Ānandagiri Ṭīkā — Chāndogya
Ānandagiri
हरये परमानन्दवपुषे परमात्मने ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 नमस्त्रय्यन्तसन्दोहसरसीरुहभानवे ।
गुरवे परपक्षौघध्वान्तध्वंसपटीयसे ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 छन्दोगानामुपनिषद्भ्वेदं व्याचिख्यासुर्भगवान्भाष्यकारश्चिकीर्षितग्रन्थपरिसमाप्तिप्रचयपरिपन्थिदुरितनिबर्हणसिद्ध्यर्थमोङ्कारोच्चारणलक्षणं मङ्गलाचरणं सम्पादयन्व्याख्येयस्वरूपं दर्शयति – ओमित्येतदिति । व्याख्यानं सप्रयोजनं प्रतिजानीते – तस्या इति । ननु शारीरके भूयःसु प्रदेशेषु विस्तरेण व्याख्यातत्वादमुष्य भाष्यं किमिति संप्रत्यारभ्यते तत्राऽऽह – सङ्क्षेपत इति । विस्तरेण व्याख्यातत्वेऽपि सङ्ग्रहतो व्याख्यानमस्याः सम्प्रणीयते विस्तृतस्य सङ्क्षिप्य ग्रहणे सुग्रहत्वादित्यर्थः । किञ्च न चेयं यथापाठक्रमं व्याख्याता । प्रकृते तु पाठक्रममनतिक्रम्य व्याख्यायते तद्युक्तमिदं भाष्यमित्याऽऽह – ऋजुविवरणमिति । ऋजु पाठक्रमानुसारि विवरणमर्थस्फुटीकरणं प्रकृतोपनिषदो यस्मिन्भाष्ये तत्तथेति यावत् । अथ पाठक्रममाश्रित्यापि द्राविडं भाष्यं प्रणीतं तत्किमनेनेत्याशङ्क्याऽऽह – अल्पग्रन्थमिति । तथाऽपि विशिष्टाधिकार्यभावे कथमिदमारभ्यते तत्राऽह – अर्थजिज्ञासुभ्य इति । ये हि मुमुक्षवोऽस्या विवक्षितमर्थं जिज्ञासन्ते तेभ्यो भाष्यमिदं प्रस्तूयते । तथा च विशिष्टाधिकारिसम्भवे तदारम्भः सम्भवति तस्य च प्रकृतोपनिषदर्थपरिज्ञानमवान्तरफलं तद्द्वारा कैवल्यं परमं फलमिति भावः । ननु कर्मविधिशेषत्वादुपनिषदस्तद्व्याख्यानेनैव कृतव्याख्यानत्वात्पिष्टपिष्टिप्रसङ्गात्कृतं तद्भाष्येणेत्याशङ्क्य शेषशेषित्वे प्रमाणाभावान्मैवमित्यभिप्रेत्य पूर्वोत्तरकाण्डयोर्नियतपूर्वापरभावप्रयुक्तं सम्बन्धं प्रतिजानीते – तत्रेति । तस्या व्याख्येयत्वेन प्रस्तुताया उपनिषदः कर्मकाण्डेन सह सम्बन्धोऽभिधीयत इत्यर्थः । कोऽसावित्यपेक्षायां तदभिधित्सया कर्मकाण्डार्थमनुवदति – समस्तमिति । विहितं प्रतिषिद्धं च कर्म पूर्वस्मिन्काण्डे प्रतिपन्नमित्यर्थः । तत्र हि विहितं समुच्चितमसमुच्चितं चेति द्विविधमित्यङ्गीकृत्य समुच्चितस्य फलमनुवदति – प्राणादीति । प्राणश्चाग्निश्चेत्याद्या देवता तद्विज्ञानं तदुपासनं तेन समुच्चितमग्निहोत्रादिकर्मार्चिराद्युपलक्षितेन देवयानेन पथा कार्यब्रह्मप्राप्तौ कारणं न तु ब्रह्मप्राप्तौ तस्य गन्तव्यत्वाभावात्कार्यस्यैव गन्तव्यताया बादर्यधिकरणे राद्धान्तितत्वात् । तस्मान्न समुच्चितं विहितं कर्म परमपुरुषार्थहेतुरित्यर्थः । तस्यैवासमुच्चितस्य फलमाह – केवलं चेति । विहितस्य गतिमुक्त्वा प्रतिषिद्धस्य गतिमाह – स्वभावेति । स्वभावेन शास्त्रापेक्षामन्तरेण प्रकृतिवशादेव प्रवृत्ता यथेष्टचेष्टारसिकास्तेषां कर्मज्ञानाभावाद्देवयाने पितृयाणे च पथ्यनधिकृतानामधोगतिस्तिर्यगवस्था क्षुद्रजन्तुलक्षणा अपुनरावृत्तिदुर्लभा वाक्येन । अन्यतरस्मिन्वाऽधिकृतानां परमः पुरुषार्थः सेत्स्यति । “शुक्लकृष्णे गती ह्येते जगतः शाश्वते मतेे” (भ.गी. ८ । २६) इति स्मृत्या तयोर्नित्यफलत्वप्रतिपत्तेरत आह – न चोभयोरित्यादि । ननु मार्गद्वयभ्रष्टानां पुरुषार्थाभावेऽपि द्वयोः पथोरन्यतरस्मिन्वा भविष्यतीति चेत्तत्र न तावद्देवयानपथि निमित्ते निरतिशयपुरुषार्थसिद्धिः । “इमं मानवमावर्तं नावर्तन्ते” (छा.उ. ४ । १५ । ५) “तेषामिह न पुनरावृत्तिः” इत्यत्रेममिहेति विशेषणाद् “एकया यात्यनावृत्तिम्” (भ.गी. ८ । २६) इति स्मृतावनावृत्तेरेतत्कल्पविषयत्वात् कल्पान्तरेऽप्यनावृत्तावपि विशेषणानर्थक्यात् । नापि पितृयाणपथि निरतिशयपुरुषार्थसिद्धिः । “एतमेवाध्वानं पुनर्निवर्तन्ते” (छा.उ. ५ । १० । ५) “अन्ययाऽऽवर्तते पुनः” (भ.गी. ८ । २६) इति चन्द्रस्थलस्खलनावगमात् । तस्मान्न कर्मवशादात्यन्तिकपुरुषार्थप्राप्तिरित्यर्थः । एवमनूद्य कर्मफलं फलितं सम्बन्धमाह – इत्यत इति । उक्तरीत्या कर्म यतो न निरतिशयपुरुषार्थहेतुरतः ससाधनात्कर्मणस्तत्फलाच्च विरक्तस्य निरतिशयपुरुषार्थं काङ्क्षतस्तत्साधनं केवलमात्मज्ञानं संसारान्तर्भूतपूर्वोक्तगतित्रयहेतुकर्मतद्धेतुनिराकरणेन वक्तव्यमित्यभिप्रायेणोपनिषदेषाऽऽरभ्यते । न हि कर्मानुष्ठानात्पुमर्थो निरतिशयो लभ्यते । तस्य “तद्यथेह” (छा.उ. ८ । १ । ६) इत्यादौ क्षयिष्णुफलत्वश्रुतेः । तथा चेश्वरार्पणबुद्ध्याऽनुष्ठितशुभकर्मवशादुपजातशुद्धबुद्धेर्विरक्तस्य मुमुक्षोर्मोक्षसाधनज्ञानार्थोऽयमुपनिषदारम्भत इति हेतुहेतुमद्भावः सम्बन्ध इत्यर्थः । ननु “मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया ॥” इति वृद्धैरुक्तत्वात्काम्यनिषिद्धे वर्जनीये । नित्यनैमित्तिके च कृत्वा व्यवस्थितस्य मुमुक्षोर्वर्तमानदेहपाते पुनर्देहान्तरग्रहे हेत्वभावादनायाससिद्धा ज्ञानादृतेऽपि मुक्तिरिति कथं तादर्थ्येनोपनिषदारभ्यते तत्राऽऽह - न चेति । न हि त्वदुत्प्रेक्षितो मोक्षोपायो विना प्रमाणं प्रकल्पते । न च पौरुषेयं वाक्यं मूलप्रमाणमन्तरेण प्रमाणम् । न चात्र श्रुतिस्मृती प्रत्यक्षादि वा मूलमालोक्यते । सम्भवति च यथावर्णितचरितस्यापि कर्मशेषवशाद्देहान्तरं ; न चैकभाविकः कर्माशयः । “तद्य इह रमणीयचरणाः” (छा.उ. ५ । १० । ७) “ततः शेषेण” (गौ. ध. सू. २ । २ । २९) इत्यादिश्रुतिस्मृतिविरोधात्तस्मादात्मज्ञानादेव मुक्तिरिति भावः । अद्वैतात्मज्ञानविधुराणां भेदज्ञानभाजां कर्मानुष्ठायिनां क्षय्यफलशालित्वे वाक्यशेषं प्रमाणयति – वक्ष्यति हीति । अद्वैतात्मोपदेशानन्तर्यमथशब्दार्थः । ये पुनरनुपासितगुरवस्तदुपदेशशून्या यथामति यथोक्तादद्वैतादन्यथा द्वैतमेव तत्त्वं विदन्ति ते परतन्त्राः सन्तो रागादिना कर्मानुतिष्ठन्तो विनाशिफलशालिनः स्युरिति श्रुत्यर्थः । अद्वैतात्मज्ञानादात्यन्तिकपुरुषार्थसिद्धिरित्यत्रापि वाक्यशेषमनुकूलयति – विपर्यये चेति । चकारात्क्रियापदमनुकृष्यते । स हि विद्वान्विद्यया निरस्ताविद्यादिमलः स्वपरिज्ञानात्स्वयमेव परमात्मा भवति । भेदप्रतिपत्तिहेतोरुच्छिन्नत्वादित्यर्थः । भेदनिष्ठानां कर्मिणां पुरुषार्थो निरतिशयो न सिद्ध्यति । अद्वैतनिष्ठानां तु कर्म त्यजतां पुमर्थः सेत्स्यतीत्यत्र वाक्यशेषस्थं लिङ्गं दर्शयति – तथेत्यादिना । द्वैतमेव विषयस्तस्मिन्वाचारम्भणश्रुतेरनृतेऽभिसन्धा यस्याभिसन्धा सत्यत्वाभिमानस्तस्य बन्धनं परमानन्दस्याऽऽविर्भावराहित्यं संसारात्मकस्य दुःखस्य प्राप्तिश्च । यथा वस्तुतः तस्करस्य नाहं तस्करोऽस्मीति मिथ्यैवाभिमन्यमानस्य परिशोधनार्थं तप्तपरशोर्ग्रहणे दाहो बन्धनं दुःखप्राप्तिश्च प्रतीयते, तथैव द्वैताभिनिवेशवतोऽपीति प्रथममुक्त्वा वस्तुतोऽतस्करस्य परैरारोपिततस्करत्वस्य परिशुशुत्सया तप्तपरशुग्रहणे दाहाद्यभाववद्द्वैताभावोपलक्षिते प्रत्यगात्मनि परमार्थसत्येऽभिमानवतो द्वैताच्च व्यावृत्तचित्तस्यानर्थध्वंसो निरतिशयानन्दाविर्भावश्चेति यथोक्तार्थानुरोधेनाग्रे श्रुतिर्वक्ष्यतीति योजना । केवलमात्मज्ञानं कैवल्यहेतुस्तत्सिद्ध्यर्थमुपनिषदारम्भ इति स्वपक्षो दर्शितः । स्वयूथ्यास्तु कर्मसमुच्चितमात्मानं मोक्षसाधनं तादर्थ्येनोपनिषदारम्भ इत्याहुस्तान्प्रत्याह – अत एवेति । यत्कृतकं तदनित्यमितिव्याप्त्यनुगृहीतया “तद्यथेह” (गौ. ध. सू. २ । २ । २९) इत्यादिश्रुत्या कर्मफलस्यानित्यत्वावगमाद् “ब्रह्मविदाप्नोति परम्” ( तै. उ. २ । १ । १ ) इत्यादिश्रुत्या च ज्ञानफलस्य नित्यत्वसिद्धेर्ज्ञानकर्मणोर्विरुद्धफलत्वाध्यवसायादद्वैतस्याऽऽत्मनो दर्शनं नैव कर्मणा सह भवितुमुत्सहते । न हि विरुद्धयोस्तमःप्रकाशयोः समुच्चयः सङ्गच्छते । तन्न समुच्चितज्ञानार्थत्वेनोपनिषदारम्भ इत्यर्थः । किं चाद्वैतात्मज्ञानं स्वसाध्यसिद्ध्यर्थं वा कर्मापेक्षते स्वबाधकविधूननार्थं वा नाऽऽद्यः । तस्यासाध्यफलत्वादिति मन्वानो द्वितीयं प्रत्याह – क्रियेति । वाक्यजनितस्याद्वैतात्मज्ञानस्येति शेषः । तस्य बाधकाभावेन तत्परिहारार्थं सहकार्यपेक्षा नास्तीत्यर्थः । बाधकप्रत्ययाभावस्यासिद्धिमाशङ्कते – कर्मेति । तद्विषयो विधिप्रत्ययो यजेतेत्यादिविधिजनितः कर्तव्यताबोधः । स चाऽऽत्मनि कर्तृत्वादिकमाकाङ्क्षन्नकर्त्राद्यात्मज्ञानस्य बाधको भवतीत्यर्थः । कस्यायं कर्मविधिरज्ञस्य विदुषो वेति विकल्प्याऽऽद्यं प्रत्याऽह – नेत्यादिना । कर्त्राद्याकारं प्रमाणनिरपेक्षप्रकृतिप्रसूतं मिथ्याज्ञानं तद्वतस्तेन मिथ्याज्ञानेन जनितकर्मफलविषयो रागादिदोषस्तद्वतश्च कर्म विधीयते । न हि कर्ताऽहमित्यादिमिथ्याधियो रागादेश्चाभावे कर्म विधातुं शक्यम् । “यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्” (म.स्मृ. २ । ४) इति स्मृतेः । अतोऽज्ञस्य कर्मविधिपक्षे न तत्प्रत्ययो बाधकः प्राप्त्यभावादित्यर्थः । द्वितीयं शङ्कते – अधिगतेति । अधीतस्वाध्यायो हि वैदिके कर्मण्यधिक्रियते । अध्ययनं चार्थावबोधफलमिति मीमांसकमर्यादा । तथा चाध्ययनवतो ज्ञातसर्ववेदार्थस्य यजेतेत्यादिना कर्मविधानादात्मज्ञानस्यापि कर्माङ्गत्वं गम्यते । न चाऽऽत्मज्ञानमपबाध्यते । अविरोधादित्यर्थः । न तावदर्थावबोधफलमध्ययनमिति प्रामाणिकमक्षरावाप्तिफलं तदिति चाध्येतृप्रसिद्धं तत्राध्ययनविधिवशेन नाऽऽत्मज्ञानस्य कर्मविधिसम्बन्धः सम्भवतीति परिहरति – नेति । किञ्च ममेदं कर्मेति कर्मण्यैश्वर्यं प्रतिपद्य व्यवस्थितं विषयीकृत्य प्रवृत्तस्य कर्त्राद्याकारविज्ञानस्य प्रमाणापेक्षामन्तरेण स्वभावप्राप्तस्य वाक्योत्थेन सम्यग्ज्ञानेनापहृतत्वात्कर्मफलविषयरागाद्ययोगात्तन्निबन्धनस्य कर्मणोऽपि दुरनुष्ठानत्वान्नाऽऽत्मज्ञस्य कर्मोपपत्तिरित्याह – कर्माधिकृतेति । अद्वैतात्मज्ञानस्य कर्मप्रवृत्तिविरोधित्वे फलितमुपसंहरति – तस्मादिति । अज्ञस्य कर्मविधिर्न त्वात्मज्ञानस्येत्यत्र श्रुतिं सम्वादयति – अत एवेति । एते त्रयोऽप्याश्रमिणः कर्माधिकृता इति यावत् । यथा ब्रह्माचारी गृहस्थो वानप्रस्थश्चेत्येते कर्मिणस्तथा ब्रह्मविदपि कर्मी चेन्न पृथक्क्रियेत । पृथक्करणाच्च न तस्य कर्मविधिरिति मत्वोक्तम् – ब्रह्मसंस्थ इति । यदि समुच्चयासम्भवात्केवलमेवाऽऽत्मज्ञानं कैवल्यसाधनमिति तादर्थ्येनोपनिषदारभ्यते हन्त किमित्यस्यामुपनिषदि त्रिविधान्युपासनान्युपन्यस्यन्ते तत्राऽऽह - तत्रेति । उक्तया रीत्योपनिषदारम्भे सतीति यावत् । स यो वायुं दिशां वत्सं वेद न पुत्ररोदं रोदितीत्यादीन्यभ्युदयफलान्युपासनानि । कैवल्येन सनिकृष्टफलत्वं नाम क्रममुक्तिफलत्वम् । अद्वैतान्निष्प्रपञ्चादीषद्विकृतं सगुणं ब्रह्म । कर्मसमृद्धिफलानि कर्मफलगतातिशयफलान्युद्गीथाद्युपासनानीत्यर्थः । आत्मविद्याप्रकरणे त्रिविधोपासनोपन्यासे हेतुमाह – रहस्येति । उपनिषत्पदवेदनीयत्वस्याऽऽत्मविद्यायामुपासनेषु चाविशेषादित्यर्थः । तत्रैव हेत्वन्तरमुद्भाव्य विभजते – मनोवृत्तीत्यादिना । आत्मज्ञानस्योपासनानां च यथोक्तं सामान्यमिष्यते चेत्तर्हि फलतोऽपि विशेषो न स्यादिति मन्वानः शङ्कते – कस्तर्हीति । फलतो विशेषं दर्शयन्नुत्तरमाह – उच्यत इति । तत्र प्रथममात्मज्ञानस्योपासनाभ्यो विशेषमादर्शयति – स्वाभाविकस्येति । प्रत्यगात्मनि क्रियाकारकफलविभागविकले कूटस्थे स्वभावशब्दिताविद्याकृतमध्यारोपितं कर्त्राद्याकारविज्ञानम् । तस्याद्वितीयत्वादिलक्षणाधिष्ठानयाथात्म्यज्ञानं निवर्तकम् । यथा रज्ज्वादावधिष्ठाने सर्पादिसमारोपरूपस्य मिथ्याज्ञानस्य प्रकाशादिकारणप्रसूतो रज्ज्वाद्यधिष्ठानस्वरूपनिश्चयो निवर्तकस्तथेत्यर्थः । संप्रत्युपासनानामद्वैतज्ञानाद्विशेषं दर्शयति – उपासनं त्विति । शास्त्रं “मनो ब्रह्मेत्युपासीत” (छा. उ. ३ । १८ । १) इत्यादि, किञ्चिदालम्बनं मनःप्रभृति विवक्षितम् । समानजातीयप्रत्ययसन्तानकरणं विच्छिद्य विच्छिद्य ध्यायिनोऽपि सिध्यतीति विशिनष्टि – तद्विलक्षणेति । आत्मज्ञानस्योपासनानां चावान्तरविशेषमुपसंहरति – इति विशेष इति । ननु विद्याप्रकरणे यथोक्तोपासनानामुपदेशसम्भवेऽपि विद्यैव प्राधान्यात्प्राथम्येनोच्यतामुपासनानि पुनरप्रधानत्वात्पाश्चात्येन वाच्यानीत्याशङ्क्याऽऽह – तानीति । उपासनानामीश्वरार्पणबुद्ध्याऽनुष्ठितनित्यादिकर्मवच्चित्तशुद्धिद्वारा ज्ञानकारणत्वात्कार्याच्च कारणस्य प्राथम्यप्रसिद्धेः साकारवस्तुविषयत्वेन सुसाध्यत्वाच्च मन्दानां सहसा तेषु प्रवृत्त्युपपत्तेरादावुपदेशः सम्भवतीत्यर्थः । तथाऽपि बहुविधेषूपासनेषु किमित्यङ्गावबद्धमेवोपासनं प्रथममुच्यते तत्राऽऽह – तत्रेति । प्राकृते पुरुषे कर्माभ्यासस्यानादिवासनया दृढीकृतत्वादभ्यस्ततत्तत्कर्मत्यागेऽतत्सम्बन्धिनि केवलोपासने चेतसः समर्पणं दुःखं कर्तुमित्यङ्गावबद्धमेव तावदुपासनमुच्यते । एवमादावुक्त्वा पुनरुपासनान्तराणि क्रमेण वक्तव्यानीत्यर्थः । इत्युपोद्घातभाष्यटीका काण्डद्वयस्य नियतपौर्वापर्यप्रयुक्तसम्बन्धमुपनिषत्तात्पर्यं चोक्त्वा प्रत्यक्षरं व्याख्यातुकामः प्रतीकमादत्ते – ओमित्येतदक्षरमिति । तत्र प्रथममोङ्कारस्याभिधायकत्वपक्षमेवावलम्बते – परमात्मन इति । अभिधानान्तरेभ्यो विशेषं दर्शयति – नेदिष्ठमिति । निकटतममतिशयेन प्रियमिति यावत् । ओङ्कारस्य नेदिष्ठत्वं समर्थयते – तस्मिन्निति । ओङ्कारस्यान्यत्र परमात्मनामत्वेऽपि प्रकृते किं विवक्षितमित्याशङ्क्याऽऽह – तदिहेति । प्रकृते हि वाक्ये तदोमिति पदमितिशब्दशिरस्कं प्रयुक्तमिति शब्दसामर्थ्यादेव वाचकत्वाद्व्यावर्तितं शब्दस्वरूपमात्रमुपास्यं गम्यते । यत्र हातिपरः प्रयोगो न तत्राभिधेयविवक्षास्ति यथा गौरित्ययमाहेति । तथा चात्रेतिपरत्वादोङ्कारस्य स्वरूपमात्रमुपास्यं विवक्षितमित्यर्थः । तथोपास्यत्वार्थं श्रैष्ठ्यं साधयति – तथा चेति । इतिपरप्रयोगवशादभिधायकत्वाभावे सत्यर्चाशब्दितप्रतिमाया भगवत्प्रतीकत्ववदोङ्कारस्यापि परमात्मप्रतीकत्वेन श्रेष्ठत्वादुपास्यत्वसिद्धिरित्यर्थः । तदीय श्रैष्ठ्यं सप्रमाणकं निगमयति – एवमिति । सर्ववेदान्तेष्वेतदालम्बनं परमित्यादिषु । किञ्च नास्य श्रैष्ठ्यं समर्थनीयं प्रसिद्धत्वादित्याह – जपेति । गायत्र्यादिजपे यज्ञादौ कर्मणि स्वाध्यायस्याऽऽदावन्ते चोङ्कारस्य प्रयोगो दृश्यते । “तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥” (भ.गी. १७ । २४) “ब्राह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा । स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यते ॥” (म.स्मृ. २ । ७४) इति स्मृतेः । “ओमिति ब्राह्मणः प्रवक्ष्यन्नाह” (तै.उ. १ । ८) इत्यादिश्रुतेश्चेत्यर्थः । ओमितीत्ययं भागो व्याख्यातः संप्रत्येतदक्षरमित्यस्यार्थमाह – अत इति । श्रेष्ठत्वमुपास्यत्वार्थमनुकृष्यते । व्याप्तेश्च समञ्जसमिति न्यायेन विशेषणस्यार्थवत्त्वमभिप्रेत्य रूढिर्योगमपहरतीति न्यायेनाक्षरशब्दस्य प्रकरणमनुसृत्य प्रसिद्धमर्थमाह – वर्णात्मकमिति । ग्रामो दग्धः पटो दग्ध इतिवदेकदेशे समुदायविषयं पदं प्रवृत्तमित्याह – उद्गीथेति । उपास्तिं विभजते – कर्मेति । उद्गीथावयवत्वादोङ्कारे तच्छब्दप्रवृत्तिरित्युक्तत्वादनन्तरवाक्यमकिञ्चित्करमित्याशङ्क्य श्रुत्युक्तो योऽस्मदुक्तो हेतुस्तेन स्फुटीक्रियते ततश्चोत्कृष्यास्माभिर्दर्शित इत्यभिप्रेत्याऽऽह – स्वयमेवेति । ओमित्येतदक्षरमित्यत्रोपासनोत्पत्तिविधिरुक्तः । सम्प्रति गुणं विवक्षुर्वाक्यान्तरमादाय व्याचष्टे – तस्येति । एवमुपासनमिति । रसतमत्वमाप्तिः समृद्धिरित्येवंगुणकमुपासनं यस्याक्षरस्य तत्तथेत्यर्थः । एवंविभूतीति । परमः परार्ध्यस्तेनेयं त्रयी विद्या वर्तत इत्याद्या विभूतिः स्तुतिर्यस्य तत्तथेति यावत् । एवंफलमिति । “आपयिता ह वै कामानाम्” (छा.उ. १ । १ । ७) इत्यादि फलं यस्योपास्यसाक्षात्कारस्य तत्तथोक्तमित्यर्थः । गोदोहनवदाश्रित्य विधानादधिकृताधिकारमिदमुपासनं तथाऽपि पृथगेव पृथग्घ्यप्रतिबन्धः फलमिति न्यायेन फलवत् । फलं याजमानमुद्गातुर्यजमानेन कर्मार्थं क्रीतत्वात्तत्कर्तृकस्योपासनस्यापि यजमानस्य स्वामिनः फलमिति वचनमादिशब्दार्थः । वाक्यस्य साकाङ्क्षत्वेनाऽऽनर्थक्यं वारयति –
प्रवर्तत इति ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 तदेवोपव्याख्यानमनुवर्तयन्नोङ्कारस्य रसतमत्वं गुणं विधातुं पातनिकां करोति – एषामिति । गतिरित्युत्पत्तिकारणत्वं परायणमिति स्थितिहेतुत्वमवष्टम्भ इति प्रलयनिदानत्वमुच्यत इति भेदः । वैपरीत्येन वाऽमूनि पदानि नेयानि । अपां पृथिवीरसत्वं साधयति – अप्सु हीति । अस्यार्थस्य श्रुत्यन्तरप्रसिद्धिं द्योतयितुं हिशब्दः । ओषधीनामपः प्रति कारणत्वाभावात्कथं तत्र रसशब्दस्तत्राऽऽह – अप्परिणामत्वादिति । कारणपरतया पूर्वत्र व्याख्यातोऽपि रसशब्दो गोरस इतिवदुत्तरत्र कार्यपरतया व्याख्येय इत्यर्थः । कथमोषधीनां पुरुषो रसः । न हि ताभिरसौ क्रियते तत्राऽह – अन्नेति । पुरुषरसत्वं वाचः समर्थयते – पुरुषेति । वाग्विहीनं हि प्रतिपुरुषान्तरं विनिन्दन्ति । अतो वाचः सारतमत्वं प्रसिद्धमिति हिशब्दार्थः । तस्याः सारिष्ठत्वप्रसिद्धिरतःशब्दार्थः । वाङ्निर्वर्त्यत्वादृचस्तद्रसत्वमित्यभिप्रेत्याऽऽह – सारतरेति । ऋचः सकाशादपि तद्ध्यूढं साम गीयमानं वक्तृश्रोत्रोः सुखकरमिति मत्वाऽऽह – सारतरमिति । उद्गीथशब्दं चावयवे प्रकरणान्नियमयति – प्रकृतत्वादिति । न हि सामानोङ्कृतं फलाय भवतीति मन्वानो ब्रूते –
सारतर इति ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 तदर्थं पृथिव्यादीनां रसत्वमुक्तं तदिदानीं दर्शयति – एवमिति । रसतमत्वगुणकमोङ्कारमुपास्यत्वार्थं विशेषणाभ्यां महीकरोति – परम इति । तस्य परमात्मस्थानयोग्यत्वं समर्थयते – परमात्मवदिति । यथा परमात्मा स्वरूपत्वेनानुसन्धीयते तथाऽस्यापि तदात्मनाऽनुसन्धेयत्वाद्विष्णुबुद्ध्यालम्बनार्हप्रतिमावदयमपि परमात्मत्वबुद्ध्यालम्बनयोग्यो भवतीत्यर्थः । ओङ्कारात्पराचीनो रसो नास्तीति तदीयरसतमत्वस्फुटीकरणार्थं परिगणनातः सिद्धमष्टमत्वमनुवदति – अष्टम इति । ननु भूतान्यारभ्य नवमत्वे प्रतीयमाने कथमोङ्कारस्याष्टमत्वं प्रतिज्ञायते तत्राऽऽह – पृथिव्यादीति । स एष इत्युक्तं व्यक्तीकर्तुं यदुद्गीथ इत्येतद्व्याचष्टे – य इति ।
पूर्ववदुद्गीथशब्दोऽवयवपरो नेतव्यः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 अथ गुणान्तरविधानार्थं प्रश्नमवतारयन्वृत्तमनुवदति – वाच इति । ऋचः साम रसः साम्न उद्गीथो रस इति चोक्तमिति द्रष्टव्यम् । इदानीमृगादिजातिं जिज्ञासमानः पृच्छति – कतमेति । वीप्सात्रयं प्रश्ने तत्तज्जातिज्ञाने श्रद्धातिरेकं दर्शयितुमित्याह – कतमा कतमेति । प्रश्नत्रयमाक्षिपति – नन्विति । अनेकजात्यवच्छिन्नानां मध्ये यदैकस्या जातेर्निर्धारणार्थः परिप्रश्नो भवति तदा तस्मिन्विषये विकल्पेन डतमच्प्रत्ययः स्याद्यथा बहूनां कठादीनां मध्ये कठजातिनिर्णयार्थं कतमे कठा इति प्रश्नो दृश्यते तथाऽन्यत्रापीति सूत्रार्थः । बहूनामेकस्या निर्धारणे डतमज्विधानेऽपि प्रकृते प्रश्नत्रये काऽनुपपत्तिरित्याशङ्क्याऽऽह – न हीति । अत्रेत्यध्यापकाध्येतृव्यवहारभूमिरुक्ता । ऋग्जातिग्रहणं सामजातेरुद्गीथजातेश्चोपलक्षणम् । तद्बहुत्वाभावेऽपि किं नश्छिद्यते तत्राऽऽह – कथमिति । ऋगादिजातयो यदि भूयस्यः स्युस्तदा तासां मध्ये कतमर्ग जातिः कतमा सामजातिर्वा कतमा सामजातिर्वा कतमा वोद्गीथजातिरत्र विवक्षितेति प्रश्नो युज्यते । न चास्ति तत्र जातिबहुत्वं प्रमाणाभावादतोऽनुपपन्नं प्रश्नत्रयमित्यर्थः । प्रश्नानुपपत्तिं दूषयति – नैष दोष इति । बहूनां तत्तज्जात्यवच्छिन्नानां सन्निधाने जातौ सत्यां व्यक्तिबहुत्वसम्भवात्तदन्यतमनिर्धारणार्थं परिप्रश्ने विकल्पेन डतमाजति सूत्रार्थाङ्गीकारादृगादिजातौ तद्व्यक्तिबाहुल्यात्कतमा तद्व्यक्तिर्वाच ऋग्रस इत्यादौ विवक्षितेति प्रश्नपर्यवसानादुपपन्नं प्रश्नत्रयमित्यर्थः । यत्तु विग्रहान्तरं गृहीत्वा प्रश्नानुपपत्तिरित्युक्तं तत्राऽऽह – न त्विति । तत्र चानुपपत्तिं यदि जातेरित्यत्र व्यक्तीकरिष्यति । अस्मदिष्टविग्रहापरिग्रहे वृत्तिकारीयमुदाहरणं विरुद्ध्यते । कठशब्दस्य व्यक्तिविशेषत्वाभावादिति शङ्कते – नन्विति । उदाहरणेऽपि सत्यां कठजातौ तद्व्यक्तिबाहुल्यात्तदन्यतमनिर्धारणाभिप्रायेण परिप्रश्ने डतमजित्यङ्गीकारान्न परोक्तोदाहरणविरोधोऽस्मत्पक्षेऽस्तीति परिहरति – तत्रापीति । ननु द्विधाऽपि विग्रहोपपत्तौ किमिति त्वदिष्टो विग्रहो नियम्यते तत्राऽऽह – यदीति ।
त्वदिष्टविग्रहपरिग्रहश्चेदृगादिजातेरेकत्वात्प्रत्येकं बहुत्वायोगात् वा बहूनामित्यादिसूत्रेण कतमर्क्कतमत्सामेत्युदाहरणं न सिद्ध्येत् । तथा च तत्सिद्ध्यर्थं पृथग्विधानं प्रसज्येत । न हि वैदिकमुदाहरणं प्रमत्तगीतमिव हातुं शक्यं तस्मादृगादिव्यक्तिरेवात्र प्रष्टुं युक्तेत्यर्थः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 किमिति यथोक्तरीत्या विमृश्यते । विवक्षितमृगादिस्वरूपमेवाऽऽदावुपन्यस्यतां लाघवादित्याशङ्क्याऽऽह – विमर्शे हीति । शिष्यभूतया श्रुत्या चोदिते सैवाऽऽचार्यभूता परिहरति – वागेवेति । नन्वाद्ये प्रतिवचने वागृचोरेकत्वावगमादोङ्कारस्य रसतमवाक्योपदिष्टमष्टमत्वं व्याहन्येतेत्याशङ्क्याऽऽह – वागृचोरिति । कथं पुना रसतमवाक्यादिदं प्रश्नप्रतिवचनरूपवाक्यं भिद्यतेऽर्थाधिक्याभावात्तत्राऽऽह – आप्तीति । पूर्वं हि वाक्यमोङ्कारस्य रसतमत्वं विदधाति । इदं तु तस्यैवाऽऽप्तिगुणं विधत्ते । तथा च तादृग्गुणविध्यर्थत्वेनास्य वाक्यान्तरत्वादेतद्वाक्यवशादष्टमत्वाभावेऽपि पूर्ववाक्यादोङ्कारस्याष्टमत्वमविरुद्धमित्यर्थः । तथाऽपि कथमृगादिजातीये पृष्टे वागेवर्गित्यादिप्रतिवचनमुचितं तद्व्यक्तिविशेषवचनमेव प्रश्नानुसारीत्याशङ्क्याऽऽह – वाक्प्राणाविति । वागृचो योनिस्तन्निर्वर्तकत्वात् । प्राणश्च साम्नोतो हेतुर्बलेन हि गीतिरुत्पाद्यते । तथा च वागेवेत्यादिना कार्यकारणयोरभेदोपदेशादृङ्मात्रं साममात्रं वा तत्तत्कारणात्मकं प्रतीयते तेन पूर्वत्रापि व्यक्तिरविवक्षिता । प्रश्नप्रतिवचनयोरेकार्थत्वात् । न चैवमृगादिजातेरेकत्वाडुतमच्प्रत्ययानुपपत्तिः । तत्तज्जात्यवच्छिन्नानामृक्सामोद्गीथानां सन्निधावृगादिजातेरेकस्या निर्धारणार्थं परिप्रश्ने तत्प्रयोगसम्भवादृगादिषु प्रत्येकं भेदविवक्षया षष्ठीसमासे दूषणमुक्तम् । तत्र प्रत्येकमेकत्वमुपेत्योक्तरीत्या षष्ठीसमासे तु न किञ्चिद्दुष्यतीति भावः । ऋगात्मिकाया वाचः सामात्मकस्य प्राणस्य ग्रहणे फलितं दर्शयन्नुक्तमेव व्यक्तीकरोति – यथाक्रममिति । ऋक्साममात्रावरोधेऽपि सिध्यतीत्याशङ्क्याऽऽह – सर्वेति । तथाऽपि किं स्यादिति चेत्तदाह – सर्वे कामा इति । उक्तप्रक्रियया सर्वकामावाप्तिहेतुरोङ्कारो विवक्षिताप्तिगुणकः सिध्यतीत्यर्थः । तृतीये वचने तात्पर्यमाह – ओमित्येतदिति । अत्रापि पूर्ववज्जातिगृहीतौ तद्व्यक्तित्वेन भक्तिरेवोक्तेति शङ्कां निरसितुमोमित्येतदक्षरमिति विशेषणम् । तथा चोद्गीथस्तदवयवो विशेषणात्प्रकरणाच्चेत्यर्थः । पारम्पर्येण वाक्प्राणयोः सर्वकामसम्बन्धादुद्गीथस्यापि तथाभूतवागादिसम्बन्धादस्ति सर्वकामसम्बन्ध इत्युक्तम् । इदानीमोङ्कारस्य वाक्प्राणद्वारा सर्वकामसम्बन्धे हेत्वन्तरमाह – तद्वा इति । तदेतत्पदयोरक्षरविषयत्वं व्यावर्त्य वक्ष्यमाणविषयत्वं दर्शयति – मिथुनमिति । वैशब्दो मिथुनप्रसिद्ध्यर्थः । वाक्च प्राणश्चेति यदुभयमुपलभ्यते तदेतन्मिथुनमिति योजनामङ्गीकृत्य वाक्यार्थमाह – ऋक्सामेति । वाक्प्राणयोरृक्सामकारणत्वमुत्तरवाक्येन स्पष्टयति – ऋक्चेति । यथा वाक्प्राणौ मिथुनमेवमृक्सामे च स्वातन्त्र्येण मिथुनं निर्देशसामान्यादित्याशङ्क्याऽऽह – न त्विति । विपक्षे दोषमाह – अन्यथेति । इष्टमेव मिथुनद्वयमिति चेन्नेत्याह – तथा चेति । ननु मिथुनयोरनुगतं मिथुनत्वमादायैकवचनमुपपत्स्यते चेन्नेत्याह – तस्मादिति ।
उपक्रमभङ्गान्न स्वतन्त्रमिथुनद्वयमस्तीत्यर्थः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 भवतु वाक्प्राणाख्यमृक्सामात्मकवाक्प्राणरूपम् । ओङ्कारमिथुनयोः संसर्गे किं फलतीत्याह – एवमिति । कया पुनर्विधया मिथुनेन संसृष्टत्वमक्षरस्य सेत्स्यतीत्यत्राऽऽह – वाङ्मयत्वमिति । यत्तु सर्वकामाप्तिगुणविशिष्टं मिथुनमित्युक्तं तदुपपादयति – मिथुनस्येति । प्रसिद्धमिति । तादृगर्थो यथोक्ताक्षरस्य सर्वकामापयितृत्वे दृष्टान्तः सन्नुच्यतेऽनन्तरवाक्येनेत्यर्थः । दृष्टान्तमेव विवृणोति – यथेत्यादिना । मिथुनद्वयं नास्तीत्युक्तत्वात्कथं मिथुनाविति द्विवचनं तत्राऽऽह – मिथुनावयवाविति । ग्राम्यधर्मतया तथाविधव्यापारतयेति यावत् । वैशब्दोऽवधारणे । विवक्षितं दार्ष्टान्तिकमाचष्टे –
तथेति ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 आप्तेति वक्तव्ये कथमापयितेत्युक्तं तत्राऽऽह – यजमानस्येति । निपातौ त्ववधारणार्थौ उद्गीथं तदवयवभूतमिति यावत् । आप्तिगुणवदोङ्कारोपासनात्कथमुपासिता तद्गुणो भवतीत्याशङ्क्याऽऽह –
तमिति ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 एवमोङ्कारमाप्तिगणविशिष्टं शिष्ट्वा तदुपासनाफलं कथयति – तदुपासकोऽपीति । तद्धर्मेत्युपासकस्याऽऽप्तिगुणवैशिष्ट्योक्तिः । उत्तरग्रन्थस्य गुणान्तरविधाने तात्पर्यं दर्शयति – समृद्धीति । तस्य समृद्धिगुणवत्त्वमप्रामाणिकमित्याशङ्क्य परिहरति – स्वयमित्यादिना । तदेतत्पदयोरोङ्काराख्यमक्षरं विषयत्वेन निर्दिशति – प्रकृतमिति । तस्य स्मृत्यर्थो वैशब्दः । अनुज्ञाक्षरमित्येतद्विगृह्य विवक्षितेनार्थेन घटयति – अनुज्ञा चेति । तस्यानुज्ञात्वे प्रश्नपूर्वकं प्रसिद्धिमुपन्यस्यति – कथमिति । तत्रेति ज्ञानधनयोरुक्तिस्तदित्यनुमन्तव्यसाधारण्येनोच्यते । ओङ्कारस्यानुज्ञाक्षरत्वे लोकप्रसिद्धिवद्वेदप्रसिद्धिं समुच्चिनोति – तथा चेति । कत्येव देवा याज्ञवल्क्येति शाकल्येन पृष्टे त्रयस्त्रिंशदिति याज्ञवल्क्येन प्रयुक्ते सत्योमिति शाकल्योऽनुज्ञां कृतवान् । पुनश्च कत्येवेति प्रश्ने षडिति प्रतिवचने सत्योमिति होवाचेत्यादि वाक्यं बृहदारण्यके यथोक्तार्थानुसारि प्रसिद्धमित्यर्थः । यद्धि किञ्चेत्यादावुक्तां लोकप्रसिद्धिमेव प्रकटयति – तथा च लोकेऽपीति । ओङ्कारस्य लोकवेदप्रसिद्धिभ्यामनुज्ञात्वेऽपि कथं समृद्धिगुणकत्वमित्याशङ्क्याऽऽह – अत इति । उशब्दोऽप्यर्थः समृद्धिशब्दादुपरि सम्बध्यते । तस्याः समृद्धिमूलत्वं साधयति – समृद्धो हीति । अनुज्ञायाः समृद्धिं प्रति कारणत्वेन समृद्धित्वे सत्योङ्कारस्यापि तदात्मकस्य समृद्धिगुणवत्त्वं सिद्धमित्युपसंहरति – तस्मादिति । समर्धयितेत्यादिफलवाक्यं प्रत्याह – समृद्धीति । अस्मिन्वाक्ये समर्धयितेत्यादिपदजातमापयितेत्यादिपूर्ववद्व्याख्येयमित्याह –
