यादिना । कार्यसत्त्वमभ्युपगम्योक्तमिदानीं तदपि निरूप्यमाणे नास्तीत्याह — यदा त्विति । नेह नानाऽस्ति किञ्चनेत्यादिश्रुत्यनुसारिभिर्वस्तुदृष्ट्या निरूप्यमाणे नामरूपे परमात्मतत्त्वादन्यत्वेनानन्यत्वेन वा निरूप्यमाणे तत्त्वतो वस्त्वन्तरे यदा तु न स्त इति संबन्धः । मृदादिविकारवदित्युक्तं प्रकटयति — सलिलेति । तदा तत्परमात्मतत्त्वमपेक्ष्येति योजनीयम् । कदा तर्हि लौकिको व्यवहारस्तत्राऽऽह — यदा त्विति । अविद्यया स्वाभाविक्या ब्रह्म यदोपाधिभ्यो विवेकेन नावधार्यते सदा लौकिको व्यवहारश्चेत्तार्हि विवेकिनां नासौ स्यादित्याशङ्क्याऽऽह — अस्ति चेति । भेदभानप्रयुक्तो व्यवहारो विवेकिनामविवेकिनां च तुल्य एवायं वस्त्वन्तरास्तित्वाभिनिवेशस्तु विवेकिनां नास्तीति विशेषः । ननु यथाप्रतिभासं वस्त्वन्तरं पारमार्थिकमेव किं न स्यात्तत्राऽऽह — परमार्थेति । किं द्वितीयं वस्तु तत्त्वतोऽस्ति किं वा नास्तीति वस्तुनि निरूप्यमाणे सति श्रुत्यनुसारेण तत्त्वदर्शिभिरेकमेवाद्वितीयं ब्रह्माव्यवहार्यमिति निर्धार्यते तेन व्यवहारदृष्ट्याश्रयणेन भेदकृतो मिथ्याव्यवहारस्तत्त्वदृष्ट्याश्रयणेन च तदभावविषयः शास्त्रीयो व्यवहार इत्युभयविधव्यवहारसिद्धिरित्यर्थः । तत्र शास्त्रीयव्यवहारोपपत्तिं प्रपञ्चयति — न हीति । तथा च विद्यावस्थायां शास्त्रीयोऽभेदव्यवहारस्तदितरव्यवहारस्त्वाभासमात्रमिति शेषः । अविद्यावस्थायां लौकिकव्यवहारोपपत्तिंविवृणोति — न च नामेति । उभयविधव्यवहारोपपत्तिमुपसंहरति — तस्मादिति । उक्तरीत्या व्यवहारद्वयोपपत्तौ फलितमाह — अत इति । प्रत्यक्षादिषु वेदान्तेषु चेति शेषः । ज्ञानाज्ञाने पुरस्कृत्य व्यवहारः शास्त्रीयो लौकिकश्चेति नास्माभिरेवोच्यते किन्तु सर्वेषामपि परीक्षकाणामेतत्संमतं संसारदशायां क्रियाकारकव्यवहारस्य मोक्षावस्थायां च तदभावस्येष्टत्वादित्याह — सर्ववादिनामिति । निरुपाधिके परस्मिन्नात्मनि चिद्धातावनाद्यविद्याकल्पितोपाधिकृतमशनायादिमत्त्वं वस्तुतस्तु तद्राहित्यमित्युपपाद्यानन्तरप्रश्नमुत्थाप्य प्रतिवक्ति — तत्रेत्यादिना । कल्पिताकल्पितयोरात्मरूपयोर्निर्धारणार्था सप्तमी । योऽत्येति स सर्वान्तरत्वादिविशेषणस्तवाऽऽत्मेति शेषः । ननु परो नाशनायादिमानप्रसिद्धेर्नापि जीवस्तथा तस्य परस्मादव्यतिरेकादत आह — अविवेकिभिरिति । परमार्थत इत्युभयतः संबध्यते । ब्रह्मैवाखण्डं सच्चिदानन्दमनाद्यविद्यातत्कार्यबुद्ध्यादिसंबद्धमाभासद्वारा स्वानुभवादशनायादिमद्गम्यते तत्त्वं वस्तुतोऽविद्यासंबन्धादशनायाद्यतीतं नित्यमुक्तं तिष्ठतीत्यर्थः । अशनायापिपासादिमद्ब्रह्म । गम्यमानमिति वदन्नाचार्यो नानाजीववादस्यानिष्टत्वं सूचयति । परमार्थतो ब्रह्मण्यशनायाद्यसंबन्धे मानमाह — न लिप्यत इति । बाह्यत्वमसंगत्वम् । लोकदुःखेनेत्ययुक्तं लोकस्यानात्मनो दुःखसंबन्धानभ्युपगमादित्याशङ्क्याऽऽह — अविद्वदिति अशनायापिपासयोः समस्योपादाने हेतुमाह — प्राणेति । अरतिवाची शोकशब्दो न कामविषय इत्याशङ्क्याऽऽह — इष्टमिति । कामबीजत्वमरतेरनुभवेनाभिव्यनक्ति — तेन हति । कामस्य शोको बीजमिति स कामतया व्याख्यातः । अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर्विपरीतप्रत्ययस्तस्मान्मनसि प्रभवति कर्तव्याकर्तव्याविवेकः स लौकिकः सम्यग्ज्ञानविरोधाद्भ्रमोऽविद्येत्युच्यते । तस्याः सर्वानर्थोत्पत्तौ निमित्तत्वं मूलाविद्यायास्तूपादानत्वं तदेतदाह — मोहस्त्विति । कामस्य शोको मोहो दुःखस्य हेतुरिति भिन्नकार्यत्वं तद्विच्छेद इत्यत्र कार्यकरणसंघातस्तच्छब्दार्थः । संसाराद्विरक्तस्य पारिव्राज्यं वक्तुमुत्तरं वाक्यमित्यभिप्रेत्य संक्षेपतः संसारस्वरूपमाह — ये त इत्यादिना । तेषामात्मधर्मत्वं व्यावर्तयितुं विशिनाष्टि — प्राणेति । तेषां स्वरसतो विच्छेदशङ्कां वारयति — प्राणिष्विति । प्रवाहरूपेण नैरन्तर्ये दृष्टान्तमाह — अहोरात्रादिवदिति । तेषामतिचपलत्वे दृष्टान्तः — समुद्रोर्मिवदिति । तेषां हेयत्वं द्योतयति — प्राणिष्विति । ये यथोक्ताः प्राणिष्वशनायादयस्ते तेषु संसार इत्युच्यत इति योजना । एतं वै तमित्यत्रैतच्छब्दार्थमुषस्तप्रश्नोक्तं त्वम्पदार्थं कथयति — योऽसाविति । तच्छब्दार्थं कहोलप्रश्नोक्तं तत्पदार्थं दर्शयति — अशनायेति । तयोरैक्यं सामानाधिकरण्येन सूचितमित्याह — तमेतमिति । ज्ञानमेव विशदयति — अयमित्यादिना । ज्ञात्वा ब्राह्मणा व्युत्थाय भिक्षाचर्यं चरन्तीति संबन्धः । संन्यासविधायके वाक्ये किमित्यधिकारिणि ब्राह्मणपदं तत्राऽऽह — ब्राह्मणानामिति । पुत्रार्थामेषणामेव विवृणोति — पुत्रेणेति । ततो व्युत्थानं संगृह्णाति — दारसंग्रहमिति । वित्तैषणायाश्च व्युत्थानं कर्तव्यमित्याह — वित्तेति । वित्तं द्विविधं मानुषं दैवं च । मानुषं गवादि तस्य कर्मसाधनस्योपादानमुपार्जनं तेन कर्म कृत्वा केवलेन कर्मणा पितृलोकं जेष्यामि । दैवं वित्तं विद्या तत्संयुक्तेन कर्मणा देवलोकं केवलया च विद्यया तमेव जेष्यामीतीच्छा वित्तैषणा ततश्च व्युत्थानं कर्तव्यमिति व्याचष्टे — कर्मसाधनस्येति । एतेन लोकैषणायाश्च व्युत्थानमुक्तं वेदितव्यम् । दैवाद्वित्ताद्व्युत्थानमाक्षिपति — दैवादिति । तस्यापि कामत्वात्ततो व्युत्थातव्यमिति परिहरति — तदसदिति । तर्हि ब्रह्मविद्यायाः सकाशादपि व्युत्थानात्तन्मूलध्वंसे तद्व्याघातः स्यादित्याशङ्क्याऽऽह — हिरण्यगर्भादीति । देवतोपासनाया वित्तशब्दितविद्यात्वे हेतुमाह — देवलोकेति । तत्प्राप्तिहेतुत्वं ब्रह्मविद्यायामपि तुल्यमिति चेन्नेत्याह — न हीति । तत्र फलान्तरश्रवणं हेतूकरोति — तस्मादिति । इतश्च ब्रह्मविद्या दैवाद्वित्ताद्बहिरेवेत्याह — तद्बलेनेति । प्रागेव वेदनं सिद्धं चेत्किं पुनर्व्युत्थानेनेत्याशङ्क्य प्रयोजकज्ञानं तत्प्रयोजकमुद्देश्यं तु तत्त्वसाक्षात्करणमिति विवक्षित्वाऽऽह — तस्मादिति । प्रयोजकज्ञानं पञ्चम्यर्थः । व्युत्थाय भिक्षाचर्यं चरन्तीति संबन्धः । व्युत्थानस्वरूपप्रदर्शनार्थमेषणास्वरूपमाह — एषणेति । किमेतावतेत्याशङ्क्य व्युत्थानस्वरूपमाह — एतस्मिन्निति । संबन्धस्तु पूर्ववत् । या ह्येवेत्यादिश्रुतेस्तात्पर्यमाह — सर्वा हीति । फलं नेच्छाति साधनं च चिकीर्षतीति व्याघातात्फलेच्छान्तर्भूतैव साधनेच्छा तद्युक्तमेषणैक्यमित्यर्थः । श्रुतेस्तदैक्यव्युत्पादकत्वं प्रश्नपूर्वकं व्युत्पादयति — कथमित्यादिना । फलैषणान्तर्भावं साधनैषणायाः समर्थयते — सर्व इति । उभे हीत्यादिश्रुतिमवतार्य व्याचष्टे — या लोकैषणेति । प्रयोजकज्ञानवतः साध्यसाधनरूपात्संसाराद्विरक्तस्य कर्मतत्साधनयोरसंभवे साक्षात्कारमुद्दिश्य फलितं संन्यासं दर्शयति — अत इति । अतिक्रान्ता ब्राह्मणाः किं प्रजयेत्यादिप्रकाशितास्तेषां कर्म कर्मसाधनं च यज्ञोपवीतादि नास्तीति पूर्वेण संबन्धः । देवपितृमानुषनिमित्तमिति विशेषणं विशदयति — तेन हीति । प्राचीनावीतं पितॄणामुपवीतं देवानामित्यादिशब्दार्थः । यस्मात्पूर्वे विचारप्रयोजकज्ञानवन्तो ब्राह्मणा विरक्ताः संन्यस्य तत्प्रयुक्तं धर्ममन्वतिष्ठंस्तस्मादधुनातनोऽपि प्रयोजकज्ञानी विरक्तो ब्राह्मणस्तथा कुर्यादित्याह — तस्मादिति । ‘त्रिदण्डेन यतिश्चैव’ इत्यादिस्मृतेर्न परमहंसपारिव्राज्यमत्र विवक्षितमित्याशङ्क्याऽऽह — त्यक्त्वेति । तस्य दृष्टार्थत्वान्मुमुक्षुभिस्त्याज्यत्वं सूचयति — केवलमिति । अमुख्यत्वाच्च तस्य त्याज्यतेत्याह — परिव्राज्येति । तथाऽपि त्वदिष्टः संन्यासो न स्मृतिकारैर्निबद्ध इति चेन्नेत्याह — विद्वानिति । प्रत्यक्षश्रुतिविरोधाच्च स्मार्तसंन्यासो मुख्यो न भवतीत्याह — अथेति । एतं वै तमित्यादिवाक्यस्य विधायकत्वमुपेत्य सर्वकर्मतत्साधनपरित्यागपरत्वमुक्तमाक्षिपति — नन्विति । इतश्च यज्ञोपवीतमपरित्याज्यमित्याह — यज्ञोपवीत्येवेति । याजनादिसमभिव्याहारादसंन्यासिविषयमेतदित्याशङ्क्याऽऽह — पारिव्राज्ये तावदिति । वेदत्यागे दोषश्रुतेस्तदत्यागेऽपि कथं पारिव्राज्ये यज्ञोपवीतित्वमित्याशङ्क्याऽऽह — उपासन इति । इत्यनेन वाक्येन गुर्वाद्युपासनाङ्गत्वेन यज्ञोपवीतस्य विहितत्वात्परिव्राजकधर्मेषु गुरूपासनादीनां कर्तव्यतया श्रुतिस्मृतिषु चोदितत्वाद्यज्ञोपवीतपरित्यागोऽवगन्तुं नैव शक्यत इत्यन्वयः । संप्रति प्रौढिमारूढो व्युत्थाने विधिमङ्गीकृत्यापि दूषयति — यद्यपीत्यादिना एषणाभ्यो व्युत्थाने सत्येषणात्वाविशेषात्कर्मणस्तत्साधनाच्च व्युत्थानं सेत्स्यतीत्याशङ्क्य यज्ञोपवीतादेरेषणात्वमसिद्धमित्याशयेनाऽऽह — सर्वेति । अश्रुतकरणे श्रुतत्यागे च ‘अकुर्वन्विहितं कर्म’(या.स्मृ.३-२१९) इत्यादिस्मृतिमाश्रित्य दूषणमाह — तथा चेति । ननु दृश्यते यज्ञोपवीतादिलिङ्गत्यागः स कस्मान्निराक्रियते तत्राऽऽह — तस्मादिति । नेयमन्धपरम्परेति परिहरति — नेत्यादिना । ब्रह्मचर्यादेव प्रव्रजेदित्यादिविध्युपलम्भेऽति प्रौढवादेनाऽऽत्मज्ञानविधिबलादेव संन्यासं साधयितुमात्मज्ञानपरत्वं तावदुपनिषदामुपन्यस्यति — अपि चेति । इतश्चास्ति संन्यासे विधिरिति यावत् । तद्द्विधिबलादेव संन्याससिद्धिरिति शेषः । कथं सर्वोपनिषदात्मज्ञानपरेष्यते कर्तृस्तुतिद्वारा कर्मविधिशेषत्वेनार्थवादत्वादित्याशङ्क्याऽऽह — आत्मेत्यादिना । अस्तु यथोक्तं वस्तु विज्ञेयं तथाऽपि प्रस्तुते किं जातं तदाह — सर्वा हीति । ननु तस्य कर्तव्यत्वेऽपि कथं कर्मतत्साधनत्यागसिद्धिरत आह — आत्मा चेति । विपक्षे दोषमाह — अत इति । साधनफलान्तर्भूतत्वेनाऽऽत्मनो ज्ञानमविद्येत्यत्र प्रमाणमाह — अन्योऽसावित्यादिना । क्रियाकारकफलविलक्षणस्याऽऽत्मनो ज्ञानं कर्तव्यं तत्सामर्थ्यात्साध्यसाधनत्यागः सिध्यतीत्युक्तं संप्रत्यविद्याविषयत्वाच्च साध्यसाधनयोर्विद्यावतां त्याज्यतेत्याह — क्रियेति । तस्याविद्याविषयत्वे श्रुतीरुदाहरति — यत्रेति । अविद्याविषयत्वेऽपि साधनादि विद्यावत एव भविष्यति विद्याविद्ययोरस्मदादिषु साहित्योपलम्भादित्याशङ्क्याऽऽह — न चेति । विद्याविद्ययोः साहित्यासंभवे फलितमाह — तस्मादिति । इतश्च प्रयोजकज्ञानवता साध्यसाधनभेदो न द्रष्टव्यो विवक्षिततत्त्वसाक्षात्कारविरोधित्वादित्याह — सर्वेति । भवत्वविद्याविषयाणां विद्यावतस्त्यागस्तथाऽपि कुतो यज्ञोपवीतादीनां त्यागस्तत्राऽऽह — यज्ञोपवीतादीति । तद्विषयत्वादित्यत्र तच्छब्दोऽविद्याविषयः । एषणात्वाच्च यज्ञोपवीतादीनां त्याज्यतेत्याह — तस्मादिति । ज्ञेयत्वेन प्रस्तुतादिति यावत् । साध्यसाधनविषया तदात्मिकैषणा त्याज्येत्यत्र हेतुमाह — विलक्षणेति । पुरुषार्थरूपाद्विपरीता सा हेयेत्यर्थः । साध्यसाधनयोरेषणात्वं साधयति । उभे हीति । तथाऽपि यज्ञोपवीतादीनां कर्माणां च कथमेषणात्वमित्याशङ्क्य साधनान्तर्भावादित्याह — यज्ञोपवीतादेरिति । तयोरेषणात्वं कथं प्रतिज्ञामात्रेण सेत्स्यतीत्याशङ्क्याऽऽह — उभे हीति । तयोरेषणात्वे सिद्धे फलितमाह — यज्ञोपवीतादीति । आत्मज्ञानविधिरेव संन्यासविधिरित्युक्तत्वाद्व्युत्थायेत्यस्य नास्ति विधित्वमिति शङ्कते — नन्विति । व्युत्थाय विदित्वेति पाठक्रममतिक्रम्य व्याख्याने भवत्येवायं विविदिषोर्विधिरिति परिहरति — न विधित्सितेति । पाठक्रमेऽपि प्रयोजकज्ञानवतो विरक्तस्य भवत्येवायं विधिरित्यभिप्रेत्याऽऽह — न हीति । उक्तमेवान्वयमुखेनोदाहरणद्वारा विवृणोति — कर्तव्यानामिति । अभिषुत्य सोमस्य कण्डनं कृत्वा रसमादायेत्यर्थः । पाठक्रममेवाऽऽश्रित्य शङ्कते — अविद्येति । प्रयोजकज्ञानवतो विरक्तस्याऽऽत्मज्ञानविधिसामर्थ्यलब्धस्य यज्ञोपवीतादित्यागस्य कर्तव्यात्मज्ञानेन समानकर्तृकत्वश्रवणादतिशयेनाऽऽवश्यकत्वसिद्धिरित्युत्तरमाह — न सुतरामिति । व्युत्थाने दर्शितं न्यायं भिक्षाचर्येऽप्यतिदिशति — तथेति । भिक्षाचर्यस्य चाऽऽत्मज्ञानविधिनैकवाक्यस्य तथैव दार्ढ्योपपत्तिरिति संबन्धः । व्युत्थानादिवाक्यस्यार्थवादत्वमुक्तमनूद्य दूषयति — यत्पुनरित्यादिना । औदुम्बरो यूपो भवतीत्यादौ लेट्परिग्रहेण विधिस्वीकारवदत्रापि पञ्चमलकारेण विधिसिद्धेर्नार्थवादत्वशङ्केत्यर्थः । संप्रति प्रकृते वाक्ये पारिव्राज्यविधिमङ्गीकृत्य स्वयूथ्यः शङ्कते — व्युत्थायेति । का तर्हि विप्रतिपत्तिस्तत्राऽऽह — पारिव्राज्येति । लिङ्गं त्रिदण्डत्वादि । ‘पुराणे यज्ञोपवीते विसृज्य नवमुपादायाऽऽश्रमं प्रविशेत्’ ‘त्रिदण्डी कमण्डलुमान्’ इत्याद्याः श्रुतयः स्मृतयश्च । एषणात्वाद्यज्ञोपवीतादीनामपि त्याज्यत्वमुक्तमित्याशङ्क्य श्रुतिस्मृतिवशाद्व्युत्थाने संकोचमभिप्रेत्याऽऽह — अत इति । उदाहृतश्रुतिस्मृतीनां विषयान्तरं दर्शयन्नुत्तरमाह — नेत्यादिना । तदेव विवृणोति — यद्धीत्यादिना । तस्याऽऽत्मज्ञानाङ्गत्वे हेतुमाह — आत्मज्ञानेति । एषणायास्तद्विरोधित्वमेव कुतस्सिद्धं तत्राऽऽह — अविद्येति । तर्हि यथोक्तानां श्रुतिस्मृतीनां किमालम्बनं तदाह — तद्व्यतिरेकेणेति । आश्रमत्वेन रूप्यते वस्तुतस्तु नाऽऽश्रमस्तदाभास इति यावत् । तस्याऽऽत्मज्ञानाङ्गत्वं वारयति — ब्रह्मेति । अथ व्युत्थानवाक्योक्तमुख्यपारिव्राज्यविषयत्वमेव लिङ्गादिविधानस्य किं न स्यात्तत्राऽऽह — न चेति । एषणारूपाणि साधनानि यज्ञोपवीतादीनि तेषामुपादानमनुष्ठानं तस्याऽऽश्रमधर्ममात्रेणोक्तस्य यथोक्ते संन्यासाभासे विषये सति प्रधानबाधेन मुख्यपारिव्राज्यविषयत्वमयुक्तमित्यर्थः । कथं पुनर्मुख्यपारिव्राज्यविषयत्वे यज्ञोपवीतादेरिष्टे प्रधानबाधनं तदाह — यज्ञोपवीतादीति । साध्यसाधनयोरासंगे तद्विलक्षणस्याऽऽत्मनो ज्ञानं बाध्यते चेत्का नो हानिरित्याशङ्क्याऽऽह — न चेति । भिक्षाचर्यं तावद्विहितं विहितानुष्ठानं च यज्ञोपवीतादि विना न संभवतीति श्रुत्यैवाऽऽत्मज्ञानं यज्ञोपवीतादिविरोधि बाधितमिति शङ्कते — भिक्षाचर्यमिति । शङ्कामेव विशदयति — अथापीत्यादिना । यथा हुतशेषस्य भक्षणं विहितमपि न द्रव्याक्षेपकं परिशिष्टद्रव्योपादानेन प्रवृत्तेस्तथा सर्वस्वत्यागे विहिते परिशिष्टभिक्षोपादानेन विहितमपि भिक्षाचरणमुपवीताद्यनाक्षेपकमित्युत्तरमाह — नेत्यादिना । दृष्टान्तमेव स्पष्टयति — शेषेति । तद्भक्षणमिति संबन्धः । अप्रयोजकं द्रव्यविशेषस्यानाक्षेपकमिति यावत्। यद्वा दार्ष्टान्तिकमेव स्फुटयति — शेषेति । सर्वस्वत्यागे विहिते शेषस्य कालस्य शरीरपातान्तस्य प्रतिपत्तिकर्ममात्रं भिक्षाचर्यमतो न तदुपवीतादिप्रापकमित्यर्थः । किञ्च भिक्षाचर्यस्य शरीरस्थित्यैवाऽऽक्षिप्तत्वान्न तत्राऽपि विधिर्दूरे तद्वशादुपवीतादिसिद्धिरित्याह — असंस्कारकत्वाच्चेति । तदेव स्फुट्यते — भक्षणमिति । ‘एककालं चरेद्भैक्षम्’(म.स्मृ. ६। ५५) इत्यादिनियमवशाददृष्टं सिध्यदुपवीतादिकमप्याक्षिपतीति चेन्नेत्याह — नियमेति । विविदिषोस्तदिष्टमपि नोपवीताद्याक्षेपकं ज्ञानोत्पादकश्रवणाद्युपयोगिदेहस्थित्यर्थत्वेनैव चरितार्थत्वादिति भावः । तर्हि यथाकथञ्चिदुपनतेनान्नेन शरीरस्थितिसंभवाद्भिक्षाचर्यं चरन्तीति वाक्यं व्यर्थमिति शङ्कते — नियमादृष्टस्येति । भिक्षाचर्यानुवादेन प्रतिग्रहादिनिवृत्त्यर्थत्वाद्वाकस्य नाऽऽनर्थक्यमित्युत्तरमाह — नान्येति । निवृत्त्युपदेशेन वाक्यस्यार्थवत्त्वेऽपि तदुपदेशस्य नार्थवत्त्वं कूटस्थात्मज्ञानेनैव सर्वनिवृत्तेः सिद्धेरिति शङ्कते — तथाऽपीति । यदि निष्क्रियात्मज्ञानादशेषनिवृत्तिः स्यात्तर्हि तदस्माभिरपि स्वीक्रियते सत्यमित्यङ्गीकरोति — यदीति । यदि तु क्षुदादिदोषप्राबल्यादात्मानं निष्क्रियमपि विस्मृत्य प्रार्थनादिपरो भवति तदा निवृत्त्युपदेशोऽपि भवत्यर्थवानिति भावः । प्रागुक्तवाक्यविरोधान्निवृत्त्युपदेशोऽशक्य इति चेत्तत्राऽऽह — यानीति । मुख्यपरिव्राड्विषयत्वे दोषं स्मारयति — इतरथेति । निवृत्त्युपदेशानुग्राहकत्वेन स्मृतीरुदाहरति — निराशिषमित्यादिना । अमुख्यसंन्यासिविषयत्वासंभवान्मुख्यपरिव्राड्विषयं व्युत्थानवाक्यमित्युपसंहरति — तस्मादिति । इति शब्दो व्युत्थानवाक्यव्याख्यानसमाप्त्यर्थः । तस्मादित्यादिवाक्यमवतार्य व्याचष्टे — यस्मादित्यादिना । उक्तमेव व्युत्थानं स्पष्टयति — दृष्टेति । विवेकवैराग्याभ्यामेषणाभ्यो व्युत्थाय श्रुत्याचार्याभ्यां कर्तव्यं ज्ञानं निःशेषं कृत्वा बाल्येन तिष्ठासेदिति व्यवहितेन संबन्धः । पाण्डित्यं निर्विद्येत्यनेनैव व्युत्थानं विहितमित्याह — एषणेति । तद्धि पाण्डित्यमेषणाभ्यो व्युत्थानस्यावसाने संभवति तदत्र व्युत्थानविधिरित्यर्थः । तदेव स्फुटयति — एषणेत्यादिना । तासां तिरस्कारेण पाण्डित्यमुद्भवति तस्यैषणाभ्यो विरुद्धत्वात्तथा च पाण्डित्यं निर्विद्येत्यत्र ताभ्यो व्युत्थानविधानमुचितमित्यर्थः । विनाऽपि व्युत्थानं पाण्डित्यमुद्भविष्यतीति चेन्नेत्याह — न हीति । पाण्डित्यं निर्विद्येत्यत्र व्युत्थानविधिमुक्तमुपसंहरति — इत्यात्मज्ञानेनेति । तर्हि किमिति विदित्वा व्युत्थायेत्यत्र व्युत्थाने विधिरभ्युपगतस्तत्राऽऽह — आत्मज्ञानेति । तेन व्युत्थानस्य समानकर्तृकत्वे क्त्वाप्रत्ययस्योपादानमेव लिङ्गभूता श्रुतिस्तया दृढीकृतं नियमेन प्रापितं व्युत्थानमित्यर्थः । बाल्येनेत्यादि वाक्यमुत्थाप्य व्याकरोति — तस्मादिति । विवेकादिवशादेषणाभ्यो व्युत्थाय पाण्डित्यं संपाद्य तस्मात्पाण्डित्याज्ज्ञानबलभावेन स्थातुमिच्छेदिति योजना । केयं ज्ञानबलभावेन स्थितिरित्याशङ्क्य तां व्युत्पादयति — साधनेत्यादिना । विद्वानिति विवेकित्वोक्तिः । यथोक्तबलभावावष्टम्भे करणानां विषयपारवश्यनिवृत्त्या पुरुषस्यापि तत्पारवश्यनिवृत्तिः फलतीत्याह — तदाश्रयणे हीति । उक्तमेवार्थं व्यतिरेकमुखेन विशदयति — ज्ञानबलेति । नन्वद्यापि ज्ञानस्य बलं कीदृगिति न ज्ञायते तत्राऽऽह — बलं नामेति । बाल्यवाक्यार्थमुपसंहरति — अत इति । यथा ज्ञानबलेन विषयाभिमुखी तद्व्यापके दृष्टिस्तिरस्क्रियते तथेति यावत् । आत्मना तद्विज्ञानातिशयेनेत्यर्थः । वीर्यं विषयदृष्टितिरस्करणसामर्थ्यमित्येतत् । बलहीनेन विषयदृष्टितिरस्करणसामर्थ्यरहितेनायमात्मा न लभ्यो न शक्यः साक्षात्कर्तुमित्यर्थः । बाल्यं चेत्यादि वाक्यमादाय व्याचष्टे — बाल्यं चेति । पूर्वोक्तयोरुत्तरत्र हेतुत्वद्योतनार्थोऽथशब्दः । तदेवोपपादयति — एतावद्धीति । वाक्यान्तरमुत्थाप्य व्याकरोति — अमौनं चेत्यादिना । मौनामौनयोर्ब्राह्मण्यं प्रति सामग्रीत्वद्योतकोऽथशब्दः । ब्राह्मण्यमुपपादयति — ब्रह्मैवेति । आचार्यपरिचर्यापूर्वकं वेदान्तानां तात्पर्यावधारणं पाण्डित्यम् । युक्तितोऽनात्मदृष्टितिरस्कारो बाल्यम् । ‘अहमात्मा परं ब्रह्म न मत्तोऽन्यदस्ति किञ्चन’ इति मनसैवानुसन्धानं मौनम् । महावाक्यार्थावगतिर्ब्राह्मण्यमिति विभागः । प्रागपि प्रसिद्धं ब्राह्मण्यमिति चेत्तत्राऽऽह — निरुपचरितमिति । ब्रह्मविदः समाचारं पृच्छति — स इति । अनियतं तस्य चरणमित्युत्तरमाह — येनेति । उक्तलक्षणत्वं कृतकृत्यत्वम् । अव्यवस्थितं चरणमिच्छतो ब्रह्मविदो यथेष्टचेष्टाऽभीष्टा स्यात्तथा च ‘यद्यदाचरति श्रेष्ठः’ (भ. गी. ३-२१) इति स्मृतेरितरेषामप्याचारेऽनादरः स्यादित्याशङ्क्याऽऽह — येन केनचिदिति । विहितमाचरतो निषिद्धं च त्यजतः शुद्धबुद्धेः श्रुताद्वाक्यात्सम्यग्धीरुत्पद्यते तस्य च वासनावसाद्व्यवस्थितैव चेष्टा नाव्यवस्थितेति न यथेष्टाचरणप्रयुक्तो दोष इत्यर्थः । अतोऽन्यदित्यादि व्याकरोति — अत इति । स्वप्नेत्यादि बहुदृष्टान्तोपादानं दार्ष्टान्तिकस्य बहुरूपत्वद्योतनार्थम् । अतोऽन्यदिति कुतो विशेषणमित्याशङ्क्याऽऽह —
आत्मैवेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 पूर्वब्राह्मणयोरात्मनः सर्वान्तरत्वमुक्तं तन्निर्णयार्थमुत्तरं ब्राह्मणत्रयमिति संगतिमाह — यत्साक्षादिति । उक्तमेव संबन्धं विवृणोति — पृथिव्यादीनीति । पदार्थमुक्त्वा वाक्यार्थमाह — अद्भिरिति । पार्थिवस्य धातुजातस्याद्भिर्व्याप्त्यभावे दोषमाह — अन्यथेति । किमत्र गार्ग्या विवक्षितमिति तदाह — इदं तावदिति । तदेव दर्शयितुं व्याप्तिमाह — यत्कार्यमिति । कारणेन व्यापकेनेति शेषः । यत्कार्यं तत्कारणेन व्याप्तं यत्परिच्छिन्नं तद्व्यापकेन व्याप्तं यच्च स्थलं तत्सूक्ष्मेण व्याप्तमिति त्रिप्रकारा व्याप्तिः । इति शब्दस्तत्समाप्त्यर्थः । व्याप्तिभूमिमाह — यथेति । संप्रत्यनुमानमाह — तथेति । पूर्वं पूर्वमित्यबादेर्धर्मिणो निर्देशः । उत्तरेणोत्तरेण वाय्वादिकारणेनापरिच्छिन्नेन सूक्ष्मेण व्याप्तमिति शेषः। विमतं कारणेन व्यापकेन सूक्ष्मेण व्याप्तं कार्यत्वात्परिच्छिन्नत्वात्स्थूलत्वाच्च पृथिवीवदित्यर्थः । सर्वान्तरादात्मनोऽर्वागुक्तन्यायं सर्वत्र संचारयति — इत्येष इति । ननु तथाऽपि भूतपञ्चकव्यतिरिक्तानां गन्धर्वलोकादीनामप्यान्तरत्वेनोपदेशात्कथं भूतपञ्चकव्युदासेन सर्वान्तरप्रतिपत्तिर्विवक्षितेति तत्राऽऽह — तत्रेति । उक्तनीत्या प्रश्नार्थे स्थिते सतीति यावत् । भूतात्मस्थितिनिर्धारणे वा सप्तमी । अथ परमात्मानं भूतानि च हित्वा पृथगेव गन्धर्वलोकादीनि वस्त्वन्तराणि भविष्यन्ति नेत्याह — न चेति । गन्धर्वलोकादीन्यपि भूतानामेवावस्थाविशेषास्ततः सत्यं भूतपञ्चकं तस्य सत्यं परं ब्रह्म नान्यदन्तराले प्रतिपत्तव्यमित्यन्यप्रतिषेधार्थो च शब्दौ । तात्पर्यमुक्त्वा प्रश्नमुत्थाप्य तदक्षराणि व्याकरोति — कस्मिन्नित्यादिना । कस्मिन्नु खलु वायुरित्यादावुक्तन्यायमतिदिशति — एवमिति । वायावित्ययुक्ता प्रत्युक्तिरपामग्निकार्यत्वादग्नाविति वक्तव्यत्वादिति शङ्कते — नन्विति । अग्नेरुदकव्यापकत्वेऽपि काष्ठविद्युदादिपारतन्त्र्यात्स्वतन्त्रेण केनचिदपां व्याप्तिर्वक्तव्येत्यग्निं हित्वा तत्करणे वायावित्युक्तं वायोश्च स्वकारणतन्त्रत्वेऽपि नोदकतन्त्रतेति तद्व्यापकत्वसिद्धिरित्युत्तरमाह — नैष दोष इत्यादिना । अन्तरिक्षलोकशब्दार्थमाह — तान्येवेति । प्रजापतिलोकशब्दार्थं कथयति — विराडिति । अन्तरिक्षलोकादीनां प्रत्येकमेकत्वात्कुतो बहुवचनमित्याशङ्क्याऽऽह — सर्वत्र हीति । पूर्ववदनुमानेन सूत्रं पृच्छन्तीं गार्गीं प्रतिषेधति — स होवाचेत्यादिना । उक्तमेव स्पष्टयन्वाक्यार्थमाह — आगमेनेति । प्रतिषेधातिक्रमे दोषमाह — पृच्छन्त्याश्चेति । मूर्धपातप्रसंगं प्रकटयन्प्रतिषेधमुपसंहरति —
देवताया इत्यादिना ॥१॥ 【भाष्यम्】 【भाष्यम्】 पूर्वस्मिन्ब्राह्मणे सूत्रादर्वाक्तनं व्यापकमुक्तमिदानीं सूत्रं तदन्तर्गतमन्तर्यामिणं च निर्वक्तुमुत्तरब्राह्मणमिति संगतिमाह — इदानीमिति । ब्राह्मणतात्पर्यमुक्त्वाऽऽख्यायिकातात्पर्यमाह — तच्चाऽऽगमेनैवेति । आचार्योपदेशोऽत्राऽऽगमशब्दार्थः । गार्ग्या मूर्धपातभयादुपरतेरनन्तरमित्यथशब्दार्थः । सोऽब्रवीदिति प्रतीकोपादानं तस्य तात्पर्यमाह — सूत्रेति । इतिशब्दार्थमाह — एवमिति । येनायं चेत्यादिरुक्तः प्रकारः स सर्वलोकांश्च वेत्तीति संबन्धः । विशेषणोक्तिपूर्वकं तानेव लोकाननुवदति — भूरादीनिति । स ब्रह्मविदित्यादिनोक्तं संक्षिपति — सर्वं चति । तथाभूतं सूत्रेण विधृतमन्तर्यामिणा च नियम्यमानमिति यावत् । प्रस्तुतस्तुतिप्रयोजनमाह — इत्येवमिति । भवत्वेवं तव सूत्रादिज्ञानं मम किमायातमित्याशङ्क्याऽऽह — तच्चेदिति । किं तेनेत्यत्र तस्येत्यध्याहारः । कार्येण दर्शयेत्युक्तं विवृणोति —
यथेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 याज्ञवल्क्योक्तेस्तात्पर्यमाह — ब्रह्मलोका इति । इत्यभीष्टमागमविदामित्यध्याहृत्याऽऽद्यस्येतिशब्दस्य योजना । प्रश्नान्तरं सूत्रविषयं गौतमवाक्यम् । वैशब्दार्थमाह — नान्यदिति । सूक्ष्मत्वे दृष्टान्तमाह — अकाशवदिति । वायुमेव विशिनाष्टि — यदात्मकमिति । पञ्च भूतानि दश बाह्यानीन्दियाणि पञ्चवृत्तिः प्राणश्चतुर्विधमन्तःकरणमिति सप्तदशविधत्वम् । कर्मणां वासनानां चोत्तरसृष्टिहेतूनां प्राणिभिरर्जितानामाश्रयत्वादपेक्षितमेव लिङ्गमित्याह — कर्मेति । तस्यैव सामान्यविशेषात्मना बहुरूपत्वमाह — यत्तदिति । तस्यैव लोकपरीक्षकप्रसिद्धत्वमाह — यस्येति । तस्य सूत्रत्वं साधयति — वायुनेति । प्रसिद्धमेतत्सूत्रविदामिति शेषः । लौकिकीं प्रसिद्धिमेव प्रश्नपूर्वकमनन्तरश्रुत्यवष्टम्भेन स्पष्टयति — कथमित्यादिना । उक्तमेव दृष्टान्तेन व्यनक्ति — सूत्रेत्यादिना । वायोः सूत्रत्वे सिद्धे फलितमाह —
अत इति ॥२॥ 【भाष्यम्】 【भाष्यम्】 नियन्तुरीश्वरस्य लौकिकनियन्तृवत्कार्यकरणवत्त्वमाशङ्क्याऽऽह — यस्य चेति । पृथिव्याः शरीरत्वमेव न तु शरीरवत्त्वमित्याशङ्क्याऽऽह — पृथिवीति । पृथिव्या यत्करणं तदेव तस्य करणं चेति योजना । कथं पृथिव्याः शरीरेन्द्रियवत्त्वं तदाह — स्वकर्मेति । अन्तर्यामिणोऽपि तथा किं नस्यात्तत्राऽऽह — तदस्येति । अस्यान्तर्यामिणस्तदेव कार्यं करणं च नान्यदित्यत्र हेतुमाह — स्वकर्मेति । तदेव हेत्वन्तरेण स्फोरयति — परार्थेति । यः पृथिवीमित्यादिवाक्यस्य तात्पर्यमाह — देवतेति । तत्र वाक्यमवतार्य व्याचष्टे — य ईदृगिति ।
नियम्यपृथिवीदेवताकार्यकरणाभ्यामेव कार्यकरणवत्त्वमीदृशत्वम् ॥३॥४॥५॥६॥७॥८॥९॥१०॥११॥१२॥१३॥ 【भाष्यम्】 【भाष्यम्】 पृथिवीपर्याये दर्शितं न्यायं पर्यायान्तरेष्वतिदिशति —
समानमिति ॥१४॥ 【भाष्यम्】 【भाष्यम्】 सर्वत्र प्राणादौ तिष्ठन्नन्तर्यामी तवाऽऽत्मेति संबन्धः । वाक्यान्तरं प्रश्नपूर्वकमुत्थाप्य व्याचष्टे — कस्मादित्यादिना । यथा मनसि तथा बुद्धावपि संनिधानाज्ज्ञातृतेति यावत् । तत्रेति पूर्वसन्दर्भोक्तिः । अन्वयमुपलक्षयितुमतो नान्य इत्युक्तम् । पदार्थान्व्याकरोति — अत इति । अन्यो द्रष्टा नास्तीति संबन्धः । एष त इत्यादिवाक्यस्यार्थमाह —
यस्मादित्यादिना ॥१५॥१६॥१७॥१८॥१९॥२०॥२१॥२२॥२३॥ 【भाष्यम्】 【भाष्यम्】 पूर्वस्मिन्ब्राह्मणे सूत्रान्तर्यामिणौ प्रश्नप्रत्युक्तिभ्यां निर्धारितौ संप्रत्युत्तरब्राह्मणतात्पर्यमाह — अतः परमिति । सोपाधिकवस्तुनिर्धारणानन्तर्यमथशब्दार्थः । ननु यस्माद्भयाद्गार्गी पूर्वमुपरता तस्य तदवस्थत्वात्कथं पुनः सा प्रष्टुं प्रवर्तते तत्राऽऽह — पूर्वमिति । हन्तेत्यस्यार्थमाह — यदीति । न वै जात्विति प्रतीकमादाय व्याचष्टे — कदाचिदित्यादिना ।
अन्वयं दर्शयितुं कश्चिदिति पुनरुक्तिः ॥१॥ 【भाष्यम्】 【भाष्यम्】 सन्धीयते स उच्यत इति शेषः । प्रश्नयोरवश्यप्रत्युत्तरणीयत्वे ब्रह्मिष्ठत्वाङ्गीकारो हेतुरित्याह —
ब्रह्मविच्चेदिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 सूत्रस्याऽऽधारे प्रष्टव्ये किमिति सर्वं जगदनूद्यते तत्राऽऽह — तत्सर्वमिति ।
पूर्वोक्तं सर्वजगदात्मकमिति यावत् ॥३॥ 【भाष्यम्】 【भाष्यम्】 यथाप्रश्नमनूद्य प्रत्युक्तिमादत्ते — स होवाचेति । तां व्याचष्टे — यदेतदिति । यज्जगद्व्याकृतं सूत्रात्मकमेतदव्याकृताकाशे वर्तत , इति संबन्धः । त्रिष्वपि कालेष्विति यदुक्तं तद्व्यनक्ति —
उत्पत्ताविति ॥४॥५॥ 【भाष्यम्】 【भाष्यम्】 वक्ष्यमाणं वाक्यमन्यदित्युच्यते । तदेव प्रश्नप्रतिवचनरूपमनुवदति — सा हेति । पुनरुक्तेरकिञ्चित्करत्वं व्यावर्तयति —
उक्तस्यैवेति ॥६॥ 【भाष्यम्】 【भाष्यम्】 प्रतिवचनानुवादतात्पर्यमाह — गार्ग्येति । प्रश्नाभिप्रायं प्रकटयति —
आकाशमेवेति ॥७॥ 【भाष्यम्】 【भाष्यम्】 अप्रतिपत्तिर्विप्रतिपत्तिश्चेति दोषद्वयं सामान्येनोक्तं विशेषतो ज्ञातुं पृच्छति — किं तदिति । अस्थूलादिवाक्यमवतार्य व्याकरोति — एवमित्यादिना । ‘यदग्ने रोहितं रूपम्’ इत्यादिश्रुतिमाश्रित्याऽऽह — आग्नेय इति । अवायुविशेषणेनाप्राणाविशेषणस्य पुनरुक्तिमाशङ्क्याऽऽह — आध्यात्मिक इति । अमात्रमिति मानमेयान्वयो निराक्रियते । तस्येत्यात्मोक्तिः । संपिण्डितमर्थमाह — सर्वेति । तदुपपादयति —
एकमिति ॥८॥ 【भाष्यम्】 【भाष्यम्】 अथ यथोक्तया नीत्या श्रुत्यैवाक्षरास्तित्वे ज्ञापिते वक्तव्याभावात्किमुत्तरेण ग्रन्थेनेति तत्राऽऽह — अनेकेति । यदस्ति तत्सविशेषणमेवेति लौकिकी बुद्धिः । आशङ्क्यते नास्त्यक्षरं निर्विशेषणमिति शेषः । अन्तर्यामिणि जगत्कारणे परस्मिन्ननुमानसिद्धे विवक्षितं निरुपाध्यक्षरं सेत्स्यति जगत्कारणत्वस्योपलक्षणतया जन्मादिसूत्रे स्थितत्वादुपलक्षणद्वारा ब्रह्मणि स्वरूपलक्षणप्रवृत्तेरन्तर्यामिण्यनुमा प्रकृतोपयुक्तेति भावः । अनुमानश्रुत्यक्षराणि व्याकरोति — यदेतदिति । प्रशासने सूर्याचन्द्रमसौ विधृतौ स्यातामिति संबन्धः । उक्तमर्थं दृष्टान्तेन स्फोरयति — यथेति । अत्रापि पूर्ववदन्वयः । जगद्व्यवस्था प्रशासितृपूर्विका व्यवस्थात्वाद्राज्यव्यवस्थावदित्यर्थः । सूर्याचन्द्रमसावित्यादौ विवक्षितमनुमानमाह — सूर्यश्चेत्यादिना । तादर्थ्येन लोकप्रकाशार्थत्वेन । प्रशासित्रा निर्मिताविति संबन्धः । निर्मातुर्विशिष्टविज्ञानवत्त्वमाचष्टे — ताभ्यां निर्वर्त्यमानेति । सूर्यचन्द्रमसौ तच्छब्दवाच्यौ । विमतौ विशिष्टविज्ञानवता निर्मितौ प्रकाशत्वात्प्रदीपवदित्यर्थः । विमतौ नियन्तृपूर्वकौ विशिष्टचेष्टावत्त्वाद्भृत्यादिवदित्यभिप्रेत्याऽऽह — विधृताविति । प्रकाशोपकारकत्वं तज्जनकत्वं निर्मातुर्विशिष्टविज्ञानसंभावनार्थं साधारणेति विशेषणं साधारणः सर्वेषां प्राणिनां यः प्रकाशस्तस्य जनकत्वादिति यावत् । दृष्टान्ते लौकिकविशेषणं प्रासादादिविशिष्टदेशनिविष्टत्वसिद्ध्यर्थम् । अनुमानफलमुपसंहरति — तस्मादिति । विशिष्टचेष्टावत्त्वादित्युपदिष्टं हेतुं स्पष्टयति — नियतेति । नियतौ देशकालौ नियतं च निमित्तं प्राण्यदृष्टं तद्वन्तौ सूर्याचन्द्रमसावुद्यन्तावस्तं यन्तौ च येन विधृतावुदयास्तमयाभ्यां वृद्धिक्षयाभ्यां च वर्तेते । उदयश्चास्तमयश्चोदयास्तमयं वृद्धिश्च क्षयश्च वृद्धिक्षयमिति द्वन्द्वं गृहीत्वा द्विवचनम् । एवं कर्तृत्वेन विधारयितृत्वेन चेत्यर्थः । विमते प्रयत्नवता विधृते सावयवत्वेऽप्यस्फुटितत्वाद्गुरुत्वेऽप्यपतितत्वात्संयुक्तत्वेऽप्यवियुक्तत्वाच्चेतनावत्त्वेऽप्यस्वतन्त्रत्वाच्च हस्तन्यस्तपाषाणादिवदिति द्वितीयपर्यायस्य तात्पर्यमाह — सावयवत्त्वादित्यादिना । किमित्येतस्य प्रशासने द्यावापृथिव्यौ वर्तेते तत्राऽऽह — एतद्धीति । पृथिव्यादिव्यवस्था नियन्तारं विनाऽनुपपन्ना तत्कल्पिकेत्यर्थः । तथाऽपि किमित्येतेन विधृते द्यावापृथिव्याविति तत्राऽऽह — सर्वमर्यादेति । ‘एष सेतुर्विधरणः’ इति श्रुत्यन्तरमाश्रित्य फलितमाह — अतोनास्येति । द्वितीयपर्यायार्थमुपसंहरति — तस्मादिति । तच्छब्दोपात्तमर्थं स्फोरयति — अव्यभिचारीति । अव्यभिचारित्वं प्रकटयति — चेतनावन्तमिति । पृथिव्यादेर्नियतत्वमेतच्छब्दार्थः । नियन्तृसिद्धावपि कथमीश्वरसिद्धिरित्याशङ्क्याऽऽह — येनेति । उग्रत्वं पृथिव्यादेश्चेतनावदभिमानिदेवतावत्त्वेन स्वातन्त्र्यम् । ‘येन स्वस्तभितं येन नाको यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम’ इत्यत्र हिरण्यगर्भाधिष्ठातेश्वरः पृथिव्यादेर्नियन्तोच्यते । न हि हिरण्यगर्भमात्रस्यास्मिन्प्रकरणे पूर्वापरग्रन्थयोरुच्यमानं निरङ्कुशं सर्वनियन्तृत्वं संभवतीति भावः । एते कालावयवा विधृतास्तिष्ठन्तीति संबन्धः । तत्रानुमानं वक्तुं हेतुमाह — सर्वस्येति । यः कलयिता स नियन्तृपूर्वक इति व्याप्तिभूमिमाह — यथेति । दार्ष्टान्तिकं दर्शयन्ननुमानमाह — तथेति । निमेषादयो नियन्तृपूर्वकाः कलयितृत्वात्संप्रतिपन्नवदित्यर्थः । कास्ता नद्य इत्यपेक्षायामाह — गङ्गाद्या इति । अन्यथा प्रवर्तितुमुत्सहमानत्वं तत्तद्देवतानां चेतनत्वेन स्वातन्त्र्यम् । विमता नियन्तृपूर्विका नियतप्रवृत्तित्वाद्धृत्यादिप्रवृत्तिवदिति चतुर्थपर्यायार्थः । नियतप्रवृत्तिमत्त्वं तदेतदित्युच्यते । तच्चेत्यव्यभिचारितोक्तिः । विमतं विशिष्टज्ञानवद्दातृकं कर्मफलत्वात्सेवाफलवदित्यभिप्रेत्य पञ्चमं पर्यायमुत्थापयति — किं चेति । दाता प्रतिग्रहीता दानं देयं वा फलं दास्यति किमीश्वरेणेत्याशङ्क्याऽऽह — तत्रेति । दात्रादीनामिहैव प्रत्यक्षो नाशो दृश्यते तेन तत्प्रयुक्तो दृष्टः । पुरुषार्थो न कश्चिदस्तीत्यर्थः । अदृष्टं पुरुषार्थं प्रत्याह — अदृष्टस्त्विति । समागमः फलप्रतिलाभः स खल्वैहिको न भवति किन्तु पारलौकिकस्तथा च नासाविहैव नष्टदात्रादिप्रयुक्तः संभवतीत्यर्थः । तर्हि फलदातुरभावात्स्वार्थभ्रंशो हि मूर्खतेति न्यायाद्दातृप्रशंसैव मा भूदित्याशङ्क्याऽऽह — तथाऽपीति । फलसंयोगदृष्टौ हेतुमाह — प्रमाणज्ञतयेति । ‘हिरण्यदा अमृतत्वं भजन्ते’ इत्यादि प्रमाणम् । तथाऽपि कथमीश्वरसिद्धिस्तत्राऽऽह — कर्तुरिति । तद्धि दातृप्रशंसनं विशिष्टे नियन्तर्यसत्यनुपपन्नं तत्कल्पकमित्यर्थः । दानक्रियावशादेव तत्फलसिद्धौ कृतं नियन्त्रेति चेन्नेत्याह — दानेति । कर्मणः क्षणिकत्वात्फलस्य च कालान्तरभावित्वान्न साधनत्वोपपत्तिरित्यर्थः । अनुमानार्थापत्तिभ्यां सिद्धमर्थमुपसंहरति — तस्मादिति । अपूर्वस्यैव फलदातृत्वात्कृतमीश्वरेणेति शङ्कते — अपूर्वमिति चेदिति । स्वयमचेतनं चेतनानधिष्ठितं चापूर्वं फलदातृ न कल्प्यमप्रामाणिकत्वादिति परिहरति — नेति । ईश्वरद्वेषी शङ्कते — प्रशास्तुरिति । सद्भावे प्रमाणानुपपत्तिरिति शेषः । परिहरति — नाऽऽगमेति । कथं कार्यपरस्याऽऽगमस्य वस्तुपरत्वमित्याशङ्क्याऽऽह — अवोचामेति । कर्मविधिर्हि फलदात्रतिरेकेण नोपपद्यते न च कर्माऽऽशुतरविनाशि कालान्तरभाविफलानुकूलं तदर्थापत्तिसिद्धेऽपूर्वे कथं मानासिद्धिरित्याशङ्क्याऽऽह — किञ्चेति । न केवलं सद्भावे प्रमाणासत्त्वमेवापूर्वे दूषणं किन्त्वन्यच्च किञ्चिदस्तीति यावत् । तदेव प्रकटयति — अपूर्वेति । अपूर्वस्य कल्पनायां याऽर्थापत्तिः शङ्क्यते तस्याः कल्पितमपूर्वमन्तरेणाप्युपपत्तेः क्षयः स्यादिति योजना । अन्यथाऽप्युपपत्तिं विवृणोति — सेवेति । यागादिफलमपीश्वरात्संभवतीति शेषः । कथमीश्वराधीना यागादिफलप्राप्तिस्तत्राऽऽह — सेवायाश्चेति । आदिपदेनेन्द्रादिदेवता गृह्यन्ते । विमता विशिष्टज्ञानवता दीयमानफलवती विशिष्टक्रियात्वात्संप्रतिपन्नवदिति भावः । इतश्चापूर्वकल्पना न युक्तेत्याह — दृष्टेति । दृष्टं सेवाया धर्मत्वेन सामर्थ्यं सेव्यात्फलप्रापकत्वं तदनुसृत्य दानादौ फलप्राप्तिसंभवे तन्निरासेनापूर्वात्तत्कल्पना न न्याय्या दृष्टानुसारिण्यां कल्पनायां तद्विरोधिकल्पनायोगादित्यर्थः । अपूर्वस्य फलहेतुत्वे दोषान्तरमाह — कल्पनेति । तदाधिक्यं वक्तुं परामृशति — ईश्वर इति । नापूर्वं कल्प्यं क्लृप्तत्वात्तन्न कल्पनाधिक्यमित्याशङ्क्याऽऽह — तत्रेति । व्यवहारभूमिः सप्तम्यर्थः । भूमिकां कृत्वा कल्पनाधिक्यं स्फुटयति — तत्रेत्यादिना । अपूर्वस्यादृष्टत्वे सतीति यावत् । इति कल्पनाधिक्यमिति शेषः । त्वन्मतेऽपि तुल्या कल्पनेत्याशङ्क्याऽऽह — इह त्विति । स्वपक्षे धर्मिमात्रं कल्प्यं परपक्षे धर्मी धर्मश्चेत्याधिक्यं तस्मात्फलमत उपपत्तेरिति न्यायेन परस्यैव फलदातृतेति भावः । धर्मिणोऽपि प्रामाणिकत्वं न कल्प्यत्वमित्यभिप्रेत्याऽऽह — अनुमानं चेति । ईश्वरास्तित्वे हेत्वन्तरमाह — तथा चेति ।
देवा यजमानमन्वायत्ता इति संबन्धः । जीवनार्थे जीवनं निमित्तीकृत्येति यावत् । देवानामीश्वराणामपि हव्यर्थित्वेन मनुष्याधीनत्वाख्यहीनवृत्तिभाक्त्वं नियन्तृकल्पकमित्यर्थः । यो न कस्यचित्प्रकृतित्वेन विकृतित्वेन वा वर्तते स दर्वीहोमः ॥९॥ 【भाष्यम्】 【भाष्यम्】 ईश्वरास्तित्वे हेत्वन्तरमाह — इतश्चेति । मोक्षहेतुज्ञानविषयत्वेनापि तदस्तीत्याह — भवितव्यमिति । ‘यदज्ञानात्प्रवृत्तिर्या तज्ज्ञानात्सा निवर्तते’ इति न्यायः । कर्मवशादेव मोक्षसिद्धेस्तद्धेतुज्ञानविषयत्वेनाक्षरं नाभ्युपेयमिति शङ्कते — नन्विति । उत्तरवाक्येनोत्तरमाह — नेत्यादिना । यस्याज्ञानादसकृदनुष्ठितानि विशिष्टफलान्यपि सर्वाणि कर्माणि संसारमेव फलयन्ति तदज्ञातमक्षरं नास्तीत्ययुक्तं संसाराभावप्रसंगादिति भावः । अक्षरास्तित्वे हेत्वन्तरमाह — अपि चेति । पूर्ववाक्यं जीवदवस्थपुरुषविषयमिदं तु परलोकविषयमिति विशेषं मत्वोत्तरवाक्यमवतार्य व्याचष्टे —
तदेतदित्यादिना ॥१०॥ 【भाष्यम्】 【भाष्यम्】 इतश्चाक्षरस्य नाचेतनत्वमित्याह — किञ्चेति । नास्तीत्यन्वयप्रदर्शनम् । अतोऽन्यदिति विशेषणसिद्धमर्थमाह — एतदिति । अन्यद्वा पूर्वोक्तमव्याकृतादिपृथिव्यन्तं निगमनवाक्यमुदाहृत्य तस्य तात्पर्यमाह — एतस्मिन्निति । परा काष्ठा परं पर्यवसानं नास्मादुपरिष्टादधिष्ठानं किञ्चिदस्तीत्यर्थः । तस्यैव परमपुरुषार्थत्वमाह — एषेति । ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’(क. उ. १ । ३ । ११) इति हि श्रुत्यन्तरम् । ब्रह्मास्मादक्षरादन्यदस्तीति चेन्नेत्याह — एतदिति । ननु चतुर्थे सत्यस्य सत्यं ब्रह्म व्याख्यातमक्षरं तु नैवमिति चेत्तत्राऽऽह —
एतत्पृथिव्यादेरिति ॥११॥ 【भाष्यम्】 【भाष्यम्】 प्रधानवादिनः शङ्कामनूद्योत्तरवाक्येन निराकरोति — अग्नेरित्यादिना । किं तद्वचनं तदाह — तदेवेति । बहुमानविषयभूतं वस्तु पृच्छति — किं तदिति । यदादौ मदीयं वचनं तदेव बहुमानयोग्यमित्याह — यदिति । तद्व्याकरोति — अस्मा इति । नमस्कारं कृत्वाऽस्मादनुज्ञां प्राप्येति शेषः । तदेवेति प्राथमिकवचनोक्तिः । किमिति त्वदीयं पूर्वं वचो बहु मन्यामहे जेतुं पुनरिममाशास्महे नेत्याह — जयस्त्विति । तत्र प्रश्नपूर्वकं पूर्वोक्तमेव बहुमानविषयभूतं वाक्यमवतार्य व्याचष्टे — कस्मादित्यादिना । पराजिताया गार्ग्या वचो नोपादेयमित्याशङ्क्याऽऽह — प्रश्नौ चेदिति । ततश्च प्रश्ननिर्णयाद्याज्ञवल्क्यस्याप्रकम्प्यत्वं प्रतिपाद्य ब्राह्मणान्प्रति हितं चोक्त्वेत्यर्थः । अन्तर्यामी क्षेत्रज्ञोऽक्षरमित्येतेषामवान्तरविशेषप्रदर्शनार्थं प्रकृतत्वं दर्शयति — अत्रान्तर्यामीति । तत्रान्तर्यामिणः प्रकृतत्वं प्रकटयति — यमिति । क्षेत्रज्ञस्य प्रकृतत्वं स्फुटयति — ये चेति । अक्षरस्य प्रस्तुतत्वं प्रत्याययति — यच्चेति । सर्वेषां विषयाणां दर्शनश्रवणादिक्रियाकर्तृत्वेन चेतनाधातुरिति यत्तदक्षरमुक्तमित्यन्वयः । तेषु विचारमवतारयति — कस्त्विति । तस्मिन्विचारे स्वयूथ्यमतमुत्थापयति — तत्रेति । क्षेत्रज्ञस्याप्रस्तुतत्वशङ्कां वारयति — यस्तमिति । यथा परस्याऽऽत्मनोऽन्तर्यामी जीवश्चेत्यवस्थे द्वे कल्प्येते तथा तस्यैवान्याः पञ्चावस्थाः पिण्डो जातिर्विराट् सूत्रं दैवमित्येवंलक्षणा महाभूतसंस्थानभेदेन कल्पयन्तीत्याह — तथेति । उक्तरीत्या कल्पनायां पिण्डो जातिर्विराट् सूत्रं दैवमव्याकृतं साक्षी क्षेत्रज्ञश्चेत्यष्टावस्था ब्रह्मणो भवन्तीति वदन्तः परिकल्पयन्तीति संबन्धः । अवस्थापक्षमुक्त्वा शक्तिपक्षमाह — अन्य इति । तुशब्देनावयवपक्षं दर्शयन्विकारपक्षं निक्षिपति — अन्ये त्विति । तत्र पक्षद्वयं प्रत्याह — अवस्थेति । अन्तर्यामिप्रभृतीनामिति शेषः । तस्य सांसारिकधर्मातीतत्वश्रुतावपि कथमवस्थावत्त्वं शक्तिमत्त्वं वा न सिध्यतीत्याशङ्क्याऽऽह — न हीति । अवशिष्टपक्षद्वयनिराकरणं प्रागेव प्रवृत्तं स्मारयति — विकारेति । परपक्षनिराकरणमुपसंहरति — तस्मादिति । परकीयकल्पनासंभवे पृच्छति — कस्तर्हीति । उत्तरमाह — उपाधीति । आत्मनि स्वतो विशेषाभावे हेतुमाह — सैन्धवेति । तत्रैव हेत्वन्तरमाह — अपूर्वमिति । बाह्यं कार्यमाभ्यन्तरं कारणं ताभ्यां कल्पिताभ्यां सहाधिष्ठानत्वेन सत्तास्फूर्तिप्रदतया वर्तते ब्रह्म स्वभावतस्तु जन्मादिसर्वविक्रियाशून्यं कूटस्थं तदित्याथर्वणश्रुतेरर्थः । आत्मानि स्वतो विशेषानवगमे फलितमाह — तस्मादिति । निरुपाख्यत्वं वाचां मनसां चागोचरत्वम् । तत्र निर्विशेषत्वमेकत्वं च हेतुः । निरुपाधिकस्येति निर्विशेषत्वं साधयितुमुक्तम् । तत्र च वीप्सावाक्यं प्रमाणं कृतम् । कथं पुनरेवंविधस्य वस्तुनः संसारित्वं तदाह — अविद्येति । तैर्विशिष्टं यत्कार्यकरणं तेनोपाधिनोपहितः परमात्मा जीवस्संसारीति च व्यपदेशभाग्भवतीत्यर्थः । तथाऽपि कथं तस्यान्तर्यामित्वं तदाह — नित्येति । नित्यं निरतिशयं सर्वत्राप्रतिबद्धं ज्ञानं तस्मिन्सत्त्वपरिणामे सत्त्वप्रधाना मायाशक्तिरुपाधिस्तेन विशिष्टः सन्नात्मेश्वरोऽन्तर्यामीति चोच्यत इत्यर्थः । कथं तर्हि तस्मिन्नक्षरशब्दप्रवृत्तिस्तत्राऽऽह — स एवेति । निरुपाधित्वं शुद्धत्वे हेतुः । केवलत्वमद्वितीयत्वम् । तथाऽपि कथं तत्र हिरण्यगर्भादिशब्दप्रत्ययावित्याशङ्क्याऽऽह — तथेति । यथैकस्मिन्नेव परस्मिन्नात्मनि कल्पितोपाधिप्रयुक्तं नानात्वं तथा तदेजति तन्नैजतीत्यादि वाक्यमाश्रित्य प्रागेवोक्तमित्याह — तथेति । कल्पनया परस्य नानात्वं वस्तुतस्त्वैकरस्यमित्यत्र श्रुतीरुदाहरति — तथेत्यादिना । अवस्थाशक्तिविकारावयवपक्षेष्वपि यथोक्तश्रुतीनामुपपत्तिमाशङ्क्याऽऽह — कल्पनान्तरेष्विति । औपाधिकोऽन्तर्याम्यादिभेदो न स्वाभाविक इत्युपसंहरति — तस्मादिति । स्वतो वस्तुनि नास्ति भेदः किन्त्वैकरस्यमेवेत्यत्र हेतुमाह —
एकमिति ॥१२॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणान्तरमुत्थापयति — अथेति । गार्गिप्रश्ने निर्णीते तया ब्रह्मवदनं प्रत्येतत्तुल्यो नास्तीति सर्वान्प्रति कथनानन्तर्यमथशब्दार्थः । संगतिं वक्तुं वृत्तं कीर्तयति — पृथिव्यादीनामिति । यत्साक्षादित्यादि प्रस्तुत्य सर्वान्तरत्वनिरूपणद्वारा साक्षित्वादिकमार्थिकं ब्राह्मणत्रये निर्धारितमित्यर्थः । अन्तर्यामिब्राह्मणे मुखतो निर्दिष्टमर्थमनुद्रवति — तस्य चेति । नामरूपाभ्यां व्याकृतो विषयो द्वैतप्रपञ्चस्तत्र सूत्रस्य भेदा ये पृथिव्यादयस्तेषु नियम्येषु नियन्तृत्वं तस्योक्तमिति योजना । किमिति व्याकृतविषये नियन्तृत्वमुक्तमिति तत्राऽऽह — व्याकृतेति । तत्र हि परतन्त्रस्य पृथिव्यादेर्ग्रहणं नियम्यत्वे स्पष्टतरं लिङ्गमिति तत्रैव नियन्तृत्वमुक्तमित्यर्थः । वृत्तमनूद्योत्तरस्य ब्राह्मणस्य तात्पर्यमाह — तस्यैवेति । नियन्तव्यानां देवताभेदानां प्राणान्तः संकोचो विकासश्चाऽऽनन्त्यपर्यन्तस्तद्द्वारा प्रकृतस्यैव ब्रह्मणः साक्षात्परोक्षत्वे स एष नेति नेत्यात्मेत्यादिनाऽधिगन्तव्ये इति कृत्वा प्रथमं देवतासंकोचविकासोक्तिरनन्तरं वस्तुनिर्देश इत्येतदर्थमेतद्ब्राह्मणमित्यर्थः । ब्राह्मणारम्भमेवमुक्त्वा तदक्षराणि व्याकरोति — अथेत्यादिना । निविदिश्रूयन्ते तावन्तो देवा इत्युत्तरत्र संबन्धः । केयं निविदिति पृच्छति — निविन्नामेति । उत्तरमाह — देवतेति । पदार्थमुक्त्वा वाक्यार्थं कथयति — तस्यामिति । यद्यपि भाष्ये निविद्व्याख्याता तथापि प्रश्नद्वारा श्रुत्या तां व्याख्याति — का पुनरित्यादिना । अनुज्ञावाक्यं व्याकरोति — एवमिति । मध्यमा संख्या षडधिकत्रिशताधिकत्रिसहस्रलक्षणा । कत्येवेत्यादिप्रश्नानां पूर्वप्रश्नेन पौनरुक्त्यमाशङ्क्य परिहरति — पुनरित्यादिना । कतमे ते त्रयश्चेत्यादिप्रश्नस्य विषयभेदं दर्शयति —
देवतेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 कति तर्हि देवा निविदि भवन्ति तत्राऽऽह — परमार्थतस्त्विति । त्रयस्त्रिंशतो देवानां स्वरूपं प्रश्नद्वारा निर्धारयति —
कतमे त इति ॥२॥ 【भाष्यम्】 【भाष्यम्】 उत्तरप्रश्नप्रपञ्चप्रतीकं गृहीत्वा तस्य तात्पर्यमाह — कतम इति । तेषां वस्वादीनां प्रत्येकं वस्वादित्रये प्रतिगणमिन्द्रे प्रजापतौ चैकैकस्येत्यर्थः । तेषां वसुत्वमेतेषु हीत्यादिवाक्यावष्टम्भेन स्पष्टयति — प्राणिनामिति । तेषां कर्मणस्तत्फलस्य चाऽऽश्रयत्वेन तेषामेव निवासत्वेन च शरीरेन्द्रियसमुदायाकारेण विपरिणमन्तोऽग्न्यादयो जगदेतद्वासयन्ति स्वयं च तत्र वसन्ति तस्माद्युक्तं तेषां वसुत्वमित्यर्थः । वसुत्वं निगमयति —
ते यस्मादिति ॥३॥ 【भाष्यम्】 【भाष्यम्】 प्राणशब्दार्थमाह — कर्मेति । ते यदाऽस्मादित्यादि वाक्यमनुसृत्य तेषां रुद्रत्वमुपपादयति — त एते प्राणा इति ।
मरणकालः सप्तम्यर्थः ॥४॥ 【भाष्यम्】 【भाष्यम्】 तेषामादित्यत्वमप्रसिद्धमिति शङ्कते — कथमिति । एते हीत्यादिवाक्येनोत्तरमाह —
एते हीति ॥५॥ 【भाष्यम्】 【भाष्यम्】 प्रसिद्धं वज्रं व्यावर्तयति — वीर्यमिति । तदेव संघातनिष्ठत्वेन स्फुटयति — बलमिति । किं तद्बलमिति चेत्तत्राऽऽह — यत्प्राणिन इति । प्रमापणं हिंसनम् । कथं तस्येन्द्रत्वमुपचारादित्याह — इन्द्रस्य हीति । पशूनां यज्ञत्वमप्रसिद्धमित्याशङ्क्याऽऽह — यज्ञस्य हीति । कारणे कार्योपचारं साधयति — यज्ञस्येति ।
अमूर्तत्वात्साधनव्यतिरिक्तरूपाभावाद्यज्ञस्य पश्वाश्रयत्वाच्च पशवो यज्ञ इत्युच्यत इत्यर्थः ॥६॥ 【भाष्यम्】 【भाष्यम्】 एते हीति प्रतीकमादाय व्याचष्टे — यस्मादिति । त्रयस्त्रिंशदाद्युक्तं तत्सर्वमेत एव यस्मात्तस्मादेते षड्भवन्तीति योजना । अक्षरार्थमुक्त्वा वाक्यार्थमाह —
सर्वो हीति ॥७॥ 【भाष्यम्】 【भाष्यम्】 प्रतिज्ञासमाप्तावितिशब्दः । तत्र हेतुः — एषु हीति । देवलक्षणकृतां केषाञ्चिदेष पक्षो दर्शितोऽन्येषां तु त्रयो लोका इत्यस्य यथाश्रुतोऽर्थ इत्याह —
इत्येष इति ॥८॥ 【भाष्यम्】 【भाष्यम्】 एकस्याध्यर्धत्वमाक्षिपति — तत्तत्रेति । इवशब्दस्तु कथमित्यत्र संबध्यते । परिहरति — यदस्मिन्निति । प्राणस्य ब्रह्मत्वं साधयति — सर्वेति । तेन महत्त्वेनेति यावत् । तस्य परोक्षत्वप्रतिपत्तौ प्रयत्नगौरवार्थं कथयति — त्यदितीति । उक्तमर्थं प्रतिपत्तिसौकर्यार्थं संगृह्णाति — देवानामिति । एकत्वं प्राणे पर्यवसानम् । नानात्वमानन्त्यम् । षडधिकत्रिशताधिकत्रिसहस्रसंख्याकानामेव देवानामत्रोक्तत्वात्कथं तदानन्त्यमित्याशङ्क्यशतसहस्रशब्दाभ्यामनन्तताऽप्युक्तैवेत्याशयेनाऽऽह — अनन्तानामिति । एकस्मिन्प्राणे पर्यवसानं यावद्भवति तावत्पर्यन्तमुत्तरोत्तरेषु त्रयस्त्रिंशदादिषुतेषामप्यन्तर्भाव इत्याह — तेषामपीति । प्राणस्य कस्मिन्नन्तर्भावस्तत्राऽऽह — प्राणस्यैवेति । संगृहीतमर्थमुपसंहरति — एवमिति । एकस्यानेकधाभावे किं निमित्तमित्याशङ्क्याऽऽह — तत्रेति ।
उक्तरीत्या प्राणस्वरूपे स्थिते सतीति यावत् । देवस्यैकस्य प्रकृतस्य प्राणस्यैवेत्यर्थः । प्राणिनां ज्ञाने कर्मणि चाधिकारस्य स्वामित्वस्य भेदोऽधिकारभेदस्तन्निमित्तत्वेन देवस्यानेकसंस्थानपरिणामसिद्धिः । प्राणिनो हि ज्ञानं कर्म चानुष्ठाय सूत्रांशमग्न्यादिरूपमापद्यन्ते तद्युक्तो यथोक्तो भेद इत्यर्थः ॥९॥ 【भाष्यम्】 【भाष्यम्】 संकोचविकासाभ्यां प्राणस्वरूपोक्त्यनन्तरमवसरप्राप्तिरिदानीमित्युच्यते । उपदिश्यते ध्यानार्थमिति शेषः । अवयवशो वाक्यं योजयति — पृथिवीति । संपिण्डितं वाक्यत्रयार्थं कथयति — पृथिवीत्यादिना । वैशब्दोऽवधारणार्थः । तं परायणं य एव विजानीयात्स एव वेदिता स्यादिति संबन्धः । अथ केन रूपेण पृथिवीदेवस्य कार्यकरणसंघातं प्रत्याश्रयत्वं तदाह — मातृजेनेति । पृथिव्या मातृशब्दवाच्यत्वाद्य एव देवोऽहं पृथिव्यस्मीति मन्यसे स एव शरीरारम्भकमातृजकोशत्रयाभिमानितया वर्तते । तथा च तस्य तेन रूपेण पितृजत्रितयं कार्यं लिङ्गं च करणं प्रत्याश्रयत्वं संभवतीत्यर्थः । पृथिवीदेवस्य परायणत्वमुपपाद्यानन्तरवाक्यमुत्थाप्य व्याचष्टे — स वै वेदितेति । तथाऽपि मम किमायातमित्याशङ्क्याऽऽह — याज्ञवल्क्येति । स पुरुषो येन विशेषणेन विशिष्टस्तद्विशेषणमुच्यमानं शृण्वित्युक्त्वा तदेवाऽऽह — य एवेति । शरीरं हि पञ्चभूतात्मकं तत्र पार्थिवांशे जनकत्वेन स्थितः शारीर इति यावत् । तस्य जीवत्वं वारयति — मातृजेति । पृथिवीदेवस्य निर्णीतत्वशङ्कां वारयति — किन्त्विति । याज्ञवल्क्यो वक्ता सन्प्रष्टारं शाकल्यं प्रति कथं वदैवेति कथयति तत्राऽऽह — पृच्छेति । क्षोभितस्यामर्षवशगत्वे दृष्टान्तः — तोत्रेति । प्राकरणिकं देवताशब्दार्थमाह — यस्मादिति । पुरुषो निष्पत्तिकर्ता षष्ठ्योच्यते । लोहितनिष्पत्तिहेतुत्वमन्नरसस्यानुभवेन साधयति — तस्माद्धीति । तस्य कार्यमाह — ततश्चेति । लोहितादद्वितीयपदार्थनिष्ठात्तत्कार्यं त्वङ्मांसरुधिररूपं बीजस्यास्थिमज्जाशुक्रात्मकस्याऽऽश्रयभूतं भवतीत्यर्थः । पर्यायसप्तकमाद्यपर्यायेण तुल्यार्थत्वान्न पृथग्व्याख्यानापेक्षमित्याह —
समानमिति ॥१०॥ 【भाष्यम्】 【भाष्यम्】 उत्तरपर्यायेषु येषां पदानामर्थभेदस्तेषां तत्कथनार्थं प्रतीकं गृह्णाति — काम इति । वाक्यार्थमाह — कामशरीर इत्यर्थ इति । स च हृदयदर्शनो मनसा संकल्पयितेति पूर्ववत् । तस्य विशेषणं दर्शयति — य एवेति । आध्यात्मिकस्य काममयस्य पुरुषस्य कारणं पृच्छति — तस्येति । तस्यास्तत्कारणत्वमनुभवेन व्यनक्ति —
स्त्रीतो हीति ॥११॥ 【भाष्यम्】 【भाष्यम्】 रूपशरीरस्य चक्षुर्दर्शनस्य मनसा संकल्पयितुर्देवस्य कथमादित्ये पुरुषो विशेषणमित्याशङ्क्याऽऽह — सर्वेषां हीति । रूपमात्राभिमानिनो देवस्याऽऽदित्ये पुरुषो विशेषावच्छेदः । स च सर्वरूपप्रकाशकत्वात्सर्वै रूपैः स्वप्रकाशनायाऽऽरब्धः । तस्माद्युक्तं यथोक्तं विशेषणमित्यर्थः । कथं चक्षुषः सकाशादादित्यस्योत्पत्तिरित्याशङ्क्य ‘चक्षोः सूर्यो अजायत’ इति श्रुतिमाश्रित्याऽऽह —
चक्षुषो हीति ॥१२॥ 【भाष्यम्】 【भाष्यम्】 तत्रापीति श्रौत्रोक्तिः । प्रतिश्रवणं संवादः प्रतिविषयं श्रवणं वा सर्वाणि श्रवणानि वा तद्दशायामिति यावत् । दिशस्तत्राधिदैवतमिति श्रुतिमश्रित्याऽऽह —
दिग्भ्यो हीति ॥१३॥ 【भाष्यम्】 【भाष्यम्】 अधिदैवतं मृत्युरीश्वरो मृत्युनैवेदमावृतमासीदिति श्रुतेः । स च तस्याज्ञानमयस्याऽऽध्यात्मिकस्य पुरुषस्योत्पत्तिकारणमविवेकिप्रवृत्तेरीश्वराधीनत्वादीश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वेति हि पठन्ति तदाह —
मृत्युरिति ॥१४॥ 【भाष्यम्】 【भाष्यम्】 पुनरुक्तिं प्रत्याह — पूर्वमिति । आधारशब्दो भावप्रधानस्तथा च प्रतिबिम्बस्याऽऽधारत्वं यत्र तदित्युक्तं भवति । आदिशब्देन स्वच्छस्वभावं खङ्गादि गृह्यते । प्राणेन हि निघृष्यमाणे दर्पणादौ प्रतिबिम्बाभिव्यक्तियोग्ये रूपविशेषो निष्पद्यते । ततो युक्तं प्राणस्य प्रतिबिम्बकारणत्वमित्यभिप्रेत्याऽऽह —
तस्येति ॥१५॥ 【भाष्यम्】 【भाष्यम्】 आप एव यस्याऽऽयतनं य एवायमप्सु पुरुष इत्युभयत्र सामान्यविशेषभावो न प्रतिभातीति शङ्कमानं प्रत्याह — साधरणा इति । कथं पुनर्वापीकूपादिविशेषायतनस्य वरुणो देवता न हि देवतात्मनो वरुणस्य तदधिष्ठातुस्तत्कारणत्वं तत्राऽऽह — वरुणादिति ।