इत्यादि पूर्ववदिति ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 ओङ्कारस्य गुणत्रयवतः सफलमुपासनमुक्तम् । तथा वक्तव्याभावात्तेनेयमित्यादिवाक्यमनर्थकमित्याशङ्क्याऽऽह – अथेति । स्तुतेरानर्थक्यमाशङ्क्याऽऽह – उपास्यत्वादिति । प्ररोचनं प्रश्नपूर्वकं प्रकटयति – कथमित्यादिना । त्रयि विद्या वर्तत इति सम्बन्धः । त्रयी विद्येत्यस्योपचरितार्थत्वं कथयति – त्रयी विद्येति । किमिति श्रुतं त्यक्त्वा व्याख्यायते तत्राऽऽह – न हीति । तस्याः स्वरूपलाभस्यानादित्वेन हेत्वनपेक्षत्वादित्यर्थः । कर्मापि कथमाश्रावणादिभिरात्मानं लभते तत्राऽऽह – कर्म त्विति । प्रसिद्धिमेव प्रपञ्चयति – कथमित्यादिना । आध्वर्यवहौत्रौद्गात्रसमाहारस्य दर्शपूर्णमासादिष्वसम्भवादग्निष्टोमादिषु च सम्भवात्तत्त्रितयसमाहाराल्लिङ्गादोङ्कारेण प्रवर्तमानं त्रयविहित कर्म सोमयाग इति प्रतिभातीत्याह – लिङ्गाच्चेति । स्रवत्यनोङ्कृतं कर्मेति न्यायादोङ्कारेण वैदिकस्य कर्मणः स्थितिरिति स्तुतिं विधाय स्तुत्यन्तरमाह – तच्चेति । कथं पुनरक्षरं कर्मणा पूज्यते तत्राऽह – परमात्मेति । तस्य तत्प्रतीकत्वे किं स्यादिति चेत्तदाह – तदपचितिरिति । ननु कर्मणा परमात्मा चेदाराध्यते तर्हि तत्प्रतीकत्वादक्षरस्यापि तेनाऽऽराधनं स्यात् । न चेश्वरस्तेनाऽऽराध्यत इति प्रमाणमस्ति तत्राऽऽह – स्वकर्मणेति । वर्णाश्रमविहितेन कर्मणेश्वरं प्रसाद्य तत्प्रसादवशात्तत्फलं कर्ता प्राप्नोतीति भगवतोक्तत्वादीश्वरपूजार्थं कर्मेति गम्यते । तथा च तत्प्रतीकत्वादोङ्कारस्य तत्पूजार्थं कर्मेति युक्तमित्यर्थः । वैदिकं कर्माक्षरपूजार्थमित्यक्षरं स्तुत्वा विधान्तरेण स्तौति – किञ्चेति । यजमानादीत्यादिपदेन पत्नी गृह्यते । प्राणैस्त्रयीविहितं कर्म वर्तत इति सम्बन्धः । स्तुत्यन्तरमाह – तथेति । यथाऽक्षरविकारैर्यजमानादिप्राणैर्वैदिकं कर्म प्रवर्तते तथेति यावत् । हविषेत्यत्रापि पूर्ववदन्वयः । कथमृत्विगादिप्राणानां हविषश्चाक्षरविकारत्वमत आह – यागेति । आदिशब्दोऽनुक्तवैदिककर्मसङ्ग्रहार्थः । “तस्मादोमित्युदाहृत्य” (भ. गी. १७ । २४) इत्यादिस्मृतेरित्यर्थः । “अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ।” (म.स्मृ. ३ । ७६) इति स्मृतिमाश्रित्याह – तच्चेति । वृष्ट्यादीत्यादिशब्देनान्नस्य प्रजानां चोत्पत्त्युपकरणं सर्वमुच्यते । तथाऽपि कथमेतस्यैवाक्षरस्य महिम्नेत्यादि तत्राऽऽह –
प्राणैरिति ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 आक्षेपाक्षराणि व्याचष्टे – तेनेत्यादिना । ननु कर्मकर्तृत्वे विद्वदविदुषोर्विद्वानेव तत्फलमश्नुते नाविद्वानिति कथमित्याशङ्क्याऽऽह – तयोश्चेति । इतिशब्दस्त्वाक्षिपतीत्यनेन सम्बध्यते । कथं विद्वदविदुषोरविशिष्टं फलमित्याशङ्क्य दृष्टान्तमाह – दृष्टं हीति । विमतं न स्वतन्त्रफलमङ्गज्ञानत्वादाज्यावेक्षणवदिति प्राप्ते प्रत्याह – नैवमिति । हेतुत्वेनावतारितं वाक्यं व्याचष्टे – भिन्ने हीति । विद्योपासना कर्माविद्या तयोर्भिन्नत्वं तन्न विद्यावैयर्थ्यमित्यर्थः । विद्यायाः स्वतन्त्रफलवत्त्वं नास्तीति पक्षस्य व्यावृत्तिप्रकारमेव प्रपञ्चयति – नेत्यादिना । अङ्गज्ञानाद्गुणवदक्षरज्ञानस्याऽऽधिक्ये फलितमाह – तस्मादिति । तदङ्गं कर्माङ्गमुद्गीथमात्रज्ञानं तस्मादाधिक्याद्विशिष्टाक्षरज्ञानस्येति यावत् । यत्तु पुनरुक्तं तयोश्च कर्मसामर्थ्यादेव फलं स्यादिति तत्राऽऽह – दृष्टं हीति । यत्त्वङ्गज्ञानत्वादिति तत्किमङ्गत्वे सति ज्ञानत्वं वाऽऽश्रित्य विहितत्वमथवैतदेव ज्ञानत्वविशेषितम् नाऽऽद्यः । तन्निर्धारणानियमन्यायेनासिद्धेः । न द्वितीयो गोदोहने व्यभिचारात् । त तृतीयो दृष्टान्तस्य साधनविकलत्वादाज्यावेक्षणस्याऽऽश्रित्य विध्युदाहरणबहिर्भूतत्वादङ्गसम्बन्धज्ञानत्वमात्रेण दृष्टान्तत्वे सत्यङ्गत्वोपाधेः सम्भवादित्यभिप्रेत्य ज्ञानाधिक्ये फलाधिक्यमित्यत्रानन्तरवाक्यं योजयति – तस्मादिति । विज्ञानमुद्गीथाद्यङ्गमात्रविषयमुपासनातिरिक्तं तेनेति यावत् । योगो देवतादिविषयमुपासनम् । इतिशब्दस्तदर्थसमाप्त्यर्थः । तत्रैवार्थसिद्धमर्थं कथयति – विद्वदिति । नन्वर्थी समर्थो विद्वानपर्युदस्तश्च कर्मण्यधिकारीत्यङ्गीकारादविदुषस्तल्लक्षणानाक्रान्तस्यानधिकारात्कथं तत्कर्म वीर्यवदिति प्रतिज्ञायते तत्राऽऽह – न चेति । औषस्त्य उषस्तिसम्बन्धे मटचीहतेष्वित्यादिके तस्मिन्ग्रन्थजाते विद्याहीनानामपि कर्मानुष्ठानं दृश्यते प्रस्तोतर्या देवतेत्यादौ तां चेदविद्वानित्यादिलिङ्गात् । तस्मादविदुषोऽपि कर्मण्यधिकारः । अधिकारिलक्षणे तु ज्ञानाभावेऽपि द्रव्यादिज्ञानमात्रेण विशेषणसिद्धिरित्यर्थः । गुणवदक्षरज्ञानं स्वतन्त्रमित्युक्तम् । तत्तु रसतमगुणवदक्षरविषयमेकमुपासनम् । तत्र च विध्युद्देशे फलस्याश्रुतत्वेऽपि विश्वजिन्न्यायेन वा तत्कल्प्यते । आप्तिगुणवतः समृद्धिगुणवतश्चाक्षरस्य द्वे विज्ञाने प्रत्येकं फलश्रुतेः । तथा चात्र त्रीण्युपासनानि पृथक्फलानि विवक्षितानीत्यत आह – रसतमेति । न तावदिहोपासीतेतिविधिव्यतिरेकेण मध्ये विध्यन्तरमुपलभ्यते । न चाऽऽपयिता ह वै कामानामित्यादिवाक्ये फलश्रुत्या विधिरुन्नेयः । रसतमगुणवदक्षरविज्ञानविधौ फलाकाङ्क्षिण्यर्थवादस्थफलांशान्वयेनानेकगुणवदेकविज्ञानविधिसम्भवे विधिभेदकल्पनायोगात् । नो खल्वर्थवादिकफलवदनेकविशेषणकैकोपासनविषयविध्यभ्युपगमेन वाक्यैक्यसम्भवे वाक्यं भेत्तुमुचितम् । एतेन विश्वजिन्न्यायो निरस्तः । रात्रिसत्रन्यायस्तु प्रकृताविरोधीति भावः । तस्योपव्याख्यानमित्युक्तस्योपसंहारवाक्यं खल्वेतस्येत्यादि, तत्रैतच्छब्देन प्रकृताकर्षणे कारणमाह – अनेकैरिति ।
रसतमाप्तिसमृद्धिरूपाण्यनेकानि विशेषणानि तैर्विशिष्टत्वेनाक्षरस्यानेकप्रकारेणोपास्यत्वात् । प्रकारभेदेऽप्युपासनैक्यस्य प्रागेवोक्तत्वात्प्रकृतस्यैवाक्षरस्यैतदुपव्याख्यानं यत्खलु विहितमित्यर्थः ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 इति प्रथमाध्यायस्य प्रथमः खण्डः ॥ अक्षरस्य स्तुत्या महीकृतत्वादुपासने सिद्धे किमुत्तरेण ग्रन्थेनेत्याशङ्क्याऽऽह – तत्रेति । पूर्वस्मिन्सन्दर्भे स्तुतिवशादक्षरविज्ञाने कर्तव्ये तन्निष्पाद्यं कर्म तद्विज्ञानवतोऽनुष्ठेयमिति स्थितिं तदाक्षेप्तुमुत्तरं वाक्यमित्यर्थः । गुणत्रयविशिष्टमुद्गीथावयवभूतमोङ्काराख्यमक्षरं परमात्मप्रतीकं तद्बुद्ध्योपास्यमित्युपदिष्टमिदानीं तस्यैवाक्षरस्याध्यात्माधिदैवभेदेनाऽऽदित्यप्राणदृष्ट्योपासनं विवक्षन्कण्डिकान्तरमवतारयति – देवासुरा इति । तत्राक्षराणि व्याचिख्यासुरप्रतिभाव्युदासार्थं विवक्षितं समासं दर्शयति – देवाश्चेति । देवशब्दनिष्पत्तिप्रकारं सूचयति – देवा इति । दीव्यतिर्द्योतनार्थः “दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु” इति दर्शनात्तस्य चाजन्तस्य सति गुणे कर्तरि यथोक्तरूपसिद्धिरित्यर्थः । ते च द्योतका देवा रूढेरिन्द्रादयो भविष्यन्तीत्याशङ्क्याह – शास्त्रेति । इत्यध्यात्ममित्युपसंहारविरोधात्प्रसिद्धेरेव हेयत्वादुपासकशरीरस्थकरणावस्थादिवाः सत्त्वात्मकाः शास्त्रानुसारिणो देवशब्दवाच्या इत्यर्थः । तथाऽध्यात्ममसुरा विरोचनादयः स्युरित्याशङ्क्य पूर्ववदुपसंहारविरोधमभिप्रेत्याऽऽह – असुरा इति । असुरा इन्द्रियवत्तय एवेति सम्बन्धः । सात्त्विकेन्द्रियवृत्तिभ्यो वैपरीत्यं तासामसुरत्वसिद्ध्यर्थं दर्शयति – तद्विपरीता इति । तासामसुरशब्दवाच्यत्वे निमित्तान्तरमाह – स्वेष्वेवेति । विष्वग्विषयासु विष्वञ्चो नानागतयो विषया यासां तास्विति यावत् । प्राणनक्रियासु जीवानानुकूलप्राणचेष्टास्वित्यर्थः । तदेव स्फोरयति – स्वाभाविक्य इति । शास्त्रापेक्षामन्तरेणैव स्वभाववशात्प्रवर्तमानत्वं स्वाभाविकत्वम् । तथा च शास्त्रीयेन्द्रियवृत्तिभ्यो वैपरीत्यममूषामतिविशदमित्यर्थः । वैपरीत्यान्तरमाह – तम आत्मिका इति । कथं मिथो विषयापहारं निमित्तीकृत्य देवानामसुराणां च सङ्ग्रामोऽभूदित्यपेक्षायामासुरीं वृत्तिं प्रकटयति – शास्त्रीयेति । दैवीं वृत्तिं प्रथयति – तथेति । देवानामुक्तासुरवैपरीत्यं स्फुटयति – शास्त्रेति । स्वाभाविकः शास्त्रानपेक्षस्तमोरूपपाप्मासुरः परिच्छेदाभिमानस्तस्य तिरस्करणार्थमिति यावत् । उक्तमाध्यात्मिकसङ्ग्रामं निगमयति – इत्यन्योन्येति । उक्तरीत्या यथोक्तानां देवानामसुराणां च पराभिभवः स्वोद्भवश्चेत्येवंरूपः सङ्ग्रामः प्रतिदेहमनादिकालप्रवृत्तो यथा देवासुरसङ्ग्रामस्तथेति योजना । किमर्थं पुनरपुरुषार्थरूपो देवासुरसङ्ग्रामः श्रुत्या श्राव्यते तत्राऽऽह – स इहेति । स हि सङ्ग्रामोऽस्मिन्प्रकरणे प्राणस्य विशुद्धिविषयं विज्ञानं विधातुं प्रवृत्तः । तथा श्रुत्या कथारूपेणाऽऽख्यायते । इन्द्रियाणां वषयवैमुख्ये धर्मः स्यात्तेषां तदाभिमुख्ये पापस्योत्पत्तिरिति विवेकविज्ञानसिद्ध्यर्थं चाऽऽख्यायिका प्रणीयते । तस्मादिन्द्रियाणां प्रयत्नतो विषयप्रावण्यं परिहर्तव्यम् । तद्वैमुख्यं च तेषां श्रेयोर्थिभिर्यत्नादाधेयमिति भावः । यजमानप्राणानामेव देवासुरभावस्योक्तत्वमतःशब्दार्थः । प्रजापतिशब्दस्य रूढमर्थमपाकृत्य विवक्षितमर्थमाह – प्रजापतिरिति । उक्तरूपः पुरुषः प्रजापतिरित्यत्र गमकमाह – पुरुष एवेति । कथं पुनर्यथोक्तानां देवासुराणां तदपत्यत्वं तत्राऽऽह – तस्य हीति । यत्रेत्युक्तं सङ्ग्रामनिमित्तं परामृशति – तत्तत्रेति । देवानामुत्कर्षोऽपकर्षश्चासुराणामित्यस्मिन्निमित्ते कथमुद्गीथभक्त्याहरणमित्याशङ्क्याऽऽह – उद्गीथेति । लक्षितलक्षणान्यायं सूचयति – तस्यापीति । उद्गीथभक्तेरिवेत्यपेरर्थः । तदाहरणप्रयोजनं प्रश्नपूर्वकं कथयति –
तत्किमर्थमित्यादिना ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 अचेतनस्य करणस्योद्गातृत्वासम्भवाद्विशिनष्टि – चेतनावन्तमिति । मुख्यं प्राणं व्यावर्तयति – घ्राणमिति । त्वं न उद्गाये वाजसनेयकश्रुतिमाश्रित्याऽऽह – उद्गीथ कर्तारमिति । अथोद्गीथभक्तिरेव श्रूयते न तूद्गाता तत्कथं तदुपासनमित्याशङ्क्याऽऽह – उद्गीथभक्त्येति । तयोपलक्षितमुद्गातारमुपासत इति यावत् । कथमुपासनमित्यपेक्षायामुद्गीथेन कर्तृत्वप्रार्थनयेत्याह – कृतवन्त इति । ते ह नासिक्यमित्यक्षरोक्तमर्थमुक्त्वा वाक्यार्थमाह – नासिक्येति । किमित्यक्षरमोङ्काराख्यमिहोपास्यत्वेन व्याख्यायते तत्राऽऽह – एवं हीति । उक्तमेव स्फुटयति – खल्विति । तथा च प्राणस्योद्गातृदृष्ट्योपासने प्रकृतस्य परित्यागो भक्तेश्च घ्राणप्राणदृष्ट्योपास्वत्वाङ्गीकारेऽप्रकृतोपादानमिति शेषः । पूर्वापरविरोधमाशङ्कते – नन्विति । उद्गीथोपलक्षितेनौद्गात्रेणोपलक्षितं ज्योतिष्टोमादि कर्माऽऽहृतमित्युक्तं तदाहरणं च तस्योपासनं तद्विरुद्धं नासिक्यप्राणदृष्ट्याऽक्षरोपासनवचनमित्यर्थः । स्वोक्तेर्मिथो विरोधं परिहरति – नैष दोष इति । उद्गीथोपलक्षितकर्मोपलक्षिते ज्योतिष्टोमादौ कर्मणि सत्येवोद्गातृप्राणदृष्ट्योपास्यत्वेनाक्षरं विवक्षितम् । ओङ्कारश्चोद्गीथावयवो ध्येयत्वेनेष्टो न स्वतन्त्रो व्यापकः । तथा चाक्षरोपासनार्थत्वेन कर्माहरणं न ध्येयत्वेनेत्यविरोध इत्यर्थः । आश्रित्य विधानार्थं कर्माहरणमित्युक्त्वा तं हेत्यादि व्याचष्टे – तमेवमिति । स्वोत्थेन चाऽऽसुरेण नासिकासम्बद्धेनेति यावत् । अधर्मादासङ्गस्तद्रूपेणेत्येतस्याऽऽङ्गवेधं साधयति – स हीति । कल्याणो गन्धः सुरभिरुक्तस्तस्य ग्रहणं ममैवेत्यभिमानात्मा योऽयमासङ्गस्तेनाभिभूतमुपकारो गन्धाघ्राणकृतस्तुल्यः सर्वस्य कार्यकारणसङ्घातस्येति विवेकविज्ञानं यस्य स तथेति विग्रहः । ननु कथं यथोक्तासङ्गस्पर्शितेत्याशङ्क्याऽऽह – स तेनेति । उक्तेऽर्थे वाक्यं पातयति – तदिदमिति । घ्राणप्राणस्याऽऽसुरपाप्मविद्धत्वे कार्यलिङ्गकमनुमानं सूचयति – यस्मादिति । उक्तानुमानावद्योति वाक्यं व्याकरोति – अत इति । अतःशब्दार्थमेव स्पष्टयति – पाप्मनेति । ननु पाप्मना विद्वत्वात्तेन लोको दुर्गन्धं जानातीत्येव वक्तव्यं सुरभिज्ञानस्य पाप्मकर्मत्वाभावात् । तथा च कथं तेनोभयं जिघ्रतीत्युक्तं तत्राऽऽह – उभयग्रहणमिति । एकस्यापि हविषो द्रावात्मकस्य पुरोडाशादेर्वा काकादिसम्बन्धाद्भ्रंशे प्रायश्चित्तसत्त्वेऽपि यस्योभयं हविरार्तिमार्छति स ऐन्द्रं पञ्चशरावमोदनं निर्वपेदित्यत्रोभयग्रहणमविवक्षितमिति स्थितं प्रथमे तन्त्रे तथाऽत्रापीत्याह – यस्येति । न केवलं पाप्मना हीति वाक्यशेषादत्रोभयग्रहणामविवक्षितं किन्तु वाजसनेयके यथोक्तोद्गीथविद्याविषयत्वेन समानप्रकरणे यदेवेदमप्रतिरूपं जिघ्रति स एव स पाप्मेति श्रुतेरत्रापि पाप्मवेधवशाद्दुर्गन्धं जानातीत्येव वक्तव्यत्वादविवक्षितमुभयग्रहणमित्याह –
यदेवेति ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 संप्रत्युद्गीथाहरणप्रकारं प्रकटयति – यदा चेति । ननु नासिक्यस्य प्राणस्य पाप्मविद्धत्वादनुपास्यत्वे सिद्धे न्यायसाम्याद्वागादीनामपि नोपास्यत्वमिति सिद्ध्यति तत्किमुत्तरग्रन्थेनेत्यत आह – मुख्यप्राणस्येति । न्यायसाम्येऽपि मुखतो निराकरणाभावे मुख्यप्राणस्यैवोपास्यत्वमित्यनिश्चयात्तदुपास्यतादार्ढ्यार्थं मुखतो वागादीनामुपास्यत्वमपाकर्तुमुत्तरग्रन्थ इत्यर्थः । विद्धा इति विचार्य क्रमेणापोह्यन्त इति सम्बन्धः । उत्तरवाक्येष्वक्षरव्याख्यानमनपेक्षितं पूर्वेण समानत्वादित्याह – समानमिति । अवशिष्टवाक्यैकदेशग्रहणार्थमादिपदम् । ननु घ्राणादीनां पाप्मविद्धत्वादनुपास्यत्वेऽपि त्वगादीनां तद्विद्धत्वेनानुपास्यत्वावचनान्मुख्यस्यैव प्राणस्योपास्यत्वं नावसीयते तत्राऽऽह – अनुक्ता इति । उक्तानामनुक्तोपलक्षणत्वे बृहदारण्यकश्रुतिं सम्वादयति – एवमु खल्विति ॥ ३ – ४ – ५ – ६ ॥ अथ हेत्यादि मुख्यप्राणविषयं वाक्यमुत्थाप्य व्याकरोति – आसुरेणेत्यादिना । पूर्ववद्वागादिष्विवेति यावत् । टङ्कैश्च विदारकैर्लोहविशेषैरित्यर्थः । अश्रुतस्य लोष्टस्यात्रोपादाने हेतुमाह – सामर्थ्यादिति । तस्य ध्वंसनयोग्यत्वाद्ध्वंसतेश्च कर्त्रपेक्षत्वादित्यर्थः । तर्हि यस्य कस्यचिदेवंविधस्य सम्भवादलं लोष्टग्रहणेनेत्याशङ्क्य “यथाऽश्मानमृत्वा लोष्टो विध्वंसेत” (बृ.उ. १ । ३ । ७) इति बृहदारण्यकश्रुतेस्तस्यैवात्र ग्रहणमित्याह –
श्रुत्यन्तराच्चेति ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 दृष्टान्तदार्ष्टान्तिकाभ्यां सिद्धमर्थं निगमयति – एवमिति । प्राणस्य विशुद्धत्वात्तदुपासनं कर्तव्यमिति शेषः । फलवचनमवतार्य व्याकरोति – एवंविद इत्यादिना । प्राणवित्प्रत्तिस्पर्धिनो विनाशे हेतुमाह – यस्मादिति । नासिक्यप्राणस्य मुख्यप्राणस्य च वायुविकारत्वेन प्राणत्वाविशेषात्पाप्मना वेधावेधौ तुल्यावेव स्यातामिति शङ्कते – नन्विति । स्थानविशेषसम्बन्धासम्बन्धाभ्यां द्वयोरपि पाप्मवेधावेधव्यवस्था युक्तेति परिहरति – नैष दोष इति । स्थानावस्थावच्छिन्ने करणे वैगुण्यं विषयविशेषासक्तत्वं तस्मात्तद्रूपस्य नासिक्यप्राणस्यापि विद्धता स्यादिति यावत् । तदसम्भवाद्विशेषसम्बन्धप्रयुक्तवैगुण्यायोगादित्येतच्छ्लिष्टमुक्तमुपपन्नम् । स्थानसम्बन्धविशेषाद्घ्राणप्राणस्य पाप्मविद्धत्वं तदभावाच्च मुख्यप्राणस्य तदविद्धत्वमित्येतद्दृष्टान्तेन स्पष्टयति – यथेत्यादिना ।
न मुख्यो दोषवद्घ्राणसचिवत्वाभावादिति शेषः ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 घ्राणदेवता विद्धा प्राणदेवता तु न विद्धेत्यत्र गमकत्वेनानन्तरवाक्यं व्याचष्टे – यस्मादिति । मुख्यप्राणस्य पाप्मवेधाभावमुपसंहरति – अतश्चेति । पाप्मकार्यमासङ्गस्तस्य प्राणेऽनुपलम्भादित्यतःशब्दस्यैवार्थः । हिशब्देनोक्तं पाप्मावेधं विशुद्धत्वे हेतूकृत्य मुख्यप्राणविशुद्धिमुपसंहरति – ह्येष इति । तस्य विशुद्धत्वे हेत्वन्तरमाह – यस्माच्चेति । अतो विशुद्ध इत्युत्तरत्र सम्बन्धः । सर्वार्थत्वं प्राणस्य प्रश्नपूर्वकं प्रतिपादयति – कथमित्यादिना । घ्राणादीत्यादिशब्देन कार्यमप्युच्यते । तेनैतास्तृप्यन्तीति श्रुत्यन्तरमाश्रित्याऽऽह – तेन हीति । प्राणवृत्तिहेतुभ्यामन्नपानाभ्यां सङ्घातस्थितिरतःशब्दार्थः । सर्वार्थत्वं द्वितीयस्यातःशब्दस्यार्थः । मुख्यप्राणोपयुक्तत्वादन्नपानानां सङ्घातस्थितिहेतुत्वमित्यत्र प्रश्नपूर्वकं लिङ्गं दर्शयति – कथमित्यादिना । वृत्तिमेव विशिनष्टि – अन्नपाने इति । अन्वहमुपभुज्यमाने अन्नपाने प्राणस्थितिहेतू इति यावत् । प्राणस्योच्चिक्रमिषायामपि सङ्घातः स्वयमशनपाने कृत्वा स्थास्यतीत्याशङ्क्याऽह – अप्राणो हीति । तदा प्राणोच्चिक्रमिषावस्थायामिति यावत् । ननूत्क्रान्त्यवस्थायामशिशिषाद्यभावादेव सङ्घातस्योत्क्रान्तिर्न त्वशनाद्यभावात्तत्र प्रमाणाभावादत आह – दृश्यते हीति ।
तदिति मुखव्यादानमुच्यते । अन्नग्रहणं पानोपलक्षणार्थम् ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 विशुद्धिगुणकमुख्यप्राणात्मोद्गातृदृष्ट्योद्गीथावयवभूतमोङ्काराख्यमक्षरमुपास्यमित्युक्तमिदानीं तत्रैवाऽऽङ्गिरसबृहस्पत्ययास्यगुणत्रयविधानार्थमुत्तरग्रन्थमुत्थापयति – तं हेति । तत्र वृत्तिकाराभिप्रेतं सम्बन्धं दर्शयति – तं मुख्यमिति । पराभिप्रेतसम्बन्धे गमकमाह – एतमिति । अव्यवहितसम्बन्धसम्भवे व्यवहितसम्बन्धकल्पना न युक्तेति परिहरति – भवत्येवमिति । ऋषीणामङ्गिरोबृहस्पत्यादिशब्दैरुपदेशेऽपि गुणत्रयविशिष्टप्राणोपासनं न विरुध्यते ततश्च प्रधानानामबाधे प्राणोपासकानामृषीणामुपदेशो न त्यागमर्हत्यङ्गिरोबृहस्पत्यादिशब्देभ्योऽपि प्रथमप्रतिपन्नानृषीन्विहाय यौगिकवृत्तिप्रतिपत्तव्यगुणमात्रप्रतिपत्त्यनुपपत्तेरित्यर्थः । प्राणोपासकानामृषीणामभिधानमैतरेयकश्रुत्या द्रढयति – श्रुत्यन्तरवदिति । तदेव स्पष्टयति – तस्मादिति । शतर्चिनो नाम प्रथममण्डलदृश ऋषयः । एष च प्राणो यस्मात्पुरुषं सङ्गाताख्यं शतवर्षाण्यभिगतवांस्तस्मादेतमेव प्राणं सन्तमृषिशरीरस्थितमपि शतर्चिनशब्दवाच्यं वदन्तीति योजना । शतर्चिशब्दवदुभयविषयाणि शब्दान्तराण्यपि सन्तीत्याह – तथेति । आद्यन्ते मण्डले मुक्त्वा मध्यमानां मण्डलानां द्रष्टारो माध्यमा ऋषयस्तेऽपि प्राणस्तस्य स्वात्मनि मध्ये सर्वजगद्विधारकत्वात् । गृत्समदस्तु द्वितीयमण्डलदर्शी स्वापकाले वागादीनां गिरणात्प्राणो गृत्सो रेतोविसर्गकारणमदहेतुत्वादपानो मदः प्राणापानात्मकत्वात्प्राणोऽपि तथोच्यते । तृतीयमण्डलदर्शी विश्वामित्रः प्राणोऽपि तथा व्यपदिश्यते । तस्य हि विश्वं भोज्यजातं स्थितिहेतुतया स्निग्धमासीत् । वामदेवस्तु चतुर्थमण्डलद्रष्टा प्राणोऽपि तच्छब्दवाच्यस्तस्य वागादिदेवतासम्भजनीयत्वात् । पञ्चममण्डलद्रष्टाऽत्रिरित्युच्यते प्राणोऽपि तथैव कथ्यते । तस्य पाप्मनोऽनर्थरूपान्प्रति सर्वत्रात्तृत्वात् । आदिपदेन भरद्वाजादिपदानि गृहीतानि । दृष्टान्तमेवं व्याख्याय दार्ष्टान्तिकमाह – तथेति । किमित्यङ्गिरःप्रभृतीन्प्राणं करोति श्रुतिरत आह – अभेदेति । तथा च सप्तमे प्राणस्य सार्वात्म्यं वक्ष्यते तथाऽत्रापि तस्य तत्तदृषिरूपत्वं विवक्षितमित्याह – प्राणो हेति । अव्यवहितसम्बन्धसम्भवे फलितं वाक्यार्थं कथयति – तस्मादिति । प्राणस्याङ्गिरसत्वं व्युत्पादयति –
यस्मादिति ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 अङ्गरःशब्दवद्बृहस्पतिशब्दोऽप्युभयत्र नेतव्य इत्याह – तथेति । प्राणस्य बृहस्पतित्वं साधयति – वाच इति । अङ्गिरोबृहस्पतिशब्दवदस्यशब्दोऽप्युभयत्र द्रष्टव्य इत्याह – तथेति । तस्योभयत्र वृत्तिं विशदयति – यद्यस्मादिति । यस्मादास्यादयते तेनाऽयास्यः प्राणः स एवात्रोपासकत्वादृषिरपि तथेति योजना । यथोक्तानामृषीणामेवोक्तगुणकमुपासनं नान्येषां विशेषवचनादित्याशङ्क्याऽऽह – तथेति । विशेषस्य न शेषनिवर्तकत्वं प्रदर्शनार्थत्वादित्यर्थः ॥ ११ – १२ ॥ यथोक्तोपासनस्य त्रिषु नियमाभावे गमकं दर्शयति – न केवलमिति । सम्प्रति विहितोपासनस्य दृष्टफलमादेष्टुं पातनिकां करोति –
विदित्वेति ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 भूमिकां कृत्वा विवक्षितमुपास्तिफलं कथयति – तथेति । दृष्टमिति विशेषणादभीष्टं फलान्तरमाचष्टे – प्राणेति । आत्मविषयं शरीरवर्तिप्राणगोचरमिति यावत् । उपसंहारस्य प्रयोजनमाह –
आधिदैवेति ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य द्वितीयः खण्डः ॥ अनन्तरमाध्यात्मिकप्राणदृष्ट्योद्गीथोपासनवचनादिति शेषः । किमिति देवताविषयमुद्गीथोपासनं प्रस्तूयते तत्राऽऽह – अनेकधेति । प्राणरूपेणाऽऽदित्यादिरूपेण चोद्गीथस्योपास्यत्वाद्देवताविषयतदुपास्तिप्रस्तावो युक्त एवेत्यर्थः । आदित्यादिमतयश्चेत्यादिन्यायेन वाक्यार्थं कथयति – आदित्यदृष्ट्येति । “तमादित्यमुद्गीथमुपासीत” इत्यादित्यशब्दस्योद्गीथशब्दस्य च सामानाधिकरण्यमयुक्तमुद्गीथशब्दस्य प्रकरणादक्षरवाचित्वादादित्यशब्दस्य च ज्योतिर्विषयत्वाद्भिन्नार्थयोश्च शब्दयोः सामानाधिकरण्यायोगादिति शङ्कते – तमुद्गीथमितीति । आदित्ये यद्यपि नोद्गीथशब्दो रूढ्या वर्तितुमर्हति तथाऽपि गौण्या च तत्र तत्र वृत्तेः सामानाधिकरण्यसिद्धिरित्युत्तरमाह – उच्यत इति । प्रजार्थमुद्गायतीत्येतदेव स्पष्टयति – प्रजानामिति । अन्नोत्पत्त्यर्थमुद्गायतीति पूर्वेण सम्बन्धः । तदेव व्यतिरेकद्वारा साधयति – न हीति । आदित्यस्यान्नार्थमागानमतःशब्दार्थः । न तस्योद्गातुरिव प्रत्यक्षमुद्गानमुपलब्धमित्याशङ्क्याऽऽह – उद्गायतीवेति । उपमामेवोपपादयति – यथेति । ’अथाऽऽत्मनेऽन्नाद्यमागायेदि”तिश्रुत्यन्तरे यथाऽन्नार्थमुद्गाताऽऽगायतीत्यवगतं तथाऽऽदित्योऽपि प्रजानामन्नार्थमागायतीत्यर्थः । उद्गीथशब्दस्याऽऽदित्ये सम्भवं परामृश्य फलिर्तमाह – अत इति । आदित्यदृष्ट्योद्गीथोपासनमुपपाद्य फलोक्तिं व्याचष्टे – किञ्चेत्यादिना ।
एवंगुण तमस्तज्जभयनिवर्तकत्वगुणसहितमिति यावत् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 गुणतः साम्य साधयति – यस्मादिति । नामतः साम्यं सङ्गिरते – किञ्चेति । सवितृवत्प्राणेऽपि प्रत्यास्वरशब्दप्रवृत्तिमाशङ्क्याऽऽह – यस्मादिति । स्वरत्येव गच्छत्येवेति यावत् । तस्मिन्नेव स्थूलदेहे न प्रत्यागच्छति तस्मात्प्राणे स्वरशब्दप्रवृत्तिरेवेत्यर्थः । सवितर्यपि तर्हि तच्छब्दप्रवृत्तिरेवेत्याशङ्क्याऽऽह – सविता त्विति । आदित्यस्यास्तं गतस्य प्रत्यहमेकत्रैवाऽऽगतिदर्शनात्तस्मिन्प्रत्यास्वरशब्दस्यापि प्रवृत्तिरस्तीत्यर्थः । अतः प्राणादित्ययोरुक्तं साम्यं निगमयति – अस्मादिति । अन्योन्यसाम्यकृतं फलमाह – अत इति ।
प्राणादित्यावेकीकृत्य तद्दृष्ट्योद्गीथावयवभूतमोङ्काराख्यमक्षरमुपास्यमित्यर्थः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 नन्वध्यात्ममधिदैवतमिति स्थानभेदात्प्राणादित्ययोर्भिन्नत्वाद्भिन्नमेव तयोरुपासनमुपादेयमत आह – यद्यपीति । प्राणदित्ययोः स्वरूपभेदाभावं प्रश्नपूर्वकं प्रतिपादयति – कथमित्यादिना । उशब्दोऽप्यर्थः स्थानभेदतो भेदमनुजानाति । अथाऽऽध्यात्मिकमाधिदैविकं चोद्गीथोपासनं प्रस्तुत्य तदेव समस्यैकीकृत्योक्तं तथा च वक्तव्याभावात् किमुत्तरेण ग्रन्थेनेत्याशङ्क्याऽऽध्यात्मिकमेवोद्गीथोपासनमनुसृत्याऽह – अथेति । कोऽसौ व्यानो यद्दृष्ट्योद्गीथोपासनमुपदिदिक्षितमत आह – वक्ष्यमाणलक्षणमिति । पक्षान्तरं व्यावर्तयति – प्राणस्यैवेति । वक्ष्यमाणलक्षणमित्युक्तं व्यक्तीकरोति – अधुनेति । तन्निरूपणार्थमादौ प्राणापानौ निरूपयति – यद्वा इत्यादिना । ताभ्यामेव मुखनासिकाभ्यामित्येतत् । स्यातामेवं प्राणापानौ व्यानस्य तु किमायातामिति शङ्कित्वा तत्स्वरूपं दर्शयति – तत इत्यादिना । सन्धिमेव स्फुटयति – तयोरिति । प्राणापानयोर्वृत्त्योरभावावस्थायां मध्ये च वायोर्वृत्तिविशेषो योऽस्ति स व्यानशब्दार्थ इत्यर्थः । सन्धिस्कन्धमर्मदेशवृत्तिर्व्यान इति साङ्ख्या योगाश्चाऽऽहुस्तान्प्रत्याह – यः साङ्ख्यादीति । साङ्ख्यानां योगानां च शास्त्रे प्रसिद्धो यो वायोर्वृत्तिविशेषः स्कन्धादिदेशगो नासौ व्यानःश्रुत्या विशेषनिरूपणादिति योजना । व्यानस्य प्राणापानसापेक्षत्वात्तयोरन्यतरस्योपासनमेवोचितं न व्यानोपासनमिति मन्वानश्चोदयति – कस्मादिति । महताऽऽयासेन व्यानसतत्त्वनिरूपणेनेति यावत् । ताभ्यां तस्य वैशिष्ट्यमुपेत्य परिहरति – वीर्यवदिति । व्यानस्यैवोपासनमिति शेषः । तदेव प्रश्नद्वारा प्रपञ्चयति – कथमित्यादिना । कथं व्यानस्य वीर्यवत्कर्म प्रसिद्ध प्रतिज्ञायते कार्यकारणभावादित्याह – व्यानेति । वाचो व्याननिर्वर्त्यत्वे लिङ्गं दर्शयति –
यस्मादिति ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 या वागित्यादिवाक्यानामर्थं सङ्क्षिपति –
तथेत्यादिना ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 अतो यानीत्यादि व्याचष्टे – न केवलमिति । व्यानेन निर्वर्तयतीति पूर्वेण सम्बन्धः । यान्यन्यान्यपि यथोक्तानि कर्माणि तानि लोको व्यानेनैव करोतीत्युत्तरत्र सम्बन्धः । प्रयत्नाधिक्यनिर्वर्त्यानि कर्माण्येवोदाहरति – यथेति । यथा तानि कर्माणि तथाऽन्यान्यप्येवंप्रकाराणीति योजना । व्यानस्य वीर्यवत्कर्महेतुत्वे फलितमाह – अत इति । वैशिष्ट्येऽपि किं स्यादिति चेत्तदाह – विशिष्टस्येति । वैशिष्ट्यफलमुपसंहरति – एतस्येति । फलवत्त्वादित्युक्तमुपास्तिफलं स्पष्टयति – कर्मेति ।
व्यानदृष्ट्योद्गीथोपासनस्याङ्गावबद्धत्वादिति शेषः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 उद्गीथोपासनप्रसङ्गेनोद्गीथाक्षरोपासनां प्रस्तौति – अथेति । विशेषणतात्पर्यं दर्शयति – भक्तीति । उद्गीथाक्षराण्युपासीतेत्युक्ते भक्त्यक्षराण्युपास्यानि प्राप्तानि तानि मा भूवन्निति यतो मन्यते श्रुतिस्ततो विशेषणं करोतीत्यर्थः । विशेषणश्रुतिं व्याकरोति – उद्गीथेति । नामाक्षरोपासनमुद्गीथोपासनस्याकिञ्चित्करमित्याशङ्क्याऽऽह – नामेति । यथा लोके कृष्णमिश्रादिवाचकशब्दप्रयोगे वाच्यस्य पुरुषविशेषस्योपासनं गम्यते तथेहापीत्यर्थः । नामाक्षरोपासने नामवदुपासनेऽपि तदुपासनमेव कथमित्याशङ्क्य विभजते – प्राण एवेति । प्राणस्योदः सादृश्यं प्रश्नपूर्वकमाह – कथमित्यादिना । गीरित्यस्मिन्नक्षरे वाग्दृष्टिः कर्तव्येत्याह – वाग्गीरिति । वाचो गिरश्च सादृश्यं दर्शयति – वाचो हेति । उद्गीरक्षरयोः प्राणवाग्दृष्टिरिव थमित्यस्मिन्नक्षरेऽन्नदृष्टिः कार्येत्याह – तथेति । थकारान्नयोरपेक्षितं सादृश्यं दर्शयति –
अन्ने हीति ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 अन्तरिक्षमाकाशस्तदन्तःप्रतिष्ठा लोकास्तेन गीर्णा इवेति मत्वाऽऽह – गिरणादिति । अग्न्यादीनां गिरणादिति संवर्गविद्यायां द्रष्टव्यम् । “सामवेदो वै स्वर्गो लोक” इति स्वर्गलोकत्वेन सामवेदस्य संस्तुतत्वादिति हेतुमाह – स्वर्गेति । यजुषा स्वाहास्वधादिनेति यावत् । अध्यात्ममधिलोकमधिदैवमधिवेदं च नामाक्षरोपासनमुक्त्वा तत्फलोक्तिमवतार्य व्याकरोति – उद्गीथेति । यो वाचो दोह इत्यत्र षष्ठी कर्मणि द्रष्टव्या । तमेव वाग्दोहं प्रकटयति – ऋग्वेदादीति । तत्साध्यं फलं स्वाधीनोच्चरणक्षमत्वं तदनायासेनास्य सम्भवतीत्यर्थः । तदिति प्रकृतफलपरामर्शः । षष्ठी पूर्ववत् । तमिति दोहोक्तिः । वाच एव दोहे कर्मत्वं कर्तृत्वं चेत्याह – आत्मानमेवेति । यो दोग्धा सा वागेव सा चाऽऽत्मानमेव तं दोग्धीति योजना । यथोक्तानि प्राणवागन्नादिरूपत्वेनोक्तानीति यावत् । यथोक्तगुणान्युत्थानगिरणस्थित्यादिधर्मकाणीत्यर्थः । उद्गीथाक्षराणीत्युक्तं विशेषणानुवादेन स्फुटयति – उद्गीथ इति ।
उद्गीथ इत्येवंरूपस्य नाम्नोऽक्षराणीति यावत् ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 प्राण एवोदित्यादौ सादृश्यं श्रुत्यैवोक्तं द्यौरेवोदित्यादौ तु नोक्तं तथा च तत्र सादृश्याभावे कथं दृष्टिकरणमित्याशङ्क्याऽऽह – त्रयाणामिति । वागादिसमृद्धिफलमुपासनमुपदिश्य फलसमृद्धिर्येन प्रकारेण भवति तत्प्रकारज्ञानं सर्वकाम्योपासनशेषभूतं प्रासङ्गिकं विधीयत इत्याह – अथ खल्विति । वागादिसमृद्धिफलकोपासनानन्तर्यमथशब्दार्थः । वक्ष्यमाणोपासनानां सर्वकाम्योपासनाशेषत्वद्योतनार्थं खल्वित्युक्तम् । प्रासङ्गिकत्वं दर्शयति – इदानीमिति । कामशब्दः फलविषयः । तच्छब्दः प्रकारज्ञानपरामर्शी । उच्यते विधीयत इत्यर्थः । ध्यानप्रकारं प्रश्नपूर्वकं विशदयति – कथमित्यादिना । इतिशब्दार्थमभिनयति – एवमिति । एवंशब्दार्थमुदाहरणनिष्ठतया स्पष्टयति – तद्यथेति ।
उत्पत्त्यादिभिरित्यादिशब्देन च्छन्दोदेवतादि गृह्यते ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 देवतादिभिरिति ।
आदिपदेनाऽऽर्षेयादिग्रहः ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 गायत्र्यादिनेति । आदिपदमुष्णिगनुष्टुब्बृहत्यादिसङ्ग्रहार्थम् । त्रिबृत्पञ्चदशः सप्तदश एकविंशः प्रसिद्धः सोमयागे स्तोमः । आत्मनेपदप्रयोगप्रतिपन्नमर्थमाह – स्तोमाङ्गेति ।
यत्र कर्तृगामि फलं तत्राऽऽत्मनेपदं प्रयुज्यते, प्रकृते च स्तोष्यमाण इत्यात्मनेपदं दृश्यते, तस्मादेतत्फलस्य कर्तृगामित्वं गम्यते । अन्यथा पूर्वोत्तरयोरिव परस्मैपदप्रयोगप्रसङ्गादित्यर्थः ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】
यां दिशमभीत्यभिव्याप्येत्यर्थः । स्तोष्यन्देवताविशेषमिति शेषः । अधिष्ठातृशब्देनेन्द्रादयो गृह्यन्ते । आदिपदं तत्तद्दिगवस्थितासाधारणधर्मसङ्ग्रहार्थम् ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मानं स्वं रूपं गोत्रादिभिरुपसृत्योद्गाता स्तुवीतेति सम्बन्धः । नामादिभिरित्यादिशब्देन वर्णाश्रमादिग्रहणम् । अन्तत इत्यस्यार्थमाह – सामादीनिति ।
पूर्वोक्तान्सामादीन्सर्वानुक्तेन क्रमेण ध्यात्वा तदवसाने स्वात्मानमपि सञ्चिन्त्यापेक्षितफलमनुसन्दधानः स्वरादिभ्यः प्रमादमकुर्वन्नुद्गाता स्तुवीतेति योजना । यत्र कर्मण्ययमुद्गाता यथोक्तरीत्या स्तोता भवति तत्र क्षिप्रमेवास्मै स कामः समृद्धिं गच्छेद्यत्कामः सन्यः स्तुवीतेत्यन्वयः । इतिशब्दः प्रासङ्गिकोपासनसमाप्त्यर्थः ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य तृतीयः खण्डः ॥ प्रासङ्गिकं हित्वा प्रकृतमनुसन्धत्ते – ओमित्येतदित्यादीति । पुनरुपादानस्य तात्पर्यमाह – उद्गीथेति । आदिशब्देन पूर्वोक्तान्युपसरणानि गृह्यन्ते । उद्गीथस्य तैर्व्यवहितत्वात्प्रकरणविच्छेदशङ्कायां ततोऽन्यस्मिन्नर्थे प्रसङ्गः स्यात्स मा भूदित्येवमर्थं पुनरुपादानमित्यर्थः । देवा वै मृत्योरित्यादेस्तात्पर्यमाह – प्रकृतस्येति । अक्षरव्याख्यानप्राप्तावनुवादभागं प्रत्याह – ओमित्यादीति ।
देवासुरा ह वै यत्रेत्यत व्याख्याता देवा मारकादासुरात्पाप्मनः सकाशादिति यावत् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 कोऽयं कर्मणि प्रवेशो नाम तत्राऽह – वैदिकमिति । तदिति वैदिकं कर्मोच्यते । ते छन्दोभिरित्यादि व्याचष्टे – किञ्चेति । न हि सर्वे मन्त्राः सर्वत्र विनियुज्यन्ते । तथा चैकस्मिन्कर्मण्यनुष्ठीयमाने विनियुक्तान्मन्त्रान्हित्वा कर्मान्तरेष्ववशिष्टैर्जपादि कुर्वन्तः स्वात्मानं देवाश्छादितवन्तः । तस्मान्न मृत्युवश्यता तेषामित्यर्थः । तेषां छन्दोभिश्छादितत्वे छन्दसां छन्दस्त्वप्रसिद्धिप्रकारमभिनयति –
तत्तस्मादिति ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 कर्मानुतिष्ठतां देवानां मृत्युवश्यता न व्यावृत्तेत्याह – तानिति । तत्रेति वैदिककर्मप्रारम्भोक्तिः । उशब्दोऽप्यर्थः । यथोक्तकर्मपरानपि तान्मृत्युः पर्यपश्यदिति सम्बन्धः । कर्मणां मृत्युपदगोचरत्वं दृष्टान्तेनाऽऽह – यथेति । दार्ष्टान्तिकभागस्य विवक्षितमर्थं सङ्गृह्णाति – मृत्युरिति । दार्ष्टान्तिके क्षुद्रोदकस्थानीयं किं स्यादिति प्रश्नपूर्वकं दर्शयति – क्वासावित्यादिना । ऋगादीनां नित्यत्वेन क्षयाभावान्न क्षुद्रोदकस्थानीयतेत्याशङ्क्य विवक्षितमर्थमाह – ऋगिति । कर्मणश्च कृतकत्वेन फलतः स्वरूपतश्च क्षयिता प्रसिद्धेति भावः । मृत्युपरिहारोपायमुपदिशति – ते नु देवा इत्यादिना । कर्मभ्यः सकाशादूर्ध्वा व्यावृत्ता इत्यर्थः । सर्वकर्मसङ्ग्रहार्थं कर्मभ्य इति बहुवचनम् । अवैदिककर्मत्यागस्य कर्मिष्वपि सिद्धत्वाद्वैदिककर्मत्यागार्थं विशिनष्टि – ऋच इति । कर्मत्यागमात्रात्कृतकृत्यताशङ्कां वारयति – तेनेति । किं तदक्षरं तदाह –
ओङ्कारेति ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 उदात्तादिरूपत्वाभावादक्षरस्य न स्वरशब्दत्वमित्याशङ्क्य परिहरति – कथमित्यादिना ।
ऋचमाप्नोत्यध्ययनेन स्वाधीनां करोतीत्यर्थः । अतिस्वरत्यतिशयेनाऽऽदरधियोच्चारयतीति यावत् । ऋग्यजुःसाम्नां प्रत्येकमोङ्कारोच्चारणद्वारेणैवाऽऽप्तिदर्शनादित्यतिशब्दार्थः । उशब्दोऽपिपर्यायः । सम्प्रतिपन्नस्वरवदिति दृष्टान्तार्थः । अमृतमभयं तथाविधब्रह्मप्रतीकत्वादित्यर्थः । तत्प्रविश्य ब्रह्मबुद्ध्या तद्ध्यानं कृत्वेत्यर्थः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 भवतु देवानामेवमस्माकं तु किमायातमित्याशङ्क्याऽऽह – स योऽन्योऽपीति । राजगृहं प्रविष्टस्य विशेषदर्शनादक्षरं प्रविष्टस्यापि फले विशेषः स्यादित्याशङ्क्याऽऽह – तत्प्रविश्येति ।
अमृतत्वेन विशिष्टा इति शेषः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य चतुर्थः खण्डः ॥ प्रणवोद्गीथयोरेकत्वे वैदिकप्रसिद्धिप्रदर्शनार्थं खल्वित्युक्तम् । तयोरेकत्वमुक्त्वाऽऽदित्यदृष्ट्योद्गीथोपास्तिमुक्तामनुवदति – असाविति । उद्गीथादित्ययोरेकत्वं प्रश्नपूर्वकमुपपादयति – उद्गीथ इत्यादिना । उच्चारयन्नेतीति सम्बन्धः । स्वरतेर्गत्यर्थत्वात्कथमुच्चारयन्नित्युच्यते तत्राऽऽह – अनेकार्थत्वादिति । गच्छन्सविता प्राणिनां प्रवृत्त्यर्थमोमित्यनुज्ञा कुर्वन्निव गच्छति तस्मादोङ्कारत्वं सवितुरित्याह –
अथवेत्यादिना ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 खण्डान्तरस्य तात्पर्यमाह – प्राणादित्येति । प्रणवस्योद्गीथस्य चैकत्वं कृत्वा तस्मिन्सत्यध्यात्मं प्राणदृष्ट्याऽधिदैवतमादित्यदृष्ट्या च विशिष्टस्योद्गीथस्य यदुपासनमुक्तं तदेवानूद्य निन्दित्वा प्राणानां रश्मीनां च भेद एव गुणस्तद्विशिष्टदृष्ट्या तस्यैवोद्गीथावयवस्याक्षरस्यानेकपुत्रफलमुपासनमनेन ग्रन्थेन वक्तव्यमित्युत्तरो ग्रन्थः सम्प्रति प्रस्तूयत इत्यर्थः । अमृताभयगुणकाक्षरोपासनानन्तर्यमथशब्दार्थः । आदित्यदृष्ट्योद्गीथमुपदिष्टमनूद्य निन्दति – तमेतमिति । निन्दाफलं दर्शयति – अत इति । पर्यावर्तयादिति प्रथमपुरुषे श्रूयमाणे किमिति मध्यमपुरुषो व्याख्यायते तत्राऽऽह – त्वंयोगादिति । युष्मद्युपपदे मध्यमपुरुषविधानादित्यर्थः । रश्मिभेदगुणदृष्टिविशिष्टोद्गीथोपासनस्य फलं कथयति – एवमिति । वक्ष्यमाणेऽध्यात्मे बुद्धिसमाधानार्थमुक्तं देवताविषयं दर्शनमुपसंहरति –
इत्यधिदैवतमिति ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 अध्यात्मप्राणदृष्ट्योद्गीथोपास्तिमुक्तामनुवदति – अथेत्यादिना । कथं प्राणोद्गीथयोरेकत्वमित्याशङ्क्याऽऽह – तथेति । यथा प्राणिनां प्रवृत्त्यर्थमोमित्यनुज्ञां कुर्वन्निवाऽऽदित्यो गच्छतीत्युक्तं तद्वदिति यावत् । उक्तमेव व्यतिरेकद्वारा स्फोरयति – न हीति । मुमूर्षुसमीपवर्तिनो बन्धवो मरणकाले प्राणस्य वागादिप्रवृत्त्यर्थमनुज्ञाकरणं नैव जानन्ति । तथा च जीवदवस्थायामोमिति तदनुज्ञावशादेव वागादीनां प्रवृत्तिरालक्ष्यते । तस्मात्प्राणस्यानुज्ञामात्रमोङ्करणमित्यर्थः । प्राणादित्ययोरध्यात्माधिदैवतयोरुद्गीथत्वाविशेषात्प्राणवदादित्येऽप्यनुज्ञामात्रमोङ्करणमवधेयमित्याह –
एतत्सामान्यादिति ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 प्राणदृष्ट्योक्तामुद्गीथोपास्तिं निन्दित्वा विवक्षितामुपास्तिमुपन्यस्यति – एतमु एवेति । भूमानं बहुत्वोपेतमिति यावत् । मध्यमपुरुषे तातङादेशस्य वैकल्पिकत्वेऽपि प्रथमपुरुषशङ्क्या दुरन्वयं व्यावर्तयति – पूर्ववदिति । एकत्वदृष्टिनिन्दाद्वारा प्रधानोपासनं सफलमुपसंहरति –
प्राणेत्यादिना ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वोत्तरयोर्ग्रन्थयोरसङ्गतिमाशङ्क्य तात्पर्यप्रदर्शनपूर्वकमुत्तरग्रन्थमवतार्य व्याकरोति – अथेत्यादिना । ननु यथाश्रुतं स्थानमेव होतृषदनं किं नेष्यते तत्राऽऽह – नहीति । हौत्रात्कर्मणो यत्फलमाद्रियते तत्प्रश्नपूर्वकमशेषतो दर्शयति – किं तदित्यादिना । निपातद्वयमवधारणातिशयफलकं क्रियापदेन सम्बध्यते । अपिशब्दस्तु निष्ठानन्तरभावितया नेतव्यः । दुष्टमुद्गानमेव स्पष्टयति – उद्गात्रेति । कथमन्यनिष्ठात्कर्मणोऽन्यत्र फलमाहर्तुं शक्यमित्याशङ्क्याऽऽह – चिकित्सयेति ।
उद्गाता प्रणवोद्गीथैकत्वविज्ञानमाहात्म्यात्प्रामादिकं स्वकर्मणि प्राप्तं क्षतं हौत्रात्कर्मणः सम्यक्प्रयुक्तात्प्रणवात्प्रतिसन्दधातीत्यर्थः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य पञ्चमः खण्डः ॥ तत्र तदङ्गभूतमुपासनमादौ विदधाति – इयमेवेति । पृथिव्यामृग्दृष्टिरत्र नेष्टा कर्माङ्गस्य संस्कर्तव्यत्वादित्यभिप्रेत्याऽऽह – ऋचीति । ऋचि यथा पृथिवीदृष्टिरनन्तरवाक्ये विहिता तथाग्निः सामेत्यत्राग्निदृष्टिः साम्नि विधीयते पूर्ववदित्याह – तथेति । ऋक्त्वं पृथिव्याः सामत्वं चाग्नेरप्रसिद्धमिति शङ्कते – कथमिति । ऋक्सामत्वसिद्धावित्युत्तरमाह – उच्यत इति । तयोराधाराधेयभावे गमकं दर्शयति – तस्मादिति । ऋचि पृथिवीदृष्टिः साम्नि चाग्निदृष्टिरित्यत्र हेत्वन्तरमाह – यथा चेति । पृथिव्यग्न्योरत्यन्तभेदाभावं प्रश्नपूर्वकं प्रकटयति – कथमित्यादिना । कर्माङ्गयोः सह प्रयोगादृक्सामयोरन्योन्यमव्यभिचारान्नात्यन्तभेदस्तथा पृथिव्यग्न्योरप्येकशब्दवाच्यत्वान्नात्यन्तं भिन्नतेत्यर्थः । तयोरत्यन्तभेदाभावे फलितमाह – तस्माच्चेति । पृथिवी साशब्दवाच्या स्त्रीत्वादग्निरमः पुंस्त्वादिति द्रष्टव्यम् । पक्षान्तरमुत्थाप्याङ्गीकरोति –
सामाक्षरयोरिति ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 इयमेवेत्यादिसन्दर्भस्य तात्पर्यमाह – अथेति । पुत्राद्यैश्वर्यैकदेशविषयोपासनोपदेशानन्तरमवसरे प्राप्ते ज्योतिष्टोमादावधिकृतस्य समग्रैश्वर्यप्राप्त्यर्थप्राप्त्यर्थमधिदैवाध्यात्मविभागेनोद्गीथविषयमेवापूर्वमुपासनमस्मिन्ग्रन्थे विधातुमिष्टमित्यर्थः । कथं पुनर्नक्षत्रपर्याये तदेतदेतस्यामित्यादिवाक्यं न हि नक्षत्रेषु चन्द्रमसः स्थितिरत आह – नक्षत्राणामिति ।
नक्षत्राधिपत्यात्तदुपरिभावेन चन्द्रमसः स्थितेरित्यतःशब्दार्थः । नक्षत्रसहितं चन्द्रमसं पराम्रष्टुं सशब्दः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 अङ्गोपासनानि कानिचिदुक्त्वा तादृगेवोपासनान्तरमाह – अथेति । आदित्यस्य मण्डलात्मनो यद्रूपं शुक्लं दृश्यते ऋचि तद्दृष्टिः कर्तव्येत्यर्थः । तदेव रूपं विशिनष्टि – भा इति । तामेव व्याचष्टे – शुक्ला दीप्तिरिति । ऋचि यथा पूर्वोक्तरूपदृष्टिस्तथा साम्नि वक्ष्यमाणरूपदृष्टिरनुष्ठेयेत्याह – अथेति । नन्वादित्ये शौक्ल्यवदनतिशयं कार्ष्ण्यं नास्माभिरनुभूयते तत्राऽऽह – तद्धीति ।
एकान्तेन समाहिता शास्त्रसंस्कृता यस्य दृष्टिस्तस्यादित्ये निरतिशयं कार्ष्ण्यं दृश्यते तथा च तद्दृष्टिः साम्नि श्लिष्टेत्यर्थः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 अथ यदेवैतदित्यादेस्तात्पर्यमाह – ते एवेति । अङ्गोपासनानि समाप्यानन्तरमाधिदैविकीं प्रधानोपासनां विवक्षुरुपास्यस्वरूपमुपन्यस्यति – अथेत्यादिना । किमिति हिरण्मयपदमुपमार्थं व्याख्यायते हिरण्यविकारत्वमेवात्र विवक्षितं किं न स्यादित्याशङ्क्याऽऽह – न हीति । अपहतपाप्मत्वासम्भवं साधयति – न हीत्यादिना । पाप्मादीत्यादिपदं तत्कार्यसङ्ग्रहार्थम् । किञ्च चक्षुष्युपास्ये पुरुषे सुवर्णविकारत्वस्याग्रहणाद्गौणमेव हिरण्मयपदमित्याह – चाक्षुषे चेति । न च तत्राप्यातिदेशिकं तद्ग्रहणमृक्सामगेष्णत्वादिना तादृशेन विरोधात्तस्माद्गौणमेव हिरण्मयपदमित्युपसंहरति – अत इति । हिरण्यश्मश्रुरित्यादिविशेषणेष्वपि तुल्यं गौणत्वमित्याह – उत्तरेष्वपीति । नन्वादित्यादिमण्डले पुरुषो नास्माभिर्दृश्यते तत्राऽऽह – निवृत्तचक्षुर्भिरिति । विशिष्टाधिकारिणामादित्यपुरुषदर्शनमुपपादयति –
ब्रह्मचर्यादीति ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वं एव सुवर्णं इति विशेषणादक्ष्णोरपि सुवर्णत्वे प्राप्ते प्रत्याह – तस्येति । विशेषमेव प्रश्नपूर्वकं विशदयति – कथमित्यादिना । यथा कप्यासवद्व्यवस्थितं पुण्डरीकं तथा तस्याक्षिणी इति योजना । आसशब्दनिष्पत्तिप्रकारं सूचयति – आसेरिति । घञन्तस्य शब्दस्य विवक्षितमर्थं कथयति – कपीति । तस्य करणत्वं स्फुटयति – येनेति । कपिः स कपिपृष्ठान्तः कप्यास इति शेषः । पदार्थमुक्त्वा वाक्यार्थमाह – कप्यास इवेति । निहीनोपमया देवस्य चक्षुषी व्यपदिशता तयोरपि निहीनत्वं व्यपदिष्टं स्यादित्याशङ्क्याऽऽह – उपमितेति । कप्यासेनोपमितं पुण्डरीकं तेनोपमानेनोपमितत्वाच्चक्षुषोर्न निहीनोपमानप्रयुक्तं निहीनत्वमित्यर्थः । यथोक्तस्याऽऽदित्यपुरुषस्य क्षेत्रज्ञत्वशङ्कां व्यावर्तयितुं नाम व्यपदिशति – तस्येति । नाम्नो गौणत्वं शङ्काद्वारा व्युत्पादयति – कथमित्यादिना । न तस्य सर्वपाप्मोदयस्तत्कार्यभाक्त्वादित्याशङ्क्याऽऽह – पाप्मनेति । आदित्यक्षेत्रज्ञेऽपि सर्वपाप्मोदयः सम्भवति, “न ह वै देवान्पापं गच्छति” (बृ.उ. १ । ५ । २०) इति श्रुतेरित्याशङ्क्य परमात्मविषयवाक्यशेषमुदाहरति – य आत्मेति । उक्तार्थयोगोऽतःशब्दार्थः । उपास्यं परमात्मानमुपन्यस्य तदुपासनमिदानीं सफलमुपन्यस्यति – तमेवंगुणसम्पन्नमिति ।
यथोक्तेन प्रकारेणोन्नामानमिति सम्बन्धः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 कथं परस्योपासनमित्यपेक्षायामुद्गीथे सम्पाद्येति दर्शयति – तस्येत्यादिना । यथाऽऽदित्यादीनामुद्गीथेसम्पाद्योपासनमत्र विवक्ष्यते तथा परमात्मनोऽपि तत्र सम्पाद्योपासनं विवक्षित्वा सर्वर्क्सामात्मत्वमाह तस्येत्यादिवाक्यमित्यर्थः । मण्डलावच्छिन्नस्य पुरुषस्य कथमृगादिगेष्णत्वमित्याशङ्क्याऽऽह – सर्वात्मेति । परस्य स्वारस्येन सर्वात्मत्वादाध्यानार्थं मण्डलावच्छेदादुपपन्नमृगादिगेष्णत्वमित्यर्थः । तत्रैव हेत्वन्तरमाह – परापरेति । सर्वात्मत्वं साधयति – सर्वयोनित्वादिति । सर्वकारणत्वेन सर्वात्मत्वादृगादिगेष्णत्वं युक्तमेवेत्यर्थः । तस्मादुद्गीथ इति वाक्यं योजयति – यत इति । प्राप्ते सति तस्मादुद्गीथ इत्यनेन वाक्येनोद्गीथत्वं परोक्षेण नाम्ना देवस्योच्यत इति योजना । किमिति परोक्षनाम्ना देवो व्यपदिश्यत इत्याशङ्क्य परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विष इति श्रुत्यन्तरमाश्रित्याऽऽह – परोक्षप्रियत्वादिति । उन्नामत्वे देवस्योद्गातुरुद्गातृत्वप्रसिद्धिं प्रमाणयति – तस्मादिति । तच्छब्दार्थं स्फुटयति – यस्मादिति । प्रकृतस्योन्नाम्नो देवस्याऽऽगानादित्यतःशब्दार्थः । उद्गातुरुद्गातेति नामप्रसिद्धिरिति युक्तेति योजना । सर्वपाप्मोदयलिङ्गात्तस्य चान्यत्रासम्भवादादित्यान्तर्गतो देवः परमात्मेत्युक्तं तत्रैव हेत्वन्तरमाह – स एष इति । देवकामानामादित्यादुपरितनलोकेष्वधिष्ठातारो ये देवास्तेषां कामाः काम्यमानफलविशेषास्तेषामिति यावत् । न हि निरङ्कुशं लोककामेशितृत्वं परस्मादन्यत्र सम्भवति । “एष सर्वेश्वर” (बृ.उ. ४ । ४ । २२)
इति श्रुतेरिति भावः ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य षष्ठः खण्डः ॥ आधिदैविकोपास्त्यानन्तर्यमथशब्दार्थः । ऋचि वाग्दृष्टिः साम्नि प्राणदृष्टिश्च कर्तव्येत्यत्र हेतुमाह – अधरेति । कथमृक्सामयोरिव वाक्प्राणयोरधरोपरिस्थानत्वं तत्राऽऽह – प्राण इति । स्थानमात्रत्वं व्यावर्तयति –
सहेति ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 भोक्तारं व्यावर्तयति – आत्मेति । छायात्मनः सामत्वे हेतुमाह – तत्स्थत्वादिति ।
चक्षुषि च्छायात्मनः स्थितत्वादृचि सामवदित्यर्थः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 आध्यात्मिकानि कानिचिदङ्गोपासनान्युक्त्वाऽनन्तरं प्रकारान्तरेणाङ्गोपासनमेव किञ्चिदुपदिशति – अथेति । अक्ष्णो यदेतद्रूपं शुक्लं दृश्यते ऋचि तद्दृष्टिः कर्तव्येत्यर्थः । तदेव रूपं विशिनष्टि – भा इति । ऋचि पूर्वोक्तरूपदृष्टिवद्वक्ष्यमाणरूपदृष्टिरपि साम्नि कर्तव्येत्याह – अथेति ।
यथाऽऽदित्यमण्डले समधिगम्यमतिकृष्णं रूपमुक्तं तथा चक्षुष्यपि दृक्शक्तेरधिष्ठानं तादृग्रूपमुपलभ्यते तद्दृष्टिः साम्नि कर्तव्येत्यर्थः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 आध्यात्मिकप्रधानोपासनशेषत्वेनाङ्गोपासनान्युक्त्वाऽनन्तरं प्रधानोपासनाविषयं दर्शयति – अथेति । दृश्यत इति प्रयोगाच्छायात्माऽयमित्याशङ्क्याऽऽह – पूर्ववदिति । यथा पूर्वस्मिन्नाधिदैविके वाक्ये समाहितचेतोभिरादित्यपुरुषस्य दृश्यत्वमुक्तं तथा चाक्षुषपुरुषस्यापि विशिष्टाधिकारिभिरेव दृश्यत्वमेष्टव्यमित्यर्थः । छायात्मपक्षे वाक्यशेषविरोधमभिप्रेत्याऽऽह – सैवेति । येयमृग्यथा व्याख्याता सा सर्वा स एव पुरुष इत्यर्थः । ऋच्युक्तं न्यायं साम्न्यतिदिशति – तथेति । यत्किञ्चित्साम तत्सर्वं स एव पुरुष इत्यर्थः । ऋक्सामशब्दयोरर्थान्तरमाह – उक्थेति । ऋक्साम यद्वदिति दृष्टान्तस्तथाशब्दार्थः । कथमृगाद्यात्मत्वं परस्येत्याशङ्क्याऽऽह – सर्वात्मकत्वादिति । ब्रह्मशब्दस्य परमात्मविषयत्वं व्यावर्तयन्प्रकरणादित्युक्तन्यायेन त्रयो वेदाः स एव पुरुष इत्युपसंहारः । छायात्मनो जडस्य व्यावृत्त्यर्थं रूपातिदेशं दर्शयति – तस्येति । किं तदादित्यपुरुषस्य रूपमित्यपेक्षायामाह – हिरण्मय इत्यादीति । इतश्च नायं छायात्मेत्याह – यावमुष्येति । नामातिदेशोऽप्येतमर्थमुपोद्बलयतीत्याह – यच्चेति । आदित्यचाक्षुषयोरुपास्ययोर्भेदादुपासनाऽपि भिन्नेति शङ्कते – स्थानेति । आदित्यमण्डलं चक्षुश्चेति स्थाने भिद्येते रूपं हिरण्मयो हिरण्यश्मश्रुरित्यादि ऋगादिगेष्णत्वादिर्गुण उदित्यादि नाम तेषामतिदेशस्तस्यैतस्य तदेव रूपमित्यादिः । ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् । ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेत्यध्यात्मम् इत्ययमीशितृत्वविषयो भेदव्यपदेशः । अतश्चैतयोर्भेदादुपासनमपि भिन्नमेवेत्यर्थः । नोपास्यभेदादुपासनाभेदोऽस्तीति दूषयति – नेति । उपासकस्तावदमुनाऽऽदित्यात्मना पराचो लोकान्देवकामांश्चाऽऽप्नोति । स एवानेन चाक्षुषरूपेणार्वाचीनलोकान्मनुष्यकामांश्चाऽऽप्नोतीति श्रूयते । न चैकस्य वस्तुतो भिन्नोभयरूपत्वप्राप्तिरुपपद्यते । तस्माद्भेदकल्पना न युक्तेत्यर्थः । उभयात्मकत्वमेकस्यापि विद्यामाहात्म्याद्वेद्यभावोपगमादुपपन्नमिति शङ्कते – द्विधेति । एकस्य विद्यावशादनेकरूपत्वे वाक्यशेषं प्रमाणयति – वक्ष्यति हीति । एकस्यानेकशरीरपरिग्रहेपि न स्वरूपभेदोपपत्तिरिति परिहरति – न चेतनस्येति । एकत्वसाधकसद्भावस्तच्छब्दार्थः । परोक्तं भेदकमनुवदति – यस्त्विति । भेदकारणमित्यस्मादुपरिष्टादितिशब्दो द्रष्टव्यः । दूषयति – न तदित्यादिना ।
तदित्यतिदिश्यमानं रूपाद्युक्तम् ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 आधिदैविकपुरुषवदाध्यात्मिकेऽपि पुरुषे निरतिशयैश्वर्यश्रवणाच्च तयोरैक्यमित्याह – स एष इति । तयोर्भेदाभावे हेत्वन्तरमाह – तत्तस्मादिति । ईश्वरस्यैव प्रागुक्तहेतोर्गानविषयत्वयोग्यत्वादित्यर्थः । तच्छब्दार्थं स्फुटयति –
यस्मादिति ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 स्थानभेदेन यथोक्तोपासन्नवतः फलोक्त्यर्थं पातनिकां करोति – अथेति । एतत्सामेति सम्बन्धः । एवं विद्वानित्येतदेव विभजते – यथोक्तमिति । विद्वानित्यस्मादुपरिष्टादथशब्दः सम्बध्यते । सोऽमुनैव लोकान्कामांश्चाऽऽप्नोतीति सम्बन्धः । आप्तिप्रकारं विवृणोति – स एष इति । उपास्यवदुपासकस्यापि कुतो निरतिशयमैश्वर्यं न हि द्वयोर्निरङ्कुशमैश्वर्यं युक्तमित्याशङ्क्याऽऽह – आदित्येति ।
अमुनैवाऽऽदित्येनेत्युक्तमेवात्र व्यक्तीकृतम् ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 अथशब्दस्तथापर्यायः । चाक्षुषो भूत्वाऽनेनैव चाक्षुषेणैवेति सम्बन्धः । उक्तफ्लस्य याजमानत्वं दर्शयति – तस्मादिति । तच्छब्दार्थमेव कथयति – एष हीति । उद्गातारं विशिनष्टि – कोऽसाविति । उद्गीथे परस्य सम्पाद्योपासनं विभागेनोक्तमुपसंहरति – द्विरुक्तिरिति ॥ ८ - ९ ॥ इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य सप्तमः खण्डः ॥ अध्यात्माधिदैवतस्थानभेदावच्छिन्नपरमात्मदृष्ट्योद्गीथोपासनमखिलपाप्मापगमफलमुक्तम् । सम्प्रति स्थानभेदावच्छेदं हित्वा परोवरीयस्त्वगुणकपरमात्मदृष्ट्योद्गीथोपासनं परोवरीयस्त्वप्राप्तिफलकमानीतवानाम्नाय इति प्रकरणतात्पर्यमाह – अनेकधेति । तर्हि विवक्षितमुपासनमेवोच्यतां किमाख्यायिकयेत्याशङ्क्याऽऽह – इतिहासस्त्विति । इतिहासः पूर्ववृत्तम् । इतिह(स्य)भाव ऐतिह्यम् । समेतानामिति निर्धारणे षष्ठी । ननु सर्वस्मिञ्जगति त्रयाणामेवोद्गीथादिझाने कौशलमिति किं नोच्यते किमिति तेषां मध्ये त्रयाणामेव तन्नैपुण्यं प्रतिज्ञायते तत्राऽऽह – न हीति । अमुष्य प्रसिद्धस्यापत्यमामुष्यायणो द्वयोरामुष्यायणो द्व्यामुष्यायणः । तव मम चायमिति परिभाषया धर्मतः परिगृहीत इति यावत् । किमर्थो वादारम्भ इत्यत आह – तथा चेति । प्रवृत्ते वादे तस्मिन्विवक्षितेऽर्थे विद्या येषां तैः सह सम्वादे दृष्टमेव फलमित्यर्थः । इतिशब्दस्य प्रयोजनमित्यनेन सम्बन्धः । वादारम्भस्य दृष्टफलत्वे फलितमाह – अत इति । इतिहासस्तु सुखावबोधार्थं इत्युक्तेन समुच्चयार्थश्चकारः । कथं यथोक्तं फलं दृष्टमित्याशङ्क्याऽऽह – दृश्यते हीति ।
शीलकादीनां तद्विद्ययोगे विपरीतधीध्वंसादिकं फलमिति शेषः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 तत्रेति निर्धारणार्था सप्तमी । राज्ञः प्रागल्भ्योपपत्तेरित्युक्तं तस्य राजत्वे हेत्वभावादित्याशङ्क्याऽऽह – ब्राह्मणयोरितीति । पक्षान्तरं विशेषणसामर्थ्यादुत्थाप्याङ्गीकरोति –
अर्थेति ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】
राज्ञा यथोक्तेन प्रकारेणोक्तयोर्ब्राह्मणयोर्मध्ये शालावत्यो दाल्भ्यं प्रत्युवाचेति सम्बन्धः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 साम्नो गतिरित्यन्वयः । सामशब्दार्थमाह – प्रकृतत्वादिति । तस्य पूर्वोत्तरग्रन्थयोः प्रकृतत्वं प्रकटयति – उद्गीथो हीति । गतिशब्दस्य क्रियाविषयत्वं व्यावर्तयति – आश्रय इति । औपचारिकमाश्रयं निरस्यति – परायणमित्येतदिति । स्वरो ध्वनिभेदः कथमुद्गीथस्य गतिरित्याशङ्क्याऽऽह – स्वरात्मकत्वादिति । तद्व्यञ्जकतया तदाश्रयत्वेन तत्तादात्म्याद्भवति स्वरस्तस्य गतिरित्यर्थः । साम्नः स्वरात्मकत्वेऽपि कतं तद्गतित्वमित्याशङ्क्य दृष्टान्तेन परिहरति – यो यदात्मक इति । प्राणस्यान्नावष्टम्भत्वे वाजसनेयश्रुतिं प्रमाणयति – शुष्यतीति ।
वत्सस्थानीयस्य प्राणस्यान्नं दाम बन्धनमिति च श्रुतेरित्यर्थः । ता अन्नमसृजन्तेति श्रुतेरन्नस्याप्सम्भवत्वं द्रष्टव्यम् ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 कथमपामसौ लोको गतिस्तत्राऽऽह – अमुष्मादिति । इति पृष्टो दाल्भ्य उवाच हेति सम्बन्धः । तत्र च्छन्दसि कालनियमाभावमभिप्रेत्य क्रियापदं व्याकरोति – आहेति । यद्यपि परो नास्याऽऽश्रयान्तरं प्रतिपद्यते तथाऽपि त्वया तद्वाच्यमेवेत्याशङ्क्याऽऽह – अत इति । अतःशब्दार्थमेव स्फोरयति – स्वर्गेति । तस्मात्स्वर्गलोकप्रतिष्ठं सामेति पूर्वेण सम्बन्धः । स्वर्गसंस्तावं सामेत्यत्र प्रमाणमाह –