आपो वापीकूपाद्याः पीताः सत्योऽध्यात्मं शरीरे मूत्रादिसंघातं कुर्वन्ति । ताश्च वरुणाद्भवन्ति । वरुणशब्देनाऽऽप एव रशिमद्वारा भूमिं पतन्त्योऽभिधीयन्ते । तथा च ता एव वरुणात्मिका वाप्याद्यपां पीयमानानामुत्पत्तिकारणमिति युक्तं वरुणस्य वापीतडागाद्यायतनं पुरुषं प्रति कारणत्वमित्यर्थः ॥१६॥ 【भाष्यम्】 【भाष्यम्】 वाक्यद्वयं गृहीत्वा तात्पर्यमाह — विशेषेति । पुत्रमयशब्दार्थं व्याचष्टे —
पुत्रमय इति ॥१७॥ 【भाष्यम्】 【भाष्यम्】 शाकल्येति होवाचेत्यादिग्रन्थस्य तात्पर्यं वक्तुं वृत्तं कीर्तयति — अष्टधेति । लोकः सामान्याकारः पुरुषो विशेषावच्छेदो देवस्तत्कारणमनेन प्रकारेण त्रिधा त्रिधाऽऽत्मानं प्रविभज्य स्थितो य एकैको देव उक्तः स प्राण एव सूत्रात्मा तद्भेदत्वात्पूर्वोक्तस्य सर्वस्य स चोपासनार्थमष्टधोपदिष्टोऽधस्तादित्यर्थः । उत्तरस्य तात्पर्यं दर्शयति — अधुनेति । प्रविभक्तस्य जगतः सर्वस्येति शेषः । आत्मशब्दो ह्रदयविषयः । याज्ञवल्क्यवाक्यस्य शाकल्ये प्रष्टर्यबुद्धिपूर्वकारित्वापादकत्वं दर्शयति —
ग्रहेणेति ॥१८॥ 【भाष्यम्】 【भाष्यम्】 सर्वेषामेव ब्राह्मणानां प्रायेण हन्तव्यत्वेन संमतो भवानिति मुनेरभिसंहितं शाकल्यस्तु कालचोदितत्वात्तदनुरोधिनीमन्यथाप्रतिपत्तिमेवाऽऽदाय चोदयतीत्याह — यदिदमिति । दिग्विषयं विज्ञानं जाने तन्ममास्तीत्यर्थः । तच्च विज्ञानं केवलं दिङ्मात्रस्य न भवति किन्तु देवैः प्रतिष्ठाभिश्च सहिता दिशो वेदेत्याह — तच्चेति । अवतारितस्य वाक्यस्यार्थं संक्षिपति —
सफलमिति ॥१९॥ 【भाष्यम्】 【भाष्यम्】 प्राच्यां दिशि का देवतेति वक्तव्ये कथमन्यथा पृच्छ्यते तत्राऽऽह — असौ हीति आत्मानमात्मीयमिति यावत् । यथोक्तं ह्रदयमात्मत्वेनोपगम्येति संबन्धः । तथाऽपि प्रथमं प्राचीं दिशमधिकृत्य प्रश्ने को हेतुरिति चेत्तत्राऽऽह — पूर्वाभिमुख इति । यद्यपि दिगात्माऽहमस्मीति स्थितस्तथाऽपि कथं सर्वं जगदात्मत्वेनोपगम्य तिष्ठतीत्यवगम्यते तत्राऽऽह — सप्रतिष्ठेति । सप्रतिष्ठा दिशो वेदेति वचनात्सर्वमपि हृदयद्वारा जगदात्मत्वेनोपगम्य स्थितो मुनिरिति प्रतिभातीत्यर्थः । प्रतिज्ञानुसारित्वाच्चायं प्रश्नो युक्तिमानित्याह — यथेति । अहमस्मि दिगात्मेति प्रतिज्ञानुसारिण्यपि प्रश्ने देहपातोत्तरभावी देवताभावः पृच्छ्यते सति देहे ध्यातुस्तद्भावायोगादित्याशङ्क्याऽऽह — सर्वत्र हीति । इति न भाविदेवताभावः प्रश्नगोचर इति शेषः । उक्तेऽर्थे वाक्यशेषमनुकूलयति — तथा चेति । प्रश्नार्थमुपसंहरति — अस्यामिति । आदित्यस्य चक्षुषि प्रतिष्ठितत्वं प्रकटयितुं कार्यकारणभावं तयोरादर्शयति — अध्यात्मतश्चक्षुष इति । ‘चक्षोः सूर्यो अजायत’ इत्यादयो मन्त्रवादास्तदनुसारिणश्च ब्राह्मणवादाः । भवतु कार्यकारणभावस्तथाऽपि कथं चक्षुष्यादित्यस्य प्रतिष्ठितत्वं तत्राऽऽह — कार्यं हीति । कथं चक्षुषो रूपेषु प्रतिष्ठितत्वं तत्राऽऽह — रूपग्रहणायेति । तथाऽपि कथं यथोक्तमाधाराधेयत्वमत आह — यैर्हीति । चक्षुषो रूपाधारत्वे फलितमाह — तस्मादिति । उपसंहृतमर्थं संगृह्णाति — चक्षुषेति । हृदयारब्धत्वं रूपाणां स्फुटयति — रूपाकारेणेति । हृदये रूपाणां प्रतिष्ठितत्वे हेत्वन्तरमाह — यस्मादिति । हृदयशब्दस्य मांसखण्डविषयत्वं व्यावर्तयति — हृदयमिति । कथं पुनर्बहिर्मुखानि रूपाण्यन्तर्हृदये स्थातुं पारयन्ति तत्राऽऽह — हृदयेन हीति । तथाऽपि कथं तेषां हृदयप्रतिष्ठितत्वं तत्राऽऽह —
वासनात्मनामिति ॥२०॥ 【भाष्यम्】 【भाष्यम्】 पूर्ववदित्युक्तमेव व्यनक्ति — दक्षिणायामिति । यमस्य यज्ञकार्यत्वमप्रसिद्धमिति शङ्कित्वा व्युत्थापयति — कथमित्यादिना । तस्य यज्ञकार्यत्वे फलितमाह — तेनेति । यज्ञस्य दक्षिणायां प्रतिष्ठितत्वं साधयति — दक्षिणयेति । कार्यं च कारणे प्रतिष्ठितमिति शेषः । दक्षिणायाः श्रद्धायां प्रतिष्ठितत्वं प्रकटयति — यस्मादिति । हृदये सा प्रतिष्ठितेत्यत्र हेतुमाह — हृदयस्येति । हृदयव्याप्यत्वाच्च श्रद्धायास्तत्प्रतिष्ठितत्वमित्याह — हृदयेन हीति । हृदयस्य श्रद्धा वृत्तिरस्तु तथाऽपि प्रकृते किमायातं तदाह —
वृत्तिश्चेति ॥२१॥ 【भाष्यम्】 【भाष्यम्】 रेतसो हृदयकार्यत्वं साधयति — काम इति । तथाऽपि कथं रेतो हृदयस्य कार्यं तदाह — कामिनो हीति । तत्रैव लोकप्रसिद्धिं प्रमाणयति — तस्मादिति ।
अपिशब्दः संभावनार्थोऽवधारणार्थो वा ॥२२॥ 【भाष्यम्】 【भाष्यम्】 दीक्षायां सोमस्य प्रतिष्ठितत्वं साधयति — दीक्षितो हीत्यादिना । दीक्षायां सोमस्य प्रतिष्ठितत्वं साधयति — दीक्षितो हीत्यादिना । दीक्षायाः सत्ये प्रतिष्ठितत्वमप्रसिद्धमिति शङ्कित्वा समादत्ते — कथमित्यादिना । अपिशब्दोऽवधारणार्थः । सत्यं वदेति वदतामभिप्रायमाह — कारणेति । भ्रेषो भ्रंशो नाशः । इति तेषामभिप्राय इति शेषः । प्रकृतोपसंहारः —
सत्ये हीति ॥२३॥ 【भाष्यम्】 【भाष्यम्】 कथं पुनरूर्ध्वा दिगवस्थिता ध्रुवेत्युच्यते तत्राऽऽह — मेरोरिति । तत्राग्नेर्देवतात्वं प्रकटयति — ऊर्ध्वायां हीति । ‘दिशो वेद’(बृ.उ.३-९-१९) इत्यादिश्रुत्या जगतो विभागेन पञ्चधात्वं ध्यानार्थमुक्तमिदानीं विभागवादिन्याः श्रुतेरभिप्रायमाह — तत्रेति । यथोक्ते विभागे सतीति यावत् । उक्तमर्थं संक्षिपति — सदेवा इति । तत्रावान्तरविभागमाह — यद्रूपमिति । आद्ये पर्याये हृदये रूपप्रपञ्चोपसंहारो दर्शितः । ‘हृदये ह्येव रूपाणि’(बृ. उ. ३ । ९ । २०) इति श्रुतेरित्यर्थः । दक्षिणायामित्यादिपर्यायत्रयेण तत्रैव कर्मोपसंहार उक्त इत्याह — यत्केवलमिति । यद्धि केवलं कर्म तत्फलादिभिः सह दक्षिणादिगात्मकं हृद्युपसंह्रियते यज्ञस्य दक्षिणादिद्वारा हृदये प्रतिष्ठितत्वोक्तेर्दक्षिणस्या दिशस्तत्फलत्वात्पुत्रजन्माख्यं च कर्म प्रतीच्यात्मकं तत्रैवोपसंहृतम् । ‘हृदये ह्येव रेतः प्रतिष्ठितम्’(बृ. उ. ३ । ९ । २२ ) इति श्रुतेः । पुत्रजन्मनश्च तत्कार्यत्वाज्ज्ञानसहितमपि कर्म फलप्रतिष्ठादेवताभिः सहोदीच्यात्मकं तत्रैवोपसंहृतं सोमदेवताया दीक्षादिद्वारा तत्प्रतिष्ठितत्वश्रुतेरेवं दिक्त्रये सर्वं कर्म हृदि संहृतमित्यर्थः । पञ्चमपर्यायस्य तात्पर्यमाह — ध्रुवयेति । नामरूपकर्मसूपसंहृतेष्वपि किञ्चिदुपसंहर्तव्यान्तरमवशिष्टमस्तीत्याशङ्क्य निराकरोति — एतावद्धीति । प्रश्नान्तरमुत्थापयति —
तत्सर्वात्मकमिति ॥२४॥ 【भाष्यम्】 【भाष्यम्】 हृदयपदेन नामाद्याधारवदहल्लिकशब्देनापि हृदयाधिकरणं विवक्ष्यते वाक्यच्छायासाम्यादित्याशङ्क्याह — नामान्तरेणेति । अहनि लीयत इति विगृह्य प्रेतवाचिनेति शेषः । देहे हृदयं प्रतिष्ठितमिति व्युत्पादयति — यत्रेत्यादिना । तस्मिन् काले शरीरं मृतं स्यादिति शेषः । शरीरस्य हृदयाश्रयत्वं विशदयति — यद्धीत्यादिना । देहादन्यत्र हृदयस्यावस्थाने यथोक्तं दोषमितिशब्देन परामृश्य फलितमाह — इतीत्यादिना । देहस्तर्हि कुत्र प्रतिष्ठित इत्यत्र आह —
शरीरस्येति ॥२५॥ 【भाष्यम्】 【भाष्यम्】 वृत्तमनूद्य प्रश्नान्तरमुपादत्ते — हृदयेति । प्राणशब्दस्य सूत्रविषयत्वं व्यवच्छेत्तुं वृत्तिविशेषणम् । प्राणस्यापाने प्रतिष्ठितत्वं व्यतिरेकद्वारा स्फोरयति — साऽपीति । प्राणापानयोरुभयोरपि व्यानाधीनत्वं साधयति — साऽप्यपानेति । तिसृणां वृत्तीनामुक्तानामुदाने निबद्धत्वं दर्शयति — सर्वा इति । विष्वङ्ङिति नानागतित्वोक्तिः । कस्मिन्नु हृदयमित्यादेः समानान्तस्य तात्पर्यमाह — एतदिति । तेषां प्रवर्तकं दर्शयति — विज्ञानमयेति । स एष इत्यादेस्तात्पर्यमाह — सर्वमिति । यस्य कूटस्थदृष्टिमात्रस्यान्तर्यामित्वकल्पनाधिष्ठानस्याज्ञानवशात्प्रशासने द्यावापृथिव्यादि स्थितं स परमात्मैष प्रत्यगात्मैवेति पदयोरर्थं विवक्षित्वाऽऽह — स एष इति । निषेधद्वयं मूर्तामूर्तब्राह्मणे व्याख्यातमित्याह — स यो नेति । यो मधुकाण्डे चतुर्थे नेति नेतीति निषेधमुखेन निर्दिष्टः स एष कूर्चब्राह्मणे तन्मुखेनैव वक्ष्यत इति योजना । निषेधद्वारा निर्दिष्टमेव स्पष्टयति — सोऽयमिति । कार्यधर्माः शब्दादयोऽशनायादयश्च । श्रुत्युक्तं हेतुमवतार्य व्याचष्टे — कुत इत्यादिना । तद्विपरीतत्वं करणागोचरत्वं न चक्षुषेत्यादिश्रुतेः । तद्विपरीतत्वादमूर्तत्वादिति यावत् । पूर्वत्राप्युभयत्र तद्वैपरीत्यमेतदेव । अतः शब्दार्थं स्फुटयन्नुक्तमुपपादयति — ग्रहणेति । कार्यधर्माः शब्दादयोऽशनायादयश्च प्रागुक्ताः । ननु शाकल्ययाज्ञवल्क्ययोः संवादात्मिकेयमाख्यायिका तत्र कथं शाकल्येनापृष्टमात्मानं याज्ञवल्क्यो व्याचष्टे तत्राऽऽह — क्रममिति । विज्ञानादिवाक्ये वक्ष्यमाणत्वात्किमित्यत्र निर्देश इत्याशङ्क्याऽऽह — त्वरयेति । एतान्यष्टावित्यादिवाक्यस्य पूर्वेणासंगतिमाशङ्क्याऽऽह — ततः पुनरिति । निश्चयेन गमयित्वेत्येतदेव स्पष्टयति — अष्टेति । प्रत्युह्योपसंहृत्येति यावत् । औपनिषदत्वं पुरुषस्य व्युत्पादयति — उपनिषत्स्वेवेति । तं हेत्यादि याज्ञवल्क्यस्य वा मध्यस्थस्य वा वाक्यमिति शङ्कां वारयति — समाप्तेति । ब्रह्मविद्विद्वेषे परलोकविरोधोऽपि स्यादित्याह — किञ्चेति । मूर्धा ते विपतिष्यतीति मूर्ध्नि पतिते शापेन किमित्यग्निहोत्राग्निसंस्कारमपि शाकल्यो न प्राप्तवानित्याशङ्क्याऽऽह — पूर्ववृत्तेति । तामेवाऽऽख्यायिकामनुक्रामति — अष्टाध्याय्यामिति । अष्टाध्यायी बृहदारण्यकात्प्राचीना कर्मविषया । पुरे पुण्यक्षेत्रातिरिक्ते देशे । अतिथ्ये पुण्यतिथिशून्ये काले । अस्थीनि चनेत्यत्र चनशब्दोऽप्यर्थः । उपवादी परिभवकर्ता । तच्छब्दार्थमाह — उत इति । किमितीयमाख्यायिकाऽत्र विद्याप्रकरणे सूचितेत्यशङ्क्याऽऽह — सैषेति ।
ब्रह्मविदि विनीतेन भवितव्यमित्याचारः । महती हीयं ब्रह्मविद्या यत्तन्निष्ठावज्ञायामैहिकामुष्मिकविरोधः स्यादिति विद्यास्तुतिः ॥२६॥ 【भाष्यम्】 【भाष्यम्】 यो व इति प्रतीकमादाय व्याचष्टे — युष्माकमिति । व्याख्यातं भागमनूद्य व्याख्येयमादाय व्याकरोति — यो व इत्यादिना । यथोक्तप्रश्नानन्तरं ब्राह्मणानामप्रतिभां दर्शयति —
ते हेति ॥२७॥ 【भाष्यम्】 【भाष्यम्】 अथ हेत्याद्युत्तरग्रन्थमवतारयति — यस्येत्यादिना । जगतो मूलं च वक्तव्यमित्याख्यायिकामेवाऽऽश्रित्याऽऽहेति संबन्धः । आख्यायिका किमर्थेत्यत आह — आख्यायिकेति । इतिशब्दः संबन्धसमाप्त्यर्थः । ननु ब्राह्मणेषु तूष्णीम्भूतेषु प्रतिषेद्धुरभावाद्गोधनं हर्तव्यं किमिति तान्प्रति याज्ञवल्क्यो वदतीत्यत आह — न्यायं मत्त्वेति । ब्रह्मस्वं हि ब्राह्मणानुमतिमनापाद्य नीयमानमनर्थाय स्यादिति न्यायः । संबोध्योवाचेति संबन्धः । स्वकीयज्ञानप्रकर्षप्रकटनार्थमेव प्रश्नान्तरमवतारयति — तेष्विति । वृक्षो वनस्पतिरिति पर्यायत्वात्पुनरुक्तिरित्याशङ्क्याऽऽह — वृक्षस्येति । तच्च तस्य महत्त्वमाहेत्यपुनरुक्तिः । पुरुषस्य वृक्षसाधर्म्यमेतदित्युच्यते । साधर्म्यमेव स्पष्टयति — तस्येत्यादिना ।
नीरसा त्वगुत्पाटिकेत्युच्यते ॥१॥ उत्पटो वृक्षनिर्यासः ॥२॥ 【भाष्यम्】 【भाष्यम्】 विशेषाभावमेवाभिनयति —
यथेति ॥३॥ 【भाष्यम्】 【भाष्यम्】 साधर्म्ये सति वैधर्म्यं वक्तुमशक्यमित्याशयेनाऽऽह — यद्यदीति । इदमपि साधर्म्यमेव किं न स्यादित्याशङ्क्याऽऽह — यदेतस्मादिति । एतस्माद्विशेषणात्प्राग्यद्विशेषणमुक्तं तत्सर्वमुभयोः सामान्यमवगतमिति संबन्धः । वृक्णस्याङ्गस्येति शेषः । माभूत्तस्य प्ररोहणमिति चेन्नेत्याह — भवितव्यं चेति । ‘ध्रुवं जन्म मृतस्य च’ (भ. गी. २। २७)
इति स्मृतेरित्यर्थः ॥४॥ 【भाष्यम्】 【भाष्यम्】 जीवतो हि रेतो जायते स एव कुतो भवतीति विचार्यते न चासिद्धेनासिद्धस्य साधनं न च पुरुषान्तरादिति वाच्यमेकासिद्धावन्यतरप्रयोगानुपपत्तेरिति मन्वानो हेतुमाह — यस्मादिति । वैधर्म्यान्तरमाह — अपि चेति । काण्डरुहोऽपीत्यपेरर्थः । वैशब्दः प्रसिद्धिद्योतक इत्यभिप्रेत्याऽऽह — वै वृक्ष इति । अञ्जसेत्यादेरर्थमुक्त्वा वाक्यार्थमाह —
धानातोऽपीति ॥५॥ 【भाष्यम्】 【भाष्यम्】 तथाऽपि कथं वैधर्म्यमित्याशङ्क्याऽऽह — यद्यदीति । पुरुषस्यापि पुनरुत्पत्तिर्माभूदित्याशङ्क्य पूर्वोक्तं निगमयति —
तस्मादिति ॥६॥ 【भाष्यम्】 【भाष्यम्】 स्वभाववादमुत्थापयति — जात इति । इतिशब्दश्चोद्यसमाप्यर्थः । तदेव स्फुटयति — जनिष्यमाणस्य हीति । न जायत इति भागेनोत्तरमाह — नेत्यादिना । स्वभाववादे दोषमाह — अन्यथेति । स्वभावासंभवे फलितमाह — अत इति । उक्तमेव स्फुटयति — जगत इति । ब्रह्मविदां श्रेष्ठत्वे याज्ञवल्क्यस्य सिद्धे फलितमाह — अत इति । समाप्ताऽऽख्यायिकेति । ब्राह्मणाश्च सर्वे यथायथं जग्मुरित्यर्थः । विज्ञानादिवाक्यमुत्थापयति — यज्जगत इतादिना । विज्ञानशब्दस्य करणादिविषयत्वं वारयति — विज्ञप्तिरिति । आनन्दविशेषणस्य कृत्यं दर्शयति — नेत्यादिना । प्रसन्नं दुःखहेतुना कामक्रोधादिना संबन्धरहितम् । शिवं कामादिकारणेनाज्ञानेनापि संबन्धशून्यम् । सातिशयत्वप्रयुक्तदुःखराहित्यमाह — अतुलमिति । साधनसाध्यत्वादीनदुःखवैधुर्यमाह — अनायासमिति । दुःखनिवृत्तिमात्रं सुखमिति पक्षं प्रतिक्षिपति — नित्यतृप्तमिति । आनन्दोज्ञानमिति ब्रह्मण्याकारभेदमाशङ्क्याऽऽह — एकरसमिति । फलमत उपपत्तेरिति न्यायेन ब्रह्मणो जगन्मूलत्वमाह — रातिरित्यादिना । ‘ब्रह्मसंस्थोऽमृतत्वमेति’इति श्रुत्यन्तरमाश्रित्य तस्यैव मुक्तोपसृप्यत्वमुपदिशति — किञ्चेति । अक्षरव्याख्यानसमाप्तावितिशब्दः । सच्चिदान्दात्मकं ब्रह्म विद्याविद्याभ्यां बन्धमोक्षास्पदमित्युक्तमिदानीं ब्रह्मानन्दे विचारमवतारयन्नविगीतमर्थमाह — अत्रेति । तथाऽपि प्रकृते वाक्ये किमायातमिति तदाह — अत्र चेति । न च केवलमत्रैवाऽऽनन्दशब्दो ब्रह्मविशेषणार्थकत्वेन श्रुतः किन्तु तैत्तिरीयकादावपीत्याह — श्रुत्यन्तरे चेति । ब्रह्मणो विशेषणत्वेनाऽऽनन्दशब्दः श्रूयत इति संबन्धः । अन्याः श्रूतीरेवोदाहरति — आनन्द इत्यादिना । एवमाद्याः श्रुतय इति शेषः । तथाऽपि कथं विचारसिद्धिस्तत्राऽऽह — संवेद्य इति । लोकप्रसिद्धेरद्वैतश्रुतेश्च ब्रह्मण्यानन्दः संवेद्योऽसंवेद्यो वेति विचारः कर्तव्य इत्यर्थः । उभयत्र फलं दर्शयति — ब्रह्माऽऽनन्दश्चेति । अन्यथा लोकवेदयोः शब्दार्थभेदादविशिष्टस्तु वाक्यार्थ इति न्यायविरोधोऽसंवेद्यत्वे पुनरद्वैतश्रुतिरविरुद्धेति भावः । विचारमाक्षिपति — नन्विति । विरुद्धश्रुत्यर्थनिर्णयार्थं विचारकर्तव्यतां दर्शयति — नेति । संग्रहवाक्यं विवृणोति — सत्यमित्यादिना । एकत्वे सति विज्ञानप्रतिषेधश्रुतिमेवोदाहरति — यत्रेत्यादिना । इत्यादिश्रवणमिति शेषः । फलितमाह — विरुद्धश्रुतीति । श्रुतिविप्रतिपत्तेर्विचारकर्तव्यतामुपसंहरति — तस्मादिति । तत्रैव हेत्वन्तरमाह — मोक्षेति । तामेव विप्रतिपत्तिं विवृणोति — साङ्ख्या इति । विमर्शपूर्वकं पूर्वपक्षं गृह्णाति — किं तावदित्यादिना । आनन्दादिश्रवणाद्विज्ञानमानन्दं ब्रह्मेति श्रुतेर्मोक्षे सुखं संवेद्यमिति युक्तमिति संबन्धः । तत्रैव वाक्यान्तराण्युदाहरति — जक्षदित्यादिना । पूर्वपक्षमाक्षिपति — नन्विति । मोक्षे चेदिष्यते सुखज्ञानं तर्हि तदनेककारकसाध्यं वाच्यं क्रियात्वात्पाकादिवत्सर्वैकत्वे च मोक्षे कारकविभागाभावान्न सुखसंवेदनं संभवतीत्यर्थः । जन्यस्य कारकापेक्षायामपि सुखज्ञानस्याजन्यत्वान्न तदपेक्षेत्याऽऽशङ्क्याह — क्रियायाश्चेति । या क्रिया साऽनेककारकसाध्येति व्याप्तेर्गमनादाववगतत्वाज्ज्ञानस्यापि धात्वर्थत्वेन क्रियात्वादनेककारकसाध्यता सिद्धैवेत्यर्थः । श्रुतिप्रामाण्यमाश्रित्य पूर्ववादी परिहरति — नैष दोष इति । तदेव स्फुटयति — विज्ञानमिति । अद्वये ब्रह्मणि श्रुतिप्रामाण्यादानन्दज्ञानमुक्तमाक्षिपति — नन्विति । अद्वैतश्रुतिविरोधाद्ब्रह्मणि विज्ञानक्रियाकारकविभागापेक्षा नोपपद्यते । न हि ‘विज्ञानमानन्दमि’ (बृ. उ. ३ । ९ । २८) त्यादिवचनानि मानान्तरविरोधेन विज्ञानक्रियां ब्रह्मण्युत्पादयन्ति तेषां ज्ञापकत्वाज्ज्ञापकस्य च अविरोधापेक्षत्वादन्यथाऽतिप्रसंगादित्यर्थः । लौकिकज्ञानस्य क्रियात्वेऽपि मोक्षसुखज्ञानं क्रियैव न भवति । तन्न । विज्ञानादिवाक्यस्याद्वैतश्रुतिविरोधोऽस्तीत्याशङ्क्याऽऽह — न चेति । पयः पावकयोस्सर्वत्रैकरूप्यवद्विज्ञानस्यापि लोकवेदयोरेकरूपत्वमेवेति भावः । मानान्तरविरोधादात्मन्यानन्दज्ञानस्य सत्त्वमेव वा निषिध्यते तस्य क्रियात्वं वा निराक्रियते तत्राऽऽद्यं दूषयति । नेत्यादिना । तदेव स्पष्टयति — न विज्ञानमिति । सुखज्ञानस्य गुणत्वाङ्गीकारात्क्रियात्वनिराकरणमिष्टमेवेति मत्वाऽऽह — अनुभूयतेत्विति । अनुभवमेवाभिनयति — सुख्यहमिति । तथाऽपि श्रुतिविरोधः स्यादित्याशङ्क्य प्रत्यक्षानुसरेण साऽपि नेतव्येत्याशयेनाऽऽह — तस्मादिति । आत्मन्यानन्दज्ञानस्य क्रियात्वानङ्गीकारात्कारकभेदापेक्षाभावादित्यर्थः । गुणत्वपक्षे च प्रत्यक्षस्यानुगुणत्वादागमस्य विरोधिनस्तदनुसारेण नेत्यत्वादविरुद्धागमस्य भूयस्त्वादित्यतिशयः । अविरुद्धार्थता विज्ञानादिश्रुतेरिति शेषः । गुणगुणिभावेऽपि नाद्वैतश्रुतिः शक्या नेतुमित्याशङ्क्य स्ववेद्यत्वपक्षमाश्रित्याऽऽह — तस्मादानन्दमिति । यथाकथञ्चिद्ब्रह्मण्यानन्दस्य वेद्यत्वे श्रुतीनामानुगुण्यमस्तीत्याह — तथेति । आनन्दो वेद्यो ब्रह्मणीति चोदिते सिद्धान्तमाह — नेति । आगन्तुकमनागन्तुकं वा ज्ञानं मुक्तावानन्दं गोचरयति नाऽऽद्य इत्याह — कार्येति । अनुपपत्तिमेव स्फोरयति — शरीरेति । कार्यकरणयोरभावेऽपि मोक्षे ब्रह्मानन्दज्ञानं जनिष्यते संसारे हि हेत्वपेक्षेत्याशङ्क्याऽऽह — देहादीति । द्वितीयं दूषयति — एकत्वेति । न हि ब्रह्मस्वरूपज्ञानेनैव वेद्यानन्दरूपं भवितुमुत्सहते विषयविषयिणोरेकत्वविरोधात्ततश्चानागन्तुकमपि ज्ञानं मुक्तौ नाऽऽनन्दमधिकरोतीत्यर्थः । किञ्च ब्रह्म वा मुक्तो वा संसारी वा ब्रह्मानन्दं गोचरयेत्तत्राऽऽद्यमनुवदति — परं चेदिति । तस्मिन्पक्षे न ब्रह्म स्वरूपानन्दं वेत्ति तेनैक्यादेकत्र विषयविषयित्वानुपपत्तेरुक्तत्वादिति दूषयति — तन्नेति । नापि संसारी ब्रह्मानन्दं गोचरयति स खल्वनिवृत्ते संसारे संसारिणमात्मानमभिमन्यमानो न ब्रह्मानन्दमाकलयितुमलं संसारे निवृत्ते तु ततो विनिर्मुक्तो ब्रह्मस्वाभाव्यं प्रतिपद्यमानस्तदानन्दं तद्वदेव विषयीकर्तुं नार्हतीति तृतीयं प्रत्याह — संसार्यपीति । मुक्तोऽपि ब्रह्मणोऽभिन्नो भिन्नो वेति विकल्प्याभेदपक्षमनुभाषते — जलेति । ब्रह्माभिन्नस्य मुक्तस्य तदानन्दविषयीकरणमुक्तन्यायेन निरस्यति — तदेति । भेदपक्षमनुवदति — अथेति । ब्रह्मानन्दं प्रत्यगात्मानमिति संबन्धः । वेदनप्रकारमभिनयति — अहमिति । तत्त्वमस्यादिश्रुतिविरोधेन निराकरोति — तदेति । मुक्तो ब्रह्मणः सकाशाद्भिन्नोऽभिन्नो वा मा भूद्भिन्नाभिन्नस्तु स्यादित्याशङ्क्याऽऽह — तृतीयेति । सर्वत्र भेदाभेदवादस्य दूषितत्वादित्यर्थः । ब्रह्मणः स्वानन्दस्यावेद्यत्वे हेत्वन्तरमाह — किञ्चान्यदिति । तदेवोपपादयति — निरन्तरं चेदिति । आख्यातप्रयोगस्य तर्हि कुत्रार्थवत्त्वं तत्राऽऽह — अतद्विज्ञानेति । देवदत्तो हि बुद्धिपूर्वकारित्वावस्थायां स्वात्मानमन्यं विविच्य जानाति नान्यदेत्युभयथात्वदर्शनात्तत्राऽऽख्यातप्रयोगो युज्यते । नैवं ब्रह्मण्यज्ञानप्रसंगोऽस्ति । नित्यज्ञानस्वभावत्वात्तथा च तत्राऽऽख्यातप्रयोगे नार्थवानित्यर्थः । ब्रह्मण्याख्यातप्रयोगानर्थक्यं दृष्टान्तेन स्पष्टयति — न हीति । प्रत्यगात्मनि नित्यज्ञानत्वासिद्धिं शङ्कयति — अथेति । विच्छिन्नमिति क्रियाविशेषणम् । परिहरति — विज्ञानस्येति । आत्मनो विज्ञानस्य च्छिद्रमन्तरालमसत्त्वावस्था तदाऽपि विज्ञानमस्ति चेत्तस्यान्यविषयत्वप्रसंगस्तथा च ‘यत्रान्यत्पश्यति’(छा. उ. ७ । २४ । १) इत्यादिश्रुतेरात्मनो मर्त्यत्वापत्तिर्न चेत्तदा विज्ञानं तदा पाषाणवदचेतनत्वं विज्ञप्तिरूपत्वानङ्गीकारादित्यर्थः । आत्मनोऽनित्यज्ञानवत्त्वे दोषान्तरमाह — आत्मनश्चेति । आनन्दज्ञाने ब्रह्मणि विषयविषयित्वायोगश्चेत्कथं विज्ञानादिवाक्यमित्याशङ्क्योपसंहरति — तस्मादिति । ब्रह्मण्यानन्दस्यावेद्यत्वे श्रुतिविरोधमुक्तं स्मारयति — जक्षदिति । सर्वत्राऽऽत्मनो मुक्तस्यैक्ये सति योग्यादिषु यथा जक्षणादि प्राप्तं तथैव तदनुवादित्वादस्याः श्रुतेर्न विरोधोऽस्तीति परिहरति — नेत्यादिना । तदेव प्रपञ्चयति — मुक्तस्येति । किमनुवादे फलमिति चेत्तदाह — तत्तस्येति । मुक्तस्य योग्यादिषु सर्वत्राऽऽत्मभावादेव तत्र प्राप्तं जक्षणाद्यत्र मुक्तिस्तुतयेऽनूद्यते तन्नानुवादवैयर्थ्यमित्यर्थः । विदुषस्सार्वात्म्येन योग्यादिषु प्राप्तजक्षणाद्यनुवादे स्यादतिप्रसक्तिरिति शङ्कते — यथाप्राप्तेति । अतिप्रसंगमेव प्रकटयति — योग्यादिष्विति । अविद्यात्मकनामरूपविरचितोपाधिद्वयसंबन्धनिबन्धनमिथ्याज्ञानाधीनत्वादात्मनि दुःखित्वादिप्रतीतेर्न तत्र वस्तुतो दुःखित्वं न च जक्षणाद्यपि वास्तवमाविद्यस्यैव मुक्तिस्तुतयेऽनुवादाद्दुःखित्वस्य हि नानुवादोऽतिहीनत्वप्राप्तेरिति परिहरति — नेत्यादिना । यत्तु विरुद्धश्रुतिदृष्टेर्नाऽऽगमार्थो निर्णीतो भवतीति तत्राऽऽह — विरुद्धेति । वेद्यत्वावेद्यत्वादिश्रुतीनां सोपाधिकनिरुपाधिकविषयत्वेन मधुकाण्डे व्यवस्थोक्तेत्यर्थः । ब्राह्मणार्थमुपसंहरति — तस्मादिति ।
ब्रह्मण्यानन्दस्य वेद्यताया दुर्निरूपत्वं तच्छब्दार्थः । यथैषोऽस्येत्यत्र भेदो न विवक्षितः सर्वात्मभावस्य प्रकृतत्वात्तथा विज्ञानादिवाक्येष्वानन्दस्य वेद्यता न विवक्षिता । उक्तरीत्या तद्वेद्यताया दुष्प्रतिपादत्वात्तस्मादनतिशयानन्दं चिदेकतानं वस्तु सिद्धमित्यर्थः ॥७॥२८॥ 【भाष्यम्】 【भाष्यम्】 पूर्वस्मिन्नध्याये जल्पन्यायेन सच्चिदानन्दं ब्रह्म निर्धारितम् । इदानीं वादन्यायेन तदेव निर्धारितुमध्यायान्तरमवतारयति — जनक इति । तत्र ब्राह्मणद्वयस्यावान्तरसंबन्धं प्रतिजानीते — अस्येति। तमेव वक्तुं वृत्तं कीर्तयति — शारीराद्यानिति। निरुह्य प्रत्युह्येति विस्तार्य व्यवहारमापाद्येत्यर्थः । प्रत्युह्य हृदये पुनरुपसंहृत्येति यावत् । जगदात्मनीत्यव्याकृतोक्तिः । सूत्रशब्देन तत्कारणं गृह्यते । अतिक्रमणं तद्गुणदोषासंस्पृष्टत्वम् । अनन्तरब्राह्मणद्वयतात्पर्यमाह — तस्यैवेति ।
वागाद्यधिष्ठात्रीष्वग्न्यादिदेवतासु ब्रह्मदृष्टिद्वारेत्यर्थः । पूर्वोक्तान्वयव्यतिरेकादिसाधनापेक्षयाऽन्तरशब्दः । आचार्यवता श्रद्धादिसंपन्नेन विद्या लब्धव्येत्याचारः । अप्राप्तप्राप्तिर्योगः प्राप्तस्य रक्षणं क्षेम इति विभागः । भारतस्य वर्षस्य हिमवत्सेतुपर्यन्तस्य देशस्येति यावत् ॥१॥ 【भाष्यम्】 【भाष्यम्】 यत्र राजानं प्रति प्रश्नमुत्थापयति — किन्त्विति । कश्चिदिति विशेषणस्य तात्पर्यमाह — अनेकेति। प्रामाण्यमाप्तत्वम् । यथोक्तार्थानुमोदने युक्तिमाह — न हीति । यथोक्तब्रह्मविद्यया कृतकृत्यत्वं मन्वानं राजानं प्रत्याह — किन्त्विति । आयतनप्रतिष्ठयोरेकत्वात्पुनरुक्तिमाशङ्क्य विभजते — आयतनं नामेति। एकपादत्वेऽपि ब्रह्मणस्तदुपासनादिष्टसिद्धिरिति चेन्नेत्याह — त्रिभिरिति । ब्रूहि प्रतिष्ठामायतनं चेति शेषः । प्रश्नेमेव विवृणोति — किं स्वयमेवेति । प्रज्ञानिमित्तं यस्या वाचः सा तथा । द्वितीयपक्षं विशदयति — यथेति । व्यतिरेकपक्षं निषेधति — नेति । आकाङ्क्षापूर्वकं पक्षान्तरं गृह्णाति — कथं तर्हीति । बलिदानमुपहारसमर्पणम् । आदिशब्देन स्रक्चन्दनवस्त्रालङ्कारादिग्रहः । विद्यानिष्क्रयार्थमुवाचेति संबन्धः । पितुरेतन्मतमस्तु तव किमायातं तदाह —
ममापीति ॥२॥ 【भाष्यम्】 【भाष्यम्】 यथा वागग्निर्देवता तद्वदित्याह — पूर्ववदिति ।
प्राण एवाऽऽयतनमित्यत्र प्राणशब्दः करणविषयः । पतितादिकमित्यादिपदमकुलीनग्रहार्थम् । उग्रो जातिविशेषः । आदिशब्देन म्लेच्छगणो गृह्यते ॥३॥ 【भाष्यम्】 【भाष्यम्】 चक्षुर्ब्रह्मणः सत्यत्वं साधयति — यस्मादिति । उक्तमेवोपपादयति -
यस्त्विति ॥४॥ 【भाष्यम्】 【भाष्यम्】 दिशामानन्त्येऽपि श्रोत्रस्य किमायातं तदाह —
दिशो वा इति ॥५॥ 【भाष्यम्】 【भाष्यम्】 तथऽपि कथमानन्दत्वं मनसः संभवति तत्राऽऽह —
स येनेति ॥६॥ 【भाष्यम्】 【भाष्यम्】 कथं हृदयस्य सर्वभूतायतनत्वं तत्प्रतिष्ठात्वं न तदाह — नामरूपेति । तस्मादिति शाकल्यन्यायपरामर्शः । भूतानां हृदयप्रतिष्ठत्वे फलितमाह —
तस्माद्धृदयमिति ॥७॥ 【भाष्यम्】 【भाष्यम्】 पूर्वस्मिन्ब्राह्मणे कानिचिदुपासनानि ज्ञानसाधनान्युक्तानि । इदानीं ब्रह्मणस्तैर्ज्ञेयस्य जागरादिद्वारा ज्ञानार्थं ब्राह्मणान्तरमवतारयति — जनको हेति । राज्ञो ज्ञानित्वाभिमाने शिष्यत्वविरोधिन्यपनीते मुनिं प्रति तस्य शिष्यत्वेनोपसतिं दर्शयति — यस्मादिति । नमस्कारोक्तेरुद्देश्यमुपन्यस्यति — अनु मेति । अभीष्टमनुशासनं कर्तुं प्राचीनज्ञानस्य फलाभासहेतुत्वोक्तिद्वारा परमफलहेतुरात्मज्ञानमेवेति विवक्षित्वा तत्र राज्ञो जिज्ञासामापादयति — स हेत्यादिना । यथोक्तगुणसंपन्नश्चेदहं तर्हि कृतार्थत्वान्न मे कर्तव्यमस्तीत्याशङ्क्याऽऽह — एवमिति । याज्ञवल्क्यो राज्ञो जिज्ञासामापाद्य पृच्छति — इत इति । परवस्तुविषये गतेरयोगात्प्रश्नविषयं विवक्षितं संक्षिपति — किं वस्त्विति । राज्ञा स्वकीयमज्ञत्वमुपेत्य शिष्यत्वे स्वीकृते प्रत्युक्तिमवतारयति — अथेति । तत्रापेक्षितमथशब्दसूचितं पूरयति — यद्येवमिति । आज्ञापनमनुचितमिति शङ्कां वारयति —
यदीति ॥१॥ 【भाष्यम्】 【भाष्यम्】 विश्वतैजसप्राज्ञानुवादेन तुरीयं ब्रह्म दर्शयितुमादौ विश्वमनुवदति — इन्ध इति । कोऽसाविन्धनामेति चेत्तमाह — यश्चक्षुरिति । अधिदैवतं पुरुषमुक्त्वाऽध्यात्मं तं दर्शयति — योऽयमिति । तस्य पूर्वस्मिन्नपि ब्राह्मणे प्रस्तुतत्वमाह — स चेति । प्रकृते पुरुषे विदुषां सम्मतिमाह — तं वा एतमिति । इन्धत्वं साधयति — दीप्तीति । प्रत्यक्षस्य परोक्षेणाऽऽख्याने हेतुमाह —
यस्मादिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 प्रसादाभिमुख्यमात्मनः सूचयति — शृण्विति । एकस्यैव वैश्वानरस्योपासनार्थं प्रासंगिकमिन्द्रश्चेन्द्राणी चेति मिथुनं कल्पयति — अथेत्यादिना । प्रासंगिकध्यानाधिकारार्थोऽथशब्दः । यादेतन्मिथुनं जागरिते विश्वशब्दितं तदेवैकं स्वप्ने तैजसशब्दवाच्यमित्याह — तदेतदिति । तच्छब्दितं तैजसमविकृत्य पृच्छति — कथमिति । किं तस्य स्थानं पृच्छ्यतेऽन्नं वा प्रावरणं वा मार्गो वेति विकल्प्याऽऽद्यं प्रत्याह — तयोरिति । संस्तवं संगतिमिति यावत् । द्वितीयं प्रत्याह — अथेति । अन्नातिरेकेण स्थितेरसंभवात्तस्य वक्तव्यत्वादित्यथशब्दार्थः । लोहितपिण्डं सूक्ष्मान्नरसं व्याख्यातुं भक्षितस्यान्नस्य तावद्विभागमाह — अन्नमिति। यदन्यत्पुनरिति योजनीयम् । तत्रेत्यध्याहृत्य यो मध्यम इत्यादिग्रन्थो योज्यः । उपाध्युपहितयोरेकत्वमाश्रित्याऽऽह — यं तैजसमिति । तस्यान्नत्वमुपपादयति — स तयोरिति । व्याख्यातेऽर्थे वाक्यस्यान्वितावयवत्वमाह — तदेतदिति । यदि प्रावरणं पृच्छ्यते तत्राऽऽह — किञ्चान्यदिति। भोगस्वापानन्तर्यमथशब्दार्थः । प्रावरणप्रदर्शनस्य प्रयोजनमाह — भुक्तवतोरिति । इहेति भोक्तृभोग्ययोरिन्द्रेन्द्राण्योरुक्तिः । हृदयजालकयोराधाराधेयत्वमविवक्षितं तस्यैव तद्भावात् । मार्गश्चेत्पृच्छ्यते तत्राऽऽह — अथेति । नाडीभिः शरीरं व्याप्तस्यान्नस्य प्रयोजनमाह — तदेतदिति । तस्मादित्यादिवाक्यमादाय व्याचष्टे — यस्मादिति । तथाऽपि प्रविविक्ताहार इत्येव वक्तव्ये प्रविविक्ताहारतर इति कस्मादुच्यते तत्राऽऽह — पिण्डेति । यस्मादित्यस्यापेक्षितं कथयति — अत इति । शारीरादिति श्रूयते कथं शरीरादित्युच्यते तत्राऽऽह — शरीरमेवेति। उक्तमर्थं संक्षिप्योपसंहरति —
आत्मन इति ॥३॥ 【भाष्यम्】 【भाष्यम्】 तस्य प्राची दिगित्याद्यवतारयितुं भूमिकां करोति — स एष इति । प्राणशब्देनाज्ञातः प्रत्यगात्मा प्राज्ञो गृह्यते । एवं भूमिकां कृत्वा वाक्यमादाय व्याकरोति — तस्येत्यादिना । तैजसं प्राप्तस्येत्यस्य व्याख्यानं हृदयात्मानमापन्नस्येति । उक्तमर्थं संक्षिप्याऽऽह — एवं विद्वानिति । विश्वस्य जागरिताभिमानिनस्तैजसे तस्य च स्वप्नाभिमानिनः सुषुप्त्यभिमानिनि प्राज्ञे क्रमेणान्तर्भावं जानन्नित्यर्थः । स एष नेति नेत्यात्मेत्यादेर्भूमिकां करोति — तं सर्वात्मानमिति । तत्र वाक्यमवतार्य पूर्वोक्तं व्याख्यानं स्मारयति — यमेष इति । तुरीयादपि प्राप्तव्यमन्यदभयमस्तीत्याशङ्क्याऽऽह — अभयमिति । गन्तव्यं वक्ष्यामीत्युपक्रम्यावस्थात्रयातीतं तुरीयमुपदिशन्नाम्रान्पृष्टः कोविदारानाचष्ट इति न्यायविषयतां नातिवर्तेतेत्याशङ्क्याऽऽह — तदेतदिति । विद्याया दक्षिणान्तराभावमभिप्रेत्याऽऽह — स होवाचेति । कथं पुनरन्यस्य स्थितस्य नष्टस्य वाऽन्यप्रापणमित्याशङ्क्याऽऽह — उपाधीति । पश्वादिकं दक्षिणान्तरं संभवतीत्याशङ्क्य तस्योक्तविद्यानुरूपत्वं नास्तीत्याह — किमन्यदिति । वस्तुतो दक्षिणान्तराभावमुक्त्वा प्रतीतिमाश्रित्याऽऽह — अत इति । अक्षरार्थमुक्त्वा वाक्यार्थमाह —
यथेष्टमिति ॥४॥ 【भाष्यम्】 【भाष्यम्】 पूर्वस्मिन्ब्राह्मणे जागरादिद्वारा तत्त्वं निर्धारितं संप्रति ब्राह्मणान्तरमवतार्य तस्य पूर्वेण संबन्धं प्रतिजानीते — जनकमिति । तमेव वक्तुं तृतीये वृत्तं कीर्तयति — विज्ञानमय इति । यद्ब्रह्म साक्षादपरोक्षात्सर्वान्तर आत्मा स पर एव विज्ञानमय आत्मेत्यत्र हेतुमाह — नान्य इति । विज्ञानमयः पर एवेत्यत्र वाक्यान्तरं पठति — स एष इति । वदन्वागित्यादावुक्तमनुवदति — वदनादीति । तार्तीयमर्थमनूद्य चातुर्थिकमर्थमनुवदति — अस्तीति । यदि मधुकाण्डे गार्ग्यकाश्यसंवादे प्राणादीनां कर्तृत्वादिनिराकरणेन तेभ्यो व्यतिरिक्तोऽस्ति विज्ञानात्मेति सोऽधिगतस्तर्हि किमिति पञ्चमे तत्सद्भावो व्युत्पाद्यते तत्राऽऽह — पुनरिति । यद्यपि विज्ञानमयसद्भावश्चतुर्थे स्थितस्तथाऽपि पुनरौषस्त्ये प्रश्ने यः प्राणेन प्राणितीत्यादिना प्राणनादिलिङ्गमुपन्यस्य तल्लिङ्गगम्यः सामान्येनाधिगतः स दृष्टेर्द्रष्टेत्यादिना कूटस्थदृष्टिस्वभावो विशेषतो निश्चितस्तथा च पञ्चमेऽपि तद्व्युत्पादनमुचितमित्यर्थः । आत्मा कूटस्थदृष्टिस्वभावश्चेत्कथं तस्य संसारस्तत्राऽऽह — तस्य चेति । अज्ञानं तत्कार्यं चान्तःकरणादि परोपाधिशब्दार्थः । संसारस्याऽऽत्मन्यौपाधिकत्वे दृष्टान्तमाह — यथेति। दार्ष्टान्तिकस्यानेकरूपत्वादनेकदृष्टान्तोपादानमित्यभिप्रेत्य दार्ष्टान्तिकमाह — तथेति। यथोक्तदृष्टान्तानुसारेणाऽऽत्मन्यपि परोपाधिः संसार इति यावत् । सोपाधिकस्याऽऽत्मनः संसारित्वमुक्त्वा निरुपाधिकस्य नित्यमुक्तत्वमाह — निरुपाधिक इति । निरुपाख्यत्वं वाचां मनसां चागोचरत्वम् । कथं तर्हि तत्राऽऽगमप्रामाण्यं तत्राऽऽह — नेति नेतीति व्यपदेश्य इति । कहोलप्रश्नोक्तमनुद्रवति — साक्षादिति। अक्षरब्राह्मणोक्तं स्मारयति — अक्षरमिति । अन्तर्यामिब्राह्मणोक्तं स्मारयति — अन्तर्यामीति। शाकल्यब्राह्मणोक्तमनुसन्दधाति — औपनिषद इति । पाञ्चमिकमर्थमित्थमनूद्यातीते ब्राह्मणद्वये वृत्तमनुभाषते — तदेवेति। यत्साक्षादपरोक्षात्सर्वान्तरं ब्रह्म तदेवाधिगमनोपायविशेषोपदर्शनपुरःसरं पुनरधिगतमिति संबन्धः । षडाचार्यब्राह्मणार्थं संक्षिप्य कूर्चब्राह्मणार्थं संक्षिपति — इन्ध इत्यादिना । इन्धस्य विशेषणं प्रविविक्ताहार इति । हृदयेऽन्तर्यो लिङ्गात्मा स ततो वैश्वानरादिन्धात्प्रविविक्ताहारतर इति योजना । विश्वतैजसावुक्तौ प्राज्ञतुरीये प्रदर्शयति — ततः परेणेति । ततस्तस्माद्विश्वात्तैजसाच्च परेणव्यवस्थितो यो जगदात्मा प्राणोपाधिरव्याकृताख्यः प्राज्ञस्ततोऽपि तमप्युपाधिभूतं जगदात्मानं केवले प्रतीचि विद्यया प्रविलाप्य स एष नेति नेतीति यत्तुरीयं ब्रह्म तदधिगतमिति संबन्धः । विद्ययोपाधिविलापने दृष्टान्तमाह — रज्ज्वादाविति । अभयं वै जनकेत्यादावुक्तमनुवदति — एवमिति । कूर्चब्राह्मणोक्तमर्थमनुभाषितं संक्षिप्याऽऽह — अत्र चेति । अन्यप्रसंगेनोपासनानां क्रममुक्तिफलत्वप्रदर्शनप्रसंगेनेति यावत् । तेषामुपन्यासमेवाभिनयति — इन्ध इत्यादिना । वृत्तमनूद्योत्तरब्राह्मणस्य तात्पर्यमाह — इदानीमिति । आदिशब्दः सुषुप्तितुरीयसंग्रहार्थः । तर्कस्य महत्त्वं चतुर्विधदोषराहित्येनाबाधितत्वम् । अधिगमस्तस्यैव प्रस्तुतस्य ब्राह्मण इति शेषः । कर्तव्य इतीदमिदानीमारभ्यत इति संबन्धः । किमिदं ब्रह्मणोऽधिगमस्य कर्तव्यत्वं नाम तदाह — अभयमिति । अधिगन्तव्यमर्थान्तरमाह — सद्भावश्चेति । प्रागपि सद्भावस्तस्याधिगतस्तत्किमर्थं पुनस्तादर्थ्येन प्रयत्यते तत्राऽह — विप्रतिपत्तीति । बाह्यानां विप्रतिपत्त्या नास्तित्वशङ्कायां तन्निरासद्वाराऽऽत्मनः सद्भावोऽधिगन्तव्य इत्यर्थः । आत्मनोऽस्तित्वेऽपि केचिद्देहादौ तदन्तर्भावमभ्युपयन्ति तान्प्रत्याह — व्यतिरिक्तत्वमिति । देहादिव्यतिरिक्तोऽप्यात्मा कर्ता भोक्ता चेत्येके भोक्तैव केवलमित्यपरे तान्प्रत्युक्तम् — शुद्धत्वमिति । तस्य जडत्वपक्षं प्रत्याचष्टे — स्वयञ्ज्योतिष्ट्वमिति। तत्र कूटस्थदृष्टिस्वभावत्वं हेतुमाह — अलुप्तेति । एतेन विज्ञानस्य गुणत्वपक्षोऽपि प्रत्युक्तो वेदितव्यः । ये त्वानन्दमात्मगुणमाहुस्तान्प्रत्याह — निरतिशयेति । आत्मनः सप्रपञ्चत्वपक्षं प्रत्यादिशति — अद्वैतत्वं चेति । ब्राह्मणतात्पर्यमभिधायाऽऽख्यायिकातात्पर्यमाह — आख्यायिका त्विति । विद्यायाः संप्रदानं शिष्यस्तस्य ग्रहणविधिः श्रद्धादिप्रकारस्तस्य प्रकाशनार्थेयमाख्यायिकेति यावत् । प्रयोजनान्तरं तस्या दर्शयति — विद्येति । कथं कर्मभ्यो विशेषतो विद्यायाः स्तुतिरत्र लक्ष्यते तत्राऽऽह — वरेति । कामप्रश्नाख्यस्य वरस्य याज्ञवल्क्येन राज्ञे दत्तत्वात्तेन चावसरे ब्रह्मज्ञानस्यैव पृष्टत्वादनेन विधिना विद्यास्तुतेः सूचनात्साऽप्यत्र विविक्षितेत्यर्थः । तात्पर्यमेवमुक्त्वा व्याख्यामक्षराणामारभते — जनकमित्यादिना । संवादं न करोमीति व्रतं चेत्किमिति गच्छतीत्याशङ्कते — गमनेति । उत्तरमाह — योगेति । अथ हेत्याद्यवतारयति — नेत्यादिना । अत्रोत्तरत्वेनेति शेषः । पूर्वत्रेति कर्मकाण्डोक्तिः । नन्वग्निहोत्रप्रकरणे कामप्रश्नो वरो दत्तश्चेत्किमिति तत्रैवाऽऽत्मयाथात्म्यप्रश्नप्रतिवचने नासूचिषातां तत्राऽऽह — तत्रैवेति । कर्मनिरपेक्षाया ब्रह्मविद्याया मोक्षहेतुत्वादपि कर्मप्रकरणे तदनुक्तिरित्याह — विद्यायाश्चेति । सर्वापेक्षाधिकरणन्यायान्न तस्याः स्वातन्त्र्यमित्याशङ्क्याऽऽह — स्वतन्त्रा हीति । सा हि स्वोत्पत्तौ स्वफले वा कर्माण्यपेक्षते । नाऽऽद्योऽभ्युपगमात् । न द्वितीयः । अत एव चाग्नीन्धनाद्यनपेक्षेति न्यायाविरोधादित्यभिप्रेयाऽऽह — सहकारीति।
इत्यस्माच्च हेतोस्तत्रैवानुक्तिरिति संबन्धः ॥१॥ 【भाष्यम्】 【भाष्यम्】 याज्ञवल्क्यव्रतभाङ्गे हेतुमुक्त्वा जनकस्य प्रश्नमुत्थापयति — हे याज्ञवल्क्येति । अक्षरार्थमुक्त्वा प्रश्नवाक्ये विवक्षितमर्थमाह — किमयमित्यादिना। स्वशब्दो यथोक्तपुरुषविषयः । ज्योतिष्कार्यमित्यासनादिव्यवहारोक्तिः । इत्येतदिति कल्पद्वयं परामृश्यते । फलं पक्षद्वयेऽपि पृच्छति — किञ्चेति। सप्तम्यर्थे तसिः । उत्तरमाह — शृण्विति । तत्रेति पक्षद्वयोक्तिः । कारणं फलमिति यावत् । प्रथमपक्षमनूद्य स्वपक्षसिद्धिफलमाह — यदीत्यादिना । षष्टी पुरुषमधिकरोति । यत्र कारणभूतं ज्योतिर्न दृश्यते तत्कार्यं त्वासनाद्युपलभ्यते तत्रापि विषये स्वप्नादाविति यावत् । अनुमानमेवाभिनयति — व्यतिरिक्तेति । विमतमतिरिक्तज्योतिरधीनं व्यवहारत्वात्संमतवदित्यर्थः । पक्षान्तरमनूद्य लोकायतपक्षसिद्धिफलमाह — अथेत्यादिना । अप्रत्यक्षेऽपीत्यव्यतिरिक्तमिति च्छेदः । कल्पान्तरमाह — अथेति । अनियमं व्याकरोति — व्यतिरिक्तमिति । तस्मिन्पक्षे व्यवहारहेतौ ज्योतिष्यनिश्चयात्तद्विकारो व्यवहारोऽपि न स्थैर्यमालम्बेतेत्याह — तत इति । व्याख्यातं प्रश्नमुपसंहरति — इत्येवमिति । प्रश्नमाक्षिपति — नन्विति । व्यतिरिक्तज्योतिर्बुभुत्सया प्रश्नो भविष्यतीति चेत्तत्राऽऽह — स्वयमेवेति । राज्ञोऽनुमानकौशलमङ्गीकरोति — सत्यमिति । किमिति तर्हि पृच्छतीत्याशङ्क्याऽऽह — तथाऽपीति । व्याप्यव्यापकयोस्तत्संबन्धस्य चातिसूक्ष्मत्वादेकेन दुर्ज्ञानत्वात्तज्ज्ञाने याज्ञवल्क्योऽप्यपेक्षित इत्यर्थः । कथं तेषाम् अतिसूक्ष्मत्वं तत्राऽऽह — बहूनामपीति । लिङ्गादिष्वनेकेषामपि विवेकिनां दुर्बोधताऽस्ति किमुत्यैकस्य तेषु दुर्बोधता वाच्येत्यर्थः । तेषामत्यन्तसौक्ष्म्ये मानवीं स्मृतिं प्रमाणयति — अत एवेति । कुशलस्यापि सूक्ष्मार्थनिर्णये पुरुषान्तरापेक्षायाः सत्त्वादेवेति यावत् । पुरुषविशेषो वेदविदध्यात्मविदित्यादिः । तत्र स्मृत्यर्थं संक्षिपति — दशेति । उक्तं हि – ’धर्मेणाविगतो यैस्तु वेदः सपरिबृंहणः । ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥ दशावरा वा परिषद्यं धर्म परिचक्षते । त्र्यवरा वाऽपि वृत्तस्थास्तं धर्म न विचारयेत् ॥ त्रैविद्यो हैतुकस्तर्की नैरुक्तो धर्मपाठकः । त्रयश्चाऽऽश्रमिणः पूर्वे पर्षदेषा दशावरा ॥ ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च । त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये’ इति ॥ एको वेत्यध्यात्मविदुच्यते । कुशलस्यापि राज्ञो याज्ञवल्क्यं प्रति प्रश्नोपपत्तिमुपसंहरति — तस्मादिति । सूक्ष्मार्थनिर्णये पुरुषान्तरापेक्षाया वृद्धसंमतत्वादिति यावत् । तत्रैव हेत्वन्तरमाह — विज्ञानेति । राज्ञो याज्ञवल्क्यापेक्षामुपपाद्य पक्षान्तरमाह — अथ वेति । तथा चात्र राज्ञो मुनेर्वा विवक्षितत्वाभावात्किमिति राजा मुनिमनुसरतीति चोद्यं निरवकाशमिति शेषः । प्रश्नोपपत्तौ प्रतिवचनमुपपन्नमेवेति मन्वानस्तदुत्थापयति — याज्ञवल्क्योऽपीति । अतिरिक्ते ज्योतिषि प्रष्टू राज्ञोऽभिप्रायस्तदभिप्रायस्तदभिज्ञतया तथाविधं ज्योती राजानं बोधयिष्यन्यथाऽतिरिक्तज्योतिरावेदेकं वक्ष्यमाणं लिङ्गं गृहीतव्याप्तिकं प्रसिद्धं भवति तथा तद्व्याप्तिग्रहणस्थलमादित्यज्योतिरित्यादिना मुनिरपि प्रतिपन्नवानित्यर्थः । व्याप्तिं बुभुत्समानः पृच्छति — कथमिति । यो व्यवहारः सोऽतिरिक्तज्योतिरधीनो यथा सवित्रधीनो जाग्रद्व्यवहार इति व्याप्तिं व्याकरोति — आदित्येनेति । एवकारं व्याचष्टे — स्वावयवेति। आदित्यापेक्षामन्तरेण चक्षुर्वशादेवायं व्यवहारः सेत्स्यतीत्याशङ्क्याऽऽह — चक्षुष इति । आसनाद्यन्यतमव्यापारव्यपदेशो व्याप्तिसिद्धेर्वृथा विशेषणबहुत्वमित्याशङ्क्याऽऽह — अत्यन्तेति । आसनादीनामेकैकव्यभिचारे देहस्यान्यथाभावेऽपि नानुग्राहकं ज्योतिरन्यथा भवति । अतस्तदनुग्राह्यादत्यन्तविलक्षणमिति विवक्षित्वा व्यापारचतुष्टयमुपदिष्टमित्यर्थः । तथाऽपि किमर्थमादित्याद्यनेकपर्यायोपादानमेकेनैव व्याप्तिग्रहसंभवादित्याशङ्क्याऽऽह — बाह्येति ।
देहेन्द्रियमनोव्यापाररूपं कर्म लिङ्गं तस्य व्यतिरिक्तज्योतिरव्यभिचारसाधनार्थमनेकपर्यायोपन्यासो बहवो हि दृष्टान्ता व्याप्तिं द्रढयन्तीत्यर्थः ॥२॥३॥४॥ 【भाष्यम्】 【भाष्यम्】 इन्द्रियं व्यावर्तयति — वागितीति । शब्दस्य ज्योतिष्ट्वं स्पष्टयितुं पातनिकां करोति — शब्देनेति । तद्दीपनकार्यमाह — श्रोत्रेति । मनसि विषयाकारपरिणामे सति किं स्यात्तदाह — तेनेति । तत्र प्रमाणमाह — मनसा हीति । एवं पातनिकां कृत्वा वाचो ज्योतिष्ट्वसाधनार्थं पृच्छति — कथमिति । का पुनरत्रानुपपत्तिस्तत्राऽऽह — वाच इति । तत्रान्तरवाक्यमुत्तरत्वेनोत्थाप्य व्याकरोति — अत आहेत्यादिना । प्रसिद्धमेवाऽऽकाङ्क्षापूर्वकं स्फुटयति — कथमित्यादिना । उपैवेत्यादि व्याचष्टे — तेन शब्देनेति । ज्योतिष्कार्यत्वं तज्जन्यव्यवहाररूपकार्यवत्त्वमिति यावत् । तत्र वाग्ज्योतिष इत्यत्र चतुर्थपर्यायः सप्तम्यर्थः । किमिति गन्धादयः शब्देनोपलक्ष्यन्ते तत्राऽऽह — गन्धादिभिरिति । प्रश्नान्तरमुत्थापयति — एवमेवेति ।
तथाऽपि स्वप्नादौ तस्य प्रवृत्तिदर्शनात्तत्कारणीभूतं ज्योतिर्वक्तव्यमिति शेषः ॥५॥ 【भाष्यम्】 【भाष्यम्】 कथं पुनरत्र पृच्छ्यते ज्योतिरन्तरमित्याशङ्क्य प्रष्टुरभिप्रायमाह — एतदुक्तं भवतीति । यो व्यवहारः सोऽतिरिक्तज्योतिर्निमित्तो यथाऽऽदित्यादिनिमित्तो जाग्रद्व्यवहार इति व्याप्तिमुक्तां निगमयति — एवं तावदिति । व्याप्तिज्ञानकार्यमनुमानमाह — तस्मादिति । तादृगवस्थायां सर्वज्योतिःप्रत्यस्तमयदशायामिति यावत् । विमतो व्यवहारोऽतिरिक्तज्योतिरधीनो व्यवहारत्वात्संप्रतिपन्नवदित्यधस्तादेवानुमानमावेदितमिति भावः । हेतोराश्रयासिद्धिमाशङ्क्य परिहरति — दृश्यते चेति। आदिशब्देन देशान्तरादौ कर्मकरणं गृह्यते । आश्रयैकदेशासिद्धिमाशङ्क्याऽऽह — सुषुप्ताच्चेति। ध्यानदशायामिष्टदेवतादर्शनं चकारार्थः । अनुमानफलं निगमयति — तस्मादिति । यथोक्तानुमानाज्ज्योतिः सिद्धं चेत्किं प्रश्नेनेत्याशङ्क्याऽऽह — किं पुनरिति । सर्वज्योतिरुपशमे दृश्यमानस्य व्यवहारस्य कारणतयाऽनुमानतो ज्योतिर्मात्रसिद्धावपि तद्विशेषबुभुत्सायां प्रश्नोपपत्तिरित्यर्थः । प्रतिवचनमवतार्य व्याकरोति — उच्यत इत्यादिना । अवभासकत्वे दृष्टान्तमाह — आदित्यादिति । तत्र व्यतिरिक्तत्वं साधयति — कार्येति । अनुग्राहकत्वादादित्यादिवदिति शेषः । तच्चान्तःस्थं पारिशेष्यादित्युक्तमुपपादयति — यच्चेति । उपरतेष्वात्मज्योतिरिति शेषः । तदेव तर्हि मा भूदिति चेन्नेत्याह — कार्यं त्विति। स्वप्नादौ दृश्यमानं व्यवहारं हेतूकृत्य फलितमाह — यस्मादित्यादिना । विमतमन्तःस्थमतीन्द्रियत्वादादित्यवदिति व्यतिरेकीत्यर्थः । व्यतिरेकान्तरमाह — किञ्चेति । संप्रति लोकायतश्चोदयति — नेत्यादिना । तत्र नञर्थं व्याचष्टे — यदिति । उक्तं हेतुं प्रश्नपूर्वकं विभजते — कस्मादित्यादिना। यद्यपि देहादेरुपकार्यादुपकारकमादित्यादिसजातीयं दृष्टं तथाऽपि नाऽऽत्मज्योतिरुपकार्यसजातीयमनुमेयमित्याशङ्क्याऽऽह — यथादृष्टं चेति । तदेव स्पष्टयति — यदि नामेति । विमतमन्तःस्थमतिरिक्तं चातीन्द्रियत्वादादित्यवदिति परोक्तं व्यतिरेक्यनुमानमनूद्य दूषयति — यत्पुनरित्यादिना। अनैकान्तिकत्वं व्यनक्ति — यत इति । अन्तःस्थान्यव्यतिरिक्तानि च संघातादिति द्रष्टव्यम् । व्यभिचारफलमाह — तस्मादिति । विलक्षणमन्तःस्थं चेति मन्तव्यम् । किञ्च चैतन्यं शरीरधर्मस्तद्भावभावित्वाद्रूपादिवदित्याह — कार्यकरणेति । विमतं संघाताद्भिन्नं तद्भासकत्वादादित्यवदित्यवदित्यनुमानान्न संघातधर्मत्वं चैतन्यस्येत्याशङ्क्याऽऽह — सामान्यतो दृष्टस्येति। लोकायतस्थं हि देहावभासकमपि चक्षुस्ततो न भिद्यते तथा च व्यभिचारान्न त्वदनुमानप्रामाण्यमित्यर्थः । मनुष्योऽहं जानामीति प्रत्यक्षविरोधाच्च त्वदनुमानममानमित्याह — सामान्यतो दृष्टेति । ननु तेन प्रत्यक्षमुत्सार्यतामिति चेन्नेत्याह — न चेति । इतश्च देहस्यैव चैतन्यमित्याह — अयमेवेति । ज्योतिषो देहव्यतिरेकमङ्गीकृत्यापि दूषयति — यदि नामेति । विमतं ज्योतिरनात्मा देहोपकारकत्वादादित्यवदित्यर्थः । आत्मत्वं तर्हि कस्येत्याशङ्क्याऽऽह — य एव त्विति । अनुमानादात्मनो देहव्यतिरिक्तत्वमुक्तमित्याशङ्क्याऽऽह — प्रत्यक्षेति । नान्य आत्मेति पूर्वेण संबन्धः । देहस्याऽऽत्मत्वे कादाचित्कं द्रष्टृत्वश्रोतृत्वाद्ययुक्तमिति शङ्कते — नन्विति । स्वभाववादी परिहरति — नैष दोष इति। कादाचित्के दर्शनादर्शने संभवतो देहस्वाभाव्यादित्यत्र दृष्टान्तमाह — न हीति । विमतं कारणान्तरपूर्वकं कादाचित्कत्वाद्घटवदित्यनुमानं दृष्टान्ते भविष्यतीत्याशङ्क्याग्निरुष्ण इतिवदुष्णमुदकमित्यपि द्रव्यत्वादिनाऽनुमीयेतेत्यतिप्रसंगमाह — अनुमेयत्वे चेति । ननु यद्भवति तत्सनिमित्तमेव न स्वभावाद्भवेत्किञ्चिदस्माकं प्रसिद्धं तत्राऽऽह — न चेति । अग्नेरौष्ण्यमुदकस्य शैत्यमित्याद्यपि न निर्निमित्तं किन्तु प्राण्यदृष्टापेक्षमिति शङ्कते — प्राणीति । आदिशब्देनेश्वरादि गृह्यते । गूढाभिसन्धिः स्वभाववाद्याह — धर्मेति । प्रसंगस्येष्टत्वं शङ्कित्वा स्वाभिप्रायमाह — अस्त्वित्यादिना । सिद्धान्ती स्वप्नादिसिद्ध्यनुपपत्त्या देहातिरिक्तमात्मानमभ्युपगमयन्नुत्तरमाह — नेत्यादिना । तत्र नञर्थं विभजते — यदुक्तमिति । स्वप्ने दृष्टस्यैव दर्शनादिति हेतुभागं व्यतिरेकद्वारा विवृणोति — यदि हीति । जाग्रद्देहस्य द्रष्टुः स्वप्ने नष्टत्वादतीन्द्रियस्य च संस्कारस्य चानिष्टत्वादन्यदृष्टे चान्यस्य स्वप्नायोगान्न स्वप्ने दृष्टस्यैव दर्शनं देहात्मवादे संभवतीत्यर्थः । मा भूद्दृष्टस्यैव स्वप्ने दृष्टिरन्धस्यापि स्वप्नदृष्टेरित्याशङ्क्याऽऽह — अन्ध इति। अपिशब्दोऽध्याहर्तव्यः । पूर्वदृष्टस्यैव स्वप्ने दृष्टत्वेऽपि कुतो देहव्यतिरिक्तो द्रष्टा सिध्यतीत्याशङ्क्याऽऽह — ततश्चेति । अथोभयत्र देहस्यैव द्रष्टृत्वे का हानिरिति चेदत आह — देहश्चेदिति। तत्र सहकारिचक्षुरभावाच्चक्षुरन्तरस्य चोत्पत्तौ देहान्तरस्यापि समुत्पत्तिसंभवादन्यदृष्टेऽन्यस्य न स्वप्नः स्यादित्यर्थः । मा भूत्पूर्वदृष्टे स्वप्नो हेत्वभावादित्याशङ्क्याऽऽह — अस्ति चेति। कथं ते जात्यन्धानामीदृग्दर्शनमिति चेज्जन्मान्तरानुभववशादिति ब्रूमः । अन्धस्य देहस्याद्रष्टृत्वेऽपि चक्षुष्मतस्तस्य स्यादेव द्रष्टृत्वमित्याशङ्क्याऽऽह — तस्मादिति । स्वप्ने दृष्टस्यैव दर्शनादिति हेतुं व्याख्याय स्मृतौ दृष्टस्यैव दर्शनादिति हेतुं व्याचष्टे — तथेति । द्रष्टृस्मर्त्रोरेकत्वेऽपि कुतो देहातिरिक्तो द्रष्ट्रेत्याशङ्क्याऽऽह — यदा चेति । देहातिरिक्तस्य स्मर्तृत्वेऽपि कुतो द्रष्टृत्वमित्याशङ्क्याऽऽह — तस्मादिति । द्रष्टृस्मर्त्रोरेकत्वस्योक्तत्वाद्देहातिरिक्तः स्मर्ता चेद्द्रष्टाऽपि तथा सिध्यतीति भावः । देहस्याद्रष्टृत्वे हेत्वन्तरमाह — मृते चेति । न तस्य द्रष्टृतेति शेषः । तदेवोपपादयति — देहस्यैवेति । देहव्यतिरिक्तमात्मानमुपपादितमुपसंहरति — तस्मादिति । चैतन्यं यत्तदोरर्थः । मा भूद्देहस्याऽऽत्मत्वमिन्द्रियाणां तु स्यादिति शङ्कते — चक्षुरादीनीति । अन्यदृष्टस्येतरेणाप्रत्यभिज्ञानादिति न्यायेन परिहरति — नेत्यादिना । आत्मप्रतिपत्तिहेतूनां मनसि संभवादिति न्यायेन शङ्कते — मन इति । ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रमिति न्यायेन परिहरति — न मनसोऽपीति । देहादेरनात्मत्वे फलितमाह — तस्मादिति । आत्मज्योतिः संघातादिति शेषः । परोक्तमनुवदति — यदुक्तमिति । अनुग्राह्यासजातीयमनुग्राहकमित्यत्र हेतुमाह — आदित्यादिभिरिति। उपकार्योपकारकत्वसाजात्यनियमं दूषयति — तदसदिति । अनियमदर्शनमाकाङ्क्षापूर्वकमुदाहरति — कथं पार्थिवैरिति । उलपं बालतृणम् । पार्थिवस्याग्निं प्रत्युपकारकत्वनियमं वारयति — न चेति । तावता पार्थिवेनाग्नेरुपक्रियमाणत्वदर्शनेनेति यावत् । तत्समानजातीयैरिति तच्छब्दः पार्थिवत्वविषयः । तत्र हेतुमाह — येनेति । दर्शनफलं निगमयति — तस्मादिति। उपकार्योपकारकभावे साजात्यानियमवदपकार्यापकारकभावेऽपि वैजात्यनियमो नास्तीत्यर्थः । तत्रोपकार्योपकारकत्वे साजात्यनियमाभावमुदाहरणान्तरेण दर्शयति — कदाचिदिति । अम्भसाऽग्निना वाऽग्नेरुपशान्त्युपलम्भादपकार्याकारकत्वे वैजात्यनियमोऽपि नास्तीति मत्वोपसंहरति — तस्मादिति। उक्तानियमदर्शनं तच्छब्दार्थः । अहेतुरात्मज्योतिषः संघातेन समानजातीयतामिति शेषः । अनुग्राहकमनुग्राह्यसजातीयमनुग्राहकत्वादादित्यवदित्यपास्तम् । संप्रत्यतीन्द्रियत्वहेतोरनैकान्त्यं परोक्तमनुभाष्य दूषयति — यत्पुनरित्यादिना । विमतं ज्योतिः संघातधर्मस्तद्भावभावित्वाद्रूपादिवदित्युक्तमनूद्य निराकरोति — कार्येति । अनुमानविरोधमेव साधयति — आदित्यादिति । कालात्ययापदेशमुक्त्वा हेत्वसिद्धिं दोषान्तरमाह — तद्भावेति । अदर्शनादिति च्छेदः । यत्पुनर्विशेषेऽनुगमाभावः सामान्ये सिद्धसाध्यतेत्यनुमानदूषणमभिप्रेत्य सामान्यतो दृष्टस्य चेत्याद्युक्तं तद्दूषयति — सामान्यतो दृष्टस्येति । विशेषतोऽदृष्टस्येत्यपि द्रष्टव्यम् । किमित्यनुमानाप्रामाण्ये सर्वव्यवहारहानिरित्याशङ्क्याऽऽह — पानेति । तत्सामान्यात्पानत्वभोजनत्वादिसादृश्यादिति यावत् । पानभोजनाद्युपादानं दृश्यमानमित्युक्तं विशदयति — दृश्यन्ते हीति । तादर्थ्येन क्षुत्पिपासादिनिवृत्युपायभोजनपानाद्यर्थत्वेनेति यावत् । देहस्यैव द्रष्टृत्वमित्युक्तमनूद्य पूर्वोक्तं परिहारं स्मारयति — यदुक्तमित्यादिना । ज्योतिरन्तरमादित्यादिवदनात्मेत्युक्तं प्रत्याह — अनेनेति । संघातादेर्द्रष्टृत्वनिराकरणेनेति यावत् । देहस्य कादाचित्कं दर्शनादिमत्त्वं स्वाभाविकमित्यत्र परोक्तं दृष्टान्तमनुभाष्य निराचष्टे — यत्पुनरित्यादिना । सिद्धान्तिनाऽपि स्वभाववादस्य क्वचिदेष्टव्यत्वमुपदिष्टमनूद्य दूषयति — यत्पुनरिति । धर्मादेर्यदि हेत्वन्तराधीनं फलदातृत्वं तदा हेत्वन्तरस्यापि हेत्वन्तराधीनं फलदातृत्वमित्यनवस्थेत्युक्तं प्रत्याह — एतेनेति। सिद्धान्तविरोधप्रसंजनेनेति यावत् । लोकायतमतासंभवे स्वपक्षमुपसंहरति —
तस्मादिति ॥६॥ 【भाष्यम्】 【भाष्यम्】 नन्वात्मज्योतिः संघाताद्व्यतिरिक्तमन्तःस्थं चेति साधितं तथा च कथं कतम आत्मेति पृच्छ्यते तत्राऽऽह — यद्यपीति । अनुग्राह्येण देहादिना समानजातीयस्याऽऽदित्यादेरनुग्राहकत्वदर्शनान्निमित्तादनुग्राहकत्वाविशेषादात्मज्योतिरपि समानजातीयं देहादिनेति भ्रान्तिर्भवति तयेति यावत् । अविवेकिनो निष्कृष्टदृष्ट्यभावादित्यर्थः । व्यतिरेकसाधकस्य न्यायस्य दर्शितत्वात्कुतो भ्रान्तिरित्याशङ्क्याऽऽह — न्यायेति । भान्तिनिमित्ताविवेककृतं प्रश्नमुक्त्वा प्रकारान्तरेण प्रश्नमुत्थापयति — अथवेति । प्रश्नाक्षराणि व्याचष्टे — कतमोऽसाविति । ननु ज्योतिर्निमित्तो व्यवहारो मयोक्तो न त्वात्मेत्याशङ्क्याऽऽह — येनेति । आत्मनैवायं ज्योतिषेत्युक्तत्वादासनादिनिमित्तं ज्योतिरात्मेत्यर्थः । प्रकारान्तरेण प्रश्नं व्याकरोति — अथवेति । सप्तम्यर्थं कथयति — सर्व इति । योऽयं त्वयाऽभिप्रेतो विज्ञानमयः स प्राणेषु मध्ये कतमः स्यात्तेऽपि हि विज्ञानमया इव भान्तीति योजना । उक्तमर्थं दृष्टान्तेन बुद्धावारोपयति — यथेति । व्याख्यानयोरवान्तरविभागमाह — पूर्वस्मिन्नित्यादिना । हृदीत्यादि प्रतिवचनमिति शेषः । पक्षान्तरमाह — अथवेति । सर्वस्य प्रश्नत्वे वाक्यं योजयति — विज्ञानेति । स समानः सन्नित्यादिना प्रतिवचनमिति शेषः । द्वितीयतृतीयपक्षयोररुचिं सूचयन्नाद्यं पक्षमङ्गीकरोति — योऽयमिति । यस्त्वया पृष्टः सोऽयमित्यात्मनश्चिद्रूपत्वेन प्रत्यक्षत्वादयमिति निर्देश इति पदद्वयस्यार्थः । देहव्यवच्छेदार्थं विशिनष्टि — विज्ञानमय इति । विज्ञानशब्दार्थमाचक्षाणस्तत्प्रायत्वं प्रकटयति — बुद्धीति । बुद्धिरेव विज्ञानं विज्ञायतेऽनेनेति व्युत्पत्तेस्तेनोपाधिना संपर्क एवाविवेकस्तस्मादिति यावत् । तत्संपर्के प्रमाणमाह — बुद्धिविज्ञानेति। तस्माद्विज्ञानमय इति शेषः । ननु चक्षुर्मयः श्रोत्रमय इत्यादि हित्वा विज्ञानमय इत्येवं कस्मादुपदिश्यते तत्राऽऽह — बुद्धिर्हीति । तस्याः साधारणकरणत्वे प्रमाणामाह — मनसा हीति । मनसः सर्वार्थत्वं समर्थयते — बुद्धीति । किमर्थानि तर्हि चक्षुरादीनि करणानीत्याशङ्क्याऽऽह — द्वारमात्राणीति। बुद्धेः सति प्राधान्ये फलितमाह — तस्मादिति । विज्ञानं परं ब्रह्म तत्प्रकृतिको जीवो विज्ञानमय इति भर्तृप्रपञ्चैरुक्तमनुवदति — येषामिति । विज्ञानमयादिग्रन्थे मयटो न विकारार्थतेति तैरेवोच्यते तत्र मनःसमभिव्याहाराद्विज्ञानं बुद्धिर्न चाऽऽत्मा तद्विकारस्तस्मादस्मिन्प्रयोगे मयटो विकारार्थत्वं वदतां स्वोक्तिविरोधः स्यादिति दूषयति — तेषामिति । कथं विज्ञानमयपदार्थनिर्णयार्थं प्रयोगान्तरमनुश्रीयते तत्राऽऽह — सन्दिग्धश्चेति । यथा पुरोडाशं चतुर्धा कृत्वा बर्हिषदं करोतीति पुरोडाशमात्रचतुर्धाकरणवाक्यमेकार्थसंबन्धिना शाकान्तरीयेणाऽऽग्नेयं चतुर्धा करोतीत्यनेन विशेषविषयतया निश्चितार्थेनाऽऽग्नेय एव पुरोडाशे व्यवस्थाप्यते यथा चाक्ताः शर्करा उपदधातीत्यत्र केनाक्ततेत्यपेक्षायां तेजो वै घृतमिति वाक्यशेषान्निर्णयस्तथेहापीत्यर्थः । आत्मविकारत्वे मोक्षानुपपत्त्या ह्यबाधितन्यायाद्वा विज्ञानमयपदार्थनिश्चय इत्याह — निश्चितेति । यदुक्तं निर्णयो वाक्यशेषादिति तदेव व्यनक्ति — सधीरिति चेति । आधाराद्यर्था सप्तमी दृष्टा सा कथं व्यतिरेकप्रदर्शनार्थेत्याशङ्क्याऽऽह — यथेति। भवत्वत्रापि सामीप्यलक्षणा सप्तमी तथाऽपि कथं व्यतिरेकप्रदर्शनमित्याशङ्क्याऽऽह — प्राणेषु इति । फलितं सप्तम्यर्थमभिनयति — प्राणेष्विति । तेषु समीपस्थोऽपि कथं तेभ्यो व्यतिरिच्यते तत्राऽऽह — यो हीति । विशेषणान्तरमादाय व्यावर्त्यां शङ्कामुक्त्वा पुनरवतार्य व्याकरोति — हृदीत्यादिना। विशेषणान्तरस्य तात्पर्यमाह — अन्तरितीति । ज्योतिःशब्दार्थमाह — ज्योतिरिति। तस्य ज्योतिष्ट्वं स्पष्टयति — तेनेति । आत्मज्योतिषा व्याप्तस्य कार्यकरणसंघातस्य व्यवहारक्षमत्वे दृष्टान्तमाह — यथेति । चेतनावानिवेत्युक्तं दृष्टान्तेनोपपादयति — यथा वेति । हृदयं बुद्धिस्ततोऽपि सूक्ष्मत्वादात्मज्योतिस्तदन्तःस्थमपि हृदयादिकं संघातं च सर्वमेकीकृत्य स्वच्छायं करोतीति कृत्वा यथोक्तमणिसादृश्यमुचितमिति दार्ष्टान्तिके योजना । कथमिदमात्मज्योतिः सर्वमात्मच्छायं करोति तत्राऽऽह — पारम्पर्येणेति। विषयादिषु प्रत्यगात्मान्तेषूत्तरोत्तरं सूक्ष्मतातारतम्यात्तेष्वेवाऽऽत्मादिविषयान्तेषु स्थूलतातारतम्याच्च प्रतीचः सर्वस्मादन्तरतमत्वात्तत्र तत्र स्वाकारहेतुत्वमस्तीत्यर्थः । बुद्धेरात्मच्छायत्वं समर्थयते — बुद्धिस्तावदिति । लौकिकपरीक्षकाणां बुद्धावात्माभिमानभ्रान्तिमुक्तेऽर्थे प्रमाणयति — तेन हीति । बुद्धेः पश्चान्मनस्यपि चिच्छायतेत्यत्र हेतुमाह — बुद्धीति । आत्मनः सर्वावभासकत्वमुक्तमुपसंहरति — एवमिति । आत्मनः सर्वावभासकत्वे किमिति कस्यचित्क्वचिदेवाऽऽत्मधीरित्याशङ्क्याऽऽह — तेन हीति । बुद्ध्यादेरुक्तक्रमेणाऽऽत्मच्छायत्वं तच्छब्दार्थः । आत्मज्योतिषः सर्वावभासकत्वे लोकप्रसिद्धिरेव न प्रमाणं किन्तु भगवद्वाक्यमपीत्याह — तथा चेति । नाशिनामयमनाशी चेतनाश्चेतयितारो ब्रह्मादयस्तेषामयमेव चेतनो यथोदकादीनामनग्नीनामग्निनिमित्तं दाहकत्वं तथाऽऽत्मचैतन्यनिमित्तमेव चेतयितृत्वमन्येषामित्याह — नित्य इति । अनुगमनवदनुभानं स्वगतया भासा स्यादिति शङ्कां प्रत्याह — तस्येति । येनेति । तत्र नावेदविन्मनुते तं बृहन्तमित्युत्तरत्र संबन्धः । ज्योतिःशब्दव्याख्यानमुपसंहरति — तेनेति । हृद्यन्तःस्थितोऽयमात्मा सर्वावभासकत्वेन ज्योतिर्भवतीति योजना । पदान्तरमादाय व्याचष्टे — पुरुष इति। आदित्यादिज्योतिषः सकाशादात्मज्योतिषि विशेषमाह — निरतिशयं चेति । प्रतिवचनवाक्यार्थमुपसंहरति — स एष इति । स समानः सन्नित्याद्यवतारयितुं वृत्तं कीर्तयति — बाह्यानामिति। तर्हि बाह्यज्योतिःसद्भावावस्थायामकिञ्चिकरमात्मज्योतिरित्याशङ्क्याऽऽह — यदाऽपीति। व्यतिरेकमुखेनोक्तमर्थमन्वयमुखेन कथयति — आत्मज्योतिरिति । आत्मज्योतिषः सर्वानुग्राहकत्वे प्रमाणमाह — यदेतदिति । सर्वमन्तःकरणादि प्रज्ञानेत्रमित्यैतरेयके श्रवणाद्युक्तमात्मज्योतिषः सर्वानुग्राहकत्वमित्यर्थः । किञ्चाचेतनानां कार्यकरणानां चेतनत्वप्रसिद्ध्यनुपपत्त्या सदा चिदात्मव्याप्तिरेष्टव्येत्याह — साभिमानो हीति । कथमसंगस्य प्रतीचः सर्वत्र बुद्ध्यादावहंमान इत्याशङ्क्याऽऽह — अभिमानेति । वृत्तमनूद्योत्तरवाक्यमवतारयति — यद्यपीति । यथोक्तमपि प्रत्यग्ज्योतिर्जागरिते दर्शयितुमशक्यमिति श्रुतिः स्वप्नं प्रस्तौतीत्यर्थः । अशक्यत्वे हेतुद्वयमाह — सर्वेति । स्वप्ने निष्कृष्टं ज्योतिरिति शेषः । सदृशः सन्ननुसंचरतीति संवन्धः । सादृश्यस्य प्रतियोगिसापेक्षत्वमपेक्ष्य पृच्छति — केनेति । उत्तरम् — प्रकृतत्वादिति । प्राणानामपि तुल्यं तदिति चेत्तत्राऽऽह — संनिहितत्वाच्चेति। हेतुद्वयं साधयति — हृदीत्यादिना । प्रकृतत्वादिफलमाह — तस्मादिति । सामान्यं प्रश्नपूर्वकं विशदयति — किं पुनरित्यादिना । विवेकतोऽनुपलब्धिं व्यक्तीकृतं बुद्धिज्योतिषोः स्वरूपमाह — अवभास्येति । अवभासकत्वे दृष्टान्तमाह — आलोकवदिति । तथापि कथं विवेकतोऽनुपलब्धिस्तत्राऽऽह — अवभास्येति । प्रसिद्धिमेव प्रकटयति — विशुद्धत्वाद्धीति । उक्तमर्थं दृष्टान्तेन बुद्धावारोपयति — यथेत्यादिना । दृष्टान्तगतनमर्थं दार्ष्टान्तिके योजयति — तथेति । पुनरुक्तिं परिहरति — इत्युक्तमिति । सर्वावभासकत्वे कथं बुद्ध्यैव साम्यमित्याशङ्क्याऽऽह — तेनेति। सर्वावभासकत्वं तच्छब्दार्थः । किमर्थं तर्हि बुद्ध्या सामान्यमुक्तमित्याशङ्क्य द्वारत्वेनेत्याह — बुद्धीति । आत्मनः सर्वेण समानत्व वाक्यशेषमनुकूलयति — सर्वमय इति चेति । वाक्यशेषसिद्धेऽर्थे लोकभ्रान्तर्गमकत्वमाह — तेनेति । सर्वमयत्वेनेति यावत् । आत्मानात्मनोर्विवेकदर्शनस्याशक्यत्वे परस्पराध्यासस्तद्धर्माध्यासश्च स्यात्ततश्च लोकानां मोहो भवेदित्याह — इति सर्वेति । धर्मिविषयं मोहमभिनयति — अयमिति । धर्मविषयं मोहं दर्शयति — एवन्धर्मेति । तदेव स्फुटयति — कर्तेत्यादिना। विकल्पैः सर्वो लोको मोमुह्यत इति संबन्धः । स समानः सन्नित्यस्यार्थमुक्त्वाऽवशिष्टं भागं व्याकरोति — अत इत्यादिना । आत्मनः स्वाभाविकमुभयलोकसंचरणमित्याशङ्क्यानन्तरवाक्यमादत्ते — तत्रेति । आत्मा सप्तम्यर्थः । यतःशब्दो वक्ष्यमाणातःशब्देन संबध्यते । अक्षरोत्थमर्थमुक्त्वा वाक्यार्थमाह — ध्यानेति । ध्यानवतीं बुद्धिं व्याप्तश्चिदात्मा ध्यायतीवेत्यत्र दृष्टान्तमाह — आलोकवदिति । यथा खाल्वालोको नीलं पीतं वा विषयं व्यश्नुवानस्तदाकारो दृश्यते तथाऽयमपि ध्यानवतीं बुद्धिं भासयन्ध्यानवानिव भवतीत्यर्थः । यथोक्तबुद्ध्यवभासकत्वमुक्तं हेतुमनूद्य फलितमाह — अत इति । इव शब्दार्थं कथयति — न त्विति । बुद्धिधर्माणामात्मन्यौपाधिकत्वेन मिथ्यात्वमुक्त्वा प्राणधर्माणामपि तत्र तथात्वं कथयति — तथेति । आत्मनि चलनस्यौपाधिकत्वं साधयति — तेष्विति । इवशब्दसामर्थ्यसिद्धमर्थमाह — न त्विति । स हीत्याद्यनन्तरवाक्यमाकाङ्क्षाद्वारोत्थापयति — कथमित्यादिना । तच्छब्दो बुद्धिविषयः । संचरणादीत्यादिशब्दो ध्यनादिव्यापारसंग्रहार्थः । स्वप्नो भूत्वा लोकमतिक्रामतीति संबन्धः । कथमात्मा स्वप्नो भवति तत्राऽऽह — स ययेति । उक्तेऽर्थे वाक्यमवतार्य व्याकरोति — अत आहेति । उक्तं हेतुमनूद्य फलितमाह — यस्मादित्यादिना । कार्यकरणातीतत्वात्प्रत्यगात्मनो न स्वतः संचारित्वमित्याह — मृत्योरिति । रूपाण्यतिक्रामतीति पूर्वेण संबन्धः । क्रियास्तत्फलानि चाऽऽश्रयो येषां यानि वा क्रियाणां तत्फलानां चाऽऽश्रयस्तानीति यावत् । बुद्ध्यवभासकं ज्योतिरात्मेत्युक्तं श्रुत्वा शाक्यः शङ्कते — नन्विति । प्रमाणादतिरिक्तत्मोपलब्धिरित्याशङ्क्य प्रत्यक्षमनुमानं चेति प्रमाणद्वैविध्यनियममभिप्रेत्य ताभ्यामतिरिक्तात्मानुपलम्भान्नासावस्तीत्याह — धीव्यतिरेकेणेति । तत्र दृष्टान्तमाह — यथेति । घटादिरालोकश्चेत्युभयोर्मिथः संसृष्टयोर्विवेकेनानुपलम्भवदवभास्यावभासकयोर्बुद्ध्यात्मनोर्भेदेऽपि पृथगनुपलम्भादैक्यमवभासते वस्तुतस्तु तयोरन्यत्वमेवेति शङ्कामनुवदति — यस्त्विति । वैषम्यप्रदर्शनेनोत्तरमाह — तत्रेति । दृष्टान्तः सप्तम्यर्थः । घटादेरन्यत्वेनेति संबन्धः । ज्योतिरन्तरं नास्ति चेत्कुतो ग्राह्यग्राहकसंवित्तिरित्याशङ्क्याऽऽह — धीरेवेति । बाह्यार्थवादिनोः सौत्रान्तिकवैभाषिकयोरभिप्रायमुपसंहरति — तस्मान्नेति । इदानीं विज्ञानवादी बाह्यार्थवादिभ्यामभ्युपगतं दृष्टान्तमनुवदति — यदपीति । बाह्यार्थवादप्रक्रिया न सुगताभिप्रेतेति दूषयति — तत्रेति । उभयत्र दृष्टान्तस्वरूपं सप्तम्यर्थः ननु घटादेरवभास्यादालोकोऽवभासको भिन्नो लक्ष्यते नेत्याह — परमार्थतस्त्विति । तस्य स्थायित्वं व्यावर्तयति — अन्योऽन्य इति । प्रतीतं विषयप्राधान्यं व्यावर्तयन्नुक्तमेव व्यनक्ति — विज्ञानमात्रमिति। विज्ञानवादे यथोक्तदृष्टान्तराहित्यं फलतीत्याह — यदेति । शिष्यबुद्ध्यनुसारेण त्रिविधं बुद्धाभिप्रायमुपसंहरति — एवमित्यादिना। परिकल्प्येत्यन्तेन बाह्यार्थवादमुपसंहृत्य तस्यैवेत्यादिना विज्ञानवादमुपसंजहार । तत्र विज्ञानवादोपसंहारं विवृणोति — तद्बाह्येति । शून्यवादिमतमाह — तस्यापीति। तदेव स्फुटयति — तदपीति । पक्षत्रयेऽपि दोषं संभावयति — सर्वा इति । कथममूषां कल्पनानां दूषणमित्याशङ्क्य प्रथमं बाह्यार्थवादिनं प्रत्याह — तत्रेति । निर्धारणे सप्तमी । यत्तु धीरेवावभासकत्वेन स्वाकारेति तत्राऽऽह — नेति । यदवभास्यं तत्स्वातिरिक्तावभास्यमवभास्यत्वाद्यथा घटादि । अवभास्या चेयं बुद्धिरित्यनुमानाद्बुद्धिव्यतिरिक्तः साक्षी सिध्यतीत्यर्थः । दृष्टान्तं साधयति — तमसीति। तस्यावभासकापेक्षां दर्शयितुं विशेषणम् — सालोको घट इति । संश्लेषावगमान्नास्ति घटस्य व्यतिरिक्तावभास्यत्वमित्याशङ्क्याऽऽह — संश्लिष्टयोरपीति । भवत्वन्यत्वं किं तावतेत्याशङ्क्याऽऽह — अन्यत्वे चेति । व्यतिरिक्तावभासकत्वं तादृशावभासकसाहित्यमिति यावत् । अवभासयति घटादिरिति शेषः । दृष्टान्तस्य साध्यविकलत्वे परिहृते व्यभिचारमाशङ्कते — नन्विति । तदेव व्यतिरेकमुखेनाऽऽह — न हीति । अनैकान्तिकत्वं निगमयति — तस्मादिति । प्रदीपस्य पक्षतुल्यत्वान्न व्यभिचारोऽस्तीति परिहरति — नावभास्यत्वेति । अथान्यावभासकत्वात्तस्य नान्यावभास्यत्वमिति चेत्तत्राऽऽह — यद्यपीति । अवभास्यत्वहेतोरव्यभिचारे फलितमाह — यदा चेति। व्यतिरिक्तावभास्यत्वं बुद्धेरिति शेषः । अवभास्यत्वे सत्यपि प्रदीपे स्वातिरिक्तेनैवावभास्यत्वमिति नियमासिद्धेर्व्यभिचारतादवस्थ्यमिति शङ्कते — नन्विति । यदि प्रदीपस्य स्वाभासनात्पूर्वमसन्विशेषः समनन्तरकाले स्यात्तदा स्वात्मानं भासयतीति वक्तुं युक्तं न च सोऽस्तीति दूषयति — नेत्यादिना । तदेव विवृणोति — यथेति । अवभास्यत्वाविशेषादित्यर्थः । प्रदीपे परोक्तं विशेषमनुभाष्य दूषयति — यस्त्वित्यादिना। यदा दीपो न स्वात्मानं भासयति तदाऽनवभासमानः स्यादित्याशङ्क्याऽऽह — न हीति। विशेषाभावेऽपि दीपस्य स्वेनैवावभास्यत्वं किं न स्यादिति चेत्तत्राऽऽह — स हीति । दीपस्य विशेषान्तराभावेऽपि स्वात्मसंनिध्यसंनिधी विशेषावित्याशङ्क्याऽऽह — न हीति । दीपस्य स्वेनान्येन वा स्वस्मिन्विशेषाभावे फलितमाह — असतीति। व्यभिचारनिरासपूर्वकं भास्यत्वानुमानमुपपाद्यानुमानान्तरमाह — चैतन्येति । यद्व्यञ्जकं तत्स्वविजातीयव्यङ्ग्यं यथा सूर्यादि व्यञ्जकं च विज्ञानं तस्माद्विज्ञानव्यतिरिक्तश्चिदात्मा सिध्यतीत्यर्थः । प्रदीपस्य न स्वावभास्यत्वं किन्तु विजातीयचैतन्यावभास्यत्वमिति स्थिते फलितमाह — तस्मादिति । यद्ग्राह्यं तद्ग्राहकान्तरग्राह्यं यथा दीपो ग्राह्यं चेदं विज्ञानमित्यनुमानान्तरमाह — चैतन्येति । तथाऽपि कथं त्वदिष्टग्राहकसिद्धिरित्याशङ्क्य विमृशति — चैतन्यग्राह्यत्वे चेति । कथं तर्हि निर्णयस्तत्राऽऽह — इति तत्र सन्दिह्यमान इति । अस्तु लोकानुसारी निश्चयो लोकस्तु कथमित्याशङ्क्याऽऽह — तथा चेति । तथाऽपि कुतो विवक्षितात्मज्योतिस्तत्राऽऽह — यश्चेति । विज्ञानस्य ग्राहकान्तरग्राह्यत्वे तस्यापि ग्राहकान्तरापेक्षायामनवस्थाप्रसक्तिरिति शङ्कते — तदाऽनवस्थेति चेदिति । कूटस्थबोधस्य विज्ञानसाक्षिणोऽविषयत्वान्नानवस्थेति परिहरति — नेति । यद्ग्राह्यं तत्स्वातिरिक्तग्राह्यं यथा घटादीति ग्राह्यत्वमात्रं बुद्धिग्राहकस्य ततो वस्त्वन्तरत्वे प्रदीपस्य स्वानवभासस्यत्वन्यायेन लिङ्गमुक्तं न च बुद्धिसाक्षिणो ग्राह्यत्वमस्ति कूटस्थदृष्टिस्वाभाव्यात्तत्कुतोऽनवस्थेत्युपपादयति — ग्राह्यत्वमात्रं हीति । साक्षी स्वातिरिक्तग्राह्यो ग्राहकत्वाद्बुद्धिवदित्याशङ्क्याऽऽह — न त्विति । ग्राहकत्वं हि ग्रहणकर्तृत्वं वा तत्साक्षित्वं वा । आद्ये बुद्धिसाक्षिणो मुख्यवृत्त्या ग्रहणकर्तृत्वे न किञ्चिल्लिङ्गं संभवति । द्वितीये तस्य ग्राहकान्तरास्तित्वे न कदाचिदपि प्रमाणमस्ति तत्कुतोऽनवस्थेत्यर्थः । ग्राहकानवस्थां परिहृत्य करणानवस्थामाशङ्कते — विज्ञानस्येति । तस्य हि ग्राह्यत्वे चक्षुरादिस्थानीयेन करणेन भवितव्यं तस्यापि ग्राह्यत्वेऽन्यत्करणमित्यनवस्थां दूषयति — न नियमाभावादिति । नियमाभावं साधयति — न हीत्यादिना । वैचित्र्यदर्शनमाकाङ्क्षापूर्वकं स्फुटयति — कथमित्यादिना । उभयव्यतिरेकं विशदयति — न हीति । तथाऽपि कथं वैचित्र्यं तत्राऽऽह — घटवदिति । नियमाभावमुपसंहरति — तस्मादिति। अनवस्थाद्वयनिराकरणं निगमयति — तस्माद्विज्ञानस्येति । बाह्यार्थवादिमतनिराकरणमुपसंहरति — तस्मात्सिद्धमिति। बाह्यार्थवादिनी ध्वस्ते विज्ञानवादी चोदयति — नन्विति । बाह्यार्थो विज्ञानातिरिक्तो नास्तीत्यत्र प्रमाणमाह — यद्धीति । नोपलभ्यते च जाग्रद्वस्तु जाग्रद्विज्ञानव्यतिरेकेणेति शेषः । दृष्टान्तं समर्थयते — स्वप्नेति । दार्ष्टान्तिकं विवृणोति — तथेति । उक्तमनुमानमुपसंहरति — तस्मादिति । सर्वं विज्ञानमात्रमिति स्थिते फलितमाह — तत्रेति । किमिति तस्य मिथ्यात्वं तत्राऽऽह — सर्वस्येति । बाह्यार्थापलापवादिनं दूषयति — नेत्यदिना । हेतुं विशदयति — नन्विति। विज्ञानमात्रवादित्वादेकान्तेन बाह्यार्थानभ्युपगतिरिति शङ्कते — नन्विति । बाह्यार्थं हठादङ्गीकारयति — नेत्यादिना । अन्वयमुखेनोक्तमर्थं व्यतिरेकमुखेन विशदयति — विज्ञानादिति । ज्ञानज्ञेययोरैक्ये दोषान्तरमाह — तथेति । अनर्थकं शास्त्रमुपदिशतो बुद्धस्य सर्वज्ञत्वं न स्यादित्याह — तत्कर्तुरिति । वाशब्दश्चार्थः । इतश्च सर्वस्य नास्ति विज्ञानमात्रत्वमित्याह — किञ्चान्यदिति । न केवलं पूर्वोक्तोपपत्तिवशादेव बाह्यार्थोऽभ्युपेयः किन्तु तत्रैवान्यदपि कारणमुच्यत इति यावत् । तदेव स्फुटयति — विज्ञानेति । यद्ग्राह्यं तत्स्वव्यतिरिक्तग्राह्यं यथा प्रतिवाद्यादि जाग्रद्वस्तु चेदं ग्राह्यमित्यनुमानान्न बाह्यार्थापलापसिद्धिरित्यर्थः । दृष्टान्ते विप्रतिपत्तिं प्रत्याह — न हीति । निराकर्तव्यत्वेऽपि तेषां ज्ञानमात्रत्वं किं न स्यादित्याशङ्क्याऽऽत्मीयज्ञानत्वमात्मज्ञानत्वं वा तेषामिति विकल्प्य क्रमेण दूषयति — न हीत्यादिना । स्वकीयनिषेधे स्वनिषेधे चानिष्टापत्तिमाचष्टे — तथा चेति । तदङ्गीकारालोचनायामपि प्रतिवाद्यादीनां विज्ञानातिरेकः सेत्स्यतीत्याह — न चेति । अन्यथा विवादाभावापातादिति भावः । कथं तर्हि तेषामङ्गीकारस्तत्राऽऽह — व्यतिरिक्तेति । सिद्धे दृष्टान्ते फलितमनुमानं निगमयति — तस्मादिति । किञ्च चैत्रसन्तानेन मैत्रसन्तानो व्यवहारादनुमीयते सर्वज्ञानेन चासर्वज्ञज्ञानानि ज्ञायन्ते तत्र भेदस्य तेऽपि सिद्धेस्तद्दृष्टान्तान्नीलादेस्तद्धियश्च भेदः शक्योऽनुमातुमित्याह — सन्तत्यन्तरवदिति । इति न बाह्यार्थापलापसिद्धिरिति शेषः । तदपलापासंभवे फलितमाह — तस्मादिति । विज्ञानादर्थभेदोक्त्या प्रत्यगात्मा विज्ञानातिरिक्त उक्तः । संप्रति विमतं न ज्ञानभिन्नं ग्राह्यत्वात्स्वप्नग्राह्यवदित्युक्तमनुवदति — स्वप्न इति । अयुक्तं विज्ञानातिरिक्तत्वमर्थस्येति शेषः । दृष्टान्तस्य साध्यविकलतामभिप्रेत्य परिहरति — नाभावादपीति । संग्रहवाक्यं विवृणोति — भवतैवेति । बाह्यार्थवादिभ्यो विशेषमाह — तदभ्युपगम्येति । तथाऽपि कथं दृष्टान्तस्य साध्यविकलतेत्याशङ्क्याऽऽह — स इति । घटादिविज्ञानस्य भावभूतस्याभ्युपगतस्य घटादेर्भावादभावाद्वा विषयादर्थान्तरत्वाद्यस्य कस्यचिद्बाह्यार्थस्योपगमाद्दृष्टान्तस्य साध्यविकलता सुप्रसिद्धेत्यर्थः । माध्यमिकमतमतिदेशेन निराकरोति — एतेनेति । ज्ञानज्ञेययोर्निराकर्तुमशक्यत्ववचनेनेति यावत् । आत्मनो ग्राह्यस्याहमिति प्रत्यगात्मनैव ग्राह्यतेति मीमांसकमतमपि प्रत्युक्तमेकस्यैव ग्राह्यग्राहकतया निरस्तत्वादित्याह — प्रत्यगात्मेति । क्षणभङ्गवादोक्तमनूद्य प्रत्यभिज्ञाविरोधेन निराकरोति — यत्तूक्तमित्यादिना । स्वपक्षेऽपि प्रत्यभिज्ञोपपत्तिं शाक्यः शङ्कते — सादृश्यादिति । दृष्टान्तं विघटयन्नुत्तरमाह — न तत्रापीति । तथाऽपि कथं तत्र प्रत्यभिज्ञेत्याशङ्क्याऽऽह — जातीति । तन्निमित्ता तेषु प्रत्यभिज्ञेति शेषः । तदेव प्रपञ्चयति — कृत्तेष्विति । अभ्रान्त इति च्छेदः । किमिति जातिनिमित्तैषा धीर्व्यक्तिनिमित्ता किं न स्यादत आह — न हीति । ननु सादृश्यवशाद्व्यक्तिमेव विषयीकृत्य प्रत्यभिज्ञानं केशादिषु किं न स्यात्तत्राऽऽह — कस्यचिदिति । अभ्रान्तस्येति यावत् । दार्ष्टान्तिके वैषम्यमाह — घटादिष्विति । वैषम्यमुपसंहरति — तस्मादिति । यत्सत्तत्क्षणिकं यथा प्रदीपादि सन्तश्चामी भावा इत्यनुमानविरोधाद्भ्रान्तं प्रत्यभिज्ञानमित्याशङ्क्याऽऽह — प्रत्यक्षेण इति । अनुष्णतानुमानवत्प्रत्यक्षविरोधे क्षणिकत्वानुमाणं नोदेत्यबाधितविषयत्वस्याप्यनुमित्यङ्गत्वादिति भावः । इतश्च प्रत्यभिज्ञानं सादृश्यनिबन्धनो भ्रमो न भवतीत्याह — सादृश्येति । तदनुपपत्तौ हेतुमाह — ज्ञानस्येति । तस्य क्षणिकत्वेऽपि किमिति सादृश्यप्रत्ययो न सिध्यतीत्याशङ्क्याऽऽह — एकस्येति । अस्तु तर्हि वस्तुद्वयदर्शित्वमेकस्येति चेन्नेत्याह — न त्विति । उक्तमेवार्थं प्रपञ्चयति — तेनेत्यादिना । भवतु किं तावतेति तत्राऽऽह — तेनेति दृष्टमिति । अवतिष्ठेत यदीति शेषः । क्षणिकत्वहानिपरिहारं शङ्कित्वा परिहरति — अथेत्यादिना । तत्र हेतुमाह — अनेकेति । परपक्षे दोषान्तरमाह — व्यपदेशेति । तदेव विवृणोति — इदमिति । व्यपदेशक्षणेऽनवस्थानासिद्धिं शङ्कित्वा दूषयति — अथेत्यादिना । अन्यो दृष्टाऽन्यश्च व्यपदेष्टेत्याशङ्क्य परिहरति — अथेत्यादिना । शास्त्रप्रणयनादीत्यादिशब्देन शास्त्रीयं साध्यसाधनादि गृह्यते । क्षणिकत्वपक्षे दूषणान्तरमाह — अकृतेति । व्यपदेशानुपपत्तिमुक्तां समादधानः शङ्कते — दृष्टेति । सादृश्यप्रत्ययश्च शृङ्खलास्थानीयेन प्रत्ययेनैव सेत्स्यतीत्याह — तेनेदमिति । अपसिद्धान्तप्रसक्त्या प्रत्याचष्टे — नेत्यादिना । तावेवोभौ यौ प्रत्ययौ विशेषौ तदवगाही चेन्मध्यवतीं शृङ्खलावयवस्थानीयः प्रत्यय इति यावत् । क्षणानां मिथः संबन्धस्तर्हि मा भूदिति चेत्तत्राऽऽह — ममेति। व्यपदेशसादृश्यप्रत्ययानुपपत्तिस्तु स्थितैवेति चकारार्थः । यत्तु विज्ञानस्य दुःखाद्युपप्लुतत्त्वं तद्दूषयति — सर्वस्य चेति । शुद्धत्वात्तत्संसर्गद्रष्ट्रभावाच्च न ज्ञानस्य दुःखादिसंप्लवः स्वसंवेद्यत्वाङ्गीकारादित्यर्थः । ज्ञानस्य शुद्धबोधैकस्वाभाव्यमसिद्धं दाडिमादिवन्नानाविधदुःखाद्यंशवत्वाश्रयणादित्याशङ्क्याऽऽह — न चेति । तत्रैव हेत्वन्तरमाह — अनित्येति । तेषां तद्धर्मत्वे सत्यनुभूयमानत्वात्ततोऽतिरिक्तत्वं स्याद्धर्माणां धर्मिमात्रत्वाभावान्मेयानां च मानादर्थान्तरत्वादतो यन्मेयं न तज्ज्ञानांशो यथा घटादि मेयं च दुःखादीत्यर्थः । ज्ञानस्य दुःखादिधर्मो न भवति किन्तु स्वरूपमेवेति शङ्कामनुभाष्य दोषमाह — अथेत्यादिना । अनुपपत्तिमेव प्रकटयति — संयोगीत्यादिना । स्वाभाविकस्यापि वियोगोऽस्ति पुष्परक्तत्वादीनां तथोपलम्भादित्याशङ्क्याऽऽह — यदपीति । द्रव्यान्तरशब्देन पुष्पसंबन्धिनोऽवयवास्तद्गतरक्तत्वाद्यारम्भका विवक्षिताः । विमतं संयोगपूर्वकं विभागवत्त्वान्मेषादिवदित्यनुमानान्न स्वाभाविकस्य सति वस्तुनि नाशोऽस्तीत्यर्थः । अनुमानानुगुणं प्रत्यक्षं दर्शयति — बीजेति । कार्पासादिबीजे द्रव्यविशेषसंपर्काद्रक्तत्वादिवासनया तत्पुष्पादीनां रक्तादिगुणोदयोपलम्भात्तत्संयोगिद्रव्यापगमादेव तत्पुष्पादिषु रक्तत्वाद्यपगतिरित्यर्थः । विशुद्ध्यनुपपत्तिमुपसंहरति — अत इति । कल्पनान्तरमनूद्य दूषयति — विषयविषयीति । कथं पुनर्ज्ञानस्यान्येन संसर्गाभावस्तस्य विषयेण संसर्गादित्याशङ्क्याऽऽह — न हीति । अथान्यसंसर्गमन्तरेणापि ज्ञानस्य विषयविषय्याभासत्वमलं स्यादिति चेत्तत्राऽऽह — असति चेति । कल्पनाद्वयमप्रामाणिकमनादेयमित्युपसंहरति — तस्मादिति । कल्पनान्तरमुत्थापयति — यदपीति । उपशान्तिनिर्वाणशब्दार्थः । दूषयति — तत्रापीति । फल्यभावेऽपि फलं स्यादिति चेन्नेत्याह — कण्टकेति । दार्ष्टान्तिकं विवृणोति — यस्य हीति । ननु त्वन्मतेऽपि वस्तुनोऽद्वयत्वात्तस्यासंगस्य केनचिदपि संयोगवियोगयोरयोगात्फलित्वासंभवे मोक्षासंभवादि तुल्यमित्याशङ्क्याऽऽह — यस्य पुनरिति । यद्यपि पूर्णं वस्तु वस्तुतोऽसंगमङ्गीक्रियते तथाऽपि क्रियाकारकफलभेदस्याविद्यामात्रकृतत्वादस्मन्मते सर्वव्यवहारसंभवान्न साम्यमिति भावः । ननु बाह्यार्थवादो विज्ञानवादश्च निराकृतौ शून्यवादो निराकर्तव्योऽपि कस्मान्न निराक्रियते तत्राऽऽह — शून्यत्वादीति ।
समस्तस्य वस्तुनः सत्त्वेन भानान्मानानां च सर्वेषां सद्विषयत्वाच्छून्यस्य चाविषयतया प्राप्त्यभावेन निराकरणानर्हत्वात्तद्विषयत्वे च शून्यवादिनैव विषयनिराकरणोक्त्या शून्यस्यापह्नवात्तस्य च स्फुरणास्फुरणयोः सर्वशून्यत्वायोगात्तद्वादिनश्च सत्त्वासत्त्वयोस्तदनुपपत्तेः संवृतेश्चाऽऽश्रयाभावादसंभवात्तदाश्रयत्वे च शून्यस्य स्वरूपहानान्निराश्रयत्वे चासंवृतित्वान्नास्माभिस्तद्वादनिरासायाऽऽदरः क्रियते तत्सिद्धं बुद्ध्याष्वतिरिक्तं नित्यसिद्धमत्यन्तशुद्धं कूटस्थमद्वयमात्मज्योतिरिति भावः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 प्रसंगादागतं परपक्षं निराकृत्य श्रुतिव्याख्यानमेवानुवर्तयन्नुत्तरवाक्यतात्पर्यमाह — यथेति । एवमात्मा देहभेदेऽपि वर्तमानं जन्म त्यजञ्जन्मान्तरं चोपाददानः कार्यकरणान्यतिक्रामतीति शेषः । अतः स्वप्रजागरितसंचाराद्देहाद्यतिरेकवदिहलोकपरलोकसंचारोक्त्याऽपि तदतिरेकस्तस्योच्यतेऽनन्तरवाक्येनेत्यर्थः । संप्रत्युत्तरं वाक्यं गृहीत्वा व्याकरोति — स वा इत्यादिना । पाप्मशब्दस्य लक्षणया तत्कार्यविषयत्वं दर्शयति — पाप्मसमवायिभिरिति । पाप्मशब्दस्य पापवाचित्वेऽपि कार्यसाम्याद्धर्मेऽपि वृत्तिं सूचयति — धर्माधर्मेति । उक्तमर्थं दृष्टान्तत्वेनानुवदति — यथेति । अवस्थाद्वयसंचारस्य लोकद्वयसंचारं दार्ष्टान्तिकमाह — तथेति । इहलोकपरलोकानवरतं संचरतीति संबन्धः । संचरणप्रकारं प्रकटयति — जन्मेति । जन्मना कार्यकरणयोरुपादनं मरणेन च तयोस्त्यागमविच्छेदेन लभमानो मोक्षादर्वागनवरतं संचरन्दुःखी भवतीत्यर्थः । स वा इत्यादिवाक्यतात्पर्यमुपसंहरति — तस्मादिति । तच्छब्दार्थमेव स्फुटयति — संयोगेति । कथमेतावता तेभ्योऽन्यत्वं तत्राऽऽह — न हीति ।
स्वाभाविकस्य हि धर्मस्य सति स्वभावे कुतः संयोगवियोगौ वह्न्यौष्ण्यादिष्वदर्शनात्कार्यकरणयोश्च संयोगविभागवशादस्वाभाविकत्वे सिद्धमात्मनस्तदन्यत्वमित्यर्थः ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 अवधारणं विवृणोति — नेति। वेदना सुखदुःखादिलक्षणा । आगमस्य परलोकसाधकत्वमभिप्रेत्याऽऽह — तच्चेति। अवधारणमाक्षिपति — नन्विति। तस्य स्थानान्तरत्वं दूषयति — नेति। स्वप्नस्य लोकद्वयातिरिक्तस्थानत्वाभावे कथं तृतीयत्वप्रसिद्धिरित्याह — कथमिति। तस्य सन्ध्यत्वान्न स्थानान्तरत्वमित्युत्तरमाह — सन्ध्यं तदिति। सन्ध्यत्वं व्युत्पादयति — इहेति। यत्स्वप्नस्थानं तृतीयं मन्यसे तदिहलोकपरलोकयोः सन्ध्यमिति संबन्धः । अस्य सन्ध्यत्वं फलितमाह — तेनेति। पूरणप्रत्ययश्रुत्या स्थानान्तरत्वमेव स्वप्नस्य किं न स्यादित्याशङ्क्य प्रथमश्रुतसन्ध्यशब्दविरोधान्मैवमित्याह — न हीति। परलोकास्तित्वे प्रमाणान्तरजिज्ञासया पृच्छति — कथमिति। प्रत्यक्षं प्रमाणयन्नुत्तरमाह — यत इत्यादिना। स्वप्नप्रत्यक्षं परलोकास्तित्वे प्रमाणमित्युक्तं तदेवोत्तरवाक्येन स्फुटयितुं पृच्छति — कथमिति। कथंशब्दार्थमेव प्रकटयति — किमित्यादिना। उत्तरवाक्यमुत्तरत्वेनोत्थापयति — उच्यत इति। तत्राथशब्दमुक्तप्रश्नार्थतया व्याकरोति — अथेति। उत्तरभागमुत्तरत्वेन व्याचष्टे — शृण्विति। यदुक्तं किमाश्रय इति तत्राऽऽह — यथाक्रम इति। यदुक्तं केन विधिनेति तत्राऽऽह — तमाक्रममिति। पाप्मशब्दस्य यथाश्रुतार्थत्वे संभवति किमिति फलविषयत्वं तत्राऽऽह — नत्विति । साक्षादागमादृते प्रत्यक्षेणेति यावत् । पाप्मनामेव साक्षाद्दर्शनासंभवस्तच्छब्दार्थः । कथं पुनराद्ये वयसि पाप्मनामानन्दानां च स्वप्ने दर्शनं तत्राऽऽह — जन्मान्तरेति। यद्यपि मध्यमे वयसि करणपाटवादैहिकवासनया स्वप्नो दृश्यते तथाऽपि कथमन्तिमे वयसि स्वप्नदर्शनं तदाह — यानि चेति। फलानां क्षुद्रत्वमत्र लेशतो भुक्तत्वम् ।यानीत्युपक्रमात्तानीत्युपसंख्यातव्यम् । ऐहिकवासनावशादैहिकानामेव पाप्मनामानन्दानां च स्वप्ने दर्शनसंभवान्न स्वप्नप्रत्यक्षं परलोकसाधकमिति शङ्कते — तत्कथमिति । परिहरति — उच्यत इति । यद्यपि स्वप्ने मनुष्याणामिन्द्रादिभावोऽननुभूतोऽपि भाति तथाऽपि तदपूर्वमेव दर्शनमित्याशङ्क्याऽऽह — न चेति । स्वप्नधिया भाविजन्मभाविनोऽपि स्वप्ने दर्शनात्प्रायेणेत्युक्तम् । न च तदपूर्वदर्शनमपि सम्यग्ज्ञानमुत्थानप्रत्ययबाधात् । न चैवं स्वप्नधिया भाविजन्मासिद्धिर्यथाज्ञानमर्थाङ्गीकारादिति भावः । प्रमाणफलमुपसंहरति — तेनेति । स यत्रेत्यादिवाक्यस्य व्यवहितेन संबन्धं वक्तुं वृत्तमनूद्याऽऽक्षिपति — यदित्यादिना । बाह्यज्योतिरभावे सत्ययं पुरुषः कार्यकरणसंघातो येन संघातातिरिक्तेनाऽऽत्मज्योतिषा गमनागमनादि निर्वर्तयति तदात्मज्योतिरस्तीति यदुक्तमित्यनुवादार्थः । विशिष्टस्थानाभावं वक्तुं विशेषणाभावं तावद्दर्शयति — तदेवेति । आदित्यादिज्योतिरभावविशिष्टस्थानं यत्रेत्युक्तं तदेव स्थानं नास्ति विशेषणाभावादिति शेषः । यथोक्तस्थानाभावे हेतुमाह — येनेति । संसृष्टो बाह्यैर्ज्योतिर्भिरिति शेषः । व्यवहारभूमौ बाह्यज्योतिरभावाभावे फलितमाह — तस्मादिति । उत्तरग्रन्थमुत्तरत्वेनावतारयति — अथेत्यादिना । यथोक्तं सर्वव्यतिरिक्तत्वं स्वयं ज्योतिष्ट्वमित्यादि । आह स्वप्नं प्रस्तौतीति यावत् । उपादानशब्दः परिग्रहविषयः । कथमस्य सर्वावत्त्वं तदाह — सर्वावत्त्वमिति । संसर्गकारणभूताः सहाध्यात्मादिभागेनेति शेषः । किमुपादान इत्यस्योत्तरमुक्त्वा केन विधानेत्यस्योत्तरमाह — स्वयमित्यादिना । आपाद्य प्रस्वपितीत्युत्तरत्र संबन्धः । कथं पुनरात्मनो देहविहन्तृत्वं जाग्रद्धेतुकर्मफलोपभोगोपरमणाद्धि स विहन्यते तत्राऽऽह — जागरिते हीत्यादिना । निर्माणविषयं दर्शयति — वासनामयमिति । यथा मायावी मायामयं देहं निर्मिमीते तद्वदित्याह — मायामयमिवेति । कथं पुनरात्मनो यथोक्तदेहनिर्माणकर्तृत्वं कर्मकृतत्वात्तन्निर्माणस्येत्याशङ्क्याऽऽह — निर्माणमपीति । स्वेन भासेत्यत्रेत्थम्भावे तृतीया । करणे तृतीयां व्यावर्तयति — सा हीति । तत्रेति स्वप्नोक्तिः यथोक्तान्तःकरणवृत्तेर्विषयत्वेन प्रकाशमानत्वेऽपि स्वभासे भवतु करणत्वमित्याशङ्क्याऽऽह — सा तत्रेति । स्वेन ज्योतिषेति कर्तरि तृतीया । स्वशब्दोऽत्राऽऽत्मविषयः । कोऽयं प्रस्वापो नाम तत्राऽऽह — यदेवमिति । विविक्तविशेषणं विवृणोति — बाह्येति । स्वप्ने स्वयञ्ज्योतिरात्मेत्युक्तमाक्षिपति — नन्वस्येति । वासनापरिग्रहस्य मनोवृत्तिरूपस्य विषयतया विषयित्वाभावादविरुद्धमात्मनः स्वप्ने स्वयञ्ज्योतिष्ट्वमिति समाधत्ते — नैष दोष इति । कुतो वासनोपादानस्य विषयत्वमित्याशङ्क्य स्वयञ्ज्योतिष्ट्वश्रुतिसामर्थ्यादित्याह — तेनेति । मात्रादानस्य विषयत्वेनेति यावत् । तदेव व्यतिरेकमुखेनाऽऽह — नत्विति । यथा सुषुप्तिकाले व्यक्तस्य विषयस्याभावे स्वयं ज्योतिरात्मा दर्शयितुं न शक्यते तथा स्वप्नेऽपि तस्मात्तत्र स्वयञ्ज्योतिष्ट्वश्रुत्या मात्रादानस्य विषयत्वं प्रकाशितमित्यर्थः । भवतु स्वप्ने वासनादानस्य विषयत्वं तथापि कथं स्वयञ्ज्योतिरात्मा शक्यते विविच्य दर्शयितुमित्याशङ्क्याऽऽह — यदा पुनरिति । अवभासयदवभास्यं वासनात्मकमन्तःकरणमिति शेषः । स्वप्नावस्थायामात्मनोऽवभासकान्तराभावे फलितमाह —
तेनेति ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 तस्येत्यादिवाक्यस्य व्यावर्त्यां शङ्कामाह — नन्विति। अवस्थाद्वयवल्लोकद्वयसिद्धिरित्याशङ्क्याऽऽह — स्वप्नेति। कथं तर्हि लोकद्वयप्रसिद्धिरत आह — तस्मादिति। तत्रोत्तरत्वेनोत्तरं वाक्यमुत्थाप्य व्याकरोति — उच्यत इति। स्थानद्वयप्रसिद्धिद्योतनार्थो वैशब्दः । प्रतीतिं घटयति — अथेति । रथादिसृष्टिमाक्षिपति — कथं पुनरिति । वासनामयी सृष्टिः श्लिष्टेत्युत्तरमाह — उच्यत इति । तदुपलब्धिनिमित्तेनेत्यत्र तच्छब्देन वासनात्मिका मनोवृत्तिरेवोक्ता । उक्तमेव प्रपञ्चयति — नत्वित्यादिना । तदुपलब्धिवासनोपलब्धिस्तत्र यत्कर्मनिमित्तं तेन चोदिता योद्भूतान्तःकरणवृत्तिर्ग्राहकावस्था तदाश्रयं तदात्मकं तद्वासनारूपं दृश्यत इति योजना । तथाऽपि कथमात्मज्योतिः स्वप्ने केवलं सिध्यति तत्राऽऽह — तद्यस्येति । यथा कोषादसिर्विविक्तो भवति तथा दृश्याया बुद्धेर्विविक्तमात्मज्योतिरिति कैवल्यं साधयति — असिरिवेति । तथा रथाद्यभाववदिति यावत् । सुखान्येव विशिष्यन्त इति विशेषाः सुखसामान्यानीत्यर्थः । तथेत्यानन्दाद्यभावो दृष्टान्तितः । अल्पीयांसि सरांसि पल्वलशब्देनोच्यन्ते । स हि कर्तेत्यत्र हि शब्दार्थो यस्मादित्युक्तस्तस्मात्सृजतीति शेषः । कुतोऽस्य कर्तृत्वं सहकार्यभावादित्याशङ्क्याऽऽह — तद्वासनेति । तच्छब्देन वेशान्तादिग्रहणम् । तदीयवासनाधारश्चित्तपरिणामस्तेनोद्भवति यत्कर्म तस्य सृज्यमाननिदानत्वेनेति यावत् । मुख्यं कर्तृत्वं वारयति — नत्विति । तत्रेति स्वप्नोक्तिः । साधनाभावेऽपि स्वप्ने क्रिया किं न स्यादित्याशङ्क्याऽऽह — न हीति । तर्हि स्वप्ने कारकाण्यपि भविष्यन्ति नेत्याह — न चेति । तर्हि पूर्वोक्तमपि कर्तृत्वं कथमिति चेत्तत्राऽऽह — यत्र त्विति । उक्तेऽर्थे वाक्योपक्रममनुकूलयति — तदुक्तमिति । उपक्रमे मुख्यं कर्तृत्वमिह त्वौपचारिकमिति विशेषमाशङ्क्याऽऽह — तत्रापीति । परमार्थतश्चैतन्यज्योतिषो व्यापारवदुपाध्यवभासकत्वव्यतिरेकेण स्वतो न कर्तृत्वं वाक्योपक्रमेऽपि विवक्षितमित्यर्थः । आत्मनो वाक्योपक्रमे कर्तृत्वमौपचारिकमित्युपसंहरति — यदिति । न हि कर्तेत्यौपचारिकं कर्तृत्वमित्युच्यते चेत्तस्य ध्यायतीवेत्यादिनोक्तत्वात्पुनरुक्तिरित्याशङ्क्याऽऽह — यदुक्तमिति । अनुवादे प्रयोजनमाह — हेत्वर्थमिति ।
स्वप्ने रथादिसृष्टाविति शेषः ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 यदुक्तं स्वप्ने स्वयं ज्योतिरात्मेति तत्प्रकारान्तरेणाऽऽक्षिपति — नन्विति । अवस्थाद्वये विशेषाभावकृतं चोद्यं दूषयति — उच्यत इति । वैलक्षण्यं स्फुटयति — जागरिते हीति । मनस्तु स्वप्ने सदपि विषयत्वान्न स्वयञ्ज्योतिष्ट्वविघातीति भावः । उक्तं वैलक्षण्यं प्रतीतिमाश्रित्याऽऽक्षिपति — नन्विति । न तत्रेत्यादिवाक्यं व्याकुर्वन्नुत्तरमाह — शृण्विति । तदेते श्लोका भवन्तीत्येतत्प्रतीकं गृहीत्वा व्याचष्टे — तदेत इति । उक्तोऽर्थः स्वयञ्ज्योतिष्ट्वादिः । शारीरमिति स्वार्थे वृद्धिः । स्वयमसुप्तत्वे हेतुमाह — अलुप्तेति । व्याखेयं पदमादाय व्याचष्टे — सुप्तानित्यादिना । उक्तमनूद्य पदान्तरमवतार्य व्याकरोति —
सुप्तानभिचाकशीतीति ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 तथाशब्दः स्वप्नगतविशेषसमुच्चयार्थः । किमिति स्वप्ने प्राणेन शरीरमात्मा पालयति तत्राऽऽह — अन्यथेति । बहिश्चरित्वेत्ययुक्तं शरीरस्थस्य स्वप्नोपलम्भादित्याशङ्क्याऽऽह — यद्यपीति । तत्संबन्धाभावाद्बहिश्चरित्वेत्युच्यत इति संबन्धः । देहस्थस्यैव तदसंबन्धे दृष्टान्तमाह —
तत्स्थ इति ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 स्वप्नस्थं विशेषान्तरमाह — किञ्चेति ।
उच्चावचं विषयीकृत्य तेन तेनाऽऽत्मना स्वेनैव स्वयं गम्यमान इति यावत् ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 आरामं विवृणोति — ग्राममित्यादिना । न तमित्यादेस्तात्पर्यमाह — कष्टमिति । दृष्टिगोचरापन्नमपि न पश्यतीति संबन्धः । कष्टमित्यादिनोक्तं प्रपञ्चयति — अहो इति । श्लोकानां तात्पर्यमुपसंहरति — अत्यन्तेति । वाक्यान्तरमादाय तात्पर्यमुक्त्वाऽऽकाङ्क्षापूर्वकमक्षराणि व्याकरोति — तं नेत्यादिना । तेषामभिप्रायमाह — नूनमिति । इन्द्रियाण्येव द्वाराण्यस्येतीन्द्रियद्वारो जाग्रद्देहस्तस्मादिति यावत् । तथाऽपि सहसाऽसौ बोध्यतां का हानिरित्याशङ्क्याऽऽह — तत्रेति । सहसा बोध्यमानत्वं सप्तम्यर्थः । किमत्र प्रमाणमित्याशङ्क्यानन्तरवाक्यमवतार्य व्याचष्टे — तदेतदाहेत्यादिना । पुनरप्रतिपत्तौ दोषप्रसंगं दर्शयति — कदाचिदिति । व्यत्यासप्रवेशस्य कार्यं दर्शयन्दुर्भिषज्यमित्यादि व्याचष्टे — तत इति । उक्तां प्रसिद्धिमुपसंहरति — तस्मादिति। वृत्तमनूद्य मतान्तरमुत्थपयति — स्वप्नो भूत्वेत्यादिना । इतिशब्दो यस्मादर्थे । तदेव मतान्तरं स्फोरयति — नेत्यादिना । उक्तमङ्गीकृत्य फलं पृच्छति — यद्येवमिति । स्वप्नो जागरितदेश इत्येवं यदीष्टमतश्च किं स्यादिति प्रश्नार्थः । फलं प्रतिज्ञाय प्रकटयति — शृण्विति । मतान्तरोपन्यासस्य स्वमतविरोधित्वमाह — इत्यत इति । स्वप्नस्य जाग्रद्देशत्वं दूषयति — तदसदिति । तस्य जाग्रद्देशत्वाभावे फलितमाह — तस्मादिति । स्वप्ने बाह्यज्योतिषः संभवो नास्तीत्यत्र प्रमाणमाह — तदुक्तमिति । बाह्यज्योतिरभावेऽपि स्वप्ने व्यवहारदर्शनात्तत्र स्वयञ्ज्योतिष्ट्वमाक्षेप्तृमशक्यमित्युपसंहरति — तस्मादिति । कथं पुनर्विद्यायामनुक्तायां सहस्रदानवचनमित्याशङ्क्य वृत्तं कीर्तयति — स्वयं ज्योतिरिति । मृत्यो रूपाण्यतिक्रामतीत्यत्र च कार्यकरणव्यतिरिक्तत्वमात्मनो दर्शितमित्याह — अतिक्रामतीति । लोकद्वयसंचारवशादुक्तमर्थमनुद्रवति — क्रमेणेति । आदिशब्दस्तत्तद्देहादिविषयः । स्थानद्वयसंचारवशादुक्तमनुभाषते — तथेति । इहलोकपरलोकाभ्यामिवेति यावत् । लोकद्वये स्थानद्वये च क्रमसंचारप्रयुक्तमर्थान्तरमाह — तत्र चेति । आत्मनः स्वयञ्ज्योतिषो देहादिव्यतिरिक्तस्य नित्यस्य ज्ञापितत्वादित्यतःशब्दार्थः । कामप्रश्नस्य निर्णीतत्वान्निराकाङ्क्षत्वमिति शङ्कां वारयति — विमोक्षश्चेति । सम्यग्बोधस्तद्धेतुरिति यावत् । ननु स एव प्रागुक्तो नासौ वक्तव्योऽस्ति तत्राऽऽह — तदुपयोगीति । अयमित्युक्तात्मप्रत्ययोक्तिः । तादर्थ्यात्पदार्थज्ञानस्य वाक्यार्थज्ञानशेषत्वादिति यावत् । पदार्थस्य वाक्यार्थबहिर्भावं दूषयति — तदेकदेश एवेति । कामप्रश्नो नाद्यापि निर्णीत इत्यत्रोत्तरवाक्यं गमकमित्याह — अत इति । कामप्रश्नस्यानिर्णीतत्वादिति यावत् । तेनापेक्षितेन हेतुनेत्यर्थः । विमोक्षशब्दस्य सम्यग्ज्ञानविषयत्वं सूचयति — येनेति । सम्यग्ज्ञानप्राप्तौ गुरुप्रसादादस्य प्राधान्यं दर्शयति — त्वत्प्रसादादिति । ननु विमोक्षपदार्थो निर्णीतोऽन्यथा सहस्रदानस्याऽऽकस्मिकत्वप्रसंगादत आह —
विमोक्षेति ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 वैशब्दस्य प्रसिद्धार्थत्वमुपेत्य सशब्दार्थमाह — प्रकृत इति । एषशब्दमनूद्य व्याकरोति — एष इति । संप्रदाने स्थित्वा मृत्युमतिक्रामतीति शेषः । सुषुप्तस्य संप्रसादत्वं साधयति — जागरित इत्यादिना । तत्र वाक्यशेषमनुकूलयति — तीर्णो हीति । अस्तु संप्रसादः सुषुप्तं स्थानं तथाऽपि किमायातमित्यत आह — स वा इति । पूर्वोक्तेन क्रमेण संप्रसादे सुषुप्ते स्थित्वा संप्रसन्नः सन्मृत्युमतिक्रामतीत्यर्थः । उक्तमर्थमुपपादयितुमाकाङ्क्षामाह — कथमिति । रत्वेत्यादि व्याकुर्वन्परिहरति — स्वप्नादिति । पुण्यपापशब्दयोर्यथार्थत्वमाशङ्क्याऽऽह — न त्विति । अवोचामोभयान्पाप्मन आनन्दांश्च पश्यतीत्यत्रेति शेषः । पुण्यपापयोर्दशनमेव न करणमित्यत्र फलितमाह — तस्मादिति । तद्द्रष्टुरपि तदनुबन्धः स्यादित्याशङ्क्यातिप्रसंगान्मैवमित्याह — यो हीत्यादिना । पुण्यपापाभ्यामात्मनोऽसंस्पर्शे फलितमाह — तस्मादिति । मृत्योरतिक्रमणे किं स्यादित्याशङ्क्याऽऽह — अतो नेति । मृत्योरस्वभावत्वमुपपादयति — मृत्युश्चेदिति । इष्टापत्तिमाशङ्क्याऽऽह — न त्विति । अनन्वागतवाक्यादसंगवाक्यश्चेत्यर्थः । मोक्षशास्त्रप्रामाण्यादपि मृत्योरस्वभावत्वमित्याह — स्वभावश्चेदिति । इतश्च मृत्युः स्वभावो न भवतीत्याह — न त्विति । अभावादिति च्छेदः । तस्याः स्वभावत्वे लब्धमर्थं कथयति — अत इति । मृत्युमेव व्याचष्टे — पुण्यपापाभ्यामिति । स्वप्ने मृत्योः स्वभावत्वाभावेऽपि जाग्रदवस्थायां कर्तृत्वमात्मनः स्वभावस्तथा च नियमेन तस्य मृत्योरतिक्रमो न सिध्यतीति शङ्कते — नन्विति । औपाधिकत्वात्कर्तृत्वस्य स्वाभाविकत्वाभावादात्मनो मृत्योरतिक्रमः संभवतीति परिहरति — नेति । कथमौपाधिकत्वं कर्तृत्वस्य सिद्धवदुच्यते तत्राऽऽह — तच्चेति । ध्यायतीवेत्यादौ सादृश्यवाचकादिवशब्दादौपाधिकत्वं कर्तृत्वस्य प्रागेव दर्शितमित्यर्थः । जागरितेऽपि कर्तृत्वस्य स्वाभाविकत्वाभावे फलितमाह — तस्मादिति । मृत्योः स्वाभाविकत्वाशङ्काभावकृतं फलमाह — अनिर्मोक्षता वेति । वाशब्दो नञनुकर्षणार्थः । पुण्यं च पापं चेत्येतदन्तं वाक्यं व्याख्याय पुनरित्यादि व्याचष्टे — तत्रेति । स्वप्नाद्व्युत्थाय सुषुप्तिमनुभूयोत्तरकालमिति यावत् । स्थानात्स्थानान्तरप्राप्तावभ्यासं वक्तुं पुनःशब्दः । प्रतिन्यायमित्यस्यावयवार्थमुक्त्वा विवक्षितमर्थमाह — पुनरिति । संप्रसादादूर्ध्वमिति यावत् । जागरितात्स्वप्नं ततः सुषुप्तं गच्छतीति पूर्वगमनं ततो वैपरीत्येन सुषुप्तात्स्वप्नं जागरितं वा गच्छतीति यदागमनं स प्रतिन्यायः । तमेव संक्षिपति — यथेति । यथास्थानमाद्रवतीत्येतद्विवृणोति — स्वप्नस्थानादिति । उक्तेऽर्थे वाक्यं पातयति — प्रतियोनीति । किमर्थं यथास्थानमागमनं तदाह — स्वप्नायेति । स यदित्यादिवाक्यस्य व्यावर्त्यामाशङ्कामाह — नन्विति । तत्र वाक्यमुत्तरत्वेनावतार्य व्याकरोति — अत आहेति । अननुबद्ध इत्यस्यार्थं स्फुटयति — नैवेति । स यदित्यादिवाक्यस्याक्षरार्थमुक्त्वा तात्पर्यमाह — यदि हीति । तेनाऽऽत्मनेति यावत् । स्वप्ने कृतं कर्म पुनस्तेनेत्युक्तम् । अनुबन्धे दोषमाह — स्वप्नादिति । इष्टापत्तिमाशङ्क्याऽऽह — न चेति । स्वप्नकृतेन कर्मणा जाग्रदवस्थस्य पुरुषस्यान्वागतत्वप्रसिद्धिरिति यदुच्यते तन्न व्यवहारभूमौ संप्रतिपन्नमित्यर्थः । स्वप्नदृष्टेन जाग्रद्गतस्य न संगतिरित्यत्र स्वानुभवं दर्शयति — न हीति । यथोक्तेऽनुभवे लोकस्यापि संमतिं दर्शयति — न चेति । तत्र फलितमाह — अत इति । कथं तर्हि स्वप्ने कर्तृत्वप्रतीतिस्तत्राऽऽह — तस्मादिति । स्वप्नस्याऽऽभासत्वाच्च न तत्र वस्तुतोऽस्ति क्रियेत्याह — उतेवेति । तदाभासत्वे लोकप्रसिद्धिमनुकूलयति — आख्यातारश्चेति । स्वप्नस्याऽऽभासत्वे फलितमाह — अत इति । अनन्वागतवाक्यं प्रतिज्ञारूपं व्याख्यायासंगवाक्यं हेतुरूपमवतारयितुमाकाङ्क्षामाह — कथमिति । मूर्तस्य मूर्तान्तरेण संयोगे क्रियोपलम्भादमूर्तस्य तदभावादात्मनश्चामूर्तत्वेनासंयोगात्क्रियायोगादकर्तृत्वसिद्धिरित्युत्तरं हेतुवाक्यार्थकथनपूर्वकं कथयति — कार्यकरणैरित्यादिना । आत्मनोऽसंगत्वेनाकर्तृत्वमुक्तं समर्थयते — अत एवेति । अतःशब्दार्थं विशदयति — कार्येति । क्रियावत्त्वाभावे जन्ममरणदिराहित्यं कौटस्थ्यं फलतीत्याह — तस्मादिति । कर्मप्रविवेकमुक्तमङ्गीकरोति — एवमिति । तत्प्रविविक्तात्मज्ञाने दार्ढ्यं सूचयति — सोऽहमिति । नैराकाङ्क्ष्यं व्यावर्तयति — अत इति । कथं तर्हि सहस्रदानमित्याशङ्क्याऽऽह — मोक्षेति। कामप्रविवेकविषयनियोगमभिप्रेत्य पुनरनुक्रामति —
अत ऊर्ध्वमिति॥१५॥ 【भाष्यम्】 【भाष्यम्】 उत्तरकण्डिकामवतारयितुं वृत्तं कीर्तयति — यत्प्रस्तुतमिति । आत्मनैवेत्यादिना यदात्मनः स्वयञ्ज्योतिष्ट्वं ब्राह्मणादौ प्रस्तुतं तदत्रायमित्यादिना प्रत्यक्षतः स्वप्ने प्रतिपादितमिति संबन्धः । वृत्तमर्थान्तरमनूद्य चोद्यमुत्थापयति — यत्तूक्तमिति । मृत्युं नातिक्रामतीत्यत्र हेतुमाह — प्रत्यक्षं हीति । इच्छाद्वेषादिरादिशब्दार्थः । तथाऽपि कुतो मृत्युं नातिक्रमति तत्राऽऽह — तस्मादिति । कार्यस्य कारणादन्यत्र प्रवृत्त्ययोगादिति यावत् । उक्तमुपपादयति — कर्मणो हीति । अतः स्वप्नं गतो मृत्युं कर्माख्यं नातिक्रामतीति शेषः । मा तर्हि मृत्योरतिक्रमोऽभूत्को दोषस्तत्राऽऽह — यदि चेति । स्वभावादपि मृत्योर्विमुक्तिमाशङ्क्याऽऽह — न हीति । उक्तं हि - ‘ न हि स्वभावो भावनां व्यावर्तेतौष्ण्यद्रवेः’ इति ॥ कथं तर्हि मोक्षोपपत्तिरित्याशङ्क्याऽऽह — अथेति । एषा च शङ्का प्रागेव राज्ञा कृतेति दर्शयन्नुत्तरमुत्थापयति — यथेत्यादिना । तद्दिदर्शयिषयेत्यत्र तच्छब्देन मृत्योरतिक्रमणं गृह्यते । उत्तरकण्डिकाव्यावर्त्यां शङ्कामाह — तत्रेति। पूर्वकण्डिका सप्तम्यर्थः । भवत्वकर्तृत्वहेतुरसंगत्वं किं तावतेत्याशङ्क्याऽऽह - उक्तं चेति। पूर्वं श्लोकोपन्यासदशायामिति यावत् । कर्मवशात्स्वप्नहेतुकर्मसामर्थ्यादित्यर्थः । आत्मनः स्वप्ने कामकर्मसंबन्धेऽपि किमिति नासंगत्वं तत्राऽऽह — कामश्चेति। हेत्वसिद्धिं परिहरति — न त्विति। न चेद्धेतोरसिद्धत्वं तर्हि कथं तत्सिद्धिरिति पृच्छति — कथमिति। हेतुसमर्थनार्थमुत्तरग्रन्थमुत्थापयति — असंग इति। प्रतियोन्याद्रवतीत्येतदन्तं सर्वमित्युक्तम् । स्वप्ने कर्तृत्वाभावस्तच्छब्दार्थः उक्तमसंगत्वं व्यतिरेकमुखेन विशदयति — यदीति। संगवानित्यस्य व्याख्यानम् — कामीति।
तत्संगजैस्तत्र स्वप्ने विषयविशेषेषु कामाख्यसंगवशादुत्पन्नैरपराधैरिति यावत् । न तु लिप्यते प्रायश्चित्तविधानस्यापि स्वप्नसूचिताशुभाशङ्कानिबर्हणार्थत्वाद्वस्तुवृत्तानुसारित्वाभावादिति शेषः ॥१६॥ 【भाष्यम्】 【भाष्यम्】 जाग्रदवस्थायामुक्तमकर्तृत्वमाक्षिपति — नन्विति । तत्र कल्पितं कर्तृत्वमित्युत्तरमाह — नेत्यादिना । तदेव विवृणोति — आत्मनैवेति । स्वतोऽकर्तृत्वे वाक्योपक्रमं संवादयति — तथाचेति । वाक्यार्थं संगृह्णालि — बुद्ध्यादीति । कर्तृत्वमिति शेषः । नन्वौपाधिकं कर्तृत्वं पूर्वमुक्तमिदानीं तन्निराकरणे पूर्वापरविरोधः स्यादित्यत्राऽऽह — इह त्विति । उपाधिनिरपेक्षः कर्तृत्वाभाव इति शेषः । तेनेत्युक्तं हेतुं स्फुटयति — यस्मादिति । आत्मनो लेपाभावे भगवद्वाक्यमपि प्रमाणमित्याह — तथा चेति । अवस्थात्रयेऽप्यसंगत्वमनन्वागतत्वं चाऽऽत्मनः सिद्धं चेद्विमोक्षपदार्थस्य निर्णीतत्वाज्जनकस्य नैराकाङ्क्ष्यमित्याशङ्क्याऽऽह — तथेति । यथा मोक्षैकदेशस्य कर्मविवेकस्य दर्शितत्वात्पूर्वत्र सहस्रदानमुक्तं तथाऽऽत्रापि तदेकदेशस्य कामविवेकस्य दर्शितत्वात्तद्दानं न तु कामप्रश्नस्य निर्णीतत्वादित्यर्थः । द्वितीयतृतीयकण्डिकयोस्तात्पर्यं संगृह्णाति — तथेत्यदिना । यथा प्रथमकण्डिकया कर्मविवेकः प्रतिपादितस्तथेति यावत् । कण्डिकात्रितयार्थं संक्षिप्योपसंहरति — यस्मादिति । अवस्थात्रयेऽप्यसंगत्वे किं सिध्यति तदाह — अत इति । प्रतीकमादाय स्वप्नान्तशब्दार्थमाह — प्रतियोनीति । कथं पुनस्तस्य सुषुप्तविषयत्वमत आह — दर्शनवृत्तेरिति । दर्शनं वासनामयं तस्य वृत्तिर्यस्मिन्निति व्युत्पत्त्या स्वप्नो दर्शनवृत्तिस्तस्य स्वप्नशब्देनैव सिद्धत्वादन्तशब्दवैय्यर्थ्यात्तस्यान्तो लयो यस्मिन्निति व्युत्पत्त्या स्वप्नान्तशब्देन सुषुप्तग्रहे सत्यन्तशब्देन स्वप्नस्य व्यावृत्त्युपपत्तेरत्र सुषुप्तस्थानमेव स्वप्नान्तशब्दितमित्यर्थः । तत्रैव वाक्यशेषानुगुण्यमाह — एतस्मा इति । स्वप्नान्तशब्दस्य स्वप्ने प्रयोगदर्शनादिहापि तस्यैव तेन ग्रहणमिति पक्षान्तरमुत्थाप्याङ्गीकरोति — यदीत्यादिना । सिषाधयिषितार्थसिद्धौ हेतुमाह —
यस्मादिति ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 उक्तमर्थं दृष्टान्तीकृत्य जागरितेऽपि निर्लेपत्वमात्मनो दर्शयति — यथेत्यदिना । तत्र प्रमाणमाह — तदेतदिति । आत्मनः स्थानत्रयसंचारादसिद्धोऽसंगत्वहेतुरिति शङ्कते — तत्रेति । प्रतिज्ञाहेत्वोर्हेतुनिर्धारणं सप्तम्यर्थः । सप्रयोजकाद्देहद्वयाद्वैलक्षण्यं तु दूरनिरस्तमित्येवशब्दार्थः । एवं चोदिते हेतुसमर्थनार्थं महामत्स्यवाक्यमिति संगतिमभिप्रेत्य संगत्यन्तरमाह — पूर्वमपीति । यथाप्रदर्शितोऽर्थोऽसंगत्वं कार्यकरणविनिर्मुक्तत्वं च अहार्यत्वमप्रकम्प्यत्वम् । स्वच्छन्दचारित्वं प्रकटयति — संचरन्नपीति । किं पुनर्दृष्टान्तेन दार्ष्टान्तिके लभ्यते तदाह —
दृष्टान्तेति ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 कण्डिकात्रयेण सिद्धमर्थमनुवदति — एवमिति । स्वप्नविशेषणात्स्वप्नदर्शननिषेधेऽपि कुतो जाग्रद्दर्शनं निषिध्यते तत्राऽह — जागरितेऽपीति । कथमयमभिप्रायः श्रुतेरवगत इत्याशङ्क्य विशेषणसामर्थ्यादित्याह — अत आहेति । जागरितस्यापि स्वप्नत्वे श्रुत्यन्तरं संवादयति — तथा चेति । दृष्टान्तदार्ष्टान्तिकयोर्विवक्षितमंशं दर्शयति — यथेत्यादिना । संयुज्यमानस्य क्षेत्रज्ञस्येति शेषः । सर्वसंसारधर्माविलक्षणमिति विशेषणं व्याचष्टे —