स्वर्ग इति ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 उपदेशपारम्पर्यमागमः । यत्कृतकं तदनित्यमिति स्वर्गस्यान्तवत्त्वान्न परायणत्वं सम्भवतीत्याशयेनाऽऽह – किलेति चेति । यथोक्तं न्यायं सूचयतीति शेषः । न्यायागमाभ्यामप्रतिष्ठितं ते सामेत्युपसंहरति – दाल्भ्येति । स्वर्गप्रतिष्ठितं सामेति ज्ञाने दोषं दर्शयति – यस्त्विति । असहिष्णुर्मिथ्यावचनमसहमानः सन्निति यावत् । एतस्मिन्काले मिथ्यावचनावस्थायामित्यर्थः । विपरीतं विज्ञानं यस्य स तथोक्तस्तं प्रतीति विग्रहः । तदेव विपरीतज्ञानभिनयति – अप्रतिष्ठितमिति । सामाप्रतिष्ठितं प्रतिष्ठितमिति विपरीतज्ञानं प्रति कश्चिद्ब्रूयादिति सम्बन्धः । तदीयवचनमेव दर्शयति – एवमिति । स तथा कथयतु मम तु किं स्यादित्याशङ्क्याऽऽह – एवमुक्तस्येति । तथैव विदुषः शापवाक्यानुसारेणेति यावत् । तदिति शिरोनिरुक्तिः । शापदानाय प्रवृत्तस्त्वयमिति शङ्कां वारयति – नत्विति । मूर्धपातोपन्यासानर्थक्यमाशङ्कते – नन्विति । अपराधाभावेऽपि परोक्तिवशान्मूर्धपाते दोषमाह – अन्यथेति । सति चापराधे परोक्तिवैधुर्यान्मूर्धपाताभावे दोषं कथयति – कृतेति । अपराधस्य मूर्धपातहेतोरपि सहकार्यपेक्षत्वादभिव्याहरणं नानर्थकमित्युत्तरमाह – नैष दोष इति । कर्मणः शुभादेराचरितस्य निमित्तापेक्षया फलहेतुत्वेऽपि प्रकृतेऽपराधिनि कुतो व्याहरणापेक्षेत्याशङ्क्याऽऽह – तत्रेति ।
तत्र शुभादौ कर्मण्येव निमित्तापेक्षया फलप्रदे सतीत्यर्थः । इति पराभिव्याहरणमर्थवदिति शेषः ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 हन्तेत्यादि व्याकरोति – एवमिति । कथमनुष्य लोकस्यैतल्लोकप्रतिष्ठत्वं तदाह – अयं लोक इति । आदिशब्दः श्राद्धादिसङ्ग्रहार्थः । तत्रैव श्रुतिं प्रमाणयति – इतीति । अस्माल्लोकात्प्रदीयमानं चरुपुरोडाशाद्यग्निद्वारोपजीवन्ति देवा इति श्रौती प्रसिद्धिरित्यर्थः । भवतु परं लोकं प्रति प्रतिष्ठात्वमस्य लोकस्य तथाऽपि कथमयं लोकः साम्नः प्रतिष्ठेत्याशङ्क्याऽऽह – प्रत्यक्षं हीति । पृथिव्याः सर्वाणि भूतानि प्रति प्रतिष्ठात्वे फलितमाह – अत इति । साम्नोऽपि सर्वान्तर्भावादित्यर्थः । तथाऽपि प्रतिष्ठान्तरं त्वया वाच्यमित्याशङ्क्याऽऽह – अतो वयमिति । यस्मादेतल्लोकप्रतिष्ठात्वेन संस्तुतं साम तस्मादिदं साम प्रत्येतमेव लोकं प्रतिष्ठां जानीम इति योजना । कथं प्रतिष्ठात्वेन सामत्वाविशेषात्पृथिव्या साम संस्तुतमित्याशङ्क्याऽऽह – इयमिति ।
इयं वै रथन्तरमिति रथन्तरशब्दवाच्यस्य सामविशेषस्य पृथिवीत्वेन स्तुतत्वादुद्गीथस्यापि सामत्वविशेषात्पृथिव्यात्मत्वं सम्भाव्यत इत्यर्थः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】
हन्ताहमेतदित्यत्रानन्तं सामैतदित्युच्यते ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्याष्टमः खण्डः ॥ आकाशशब्दस्य भूताकाशविषयत्वं व्यावर्त्यं परमात्मविषयत्वं वाक्यशेषवशाद्दर्शयति – आकाश इति चेति । किञ्च परस्याऽऽत्मनः सर्वभूतोत्पादकत्वं कर्मेति वेदान्तमर्यादा, तदिहाऽऽकाशे श्रुतं तथा च परमात्मैवाऽऽकाशशब्द इत्याह – तस्य हीति । किञ्च परस्मिन्नेव भूतानां प्रलयः स चात्राऽऽकाशे श्रुतस्तस्मात्पर एवाऽऽत्माऽऽकाश इत्याह – तस्मिन्नेवेति । सर्वोत्पादकत्वं परस्य कर्मेत्यत्र मानमाह – तत्तेजोऽसृजतेति । परस्मिन्नेव लयो भूतानामित्यत्रापि मानमाह – तेज इति । भवतु परस्याऽऽत्मनः सर्वोत्पादकत्वं कर्म तथाऽपि किमायातमाकाशस्येति चेत्तत्राऽऽह – सर्वाणीति । कथमयं क्रमो लभ्यते । अविशेषेण हि ततः सर्वोत्पत्तिः श्रुतेत्याशङ्क्याऽऽह – सामर्थ्यादिति । आत्मन आकाशः सम्भूतस्तत्तेजोऽसृजतेत्यादिश्रुतिबलादित्यर्थः । तथाऽपि कथमाकाशे सर्वभूतलयस्तत्राऽऽह – आकाशं प्रतीति । विपर्ययेण तु क्रमोऽत इति न्यायेनाऽह – विपरीतेति । आकाशस्य परमात्मत्वे हेत्वन्तरमाह – यस्मादिति । परायणत्वमपि तत्रैव लिङ्गमित्याह –
अत इति ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 आकाशस्तल्लिङ्गादिति न्यायेनाऽऽकाशस्य परमात्मत्वमुक्तमिदानीं तस्योद्गीथे सम्पादितस्य परोवरीयस्त्वं गुणमुपदिशति – यस्मादिति । उत्तरमुत्तरं श्रेष्ठादपि श्रेष्ठोऽयमित्येतत् । साममात्रस्य कथमयं गुणः स्यादित्याशङ्क्याऽऽह – परमात्मेति । आकाशस्य परमात्मत्वे लिङ्गान्तरमाह – अत एवेति । परमात्मसम्पन्नत्वादिति यावत् । आकाशो हि प्रकृतोद्गीथे सम्पादितोऽनन्तः श्रुतः । न चाऽऽनन्त्यं ब्रह्मणोऽन्यत्र युक्तम् । सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतेः । तस्मादाकाशो ब्रह्मेत्यर्थः । संप्रत्याकाशशब्दितस्य परस्योद्गीथे सम्पादितस्य परोवरीयस्त्वगुणविशिष्टस्योपास्तिं विदधाति – तमेतमिति ।
परं परमुपर्युपरीति यावत् । तस्मादेवमुपासीतेति भावः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 विधिशेषमर्थवादं दर्शयति – किञ्चेति ।
इतश्चात्र विधिरस्तीत्येतत् । तेभ्यस्तत्सन्ततिजा ये यथोक्तोद्गीथवेदितारस्तदर्थमित्यर्थः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 तथा दृष्टविशिष्टतरजीवनवदित्यर्थः । अदृष्टेऽपीति च्छेदः । स य एतमित्याद्युत्तरं वाक्यं शङ्कोत्तरत्वेनोत्थ्याप्य व्याचष्टे – स्यादित्यादिना ।
अस्मिन्युगे भवन्तीत्यैदंयुगीनास्तेषामैदंयुगीनानां लोकः परोवरीयानिति शेषः । पुनरुक्तिरुद्गीथोपास्तिसमाप्त्यर्था ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य नवमः खण्डः ॥ अथोद्गीथाक्षरोपासनस्यानेकधोक्तत्वाद्वक्तव्यानवशेषात्प्रपाठकपरिसमाप्तिरेव युक्तेत्याशङ्क्याऽऽह – उद्गीथेति । इदमा खण्डान्तरं परामृश्यते । प्रस्तावाद्युपासनं विवक्षितं चेत्तदेवोच्यतां किमनया कथयेत्याशङ्क्याऽऽह – आख्यायिका त्विति । मटच्यो मर्दनहेतवोऽशनयः पाषाणवृष्टयो वा । ततः सस्यनाशादित्येतत् । सर्वतः स्वैरसञ्चारेऽपि न व्यभिचारशङ्केति दर्शयितुमाटिक्येति विशेषणम् । प्रद्राणकपदस्य क्रियापदेन सम्बन्धः । कुत्सितगतिप्राप्तौ हेतुरन्नालाभादिति । प्रद्राणकशब्दार्थं धातूपन्यासद्वारा कथयति –
द्रा कुत्सायामिति ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 यदृच्छया सहसेत्यर्थः । नेत इति वाक्योपादानं तद्व्याकरोति – अस्मादिति ।
यदित्यव्ययं बहुवचनान्तम् । उपनिहिताः कुल्माषा इति शेषः । एतेषां खल्विमे भाजने प्रक्षिप्ता इति योजना ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】
हन्त – कुल्माषा भक्षिताश्चेदित्यर्थः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 किं प्रत्युवाचेत्याकाङ्क्षापूर्वकमाह – किमित्यादिना । अनुपानाभावेऽपि तुल्यं जीवनराहित्यमित्याशङ्क्याऽऽह – काम इति । अन्योच्छिष्टकुल्माषभक्षणमृषेर्वदन्त्याः श्रुतेस्तात्पर्यमाह – अतश्चेति । चाक्रायणस्य विदुषोऽभक्ष्यभक्षणदर्शनादिति यावत् । एतामवस्थां प्राप्तस्य जीवितसन्देहमापन्नस्येत्यर्थः । विद्याधर्मयशोवतो ज्ञानादिप्रयुक्तख्यातिं प्रपन्नस्येत्येतत् । स्वात्मोपकारे परोपकारे च सामर्थ्यं निग्रहानुग्रहशक्तिमत्त्वम् । एतत्कर्म जीवनमात्रकारणं कुत्सितं चेष्टितमित्यर्थः । उच्छिष्टोदकपानप्रतिषेधश्रुतेरभिप्रायमाह – तस्यापीति । एतत्कर्मेत्यभक्ष्यभक्षणोक्तिः । ननु ज्ञानिनो यथेष्टचेष्टाऽत्रानुज्ञायते । मैवम् । सर्वान्नानुमतिश्चेत्यादिन्यायविरोधादित्याह – ज्ञानेति । तस्मिन्नभिप्राये लिङ्गं दर्शयति – प्रद्राणकेति ।
चाक्रायणे प्रद्राणकशब्दप्रयोगात्परमापदमापन्नः सन्कुल्माषानुच्छिष्टान्भक्षितवानिति प्रतिभाति । तथा च ज्ञानिनो यथेष्टाचारे प्रमाणाभावादनेकप्रमाणविरोधाच्च नासावत्र विवक्षित इत्यर्थः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】
स्त्रीस्वाभाव्यं पत्युराज्ञाकरणम् , सङ्ग्रहशीलत्वं वा । अत एवाग्रे दृश्यते ते ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 तस्याः कर्म कुल्माषाणां परिरक्षणम् , यक्ष्यतीति कस्मान्नोक्तं तत्राऽऽह – यजमानत्वादिति । राज्ञो यजमानत्वद्यागफलस्याऽऽत्मगामित्वाद्यक्ष्यत इत्यात्मनेपदं प्रयुक्तमित्यर्थः । अन्येषामुपद्रष्टृत्वसम्भवे कुतस्त्वामेव राजा मानयिष्यतीत्याशङ्क्याऽऽह –
स चेति ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】
हन्तेत्यन्नलेशलाभश्चेदेवं धनलब्धिद्वारा जीवनहेतुरित्यर्थः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 राज्ञो यज्ञस्तत्रेत्युच्यते । उद्गातुरेकत्वे कुतो बहूक्तिरित्याशङ्क्याऽह – उद्गातृपुरुषानिति ।
स्तुवन्त्यस्मिन्निति सप्तम्या सम्वाददेशो वा निर्दिश्यते ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 किमर्थमामन्त्रणं तदाह – अभिमुखीकरणायेति । विदुषः समीपे देवतामविद्वान्प्रस्तोष्यसि चेन्मूर्धा ते विपतिष्यतीत्यग्रे सम्बन्धः । नन्वविद्वान्निन्दाया विवक्षितत्वाद्विद्वत्समीपवचनमकिञ्चित्करमिति चेन्नात्याह – तत्परोक्षेऽपीति । तस्येत्यवद्वान्प्रस्तोतोच्यते । मा भूत्कर्ममात्रविदां कर्मण्यधिकार इति चेन्नेत्याह – तच्चेति । तेनोभौ कुरुत इत्यादिश्रुताविति शेषः । अविदुषामपि कर्माधिकारे हेत्वन्तरमाह – दक्षिणेति । तदेव व्यतिरेकद्वारा स्फोरयति – अनधिकारे चेति । तस्यैव समुच्चयफलत्वादित्यर्थः । ननु दक्षिणमार्गस्य वापीकूपतटाकादिस्मार्तकर्मप्रयुक्तत्वाद्वैदिके कर्मणि विद्वानेवाधिक्रियते नेत्याह – न चेति । यज्ञेन दानेन लोकाञ्जयन्तीति वैदिककर्मनिष्ठानामज्ञानामेव दक्षिणमार्गश्रवणादिति हेतुमाह – यज्ञेनेति । इतश्चाविदुषां विद्वत्समीपे कर्माधिकारो नास्तीत्याह – तथोक्तस्येति । देवताविज्ञानशून्यस्य ते मूर्धा विपतिष्यतीत्यनेन प्रकारेण मयोक्तस्य मूर्धा व्यपतिष्यदिति विशेषश्रवणाद्विद्वत्समीपे तदनुज्ञामन्तरेण कर्म कुर्वतोऽपराधित्वात्तस्य कर्मण्यनधिकार एवेत्यर्थः । विद्वदसमीपे पुनरविदुषोऽपि कर्मण्यधिकारोऽस्तीत्याह – न सर्वत्रेति । अग्निहोत्रादौ श्रौते कर्मणि स्मार्तेषु च वापीकूपतटाकादिकर्मस्वध्ययनजपादिषु च विद्वत्सन्निधिमन्तरेणापि सर्वस्मिन्काले कर्ममात्रविदो नाधिकारोऽस्तीत्यशक्यं वक्तुमित्यर्थः । तत्र हेतुमाह – अनुज्ञेति । भगवन्तं वा अहं विविदिषाणीत्यादिना राज्ञा स्वकीयकर्मनिर्वर्तने प्रार्थनादर्शनादेत एव मया समतिसृष्टाः स्तुवतामिति चानुज्ञोपलम्भादस्त्येवाविदुषामपि कर्मण्यधिकार इत्यर्थः । उक्तमर्थमुपसंहरति – कर्ममात्रेति । विद्वत्समीपे तदनुज्ञामलब्ध्वा नास्ति कर्मानुष्ठानमित्येतन्निगमयितुमितिशब्दः । मूर्धा ते विपतिष्यतीत्येतदन्तं प्रस्तोतृविषयं वाक्यं व्याख्यातमित्यनुवदति –
मूर्धेति ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 तृष्णीमित्यस्यार्थमाह – अन्यच्चेति । तत्र हेतुमाह – अर्थित्वादिति । तत्तद्देवताविषयविज्ञानार्थित्वेन कर्मान्तरमकुर्वन्तश्चाक्रायणाभिमुखाः स्थिता इत्यर्थः ॥ १० – ११ ॥ इति श्रीमदानन्दगिरिटीकायां प्रथमाध्ययस्य दशमः खण्डः ॥ अथ हैनमित्यादि व्याकरोति – अथेति ।
प्रस्तोतृप्रभृतीनां तूष्णीम्भावादिति शेषः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 चाक्रायणस्य वचनमङ्गीकरोति – सत्यमिति । अङ्गीकारमेव स्फोरयति – एवमिति । आर्त्विज्यैरित्यस्य व्याख्यानमृत्विक्कर्मभिरिति । तदर्थमिति यावत् । यदि मामार्त्विज्यार्थमनुसंहितवानसि किमितीमानन्यान्वृतवानित्याशङ्क्याऽऽह –
अन्विष्येति ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 एवं गते किमधुना कर्तव्यमित्याशङ्क्याऽऽह – अद्यापीति । चाक्रायणानुमतिं श्रुत्वा किमिदमिति व्याकुलितेषु प्रस्तोतृप्रभृतीषु ब्रूते – किन्त्विति । उभयानुमत्यपेक्षयाऽनन्तर्यम् । ममालाभेनामीषां वृतत्वस्य निवृत्त्यवस्थायामित्याह – तर्हीति । अनुज्ञाताः सन्तः प्रस्तोत्रादयः स्तुतिं कुर्वतामित्याह – स्तुवतामिति । अस्त्वेवं त्वदर्थं पुनर्मया किं विधेयमित्याशङ्क्याऽऽह –
त्वया त्विति ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 यजमानं प्रत्युषस्तिप्रोक्तं वचः श्रुत्वाऽनन्तरमेनमुषस्ति प्रस्तोता त्यक्तव्याकुलत्वः शिष्यत्वेनोपसन्नवानित्याह – अथेति । उपगतिप्रकारमभिनयति –
प्रस्तोतरिति ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 प्रतिवचनमादाय प्रशब्दसामान्यं गृहीत्वा तात्पर्यमाह – पृष्ट इति । कथमिह प्राणशब्दार्थो निश्चीयतामित्याशङ्क्य ’अत एव प्राण’ इति न्यायेनाऽऽह – कथमिति ।
प्राणात्मनैव संविशन्तीति पूर्वेण सम्बन्धः । प्राणशब्दार्थस्य परमात्मत्वेन निर्णीतत्वमतःशब्दार्थः । चेच्छब्दार्थो यदीत्युक्तः । मया तथोक्तस्य मूर्धा ते विपतिष्यतीत्येवमुक्तस्य तव तत्काले स्वापराधावस्थायां मूर्धा व्यपतिष्यदेवेति योजना । प्रमादस्य महतस्त्वया परिहृतत्वादित्यतःशब्दार्थः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 यथा प्रशब्दसामान्यात्प्राणः प्रस्तावदेवतेत्युक्तं तथाऽऽदित्योद्गीथयोरुच्छब्दसामान्यादुद्गीथदेवताऽऽदित्य इत्याह – उच्छब्देति । उक्तसामान्यपरामर्शार्थोऽतः शब्दः ॥ ६ - ७ ॥
एवमेव प्रस्तोतृवद्दुगातृवच्चेत्यर्थः । ऋत्विग्भ्यां प्रस्तावोद्गीथदेवतयोर्विज्ञानानन्तर्यमथशब्दार्थः ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 कथमन्नस्य प्रतिहारत्वं तदाह – सर्वाणीति । तां चेदविद्वानित्याद्यन्यदित्युच्यते । तथोक्तस्य ममेत्येतदन्तमिति शेषः । कीदृगुपासनमस्मिन्प्रकरणे विवक्षितमित्याशङ्क्याऽऽह – प्रस्तावेति । उपास्तित्रयस्य फलं दर्शयति –
प्राणादीति ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्यैकादशः खण्डः ॥ पूर्वोत्तरखण्डयोः सङ्गतिं दर्शयन्नुपासनान्तरं प्रस्तौति – अतीत इति । अन्नलाभस्यापेक्षितत्वमतःशब्दार्थः । प्रकारान्तरेणोद्गीथोपासनमन्नकामस्य प्रस्तुत्य प्रतिपत्तिसौकर्यार्थमाख्यायिकामादत्ते – तत्तत्रेति । न केवलं दल्भस्यापत्यं किन्तु मित्रायाश्चेति चार्थः । न च सा दल्भस्य पत्नीति युक्तम् । तथा सति मैत्रेयपदस्य वैयर्थ्यात् । पत्न्यन्तरापत्यत्वव्यावृत्त्यर्थमिति चेन्न । प्रयोजनाभावात् । नन्वत्र वाशब्दाद्द्वावृषी विवक्षिताविति चेन्नेत्याह – वाशब्द इति । कथं पुनर्दल्भ्यस्यापत्यं बकस्तदभार्याया मित्रायाश्चापत्यं भवितुमुत्सहते तत्राऽऽह – द्व्यामुष्यायणो हीति । चैकितायनो दाल्भ्य इत्यत्रोक्तमेतदिति सूचयितुं हिशब्दः । उदितानुदितहोमवत्केषाञ्चिद्दृष्ट्या बकोऽसावन्येषां ग्लाव इत्येकस्मिन्नपि विकल्पो भविष्यति नेत्याह – वस्तुविषय इति । कथं पुनर्विना मानमेकस्यैव द्विनामत्वाद्यङ्गीक्रियते तत्राऽऽह – द्विनामेति । इत्यादिवाक्यं स्मृतिरूपं धर्मशास्त्रे प्रसिद्धमित्यर्थः । द्विगोत्रत्वमेकस्य लोकेऽपि प्रसिद्धमित्याह – दृश्यते चेति । यतः सुतो जायते येन चायं धर्मतो गृह्यते तयोरुभयोरित्याह – उभय इति । ’उभयोरप्यसावृक्थी पिण्डदाता च धर्मतः’ इति स्मरन्तीत्यर्थः । दाल्भ्यादन्यो मैत्रेय इत्यङ्गीकृत्याऽऽह – उद्गीथ इति । तदुपास्तौ तात्पर्यमृषावनादरे हेतुः । तस्मादृषित्रयमृषिद्वयं वा विवक्षितमित्यर्थः । पक्षान्तरद्योतनार्थो वाशब्दः । श्रौतो वाशब्दस्तर्हि किमर्थमित्याशङ्क्य पाठादन्यत्र तस्य फलमित्याह – वाशब्द इति । मैत्रेयान्तं वाक्यं व्याख्याय स्वाध्यायमित्यादि व्याचष्टे – स्वाध्यायमिति । यदुक्तमृषिरेको बकादिशब्दैरुच्यत इति तत्र लिङ्गमाह – उद्वव्राजेति । शुनामुद्गीथः श्वोद्गीथस्तत्कालस्य प्रतिपालनं प्रतीक्षणमृषेर्दृश्यते तेषां चोद्गानमन्नार्थं तदृषेरपि स्वाध्यायकरणं तदर्थमित्याह – श्वोद्गीथेति । यथोक्तार्थवाचिशब्दाभावेऽपि सामर्थ्यादयमर्थो भातीत्याह –
अभिप्राय इति ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मा इत्यादि व्याचष्टे – स्वाध्यायेनेति । क्षुल्लकाः क्षुद्रकाः शिशव इति यावत् । श्वेतः श्वा कश्चिदृषिर्देवता वा । अन्ये च श्वानो देवता ऋषयो वेत्युक्तम् सम्प्रति विवक्षितं पक्षमाह – मुख्येति । तमूचुरिति सम्बन्धः । तानेव विशिनष्टि – प्राणमन्विति । मुख्यप्राणसहितवागादिग्रहे हेतुमाह – स्वाध्यायेति । अन्यथा वाक्यमनिर्धारितार्थं स्यादिति भावः । किमित्यन्नं भवद्भ्यो मया सम्पाद्यते न हि भवतामभोक्तॄणां तेन कृत्यमस्तीत्याशङ्क्य त्वन्निष्ठचेतनद्वारेणास्माकमपि भोगसिद्धेर्मैवमित्याह –
अशनायाम वा इत्यादिना ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 किमिति प्रातःकालप्रतीक्षणं कृतं तत्राऽह – प्रातरिति । उद्गानस्येति शेषः । प्रातःकालप्रतीक्षणकरणे कारणान्तरमाह – अन्नस्येति । तस्य वृष्टिद्वाराऽन्नदत्वं द्रष्टव्यम् । तद्धेत्यादि व्याचष्टे – तत्तत्रेति ।
ऋषेरन्नकामत्वमितोऽवगतम् ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 ते हेत्यादि व्याकरोति – ते श्वान इति ।
समक्षमाससृपुरिति सम्बन्धः । उद्गातृपुरुषा इत्यध्वर्युप्रमुखा यजमानपर्यन्ता गृह्यन्ते । अन्योन्यं संलग्नाः सर्पन्तीति शेषः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 हिङ्कारस्वरूपमाह – ओमित्यादिना । त्रिवारमोङ्कारो गानार्थमुच्चरितः । अदामाशनं करवाम । पिबाम पानं करवामेत्येतत् । इतिशब्दो हिङ्कारसमाप्त्यर्थः । अन्नप्रसवितृत्वमादित्यस्य साधयति – न हीति ।
इहेति प्रकृतदेशोक्तिः । ओङ्कारः सवितृप्रार्थनामन्त्रसमाप्त्यर्थः । भक्तिविषयोपास्तिसमाप्त्यर्थमितिपदम् ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य द्वादशः खण्डः ॥ ननु भक्तिसम्बन्धानामुपासनानां जातत्वात्समस्तस्येत्यादिवक्तव्ये किमनन्तरखण्डेनेत्याशङ्क्याऽह – भक्तीति । इत्यतोऽस्मात्प्रसङ्गादिति यावत् । ऋगक्षराणि गीयन्ते । तद्व्यतिरिक्तानि वाच्यशून्यानि गीतिसिद्ध्यर्थानि स्तोभाक्षराणि परिभाष्यन्ते । तानि च कर्मापूर्वनिर्वृत्तिद्वारेण फलवत्त्वादुपास्यानि तदुपास्तिविधिपरमुत्तरं वाक्यमित्यर्थः । वक्ष्यमाणोपासनानां प्रत्येकं स्वातन्त्र्यं नास्तीत्याह – संहतानीति । तेषामनन्तरमुपदेशे हेतुमाह – सामावयवेति । न चैवंविधस्स्तोभो नास्तीति वाच्यमित्याह – रथन्तर इति । तथाऽपि कथं पृथिवीदृष्ट्या यथोक्तस्तोभस्योपास्यत्वं तदाह – इयमिति । इयं वै रथन्तरमित्यत्र पृथिव्या रथन्तरत्वं श्रुतं, प्रस्तुतश्च स्तोभो रथन्तरेऽस्तीत्युक्तं ; तथा च यथोक्तात्सम्बन्धरूपात्सादृश्यात्पृथिवीदृष्ट्या हाउकार उपास्य इत्यर्थः । कथं पृनर्वायुदृष्ट्या हाइकारस्योपास्यत्वं तत्राऽऽह – वाय्वप्सम्बन्धश्चेति । हाइकारो वामदेव्ये साम्नि प्रसिद्धः । तस्य च वायोरपां च सम्बन्धो योनिर्मैथुनेच्छावतीनामपां वायुः पृष्टेन्यवर्तत ततो वामदेव्यं सामाभवदिति श्रुतेः । तस्माद्यथोक्ताद्वामदेव्यसामसम्बन्धसामान्याद्वायुदृष्ट्या हाइकारमुपासीतेत्यर्थः । कथमथकारस्य चन्द्रदृष्ट्योपासनं तत्राऽह – अन्ने हीति । तथा च थकारसामान्याद्यथोक्तोपास्तिसिद्धिरिति शेषः । थकारवदकारसामान्याच्च चन्द्रदृष्ट्याऽथकारमुपासीतेत्याह – थकारेति । अथकारे तावद्व्यक्त्योऽकारोऽन्नात्मनि चन्द्रमस्यपि सोऽस्तीति तद्युक्तं यथोक्तमुपासनमित्यर्थः । प्रथममप्रत्यक्षः पश्चात्प्रत्यक्षीभवन्निति शेषः । तत्सामान्यं इहेति व्यपदिश्यमानत्वं, तस्मादात्मदृष्टिरिहेति स्तोभे कर्तव्येत्याह – तत्सामान्यादिति । अग्निदृष्टिरीकाराख्ये स्तोभाक्षरे कर्तव्येत्यत्र हेतुमाह – ईनिधनानीति ।
ईकारो निधायते येषु सामसु तान्याग्नेयानि प्रसिद्धानि । तथा च तेष्वग्निरीकारश्चेत्युभयोर्भावादस्मात्सादृश्यादीकारमग्निदृष्ट्योपासीतेत्यर्थः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 ऊकारमादित्यदृष्ट्या कथमुपासीतेत्याशङ्क्याऽऽह – उच्चैरिति । ऊकारादित्ययोर्विधान्तरेण सादृश्यमाह – आदित्येति । एकारसामान्यान्निहवदृष्टिरेकारे स्तोभे कार्येत्याह – निहव इत्यादि । औहोयिकारस्य विश्वेदेव दृष्ट्योपास्तौ हेतुमाह – वैश्वदेव इति । प्रजापतिदृष्ट्या हिङ्कारोपास्यत्वे हेतुः – आनिरुक्त्यादिति । नीलपीतादिरूपेण निरुक्त्यविषयत्वात्प्रजापतेरित्यर्थः । अव्यक्तत्वाद्रूपादिरहितत्वादित्यर्थः । प्राणस्य चेति चकारात्स्वरस्य चेत्यर्थः । स्वरहेतुत्वं तन्निर्वर्तकत्वेन तदात्मकत्वम् । अन्नं या इति वाक्यं व्याचष्टे – या इति । अन्नदृष्टिर्या इति स्तोभे कर्तव्येत्यत्र हेतुमाह – अन्नेति । विराड्दृष्टिर्वागिति स्तोभे कार्येत्यत्र हेतुमाह –
वैराज इति ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 अनिरुक्तः कारणात्मा । तस्यानिरुक्तत्वं साधयति – अव्यक्तत्वादिति । स चानेकधा कर्यरूपेण सञ्चरतीति सञ्चरः । हुङ्कारोऽपि शाखाभेदेन विकल्प्यमानस्वरूपस्त्रयोदशश्चायं वावेत्यारभ्य गण्यमानस्ततश्च कारणदृष्ट्या हुङ्कारमुपासीतेत्यर्थः । उक्तमेवोपपादयति – अव्यक्तो हीति ।
तत्र विकल्प्यमानत्वं हेतुः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 उपनिषदं वेदोपनिषदं वेदेत्यावृत्तेस्तात्पर्यमाह – द्विरभ्यास इति ।
प्रथमप्रपाठकव्याख्यानसमाप्तावितिशब्दः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य त्रयोदशः खण्डः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां छान्दोग्यभाष्यटीकायां प्रथमोऽध्यायः समाप्तः ॥ नैतानि व्यस्तान्युपासनानि प्रत्येकं फलाश्रवणात् । समस्तं पुनरेकमिदमुपासनमेकफलत्वादित्यभिप्रेत्याऽऽह – स्तोभाक्षरेति । पूर्वोत्तरप्रपाठकयोः सङ्गतिं दर्शयति – ओमित्येतदित्यादिना । सर्वथाऽपि सामावयवविषयत्वे स्तोभाक्षरविषयत्वे चेत्यर्थः । इतिशब्दो हेत्वर्थः । यस्मादेकदेशविषयाण्युपासनानि वृत्तानि तस्मात्तानि समस्तविषयाणि वक्तव्यानीत्यर्थः । एकदेशोपास्तिव्याख्यानन्तर्यमथशब्दार्थः । कथमुक्तवक्ष्यमाणोपासनयोरिदं पौर्वापर्यं तत्राऽह – युक्तं हीति । समस्तस्योपासनं साद्विति वचनादवयवोपासनं निन्दितत्वादननुष्ठेयमित्याशङ्क्याऽऽह – समस्त इति । अर्थादस्ति निन्देति शङ्कते – नन्विति । पूर्वत्रापि साधुत्वस्य विद्यमानस्यैव विशेषणत्वेनानुपादानान्नार्थादपि निन्देति परिहरति – न साध्विति । यत्खल्वित्यादि व्याख्यातुं पातनिकामाह – साधुशब्द इति । वाक्यमवतार्य व्याचष्टे –
कथमित्यादिना ॥१॥ 【भाष्यम्】 【भाष्यम्】 किं पुनरेवं विवेककरणे कारणमित्याशङ्क्याऽऽह – तत्तत्रेति । विवेककरणोपायभेदविकल्पार्थमुतेत्युभयत्र पदम् । साम्नैनमित्यादिना साधुनेत्यादिवाक्यस्य पौनरुक्त्यमाशङ्क्य व्याख्यानव्याख्येयभावान्मैवमित्याह – शोभनेति । शोभनकार्यदर्शने सतीति यावत् । तत्रैव हेत्वन्तरमाह – बन्धनादिति । असाम्नेत्यादि व्याचष्टे –
यत्रेति ॥२॥ 【भाष्यम्】 【भाष्यम्】 कार्यगम्यं साधुत्वमसाधुत्वं चोक्त्वा स्वानुभवगम्यं तदुपन्यस्यति – अथेति। कार्यात्तस्य साधुत्वादिविवेकानन्तर्यमथशब्दार्थः । स्वसंवेद्यं साधुत्वमसाधुत्वं चेति शेषः । तत्र साधुत्वं स्वानुभवसिद्धमित्येतद्व्युत्पादयति – सामेति । यत्साध्वित्यादिवाक्यस्य पूर्वेण पौनरुक्त्यमाशङ्क्याऽऽह – एतदिति । असामेत्यादि व्याचष्टे – विपर्यय इति । बतेत्याहुरिति सम्बन्धः । किं तैरुक्तं भवति तदाह – यदसाध्विति । साधुशब्दः शोभनवाचीत्युक्तमुपसंहरति – तस्मादिति ।
तयोरेकार्थत्वमतःशब्दार्थः ॥३॥ 【भाष्यम्】 【भाष्यम्】 उपासकमेव विशिनष्टि – समस्तमिति ।
आगच्छेयुरिति यत्तत्क्षिप्रमेवेति क्रियाविशेषणत्वं यदित्यस्य द्रष्टव्यम् ॥४॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य प्रथमः खण्डः ॥ एकस्योभयदृष्टिविषयत्वमयुक्तम् । नहि घटदृष्टिगोचरः सन्पटदृष्टेरपि गोचरः स्यादिति शङ्कते – नन्विति । एकस्मिन्नपि प्रस्तुतं दृष्टिद्वयमविरुद्धमिति समाधत्ते – न साध्वर्थस्येति । यथा घटादिषु मृदाद्यनुगतं तथा साधुशब्दार्थस्य कारणस्य लोकादिषु कार्येष्वनुगतत्वात्तद्दृष्टौ साधुदृष्टेरनुगमान्न दृष्टिद्वयस्यैकत्र विरोधोऽस्तीत्यर्थः । तदेव स्फुटयति – साधुशब्देति । साध्वर्थस्य लोकेष्वनुगतिरपिशब्दार्थः । यत्रेति देवदत्तोक्तिः । सा घटादिदृष्टिस्तत्रेति शेषः । ननु साधुशब्दार्थयोर्धर्मब्रह्मणोस्तुल्यं कारणत्वम् । तथा चात्र साधुशब्दार्थो न व्यवस्थितः स्यादन्याय्यं चानेकार्थत्वमित्याशङ्क्याऽऽह – यद्यपीति । धर्म एवेत्यत्र तथाऽपीति च वक्तव्यम् । ब्रह्मणि तु परमानन्दे साधुशब्दा भक्त्या गमयितव्यः । न च धर्मस्य निमित्तकारणत्वान्न कार्येऽनुगतिरिति वाच्यम् । कर्मापूर्वसहितदधिपयःप्रभृत्यवयवसमुदायस्य धर्मत्वात्तत्परिणामत्वाच्च कार्यस्य तत्र तदनुगतिसिद्धेरिति द्रष्टव्यम् । अपूर्वत्वाभावेन विधिमाक्षिपति – नन्विति । कारणानुगमस्याऽऽनुमानिकत्वेऽपि तद्दृष्टिकरणमपूर्वमेवेति परिहरति – न शास्त्रगम्यत्वादिति । “यश्चार्थादर्थो न स चोदनार्थ” इति न्यायेनोक्तं विवृणोति – सर्वत्रेति । लोकेष्वित्यादिवाक्ये पञ्चविधसामदृष्ट्या लोकानामुपास्यत्वप्रतीतेरत्रापि हिङ्कारदृष्ट्या पृथिव्या ध्येयत्वे प्राप्ते प्रत्याह – लोकेष्वितीति । लोकाः पञ्चविधं सामेत्युपासीतेति विभक्तिविपरिणामेन प्रथमवाक्यार्थपर्यवसानात्तदनुसारेणात्रापि पृथिवीदृष्ट्या हिङ्कारे ध्येये सति पृथिवी हिङ्कार इति पृथिवीदृष्टिमारोप्य हिङ्कारमुपासीतेति द्वितीयवाक्यं पर्यवस्यतीत्यर्थः । लोकसम्बद्धा सप्तमीश्रुतिर्हिङ्कारादिषु तत्सम्बद्धा च द्वितीया लोकेषु नेतव्या । तथा च लोकविषया सप्तमी हिङ्कारादिषु तत्सम्बद्धा च द्वितीया लोकेषु व्यत्यस्य पृथिव्यादिदृष्टिं हिङ्कारादिषु कृत्वोपासीतेति पक्षान्तरमाह – व्यत्यस्येति । “ब्रह्मदृष्टिरुत्कर्षाद्” (ब्र. सू. ४ । १ । ५) इति न्यायेन पक्षद्वयमुक्त्वा प्रतिवाक्यं व्याचष्टे – तत्रेति । उक्तरीत्याऽन्योपासने प्रस्तुते सतीति यावत् । अध्यासस्य सादृश्यनिबन्धनत्वाद्व्यक्तसादृश्याभावेऽपि यथाकथञ्चित्कल्पनीयमिति मत्वाऽऽह – प्राथम्येति । लोकेषु पृथिव्याः सामसु च हिङ्कारस्य च प्राथम्यमस्ति तस्मात्सामान्यादिति यावत् । अग्निदृष्ट्या प्रस्तावोपासने प्रस्तावत्वं सामान्यमाह – अग्नौ हीति । अन्तरिक्षदृष्ट्योद्गीथोपासने गकारसम्बन्धसादृश्यं दर्शयति – अन्तरिक्षं हीति । आदित्यदृष्ट्या प्रतिहारोपास्तौ प्रतिशब्दसामान्यं हेतुमाह – प्रतिप्राणीति । द्युदृष्ट्या निधनोपासने निधनत्वसामान्यमाह – दिवीति । उक्तमुपासनमुपसंहरति –