सर्वेति ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 श्येनवाक्यमवतारयितुं वृत्तं कीर्तयति — अत्र चेति । पूर्वसन्दर्भः सप्तम्यर्थः । देहद्वयेन सप्रयोजकेन वस्तुतोऽसंबन्धे फलितमाह — स्वत इति । कथं तर्हि तत्र संसारित्वधीरित्याशङ्क्याह — उपाधीति । औपाधिकस्यापि वस्तुत्वमाशङ्क्याऽऽह — अविद्येति । वृत्तमनूद्योत्तरग्रन्थमवतारयन्भूमिकामाह — तत्रेति । स्थानत्रयसंबन्धित्वेन विप्रकीर्णे विश्लिष्टं रूपमस्येत्यात्मा तथा । पञ्चीकृत्य विवक्षितं सर्वं विशेषणमादायेति यावत् । एकत्रेति वाक्योक्तिः । तत्र हेतुं वदञ्जाग्रद्वाक्येन विवक्षितात्मोक्तिरित्याह — यस्मादिति । ससंगत्वादेर्दृश्यमानरूपस्य मिथ्यात्वं सूचयति — अविद्ययेति । स्वप्नवाक्ये विवक्षितात्मसिद्धिमाशङ्क्याऽऽह — स्वप्ने त्विति । तर्हि सुषुप्तवाक्ये तत्सिद्धिर्नेत्याह — सुषुप्ते पुनरिति । तत्राप्यविद्यानिर्मोको न प्रतिभातीति भावः । एवं पातनिकां कृत्वा श्येनवाक्यमादत्ते — एकवाक्यतयेति । पूर्ववाक्यानामिति शेषः । कुत्र तर्हि यथोक्तमात्मरूपं पञ्चीकृत्य प्रदर्श्यते तत्राऽऽह — सुषुप्ते हीति । तत्राभयमित्यविद्याराहित्यमुच्यते सा च सुषुप्ते स्वरूपेण सत्यपि नाभिव्यक्ता भातीति द्रष्टव्यम् । यस्मात्सुषुप्ते यथोक्तमात्मरूपं वक्ष्यते तस्मादिति यावत् । एवंरूपमित्येतदेव प्रकटयति — विलक्षणमिति । कर्यकरणविनिर्मुक्तं कामकर्माविद्यारहितमित्यर्थः । स्थानद्वयं हित्वा कथं सुषुप्तं प्रवेष्टुमिच्छतीति पृच्छति — तत्कथमिति । स्वप्नादौ दुःखानुभवात्तत्त्यागेन सुषुप्तं प्राप्नोतीत्याह — आहेति । अथोत्तरा श्रुतिः स्थानान्तरप्राप्तिमभिधत्तां तथाऽपि किं दृष्टान्तवचनेनेत्याशङ्क्याऽऽह — दृष्टान्तेनेति । अस्यार्थस्य सुषुप्तिरूपस्येत्येतत् । स एवार्थस्तत्रेति सप्तम्यर्थः । परमात्माकाशं व्यावर्तयितुं भौतिकविशेषणम् । महाकायो मन्दवेगः श्येनः सुपर्णस्तु वेगवानल्पविग्रह इति भेदः । धारणे सौकर्यं वक्तुं स्वयमेवेत्युक्तम् । स्वप्नजागरितयोरवसानमन्तमज्ञातं ब्रह्म । तथा न कञ्चन स्वप्नमिति स्वप्नजागरितयोरविशेषेण सर्वं दर्शनं निषिध्यत इति शेषः । तासां परमसूक्ष्मत्वं दृष्टान्तेन दर्शयति — यथेति । कथमन्नरसस्य वर्णविशेषप्राप्तिरित्याशङ्क्याऽऽह — वातेति । भुक्तस्यान्नस्य परिणामविशेषो वातबाहुल्ये नीलो भवति पित्ताधिक्ये पिङ्गलो जायते श्लेश्मातिशये शुक्लो भवति पित्ताल्पत्वे हरितः साम्ये च धातूनां लोहित इति तेषां मिथः संयोगवैषम्यात्तत्साम्याच्च विचित्रा बहवश्चान्नरसा भवन्ति तद्व्याप्तानां नाडीनामपि तादृशो वर्णो जायते । ‘ अरुणाः शिरा वातवहा नीलाः पित्तवहाः शिराः । असृग्वहास्तु रोहिण्यो गौर्यः श्लेष्मवहाः शिराः ॥’ इति सौश्रुते दर्शनादित्यर्थः । नाडीस्वरूपं निरूप्य यत्र जागरिते लिङ्गशरीरस्य वृत्तिं दर्शयति — तास्त्विति । एवंविधास्वित्यस्यैव विवरणं सूक्ष्मास्वित्यादि । पञ्चभूतानि दशेन्द्रियाणि प्राणोऽन्तःकरणमिति सप्तदशकम् । जागरिते लिङ्गशरीरस्य स्थितिमुक्त्वा स्वाप्नीं तत्स्थितिमाह — तल्लिङ्गमिति । विवक्षितां स्वप्नस्थितिमुक्त्वा श्रुत्यक्षराणि योजयति — अथेत्यादिना । स्वप्ने धर्मादिनिमित्तवशान्मिथ्यैव लिङ्गं नानाकारमवभासते तन्मिथ्याज्ञानं लिङ्गानुगतमूलाविद्याकार्यत्वादविद्येति स्थिते सतीत्यथशब्दार्थमाह — एवं सतीति । तस्मिन्काले स्वप्नदर्शने विज्ञेयमिति शेषः । इवशब्दर्थमाह — नेत्यादिना । उक्तोदाहरणेन समुच्चित्योदहरणान्तरमाह — तथेति । गर्तादिपतनप्रतीतौ हेतुमाह — तादृशी हीति । तादृशत्वं विशदयति — अत्यन्तेति । यथोक्तवासनाप्रभवत्वं कथं गर्तपतनादेरवगतमित्याशङ्क्याऽऽह — दुःखेति । यदेवेत्यादिश्रुतेरर्थमाह — किं बहुनेति । भयमित्यस्य भयरूपमिति व्याख्यानम् । भयं रूप्यते येन तत्कारणं तथा । हस्त्यदि नास्ति चेत्कथं स्वप्ने भातीत्याशङ्क्याऽऽह — अविद्येति । अथ यत्र देव इवेत्यादेस्तात्पर्यमाह — अथेति । तत्र तस्याः फलमुच्यत इति शेषः । तात्पर्योक्त्याऽथशब्दार्थमुक्त्वा विद्यया विषयस्वरूपे प्रश्नपूर्वकं वदन्यत्रेत्यादेरर्थमाह — किं विषयेति । इवशब्दप्रयोगात्स्वप्न एवोक्त इति शङ्कां वारयति — देवतेति । विद्येत्युपास्तिरुक्ता । अभिषिक्तो राज्यस्थो जग्रदवस्थायामिति शेषः । अहमेवेदमित्याद्यवतारयति — एवमिति । यथाऽविद्यायामपकृष्यमाणायां कार्यमुक्तं तद्वदित्यर्थः । यदेति जागरितोक्तिः । इदं चैतन्यमहमेव चिन्मात्रं न तु मदतिरेकेणास्ति तस्मादहं सर्वः पूर्णोऽस्मीति जानातीत्यर्थः । सर्वात्मभावस्य परमत्वमुपपादयति — यत्त्वित्यादिना । तत्र तेनाऽऽकारेणाविद्याऽवस्थितेत्याह — तदवस्थेति । तस्याः कार्यमाह — तयेति । समस्तत्वं पूर्णत्वम् । अनन्तरत्वमेकरसत्वम् । अबाह्यत्वं प्रत्यक्त्वम् । योऽयं यथोक्तो लोकः सोऽस्याऽऽत्मनो लोकान्पूर्वोक्तानपेक्ष्य परम इति संबन्धः । वाक्यार्थमुपसंहरति — तस्मादिति । मोक्षो विद्याफलमित्युत्तरत्र संबन्धः । तस्य प्रत्यक्षत्वं दृष्टान्तेन स्पष्टयति — यथेति । विद्याफलवदविद्याफलमपि स्वप्ने प्रत्यक्षमित्युक्तमनुवदति — तथेति । विद्याफलमविद्याफलं चेत्युक्तमुपसंहरति — ते एते इति । उक्तं फलद्वयं विभजते — विद्ययेति । असर्वो भवतीत्येतत्प्रकटयति — अन्यत इति । प्रविभागफलमाह — यत इति । विरोधफलं कथयति — विरुद्धत्वादिति । अविद्याकार्यं निगमयति — असर्वेति । अविद्यायाश्चेत्परिच्छिन्नफलत्वं तदा तस्य भिन्नत्वादेव यथोक्तं विरोधादि दुर्वारमित्यर्थः । विद्याफलं निगमयति — समस्तस्त्विति । नन्वविद्यायाः सतत्त्वं निरूपयितुमारब्धं न च तदद्यापि दर्शितं तथा च किं कृतं स्यादत आह — अत इति । कार्यवशादिति यावत् । इदंशब्दार्थमेव स्फुटयति — सर्वात्मनामिति । ग्राहकत्वमेव व्यनक्ति — आत्मन इति । वस्त्वन्तरोपस्थितिफलमाह — तत इति । कामस्य कार्यमाह — यत इति । क्रियातः फलं लभते तद्भोगकाले च रागादिना क्रियामादधातीत्यविच्छिन्नः संसारस्तद्यावन्न सम्यग्ज्ञानं तावन्मिथ्याज्ञाननिदानमविद्या दुर्वारेत्याह — तत इति । भेददर्शननिदानमविद्येत्यविद्यासूत्रे वृत्तमित्याह — तदेतदिति । तत्रैव वाक्यशेषमनुकूलयति — वक्ष्यमाणं चेति । अविद्याऽऽत्मनः स्वभावो न वेति विचारे किं निर्णीतं भवतीत्याशङ्क्य वृत्तं कीर्तयति — इदमिति । अविद्यायाः परिच्छिन्नफलत्वमस्ति ततो वैपरीत्येन विद्ययाः कार्यमुक्तं स च सर्वात्मभावो दर्शित इति योजना । संप्रति निर्णीतमर्थं दर्शयति — सा चेति । ज्ञाने सत्यविद्यानिवृत्तिरित्यत्र वाक्यशेषं प्रमाणयति — तच्चेति । अविद्या नाऽऽत्मनः स्वभावो निवर्त्यत्वाद्रज्जुसर्पवदित्याह — तस्मादिति । निवर्त्यत्वेऽप्यात्मस्वभावत्वे का हानिरित्याशङ्याऽऽह — न हीति । अविद्यायाः स्वाभाविकत्वाभावे फलितमाह —
तस्मादिति ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 श्येनवाक्येनाऽऽत्मनः सौषुप्तं रूपमुक्तमिदानीं नाडीखण्डस्य संबन्धं वक्तुं चोदयति — यद्यस्येति । परः सन्नुपाधिर्बुद्ध्यादिः । असंगत्वतः स्वतो बुद्ध्यादिसंबन्धासंभवमुपेत्याऽऽह — यन्निमित्तं चेति । सिद्धान्ताभिप्रायमनूद्य पूर्ववादी विकल्पयति — तस्या इति । आगन्तुकत्वमस्वाभाविकत्वम् । आद्ये मोक्षानुपपत्तिं विवक्षित्वाऽऽह — यदि चेति । अस्तु तर्हि द्वितीयो मोक्षोपपत्तेरित्याशङ्क्याऽऽह — तस्याश्चेति । मा भूदविद्याऽऽत्मस्वभावस्तद्धर्मस्तु स्याद्धर्म्यन्तराभावादित्याह — कथं वेति । तत्रोत्तरत्वेनोत्तरग्रन्थमुत्थापयति — सर्वानर्थेति । तद्वा अस्यैतदित्यनन्तरवाक्यतात्पर्यमाह — इदानीमिति । विद्याविद्ययोस्तफलयोश्च प्रदर्शनानन्तरमिति यावत् । मोक्षमेव विशिनष्टि — यत्रेति । पदद्वयस्यान्वयं दर्शयन्विवक्षितमर्थमाह — तदेतदिति । यत्रेत्यन्तशब्दितं ब्रह्मोच्यते । व्याख्यातं पदद्वयमनूद्य वैशब्दस्य प्रसिद्धार्थत्वं मन्वानो रूपशब्देन षष्ठ्याः संबन्धं दर्शयति — तदिति । अतिच्छन्दमिति प्रयोगे हेतुमाह — रूपपरत्वादिति । कथमतिच्छन्दमित्यात्मरूपं विवक्ष्यते तत्राऽऽह — छन्द इति । छन्दःशब्दस्य गायत्र्यादिच्छन्दोविषयस्य कथं कामविषयत्वमित्याशङ्क्याऽऽह — अन्योऽसाविति । गायत्र्यादिविषयत्वं त्यक्त्वा छन्दःशब्दस्य कामविषयत्वमतःशब्दार्थः । यद्यात्मरूपं कामवर्जितमित्येतदत्र विवक्षितं किमिति तर्हि दैर्घ्यं प्रयुज्यते तत्राऽऽह — तथाऽपीति । स्वाध्यायधर्मत्वं छान्दसत्वम् । वृद्धव्यवहामन्तरेण कामवाचित्वं छन्दःशब्दस्य कथमित्याशङ्क्याऽऽह — अस्ति चेति । तस्य कामवचनत्वे सति सिद्धं यद्रूपमनूद्य तस्यार्थमुपसंहरति — अत इति । तथा कामवर्जितत्ववदित्येतत् । नन्वत्राधर्मवर्जितत्वमेव प्रतीयते न धर्मवर्जितत्वं पाप्मशब्दस्याधर्ममात्रवचनत्वादत आह — पाप्मशब्देनेति । उपक्रमानुसारेण पाप्मशब्दस्योभयविषयत्वे विशेषणमनूद्य विवक्षितमर्थं कथयति — अपहतेति । तर्हि कार्यमेवाविद्याया निषिध्यते नेत्याह — तत्कार्येति । तस्मादर्थे तच्छब्दः । वाक्यार्थमुपसंहरति — यदेतदिति । कूर्चब्राह्मणान्तेऽपीदं रूपमुक्तमित्याह — इदं चेति । आगमवशात्तत्रोक्तं चेत्किमित्यत्र पुनरुच्यते तत्राऽऽह — इह त्विति । सविशेषत्वं चेदात्मत्वानुपपत्तिरित्यादिस्तर्कः । आगमसिद्धे किं तर्कोपन्यासेनेत्याशङ्क्याऽऽह — दर्शितेति । स्त्रीवाक्यस्य संगतिं वक्तुं वृत्तमनुद्रवति — अयमिति । अनन्वागतवाक्ये चाऽऽत्मनश्चेतनत्वमुक्तमित्याह — स यदिति । आत्मनः सदा चैतन्यज्योतिष्ट्वं स्वरूपं न केवलमुक्तादागमादेव सिद्धं किन्तु पूर्वोक्तादनुमानाच्च स्थितमित्याह — स्थितं चेति । वृत्तमनूद्य संम्बन्धं वक्तुकामश्चोदयति — स यदीति । अत्रेति सुषुप्तिरुक्ता । चैतन्यस्वभावस्यैव सुषुप्ते विशेषज्ञानाभावं साधयति — उच्यत इति । सुषुप्तिः सप्तम्यर्थः । अज्ञानं विशेषज्ञानाभावः । कोऽसावज्ञानहेतुस्तमाह — एकत्वमिति । जीवस्य परेणाऽऽत्मना यदेकत्वं तत्कथं सुषुप्ते विशेषज्ञानाभावे कारणं तस्मिन्सत्यपि चैतन्यस्वभावानिवृत्तेरिति शङ्कते — तत्कथमिति । तत्र स्त्रीवाक्यमुत्तरत्वेनोत्थापयति — उच्यत इति । तत्र दृष्टान्तभागमाचष्टे — दृष्टान्तेनेति । एकत्वकृतो विशेषज्ञानाभावो विवक्षितोऽर्थः परिष्वङ्गप्रयुक्तसुखाभिनिवेशादज्ञानं किमिति कल्प्यते स्वाभाविकमेव तत्किं न स्यादित्याशङ्क्याऽऽह — अपरिष्वक्तस्त्विति । तर्हि परिष्वङ्गवतोऽपि स्वभावविपरिलोपासंभवाद्विशेषविज्ञानं स्यादिति चेन्नेत्याह — परिष्वङ्गेति । स्त्रीपुंसलक्षणयोर्व्यामिश्रत्वं परिष्वङ्गस्तदुत्तरकालं संभोगफलप्राप्तिरेकत्वापत्तिस्तद्वशाद्विशेषाज्ञानमित्यर्थः । दार्ष्टान्तिकं व्याकरोति — एवमेवेति । भूतमात्राः शरीरेन्द्रियलक्षणास्ताभिश्चिदात्मनस्तादात्म्याध्यासात्तत्प्रतिबिम्बो जातस्ततो विभक्तवद्भातीत्यत्र दृष्टान्तमाह — सैन्धवेति । तस्य देहादौ प्रवेशं दृष्टान्तेन दर्शयति — जलादाविति । उपसर्गबललब्धमर्थं कथयति — एकीभूत इति । तादात्म्यं व्यावर्तयितुं निरन्तर इत्युक्तम् । परमात्माभेदप्रयुक्तमनवच्छिन्नत्वमाह — सर्वात्मेति । एवं स्त्रीवाक्याक्षराणि व्याख्याय चोद्यपरिहारं प्रकटयति — तत्रेति । प्रत्यगात्मनीति यावत् । इहेति सुषुप्तिरुच्यते । यथा परिष्वक्तयोः स्त्रीपुंसयोरेकत्वं पुंसो विशेषविज्ञानाभावे कारणं तथा परेणाऽऽत्मना सुषुप्ते जीवस्यैकत्वं विशेषविज्ञानाभावे तस्य तत्र कारणमुक्तमित्यर्थः । स्त्रीवाक्ये श्रौतमर्थमभिधायाऽऽर्थिकमर्थमाह — तत्रेति । किं पुनर्नानात्वे कारणमिति तदाह — नानात्वे चेति । उक्तमथ योऽन्यामित्यादावित्यर्थः । किमेतावता सुषुप्ते विशेषविज्ञानाभावस्याऽऽयातं तत्राऽऽह — तत्रेति । विशेषविज्ञाने नानात्वं तत्र चाविद्या कारणमिति स्थिते सतीति यावत् । यदा तदेति सुषुप्तिर्विवक्षिता । प्रविविक्तत्वं कार्यकारणाविद्याविरहितत्वम् । सर्वेण पूर्णेन परमात्मना सहेत्यर्थः । विज्ञानात्मा षष्ठ्योच्यते । एकत्वफलमाह — ततश्चेति । उक्तमुपजीव्याऽऽप्तकामवाक्यमवतार्य व्याचष्टे — यस्मादिति । आप्तकामत्वं समर्थयते — यस्मात्समस्तमिति । तदेव व्यतिरेकमुखेन विशदयति — यस्य हीत्यादिना । विशेषणान्तरमाकाङ्क्षापूर्वकमादाय व्याचष्टे — किमन्यस्मादित्यादिना । सुषुप्तेरन्यत्राऽऽत्मनः सकाशादन्यत्वेन प्रविभक्ता इव काम्यमानाः सुषुप्तावात्मैव कामास्तस्मादात्मकाममात्मरूपमित्येतद्दृष्टान्तेनाऽऽह — यथेति । अवस्थाद्वये खल्वात्मनः सकाशादन्यत्वेन प्रविभक्ता इव कामाः काम्यन्त इति कामाः । न चैवं सुषुप्त्यवस्थायामात्मनस्ते भिद्यन्ते किन्तु सुषुप्तस्याऽऽत्मैव कामा इत्यात्मकामस्तद्रूपमित्यर्थः । तस्याऽऽत्मैवेत्यत्र हेतुमाह — अन्यत्वेति । यद्यपि सुषुप्तेऽविद्या विद्यते तथाऽपि न साऽभिव्यक्ताऽस्तीत्यनर्थपरिहारोपपत्तिरित्यर्थः । कामानामात्माश्रयत्वपक्षं प्रतिक्षेप्तुं तृतीयं विशेषणम् । शोकमध्यं शोकस्यान्तरं प्रत्यग्भूतमिति यावत् । तर्हि शोकवत्त्वं प्राप्तं नेत्याह — सर्वथेति ।
पक्षद्वयेऽपि शोकशून्यमात्मरूपम् । न हि शोको येनाऽऽत्मवांस्तस्य शोकवत्त्वं शोकस्याऽऽत्माधीनसत्तास्फुर्तेरात्मातिरेकेणाभावादित्यर्थः ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 अत्र पितेत्यादिवाक्यमवतारयितुं वृत्तमनुद्रवति — प्रकृत इति । अविद्यादिनिर्मोके हेतुद्वयमाह — असंगत्वादिति । यद्यपि नाऽऽगन्तुकत्वमविद्याया युक्तं तथाऽप्यभिव्यक्ता साऽनर्थहेतुरागन्तुकीति द्रष्टव्यम् । स्त्रीवाक्यनिरस्यां शङ्कामनुवदति — तत्रेति । कामादिविमोके दर्शिते सतीति यावत् । स्वभावस्यापायो न संभवतीत्यभिप्रेत्य हेतुमाह यस्मादिति । शङ्कोत्तरत्वेन स्त्रीवाक्यमवतार्य तात्पर्यं पूर्वोक्तमनुकीर्तयति — स्वयमिति । वृत्तमनूद्योत्तरग्रन्थमुत्थापयति — इत्येतदिति । स्वयञ्ज्योतिष्ट्वस्य स्वाभाविकत्वमेतच्छब्दार्थः । प्रासंगिकं कामादेरागन्तुकत्वोक्तिप्रसंगादागतमिति यावत् । प्रकृतमेव दर्शयति — अत्र चेति । अतिच्छन्दादिवाक्यं सप्तम्यर्थः । प्रत्यक्षतः स्वरूपचैतन्यवशाद्यथोक्तात्मरूपस्य सुषुप्ते गृह्यमाणत्वमुत्थितस्य परामर्शादवधेयम् । कामादिसंबन्धवदात्मनस्तद्रहितमपि रूपं कल्पितमेवेत्याशङ्क्याऽऽह — तेदेतदिति । प्रकृतमर्थमुक्त्वोत्तरवाक्यस्थसप्तम्यर्थमाह — एतस्मिन्निति । जनकोऽप्यत्रापिता भवतीति संबन्धः । पिताऽप्यत्रापिता भवतीत्युपपादयति — तस्य चेत्यादिना । यथाऽस्मिन्काले पिता पुत्रस्यापिता भवति तद्वदित्याह — तथेति । नास्यार्थस्य प्रतिपादकः शब्दोऽस्तीत्याशङ्क्याऽऽह — सामर्थ्यादिति । तदेव सामर्थ्यं दर्शयति — उभयोरिति । सुषुप्ते कर्मातिक्रमे प्रमाणमाह — अपहतेति । पुनर्लोकदेवशब्दावनुवादार्थौ । वाक्यान्तरमादाय व्याचष्टे — तथेत्यादिना । साध्यसाधनसंबन्धाभिधायका ब्राह्मणलक्षणा इति शेषः । अभिधायकत्वेन प्रमाणत्वेन प्रमेयत्वेन चेत्यर्थः । अत्र स्तेनोऽस्तेनो भवतीत्याद “ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्तथा । शूद्राज्जातस्तु चाण्डालः सर्वधर्मबहिष्कृतः” (या.स्मृ.१-९३) इति स्मृतिमाश्रित्याऽऽह — चाण्डालो नामेति । ’जातो निषादाच्छूद्रायां जात्या भवति पुल्कसः’ । इति स्मृतेः शूद्रायां ब्राह्मणाज्जातो निषादः स च जात्या शूद्रस्तस्मात्क्षत्रियायां जातः पुल्कसो भवतीति व्याख्यानमुपेत्याऽऽह — शूद्रेणैवेति । श्रमणादिवाक्यस्य तात्पर्यमाह — तथेति । तथा चाण्डालवदिति यावत् । परिव्राट्तापसयोरेव ग्रहणात्तत्कर्मायोगेऽपि सौषुप्तस्य वर्णाश्रमान्तरकर्मयोगं शङ्कित्वाऽऽह — सर्वेषामिति । अदिशब्देन वयोवस्थादि गृह्यते । सौषुप्ते पुरुषे प्रकृते कथमनन्वागतमिति नपुंसकप्रयोगस्तत्राऽऽह — रूपपरत्वादिति । तत्परत्वे हेतुमनुषङ्गं दर्शयति — अभयमिति । हेतुवाक्यमाकाङ्क्षापूर्वकमुत्थाप्य व्याचष्टे — किं पुनरित्यादिना । यस्मादतिच्छन्दादिवाक्योक्तस्वभावोऽयमात्मा सुषुप्तिकाले हृदयनिष्ठान्सर्वाञ्छोकानतिक्रामति तस्मादेतदात्मरूपं पुण्यपापाभ्यामनन्वागतं युक्तमित्यर्थः । शोकशब्दस्य कामविषयत्वं साधयति — इष्टेति । कथं तस्याः शोकत्वापत्तिरित्याशङ्क्याऽऽह — इष्टं हीति । तेषां पर्यायत्वेऽपि प्रकृते किमायातं तदाह — यस्मादिति । अत्रेति सुषुप्तिरुच्यते । अतः सर्वकामातितीर्णत्वादित्युत्तरत्र संबन्धः । न केवलं शोकशब्दस्य कामविषयत्वमुपपन्नमेव किन्तु संनिधेरपि सिद्धमित्याह — न कञ्चनेति । शोकशब्दस्य कामविषयत्वेऽपि तदत्ययमात्रात्कथं कर्मात्ययः स्यदित्याशङ्क्याऽऽह — कामश्चेति । तत्र वाक्यशेषं प्रमाणयति — वक्ष्यति हीति । कामस्य कर्महेतुत्वे सिद्धे फलितमाह — अत इति । हृदयस्य शोकानतिक्रामतीत्यत्र हृदयशब्दार्थमाह — हृदयमितीति । मांसपिण्डविशेषविषयं हृदयपदं कथं बुद्धिमाहेत्याशङ्क्याऽऽह — तात्स्थ्यादिति । तथा मञ्चाः क्रोशन्तीति मञ्चक्रोशनमुच्यमानं मञ्चस्थान्पुरुषानुपचारादाह तथा हृदयस्थत्वाद्बुद्धेरुपचारबुद्धिं हृदयशब्दो दर्शयतीत्यर्थः । हृदयशब्दार्थमुक्त्वा तस्य संबन्धं दर्शयति — हृदयस्येति । तानतिक्रान्तो भवतीति शेषः । आत्माश्रयास्ते न बुद्धिमाश्रयन्तीत्याशङ्क्याऽऽह — बुद्धीति । कथं तर्हि केचिदात्माश्रयत्वं तेषां वदन्तीत्याशङ्क्य भ्रान्तिवशादित्याह — आत्मेति । भवतु कामानां हृदयाश्रितत्वं तथाऽपि तत्संबन्धद्वारा तदाश्रयत्वसंभवात्कथमात्मा सुषुप्ते कामानतिवर्तते तत्राऽऽह — हृदयेति । तत्संबन्धातीतत्वे श्रुतिसिद्धे फलितमाह — हृदयकरणेति । भर्तृप्रपञ्चप्रस्थानमुत्थापयति — ये त्विति । सत्येव हृदये तन्निष्ठानां कामादीनामात्मन्युपश्लेषो न तन्निवृत्तावित्याशङ्क्याऽऽह — हृदयवियोगेऽपीति । तन्मते श्रुतिविरोधमाह — तेषामिति । हृदयेन करणेनोत्पाद्यत्वादात्मविकाराणामपि कामादीनां हृदयसंबन्धसंभावान्नाऽऽनर्थक्यं श्रुतीनामिति शङ्कते — हृदयेति । न कामादिसंबन्धमात्रं हृदयस्य श्रुत्यर्थः किन्त्वाश्रयाश्रयित्वं तच्च करणत्वे न स्यात् । न हि चक्षुराद्याश्रयं रूपादिज्ञानं दृष्टमिति परिहरति — न हृदीति । चकाराद्वचनं न समञ्जसमिति संबध्यते । प्रदीपायत्तं घटज्ञानमिति वदन्तः करणायत्तमात्माश्रितं कामादिति तस्य तदाश्रयत्ववचनमौपचारिकमित्याशङ्क्याऽऽह — आत्मविशुद्धेश्चेति । इतश्चेदं यथार्थमेवेत्याह — ध्यायतीवेति । अन्यार्थासंभवाद्बुध्याश्रयणवचनस्येति शेषः । दक्षिणेनाक्ष्णा पश्यतीत्युक्ते वामेन न पश्यतीतिवत्प्रमुच्यन्ते हृदि श्रिता इति विशेषणमाश्रित्याऽऽशङ्कते — कामा य ति । प्रकारान्तरेण विशेषणस्यार्थवत्त्वं दर्शयति — नेत्यादिना । अत्रेति प्रकृतश्रुत्युक्तिः । आश्रयान्तरं बुद्ध्यतिरिक्तमात्माख्यम् । बुद्ध्यनाश्रिताः कामा एव न सन्ति यदपेक्षया हृदयाश्रयत्वविशेषणमित्याशङ्क्याऽऽह — ये त्विति । प्रतिपक्षतो विषयदोषदर्शनादिति यावत् । कामानां वर्तमानत्वनियमाभावाद्भूतभविष्यतामपि संभवे फलितमाह — अत इति । हृदयानाश्रितभूतभविष्यत्कामसंभवेऽपि सर्वकामनिवृत्तेर्विवक्षितत्वाद्वर्तमानविशेषणमनर्थकमिति शङ्कते — तथाऽपीति । अतीतानागतकामाभावः संभवति स्वतः सिद्धो न तन्निवृत्तौ यत्नोऽपेक्ष्यते शुद्धात्मदिदृक्षुणा तु मुमुक्षुणा वर्तमानकामनिरासे यत्नाधिक्यमाधेयमिति ज्ञापयितुं वर्तमानग्रहणमिति परिहरति — न तेष्विति । यदि यथोक्तं व्याख्यानमनादृत्याऽऽत्माश्रयत्वमेव कामानामाश्रीयते तदाऽश्रुतं मोक्षासंभवेनानिष्टं च कल्पितं स्यादित्याह — इतरथेति । अश्रुतत्वमसिद्धमिति शङ्कते — न कञ्चनेति । अर्थादाश्रयत्वं श्रुतमेव कामानामित्येतद्दूषयति — नेत्यादिना । निषेधो हि प्राप्तिमपेक्षते न वास्तवं कामानामात्मधर्मत्वं प्राप्तिस्तु भ्रान्त्याऽपि संभवति । तस्मादात्मनो वस्तुतो न कामाद्याश्रयत्वमित्यर्थः । इतश्चाऽऽत्मनो न कामाद्याश्रयत्वमित्याह — प्रसंगेति । नन्वसंगवचनमात्मनः संगाभावं साधयत्तस्य कामित्वे न विरुध्यते तत्राऽऽह — संगश्चेति । कामश्च संगस्ततोऽसिद्धो हेतुरत्रेति शेषः । वाक्यान्तरमाश्रित्याऽऽत्मनि कामाश्रयत्वं शङ्कित्वा दूषयति — आत्मेत्यादिना । इच्छादयः क्वचिदाश्रिता गुणत्वाद्रूपादिवदित्यनुमानात्परिशेषात्कामाद्याश्रयत्वमात्मनः सेत्स्यतीति शङ्कते — वैशेषिकादीति । श्रुत्यवष्टम्भेन निराचष्टे — नेत्यादिना । स्वयञ्ज्योतिष्ट्वबाधनाच्च नाऽऽत्माश्रयत्वं कामादीनामिति शेषः । तदेव विवृणोति — कामादीनामिति । स्थितं चानुमानादिति शेषः । यद्यत्र समवेतं तत्तेन न दृश्यते । यथा चक्षुर्गतं कार्ष्ण्यं तेनैव चक्षुषा न दृश्यते तथा कामादीनामात्मसमवायित्वे दृश्यत्वं न स्याद्दृश्यत्वबलेनैव स्वयञ्ज्योतिष्ट्वं साधितं तथा च तद्बाधे पूर्वोक्तमनुमानमपि बाध्येतेत्यर्थः । कथं कामादीनामात्मदृश्यत्वमाश्रित्य स्वप्ने स्वयञ्ज्योतिष्ट्वस्योपदिष्टत्वं तत्राऽऽऽह — द्रष्टुरिति । तथाऽपि तेषामात्माश्रयत्वे काऽनुपपत्तिस्तत्राऽऽह — तद्बाधितमिति । यत्तु परमात्मैकदेशं जीवमाश्रित्य तदाश्रितं कामादिति तत्राऽऽह — सर्वशास्त्रेति । तदेव स्फुटयति — परस्येति । शास्त्रार्थजातं निरवयवत्वप्रत्यगेकत्वादि तस्य कथं कोपः स्यादित्याशङ्क्याऽऽह — एतच्चेति । चतुर्थे चेद्भर्तृप्रपञ्चमतं निरस्तं तर्हि पुनर्निराकरणमकिञ्चित्करमित्याशङ्क्याऽऽह — महतेति । परेण सह प्रत्यगात्मनो यदेकत्वं तस्य शास्त्रार्थस्य सिद्ध्यर्थमिति यावत् । अंशत्वादिकल्पनायामपि शास्त्रार्थसिद्धिमाशङ्क्याऽऽह — तत्कल्पनायामिति । भर्तृप्रपञ्चकल्पनाया हेयत्वमुपसंहरति —
यथेत्यादिना ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 यद्वै तदित्यादिवाक्यं चोदितार्थानुवादस्तत्परिहारस्तु पश्यन्नित्यादिवाक्यमिति विभजते — यत्तत्रेति । न हीत्यादिवाक्यनिरस्यामाशङ्कामाह — नन्विति । चक्षुरादिव्यापाराभावेऽपि सुषुप्ते दर्शनादि किं न स्यादित्याशङ्क्याऽऽह — व्यापृतेष्विति । अस्तु तर्हि तत्रापि करणव्यापारो नेत्याह — न चेति । अयमिति सुषुप्तपुरुषोक्तिः । न पश्यत्येवेति नियमं निषेधति — न हीति । तत्र हेतुं वक्तुं प्रश्नपूर्वकं प्रतिज्ञां प्रस्तौति — किं तर्हीति । तत्राऽऽकाङ्क्षापूर्वकं हेतुवाक्यमुत्थाप्य व्याचष्टे — कथमित्यादिना । अविनाशित्वादित्येतद्व्याकुर्वन्दृष्टेर्विनाशाभावं स्पष्टयति — यथेत्यादिना । द्रष्टुर्दृष्टिर्न नश्यतीत्यत्र विरोधं चोदयति — नन्विति । विप्रतिषेधमेव साधयति — दृष्टिश्चेति । कार्यस्यापि वचनादविनाशः स्यादिति शङ्कते — नन्विति । तस्याकारकत्वान्नैवमिति परिहरति — न वचनस्येति । तदेव स्फुटयति — न हीति । यत्कृतकं तदनित्यमिति व्याप्त्यनुगृहीतानुमानविरोधाद्वचो न कार्यनित्यत्वबोधकमित्यर्थः । कूटस्थदृष्टिरेवात्र द्रष्टृशब्दार्थो न दृष्टिकर्ता तन्न विप्रषेधोऽस्तीति सिद्धान्तयति — नैष दोष इति । आदित्यादिप्रकाशकत्ववदित्युक्तं दृष्टान्तं व्याचष्टे — यथेति । दृष्टान्तेऽपि विप्रतिपन्नं प्रत्याऽऽह — न हीति । दर्शनोपपत्तेरित्युक्तं दार्ष्टान्तिकं विभजते — तथेति । आत्मनो नित्यदृष्टित्वे दोषमाशङ्कते — गौणमिति । गौणस्य मुख्यापेक्षत्वान्मुख्यस्य चान्यस्य द्रष्टृत्वस्याभावान्मैवमित्युत्तरमाह — नेत्यादिना । तामेवोपपत्तिमुपदर्शयति — यदि हीत्यादिना । अन्यथा कूटस्थदृष्टित्वमन्तरेणेति यावत् । दर्शनप्रकारस्यान्यत्वं क्रियात्मत्वम् । तस्य निष्क्रियत्वश्रुतिस्मृतिविरोधादिति शेषः । द्रष्टृत्वान्तरानुपपत्तौ फलितमाह — तदेवमेवेति । नित्यदृष्टित्वेनैवेत्यर्थः । उक्तेऽर्थे दृष्टान्तमाह — यथेत्यादिना । तथाऽऽत्मनोऽपि द्रष्टृत्वं नित्येनैव स्वाभाविकेन चैतन्यज्योतिषा सिध्यति तदेव च द्रष्टृत्वं मुख्यं द्रष्टृत्वान्तरानुपपत्तेरिति शेषः । आत्मनो नित्यदृष्टिस्वभावत्वे फलितमाह — तस्मादिति । तृजन्तं दृष्टृशब्दमाश्रित्य शङ्कते — नन्विति । अत्राप्यनित्यक्रियाकर्तृविषयस्तृजन्तशब्दप्रयोग इति शेषः । तृजन्तशब्दप्रयोगस्यानित्यक्रियाकर्तृविषयत्वं व्यभिचरयन्नुत्तरमाह — नेति । वैषम्याशङ्कते — भवत्विति । आदित्यादिषु स्वाभाविकप्रकाशेन प्रकाशयितृत्वमस्तु कादाचित्कप्रकाशेन प्रकाशयितृत्वस्य तेष्वसंभवान्न त्वात्मनि नित्या दृष्टिरस्ति तन्मानाभावात् । तथा च कादाचित्कदृष्ट्यैव तस्य द्रष्टृतेत्यर्थः । प्रतीचश्चिद्रूपत्वस्य श्रौतत्वात्कर्तृत्वं विना प्रकाशयितृत्वमविशिष्टमित्युत्तरमाह — न दृष्टीति । कूटस्थदृष्टिरात्मेत्युक्ते प्रत्यक्षविरोधं शङ्कते — पश्यामीति । द्विविधोऽनुभवस्तस्य कूटस्थदृष्टित्वमनुगृह्णाति चक्षुरादिव्यापारभावापेक्षया पश्यामि न पश्यामीति धियोरात्मसाक्षिकत्वादित्युत्तरमाह — न करणेति । आत्मदृष्टेर्नित्यत्वे हेत्वन्तरमाह — उद्धृतेति । आत्मदृष्टेर्नित्यत्वमुपसंहरति — तस्मादिति । तन्नित्यत्वोक्तिफलमाह — अत इति । वाक्यान्तरमाकाङ्क्षापूर्वकमुत्थाप्य व्याचष्टे — कथमित्यादिना । द्वितीयादिपदानां पौनरुक्त्यमाशङ्क्यार्थभेदं दर्शयति — यद्धीत्यादिना । साभासमन्तःकरणं यत्पश्येदिति विशेषदर्शनकरणं प्रमातृ द्वितीयं तस्मादन्यच्चक्षुरादि प्रमाणं रूपादि च प्रमेयं विभक्तं तत्सर्वं जाग्रत्स्वप्नयोरविद्याप्रतिपन्नं सुषुप्तिकाले कारणमात्रतां गतमभिव्यक्तं नास्तीत्यर्थः । सुषुप्ते द्वितीयं प्रमातृरूपं नास्तीत्येतदुपपादयति — आत्मन इति । प्रमातृरूपं पृथङ्नास्तीति शेषः । तथाऽपि करणव्यापारकृतं विषयदर्शनमात्मनः स्यादित्याशङ्क्याऽऽह — द्रष्टुरिति । सुषुप्तस्यापि परिच्छिन्नत्वमाशङ्क्याऽऽह — अयं त्विति । तस्य परेणैकीभावफलमाह — तेनेति । विषयेन्द्रियाभावकृतं फलमाह — तदभावादिति । किमिति विषयाद्यभावाद्विशेषदर्शनं निषिध्यते सत्त्वमेव तस्याऽऽत्मसत्त्वाधीनं किं न स्यादित्याशङ्क्याऽऽह — करणादिति । नन्ववस्थाद्वये विशेषदर्शनमात्मकृतं प्रतिभाति तस्य प्रधानत्वादत आह — आत्मकृतमिवेति । नन्वित्यादेस्तात्पर्यमुपसंहरति — तस्मादिति ।
प्रमातृकरणविषयकृतत्वाद्विशेषदृष्टेस्तेषां च सुषुप्ताभावात्तत्कार्याया विशेषदृष्टेरपि तत्राभावादिति यावत् । तत्कृता जागरादावात्मकृतत्वेन भ्रान्तिप्रतिपन्नविशेषदर्शनाभावप्रयुक्तेत्यर्थः ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 यद्वै तन्न पश्यतीत्यादेः संबन्धं वक्तुं वृत्तं कीर्तयति — स्त्रीपुंसयोरिति । चकारादुक्तं स्वयञ्ज्योतिष्ट्वमिति संबध्यते । किमिदं स्वयञ्ज्योतिष्ट्वमिति तदाह — स्वयञ्ज्योतिष्ट्वं नामेति । एवं वृत्तमनूद्योत्तरवाक्यव्यावर्त्यां शङ्कामाह — यदीत्यादिना । स्वभावत्यागमेवाभिनयति — न जानीयादिति । तत्त्यागाभावे सुषुप्ते विशेषविज्ञानराहित्यमयुक्तमित्याह — अथेत्यादिना । आत्मा चिद्रूपोऽपि सुषुप्ते विशेषं न जानाति चेत्किं दुष्यतीत्याशङ्क्याऽऽह — विप्रतिषिद्धमिति । परिहरति — नेति । उभयं चैतन्यस्वभावत्वं विशेषविज्ञानराहित्यं चेत्यर्थः । उभयस्वीकारे शङ्कितं विप्रषेधमाकाङ्क्षापूर्वकं श्रुत्या निराकरोति — कथमित्यादिना । यद्वै तन्न पश्यतीत्यादावुक्तन्यायमुत्तरवाक्येष्वतिदिशति — समानमन्यदिति । मनोबुद्ध्योः साधारणकरणत्वात्पृथग्व्यापाराभावे कथं पृथङ्निर्देशः स्यादित्याशङ्क्याऽऽह — मननेति । वाक्यानि व्याख्याय स्वसिद्धान्तस्फुटीकरणार्थं विचारयति — किं पुनरिति । धर्मभेदो धर्माणां सतां मिथो धर्मिणश्च भेदोऽस्तीति यावत् । धर्मस्य दृष्ट्यादिपदार्थस्येत्यर्थः । परोपाधिनिमित्तं चक्षुरद्युपाधिकृतमित्येतत् । धर्मान्यत्वं धर्मत्वं धर्मिणो मिथोऽन्यत्वं चेत्यर्थः । भर्तृप्रपञ्चमतेन पूर्वपक्षं गृह्णाति — अत्रेति । गवादीनां सावयवत्वाद्रूपभेदसंभवादेकेन रूपेणाभिन्नत्वं रूपान्तरेण भिन्नत्वमित्युभयथात्वेऽपि निरवयवेष्वात्मादिषु कथमनेकरसत्वसिद्धिरित्याशङ्क्याऽऽह — यथा स्थूलेष्विति । एकरूपत्वे वस्तुनो दृष्टान्तादृष्टेर्नानारूपत्वे गवादिदृष्टान्तदर्शनात्तदेवानुमेयम् । विमतं भिन्नाभिन्नं वस्तुत्वाद्गवादिवदित्यर्थः । यद्यपि गगनादिषु भिन्नाभिन्नत्वमनुमीयते तथाऽपि कथमात्मनि तदनुमानमित्याशङ्क्य वस्तुत्वस्य नानारूपत्वेनाव्यभिचारादात्मन्यपि यथोक्तमनुमानं निरङ्कुशप्रसरमित्याह — सर्वत्रेति । यथोक्तानुमानानुग्रहाद्यद्वै तदित्यादेर्भिन्नाभिन्ने वस्तुनि तात्पर्यमिति भावः । भर्तृप्रपञ्चोक्तं वाक्यतात्पर्यं निराकरोति — नेत्यादिना । चैतन्याविनाशे वाक्यतात्पर्यं चेत्कथं तर्हि दृष्ट्यादिभेदवचनमित्याशङ्क्याऽऽह — यदस्येति । तद्धि सुषुप्त्यवस्थायामुपाधेरन्तःकरणस्य चक्षुरादिभेदाधीनपरिणामव्यापारनिवृत्तौ सत्यामुपाधिभेदस्यानुद्भास्यमानत्वात्तेन भिन्नमिवानुपलक्ष्यमाणस्वभावं यद्यपि तथाऽपि चक्षुर्द्वारेण जायमानायां बुद्धिवृत्तौ व्यक्तं चैतन्यं दृष्टिघ्राणद्वारेण जातायां तस्यां व्यक्तं घ्रातिरित्युपाधिभेदात्प्राप्तभेदानुवादेन चैतन्यस्याविनाशित्वे वाक्यतात्पर्यमित्यर्थः । उक्ते वाक्यतात्पर्ये स्थिते फलितमाह — तत्रेति । इतश्च दृष्ट्यादिभेदकल्पना न श्लिष्टेत्याह — सैन्धवेति । तदेव स्पष्टयति — विज्ञानमिति । न दृष्ट्यादिभेदकल्पनेति शेषः । यथा घटाकाशो महाकाश इत्येकशब्दविषयत्वादुपाधिभेदेऽप्याकाशस्यैकत्वमिष्टं तथैकशब्दप्रवृत्तेरेकत्वं चित्तोऽपि स्वीकर्तव्यं तत्कुतो दृष्ट्यादिभेदसिद्धिरित्याह — शब्दप्रवृत्तेश्चेति । तामेव विवृणोति — लौकिकी चेति । यत्तु सिद्धान्ते दृष्टान्तो नास्तीति तत्राऽऽह — दृष्टान्तेति । किमेकरूपत्वे वस्तुनो दृष्टान्तो नास्ति किं वा मिथ्यात्वे तन्नानारूपत्वस्येति वक्तव्यम् । नाऽऽद्यः । नानारूपवस्तुवादिभिरप्यैकस्यारूपस्यानवस्थापरिहारार्थमनानारूपत्वाङ्गीकारादस्माकं दृष्टान्तसिद्धेर्वस्तुत्वहेतोश्च तत्रैवानैकान्तिकत्वात्तस्मादेकरूपमेव वस्तु स्वीकर्तव्यमिति भावः । द्वितीयं दूषयति — यथा हीति । तन्निमित्तमेवेत्यत्र तच्छब्देन स्वच्छस्वाभाव्यं परामृश्यते । स्फटिके हरितादिधर्माणां स्वाभाविकत्वं किं न स्यादित्याशङ्क्याऽऽह — न चेति । तस्य हि स्वच्छस्वाभाव्यं तद्वशेन हरिताद्युपाधिभेदसंबन्धव्यतिरेकेणेति यावत् । एकस्य नानारूपत्वं मिथ्येत्यत्र दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह — तथेति । आत्मा मिथ्यानानानिर्भास उपहितत्वात्स्फटिकवदित्यर्थः । किञ्चाऽऽत्मा मिथ्यानानात्वाधारः स्वच्छत्वात्संप्रतिपन्नवदित्याह — प्रज्ञानेति । किञ्चाऽऽत्मा कल्पित नानात्वाधारो ज्योतिष्ट्वादादित्यादिज्योतिर्वदित्याह — स्वयमिति । आदित्यादावकल्पितोऽपि भेदोऽस्तीत्याशङ्क्य विवक्षितं साम्यमाह — यथा चेत्यादिना । अविभाग्यं वस्तुतो विभागायोग्यमिति यावत् । चक्षुरादीनि चावभासयदिति संबन्धः । आत्मनः सर्वावभासकत्वे वाक्योपक्रमं प्रमाणयति — तथा चेति । यत्तु निरवयवेष्वपि नानारूपत्वमनुमेयमिति तत्राऽऽह — न चेति । आकाशादीनां दृष्टान्तत्वमाशङ्क्य निराचष्टे — यदपीत्यादिना । कथमाकाशस्यानेकधर्मवत्वमौपाधिकमित्याशङ्क्य तस्य सर्वगतत्वं तावदौपाधिकमिति साधयति — आकाशस्येति । कथं तर्हि सर्वगतत्वव्यवहारस्तत्राऽऽह — सर्वोपाधीति । नन्वाकाशस्य सर्वत्र गमनमपेक्ष्य सर्वगतत्वं किमिति न व्यवह्रियते तत्राऽऽह — न त्विति । आकाशे गमनायोगं वक्तुं तत्स्वरूपमाह — गमनं हीति । ननु कुतश्चिद्विभागे संयोगे च केनचिद्देशेन तत्कारणीभूता क्रियाऽपि श्येनादाविवाऽऽकाशे भविष्यति नेत्याह — सा चेति । सावयवे हि श्येनादौ क्रिया दृश्यत आकाशं त्वविशेषं निरवयवं कुतस्तत्र क्रियेत्यर्थः । तथापि धर्मान्तराण्याकाशे भविष्यन्तीत्याशङ्क्य तेषामपि क्रियापूर्वकाणामुक्तन्यायकवलीकृतत्वमाह — एवमिति । भेदाभेदाभ्यां दुर्वचत्वाच्च तत्र धर्मधर्मिभावो न संभवतीति भावः । आकाशे दर्शितन्यायमन्यत्रापि संचारयति — तथेति । पार्थिवत्वं परमाणोरेकं रूपं गन्धवत्त्वं चापरमित्यनेकरूपत्वमित्याशङ्क्याऽऽह — परमाणुर्नामेति । न हि पार्थिवत्त्वातिरेकि गन्धवत्त्वं प्रमाणिकमिति भावः । वैशेषिकपरिभाषामाश्रित्य शङ्कयति — अथेति । पार्थिवे परमाणौ रसादिमत्त्वमनौपाधिकं न भवति जलादिसंसर्गकृतत्वात्तथा च निरुपाधिकभेदेनेदमुदाहरणमिति परिहरति — न तत्रापीति । उक्तन्यायस्य दिगादावपि समत्वं मत्वोपसंहरति — तस्मादिति । सन्ति परस्मिन्नात्मनि दृगादिशक्तिभेदास्तेषां मध्ये दृक्शक्तिश्चक्षुरात्मना रूपात्मना च पृथगेव परिणमते घ्रातिशक्तिश्च घ्राणात्मना गन्धात्मना चेत्यनेन क्रमेण परस्मिन्परिणामकल्पना भर्तृप्रपञ्चैर्या कृता साऽपि परस्यैकरूपत्वोपपादनेन निरस्तेत्याह —
एतेनेति ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 औपाधिको दृष्ट्यादिभेदो न वास्तवोऽस्तीत्युपपाद्य वृत्तमनुद्रवति — जाग्रदिति । यत्रेत्युत्तरवाक्यव्यावर्त्यामाशङ्कां दर्शयति — नन्विति । किमस्य विशेषविज्ञानराहित्यं स्वरूपं किं वा विशेषविज्ञानवत्वम् । आद्ये जाग्रत्स्वप्नयोरनुपपत्तिः । द्वितीये सुषुप्तेरसिद्धिरिति भावः । प्रतीचश्चिन्मात्रज्योतिषो विशेषविज्ञानराहित्यमेव स्वरूपं तथाऽपि स्वाविद्याकल्पितविशेषविज्ञानवत्त्वमाश्रित्यावस्थाद्वयं सिध्यतीत्युत्तरवाक्यमवलम्ब्योत्तरमाह — उच्यत इत्यादिना ।
तच्चेत्याविद्यं दर्शनमित्यर्थः ॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वोक्तवस्तूपसंहारार्थं सलिलवाक्यमुत्थापयति — यत्रेत्यादिना । तेनाविद्यायाः शान्तत्वेनेति यावत् । वस्तुनोऽभावात्तत्रेति शेषः । सुषुप्ते विशेषविज्ञानाभावप्रयुक्तं फलमाह — अत इति । पूर्वमेवास्यार्थस्योक्तत्वं द्योतयितुं हि शब्दः । संपरिष्वङ्गफलं समस्तत्वमपरिच्छिन्नत्वं तत्फलं संप्रसन्नत्वम् । असंप्रसादो हि परिच्छेदाभिमानकृतः । संप्रसन्नत्वे हेत्वन्तरमाह — आप्तकाम इति । तदेव संप्रसन्नत्वं दृष्टान्तेन स्पष्टयति — सलिलवदिति । उक्तेऽर्थे वाक्याक्षराणि योजयति — सलिल इवेति । द्वितीयस्याभावं सुषुप्ते व्यक्तीकरोति — अविद्ययेति । अद्रष्टा द्रष्टेति वा छेदः । एकोऽद्वैत इत्यभ्यासस्तात्पर्यलिङ्गं तस्य परमपुरुषार्थत्वं दर्शयन्कूटस्थत्वमाह — एतदिति । किमिति षष्ठीसमासमुपेक्ष्य कर्मधारयो गृह्यते तत्राऽऽह — पर एवेति । अस्मिन्काले सुषुप्त्यवस्थायामित्येतत् । परमत्वं साधयति — यास्त्विति । प्रस्तुतं समस्तात्मभावं विशेषविज्ञानराहित्येन विशिनष्टि — यत्रेति । सर्वात्मभावाख्यस्य लोकस्य परमत्वमुपपादयति — येऽन्य इति । मीयते परिच्छिद्यते साध्यत इति यावत् । सौषुप्तस्य सर्वात्मभावस्य परमानन्दत्वं विशदयति — यानीति । आत्मनोऽनवच्छिन्नानन्दत्वे छान्दोग्यश्रुतिं संवादयति — यो वै भूमेति । ननु वैषयिकमेकं सुखामात्मरूपं चापरमिति सुखभेदाङ्गीकारादपसिद्धान्तः स्यादित्याशङ्क्य मुख्यामुख्यभेदेन तदुपपत्तेर्मैवमित्याह — यत्रेत्यदिना । किञ्च वस्तुतो नास्त्येवाऽऽत्मसुखातिरिक्तं वैषयिकं सुखमित्याह — एतस्येति । ब्रह्मातिरिक्तचेतनाभावे कान्युपजीविकानि स्युरित्याशङ्क्य परिहरति — कानीत्यादिना ।
विभाव्यमानामानन्दस्य मात्रामिति पूर्वेण संबन्धः ॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】 स यो मनुष्याणामित्यदिवाक्यतात्पर्यमाह — यस्येति । यथा सैन्धवावयवैः सैन्धवाचलं लोको बोधयति तथा तस्याऽऽनन्दस्य मात्रा नामावयवास्तत्प्रदर्शनद्वारेणावयविनं परमानन्दमधिगमयितुमिच्छन्ननन्तरो ग्रन्थः प्रवृत्त इत्यर्थः । तात्पर्यमुक्त्वाऽक्षराणि व्याचष्टे — स यः कश्चिदित्यादिना । राद्धत्वमविकलत्वं चेत्समृद्धत्वेन पुनरुक्तिरित्याशङ्क्याऽऽह — समग्रेति । तदेव समृद्धत्वमपीत्याशङ्क्य व्याकरोति — उपभोगेति । अन्तर्बहिःसंपत्तिभेदादपुनरुक्तिरिति भावः । न केवलमुक्तमेव तस्य विशेषणं किन्तु विशेषणान्तरं चास्तीत्याह — किञ्चेति । विशेषणतात्पर्यमाह — दिव्येति । तदनिवर्तने त्वस्य वक्ष्यमाणगन्धर्वादिष्वन्तर्भावः स्यादिति भावः । अतिशयेन संपन्न इति शेषः । अभेदनिर्देशस्याभिप्रायमाह — तत्रेति । प्रकृतं वाक्यं सप्तम्यर्थः । आत्मनः सकाशादानन्दस्येति शेषः । औपचारिकत्वमभेदनिर्देशस्य भविष्यतीत्याशङ्क्याऽऽह — परमानन्दस्येति । तस्यैव विषयत्वं विषयित्वमिति स्थिते फलितमाह — तस्मादिति । यथोक्तो मनुष्यो न दृष्टिपथमवतरतीत्याशङ्क्याऽऽह — युधिष्ठिरादीति । अथ ये शतं मनुष्याणामित्यादेस्तात्पर्यमाह — दृष्टमिति । शतगुणेनोत्तरत्राऽऽनन्दस्योत्कर्षप्रदर्शनक्रमेण परमानन्दमुन्नीय तमधिगमयत्युत्तरेण ग्रन्थेनेति संबन्धः । परमानन्दमेव विशिनष्टि — यत्रेति । भेदः संख्याव्यवहारः । उक्तमेव प्रपञ्चयति — यत्रेत्यादिना । परमानन्दे विवृद्धिकाष्ठायां हेतुमाह — अन्येति । यद्यपि यस्येत्यादिनोक्तमेतत्तथाऽपीहाक्षरव्याख्यानावसरे तदेव विवृतमित्यविरोधः । तत्तदानन्दप्रदर्शनानन्तर्यं तत्र तत्राथशब्दार्थः । तत्तद्वाक्योपक्रमो वा । एवम्प्रकारत्वं समृद्धत्वादि । पितृणामानन्द इति संबन्धः । श्राद्धादिकर्मभिरित्यादिशब्देन पिण्डपितृयज्ञादि गृह्यते । के ते कर्मदेवा नाम तत्राऽऽह — अग्निहोत्रादीति । यथा गन्धर्वानन्दः शतगुणीकृतः कर्मदेवानामेक आनन्दस्तथा कर्मदेवानन्दः शतगुणीकृतः सन्नाजानदेवानामेक आनन्दो भवतीत्याह — तथैवेति । कुत्र वीततृष्णत्वं तत्राऽऽह — आजानदेवेभ्य इति । श्रोत्रियादिवाक्यस्य प्रकृतासंगतिमाशङ्क्याऽऽह — तस्य चेति । एवम्भूतस्य विशेषणत्रयविशिष्टस्येति यावत् । प्रजापतिलोकशब्दस्य ब्रह्मलोकाशब्दादर्थभेदमाह — विराडिति । यथा विराडात्मन्याजानदेवानन्दः शतगुणीकृतः सन्नेक आनन्दो भवति तथा विराडात्मोपासिता श्रोत्रियत्वादिविशेषणो विराजा तुल्यानन्दः स्यादित्याह — तथेति । तच्छतगुणीकृतेति तच्छब्दो विराडानन्दविषयः । श्रोत्रियत्वादिविशेषणवानपि हिरण्यगर्भोपासकस्तेन तुल्यानन्दो भवतीत्याह — यश्चेति । हिरण्यगर्भानन्दादुपरिष्टादपि ब्रह्मानन्दे गणितभेदे प्राकरणिके प्राप्ते प्रत्याह — अतः परमिति । एषोऽस्य परम आनन्द इत्युपक्रम्य किमित्यानन्दान्तरमुपदर्शितमित्याशङ्क्याऽऽह — एष इति । तथाऽपि सौषुप्तं सर्वात्मत्वमुपेक्षितमिति चेन्नेत्याह — यस्य चेति । प्रकृतस्य ब्रह्मानन्दस्यापरिच्छिन्नत्वमाह — तत्र हीति । अनवच्छिन्नत्वफलमाह — भूमत्वादिति। ब्रह्मानन्दादितरे परिच्छिन्ना मर्त्याश्चेत्याह — इतर इति । अथ यत्रान्यत्पश्यतीत्यादिश्रुतेरिति भावः । श्रोत्रियादिपदानि व्याख्याय तात्पर्यं दर्शयति — अत्र चेति । मध्ये विशेषणेषु त्रिष्विति यावत् । तुल्ये सर्वपर्यायेष्विति शेषः । विशेषणान्तरे विशेषमाह — अकामहतत्वेति । यथोक्तं विभागमुपपादयितुं सिद्धमर्थमाह — अत्रैतानीति । यश्चेत्यादिवाक्यं सप्तम्यर्थः । तस्य तस्याऽऽनन्दस्येति दैवप्राजापत्यादिनिर्देशः । अर्थादभिहितत्वे दृष्टान्तमाह — यथेति। ये कर्मणा देवत्वमित्यादिश्रुतिसामर्थ्याद्देवानन्दाप्तौ यथा कर्माणि साधनान्युक्तानि तथा यश्चेत्यादिश्रुतिसामर्थ्यादेतान्यपि श्रोत्रियत्वादीनि तत्तदानन्दप्राप्तौ साधनानि विवक्षितानीत्यर्थः । ननु त्रयाणामविशेषश्रुतौ कथं श्रोत्रियत्वावृजिनत्वयोः सर्वत्र तुल्यत्वं न हि ते पूर्वभूमिषु श्रुते तथा चाकामहतत्ववदानन्दोत्कर्षे तयोरपि हेतुतेति तत्राऽऽह — तत्र चेति । निर्धारणार्था सप्तमी । न हि श्रोत्रियत्वादिशून्यः सार्वभौमादिदिसुखमनुभवितुमुत्सहते । तथा च सर्वत्र श्रोत्रिन्द्रियत्वादेस्तुल्यत्वान्न तदानन्दातिरेकप्राप्तावसाधारणं साधनमित्यर्थः । यदुक्तमानन्दशतगुणवृद्धिहेतुरकामहतत्वकृतो विशेष इति तदुपपादयति — अकामहतत्वं त्विति । पूर्वपूर्वभूमिषु वैराग्यमुत्तरोत्तरभूम्यानन्दप्राप्तिसाधनं वैराग्यस्य तरतमभावेन परमकाष्ठोपपत्तेर्निरतिशयस्य तस्य परमानन्दप्राप्तिसाधनत्वसंभवादित्यर्थः । यश्चेत्यादिवाक्यस्येत्थं तात्पर्यमुक्त्वा प्रकृते परमानन्दे विद्वदनुभवं प्रमाणयति — स एष इति । निरतिशयमकामहतत्वं परमानन्दप्राप्तिहेतुरित्यत्र प्रमाणमाह — तथा चेति । प्रकृतं प्रत्यग्भूतं परमानन्दमेष इति परामृशति । श्रुतिर्मेधावीत्याद्या तां व्याचष्टे — नेत्यादिना । तथाऽपि किं तद्भयकारणं तदाह — यद्यदिति । मेधावित्वात्प्रज्ञातिशयशालित्वादिति यावत् । तदेव भयकारणं प्रकटयति —
सर्वमिति ॥ ३३ ॥ 【भाष्यम्】 【भाष्यम्】 स वा एष एतस्मिन्नित्याद्युत्तरग्रन्थस्य संबन्धं वक्तुं वृत्तं कीर्तयति — अत्रेति । अत्रायं पुरुषः सयं ज्योतिर्भवतीति वाक्यं सप्तम्यर्थः । वृत्तमर्थान्तरमनुद्रवति — स्वप्नान्तेति । कार्यकरणव्यतिरिक्तत्वं प्रदर्शितमिति संबन्धः । उक्तमर्थान्तरमाह — कामेति । अथ यत्रैनं घ्नन्तीवेत्यादावुक्तमनुभाषते — पुनश्चेति । किं तत्र कार्यप्रदर्शनसामर्थ्यान्निर्धारितमविद्यायाः सतत्त्वं तदाह — अतद्धर्मेति । अनात्मधर्मत्वमात्मनि चैतन्यवदस्वाभाविकत्वम् । अविद्याकार्यवद्विद्याकार्यं च स्वप्ने सर्वात्मभावलक्षणं प्रत्यक्षत एव प्रदर्शितमित्याह — तथेति । सुषुप्तेऽपि स्वप्नवदेतद्दर्शितमित्याह — एवमिति । साक्षात्स्वरूपचैतन्यवशादित्येतत् । अन्यथोत्थितस्य सुखपरामर्शो न स्यादिति भावः । उक्तं विद्याकार्यं निगमयति — एष इति । तमेव विद्याविषयं विशदयति — स एष इति । वृत्तानुवादमुपसंहरति — इत्येतदिति । एवमन्तेन ग्रन्थेन ब्रह्मलोकान्तवाक्येनेति यावत् । सोऽहमित्यादेस्तात्पर्यमनुवदति — तच्चेति । यतो राजेत्थं मन्यतेऽतस्तस्य सहस्रदाने युक्ता प्रवृत्तिरित्यर्थः । अत ऊर्ध्वमित्यादेरभिप्रायमनुद्रवति — ते चेति । यद्यपि यथोक्तलक्षणे मोक्षबन्धने प्रागेवोपदिष्टे तथाऽपि पूर्वोक्तं सर्वं दृष्टान्तभूतमेव तयोरिति यतो राजा भ्राम्यत्यतो मोक्षबन्धने दार्ष्टान्तिकभूते वक्तव्ये याज्ञवल्क्येनेति मन्यमानस्तं प्रेरयतीत्यर्थः । बन्धमोक्षयोर्वक्तव्यत्वेन प्राप्तयोरपि प्रथमं बन्धो वर्ण्यत इति वक्तुं दृष्टान्तं स्मारयति — तत्रेति । दृष्टान्तमनूद्य दार्ष्टान्तिकस्य बन्धस्य सूत्रितत्वं दर्शयति — यथा चेत्यादिना । उभौ लोकावित्यत्र प्रथममेवंशब्दो द्रष्टव्यः । वृत्तमनूद्यानन्तरप्रकरणमुत्थापयति — तदिहेति । अज्ञः संसारी सप्तम्यर्थः । सनिमित्तं कामादिना निमित्तेन सहितमित्येतत् । प्रकरणारम्भमुक्त्वा समनन्तरवाक्यस्य व्यवहितेन संबन्धमाह — तत्र चेति । स वा एष एतस्मिन्बुद्धान्ते रत्वेत्युपक्रम्य स्वप्नान्तायैवेति वाक्यं सप्तम्या परामृश्यते । स्वप्नान्तशब्दस्य स्वप्नविषयव्यावृत्यर्थं विशिनष्टि — संप्रसादेति । कथं पुनः संप्रसन्नस्य संसारोपवर्णनमित्याशङ्क्याऽऽह — तत इति । प्रागुक्तः सप्तम्यर्थो व्यवहितो ग्रन्थस्तेनेति परामृश्यते । समनन्तरग्रन्थः षष्ठ्योच्यते । वाक्यस्य व्यवहितेन संबन्धमुक्त्वा तदक्षराणि योजयति — स वै बुद्धान्तादिति ।
स्वप्नान्ते रत्वा चरित्वेत्यादि बुद्धान्तायैवाऽऽद्रवतीत्येतदन्तं पूर्ववदिति योजना ॥ ३४ ॥ 【भाष्यम्】 【भाष्यम्】 तद्यथेत्यादेरिति नु कामयमान इत्यन्तस्य सन्दर्भस्य तात्पर्यं तदिहेत्यत्रोक्तमनुवदति — इत आरभ्येति । तद्यथेत्यस्माद्वाक्यादित्येतत् । दृष्टान्तवाक्यमुत्थाप्य व्याकरोति — यथेत्यादिना । इत्यत्र दृष्टान्तमाहेति योजना । भाण्डोपस्करणेन भाण्डप्रमुखेन गृहोपस्करणेनेति यावत् । तदेवोपस्करणं विशिनष्टि — उलूखलेति । पिठरं पाकार्थं स्थूलं भाण्डम् । अन्वयं दर्शयितुं यथाशब्दोऽनूद्यते । लिङ्गविशिष्टमात्मानं विशिनष्टि — यः स्वप्नेति । जन्ममरणे विशदयति — पाप्मेति । कार्यकरणानि पाप्मशब्देनोच्यन्ते । शरीरस्य प्राधान्यं द्योतयति — यस्येति । उत्सर्जन्याति चेत्तदाऽङ्गीकृतमात्मनो गमनमित्याशङ्क्याऽऽह — तत्रेति । लिङ्गोपाधेरात्मनो गमनप्रतीतिरित्यत्राऽऽथर्वणश्रुतिं प्रमाणयति — तथा चेति । उत्सर्जन्यातीति श्रुतेर्मुख्यार्थत्वार्थमात्मनो वस्तुतो गमनं किं न स्यादित्याशङ्क्याऽऽह — ध्यायतीवेति चेति । औपाधिकमात्मनो गमनमित्यत्र लिङ्गान्तरमाह — अत एवेति । कथमेतावता निरुपाधेरात्मनो गमनं नेष्यते तत्राऽऽह — अन्यथेति । प्रमाणफलं निगमयति — तेनेति । तत्कस्मिन्नित्यत्र तच्छब्देनाऽऽर्तस्य शब्दविशेषकरणपूर्वकं गमनं गृह्यते । एतदूर्ध्वोच्छ्वासित्वमस्य यथा स्यात्तथाऽवस्था यस्मिन्काले भवति तस्मिन्काले तद्भमनमित्युपपादयति — उच्यत इत्यादिना । किमिति प्रत्यक्षमर्थं श्रुतिरनुवदति तत्राऽऽह — दृश्यमानस्येति । कथं संसारस्वरूपानुवादमात्रेण वैराग्यसिद्धिस्तत्राऽऽह — ईदृश इति । ईदृशत्वमेव विशदयति — येनेत्यादिना । अनुवादश्रुतेरभिप्रायमुपसंहरति —
तस्मादिति ॥ ३५ ॥ 【भाष्यम्】 【भाष्यम्】 प्रश्नचतुष्टयमनूद्य तदुत्तरत्वेन स यत्रेत्यादि वाक्यमादाय व्याकरोति — तदस्येत्यादिना । प्रश्नपूर्वकं कार्श्यनिमित्तं स्वाभाविकमागन्तुकं चेति दर्शयति — किंन्निमित्तमित्यादिना । कथं ज्वरादिना कार्श्यप्राप्तिरित्याशङ्क्याऽऽह — उपतप्यमानो हीति । यथोक्तनिमित्तद्वयवशात्कार्श्यप्राप्तिं निगमयति — अणिमानमिति । कस्मिन्काले तदूर्ध्वोच्छ्वासित्वमस्येति प्रश्नस्योत्तरमुक्तया विधया सिद्धमित्याह — यदेति । अवशिष्टप्रश्नत्रयस्योत्तरमाह — यदोर्ध्वोच्छ्वासीति । तत्र हि कार्श्यनिमित्तं संभृतशकटवन्नानाशब्दकरणं स्वरूपं शरीरविमोक्षणं प्रयोजनमित्यर्थः । स यत्रेत्यादिवाक्यादर्थसिद्धमर्थमाह — जरेति । तद्यथेत्यादिवाक्यं प्रश्नपूर्वकमादाय व्याचष्टे — यदेत्यादिना । कथं बन्धनात्प्रमुच्यत इति संबन्धः । किमिति विषमनेकदृष्टान्तोपादानमेकेनापि विवक्षितसिद्धेरित्याशङ्क्याऽऽह — विषमेति । कथं मरणस्यानियतान्यनेकानि निमित्तानि संभवन्तीत्याशङ्क्यानुभवमनुसृत्याऽऽह — अनियतानीति । अथ मरणस्यानेकानियतनिमित्तवत्त्वसंकीर्तनं कुत्रोपयुज्यते तत्राऽऽह — एतदपीति । तदर्थवत्वमेव समर्थयते — यस्मादिति । इत्यप्रमत्तैर्भवितव्यमिति शेषः । वृत्तेन सह फलं येन रसेन संबध्यते स रसो बन्धनकारणभूतो बन्धनं वृन्तमेव वा बन्धनं यस्मिन्फलं बध्यते रसेनेति व्युत्पत्तेस्तस्माद्बन्धनादनेकानिमित्तवशात्पूर्वोक्तस्य फलस्य भवति प्रमोक्षणमित्याह — बन्धनादित्यादिना । लिङ्गमात्मोपाधिरस्येति तद्विशिष्टः शारीरस्तथोच्यते । संप्रमुच्याऽऽद्रवतीति संबन्धः । समित्युपसर्गस्य तात्पर्यमाह — नेत्यादिना । यदि स्वप्नावस्थायामिव मरणावस्थायां प्राणेन देहं रक्षन्नाद्रवतीति नाऽऽद्रियते केन प्रकारेण तर्हि तदा देहान्तरं प्रति गमनमित्याशङ्क्याऽऽह — किं तर्हीति । वायुना प्राणेन सह करणजातमुपसंहृत्याऽऽद्रवतीति पूर्ववत्संबन्धः । पुनः प्रतिन्यायमिति प्रतीकमादाय पुनःशब्दस्य तात्पर्यमाह — पुनरित्यादिना । तथा पुनराद्रवतीति संबन्धः । यथा पूर्वमिमं देहं प्राप्तवान्पुनरपि तथैव देहान्तरं गच्छतीत्याह — प्रतिन्यायमिति । देहान्तरगमने कारणमाह — कर्मेति । आदिशब्देन पूर्वप्रज्ञा गृह्यते । प्राणव्यूहाय प्राणानां विशेषाभिव्यक्तिलाभायेति यावत् । प्राणायेति श्रुतिः किमर्थमित्थं व्याख्यायते तत्राऽऽह — सप्राण इति । एतच्च तदनन्तरप्रतिपत्त्यधिकरणे निर्धारितम् । प्राणायेति विशेषणस्याऽऽनर्थक्याद्युक्तं प्राणव्यूहायेति विशेषणमित्याह — प्राणेति। नन्वस्य प्राणः सह वर्तते चेत्तावतैव भोगसिद्धेरलं प्राणव्यूहेनेत्याशङ्क्याऽऽह — तेन हीति ।
अन्यथा सुषुप्तिमूर्छयोरपि भोगप्रसक्तेरित्यर्थः । तादर्थ्याय प्राणस्य भोगशेषत्वसिध्यर्थमिति यावत् ॥ ३६ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वेषां भूतानां देहान्तरं कृत्वा संसारिणि परलोकाय प्रस्थिते प्रतीक्षणं केन प्रकारेणेति प्रश्नपूर्वकं दृष्टान्तवाक्यमुत्थाप्य व्याचष्टे — तत्तत्रेत्यादिना । तत्र पापकर्मणि नियुक्तत्वमेव व्यनक्ति — तस्करादीति । आदिपदेनान्येऽपि निग्राह्या गृह्यन्ते । दण्डनादावित्यादिशब्दो हिंसाप्रभेदसंग्रहार्थः । ’ब्राह्मण्यां क्षत्रियात्सूतः’ इति स्मृतिमाश्रित्य सूतशब्दार्थमाह — वर्णसंकरेति । भोज्यभक्ष्यादिप्रकारैरित्यादिशब्देन लेह्यचोष्ययोः संग्रहः । मदिरादिभिरित्यादिपदेन क्षीरादि गृह्यते । प्रासादादिभिरित्यादिशब्दो गोपुरतोरणादिग्रहार्थः । विद्वन्मात्रे प्रतीयमाने किमिति कर्मफलस्य वेदितारमिति विशेषोपादानमित्याशङ्क्याऽऽह — कर्मफलं हीति ।
तत्कर्मप्रयुक्तानीत्यत्र तच्छब्दः संसारिविषयः । संसारिणो वस्तुतो ब्रह्माभिन्नत्वात्तस्मिन्ब्रह्मशब्दः । अभ्यासस्तूभयत्राऽऽदरार्थः ॥ ३७ ॥ 【भाष्यम्】 【भाष्यम्】 तद्यथा राजानमित्यादिवाक्यव्यावर्त्यामाशङ्कामाह — तत्रेति । मुमूर्षावस्था सप्तम्यर्थः । अथास्य स्वयमसामर्थ्येऽपि शरीरान्तरकर्तारोऽन्ये भविष्यन्ति यथा राज्ञो भृत्या गृहनिर्मातारस्तत्राऽऽह — न चेति । स्वयमसामर्थ्यमन्येषां चासत्त्वमिति स्थिते फलितमाह — अथेति । तद्यथेत्यादिवाक्यस्य तात्पर्यं दर्शयन्नुत्तरमाह — उच्यत इति । भवत्वज्ञस्य स्वकर्मफलोपभोगे साधनत्वसिद्ध्यर्थं सर्वं जगदुपात्तं तथाऽपि देहाद्देहान्तरं प्रतिपित्समानस्य किमायातमित्याशङ्क्याऽऽह — स्वकर्मेति । स्वकर्मणेत्यत्र स्वशब्दस्तत्कर्मफलोपभोगयोग्यमित्यत्र तच्छब्दश्च प्रकृतभोक्तृविषयौ । तत्र प्रमाणमाह — कृतमिति । पुरुषो हि त्यक्तवर्तमानदेहो भूतपञ्चकादिना निर्मितमेव देहान्तरमभिव्याप्य जायत इति श्रुतेरर्थः । उक्तमेवार्थं दृष्टान्तेन स्पष्टयति — यथेति । स्वप्नस्थानाज्जागरितस्थानं प्रतिपत्तुमिच्छतः शरीरं पूर्वमेव कृतं नापूर्वं क्रियते तथा देहाद्देहान्तरं प्रतिपित्समानस्य पञ्चभूतादिना कृतमेव देहान्तरमित्यर्थः । तद्यथा राजानं प्रयियासन्तमित्यादिवाक्यव्यावर्त्यं चोद्यमुत्थापयति — तमेवमिति । वागादयस्तमनुगच्छन्तीत्याशङ्क्याऽऽह — ये वेति । तत्क्रियाप्रणुन्नास्तस्य गन्तुर्वागादिव्यापारेण प्रेरिताः समाहूता इति यावत् । यानि च भूतानि परलोकशब्दितं शरीरं कुर्वन्ति यानि वा करणानुग्रहीतॄण्यादित्यादीनि तेष्विति यथोक्तप्रश्नप्रवृत्तिं दर्शयति — परलोकेति । नाऽद्यः परलोकार्थं प्रस्थितस्य वागादिव्यापाराभावादाह्वानानुपपत्तेः । न द्वितीयो भोक्तृकर्मणाऽपि वागादिष्वचेतनेषु स्वयम्प्रवृत्तेरनुपपत्तेरिति चोदयितुरभिमानः । उत्तरवाक्येनोत्तरमाह — अत्रेत्यादिना । मरणकालमेव विशिनष्टि — यत्रेति ।
अचेतनानामपि रथादीनां चेतनप्रेरितानां प्रवृत्तिदर्शनाद्वागादीनामपि भोक्तृकर्मवशात्तदाहूतत्वमन्तरेण प्रवृत्तिः संभवतीति भावः ॥ ३८ ॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणान्तरमुत्थापयति — स यत्रेति । तस्य संबन्धं वक्तुमुक्तं कीर्तयति — संसारेति । वक्ष्यमाणोपयोगित्वेनोक्तमर्थान्तरमनुद्रवति — तत्रेति । संसारप्रकरणं सप्तम्यर्थः । संप्रत्याकाङ्क्षापूर्वकमुत्तरब्राह्मणमादत्ते — तत्संप्रमोक्षणमिति । एवं ब्राह्मणमवतार्य तदक्षराणि व्याकरोति — सोऽयमित्यादिना । गत्वा संमोहमिव नेतीत्युत्तरत्र संबन्धः । कथमात्मनो दौर्बल्यं तदाह — यद्देहस्येति । किमित्युपचारो मुख्यमेवाऽऽत्मनो दौर्बल्यं किं न स्यादित्याशङ्क्याऽऽह — न हीति । यथाऽयमबलभावं निगच्छति तथा संमोहं संमूढतामिव प्रतिपद्यते । विवेकाभावो हि संमोहः । तथा च संमूढतामिव निगच्छतीति युक्तमित्याह — तथेति । इवशब्दार्थमाह — न चेति । कथं पुनरात्मनः समारोपितो अपि संमोहः स्यान्नित्यचैतन्यज्योतिष्ट्वादित्याशङ्क्याऽऽह — उत्क्रान्तीति । व्याकुलीभावो लिङ्गस्येति शेषः । तत्र लौकिकीं वार्तामनुकूलयति — तथेति । यथाश्रुतमिवशब्दं गृहीत्वा वाक्यं व्याख्याय पक्षान्तरमाह — अथवेति । इवशब्दप्रयोगस्योभयत्र योजनामेवाभिनयति — अबल्यमिति । उभयत्र तद्योजने हेतुमाह — उभयस्येति । तुल्यप्रत्ययेनाबल्यसंमोहयोरेककर्तृकत्वनिर्देशादप्युभयत्रेवकारो द्रष्टव्य इत्याह — समानेति । अथेत्यादि वाक्यमवतार्य व्याकुर्वन्कस्मिन्काले तत्संप्रमोक्षणमित्यस्योत्तरमाह — अथेत्यादिना । कथं वेत्युक्तं प्रश्नमनूद्य प्रश्नान्तरं प्रस्तौति — कथमिति । अत्रोत्तरत्वेनोत्तरं वाक्यमादाय व्याकरोति — उच्यत इत्यादिना । रूपादिप्रकाशनशक्तिमत्सत्त्वप्रधानभूतकार्यत्वात्तेजोमात्राश्चक्षुरादीनीत्युक्तं संप्रति समभ्याददान इत्यस्यार्थमाह — ता एता इति । संहरमाणो हृदयमन्ववक्रामतीत्यन्वयः । तत्समिति विशेषणं स्वप्नापेक्षयेति संबन्धः । कथं स्वप्नापेक्षया विशेषणं तदाह — न त्विति । आदानमात्रमपि स्वप्ने नास्तीति कुतस्तद्व्यावृत्त्यर्थं विशेषणमित्याशङ्क्याऽऽह — अस्तीति । स एतास्तेजोमात्राः समभ्याददान इत्येतद्व्याख्याय हृदयमेवेत्यादि व्याचष्टे — हृदयमित्यादिना । सविज्ञानो भवतीति वाक्यविशेषमाश्रित्याशङ्क्याऽऽह — हृदय इति । कथमात्मनो निष्क्रियस्य तेजोमात्रादानकर्तृत्वमित्याशङ्क्याऽऽह — बुद्ध्यादीति । तेषां तद्विक्षेपस्य चोपसंहारे सत्यात्मनस्तदादानकर्तृत्वमौपचारिकमित्यर्थः । तर्हि तद्विक्षेपोपसंहर्तृत्ववत्तदादानकर्तृत्वमपि मुख्यमेव भविष्यतीत्याशङ्क्याऽऽह — न हीति। आदिशब्देन क्रियाविशेषः सर्वो गृह्यते । कथं तर्हि प्रतीचि कर्तृत्वादिप्रथेत्याशङ्क्याऽऽह — बुद्ध्यादीति । स यत्रेत्यादि वाक्यमाकाङ्क्षापूर्वकमवतार्य व्याकरोति — कदा पुनरित्यादिना । तस्य पुरुषशब्दाद्भोक्तृत्वे प्राप्ते विशिनष्टि — आदित्यांश इति । तस्य चाक्षुषत्वं साधयति — भोक्तुरित्यादिना । यावद्देहधारणमिति कुतो विशेषणं तत्राऽऽह — मरणकाले त्विति । आदित्यांशस्य चक्षुरनुग्रहमकुर्वतः स्वातन्त्र्यं वारयति — स्वमिति । मरणावस्थायां चक्षुराद्यनुग्राहकदेवतांशानामधिदेवतात्मनोपसंहारे श्रुत्यन्तरं संवादयति — तदेतदिति । तर्हि देहान्तरे वागादिराहित्यं स्यादित्याशङ्क्याऽऽह — पुनरिति । संश्रयिष्यन्ति वागादयस्तत्तदेवताधिष्ठिता यथास्थानमिति शेषः । मुमूर्षोरिव स्वप्स्यतः सर्वाणि करणानि लिङ्गात्मनोपसंह्रियन्ते प्रबुध्यमानस्य चोत्पित्सोरिव तानि यथास्थानं प्रादुर्भवन्तीत्याह — तथेति । उक्तेऽर्थे वाक्यं पातयति — तदेतदाहेति ।
पराङ् पर्यावर्तत इति रूपवैमुख्यं चाक्षुषस्य विवक्षितमिति शेषः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 तर्हि भोक्त्रोपसंहृतं चक्षुरत्यन्ताभावीभूतमित्याशङ्क्याऽऽह — एकीति । उक्तेऽर्थे लोकप्रसिद्धिं दर्शयति — तदेति । चक्षुषि दर्शितं न्यायं घ्राणेऽतिदिशति — तथेति । यथा चक्षुर्देवताया निवृत्तौ लिङ्गात्मना चक्षुरेकीभवति यथा घ्राणदेवतांशस्य घ्राणानुग्रहनिवृत्तिद्वारेणांशिदेवतयैक्ये लिङ्गात्मना घ्राणमेकीभवतीत्यर्थः । तन्निवृत्यपेक्षया वरुणादि देवताया जिह्वायामनुग्रहनिवृत्तौ जिह्वाया लिङ्गात्मनैक्यव्यपेक्षयेत्यर्थः । तत्तदनुग्राहकदेवतांशस्य तत्र तत्रानुग्रहनिवृत्त्या तत्तदंशिदेवताप्राप्तौ तत्तत्करणस्य लिङ्गात्मनैक्यं भवतीत्यभिप्रेत्याऽऽह — तथेति । मरणदशायां रूपादिदर्शनराहित्यमर्थद्वयसाधकमित्याह — तदेति । तस्य हैतस्येत्यादि वाक्यमुपादत्ते — तत्रेति । मुमूर्षावस्था सप्तम्यर्थः । केनायं प्रद्योतो भवतीत्यपेक्षायामाह — स्वप्नेति । यथा स्वप्नकाले स्वेन भासा स्वेन ज्योतिषा प्रस्वपितीति व्याख्यातं तथाऽत्रापि तेजोमात्राणां यदादानं तत्कृतेन वासनरूपेण प्राप्यफलविषयबुद्धिवृत्तिरूपेण स्वेन भासा स्वेन चाऽऽत्मना चैतन्यज्योतिषा हृदयाग्रप्रद्योतनमित्यर्थः । तस्यार्थक्रियां दर्शयति — तेनेति । किमिति लिङ्गद्वाराऽऽत्मनो निर्गमनं प्रतिज्ञायते तत्राऽऽह — तथेति । यदि मरणकाले तोजोमात्रादानं न तर्हि सदा लिङ्गोपाधिरात्मेत्याशङ्क्याऽऽह — तत्र चेति । सप्तम्या लिङ्गमुच्यते । सर्वदेति लिङ्गसत्तादशोक्तिः । आत्मोपाधिभूते लिङ्गे किं प्रमाणमित्याशङ्क्याऽऽत्मनि कूटस्थे संव्यवहारदर्शनमित्याह — तदुपाधीति । चक्षुरादिप्रसिद्धिरपि प्रमाणमित्याह — तदात्मकं हीति । एकादशविधं करणमित्यभ्युपगमात्कुतो द्वादशविधत्वमित्याशङ्क्य विशिनष्टि — बुद्ध्यादीति । ’वायुर्वै गौतम तत्सूत्रम्’ इत्यादि श्रुतिरपि यथोक्ते लिङ्गे प्रमाणमित्याह — तत्सूत्रमिति । जगतो जीवनमपि तत्र मानमित्याह — तज्जीवनमिति । ’एष सर्वभूतान्तरात्मा’ इति श्रुतिरपि यथोक्तं लिङ्गं साधयतीत्याह — सोऽन्तरात्मेति । लिङ्गोपाधेरात्मनो यथोक्तप्रकाशेन मरणकाले हृदयान्निष्क्रमणे मार्गं प्रश्नपूर्वकमुत्तरवाक्येनोपदिशति — तेनेत्यादिना । चक्षुष्टो वेति विकल्पे निमित्तं सूचयति — आदित्येति । मूर्ध्नो वेति विकल्पे हेतुमाह — ब्रह्मलोकेति । तत्प्राप्तिनिमित्तं चेज्ज्ञानं कर्मं वा स्यादिति पूर्वेण संबन्धः । देहावयवान्तरेभ्यो निष्क्रमणे नियामकमाह — यथेति । कथं परलोकाय प्रस्थितमित्युच्यते प्राणगमनाधीनत्वाद्विज्ञानात्मगमनस्येत्याशङ्क्याऽऽह — परलोकायेति । ननु जीवस्य प्राणादितादात्म्ये सति कथमनुशब्देन क्रमो विवक्ष्यते तत्राऽऽह — यथाप्रधानेति । प्रधानमनतिक्रम्य हीयमन्वाख्यानेच्छा । तथा च जीवादेः प्राधान्याभिप्रायेणानुशब्दप्रयोगो न क्रमाभिप्रायेण देशकालभेदाभावादित्यर्थः । सार्थे समूहे व्यक्तिषु क्रमेण गमनं दृश्यते न तथा प्राणादिष्विति व्यतिरेकः । यदुक्तं हृदयाग्रप्रद्योतनं तत्सविज्ञानश्रुत्या प्रकटयति — तदेति । कर्मवशादिति विशेषणं साधयति — नेति । विपक्षे दोषमाह — स्वातन्त्र्येणेति । इष्टापत्तिमाशङ्क्याऽऽह — नैवेति । मुमूर्षोरस्वातन्त्र्ये मानमाह — अत एवेति । कर्मवशादुक्तं सविज्ञानत्वमुपसंहरति — कर्मणेति । अन्तःकरणस्य वृत्तिविशेषो भाविदेहविषयस्तदाश्रितं तद्रूपं यद्वासनात्मकं विशेषविज्ञानं तेनेति यावत् । म्रियमाणस्य सविज्ञानत्वे सत्यर्थसिद्धमर्थमाह — सविज्ञानमेवेति । गन्तव्यस्य सविज्ञानत्वं विज्ञानाश्रयत्वमित्याशङ्क्य विशिनष्टि — विशेषेति । प्रगेवोत्क्रान्तेः सविज्ञानत्ववादिश्रुतेस्तात्पर्यमाह — तस्मादिति । पुरुषस्य कर्मानुसारित्वं तच्छब्दार्थः । योगश्चित्तवृत्तिनिरोधः । तस्य धर्मा यमनियमप्रभृतयः । तेषामनुसेवनं पुनः पुनरावर्तनम् । परिसंख्यानाभ्यासो योगानुष्ठानम् । कर्तव्य इति प्रकृतश्रुतेर्विधेयोऽर्थ इति शेषः । किञ्च पुण्योपचयकर्तव्यतारूपेऽर्थे सर्वमेव विधिकाण्डं पर्यवसितमित्याह — सर्वशास्त्राणामिति । सर्वस्मादागामिदुश्चरितादुपरमणं कर्तव्यमित्यस्मिन्नर्थे निषेधशास्त्रमपि पर्यवसितमित्याह — दुश्चरिताच्चेति । ननु पूर्वं यथेष्टचेष्टां कृत्वा मरणकाले सर्वमेतत्संपादयिष्यते नेत्याह — न हीति । कर्मणा नीयमानत्वे मानमाह — पुण्य इति । तर्हि पुण्योपचयादेव यथोक्तानर्थनिवृत्तेर्व्यर्थं तत्त्वज्ञानमित्याशङ्क्याऽऽह — एतस्येति । उपशमोपायस्तत्वज्ञानं तस्य विधानं प्रकाशनं तदर्थमिति यावत् । देवताध्यानादनर्थो निवर्तिष्यते किं तत्त्वज्ञानेनेत्याशङ्क्याऽऽह — न हीति । तद्विहितेति तच्छब्देन प्रकृताः सर्वशाखोपनिषदो गृह्यन्ते । विधान्तरेणानर्थध्वंसासिद्धौ फलितमाह — तस्मादिति । ज्ञापितः सविज्ञानवाक्येनेति शेषः । वृत्तमनूद्य प्रश्नपूर्वकमुत्तरवाक्यमवतार्य व्याचष्टे — शकटवदित्यादिना । विहिता विद्या ध्यानात्मिका । प्रतिषिद्धा नग्नस्त्रीदर्शनादिरूपा । अविहिता घटादिविषया । अप्रतिषिद्धा पथि पतिततृणादिविषया । विहितं कर्म यागादि । प्रतिषिद्धं ब्रह्महननादि । अविहितं गमनादि । अप्रतिषिद्धं नेत्रपक्ष्मविक्षेपादि । विद्याकर्मणोरुपभोगसाधनत्वप्रसिद्धेरन्वारम्भेऽपि किमित्यन्वारभते वासनेत्याशङ्क्याऽऽह — सा चेति । अपूर्वकर्मारम्भादावङ्गं पूर्ववासनेत्यत्र हेतुमाह — न हीति । उक्तमेव हेतुमुपपादयति — न हीत्यादिना । इन्द्रियाणां विषयेषु कौशलमनुष्ठाने प्रयोजकं तच्च फलोपभोगे हेतुः । न चान्तरेणाभ्यासमिन्द्रियाणां विषयेषु कौशलं संभवति तस्मादनुष्ठानाद्यभ्यासाधीनमित्यर्थः । तथाऽपि कथं पूर्ववासना कर्मानुष्ठानादावङ्गमित्याशङ्क्याऽऽह — पूर्वानुभवेति । तत्र लोकानुभवं प्रमाणयति — दृश्यते चेति । चित्रकर्मादीत्यादिशब्देन प्रासादनिर्माणादि गृह्यते । पूर्ववासनोद्भवकृतं कार्यमुक्त्वा तदभावकृतं कार्यमाह — कासुचिदिति । रज्जुनिर्माणादिष्विति यावत् । तत्रैवोदाहरणसौलभ्यमाह — तथेति । तत्र हेत्वन्तरमाशङ्क्य परिहरति — तच्चेति । कर्मानुष्ठानादौ पूर्वप्रज्ञाया हेतुत्वमुपसंहरति — तेनेति । समन्वारम्भवचनार्थं निगमयति — तस्मादिति । तस्यैव तात्पर्यार्थमाह —
यस्मादिति ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 उपसंहारस्य स्वरूपमाह — तत्रेति । सप्तम्यर्थं विवृणोति — आरभ्यमाण इति । आरब्धे देहान्तरे सूक्ष्मदेहस्याभिव्यक्तिमाह — तत्र चेति । कर्मग्रहणं विद्यापूर्वप्रज्ञयोरुपलक्षणम् । ननु लिङ्गदेहबलादेवार्थक्रियासिद्धौ कृतं स्थूलशरीरेणेत्याशङ्क्य तद्व्यतिरेकेणेतरस्यार्थक्रियाकारित्वं नास्तीति मत्वाऽऽह — बाह्यं चेति । आरब्धे देहद्वये करणेषु देवतानामनुग्राहकत्वेनावस्थानं दर्शयति — तत्रेति ।
स्थूलो देहः सप्तम्यर्थः । करणव्यूहस्तेषामभिव्यक्तिः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 तृणजलायुकावाक्यमवतारयितुं वृत्तमनूद्य वादिविवादान्दर्शयन्नादौ दिगम्बरमतमाह — एवमित्यादिना । देवतावादिमतमाह — अथवेति । देवता येन शरीरेण विशिष्टं जीवं परलोकं नयति तदातिवाहिकं शरीरान्तरं तेनेति यावत् । साङ्ख्यादिमतमाह — किञ्चेति । सिद्धान्तं सूचयति — आहोस्विदिति । वैशेषिकादिपक्षमाह — किञ्चेति । न्यूनत्वनिवृत्त्यर्थमाह — किंवा कल्पान्तरमिति । तत्र सिद्धान्तस्य प्रामाणिकत्वेनोपादेयत्वं वदन्कल्पनान्तराणामप्रामाणिकत्वेन त्याज्यत्वमभिप्रेत्याऽऽह — उच्यत इति । तेषां सर्वात्मकत्वे हेत्वन्तरमाह — सर्वात्मकेति । कथं तर्हि करणानां परिच्छिन्नत्वधीरित्याशङ्क्याऽऽह — तेषामिति । आधिदैविकेन रूपेणापरिच्छिन्नानामपि करणानामाध्यात्मिकादिरूपेण परिच्छिन्नतेति स्थिते फलितमाह — अत इति । तद्वशादुदाहृतश्रुतिवशादित्येतत् । स्वभावतो देवतास्वरूपानुसारेणेति यावत् । कर्मज्ञानवासनानुरूपेणेत्यत्र भोक्तुरिति शेषः । उभयत्र संबन्धार्थं प्राणानामिति द्विरुक्तम् । तेषां वृत्तिसंकोचादौ प्रमाणमाह — तथा चेति । परिच्छिन्नापरिच्छिन्नप्राणोपासने गुणदोषसंकीर्तनमपि प्राणसंकोचविकासयोः सूचकमित्याह — तथा चेदमिति । आधिदैविकेन रूपेण सर्वगतानामपि करणानामाध्यात्मिकाधिभौतिकरूपेण परिच्छिन्नत्वात्तत्परिवृतस्य गमनं सिद्ध्यतीति सिद्धान्तो दर्शितः । इदानीं तृणजलायुकादृष्टान्ताद्देहान्तरं गृहीत्वा पूर्वदेहं मुञ्चत्यात्मेति स्थूलदेहविशिष्टसैव परलोकगमनमिति पौराणिकप्रक्रियां प्रत्याख्यातुं दृष्टान्तवाक्यस्य तात्पर्यमाह — तत्रेत्यादिना । देहनिर्गमनात्प्रागवस्था सप्तम्यर्थः । तदैव यथोक्ता वासना हृदयस्था विद्याकर्मनिमित्तं भाविदेहं स्पृशति जीवोऽपि तत्राभिमानं करोति पुनश्च पूर्वदेहं त्यजति यथा स्वप्ने देवोऽहमित्यभिमन्यमानो देहान्तरस्थ एव भवति तथोत्क्रान्तावपि । तस्मान्न पूर्वदेहविशिष्टस्यैव परलोकगमनमित्यर्थः । स्वात्मोपसंहारो देहे पूर्वस्मिन्नात्माभिमानत्यागः । प्रसारितया वासनया शरीरान्तरं गृहीत्वेति संबन्धः । अवशिष्टं भागमादाय व्याचष्टे — यथेत्यादिना । किं पुनरुपादानमेतावता देहान्तरारम्भेऽभ्युपगतं भवति तत्राऽऽह — नित्योपात्तानीति । शरीरद्वयारम्भकाणीति शेषः । तेषामुभयारम्भकत्वेन मूर्तामूर्तब्राह्मणे प्रस्तुतत्वं दर्शयति — यानीति । देहविकल्पे नियामकमाह —
यथाकर्मेति ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 पेशस्कारिवाक्यव्यावर्त्यामाशङ्कामाह — तत्रेति । संसारिणो हि प्रकृते देहान्तरारम्भे किमुपादानमस्ति किं वा नास्ति नास्ति चेन्न भावरूपं कार्यं सिध्येत । अस्ति चेत्तत्किं भूतपञ्चकमुतान्यत् । आद्येऽपि तन्नित्योपात्तमेव पूर्वपूर्वदेहोपमर्देनान्यमन्यं देहमारभते किंवाऽन्यद्दूतपञ्चकमन्यमन्यं देहं जनयति । नाऽद्यः । भूतपञ्चकस्य तत्तदेहोपादानत्वे मायायाः सर्वकरणत्वस्वीकारविरोधात् । न द्वितीयः । भूतपाञ्चकोत्पत्तावपि कारणान्तरस्य मृग्यत्वात्तस्यैव देहान्तरकारणत्वसंभवान्नेतरो देहस्य पाञ्चभौतिकत्वप्रसिद्धिविरोधादिति भावः । उत्तरं वाक्यमुत्तरत्वेनाऽऽदत्ते — अत्रेति । तच्छब्दार्थमपेक्षितं पूरयन्नाह — दृष्टान्त इति । स वा अयमात्मा ब्रह्मेति भागं व्याकुर्वन्नात्मनो ब्रह्मैक्यं वास्तवं वृत्तं दर्शयति — स वा इति । यस्यैवावास्तवं रूपमुपन्यस्यति — विज्ञानमय इत्यादिना । ज्योतिर्ब्राह्मणेऽपि व्याख्यातं विज्ञानमयत्वमित्याह — कतम इति । कस्मिन्नर्थे मयट् प्रयुज्यते तत्राऽऽह — विज्ञानेति । उक्ते मयडर्थे हेतुमाह — यस्मादिति । बुद्ध्यैक्याध्यासात्तद्धर्मस्य कर्तृत्वादेरात्मनि प्रतीतिरित्यत्र मानमाह — ध्यायतीवेति । मनःसंनिकर्षात्तेन द्रष्टव्यतया संबन्धादिति यावत् । चक्षुर्मयत्वादेरुपलक्षणत्वमङ्गीकृत्याऽऽह — एवमिति । उक्तमनूद्य सामान्येन भूतमयत्वमाह — एवं बुद्धीति । भूतमयत्वे सत्यवान्तरविशेषमाह — तत्रेत्यादिना । न चाऽऽकाशपरमाण्वभावादाकाशस्य शरीरानारम्भकत्वं श्रुतिविरुद्धारम्भप्रक्रियानभ्युपगमादित्यभिप्रेत्याऽऽह — तथाऽऽकाशेति । कथं पुनर्धर्मादिमयत्वे कामादिमयत्वमुपयुज्यते तत्राऽऽह — न हीति । कथं धर्मादिमयत्वं सर्वमयत्वे कारणमित्याशङ्क्याऽऽह — समस्तमिति । तद्यदेतदित्यादेरर्थमाह — किं बहुनेति । विषयः शब्दादिस्ततोऽन्यदपि प्रत्यक्षतो अवगतिप्रकारमभिनयति — इदमस्येति । इदंमयत्वमदोमयत्वं चोपसंहरति — तेनेत्यादिना । परोक्षत्वं व्याकरोति — अन्तःस्थ इति । व्यवहितविषयव्यवहारवानिति यावत् । इदानीमित्यस्मादुपरिष्टादपि तेनेति संबध्यते । परोक्षत्वावस्थेदानीमित्युक्ता । तृतीयया च प्रकृतो व्यवहारे निर्दिश्यते । इतिशब्दः सर्वमयत्वोपसंहारार्थः । विज्ञानमयादिवाक्यार्थं संक्षिपति — संक्षेपतस्त्विति । करणचरणयोरैक्येन पौनरुक्त्यमाशङ्क्याऽऽह — करणं नामेति । आदिशब्दः शिष्टाचारसंग्रहार्थः । वाक्यान्तरं शङ्कोत्तरत्वेनोत्थाप्य व्याचष्टे — ताच्छील्येत्यादिना । कुत्र तर्हि ताच्छील्यमुपयुज्यते तत्राऽऽह — ताच्छील्ये त्विति । पूर्वपक्षमुपसंहरति — तत्रेत्यादिना । कर्मणः संसारकारणत्वमुपसंहरति — एतत्प्रयुक्तो हीति । संसारप्रयोजके कर्मणि प्रमाणमाह — एतद्विषयौ हीति । कथं यथोक्तकर्मविषयत्वं विधिनिषेधयोरित्याशङ्क्याऽऽह — अत्रेति । इतिशब्दः पूर्वपक्षसमाप्त्यर्थः । सिद्धान्तमवतारयति — अथो इति । संसारकारणस्याज्ञानस्य प्राधान्येन कामः सहकारीति स्वसिद्धान्तं समर्थयते — सत्यमित्यादिना । कामाभावेऽपि कर्मणः सत्त्वं दृष्टमित्याशङ्क्याऽह — कामप्रहाणे त्विति । ननु कामाभावेऽपि नित्याद्यनुष्ठानात्पुण्यापुण्ये संचीयेते तत्राऽऽह — उपचिते इति । यो हि पशुपुत्रस्वर्गादीननतिशयपुरुषार्थान्मन्यमानस्तानेव कामयते स तत्तद्भोगभूमौ तत्तत्कामसंयुक्तो भवतीत्याथर्वणश्रुतेरर्थः । श्रुतियुक्तिसिद्धमर्थं निगमयति — तस्मादिति । धर्मादिमयत्वस्यापि सत्त्वादवधारणानुपपत्तिमाशङ्क्याऽऽह — यदिति । स यथाकामो भवतीत्यादि व्याचष्टे — यस्मादित्यादिना ।
यस्मादित्यस्य तस्मादिति व्यवहितेन संबन्धः । इतिशब्दो ब्राह्मणसमाप्त्यर्थः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 शरीरारम्भे मायात्मकभूतपञ्चकमुपादानमिति वदता भूतावयवानामपि सहैव गमनमित्युक्तम् । इदानीं स वा अयमात्मेत्यादेस्तात्पर्यमाह — येऽस्येति । तानेवोपाधिभूतान्पदार्थान्विशिनष्टि — यैरिति । ननु पूर्वमप्येते पदार्था दर्शिताः किं पुनस्तत्प्रदर्शनेनेत्याशङ्क्याऽऽह — पञ्चीकृत्येति । तत्रेति गन्तव्यफलपरामर्शः । तदेव गन्तव्यं फलं विशेषतो ज्ञातुं पृच्छति — किं तदिति । प्रतीकमादाय व्याचष्टे — लिङ्गमिति । योऽवगच्छति स प्रमात्रादिसाक्षी येन साक्ष्येण मनसाऽवगम्यते तन्मनो लिङ्गमिति पक्षान्तरमाह — अथवेति । यस्मिन्निश्चयेन संसारिणो मनः सक्तं तत्फलप्राप्तिस्तस्येति संबन्धः । तदेवोपपादयति — तदभिलाषो हीति । पूर्वार्धार्थमुपसंहरति — तेनेति । कामस्य संसारमूलत्वे सत्यर्थसिद्धमर्थमाह — अत इति । वन्ध्यप्रसवत्वं निष्फलत्वम् । पर्याप्तकामस्य प्राप्तपरमपुरुषार्थस्येति यावत् । कृतात्मनः शुद्धबुद्धेर्विदितसतत्त्वस्येत्यर्थः । इहेति जीवदवस्थोक्तिः । कामप्रधानः संसरति चेत्कर्मफलभोगानन्तरं कामाभावान्मुक्तिः स्यादित्याशङ्क्याऽऽह — किञ्चेति । इतश्च संसारस्य कामप्रधानत्वमास्थेयमित्यर्थः । यावदवसानं तावदुक्त्वेति संबन्धः । उक्तमेव संक्षिपति — कर्मण इति । इत्येवं पारम्पर्येण संसरणादृशे ज्ञानान्न मुक्तिरिति शेषः । संसारप्रकरणमुपसंहरति — इति न्विति । अवस्थाद्वयस्य दार्ष्टान्तिकं बन्धं प्रबन्धेन दर्शयित्वा सुषुप्तस्य दार्ष्टान्तिकं मोक्षं वक्तुमेवेत्यादि वाक्यं तत्राथशब्दार्थमाह — यस्मादिति । कामरहितस्य संसाराभावं साधयति — फलासक्तस्येति । विदुषो निष्कामस्य क्रियाराहित्ये नैष्कर्म्यमयत्नसिद्धमिति भावः । अकामयमानत्वे प्रश्नपूर्वकं हेतुमाह — कथमित्यादिना । बाह्येषु शब्दादिषु विषयेष्वासंगराहित्यादकामयमानतेत्यर्थः । अकामत्वे हेतुमाकाङ्क्षापूर्वकमाह — कथमिति । वासनारूपकामाभावादकामतेत्यर्थः । निष्कामत्वे प्रश्नपूर्वकं हेतुमुत्थाप्य व्याचष्टे — कथमिति । प्राप्तपरमानन्दत्वान्निष्कामतेत्यर्थः । आप्तकामत्वे हेतुमाकाङ्क्षापूर्वकमाह — कथमित्यादिना । हेतुमेव साधयति — यस्येति । तस्य युक्तमाप्तकामत्वमिति शेषः । उक्तमर्थं प्रमाणप्रदर्शनार्थं प्रपञ्चयति — आत्मैवेति । कामयितव्याभावं ब्रह्मविदः श्रुत्यवष्टम्भेन स्पष्टयति — यस्येति । इति विद्यावस्था यस्य विदुषोऽस्ति सोऽन्यमविजानन्न कञ्चिदपि कामयतेति योजना । पदार्थोऽन्यत्वेनाविज्ञातोऽपि कामयितव्यः स्यादिति चेन्नेत्याह — ज्ञायमानो हीति । अनुभूते स्मरणविपरिवर्तिनि कामनियमादित्यर्थः । अन्यत्वेन ज्ञायमानस्तर्हि पदार्थो विदुषोऽपि कामयितव्यः स्यादित्याशङ्क्याऽऽह — न चेति । आप्तकामस्य ब्रह्मविदो दर्शितरीत्या कामयितव्याभावे मुक्तिः सिद्धेत्युपसंहरति — य एवेति । कथं कामयितव्याभावोऽनात्मनस्तथात्वादित्याशङ्क्याऽऽह — न हीति । सर्वात्मत्वमनात्मकामयितृत्वं च स्यादित्याशङ्क्याऽऽह — अनात्म चेति । अथेत्यादिवाक्ये श्रौतमर्थमुक्त्वाऽर्थसिद्धमर्थं कथयति — सर्वात्मदर्शिन इति । कर्मजडानां मतमुत्थाप्य श्रुतिविरोधेन प्रत्याचष्टे — ये त्विति । ब्रह्मविदि प्रत्यवायप्राप्तिमङ्गीकृत्योक्तमिदानीं तत्प्राप्तिरेव तस्मिन्नास्तीत्याह — येन चेति । यथोक्तस्यापि ब्रह्मविदो विहितत्वादेव नित्यादनुष्ठानं स्यादिति चेन्नेत्याह — नित्यमेवेति । यो हि सदैवासंसारिणमात्मानमनुभवति न च हेयमादेयं वाऽऽत्मनोऽन्यत्पश्यति । यस्मादेवं तस्मात्तस्य कर्म संस्प्रष्टुमयोग्यम् । यथोक्तब्रह्मविद्यया कर्माधिकारहेतूनामुपमृदितत्वादित्यर्थः । कर्मसंबन्धस्तर्हि कस्येत्याशङ्क्याऽऽह — यस्त्विति । न विरोधो विधिकाण्डस्येति शेषः । श्रुत्यर्थाभ्यां सिद्धमर्थमुपसंहरति — अत इति । विद्यावशादित्येतत् । कामाभावात्कर्माभावाच्चेति द्रष्टव्यम् । अकामयमानोऽकुर्वाणश्चेति शेषः । देशान्तरप्राप्त्यायत्ता मुक्तिरित्येतन्निराकर्तुं न तस्येत्यादि व्याचष्टे — तस्येत्यादिना । ब्रह्मैव सन्नित्येतदवतारयति — स चेति । कथं वर्तमाने देहे तिष्ठन्नेव ब्रह्मभूतो भवति तत्राऽऽह — सर्वात्मनो हीति । दृष्टान्तालोचनया दार्ष्टान्तिकेऽपि सदा ब्रह्मत्वं भातीति भावः । सदा ब्रह्मीभूतस्य मुक्तिर्नाम नास्तीति शङ्कित्वा परिहरति — स कथमिति । परिहारमेव स्फोरयितुं न तस्येत्यादिवाक्यार्थमनुद्रवति — तस्यैवेति । ब्रह्मैव सन्नित्यस्यार्थमनुवदति — किन्त्विति । विद्वानिहैव ब्रह्म चेत्कथं तस्य ब्रह्मप्राप्तिरित्याशङ्क्याऽऽह — ब्रह्मैवेति । यदुक्तं ब्रह्मैव सन्नित्यादि तदुपपादयति — यस्मादिति । प्रागपि ब्रह्मभूतस्यैव पुनर्देहपाते ब्रह्मप्राप्तिरित्ययुक्तं विदुषां मृतस्य भावान्तरापत्तिस्वीकारादित्याशङ्क्याऽऽह — न हीति । कथं तर्हि ब्रह्माप्येतीत्युच्यते तत्राऽऽह — देहान्तरेति । विदुषो भावान्तरापत्तिर्मुक्तिरिति पक्षेऽपि किं दूषणमिति चेत्तदाह — भावान्तरापत्तौ हीति । तथा चोपनिषदामप्रामाण्यं विना हेतुना स्यादिति भावः । भावान्तरापत्तिर्मुक्तिरित्यत्र दोषान्तरमाह — कर्मेति । इतिपदादुपरिष्टात्क्रियापदस्य संबन्धः । अस्तु कर्मनिमित्तो मोक्षो ज्ञाननिमित्तस्तु मा भूत्तत्राऽऽह — स चेति । प्रसंगः सर्वनाम्ना परामृश्यते । प्रतिषेधशास्त्रविरोधादिति भावः । मोक्षस्य कर्मसाध्यत्वे दोषान्तरमाह — अनित्यत्वं चेति । तत्रोपयुक्तां व्याप्तिमाह — न हीति । अस्तु तर्हि प्रासादादिवत्क्रियासाध्यस्य मोक्षस्याप्यनित्यत्वं नेत्याह — नित्यश्चेति । कृतकोऽपि ब्रह्मभावो ध्वंसवन्नित्यः स्यादित्याशङ्क्याऽऽह — न चेति । कृत्रिमस्वभावव्यावृत्त्यर्थं स्वाभाविकपदम् । ‘अतोऽन्यदार्तम् ’(बृ. उ. ३ । ४ । २) इति हि श्रुतिः । ध्वंसस्य तु विकल्पमात्रत्वान्नित्यत्वमसंमतमिति भावः । मोक्षोऽकृत्रिमस्वभावोऽपि कर्मोत्थः स्यादित्याशङ्क्याऽऽह — स्वाभाविकश्चेदिति । अग्नेरौष्ण्यवदात्मनो मोक्षश्च स्वाभाविकस्वभावश्चेन्न स क्रियासाध्यो व्याघातादित्यर्थः । दृष्टान्तं समर्थयते — न हीति । अरणिगतस्याग्नेरौष्ण्यप्रकाशौ नोपलभ्यते सति च ज्वलने दृश्यते तेन स्वाभाविकावपि तावागन्तुकौ कादाचित्कोपलब्धिमत्त्वादिति शङ्कते — ज्वलनेति । न हि सतोऽग्नेरौष्ण्यादि कादाचित्कं युक्तं तद्दृष्टेर्व्यवधानस्य दार्वादेर्ध्वंसे मथनज्वलनादिना वह्न्यभिव्यक्तिमपेक्ष्य तत्स्वभावस्यौष्ण्यादेर्व्यक्त्यभ्युपगमादिति परिहरति — नान्येति । तदेव प्रपञ्चयति — ज्वलनादीति । मथनादिव्यापारवशात्प्रकाशादिना व्यज्यतेऽग्निरिति यदुच्यते तदग्नौ सत्येव तद्गतव्यापारापेक्षया तदौष्ण्याद्यभिव्यक्तिवशान्न भवति किन्तु देवदत्तदृष्टेरग्निधर्मौ व्यवहितौ न तु तौ कस्यचिद्दृष्ट्या संबध्यते ज्वलनादिव्यापारात्तु दृष्टेर्व्यवधानभङ्गे तयोरभिव्यक्तिरित्यर्थः । कथं तर्हि ज्वलनादिव्यापारादग्नेरौष्ण्यप्रकाशौ जाताविति बुद्धिस्तत्राऽऽह — तदपेक्षयेति । ज्वलनादिव्यापाराद्दृष्टिव्यवधानभङ्गे वह्नेरौष्ण्यप्रकाशाभिव्यक्त्यपेक्षयेति यावत् । यथा वह्नेरौष्ण्यादि स्वाभाविकं न क्रियासाध्यं तथाऽऽत्मनो मुक्तिः स्वाभाविकी न क्रियासाध्येत्युक्तमिदानीमग्नेरौष्ण्यादि न स्वाभाविकमित्याशङ्क्याऽऽह — यदीति । उदाहरिष्यामो मोक्षस्याऽऽत्मस्वभावस्याकर्मसाध्यत्वायेति शेषः । अथाग्नेः स्वाभाविको न कश्चिद्धर्मोऽस्ति यो मोक्षस्य दृष्टान्तः स्यादत आह — न चेति । लब्धात्मकं हि वस्तु वस्त्वन्तरेण संबध्यते । अस्ति च निम्बादौ तिक्तत्वादिधीरित्यर्थः । भावान्तरापत्तिपक्षं प्रतिक्षिप्य पक्षान्तरं प्रत्याह — न चेति । न हि बन्धनस्य यथाभूतस्य निवृत्तिर्विरोधान्नाप्यन्यथाभूतस्यानवस्थानात् । न च प्रसिद्धिविरोधो दुर्निरूपध्वस्तिविषयत्वादिति भावः । किञ्च परस्मादन्यस्य बन्धनिवृत्तिस्तस्यैव वा नाऽऽद्य इत्याह — न चेति । तत्र हेतुत्वेन परमात्मैकत्वाभ्युपगमादित्यादिभाष्यं व्याख्येयम् । न द्वितीयस्तस्य नित्यमुक्तस्य त्वयाऽपि बद्धत्वानभ्युपगमादिति द्रष्टव्यम् । कथं परस्मादन्यो बद्धो नास्तीत्याशङ्क्य प्रवेशविचारादावुक्तं स्मारयति — परमात्मेति । न चेदन्यो बद्धोऽस्ति कथं मोक्षव्यवहारः स्यादित्याशङ्क्याऽऽह — तस्मादिति । अन्यस्य बद्धस्याभावात्परस्य च नित्यमुक्तत्वादिति यावत् । यथा रज्ज्वादावधिष्ठाने सर्पादिहेतो रज्ज्वज्ञानस्य निवृत्तौ सत्यां सर्पादेरपि निवृत्तिस्तथाऽविद्याया बन्धहेतोर्निवृत्तिमात्रेण तत्कार्यस्य बन्धनस्यापि निवृत्तिव्यवहारो भवतीति चावादिष्मेति योजना । मतान्तरमुद्भावयति — येऽप्याचक्षत इति । वैषयिकज्ञानानन्दापेक्षयाऽन्तरशब्दः । केयमभिव्यक्तिरुत्पत्तिर्वा प्रकाशो वा । नाऽऽद्यो मोक्षे सुखाद्युत्पत्तौ तदनित्यत्वापत्तेरित्यभिप्रेत्याऽऽह — तैरिति । द्वितीयमालम्बते — यदीति । तत्र दोषं वक्तुं विकल्पयति — तत इति । द्वितीये खरविषाणवदपरोक्षाभिव्यक्तिर्न स्यादित्यभिप्रेत्याऽऽद्यमनुभाष्य दूषयति — विद्यमानं चेदिति । उपलब्धिस्वभावस्तावदात्मा तस्य विद्यमानं सुखादि व्यज्यते चेज्ज्ञानानन्दयोर्देशादिव्यवधानाभावादानन्दः सदैव व्यज्यत इति मुक्तिविशेषणमनर्थकमित्यर्थः । चक्षुर्घटयोर्विषयविषयित्वप्रतिबन्धककुड्यादिवदधर्मादिप्रतिबन्धादानन्दो ज्ञानं च संसारदशायां न व्यज्यते मोक्षे तु व्यज्यते तदभावादिति शङ्कते — अथेति । उपलब्धिदेशाद्भिन्नदेशस्यैव घटादेरुपलब्धिप्रतिबन्धदर्शनादनात्मभूतं सुखं न स्वभावभूतयोपलब्ध्या प्रकाशेत किन्तु विषयेन्द्रियसंपर्कादित्युत्तरमाह — उपलब्धीति । अन्यतोऽभिव्यक्तौ किं स्यादिति चेत्तदाह — तथा चेति । तत्साधनानि चेन्मुक्तौ स्युः संसारादविशेषः स्यादिति भावः । उपलब्धिव्यवधानमानन्दस्याङ्गिकृत्योक्तमिदानीं तदेव नास्तीत्याह — उपलब्धीति । कदाचिदभिव्यक्तिरनभिव्यक्तिश्च कदाचिदित्येवं कालभेदेनोभयं किं न स्यादित्याशङ्क्याऽऽह — न त्विति । अनन्दज्ञानयोर्विषयविषयित्वमभ्युपेत्य कादाचित्कीं तावदभिव्यक्तिर्निरस्ता संप्रति तदपि न संभवतीत्याह — न चेति । आत्मभूतत्वं स्वाभाविकत्वम् । विमतं न समानाश्रयविषयं धर्मत्वात्प्रदीपप्रकाशवदिति भावः । मुक्तावानन्दज्ञानाभिव्यक्तिपक्षे दोषान्तरं वक्तुं भूमिकां करोति — विज्ञानसुखयोश्चेति । तद्भेदापादननिष्ठमेवेत्याशङ्क्य विवक्षितं दोषमाह — परमात्मेति । परमते निराकृते सिद्धान्तेऽपि दोषद्वयमाशङ्कते — मोक्षस्येति । मोक्षार्थोऽधिको यत्नः शमदमादिः । शास्त्रं मोक्षविषयम् । मोक्षस्य निर्विशेषत्वेऽपि प्रत्यगविद्यातदुत्थानर्थध्वंसित्वेनोभयमर्थवदिति परिहरति — नाविद्येति । तत्र नञर्थं विवृणोति — नहीति । कथं तर्हि शास्त्राद्यर्थवत्त्वमित्याशङ्क्याऽऽह — किन्त्विति । तत्र शास्त्रस्यार्थवत्वं समर्थयते — तद्विषयेति । प्रस्तुतात्मविषयस्तच्छब्दः । संप्रति प्रयत्नस्यार्थवत्वं प्रकटयति प्रागिति। प्रथमस्तच्छब्दः शास्त्रविषयः । द्वितीयो मोक्षविषयः । आत्मनः सदैकरूपत्वं प्रागुक्तमाक्षिपति — अविद्येति । आविद्यः सोऽपीति समाधत्ते — नेति । यथा रज्ज्वाद्यविद्योत्थसर्पादेस्तद्विद्यया ध्वंसाद्वंसयो रज्ज्वादेर्न वास्तवो विशेषस्तथाऽऽत्मनोऽपि स्वाविद्यामात्रोत्थविशेषवत्त्वेऽपि तद्ध्वंसाध्वंसयोर्न वास्तवो विशेषोऽस्तीत्यर्थः । अदोषः सविशेषत्वदोषराहित्यम् । प्रकारान्तरेण सविशेषत्वं शङ्कते — तिमिरेति । किमिदमविद्याकर्तृत्वं किं तज्जनकत्वं किं वा तदाश्रयत्वमिति विकल्प्याऽऽद्यं दूषयति — न ध्यायतीवेति । आत्मनः स्वतोऽविद्याकर्तृत्वाभावे हेत्वन्तरमाह — अनेकेति । विषयविषय्याकारोऽन्तःकरणस्य तत्र चिदाभासोदयश्चाऽऽत्मनो व्यापारस्तथा चानेकव्यापारसंनिपाते सत्यहं संसारीत्यविद्यात्मको भ्रमो जायते तस्मान्न तस्याऽऽत्मकार्यतेत्यर्थः । कल्पान्तरं प्रत्याह — विषयत्वेति । अविद्यादेरात्मदृश्यत्वान्न तदाश्रयत्वं न हि तद्गतस्य तद्ग्राह्यत्वमंशतः स्वग्रहापत्तेरित्यर्थः । तदेव स्फोरयति — यस्य चेति । अनुभवमनुसृत्य शङ्कते — अहं नेत्यादिना । साक्षिसाक्ष्यभावेन भेदाभ्युपगमान्नाऽऽत्मनोऽविद्याश्रयत्वमित्युत्तरमाह — न तस्यापीति । तदेव स्पष्टयति — न हीति । अविद्यादेर्विवेकेन ग्रहीतर्यपि तद्विषये भ्रान्तत्वे का हानिरित्याशङ्क्याऽऽह — तस्य चेति । अज्ञानं मुग्धत्वं चाऽऽत्मनो न विशेषणमिति विधान्तरेण दर्शयितुं चोद्यवाक्यमनुवदति — न जान इति । तद्व्याचष्टे — तद्दर्शिनश्चेति । अज्ञानादिस्तच्छब्दार्थः । दृश्यमानत्वमेव विशदयति — कर्मतामिति । इति ब्रवीषीति संबन्धः । एवं परकीयं वाक्यं व्याख्याय फलितमाह — तत्कथमिति । तत्र चोद्यवाक्यार्थे दर्शितरीत्या स्थिते सति कर्तृविशेषणं नाज्ञानमुग्धते स्यातां तयोः प्रत्येकं कर्मभूतत्वादित्यर्थः । विपक्षे दोषमाह — अथेति । कथं कर्म स्यातामित्येतदेव व्याचष्टे — दृशिनेति । तत्रापि कथंशब्दः संबध्यते । एतदेव स्फुटयति — कर्म हीति । एवं सति व्याप्यव्यापकभावस्य भेदनिष्ठत्वे सतीत्येतत् । किञ्चाज्ञानमुपलब्धृधर्मो न भवत्युपलभ्यमानत्वाद्देहगतकार्श्यादिवदित्याह — न चेति । अज्ञानतत्तत्कार्यमपि नाऽऽत्मधर्मः स्यादित्यतिदिशति — तथेति । अज्ञानोत्थस्येच्छादेरात्मधर्मत्वनिराकरणे प्रतीतिविरोधः स्यादिति शङ्कते — सुखेति । तेषां ग्राह्यत्वमङ्गीकृत्य परिहरति — तथाऽपीति । आत्मनिष्ठत्वे सुखादीनां चैतन्यवदात्मग्राह्यत्वायोगात्तद्ग्राह्याणां तेषां न तद्धर्मतेति भावः । प्रकारान्तरेण निराकर्तुं निराकृतमेव चोद्यमनुद्रवति — न जान इति । किं प्रमातुरज्ञानाद्याश्रयत्वमनुभवादभिदधासि तत्साक्षिणो वा । तत्राऽऽद्यं प्रत्याह — भवत्विति । कल्पान्तरं निराकरोति — यस्त्विति । न हि यो यत्र साक्षी स तत्राज्ञो मूढो वेति । तथा च सर्वसाक्षी नाज्ञानादिमान्भवतीत्यर्थः । आत्मनो मोहादिराहित्ये भगवद्वाक्यं प्रमाणयति — तथेति । तस्य सर्वविशेषशून्यत्वे वाक्यान्तरमुदाहरति — सममिति । आदिपदेन समं पश्यन्हि सर्वत्र । ज्योतिषामपि तज्ज्योतिरित्यादि गृह्यते । आत्मनो निर्विशेषत्वे प्रामाणिके स्वमतमुपसंहरति — तस्मान्नेति । पक्षान्तरमनुभाषते — ये त्विति । अतो निर्विशेषस्वाभाव्यादिति यावत् । अज्ञानाद्बन्धो ज्ञानान्मुक्तिरिति शास्रमर्थवादः । आदिशब्देन रुद्ररोदनाद्यर्थवादं दृष्टान्तं सूचयति । सोपहासं दूषयति — त उत्सहन्त इति । न हि सविशेषत्वं शक्यमात्मनः प्रतिपत्तुं निर्विशेषत्वप्रत्यायकागमविरोधादिति भावः । कथं तर्हि भवद्भिरात्मतत्त्वमभ्युपगम्यते तत्राऽऽह — वयं त्विति । प्रमाणविरुद्धार्थदर्शनं तच्छब्देन परामृश्यते । सत्त्वादीनामिव साम्यं दूषयति — सर्वदेति । भेदाभेदमपवदति — एकरसमिति । तत्र हेतुमाह — अद्वैतमिति । द्वैताभावोपलक्षितत्वादित्यर्थः । ऐकरस्ये कौटस्थ्यं हेत्वन्तरमाह — अविक्रियामिति । तदुपपादयति — अजमित्यादिना । अमरं मरणायोग्यम् । तत्र सर्वत्राविद्यासंबन्धराहित्यं हेतुमाह — अभयमिति । ननु ब्रह्मैवंविधं न त्वात्मतत्त्वमित्याशङ्क्याऽऽह — ब्रह्मैवेति । यथोक्तं प्रत्यग्भूतं ब्रह्मेत्यत्र प्रमाणमाह — इत्येष इति । तत्रैव विद्वदनुभवं प्रमाणयति — इत्येवमिति । परपक्षनिरासेन प्रकृतं वाक्यार्थमुपसंहरति — तस्मादिति । उपचारनिमित्तमाह — विपरीतेति ।
आत्मा तत्त्वतः संसारीतिविपरीतग्रहवती या देहसन्ततिस्तस्या विच्छेदमात्रं ज्ञानफलमपेक्ष्योपचारमात्रमित्यर्थः ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 अत्रेति मोक्षप्रकरणोक्तिः । बन्धप्रकरणं दृष्टान्तयितुमपिशब्दः । उक्तेऽर्थे तदेष इत्याद्यक्षराणि व्याचष्टे — तत्तस्मिन्नेवेति । यस्मिन्काले विद्यापरिपाकावस्थायामित्यर्थः । सुषुप्तिव्यावृत्त्यर्थं सर्वविशेषणमिति मत्वाऽऽह — समस्ता इति । कामशब्दस्यार्थान्तरविषयत्वं व्यावर्तयति — तृष्णेति । क्रियापदं सोपसर्गं व्याकरोति — आत्मकामस्येति । तानेव विशिनष्टि — ये प्रसिद्धा इति । कामानामात्माश्रयत्वं निराकरोति — हृदीति । समूलतः कामवियोगादिति संबन्धः । कामवियोगादमृतो भवतीतिनिर्देशसामर्थ्यसिद्धमर्थमाह — अर्थादिति । तेषां मृत्युत्वे किं स्यात्तदाह — अत इति । अत्रेत्यादिना विवक्षितमर्थमाह — अतो मोक्ष इति । आदिपदमुत्क्रान्त्यादिसंग्रहार्थम् । मुक्तेस्तदपेक्षाभावे फलितमाह — तस्मादिति । तर्हि मरणासिद्धिरित्याशङ्क्याऽऽह — यथेति । उत्क्रान्तिगत्यागतिराहित्यं यथावस्थितत्वम् । एतच्च पञ्चमे प्रतिपादितमित्याह — नाममात्रमिति । तद्यथेत्यादिवाक्यनिरस्यां शङ्कामाह — कथं पुनरिति । विदुषो विद्ययाऽऽत्ममात्रत्वेन प्राणादिषु बाधितेष्वपि देहे चेदसौ वर्तते ततोऽस्य पूर्ववद्देहित्वाद्विद्यावैयर्थ्यमित्यर्थः । दृष्टान्तेन परिहरति — अत्रेत्यादिना । देहे वर्तमानस्यापि विदुषस्तत्राभिमानराहित्यं तत्रेत्युच्यते । यस्यां त्वचि सर्पो नितरां लीयते सा निर्लयनी सर्पत्वगुच्यते । सर्पनिर्मोकदृष्टान्तस्य दार्ष्टान्तिकमाह — एवमेवेति । सर्पदृष्टान्तस्य दार्ष्टान्तिकं दर्शयति — अथेति । अज्ञानेन सह देहस्य नष्टत्वमशरीरत्वादौ हेतुरथशब्दार्थः । अथशब्दावद्योतितहेत्ववष्टम्भेनाशरीरत्वं विशदयति — कामेति । पूर्वमित्यविद्यावस्थोक्तिः । इदानीमिति विद्यावस्थोच्यते । व्युत्पत्त्यनुसारिणं रूढं च मुख्यं प्राणं व्यावर्तयति — प्राणस्येति । श्लोके पर एवाऽऽत्मा यथा प्राणशब्दस्तथाऽत्रापीत्यर्थः । यथा च श्रुत्यन्तरे प्राणशब्दः पर एवाऽऽत्मा तथाऽऽत्रापीत्याह — प्राणेति । किञ्च परविषयमिदं प्रकरणमथाकामयमान इति प्राज्ञस्य प्रकान्तत्वादथायमित्यादि वाक्यं च तद्विषयमन्यथा ब्रह्मादिशब्दानुपपत्तेः । तस्मादुभयसामर्थ्यादत्र पर एवाऽऽत्मा प्राणशब्दित इत्याह — प्रकरणेति । विशेष्यं दर्शयित्वा विशेषणं दर्शयति — ब्रह्मैवेति। ब्रह्मशब्दस्य कमलासनादिविषयत्वं वारयति — किं पुनरिति । तेजःशब्दस्य कार्यज्योतिर्विषयत्वमाशङ्क्याऽऽह — विज्ञानेति । तत्र प्रमाणमाह — येनेति । प्रज्ञा प्रकृष्टा ज्ञप्तिः स्वरूपचैतन्यं नेत्रमिव नेत्रं प्रकाशकमस्येति तथोक्तम् । सोऽहमित्यादेस्तात्पर्यं वक्तुं वृत्तं कीर्तयति — यः कामप्रश्न इति । निर्णयप्रकारं संक्षिपति — संसारेति । सोऽहमित्यादिवाक्यान्तरमुत्थापयति — इदानीमिति । आकाङ्क्षापूर्वकं वाक्यमादाय विभजते — कथमिति । सहस्रदानमाक्षिपति — अत्रेति । सर्वस्वदानप्राप्तावपि सहस्रदाने हेतुमेकदेशीयं दर्शयति — अत्रेत्यादिना । कदा तर्हि गुरवे सर्वस्वं राजा निवेदयिष्यति तत्राऽऽह — श्रुत्वेति । ननु पुनः शुश्रूषुरपि राजा किमिति संप्रत्येव गुरवे न प्रयच्छति प्रभूता हि दक्षिणा गुरुं प्रीणयन्ती स्वीयां शुश्रूषा फलयति तत्राऽऽह — यदि चेति । अनाप्तोक्तौ हृदयेऽन्यन्निधाय वाचाऽन्यनिष्पादनात्मकं व्याजोत्तरं युक्तं श्रुतौ त्वपौरुषेय्यामपास्ताशेषदोषशङ्कायां न व्याजोक्तिर्युक्ता तदीयस्वारसिकप्रामाण्यभङ्गप्रसंगादिति दूषयति — सर्वमपीति । एकदेशीयपरिहारसंभवे हेत्वन्तरमाह — अर्थेति । तदुपपत्तिमेवोपपादयति — विमोक्षेति । तस्यापि पूर्वमसकृदुक्तेस्तदीयशुश्रूषाधीनं सहस्रदानमनुचितमित्याशङ्क्य शमादेर्ज्ञानसाधनत्वेन प्रागनुक्तेस्तेन सह भूयोऽपि संन्यासस्य वक्तव्यत्वयोगात्तदपेक्षया युक्तं सहस्रदानमित्याह — अगतिका हीति । ननु संन्यासादि विद्यास्तुत्यर्थमुच्यते महाभागा हीयं यत्तदर्थी दुष्करमपि करोत्यतो नार्थशेषसिद्धिस्तत्राऽऽह — न चेति । न तावत्संन्यासो विद्यास्तुतिर्विदित्वा व्युत्थायेति समानकर्तृत्वनिर्देशादिति पञ्चमे स्थितं नापि शमादिर्विद्यास्तुतिस्तत्रापि विधेर्वक्ष्यमाणत्वादित्यर्थः । अर्थशेषशुश्रूषया सहस्रदानमित्यत्र जनकस्याकौशलं चोदयति — नन्विति । राज्ञः शङ्कितमकौशलं दूषयति — नैष इति । तत्र हेतुमाह — आत्मज्ञानवदिति । यथाऽऽत्मज्ञानं मोक्षे प्रयोजकं न तथा संन्यासो न चास्मिन्पक्षे तस्याकर्तव्यत्वं प्रतिपत्तिकर्मवदनुष्ठानसंभवादिति राजा यतो मन्यते ततः संन्यासस्य न ज्ञानतुल्यत्वमतो नात ऊर्ध्वं विमोक्षायैव ब्रूहीति पृच्छतीत्यर्थः । संन्यासस्य प्रतिपत्तिकर्मवत्कर्तव्यत्वे प्रमाणमाह — संन्यासेनेति । ननु विविदिषासंन्यासमङ्गीकुर्वता न तस्य प्रतिपत्तिकर्मवदनुष्ठेयत्वमिष्यते तत्राऽऽह — साधनत्वेति।
’त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम्’ इत्युक्तत्वादित्यर्थः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणोक्तेऽर्थे मन्त्रमवतारयितुं ब्राह्मणार्तमनुवदति — स्वप्नेत्यादिना । अयमर्थः संसारस्तद्धेतुश्च । मन्त्रस्तदेव सक्तः सह कर्मणेत्यादिः । आत्मज्ञानस्य तर्हि मोक्षकारणत्वमपेक्षितमित्याशङ्क्याऽऽह — तच्चेति । अतो ब्रह्मज्ञानं मोक्षकारणमित्युक्तत्वादिति यावत् । मूलं बन्धस्येति शेषः । राज्ञोऽकौशलं परिहृत्य मन्त्रानवतारयति — आत्मकामस्येति । यदेत्याद्यतीतश्लोकेनाऽऽगामिश्लोकानामर्थापौनरुक्त्यं सूचयति — विस्तरेति । ज्ञानमार्गस्य सूक्ष्मत्वे हेतुमाह — दुर्विज्ञेयत्वादिति । विस्तीर्णत्वं पूर्णवस्तुविषयत्वादवधेयम् । माध्यन्दिनश्रुतिमाश्रित्याऽऽह — विस्पष्टेति । प्रयत्नसाध्यत्वं तस्य पञ्चम्या विवक्ष्यते । कथं पुनरधुनातनो वैदिको ज्ञानमार्गश्चिरन्तनो निरुच्यते तत्राऽऽह — नित्येति । विशेषणप्रकाशितमर्थमुक्त्वा तस्य व्यवच्छेद्यमाह — न तार्किकेति । मन्त्रदृशा लब्धत्वेऽपि कुतो ज्ञानमार्गस्य तत्संस्पर्शित्वमित्याशङ्क्याऽऽह — यो हीति । अनुवेदनलाभयोर्विशेषाभावात्पौनरुक्त्यमाशङ्क्याऽऽह — अनुवेदनमिति । पूर्वशब्देन पाठक्रमानुसारेण लाभो गृह्यते । एवकारमाश्रित्य शङ्कते — किमसाविति । तथा च तद्यो यो देवानामित्याद्यविशेषश्रुतिर्विरुध्येतेति शेषः । अवधारणश्रुतेरन्यपरत्वेनान्ययोगव्यवच्छेदकाभावमभिप्रेत्य परिहरति — नैष दोष इति । स्तुतिपरत्वमेव प्रकटयति — एवं हीति । कृतार्थोऽस्मीत्यात्मन्यभिमानकरं स्वानुभवसिद्धमात्मज्ञानं नास्मादन्यदुत्कृष्टं किञ्चिदित्येवं विद्यामवधारणश्रुतिः स्तौतीत्यर्थः । यथाश्रुतार्थत्वे को दोषः स्यादिति चेत्तत्राऽऽह — नन्विति । इत्यवधारणश्रुत्या विवक्षितमिति शेषः । तत्र हेतुः — तद्यो य इति । सर्वार्थश्रुतेर्ब्रह्मविद्या सर्वार्था सर्वसाधारणीति श्रवणादिति यावत् । ब्रह्मविद्यायाः सर्वार्थत्वे वाक्यशेषं प्रमाणत्वेनावतार्य व्याचष्टे — तदेवेति । ननु मोक्षे स्वर्गशब्दो न युज्यते तस्यार्थान्तरे रूढत्वादत आह — स्वर्गेति ।
यथा ज्योतिष्टोमप्रकरणे श्रुतो ज्योतिःशब्दो ज्योतिष्टोमविषयस्तथा मोक्षप्रकरणे श्रुतः स्वर्गशब्दो मोक्षमधिकरोति । रूढ्यङ्गीकारे ब्रह्मविद्याया निकर्षप्रसंगादिति भावः । जीवन्त एव मुक्ताः सन्तः शरीरपातादूर्ध्वं मोक्षमपियन्तीति संबन्धः ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मिन्नित्यादिपूर्वपक्षमुत्थापयति — तस्मिन्निति । विप्रतिपत्तिमेव प्रश्नपूर्वकं विशदयति — कथमित्यादिना । पिङ्गलं वह्निज्वालातुल्यम् । लोहितं जपाकुसुमसंनिभम् । सप्रपञ्चं शब्दस्पर्शरूपरसादिमद्ब्रह्म तदुपासनमनुसृत्य तत्प्राप्तिमार्गे विवादो मुमुक्षूणामित्याह — यथादर्शनमिति। तथाऽपि कथं ब्रह्मप्राप्तिमार्गे शुक्लादिरूपसिद्धिः । न हि ज्ञानस्य रूपादिमत्त्वमित्याशङ्क्याऽऽह — नाड्यस्त्विति । तासामपि कथं यथोक्तरूपवत्त्वमित्याशङ्क्याऽऽह — श्लेष्मादीति । तथाऽपि कथं शुक्लादिरूपवत्त्वमित्याशङ्क्य नाडीखण्डोक्तं स्मारयति — शुक्लस्येति । नाडीपरिग्रहे नियामकाभावमाशङ्क्य पक्षान्तरमाह — आदित्यं वेति । एवंविधं शुक्लादिनानावर्णमित्यर्थः । तस्य तथात्वे प्रमाणमाह — एष इति । प्रकृते ज्ञानमार्गे किमिति मार्गान्तरं कल्प्यते तत्राऽऽह — दर्शनेति । तर्हि नाडीपक्षो वाऽऽदित्यपक्षो वा कतरो विवक्षितस्तत्राऽऽह — सर्वथाऽपीति । शुक्लमार्गस्य ज्ञानमार्गादन्यत्वमाक्षिपति — नन्विति । शुक्लशब्दस्य नाद्वैतमार्गविषयत्वं नीलादिशब्दसमभिव्याहारविरोधादिति परिहरति — न नीलेति । सैद्धान्तिकमन्त्रभागं व्याख्यातुं पूर्वपक्षं दूषयति — याञ्छुक्लादीनिति । न केवलं देहदेशनिःसरणसंबन्धादेव नाडीभेदानां संसारविषयत्वं किन्तु ब्रह्मलोकादिसंबन्धादपीत्याह — ब्रह्मादीति । आदित्योऽपि देवयानमध्यपाती ब्रह्मलोकप्रापकः संसारहेतुरेवेति मन्वानो मोक्षमार्गमुपसंहरति — तस्मादिति । आप्तकामतया ज्ञानमार्ग इति संबन्धः । एवं भूमिकां कृत्वैष इत्यस्यार्थमाह — सर्वकामेति । तथा तैलादिविलये प्रदीपस्य ज्वलनानुपपत्तौ तेजोमात्रे निर्वाणमिष्यते तथा स्थूलस्य सूक्ष्मस्य च सर्वस्यैव कामस्य ज्ञानात्क्षये सति गत्यनुपपत्तावत्रैव प्रत्यगात्मनि कार्यकरणानामेकीभावेनावसानमित्ययमेषशब्दार्थ इत्यर्थः । पन्था इत्येतद्व्याचष्टे — ज्ञानमार्ग इति । इत्थम्भावे तृतीयामाश्रित्याऽऽह — परमात्मेति । अनुवेदनकर्तृर्ब्राह्मणस्य संन्यासित्वं दर्शयति — त्यक्तेति । विप्रतिपत्तिं निराकृत्य मोक्षमार्गं निर्धार्य तेन धीरा अपियन्तीत्यत्रोक्तं निगमयति — तेनेति । अन्योऽपि मन्त्रदृशः सकाशादिति शेषः । इहेति जीवदवस्थोक्तिः । समुच्चयकारिणोऽत्र ब्रह्मप्राप्तिर्विवक्ष्यतेति केचित्तान्प्रत्याह — न पुनरिति । विरोधाज्ज्ञानकर्मणोरिति शेषः । किञ्च क्रमसमुच्चयः समसमुच्चयो वेति विकल्प्याऽऽद्यमङ्गीकृत्य द्वीतीयं दृषयति — अपुण्येति । ज्ञानस्य कर्मासमुच्चयेऽपि विवेकज्ञानेन समुच्चयोऽस्तीत्याशङ्क्याऽऽह — त्यजेति । ब्रह्मविदोऽपि स्तुत्यादिदृष्टेस्तेन समुच्चयो ज्ञानस्येत्याशङ्क्याऽऽह — निराशिषमिति । काम्याननुष्ठानमनारम्भः । अक्षीणत्वं निषिद्धानाचरणम् । क्षीणकर्मत्वं नित्यादिकर्मराहित्यम् । असमुच्चये वाक्यान्तरमाह — नेत्यादिना । एकता निरपेक्षता सर्वोदासीनतेति यावत् । समता मित्रोदासीनशत्रुबुद्धिव्यतिरेकेण सर्वत्र स्वस्मिन्निव दृष्टिः । दण्डनिधानमहिंसापरत्वम् । “अर्थस्य मूलं निकृतिः क्षमा च कामस्य चित्तं च वपुर्वयश्च । धर्मस्य यागादि दया दमश्च मोक्षस्य सर्वोपरमः क्रियाभ्यः”॥ इत्यादिचतुर्विधे पुरुषार्थे साधनभेदोपदेशि वाक्यमादिशब्दार्थः । इत्यादिस्मृतिभ्यश्च न पुण्यादिसमुच्चयकारिणो ग्रहणमिति संबन्धः । तथाऽपि प्रकृते मन्त्रे समुच्चयो भातीत्याशङ्क्याऽऽह — उपदेक्ष्यतीति । वाक्यशेषादिपर्यालोचनासिद्धमर्थमुपसंहरति — तस्मादिति । पूर्वं पुण्यकृद्भूत्वा पुनस्त्यक्तपुत्राद्येषणो ब्रह्मवित्तेनैतीति क्रमो न युज्यतेऽश्रुतत्वादित्याशङ्क्याऽऽह — अथवेति । स्तुतिमेवोपपादयति — पुण्यकृतीति । तेजांसि करणान्युपसंहृत्य स्थितस्तैजसो दहराद्युपासीनो योगी तस्मिन्नणिमाद्यैश्वर्यान्महानुभावत्वप्रसिद्धिः । ताभ्यां पुण्यकृत्तैजसाभ्यामित्यर्थः । अतःशब्दपरामृष्टं स्पष्टयति — प्रख्यातेति ।
पुण्यकृत्तैजसयोरिति शेषः ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 प्रस्तुतज्ञानमार्गस्तुत्यर्थं मार्गान्तरं निन्दति — अन्धमित्यादिना । विद्यायामिति प्रतीकमादाय व्याकरोति — अविद्येति । कथं पुनस्त्रय्यामभिरतानामधःपतनमित्याशङ्क्याऽऽह —
विधीति ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 मन्त्रान्तरमाकाङ्क्षाद्वारोत्थाप्य व्याचष्टे — यदीत्यादिना । अबुध इत्यस्य निष्पत्तिं सूचयन्विवक्षितमर्थमाह —
बुधेरिति ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 उक्तात्मज्ञानस्तुत्यर्थमेव तन्निष्ठस्य कायक्लेशराहित्यं दर्शयति — आत्मानमित्यादिना । विज्ञानात्मनो वैलक्षण्यार्थं विशिनष्टि — सर्वेति । ताटस्थ्यं व्यावर्तयति — हृत्स्थमिति । बुद्धिसंबन्धप्राप्तं संसारित्वं वारयति — अशनायादीति । प्रश्नपूर्वकं ज्ञानप्रकारं प्रकटयति — कथमित्यादिना । सर्वभूतसंबन्धप्रयुक्तं दोषं वारयितुं विशिनष्टि — नित्येति । इति विजानीयादिति संबन्धः । प्रयोजनाय शरीरमनुसंज्वरेदिति संबन्धः । किमिच्छन्नित्याक्षेपं समर्थयते — न हीति । कस्य वा कामायेत्याक्षेपमुपपादयति — न चेति । आक्षेपद्वयं निगमयति — अत इति । तदेव स्पष्टयति — शरीरेति । विदुषस्तापाभावं व्यतिरेकमुखेन विशदयति — अनात्मेति ।
वस्त्वन्तरेप्सोस्तापसंभव इति शेषः । स चेत्यध्याहृत्य ममेदमित्यादि योज्यम् । इत्येतदाह किमिच्छन्नित्याद्या श्रुतिरिति शेषः ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 न केवलमात्मविद्यारसिकस्य कायक्लेशराहित्यं किन्तु कृतकृत्यता चास्तीत्याह — किञ्चेति । सन्देहे पृथिव्यादिभिर्भूतैरुपचिते शरीरे । सन्देहत्वं साधयति — अनेकेति । विषमत्वं विशदयति — अनेकशतेति । न नाममात्रमित्यत्र पुरस्तान्नञस्तस्मादिति पठितव्यं यस्मादित्युपक्रमाद्विश्वकृत्त्वमिति शेषः । परशब्दो विद्याविषयः । विश्वकृत्कृतकृत्य इत्येतत् । लोकलोकिविभागेन भेदं शङ्कित्वा दूषयति — किमित्यादिना । यस्येत्यादिमन्त्रस्य तात्पर्यार्थं संगृह्णाति — य एष इति । अस्त्वेवं किं तावतेत्याशङ्क्याऽऽह — एक एवेति ।
यो हि परः सर्वप्रकारभेदराहित्यात्पूर्णतया वर्तते स एवास्मीत्यात्माऽनुसन्धातव्य इति योजना ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मविदो विद्यया कृतकृत्यत्वे श्रुतिसंप्रतिपत्तिरेव केवलं न भवति किन्तु स्वानुभवसप्रतिपत्तिरस्तीत्याह — किञ्चेति । अथेत्यस्य कथञ्चिदिवेति व्याख्यानम् । तदित्यस्य ब्रह्मतत्वमित्युक्तार्थं स्फुटयति — तदेतदिति । ब्रह्मज्ञाने कृतार्थत्वं श्रुत्यनुभवाभ्यामुक्त्वा तदभावे दोषमाह — यदेतदिति । तर्हि महती विनष्टिरिति संबन्धः । बहुत्वं न विवक्षितं ज्ञानान्मोक्षोऽत्र विवक्षित इत्यभिप्रेत्य वेदिरित्यस्यार्थमाह — वेदनमित्यादिना । न चेद्ब्रह्म विदितवन्तो वयं ततोऽहमवेदिः स्यामिति योजना । विद्याभावे दोषमुक्त्वा विद्वदनुभवसिद्धमर्थं निगमयति — अहो वयमिति । इहैवेत्यादिना पूर्वार्धेनोक्तमेवार्थमुत्तरार्धेन प्रपञ्चयति — यथा चेत्यादिना । दुःखादविदुषां विनिर्मोकाभावे हेतुमाह —
दुःखमेवेति ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 किञ्च विदुषो विहिताकरणादिप्रयुक्तं भयं नास्तीति विद्यां स्तोतुमेव मन्त्रान्तरमादाय व्याचष्टे — यदा पुनरित्यादिना । उक्तमर्थं व्यतिरेकमुखेन विशदयति — सर्वो हीति । जुगुप्साया निन्दात्वेन प्रसिद्धत्वात्कथमवयवार्थमादाय व्याख्यायते रूढिर्योगमपहरतीति न्यायादित्याशङ्क्याऽऽह — यदेति । तदेवोपपादयति —
सर्वमिति ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 अथेश्वरस्यापि कालान्यत्वे सति वस्तुत्वाद्घटवत्कालावच्छिन्नत्वान्न कालत्रयं प्रति युक्तमीश्वरत्वमत आह — किञ्चेति । यस्मादीशानादर्वाक्संवत्सरो वर्तते तमुपासते देवा इति संबन्धः । ननु कथं संवत्सरोऽर्वागित्युच्यते कालस्य कालान्तराभावेन पूर्वकालसंबन्धाभावादत आह — यस्मादिति । अन्वयस्तु पूर्ववत् । आत्मज्ज्योतिषो गुणमायौष्ट्वलक्षणं स्पष्टयन्नुपासकस्य फलमाह — सर्वस्येति । यथोक्तोपासने देवानामेवाधिकारो विशेषवचनादित्याशङ्क्याऽऽह —
तस्मादिति ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 ज्योतिषां ज्योतिरमृतमित्युक्तं तस्यामृतत्वं सर्वाधिष्ठानत्वेन साधयति — किञ्चेति । एवकारार्थमाह — न चेति । यद्यात्मानं ब्रह्म जानासि तर्हि किं ते तद्विद्याफलमिति प्रश्नपूर्वकमाह — किं तर्हीति । कथं तर्हि ते मर्त्यत्वप्रतीतिस्तत्राऽऽह —
अज्ञानमात्रेणेति ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकृताः पञ्चजनाः पञ्च ज्योतिषा सह प्राणादयो वा स्युरित्यभिप्रेत्याऽऽह — किञ्चेति । कथं चक्षुरादिषु चक्षुरादित्वं ब्रह्मणः सिध्यति तत्राऽऽह — ब्रह्मशक्तीति । विमतानि केनचिदधिष्ठितानि प्रवर्तन्ते करणत्वाद्वास्यादिवदिति चक्षुरादिव्यापारेणानुमितास्तित्वं प्रत्यगात्मनं ये विदुरिति योजना । विदिक्रियाविषयत्वं व्यावर्तयति — नेति । प्रत्यगात्मविदां कथं ब्रह्मवित्त्वमित्याशङ्क्याऽऽह —
तदिति ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 मनसो ब्रह्मदर्शनसाधनत्वे कथं ब्रह्मणो वाङ्मनसातीतत्वश्रुतिरित्याशङ्क्याऽऽह — परमार्थेति । केवलं मनो ब्रह्माविषयीकुर्वदपि श्रवणादिसंस्कृतं तदाकारं जायते तेन द्रष्टव्यं तदुच्यतेऽत एव वृत्तिव्याप्यं ब्रह्मेत्युपगच्छतीति भावः । अनुशब्दार्थमाह — आचार्येति । द्रष्टृद्रष्टव्यादिभावेन भेदमाशङ्क्याऽऽह — तत्र चेति । एवकारार्थमाह — नेहेति । कथमात्मनि वस्तुतो भेदरहितेऽपि भेदो भातीत्याशङ्क्याऽऽह — असतीति । नेहेत्यादेः संपिण्डितमर्थं कथयति —
अविद्येति ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 द्वैताभावे कथमनुद्रष्टव्यमित्याशङ्क्याऽऽह — यस्मादिति । तमेवैकं प्रकारं प्रकटयति — विज्ञानेति । परिच्छिन्नत्वं व्यवच्छिनत्ति — आकाशवदिति । एकरसत्वं हेतूकृत्याप्रमेयत्वं प्रतिजानीते — यस्मादिति । एतद्ब्रह्म यस्मादेकरसं तस्मादप्रमेयमिति योजना । हेत्वर्थं स्फुटयति — सर्वैकत्वादिति । तथाऽपि कथमप्रमेयत्वं तदाह — अन्येनेति । मिथो विरोधमाशङ्कते — नन्विति । विरोधमेव स्फोरयति — ज्ञायत इतीति । चोदितं विरोधं निराकरोति — नैष दोष इति । संगृहीते समाधानं विशदयति — यथेत्यादिना । तस्य मानान्तरविषयीकर्तुमशक्यत्वे हेतुमाह — सर्वस्येति । इति सर्वद्वैतोपशान्तिश्रुतेरिति शेषः । आगमोऽपि तर्हि कथमात्मानमावेदयेदित्याशङ्क्याऽऽह — प्रमात्रिति । आत्मनः स्वर्गादिवद्विषयत्वेनाऽऽगमप्रतिपाद्यत्वाभावे हेतुमाह — प्रतिपादयित्रिति । तथाऽपि किमिति विषयत्वेनाप्रतिपाद्यत्वं तत्राऽऽह — प्रतिपादयितुरिति । तदिति प्रतिपाद्यत्वमुक्तम् । कथं तर्हि तस्मिन्नागमिकं ज्ञानं तत्राऽऽह — ज्ञानं चेति । परस्मिन्देहादावात्मभावस्याऽऽरोपितस्य निवृत्तिरेव वाक्येन क्रियते । तथा चाऽऽत्मनि परिशिष्टे स्वाभाविकमेव स्फुरणं प्रतिबन्धविगमात्प्रकटीभवतीति भावः । ननु ब्रह्मण्यात्मभावः श्रुत्या कर्तव्यो विवक्ष्यते न तु देहादावात्मत्त्वव्यावृत्तिरत आह — न तस्मिन्निति । ब्रह्मणश्चेदात्मभावः सदा मन्यते कथमन्यथा प्रथेत्याशङ्क्याऽऽह — नित्यो हीति । सर्वस्य पूर्णस्य ब्रह्मण इत्येतत् । अतद्विषयो ब्रह्मव्यतिरिक्तविषय इत्यर्थः । ब्रह्मण्यात्मभावस्य सदा विद्यमानत्वे फलितमाह — तस्मादिति । अतद्विषयाभासो देहादावात्मप्रतिभासः । तस्मिन्ब्रह्मणीत्यर्थः । अन्यस्मिन्नात्मभावनिवृत्तिरेवाऽऽगमेन क्रियते चेत्तर्हि कथमात्मा तेन गम्यत इत्युच्यते तत्राऽऽह — अन्येति । यद्यागमिकवृत्तिव्याप्यत्वेनाऽऽत्मजो मेयत्वमिष्यते कथं तर्हि तस्यामेयत्ववाचो युक्तिरित्याशङ्क्याऽऽह — स्वतश्चेति । वृत्तिव्याप्यत्वेन मेयत्वं स्फुरणाव्याप्यत्वेन चामेयत्वमित्युपसंहरति — इत्युभयमिति । यदुक्तं ध्रुवत्वं तदुपस्कारपूर्वकमुपपादयति — विरज इत्यादिना । कथं जन्मनिषेधादितरे विकारा निषिध्यन्ते तत्राऽऽह —
सर्वेषामिति ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 यथोक्तं वस्तुनिदर्शनं निगमयति — तमीदृशमिति । नित्यशुद्धत्वादिलक्षणमिति यावत् । उक्तरीत्या प्रज्ञाकरणे कानि साधनानि चेत्तानि दर्शयति — एवमिति । कर्मनिषिद्धत्यागः संन्यास उपरमो नित्यनैमित्तिकत्याग इति भेदः । बहूनिति विशेषणवशादायातमर्थं दर्शयति — तत्रेति । चिन्तनीयेषु शब्देष्विति यावत् । तत्र श्रुत्यन्तरं संवादयति — ओमित्येवमिति । नानुध्यायादित्यत्र हेतुमाह — वाच इति ।