इत्यूर्ध्वेष्विति ॥१॥ 【भाष्यम्】 【भाष्यम्】 अथाऽऽवृत्तेष्विति वाक्यं व्याकरोति – अथेति । पृथिवीमुख्येषु द्युपर्यन्तेषु पञ्चविधसामोपासनकथनानन्तर्यमथशब्दार्थः । पूर्वोत्तरग्रन्थयोर्मिथो विरोधं शङ्कित्वा परिहरति – गत्यागतीति । यथा वा ते गतिविशिष्टास्तथादृष्ट्यैव हिङ्काराद्युपासनं विहितम् । यथा चाऽऽगतिविशिष्टास्ते तथादृष्ट्यैव तदुपासनं विधीयते । तथा च शास्त्रानुसारेण क्रियमाणयोरुपासनायोर्न विरोधोऽस्तीत्यर्थः । द्विधोपास्तिविषयसन्दर्भयोर्विरोधाभावमनूद्य फलितमुपासनं दर्शयति – यत इति । द्युलोकदृष्ट्या हिङ्कारस्योपास्यत्वे हेतुमाह – प्राथम्यादिति । आवृत्तौ द्युलोकस्याऽऽरम्भे च हिङ्कारस्य प्राथम्यं द्रष्टव्यम् । आदित्यदृष्ट्या प्रस्तावस्योपास्यत्वे हेतुमाह – उदित इति । पूर्ववदिति गकाराक्षरसामान्यं विवक्षितम् । अग्निदृष्ट्या प्रतिहारोपास्तौ हेतुमाह – प्राणिभिरिति ।
प्रतिहरणमितस्ततो नयनम् ॥२॥ 【भाष्यम्】 【भाष्यम्】 साध्विति पदं सर्वत्र द्रष्टव्यमित्याह – इति सर्वत्रेति । सर्वत्रेत्यस्य व्याख्या –
पञ्चविध इत्यादिना ॥३॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य द्वितीयः खण्डः ॥ ननु लोकदृष्ट्या सामोपास्त्यनन्तरं किमिति वृष्टिदृष्ट्या तदुपास्तिरुपन्यस्यते तत्राऽह – लोकस्थितेरिति । पुरोवातदृष्ट्या हिङ्कारोपासने हेतुमाह – पुरोवातादिति । उद्ग्रहणं वर्षोपसंहरणम् । अतःशब्दार्थमाह – प्राथम्यादिति । मेघजन्मदृष्ट्या प्रस्तावोपास्तौ हेतुमाह – प्रावृषीति । वर्षणदृष्ट्योद्गीथोपासने हेतुमाह – श्रैष्ठ्यादिति । विद्योतनस्तनयित्नुदृष्ट्या प्रतिहारोपासने कारणमाह – प्रतिहृतत्वादिति ।
विद्युतां स्तनयित्नूनां च प्रतिहृतत्वं विप्रकीर्णत्वं तेन प्रतिशब्दसादृश्याद्विद्योतनादिदृष्ट्या कर्तव्या प्रतिहारोपास्तिरित्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 उद्ग्रहणदृष्ट्या निधनोपासने निदानमाह – समाप्तीति । वर्षति पर्जन्ये तदनुमन्तृत्वमकिञ्चित्करमित्याशङ्क्याऽह –
असत्यामपीति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य तृतीयः खण्डः ॥ किमिति वृष्टिदृष्टेरनन्तरमपां दृष्टिः साम्नि क्षिप्यते तत्राऽऽह – वृष्टिपूर्वकत्वादिति । मेघसम्प्लवदृष्ट्या हिङ्कारमारम्भसामान्यादुपासीतेत्याह – मेघ इति । वर्षदृष्ट्या प्रस्तावस्योपास्यत्वे हेतुमाह – आप इति ।
प्राच्यो नद्यो गङ्गाद्याः । प्रतीच्यस्तु नर्मदाद्या इति भेदः ॥१॥ 【भाष्यम्】 【भाष्यम्】 तर्हि गङ्गादावपेक्षितमपि मरणं न स्यादिति चेत्तत्राऽह – नेच्छति चेदिति ।
असावुपासको मरुस्थलोष्वपि यथेच्छमुदकवान्भवतीत्यर्थः ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य चतुर्थः खण्डः ॥ किमिति सलिलदृष्ट्यनन्तरमृतुदृष्टिः साम्न्यारोप्यते तत्राऽह – ऋतुव्यवस्थाया इति ।
ऋतुव्यवस्थानानुरूपं तत्र क्रियाविशेषणम् ॥१॥ 【भाष्यम्】 【भाष्यम्】 कस्यचिदनुपासितुरपि क्रमेण तत्तदृतुफलभोगभागितोपपत्तेर्नेदमुपासनानुरूपं फलमित्याशङ्क्याऽऽह – ऋतुमानिति ।
सम्पन्नः सर्वदा स्वेच्छावशादिति शेषः ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य पञ्चमः खण्डः ॥ ऋतुदृष्ट्यनन्तरं साम्नि पशुदृष्ट्यारोपकारणमाह – सम्यगिति । अजादृष्ट्या हिङ्कारोपासने हेतुद्वयमाह – प्राधान्यादित्यादिना । अजाया यज्ञसम्बन्धात्प्राधान्यम् । प्राथम्यं तु प्रथमपाठादिति द्रष्टव्यम् । “ब्राह्मणो मनुष्याणामजः पशूनां तस्मात्ते मुख्या मुखतो ह्यसृज्यन्त” इति श्रुतिमजाप्राधान्ये प्रमाणयति – अज इति । “तस्माज्जाता अजावय”
इति श्रुतेरजानामवीनां च साहचर्यं हिङ्कारप्रस्तावयोश्च साहचर्यं प्रसिद्धम् ॥१॥ 【भाष्यम्】 【भाष्यम्】 पशुमान्भवतीत्यस्य पूर्वेण पौनरुक्त्यं परिहरति –
पशुफलैश्चेति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य षष्ठः खण्डः ॥ पशुप्रसूतपयोघृतादिनिमित्तत्वात्प्राणस्थितेस्तद्दृष्ट्यनन्तरं प्राणदृष्ट्या सामोपास्तिं प्रस्तौति – प्राणेष्विति । प्राणशब्दस्य मुख्यप्राणविषयत्वं व्यावर्तयति – घ्राणमिति । मुक्यप्राणादुत्तरेषां वरीयस्त्वासम्भवात्तस्य सर्वश्रेष्ठतया निर्धारितत्वात्परंपरं वरीयसां वागादीनां मध्ये प्रथमभावित्वेनोक्तत्वाद्घ्राणमेवात्र प्राणशब्दमित्यर्थः । कथं प्राणाद्वाचो वरीयस्त्वं तत्राऽऽह – वाचेति । अप्राप्तत्वं व्यवहितत्वम् । चक्षुषो वरीयस्त्वं साधयति – वाच इति । शब्दस्येति यावत् । वाचः शब्दात्सकाशादित्यर्थः । उद्गीथत्वे चक्षुषो हेतुमाह – श्रैष्ठ्यादिति । मनसो वरीयस्त्वे हेत्वन्तरमाह – अतीन्द्रियेति ।
इति वरीयस्त्वमिति पूर्वेण सम्बन्धः । अप्राप्तमप्युच्यते वाचेत्यादयो यथोक्तहेतवः ॥१॥ 【भाष्यम्】 【भाष्यम्】 उक्तोपसंहारविरहेऽपि वक्ष्यमाणे बुद्धिसमाधानं किं न स्यादित्याशङ्क्याऽऽह –
निरपेक्षो हीति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य सप्तमः खण्डः ॥ अधिकसंख्याज्ञानस्याल्पसंख्याज्ञानपूर्वकत्वात्पञ्चविधोपासनानन्तरं सप्तविधोपासनं प्रस्तौति – अथेति । पूर्ववल्लोकेष्वितिवत्सप्तमी च नेतव्येत्यर्थः । वाक्शब्देन शब्दसामान्यमुच्यते तत्सप्तधाप्रविभक्तसामावयवेष्वारोप्योपासनं कर्तव्यमिति वाक्यार्थमाह – वाग्दृष्टीति । यत्किञ्च वाच इति वाक्योपादानं; तस्यार्थमाह – शब्दस्येति ॥१-३॥ इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्याष्टमः खण्डः ॥ वाग्दृष्टेरनन्तरमादित्यदृष्टिर्विधीयते । तस्य वाङ्मयत्वात् । नच तद्विधानं युक्तम् । पूर्वमप्यादित्यदृष्टिविशिष्टोपासनस्योपदिष्टत्वादित्याशङ्क्याऽऽह – अवयवमात्र इति । तस्य सामत्वे हेतुं पृच्छति – कथमिति । सर्वदेत्यादिवाक्यमुत्तरत्वेनाऽऽदत्ते – उच्यत इति । उच्चैः सन्तमादित्यं गायन्तीत्यादित्यस्योद्गीथत्वे हेतुः श्रुत्योक्तः । तथा सामत्वेऽपि तस्य हेतुरुच्यत इत्यर्थः । तमेव प्रश्नपूर्वकं विवृणोति – कोऽसाविति । नोदेता नास्तमेतेत्यादिदर्शनादित्यर्थः । मां प्रतीत्यादि व्याचष्टे – मां प्रतीति । अन्यशब्दस्यान्यत्र वृत्तिर्नान्तरेण किञ्चिन्निमित्तमित्यादित्यस्य सामत्वे हेतुरुच्यते चेत्तद्भेदानां हिङ्कारादित्वेऽपि कुतो निमित्तं श्रुत्या नोक्तमित्याशङ्क्याऽऽह – उद्गीथेति । आदित्यस्योद्गीथेन सहोर्ध्वत्वं सामान्यं श्रुत्योक्तं तदनुसारेणास्मदुक्तप्राथम्यादिसामान्यं यथा पृथिव्यादिषु हिङ्कारादित्वं गम्यते तथाऽऽदित्यप्रभेदानामपि हिङ्कारादित्वं शक्यावगममिति श्रुत्या तेषां तद्भावे नोक्त्रं कारणमित्यर्थः । तर्हि सामत्वेऽपि कारणोत्प्रेक्षासम्भवान्न वक्तव्यं कारणमित्याशङ्क्याऽऽह – सामत्वे पुनरिति ।
सामत्वं तत्रनिमित्तमिति यावत् ॥१॥ 【भाष्यम्】 【भाष्यम्】 समः सर्वेणेत्युक्तं व्यक्तीकरोति – तस्मिन्निति । वेदनप्रकारं प्रश्नपूर्वकं प्रकटयति – कथमित्यादिना । धर्मरूपं सुखकरत्वात् । धर्मकार्यात्मकं रूपमिति यावत् । तद्दृष्ट्या हिङ्कारोपासने प्राथम्यं हेतुः । पशवो यथोक्तमादित्यरूपमुपजीवन्तीत्यत्र किं प्रमाणं तदाह – यस्मादिति । तेषां हिङ्करणं साधयति – तस्मादित्यादि ।
तद्भक्तिभजनशीलत्वादित्यस्मात्प्रागेव तस्मादित्यस्य सम्बन्धः ॥२॥ 【भाष्यम्】 【भाष्यम्】 सवितरि प्रथमोदिते सति यत्तस्य रूपं तद्दृष्ट्या प्रस्तावस्योपास्यत्वे पूर्वस्मादानन्तर्यं हेतुः । यथोदयात् प्राचीनं रूपं पशुभिरुपजीव्यते तथेत्याह – पूर्ववदिति । उदयात्पराचीनमादित्यरूपं मनुष्या उपजीवन्तीत्यत्र लिङ्गमाह – तस्मादिति ।
प्रत्यक्षपरोक्षभावेन प्रस्तुतिप्रशंसयोर्भेदः ॥३॥ 【भाष्यम्】 【भाष्यम्】 गोशब्दवाच्यानां रश्मीनां जगन्मण्डलेन सङ्गमनं सम्बन्धगमनमित्यर्थः । वत्सैः सङ्गमनमिति सम्बन्धः । सङ्गमकालीनमादित्यरूपमारोप्याऽऽदिभक्तेरोङ्कारस्योपास्यत्वे द्वयोराकारसामान्यं हेतुः । पक्षिणां यथोक्तमादित्यरूपमुपजीव्यमित्यत्र हेतुमाह –
यत इति ॥४॥ 【भाष्यम्】 【भाष्यम्】 ऋजुर्मध्यंदिने यदादित्यस्य रूपं तद्दृष्ट्योद्गीथोपासने श्रैष्ठ्यं हेतुः । तत्कालीनादित्यरूपस्य देवोपजीव्यत्वे हेतुमाह – द्योतनेति । तथाऽपि तस्य देवैरुपजीव्यत्वं कथमिति चेत्तत्राऽऽह –
तस्मादिति ॥५॥ 【भाष्यम्】 【भाष्यम्】 अथ यदूर्ध्वमिति वाक्यमादाय व्याचष्टे – मध्यंदिनादिति । तद्दृष्ट्या प्रतिहारोपासने प्रतिशब्दसामान्यं हेतुः । तस्मिन्काले सवितुरस्तं गिरिं प्रति हरणात् । यथोक्तमादित्यरूपं गर्भैरुपजीव्यमित्यत्र गमकमाह – अत इति ।
ऊर्ध्व योनेरुपरिष्टाज्जठरं प्रतीत्यर्थः । यतो गर्भाः पूर्वोक्तविशेषणवन्तोऽत इति यावत् । तद्द्वारं पतनद्वारम् ॥६॥ 【भाष्यम्】 【भाष्यम्】 तत्र तत्कालीनादित्यदृष्ट्योपद्रवमुपासीत तस्य तदाऽस्ताचलं प्रत्युपद्रवणादित्याह – अथेति । आरण्यानां पशूनां यथोक्तरूपोपजीवनमुपपादयति – तस्मादित्यादिना ।
श्वभ्रं गर्तं गुहेति यावत् ॥७॥ 【भाष्यम्】 【भाष्यम्】 तत्सवितृरूपमिति शेषः । तद्दृष्ट्या निधनोपासने समाप्तिसामान्यं हेतुः । यथोक्तमादित्यरूपं पितृभिरुपजीव्यमित्यत्र गमकमाह – तस्मादित्यादिना । तत्र तत्राथशब्दस्तत्तदुपासनानन्तर्यार्थो व्याख्येयः । एवं खल्वित्यादिवाक्यमपेक्षितं पूरयन्व्याकरोति –
एवमिति ॥८॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य नवमः खण्डः ॥ अनन्तरमित्यस्यापेक्षितं निक्षिपति – आदित्येति । स्वशब्देन सामोच्यते तस्यावयवा हिङ्कारादयस्तन्नामाक्षराणां त्रित्वेन त्रित्वेन तुल्यतया मितं ज्ञातं सामेत्यर्थः । यथा परमात्मावगमो मृत्योर्मोक्षणहेतुस्तथेदमुपासनमपीत्यर्थान्तरमाह – परमात्मेति । कीदृगत्रोपासनं विवक्षितमित्यपेक्षायां सदृष्टान्तमुत्तरमाह – यथेत्यादिना । उद्गीथ इत्युद्गीथभक्तेर्नाम तदक्षराणीति यावत् । सामत्वं तेषां नामाक्षराणामित्यध्याहार्यम् । तदुपासनं तेषामक्षराणामादित्यदृष्ट्योपासनमित्यर्थः । मृत्युगोचराक्षरसंख्यैकविंशतित्वलक्षणा । साऽस्त्येकाऽनेकेष्वक्षरेषु । तत्सामान्येन तेष्वक्षरेष्वादित्यदृष्ट्या मृत्युमादित्यमित्यर्थः । अतिक्रमणाय तत्साधनमुपासनमिति शेषः । अतिमृत्यु मृत्योरत्ययहेतुत्वादित्युक्तमेव स्पष्टयति – मृत्युमिति ।
नामाक्षराणि कथ्यन्त इति शेषः ॥१॥ 【भाष्यम्】 【भाष्यम्】 अथ खल्वात्मसंमितमित्यादेस्तात्पर्यमाह – मृत्युरिति । आद्यक्षरयोः आदिभक्तिनामाक्षरयोरिति यावत् । तेन प्रक्षेपेण तदादिभक्तिनाम प्रतिहारनाम्ना तुल्यमेवेत्यर्थः ॥२ -३॥ ननु यथोक्तया रीत्या चतुर्विंशत्यक्षराणि तत्कथं तानि ह वा एतानि द्वाविंशतिरक्षराणीति तत्राऽह –
एवमिति ॥४॥ 【भाष्यम्】 【भाष्यम्】 आदित्यस्यास्माल्लोकादेकविंशत्वे श्रुत्यन्तरं प्रमाणयति – द्वादशेति । हेमन्तशिशिरावेकीकृत्य पञ्चर्तव इत्युक्तम् । आदित्यस्याहोरात्राभ्यां पौनःपुन्येन मृत्युहेतुत्वमस्मिन्लोके दृश्यते । तदयं लोको मृत्युविषयत्वाद्दुःखात्मकस्तदभावाद्ब्रह्मलोकः सुखात्मक इति मत्वाऽऽह –
मृत्युविषयत्वादिति ॥५॥ 【भाष्यम्】 【भाष्यम्】 पूर्वेणोत्तरस्य पौनरुक्त्यमाशङ्क्याऽऽह – उक्तस्यैवेति । व्याख्यातस्यैव ग्रन्थस्य समुदायार्थः संक्षिप्य बुद्धिसौकर्यार्थमनन्तरग्रन्थेनोच्यते । तत्र पौनरुक्त्यमित्यर्थः । जयमनु परो जयो भवतीति सम्बन्धः । परो हास्येत्युपात्तं वाक्यं व्याकरोति – एवंविद इति ।
फलमिति शेष इति यावत् । साप्तविध्यं सप्तविधत्वं तदुपेतसामोपासनस्य समाप्त्यर्थोऽभ्यास इत्यर्थः ॥६॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य दशमः खण्डः ॥ ननु पञ्चविधस्य सप्तविधस्य च साम्नो ध्यानं व्याख्यातम् । तथा च ज्ञातविषये वक्तव्याभावादलमनन्तरग्रन्थेनेत्याशङ्क्य पूर्वोत्तरग्रन्थयोरर्थभेदमाह – विनेत्यादिना । गायत्रं रथन्तरमित्यादिनामग्रहणेन विशिष्टानि विशिष्टफलानि चेत्यर्थः । कथं पुनर्वक्ष्यमाणेषूपासनेषु निर्देशक्रमसिद्धिस्तत्राऽऽह – यथाक्रममिति । यादृशं क्रममाश्रित्य तेषां कर्मणि प्रयोगः कर्मिणामिष्टस्तेनैव क्रमेण तदुपासनोक्तिरित्यर्थः । तत्र प्रा(घ्रा)णस्य क्रियाज्ञानयोरसम्भवात्प्राणस्य प्रधानत्वात्तद्दृष्ट्या गायत्रोपास्तिमादौ दर्शयति – मनो हिङ्कार इत्यादिना । “प्राणमेव वागप्येति” (छा. उ. ४ । ३ । ३) इत्यादिश्रुत्या स्वापकाले प्राणे वागादीनां निधनमवधेयम् । प्रोतं प्रगतं प्रतिष्ठितमिति यावत् । गायत्रस्य प्राणेषु प्रतिष्ठितत्वे हेतुमाह – गायत्र्या इति ।
प्राणो वै गायत्रीति हि श्रुतिः ॥१॥ 【भाष्यम्】 【भाष्यम्】 अविदुषोऽपि प्राणित्वसिद्धेर्नेदं विद्याफलमित्याशङ्क्याऽऽह – अविकलेति । कथं पुनर्नानाजनीनं सर्वमायुरेको ध्याता गन्तुमलमित्याशङ्क्याऽऽह – शतमिति । “शतायुर्वै पुरुष” (श.ब्रा. १३ । २ । ६ । ८)
इति श्रुतेरित्युच्यते । ज्योक्शब्दो निपातः स चोज्ज्वलनार्थः । उज्ज्वलः स्वपरोपकारसमर्थं इति यावत् ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्यैकादशः खण्डः ॥ समग्रप्राणवतो मन्थनकर्तृत्वसम्भवात्प्राणदृष्ट्यनन्तरं मन्थनादिदृष्टिमवतारयति – अभिमन्थतीत्यादिना । उपशमः संशमश्चेत्यर्थभेदाभावात्पुनरुक्तिमाशङ्क्य सावशेषनिरवशेषत्वाभ्यां विशेषमाह – उपशम इति । कथं पुना रथन्तरसाम्नोऽग्नौ प्रतिष्ठितत्वम् । न हि तत्र किञ्चिन्निमित्तमुपलभ्यतेऽत आह – मन्थने हीति ।
मन्थनं निमित्तीकृत्याग्नेरुत्पत्तौ रथन्तरसाम्नो गीयमानत्वदर्शनादग्नौ तस्य प्रतिष्ठितत्वसिद्धिरित्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 नन्वत्र ब्रह्मचर्यसीति फलमुक्तं बृहदुपासने तु तेजस्वी भवतीति वक्ष्यते । न च ब्रह्मवर्चसतेजसोर्भेदस्तथा च बृहद्रथन्तरोपासनयोर्न फलवैषम्यमत आह –
वृत्तेति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य द्वादशः खण्डः ॥ उत्तराधरारणिस्थानीययोः स्त्रीपुरुषोरवाच्ये कर्मणि प्रवृत्तयोर्मन्थनसामान्यान्मन्थनादिदृष्ट्यनन्तरं मैथुनदृष्टिं विदधाति – उपमन्त्रयत इत्यादिना । पुरुषो हि पशुकर्मार्थं स्त्रियं वस्त्रादिना प्रीणयति । तस्मिन्प्रारम्भसामान्यात्प्रस्तावदृष्टिरित्याह – ज्ञपयत इति । कुतो वामदेव्यस्य साम्नो मिथुने प्रोतत्वं तत्राऽऽह – वाय्वम्बु मिथुनेति ।
वायोरपां च मिथुनतया सम्बन्धाद्वामदेव्योत्पत्तेरुक्तत्वात्तस्य मिथुने प्रतिष्ठितत्वं युक्तमित्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 न काञ्चनेतिवाक्यमादाय व्याचष्टे – काञ्चिदपीति । पराङ्गनां नोपगच्छेदिति स्मृतिविरोधमाशङ्क्याऽऽह – वामदेव्येति । विधिनिषेधयोः सामान्यविशेषविषयत्वेन व्यवस्था प्रसिद्धेति भावः । किं च शास्त्रप्रामाण्यादत्र धर्मोऽवगम्यते न काञ्चन परिहरेदिति च शास्त्रावगतत्वादवाच्यमपि कर्म धर्मो भवितुमर्हति । तथा च श्रौतेऽर्थे दुर्बलायाः स्मृतेर्न प्रतिस्पर्धितेत्याह – वचनेति ।
यथोक्तोपासनावतो ब्रह्मचर्यनियमाभावो व्रतत्वेन विवक्षितस्तन्न प्रतिषेधशास्त्रविरोधाशङ्केति भावः ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य त्रयोदशः खण्डः ॥ आदित्यस्य प्रजाप्रसवहेतुत्वात्तद्धेतुर्मैथुनदृष्ट्यनन्तरमादित्यदृष्टिमुत्थापयति –
उद्यन्नित्यादिना ॥१॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य चतुर्दशः खण्डः ॥ “आदित्याज्जायते वृष्टिः” (म.स्मृ. ३ । ७६) इति स्मृतेरादित्यकार्यत्वात्पर्जन्यस्याऽऽदित्यदृष्ट्यनन्तरं पर्जन्यदृष्टिं दर्शयति – अभ्राणीति । कथं वैरूपं साम तस्मिन्प्रतिष्ठितं तत्राऽऽह –
अनेकेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य पञ्चदशः खण्डः ॥ पर्जन्यायत्तत्वादृतुव्यवस्थायास्तद्दृषेरनन्तरमृतुदृष्टिमाचष्टे –
वसन्त इत्यादिना ॥१॥ 【भाष्यम्】 【भाष्यम्】 वैराजस्य साम्नो युक्तमृतुषु प्रोतत्वं तेषां स्वधर्मैर्विराजनादित्याह – एतदिति ।
यद्वर्तूनामन्नोत्पत्तिनिमित्तत्वाद्विराडात्मनश्चान्नत्वात्तस्य तेषु प्रतिष्ठितत्वात्तद्द्वारा वैराजमपि साम तेषु प्रोतमिति भावः ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य षोडशः खण्डः ॥ ऋतुषु सम्यग्वृत्तेषु लोकस्थितेः प्रसिद्धत्वादृतुदृष्ट्यनन्तरं लोकदृष्टिमाह – पृथिवीति । कथं शक्वर्य इत्येकस्यैव साम्नो नामधेयं बहुवचनाद्धि बहूनि सामानि प्रतीयन्ते तत्राऽऽह – शक्वर्य इतीति । नित्यबहुवचनत्वमुभयत्र तुल्यमिति द्योतनाय वक्ष्यमाणं दृष्टान्तयति – रेवत्य इवेति । महानाम्नीषु ऋक्षु शक्वर्यो गीयन्ते । तासां च “आपो वै महानाम्नीः” इत्यद्भिः सम्बन्धः स्मृतः अप्सु लोकाः प्रतिष्ठिता इति च श्रुतम् । तथा चास्मात्सम्बन्धाल्लोकेष शक्वर्यः प्रतिष्ठिता इत्याह –
लोकेष्विति ॥१॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य सप्तदशः खण्डः ॥ पशूनां लोककार्यत्वाल्लोकदृष्ट्यनन्तरं पशुदृष्टिमुपन्यस्यति – अजेति । रेवत्य इति सामनामधेयं पूर्ववन्नित्यबहुवचनान्तम् । “पशवो वै रेवतीः” (तै.सं. १ । ५ । ८) इति श्रुत्यन्तरमाश्रित्याऽऽह –
पशुष्विति ॥१॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्याष्टादशः खण्डः ॥ पशुविकारपयोदध्यादिना पुष्टिरङ्गानां दृष्टेति पशुदृष्ट्यनन्तरमङ्गदृष्टिमाह – लोमेति । रसो वै यज्ञायज्ञीयमिति श्रुतेरन्नरसविकारेण लोमादीनां सम्बन्धाद्यज्ञायज्ञीयं सामाङ्गेषु प्रतिष्ठितमित्याह –
एतदिति ॥१॥ 【भाष्यम्】 【भाष्यम्】
कुणिः श्मश्रुरहितः ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्यैकोनविंशः खण्डः ॥ अग्न्यादीनामङ्गेषु प्रतिष्ठितत्वादङ्गदृष्ट्यनन्तरमग्न्यादिदृष्टिमुत्थापयति – अग्निरित्यादिना । राजनस्य साम्नो देवतासु प्रोतत्वे हेतुमाह –
देवतानामिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 फलविकल्पार्थं वाशब्दस्यात्रासत्त्वे कथं वाक्यं स्यादित्याशङ्क्याऽऽह – सलोकतां वेत्यादीति । कथं पुनरेकस्मिन्नुपासने फलत्रयं विकल्प्यते तत्राऽऽह – भावनेति । ननु फलत्रयमत्र समुच्चितमिष्यतां किमिति वाशब्दं गृहीत्वा विकल्प्यते तत्राऽऽह – समुच्चयेति । न हि मिथो विरुद्धं फलत्रयमेकत्र समुच्चेतुं शक्यमतोऽपि विकल्पसिद्धिरित्यर्थः । ननु देवतादृष्ट्या राजनस्य साम्नो ध्यानाद्देवता न निन्देदिति वक्तव्ये कथमन्यथोच्यते तत्राऽऽह –
एत इति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य विंशः खण्डः ॥ अग्न्यादिदृष्ट्यनन्तरं त्रयीविद्यादृष्टिविधाने कारणमाह – अग्न्यादीति । यदग्न्याद्यात्मकं सामोपास्यमुक्तं तस्मादानन्तर्यमुपास्यायास्त्रयीविद्याया युज्यते । ऋग्वेदोऽग्नेर्यजुर्वेदो वायोरादित्यात्सामवेद इति श्रुतेस्त्रय्यास्तत्कार्यत्वावगमादित्यर्थः । तत्कार्यत्वात्त्रयीसाध्यकर्मफलत्वादित्यर्थः । कथं सर्वस्मिन्प्रोतमित्युक्तं त्रयीविद्यादौ प्रोतमिति वक्तव्यत्वादत आह – त्रयीविद्यादीति । कथं पुनरत्र त्रयीविद्यादिदृष्ट्या साम्नो ध्येयत्व गम्यते तत्राऽऽह – त्रयीति । न चास्यां प्रतिज्ञायां पूर्वेण सन्दर्भेण विरोधः शङ्कामर्हतीत्याह – अतीतेष्वपीति । तत्र हेतुमाह – कर्माङ्गानामिति । दर्शपूर्णमासाधिकारे “पत्न्यवेक्षितमाज्यं भवति”
इति दृष्टिविशेषणमाज्यं संस्क्रियते । तथा सामप्रभेदानां दृष्टिविशेषणत्वाविशेषात्तेषां कर्माङ्गानां तत्तदङ्गदृष्ट्या संस्कर्तव्यत्वादित्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 अथ यथाश्रुतं सर्वात्मत्वमेव किं न स्यादत आह –
निरुपचरितेति ॥२॥ 【भाष्यम्】 【भाष्यम्】 सर्वविषयसामविदः सर्वेश्वरत्वमित्यत्र मन्त्रं सम्वादयति – तदेतस्मिन्निति । परमित्यस्यैव व्याख्यानमन्यदिति । वस्त्वन्तराभावे हेतुमाह –
तत्रैवेति ॥३॥ 【भाष्यम्】 【भाष्यम्】
सर्वज्ञत्वं सर्वेश्वरत्वं च तच्छब्दार्थः ॥४॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्यैकविंशः खण्डः ॥ सामोपासनं समाप्तं चेत्किमुत्तरग्रन्थेनेत्याशङ्क्याऽऽह – सामेति । आदिशब्देन स्वरादयो वर्णा गृह्यन्ते किमित्युद्गातुर्यथोक्तोपास्तिरुच्यते तत्राऽऽह – फलेति । मृत्युपरिहारादिः फलविशेषस्तत्सम्बन्धादेषोपास्तिरनुष्ठेयेत्यर्थः । पशुभ्यो हितत्वमस्य वचनाद्गमयितव्यम् । वाक्यस्थमितिशब्दं व्याचष्टे – इति कश्चिदिति । इत्यविशेषितः । अनेन प्रकारेणायमिति विशेषितो व्यवच्छिद्य ज्ञातो न भवतीत्यर्थः । तस्य प्राजापत्यत्वे हेतुमाह – आनिरुक्त्यादिति ।
नीलपीतादिभिर्निश्चित्यावचनादित्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 स्वरविशेषज्ञानपूर्वकमुद्गानकाले ध्यातव्यार्थमाह – अमृतत्वमिति ।
स्वरोष्मव्यञ्जनादिभ्य इत्यत्राऽऽदिशब्देन स्थानप्रयत्नादिसंग्रहः ॥२॥ 【भाष्यम्】 【भाष्यम्】 केनाप्याक्षिप्तस्योद्गातुरुद्गानकाले प्रतीकारज्ञानाय स्वरादिदेवताज्ञानमुपन्यस्यति – सर्वे स्वरा इति ।
शषसहादय इत्यादिशब्दस्तदवान्तरभेदाभिप्रायः यत्तव वक्तव्यमित्यस्मादूर्ध्वं त च्छब्दो द्रष्टव्यः ॥३॥ 【भाष्यम्】 【भाष्यम्】
तथैव स्वरेष्विवेति यावत् ॥४॥ 【भाष्यम्】 【भाष्यम्】 देवताज्ञानबलेनोद्गात्रा न प्रमत्तेन भवितव्यं स्वरादीनामन्यथोच्चारणे देवताशरीरभेदप्रसङ्गादतः स्वराद्युच्चारणे तात्पर्यं कर्तव्यमित्युद्गातार शिक्षयति – यत इति । प्रयोगकाले चिन्तनीयमर्थं कथयति – तथेऽति । यथोक्तरीत्या स्वराणां प्रयोगावस्थायामित्यर्थः । आदधानीति चिन्तयेदिति शेषः । तथेत्यूष्मणां प्रयोगावस्थायामिति यावत् । विवृतप्रयत्नोपेताः प्रयोक्तव्या इति शेषः । तत्रापि ध्यातव्यं दर्शयति – प्रजापतेरिति । अतिद्रुतोच्चारणेन वर्णो वर्णान्तरे यथा निक्षिप्तो न भवति तथा प्रयुज्यमानत्वमनभिनिक्षिप्तत्वम् । मृत्योरात्मानमिति वाक्योपादानं तस्यार्थमाह – बालानिवेति ।
यथा लोकः बालान्परिहरति तथा मृत्योरात्मानमहं परिहराणीति ध्यात्वास्पर्शानां प्रयोगः कर्तव्य इत्यर्थः ॥५॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य द्वाविंशः खण्डः ॥ अधिकृताधिकारण्यङ्गावबद्धान्युपासनान्युक्तानि । सम्प्रति स्वतन्त्राधिकारिगोचरमोङ्कारोपासनं विधातुमारभते – ओङ्कारेति । अङ्गावबद्धोपासनाधिकारे यथोक्तस्वतन्त्रोपासनविधाने कोऽभिप्रायः श्रुतेरित्याशङ्क्याऽऽह – नैवमिति । न स्वतन्त्रस्य तस्योपासनादित्येवकारार्थः । कथं तर्हि मन्तव्यमित्यपेक्षायामाह – किं तर्हीति । सनियमस्य प्राङ्मुखत्वादिनियमसहितस्य पुरुषस्येति यावत् । अभ्यासश्च स्वीकरणं विचारो जपः शिष्येभ्यो दानमावृत्तिश्चेति पञ्चविधः । वेद्यां यद्दीयते तस्य यज्ञाङ्गत्वात्पृथक्फलवत्त्वं नास्तीति मन्वानो विशिनष्टि – बहिर्वेदीति । गृहस्थेन तदात्मनेत्यर्थः । कथं गृहस्थस्य प्राथम्यं ब्रह्मचारिणस्तथात्वादित्याशङ्क्याऽऽह – एक इत्यर्थ इति । उक्तव्याख्याने वाक्यशेषस्य गमकत्वमाह – द्वितीयेति । प्राथम्यमेव प्रथमशब्दस्य नार्थो ब्रह्मचारिप्राथम्यप्रसिद्धिविरोधादित्याह – नाऽऽद्यार्थ इति । कीदृगत्र परिव्राड्गृह्यते तत्राऽऽह – नेति । कुतोऽत्र ब्रह्मसंस्थो न गृह्यते तत्राऽऽह – ब्रह्मसंस्थस्येति । वानप्रस्थग्रहणममुख्यस्य परिव्राजोऽपि प्रदर्शनार्थम् । ब्रह्मचारीत्यादिवाक्यस्य नैष्ठिकविषयत्वं विशेषणसामर्थ्याद्दर्शयति – अत्यन्तमित्यादीति । अथोपकुर्वाणस्य ब्रह्मचारित्वाविशेषात्किमित्युपादानं न भवेत्तत्राऽऽह – उपकुर्वाणस्येति । ननु ब्रह्मचारिणो ब्रह्मचर्येण पुण्यलोको न श्रूयते तत्राऽऽह – सर्व इति । कथमाश्रमिणां पुण्यलोकविशेषवतां तदात्मकत्वमुच्यते तत्राऽऽह – पुण्य इति । आश्रमिषु प्रदर्श्यमानेषु किं परिव्राण्मुख्यो न प्रदर्श्यते तत्राऽह – अविशिष्टस्त्विति । कुतो हि पुण्यलोकवैलक्षण्यममृतत्वस्येत्याशङ्क्योक्तम् – आत्यन्तिकमिति । तस्यापेक्षिकत्वाभावे हेतुमाह – पुण्यलोकादिति । अमृतत्वस्य पुण्यलोकात्पृथग्विभागकरणात्ततोऽन्यत्वादात्यन्तिकत्वसिद्धिरिति योजना । उक्तमेवार्थं व्यतिरेकमुखेन साधयति – यदि चेत्यादिना । ब्रह्मशब्दस्य यथाश्रुतं मुख्यमर्थं गृहीत्वा परब्रह्मात्मना साक्षात्कारवता निरङ्कुशममृतत्वमुक्तं प्रकरणालोचनया तु प्रणवप्रतीके ब्रह्मोपासकस्य क्रमेणामतत्वं भेदबुद्धेरनपायाद्द्रष्टव्यम् । कर्मिणामन्तवत्फलत्वाभिधानेन तन्निन्दया ब्रह्मसंस्थतास्तुतिदर्शनात्तस्याश्च विध्यर्थत्वादमृतत्वकामो ब्रह्मसंस्थः स्यादित्येकार्थपरत्वादेकमिदं वाक्यमित्याह – अत्र चेत्यादिना । स्तुतये फलविधये चेदं वाक्यं किं न स्यादित्याशङ्क्याऽऽह – स्तुतये चेति । अर्थैकत्वादेकं वाक्यं तद्भेदे तद्भेदनियमादित्यर्थः । किंपरं तर्हीदं वाक्यं तत्राऽऽह – तस्मादिति । स्मृतिसिद्धेति । श्रुतेःस्मृत्यर्थानुवादत्वे वैपरीत्यात्तदनुमितश्रुतिसिद्धेति योज्यम् । स्तुतिमेव दृष्टान्तावष्टम्भेन स्पष्टयति – यथेत्यादिना । इतिशब्दोऽध्याहृतस्तुतय इत्यनेन सम्बध्यते । ननु ब्रह्मतत्त्वसेवातोऽमृतत्वं भवति न प्रणवसेवातस्तत्किमिति तस्य स्तुतिरित्याशङ्क्याऽऽह – प्रणवश्चेति । तत्र प्रमाणं दर्शयन्फलितमाह – एतद्ध्येवेति । ननु पूर्वस्मिन्ग्रन्थे वाचकपदं परिव्राजो नोपलभ्यते तथा चासाववशेषितस्तत्राऽऽह – परिव्राजकस्यापीति । ज्ञानं यमा नियमाश्चोपायभूता इति यावत् । परिव्राडपि पूर्वत्राभिहितश्चेद्ब्रह्मसंस्थवाक्यस्य कोऽर्थः स्यादित्याशङ्क्याऽऽह – अत इति । परिव्राजकस्यानवशिष्टत्वेन चतुर्णामुपदिष्टत्वाविशेषोऽतःशब्दार्थः । सामान्यनिर्देशे हेतुमाह – चतुर्णामिति । अप्रतिषेधाच्चेति च्छेदः । नन्वाश्रमान्तराणां कर्मार्थत्वात्तत्रैव व्यापृतत्वान्न ब्रह्मसंस्थतायां सामर्थ्यमस्ति परिव्राजकस्य तु निर्व्यापारस्य ब्रह्मसंस्थता सुकरेत्यत आह – स्वकर्मेति । ननु परिव्राजके ब्रह्मसंस्थशब्दो रूढो गवादिशब्दवत् । तन्नासावाश्रमान्तरमास्कन्दति तत्राऽऽह – न चेति । निमित्तमादाय प्रवृत्तत्वेऽपि किमिति रूढिर्न स्यादित्याशङ्क्याऽऽह – न हीति । नन्वेष शब्दो नैमित्तिकोऽपि परिव्राजकमात्रमधिकरोति ।