तस्माद्बहूञ्छब्दान्नानुचिन्तयेदिति पूर्वेण संबन्धः । इतिशब्दः श्लोकव्याख्यानसमाप्त्यर्थः ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 काण्डिकान्तरमवतारयितुं वृत्तं कीर्तयति — सहेतुकाविति । उत्तरकण्डिकातात्पर्यमाह — एवमिति । विरजः पर इत्यादिनोक्तक्रमेणावस्थिते ब्रह्मणीति यावत् । तदित्युपयुक्तोक्तिः । तदर्था ब्रह्मात्मनि सर्वस्य वेदस्य विनियोगप्रदर्शनार्थेति यावत् । ननु विविदिषावाक्येन ब्रह्मात्मनि सर्वस्य वेदस्य विनियोगो वक्ष्यते तथा च तस्मात्प्राक्तनवाक्यं किमर्थमित्याशङ्क्याऽऽह — तच्चेति । यथाऽस्मिन्नध्याये सफलमात्मज्ञानमुक्तं तथैव तदनूद्येति योजना । कथं यथोक्ते ज्ञाने सर्वो वेदो विनियोक्तुं शक्यते स्वर्गकामादिवाक्यस्य स्वर्गादावेव पर्यवसानादित्याशङ्क्य संयोगपृथक्त्वन्यायमनादृत्य विशिनष्टि — काम्यराशीति । उक्तस्य सफलस्याऽऽत्मज्ञानस्यानुवाद इति यावत् । उक्तानां भूयस्त्वे विशेषं ज्ञातुं पृच्छति — कोऽसाविति । विशेषणानर्थक्यमाशङ्क्य परिहरति — अतीतेति । तद्धि विरजः पर इत्यादि तेनोक्तो यो महत्त्वादिविशेषणः परमात्मा तत्र सशब्दात्प्रतीतिर्मा भूदिति कृत्वा तेन ज्योतिर्ब्राह्मणस्थं जीवं परामृश्य तमेव वैशब्देन स्मारयित्वा तस्य संन्निहितेन परेणाऽऽत्मनैक्यमेषशब्देन निर्दिशतीत्यर्थः । विशेषणवाक्यस्थमेषशब्दं प्रश्नपूर्वकं व्याचष्टे — कतम इति । कथं जीवो विज्ञानमयः कथं वा प्राणेष्विति सप्तमी प्रयुज्यते तत्राऽऽह — उक्तेति । तदनुवादस्य सशब्दार्थसन्देहापोहं फलमाह — संशयेति । उक्तवाक्योल्लिङ्गनमित्युक्तं विवृणोति — उक्तं हीति । योऽयं विज्ञानमयः प्राणेषु प्रागुक्तः स एष महानज आत्मेति जीवानुवादेन परमात्मभवो विहित इति वाक्यार्थमाह — एतदिति। परमात्मभावापादनप्रकारमनुवदति — साक्षादिति । विशेषणवाक्यस्य व्याख्येयत्वप्राप्तावुक्तवाक्योल्लिङ्गनमित्यत्रोक्तं स्मारयति — योऽयमिति । वाक्यान्तरमवतार्य व्याचष्टे — य एष इति । कथं पुनराकाशशब्दस्य परमात्मविषयत्वमुपेत्य द्वितीयं व्याख्यानं तास्यार्थान्तरे रूढत्वादित्याशङ्क्याऽऽह — चतुर्थ इति । इत्थमुक्तं ज्ञानमनूद्य तत्फलमनुवदति — स चेत्यादिना । कथं पुनर्निरुपाधिकस्येश्वरस्य वशित्वं कथं च तदभावे तदात्मनो विदुषस्तदुपपद्यते तत्राऽह — उक्तं वेति । विशेषणत्रयस्य हेतुहेतुमद्रूपत्वमेव विशदयति — यस्मादित्यादिना । तत्र प्रसिद्धिं प्रमाणयति — यो हीति । न केवलमुक्तमेव विद्याफलं किन्त्वन्यच्चास्तीत्याह — किञ्चेति । एवम्भूतत्वं ज्ञातपरमात्माभिन्नत्वम् । परिशुद्धत्वमर्थमनुवदति — हृदीति । ब्रह्मीभूतस्य विदुषः स्वातन्त्र्यादिवद्धर्माधर्मास्पर्शित्वमपि फलमित्यर्थः । अधिष्ठानादिकर्तृत्वाद्विदुषोऽपि लौकिकवद्धर्मादिसंबन्धित्वं स्यादिति शङ्कते — सर्वो हीति । परतन्त्रत्वमुपाधिरिति परिहरति — उच्यत इति । सर्वाधिपत्यराहित्यं चोपाधिरित्याह — किञ्चेति । सर्वपालकत्वराहित्यं चोपाधिरित्याह — एष इति । सर्वानाधारत्वं चोपाधिरित्याह — एष इति । कथं विधारयितृत्वमित्याशङ्क्याऽऽह — तदाहेऽति । तदेव साधयति — परमेश्वरेणेति । सर्वस्य वशीत्यादिनोक्तमुपसंहरति — एवंविदिति । सफलं ज्ञानमनूद्य विविदिषावाक्यमवतारयति — किञ्ज्योतिरिति । एवम्फलायां सर्वस्य वशीत्यादिनोक्तफलोपेतायामिति यावत् । तादर्थ्येन परम्परया ज्ञानोत्पत्तिशेषत्वेनेत्यर्थः । विनियोजकं वाक्यमाकाङ्क्षापूर्वकमादाय व्याचष्टे — तत्कथमित्यादिना । एवम्भूतं श्लोकोक्तविशेषणमित्यर्थः । ब्राह्मणशब्दस्य क्षत्रियाद्युपलक्षणत्वे हेतुमाह — अवशिष्ठो हीति । संभावितं पक्षान्तरमाह — अथवेति । तेन विविदिषाप्रकारं प्रश्नपूर्वकं विवृणोति — कथमित्यादिना । भूतप्रपञ्चप्रस्थानमुत्थाप्य प्रत्याचष्टे — ये पुनरित्यादिना । तत्र हेतुमाह — न हीति । भवतूपनिषन्मात्रग्रहणमित्याशङ्क्य वेदो वाऽनूच्यते गुरूच्चारणानन्तरं पठ्यत इति व्युत्पत्तेर्वेदानुवचनशब्देन सर्ववेदग्रहे संभवति तदेकदेशत्यागो न युक्त इत्याह — वेदेति । दोषसाम्यमाशङ्कते — नन्विति । सिद्धान्तेऽप्युपनिषदं वर्जयित्वा वेदानुवचनशब्देन कर्मकाण्डं गृहीतमिति कृत्वा तस्य वेदैकदेशविषयत्वं स्यात्ततश्च -- “यत्रोभयोः समो दोषः परिहारोऽपि वा समः । नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे” ॥ इति न्यायविरोध इत्यर्थः । नित्यस्वाध्यायो वेदानुवचनमिति पक्षमादाय परिहरति — नेत्यादिना । वेदैकदेशपरिग्रहपरित्यागात्मकविरोधाभावं साधयति — यदेति । तर्हि व्याख्यानान्तरमुपेक्षितमित्याशङ्क्य तदपि वाक्यशेषवशादपेक्षितमेवेत्याह — यज्ञादीति। संग्रहवाक्यं विवृणोति — यज्ञादीनि कर्माणीति । तर्हि प्रथमव्याख्याने कथं वाक्यशेषोपपत्तिरित्याशङ्क्याऽऽह — कर्म हीति । वेदानुवचनादीनामात्मविविदिषासाधनत्वमाक्षिपति — कथमिति । उपनिषद्भिरिवाऽऽत्मा तैरपि ज्ञायतामित्याशङ्क्याऽऽह — नैवेति। कर्मणामप्रमाणत्वेऽपि परम्परया ज्ञानहेतुत्वाद्विविदिषाश्रुतिविरुद्धेति समाधत्ते — नैष दोष इति। तदेव स्फुटयति — कर्मभिरिति। तत्र श्रुत्यन्तरं प्रमाणयति — तथा हीति। ततो नित्याद्यनुष्ठानाद्विशुद्धधीरात्मानं सदा चिन्तयन्नुपनिषद्भिस्तं पश्यतीत्यर्थः । आदिशब्देन “कषायपक्तिरि” त्यादिस्मृतिसंग्रहः । नित्यकर्मणां संस्कारार्थत्वे प्रमाणं पृच्छति — कथमिति। यद्यपि श्रुतिस्मृतिभ्यां कर्मभिः संस्कृतस्योपनिषद्भिरात्मा ज्ञातुं शक्यते तथाऽपि तेषां संस्कारार्थत्वे किं प्रमाणमिति प्रश्ने श्रुतिस्मृती प्रमाणयति — स ह वा इत्यादिना । किं पुनः स्मृतिशास्त्रं तदाह — अष्टाचत्वारिंशदिति । अष्टावनायासादयो गुणाश्चत्वारिंशद्गर्भाधानादयः संस्कारा इति विभागाः । बहुवचनोपात्तं स्मृत्यन्तरमाह — गीतासु चेति। पदान्तरमादाय व्याचष्टे — यज्ञेनेतीति। तेषां संस्कारार्थत्वेऽपि कथं ज्ञानसाधनत्वमित्याशङ्क्याऽऽह — संस्कृतस्येति। दानेन विविदिषन्तीति पूर्वेण संबन्धः । कथं पुनः स्वतन्त्रं दानं विविदिषाकारणमत आह — दानमपीति। विविदिषाहेतुरिति शेषः । तपसेत्यत्रापि पूर्ववदन्वयः । कामानशनं रागद्वेषरहितैरिन्द्रियैर्विषयसेवनं यदृच्छालाभसन्तुष्टत्वमिति यावत् । यथाश्रुतार्थत्वे का हानिरित्याशङ्क्याऽऽह — न त्विति। भवतूपात्तानां वेदानुवचनादीनामिष्यमाणे ज्ञाने विनियोगस्तथाऽपि कथं सर्वं नित्यं कर्म तत्र विनियुक्तमित्याशङ्क्याऽऽह — वेदानुवचनेति। उपलक्षणफलमाह — एवमिति। प्रणाड्या कर्मणो मुक्तिहेतुत्वे काण्डद्वयस्यैकवाक्यत्वमपि सिध्यतीत्याह — एवं कर्मेति। वाक्यान्तरमवतार्य व्याकरोति — एवमिति। तस्यैवार्थमाह — यथोक्तेनेति। यज्ञाद्यनुष्ठानाद्विशुद्धिद्वारा विविदिषोत्पत्तौ गुरुपादोपसर्पणं श्रवणादि चेत्यनेन क्रमेणेत्यर्थः । यथाप्रकाशितं मोक्षप्रकरणे मन्त्रब्राह्मणाभ्यामुक्तलक्षणमित्यर्थः । योगिशब्दो जीवन्मुक्तविषयः । एवकारं व्याकरोति — एवमिति। अवधारणमाक्षिप्य समाधत्ते — नन्वित्यादिना। एवकारस्तर्हि त्यजतामित्याशङ्क्याऽऽह — किन्त्विति। आत्मवेदनेऽपि कर्मित्वं स्यादिति चेन्नेत्याह — एवं त्विति। कथमात्मविदोऽपि मुनित्वमसाधारणं तदाह — एतस्मिन्निति। इतश्चात्मविदो न कर्मित्वमित्याह — किञ्चेति। आत्मलोकमिच्छतां मुमुक्षूणामपि कर्मत्यागश्रवणादात्मविदां न कर्मितेति किं वक्तव्यमित्यर्थः । ताच्छील्यं वैराग्यातिशयशालित्वम् । अवधारणसामर्थ्यसिद्धमर्थमाह — एतमेवेति। पारिव्राज्ये लोकत्रयार्थिनामनधिकारे दृष्टान्तमाह — न हीति। लोकत्रयार्थिनश्चेत् पारिव्राज्ये नाधिक्रियन्ते कुत्र तर्हि तेषामधिकारस्तत्राऽऽह — तस्मादिति। स्वर्गकामस्य स्वर्गसाधने यागेऽधिकारवल्लोकत्रयार्थिनामपि तत्साधने पुत्रादावधिकार इत्यर्थः । पुत्रादीनां बाह्यलोकसाधनत्वे प्रमाणमाह — पुत्रेणेति। पुत्रादीनां लोकत्रयसाधनत्वे सिद्धे फलितमाह — अत इति। अतत्साधनत्वं लोकत्रयं प्रत्यनुपायत्वम् । अवधारणार्थमुपसंहरति — तस्मादिति। लोकत्रयार्थिनां पारिव्राज्येऽनधिकारादिति यावत् । आत्मलोकस्य स्वरूपत्वेन सदाऽऽप्तत्वात्कथं तत्रेच्छेत्याशङ्क्याऽऽह — आत्मेति। तस्याऽऽत्मत्वेन नित्यप्राप्तत्वेऽप्यविद्यया व्यवहितत्वात्प्रेप्या संभवतीति भावः । भवत्वात्मलोकप्रेप्सा तथाऽपि किं तत्प्राप्तिसाधनं तदाह — तस्मादिति। अविद्यावशात्तदीप्सासंभवादित्यर्थः । तदिच्छाया दौर्लभ्यं द्योतयितुं चेच्छब्दः । मुख्यत्वं श्रुत्यक्षरप्रतिपन्नत्वम् । प्रनाडिकासाधनेभ्यो वेदानुवचनादिभ्यो विशेषमाह — अन्तरङ्गमिति। पारिव्राज्यमेवात्मलोकस्यान्तरङ्गसाधनमिति दृष्टान्तमाह — यथेति। तथा पारिव्राज्यमेवात्मलोकस्य साधनमिति शेषः । पारिव्राज्यमेवेति नियमे हेतुमाह — पुत्रादीति। तस्यान्यत्र विनियुक्तत्वादिति शेषः । यद्यपि केवलं पुत्रादिकं नाऽऽत्मलोकप्रापकं तथाऽपि पारिव्राज्यसमुच्चितं तथा स्यादित्याशङ्क्याऽऽह — असंभवेनेति। न हि परिव्राजकस्य पुत्रादि तद्वतो वा पारिव्राज्यं संभवति । उक्तं च समुच्चयं निराकुर्वद्भिः सपरिकरस्य ज्ञानस्य कर्मादिना विरुद्धत्वं तेन कुतः समुच्चितं पुत्राद्यात्मलोकप्रापकमित्यर्थः । साधनान्तरासंभवे फलितमुपसंहरति — तस्मादात्मानमिति। प्रव्रजन्तीति वर्तमानापदेशान्नात्र विधिरस्तीत्याशङ्क्याग्निहोत्रं जुहोतीतिवद्विधिमाश्रित्याऽऽह — यथा चेति। पारिव्राज्यविधिमुक्त्वा तदपेक्षितमर्थवादमाकाङ्क्षापूर्वकमुत्थापयति — कुतः पुनरिति। उत्थापितस्यार्थवादस्य तात्पर्यमाह — तत्रेति। आत्मलोकार्थिनां पारिव्राज्यनियमः सप्तम्यर्थः । अर्थवास्थान्यक्षराणि व्याचष्टे — तदेतदिति। क्रियापदेन स्मेति संबध्यते । निपातद्वयस्यार्थमाह — किलेति। प्रजां न कामयन्त इत्युत्तरत्र संबन्धः । प्रजामात्रे श्रुते कथं कर्मादि गृह्यते तत्राऽऽह — प्रजेति। आकाङ्क्षापूर्वकमन्वयमन्वाचष्टे — प्रजां किमिति। अकामयमानत्वस्य पर्यवसानं दर्शयति — पुत्रादीति। पूर्वे विद्वांसः साधनत्रयं नानुतिष्ठन्तीत्युक्तमाक्षिपति — नन्विति। एषणाभ्यो व्युत्तिष्ठतां किं तदनुष्ठानेनेत्याशङ्क्याऽऽह — तद्बलाद्धीति। आत्मविदामपरविद्यानुष्ठानं दूषयति — नापवादादिति। अथात्र सर्वस्याऽऽनात्मनो दर्शनमेवापोद्यते न त्वपरस्य ब्रह्मणो दर्शनमत आह — अपरब्रह्मणोऽपीति। तदपवादे श्रुत्यन्तरमाह — यत्रेति। यस्मिन्भूम्नि स्थितश्चक्षुरादिभिरन्यत्र पश्यति न शृणोतीत्यादिना च दर्शनादिव्यवहारस्य वारितत्वादात्मविदो न युक्तमपरब्रह्मदर्शनमित्यर्थः । तत्रैव हेत्वन्तरमाह — पूर्वेति। प्रतिषेधप्रकारमभिनयति — अपूर्वमिति। इतश्चात्मविदां नापरब्रह्मदर्शनमित्याह — तत्केनेति। अपरब्रह्मदर्शनासंभवे किं तेषामेषणाभ्यो व्युत्थाने कारणमित्याशङ्क्याऽऽह — तस्मादिति। साधनत्रयमननुतिष्ठतामभिप्रायं प्रश्नपूर्वकमाह — कः पुनरित्यादिना। कैवल्यमेव तत्साध्यं फलमित्याशङ्क्याऽऽह — प्रजा हीति। निर्ज्ञाता सोऽयमित्यादिश्रुताविति शेषः । स एव तर्हि प्रजया साध्यतामिति चेन्नेत्याह — स चेति। आत्मव्यतिरिक्तो नास्तीत्युक्तमुपपादयति — सर्वं हीति । आत्मव्यतिरिक्तस्यैव लोकस्य प्रजादिसाध्यत्वमिष्यतामिति चेन्नेत्याह — आत्मा चेति । आत्मयाजिनः संस्कारार्थं कर्मेत्यङ्गीकारादात्मनोऽस्ति संस्कार्यत्वमित्याशङ्क्याऽऽह — यदपीति । अथाङ्गाङ्गित्वं च संस्कार्यत्वं च मुख्यात्मदर्शनविषयमेव किं नेष्यते तत्राऽऽह — न हीति । आत्मविदां प्रजादिसाध्याभावमुपसंहरति — तस्मान्नेति। केषां तर्हि प्रजादिभिः साध्यं फलं तदाह — अविदुषां हीति । केषाञ्चित्पुत्रादिषु प्रवृत्तिश्चेत्तेनैव न्यायेन विदुषामपि तेषु प्रवृत्तिः स्यादित्याशङ्क्याऽऽह — न हीति। आत्मविदां प्रजादिसाध्याभावमुपसंहरति — तस्मान्नेति। केषां तर्हि प्रजादिभिः साध्यं फलं तदाह — अविदुषां हीति। केषाञ्चित्पुत्रादिषु प्रवृत्तिश्चेत्तेनैव न्यायेन विदुषामपि तेषु प्रवृत्तिः स्यादित्याशङ्क्याऽऽह — न हीति। तत्र प्रवृत्तिरिति संबन्धः । अविद्वद्दर्शनविषय इति च्छेदः । उक्तेऽर्थे वाक्यमवतार्य व्याचष्टे — तदेतदिति। आत्मा चेत्तदभिप्रेतं फलं तर्हि तत्र साधनेन भवितव्यमित्याशङ्क्याऽऽह — न चेति। क्व तर्हि साधनमेष्टव्यमित्याशङ्क्याऽऽह — साध्यस्येति। विपक्षे दोषमाह — असाध्यस्येति। येषामित्यादिवाक्यार्थमुपसंहरति — तस्मादिति । ब्राह्मणानां ब्रह्मविदां प्रजादिभिः साध्याभावादिति यावत् । वाक्यान्तरं प्रश्नद्वारेणावतार्य पाञ्चमिकं व्याख्यानं तस्य स्मारयति — त एवमित्यादिना । यदर्थोऽयमर्थवादस्तं विधिं निगमयति — तस्मादिति । महानुभावोऽयमात्मलोको यत्तदर्थिनो दुष्करमपि पारिव्राज्यं कुर्वन्तीति स्तुतिरत्र विवक्षिता न विधिरित्याशङ्क्याऽऽह — न हीति । तदेव प्रपञ्चयति — प्रव्रजन्तीत्यस्येति । तथाऽपि प्रव्रजन्तीतिवाक्यस्यार्थवादत्वं किं न स्यादित्याशङ्क्याऽऽह — अर्थवादश्चेदिति । अपेक्षाप्रकारमेव प्रकटयन्नस्य स्तुत्यभिमुखत्वाभावाद्विधित्वमेवेत्याह — यस्मादिति । किञ्च विदित्वा व्युत्थाय भिक्षाचर्य चरन्तीत्यत्र विज्ञानेन समानकर्तृकत्वं व्युत्थानादेरुपदिश्यते विज्ञानं च सर्वासूपनिषत्सु विधीयतेऽतो व्युत्थानमपि विधिमर्हतीत्युक्तं तथा चात्रापि व्युत्थानापरपर्यायं परिव्राज्यं विधेयमित्याह — विज्ञानेति । इतश्च पारिव्राज्यवाक्यमर्थवादो न भवतीत्याह — वेदेति । तदेव साधयति — यथेत्यादिना । पारिव्राज्यस्य विधेयत्वे हेत्वन्तरमाह — फलेति । पुत्रादिफलापेक्षया पारिव्राज्यफलं विभागेनोपदिश्यते । तथा च फलवत्त्वात्पुत्रादिवत्पारिव्राज्यस्य विधेयत्वसिद्धिरित्यर्थः । तदेव विवृणोति — एतमेवेति। प्रकृतमात्मानं स्वं लोकमापाततो विदित्वा तमेव साक्षात्कर्तुमिच्छन्तः प्रव्रजन्तीति वचनात्पुत्रादिसाध्यान्मनुष्यादिलोकादात्माख्यं लोकं पारिव्राज्यस्य फलान्तरत्वेन यतः श्रुतिर्विभज्याभिदधाति । अतस्तस्य विधेयत्वमप्रत्यूहमित्यर्थः । फलविभागोपदेशे दृष्टान्तमाह — यथेति । तथा पारिव्राज्येऽपि फलविभागोक्तेर्विधेयतेति दार्ष्टान्तिकमितिशब्दार्थः । पारिव्राज्यस्य स्तुतिपरत्वाभावे हेत्वन्तरमाह — न चेति । यथा वायुर्वै क्षेपिष्ठेत्यादिरर्थवादः प्राप्तार्थो देवतादिस्तुत्यर्थः स्थितो न तथेदं स्तुतिपरं तदवद्योतिशब्दाभावादित्यर्थः । किञ्च प्रधानस्य दर्शपूर्णमासादेरर्थवादापेक्षावत्पारिव्राज्यमपि तदपेक्षमुपलभ्यते तेन तस्य दर्शादिवद्विधेयत्वं दुर्वारमित्याह — प्रधानवच्चेति । किञ्च पारिव्राज्यं सकृदेव श्रुतं चेदविवक्षितमन्यस्तुतिपरं स्यान्न चेदं सकृदेव श्रूयते “परिव्रजन्ती”त्युपक्रम्य “प्रजां न कामयन्ते” “व्युत्थायाथ भिक्षाचर्यं चरन्ती”(बृ. उ. ४ । ४। २२) त्यभ्यासादतोऽपि न स्तुतिमात्रमेतदित्याह — सकृदिति । न चेत्तर्रापि संबध्यते कथं तर्हि पारिव्राज्यस्य स्तुतिपरत्वप्रतीतिस्तत्राऽऽह — तस्मादिति । अस्तु तर्हि विधेयमपि पारिव्राज्यं स्तावकमपीति चेन्नेत्याह — न चेति । विपक्षे दोषमाह — यदीति । अथ पारिव्राज्यं यज्ञादिवदन्यत्र विधीयतामिह तु स्तुतिरेवेत्याशङ्क्याऽऽह — न चान्यत्रेति । आत्मज्ञानाधिकारादन्यत्र पारिव्राज्यविध्यनुपलम्भादित्यर्थः । अन्यत्र विध्यनुपलम्भं समर्थयते — यदीत्यादिना । अन्यत्र प्रक्रियायामिति यावत् । कर्माधिकारे तत्त्यागविधेर्विरुद्धत्वादिति भावः । भवत्विह पारिव्राज्ये विधिस्तथाऽपि सर्वकर्मानधिकृतविषयः स्यादित्याशङ्क्याऽऽह — यदपीति । तत्र कर्मानधिकृते पुंसीत्येतत् । तत्र हेतुमाह — कर्तव्यत्वेनेति । कर्मानधिकृतेन कर्तव्यतया ज्ञातत्वं वृक्षारोहणादाविव पारिव्राज्येऽपि नास्ति तथा चानधिकृतविषये पारिव्राज्यं कल्प्यते चेत्तस्मिन्विषये वृक्षारोहणाद्यपि कल्प्येताविशेषादित्यर्थः । पारिव्राज्यस्याधिकृतविषयत्वे विधेयत्वे च सिद्धे फलतीत्याह — तस्मादिति । सार्थवादं पारिव्राज्यं व्याख्याय स एष इत्यादि व्याकर्तुं शङ्कयति — यदीति । परिहरति — अत्रेति । तदर्थिनो नाऽऽरभन्ते कर्माणीति शेषः । कर्मभिरसंबन्धमात्मलोकस्य साधयति — यमात्मानमिति । तस्य कर्मासंबन्धे निष्प्रपञ्चत्वं फलितमाह — तस्मादिति । आत्मनो निष्प्रपञ्चत्वेऽपि कथं तदर्थिनां पारिव्राज्यसिद्धिरित्याशङ्क्याऽऽह — यस्मादिति । निर्विशेषस्तत्र तत्र वाक्ये दर्शितस्वरूपोऽयमात्मेत्येतदागमोपपत्तिभ्यां यथा पूर्वत्र स्थापितं तथैवात्रापि ब्राह्मणद्वये विशेषतो यस्मान्निर्धारितं तस्मादस्मिन्नात्मन्यापाततो ज्ञाते कर्मानुष्ठानप्रयत्नासिद्धिरिति योजना । उक्तात्मविषयविवेकविज्ञानवतो न कर्मानुष्ठानमित्यत्र दृष्टान्तमाह — न हीति । ब्रह्मज्ञानफले सर्वकर्मफलान्तर्भावाच्च तदर्थिनो मुमुक्षोर्न कर्तव्यं कर्मेत्याह — कृत्स्नस्येति । तथाऽपि विचित्रफलानि कर्माणीति विवेकी कुतूहलवशादनुष्ठास्यतीत्याशङ्क्याऽऽह — न चेति । तत्र लौकिकं न्यायं दर्शयति — अङ्के चेदिति । पुरोदेशे मधु लभेत चेदिति यावत् । ज्ञानफले कर्मफलान्तर्भावे मानमाह — सर्वमिति । अखिलं समग्राङ्गोपेतमित्यर्थः । तत्रैव श्रुतिं संवादयति — इहापीति । निषेधवाक्यतात्पर्यमुपसंहरति — अत इति । एतमित्यादि वाक्यं योजयति — यस्मादिति । उ हेति निपाताभ्यां सूचितोऽर्थो यस्मादित्यनुभाषितः । इतिशब्दस्यापेक्षितं पूरयति — युक्तमिति । आकाङ्क्षापूर्वकमुत्तरवाक्यमवतार्य व्याकरोति — के ते इत्यादिना । यथोक्तात्मविदस्तापहर्षासंस्पर्शे हेतुमाह — उभे हीति । पुण्यपापे तरतीत्युक्ते पृथगवस्थानं तयोः शङ्क्येत तन्निरस्यति — एवमिति । निषेधवाक्योक्तक्रमेणेति यावत् । इतश्चाऽऽत्मविदो धर्मादिसंबन्धो नास्तीत्याह — किञ्चेति । तदेवानन्तरवाक्यव्याख्यानेन स्फोरयति — नैनमिति । तयोस्तर्हि कुत्र तापकत्वं तदाह — अनात्मज्ञं हीति । पुरुषत्वाद्ब्रह्मविदुष्यपि कृताकृतयोस्तापकत्वं स्यादित्याशङ्क्याऽऽह — अयं त्विति । अत्र भगवद्वाक्यं प्रमाणयति — यथेति । यद्यपि पूर्वोत्तायोर्धर्माधर्मयोरनारब्धयोरात्मविद्यावशाद्विनाशाश्लेषौ तथाऽपि प्रारब्धयोरस्ति तयोस्तापकत्वमित्याशङ्क्याऽऽह — शरीरेति । प्रकृतं विद्याफलमुपसंहरति — अत इति ।
कर्मकार्यासंबन्धादिति यावत् ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 उक्ते विद्याफले मन्त्रं संवादयति — तदेतदिति । एष नित्यो महिमेत्यत्र नित्यत्वमुपपादयति — अन्ये त्विति । तद्विलक्षणत्वमकर्मकृतत्वम् । अकर्मकृतो महिमास्वाभाविकत्वान्नित्य इत्यत्राकर्मकर्तृत्वेन स्वाभाविकत्वमसिद्धमित्याशङ्क्याऽऽह — कुतोऽस्येति । वृद्धिरपक्षयश्चेति विक्रियाद्वयाभावेऽपि विक्रियान्तराणि भविष्यन्तीत्याशङ्क्याऽऽह — उपचयेति । एताभ्यां निषेधाभ्यामिति यावत् । आत्मनः सर्वविक्रियाराहित्ये फलितमाह — अत इति । तस्य नित्यत्वेऽपि किं तदाह — तस्मादिति । अधर्मलक्षणेनेति वक्तव्ये किमिदं धर्माधर्मलक्षणेनेत्युक्तमत आह — उभयमपीति । संसारहेतुत्वाविशेषादित्यर्थः । तस्मादित्यादिवाक्यं व्याचष्टे — यस्मादिति । एवंविदात्मा कर्मतत्फलसंबन्धशून्य इत्यापाततो जानन्नित्यर्थः । विशेषणाभ्यामुत्सर्गतो विहितस्योभयविधकरणव्यापारोपरमस्य यावज्जीवादिश्रुतिविहितं कर्मापवादस्तस्माद्विरक्तस्यापि न नित्यादित्यागः । उत्सर्गस्यापवादेन बाधः कस्य न संमत इत्यादिन्यायादित्याशङ्क्याऽऽह — उपरत इति । जीवनविच्छेदव्यतिरिक्तशीतादिसहिष्णुत्वं तितिक्षुत्वम् । यत्र कर्तुः स्वातन्त्र्यं तेषां कर्मणां निवृत्तिः शमादिपदैरुक्ता । यत्र तु सम्यग्धीविरोधिनी निद्रालस्यादौ पुंसो न स्वातन्त्र्यं तन्निवृत्तिः समाधानम् । समाहितो भूत्वा पश्यतीति संबन्धः । पश्यतीति वर्तमानापदेशात्कथं विशेषणेषु संक्रामितो विधिरित्याशङ्क्याऽऽह — तदेतदिति । यथोक्तैः साधनैरुदितायां विद्यायां किं स्यादित्याशङ्क्याऽऽह — एवमिति । तस्य पुण्यपापासंस्पर्शे हेतुमाह — अयं त्विति । इतश्च विदुषो न कर्मसंबन्धोऽस्तीत्याह — नैनमिति । किमिति पाप्मा ब्रह्मविदं न तपतीत्याशङ्क्याऽऽह — सर्वमिति । कथं ब्राह्मणो भवतीत्यपूर्ववदुच्यते प्रागपि ब्राह्मण्यस्य सत्त्वादित्याशङ्क्याऽऽह — अयं त्विति । मुख्यत्वमबाधितत्वं सफलां विद्यां मन्त्रब्राह्मणाभ्यामुपदिश्योपसंहरति — एष इति । तत्र कर्मधारयसमासं सूचयति — ब्रह्मैवेति । तथाविधसमासपरिग्रहे प्रकरणमनुग्राहकमभिप्रेत्याऽऽह — मुख्य इति । तथाऽपि किं मम सिद्धमिति तदाह — एनमिति । आत्मीयं विद्यालाभं द्योतयितुं राज्ञो वचनमित्याह — एवमिति । सति वक्तव्यशेषे कथमित्थं राज्ञो वचनमित्याशङ्क्याऽऽह — परिसमापितेति । तथाऽपि परमपुरुषार्थस्य वक्तव्यत्वमित्याशङ्क्याऽऽह — परिसमाप्त इति। कर्तव्यान्तरं वक्तव्यमस्तीत्याशङ्क्याऽऽह — एतावदिति । तथाऽपि यत्र निष्ठा कर्तव्या तद्वाच्यमित्याशङ्क्याऽऽह — एषेति । तथाऽपि परमा निष्ठाऽन्याऽस्तीति चेन्नेत्याह — एषेति । निश्चितं श्रेयोऽन्यदस्तीत्याशङ्क्याऽऽह — एतदिति । तथाऽपि कृतकृत्यतया मुख्यब्राह्मण्यसिद्ध्यर्थं वक्तव्यान्तरमस्तीत्याशङ्क्याऽऽह — एतत्प्राप्येति । किमस्यां प्रतिज्ञापरम्परायां नियामकमित्याशङ्क्याऽऽह — एतदिति ।
निरुपाधिकब्रह्मज्ञानात्कैवल्यमिति गमयितुमितिशब्दः ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 संप्रति सोपाधिकब्रह्मध्यानादभ्युदयं दर्शयति — योऽयमित्यादिना । ईश्वरश्चेत्प्राणिभ्यः कर्मफलं ददाति तर्हि तस्य वैषम्यनैर्घृण्ये स्यातामित्याशङ्क्याऽऽह — प्राणिनामिति । उपास्यस्वरूपं दर्शयित्वा तदुपासनं सफलं दर्शयति — तमेतमिति । सर्वात्मत्वफलमुपासनमुक्त्वा पक्षान्तरमाह — अथवेति । दृष्टं फलमन्नात्तृत्वं धनलाभश्च । उक्तगुणकमीश्वरं ध्यायतः फलमाह — तेनेति । तदेव फलं स्पष्टयति — दृष्टेनेति ।
अन्नात्तृत्वं दीप्ताग्नित्वम् ॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 निरुपाधिकब्रह्मज्ञानान्मुक्तिरुक्ता सोपाधिकब्रह्मध्यानाच्चाभ्युदय उक्तस्तथा च किमुत्तरकण्डिकयेत्याशङ्क्याऽऽह — इदानीमिति । अजत्वाच्चाविनाशीति वक्तुं चशब्दः । कथं जन्मजराभावयोरमरत्वाविनाशित्वसाधकत्वं तदाह — यो हीति । अयं त्वजत्वादविनाश्यजरत्वाच्चामरोऽमरत्वाच्चाविनाशीति योजना । मरणायोग्यत्वमुपजीव्य मरणकार्याभावं दर्शयति — अत एवेति । जन्मापक्षयविनाशानामेव भावविकाराणामिह मुखतो निषेधाद्विवृद्ध्यादीनि विकारान्तराण्यात्मनि भविष्यन्निति विशेषनिषेधस्य शेषाभ्यनुज्ञापरत्वादित्याशङ्क्याऽऽह — यस्मादिति । इतरे सत्त्वविवृद्धिविपरिणामाः । अत एवाभय इत्युक्तं विवृणोति — यस्माच्चेति । किं तद्भयं तदाह — भयं चेति । अविद्यानिषेधिविषेशणाभावादात्मानं सा सदा स्पृशतीत्याशङ्क्याऽऽह — तत्कार्येति । विशेषणान्तरं प्रश्नपूर्वकमुत्थाप्य व्याकरोति — अभय इति । कथं पुनरभयगुणविशिष्टस्याऽत्मनो ब्रह्मत्वं तदाह — अभयमिति । वैशब्दार्थमाह — प्रसिद्धमिति । लोकशब्दः शास्त्रस्याप्युपलक्षणम् । वेद्यस्वरूपमुक्त्वा विद्याफलं कथयति — य एवमिति । कण्डिकार्थमुपसंहरति — एष इति । सृष्ट्यादेरपि तदर्थत्वात्किमित्यसाविह नोपसंह्रियते — एतस्येति । सृष्ट्यादेरारोपितत्वे गमकमाह — तदपोहेनेति । तच्छब्दः सृष्ट्यादिप्रपञ्चविषयः । तदपोहेनेति यदुक्तं तदेव स्फुटयति — नेतीति । अध्यारोपापवादन्यायेन तत्त्वस्याऽऽवेदितत्त्वादारोपितं भवत्येव सृष्ट्यादिद्वैतमित्यर्थः । अध्यारोपापवादन्यायस्य पङ्कप्रक्षालनन्यायविरुद्धत्वात्तत्त्वं विवक्षितं चेत्तदेवोच्यतां कृतं सृष्ट्यादिद्वैतारोपेणेत्याशङ्क्याऽऽह — यथेति । उदाहरणान्तरमाह — यथा चेति । दृष्टान्तद्वयमनूद्य दार्ष्टान्तिकमाचष्टे — तथा चेति । इहेति मोक्षशास्त्रोक्तिः । तथाऽपि कल्पितप्रपञ्चसंबन्धप्रयुक्तं सविशेषत्वं ब्रह्मणः स्यादित्याशङ्क्याऽऽह — पुनरिति । तस्मिन्नात्मनि कल्पितः सृष्ट्यादिरुपायस्तेन जनितो विशेषस्तस्मिन्कारणत्वादिस्तस्य निरासार्थमिति यावत् । तर्हि द्वैताभावविशिष्टं तत्त्वमिति चेन्नेत्याह — तदुपसंहृतमिति । परिशुद्धं भाववदभावेनापि न संस्पृष्टमित्यर्थः । केवलमित्यद्वितीयोक्तिः । सृष्ट्यादिवचनस्य गतिमुक्त्वा प्रकृतमुपसंहरति — सफलमिति ।
इतिशब्दः संग्रहसमाप्त्यर्थो ब्राह्मणसमाप्त्यर्थो वा ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 समाप्ते शारीरकब्राह्मणे वंशब्राह्मणं व्याख्यातव्यं कृतं गतार्थेन मैत्रेयीब्राह्मणेनेत्याशङ्क्य मधुकाण्डार्थमनुद्रवति — आगमेति । पाञ्चमिकमर्थमनुभाषते — पुनरिति । तस्यैव ब्रह्मणस्तत्त्वमिति शेषः । विगृह्यवादो जयपराजयप्रधानो जल्पन्यायः । षष्ठ प्रतिष्ठापितमनुवदति — शिष्येति । प्रश्नप्रतिवचनन्यायस्तत्त्वनिर्णयप्रधानो वादः । उपसंहृतं तदेव तत्त्वमिति शेषः । संप्रत्युत्तरब्राह्मणस्यागतार्थत्वमाह — अथेति । आगमोपपत्तिभ्यां निश्चिते तत्त्वे निगमनमकिञ्चित्करमित्याशङ्क्याऽऽह — अयं चेति । प्रकारान्तरेण संगतिमाह — अथवेति । कथमिह तर्केणाधिगतिस्तत्राऽऽह — तर्केति । मुनिकाण्डस्य तर्कप्रधानत्वे किं स्यात्तदाह — तस्मादिति । इति फलतीति शेषः । शास्त्रादिना यथोक्तस्य ज्ञानस्य निश्चितत्त्वेऽपि किं सिध्यति तदाह — तस्माच्छास्त्रश्रद्धावद्भिरिति । एतच्छब्दो यथोक्तज्ञानपरामर्शार्थः । इति सिध्यतीति शेषः । तत्र हेतुमाह — आगमेति । अव्यभिचारान्मानयुक्तिगम्यस्यार्थस्य तथैव सत्त्वादिति यावत् । इतिशब्दो ब्राह्मणसंगतिसमाप्त्यर्थः । तात्पर्यार्थे व्याख्याते सत्यक्षरव्याख्यानप्रसक्तावाह — अक्षराणां त्विति । तर्हि ब्राह्मणेऽस्मिन्वक्तव्याभावात्परिसमाप्तिरेवेत्याशङ्क्याऽऽह — यानीति । ननु वाक्यानि पूर्वत्र व्याख्यातानि न हेतुरुपदिष्टस्तत्कथं तदुपदेशानन्तर्यं ससंन्यासस्यामृतत्वहेतोरात्मज्ञानस्याथशब्देन द्योत्यते तत्राऽऽह — हेतुप्रधानानीति । तदेव वृत्तं व्यनक्ति — याज्ञवल्क्यस्येति । अथेत्यस्यार्थमाह — एवं सतीति ।
भार्याद्वये दर्शितरीत्या स्थिते स्वस्य च वैराग्यातिरेके सतीति यावत् ॥ १ ॥ तस्या ब्रह्मवादित्वं तदामन्त्रणद्वारेण तां प्रत्येव संवादे हेतूकर्तव्यम् । तस्या ब्रह्मवादित्वं द्योतयितुमिच्छसि यदीत्युक्तम् ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 मैत्रेयी त्वमृतत्वमात्रार्थितामात्मनो दर्शयति —
सैवमिति ॥ ३ ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 गुरुप्रासादाधीना विद्यावाप्तिरिति द्योतनार्थमाह — स होवाचेति ।
ज्ञानेच्छादुर्लभताद्योतनाय चेदित्युक्तम् ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 व्याख्यानप्रकारमेवाऽऽह — आत्मनीति । दृष्टे सर्वमिदं विदितं भवतीत्युत्तरत्र संबन्धः । केनोपायेनाऽऽत्मनि दृष्टे सर्वं दृष्टं भवतीत्युपायं पृच्छति — कथमिति । आत्मदर्शनोपायं श्रवणादिकं दर्शयन्नुत्तरमाह — उच्यत इति । उक्तोपायफलं प्रश्नपूर्वकमाह — किमित्यादिना । इदं सर्वमित्यनूद्य तस्यार्थमाह — यदात्मनोऽन्यदिति । तदात्मनि दृष्टे दृष्टं स्यादिति शेषः । कथमन्यस्मिन्दृष्टे सत्यन्यद्दृष्टं भवति तत्राऽऽह —
आत्मव्यतिरेकेणेति ॥ ६ ॥७॥८॥९॥१०॥ 【भाष्यम्】 【भाष्यम्】 स यथाऽऽद्रैधाग्नेरित्यादाविष्टं हुतमित्याद्यधिकं दृष्टं तस्यार्थमाह — चतुर्थ इति । सामर्थ्यादर्थशून्यस्य शब्दस्यानुपपत्तेरित्यर्थः । नन्वत्रापि सामर्थ्याविशेषात्पृथगुक्तिरयुक्तेत्याशङ्क्याऽऽह —
इह त्विति ॥ ११ ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 स यथा सैन्धवघन इत्यादिवाक्यतात्पर्यमाह — सर्वकार्येति । एतेभ्यो भूतेभ्य इत्यादेरर्थमाह — पूर्वं त्विति ।
ज्ञानोदयात्प्रागवस्थायामित्यर्थः । लब्धविशेषविज्ञानः सन्व्यवहरतीति शेषः । प्रविलापितं तस्येत्यध्याहारः ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वोत्तरविरोधं शङ्कित्वा परिहरति — सा होवाचेत्यादिना । अविनाशित्वं पूर्वत्र हेतुरित्याह —
यत इति ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 प्रत्यध्यायमन्यथाऽन्यथा प्रतिपादनादात्मनः सविशेषत्वमाशङ्क्य स एष इत्यादेस्तात्पर्यमाह — चतुर्ष्वपीति । केन प्रकारेण तस्य तुल्यत्वमित्याशङ्क्याऽऽह — परं ब्रह्मेति । अध्यायभेदस्तर्हि कथमित्याशङ्क्याऽऽह — उपायेति । उपायभेदवदुपेयभेदोऽपि स्यादित्याशङ्क्याऽऽह — उपेयस्त्विति । चातुर्थिकादर्थात्पाञ्चमिकस्यार्थस्य भेदं व्यावर्तयति — स एवेति । प्राणपणोपन्यासेन मूर्धा ते विपतिष्यतीति मूर्धपातोपन्यासात्प्राणाः पणत्वेन गृहीता इति गम्यते । तेन शाकल्यब्राह्मणेन निर्विशेषः प्रत्यगात्मा निर्धारित इत्यर्थः । विज्ञानमानन्दं ब्रह्मेत्यादावुक्तं स्मारयति — पुनरिति । पञ्चमसमाप्तौ पुनर्विज्ञानमित्यादिना स एव निर्धारित इति योजना । कूर्चब्राह्मणादावपि स एवोक्त इत्याह — पुनर्जनकेति । अस्मिन्नपि ब्राह्मणे स एवोक्त इत्याह — पुनरिहेति । किमिति पूर्वत्र तत्र तत्रोक्तस्य निर्विशेषस्याऽऽत्मनोऽवसाने वचनमित्याशङ्क्याऽऽह — चतुर्णामपीति । पौर्वापर्यपर्यालोचनायामुपनिषदर्थो निर्विशेषमात्मतत्त्वमित्युपपाद्य वाक्यान्तरमवतार्य व्याकरोति — यस्मादित्यादिना । इति होक्त्वेत्यादिवाक्यमाकाङ्क्षापूर्वकमादाय व्याचष्टे — यत्पृष्टवत्यसीत्यादिना । ब्राह्मणार्थमुपसंहरति — परिसमाप्तेति । तथाऽप्युपदेशान्तरं कर्तव्यमस्तीत्याशङ्क्याऽऽह — एतावानिति । किमत्र प्रमाणमिति तदाह — एतदिति । तथाऽपि परमा निष्ठा संन्यासिनो वक्तव्येति चेन्नेत्याह — एषेति । आत्मज्ञाने ससंन्यासे सत्यपि पुरुषार्थान्तरं कर्तव्यमस्तीत्याशङ्क्याह — एष इति । इतिशब्दो ब्राह्मणसमाप्त्यर्थः । ससंन्यासमात्मज्ञानममृतत्वसाधनमित्युपपाद्य संन्यासमधिकृत्य विचारमवतारयति — इदानीमिति । तत्र तत्र प्रागेव विचारितत्वात्किं पुनर्विचारेणेत्याशङ्क्याऽऽह — शास्त्रार्थेति । विरक्तस्य संन्यासो ज्ञानस्यान्तरङ्गसाधनं ज्ञानं तु केवलममृतत्वस्येति शास्त्रार्थे विवेकरूपा प्रतिपत्तिरपि प्रागेव सिद्धेति किं तदर्थेन विचारारम्भेणेत्याशङ्क्याऽऽह — यत इति । अतो विचारः कर्तव्यो नान्यथा शास्त्रार्थविवेकः स्यादित्युपसंहारार्थो हिशब्दः । वाक्यानामाकुलत्वमेव दर्शयति — यावदिति । यदग्निहोत्रमित्यादीनीत्यादिशब्दादैकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्येत्यादिस्मृतिवाक्यं गृह्यते । कथमेतावता वाक्यानि व्याकुलानीत्याशङ्क्याऽऽह — अन्यानि चेति । विदित्वा व्युत्थाय भिक्षाचर्यं चरन्तीति वाक्यं पाठक्रमेण विद्वत्संन्यासपरमर्थक्रमेण तु विविदिषासंन्यासपरमात्मानमेव लोकमिच्छन्तः प्रव्रजन्तीति तु विविदिषासंन्यासपरमेवेति विभागः । क्रमसंन्यासपरां श्रुतिमुदाहरति — ब्रह्मचर्यमिति । अक्रमसंन्यासविषयं वाक्यं पठति — यदि वेति । कर्मसंन्यासयोः कर्मसंन्यासस्याऽऽधिक्यप्रदर्शनपरां श्रुतिं दर्शयति — द्वावेवेति । अनुनिष्क्रान्ततरौ शास्त्रे क्रमेणाभ्युदयनिःश्रेयसोपायत्वेन पुनःपुनरुक्तावित्यर्थः । ज्ञानद्वारा संन्यासस्य मोक्षोपायत्वे श्रुत्यन्तरमाह — न कर्मणेति । ’तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्’ इत्यादिवाक्यमादिशब्दार्थः । यथा श्रुतयस्तथा स्मृतयोऽप्याकुला दृश्यन्त इत्याह — तथेति । तत्राक्रमसंन्यासे स्मृतिमादावुदाहरति — ब्रह्मचर्यवानिति । यथेष्टाश्रमप्रतिपत्तौ प्रमाणभूतां स्मृतिं दर्शयति — अविशीर्णेति । आश्रमविकल्पविषयां स्मृतिं पठति — तस्येति । ब्रह्मचारी षष्ठ्यर्थः । क्रमसंन्यासे प्रमाणमाह — तथेति । तत्रैव वाक्यान्तरं पठति — प्राजापात्यमिति । सर्ववेदसं सर्वस्वं दक्षिणा यस्यां तां निर्वर्त्येत्यर्थः । आदिपदेन मुण्डा निस्तन्तवश्चेत्यादिवाक्यं गृह्यते । इत्याद्याः स्मृतयश्चेति पूर्वेण संबन्धः । व्याकुलानि वाक्यानि दर्शितान्युपसंहरति — एवमिति । इतश्च कर्तव्यो विचार इत्याह — आचारश्चेति । श्रुतिस्मृतिविदामाचारः सविरुद्धो लक्ष्यते । केचिद्ब्रह्मचर्यादेव प्रव्रजन्ति । अपरे तु तत्परिसमाप्य गार्हस्थ्यमेवाऽऽचरन्ति । अन्ये तु चतुरोऽप्याश्रमान्क्रमेणाऽऽश्रयन्ते । तथा च विना विचारं निर्णयासिद्धिरित्यर्थः । इतश्चास्ति विचारस्य कार्यतेत्याह — विप्रतिपत्तिश्चेति । यद्यपि बहुविदः शास्त्रार्थप्रतिपत्तारो जैमिनिप्रभृतयस्तथाऽपि तेषां विप्रतिपत्तिरुपलभ्यते केचिदूर्ध्वरेतस आश्रमाः सन्तीत्याहुर्न सन्तीत्यपरे । तत्कुतो विचारादृते निश्चयसिद्धिरित्यर्थः । अथ केषाञ्चिदन्तरेणापि विचारं शास्त्रार्थो विवेकेन प्रतिभास्यति तत्राऽऽह — अत इति । श्रुतिस्मृत्याचारविप्रतिपत्तेरिति यावत् । कैस्तर्हि शास्त्रार्थो विवेकेन ज्ञातुं शक्यते तत्राऽऽह — परिनिष्ठितेति । नानाश्रुतिदर्शनादिवशादुपपादितं विचारारम्भमुपसंहरति — तस्मादिति । विचारकर्तव्यतामुक्त्वा पूर्वपक्षं गृह्णाति — यावदित्यादिना । श्रुत्यादीत्यादिशब्देन कुर्वन्नित्यादिमन्त्रवादो गृह्यते । ऐकाश्रम्ये हेत्वन्तरमाह — तमिति । एतद्वै जरामर्यं सत्रं यदग्निहोत्रमिति श्रुतेश्च पारिव्राज्यासिद्धिरित्याह — जरेति । तत्रैव हेत्वन्तरमाह — लिङ्गाच्चेति । पारिव्राज्यपक्षेऽपि तदुपपत्तिमाशङ्क्याऽऽह — न हीति । इतश्च नास्ति पारिव्राज्यमित्याह — स्मृतिश्चेति। तस्यास्तात्पर्यमाह — समन्त्रकं हीति। न्यायस्य कस्यचिदित्यत्र सूचितमर्थं कथयति — अधिकारेति । गृहस्थस्य पारिव्राज्याभावे हेत्वन्तरमाह — अग्नीति । पूर्वपक्षमाक्षिपति — नन्विति । उभयविधिदर्शने षोडशीग्रहणाग्रहणवदधिकारिभेदेन विकल्पो युक्तो न तु क्रियावसान एव वेदार्थ इति पक्षपाते निबन्धनमस्तीत्यर्थः । तुल्यविधिद्वयदर्शने हि विकल्पो भवत्यत्र तु सावकाशानवकाशत्वेनातुल्यत्वान्नैवमित्याह — नान्यार्थत्वादिति । तदेव स्फुटयति — यावज्जीवमित्यादिना । कर्मानधिकृतविषयत्वान्न वैकल्पिकमिति संबन्धः । क्रियावसानत्वं वेदार्थस्येति शेषः । तत्रैव हेत्वन्तराण्याह — कुर्वन्नित्यादिना । न वैकल्पिकमित्यत्र पूर्ववदन्वयः । व्युत्थानादिवाक्यानां कथमनधिकृतविषयत्वमित्याशङ्क्याऽऽह — काणेति । अनधिकृतविषयत्वं तेषामशक्यं वक्तुं ब्रह्मचर्यं समाप्येत्यादावधिकृतविषये क्रमदर्शनादिति शङ्कते — पारिव्राज्येति । गत्यन्तरं दर्शयन्नुत्तरमाह — न विश्वजिदिति । यावज्जीवमग्निहोत्रं जुहोतीत्युत्सर्गस्तस्यापवादो विश्वजित्सर्वमेधौ तदनुष्ठाने सर्वस्वदानादेव साधनसंपद्विरहात्पारिव्राज्यस्यावश्यम्भावित्वादतस्तद्विषयं क्रमविधानमित्यर्थः । तदेव स्फुटयति — यावज्जीवेति । कथं क्रमविधेरेवंविषयत्वं कल्पकाभावादित्याशङ्क्याऽऽह — विरोधानुपपत्तेरिति । गृहस्थस्यापि विरक्तस्य पारिव्राज्यमिति किमिति क्रमविषयो नेष्यते तत्राऽऽह — अन्यविषयेति । क्रमविधेरपि त्वत्पक्षे संकोचः स्यादित्याशङ्क्याऽऽह — क्रमप्रतिपत्तेस्त्विति । सति ज्ञाने कर्मत्यागो निषिध्यते सत्यां वा जिज्ञासायामिति विकल्प्याऽऽद्यं दूषयति सिद्धान्ती — नाऽऽत्मज्ञानस्येति । विद्वत्संन्यासस्यावश्यम्भावित्वान्न कर्मावसान एव वेदार्थ इति संगृहीतं वस्तु विवृणोति — यत्तावदिति । विद्यासूत्रादारभ्य निषेधवाक्यान्तेन ग्रन्थेन यदात्मज्ञानमुपसंहृतं तत्तावन्मुक्तिसाधनमिति भवताऽपि यस्मादभ्युपगतं पराङ्गं चाऽऽत्मविज्ञानादन्यत्रेत्यवधारणादिति न्यायात्तस्माज्ज्ञाने सति कर्मानुष्ठानं निरवकाशमित्यर्थः । अथाऽऽत्मज्ञानं कर्मसहितममृतत्वसाधनमिष्यते न केवलं तथा च ज्ञानोत्तरकालमपि न कर्मत्यागसिद्धिरिति शङ्कते — तत्रेति । आत्मज्ञानस्यामृतत्वसाधनत्वे सत्यपीति यावत् । कर्मनिरपेक्षत्वं चेदात्मज्ञानस्य भवान्न सहते किमिति तर्हि ज्ञानमेवोपगतमिति सिद्धान्ती पृच्छति — तत्रेति। तस्य कर्मानपेक्षत्वानङ्गीकारे सतीत्यर्थः । तत्र पूर्ववादी शास्त्रीयत्वादात्मज्ञानममृतत्वसाधनमभ्युपगतमिति शङ्कते — शृण्विति । ज्ञापयति वेद इति शेषः । शास्त्रानुसारेणाऽऽत्मज्ञानाङ्गीकारे कर्मनिरपेक्षमेवाऽऽत्मज्ञानं मोक्षसाधनं सेत्स्यतीति परिहरति — एवं तर्हीति । उभयत्र ज्ञाने कर्मणि चेत्यर्थः । यद्वा ज्ञानस्यामृतत्वसाधनत्वे तस्य कर्मनिरपेक्षत्वे चेत्यर्थः । तुल्यप्रामाण्यात्प्रामाण्यस्य तुल्यत्वाद्वेदस्येति शेषः । यथाशास्त्रं ज्ञानाभ्युपगमेऽपि कथं तत्केवलं कैवल्यकारणमिति पृच्छति — यद्येवमिति । शास्त्रानुसारेण ज्ञानमभ्युपगच्छन्तं प्रत्याह — सर्वकर्मेति । आत्मज्ञानस्य तदुपमर्दकत्वं दर्शयितुं कर्महेतुं तावद्दर्शयति — दाराग्नीति । अग्निहोत्रादीनां संप्रदानकारकसाध्यत्वं व्यतिरेकद्वारा साधयति — अन्येति । तथाऽपि कथमात्मज्ञानस्य कर्महेतूपमर्दकत्वमित्याशङ्क्याऽऽह — यया हीति । इहेति विद्यादशोक्तिः । विद्यायाः श्रुतिजन्यत्वेन बलवत्त्वं दर्शयति — अन्योऽसावित्यादिना । ननु शुचौ देशे दिवसादौ काले शास्त्राचार्यादिवशादुत्पन्नं ज्ञानं पुमर्थसाधनम् ‘शुचौ देशे प्रतिष्ठाप्य’ (भ. गी. ६ । ११) इत्यादिस्मृतेस्तथाच कथं तस्य भेदबुद्ध्युपमर्दकत्वमत आह — न चेति । यत्रैकाग्रता तत्राविशेषादिति न्यायाज्ज्ञानसाधनस्य समाधेरपि न देशाद्यपेक्षा दूरतस्तु कूटस्थवस्तुतन्त्रस्य ज्ञानस्येति भावः । विमतं देशाद्यपेक्षं शास्त्रार्थत्वाद्धर्मवदित्याशङ्क्य पुरुषतन्त्रत्वमुपाधिरित्याह — क्रियायास्त्विति । साधनव्याप्तिं दूषयति — ज्ञानं त्विति । विमतं न देशाद्यपेक्षं प्रमाणत्वादुष्णाग्निज्ञानवदिति प्रत्यनुमानमाह — यथेति । आत्मज्ञानस्य सर्वकर्महेतूपमर्दकत्वे दोषमाशङ्कते — नन्विति । इष्टापत्तिमाशङ्क्याऽऽह — न चेति । कर्मकाण्डेन काण्डान्तरस्यापि निरोधसंभवादित्यर्थः । साक्षदात्मज्ञानं कर्मविधिनिरोध्यर्थाद्वेति विकल्प्याऽऽद्यं दूषयति — नेत्यादिना । तदेव स्फुटयति — न हि विध्यन्तरेति । द्वितीयं शङ्कते — तथाऽऽपीति । यथा न कामी स्यादिति निषेधात्कस्यचित्कामप्रवृत्तिर्न भवतीत्येतावता न सर्वान्प्रति काम्यविधिर्निरुध्यते तथा कस्यचिदात्मज्ञानात्कर्मविधिनिरोधेऽपि न सर्वान्प्रत्यसौ निरुद्धो भविष्यतीति परिहरति — न कामेति । दृष्टान्तमेव स्पष्टयति — यथेत्यादिना । प्रतिषेधशास्त्रार्थानभिज्ञं प्रति तदुपपत्तेरिति भावः । अभिप्रायमविद्वानाशङ्कते — कामप्रतिषेधविधिनेति । अनर्थकत्वज्ञानात्कामस्येति शेषः । प्रवृत्त्यनुपपत्तेः काम्येषु कर्मस्विति द्रष्टव्यम् । निरुद्धः स्यात्काम्यविधिरित्यध्याहर्तव्यम्। गूढाभिसन्धिं सिद्धान्ती ब्रूते — भवत्विति । पुनरभिप्रायमप्रतिपद्यमानश्चोदयति — यथेति । एवमिति ज्ञाने न कर्मविधिनिरोधे सतीति यावत् । तत्प्रामाण्यानुपपत्तिरिति शेषः । तदेव चोद्यं विशदयति — अननुष्ठेयत्व इति । तेषामनुष्ठेयानामग्निहोत्रादीनां कर्मणां ये विधयस्तेषामिति यावत् । सिद्धान्ती स्वाभिसन्धिमुद्घाटयन्नुत्तरमाह — नेत्यादिना । उपपत्तिमेवोपदर्शयति — स्वाभाविकस्येति । तदेव दृष्टान्तेन स्पष्टयति — यथेति । अज्ञानावस्थायामेव कर्मविधिप्रवृत्तिरित्यत्रानिष्टमाशङ्कते — तथा सतीति । कर्मविधिरपि पुरुषाभिप्रायवशात्पुरुषार्थोपयोगित्वसिद्धेर्नानिष्टापत्तिरित्युत्तरमाह — नार्थेति । अर्थस्य पुरुषाभिप्रायतन्त्रत्वे मोक्षस्यापि वास्तवं पुरुषार्थत्वं न स्यादित्याशङ्क्याऽऽह — मोक्षमिति । अर्थानर्थयोरभिप्रायतन्त्रत्वं साधयति — पुरुषेति । मरणं महाप्रस्थानमित्यादि काम्यं कृत्वा जीवदवस्थायामेव महाभारतादाविष्टिनिधानं दृष्टमतोऽर्थानर्थावभिप्रायतन्त्रकावेवेत्यर्थः । कर्मविधीनामात्मज्ञानात्प्राचीनत्वं प्रतिपादितमुपसंहरति — तस्मादिति । तथाऽपि प्रकृते किमायातं तदाह — तस्मान्नेति । तत्र प्रमाणमाह — इत्यत इति । अतःशब्दार्थं स्फुटयति — कर्मेति । ज्ञानस्य कर्मविरोधत्वे तन्निरपेक्षत्वे च सिद्धे फलितमाह — अत इति । आत्मज्ञानस्यामृतत्वहेतुत्वाभ्युपगमादित्यादेरुक्तन्यायादात्मसाक्षात्कारस्य केवलस्य कैवल्यकारणत्वसिद्धेः सति तस्मिञ्जीवन्मुक्तस्य कर्मानुष्ठानानवकाशात्तदुद्देशेन प्रवृत्तस्याधीतवेदस्य विदितपदपदार्थस्य परोक्षज्ञानवतस्तन्मात्रेण प्रमाणापेक्षामन्तरेण सिद्धं सर्वकर्मत्यागलक्षणं पारिव्राज्यमेष एव विद्वत्सन्यासो न त्वपरोक्षज्ञानवतः प्रारब्धफलप्राप्तिमन्तरेणानुष्ठेयं किञ्चिदस्तीति भावः । विध्यविषयत्वाज्जातसाक्षात्कारस्य कथं पारिव्राज्यं तत्राऽऽह — वचनमिति । उक्तन्यायः शान्तादिवाक्यसूचितः । विधिं विनाऽपि फलभूतं पारिव्राज्यमित्यर्थः । सत्यां जिज्ञासायां कर्मत्यागो न शक्यते निषेद्धुमिति वदन्विविदिषासंन्यासं साधयति — तथा चेत्यादिना । एतत्पारिव्राज्यमिति संबन्धः । विदुषामात्मसाक्षात्कारार्थिनां तत्परोक्षनिश्चयवतामिति यावत् । आत्मलोकस्यावबोधोऽपि व्युत्थानहेतुः परोक्षनिश्चय एव । सतीतरस्मिन्फलावस्थस्य व्युथानाद्यनुष्ठानायोगात्तदनन्तरेण तत्प्राप्त्यभावाच्च । उक्तं हि शमादिवदुपरतरेपि तत्त्वसाक्षात्कारे नियतं साधनत्वं तदाह — तथा चेति । विविदिषुर्नामाधीतवेदो विचारप्रयोजकापातिकज्ञानवान्मुमुक्षुर्मोक्षसाधनं तत्त्वसाक्षात्कारमपेक्षमाणस्तस्मिन्परोक्षनिश्चयेनापि शून्यो विवक्षितस्तस्य कथं पारिवाज्यमत आह — एतमेवाऽऽत्मानमिति । इतश्च विविदिषासंन्यासोऽस्तीत्याह — कर्मणां चेति । तथा चाविद्याविरुद्धां विद्यामिच्छन्नशेषाणि कर्माणि शरीरधारणमात्रकारणेतराणि त्यजेदिति शेषः । विविदिषासंन्यासे हेत्वन्तरमाह — अविद्याविषये चेति । चतुर्विधफलानि कर्माण्यविद्याविषये परं संभवन्ति न त्वसाध्ये वस्तुनीत्यतो वस्तुजिज्ञासायां त्याज्यानि तानीत्यर्थः — कथं तर्हि । कर्मणामुत्तमफलान्वयस्तत्राऽऽह — आत्मेति । बुद्धिशुद्धिद्वाराज्ञानहेतुत्वात्कर्मणामस्ति प्रणाड्या परमपुरुषार्थान्वय इत्यर्थः । ’संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ’ इति स्मृतेर्विविदिषूणां मुमुक्षूणां कथं पारिव्राज्यस्यैव कर्तव्यत्वमित्याशङ्क्याऽऽह — अथेति । यथा विद्वत्संन्यासस्तथा विविदिषासंन्यासेऽपि यथोक्तनीत्या संभाविते सतीति यावत् । आत्मज्ञानोत्पादनं प्रत्याश्रमधर्माणां बलाबलविचारणा नामान्तरङ्गत्वबहिरङ्गत्वचिन्ता तस्यां सत्यामित्यर्थः । अहिंसास्तेयब्रह्मचर्यादयो यमाः । वैराग्यादीनामित्यादिशब्देन शमादयो गृह्यन्ते । इतरे नियमप्रधाना आश्रमधर्मा बहुना क्लिष्टेन पापेन कर्मणा संकीर्णा हिंसादिप्राचुर्यात्- ’यमान्पतत्यकुर्वाणो नियमान्केवलान्भजन्’ इति स्मृतेस्तस्मात्पूर्वेषामन्तरङ्गत्वमुत्तरेषां बहिरङ्गत्वमित्याशयेनाऽऽह — हिंसेति । कर्मयोगापेक्षया तत्त्यागस्याधिकारिविशेषं प्रति प्रशस्तत्वमुपसंहरति — इत्यत इति । तत्प्रशंसाप्रकारमेवाभिनयति — त्याग एवेति । उक्तानामाश्रमैरनुष्ठेयत्वेनेति शेषः । तत्त्यागे हेतुमाह — वैराग्यमिति । मोक्षस्य कर्मपरित्यागस्येत्यर्थः । उत्तमपुमार्थार्थिनः संन्यासद्वारा श्रवणादि कर्तव्यमित्यत्र वाक्यान्तरमुदाहरति — किं ते धनेनेति । अथ पित्रादिभिर्गतं पन्थानमन्वेषयामि नाऽऽत्मानमित्याशङ्क्याऽऽह — पितामहा इति । विविदिषासंन्यासे साङ्ख्यादिसंमतिमाह — एवमिति । यथाऽऽहुः संख्याः – ’ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः’ इति । ’विवेकख्यातिपर्यन्तमज्ञानोच्चितचेष्टितम्’ इति च । ’अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम्’ इति च । योगशास्त्रविदश्चाऽऽहुः ‘अभ्यासवैराग्याभ्यां तन्निरोधः’(यो.सू.१.१२) इति । तत्र वैराग्येण विषयस्रोतः परिखिलीक्रियते । विवेकदर्शनाभ्यासेन कल्याणस्रोत उत्पाद्यत इति च । ‘दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्’(यो.सू.१.१५) इति च । इतश्च संन्यासो ज्ञानं प्रति प्रत्यासन्न इत्याह — कामेति । संन्यासिनः कामप्रवृत्त्यभावेऽपि कथं संन्यासस्य ज्ञानं प्रति प्रत्यासन्नत्वमित्याशङ्क्याऽऽह — कामप्रवृत्तेरिति । ‘इति नु कामयमानः’(बृ. उ. ४ । ४ । ६) “काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्” (भ. गी. ३ । ३७) इत्यादीनि शास्त्राणि । विविदिशासंन्यासमुपसंहरति — तस्मादिति । यथोक्तस्याधिकारिणो दर्शितया विधया ज्ञानेन विनाऽपि संन्यासस्य प्राप्तत्वाद्ब्रह्मचर्यादेवेत्यादि विधिवाक्यमुपपन्नमिति योजना । अथ पारिव्राज्यविधानमनधिकृतविषयमुचितं तथा सति सावकाशत्वान्न त्वधिकृतविषयं यावज्जीवश्रुतिविरोधात्तस्या निरवकाशत्वात्सावकाशनिरवकाशयोश्च निरवकाशस्यैव बलवत्त्वादित्युक्तं शङ्कते — नन्विति । यावज्जीवश्रुतेर्निरवकाशत्वं दूषयति — नैष दोष इति । कथमतिशयेन सावकाशत्वं तत्राऽऽह — अविद्वदिति । जीवनमात्रं निमित्तीकृत्य चोदितं कर्म कथं कामिना कर्तव्यं तत्राऽऽह — न त्विति । प्रत्यवायपरिहारादेरिष्टत्वादित्यर्थः । अनुष्ठातृस्वरूपनिरूपणायामपि न जीवनमात्रं निमित्तीकृत्य कर्म कर्तव्यमित्याह — प्रायेणेति । तथाऽपि नित्येषु कर्मसु न कामनिमित्ता प्रवृत्तिस्तत्र काम्यमानफलाभावादित्याशङ्क्याऽऽह — कामश्चेति । प्रत्यवायपरिहारादेरपि कामितत्त्वं युक्तमिति भावः । तथाऽपि नित्ये कर्मणि काम्यमानं फलं विध्युद्देशे किञ्च्चिन्न श्रुतमित्याशङ्क्याऽऽह — अनेकेति । कर्मभिरनेकैः साधनैर्यद्दुरितनिबर्हणादि साध्यं तदेवास्याश्रुतमपि विध्युद्देशे साध्यं भवति – ‘यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्’(म.स्मृ. २।४) इति स्मृतेस्तद्व्यतिरेकेण प्रवृत्त्यनुपपत्तेरतो नित्येऽपि कामितं फलमस्तीत्यर्थः । ननु वैदिकानां कर्मणां नियतफलत्वात्कामोऽपि नियतफलो युक्तस्तथा च नित्येषु तदभावान्न कामितं फलं सेत्स्यति तत्राऽऽह — अनेकफलेति । अथ तानि पुरुषमात्रकर्तव्यानीति कुतो विवक्षितसंन्याससिद्धिस्तत्राऽऽह — दारेति । नन्वविरक्तेनापि गृहिणा सकृदेव ताननुष्ठेयानि तावता विधेश्चरितार्थत्वात्तथा च कथं फलबाहुल्यमित्याशङ्क्याऽऽह — पुनः पुनश्चेति । यावज्जीवोपबन्धादावृत्तिसिद्धिरिति भावः । तर्हि यावज्जीवश्रुतिवशादशेषाश्रमानुष्ठेयान्यनवरतमग्निहोत्रादीनीति कुतो यथोक्तसंन्यासोपपत्तिरित्याशङ्क्याऽऽह — वर्षशतेति । अविरक्तगृहिविषयत्वं श्रुतिमन्त्रयोरित्युपसंहरति — अत इति । यत्तु यावज्जीवश्रुतेरपवादो विश्वजित्सर्वमेधयोरिति तदपि कामिगृहिविषयत्वान्न ब्रह्मचर्यादेव प्रव्रजेदिति विध्यपवादकमित्याह — तस्मिंश्चेति । परोक्तं लिङ्गमपि तद्विषयत्वान्न सर्वस्य वेदस्य कर्मावसानत्वं द्योतयतीत्याह — यस्मिंश्चेति । यावज्जीवश्रुतेर्गत्यन्तरमाह — इतरेति । कथं सा क्षत्रियवैश्यविषयत्वेन प्रवृत्ता त्रैवर्णिकानामपि पारिव्राज्यपरिग्रहादित्याशङ्क्याऽऽह — न हीति । यावज्जीवश्रुतिवदैकाश्रम्यप्रतिपादकस्मृतीनामपि क्षत्रियादिविषयत्वमाह — तथेति । श्रुतिस्मृतीनां कर्मतत्संन्यासार्थानां भिन्नविषयत्वे फलितमुपसंहरति — तस्मादिति । यत्तु काणकुब्जादयोऽपि कर्मण्यनधिकृता अनुग्राह्या एव श्रुत्येति तत्राऽऽह — अनधिकृतानां चेति । सत्यामेव भार्यायां त्यक्ताग्निरुत्सन्नाग्निस्तस्यामसत्यां परित्यक्ताग्निरनग्निक इति भेदः । आश्रमान्तरविषयश्रुतिस्मृतीनामनधिकृतविषयत्वाभावे सिद्धमर्थं निगमयति —
तस्मादिति ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 तदेव विचारद्वारा श्रुतिस्मृतीनामापाततो विरुद्धानामविरोधं प्रतिपद्याथ वंशम् इत्यस्यार्थमाह — अथेति । साङ्गोपाङ्गस्य सफलस्याऽऽत्मविज्ञानस्य प्रवचनानन्तर्यमथशब्दार्थमाह — अनन्तरमिति । यथा प्रथमान्तः शिष्यो गुरुस्तु पञ्चम्यन्त इति चतुर्थान्ते व्याख्यातं तथाऽत्रापीत्याह — व्याख्यानं त्विति । इत्यागमोपपत्तिभ्यां ससंन्यासं सेतिकर्तव्यताकमात्मज्ञानममृतत्वसाधनं सिद्धमित्युपसंहर्तुमितिशब्दः । परिसमाप्तौ मङ्गलमाचरति —