तत्रैव निमित्तस्य सत्त्वात्तत्राऽह – सर्वेषां चेति । ननु पङ्कजादिशब्दा निमित्तमस्तीत्येतावता नेन्दीवरादौ वर्तन्ते किन्तु तामरसादिमात्रं विषयीकुर्वन्ति । तथा ब्रह्मसंस्थशब्दो निमित्तवर्त्यपि गृहस्थादावनवस्थितः परिव्राजकमेव परं गोचरयेदत आह – यत्रेति । ब्रह्मसंस्थशब्दं निरोद्धुमयुक्तमिति सम्बन्धः । रूढिपक्षे दोषान्तरमाह – न चेति । धर्मसहितस्य ज्ञानस्य ज्ञानसहितस्य वा धर्मस्यामृतत्वसाधनत्वान्न ज्ञानानर्थक्यमित्याशङ्क्याऽऽद्यपक्षमनुवदति – पारिव्राज्येति । पारिव्राज्यधर्मेणैवेति नायं नियमो गृहस्थादिधर्माणामप्याश्रमधर्मत्वेन तुल्यत्वात्तद्विशिष्टज्ञानममृतत्वहेतुरित्यपि वक्तुं सुकरत्वादित्याह – नाऽऽश्रमेति । द्वितीयं दूषयति – धर्मो वेति । यदि परिव्राजकधर्मो ज्ञानविशिष्टो मुक्तिहेतुरित्युच्यते तदैतदपि मुक्तिहेतुत्वं सर्वाश्रमधर्माणां ज्ञानविशिष्टानामविशिष्टम् । तथा च रूढिपक्षेऽपि परिव्राजकस्यैव ज्ञानान्मुक्तिरित्यर्थः । इतश्च परिव्राजकस्यैव मुक्तिभाक्त्वमसिद्धमित्याह – न चेति । मा तर्हि कस्यचिदपि मुक्तिर्भूदिति तत्राऽऽह – ज्ञानादिति । ब्रह्मसंस्थवाक्यार्थमुपसंहरति – तस्मादिति । परिव्राजकस्यैवामृतत्वमित्यनियमाज्ज्ञानादेव तदिति च नियमादित्यर्थः । स्वव्याख्यानं वर्जितदोषमुक्त्वा ब्रह्मसंस्थोऽमृतत्वमेतीत्यत्र वृत्तिकारीयं व्याख्यानमुत्थापयति - अत्रेति । ये खल्वाश्रमिणश्चत्वारो झानवर्जितास्तेषां सर्वेषामप्यविशेषेण स्वाश्रमविहितधर्मानुष्ठानेन पुण्यलोकभागिता सर्व एते पुण्यलोका भवन्तीत्यत्रोक्ता । न तु पूर्वस्मिन्ग्रन्थे परिव्राडनुक्तः सन्नवशेषितोऽस्तीति योजना । ब्रह्मसंस्थः समुच्चयानुष्ठायीति वृत्तिकारमतं निराकरोति – न कर्मेति । कर्मनिमित्तप्रत्ययस्य शुद्धब्रह्मात्मतासाक्षात्कारस्य च मिथो विरोधान्न समुच्चयसिद्धिरिति । वस्तुसंग्रहवाक्यं विवृणोति – कर्त्रादीति । कर्मविधयो निषेधाश्चेति द्रष्टव्यम् । तथाऽपि प्रत्ययत्वाविशेषात्कारकाकारकविधिनिषेधयोर्न विरोधोऽस्तीत्याशङ्क्याऽऽह – तच्चेति । प्रत्ययत्वेऽपि शास्त्रीयाशास्त्रीयतया विद्याविद्याभावेन विरोधोऽस्तीत्यर्थः । सति विरोधे किं स्यादत्राऽऽह – स्वाभाविकमिति । विद्यारूपः प्रत्यय इति पूर्वेण सम्बन्धः । तत्रोक्तमेव हेतुं स्मारयति – भेदेति । तत्र लोकप्रसिद्धमुदाहरणमाह – न हीति । भेदाभेदप्रत्यययोर्विद्याविद्यात्मनोर्विरोधेन समुच्चयासम्भवात्तदनुष्ठायी ब्रह्मसंस्थो न भवति चेत्कस्तर्हि ब्रह्मसंस्थः स्यादत्राऽऽह – तत्रेति । उक्तरीत्या समुच्चयायोगे सतीति यावत् । अन्यस्य गृहस्थादेर्ब्रह्मसंस्थतासम्भवमुक्तं साधयति – अन्यो हीति । वाचारम्भणमात्रे विकारेऽनृते शरीरादौ ब्राह्मणोऽहमित्याद्यभिसन्धानरूपो मिथ्याभिनिवेशात्मको यः प्रत्ययस्तद्वत्त्वादिति हेत्वर्थः । ननु ब्रह्मविदोऽपि संस्कारवशाद्द्वैतसत्यत्वाभिनिवेशपूर्वकं कर्मप्रवृत्तिसम्भवान्न ब्रह्मसंस्थता सुप्रतिपाद्येत्यत्र आह – न चेति । असत्यमिदमिति विवेकेन सत्यत्वाभनिवेशे शिथलीकृते पुनः सत्यत्वाभिनिवेशेन न प्रवृत्तिरुपपद्यते । आभासरूपा तु भेदबुद्धिर्न कर्मप्रवृत्तेहेतुरित्यर्थः । अद्वैतज्ञानवता निमित्तनिवृत्त्या कर्मनिवृत्तिरवश्यम्भाविनीत्युक्तम् । विपक्षे दोषमाह – उपमर्दितेऽपीति । एकत्वप्रत्ययजनकं शास्त्रं न भवत्येव प्रमाणं पूर्वप्रवृत्तभेदप्रत्ययविरोधादिति मतमाशङ्क्याऽह – अभक्ष्येति । यथा न कलञ्जं भक्षयेदित्यादि शास्त्रं पूर्वप्रवृत्तकलञ्जादिभक्षणप्रत्ययविरोधेऽपि प्रमाणं रागादिदोषात्तस्य प्रत्ययस्याप्रमाणत्वात्तथैव भेदप्रत्ययस्याविद्योत्थत्वात्प्रामाण्यासम्भवात्तद्विरोधेऽप्यद्वैतशास्त्रस्य युक्तमेव प्रामाण्यमित्यर्थः । कार्यपरत्वादद्वैते तात्पर्याभावात्कुतस्तच्छास्त्रस्य प्रामाण्यमित्याशङ्क्याऽऽह – सर्वोपनिषदामिति । उपक्रमोपसंहारैकरूप्यादिषड्विधतात्पर्यलिङ्गदर्शनादद्वैते तात्पर्यं तासामवसीयते तद्युक्तमद्वैतशास्रस्य स्वार्थे प्रामाण्यमित्यर्थः । भेदालम्बनकर्मविधिविरोधान्नाद्वैतशास्त्रं स्वार्थे मानमिति शङ्कते – कर्मविधीनामिति । यथा स्वप्नप्रत्ययो गन्धर्वनगरादिप्रत्ययश्च प्राक्तत्त्वज्ञानादज्ञं पुरुषमधिकृत्य प्रमाणं तथा कर्मविधीनामप्यविदुषि पुरुषे प्रामाण्यसम्भवान्नाद्वैतशास्त्रस्य तद्विरोधोऽस्तीति परिहरति – नानुपमर्देतेति । “यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः” (भ.गी. ३ । २१) इति स्मृतेस्तत्त्वदर्शिनां कर्मभ्यः सकाशादुपरमे सत्यन्येऽप्युपरस्यन्ते । तथा च कर्मविधिविरोधतादवस्थ्यमिति शङ्कते – विवेकिनामिति । प्रकृतिपरवशत्वाल्लोकस्य नासौ विवेकी प्रकृतिमनुवर्तते । “प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति” (भ.गी. ३ । ३३) इति स्मृतेः । ततो ब्रह्मविदां नैष्कर्म्येऽपि न कर्मविधीनामप्रामाण्यप्रसक्तिरित्युत्तरमाह – न काम्येति । तदेव प्रपञ्चयति – न हीति । इति नोच्छिद्यन्त इति शेषः । अस्तु, प्रस्तुते किमायातं तदाह – तथेति । अनुष्ठीयन्त एवेति तद्विधीनामनुच्छित्तिरिति वाक्यशेषः । अद्वैतवादिनोऽवश्यम्भाविनी कर्मनिवृत्तिरित्युक्तं दृष्टान्तेन विघटयन्नाशङ्कते – परिव्राजकानामिति । अद्वैतधीस्वभावालोचनायां भिक्षाटनादिप्रवृत्तिरप्यघटमानैवेति मन्वानः समाधत्ते – न प्रामाण्येति । समुच्चयस्य प्रामाणिकत्वनिरूपणायां प्रत्ययाभासमूलस्य प्रवृत्त्याभासस्य नोदाहरणत्वम् । अग्निहोत्रादिप्रवृत्तेरप्याभासत्वे प्रामाणिकसमुच्चयसिद्धान्तनिरतो नैतच्चोद्यमित्यर्थः । एतदेव दृष्टान्तेन स्पष्टयति – न हीति । तद्वदविवेकिना कर्म क्रियमाणं दृष्टमिति विवेकिभिरपि तन्न क्रियते । भिक्षाटनादिप्रवृत्त्याभासस्त्वप्रामाणिकोऽग्निहोत्रादिप्रवृत्तेर्नोदाहरणमिति शेषः । इतश्च नेदमुदाहरणमित्याह – न चेति । अग्निहोत्रादावपि प्रवर्तकमस्तीति शङ्कते – इहापीति । अकरणकृतं प्रत्यवायाख्यं भयमविवेकिनो विवेकिनो वेति विकल्प्याऽऽद्यमङ्गीकरोति – न भेदेति । कर्मणि भेदबुद्धिमतोऽधिकृतत्वेऽपि तस्य तदकरणे किं स्यादित्याशङ्क्याऽऽह – यो हीति । द्वितीयं दूषयति – न निवृत्तेति । विवेकिनो निवृत्ताधिकारस्य प्रत्यवायाप्राप्त्या कर्मसु प्रवर्तकाभावात्कर्मभ्यो निवृत्तिरूपं पारिव्राज्यं चेदतिप्रसङ्गस्तर्हीति शङ्कते – एवं तर्हीति । कर्मसाधनं स्वयज्ञोपवीतादि त्यज्यते न वा । त्यज्यते चेन्न स्वाश्रमधर्मः । ततो यज्ञोपवीताद्यन्तरेण गार्हस्थ्यादिभावासम्भवात् । न त्यज्यते चेन्न पारिव्राज्यप्राप्तिः । साधनसंग्रहस्य साध्यार्थत्वादिति परिहरति – न स्वस्वामित्वेति । इतश्चाऽऽश्रमान्तरेषु न पारिव्राज्यमित्याह – कर्मार्थत्वादिति । जायापुत्रवित्तसम्पत्त्यानन्तर्यं श्रुतावथशब्दार्थः । गृहस्थादिषु स्वाश्रमस्थष्वेव पारिव्राज्यस्य दुर्वचत्वे फलितमाह – तस्मादिति । विवेकवशाद्यज्ञोपवीतादौ स्वशब्दार्थे स्वामित्वबुद्ध्यभावादिति यावत् । यत्तु परिव्राजकस्य निवृत्ताधिकारस्य प्रत्यवायाप्राप्तिरिति तत्रानिष्टापत्तिमाशङ्कते – एकत्वेति । तद्विषयप्रत्ययस्य विधिरुत्पादकं तत्त्वमस्यादिवाक्यं तज्जनितेनैकत्वविषयेण प्रत्ययेनेति यावत् । तथा च यथेष्टचेष्टाप्रसक्तिरिति शेषः । ज्ञानिनो वैधं यमादि नास्ति तत्प्रवृत्तिस्तु संस्कारवशादित्याशयेनाऽऽह – न बुभक्षादिनेति । यो हि दृष्टेन दोषेण तत्त्वज्ञानात्कथञ्चित्प्रच्युतिमापादितस्तस्य संस्कारवशाद्यमनियमानुष्ठानमुपपद्यते । तस्य दोषकृततत्त्वप्रच्युतिप्रसूतानियतचेष्टानिवृत्त्यर्थत्वेनावश्यानुष्ठेयत्वात् । तथा च न यथेष्टचेष्टापत्तिरित्यर्थः । इतश्च विदुषो वैधप्रवृत्त्यभावेऽपि यथेष्टचेष्टा नास्तीत्याह – न चेति । अविदुषोऽपि न यथेष्टचेष्टा विदुषस्तु सा कुतस्त्येति दृष्टान्तेन स्फुटयति – न हीति । अन्येषां ब्रह्मसंस्थत्वासम्भवे फलितमुपसंहरति – तस्मादिति । परोक्तमनूद्याङ्गीकरोति – यत्पुनरिति । उक्तमर्थान्तरमनुवदति – यच्चेति । किं परिव्राजकस्य ज्ञानहीनस्याऽश्रममात्रनिष्ठस्य तपःशब्देनोपादानमाहो ज्ञानवतोऽपीति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूषयति – एतदसदिति । ज्ञानवतोऽपि तपस्वित्वात्तपःशब्देनोपादानमुचितमिति शङ्कित्वा प्रत्याह – कस्मादित्यादिना । तपःशब्देन नासौ गृहीत इति शेषः । तस्य च ज्ञानवतोऽवशिष्टत्वं प्रागेवोपदिष्टमित्याह – स एवेति । इतश्च परमहंसपरिव्राजको न तपःशब्देन परामृष्ट इत्याह – एकत्वेति । तदेव स्फोरयति – भेदेति । यत्तु कर्मच्छिद्रे गृहस्थादेरपि ब्रह्मसंस्थतासामर्थ्यमिति तत्प्रत्याह – एतेनेति । अनिवृत्तभेदप्रत्ययस्य ब्रह्मसंस्थत्वासम्भवेनेति यावत् । सामर्थ्यं प्रयुक्तमिति सम्बन्धः । यत्तु चतुर्णामपि ब्रह्मसंस्थताया अप्रतिषेध इति तत्राऽऽह – अप्रतिषेधश्चेति । एकत्वोपदेशेन भेदप्रत्ययनिरासादनिवृत्तभेदप्रत्ययस्यार्थाद्ब्रह्मसंस्थता प्रतिषिद्धेत्यर्थः । पारिव्राज्यमात्रेणामृतत्वे ज्ञानवैयर्थ्यमुक्तं परिहरति – तथेति । चोद्यान्तरमनूद्योक्तं परिहारं स्मारयति – यत्पुनरुक्तमिति । तत्र रूढोऽयं शब्द इति शेषं पञ्चम्या सूचयति । चोद्यान्तरमनूद्य दूषयति – यत्पुनरित्यादिना । आदिपदेन पङ्कजादिशब्दो गृह्यते । उक्तं प्रपञ्चयति – गृहस्थितीति । इहापीति प्रकृतवाक्योपादानम् । प्रकृते परमहंसे परिव्राजके ब्रह्मसंस्थपदमित्यत्र हेतुमाह – मुख्येति । इतश्च पारमहंस्यमेव श्रौतमित्याह – अतश्चेति । एवकारार्थं कथयति – न, यज्ञोपवीतेति । इतिशब्दः संन्यासप्रकरणे तथाविधश्रुत्यभावप्रदर्शनार्थः । ब्रह्मसंस्थशब्दस्य परमहंसविषयत्वे श्रुत्यन्तरं सम्वादयति – श्रुतिरिति । अत्याश्रमिभ्यः पूर्वाश्रमत्रयमतीत्य सर्वकर्मं त्यक्त्वा स्थितेभ्यः परमहंसपरिव्राजकेभ्य इति यावत् । परमं पवित्रं निरतिशयपरिशुद्धकारणं परमपुरुषार्थसाधनं सम्यग्ज्ञानं प्रोवाचेत्यर्थः । स्मृतिभ्यश्च यथोक्तं पारिव्राज्यं सिद्ध्यतीति शेषः । “अनाशिषमनारम्भम्” इत्यादिवाक्यसंग्रहार्थमादिपदम् । कर्मणो बन्धहेतुत्वं तच्छब्दार्थः । लिङ्गस्य धर्मकारणत्वराहित्यं तस्मादित्युक्तम् । अलिङ्गो धर्मध्वजित्वरहितः । धर्मज्ञो यथावद्धर्मानुष्ठाता । अधर्मज्ञ इति वा पाठः । धर्मविचारनिष्ठारहितस्तत्रासारत्वप्रत्ययवानित्यर्थः । अलिङ्ग इत्युक्तेऽनाश्रमित्वमाशङ्क्याऽऽह – अव्यक्तेति । न व्यक्तं दम्भेनगृहीतं लिङ्गमाश्रमित्वमस्यास्तीत्यव्यक्तलिङ्गः । किन्त्वदम्भेन श्रुतिस्मृत्युक्तप्रकारेण तदस्यास्तीत्यर्थः । आदिपदं “त्यज धर्ममधर्मं च” (म.शां. १२ । १६१ । ४०) इत्यादि ग्रहीतुम् । अत्रापि पूर्वपदान्वयः । ननु कर्मनिवृत्तिमुपदिशता त्वया साङ्ख्यमतमेवाऽऽश्रितं तेनापि शरीरादिव्यापारोपरमद्वारा ध्याननिष्ठतायाः स्वीकृतत्वात्तत्राऽऽह – यत्त्विति । न हि तन्मते कूटस्थात्मधीबलेन नैष्कर्म्यं युक्तम् । क्रियाकारकादिबुद्धेरविवेकस्य च सत्यत्वेन ज्ञानमात्रापनोद्यत्वायोगात् । न च सर्वव्यापारोपरमसम्भवो मनोबुद्ध्यादीनां तच्छीलत्वात् । “न हि कश्चित्क्षणमपि” (भ. गी. ३ । ५) इत्यादिस्मृतेः । अतः साङ्ख्यवचो मिथ्यैवेत्यर्थः । ननु बौद्धेनापि नैरात्म्यमिच्छता नैष्कर्म्यमिष्टं तथा च कर्मत्यागमुपदिशता त्वयाऽपि तन्मतमेवानुमोदितं; नेत्याह – यच्चेति । तदभ्युपगन्तुरित्यत्राकर्तृत्वं तच्छब्दार्थः । “दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्” (भ. गी. ८ । ८) इति स्मृतेरालस्योपहतैरज्ञैरकर्तृत्वमुपेयते भक्ताऽपि कर्म त्यजता तन्मतमादृतमित्याशङ्क्याऽऽह – यच्चाज्ञैरिति । अकर्तृत्वाभ्युपगम इति च्छेदः । ते हि मोहादेव कर्म त्यजन्तो न तत्फलं लभन्ते । “स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्” (भ. गी. ८ । ८) इति स्मृतेः । वयं तु प्रमाणवशादेव कर्म त्यजन्तो न व्यामूढपक्षमाद्रियामहे । तस्मान्नैष्कर्म्यं श्रुतिस्मृतिप्रसिद्धमप्रत्याख्येयमिति भावः । पक्षान्तरे नैष्कर्म्योक्तेरमूलत्वे स्थिते फलितमुपसंहरति – तस्मादिति । यत्तु कैश्चिदैकाश्रम्यमाश्रितं तत्प्रत्यादिशति – एतेनेति । एकत्वविज्ञानेन भेदप्रत्ययस्योपमर्दितत्वोपपादनेनेति यावत् । एकत्वविज्ञानं परोक्षं विवक्षितम् । अपरोक्षस्य पारिव्राज्यमन्तरेणायोगात् । तस्योपरतिशब्दितस्य शमादिवत्साधनत्वश्रुतेरिति द्रष्टव्यम् । गृहस्थस्य पारिव्राज्ये श्रुतिविरोधं शङ्कते – नन्विति । ऐकात्म्यमेव सत्यं द्वैतमसत्यमिति विवेके जाते सत्यग्न्यादेरवस्तुत्वाध्यवसायात्तदभिनिवेशशैथिल्यान्न तत्त्यागे दोषप्राप्तिरिति दूषयति – न वेदेनेति । सम्यग्ज्ञाने सत्यग्न्यादेरुत्सन्नत्वे मानमाह – अपागादिति । गृहस्थस्यापि विवेकवतो वैराग्यद्वारा युक्तं पारिव्राज्यमित्याह – अत इति ।
इतिशब्दो ब्रह्मसंस्थवाक्यव्याख्यानसमाप्त्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 लोकानामभितो दग्धतयाऽभितापप्रतिभारां व्यवच्छिनत्ति – ध्यानमिति । द्रवात्मत्वाभावे कथं प्रस्रवणं त्रय्याः स्यादित्याशङ्क्याऽऽह – प्रजापतेरिति । पूर्ववदिति ।
त्रयीविद्यासारजिघृक्षयाऽऽलोचितवानित्यर्थः ॥२॥ 【भाष्यम्】 【भाष्यम्】 किं तद्ब्रह्मेत्याकाङ्क्षायामाह – यत्संस्थ इति । कथं तस्य ब्रह्मशब्दवाच्यत्वमित्याशङ्क्य महत्तरत्वादित्याह – कीदृशमित्यादिना । तत्र ब्रह्मशब्दप्रवृत्तौ हेत्वन्तरं सूचयति – परमात्मन इति । ओङ्कारावयवस्याकारस्यापि सर्ववाग्व्याप्तिरस्ति किमु वक्तव्यमोङ्कारस्येति मन्वानः श्रुत्यन्तरमुदाहरति – अकार इति । ओमितीदं सर्वमित्यादिवाक्यमादिपदार्थः । ओङ्कारव्याप्तत्वेऽपि वाग्जातस्य न तस्य सर्वात्मत्वमाकाशादिपरमात्मविकारस्य पृथगेव विद्यमानत्वादित्याशङ्क्याऽऽह – परमात्मेति । सकलमपि जगत्परमात्मविकारत्वात्तदतिरेकेण नास्ति । स च प्रकृतादोङ्कारान्नातिरिच्यते । “एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः” (प्र.उ. ५ । २) इति श्रुतेः । तस्माद्युक्तमोङ्कारस्य सर्वात्मत्वमित्यर्थः । ओङ्कारं सर्वात्मकं ब्रह्मरूपमुपासीतेतिविधिसमाप्त्यर्थः इतिशब्दः । किमित्योङ्कारस्य लोकादिद्वारा निष्पत्तिरुच्यते तत्राऽह – लोकादीति ।
स्तुतिश्चोपास्त्यर्था । यत्स्तूयते तद्विधीयत इति स्थितेः । तथा च सिद्धमोङ्कारोपासनममृतत्वफलमिति वक्तुमितिशब्दः ॥३॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य त्रयोविंशः खण्डः ॥ प्रासङ्गिकं हित्वा प्रकृतमनुसंधते – सामेति । पञ्चविधं सप्तविधं च यज्ञाङ्गीभूतं साम तस्योपासनवचनादोङ्कारस्य तद्गुणस्य सुतरामेव कर्मगुणत्वे प्राप्ते ततस्तं व्यावर्त्यं ब्रह्मप्रतीकत्वात्कैवल्यहेतुत्वेन तमेव महीकृत्य प्रस्तुतयज्ञाङ्गभूतसामादिविज्ञानविधानार्थमुत्तरवाक्यमित्यर्थः । सामहोममन्त्रोत्थानं सामादिज्ञानविधित्सया, तदपरिज्ञाने दोषमाह – ब्रह्मेत्यादिना । तेषां प्रातःसवनेशानत्वेऽपि यजमानस्य का हानिरित्याशङ्क्याऽऽह – तैश्चेति । यथा पृथिवीलोको वसुभिस्तथेति यावत् । अन्तरिक्षलोको वशीकृत इति पूर्वेण सम्बन्धः । तृतीयो लोको द्युलोकाख्यः । अस्तु तत्तद्देवानां तत्तल्लोकवशीकारस्तथाऽपि यजमानस्य लोकित्वे किमयातमित्याशङ्क्याऽऽह –
इति यजमानस्येति ॥१॥ 【भाष्यम्】 【भाष्यम्】 परिशिष्टलोकाभावोऽतःशब्दार्थः । तर्हि देहपातादूर्ध्वमित्येतत् । लोकापेक्षां विनाऽपि विधिवशाद्यागो भविष्यतीत्याशङ्क्याऽऽह – लोकायेति । लोकत्रयस्य वस्वाद्यधीनतया यजमानानधीनत्वे तस्य तदधीनत्वार्थं यज्ञाद्यनुष्ठानमित्याशङ्क्याऽऽह – लोकाभावे चेति । अज्ञो यज्ञं स्वर्गादिसाधनीभूतं कथं कुर्यादित्याक्षेपादविद्वत्कर्मानुष्ठाननिन्दापरं वाक्यमित्याशङ्क्याऽऽह – सामादीति । अथेतीदं वाक्यं स्तुत्यर्थे निषेधार्थे च भविष्यति नेत्याह – स्तुतये चेति । इतश्चाविद्वत्कर्तृत्वं निषेद्धुमशक्यमित्याह – आद्ये चेति ।
मटचीहतेष्वित्यादौ विदुषः सन्निधाने तदनुज्ञामन्तरेणाविदुषः कर्म कर्तुमयुक्तम् । प्रत्यवायप्रसङ्गात् । तदसन्निधौ तु तेनापि क्रियमाणं कर्म न दुष्यतीत्युपपादितमित्यर्थः । अथशब्दो हेत्वर्थः । सामाद्यविज्ञाने यस्माद्यज्ञाद्यकरणमेव प्राप्तं तस्मादित्यर्थः ॥२॥ 【भाष्यम्】 【भाष्यम्】 ज्ञातव्यं सामादि प्रश्नपूर्वकं विवृणोति – किं तदित्यादिना । अप्रगीतमृग्जातं शस्त्रं यत्प्रातःकाले शस्यते प्रातरनुवाकः तस्येति यावत् । उपाकरणादित्यस्यार्थमाह – प्रारम्भादिति । जघनेनेत्येतद्व्याचष्टे – पश्चादिति ।
स गार्हपत्यस्य पृष्ठत उद्भागे स्थित्वा वसुदेवताकं सामगानं कृतवानित्यर्थः । स वासवमित्यत्र सशब्दो यजमानविषयः ॥३॥ 【भाष्यम्】 【भाष्यम्】
राज्याय त्वद्दर्शनेन त्वदनुज्ञया पृथिवीप्रयुक्तभोगायेत्यर्थः ॥४॥ 【भाष्यम्】 【भाष्यम्】 पृथिव्यां क्षियति वसतीति पृथिवीक्षित्तस्मै पृथिवीक्षिते । पृथिवीलोके मया लब्धे तव किं स्यादित्याशङ्क्याऽऽह –
एष वै मम यजमानस्येति ॥५॥ 【भाष्यम्】 【भाष्यम्】
स्वाहाशब्दो मन्त्रसमाप्त्यर्थो होमद्योतकः । सर्वेषु मन्त्रेष्वेतैः सामहोममन्त्रोत्थानैरित्यर्थः ॥६॥ 【भाष्यम्】 【भाष्यम्】 यथा पृथिवीलोकजयोपायो दर्शितस्तथाऽन्तरिक्षलोकजयोपायोऽपि प्रदर्श्यत इत्याह – तथेति ॥७ – ८॥ अन्तरिक्षे क्षियतीत्यन्तरिक्षक्षिद्वायुस्तस्मै वायवे ॥९ – १० ॥ यथा पृथिव्यन्तरिक्षयोराप्त्युपायस्तथा द्युलोकाप्त्युपायोऽप्युच्यत इत्याह – तथेति । स्वाराज्यमन्तरिक्षे स्वातन्त्र्यम् । आदित्यानामिव स्वातन्त्र्यमिह विवक्षितम् ॥११ – १२ – १३॥ किमिदं सामाद्यार्त्विज्यमाहो याजमानिकमिति वीक्षायामाह – याजमानं त्विति । आदिपदेन लोकं मे यजमानायेति निर्देशो गृह्यते ॥१४ – १५॥ सामादिविज्ञानफलं कथयति – एष हेति । य एवं वेदेत्यस्य व्याख्या – यथोक्तस्येति ।
यथोक्तं सामादीत्येतत् । एवमित्युक्तप्रकारोक्तिः । तस्य यज्ञयाथात्म्यविदस्तदनुविदस्तदनुष्ठानद्वारा तत्फलं सम्भवतीत्यर्थः ॥१६॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य चतुर्विंशः खण्डः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां छान्दोग्योपनिषद्भाष्यटीकायां द्वितीयोध्यायः ॥ कर्माङ्गबद्धं विज्ञानं परिसमाप्य कर्मफलस्याऽऽदित्यस्य स्वतन्त्रोपास्तिविध्यर्थमध्यायान्तरमारभमाणः सम्बन्धं प्रतिजानीते – असाविति । पूर्वोत्तरग्रन्थयोः सम्बन्धं प्रतिज्ञातं प्रकटयितुं वृत्तं कीर्तयति – अतीतेति । विशिष्टफलं पृथिव्यादिलोकत्रयम् । समनन्तरसंदर्भस्य तात्पर्यं वक्तुं पातनिकां करोति – सर्वेति । तस्य प्रेप्सितत्वं सूचयति – महत्येति । कथं पुनरादित्यस्य सर्वप्राणिकर्मफलभूतत्वमित्याशङ्क्य सर्वैरुपजीव्यत्वोपलम्भादित्याह – स एष इति । तदुपदेशे हेत्वन्तरमाह – सर्वपुरुषार्थेभ्य इति । श्रेष्ठतमं फलं क्रमेण मुक्तिलक्षणमस्यास्तीति तथोक्तम् । आदित्ये कर्मफलशब्दप्रवृत्तिनिमित्तमुक्तं व्यक्तीकर्तुमाह – वस्वादीनां चेति । चकारो विद्वत्संग्रहार्थः । वक्ष्यत्यादित्यस्येति सम्बन्धः । तस्य सर्वेषां यज्ञानां फलरूपत्वादिति हेतुः । वस्वादयश्च कर्मफलभोक्तारस्तत्फलमादित्यं दृष्ट्वा तृप्यन्तीति उक्तमित्यर्थः । आदित्यं मधुदृष्ट्योपासीतेत्युक्तं तत्र प्रसिद्धमधुसाम्यमादित्यस्य श्रुत्युक्तमाकाङ्क्षापूर्वकं दर्शयति – कथमित्यादिना । दिवि तिरश्चीनवंशदृष्टौ निमित्तमाह – तिर्यग्गतेति । अन्तरिक्षनिवासिभिरुपरि विसारितनयनैरिति शेषः । अन्तरिक्षे मध्वपूपदृष्टिं कथयति – अन्तरिक्षमिति । मधुन इत्युभयत्र सम्बन्धः । मरीचयः पुत्रा इति वाक्यं व्याचष्टे – मरीचय इति । आपो भूमेराकृष्टा रश्मिस्थाः सन्तीत्यत्र प्रमाणमाह – एता इति । स्वराजः स्वतो भासमानस्य सवितुरिति यावत् । तासां पुत्रत्वं प्रकटयति – ता इति ।
लोके हि भ्रमरबीजभूताः पुत्रा मध्वपूपच्छिद्रस्था दृश्यन्ते । एताश्चाऽऽपोऽन्तरिक्षलक्षणमध्वपूपान्तर्गतरश्मिस्था भवन्ति । ततश्चैतास्वप्सु भ्रमरबीजदृष्टिः कर्तव्येत्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 पातनिकां कृत्वोत्तरग्रन्थमुत्थापयति – अत इति । आदित्यस्य कर्मफलत्वादिति यावत् । प्राचीदिग्गतेष्वादित्यरश्मिषु प्राचीनमधुनाडीदृष्टिर्विधेयेत्याह – तस्येति । मध्वाश्रयस्य लोहितादिरूपं मधुवक्ष्यमाणं तदाधारस्येत्यर्थः । ऋक्षु मन्त्ररूपासु भ्रमरदृष्टिमारोपयति – तत्रेति । प्रकृतं मधु सप्तम्यर्थः । तासां मधुकृत्त्वं साधयति – लोहितेति । ऋग्वेदविहिते कर्मणि पुष्पदृष्टिं सम्पादयति – यत इति । ऋचो मधुकृत इति मन्त्राणां पृथक्कृतत्वादृग्वेदः पुष्पमित्यृग्वेदशब्देन ब्राह्मणसमुदायस्य वक्तव्यत्वात्कथञ्चिदृग्वेदविहिते कर्मणि तच्छब्देन लक्षिते पुष्पदृष्ट्यध्यासेऽपि कुतस्ततो मधुनिष्पत्तिरित्याशङ्क्याऽऽह – ततो हीति । तदेवोपपादयति – मधुकरैरिति । लोके तावदपः पुष्पाश्रयाः समादाय मधुकरैर्मधु निर्वर्त्यते तथेहापि मधुकरस्थानीयैरृङ्मन्त्रैस्तद्वेदविहितात्पुष्पस्थानीयात्कर्मणः सकाशादपो गृहीत्वा मधु निष्पाद्यते । तस्मात्कर्मणः स्वफलभूतमधुनिष्पत्तेरुपपत्तेस्तस्मिन्पुष्पदृष्टिरित्यर्थः । ता अमृता आप इति वाक्यं प्रश्नपूर्वकं व्याचष्टे – कास्ता इत्यादिना । कर्मणि प्रयुक्तत्वमभिनयति – अग्नाविति । अग्निपाकाभिर्निवृत्तत्वमपूर्वात्मत्वं परम्परया मुक्त्यर्थत्वममृतार्थत्वम् । यद्वा रोहितरूपामृतनिर्वर्तकत्वं तदर्थत्त्वम् । उत्कृष्टफलवत्त्वमत्यन्तरसवत्त्वम् । ता वा एता इत्यादि व्याचष्टे – तद्रसानिति ।
यथा हि पुष्पेभ्यो भ्रमरा रसानाददानास्तान्यभितपन्ति तथैते मन्त्रास्तस्मिन्कर्मणि स्थितानम्मयान्रसानादाय मधु निर्वर्तयन्तो यथोक्तं कर्माभिमतं समालोचयन्ति स्मेत्यर्थः ॥२॥ 【भाष्यम्】 【भाष्यम्】 कथं पुनर्मन्त्राणां भ्रमरस्थानीयानां पुष्पस्थानीयमृग्वेदविहितं कर्माभितप्तवतां फलवत्त्वमित्याशङ्क्याऽऽह – एता ऋच इति । तासां कर्मणि प्रयुक्तत्वेऽपि किमायातं तदाह – ऋग्भिरिति । अभितप्तस्य रसोऽजायतेति सम्बन्धः । तं प्रश्नपूर्वकं विशदयति –
कोऽसाविति ॥३॥ 【भाष्यम्】 【भाष्यम्】 तच्छब्दार्थमाह – यशादीति । अथानुष्ठितकर्मजनितं फलं कथमादित्यमाश्रयतीत्याशङ्क्याऽऽह – अमुष्मिन्निति । दृष्टान्ते भोक्ष्यामहे व्रीह्यादिजनितं फलमित्यभिप्रायेण व्रीह्यादिप्राप्त्यर्थमिति शेषः । किं तत्कर्मफलं यदादित्यमाश्रित्य तिष्ठतीत्याशङ्क्याऽऽह – तत्प्रत्यक्षमिति । कर्मफले प्रत्यक्षे तत्साधने कर्माणि कर्मिणां श्रद्धासिद्ध्यर्थमिति यावत् । तदेव फलं प्रश्नपूर्वकं विशदयति –
किमित्यादिना ॥४॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य प्रथमः खण्डः ॥ मध्वन्तरं दर्शयति – अथेति । वक्तव्यविशेषं कथयति – यजूंषीति । कथं तेषां मधुकृत्त्वं तदाह – पूर्ववदिति । ऋङ्मन्त्राणामृग्वेदविहिते कर्मणि प्रयुक्तानां यथा पूर्वं मधुकरत्वमुक्तं तथा यजुषामपीत्यर्थः । यजुर्वेदविहिते कर्मणि पुष्पदृष्टिमाचष्टे – यजुर्वेदेति । ता अमृता आप इत्यस्य पूर्ववद्व्याख्यानमित्याह –
ता एवेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 यजुषामादित्यसम्बन्धि मधु प्रत्यक्षं दर्शयति – एतदिति ॥२ – ३॥ इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य द्वितीयः खण्डः ॥ तृतीयं मधु कथयति – अथेति । ऋचां यजुषां च मधु यथा कथितं तथेति यावत् । तस्य शास्त्रप्रत्यक्षत्वं दर्शयति – एतदिति ॥१ -३॥ इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य तृतीयः खण्डः ॥ चतुर्थं मधु निदर्शयति – अथेति । किं तत्कर्मेत्याशङ्क्याऽऽह – इतिहासेति । तद्ध्याथर्वणानामाङ्गिरसानां च प्रसिद्धं ब्राह्मणं तद्विहितं कर्म पुष्पं पुष्पस्थानीयमित्यर्थः । यदा प्रसिद्धयोरितिहासपुराणयोरुपादानं तदाऽपि न दूषणमित्याह – तयोश्चेति । अश्वमेधकर्मणि जामितापरिहारार्थं पारिप्लवो नानाविधोपाख्यानसमुदायो यत्र तत्पारिप्लवमाचक्षीतेतिविधिवशात्प्रयुज्यते । तासु रात्रिषु तस्यैव कर्मणोङ्गत्वेन मनुर्वैवस्वतो राजेत्येवंप्रकारयोर्विनियोगस्य पूर्वतन्त्रे पारिप्लवार्थाधिकरणेनैव सिद्धत्वात्तत्तत्सम्बन्धि कर्म पुष्पमित्यर्थः । अस्यापि मधुनः शास्त्रप्रत्यक्षतामाह – मध्वेतदिति ॥१ –३॥ इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य चतुर्थः खण्डः ॥ पञ्चमं मधु दर्शयति – अथेति । लोकद्वारीयादिविधयो लोकद्वारमपावृणु पश्येम त्वा वयमित्यादयः । ब्रह्मशब्दार्थमाह – शब्दाधिकारादिति । ऋगादिशब्दानां प्रकृतत्वादित्यर्थः । अस्यापि मधुनः शास्त्रवशात्प्रत्यक्षतामाह – मध्वेतदिति । समाहितदृष्टेः शास्त्रार्थे समाहितचित्तस्येत्यर्थः ॥१-३॥ पञ्च मधूनि व्याख्याय तेषां सर्वेषां ध्येयत्वसिद्ध्यर्थं स्तुतिं प्रकुरुते – ते वा एत इति । तस्मात्तेषामिति सम्बन्धः । कर्मणि विनियुक्तत्वेन तदङ्गत्वात्तद्भावापत्तिः । वेदानां कार्यत्वेऽपि प्रयत्नपूर्वकत्वाभावान्नित्यत्वम् । या मधुनि स्तुतिः सा कर्मस्तुतिरित्याह – रसानामिति । कर्मस्तुतिमभिनयति – यस्यैवमिति ।
रसानां रसा अमृतानाममृतानीत्येवंविशिष्टान्यमृतानि यस्य फलं कर्मणस्तस्य महाभाग्यं किं वक्तव्यमिति स्तूयते कर्मेत्यर्थः ॥४॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य पञ्चमः खण्डः ॥ अमृतानि ध्येयान्युक्त्वा तदुपजीविनो देवतागणाननुचिन्तनीयानुपदिशति – तत्तत्रेति । कबलग्राहं कबलं गृहीत्वा यथा लोकोऽश्नाति तद्वदित्येतत् । नन्वशनपानाभावे न युक्तमुपजीवनवचनमित्याशङ्क्य परिहरति – कथमित्यादिना । चक्षुषेति वक्तव्ये कथं सर्वकरणैरित्यधिकमुच्यते तत्राऽऽह – दृशेरिति । चक्षुषैव रूपग्रहणमिति नियममाश्रित्य शङ्कते – नन्विति । कर्मफलभूतस्य रसस्य लोहितामृतात्मकस्य नास्ति चक्षुर्मात्रग्राह्यत्वमिति परिहरति – नेत्यादिना । किमेतावता रसस्याऽऽयातं तदाह – रसो हीति । इति तस्यापि श्रोत्रादिग्राह्यतेति शेषः । एतदेवेत्यादिवाक्यमुपसंहरति – देवा इति । किं तेषां स्वतन्त्राणां तृप्तिर्नेत्याह – आदित्येति ।
वैगन्ध्यं दौर्गन्ध्यम् । आदिपदेन सम्भाविताः सर्वेऽपि देहकरणदोषा गृह्यन्ते ॥१॥ 【भाष्यम्】 【भाष्यम्】 एतस्माद्रूपादिति व्याख्यातस्यानुवादमात्रम् । उत्साहवतां देवानां यथोक्तामृतोपजीवित्वमित्यत्र लोकप्रसिद्धिमनुकूलयति –