ब्रह्मेति ॥ १ ॥ २ ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वस्मिन्नध्याये ब्रह्मात्मज्ञानं सफलं साङ्गोपाङ्गं वादन्यायेनोक्तमिदानीं काण्डान्तरमवतारयति — पूर्णमिति । पूर्वाध्यायेष्वेव सर्वस्य वक्तव्यस्य समाप्तत्वादलं खिलकाण्डारम्भेणेत्याशङ्क्य पूर्वत्रानुक्तं परिशिष्टं वस्तु खिलशब्दवाच्यमस्तीत्याह — अध्यायचतुष्टयेनेति । सर्वान्तर इत्युक्त इति शेषः । अमृतत्वसाधनं निर्धारितमिति पूर्वेण संबन्धः । शब्दार्थादीत्यादिशब्देन मानमेयादिग्रहः । दयां शिक्षेदित्युक्तानीति शेषः । ओङ्कारादि यत्र साधनत्वेन विधित्सितं तत्पूर्वोक्तमैक्यज्ञानमनुवदति — पूर्णमिति । अवयवार्थमुक्त्वा समुदायार्थमाह — तत्संपूर्णमिति । अदः पूर्णमित्यनेन लक्ष्यं तत्पदार्थं दर्शयित्वा त्वम्पदार्थं दर्शयति — तदेवेति । कथं सोपाधिकस्य पूर्णत्वमित्याशङ्क्याऽऽह — स्वेनेति । व्यावर्त्यमाह — नोपाधीति । न वयमुपहितेन विशिष्टेन रूपेण पूर्णतां वर्णयामः किन्तु केवलेन स्वरूपेणेत्यर्थः । लक्ष्यौ तत्त्वम्पदार्थमुक्त्वा तावेव वाच्यौ कथयति — तदिदमिति । कथं कार्यात्मनोद्रिच्यमानस्य पूर्णत्वमित्याशङ्क्याऽऽह — यद्यपीति । लक्ष्यपदार्थैक्यज्ञानफलमुपन्यस्यति — पूर्णस्येति । उपक्रमोपसंहारयोरैकरूप्यमैक्ये श्रुतितात्पर्यलिङ्गं संगिरते — यदुक्तमिति । कथं पूर्णकण्डिकाया ब्रह्मकण्डिकया सहैकार्थत्वेनैकवाक्यत्वमित्याशङ्क्य तद्व्युत्पादयति — तत्रेत्यादिना । उपक्रमोपसंहारसिद्धे ब्रह्मात्मैक्ये कठश्रुतिं संवादयति — तथा चेति । ब्रह्मात्मनोरैक्यमुक्तमुपजीव्य वाक्यार्थमाह — अत इति । पूर्णं यद्ब्रह्मेति यच्छब्दो द्रष्टव्यः । उक्तमेव व्यनक्ति — तस्मादेवेति । संसारावस्थां दर्शयित्वा मोक्षावस्थां दर्शयति — यद्यदात्मानमिति । उक्ते विद्याफले वाक्योपक्रममनुकूलयति — तथा चोक्तमिति । न केवलं ब्रह्मकण्डिकयैवास्य मन्त्रस्यैकवाक्यत्वं किं तु सर्वाभिरुपनिषद्भिरित्याह — यः सर्वोपनिषदर्थ इति । अनुवादफलमाह — उत्तरेति । तदेव स्फुटयति — ब्रह्मविद्येति । तस्माद्युक्तो ब्रह्मणोऽनुवाद इति शेषः । कथं तर्हि सर्वोपासनशेषत्वेन विधित्सितत्वमोङ्कारादीनामुक्तमत आह — खिलेति । अद्वितीयं ब्रह्मेत्युत्सर्गप्रवृत्तं शास्त्रं प्रलयावस्थब्रह्मविषयं सृष्टिशास्त्रं तु विशेषप्रवृत्तं तस्यापवादस्ततो द्वैताद्वैतरूपं ब्रह्म सर्वोपनिषदर्थस्तदेव ब्रह्मानेन मन्त्रेण संक्षिप्यत इति भर्तृप्रपञ्चपक्षमुत्थापयति — अत्रेत्यादिना । कार्यकारणयोरुत्पत्तिकाले पूर्णत्वमुक्त्वा स्थितिकालेऽपि तदाह — उद्रिक्तमिति । प्रलयकालेऽपि तयोः पूर्णत्वं दर्शयति — पुनरिति । कालभेदेन कार्यकारणयोरुक्तां पूर्णतां निगमयति — एवमिति । कार्यकारणे द्वे पूर्णे चेत्तर्हि कथमद्वैतसिद्धिरित्याशङ्क्याऽऽह — सा चेति । कथं तर्हि द्वयोरुक्तं पूर्णत्वं तदाह — कार्यकारणयोरिति । एका पूर्णता व्यपदिश्यते च द्वयोरिति स्थिते लब्धमर्थमाह — एवं चेति । एकं ह्यनेकात्मकमिति विप्रतिषेधमाशङ्क्य दृष्टान्तेन निराचष्टे — यथा किलेति । एवमेकं ब्रह्मानेकात्मकमिति शेषः । ब्रह्मणो द्वैताद्वैतात्मकत्वेऽपि सत्यमद्वैतमसत्यमितरदित्याशङ्क्याऽऽह — यथा चेत्यादिना । द्वैतस्य परमार्थसत्यत्वे कर्मकाण्डश्रुतिमनुकूलयति — एवं चेति । विपक्षे दोषमाह — यदा पुनरिति । अस्तु कर्मकाण्डप्रामाण्यं नेत्याह — तथा चेति । विरोधोऽध्ययनविधेरिति शेषः । तमेव विरोधं साधयति — वेदेति । कथं तर्हि विरोधसमाधिस्तत्राह — तद्विरोधेति । प्राप्तं भर्तृप्रपञ्चप्रस्थानं प्रत्याचष्टे — तदसदिति । विशिष्टमद्वितीयं ब्रह्म तद्विषयोत्सर्गापवादयोर्विकल्पसमुच्चययोश्चासंभवं वक्तुं प्रतिज्ञाभागं विभजते — न हीति । तत्र प्रश्नपूर्वकं हेतुं विवृणोति — कस्मादित्यादिना । यथेत्यादिग्रन्थस्य न च तथेत्यादिना संबन्धः । क्रियायामुत्सर्गापवादसंभावनामुदाहरति — यथेत्यादिना । तथाऽन्यत्रापि क्रियायामुत्सर्गापवादौ द्रष्टव्याविति शेषः । वैधर्म्यदृष्टान्तस्य दार्ष्टान्तिकमाह — न चेति । विषयभेदे सत्युत्सर्गापवादौ दृष्टौ न तावदद्वितीये ब्रह्मणि संभवतः । न हि ब्रह्माद्वयमेव जायते लीयते चेति संभावनास्पदमिति भावः । उत्सर्गापवादानुपपत्तिवद्ब्रह्मणि विकल्पानुपपत्तेश्च तदेकरसमेषितव्यमित्याह — तथेति । विकल्पानुपपत्तिमुपपादयति — यथेत्यादिना । संप्रति समुच्चयासंभवमभिदधाति — विरोधाच्चेति । उत्सर्गापवादविकल्पसमुच्चयानामसंभवान्न युक्ता ब्रह्मणो नानारसत्वकल्पनेति फलितमाह — तस्मादिति । परकीयकल्पनानुपपत्तौ हेत्वन्तरं प्रतिज्ञाय श्रुतिविरोधं प्रकटीकृत्य न्यायविरोधं प्रकटयति — तथेति । ब्रह्मणोऽनेकरसत्वे स्यादिति शेषः । नित्यत्वानुपपत्तेरात्मनो नित्यत्वाङ्गीकारविरोधः स्यादित्यध्याहारः । ननु तस्य नित्यत्वं नाङ्गीक्रियते मानाभावादिति प्रासंगिकीमाशङ्कां प्रत्याह — नित्यत्वं चेति । स्मृत्यादिदर्शनादित्यादिशब्देन स एव तु कर्मानुस्मृतिशब्दविधिभ्य इत्यधिकरणोक्ता हेतवो गृह्यन्ते । अनुमीयते कल्प्यते स्वीक्रियत इति यावत् । तद्विरोधश्च स्मृत्यादिदर्शनकृतात्मनित्यत्वानुमानविरोधश्चेत्यर्थः । आत्मनोऽनित्यत्वे दोषान्तरमाह — भवदिति । कर्मकाण्डस्य सत्यार्थत्वं परेण कल्प्यते तदानर्थक्यमात्मानित्यत्वे स्पष्टमापतेदित्युक्तमेव स्फुटयति — स्फुटमेवेति । ब्रह्मणो नानारसत्त्वे विरोधमुक्तमसहमानः स्वोक्तं स्मारयति — नन्विति । समुद्रादीनां कार्यत्वसावयवत्वाभ्यामनेकात्मकत्वविरुद्धं ब्रह्मणस्तु नित्यत्वान्निरवयवत्वाच्च नानेकात्मकत्वं युक्तमिति वैषम्यमादर्शयन्नुत्तरमाह — नेत्यादिना । ब्रह्मणो नानारसत्वकल्पनानुपपत्तिमुपसंहरति — तस्मादिति । ’अजो नित्यः शाश्वतोऽयं पुराणः’ इत्याद्याः स्मृतयः । ननु प्रत्यक्षाद्यविरोधेनोपनिषदां विषयसिद्ध्यर्थमेषा कल्पना क्रियते तथा च कथं साऽनुपपन्नेत्याशङ्क्याऽऽह — अस्या इति । विरुद्धार्थत्वे कल्पितेऽपि तत्प्रामाण्यानुपपत्तेरविशेषादिति भावः । किञ्च ब्रह्मणो नानारसत्वं लौकिकं वैदिकं वा । नाऽऽद्यः । तस्यालौकिकत्वात्तन्नानारसत्वे लोकस्य तटस्थत्वात् । न द्वितीयः । तन्नानारसत्वस्य ध्येयत्वेन ज्ञेयत्वेन वा शास्त्रेणानुपदेशादित्याह — अध्येयत्वाच्चेति । तदेव स्फुटयति — न हीति । इतश्च नानारसं ब्रह्म न यथाशास्त्रप्रकाश्यमित्याह — प्रज्ञानेति । चकारादुपदिशतीत्याकृष्यते । अनेकधादर्शनापवादाच्च नानारसं ब्रह्म शास्त्रार्थो न भवतीति शेषः । भेददर्शनस्य निन्दितत्वे लब्धमर्थमाह — यच्चेति । अकर्तव्यत्वे प्राप्तमर्थं कथयति — यच्च नेति । सामान्यन्यायं प्रकृते योजयति — ब्रह्मण इति । कस्तर्हि शास्त्रार्थस्तत्राऽऽह — यत्त्विति । ब्रह्मैकरस्ये प्रागुक्तं दोषमनुभाषते — यत्तूक्तमिति । कर्मकाण्डस्य कर्मविषये न प्रामाण्यमसद्द्वैतविषयत्वाद्ब्रह्मकाण्डस्य त्वद्वैते प्रामाण्यं परमार्थाद्वैतवस्तुप्रतिपादकत्वात्तथा च विरोधोऽध्ययनविधेरित्यनुवादार्थः । कर्मकाण्डाप्रामाण्यं प्रत्याचष्टे — तन्नेति । प्रसिद्धं भेदमादाय तत्रैव विधिनिषेधोपदेशस्य प्रवृत्तिनिवृत्तिद्वाराऽर्थवत्त्वान्न कर्मकाण्डानर्थक्यमित्यर्थः । ननु शास्त्रमेवाऽऽदौ भेदं बोधयित्वा पश्चादभ्युदयसाधनं कर्मोपदिशति । तथा च नास्ति भेदस्यात्यन्तः प्राप्तिरत आह — न हीति । यथा हि शास्त्रं जातमात्रं पुरुषं प्रत्यद्वैतं वस्तु ज्ञापयित्वा पश्चाद्ब्रह्मविद्यामुपदिशतीति नेष्यते तथा प्रथममेव पुरुषं प्रति द्वैतं बोधयित्वा कर्म पुनर्बोधयतीत्यपि नाभ्युपेयं प्रथमतो भेदावेदनावस्थायामस्य शास्त्रानधिकारित्वादित्यर्थः । द्वैतस्योपदेशार्हत्वमङ्गीकृत्योक्तं तदेव नास्तीत्याह — न चेति । ननु द्वैतस्य सत्यबुद्ध्यभावे श्रुत्युक्तानुष्ठानाय पुंसां प्रवृत्त्यनुपपत्तेः स्वप्रामाण्यसिद्ध्यर्थमेव द्वैतसत्यत्वं श्रुतिर्बोधयिष्यति नेत्याह — न च द्वैतस्येति । द्वैतानृतत्ववादिषु कर्मजडानां प्रद्वेषप्रतीतेर्न प्रथमतो द्वैतानृतत्वबुद्धिर्न च द्वैतसत्यत्वं श्रुत्यर्थस्तत्परिचयहीनानामपि द्वैतसत्यत्वाभिनिवेशादित्यर्थः । किञ्च न द्वैतवैतथ्यं शास्त्रप्रामाण्यविघातकं यतो बौद्धादिभिः श्रेयसे प्रस्थापिताः स्वशिष्या द्वैतमिथ्यात्वावगमेऽपि स्वर्गकामश्चैत्यं वन्देतेत्यादिशास्त्रस्य प्रामाण्यं गृह्णन्ति । तथाऽग्निहोत्रादिशास्त्रस्यापि प्रामाण्यं भविष्यति साधनत्वशक्त्यनपहारादित्याह — नापीति । काण्डद्वयस्य प्रामाण्योपपत्तिमुपसंहरति — तस्मादित्यादिना । प्रसिद्धो योऽयं क्रियादिरूपे द्वैते दोषः सातिशयत्वादिस्तद्दर्शनं विवेकस्तद्वते तस्माद्द्वैताद्विपरीतमौदासीन्योपलक्षितं स्वरूपं तस्मिन्नवस्थानं कैवल्यं तदर्थिने मुमुक्षवे साधनचतुष्टयसंपन्नायेत्यर्थः । किञ्च तत्त्वज्ञानादूर्ध्वं पूर्वं वा काण्डयोर्विरोधः शङ्क्यते । नाऽऽद्य इत्याह — अथेति । अवस्थाभेदादेकस्मिन्नपि पुरुषे काण्डद्वयस्य प्रामाण्यमविरुद्धमित्येवं स्थिते सत्युपनिषद्भ्यस्तत्त्वज्ञानोत्पत्त्यनन्तरं नान्तरीयकत्वेन प्राप्ते कैवल्ये पुरुषस्य नैराकाङ्क्ष्यं जायते न च निराकाङ्क्षं पुरुषं प्रति शास्त्रस्य शास्त्रत्वमस्ति । ’प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते’ ॥ इति न्यायात्कृतकृत्यं प्रति प्रवर्तकत्वादिविरहिणः शास्त्रत्वायोगादतो ज्ञानादूर्ध्वं धर्म्यभावाद्विरोधासिद्धिरित्यर्थः । एकस्मिन्पुरुषे दर्शितन्यायं सर्वत्रातिदिशति — तथेति । ज्ञानादूर्ध्वं विरोधाभावमुपसंहरति — इति नेति । कल्पान्तरं प्रत्याह — अद्वैतेति । तत्त्वज्ञानात्पूर्वं भेदस्यावस्थितत्वात्तमाविद्यमादायाधिकारिभेदादवस्थाभेदाद्वा काण्डयोरविरोधसिद्धिरित्यर्थः । भेदमेवोपपादयति — अन्यतमेति । शिष्यादीनामन्यतमस्यैवावस्थानं चेदवस्थितस्येतरस्मिंश्च सापेक्षत्वान्न सोऽप्यवतिष्ठेत । न च ज्ञानात्प्रागन्यतमस्यैवावस्थानं सर्वेषामेव तेषां यथाप्रतिभासमवस्थानादतो न पूर्वं विरोधशङ्केत्यर्थः । ऊर्ध्वं विरोधशङ्काभावमधिकविवक्षयाऽनुवदति — सर्वेति । कथं कैवल्यं विरोधाभावस्य सत्त्वादित्याशङ्क्याऽऽह — नापीति । अद्वैतत्वादेवाभावस्यापि तत्त्वनिमज्जनादित्याह — अत एवेति । अद्वितीयमेव ब्रह्म न द्वैताद्वैतात्मकमित्युपपादितमिदानीं ब्रह्मणो द्वैताद्वैतात्मकत्वाभ्युपगमेऽपि विरोधो न शक्यते परिहर्तुमित्याह — अथापीति । तुल्यत्वात्तदभ्युपगमो वृथेति शेषः । उक्तमेवोपपादयति — यदाऽपीति । द्वैताद्वैतात्मकं ब्रह्मेति पक्षे कथं विरोधो न समाधीयते द्वैतमद्वैतं चाधिकृत्य काण्डद्वयप्रामाण्यसंभवादित्याक्षिपति — कथमिति । किं ब्रह्मविषयः शास्त्रोपदेशः किं वाऽब्रह्मविषयः । प्रथमे द्वैताद्वैतरूपस्यैकस्यैव ब्रह्मणोऽभ्युपगमात्तस्य च नित्यमुक्तत्वान्नोपदेशः संभवतीत्याह — एकं हीति । तस्योपदेशाभावे हेत्वन्तरमाह — न चेति । उपदेष्टा हि ब्रह्मणोऽन्योऽनन्यो वा । नाऽऽद्योऽभ्युपगमविरोधात् । न द्वितीयो भेदमन्तरेणोपदेश्योपदेशकभावासंभवादिति भावः । कल्पान्तरमुत्थापयति — अथेति । प्रतिज्ञाविरोधेन निराकरोति — तदेति । किञ्च सर्वस्य ब्रह्मरूपत्वे यः समुद्रदृष्टान्तः स न स्यात्परस्परोपदेशस्याब्रह्मविषयत्वादित्याह — यस्मिन्निति । अथ यथा फेनादिविकाराणां भिन्नत्वेऽपि समुद्रोदकात्मत्वं तथा जीवादीनां भिन्नत्वेऽपि ब्रह्मस्वभावविज्ञानैक्याद्ब्रह्म सर्वमिति न विरुध्यते तत्राऽऽह — न चेति । सर्वस्य ब्रह्मत्वमङ्गीकृतं चेद्ब्रह्मविषय एवोपदेशः स्याद्भेदस्याविचारितरमणीयत्वादित्यर्थः । ननु नानारूपवस्तुसमुदायो ब्रह्म तत्र प्रदेशभेदादुपदेश्योपदेशकभावो ब्रह्म तु नोपदेश्यमुपदेशकं चेति तत्राऽऽह — न हीति । तत्र हेतुमाह — समुद्रेति । यथा समुद्रस्योदकात्मना फेनादिष्वेकत्वं तथा देवदत्तक्षेत्रज्ञस्य वागाद्यवयवेष्वेकत्वेन विज्ञानवत्त्वान्न व्यवस्थासंभवस्तथा ब्रह्मण्यपि द्रष्टव्यमित्यर्थः । मतान्तरनिराकरणमुपसंहरति — तस्मादिति । आत्मैकरस्यप्रतिपादिका श्रुतिर्न्यायश्च सावयवस्यानेकात्मकस्येत्यादावुक्तः । अभिप्रेतार्थासिद्धिर्भवत्कल्पनानर्थक्यं चेत्यादिना दर्शिता । एवङ्कल्पनायामेकानेकात्मकं ब्रह्मेत्यभ्युपगतावित्यर्थः । परकीयव्याख्यानासंभवे फलितमाह — तस्मादिति । ध्यानशेषत्वेनोपनिषदर्थं ब्रह्मानूद्य तद्विधानार्थं तस्मिन्विनियुक्तं मन्त्रमुत्थापयति — ओं खमिति । इषे त्वेत्यादिवत्तस्य कर्मान्तरे विनियुक्तत्वमाशङ्क्याऽऽह — अयं चेति । विनियोजकाभावादिति भावः । तर्हि ध्यानेऽपि नायं विनियुक्तो विनियोजकाभावाविशेषादित्याशङ्क्याऽऽह — इहेति । खं पुराणमित्यादि ब्राह्मणं तस्य च विनियोजकत्वं ध्यानसमवेतार्थप्रकाशनसामर्थ्यात् । यद्यपि मन्त्रनिष्ठं सामर्थ्यं विनियोजकं तथाऽपि मन्त्रब्राह्मणयोरेकार्थत्वाद्ब्राह्मणस्य सामर्थ्यद्वारा विनियोजकत्वमविरुद्धमिति भावः । अत्रेति मन्त्रोक्तिः । विशेषणविशेष्यत्वे यथोक्तसामानाधिकरण्यं हेतूकरोति — विशेषणेति । ब्रह्मेत्युक्ते सत्याकाङ्क्षाभावात्किं विशेषणेनेत्याशङ्क्याऽऽह — ब्रह्मशब्द इति । निरुपाधिकस्य सोपाधिकस्य वा ब्रह्मणो विशेषणत्वेऽपि कथं तस्मिन्नोंशब्दप्रवृत्तिरित्याशङ्क्याऽऽह — यत्तदिति । किमिति यथोक्ते ब्रह्मण्योंशब्दो मन्त्रे प्रयुज्यते तत्राऽऽह — इह चेति । ओंशब्दो ब्रह्मोपासने साधनमित्यत्र मानमाह — तथा चेति । सापेक्षं श्रैष्ठ्यं वारयति — परमिति । आदिशब्देन प्रणवो धनुरित्यादि गृह्यते । ओं ब्रह्मेति सामानाधिकरण्योपदेशस्य ब्रह्मोपासने साधनत्वमोङ्कारस्येत्यस्मादर्थान्तरासंभवाच्च तस्य तत्साधानत्वमेष्टव्यमित्याह — अन्यार्थेति । एतदेव प्रपञ्चयति — यथेत्यादिना । अन्यत्रेति । तैत्तिरीयश्रुतिग्रहणम् । अपवर्गः स्वाध्यायावसानम् । अर्थान्तरावगतेरभावे फलितमाह — तस्मादिति । ननु शब्दान्तरेष्वपि ब्रह्मवाचकेषु सत्सु किमित्योंशब्द एव ध्यानसाधनत्वेनोपदिश्यते तत्राऽऽह — यद्यपीति । नेदिष्ठं निकटतमं संप्रियतममित्यर्थः । प्रियतमत्वप्रयुक्तं फलमाह — अत एवेति । साधनत्वेऽवान्तरविशेषं दर्शयति — तच्चेति । प्रतीकत्वेन कथं साधनत्वमिति पृच्छति — प्रतीकत्वेनेति । कथमित्यध्याहारः । परिहरति — यथेति । ओङ्कारो ब्रह्मेति प्रतिपत्तौ किं स्यात्तदाह — तथा हीति । मन्त्रमेवं व्याख्याय ब्राह्मणमवतार्य व्याचष्टे — तत्रेत्यादिना । मन्त्रः सप्तम्यर्थः । ननु यथोक्तं तत्त्वं स्वेनैव रूपेण प्रतिपत्तुं शक्यते किं प्रतीकोपदेशेनेत्याशङ्क्याऽऽह — यत्तदिति । भावविशेषो बुद्धेर्विषयपारवश्यं परिहृत्य प्रत्यग्ब्रह्मज्ञानाभिमुख्यम् । ओङ्कारे ब्रह्मावेशनमुदाहरणेन द्रढयति — यथेति । कल्पान्तरमाह — वायुरमित्यादिना । किमिति सूत्राधिकरणमव्याकृतमाकाशमत्र गृह्यते तत्राऽऽह — वायुरे हीति । तदेव भूताकाशात्मना विपरिणतमिति भावः । तर्हि पक्षद्वये संप्लवमाने कः सिद्धान्तः स्यादित्याशङ्क्याधिकारिभेदमाश्रित्याऽऽह — तत्रेति । श्रुत्यन्तरस्यान्यथासिद्धिसंभवादोङ्कारस्य प्रतीकत्वेऽपि विप्रतिपत्तिमाशङ्क्याऽऽह — केवलमिति । इतरत्र विप्रतिपत्तिद्योतकाभावादिति भावः । प्रतीकपक्षमुपपाद्याभिधानपक्षमुपपादयति — वेदोऽयमिति । तदेव प्रपञ्चयति — तेनेति । वेदेत्यत्राऽऽदौ तच्छब्दो द्रष्टव्यः । ब्राह्मणा विदुरिति विशेषनिर्देशस्य तात्पर्यमाह — तस्मादिति । प्रतीकपक्षेऽपि वेदोऽयमित्यादिग्रन्थो निर्वहतीत्याह — अथवेति । विध्यभावे कथमर्थवादः संभवतीत्याशङ्क्य परिहरति — कथमित्यादिना । वेदत्वेन स्तुतिमोङ्कारस्य संग्रहविवरणाभ्यां दर्शयति — सर्वो हीति । ओङ्कारे सर्वस्य नामजातस्यान्तर्भावे प्रमाणमाह — तद्यथेति । तत्रैव हेत्वन्तरमवतार्य व्याकरोति — इतश्चेति । वेदितव्यं परमपरं वा ब्रह्म । ‘द्वे ब्रह्मणो वेदितव्ये’ इति श्रुत्यन्तरात् । तद्वेदनसाधनत्वेऽपि कथमोङ्कारस्य वेदत्वमित्याशङ्क्याऽऽह — इतरस्यापीति । अत एव वेदितव्यवेदनहेतुत्वादेवेत्यर्थः । प्रतीकपक्षे वाक्ययोजनां निगमयति — तस्मादिति । अभिधानपक्षे प्रतीकपक्षे चैकं वाक्यमेकैकत्र योजयित्वा पक्षद्वयेऽपि साधारण्येन योजयति — अथवेति । तस्य पूर्वोक्तनीत्या वेदत्वे लाभं दर्शयति — तस्मिन्निति । ओङ्कारस्य ब्रह्मोपास्तिसाधनत्वमित्थं सिद्धमित्युपसंहर्तुमितिशब्दः । ब्राह्मणान्तरस्य तात्पर्यमाह — अधुनेति । तद्विधानं सर्वोपास्तिशेषत्वेनेति द्रष्टव्यम् । आख्यायिकाप्रवृत्तिरारम्भः । पितरि ब्रह्मचर्यमूषुरिति संबन्धः । प्रजापतिसमीपे ब्रह्मचर्यवासमात्रेण किमित्यसौ देवादिभ्यो हितं ब्रूयादित्याशङ्क्याऽऽह — शिष्यत्वेति । शिष्यभावेन वृत्तेः संबन्धिनो ये धर्मास्तेषां मध्ये ब्रह्मचर्यस्येत्यादि योज्यम् । तेषामिति निर्धारणे षष्ठी । ऊहापोहशक्तानामेव शिष्यत्वमिति द्योतनार्थो हशब्दः । विचारार्था प्लुतिरित्यङ्गीकृत्य प्रश्नमेव व्याचष्टे — मयेति । ओमित्यनुज्ञामेव विभजते —
सम्यगिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 समानत्वेनोत्तरस्य सर्वस्यैवार्थवादस्याव्याख्येयत्वे प्राप्ते दत्तेत्यत्र तात्पर्यमाह — स्वभावत इति । दानमेव लोभत्यागरूपमुपदिष्टमिति कुतो निर्दिष्टं किन्त्वन्यदेव हितं किञ्चिदादिष्टं किं न स्यादित्याशङ्क्याऽऽह —
किमन्यदिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 यथा देवां मनुष्याश्च स्वाभिप्रायानुसारेण दकारश्रवणे सत्यर्थं जगृहुस्तथेति यावत् । दयध्वमित्यत्र तात्पर्यमीरयति — क्रूरा इति । हिंसादीत्यादिशब्देन परस्वापहारादि गृह्यते । प्रजापतेरनुशासनं प्रागासीदित्यत्र लिङ्गमाह — तदेतदिति । अनुशासनस्यानुवृत्तिमेवं व्याकरोति — यः पूर्वमिति । द इति विसन्धिकरणं सर्वत्र वर्णान्तरभ्रमापोहार्थम् । यथा दकारत्रयमत्र विवक्षितं तथा स्तनयित्नुशब्देऽपि त्रित्वं विवक्षितं चेत्प्रसिद्धिविरोधः स्यादित्याशङ्क्याऽऽह — अनुकृतिरिति । दशब्दानुकारमात्रमत्र विवक्षितं न तु स्तनयित्नुशब्दे त्रित्वं प्रमाणाभावादित्यर्थः । प्रकृतस्यार्थवादस्य विधिपर्यवसायित्वं फलितमाह — यस्मादिति । उपादानप्रकारमेवाभिनयति — प्रजापतेरिति । श्रुतिसिद्धविध्यनुसारेण भगवद्वाक्यप्रवृत्तिं दर्शयति — तथा चेति । तदेतत्त्रयं शिक्षेदित्येष विधिश्चेत्कृतं त्रयाः प्राजापत्या इत्यादिना ग्रन्थेनेत्याशङ्क्य यस्मादित्यादिना सूचितमाह — अस्येति । सर्वैरेव त्रयमनुष्ठेयं चेत्तर्हि देवादीनुद्दिश्य दकारत्रयोच्चारणमनुपपन्नमिति शङ्कते — तथेति । दमादित्रयस्य सर्वैरनुष्ठेयत्वे सतीति यावत् । किञ्च पृथक्पृथगनुशासनार्थिनो देवादयस्तेभ्यो दकारमात्रोच्चारणेनापेक्षितमनुशासनं सिद्ध्यतीत्याह — पृथगिति । किमर्थमित्यादिना पूर्वेण संबन्धः । दकारमात्रमुच्चारयतोऽपि प्रजापतेर्विभागेनानुशासनमभिसंहितमित्याशङ्क्याऽऽह — ते वेति । त्रयं सर्वैरनुष्ठेयमिति परस्य सिद्धान्तिनोऽभिप्रायस्तदभिज्ञाः सन्तो यथोक्तनीत्या विकल्पयन्तीति योजना । पराभिप्रायज्ञा इत्युपहासो वा परस्य प्रजापतेर्मनुष्यादीनां चाभिप्रायज्ञा इति । नञुल्लेखी वा पाठः । एकीयं परिहारमुत्थापयति — अत्रेति । अस्तु तेषामेषा शङ्का तथाऽपि दकारमात्रात्कीदृशी प्रतिपत्तिरित्याशङ्क्याऽऽह — तेषां चेति । तदर्थो दकारार्थो दमादिस्तस्य प्रतिपत्तिस्तद्द्वारेणादान्तत्वादिनिवृत्तिरासीदित्यर्थः । किमिति प्रजापतिर्दोषज्ञापनद्वारेण ततो देवादीननुशास्यान्दोषान्निवर्तयिष्यति तत्राऽऽह — लोकेऽपीति । दकारोच्चारणस्य प्रयोजने सिद्धे फलितमाह — अत इति । यत्तूक्तं ते वा कथमित्यादि तत्राऽऽह — दमादीति । प्रतिपत्तुं च युक्तं दमादीति शेषः । इतिशब्दः स्वयूथ्यमतसमाप्त्यर्थः । परोक्तं परिहारमङ्गीकृत्याऽख्यायिकातात्पर्यं सिद्धान्ती ब्रूते — फलं त्विति । निर्ज्ञातदोषा देवादयो यथा दकारमात्रेण ततो निवर्त्यन्त इति शेषः । इतिशब्दो दार्ष्टान्तिकप्रदर्शनार्थः । विशिष्टान्प्रत्यनुशासनस्य प्रवृत्तत्वादस्माकं तदभावादनुपादेयं दमादीति शङ्कते — नन्विति । किञ्च देवादिभिरपि प्रातिस्विकानुशासनवशादेकैकमेव दमाद्यनुष्ठेयं न तत्त्रयमित्याह — देवादिभिरिति । यथा पूर्वस्मिन्काले देवादिभिरेकैकमेवोपादेयमित्युक्तं तथा वर्तमानेऽपि काले मनुष्यैरेकैकमेव कर्तव्यं पूर्वाचारानुसारान्न तु त्रयं शिक्षितव्यं तथा च कस्यायं विधिरित्याह — अद्यत्वेऽपीति । आचारप्रामाण्यमाश्रित्य परिहरति — अत्रेति । इत्येकैकमेव नोपादेयमिति शेषः । दयालुत्वस्यानुष्ठेयत्वमाक्षिपति — तत्रेति । मध्ये दमादीनामिति यावत् । असुरैरनुष्ठितत्वेऽपि दयालुत्वमनुष्ठेयं हितसाधनत्वाद्दानादिवदिति परिहरति — नेत्यादिना । देवादिषु प्रजापतेरविशेषात्तेभ्यस्तदुपदिष्टमद्यत्वेऽपि सर्वमनुष्ठेयमित्यर्थः । हितस्यैवोपदेष्टव्यत्वेऽपि तदज्ञानात्प्रजापतिरन्यथोपदिशतीत्याशङ्क्याऽऽह — प्रजापतिश्चेति । हितज्ञस्य पितुरहितोपदेशित्वाभावस्तस्मादित्युक्तः । विशिष्टैरनुष्ठितस्यास्मदादिभिरनुष्ठेयत्वे फलितमाह — अत इति । प्राजापत्या देवादयो विग्रहवन्तः सन्तीत्यर्थवादस्य यथाश्रुतेऽर्थे प्रामाण्यमभ्युपगम्य दकारत्रयस्य तात्पर्यं सिद्धमिति । वक्तुमितिशब्दः । संप्रति कर्ममीमांसकमतमनुसृत्याऽऽह — अथवेति । कथं मनुष्येष्वेव देवासुरत्वं तत्राऽऽह — मनुष्याणामिति । अन्ये गुणा ज्ञानादयः । किं पुनर्मनुष्येषु देवादिशब्दप्रवृत्तौ निमित्तं तदाह — अदान्तत्वादीति । देवादिशब्दप्रवृत्तौ निमित्तान्तरमाह — इतरांश्चेति । मनुष्येष्वेव देवादिशब्दप्रवृत्तौ फलितमाह — अत इति । इतिशब्दो विध्युपपत्तिप्रदर्शनार्थः । मनुष्यैरेव त्रयं शिक्षितव्यमित्यत्र हेतुमाह — तदपेक्षयेति । मनुष्याणामेव देवादिभावे प्रमाणमाह — तथा हीति । त्रयं शिक्षितव्यमित्यत्र स्मृतिमुदाहरति — तथा चेति ।
इतिशब्दो ब्राह्मणसमाप्त्यर्थः ॥३॥ 【भाष्यम्】 【भाष्यम्】 सार्थवादेन विधिना सिद्धमर्थमनुवदति — दमादीति । कथं तस्य सर्वोपासनशेषत्वं तदाह — दान्त इति । अलुब्ध इति च्छेदः संप्रत्युत्तरसन्दर्भस्य तात्पर्यं वक्तुं भूमिकां करोति — तत्रेति । काण्डद्वयं सप्तम्यर्थः । अनन्तरसन्दर्भस्य तात्पर्यमाह — अथेति । पापक्षयादिरभ्युदयस्तत्फलान्युपासनानीति शेषः । अनन्तरब्राह्मणमादाय तस्य संगतिमाह — एष इत्यादिना । उक्तस्य हृदयशब्दार्थस्य पाञ्चमिकत्वं दर्शयन्प्रजापतित्वं साधयति — यस्मिन्निति । कथं हृदयस्य सर्वत्वं तदाह — उक्तमिति । सर्वत्वसंकीर्तनफलमाह — तत्सर्वमिति । तत्र हृदयस्योपास्यत्वे सिद्धे सतीत्येतत् । फलोक्तिमुत्थाप्य व्याकरोति — अभिहरन्तीति । यो वेदास्मै विदुषेऽभिहन्तीति संबन्धः । वेदनमेव विशदयति — यस्मादित्यादिना । स्वं कार्यं रूपदर्शनादि । हृदयस्य तु कार्यम् । सुखादि । असंबद्धा ज्ञातिव्यतिरिक्ताः । औचित्यमुक्ते फले कथयति — विज्ञानेति । अत्रापीति दकाराक्षरोपासनेऽपि फलमुच्यत इति शेषः । तामेव फलोक्तिं व्यनक्ति — हृदयायेति । अस्मै विदुषे स्वाश्चान्ये च ददति । बलिमिति शेषः । नामाक्षरोपासनानि त्रीणि हृदयस्वरूपोपासनमेकमिति चत्वार्युपासानान्यत्र विवक्षितानीत्याशङ्क्याऽऽह —
एवमिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणान्तरमुत्थाप्याक्षराणि व्याचष्टे — तस्येत्यादिना । सत्यशब्दार्थं सत्यज्ञानादिवाक्योपात्तं व्यावर्तयति — सच्चेति । सर्वात्मत्वस्य चतुर्थे प्रस्तुत्वं सूचयति — मूर्तं चेति । वेदनमनूद्य फलोक्तिमवतारयति — स य इति । प्रथमजत्वं प्रकटयति — सर्वस्मादिति । स यः कश्चिद्वेदेति संबन्धः । कैमुतिकसिद्धं फलान्तरमाह — किञ्चेति । वशीकृतस्य शत्रोः स्वरूपेण सत्त्वं वारयति — असच्चेति । स यो हैतमित्यादिना य एवमेतदित्यादेरेकार्थं वात्पुरुक्तिरित्याशङ्क्याऽऽह — कस्यैतदिति । कथमस्य विज्ञानस्येदं फलमित्याशङ्क्याऽऽह — अत इति । पञ्चमीपरामृष्टं स्पष्टयति —
सत्यं हीति ॥१॥ 【भाष्यम्】 【भाष्यम्】 इदमा ब्राह्मणं गृह्यते । तस्यावान्तरसंगतिमाह — महदिति । आहुतीनामेव कर्मसमवायित्वं न त्वपामित्याशङ्क्याऽऽह — अग्निहोत्रादीति । यद्यप्यापः सोमाद्या हूयमानाः कर्मसमवायिन्यस्तथाऽप्युत्तरकाले कथं तासां तथात्वं कर्मणोऽस्थायित्वादित्याशङ्क्याऽऽह — ताश्चेति । कर्मसमवायित्वमपरित्यजन्त्यस्तत्संबन्धित्वेनाऽऽपः प्रथमं प्रवृत्तास्तन्नाशोत्तरकालं सूक्ष्मेणादृष्टेनाऽऽत्मनाऽतीन्द्रियेणाऽऽत्मना तिष्ठन्तीति योजना । आप इति विशेषणं भूतान्तरव्यासेधार्थमिति मतिं वारयति — इतरेति । कथं तर्हि तासामेव श्रुतावुपादानं तदाह — कर्मेति । इति तासामेवात्र ग्रहणमिति शेषः । विवक्षितपदार्थं निगमयति — सर्वाण्येवेति । पदार्थमुक्तमनूद्य वाक्यार्थमाह — ता इति । यास्ता यथोक्ता आपस्ता एवेति यच्छब्दानुबन्धेन योजना । सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतं भूतान्तरसहिताभ्योऽद्भ्यो जायते तत्राऽऽह — तदेतदिति । तस्य ब्रह्मत्वं प्रश्नपूर्वकं विशदयति — तत्सत्यमिति । सत्यस्य ब्रह्मणो महत्त्वं प्रश्नद्वारा साधयति — कथमित्यादिना । तस्य सर्वस्रष्टृत्वं प्रश्नद्वारेण स्पष्टयति — कथमिति । महत्त्वमुपसंहरति — यस्मादिति । विशेषणत्रये सिद्धे फलितमाह — तस्मादिति । तस्यापीत्यपिशब्दो हृदयब्रह्मदृष्टान्तार्थः । बुद्धिपूर्वकमनृतं विदुषोऽपि बाधकमित्यभिप्रेत्य विशिनष्टि —
प्रमादोक्तमिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणान्तरमवतार्य व्याकरोति — अस्येत्यादिना । तत्राऽऽधिदैविकं स्थानविशेषमुपन्यस्यति — तदित्यादिना । संप्रत्याध्यात्मिकं स्थानविशेषं दर्शयति — यश्चेति । प्रदेशभेदवर्तिनोः स्थानभेदेन भेदं शङ्कित्वा परिहरति — तावेताविति । अन्योन्यमुपकार्योपकारकत्वेनान्योन्यस्मिन्प्रतिष्ठितत्वं प्रश्नपूर्वकं प्रकटयति — कथमित्यादिना । प्राणैश्चक्षुरादिभिरिन्द्रियैरिति यावत् । अनुगृह्णन्नादित्यमण्डलात्मानं प्रकाशयन्नित्यर्थः । प्रासंगिकमुपासनाप्रसंगागतमित्यर्थः । तत्प्रदर्शनस्य किं फलमित्याशङ्क्याऽऽह — कथमिति । पुरुषद्वयस्यान्योन्यमुपकार्योपकारकत्वमुक्तं निगमयति — नेत्यादिना ।
पुनःशब्देन मृतेरुत्तरकालो गृह्यते । रश्मीनामचेतनत्वादिशब्दः । पुनर्नकारोच्चारणमन्वयप्रदर्शनार्थम् ॥२॥ 【भाष्यम्】 【भाष्यम्】 तत्र स्थानद्वयसंबन्धिनः सत्यस्य ब्रह्मणो ध्याने प्रस्तुते सतीत्यर्थः । तत्रेति प्रथमव्याहृतौ शिरोदृष्ट्यारोपे विवक्षिते । तस्योपनिषदित्यादि व्याचष्टे — तस्येत्यादिना । यथा लोके गवादिः स्वेनाभिधानेनाभिधीयमानः संमुखीभवति तद्वदित्याह — लोकवदिति । नामोपास्तिफलमाह —
अहरिति चेति ॥३॥ 【भाष्यम्】 【भाष्यम्】 यथा मण्डलपुरुषस्य व्याहृत्यवयवस्य सोपनिषत्कस्याधिदैवतमुपासनमुक्तं तथाऽध्यात्मं चाक्षुषपुरुषस्योक्तविशेषणस्योपासनमुच्यते इत्याह — एवमिति । चाक्षुषस्य पुरुषस्य कथमहमित्युपनिषदिष्यते तत्राऽऽह — प्रत्यगिति । हन्तेर्जहातेश्चाहमित्येतद्रूपमिति यो वेद स हन्ति पाप्मानं जहाति चेति पूर्ववत्फलवाक्यं योज्यमित्याह —
पूर्ववदिति ॥४॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणान्तरमुत्थापयति — उपाधीनामिति । अनेकविशेषणत्वाच्च प्रत्येकं तेषामिति शेषः । तत्प्रायत्वे हेतुमाह — मनसीति । प्रकारान्तरेण तत्प्रायत्वमाह — मनसा चेति । तस्य भास्वररूपत्वं साधयति — मनस इति । तस्य ध्यानार्थं स्थानं दर्शयति — तस्मिन्निति । औपाधिकमिदं परिमाणं स्वाभाविकं त्वानन्त्यमित्यभिप्रेत्याऽऽह — स एष इति । यदुक्तं सर्वस्येशान इति तन्निगमयति — सर्वमिति । यथाऽन्यत्र तथाऽत्राफलमिदमुपासनमकार्यमिति चेन्नेत्याह —
एवमिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणान्तरमुद्भाव्य विभजते — तथैवेत्यादिना । तमसो विदानाद्विद्युदिति संबन्धः । तदेव स्फुटयति — मेघेति । उक्तमेव फलं प्रकटयति —
एनमिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणान्तरमवतारयति — पुनरिति । तां धेनुमुपासीतेति संबन्धः । वाचो धेन्वाश्च सादृश्यं विशदयति — यथेत्यादिना । स्तनचतुष्टयं भोक्तृत्रयं च प्रश्नपूर्वकं प्रकटयति — के पुनरित्यादिना । कथं देवा यथोक्तौ स्तनावुपजीवन्ति तत्राऽऽह — आभ्यां हीति । हन्त यद्यपेक्षितमित्यर्थः स्वधामन्नम् । प्रस्राव्यते प्रस्रुता क्षरणोद्यता क्रियते । मनसा हीत्यादिनोक्तं विवृणोति — मनसेति । फलाश्रवणादेतदुपासनमकिञ्चित्करमित्याशङ्क्याऽऽह — एवमिति ।
ताद्भाव्यं यथोक्तवागुपाधिकब्रह्मरूपत्वमित्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणान्तरमनूद्य तस्य तात्पर्यमाह — अयमिति । अन्नपानस्य पक्ता । तत्सद्भावे मानमाह — तस्येति । क्रियायाः श्रवणस्य तदिति विशेषणं तद्यथा भवति तथेत्यर्थः । कौक्षेयाग्न्युपाधिकस्य परस्योपासने प्रस्तुते सतीत्याह —
तत्रेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणान्तरस्य तात्पर्यमाह — सर्वेषामिति । फलं चाश्रुतफलानामिति शेषः । किमिति विद्वान्वायुमागच्छति तमुपेक्ष्यैव ब्रह्मलोकं कुतो न गच्छतीत्याशङ्क्याऽऽह — अन्तरिक्ष इति । आदित्यं प्रत्यागमने हेतुमाह — आदित्य इति । उक्तेऽर्थे वाक्यं पातयति — तस्मा इति ।
बहून्कल्पानित्यवान्तरकल्पोक्तिः ॥१॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मोपासनप्रसंगेन फलवदब्रह्मोपासनमुपन्यस्यति — एतदिति । यद्व्याहित इति प्रतीकमादाय व्याचष्टे — ज्वरादीति । कर्मक्षयहेतुरित्यत्र कर्मशब्देन पापमुच्यते । परमं हैव लोकमित्यत्र तपसोऽनुकूलं फलं लोकशब्दार्थः । अस्तु ग्रामादरण्यगमनं तथाऽपि कथं तपस्त्वमित्याशङ्क्याऽऽह —
ग्रामादिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणान्तरं गृहीत्वा तात्पर्यमाह — अन्नमिति । यथा पूर्वस्मिन्ब्राह्मणे फलवदब्रह्मोपासनमुक्तं तद्वदित्याह — तथेति । एतदिति ब्रह्मविषयोक्तिः । उपास्यं ब्रह्म निर्धारयितुं विचारयति — अन्नमित्यादिना । अन्नस्य विनाशित्वेऽपि ब्रह्मत्वं किं न स्यादत आह — ब्रह्म हीति । कथमन्नं विना प्राणस्य शोषप्राप्तिस्तत्राऽऽह — अत्ता हीति । प्रत्येकं नाशित्वमतःशब्दार्थः । किंस्विदित्यादिवाक्यस्यार्थं विवृणोति — अन्नप्राणाविति । कस्त्विति प्रतीकमादाय व्याकरोति — एनयोरिति । यद्येवमुक्तरीत्या परमत्वं यदि नास्तीत्यर्थः । उक्तमसंकीर्णं गुणद्वयं संक्षिप्याऽऽह — सर्वभूतेति । अन्नगुणं विना प्राणगुणादेतद्व्यानं सिद्ध्यतीत्याशङ्क्याऽऽह — न हीति । प्राणगुणस्याप्यन्नगुणत्वसंभवादलं प्राणेनेत्याशङ्क्याऽऽह — नापीति । गुणद्वयस्य परस्परापेक्षामनुभवानुसारेण स्फोरयति — यदा त्विति । आयतनवतो बलवतश्च कृतार्थतेत्यत्र तैत्तिरीयश्रुतिं संवादयति — युवा स्यादिति ।
आशिष्ठो दृढिष्ठो बलिष्ठस्तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यादित्येतदादिशब्देन गृह्यते ॥१॥ 【भाष्यम्】 【भाष्यम्】 अन्नप्राणयोर्गुणद्वयविशिष्टयोर्मिलितयोरुपासनमुक्तमिदानीं ब्राह्मणान्तरमादाय तात्पर्यमाह — उक्थमिति । सत्सु शस्त्रान्तरेषु किमित्युक्थमुपास्यत्वेनोपन्यस्यते तत्राऽऽह — तद्धीति । कस्मिन्किमारोप्य कस्योपास्यत्वमिति प्रश्नद्वारा विवृणोति — किं पुनरिति । तस्मिन्नुक्थदृष्टौ हेतुमाह — प्राणश्चेति । तस्मिन्नुक्थशब्दस्य समवेतार्थत्वं प्रश्नपूर्वकमाह — कथमित्यादिना । उत्थानस्य स्वतोऽपि संभवान्न प्राणकृतत्वमित्याशङ्क्याऽऽह — न हीति ।
उक्थस्य प्राणस्यैतद्विज्ञानतारतम्यमपेक्ष्य सायुज्यं सालोक्यं च व्याख्येयम् ॥१॥ 【भाष्यम्】 【भाष्यम्】 यजुःशब्दस्यान्यत्र रूढत्वादयुक्तं प्राणविषयत्वमिति शङ्कित्वा परिहरति — कथमित्यादिना । असत्यपि प्राणे योगः संभवतीत्याशङ्क्याऽऽह — न हीति । प्रकरणानुगृहीतप्राणशब्दश्रुत्या यजुःशब्दस्य रूढिं त्यक्त्वा योगोऽङ्गीक्रियत इत्याह —
अत इति ॥२॥ 【भाष्यम्】 【भाष्यम्】 संगमनादित्येतदेव व्याचष्टे —
साम्येति ॥३॥ 【भाष्यम्】 【भाष्यम्】
शाखान्तरशब्देन माध्यन्दिनशाखोच्यते ॥४॥ 【भाष्यम्】 【भाष्यम्】 वृत्तमनूद्य गायत्रीब्राह्मणस्य तात्पर्यमाह — ब्रह्मण इत्यादिना । छन्दोन्तरेष्वपि विद्यमानेषु किमिति गायत्र्युपाधिकमेव ब्रह्मोपास्यमिष्यते तत्राऽऽह — सर्वच्छन्दसामिति । तत्प्राधान्ये हेतुमाह — तत्प्रयोक्त्रिति । तुल्यं प्रयोक्तृप्राणत्राणसामर्थ्यं छन्दोऽन्तराणामपीति चेन्नेत्याह — न चेति । प्रमाणाभावादिति भावः । किञ्च प्राणात्मभावो गायत्र्या विवक्ष्यते प्राणश्च सर्वेषां छन्दसां निर्वर्तकत्वादात्मा तथा च सर्वच्छन्दोव्यापकगायत्र्युपाधिकब्रह्मोपासनमेवात्र विवक्षितमित्याह — प्राणात्मेति । तदात्मभूता गायत्रीत्युक्तं व्यक्तीकरोति — प्राणश्चेति । तत्प्रयोक्तृगयत्राणाद्धि गायत्री । प्राणश्च वागादीनां त्राता । ततश्चैकलक्षणत्वात्तयोस्तादात्म्यमित्यर्थः । प्राणगायत्र्योस्तादात्म्ये फलितमाह — तस्मादिति । गायत्रीप्राधान्ये हेत्वन्तरमाह — द्विजोत्तमेति । तदेव स्फुटयति — गायत्र्येति । तत्प्राधान्ये हेत्वन्तरमाह — ब्राह्मणा इति । कथमेतावता गायत्रीप्राधान्यं तत्राऽऽह — तच्चेति । अतो वक्तव्यमित्यत्रातः शब्दार्थमाह — गायत्र्या हीति । अधिकारित्वकृतं कार्यमाह — अत इति । तच्छब्दो गायत्रीविषयः । गायत्रीवैशिष्ट्यं परामृश्य फलितमुपसंहरति — तस्मादिति । गायत्रीप्रथमपादस्य सप्ताक्षरत्वं प्रतीयते न त्वष्टाक्षरत्वमित्याशङ्क्याऽऽह — यकारेणेति । गायत्रीप्रथमपादस्य त्रैलोक्यनाम्नश्च संख्यासामान्यप्रयुक्तं कार्यमाह — एतदिति । गायत्रीप्रथमपादे त्रैलोक्यदृष्ट्यारोपस्य प्रयोजनं दर्शयति — एवमिति ।
प्रथमपादज्ञाने विराडात्मकत्वं फलतीत्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 प्रथमे पादे त्रैलोक्यदृष्टिवद्द्वितीये पादे कर्तव्या त्रैविद्यदृष्टिरित्याह — तथेति । दृष्टिविध्युपयोगित्वेन संख्यासामान्यं कथयति — ऋच इति । संख्यासामान्यफलमाह — एतदिति । विद्याफलं दर्शयति —
स यावतीति ॥२॥ 【भाष्यम्】 【भाष्यम्】 प्रथमद्वितीयपादयोस्त्रैलोक्यविद्यदृष्टिवत्तृतीये पादे प्राणादिदृष्टिः कर्तव्येत्याह — तथेति । ननु त्रिपदा गायत्री व्याख्याता चेत्किमुत्तरग्रन्थेनेत्याशङ्क्याऽऽह — अथेति । शब्दात्मकगायत्रीप्रकरणविच्छेदार्थोऽथशब्दः । यद्वै चतुर्थमित्यादिग्रन्थस्य पूर्वेण पौनरुक्त्यमाशङ्क्याऽऽह — तुरीयमिति । इहेति प्रकृतवाक्योक्तिः । योगिभिर्दृश्यत इवेति लक्ष्यते न तु मुख्यमीश्वरस्य दृश्यत्वमतीन्द्रियत्वादित्याह — दृश्यत इवेति । ’लोका रजांस्युच्यन्ते’ इति श्रुत्यन्तरमाश्रित्याऽऽह — समस्तमिति । आधिपत्यभावेनेति कथं व्याख्यानमित्याशङ्क्याऽऽह — उपर्युपरीति । वीप्सामाक्षिपति — नन्विति । सर्वं रजस्तपतीत्येतावतैव सर्वाधिपत्यस्य सिद्धत्वाद्ध्यर्था वीप्सेति चोद्यं दूषयति — नैष दोष इति । येषां लोकानामिति यावत् । मण्डलपुरुषस्य निरङ्कुशमाधिपत्यमित्यत्र च्छन्दोग्यश्रुतिमनुकूलयति — ये चेति । वीप्सार्थवत्त्वमुपसंहरति — तस्मादिति । चतुर्थपादज्ञानस्य फलवत्त्वं कथयति —
यथेति ॥३॥ 【भाष्यम्】 【भाष्यम्】 अभिधानाभिधेयात्मिकां गायत्रीं व्याख्यायाभिधानस्याभिधेयतन्त्रत्वमाह — सैषेति । आदित्ये प्रतिष्ठिता मूर्तामूर्तात्मिका गायत्रीत्यत्र हेतुमाह — मूर्तेति । भवतु मूर्तामूर्तब्राह्मणानुसारेणाऽऽदित्यस्य तत्सारत्वं तथाऽपि कथं गायत्र्यास्तत्प्रतिष्ठितत्वं पृथगेव सा मूर्ताद्यात्मिका स्थास्यतीत्याशङ्क्याऽऽह — रसेति । तद्वदादित्यसंबन्धाभावे मूर्ताद्यात्मिका गायत्री स्यादप्रतिष्ठितेति शेषः । सारादृते स्वातन्त्र्येण मूर्तादेर्न स्थितिरिति स्थिते फलितमाह — तथेति । आदित्यस्य स्वातन्त्र्यं वारयति — तद्वा इति । सत्यशब्दस्यानृतविपरीतवाग्विषयत्वं शङ्काद्वारा वारयति — किं पुनरित्यादिना । चक्षुषः सत्यत्वे प्रमाणाभावं शङ्कित्वा दूषयति — कथमित्यादिना । श्रोतरि श्रद्धाभावे हेतुमाह — श्रोतुरिति । द्रष्टुरपि मृषादर्शनं संभवतीत्याशङ्क्याऽऽह — न त्विति । क्वचित्कथञ्चित्संभवेऽपि श्रोत्रपेक्षया द्रष्टरि विश्वासो दृष्टो लोकस्येत्याह — तस्मान्नेति । विश्वासातिशयफलमाह — तस्मादिति । आदित्यस्य चक्षुषि प्रतिष्ठितत्वं पञ्चमेऽपि प्रतिपादितमित्याह — उक्तं चेति । सत्यस्य स्वातन्त्र्यं प्रत्याह — तद्वा इति । सत्यस्य प्राणप्रतिष्ठितत्वं च पाञ्चमिकमित्याह — तथा चेति । सूत्रं प्राणो वायुः । तच्छब्देन सत्यशब्दितसर्वभूतग्रहणम् । सत्यं बले प्रतिष्ठितमित्यत्र लोकप्रसिद्धिं प्रमाणयति — तस्मादिति । तदेवोपपादयति — लोकेऽपीति । तदेव व्यतिरेकमुखेनाऽऽह — न हीति । एतेन गायत्र्याः सूत्रात्मत्वं सिद्धमित्याह — एवमिति । तस्मिन्नर्थे वाक्यं योजयति — सैषेति । गायत्र्याः प्राणत्वे किं सिद्ध्यति तदाह — अत इति । तदेव स्पष्टयति — यस्मिन्नित्यादिना । गायत्रीनामनिर्वचनेन तस्या जगज्जीवनहेतुत्वमाह — सा हैषेति । प्रयोक्तृशरीरं सप्तम्यर्थः । गायन्तीति गया वागुपलक्षिताश्चक्षुरादयः । ब्राह्मण्यमूलत्वेन स्तुत्यर्थं गायत्र्या एव सावित्रीत्वमाह — स आचार्य इति । पच्छः पादशः । सावित्र्या गायत्रीत्वं साधयति — स इति ।
अतः सावित्री गायत्रीति शेषः ॥४॥ 【भाष्यम्】 【भाष्यम्】 मतान्तरमुद्भावयति — तामेतामिति । ’तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् । श्रेष्ठं सर्वधातमं तुरं भागस्य धीमहि’ इत्यनुष्टुभं सावित्रीमाहुः । सवितृदेवताकत्वादित्यर्थः । उपनीतस्य माणवकस्य प्रथमतः सरस्वत्यां वर्णात्मिकायां सापेक्षत्वं द्योतयितुं हि शब्दः । दूषयति — नेत्यादिना । नन्वपेक्षितवागात्मकसरस्वतीसमर्पणं विना गायत्रीसमर्पणमुक्तमिति शङ्कित्वा परिहरति — कस्मादित्यादिना । यदि हेत्यादेरुत्तरस्य ग्रन्थस्याव्यवहितपूर्वग्रन्थासंगतिमाशङ्क्याऽऽह — किञ्चेदमिति । सावित्र्या गायत्रीत्वमिति यावत् । इवशब्दार्थं दर्शयति — न हीति ।
यद्यपि बहु प्रतिगृह्णाति विद्वानिति पूर्वेण संबन्धः । तथाऽपि न तेन प्रतिग्रहजातेनैकस्यापि गायत्रीपदस्य विज्ञानफलं भुक्तं स्यात् । दूरतस्तु दोषाधायकत्वं तस्येत्यर्थः ॥५॥ 【भाष्यम्】 【भाष्यम्】 गायत्रीविदः प्रतिगृह्णतो दोषाभावं सामान्येनोक्त्वा विशेषस्तदभावमाह — स य इति । यथा त्रैलोक्यावच्छिन्नस्य त्रैविद्यावच्छिन्नस्य चार्थस्य प्रतिग्रहेण पादद्वयविज्ञानफलमेव भुक्तं नाधिकं दूषणं तथेति यावत् । प्रतिग्रहीता दाता वा नैवंविधः संभाव्यते किन्तु स्तुत्यर्थं श्रुत्यैतत्कल्पितमित्याह — कल्पयित्वेति । उक्तमेव संगृह्णाति — पादत्रयेति । कल्पयित्वेदमुच्यत इति किमिति कल्प्यते मुख्यमेवैतत्किं न स्यादित्याशङ्क्याऽऽह — न चेति । कल्पनाऽपि तर्हि किमर्थेत्याशङ्क्याऽऽह — गायत्रीति । अङ्गीकृत्योत्तरवाक्यमुत्थापयति — दातेति । तदेवाऽऽकाङ्क्षापूर्वकमाह — कस्मादिति । वागात्मकपदत्रयविज्ञानफलभोगोक्त्यानन्तर्यमथशब्दार्थः । नैव प्राप्यं प्रतिग्रहेण केनचिदपि नैव मुक्तं स्यादित्यर्थः । तत्रैव वैधर्म्यदृष्टान्तमाह — यथेति । तानि प्रतिग्रहेण यथाऽऽप्यानि न तथैतदाप्यमित्यर्थः । कुत इत्यादिवाक्यस्य तात्पर्यमाह — एतान्यपीति । गायत्रीविदः स्तुतिरुक्ता तत्फलमाह — तस्मादिति ।
एवम्प्रकारा पादचतुष्टयरूपा सर्वात्मिकेत्यर्थः ॥६॥ 【भाष्यम्】 【भाष्यम्】 प्रकृतमुपासनमेव मन्त्रेण संगृह्णाति — तस्या इत्यादिना । ध्येयं रूपमुक्त्वा ज्ञेयं गायत्र्या रूपमुपन्यस्यति — अतःपरमिति । चतुर्थस्य पादस्य पादत्रयापेक्षया प्राधान्यमभिप्रेत्याऽऽह — अत इति । यथोक्तनमस्कारस्य प्रयोजनमाह — असाविति । द्विविधमुपस्थानमाभिचारिकमाभ्युदयिकं च तत्राऽऽद्यं द्वेधा व्युत्पादयति — यं द्विष्यादिति । नामगृह्णीयात्तदीयं नाम गृहीत्वा च तदभिप्रेतं मा प्रापदित्यनेनोपास्थानमिति संबन्धः । आभ्युदयिकमुपस्थानं दर्शयति — अहमिति । कीदृगुपस्थानमत्र मन्त्रपदेन कर्तव्यमित्याशङ्क्य यथारुचि विकल्पं दर्शयति —
असाविति ॥७॥ 【भाष्यम्】 【भाष्यम्】 किं तद्गायत्रीविज्ञानप्रतिकूलमुपलभ्यते तदाह — अथेति । पूर्वापरविरोधावद्योतकोऽथशब्दः । तथाऽपि गायत्रीविज्ञानस्य फलवत्त्वे सति प्रतिकूलमिदं हस्तीभूतस्य तव मां प्रति वहनमित्याशङ्क्याऽऽह एकाङ्गेति । राजा ब्रूते श्रुण्विति । मुखविज्ञानस्य दृष्टान्तावष्टम्भेन फलमाचष्टे — यदीत्यादिना । इवशब्दोऽवधारणार्थः । पापसंस्पर्शराहित्यं शुद्धिस्तत्फलासंस्पर्शस्तु पूततेति भेदः । गायत्रीज्ञानस्य क्रममुक्तिफलत्वं दर्शयति —
गायत्र्यात्मेति ॥८॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणान्तरस्य तात्पर्यमाह — यो ज्ञानकर्मेति । आदित्यस्याप्रस्तुतत्वात्कथं तत्प्रार्थनेत्याशङ्क्याऽऽह — अस्ति चेति । तथाऽपि कथमादित्यस्य प्रसंगस्तत्राऽऽह — तदुपस्थानमिति । नमस्ते तुरीयायेति हि दर्शितमित्यर्थः । आदित्यस्य प्रसंगे सति फलितमाह — अत इति । समाहितचेतसां प्रयततां दृश्यत्वान्नापिहितमेव किन्तु पिहितमिवेत्यत्र हेतुमाह — असमाहितेति । जगतः पोषणाद्घर्महिमवृष्ट्यादिदानेनेति शेषः । अपावरणकरणमेव विवृणोति — दर्शनेति । सत्यं परमार्थस्वरूपं ब्रह्म धर्मस्वभाव इति यावत् । ननु दर्शनार्थं तत्प्रतिबन्धकनिवृत्तौ पूषणि नियुक्ते किमित्यन्ये संबोध्य नियुज्यन्ते तत्राऽऽह — पूषन्नित्यादीनीति । दर्शनादृषिरित्युक्तं विशदयति — स हीति । ’सूर्य आत्मा जगतस्तस्थुषश्च’ इति मन्त्रवर्णमाश्रित्योक्तम् — जगत आत्मेति । ’चक्षुर्मित्रस्य वरुणस्याग्नेः’ इत्येतदाश्रित्याऽऽह — चक्षुश्चेति । स्वाभाविका रश्मयो न निगमयितुं शक्या इत्याशङ्क्याऽऽह — समूहेति । मदीयतेजः संक्षेपं विनाऽपि ते मत्स्वरूपदर्शनं स्यादित्याशङ्क्याऽऽह — तेजसा हीति । विद्योतनं विद्युत्प्रकाशस्तस्मिन्सति रूपाणां स्वरूपमञ्जसा चक्षुषा न शक्यं द्रष्टुं तस्य चक्षुर्मोषित्वात्तथेत्याह — विद्योतन इवेति । तेजःसंक्षेपस्य प्रयोजनमाह — यदिति । किञ्च नाहं त्वां भृत्यवद्याचेऽभेदेन ध्यातत्वादित्याह — योऽसाविति । व्याहृतिशरीरे कथमहमिति प्रयोगोपपत्तिरित्याशङ्क्याऽऽह — अहरिति । तदेवेदमित्यहंरूपमुच्यते । ननु तव शरीरपातेऽपि नामृतत्वमाध्यात्मिकवाय्वादिप्रतिबन्धादत आह — ममेति । वायुग्रहणस्योपलक्षणत्वं विवक्षित्वाऽऽह — तथेति । देहस्थदेवतानामप्रतिबन्धकत्वेऽपि देहस्यैव सूक्ष्मतां गतस्य प्रतिबन्धकत्वान्न तवामृतत्वमित्याशङ्क्याऽऽह — अथेति । मन्त्रान्तरमवतार्य व्याकरोति — अथेदानीमित्यादिना । अवतीत्योमीश्वरः सर्वस्य रक्षकस्तस्य जाठराग्निप्रतीकत्वेन ध्यातत्वादग्निशब्देन निर्देशः । एवमग्निदेवतां संबोध्य नियुङ्क्ते — स्मरेति । इष्टां गतिं जिगमिषता किमिति स्मरणे देवता नियुज्यते तत्राऽऽह — स्मरणेति । प्रार्थनान्तरं समुच्चिनोति — किञ्चेति । उक्तमेव व्यनक्ति — नेत्यादिना । अस्मान्नयेति पूर्वेण संबन्धः । प्रज्ञानग्रहणं कर्मादीनामुपलक्षणम् । प्रार्थनान्तरं दर्शयति — किञ्चेति । पापवियोजनफलमाह — तेनेति । भवद्भिराराधितो भवतां यथोक्तं फलं साधयिष्यामीत्याशङ्क्याऽऽह — किं त्विति । बहुतमत्वं भक्तिश्रद्धातिरेकयुक्तत्वम् । यागादिनाऽपि परिचरणं क्रियतामित्याशङ्क्याऽऽह — अन्यदिति ।
सन्ततनमस्कारोक्त्या परिचरेमेति पूर्वेण संबन्धः । अशक्तिश्च मुमूर्षावशादिति द्रष्टव्यम् । इतिशब्दोऽध्यायसमाप्त्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 ओङ्कारो दमादित्रयं ब्रह्माब्रह्मोपासनानि तत्फलं तदर्था गतिरादित्याद्युपस्थानमित्येषोऽर्थः सप्तमे निवृत्तः । संप्रति प्राधान्येनाब्रह्मोपासनं सफलं श्रीमन्थादिकर्म च वक्तव्यमित्यष्टममध्यायमारभमाणो ब्राह्मणसंगतिमाह — प्राण इति । तस्मात्प्राणो गायत्रीति युक्तमुक्तमिति शेषः । प्राणस्य ज्येष्ठत्वादि नाद्यापि निर्धारितमिति शङ्कित्वा परिहरति — कथमित्यादिना । प्रकारान्तरेण पूर्वोत्तरग्रन्थसंगतिमाह — अथवेति । आदिशब्दादन्नवैशिष्ट्यादिनिर्देशः । तत्रेति प्राणस्यैव विशिष्टगुणकस्योपास्यत्वोक्तिः । हेतुर्ज्येष्ठत्वादिस्तन्मात्रमिहानन्तरग्रन्थे कथ्यत इति शेषः । तदेवं पूर्वग्रन्थस्य हेतुमत्त्वादुत्तरस्य च हेतुत्वादानन्तर्येण पौर्वापर्येण पूर्वग्रन्थेन सहोत्तरग्रन्थजातं संबध्यत इति फलितमाह — आनन्तर्येणेति । वक्ष्यमाणप्राणोपासनस्य पूर्वोक्तोक्थाद्युपास्तिशेषत्वमाशङ्क्य गुणभेदात्फलभेदाच्च नैवमित्यभिप्रेत्याऽऽह — न पुनरिति । किमिति प्राणोपासनमिह स्वतन्त्रमुपदिश्यते तत्राऽऽह — खिलत्वादिति । इतिशब्दो ब्राह्मणारम्भोपसंहारार्थः । एवं ब्राह्मणारम्भं प्रतिपाद्याक्षराणि व्याचष्टे — यः कश्चिदित्यादिना । यच्छब्दस्य पुनरुपादानमन्वयार्थम् । निपातयोरर्थमवधारणमेव प्रागुक्तं प्रकटयति — भवत्येवेति । प्रश्नाय कोऽसौ ज्येष्ठश्च श्रेष्ठश्चेति प्रश्नस्तदर्थमिति यावत् । प्राणस्य ज्येष्ठत्वादिकमाक्षिपति — कथमिति । तत्र हेतुमाह — यस्मादिति । तस्माज्ज्येष्ठत्वादिकं तुल्यमेवेति शेषः । संबन्धाविशेषमङ्गीकृत्य ज्येष्ठत्वं प्राणस्य साधयति — तथाऽपीति । उक्तमेव समर्थयते — निषेककालादिति । तत्रापि विप्रतिपन्नं प्रत्याह — प्राणे हीति । ज्येष्ठत्वेनैव श्रेष्ठत्वे सिद्धे किमिति पुनरुक्तिरित्याशङ्क्याऽऽह — भवति त्विति । ज्येष्ठत्वे सत्यपि श्रेष्ठत्वाभावमुक्त्वा तस्मिन्सत्यपि ज्येष्ठत्वाभावमाह — मध्यम इति । इहेति प्राणोक्तिः । प्राणश्रेष्ठत्वे प्रमाणाभावमाशङ्क्य प्रत्याह — कथमित्यादिना । पूर्वोक्तमुपास्तिफलमुपसंहरति — सर्वथाऽपीति । आरोपेणानारोपेण वेत्यर्थः । ज्येष्ठस्य विद्याफलत्त्वमाक्षिपति — नन्विति । तस्य विद्याफलत्वं साधयति — उच्यत इति । इच्छातो ज्यैष्ठ्यं दुःसाध्यमिति दोषस्यासत्त्वमाह — नेति । तत्र हेतुमाह — प्राणवदिति ।
यथा प्राणकृताशनादिप्रयुक्तश्चक्षुरादीनां वृत्तिलाभस्तथा प्राणोपासकाधीनं जीवनमन्येषां स्वानां च भवतीति प्राणदर्शिनो ज्येष्ठत्वं न वयोनिबन्धनमित्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 वसिष्ठत्वमपि प्राणस्यैवेति वक्तुमुत्तरवाक्यमुत्थाप्य व्याचष्टे — यो हेत्यादिना । फलेन प्रलोभितं शिष्यं प्रश्नाभिमुखं प्रत्याह — उच्यतामित्यादिना । वाचो वसिष्ठत्वं द्विधा प्रतिजानीते — वासयतीति । वासयत्यतिशयेनेत्युक्तं विशदयति — वाग्ग्मिनो हीति । वासयन्ति चेति द्रष्टव्यम् । वस्ते वेत्युक्तं स्फुटयति — आच्छादनार्थस्य वेति । आच्छादनार्थत्वमनुभवेन साधयति — अभिभवन्तीति । उक्तमुपास्तिफलं निगमयति —
तेनेति ॥२॥ 【भाष्यम्】 【भाष्यम्】 गुणान्तरं वक्तुं वाक्यान्तरमादाय व्याचष्टे — यो ह वा इति । समे प्रतिष्ठा विद्यां विनाऽपि स्यादित्याशङ्क्याऽऽह — तथेति । विषमे च प्रतितिष्ठतीति संबन्धः । विषमशव्दस्यार्थमाह — दुर्गमने चेति । इदानीं प्रश्नपूर्वकं प्रतिष्ठां दर्शयति — यद्येवमिति । प्रतिष्ठात्वं चक्षुषो व्युत्पादयति — कथमित्यादिना । विद्याफलं निगमयति — अत इति ।३॥ वाक्यान्तरमादाय विभजते — यो ह वै संपदमिति । प्रश्नपूर्वकं संपदुत्पत्तिवाक्यमुपादत्ते — किं पुनरिति । श्रोत्रस्य संपद्गुणत्वं व्युत्पादयति — कथमिति । अध्येयत्वमध्ययनार्हत्वम् । तथाऽपि कथं श्रोत्रं संपद्गुणकमित्याशङ्क्याऽऽह — वेदेति । पूर्वोक्तं फलमुपसंहरति —
अत इति ॥४॥ 【भाष्यम्】 【भाष्यम्】 वाक्यान्तरमादाय विभजते — यो ह वा आयतनमिति । सामान्येनोक्तमायतनं प्रश्नपूर्वकं विशदयति — किं पुनरिति । मनसो विषयाश्रयत्वं विशदयति — मन इति । इन्द्रियाश्रयत्वं तस्य स्पष्टयति — मनःसंकल्पेति । पूर्ववत्फलं निगमयति —
अत इति ॥५॥ 【भाष्यम्】 【भाष्यम्】 गुणान्तरं वक्तुं वाक्यान्तरं गृहीत्वा तदक्षराणि व्याकरोति — यो हेत्यादिना । वागादीन्द्रियाणि तत्तद्गुणविशिष्टानि शिष्ट्वा रेतो विशिष्टगुणमाचक्षाणस्य प्रकरणविरोधः स्यादित्याशङ्क्याऽऽह — रेतसेति । विद्याफलमुपसंहरति —
तद्विज्ञानेति ॥६॥ 【भाष्यम्】 【भाष्यम्】 उक्ता वसिष्ठत्वादिगुणा न वागादिगामिनः किन्तु मुख्यप्राणगता एवेति दर्शयितुमाख्यायिकां करोति — ते हेत्यादिना । ईयसुन्प्रयोगस्य तात्पर्यमाह — शरीरं हीति । किमिति शरीरस्य पापीयस्त्वमुच्यते तदाह — वैराग्यार्थमिति । शरीरे वैराग्योत्पादनद्वारा तस्मिन्नहंममाभिमानपरिहारार्थमित्यर्थः । वसिष्ठो भवतीत्युक्तवानिति संबन्धः । किमिति साक्षादेव मुख्यं प्राणं वसिष्ठत्वादिगुणं नोक्तवान्प्रजापतिः स हि सर्वज्ञ इत्याशङ्क्याह —
जानन्नपीति ॥७॥ 【भाष्यम्】 【भाष्यम्】 वाग्घोच्चक्रामेत्यादेस्तात्पर्यमाह — त एवमिति । उक्तेऽर्थे श्रुत्यक्षराणि व्याचष्टे — तत्रेत्यादिना । कार्याकार्यादिविषयमित्यादिशब्देनोपेक्षणीयसंग्रहः । चक्षुरादिभिर्दत्तोत्तरा पुनर्वाक्किमकरोदिति तत्राऽऽह — आत्मन इति ॥८–१२॥ वागादिप्रकरणविच्छेदार्थोऽथशब्दः । उत्क्रमणं करिष्यन्यदा भवतीति शेषः । उक्तमर्थं दृष्टान्तेन स्पष्टयन्नुत्तरवाक्यमवतारयति — किमिवेत्यादिना । प्राणस्य श्रेष्ठत्वं वागादिभिर्निर्धारितमित्याह — ते वागादय इति । तर्हि तत्फलेन भवितव्यमित्याह — यद्येवमिति । यथोक्तस्य प्राणसंवादस्य काल्पनिकत्वं दर्शयति — अयं चेति । कल्पनाफलं सूचयति — विदुष इति । तदेव स्पष्टयति अनेन हीति । उपास्यपरीक्षणप्रकारो विवक्षितश्चेत्किं संवादेनेत्याशङ्क्याऽऽह — स एष इति । संवादस्य मुख्यार्थत्वादकल्पितत्वमाशङ्क्याऽऽह — न हीति । संवादस्य कल्पितत्वे फलितमाह — तस्मादिति । एवं प्राणसंवादस्य तात्पर्यमुक्त्वा प्रकृतामक्षरव्याख्यामेवानुवर्तयति —
बलिमिति ॥१३॥ 【भाष्यम्】 【भाष्यम्】 सा ह वागिति प्रतीकमादाय व्याचष्टे — प्रथममिति । तेन वसिष्ठगुणेन त्वमेव वसिष्ठोऽसि तथा च तद्वसिष्ठत्वं तवैवेति योजना । बलिदानमङ्गीकृत्यान्नवाससी पृच्छसि — यद्येवमित्यादिना । एवङ्गुणविशिष्टस्य ज्येष्ठत्वश्रेष्ठत्ववसिष्ठत्वादिसंबद्धस्येत्यर्थः । यदिदमित्यादि वाक्यं व्याचष्टे — यदिदमिति । प्रकृतेन शुनामन्नेन कीटादीनां चान्नेन सहयत्किञ्चित्कृम्यन्नं दृश्यते तत्सर्वमेव तवान्नमिति योजना । तदेव स्फुटयति — यत्किञ्चिदिति । पदार्थमुक्त्वा वाक्यार्थं कथयति — सर्वमिति । अस्मिन्नेव वाक्ये पक्षान्तरमुत्थापयति — केचित्त्विति । न ह वा अस्येत्याद्यर्थवाददर्शनादित्यर्थः । तद्दूषयति — तदसदिति । शास्त्रान्तरेण ‘क्रिमयो भवन्त्यभक्ष्यभक्षिण’ इत्यादिनेत्यर्थः । प्राणविदतिरिक्तविषयं शास्त्रान्तरं सर्वभक्षणं तु प्राणदर्शिनो विवक्षितमतो व्यवस्थितविषयत्वात्प्रतिषेधेन सर्वभक्षणस्योदितानुदितहोमवद्विकल्पः स्यादिति शङ्कते — तेनेति । किं तर्हि सर्वान्नभक्षणं विहितं न वा न चेन्न तस्य निषिद्धस्यानुष्ठानं प्राणविदि तत्प्रापकाभावाद्विहितं चेत्तत्किं यदिदमित्यादिना न हेत्यादिना वा विहितं नाऽऽद्य इत्याह — नाविधायकत्वादिति । यदिदमित्यादिना हि सर्वं प्राणस्यान्नमिति ज्ञानमेव विधीयते न तु प्राणा[न्न]विदः सर्वान्नभक्षणं तदवद्योतिपदाभावान्न विकल्पोपपत्तिरित्यर्थः । द्वितीयं दूषयति — न ह वा इति । अस्येति विद्वत्परामर्शान्निपातयोरर्थवादत्वावद्योतिनोर्दर्शनादेकवाक्यत्वसंभवे वाक्यभेदस्यान्याय्यत्वाच्चेति हेतुमाह — तेनेति । अर्थवादस्यापि स्वार्थे प्रामाण्यं देवताधिकरणन्यायेन भविष्यतीत्याशङ्क्य ‘न कलञ्जं भक्षयेदि’त्यादिविहितस्य भक्षणाभावस्य तस्य बाधेन न हेत्यादेर्न सामर्थ्यं दृष्टिपरत्वादस्य मानान्तरविरोधे स्वार्थे मानत्वायोगादित्याह — न त्विति । न हेत्यादेरन्यपरत्वं प्रपञ्चयति — प्राणमात्रस्येति । तत्र दोषाभावज्ञापनात्तदेव विधित्सितमित्याशङ्क्याऽऽह — यत्त्विति । अर्थवादस्य मानान्तरविरोधे स्वार्थे मानत्वायोगस्योक्तत्वादिति भावः । प्रमाणाभावस्यासिद्धिमाशङ्कते — विदुष इति । सामर्थ्यात्प्राणस्वरूपबलादिति यावत् । अदोषः सर्वान्नभक्षणे तस्येति शेषः । अर्थापत्तिं दूषयति — नेत्यादिना । अनुपपत्तिमेव विवृणोति — सत्यमिति । येनेत्यस्मात्प्राक्तथाऽपीति वक्तव्यम् । यद्यपीत्युपक्रमात् । प्राणस्वरूपसामर्थ्यादनुपपत्तिरपि शाम्यतीति शङ्कते — नन्विति । किं फलात्मना विदुषः सर्वान्नभक्षणं साध्यते किंवा साधकत्वरूपेणेति विकल्प्याऽऽद्यमङ्गीकरोति — बाढमिति । प्राणरूपेण सर्वभक्षणं तच्छब्दार्थः । तत्र प्रतिषेधाभावे सदृष्टान्तं फलितमाह — तस्मादिति । तथा स्वारसिकं प्राणस्य सर्वभक्षणं तत्र चाप्रतिषेधाद्दोषराहित्यमिति शेषः । तद्राहित्ये किं स्यादिति चेत्तदाह — अत इति । पञ्चम्यर्थमेव स्फोरयति — अप्राप्तत्वादिति । प्राणविदः साधकत्वाकारेण साध्यते सर्वान्नभक्षणमिति पक्षं प्रत्याह — येन त्विति । इहेति प्राणविदुच्यते । निमित्तान्तरादत्यन्ताप्राप्तविषयो विधिः प्रतिप्रसवो यथा ज्वरितस्याशनप्रतिषेधेऽप्यौषधं पिबेदिति तथा शास्त्राधिकारिणः सर्वाभक्ष्यभक्षणनिषेधेऽपि प्राणविदो विशेषविधिर्नोपलभ्यते । तथा च तस्य भक्षणं दुःसाध्यमित्यर्थः । प्रतिप्रसवाभावे लब्धं दर्शयति — तस्मादिति । अर्थवादस्य तर्हि का गतिरित्याशङ्क्याऽऽह — अन्यविषयत्वादिति । तस्य स्तुतिमात्रार्थत्वान्न तद्वशान्निषेधातिक्रम इत्यर्थः । ननु विशिष्टस्य प्राणस्य सर्वान्नत्वदर्शनमत्र विधीयते तथा च विदुषोऽपि तदात्मनः सर्वान्नभक्षणे न दोषो यथादर्शनं फलाभ्युपगमादत आह — न चेति । इतोऽपि सर्वं प्राणस्यान्नमित्येतदवष्टम्भेन प्राणविदः सर्वभक्षणं न विधेयमित्याह — यथा चेति । प्राणस्य यथोक्तस्य स्वीकारेऽपि कस्यचित्किञ्चिदन्नं जीवनहेतुरित्यत्र दृष्टान्तमाह — यथेति । तथा सर्वप्राणिषु व्यवस्थयाऽन्नसंबन्धे दार्ष्टान्तिकमाह — तथेति । प्राणविदोऽपि कार्यकरणवतो निषेधातिक्रमायोगे फलितमाह — तस्मादिति । वाक्यान्तरमादाय व्याकरोति — आप इति । स्मार्तादाचमनादन्यदेव श्रौतमाचमनमन्यतोऽप्राप्तं विधेयं तदर्थमिदं वाक्यमिति केचित्तान्प्रत्याह — अत्र चेति । वासःकार्यं परिधानम् । तत्र साक्षादपां विनियोगायोगे प्राप्तमर्थमाह — तस्मादिति । यदिदं किञ्चेत्यादावुक्तं दृष्टिविधेरर्थवादमादाय व्याचष्टे — नेत्यादिना । पुनर्नञनुकर्षणमन्वयाय । पदार्थमुक्त्वा वाक्यार्थमाह — यद्यपीति । अभक्ष्यभक्षणं तर्हि स्वीकृतमिति चेन्नेत्याह — इत्येतदिति । यथा प्राणविदो नानन्नं भुक्तं भवति तथेत्येतत् । अनुमतस्तर्हि प्राणविदो दुष्प्रतिग्रहोऽपीत्याशङ्क्याऽऽह — तत्रापीति । असत्प्रतिग्रहे प्राप्तेऽपीत्यर्थः । किमित्ययं स्तुत्यर्थवादः फलवाद एव किं न स्यादित्याशङ्क्याऽऽह — फलं त्विति । इतिशब्दः सर्वं प्राणस्यान्नमिति दृष्टिविधेः सार्थवादस्योपसंहारार्थः । उक्तमेवार्थं चोद्यसमाधिभ्यां समर्थयते — नन्वित्यादिना । यथाप्राप्तं प्रकृतवाक्यवशात्प्रतिपन्नं रूपमनतिक्रम्येति यावत् । वाक्यस्य विद्यास्तुतित्वे फलितमाह — अत इति । यदुक्तमापो वास इति तस्य शेषभूतमुत्तरग्रन्थमुत्थाप्य व्याचष्टे — यस्मादिति । तत्रेत्यशनात्प्रागूर्ध्वकालोक्तिः । उक्तेऽभिप्राये लोकप्रसिद्धिमनुकूलयति — अस्ति चेति । तत्रैव वाक्योपक्रमस्याऽऽनुकूल्यं दर्शयति — प्राणस्येति । किमर्थमिदं सोपक्रमं वाक्यमित्यपेक्षायामत्र चेत्यादावुक्तं स्मारयति — यदप इति । दृष्टिविधानमसहमानः शङ्कते — नन्विति । अस्तु प्रायत्यार्थमाचमनं प्राणपरिधानार्थं चेत्याशङ्क्याऽऽह — तत्रेति । कुल्याप्रणयनन्यायेन द्विकार्यत्वाविरोधमाशङ्क्याऽऽह — न चेति । तत्र प्रत्यक्षत्वात्कार्यभेदस्याविरोधेऽपि प्रकृते प्रमाणाभावाद्द्विकार्यत्वानुपपत्तिरित्यभिप्रेत्योक्तमुपपादयति — यदीति । ननु स्मार्ताचमनस्य प्रायत्यार्थत्वं तथैवानग्नतार्थत्वं प्रकृतवाक्याधिगतं तथा च कथं द्विकार्यत्वमप्रामाणिकमित्याशङ्क्य वाक्यस्य विषयान्तरं दर्शयति — यस्मादिति । द्विकार्यत्वदोषमुक्तं दूषयति — नेत्यादिना । तच्चाऽऽचमनं दर्शननिरपेक्षमित्याह — क्रियामात्रमेवेति । नन्वाचमने फलभूतं प्रायत्यं दर्शनसापेक्षमिति चेन्नेत्याह — नत्विति । क्रियाया एव तदाधानसामर्थ्यादित्यर्थः । तत्रेत्याचमने शुद्ध्यर्थे क्रियान्तरे सतीत्यर्थः । प्राणविज्ञानप्रकरणे वासोविज्ञानं चोद्यते चेद्वाक्यभेदः स्यादित्याशङ्क्याऽऽह — प्राणस्येति । सर्वान्नविज्ञानवदिति चकारार्थः । आचमनीयास्वप्सु वासोविज्ञानं क्रियते चेत्कथमाचमनस्य प्रायत्यार्थत्वमित्याशङ्क्याऽऽह — न त्विति । द्विकार्यत्वदोषाभावे फलितं दर्शनविधिमुपसंहरति — तस्मादिति ।
अप्राप्तत्वाद्वासोदृष्टेर्विधिव्यतिरेकेण प्राप्त्यभावाद्दृष्टेश्चात्र प्रकृतत्वात्कार्याख्यानादपूर्वमिति च न्यायादित्यर्थः ॥१४॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणान्तरमादाय तस्य पूर्वेण संबन्धं प्रतिजानीते — श्वेतकेतुरिति । कोऽसौ संबन्धस्तमाह — खिलेति । तत्र कर्मकाण्डे ज्ञानकाण्डे वा यद्वस्तु प्राधान्येन नोक्तं तदस्मिन्काण्डे वक्तव्यमस्य खिलाधिकारत्वात्तथा च पूर्वमनुक्तं वक्तुमिदं ब्राह्मणमित्यर्थः । वक्तव्यशेषं दर्शयितुं वृत्तं कीर्तयति — सप्तमेति । समुच्चयकारिणो मुमूर्षोरग्निप्रार्थनेऽपि किं स्यादित्याशङ्क्याऽऽह — तत्रेति । अध्यायावसानं सप्तम्यर्थः । सामर्थ्यमेव दर्शयति — सुपथेतीति । विशेषणवशाद्बहवो मार्गा भान्तु किं पुनस्तेषां स्वरूपं तदाह — पन्थानश्चेति । तत्र वाक्यशेषमनुकूलयति — वक्ष्यति चेति । संप्रत्याकाङ्क्षाद्वारा समनन्तरब्राह्मणतात्पर्यमाह — तत्रेति । उपसंह्रियमाणां संसारगतिमेव परिच्छिनत्ति — एतावती हीति । दक्षिणोदगधोगत्यात्मिकेति यावत् । कर्मविपाकस्तर्हि कुत्रोपसंह्रियते तत्राऽऽह — एतावानिति । इतिशब्दो यथोक्तसंसारगत्यतिरिक्तकर्मविपाकाभावात्तदुपसंहारार्थ एवायमारम्भ इत्युपसंहारार्थः । अथोद्गीथाधिकारे सर्वोऽपि कर्मविपाकोऽनर्थ एवेत्युक्तत्वात्परिशिष्टसंसारगत्यभावात्कथं खिलकाण्डे तन्निर्देशसिद्धिरत आह — यद्यपीति । कस्तर्हि विपाकस्तत्रोक्तस्तत्राऽऽह — शास्त्रीयस्येति । तत्र सुकृतविपाकस्यैवोपन्यासे हेतुमाह — ब्रह्मविद्येति । अनिष्टविपाकात्तु वैराग्यं सुकृताभिमुख्यादेव सिद्धमिति न तत्र तद्विवक्षा । इह पुनः शास्त्रसमाप्तौ खिलाधिकारे तद्विपाकोऽप्युपसंह्रियत इति भावः । प्रकारान्तरेण संगतिं वक्तुमुक्तं स्मारयति — तत्रापीति । शास्त्रीयविपाकविषयेऽपीत्यर्थः । उत्तरग्रन्थस्य विषयपरिशेषार्थं पातनिकामाह — तत्रेति । लोकद्वयं सप्तम्यर्थः । प्रागनुक्तमपि देवयानाद्यत्र वक्तव्यमिति कुतो नियमसिद्धिस्तत्राऽऽह — तच्चेति । वक्तव्यशेषस्य सत्त्वे फलितमाह — इत्यत इति । यत्तर्हि प्रागनुक्तं तद्देवयानादि वक्तव्यं प्रागेवोक्तं तु ब्रह्मलोकादि कस्मादुच्यते तत्राऽऽह — अन्ते चेति । शास्त्रस्यान्ते चेति संबन्धः । इतश्चेदं ब्राह्मणमगतार्थत्वादारभ्यमित्याह — अपि चेति । एतावदित्यात्मज्ञानोक्तिः । अमृतत्वं तत्साधनमिति यावत् । चकारादुक्तमित्यनुषङ्गः । ज्ञानमेवामृतत्वे हेतुरित्युक्तोऽर्थस्तत्रेति सप्तम्यर्थः तदर्थो हेत्वपदेशार्थः । कथं पुनर्वक्ष्यमाणा कर्मगतिर्ज्ञानमेवामृतत्वसाधनमित्यत्र हेतुत्वं प्रतिपद्यते तत्राऽऽह — यस्मादिति । व्यापारोऽस्ति कर्मण इति शेषः । सामर्थ्याज्ज्ञानातिरिक्तस्योपायस्य संसारहेतुत्वनियमादित्यर्थः । प्रकारान्तरेण ब्राह्मणतात्पर्यं वक्तुमग्निहोत्रविषये जनकयाज्ञवल्क्यसंवादसिद्धमर्थमनुवदति — अपि चेत्यादिना । एतयोरग्निहोत्राहुत्योः सायं प्रातश्चानुष्ठितयोरिति यावत् । लोकं प्रत्युत्थायिनं यजमानं परिवेष्ट्येमं लोकं प्रत्यावृत्तयोस्तयोरनुष्ठानोपचितयोः परलोकं प्रति स्वाश्रयोत्थानहेतुं परिणाममित्येतदिति प्रश्नषट्कमग्निहोत्रविषये जनकेन याज्ञवल्क्यं प्रत्युक्तमिति संबन्धः । तत्रेत्याक्षेपगतप्रश्नषट्कोक्तिः । ननु फलवतोऽश्रवणात्कस्येदमाहुतिफलं न हि तत्स्वतन्त्रं संभवति तत्राऽऽह — तच्चेति । कर्तृवाचिपदाभावादाहुत्यपूर्वस्यैवोत्क्रान्त्यादिकर्यारम्भकत्वान्न तत्र कर्तृगामिकफलमुक्तमित्याशङ्क्याऽऽह — न हीति । किञ्च कारकाश्रयवत्त्वात्कर्मणो युक्तं तत्फलस्य कर्तृगामित्वमित्याह — साधनेति । स्वातन्त्र्यासंभवादाहुत्योः स्वकर्तृकयोरेवमित्यादि विवक्षितं चेत्तर्हि कथं तत्र केवलाहुत्योर्गत्यादि गम्यते तत्राऽऽह — तत्रेति । अग्निहोत्रप्रकरणं सप्तम्यर्थः । अग्निहोत्रस्तुत्यर्थत्वात्प्रश्नप्रतिवचनरूपस्य सन्दर्भस्येति शेषः । भवत्वेवमग्निहोत्रप्रकरणस्थितिः प्रकृते तु किमायातं तत्राऽऽह — इह त्विति । किमिति विद्याप्रकरणे कर्मफलविज्ञानं विवक्ष्यते तत्राऽऽह — तद्द्वारेणेति । ब्राह्मणारम्भमुपपादितमुपसंहरति — एवमिति । संसारगत्युपसंहारेण कर्मविपाकस्य सर्वस्यैवोपसंहारः सिद्धो भवति तदतिरिक्ततद्विपाकाभावादित्याह — कर्मकाण्डस्येति । यथोक्तं वस्तु दर्शयितुं ब्राह्मणमारभते चेत्तत्र किमित्याख्यायिका प्रणीयते तत्राऽऽह — इत्येतद्द्वयमिति । सर्वमेव पूर्वोक्तं वस्तु दर्शयितुमिच्छन्वेदः सुखावबोधार्थमाख्यायिकां करोतीत्यर्थः । यदा कदाचिदतिक्रान्ते काले वृत्तार्थद्योतित्वं निपातस्य दर्शयति — हशब्द इति । यशःप्रथनं विद्वत्सु स्वकीयविद्यासामर्थ्यख्यापनं प्रसिद्धविद्वज्जनविशिष्टत्वेनेति शेषः । क्वचिज्जयस्य प्राप्तत्वं गर्वे हेतुः । किमिति राजा श्वेतकेतुमागतमात्रं तदीयाभिप्रायमप्रतिपद्य तिरस्कुर्वन्निव संबोधितवानित्याशङ्क्याऽऽह — स राजेति । संबोध्य भर्त्सनं कृतवानिति शेषः । तदवद्योति पदमिह नास्तीत्याशङ्क्याऽऽह — भर्त्सनार्थेति । भो ३ इति प्रतिवचनमाचार्यं प्रत्युचितं न क्षत्त्रियं प्रति तस्य हीनत्वादित्याह — भो ३ इतीति । अप्रतिरूपवचने क्रोधं हेतूकरोति — क्रुद्धः सन्निति । पितुः सकाशात्तव लब्धानुशासनत्वे लिङ्गं नास्तीत्याशङ्क्याऽऽह —
पृच्छेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 पदार्थमुक्त्वा वाक्यार्थमाह — समानेनेति । नाडीरूपेण साधारणेन मार्गेणाभ्युदयं गच्छतां यत्र मार्गविप्रतिपत्तिस्तत्किं जानासीति प्रश्नार्थः । विप्रतिपत्तिमेव विशदयति — तत्रेति । अधिकृतप्रजानिर्धारणार्था सप्तमी । प्रथमप्रश्नं निगमयति — यथेति । प्रश्नान्तरमादत्ते — तर्हीति । तदेव स्पष्टयति — यथेति । परलोकगताः प्रजाः पुनरिमं लोकं यथाऽऽगच्छन्ति तथा किं वेत्थेति योजना । प्रश्नान्तरप्रतीकमुपादत्ते — वेत्थेति । तद्व्याकरोति — एवमिति । प्रसिद्धो न्यायो जराज्वरादिमरणहेतुः प्रश्नान्तरमुत्थाप्य व्याचष्टे — वेत्थेत्यादिना । पुरुषशब्दवाच्या भूत्वा समुत्थाय वदन्तीति संबन्धः । कथमपां पुरुषशब्दवाच्यत्वं तदाह — यदेति । प्रश्नान्तरमवतारयति — यद्येवं वेत्थेति । पितृयाणस्य वा प्रतिपदं वेत्थेति संबन्धः । यत्कृत्वा प्रतिपद्यन्ते पन्थानं तत्कर्म प्रतिपदिति योजना । वाक्यार्थमाह — देवयानमिति । उक्तमर्थं संक्षिप्याऽऽह — देवलोकेति । मार्गद्वयेन नास्ति त्वया तूत्प्रेक्षामात्रेण पृच्छ्यते तत्राऽऽह — अपीति । अत्रेति कर्मविपाकप्रक्रियोक्तिः । अस्यार्थस्य मार्गद्वयस्येत्येतत् । तेषामेव मार्गद्वयेऽधिकृतत्वमिति वक्तुं हीत्युक्तं तदेव स्फुटयति — ताभ्यामिति । विश्वं साध्यसाधनात्मकं संगच्छते गन्तव्यत्वेन गन्तृत्वेन चेति शेषः । प्रकृतमन्त्रव्याख्यानग्रन्थो ब्राह्मणशब्दार्थः । यदन्तरेत्यादौ विवक्षितमर्थमाह —
अण्डकपालयोरिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 श्वेतकेतोरभिमाननिवृत्तिद्योतनार्थं बहुवचनम् । राजन्यदत्तवसत्यनादरे हेतुमाह — कुमार इति । एवं किलेति राजपराभवलिङ्गकं पितृवचसो मृषात्वं द्योत्यते । अज्ञानाधीनं दुःखं तवासंभावितमिति सूचयति —
सुमेध इति ॥३॥ 【भाष्यम्】 【भाष्यम्】 सत्यं किञ्चिदुक्तं किञ्चित्तु विज्ञानमन्यस्मै प्रियतमाय दातुं रक्षितमित्याशङ्क्याऽऽह — कोऽन्य इति । राज्ञा यत्पृष्टं तन्मया न विज्ञातं तथा च तस्मिन्विषये त्वया वञ्चितोऽस्मीत्याशङ्क्याऽऽह — अहमपीति । तर्हि तज्ज्ञानं कथं साध्यतामित्याशङ्क्याऽऽह —
तस्मादिति ॥४॥ 【भाष्यम्】 【भाष्यम्】 विवक्षितविद्यागौरवं विवक्षित्वाऽऽह — अस्यामिति । तदिति सामान्योक्त्या वरो निर्दिश्यते ॥५–६॥ ममास्ति स इति यदुक्तं तदुपपादयति — यस्मादित्यादिना । न च यन्ममेत्यत्र तस्मादिति पठितव्यम् । किं तर्हि मया कर्तव्यमित्याशङ्क्याऽऽह — प्रतिज्ञातश्चेति । यत्तवाभिप्रेतं तदहं न करोमीत्याशङ्क्याऽऽह — ममेति । मा भूदित्यन्वयं दर्शयन्प्रतीकमादाय व्याचष्टे — नोऽस्मानिति । वदन्त्यो दानशीलो विभवे सत्यदाता कदर्य इति भेदः । परिशिष्टं भागं व्याकुर्वन्वाक्यार्थमाह — बहोरित्यादिना । मां प्रत्येवेति नियमस्य कृत्यं दर्शयति — न चेति । कोऽसौ न्यायस्तत्राऽऽह — शास्त्रेति । उपसदनवाक्यं शास्त्रमित्युच्यते । गौतमो राजानं प्रति शिष्यत्ववृत्तिं कुर्वाणः शास्त्रार्थविरोधमाचरतीत्याशङ्क्याऽऽह — वाचा हेति ।
आपदि समादधिकाद्वा विद्याप्राप्त्यसंभवावस्थायामित्यर्थः । उपनयनमुपगमनं पदोपसर्पणमिति यावत् ॥७॥ 【भाष्यम्】 【भाष्यम्】 विद्याराहित्यापेक्षया निहीनशिष्यभावोपगतिरापदन्तरम् । तथाशब्दार्थमेव विशदयति — तव चेति । सन्तु पितामहा यथा तथा किमस्माकमित्याशङ्क्याऽऽह — पितामहानामिति । किमिति तर्हीयं विद्या झटिति मह्यं नोपदिश्यते तत्राऽऽह — न कस्मिन्निति । तर्हि भवता सा स्थिती रक्ष्यतामहं तु यथागतं गमिष्यामीत्याशङ्क्याऽऽह — इतः परमिति । तवाहं शिष्योऽस्मीत्येवं ब्रुवन्तं मत्तोऽन्योऽपि न वक्ष्यामीति यस्मान्न प्रत्याख्यातुमर्हति तस्मादहं पुनस्तुभ्यं कथं न वक्ष्ये किन्तु वक्ष्याम्येव विद्यामित्युक्तमुपपादयति —
को हीत्यादिना ॥८॥ 【भाष्यम्】 【भाष्यम्】 असावित्यादिना यतिथ्यामित्यादिचतुर्थप्रश्नस्य प्राथम्येन निर्णये क्रमभङ्गः स्यात्तत्र च कारणं वाच्यमित्याशङ्क्याऽऽह — क्रमभङ्गस्त्विति । मनुष्यजन्मस्थितिलयानां चतुर्थप्रश्ननिर्णयाधीनतया तस्य प्राधान्यात्प्राधान्ये सत्यर्थक्रममाश्रित्याविवक्षितस्य पाठक्रमस्य भङ्ग इत्यर्थः । इन्द्रादीनां कर्मानधिकारित्वाद्द्युलोकस्य चाऽऽहवनीयत्वाप्रसिद्ध्या होमाधारत्वायोगात्प्रत्ययस्य च श्रद्धाया होम्यत्वानुपपत्तेस्तस्मिन्नित्यादि वाक्यमयुक्तमिति शङ्कते — तत्रेति । होमकर्म सप्तम्यर्थः । अस्य ब्राह्मणस्य संबन्धग्रन्थे समाधानमस्य चोद्यस्यास्माभिरुक्तमित्याह — अत इति । तदेव दर्शयितुमग्निहोत्रप्रकरणे वृत्तं स्मारयति — न त्विति । किं तदुक्तमिति चेत्तदाह — ते वा इति । आहुत्योः स्वतन्त्रयोरुत्क्रान्त्यादि कथमित्याशङ्क्याऽऽह — तत्रेति । यजमानस्य मृतिकालः सप्तम्यर्थः । ससाधनयोरेव तयोरुत्क्रान्तिर्न स्वतन्त्रयोरेवेत्येतदुपपादयति — यथेत्यादिना । इहेति जीवदवस्थोच्यते । नष्टानामग्न्यादीनामव्याकृतभावापन्नत्वेनाविशेषप्रसंगान्न तैः सहाऽहुत्योरुत्क्रान्त्यादिसिद्धिरित्याशङ्क्याऽऽह — तत्राग्निरिति । नाशादूर्ध्वमपि प्रातिस्विकशक्तिरूपेणाग्न्यादिरवतिष्ठते तथा चाविशेषप्रसंगाभावादाहुत्योः ससाधनयोरेवोत्क्रान्त्यादिसिद्धिरित्यर्थः । यथोक्तयोराहुत्योरुत्क्रान्त्यादिसमर्थनेनाग्निहोत्राद्यपूर्वस्य जगदारम्भकत्वमुक्तं भवतीत्याह — तद्विद्यमानमिति । विद्यमानमेव विशदयति — अपूर्णेति । अथ यथेत्यादितया विधया कथमपि पूर्वकल्पीयं कर्म प्रलयदशायामव्याकृतात्मना स्थितं पुनर्जगदारभतां तथाऽपीदानीन्तनमग्निहोत्रादिकं कर्म कथं जगदारम्भकं भविष्यतीत्याशङ्क्याऽऽह — तथैवेति । विमतमारम्भकं तच्छक्तिमत्त्वात्संप्रतिपन्नवदिति भावः । अग्निहोत्रप्रकरणस्यार्थं संगृहीतमुपसंहरति — एवमिति । उक्तमुपजीव्यं प्रकृतब्राह्मणप्रवृत्तिप्रकारं दर्शयति — इह त्विति । उत्तरमार्गप्रतिपत्तिसाधनं विधित्सितमिति संबन्धः । किमित्युत्तरमार्गप्रतिपत्तिस्तत्राऽऽह — विशिष्टेति । ब्राह्मणप्रवृत्तिमभिधायासौ वै लोकोग्निरित्यादिवाक्यप्रवृत्तिप्रकारमाह — इति द्युलोकेति । इत्थं ब्राह्मणे स्थिते सतीत्येतत् । भवत्वेवं तथाऽपि के देवा इति प्रश्नस्य किमुत्तरं तत्राऽऽह — तत्रेति । उक्तनीत्या पञ्चाग्निदर्शने प्रस्तुते सतीत्येतत् । इहेति व्यवहारभूमिग्रहः । कथं तेषां तत्र होतृत्वं तदाह — ते चेति । तथाऽपि कथं द्युलोकोऽग्नौ तेषां होतृत्वं तदाह — त एवेति । तत्फलभोक्तृत्वादित्यत्र तच्छब्दोऽग्निहोत्रादिकर्मविषयस्तद्भोक्तृत्वं च प्राणानां जीवोपाधित्वादवधेयम् । तथा तथा द्युपर्जन्यादिसंबन्धयोग्याकारेणेति यावत् । के देवा इति प्रश्नो निर्णीतः संप्रत्यवशिष्टं प्रश्नद्वयं निर्णेतुमाह — अत्र चेति । जीवदवस्थायामिति यावत् । सह कर्त्रेत्यत्र तच्छब्दो द्रष्टव्यः । अमुं लोकमाविशतीति संबन्धः । आवेशप्रकारमाह — धूमादीति । कथमेतावता किं पुनः श्रद्धाख्यं हविरिति प्रश्नो निर्णीतस्तत्राऽऽह — ताः सूक्ष्मा इति । तथाऽपि कथं जुह्वतीति प्रश्नस्य कथं निर्णयस्तत्राऽऽह — सोमलोक इति । तथाऽपि तस्या आहुतेः सोमो राजा संभवतीति कथमुच्यते तत्राऽऽह — तास्तत्रेति । निर्णीतेऽर्थे श्रुतिमवतारयति — तदेतदिति । कथं पुनरापः श्रद्धाशब्दवाच्या न हि लोके श्रद्धाशब्दं तासु प्रयुञ्जते तत्राऽऽह — श्रद्धेति । उपक्रमवशादप्यापोऽत्र श्रद्धाशब्दवाच्या इत्याह — वेत्थेति । अपामेव पुरुषशब्दवाच्यानां शरीरारम्भकत्वान्न भूतान्तराणामिति कृत्वा तस्य पञ्चभूतारब्धत्वाभ्युपगमभङ्गः स्यादिति चेन्नेत्याह — भूयस्त्वादिति । अपां पुरुषशब्दवाच्यत्वे हेत्वन्तरमाह — कर्मेति । अथाकर्मप्रयुक्तमपि प्रकृष्टं जन्मास्ति तत्कथमपां सर्वत्र पुरुषशब्दवाच्यत्वं तत्राऽऽह — कर्मकृतो हीति । अन्यथा तत्र तत्र सुखदुःखप्रभेदोपभोगासंभवादिति भावः । यदि कर्मापूर्वशब्दवाच्यं भूतसूक्ष्मं सर्वत्र शरीरारम्भकं कथं तर्हि पूर्वमग्निहोत्राहुत्योरेव व्यक्तजगदारम्भकत्वमुक्तं तत्राऽऽह — तत्रेति । लक्ष्यन्तेऽग्निहोत्राहुत्येति शेषः । लक्षणायां पूर्वोत्तरवाक्ययोर्गमकमाह —
दाराग्नीति ॥९॥ 【भाष्यम्】 【भाष्यम्】 आद्यमाहुत्याधारमेवं निरूप्याऽऽहुत्याधारान्तराणि क्रमेण निरूपयति — पर्जन्यो वा अग्निरित्यादिना । कुतोऽस्य द्वितीयत्वमिति शङ्कित्वोक्तम् — आहुत्योरिति । अस्ति खल्वभ्राणां धूमप्रभवत्वे गाथा ‘धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः’(मेघसन्देशः १-५)
इति ॥१०॥ 【भाष्यम्】 【भाष्यम्】 एतल्लोकपृथिव्योर्देहदेहिभावेन भेद इत्याह — पृथिवीच्छायां हीति । ‘एतानि हि चन्द्रं रात्रेस्तमसो मृत्योर्बिभ्यतमत्यपारयन्’ इति श्रुतेरात्रेस्तमत्वावगमात्तस्य च मृत्युर्वै तमश्छाया मृत्युमेव तत्तमश्छायां तरतीति भूछायात्वं श्रुतम् । तमो राहुस्थानं तच्च भूच्छायेति हि प्रसिद्धम् – “उधृत्य पृथिवीच्छायां निर्मितं मण्डलाकृति । स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत्तमोमयम् ॥“
इति स्मृतेरित्यर्थः । सोमचन्द्रमसोराश्रयाश्रयिभावेन भेदः ॥११॥ 【भाष्यम्】 【भाष्यम्】 योग्यानुपलब्धिविरोधमाशङ्कते — नन्विति । इहेति पुरुषाग्निनिर्देशः । शङ्कितं विरोधं निराकरोति — नैष दोष इति । उपपत्तिमेव दर्शयति —
अधिदैवमिति ॥१२॥ 【भाष्यम्】 【भाष्यम्】 तस्या आहुत्यै पुरुषः संभवतीति वाक्यं व्याकरोति — एवमिति । पञ्चाग्निदर्शनस्य चतुर्थप्रश्ननिर्णायकत्वेन प्रकृतोपयोगं दर्शयति — यः प्रश्न इति । निर्णयप्रकारमनुवदति — पञ्चम्यामिति । यथोक्तनीत्या जाते देहे कथं पुरुषस्य जीवनकालो नियम्यते तत्राऽऽह — स पुरुष इति । पञ्चाग्निक्रमेण जातोऽग्निलयश्चाहं तेनाग्न्यात्मेति ध्यानसिद्धये षष्ठमग्निमन्त्याहुत्यधिकरणं प्रस्तौति — अथेति ।
जीवननिमित्तकर्मविषयस्तच्छब्दः ॥१३॥ 【भाष्यम्】 【भाष्यम्】 वक्ष्यमाणकीटादिदेहव्यावृत्तये भास्वरवर्णविशेषणम् । दीप्त्यतिशयवत्त्वे हेतुमाह —
निषेकादिभिरिति ॥१४॥ 【भाष्यम्】 【भाष्यम्】 पञ्चाग्निविदो गतिं विवक्षुरुत्तरग्रन्थमवतायति — इदानीमिति । ये विदुस्तेऽर्चिषमभिसंभवन्तीति संबन्धः । एवंशब्दस्य प्रकृतपञ्चाग्निपरामर्शित्वं स्फुटीकर्तुं चोदयति — नन्विति । एवमेतद्विदुरिति श्रुतमेतद्दर्शनमित्युक्तं तदेवेदमिति प्रत्यभिज्ञापकं दर्शयति — तत्र हीति । आदिपदमादित्यं समिधमित्यादि संग्रहीतुम् , रश्मीनां धूमत्वमह्नोऽर्चिष्ट्वमित्यादि ग्रहीतुं द्वितीयमादिपदम् । प्रत्यभिज्ञाफलमाह — तस्मादिति । प्रश्नप्रतिवचनविषयस्यैव प्रकृतस्यैवंशब्दस्य परामर्शान्न षट्प्रश्नीयं दर्शनमिह परामृष्टमिति परिहरति — नेत्यादिना । संगृहीतं परिहारं विवृणोति — यतिथ्यामित्यस्येति । व्यधिकरणे षष्ट्यौ । यावदेव वस्तुपरिग्रहो विषय इत्यर्थः । षट्प्रश्नीयमेव व्यवहितं दर्शनमत्र परामृष्टं चेत्तदा यतिथ्यामिति प्रश्नो व्यर्थः स्यात् । षट्प्रश्नीनिर्णीतदर्शनशेषभूतदर्शनस्य प्रश्नादृते प्रतिवचनसंभवादित्याह — अन्यथेति । किञ्च पूर्वस्मिन्ग्रन्थे प्रचयशिष्टतया पञ्चत्वसंख्याया निश्चितत्वात्तदवच्छिन्नाः साम्पादिकाग्नय एवात्रैवंशब्देन पराम्रष्टुमुचिता इत्याह — निर्ज्ञातत्वाच्चेति । अग्निहोत्रप्रकरणे निर्ज्ञातमेवाग्न्यादि पूर्वग्रन्थेऽप्यनूद्यते । तथा चाग्निहोत्रदर्शनमव्यवहितमेवंशब्देन किं न परामृष्टमिति शङ्कते — अथेति । अग्निहोत्रदर्शनं पूर्वग्रन्थेऽनूद्यते चेत्तत्प्रकरणे प्राप्तं रूपमनतिक्रम्यैवान्तरिक्षादेरप्यत्रानुवदनं स्यान्न तु तद्वैपरीत्येनानुवदनं युक्तम् । अनुवादस्य पुरोवादसापेक्षत्वात् । न चात्रान्तरिक्षाद्यनूद्यते । तस्मादेवंशब्दो नाग्निहोत्रपरामर्शीति परिहरति — यथा प्राप्तस्येति । द्युलोकादिवादस्यान्तरिक्षाद्युपलक्षणार्थत्वात्पूर्वस्यानुवादत्वसंभवादेवंशब्दस्याग्निहोत्रविषयत्वसिद्धिरिति चोदयति — अथेति । प्रापकाभावादुपलक्षणपक्षायोगेऽप्यङ्गीकृत्य पञ्चाग्निनिर्देशवैयर्थ्येन दूषयति — तथाऽपीति । इतश्च स्वतन्त्रमेव पञ्चाग्निदर्शनमेवंशब्दपरामृष्टमित्याह — श्रुत्यन्तराच्चेति । समिदादिसाम्यदर्शनादग्निहोत्रदर्शनशेषभूतमेवैतद्दर्शनमित्युक्तमनूद्य दूषयति — यत्त्वित्यादिना । अवोचामाग्निहोत्रस्तुत्यर्थत्वादग्निहोत्रस्यैव कार्यमित्युक्तमित्यत्रेति शेषः । एवंशब्देनाग्निहोत्रपरामर्शासंभवे फलितमाह — तस्मादिति । तच्छब्दार्थमेव स्फुटयति — एवमितीति । प्रकृतं पञ्चाग्निदर्शनं तच्च स्वतन्त्रमित्युक्तं तद्वतामर्चिरादिप्रतिपत्तिर्न केवलकर्मिणामित्यर्थः । प्रश्नपूर्वकं वेदितृविशेषं निर्दिशति — के पुनरित्यादिना । गृहस्थानां यज्ञादिना पितृयाणप्रतिपत्तेर्वक्ष्यमाणत्वान्न देवयाने पथि प्रवेशोऽस्तीति शङ्कते — नन्विति । पञ्चाग्निविदां गृहस्थानां देवयाने पथ्यधिकारस्तद्रहितानां तु तेषामेव यज्ञादिना पितृयाणप्राप्तिरिति विभागोपपत्तेर्न वाक्यशेषविरोधोऽस्तीति समाधत्ते — नेत्यादिना । एवं विदुरिति सामान्यवचनात्परिव्राजकादेरप्यत्र ग्रहणं स्यादिति चेन्नेत्याह — भिक्षुवानप्रस्थयोश्चेति । विधान्तरेण तयोरुत्तरमार्गे प्रवेशान्न पञ्चाग्निविषयत्वेन ग्रहणं पुनरुक्तेरित्यर्थः । गृहस्थानामेव पञ्चाग्निविदां तत्र ग्रहणमित्यत्र हेत्वन्तरमाह — ग्रहस्थेति । ब्रह्मचारिणां तर्हीह ग्रहणं भविष्यति नेत्याह — अत इति । पञ्चाग्निदर्शनस्य गृहस्थकर्मसंबन्धादेवेत्येतत् । कथं तर्हि नैष्ठिकब्रह्मचारिणां देवयाने पथि प्रवेशस्तत्राऽऽह — तेषां त्विति । अर्यम्णः संबन्धी यः पन्थास्तमासाद्य तेनोत्तरेण पथा ते यथोक्तसंख्या ऋषयः सापेक्षममृतत्वं प्राप्ता इति स्मृत्यर्थः । आश्रमान्तराणां पञ्चाग्निविषयत्वेनाग्रहणे फलितमाह — तस्मादिति । अग्निजत्वे फलितमाह — अग्न्यपत्यमिति । अग्निजत्वं साधयति — एवमिति । अग्न्यपत्यत्वे किं स्यात्तदाह — अग्नीति । इत्येवं ये गृहस्था विदुस्ते चेति योजना । अरण्यं स्त्रीजनासंकीर्णो देशः । परिव्राजकाश्चेति त्रिदण्डिनो गृह्यन्तेऽन्येषामेषणाभ्यो व्युत्थितानां सम्यग्ज्ञाननिष्ठानां देवयाने पथ्यप्रवेशादाश्रममात्रनिष्ठा वा तेऽपि गृह्येरन्निति द्रष्टव्यम् । श्रद्धाऽपि स्वयमुपास्या कर्मत्वश्रवणादित्याशङ्क्य प्रत्ययमात्रस्य सापेक्षत्वादुपास्यत्वानुपपत्तेर्मैवमित्याह — न पुनरिति । सर्वे पञ्चाग्निविदः सत्यब्रह्मविदश्चेत्यर्थः । विनाऽपि विद्याबलमर्चिरभिसंपत्तिः स्यादिति चेन्नेत्याह — यावदिति । कर्म कृत्वा लोकं प्रत्युत्थायिन इति पूर्वेण संबन्धः । केवलकर्मिणां देवयानमार्गप्राप्तिर्नास्तीत्युक्तं निगमयति — इत्येवमेवेति । विदुषामेव देवयानप्राप्तिमुपसंहरति — यदा त्विति । नन्वर्चिषो ज्वालात्मनोऽस्थैर्यात्तदभिसंपत्तिर्न फलाय कल्पते तत्राऽऽह — अर्चिरितीति । अर्चिःशब्देन यथोक्तदेवताग्रहे लिङ्गमाह — न हीति । अतोऽर्चिर्देवतायाः सकाशादिति यावत् । अहःशब्दस्य कालविषयत्वमुक्तदोषाभावादिति चेन्नेत्याह — मरणेति । नियमाभावमेव व्यनक्ति — आयुष इति । विद्वद्विषये नियममाशङ्क्याऽऽह — न हीति । ननु रात्रौ मृतोऽपि विद्वानहरपेक्ष्य फली संपत्स्यते नेत्याह — न चेति । एकस्मिन्नेव ब्रह्मलोके कथं बहुवचनमित्याशङ्क्याऽऽह — ब्रह्मेति । ब्रह्मलोकानिति बहुवचनप्रयोगादिति संबन्धः । अत्र ब्रह्मलोका विशेष्यत्वेन गृह्यन्ते । बहुवचनोपपत्तौ हेत्वन्तरमाह — उपासनेति । कल्पशब्दोऽत्रावान्तरकल्पविषयः । तेषामिह न पुनरावृत्तिरिति क्वचित्पाठादस्मिन्नित्यादिव्याख्यानमयुक्तमिति शङ्कते — इहेति । यथा “श्वोभूते पौर्णमासीं यजेते”त्यत्राकृतिः पौर्णमासीशब्दार्थः श्वोभूतत्वं च न व्यावर्तकं पौर्णमासीपदलक्ष्येष्टेः प्रतिपद्येव कर्तव्यतानियमात्तथेहाऽऽकृतेरिहशब्दार्थत्वान्निरङ्कुशैवानावृत्तिरत्र सिध्यतीत्यर्थः । परिहरति — नेत्यादिना । परोक्तं दृष्टान्तं विघटयति — श्वोभूत इति । कृतसंभारदिवसापेक्षं हि श्वोभूतत्वं पौर्णमासीदिने चातुर्मास्येष्टौ कृतायां कदा पौर्णमासीष्टिः कर्तव्येति विना वचनं न ज्ञायते तत्र श्वोभूतत्वं विशेषणं भवत्यन्यव्यावर्तकं तद्वदिहेति विशेषणमपि व्यावर्तकमेवेति नाऽऽत्यन्तिकानावृत्तिसिद्धिरित्यर्थः । यत्तु पौर्णमासीशब्दवदिहशब्दस्याऽऽकृतिवाचित्वादव्यावर्तकत्वमिति तत्राऽऽह — न हीति । यद्यपि प्रकृते वाक्ये पौर्णमासीशब्दो भवत्याकृतिवचनस्तथाऽपि श्वःशब्दार्थोऽपि काचिदाकृतिरस्तीत्यङ्गीकृत्याव्यावर्तकः श्वोभूतशब्दो नैव प्रयुज्यते । तथाऽत्रापि विशेषणशब्दस्य व्यावर्तकत्वमावश्यकमित्यर्थः । सुषिरमाकाशमित्यादौ व्यावर्त्याभावेऽपि विशेषणप्रयोगवदत्रापि विशेषणं स्वरूपानुवादमात्रमित्याशङ्क्याऽऽह — यत्र त्विति । विशेषणफलमुपसंहरति —
तस्मादिति ॥१५॥ 【भाष्यम्】 【भाष्यम्】 देवयानं पन्थानमुक्त्वा पथ्यन्तरं वक्तुं वाक्यान्तरमादाय पदद्वयं व्याकरोति — अथेत्यादिना । कथं ते फलभागिनो भवन्तीत्याशङ्क्याऽऽह — यज्ञेनेति । ननु दानतपसी यज्ञग्रहणेनैव गृहीते न पृथग्ग्रहीतव्ये तत्राऽऽह — बहिर्वेदीति । दीक्षादीत्यादिपदेन पयोव्रतादियज्ञाङ्गसंग्रहः । तत्रेति पितृलोकोक्तिः अपिशब्दो ब्रह्मलोकदृष्टान्तार्थः । धूमसंपत्तेरपुरुषार्थत्वमाशङ्क्योक्तम् — उत्तरमार्ग इवेति । इहापीति पितृयाणमार्गेऽपीत्यर्थः । तद्वदेवेत्युत्तरमार्गगामिनीनां देवतानामिवेत्यर्थः । तत्रेति प्रकृतलोकोक्तिः । कर्मिणां तर्हि देवैर्भक्ष्यमाणानां चन्द्रलोकप्राप्तिरनर्थायैवेत्याशङ्क्याऽऽह — उपभुञ्जत इति । अन्यथाप्रतिभासं व्यावर्तयति — आप्यायस्वेति । एवं देवा अपीति संक्षिप्तं दार्ष्टान्तिकं विवृणोति — सोमलोक इति । कथं पौनःपुन्येन विश्रान्तिः संपाद्यते तत्राऽऽह — कर्मानुरूपमिति । दृष्टान्तवद्दार्ष्टान्तिके किमित्याप्यायनं नोक्तं तत्राऽऽह — तद्धीति । पुनः पुनर्विश्रामाभ्यनुज्ञानमिति यावत् । लोकद्वयप्रापकौ पन्थानावित्थं व्याख्याय पुनरेतल्लोकप्राप्तिप्रकारमाह — तेषामित्यादिना । कथं चन्द्रस्थलस्खलितानां कर्मिणामाकाशतादात्म्यमित्याशङ्क्याऽऽह — यास्ता इति । सोमाकारपरिणतत्वमेव स्फोरयति — याभिरिति । तस्य झटिति द्रवीभवनयोग्यतां दर्शयति — अम्मयमिति । साभाव्यापत्तिरुपपत्तेरिति न्यायेनाऽऽह — आकाशभूता इति । आकाशाद्वायुप्राप्तिप्रकारमाह — ते पुनरिति । अन्याधिष्ठिते पूर्ववदभिलापादिति न्यायेनाऽऽह — ते पृथिवीमिति । रेतःसिग्योगोऽथेति न्यायमाश्रित्याऽऽह — ते पुनरिति । योनेः शरीरमिति न्यायमनुसृत्याऽऽह — तत इति । उत्पन्नानां केषाञ्चिदिष्टादिकारित्वमाह — लोकमिति । कर्मानुष्ठानानन्तरं तत्फलभागित्वमाह — ततो धूमादिनेति । सोमलोके फलभोगानन्तरं पुनरेतल्लोकप्राप्तिमाह — पुनरिति । पौनःपुन्येन विपरिवर्तनस्यावधिं सूचयति — उत्तरमार्गायेति । प्राग्ज्ञानात्संसरणं षष्ठेऽपि व्याख्यातमित्याह — इति न्विति । स्थानद्वयमावृत्तिसहितमुक्त्वा स्थानान्तरं दर्शयति — अथेत्यादिना । स्थानद्वयात्तृतीये स्थाने विशेषं कथयति — एवमिति । तृतीये स्थाने छान्दोग्यश्रुतिं संवादयति — तथा चेति । अमुष्या गतेरतिकष्टत्वे परिशिष्टं वाक्यार्थमाचष्टे — तस्मादिति । सर्वोत्साहो वाक्यकायचेतसां प्रयत्नः । यदुक्तमस्यां निमग्नस्य पुनरुद्धारो दुर्लभो भवतीति तत्र श्रुत्यन्तरमनुकूलयति — तथा चेति । अतो व्रीह्यादिभावादित्यर्थः । तस्मादित्यतिकष्टात्संसारादित्यर्थः । दक्षिणोत्तरमार्गप्राप्तिसाधने यत्नसाम्यमाशङ्क्याऽऽह — अत्रापीति । पञ्च प्रश्नान्प्रस्तुत्य किमिति प्रत्येकं तेषां निर्णयो न कृत इत्याशङ्क्याऽऽह — एवमिति । निर्णीतं प्रकारमेव संगृह्णाति — असावित्यादिना । प्राथम्येन निर्णीत इति संबन्धः । देवयानस्येत्यादिः पञ्चमः प्रश्नः । स तु द्वितीयत्वेन दक्षिणादिमार्गापत्तिसाधनोक्त्या निर्णीत इत्यर्थः । तेनैव मार्गद्वयप्राप्तिसाधनोपदेशेनैवेति यावत् । मृतानां प्रजानां विप्रतिपत्तिः प्रथमप्रश्नस्तस्य निर्णयप्रकारमाह — अग्नेरिति । द्वितीयप्रश्नस्वरूपमनूद्य तस्य निर्णीतत्वप्रकारं प्रकटयति — पुनरावृत्तिश्चेति ।
आगच्छन्तीति निर्णीत इत्युत्तरत्र संबन्धः । तेनैव पुनरावृत्तेः सत्त्वेनेत्यर्थः । अमुष्य लोकस्यासंपूर्तिर्हि तृतीयः प्रश्नः। स च द्वाभ्यां हेतुभ्यां प्रागुक्ताभ्यां निर्धारितो भवतीति भावः ॥१६॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मणान्तरमावतार्य संगतिमाह — स य इति । तत्रेति निर्धारणे सप्तमी । कथं तर्हि वित्तोपार्जनं संभवति तत्राऽऽह — तच्चेति । तदर्थं वित्तसिद्ध्यर्थमिति यावत् । ननु महत्त्वसिद्ध्यर्थमिदं कर्माऽऽरभ्यते महत्प्राप्नुयामिति श्रुतेस्तत्कथमन्यथा प्रतिज्ञातमिति शङ्कते — महत्त्वेति । परिहरति — महत्त्वे चेति । उक्तेऽर्थे श्रुत्यक्षराणि योजयति — तदुच्यत इत्यादिना । स यो वित्तार्थी कामयेत तस्येदं कर्मेति शेषः । यस्य कस्यचिद्वित्तार्थिनस्तर्हीदं कर्म स्यादित्याशङ्क्याऽऽह — कर्मण्यधिकृत इति । तत्र वित्तार्थिनि पुंसीति यावत् । उपसदो नामेष्टिविशेषाः । ज्योतिष्टोमे प्रवर्ग्याहस्त्विति शेषः । किं पुनस्तासु व्रतमिति तदाह — तत्र चेति । यदुपसत्सु स्तनोपचयापचयाभ्यां पयोभक्षणं यजमानस्य प्रसिद्धं तदत्रोपसद्व्रतमित्यर्थः । प्रकृतेऽपि तर्हि स्तनोपचयापचयाभ्यां पयोभक्षणं स्यादिति चेन्नेत्याह — अत्र चेति । मन्थाख्यं कर्म सप्तम्यर्थः । तत्कर्मेत्युपसद्रूपकर्मोक्तिः । केवलमित्यस्यैवार्थमाह — इति कर्तव्यताशून्यमिति । समासान्तरमाश्रित्य शङ्कते — नन्विति । कर्मधारयरूपं समासवाक्यं तदित्युक्तम् । मन्थाख्यस्य कर्मणः स्मार्तत्वादत्र श्रुत्युक्तानामुपसदामुपसंग्रहाभावान्न कर्मधारयः सिध्यतीत्युत्तरमाह — उच्यत इति । मन्थकर्मणः स्मार्तत्वमाक्षिपति — नन्विति । परिसमूहनपरिलेपनाग्न्युपसमाधानादेः स्मार्तार्थस्यात्रोच्यमानत्वादियं श्रुतिः स्मृत्यनुवादिनी युक्ता । तथा चैतत्कर्म भवत्येव स्मार्तमिति परिहरति — स्मृतीति । ननु श्रुतेर्न स्मृत्यनुवादिनीत्वं वैपरीत्यादतो भवतीदं श्रौतमित्याशङ्क्याऽऽह — श्रौतत्वे हीति । यदीदं कर्म श्रौतं तदा ज्योतिष्टोमेनास्य प्रकृतिविकृतिभावः स्यात् । समग्राङ्गसंयुक्ता प्रकृतिर्विकलाङ्गसंयुक्ता च विकृतिः । प्रकृतिविकृतिभावे च विकृतिकर्मणः प्राकृतधर्मग्राहित्वादुपसद एव व्रतमिति विगृह्य सर्वमितिकर्तव्यतारूपं शक्यं ग्रहीतुं न चात्र श्रौतत्वमस्ति परिलेपनादिसंबन्धात् । न च पूर्वभाविन्याः श्रुतेरुत्तरभाविस्मृत्यनुवादित्वासिद्धिस्तस्यास्त्रैकाल्यविषयत्वाभ्युपगमादिति भावः । मन्थकर्मणः स्मार्तत्वे लिङ्गमाह — अत एवेति । तत्रैव हेत्वन्तरमाह — सर्वा चेति । मन्थगतेतिकर्तव्यताऽत्राऽवृदित्युच्यते । उपसद एव व्रतमिति विग्रहासंभवादुपसत्सु व्रतमित्यस्मदुक्तं सिद्धमुपसंहर्तुमितिशब्दः । पयोव्रती सन्वक्ष्यमाणेन क्रमेण जुहोतीति संबन्धः । ताम्रमौदुम्बरमिति शङ्कां वारयति — उदुम्बरवृक्षमय इति । तस्यैवेति प्रकृतमात्रपरामर्शः । औदुम्बरत्वे विकल्पमाशङ्क्याऽऽह — आकार इति । अत्रेति पात्रनिर्देशः । असंभवादशक्यत्वाच्च सर्वौषधं समाहृत्येत्ययुक्तमित्याशङ्क्याऽऽह — यथासंभवमिति । ओषधिषु नियमं दर्शयति — तत्रेति । परिसंख्यां वारयति — अधिकेति । इति संभृत्यात्रेतिशब्दस्य प्रदर्शनार्थत्वे फलितं वाक्यार्थं कथयति — अन्यदपीति । ओषधीनां संभरणानन्तरं परिसमूहनादिक्रमे किं प्रमाणमित्याशङ्क्याऽऽह — क्रम इति । तत्रेति परिसमूहनाद्युक्तिः । होमाधारत्वेन त्रेताग्निपरिग्रहं वारयति — अग्निमिति । आवसथ्येऽग्नौ होम इति शेषः । कथमेतावता त्रेताग्निपरित्यागस्तत्राऽऽह — एकवचनादिति । कथमुपसमाधानश्रवणं त्रेताग्निनिवारकं तत्राऽऽह — विद्यमानस्येति ।
आहवनीयादेश्चाऽऽधेयत्वान्न प्रागेव सत्त्वमिति भावः । मध्ये स्वस्याग्नेश्चेति शेषः । आवापस्थानमाहुतिविशेषप्रक्षेपप्रदेशः । भो जातवेदस्त्वदधीना यावन्तो देवा वक्रमतयः सन्तो ममार्थान्प्रतिबध्नन्ति तेभ्योऽहमाज्यभागं त्वय्यर्पयामि ते च तेन तृप्ता भूत्वा सर्वैरपि पुरुषार्थैर्मां तर्पयन्तु । अहं च त्वदधीनोऽर्पित इत्याद्यमन्त्रस्यार्थः । जातं जातं वेत्तीति वा जाते जाते विद्यत इति वा जातवेदाः । या देवता कुटिलमतिर्भूत्वा सर्वस्यैवाहमेव धारयन्तीति मत्वा त्वामाश्रित्य वर्तते तां सर्वसाधनीं देवतामहं घृतस्य धारया यजे स्वाहेति पूर्ववदेव द्वितीयमन्त्रार्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 ज्येष्ठायेत्यादिमन्त्रेषु ध्वनितमर्थमाह — एतस्मादेवेति । द्वे द्वे आहुती हुत्वेत्युक्तं तत्र सर्वत्र द्वित्वप्रसंगं प्रत्याचष्टे — रेतस इत्यारभ्येति । संस्रवः स्रुवावलिप्तमाज्यम् ॥२ – ३ ॥
मन्थद्रव्यस्य प्राणदेवताकत्वात्प्राणेनैकीकृत्य सर्वात्मकत्वं तथा च सर्वदेहेषु प्राणरूपेण त्वं भ्रमदसि प्राणस्य चलनात्मकत्वात्तद्रूपत्वाच्च । तत्राग्निरूपेण च त्वं ज्वलदसि प्रकाशात्मकत्वादग्नेस्तद्रूपत्वाच्च । तदनु ब्रह्मरूपेण त्वं पूर्णमसि । नभोरूपेण प्रस्तब्धं निष्कम्पमसि सर्वैरविरोधित्वात्सर्वमपि जगदेकसंभवदात्मन्यन्तर्भाव्यापरिच्छिन्नतया स्थितं वस्तु त्वमसि । प्रस्तोत्रा यज्ञारम्भे त्वमेव हिङ्कृतमसि । तेनैव यज्ञमध्ये हिङ्क्रियमाणं चासि । उद्गात्रा च यज्ञारम्भे तन्मध्ये चोद्गीथमुद्गीयमानं चासि । अध्वर्युणा त्वं श्रावितमसि । आग्नीध्रेण च प्रत्याश्रावितमसि । आर्द्रे मेघोदरे सम्यग्दीप्तमसि । विविधं भवतीति विभुः । प्रभुः समर्थो भोग्यरूपेण सोमात्मना स्थितत्वादन्नं भोक्तृरूपेणाग्न्यात्मना ज्योतिःकारणत्वान्निधनं लयोऽध्यात्माधिदैवयोर्वागादीनामग्न्यादीनां च संहरणात्त्वं संवर्गोऽसीत्यभिमर्शनमन्त्रस्यार्थः ॥४॥ 【भाष्यम्】 【भाष्यम्】
आमंसि त्वं सर्वं विजानासि वयं च ते तव महि महत्तरं रूपममांहि मन्यामहे । स हि प्राणो राजादिगुणः स च मां तथाभूतं करोत्वित्युद्यमनमन्त्रस्यार्थः ॥५॥ 【भाष्यम्】 【भाष्यम्】 तत्सवितुर्वरेण्यं वरणीयं श्रेष्ठं पदं धीमहीति संबन्धः । वाता वायुभेदा मधु सुखमृतायते वहन्ति । सिन्धवो नद्यो मधु क्षरन्ति मधुररसान्स्रवन्ति । ओषधीश्चास्मान्प्रति माध्वीर्मधुरसाः सन्तु । देवस्य सवितुर्भर्गस्तेजोऽन्नं वा प्रस्तुतं पदं चिन्तयामः । नक्तं रात्रिरुतोषतो दिवसाश्च मधु प्रीतिकराः सन्तु । पार्थिवं रजो मधुमदनुद्वेगकरमस्तु । द्यौश्च पिता नोऽस्माकं मधु सुखकरोऽस्तु । यः सविता नोऽस्माकं धियो बुद्धीः प्रचोदयात्प्रेरयेत्तस्य तद्वरेण्यमिति संबन्धः । वनस्पतिः सोमोऽस्माकं मधुमानस्तु । गावो रश्मयो दिशो वा माध्वीः सुखकराः सन्तु । अन्तशब्दादितिशब्दाच्चोपरिष्टादुक्त्वेत्यनुषङ्गः । एवं ग्रासचतुष्टये निवृत्ते सत्यवशिष्टे द्रव्ये किं कर्तव्यं तत्राऽऽह — यथेति । पात्रावशिष्टस्य परित्यागं वारयति — यदिति । निर्णिज्य प्रक्षाल्येति यावत् । पाणिप्रक्षालनवचनसामर्थ्यात्प्राप्तं शुद्ध्यर्थं स्मार्तमाचमनमनुजानाति — अप आचम्येति ।
एकपुण्डरीकशब्दोऽखण्डश्रेष्ठवाची ॥६॥ 【भाष्यम्】 【भाष्यम्】 तमेतं नापुत्रायेत्यादेरर्थमाह — विद्येति । शिष्यः श्रोत्रियो मेधावी धनदायी प्रियः पुत्रो विद्यया विद्यादातेति षट् तीर्थानि संप्रदानानि ॥७ – १३ ॥ प्राणोपासकस्य वित्तार्थिनो मन्थाख्यं कर्मोक्त्वा ब्राह्मणान्तरमुत्थापयति — यादृगिति । उक्तगुणः स कथं स्यादित्यपेक्षायामिति शेषः । तच्छब्दो यथोक्तपुत्रविषयः । यदस्मिन्ब्राह्मणे पुत्रमन्थाख्यं कर्म वक्ष्यते तद्भवति सर्वाधिकारविषयमित्याशङ्क्याऽऽह — प्राणेति । पुत्रमन्थस्य कालनियामाभावमाशङ्क्याऽऽह — यदेति । किमत्र गमकमित्याशङ्क्य रेतःस्तुतिरित्याह — इत्येतदिति । पृथिव्याः सर्वभूतसारत्वे मधुब्राह्मणं प्रमाणयति — सर्वभूतानामिति । तत्र गार्गिब्राह्मणं प्रमाणमित्याह — अप्सु हीति । अपां पृथिव्याश्च रसत्वं कारणत्वाद्युक्तमोषध्यादीनां कथमित्याशङ्क्याऽऽह — कार्यत्वादिति । रेतोऽसृजतेति प्रस्तुत्य रेतसस्तत्र तेजःशब्दप्रयोगात्तस्य पुरुषे सारत्वमैतरेयके विवक्षितमित्याह —
सर्वेभ्य इति ॥१॥ 【भाष्यम्】 【भाष्यम्】 श्रेष्ठमनुश्रयन्तेऽनुसरन्तीति श्रेष्ठानुश्रयणाः । पशुकर्मणि स्वारस्येन प्राणिमात्रस्य प्रवृत्तेर्वृथा विधिरित्याशङ्क्याऽऽह — अत्रेति ।
अवाच्यं कर्म सप्तम्यर्थः ॥२॥ 【भाष्यम्】 【भाष्यम्】 मुष्कौ वृषणौ योनिपार्श्वयोः कठिनौ मांसखण्डौ तत्राधिषवणशब्दितसोमफलकदृष्टिः । यच्चाऽऽनडुहं चर्म सोमखण्डनार्थं तद्दृष्टी रहस्यदेशस्य चर्मणि कर्तव्येत्याह — ताविति । उपास्तिप्रकारमुक्त्वा फलोक्तेस्तात्पर्यमाह — वाजपेयेति । स्तूयते मैथुनाख्यं कर्मेति शेषः । स्तुतिफलमाह — तस्मादिति । इतिशब्दः स्तुतिफलदर्शनार्थः । उपास्तेरधिकं फलमाह — य एवमिति । अविदुषो दुर्व्यापारनिरतस्य प्रत्यवायं दर्शयति —
अथेति ॥३॥ 【भाष्यम्】 【भाष्यम्】 अविदुषामतिगर्हितमिदं कर्मेत्यत्राऽऽचार्यपरम्परासम्मतिमाह — एतद्धेति । पशुकर्मणो वाजपेयसंपन्नत्वमिदंशब्दार्थः । अविदुषामवाच्ये कर्मणि प्रवृत्तानां दोषित्वमुपसंहर्तुमितिशब्दः । विदुषो लाभमविदुषश्च दोषं दर्शयित्वा क्रियाकालात्प्रागेव रेतःस्खलने प्रायश्चित्तं दर्शयति — श्रीमन्थमिति ।
यः प्रतीक्षते तस्य रेतो यदि स्कन्दतीति योजना ॥४॥ 【भाष्यम्】 【भाष्यम्】 मे ममाद्याप्राप्तकाले यद्रेतः पृथिवीं प्रत्यस्कान्त्सीद्रागातिरेकेण स्कन्नमासीदोषधीः प्रत्यप्यसरदगमद्यच्चापः स्वयोनिं प्रति गतमभूत्तदिदं रेतः संप्रत्याददेऽहमित्यादानमन्त्रार्थः । केनाभिप्रायेण तदादानं तदाह — पुनरिति ।
तत्पुना रेतोरूपेण बहिर्निर्गतमिन्द्रियं मां प्रत्येतु समागच्छतु । तेजस्त्वग्गता कान्तिः । भगः सौभाग्यं ज्ञानं वा । तदपि सर्वं रेतोनिर्गमात्तदात्मना बहिर्निर्गतं सन्मां प्रत्यागच्छतु । अग्निर्धिष्ण्यं स्थानं येषां ते देवास्तद्रेतो यथास्थानं कल्पयन्त्विति मार्जनमन्त्रार्थः ॥५॥ 【भाष्यम्】 【भाष्यम्】 अयोनौ रेतःस्खलने प्रायश्चित्तमुक्तं रेतोयोनावुदके रेतःसिचश्छायादर्शने प्रायश्चित्तं दर्शयति — अथेत्यादिना । निमित्तान्तरे प्रायश्चित्तान्तरप्रदर्शनप्रक्रमार्थोऽथशब्दः । मयि तेजःप्रभृति देवाः कल्पयन्त्विति मन्त्रयोजना । प्रकृतेन रेतःसिचा यस्यां पुत्रो जनयितव्यस्तां स्त्रियं स्तौति — श्रीरित्यादिना । कथं सा यशस्विनी न हि तस्याः ख्यातिरस्ति तत्राऽऽह — यदिति । रजस्वलाभिगमनादि प्रतिषिद्धमित्याशङ्क्य विशिनष्टि —
त्रिरात्रेति ॥६॥ 【भाष्यम्】 【भाष्यम्】 ज्ञापयेदात्मीयं प्रेमातिरेकमिति शेषः । बलादेव वशीकृतां भार्यां पशुकर्मार्थं कथमुपगच्छेदित्याकाङ्क्षायामाह — शप्स्यामीति ॥७ – ८॥ भर्तुर्भार्यावशीकरणप्रकारमुक्त्वा पुरुषद्वेषिण्यास्तस्यास्तद्विषये प्रीतिसंपादनप्रक्रियां दर्शयति — स यामित्यादिना ।
हे रेतस्त्वं मदीयात्सर्वस्मादङ्गात्समुत्पद्यसे विशेषतश्च हृदयादन्नरसद्वारेण जायसे स त्वमङ्गानां कषायो रसः सन्विषलिप्तशरविद्धां मृगीमिवामूं मदीयां स्त्रियं मे मादय मद्वशां कुर्वित्यर्थः ॥९॥ 【भाष्यम्】 【भाष्यम्】 तस्याः स्वविषये प्रीतिमापाद्यावाच्यकर्मानुष्ठानदशायामभिप्रायविशेषानुसारेणानुष्ठानविशेषं दर्शयति — अथेत्यादिना । तत्र तत्राथशब्दस्तत्तदुपक्रमार्थो नेतव्यः । पशुकर्मकाले प्रथमं स्वकीयपुंस्त्वद्वारा तदीयस्त्रीत्वे वायुं विसृज्य तेनैव द्वारेण ततस्तदादानाभिमानं कुर्यादित्याह —
अभिप्राण्येति ॥१०॥ 【भाष्यम्】 【भाष्यम्】 भर्तुरेवाभिप्रायान्तरानुसारिणं विधिमाह — अथ यामित्यादिना ।
स्वकीयपञ्चमेन्द्रियेण तदीयपञ्चमेन्द्रियाद्रेतः स्वीकृत्य तत्पुत्रोत्पत्तिसमर्थं कृतमिति मत्वा स्वकीयरेतसा सह तस्मिन्निक्षिपेत्तदिदमपाननं प्राणनं च तत्पूर्वकं रेतःसेचनम् ॥११॥ 【भाष्यम्】 【भाष्यम्】 संप्रति प्रासंगिकमाभिचारिकं कर्म कथयति — अथ पुनरिति । द्वेषवताऽनुष्ठितमिदं कर्म फलवदिति वक्तुं द्विष्यादित्यधिकारिविशेषणम् । आमविशेषणं पात्रस्य प्रकृतकर्मयोग्यत्वख्यापनार्थम् । अग्निमित्येकवचनादुपसमाधानवचनाच्चाऽवसथ्याग्निरत्र विवक्षितः । सर्वं परिस्तरणादि तस्य प्रतिलोमत्वे कर्मणः प्रतिलोमत्वं हेतूकर्तव्यम् । मम स्वभूते योषाग्नौ यौवनादिना समिद्धे रेतो हुतवानसि ततोऽपराधिनस्तव प्राणापानावाददे फडित्युक्त्वा होमो निर्वर्तयितव्यः । तदन्ते चासावित्यात्मनः शत्रोर्वा नाम गृह्णीयात् । इष्टं श्रौतं कर्म सुकृतं स्मार्तम् । आशा प्रार्थना वाचा यत्प्रतिज्ञातं कर्मणा नोपपादितं तस्य प्रतीक्षा पराकाशः । यथोक्तहोमद्वारा शापदानस्य फलं दर्शयति — स एष इति । एवंवित्त्वं मन्थकर्मद्वारा प्राणविद्यावत्त्वम् । तस्मादेवंवित्त्वं परदारगमने यथोक्तदोषज्ञातृत्वम् । तच्छब्दोपात्तं हेत्वन्तरमाह —
एवंविदपीति ॥१२॥ 【भाष्यम्】 【भाष्यम्】 आभिचारिकं कर्म प्रसंगागतमुक्त्वा पूर्वोक्तमृतकालं ज्ञापयति — अथेति । श्रीर्ह वा एषा स्त्रीणामित्येतदपेक्षया पूर्वत्वम् । पाठक्रमादर्थक्रमस्य बलवत्त्वे हेतुमाह — सामर्थ्यादिति ।
अर्थवशादिति यावत् ॥१३॥ 【भाष्यम्】 【भाष्यम्】 किं पुनरवघातनिष्पन्नैस्तण्डुलैरनुष्ठेयं तदाह — स य इति । बलदेवसादृश्यं वा शुद्धत्वं वा शुक्लत्वम् ॥१४-१५॥ स्वाभाविकमोदनं पाचयति चेत्किमर्थमुदग्रहणं तद्व्यतिरेकेणौदनपाकासंभवादित्याशङ्क्याऽऽह — उदग्रहणमिति ।
क्षीरादेरिति शेषः ॥१६॥ 【भाष्यम्】 【भाष्यम्】 वेदविषयमेव तत्पाण्डित्यं किं न स्यादत आह —
वेद इति ॥१७॥ 【भाष्यम्】 【भाष्यम्】 समितिर्विद्वत्सभा तां गच्छतीति विद्वानेवोच्यतामिति चेन्नेत्याह — पाण्डित्यस्येति ।
सर्वशब्दो वेदचतुष्टयविषयः । औक्षेणेत्यादितृतीया सहार्थे । देशविशेषापेक्षया कालविशेषापेक्षया वा मांसनियमः । अथशब्दस्तु पूर्ववाक्येषु यथारुचि विकल्पार्थः ॥१८॥ 【भाष्यम्】 【भाष्यम्】 कदा पुनरिदमोदनपाकादि कर्तव्यं तदाह — अथेति । कोऽसौ स्थालीपाकविधिः कथं वा तत्र होमस्तत्राऽऽह — गार्ह्य इति ।
गृहे प्रसिद्धो गार्ह्यः । अत्रेति पुत्रमन्थकर्मोक्तिः । अतो मद्भार्यातः सकाशाद्भो विश्वावसो गन्धर्वत्वमुत्तिष्ठान्यां च जायां प्रपूर्व्यां तरुणीं पत्या सह संक्रीडमानामिच्छाहं पुनः स्वामिमां जायां समुपैमीति मन्त्रार्थः ॥१९॥ 【भाष्यम्】 【भाष्यम्】 अभिपत्तिरालिङ्गनम् । कदा क्षीरौदनादिभोजनं तदाह — क्षीरेति । भुक्त्वाऽभिपद्यत इति संबन्धः । अहं पतिरमः प्राणोऽस्मि सा त्वं वागसि कथं तव प्राणत्वं मम वाक्त्वमित्याशङ्क्य वाचः प्राणाधीनत्ववत्तव मदधीनत्वादित्यभिप्रेत्य सा त्वमित्यादि पुनर्वचनम् । ऋगाधारं हि साम गीयते । अस्ति च मदाधारत्वं तव । तथा च मम सामत्वमृक्त्वं च तव । द्यौरहं पितृत्वात्पृथिवी त्वं मातृत्वात्तयोर्मातापितृत्वसिद्धेरित्यर्थः । तावावां संरभावहै संरम्भमुद्यमं करवावहै । एहि त्वमागच्छ । कोऽसौ संरम्भस्तमाह — सहेति ।
पुंस्त्वयुक्तपुत्रलाभाय रेतोधारणं कर्तव्यमित्यर्थः ॥२०॥ 【भाष्यम्】 【भाष्यम्】
ऊर्वोः संबोधनं द्यावापृथिवी इति । विजिहीथां विश्लिष्टे भवेतं युवामित्यर्थः । विष्णुर्व्यापनशीलो भगवान्भवत्या योनिं कल्पयतु पुत्रोत्पत्तिसमर्थां करोतु । त्वष्टा सविता तव रूपाणि पिंशतु विभागेन दर्शनयोग्यानि करोतु । प्रजापतिर्विराडात्मा मदात्मना स्थित्वा त्वयि रेतः समासिञ्चतु प्रक्षिपतु । धाता पुनः सूत्रात्मा त्वदीयं गर्भं त्वदात्मना स्थित्वा दधातु धारयतु पुष्णातु च । सिनीवाली दर्शाहर्देवता त्वदात्मना वर्तते । सा च पृथुष्टुका विस्तीर्णस्तुतिर्भोः सिनीवालि पृथुष्टुके गर्भमिमं धेहि धारय । अश्विनो देवौ सूर्याचन्द्रमसौ स्वकीयरश्मिमालिनौ तव गर्भं त्वदात्मना स्थित्वा समाधत्ताम् ॥२१॥ 【भाष्यम्】 【भाष्यम्】 ज्योतिर्मय्यावरणी प्रागासतुर्याभ्यां गर्भमश्विनौ निर्मथितवन्तौ तं तथाभूतं गर्भं ते जठरे दधावहै दशमे मासि प्रसवार्थम् । आधीयमानं गर्भं दृष्टान्तेन दर्शयति — यथेति ।
इन्द्रेण सूर्येणेति यावत् । असाविति पत्युर्वा निर्देशः । तस्या नाम गृह्णातीति पूर्वेण संबन्धः ॥२२॥ 【भाष्यम्】 【भाष्यम्】
समिङ्गयति स्वरूपोपघातमकृत्वैव चालयतीत्येतत् । एवा त एवमेव तव स्वरूपोपघातमकुर्वन्नेजतु गर्भश्चलतु । जरायुणा गर्भवेष्टनमांसखण्डेन सहावैतु निर्गच्छतु । इन्द्रस्य प्राणस्यायं व्रजो मार्गः सर्वकाले गर्भाधानकाले वा कृतः । सार्गल इत्यस्य व्याख्या सपरिश्रय इति । परिवेष्टनेन जरायुणा सहित इत्यर्थः । तं मार्गं प्राप्य त्वमिन्द्र गर्भेण सह निर्जहि निर्गच्छ । गर्भनिःसरणानन्तरं या मांसपेशी निर्गच्छति सावरा तां च निर्गमयेदित्यर्थः ॥२३॥ 【भाष्यम्】 【भाष्यम्】 घृतमिश्रं दधि पृषदाज्यमित्युच्यते । उपघातमित्याभीष्ण्यं पौनःपुन्यं विवक्षितम् । पृषदाज्यस्याल्पमल्पमादाय पुनः पुनर्जुहोतीत्यर्थः । अस्मिन्स्वे गृहे पुत्ररूपेण वर्धमानो मनुष्याणां सहस्रं पुष्यासमनेकमनुष्यपोषको भूयासमस्य मत्पुत्रस्योपसन्द्यां सन्तती प्रजया पशुभिश्च सह श्रीर्मा विच्छिन्ना भूयादित्याह — अस्मिन्निति । मयि पितरि ये प्राणाः सन्ति तान्पुत्रे त्वयि मनसा समर्पयामीत्याह — मयीति ।
अत्यरीचिमित्यतिरिक्तं कृतवानस्मीह कर्मण्यकरमकरवं तत्सर्वं विद्वानग्निः स्विष्टं करोतीति स्विष्टकृत् भूत्वा स्विष्टमनधिकं सुहुतमन्यूनं चास्माकं करोत्वित्यर्थः ॥२४॥ 【भाष्यम्】 【भाष्यम्】
अस्य जातस्य शिशोरित्यर्थः । त्रयीलक्षणा वाक्त्वयि प्रविशत्विति जपतोऽभिप्रायः । एतैर्मन्त्रैर्भूस्ते दधामीत्यादिभिरिति शेषः ॥२५॥ 【भाष्यम्】 【भाष्यम्】 वेदनाम्ना व्यवहारो लोके नास्तीत्याशङ्क्याऽऽह — तदस्येति ।
यत्तद्वेद इति नाम तदस्य गुह्यं भवति । वेदनं वेदोऽनुभवः सर्वस्य निजं स्वरूपमित्यर्थः ॥२६॥ 【भाष्यम्】 【भाष्यम्】
हे सरस्वति यस्ते स्तनः श[स]शयः शयः फलं तेन सह वर्तमानो यश्च सर्वप्राणिनां स्थितिहेत्वन्नभावेन जातो यश्च रत्नधा अन्नस्य पयसो वा धाता यश्च वसु कर्मफलं तद्विन्दतीति वसुवित् । यश्च सुष्ठु ददातीति सुदत्रो येन च स्तनेन विश्वा विश्वानि वार्याणि वरणीयानि देवादीनि भूतानि त्वं पुष्यसि तं स्तनं मदीयपुत्रस्य धातवे पानाय मदीयभार्यास्तने प्रविष्टं कुर्वित्यर्थः ॥२७॥ 【भाष्यम्】 【भाष्यम्】 इला स्तुत्या भोग्याऽसि । मित्रावरुणाभ्यां संभूतो मैत्रावरुणो वसिष्ठस्तस्य भार्या मैत्रावरुणी सा चारुन्धती तद्वत्त्वं तिष्ठसीति भार्या संबोधयति — मैत्रावरुणीति । वीरे पुरुषे मयि निमित्तभूते भवती वीरं पुत्रमजीजनत् । सा त्वं वीरवती जीवबहुपुत्रा भव । या भवती वीरवतः पुत्रसंपन्नानस्मानकरत्कृतवतीति मन्त्रार्थः । पितरमतीत्य वर्तत इत्यतिपिता । अहो महानेव विस्मयो यत्पितरं पितामहं च सर्वमेव वंशमतीत्य सर्वस्मादधिकस्तं जातोऽसीत्यर्थः । न केवलं पुत्रस्यैवेयं स्तुतिरिति तु यथोक्तपुत्रसंपन्नस्य पितुरपीत्याह —
यस्येति ॥२८॥ 【भाष्यम्】 【भाष्यम्】 सान्निध्यात्खिलकाण्डस्य वंशोऽयमिति शङ्कां निवर्तयन्वंशब्राह्मणतात्पर्यमाह — अथेति । विद्याभेदादतीतस्य काण्डद्वयस्य प्रत्येकं वंशभाक्त्वेऽपि नास्य पृथक्त्वभागित्वं खिलत्वेन तच्छेषत्वात् । तथा च समाप्तौ पठितो वंशः समस्तस्यैव प्रवचनस्य भविष्यतीत्यर्थः । पूर्वौ वंशौ पुरुषविशेषितौ तृतीयस्तु स्त्रीविशेषितस्तत्र किं करणमित्याशङ्क्याऽऽह — स्त्रीप्राधान्यादिति । तदेव स्फुटयति — गुणवानिति । कीर्त्यते ब्राह्मणेनेति संबन्धः । शुक्लानि यजूंषीत्यस्य व्याख्यानमव्यामिश्राणीति । दोषैरसंकीर्णानि पौरुषेयत्वदोषद्वाराभावादित्यर्थः । अयातयामान्यदुष्टान्यगतार्थानीत्यर्थः । पाठक्रमेण मनुष्यादिः प्रजापतिपर्यन्तो वंशो व्याख्यातः । संप्रत्यर्थक्रममाश्रित्याऽऽह — प्रजापतिमिति । अधोमुखत्वं पाठक्रमापेक्षयोच्यते । तत्रापि प्रजापतिमारभ्य साञ्जीवीपुत्रपर्यन्तं वाजसनेयिशाखासु सर्वास्वेको वंश इत्याह — समानमिति । प्रवचनाख्यस्य वंशात्मनो ब्रह्मणः संबन्धात्प्रजापतिर्विद्यां लब्धवानित्याह — ब्रह्मण इति । तस्याधिकारिभेदादवान्तरभेदं दर्शयति — तच्चेति । प्रजापतिमुखप्रबन्धः प्रपञ्चः सैव परम्परा तयेति यावत् । तस्य परमात्मरूपं स्वयम्भूत्वमभिदधाति — अनादीति । तस्यापौरुषेयत्वेनासंभावितदोषतया प्रामाण्यमभिप्रेत्य विशिनष्टि — नित्यमिति । आदिमध्यान्तरेषु कृतमङ्गला ग्रन्थाः प्रचारिणो भवन्तीति मन्वानः सन्नाह — तस्मै ब्रह्मणे नम इति ॥१ – ४॥ प्रथमोऽध्यायः प्रथमं ब्राह्मणम् द्वितीयं ब्राह्मणम् तृतीयं ब्राह्मणम् चतुर्थं ब्राह्मणम् पञ्चमं ब्राह्मणम् षष्ठं ब्राह्मणम् द्वितीयोऽध्यायः प्रथमं ब्राह्मणम् द्वितीयं ब्राह्मणम् तृतीयं ब्राह्मणम् चतुर्थं ब्राह्मणम् पञ्चमं ब्राह्मणम् षष्ठं ब्राह्मणम् तृतीयोऽध्यायः प्रथमं ब्राह्मणम् द्वितीयं ब्राह्मणम् तृतीयं ब्राह्मणम् चतुर्थं ब्राह्मणम् पञ्चमं ब्राह्मणम् षष्ठं ब्राह्मणम् सप्तमं ब्राह्मणम् अष्टमं ब्राह्मणम् नवमं ब्राह्मणम् चतुर्थोऽध्यायः प्रथमं ब्राह्मणम् द्वितीयं ब्राह्मणम् तृतीयं ब्राह्मणम् चतुर्थं ब्राह्मणम् पञ्चमं ब्राह्मणम् षष्ठं ब्राह्मणम् पञ्चमोऽध्यायः प्रथमं ब्राह्मणम् द्वितीयं ब्राह्मणम् तृतीयं ब्राह्मणम् चतुर्थं ब्राह्मणम् पञ्चमं ब्राह्मणम् षष्ठं ब्राह्मणम् सप्तमं ब्राह्मणम् अष्टमं ब्राह्मणम् नवमं ब्राह्मणम् दशमं ब्राह्मणम् एकादशं ब्राह्मणम् द्वादशं ब्राह्मणम् त्रयोदशं ब्राह्मणम् चतुर्दशं ब्राह्मणम् पञ्चदशं ब्राह्मणम् षष्ठोऽध्यायः प्रथमं ब्राह्मणम् द्वितीयं ब्राह्मणम् तृतीयं ब्राह्मणम् चतुर्थं ब्राह्मणम् पञ्चमं ब्राह्मणम्
Usando este texto em trabalho acadêmico? Obter citação formal
ĀNANDAGIRI. Ānandagiri Ṭīkā — Bṛhadāraṇyaka. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/anandagiri-tika-brihadaranyaka>. Acesso em: 26/04/2026.
Ānandagiri (2026). Ānandagiri Ṭīkā — Bṛhadāraṇyaka. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/anandagiri-tika-brihadaranyaka
Ānandagiri. "Ānandagiri Ṭīkā — Bṛhadāraṇyaka." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/anandagiri-tika-brihadaranyaka.