न हीति ॥२॥ 【भाष्यम्】 【भाष्यम्】 पाठक्रमेणोक्तं ध्येयस्वरूपमनूद्य साधिकारं ध्यानविधिं दर्शयति – स य इति । वसुदेवभोग्यतां वसुभिर्देवैरुपजीव्यत्वमिति यावत् । एतदित्यस्माकं मधु निदर्शयति । एवंशब्दार्थं विशदयति – यथोदितमिति ।
तथैव श्रुत्युक्तक्रमेणैवेत्यर्थः ॥३॥ 【भाष्यम्】 【भाष्यम्】 भोगकालपरिमाणं प्रश्नपूर्वकं निर्धारयति – कियन्तमिति । आधिपत्यं स्वाराज्यमिति विशेषणयोस्तात्पर्यमाह –
न यथेति ॥४॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य षष्ठः खण्डः ॥ प्रथमममृतमधिकृत्य चिन्तनीयमुक्त्वा द्वितीयममृतमाश्रित्य तद्दर्शयति – अथेति ॥१-३॥ विद्याफलं कथयति – स यावदिति ।
यावद्वसूनां भोगकालस्ततो द्विगुणो रुद्राणां भोगकालः । यथा प्रथमामृतध्यायिनां वसुभिस्तुल्यो भोगकालस्तथा द्वितीयामृतध्यायिनामपि रुद्रैस्तुल्यो भोगकाल इत्यर्थः ॥४॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य सप्तमः खण्डः ॥ इतरामृतध्यायिनां फलानि निर्दिशति – तथेति । विपर्ययेण पुरस्ताद्दक्षिणतोऽधस्ताच्चेत्यर्थः । यथा पुरस्तादुदेता पश्चाच्चास्तमेता ततो दक्षिणतो द्विगुणेन कालेनोदेतोत्तरतश्चास्तमेतेत्युक्तम् । तथा ततो द्विगुणेन कालेन पश्चादुदेता पुरस्ताच्चास्तमेता तावानादित्यानां भोगकालः । तृतीयामृतध्यायिनामपि तावानेव भोगकालः । ततो द्विगुणेन कालेन यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता तावान्मरुतां भोगकालः । चतुर्थामृतध्यायिनामपि तावानेव भोगकालः । ततो द्विगुणेन कालेनोर्ध्वमुदेताऽधस्तादस्तमेता तावान्साध्यानां भोगकालः पञ्चमामृतचिन्तकानामपि तावानेवेत्यर्थः । यत्पूर्वपूर्वोदयास्तमयकालापेक्षया द्विगुणेन कालेनोत्तरोदयास्तमयावित्युक्तं तत्पुराणविरुद्धमिति शङ्कते – पूर्वस्मात्पूर्वस्मादिति । कथं श्रुत्युक्तस्यार्थस्य पुराणविरुद्धतेत्याशङ्क्याऽऽह – सवितुरिति । उक्तमेव संक्षिपति – मानसोत्तरस्येति । महागिरेर्मेरोः प्राकारवत्परितः स्थितस्य मूर्धनि संलग्नरथचक्रस्य सवितुर्मेरोः प्रदक्षिणावृत्तेस्तुल्यत्वात्कालाधिक्ये कारणाभावाच्च चतसृष्वपि पुरीषूदयास्तमयकालस्य तुल्यत्वम् । उक्तं हि विष्णुपुराणे - “शक्रादीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम् । विकर्णौ द्वौ विकर्णस्थस्त्रीन्कोणान्द्वे पुरे तथा ॥” (वि.पु. २ । ८ । १६) इति लैङ्गे चोक्तम् – “मानसोपरि माहेन्द्री प्राच्यां मेरोः स्थिता पुरी । दक्षिणे भानुपुत्रस्य वरुणस्य तु वारुणी ॥ सौम्ये सोमस्य विपुला तासु दिग्देवताः स्थिताः । अमरावती संयमिनी सुखा चैव विभा क्रमात् ॥ लोकपालोपरिष्टात्तु सर्वतो दक्षिणायने । काष्ठां गतस्य सूर्यस्य गतिर्या तां निबोधत ॥ दक्षिणां प्रक्रमेद्भानुः क्षिप्तेषुरिव धावति । पुरान्तगो यदा भानुः शक्रस्य भवति प्रभुः ॥ सर्वैः सायमनैः सौरो ह्युदयो दृश्यते द्विजाः । स एवं सुखवत्यां तु निशान्तस्तत्प्रदृश्यते ॥ अस्तमेति यदा सूर्यो विभायां विश्वदृग्विभुः । मया प्रोक्तोऽमरावत्यां यथाऽसौ वारितस्करः ॥ तथा संयमिनीं प्राप्य सुखां चैव विभां खगः । यदाऽपराह्णस्त्वाग्नेय्यां पूर्वाह्णो नैर्ऋते द्विजाः ॥ तदा स्वपररात्रश्च वायुभागे सुदारुणः । ऐशान्यां पूर्वरात्रस्तु गतिरेषाऽस्य सर्वतः ॥” (लिं.पु. ५४ । २-१० ) इति तथा चोपरिष्टादमरावत्यास्तिष्ठन्मध्याह्नं तत्रेशकोणस्थानां तृतीययाममाग्नेयकोणस्थानामाद्ययामं संयमिन्यामुदयं च करोति सविता । एवं यदा याम्ये मध्याह्ने तिष्ठति तदैन्द्रेऽस्तमयः । आग्नेये तृतीययामः । निरृतिकोणे प्रथमो यामः । वारुण उदयः । यदा च वारुणे मध्याह्नस्तदा याम्येऽस्तमयः । निरृतिकोणे तृतीयो यामः । वायव्ये प्रथमयामः । सौम्य उदयः । यदा च सौम्ये मध्याह्नस्तदा वारुणेऽस्तमयः । वायव्ये तृतीययामः । ईशानकोणे प्रथमो यामः । ऐन्द्र उदयः । तथाऽऽग्नेये कोणे वर्तमानस्तत्रत्यानां मध्यन्दिनं यमेन्द्रपुर्योराद्यतृतीययामौ निरृतीशानकोणयोरुदयास्तमयौ च करोति । एवं सर्वासु दिक्षु विदिक्षु चेति पौराणिके दर्शने तद्विरुद्धमिदं श्रुत्योक्तमित्यर्थः । यद्यपि श्रुतिविरोधे स्मृतिरप्रमाणं तथाऽपि यथाकथञ्चिद्विरोधपरिहारं द्रविडाचार्योक्तमुपपादयति – अत्रेति । यदाऽमरावती शून्या स्यात्तदा हि तां प्रति पुरस्तादुदेतीतिप्रयोगशून्यत्वाद्वसूनां भोगान्तः । एवमुत्तरासां पुरीणां विनाशे द्विगुणकालेन रुद्रादीनां भोगच्युतिः । अत इमां वचनव्यक्तिमाश्रित्य तमेव परिहारमाह – अमरावत्यादीनामिति । तथाऽपि कथं विरोधसमाधिस्तत्राऽऽह – उदयश्चेति । तदुक्तम् - “यैर्यत्र दृश्यते भास्वन्स तेषामुदयः स्मृतः । तिरोभावं च यत्रैति तदेवास्तमनं रवेः । नैवास्तमनमर्कस्य नोदयः सर्वदा सतः । उदयास्तमने नाम दर्शनादर्शने रवेः ॥” इति अमरावत्यादिपुरीषु पूर्वपूर्वापेक्षयोत्तरोत्तरोद्वासकालद्वैगुण्यमस्तु । स्तां च दर्शनादर्शने सवितुरुदयास्तमयौ । स वा एष न कदाचनास्तमेति नोदेतीति श्रुतेर्वस्तुतो नोदयास्तमयौ स्तस्तथा च पुरीषु तुल्यत्वेन गच्छतः सवितुरुदयास्तमयकालवैषम्यमयुक्तमित्याशङ्क्याऽऽह – तन्निवासिनां चेति । भोगकालद्वैगुण्यं न सवितृगतेराधिक्यापेक्षया श्रुत्योच्यते येन पुराणविरोधः किं त्वमरावत्यादीनां पुरीणां दैत्योपहतानां पूर्वपूर्वापेक्षयोत्तरोत्तरपुरीणां द्विगुणेन कालेनोद्वासात्तदपेक्षयोत्तरोत्तरस्थानेषु भोगकाले द्वैगुण्यं श्रुत्योक्तमिति भावः । अथोद्वासकालाधिक्याद्भोगच्युतिकालाधिक्यं न भोगकालाधिक्यमत आह – तथेति । यथोद्वासकालद्वैगुण्यमुक्तं तद्वदिति यावत् । अमरावतीनिवासिप्राणिवर्गापेक्षया संयमिनीनिवासिनः प्राणिनः प्रति द्विगुणेन कालेन सवितुरुदयास्तमयाविति युक्तं च वक्तुम् । दर्शनादर्शनयोर्द्विगुणकालभावित्वात् । न च तन्निवासिदृष्ट्यपेक्षया दक्षिणोत्तरयोरुदयास्तमयौ । तत्तद्दृष्ट्या पूर्वपश्चिमयोरेव तद्भावात् । अस्मद्बुद्धिमपेक्ष्य तु दक्षिणत उदेत्युत्तरतश्चास्तमेतीत्युच्यते । इवशब्दस्तयोस्तन्निवासिजनापेक्षया दक्षिणोत्तरस्थयोरसत्वं द्योतयतीत्यर्थः । यथाऽमरावत्यपेक्षया संयमिन्यामुद्वासकालाधिक्यमुक्तं तथा तदपेक्षया वारुण्यां तदपेक्षया वारुण्यां तदपेक्षया च विभायां तत्कालाधिक्यमवधेयमित्याह – तथेति । संयमिनीं चान्तर्भाव्य बहुवचनम् । इतश्चास्मद्बुद्धिमपेक्ष्य दक्षिणगत्यादिनाऽस्तमनमित्याह – सर्वेषां चेति । उद्यन्तमादित्यं पुरतोऽवलोकयतां वामभागे स्थितत्वान्मेरुः सर्वेषामेवोत्तरतो भवति । तथाचोदयास्तमयाभ्यां पूर्वापरदिग्विभागान्न तत्पुरवासिदृष्ट्यपेक्षया दक्षिणत इत्यादिवचनं किन्त्वस्मद्दृष्ट्यपेक्षयैवेत्यर्थः । उद्वासकालद्वैगुण्यापेक्षया भोगकालद्वैगुण्यमित्युक्तम् । संप्रति सवितृगत्याधिक्यापेक्षयैव भोगकालाधिक्यं किं न स्यादित्याशङ्क्य पुराणविरोधसमाधानासम्भवान्मैवमित्याह – यदेत्यादिना । यथा संयमिन्यां मध्याह्नगो वारुण्यामुद्यन्भवति तथा तस्यां मध्याह्नगो विभायामुद्यन्दृश्यत इत्याह – तथेति । उक्तं च वायुप्रोक्ते - “मध्यगतस्त्वमरावत्यां यावद्भवति भास्करः । वैवस्वते संयमन उदयंस्तत्र दृश्यते ॥ सुखायामर्धरात्रश्च विभायामस्तमेति च ॥” इति कथं पुनः स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदूर्ध्वं उदेताऽर्वाङस्तमेतेत्युच्यते । न हि तत्रोद्वासकालस्य वाऽधिकत्वमस्ति येनोदयास्तमयकालाधिक्याद्भोगकालाधिक्यं स्यादत आह – इलावृतेति । नेरोश्चतुर्दिशभिलावृतं नाम वर्षं प्रसिद्धम् । तन्निवासिनां प्राणिनामुभयतः पर्वताभ्यां मानसोत्तरसुमेरुभ्यां प्राकारस्थानीयाभ्यामुभयोर्ध्वस्थितमहाक्षेण विनिवारितादित्यरश्मीनामूर्ध्वमुदेताऽर्वाङ्स्तमेता च सविता दृश्यते । इवशब्दस्तूदयास्तमययोर्वस्तुतोऽसत्त्वद्योतनार्थ इत्यर्थः । कथं सवितोर्ध्वः सन्नुदेत्यर्वाङस्तमेति तत्राऽऽह – पर्वतेति । सर्वावृतप्रकाशस्य पर्वतयोरुपरितने छिद्रे प्रवेशादधोवर्तिनां प्राणिनामुपरिप्रसारितनेत्राणां सावित्रं प्रकाशं पश्यतां तत्रोद्यन्निव सवितोपलभ्यते प्रदेशान्तरे च दृश्यमानोऽधस्तादिवास्तमेति । यथोपरिष्टादत्रत्यैरुपलभ्यमानो मेघस्ततो दूराद्दृशो भूतललग्नश्चेत्येवावसीयते तथेहापीत्यर्थः । भोगकालस्याविरोधेनाऽऽधिक्यमापाद्य तेनैव लिङ्गेनातिशयवत्त्वममृतादेरपि कथयति – तथेति । भोगकालाधिक्ये सतीति यावत् । अनुमीयते कल्प्यते । यत्तु भोगकालमाकलय्योद्यमनं तदभावं ज्ञात्वोपरमणमग्न्यादिमुखत्वं दृष्टिमात्रेण तृप्तिमत्त्वं तत्सर्वं विदुषोऽपि कल्प्यते देवैः सममित्याह – उद्यमनेति ॥१-४॥ इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य अष्टमनवमदशखण्डाः ॥ पञ्चभिः पर्यायैर्मधुविद्या यथावदुक्ता । क्रमेण मुक्तिफलपर्यवसायित्वं तस्या दर्शयितुमनन्तरवाक्यमवरुध्याऽऽह – कृत्वेत्यादिना । तस्मात्प्राण्यनुग्रहकालादनन्तरमिति तच्छब्दार्थः । ऊर्ध्वः सन्ब्रह्मीभूतो वर्तमान इति यावत् । आत्मन्युदेत्य स्वमहिम्नि प्रकाशं लब्ध्वेत्येतत् । स्थातेतिप्रयोगात्क्रममुक्तिरत्र विवक्षिता । तत्र विद्वदनुभवं प्रमाणयति – तत्रेति । क्रममुक्तिः सप्तम्यर्थः । यथोक्तक्रमेणा”सौ वा आदित्यो देवमध्वि”त्यादिना पञ्चामृतत्वेन स्थितमित्यर्थः । स्वमात्मानं वेद्यतया विद्वदात्मसम्भूतमित्यर्थः । आत्मत्वेनोपेत्याहंग्रहेण गृहीत्वेत्येतत् । कथं प्रश्न इत्याकाङ्क्षायामाह – यत इति । लब्धब्रह्मोपदेशो ब्रह्मविद्युक्तावस्थायां ब्रह्मणि स्थितः वियुक्तावस्थायां केनचित्पृष्टः प्रत्युवाचेत्यर्थः । कथं प्रत्युक्तिरिति तत्राऽऽह –
तत्तत्रेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 श्लोकमुपादाय व्याकरोति – न वै तत्रेत्यादिना । निमुम्लोचेत्यस्मिन्नर्थे निम्लोचेति च्छन्दसः प्रयोगः । इतिशब्दः पूर्वार्धव्याख्यासमाप्त्यर्थः । उत्तरार्धमुत्थापयति – उअदयास्तमयेति ।
लोकत्वाविशेषादितरलोकवद्ब्रह्मलोकोऽपि नोदयास्तमयवर्जित इत्युक्तो विद्वानुत्तरार्धेन शपथं कुर्वन्परिहरतीत्यर्थः ॥२॥ 【भाष्यम्】 【भाष्यम्】 न हेत्याद्यां श्रुतिमादाय व्याचष्टे – यथोक्तेति । ब्रह्मोपनिषदमित्यस्यार्थमाह – वेदगुह्यमिति । एवंशब्दमादाय व्याकरोति – एवमित्यादिना । वंशादित्रयं तिरश्चीनवंशो मध्वपूपो मधुनाड्यश्चेत्येवंरूपमित्यर्थः । प्रत्यमृतसम्बन्धं च लोहिताद्यमृतेष्वेकैकवस्वादीनां सम्बन्धमित्यर्थः । अन्यदित्युद्यमनसंवेशनादि गृह्यते । उक्तविद्याफलमुपसंहरति –
विद्वानिति ॥३॥ 【भाष्यम्】 【भाष्यम्】 एवं मन्त्रदृक्शपथद्वारा निर्णीतेऽर्थे न हेत्याद्या किमर्था श्रुतिरित्याशङ्क्याऽऽह – सत्यमिति । ननु विद्या सफला चेदुक्ता तर्हि किमुत्तरग्रन्थेनेत्याशङ्क्याऽऽह – तद्धैतदिति । स्तुतिमेवाभिनयति – ब्रह्मादीति । “तद्धैतदुद्दालकाय” (छा.उ. ३ । ११ । ४) इत्यादिना विद्यायां योग्यं पात्रं प्रदर्श्यते । तद्व्याचष्टे – किंचेति । इतश्च स्तुत्यर्हमेतद्विज्ञानमित्यर्थः । मधुविज्ञानं व्याकरोति –
ब्रह्मविज्ञानमिति ॥४॥ 【भाष्यम्】 【भाष्यम्】 तस्य परोक्षत्वं व्यावर्तयति – इदं वावेति । अथ ज्येष्ठाय पुत्राय ब्रह्म वक्तव्यमिति पूर्वेषामयं नियमो नेदानींतनानामित्यत आह – अन्योऽपीति । पात्रान्तरमनुजानति –
प्रणाय्यायेति ॥५॥ 【भाष्यम्】 【भाष्यम्】 पुत्रशिष्याभ्यां पात्रान्तरं प्रत्याचष्टे – नेति । तीर्थद्वयं विद्याप्रदानेऽधिकारिद्वयमित्यर्थः । निर्धारणे षष्ठी । आचार्यो विद्यादाता । आदिपदाद्धनदायी श्रोत्रियो मेधावी च गृह्यते । सर्वेषामर्थिनामत्राधिकारमाशङ्क्य दूषयति – कस्मादित्यादिना ।
आचार्यायेति पुनरुपादानं क्रियापदेन तस्यान्वयद्योतनार्थं विद्यायामादरो वा मुख्यमधिकारकारणं फलतीति भावः ॥६॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्यैकादशः खण्डः ॥ गतेन ग्रन्थेनोत्तरग्रन्थस्य गतार्थत्वं परिहरति – यत इति । सवितृद्वारकब्रह्मविद्यानन्तरं तद्देवताकगायत्रीद्वारेण तद्विद्योपदिश्यत इत्यर्थः । ब्रह्मविद्याया विवक्षितत्वे ब्रह्मैवोपदिश्यतां किं गायत्र्युपदेशेनेत्याशङ्क्याऽऽह – गायत्रीति । तथाऽपि च्छन्दोन्तराणि विहाय किमिति गायत्रीद्वारैव ब्रह्मोपदिश्यते तत्राऽऽह – सत्स्विति । ब्रह्मज्ञानद्वारतया तदुपायतयेत्यर्थः । प्राधान्ये हेतुमाह – सोमाहरणादिति । सोमस्याऽऽहरणमानयनम् । तत्र साधनत्वं गायत्रीछन्दस्कानामृचां याजकैरिष्यते । तद्युक्तं तस्या यज्ञे प्राधान्यमित्यर्थः । यद्वा देवैः सोमाहरणमिच्छद्भिःछन्दसां गायत्रीत्रिष्टुब्जगतीनां तादर्थ्येन नियोगे जगतीत्रिष्टुभोर्मध्येमार्गमशक्त्या निवृत्तौ गायत्री सोमं प्राप्य रक्षिणस्तस्य विजित्य तं देवेभ्यः समाहरदित्यैतरेयकब्राह्मणे “सोमो वै राजाऽमुष्मिंल्लक आसीद्” इत्यत्र प्रसिद्धमतस्तत्प्राधान्यमित्यर्थः । तत्रैव हेत्वन्तरमाह – इतरेति । उष्णिगनुष्टुप्प्रभृतीनीतराणि च्छन्दांसि तेषां पादशोऽक्षराणि सप्ताष्टादिसंख्याकानि तेषामाहरणमापादनं गायत्र्यक्षरैः पादशः षड्भिः क्रियतेऽधिकसंख्याया न्यूनसंख्यामन्तरेणासंभवात्तस्मादितरेषु च्छन्दःसु गायत्र्या व्याप्तेश्च प्राधान्यमित्यर्थः । अथवा गायत्रीव्यतिरिक्तयोस्त्रिष्टुब्जगतीछन्दसोः सोमाहरणोद्यतयोरशक्तयोर्मार्गमन्ये जगत्या त्यक्तानि त्रीण्यक्षराणि त्रिष्टुभा त्वेकमक्षरम् । ततश्चाष्टाचत्वारिंशदक्षरा जगती पञ्चचत्वारिंशदक्षरा संवृत्ता । चतुश्चत्वारिंशदक्षरा त्रिष्टुप्च त्रिचत्वारिंशदक्षरा संवृत्ता । तत्र गायत्री सोममाहरन्ती त्यक्तानामक्षराणामाहरणेन पूर्णतां तयोरापाद्य ते व्याप्य स्थिता तेन तत्प्राधान्यमित्यर्थः । तत्रैव हेत्वन्तरमाह – सर्वसवनेति । सर्वाणि प्रातःसवनं माध्यन्दिनं सवनं तृतीयसवनमित्येतानि तेषु गायत्र्या व्यापकत्वं मिश्रणं गायत्रं प्रातःसवनं त्रैष्टुभं माध्यन्दिनं जागतं तृतीयसवनमिति स्थितेऽपि त्रिष्टुब्जगत्योर्गायत्रीव्याप्तेरुक्तत्वात्तस्याश्च पादाभ्यां मुखेन च सोमाहरणद्वारेण सवनत्रयसम्बन्धादतश्च तस्या अस्ति यज्ञे प्राधान्यमित्यर्थः । कर्मणि तत्प्राधान्येऽपि कुतो ब्रह्मविद्यायां तत्प्राधान्यमित्याशङ्क्याऽऽह – गायत्रीति । ब्रह्मविद्यायां तत्प्राधान्यमिति शेषः । गायत्रीमेवाऽऽलम्बनत्वेन प्रतिपद्यते ब्रह्मेत्यत्र लोकप्रसिद्धिमनुकूलयति – तस्यामिति । तथा “चेतोर्पणनिगदात्” (ब्र.सू. १ । १ । २५) इति न्यायेन गायत्र्युपाधिकं ब्रह्मोपास्यमिति प्रतिजानीते – गायत्रीति । निपातमादाय व्याचष्टे – वा इति । अवधारणरूपमेवार्थं स्फुटयन्निदमित्यादि व्याकरोति – इदमिति । तदिदं सर्वं गयत्र्येवेति योजना । गायत्र्याः सर्वात्मकत्वाद्ब्रह्म दृष्ट्योपास्तिर्युक्तेत्युक्तं तत्रानुपपत्तिमाशङ्क्यानन्तरवाक्येनो(णो)त्तरमाह – तस्या इति । कथं वाचो गायत्रीत्वमित्याशङ्क्य तस्याः सर्वभूतसम्बन्धं दर्शयति – वागिति । कुतो गायत्रीत्वं तत्राऽऽह – यस्मादिति । भवत्वेवं वाचः स्वरूपं गायत्र्यास्तु किमायातं तदाह – यद्वागिति । गायत्रीनामनिर्वचनादपि वाच्युक्तं रूपं गायत्र्यामेव द्रष्टव्यमित्याह –
गानादिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 गायत्र्या ब्रह्मज्ञानद्वारत्वेनोपादानमुक्तहेतुभ्यः सिद्धमित्युपसंहरति – अत इति । अस्ति हि वाचः सर्वभूतात्मकत्वं तद्वाचकत्वाद्वाच्यस्य च वाचकातिरेकेणानिरूपणात्तथा च वाग्भूता गायत्री सर्वभूतात्मिकेत्युक्तमिदानीं तस्या विधानान्तरमाह – या वै सेति । एवंलक्षणत्वं व्याचष्टे – सर्वेति । गायत्रीमनूद्य पृथिवीत्वं तस्य विहितं प्रश्नपूर्वकमुपपादयति – कथं पुनरपि । गायत्र्याः सर्वभूतसम्बन्धस्योक्तत्वात्पृथिव्यास्तत्सम्बन्धं चोद्यपूर्वकं व्युत्पासयति – कथमिति । सर्वस्य पृथिव्यां प्रतिष्ठितत्वं साधयति – एतामेवेति । तथाऽपि कथं पृथिव्या गायत्रीत्वं तदाह –
यथेति ॥२॥ 【भाष्यम्】 【भाष्यम्】 सम्प्रति गायत्र्याः शरीररूपत्वं निरूपयति – या वा इति । गायत्र्यात्मिकां पृथिवीमनूद्य तस्या गायत्रीशरीरयोरभेदे हेतुमाह – पार्थिवत्वादिति । इदानीं गायत्रीशरीरयोरेकत्वं प्रश्नपूर्वकं कथयति – कथमित्यादिना । प्राणानां शरीरे प्रतिष्ठितत्वं प्रकटयति –
एतदेवेति ॥३॥ 【भाष्यम्】 【भाष्यम्】 अथ गायत्र्या हृदयत्वमावेदयति – यद्वै तदिति । गायत्र्याश्चैकत्वं प्रश्नपूर्वकं विवृणोति – एतदित्यादिना । हृदये प्राणानां प्रतिष्ठितत्वं प्रकटयति – एतदेवेति । प्राणानां भूतशब्दवाच्यत्वे तत्सम्बन्धे सति भूतसम्बन्धाद्गायत्र्याः शरीरादिभावः सम्भवति तेषां भूतशब्दवाच्यत्वे तु किं मानमित्याशङ्क्याऽऽह – प्राणो हेति । अहिंसावाक्येऽपि प्राणपरं मारणं प्रतिषिध्यते तथाच भूतशब्दः (तत्र) प्रतीतिगोचरो भवत्येवेत्याह –
भूतेति ॥४॥ 【भाष्यम्】 【भाष्यम्】 आध्यानशेषत्वेन गायत्र्याश्चतुष्पात्त्वं दर्शयति – सैषेति । लक्षयित्वा तस्याः षड्विधत्वमनूद्य साधयति – षड्विधेति । गायत्रीहृदययोः सर्वभूतसम्बन्धसिद्ध्यर्थमुपदिष्टयोर्वाक्प्राणयोर्गायत्रीप्रभेदत्वेन कथं व्याख्यानमित्याशङ्क्याऽऽह – वाक्प्राणयोरिति ।
विधिपक्षे वाक्यशेषयोगात्तयोरपि गायत्रीभेदत्वमित्यर्थः । तदेतस्मिन्नर्थे वाग्भूतपृथिवीशरीरहृदयप्राणभेदात्षड्विधां गायत्रीमनुचिन्त्याजहल्लक्षणया तदवच्छिन्नब्रह्मत्वं तदनुचिन्तयेदिति तच्छेषत्वेनैव पूर्वोक्ते स्थिते सतीत्यर्थः । समस्तस्य पादविभागविशिष्टस्येति यावत् ॥५॥ 【भाष्यम्】 【भाष्यम्】 विस्तारमेव विवृणोति – यावानिति । “वाचारम्भणं विकारो नामधेयम्” (छा. उ. ६ । १ । ४) इति वाक्यशेषमाश्रित्य विशिनष्टि – वाचारम्भणमात्रादिति । परमार्थसत्यत्वे हेतुमाह – अविकार इति । तावानस्येत्यादि स्पष्टयति – तस्येति । आदिपदेन वायुराकाशश्चेत्युभयमुक्तम् । ततो ज्यायानित्यादि स्फुटयति – त्रिपादिति ।
समस्तस्य प्रपञ्चात्मकस्येत्यर्थः । श्रुतावितिशब्दो मन्त्रसमाप्त्यर्थः ॥६॥ 【भाष्यम्】 【भाष्यम्】 यद्ब्रह्म गायत्र्यवच्छिन्नमुपास्यमुक्तं हृदयाकाशे तद्ध्येयमिति वक्तुं क्रमेण हृदयाकाशमवतारयति –
यद्वै तदित्यादिना ॥७॥ 【भाष्यम्】 【भाष्यम्】 एकस्याऽऽकाशस्य कथं त्रैविध्यमुक्तमिति शङ्कते – कथमिति । औपाधिकत्रैविध्यमविरुद्धमिति परिहरति – उच्यत इति । बाह्येन्द्रियविषयत्वं तद्विषयशब्दाद्याश्रयत्वं स्वप्नस्थानभूते नभसीति सम्बन्धः । “न कञ्चन” (बृ.उ. ४ । ३ । १९) इत्यादिना निषेधद्वयेन पूर्वप्रकारमवस्थाद्वयं निषिध्यते । निषेधफलमाह – अत इति । सर्वदुःखं स्थूलं वासनामयं च तन्निवृत्त्या निरूप्यमाणं हृदयाकाशमित्यर्थः । औपाधिकत्रैविध्यमुपसंहरति – अत इति । तथाऽपि किमित्यनेन क्रमेणाऽऽकाशस्य सङ्कोचो हृदये क्रियते तत्राऽऽह – बहिर्धेति । स्थानस्तुतिमुदाहरणेन स्फुटयति – यथेति । अत्र कुरुक्षेत्रमर्धतोऽर्धस्थानीयं पृथूदकमपि तथेति द्विदलयुगलमिव तदुभयं लोकत्रयापेक्षया विशिष्टतरमित्यर्थः । हृदयाकाशे चेतः समाधीयते चेत्ततश्चात्र परिच्छिन्नं ब्रह्म प्राप्तमित्याशङ्क्याऽऽह – तदेतदिति । पूर्णत्वेन जन्मनाशशून्यत्वं सिध्यतीत्याह – अप्रवर्तीति । प्रधानफलत्वं व्यावर्तयति – गुणफलमिति । दृष्टफलवते स्वर्गाप्तिरिति दृष्टमित्युक्तम् । ज्ञानमेव विशिनष्टि – इहैवेति ।
वर्तमानो देहः सप्तम्यर्थः । यो विद्वानेवं स तथोक्तं फलं लभत इति सम्बन्धः ॥९॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य द्वादशः खण्डः ॥ वक्ष्यमाणज्ञानस्य स्वातन्त्र्यं परिहृत्य प्रकरणभेदं व्यावर्तयितुमुत्तरग्रन्थस्य तात्पर्यमाह – तस्येति । द्वारपालादीत्यादिपदेन तद्गतो विशेषो गृह्यते । ब्रह्मण्युपासनेनाप्रसिद्धितो द्वारपालोपास्तिरयुक्तेत्याशङ्क्याऽऽह – यथेति । इति तदुपास्तिरर्थवतीति शेषः । स्वर्गलोकशब्दः परमात्मविषयः “स्वर्गं लोकमिता ऊर्ध्वं विमुक्ता” इति श्रुत्यन्तरात् देवसुषित्वं साधयति – देवैरिति । स्वर्गलोकस्य परमात्मनो भवनमायतनं तस्येति यावत् । प्राक्त्वेऽनवस्थामाशङ्क्योक्तं पूर्वाभिमुखस्येति – तत्स्थस्तेनेति । तच्छब्दो हृदयविषयः – तेनैवेति । प्राणविषयस्तच्छब्दः । तदव्यतिरिक्तत्वं स्वातन्त्र्येण चक्षुषोऽकिञ्चित्करत्वम् । न हि चक्षुषा प्राणस्य सम्बन्धो न हि बाह्यस्य तत्सम्बन्धे निबन्धनमस्ति तत्राऽह – चक्षुरिति । अधिष्ठातृत्वेनाऽदित्यश्चक्षुषि प्रतिष्ठितश्चक्षुश्च ग्राहकतया रूपे प्रतिष्ठितं रूपदर्शने करणं भवति । तथैव प्राणस्य चक्षुष्ट्वमित्यर्थः । प्राणादित्ययोरैक्ये प्रमाणमाह – आदित्यो हेति । कथं यथोक्तस्याऽऽदित्यस्य हृदयसुषिद्वारस्थानत्वं वासनात्मना हृदये रूपाणि प्रतिष्ठितानि तदनेन क्रमेण आदित्यो हृदये प्रतितिष्ठतीत्यर्थः । तत्र श्रुत्यन्तरं प्रमाणयति – स आदित्य इति । एकदेवताऽभिन्नत्वादपि प्राणभेदेन चक्षुरादित्ययोराध्यानं युक्तमित्याह – प्राणेति । आश्रयशब्देन रूपाणि हृदयं चोच्यते द्युलोको वा । आदित्यश्चक्षुषोर्देवस्तदधिष्ठितस्य सर्वस्य प्राणात्मत्वे वाक्यशेषमनुकूलयति – वक्ष्यति चेति । न हि प्राणे तृप्यति सर्वस्य तृप्तिस्तादात्म्यमन्तरेण सम्भवतीति भावः । तदेतत्प्राणारूपं ब्रह्म स्वर्गलोकं प्रतिपित्सुः सन्पुरुषस्तेजोऽऽन्नाद्यमित्याभ्यां गुणाभ्यां विशिष्टमुपासीतेति सम्बन्धः । किमिति यथोक्तोऽधिकारी प्राणोपासने नियुज्यते तत्राऽऽह – स्वर्गेति । तथाऽपि कथं यथोक्तगुणद्वयवैशिष्ट्यं प्राणाख्यस्य ब्रह्मणः सिद्ध्यति तत्र तेजःशब्दं व्याकुर्वन्नाह – तेजस्वीति । एतत्प्राणाख्यं ब्रह्मोभयरूपेण तेजस्वी । तथाच तेजोगुणविशिष्टतया तदुपासनामर्हति । सवितुश्चान्नदत्वं वृष्टिद्वारेण “आदित्याज्जायते वृष्टिः” (म.स्मृ. ३ । ७६) इत्यादौ दृष्टम् । अतश्चान्नं च तदाद्यं चेति गुणान्तरविशिष्टत्वेनापि सवितृरूपं प्राणाख्यं ब्रह्म ध्यानार्हमित्यर्थः । किं तर्हि मुख्यं फलमिति तदाह –
उपासनेनेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 हृदयस्य पूर्वदिगवस्थितच्छिद्रसम्बन्धित्वेन प्राणमुक्त्वा व्यानःश्रोत्रं चन्द्रमाश्चेति त्रितयमितरसम्बन्धमुपास्यमित्याह – अथेति । वीर्यवत्कर्म कुर्वन्ननितीति सम्बन्धः । प्राणापानौ विगृह्य विरुध्य वाऽयमनितीति पक्षान्तरं नानास्कन्धसन्धिमर्मसु विविधमनिति चेष्टत इति विकल्पान्तरं तेन व्यानेन सम्बन्धः श्रोत्रस्य श्रुत्युक्तत्वाद्ध्यानार्थो मन्तव्यः । यथा श्रोत्रस्य व्यानेन सम्बन्धस्तथा चन्द्रमसोऽपि तेन सम्बन्धस्य श्रुत्युक्तत्वादेव ध्यानार्थतया ग्राह्य इत्याह – तथेति । श्रोत्रचन्द्रमसोः सम्बन्धे श्रुत्यन्तरमनुकूलयति – श्रोत्रेणेति । यद्विराजः श्रोत्रं तदात्मना दिशश्चन्द्रमाश्चेत्येते सृष्टा इति श्रुतेरित्यर्थः । मिथः सम्बन्धेऽपि कथमनयोर्व्यानात्मत्वं व्याने तृप्यतीत्यादिवाक्यशेषादवधेयमित्यर्थः । तदेतद्व्यानाख्यं ब्रह्म श्रीश्च यशश्चेत्याभ्यां गुणाभ्यामुपासीतेति सम्बन्धः । कथं तस्य गुणद्वयवतो ध्यानमित्याशङ्क्य श्रोत्रस्य ज्ञानहेतुत्वाच्चन्द्रमसोऽन्नहेतुत्वात्तयोराश्रयत्वेन तदात्मनो व्यानस्यापि तद्गुणत्वोपपत्तिरित्याह – श्रोत्रेति । व्यानाख्ये ब्रह्मणि गुणान्तरं साधयति – ज्ञानेति ।
उक्तस्य ब्रह्मणो गुणद्वयसम्भवोऽतःशब्दार्थः । श्रीमानित्यादिफलवाक्यमादिशब्दार्थः । समानं तेजस्वीत्यादिवाक्येनेति शेषः ॥२॥ 【भाष्यम्】 【भाष्यम्】 हृदयस्य पश्चिमदिगवस्थितसुषिसम्बन्धत्वेनापानो वागग्निश्चेति त्रितयमन्योन्यसम्बन्धं ध्येयमित्याह – अथ योऽस्येति । सोऽपान इत्यस्यार्थमाह – तत्स्थ इति । सोऽपान इति सम्बन्धः । अपानशब्दं वायुविशेषे व्युत्पादयति – मूत्रेति । आदिशब्देन शुक्रादि गृह्यते । यथा चक्षुषः श्रोत्रस्य प्राणत्वं व्यानत्वं चोक्तं तथा वागपानो भवत्यपाने तृप्यतीत्यादिश्रुतेरित्याह – सा तथेति । यथा चक्षुरादिद्वारेणाऽऽदित्यादेः प्राणादिरूपत्वमुक्तं तथा वाचोऽधिष्ठातृत्वेन सम्बन्धादग्निस्तद्द्वारेणापानो भवतीत्याह – तत्सम्बन्धादिति । तदेतदपानाख्यं ब्रह्मवर्चसमन्नाद्यमित्याभ्यां गुणाभ्यां विशिष्टमुपासीतेति सम्बन्धः । ब्रह्मवर्चसं व्याचष्टे – वृत्तेति । कथमपानाख्ये ब्रह्मणि यथोक्तो गुणः सिध्यतीत्याशङ्क्याग्निद्वारेत्याह – अग्निसम्बन्धादिति । तथाऽपि कथमन्नाद्यत्वमित्याशङ्क्यापानद्वारेणेत्याह – अन्नेति । ब्रह्मवर्चसीत्यादिफलवाक्यं श्रीमानित्यादिना तुल्यार्थत्वान्न व्याख्यानापेक्षमित्याह –
समानमिति ॥३॥ 【भाष्यम्】 【भाष्यम्】 हृदयस्योत्तरसुषिसम्बन्धत्वेन समानो मनः पर्जन्यश्चेति त्रितयं परस्परसम्बद्धमुपास्यमित्याह – अथेति । समान इति सम्बन्धः । समानशब्दं वायुविशेषे व्युत्पादयति – अशितेति । मनसः समानेन सम्बन्धः समाने तृप्यतीत्यादिश्रुतेर्ग्राह्य इत्याह – तत्सम्बद्धमिति । मनसि तृप्यति पर्जन्यस्तृप्यतीति वाक्यशेषमाश्रित्य तयोः सम्बन्धमाह – पर्जन्य इति । श्रुत्यन्तरादपि तयोः सम्बन्धं वक्तुं पातनिकामाह – पर्जन्येति । शेषः प्रसिद्धिपरामर्शार्थः । तथाऽपि कथं पर्जन्यमनसोः सम्बन्धसिद्धिरित्याशङ्क्य वायोरपि कारणत्वेनाद्भिः सम्बन्धात्तद्द्वारा मिथोऽपि तत्सिद्धिरित्याह – मनसेति । तदेतत्समानाख्यं ब्रह्म कीर्तिश्च व्युष्टिश्चेत्याभ्यां गुणाभ्यामुपासीतेति सम्बन्धः । तस्मिन्ब्रह्मणि कीर्तिरूपगुणं साधयति – मनस इति । व्युष्टेरर्थान्तरत्वं कीर्तेर्दर्शयति – आत्मेति । ततो व्युष्टेराचष्टे – स्वकरणेति । तामेवानुभवारूढतया कथयति – कान्तिरिति । कथं पुनर्देहगतस्य लावण्यस्य कीर्तितास्तवः शक्यते तत्राऽऽह – ततश्चेति । लावण्यं पञ्चम्यर्थः । इत्यसङ्कीर्णगुणद्वयविशिष्टमुपासनं सिद्धमित्यर्थः । कीर्तिमानित्यादिफलवाक्यस्य ब्रह्मवर्चसीत्यादिना तुल्यार्थत्वादव्याख्येयत्वमाह –
समानमिति ॥४॥ 【भाष्यम्】 【भाष्यम्】 हृदयस्योर्ध्वच्छिद्रवैशिष्ट्येनोदानो वायुराकाशश्चेति त्रितयमन्योन्यसम्बन्धमुपास्यमित्याह – अथ योऽस्येति । उत्क्रमणादुदान इति सम्बन्धः । उदाने तृप्यति वायुस्तृप्यतीति वाक्यशेषमाश्रित्याऽऽह – स वायुरिति । वायोराकाशत्वमाधाराधेयसम्बन्धाद्वायौ तृप्यत्याकाशस्तृप्यतीति श्रुतेश्चेत्याह – तदाधारश्चेति । तदेतदुदानाख्यं ब्रह्मपूर्ववदोजो महश्चेत्याभ्यां विशिष्टमुपासीतेति सम्बन्धः । उक्तगुणद्वयं निर्दिशति – वाय्वाकाशयोरिति । ओजस्वीत्यादिवाक्यस्य कीर्तिमानित्यादिना तुल्यार्थत्वमाह –
समानमिति ॥५॥ 【भाष्यम्】 【भाष्यम्】 तस्य ह वा एतस्येत्यादिनोक्तमनुवदति – ते वा इति । कथं ब्रह्मपुरुषास्तत्राऽऽह – राजपुरुषा इति । व्यपदिश्यन्त इत्यर्थः । तेषां द्वारपालत्वं प्रपञ्चयति – एतैरिति । तत्र स्वानुभवं प्रमाणयति – प्रत्यक्षं हीति । विवेकवैराग्याभ्यां वशीकृतश्रोत्रादिकरणग्रामोपेतत्वाभावात्परोक्षब्दादिविषय आसङ्गरूपानृताक्रान्तत्वादित्यर्थः । एतैरेव विषयविमुखैर्ब्रह्मप्राप्तिद्वाराणि समाध्यादिना विवृतानीत्यभिप्रेत्योपसंहरति – तस्मादिति । ब्रह्मपुरुषानुक्ताननूद्य सफलमुपासनं दर्शयति – अत इति । अनियतानां चक्षुरादीनां ब्रह्मप्राप्तिप्रतिबन्धकत्वं नियतानां तु तत्प्राप्तिहेतुत्वमित्यतःशब्दार्थः । यथोक्तगुणविशिष्टत्वं चक्षुरादीनामादित्याद्यात्मकत्वम् । अदृष्टं फलमुक्त्वा दृष्टं फलमाह – किञ्चेति । यथोक्तपुत्रोत्पत्तिर्विवक्षितब्रह्मप्राप्तावनुपयुक्तेत्याशङ्क्याऽऽह – तस्य चेति । पुत्रस्य ध्यनानुसारित्वं हेतुत्वं ततः शब्दार्थः पारम्पर्येणोपासानाद्वारीणेति यावत् । पुत्रस्य ध्यानद्वारा ब्रह्मप्राप्तिहेतुत्वे फलितमाह –
इति स्वर्गेति ॥६॥ 【भाष्यम्】 【भाष्यम्】 गायत्र्युपाधिकं ब्रह्मोपास्यं तादर्थ्येन द्वारपालोपास्तिश्च कर्तव्या । ततश्चाङ्गेषु श्रुतानि फलानि समुच्चित्य प्रधानोपासनादेव ब्रह्मप्राप्तिरित्युक्तम् । इदानीं विद्यान्तरं प्रस्तौति – अथेति । परस्ताद्दिवो दीप्यमानं ब्रह्म कौक्षेये ज्योतिषि प्रतीकेऽध्यस्य दृष्टत्वश्रुतत्वाभ्यामुपासितव्यमिति श्रौतमर्थं सिद्धवत्कृत्वाऽऽर्थिकमर्थमादाय तात्पर्यमाह – यदसौ विद्वानिति । वीराणां वीर्यवतामादित्यादीनां पुरुषाणां सेवनादाध्यानादिति यावत् । लिङ्गेन स्पर्शविशेषेण श्रवणविशेषेण चेत्यर्थः – चक्षुःश्रोत्रेन्द्रियगोचरमिति । मन्ददृष्टिं प्रति दृष्टं श्रुतं च मयेत्यापादयितव्यम् । अन्यथा दृष्टत्वश्रुतत्वाभ्यां ब्रह्मणि ध्यानासिद्धेरित्यर्थः । परस्याप्रतिपत्तौ लिङ्गेन प्रत्यायने दृष्टान्तमाह – यथेति । विप्रतिपन्नं प्रति धूमादिलिङ्गेनाग्न्यादि प्रत्याय्यते तथा स्पर्शादिलिङ्गेन दृष्टत्वादिविशिष्टमिदं प्रत्येतव्यमित्यर्थः । यथोक्तस्य ज्योतिषो लिङ्गेन प्रत्यायनं किमिति क्रियते तत्राऽऽह – तथा हीति । लिङ्गद्वारा तस्य प्रत्यायते सति गुणद्वयविशिष्टमेवेदं ज्योतिर्नान्यथेत्येवं यथोक्ते परस्मिन्नुपास्यज्योतिषि दृढा धीः स्यात् । तदभावात्तद्गुणस्य ज्योतिषोऽध्यानादित्यर्थः । मा भूत्परस्य ज्योतिषो यथोक्तगुणस्याशेषोपासनमित्याशङ्क्याऽऽह – अनन्यत्वेनेति । कौक्षेयस्य ज्योतिषः सन्निकर्षाज्जीवाभेदं परिकल्प्य जाठरं ज्योतिर्ब्रह्मेत्यनन्यत्वेन ध्याने जीवब्रह्मणोरेकतया निश्चयश्चार्थात्सिद्ध्यति । अतो यथोक्तोपास्तिरर्थवतीत्यर्थः । अथशब्दस्य विद्यान्तरारम्भार्थत्वमभ्युपेत्यानन्तरग्रन्थस्य तात्पर्यमुक्त्वाऽवशिष्टान्यक्षराण्यवतार्य व्याकरोरि – अत आहेत्यादिना । यदित्युपक्रम्य ज्योतिरित्युपसंहारात्पर इति पुंलिङ्गप्रयोगमाशङ्क्याऽऽह – परमिति । कादाचित्कप्रकाशत्वाभावात्कथं दीप्यत इति प्रयोगस्तत्राऽऽह – स्वयंप्रभमिति । कस्मादिवेति प्रयुज्यते मुख्यमेव दीप्यमानत्वं किं न स्यादित्याशङ्क्याऽऽह – अन्न्यादीति । हेतोरुभयत्र सम्बन्धः । सर्वशब्दस्यासङ्कुचितवर्तित्वादात्मनोऽपि तेन संगृहीतत्वात्कथं तस्मादूर्ध्वं ब्रह्मेत्युपपन्नमित्याशङ्क्याऽऽह – संसारादिति । तस्यैव सर्वशब्दवाच्यत्वमुपपादयति – संसार एव हीति । तस्यानेकत्वेन सर्वशब्दार्हत्वादित्यर्थः । आत्मनि सर्वशब्दानुपपत्तिमाह – असंसारिण इति । सर्वशब्दस्यानेकार्थवाचित्वादात्मनि चैकत्वात्प्रकारभेदस्य च नित्यमुक्ते तस्मिन्नसम्भवान्न तस्य सर्वशब्दात्प्रतीतिरित्यर्थः । उत्तमा न भवन्तीत्युनुत्तमास्तेष्विति तत्पुरुषाशङ्कायां तन्निवृत्तिद्वारा बहुव्रीहिसिद्ध्यर्थं विशेषणमित्याह – तत्पुरुषेति । किमिति तेषु परब्रह्म निर्दिश्यते तस्य सर्वगतत्वादित्याशङ्क्याऽऽह – हिरण्यगर्भादीति । तत्कार्यात्मना स्थितं परं ब्रह्मोत्तमेषु लोकेष्वित्युच्यते । तस्य सर्वत्र सतोऽपि सत्यलाकादिषु हिरण्यगर्भाद्यात्मनाऽतिशयेन नित्याभिव्यक्तत्वादित्यर्थः । यदिति सर्वानाम्ना प्रकृतं ब्रह्म परामृश्यते तस्योपास्यत्वार्थं संसारादुपरिष्टादवस्थानमुक्तम् । इदानीं कौक्षेये ज्योतिषि तदारोपयति – इदमिति । कौक्षेये ज्योतिषि प्रतीके प्रमाणं दर्शयति – चक्षुरिति । चक्षुष्यो भवतीतिफलवचनानुसारेण स्पर्शरूपैक्यमाध्यासिकमादायोष्णिम्नश्चाक्षुषत्वं द्रष्टव्यम् । रूपस्पर्शयोरैक्याध्यासं स्फुटयति – यत्त्वचेति । यदुष्णं तेजो द्रव्यात्मकं त्वगिन्द्रियेण स्पर्शरूपेण गृह्यते तच्चक्षुषैव गृह्यते तत्र हेतुमाह – दृढेति । त्वचो दृढायां प्रतीतौ हेतुत्वाच्चक्षुषा तादात्म्यारोपादित्यर्थः । यद्रूपवद्भवति तत्स्पर्शवदिति नियमाच्च रूपस्पर्शयोस्तादात्म्याध्यासात्तस्य चाक्षुषत्वसिद्धिरित्याह – अविनाभूतत्वाच्चेति । शब्दो यस्य ज्योतिषो लिङ्गमौष्ण्यं तस्य त्वगिन्द्रियग्राह्यस्य चाक्षुषत्वमुपपादयितुं पृच्छति – कथमिति । तस्यैषा दृष्टिरित्यादिवाक्येनोत्तरं दर्शयन्यन्नेत्यादि व्याकरोति – आहेत्यादिना । यथेतद्विज्ञानं स्यात्तथेति विज्ञानक्रियायां विशेषणमेतदिति पदमित्यर्थः । संस्पर्शेनोष्णिमानं विजानाति चेत्कथं तर्हि तस्य चाक्षुषत्वमित्याशङ्क्याऽऽह – रूपसहभाविनमिति । भवत्वौपचारिकमौष्ण्यस्य चाक्षुषत्वं तथाऽपि कथं तस्य लिङ्गत्वमित्याशङ्क्य जीवनप्रत्यायनद्वारा कौक्षेयज्योतिषि तस्य लिङ्गत्वं साधयति – स हीति । जीवात्मना तस्याव्यभिचारं स्फोरयति – न हीति । तत्रैव श्रुतिं संवादयति – उष्ण एवेति । यदा जीवस्य लिङ्गमौष्ण्यं तदा परस्यापि ज्योतिषस्तल्लिङ्गं भवति, जीवपरयोरेकत्वावगमादित्याह – मरणकाले चेति । वागादि मनसि मनः प्राणे प्राणस्तेजसि तदध्यक्षलक्षणपरस्यां देवतायां परमात्माख्यायां सम्पद्यत इति श्रुत्या जीवस्य परेण तदर्थात्मना सहाभिन्नत्वस्योपगमाज्जीवस्य लिङ्गं तद्भवति परस्य लिङ्गमित्यर्थः । यदा हि जीवस्य परस्य च यथोक्तलिङ्गादवगतिस्तदा तत्र कौक्षेयज्योतिषस्तदधिकरणस्य सुतरामवगतिरस्तीत्याह – अत इति । उष्णस्य जाठरे ज्योतिषि प्रतीके लिङ्गत्वे सति तल्लिङ्गमाह – तस्येति । विष्णोरिव प्रतिमायां जाठरेण ज्योतिषा परस्य ज्योतिषस्तादात्म्यादित्यर्थः । प्रतीकद्वारा दृष्ट्युपायवत्तस्य श्रवणोपायं लिङ्गन्तरं दर्शयति – तथेति । अपिगृह्य श्रुणोतीति सम्बन्धः । यथा श्रवणमेतद्भवति तथा श्रुणोतीति श्रवणक्रियाया विशेषणमेतच्छब्द इति योजना । पौर्णुत्य पिधायेति यावत् । श्रूयमाणशब्दस्य वाच्यार्थभावस्फुटीकरणार्थमनेकदृष्टान्तोपादानम् । कौक्षेयज्योतिष्यारोपितस्य ज्योतिषो ध्येयस्य ध्यानोपायाङ्गत्वेन गुणद्वयमुपदिशति – तदेतदिति । दृष्टमित्युपासने फलमाचष्टे – तथेति । श्रुतमित्युपासने फलमाह – श्रुत इति । कथं पुनः स्पर्शगुणोपासने स्पर्श्यो भवतीति वक्तव्ये चक्षुष्यो भवतीत्युच्यते तत्राऽह – यत्स्पर्शेति । सम्पादने निमित्तमाह – रूपस्पर्शयोरिति । इतश्च चक्षुष्यो भवतीति फलवचनमुचितमित्याह – इष्टत्वाच्चेति । फलवचनमपि सम्पादयति न कल्पकमित्याह – एवं चेति । यदा स्पर्शगुणोपासननिमित्तं फलं रूपे सम्पाद्यते तदा विद्यायाः श्रुतं फलमुपपन्नमिति फलश्रुतिरनुकूलिता स्यात् । रूपविशेषवति चक्षुष्यशब्दस्य प्रसिद्धत्वादित्यर्थः । यदि पुनर्मृदुत्वादिस्पर्शगुणस्योपासननिमित्तं फलं कल्प्यते तदा चक्षुष्यो भवतीति श्रुतं फलं नैवोपपन्नं स्यात्ततश्च फलश्रुतिरपबाधिता भवेदित्याह – न त्विति । कस्येदं फलमित्यपेक्षायामाह – य एवमिति । ननु परस्य ज्योतिषो जाठरे ज्योतिष्यारोपितस्य यथोक्तगुणवतो ध्यानात्कथमिदमत्यल्पं फलमननुरूपमुपदिश्यते तत्राऽऽह – स्वर्गलोकेति ।
फलवत्यां विद्यायामादरो विवक्षितः ॥७॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य त्रयोदशः खण्डः ॥ प्रतीकद्वारा ब्रह्मोपासनमुक्त्वा प्रतीकं हित्वा सगुणब्रह्मोपासनमुपन्यस्यति – पुनरित्यादिना । तस्य निरुपाधिकत्वं व्यावर्तयति – अनन्तेति । कथमेकस्यानन्तगुणत्वं तत्राऽह – अनन्तशक्तेरिति । ननु पूर्वमेवास्योपासनान्यतिवृत्तानि तथा च वक्तव्यशेषो नास्तीत्याशङ्क्याऽऽह – अनेकेति । अनेकेषु भेदेषु गायत्र्याद्युपाधिषूपास्यस्यापि ब्रह्मणो मनोमयत्वादिविशिष्टगुणत्वेन विशिष्टशक्तिमत्त्वेन चोपासनान्तरविधानार्थमुत्तरवाक्यमित्यर्थः । तस्येदमा परामर्शे हेतुमाह – प्रत्यक्षादीति । ब्रह्मशब्दस्य निरुपाधिकार्थविषयत्वं व्यावर्तयति – कारणमिति । कथं तस्य ब्रह्मत्वं तत्राऽऽह – वृद्धतमत्वादिति । निरतिशयमहत्त्वादित्यर्थः । सर्वमनूद्य तस्य ब्रह्मत्वविधाने युक्तिं प्रश्नपूर्वकमाह – कथमित्यादिना । तज्जं च तल्लं च तदनं च तज्जलान् । अवयवलोपश्छान्दसः । तत्र तज्जत्वं जगतो व्युत्पादयति – तस्मादिति । तल्लत्वमुपपादयति – तथेति । विपर्ययेण तु क्रमोऽत इति न्यायात्प्रतिलोमतया जननव्युत्क्रमेण तस्मिन्नेव ब्रह्मणि लीयते जगदिति कृत्वा यथा तज्जं तथेति योजना । तत्र लयो नाम जगतः शून्यतेति शङ्कां व्यावर्तयति – तदात्मतयेति । तदनत्वं प्रतिपादयति – तथेति । यथा तज्जं तल्लं च तथा तदनं च जगदित्यर्थः । इति तदनमिति शेषः । युक्तिसिद्धमर्थं निगमयति – एवमिति । ब्रह्मव्यतिरेकेण त्रिष्वपि कालेषु जगतोऽग्रहणात्तदात्मत्वेनाविशिष्टं जगत्तदेव स्यादिति योजना । युक्तिसिद्धमपि जगतो ब्रह्मत्वं प्रत्यक्षादिविरुद्धं नाङ्गीकारमर्हति । न हि सद्वितीयमद्वितीयं युक्तमित्याशङ्क्याऽऽह – यथा चेति । सर्वस्य ब्रह्मत्वे फलितमाह – यस्माच्चेति । कियन्तं कालं प्रत्ययमावर्तयेदित्याकाङ्क्षापूर्वकं तत्त्वनिश्चयपर्यन्तमिति दर्शयितुं व्यवहितं वाक्यमवतार्य व्याचष्टे – कथमित्या दिना । उपासीतेत्यस्य क्रतु कुर्वीतेत्यनेन व्यवहितेन सम्बन्ध इति योजना । क्रत्वनुष्ठानस्य फलं पृच्छति – किं पुनरिति । तत्र क्रतुकरणं च केन प्रकारेणेति प्रश्नान्तरं दर्शयति – कथं वेति । ब्रह्मभावसाधनत्वात्क्रतुकरणस्य फलप्रश्नो नास्तीत्याशङ्क्याऽऽह – क्रतुकरणं चेति । न हि जीवस्य स्थितस्य नष्टस्य वा सद्भावः संभवतीति भावः । क्रतुकरणस्येदं प्रयोजनं स च क्रतुरेवं क्रियते तत्करणं वाऽनया रीत्या ब्रह्मसद्भावं साधयतीत्यस्यार्थजातस्य प्रतिपादनार्थमाखण्डसमाप्तेरथेत्यादिरुत्तरो ग्रन्थ इत्याह – इत्यस्यार्थस्येति । अथ खल्वित्यत्र पूर्ववत्खलृशब्दोऽथशब्दस्तु हेत्वर्थ इत्यत्र हेतुरूपमर्थं विवृणोति – यस्मादिति । यद्वाऽथेत्यारभ्य पुरुष इत्यन्तो ग्रन्थो हेत्वर्थ इत्युक्त्वा तमेव हेतुरूपमर्थं दर्शयति – यस्मादिति । यथाक्रतुरित्यस्मादधस्तात्तस्माच्छब्दो द्रष्टव्यः । अस्मिंल्लोक इति श्रुतिमादाय व्याचष्टे – जीवन्निहेति । इह वर्तमाने देहे जीवन्सन्निति यावत् । क्रतुकरणेन किं कर्तव्यं फलमिति प्रश्नं व्याचष्टे – तथेति । क्रत्वनुरूपफलात्मकत्वे पुरुषस्य स्मृतिं सम्वादयति – एवं हीति । शास्त्रमेवोदाहरति – यं यमिति । कथं वा क्रतुः कर्तव्य इति प्रश्नं प्रत्याह – यत इति । क्रत्वनुरूपफलात्मकः पुरुषो भवतीत्येवंरूपा व्यवस्थेति यावत् । एवं जानन्क्रत्वनुरूपं फलमिति शास्त्रतः पश्यन्नित्यर्थः । कोऽसौ क्रतुरित्याशङ्क्याऽऽह – यादृशमिति । स क्रतुं कुर्वीतेत्यस्यार्थं निगमयति –
यत एवमिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 क्रतुकरणप्रकारमेव प्रश्नपूर्वकं प्रकटयति – कथमित्यादिना । कथमिदं मनःप्रायत्वमित्यपेक्षायां मनःशब्दार्थप्रदर्शनपूर्वकं तत्प्रायत्वं व्युत्पादयति – मनुत इति । मनोद्वारा तदुपाधिः पुरुषो विषयप्रवणो भवतीत्यर्थः । तत्प्रायत्व फलमाह – तथेति । पुरुषो हि तत्प्रायः सन्मनसि प्रवर्तमाने स्वयमपि तद्वदेव प्रवृत्त इव लक्ष्यते । तथा निवर्तमाने मनसि निवृत्त इव चावगम्यते । वस्तुतस्तु पुरुषो न प्रवृत्तो निवृत्तो वा ध्यायतीवेत्यादिश्रुतेरित्यर्थः । अत एव मनोमयत्वादेवेति यावत् । संमूर्छितत्वं संपिण्डितत्वम् । विज्ञानशक्तेः क्रियाशक्तेश्चैकस्मिन्नेव लिङ्गात्मनि संपिण्डितत्वे श्रुत्यन्तरं प्रमाणयति – यो वा इति । आथर्वणीं श्रुतिं यथोक्ते विशेषणद्वये प्रमाणयति – मनोमयः प्राणेति । मनोवृत्तिभिर्विभाव्यमानत्वादात्मा मनोमयः प्राण एव प्रत्यगात्मनः सूक्ष्मं शरीरं तस्य चासौ स्थूलाद्देहाद्देहान्तरं प्रति नेतेत्याथर्वणश्रुतेरात्मनि विशेषणद्वयसिद्धिः । एतच्च विशेषणद्वयं जीवगतमपि तदभेदविवक्षया ब्रह्मणि द्रष्टव्यमित्यर्थः । सत्यसङ्कल्प इत्यत्र विशेषणेन ध्वनितमर्थं दर्शयति – न यथेति । इवशब्दस्तथार्थः । कथं संसारिसङ्कल्पस्यानैकान्तिकफलत्वं तत्राऽह – अनृतेनेति । सङ्कल्पस्यानृतेन संसारिणि प्रत्यूढत्वे वाक्यशेषं प्रमाणयति – वक्ष्यतीति । जडाजडयोराकाशेतरयोर्न तुल्यतेत्याशङ्क्याऽऽह – सर्वगतत्वमिति । सर्वकर्मेति सर्वक्रियाश्रयत्वमीश्वरस्योच्यते तदयुक्तं निष्क्रियत्वश्रुतेरित्याशङ्क्य व्याचष्टे – सर्वमिति । संसारिभ्यो विशेषसिद्ध्यर्थं विशिनष्टि – दोषरहिता इति । उदाहृतां स्मृतिमाश्रित्योक्तमाक्षिपति – नन्विति । कामसामानाधिकरण्ये बाधकोपलम्भाद्बहुव्रीहिरेवेति परिहरति – न कामस्येति । तस्य कार्यत्वात्तदैक्ये ब्रह्मणोऽनादित्वं बाध्यते चेतनशेषत्वाच्च कामस्य तदैक्ये ब्रह्मणः स्वातन्त्र्यं हीयते । तथा च कर्मधारयासम्भवाद्बहुव्रीहिरेवेत्यर्थः । कथं तर्हि कामोऽस्मीति तादात्म्यस्मृतिरित्याशङ्क्याऽऽह – तस्मादिति । कामेश्वरयोः सामानाधिकरण्यासम्भवात्प्रकृतश्रुतौ बहुव्रीहिर्यथेष्टस्तथा स्मृतावपि ब्रह्मपारतन्त्र्यमात्रं कामस्य विवक्षितम्, श्रुत्यनुसारेण स्मृतेर्नेतव्यत्वादित्यर्थः । सर्वशब्दाद्दुर्गन्धानामपि ब्रह्मणि प्राप्तौ विशिनष्टि – सुखकरा इति । सर्वशब्दसङ्कोचे कारणमाह – पुण्य इति । यथा सर्वगन्ध इत्यत्र सुखकरा गन्धा ब्रह्मसम्बन्धिनो दर्शितास्तथा सर्वरस इत्यत्रापि सुखकरा एव रसास्तत्सम्बन्धिनो ग्राह्या इत्याह – तथेति । अत्रापि सर्वशब्दसङ्कोचे कारणमाह – अपुण्येति । न तद्ग्रहणं परस्मिन्निति शेषः । तच्छब्दार्थमेवोपपादयति – पाप्मना हीति । एष इति घ्राणप्राणोक्तिः । भवतु पाप्मसंसर्गकृतमपुण्यगन्धादिग्रहणं तथाऽपि कथं तदीश्वरे सर्वज्ञे नास्तीत्याशङ्क्याऽऽह – न चेति । निमित्ताभावादीश्वरस्य न स्वसम्बन्धित्वेनापुण्यगन्धादिग्रहणमित्यर्थः । तस्य पाप्मासंसर्गे हेतुमाह – अविद्यादीति । आदिपदेनास्मितारागद्वेषाभिनिवेशादयो गृह्यन्ते । अभ्यात्त इति रूपं तदर्थं च दर्शयन्कर्मणि निष्ठां व्यावर्तयति – अततेरिति । वाक्शब्दस्य निष्पत्तिप्रकारं रचयति – वचेरिति । अत्रेति श्रुतेरीश्वरस्य चोक्तिः । उपलक्षणार्थो घ्राणादिप्रतिषेधस्येति शेषः । अथेश्वरे घ्राणादिप्राप्तेरभावात्तत्प्रतिषेधो नोपलक्ष्येतात आह – गन्धेति । आदिशब्देन कामादिरुक्तः । युक्तं चान्योपलक्षणं साक्षादेवान्यत्र प्रतिषेधश्रवणादित्याह – अपाणीति । आदिपदेन स वेत्ति वेद्यमित्यादि गृह्यते । ईश्वरस्य संभ्रमाभावं प्रतिपादयति –
अप्राप्तप्राप्तौ हीति ॥२॥ 【भाष्यम्】 【भाष्यम्】 यथोक्तस्य परस्य प्रत्यगात्माभेदं दर्शयति – एष इति । व्रीह्याद्यनेकोपादानस्योपयोगमाह – अत्यन्तेति । अणीयस्त्वज्यायस्त्वव्यपदेशयोर्मिथो विरोधमाशङ्क्य परिहरति – श्यामाकेति । पृथिव्यन्तरिक्षादिवदीश्वरस्य सातिशयं महत्त्वं विवक्षितमिति शङ्कां वारयति – ज्यायःपरिमाणाच्चेति । पुनरुक्तेरुपयोगमाह –
मनोमय इत्यादिनेति ॥३॥ 【भाष्यम्】 【भाष्यम्】 यस्तैर्लक्ष्यते स एवेश्वरः केवल इति यावत् । ईश्वरो यथोक्तगुणो ध्येय इत्युक्ते गुणानामपि ध्यानकर्मत्वं दुर्वारमित्याशङ्क्याऽह – यथेति । पुनरुक्तिफलमुपसंहरति – तस्मादिति । सगुणस्येश्वरस्य ध्येयत्वे गमकान्तरमाह – अत एवेति । स्वरूपवाचकस्याऽऽत्मनः श्रुत्यनुपपत्तेर्न तद्बलादद्वैतवाक्यार्थसिद्धिरित्यर्थः । भेदलिङ्गाच्चेदिह भेदो विवक्षितस्तर्हि षष्ठेऽपि तल्लिङ्गदर्शनान्नाखण्डवाक्यार्थसिद्धिरिति शङ्कते – नन्विति । नात्र भेदो विवक्षितः । आरब्धः संस्कारः सुखादिर्येन कर्मणा तच्छेषस्थितौ तात्पर्यादिति परिहरति – नाऽऽरब्धेति । सत्सम्पत्तौ कालान्तरितत्वमेवात्र विवक्षितं किं न स्यादित्याशङ्क्याऽऽह – नेति । कालान्तरभावित्वे स्मपत्तेरिष्टे तत्त्वमसीति ब्रह्मभावस्य वर्तमानोपदेशानुपपत्तेरिति हेतुमाह – अन्यथेति । ननु प्रकरणानुगृहीताभ्यामात्मब्रह्मशब्दाभ्यामत्रापि ब्रह्मात्मैक्यमेव विवक्षितमित्यत आह – यद्यपीति । लिङ्गानुगृहीतषष्ठीश्रुतिवशात्प्रकरणानुगृहीते श्रुती कथञ्चिन्नेतव्ये प्रकरणश्रुतिभ्यां लिङ्गश्रुत्योर्बलवत्त्वादात्मश्रुतेश्चान्यथोपपत्तेरुक्तत्वादिति भावः । सगुणब्रह्मोपासकस्य सकृत्तत्त्वधीमात्रान्नादृष्टं फलं सिध्यति । किन्तु देहपातकालेऽपि साक्षात्कारानुवृत्त्या भवितव्यमित्यभिप्रेत्याऽऽह – यथाक्रतुरूपस्येति । अध्यवसायानुरूपस्य सगुणस्य परमात्मनोऽहं प्रतिपत्ताऽस्मीत्येवं विदो यस्याद्धा स्यान्निश्चयः प्रेत्याहमेष स्यामेव न तु न स्यामिति क्रतुफलसम्न्धे संशयोऽस्ति । स क्रत्वनुसारेणैव परमात्मभावं प्राप्नोति । तथा चाद्धेति वाक्यान्मरणकालेऽपि साक्षात्कारेण भवितव्यमिति प्रतिभातीत्यर्थः । यथोक्तस्यार्थस्य साम्प्रदायिकत्वं कथयति – इत्येतदिति ।
आदरः क्रतुफलसम्बन्धविषयः ॥४॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य चतुर्दशः खण्डः ॥ शाण्डिल्यविद्यया समनन्तरग्रन्थस्य सम्बन्धो नास्तीत्याशङ्क्य व्यवहितेन सम्बन्धं दर्शयितुमनुवदति – अस्येति । कथं त्रैलोक्यात्मनः कोशत्वं तत्राऽऽह – कोश इवेति । अनेकधर्मसादृश्यं विशदयति – स चेति । तथाऽपि कथमविनाशित्वं तत्राऽऽह – सहस्रेति । त्रैलोक्यात्मनि कोशदृष्टिस्तत्रापि भूमौ बुध्नदृष्टिरित्युक्तम् । कोशस्य च सापेक्षमविनाशित्वं ध्येयत्वेन दर्शितम् । सम्प्रति दिक्षु कोशकोणदृष्टिः कर्तव्येत्याह – दिशो हीति । दिवि कोशस्योर्ध्वबिलत्वबुद्धिं दर्शयति – द्यौरिति । यथोक्ते कोशे वसुधानत्वदृष्टिं दर्शयति – यथोक्तेति । तदेव समर्थयते –
तस्मिन्निति ॥१॥ 【भाष्यम्】 【भाष्यम्】 सम्प्रत्युत्तरग्रन्थस्य तात्पर्यं वक्तुं भूमिकां करोति – न वीरेति । तत्र बृहदारण्यकश्रुतिं प्रमाणयति – तस्मादिति । पुत्रस्य लोक्यत्वादिति यावत् । अनुशासनेन विषयीकृतस्य पुत्रस्य लोकप्राप्तिसाधनत्वात् । अनुशासनं वेदाध्ययनम् । पुत्रजन्मोक्त्यनन्तरमेव किमित्येतद्विज्ञानं नोपदिष्टमित्याशङ्क्याऽऽह – अभ्यर्हितेति । गायत्र्युपाधिकब्रह्मोपासनस्य कौक्षेये ज्योतिष्यारोप्य परब्रह्मोपासनमभ्यर्हितं तस्य च मनोमयत्वादिगुणकब्रह्मोपासनमन्तरङ्गम् । तथा च तद्वचनेन वैयग्र्यादनन्तरमेव कोशविज्ञानं नोक्तमिति । निवृत्ते तु व्यासङ्गे तद्दृष्टिरिदानीं यथोक्तफलसिद्ध्यर्थमुच्यत इत्यर्थः । कोशशब्देन हिरण्यादिनिक्षेपाधारा मञ्जूषोच्यते । कोशकोणत्वेनोक्तासु दिक्ष्ववान्तरविभागमाह – तस्येत्यादिना । दिशां विशिष्टनामवतीनामनुचिन्तनीयत्वमुक्त्वा तत्सम्बन्धिनं वायुं तद्वत्सममरणधर्माणं चिन्तयेदित्याह – तासामित्या दिना । पुरोवातादीत्यादिशब्दस्तथाविधलौकिकवैदिकप्रयोगसंग्रहार्थः । यथोक्तस्य विज्ञानस्य फलवत्त्वमिदानीं दर्शयति – स य इति । यथोक्तगुणमित्यस्य प्रकटीकरणममृतमिति । सफलमुपासनमुपदिष्टमुपसंहरति –
यत इति ॥२॥ 【भाष्यम्】 【भाष्यम्】 दीर्घायुष्ट्वं पुत्रस्य कामयमानस्त्रैलोक्यात्मानं कोशाकारं परिकल्प्य तस्य चतस्रो दिशो विशिष्टनामवतीस्तासां स्त्रीत्वं तत्सम्बन्धेन वायुं तद्वत्सममरणधर्माणं चिन्तयेदिति प्रधानोपास्तिरुक्ता । सम्प्रति तदङ्गं जपं दर्शयति – अरिष्टमित्या दिना ।
अमुना तेन पुत्रेण निमित्तीभूतेन दीर्घायुष्ट्वं निमित्तीकृत्येत्यर्थः । सर्वत्र सर्वेषु प्रपद्य इति क्रियापदमुपायं दर्शयितुं पुनरुपात्तं निमित्तनिवेदनार्थं च पुनः पुनर्मन्त्रेषु पुत्रस्य त्रिर्नाम गृह्णातीति योजना ॥३॥ 【भाष्यम्】 【भाष्यम्】 अरिष्टमित्यादिमन्त्रस्य प्रागेव व्याख्यातत्वात्प्राणमित्यादिमन्त्रमादाय व्याचष्टे – स यदिति । सशब्दो वक्तृविषयः । प्राणस्य सर्वात्मत्वे वाक्यशेषानुगुण्यं दर्शयति – यथेति । तत्सार्वात्म्यमतःशब्दार्थः ॥४ - ५- ६॥ कदा पुनरेषां मन्त्राणां जप इत्यपेक्षायां पूर्वोक्तप्रधानविद्यानन्तरमित्याह – उपरिष्टादिति ।
ध्यात्वोपरिष्टादिति सम्बन्धः यथोक्ते विज्ञाने जपे वाऽऽदरः ॥७॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य पञ्चदशः खण्डः ॥ वृत्तमनूद्य पुरुषो वावेत्यादिखण्डान्तरमवतारयति – पुत्रायुष इति । किमित्यात्मनो दीर्घजीवनं समर्थ्यते तत्राऽऽह – जीवन्निति । यथोक्तफलहेतुभूतं विद्यामुत्थापयति – इत्यत आत्मनमिति । कथंभूतस्याऽऽत्मनो यज्ञत्वं सम्पाद्यते तत्राऽऽह – पुरुष इति । अवधारणार्थं समर्थयते – तथा हीति । यज्ञावयवसादृश्यात्पुरुषे यज्ञदृष्टिः कर्तव्येत्युक्तम् । कथं सादृश्याद्यज्ञसम्पादनमिति पृच्छति – कथमिति । तत्र षोडशाधिकं वर्षशतं पुरुषस्याऽऽयुः फलभूतं तत्त्रेधा प्रविभज्य चतुर्विंशतिवर्षायुषि प्रातःसवनदृष्टिः कर्तव्येत्याह – तस्येति । गायत्र्याश्छन्धसश्चतुर्विंशत्यक्षरत्वेऽपि कथं शब्दोक्ता प्रातःसवनदृष्टिरित्याशङ्क्याऽऽह – गायत्रीति । विधितोऽनुष्ठीयमानस्य बाह्ययज्ञस्य प्रातःकालोपलक्षितं कर्म प्रातःसवनं तत्र स्तोत्रादि गायत्रच्छन्दस्कं “गायत्रं प्रातःसवनम्” (छा.उ. ३ । १६ । १) इति च श्रुतिरित्यर्थः । यथोक्ते पुरुषायुषि प्रातःसवने चतुर्विंशत्यक्षराणि फलितमाह – अत इति । तथाऽपि कथं पुरुषायुषस्य यज्ञत्वं तदाह – अत इति । अतःशब्दस्यैवार्थो विधियज्ञसादृश्यादिति । विधिनाऽनुष्ठीयमानो यज्ञो विधियज्ञस्तेन सादृश्यं पुरुषस्य प्रातःसवनसम्बन्धस्तस्मात्पुरुषो यज्ञ इत्यर्थः । यथा यथोक्ते पुरुषायुषि प्रातःसवनसम्पत्तिस्तथा वक्ष्यमाणयोरपि पुरुषायुषोर्माध्यन्दिनं सवनं तृतीयसवनमिति सवनद्वयसम्पत्तिर्द्रष्टव्येत्याह – तथेति । चतुर्विंशतिवर्षमितपुरुषायुषिं प्रातःसवनमतः संख्यासामान्याद्वक्ष्यमाणपुरुषायुषोः सवनद्वयसम्पत्तौ किं कारणमित्याशङ्क्याऽऽह – त्रिष्टुबिति । चतुश्चत्वारिंशदक्षरा त्रिष्टुप्प्रसिद्धा । त्रैष्टुभं च माध्यन्दिनं सवनम् । अष्टाचत्वारिंशदक्षरा जगती । जागतं च तृतीयसवनम् । अतः संख्यासामान्यादुत्तरयोः पुरुषायुषोः सवनद्वयसम्पत्तिर्युक्तेत्यर्थः । पुरुषस्य यज्ञत्वे विधियज्ञेन सह सादृश्यान्तरमाह – किंचेति । प्रातःसवने वसूनां तद्देवतात्वेनान्वयात्तत्त्वमेव संक्षिपति – सवनदेवतात्वेन स्वामिन इत्यर्थ इति । वसूनां सवनस्वामित्वमुभयत्र तुल्यमित्युक्ते प्रसिद्धान्वसून्पुरुषयज्ञेऽपि प्राप्तान्प्रत्युदस्यति – पुरुषयज्ञेऽपीति । तेषु वसुशब्दप्रवृत्तिं साधयति – ते हीति । निमित्तान्तरमाह – प्राणेषु हीति । प्राणानां वसुत्वमुपपादितमुपसंहरति –
इत्यत इति ॥१॥ 【भाष्यम्】 【भाष्यम्】 सम्प्रति पुरुषयज्ञविद्याङ्गभूतमाशीर्वादप्रयोगं दर्शयति – तं चेदिति ।
अनुसन्तनुतेत्यत्रानुपदमेकीभावे । मन्त्रजपस्य सानुबन्धित्वं विधियज्ञेन ॥२॥ समानं तस्य यानि चतुर्विंशतिवर्षाणीत्यादिनेति शेषः । 【भाष्यम्】 【भाष्यम्】 प्राणेषु रुद्रशब्दप्रवृत्तौ निमित्तमाह – रुदन्तीति । यदुक्तं रोदयन्तीति रुद्रा इति तदुपपादयति –
क्रूरा हीति ॥३॥ 【भाष्यम्】 【भाष्यम्】 यथा प्राणा वसवो रुद्राश्चोक्तास्तथेति यावत् । तेष्वादित्यशब्दप्रवृत्तौ निमित्तमाह – ते हीति । तं चेदित्यादिना पूर्वेण ग्रन्थेन तं चेदेतस्मिन्नित्यादिवक्ष्यमाणग्रन्थस्य तुल्यार्थत्वान्न व्याख्यानापेक्षेत्याह – समानमन्यदिति ॥४ - ६॥ कस्मादित्याक्षेपे हेतुमाह – योऽहमिति । यो यज्ञः सोऽहमनेनेति योजना । इतिशब्दस्यान्वयमाचष्टे – इत्येवमिति । निश्चिताया विद्याया ध्यानं प्रति फलं कथयति – स एवमिति । यद्यपि महिदासस्य यथोक्तनिश्चयवतो यथोक्तं तथाऽपीदानींतनस्य किमायातमित्याशङ्क्याऽऽह – अन्योऽपीति । प्रजीवतीति जीवनस्य प्रकर्षो रोगाद्युपतापराहित्यं प्रशब्देनोच्यते । एवंनिश्चय इत्युक्तं पुरुषं विशदयति –
य एवमिति ॥७॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य षोडशः खण्डः ॥ महिदासोदाहरणस्य तात्पर्यमाह – निश्चिता हीति । तदेतद्यज्ञदर्शनं विद्वानाह स्मेति सम्बन्धः । ह वा इति निपातयोः किलेत्यर्थः । उक्तस्य वोदाहरणस्य प्रसिद्धिविषयः । हे रोग कस्मान्मां त्वमुपतपसीति सम्बन्धः । ननु पूर्वेणाऽऽशीर्वादप्रयोगेणोदाहरणेनैव समनन्तरग्रन्थस्य सम्बन्धो नोपलभ्यते तत्राऽऽह – स यदिति । पूर्वेण तस्य यानि चनुविंशतिवर्षाणीत्यादिना सादृश्यनिर्देशेनेत्यर्थः । एवंजातीयकमशनायादिकृतमिति यावत् । अशिशिषादिषु दीक्षादृष्टौ हेतुमाह –
दुःखेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 दीक्षावचनसादृश्यात्पुरुषस्य यज्ञत्वमुक्तमिदानीमुपसदुपेतत्वसादृश्यादपि तस्य यज्ञत्वं विज्ञेयमित्याह – अथेति । अशनादिषु कथमुपसद्दृष्टिस्तत्राऽऽह – उपसदां चेति ।
पयोव्रतत्वं पयोभक्षणयुक्तत्वम् । यज्ञे यान्यहाल्पभोजनीयानि प्रसिद्धानि तानि चोपसत्सु क्रियमाणान्याश्वासन्नानीति तासु प्रश्वासः स्वास्थ्यविशेषः । अशनादिषु च सोऽस्तीति प्रसिद्धमिति भावः । सुखनिमित्तत्वं क्लेशनिवृत्तिहेतुत्वं च सामान्यम् ॥२॥ 【भाष्यम्】 【भाष्यम्】 स्तुतशस्त्रवैशिष्ट्यसाम्यादपि पुरुषस्य यज्ञत्वमित्याह – अथ यदिति । हासादिषु स्तुतशस्त्रदृष्टौ हेतुमाह –
शब्दवत्त्वेति ॥३॥ 【भाष्यम्】 【भाष्यम्】 दक्षिणावत्त्वसाम्यादपि पुरुषस्य यज्ञत्वमवधेयमित्याह – अथेति । तपोदानादिषु दक्षिणादृष्टौ हेतुमाह –
धर्मेति ॥४॥ 【भाष्यम्】 【भाष्यम्】 प्रकारान्तरेण पुरुषस्य यज्ञत्वं साधयति – यस्माच्चेति । “षूङ् प्राणिप्रसवे” “षुञ् अभिषवे” इति धातुद्वयदर्शनात्प्रसवे कण्डने च साधारणः सवनशब्दस्ततः सवनशब्दवत्त्वसामान्याद्वा पुरुषे यज्ञदृष्टिः कर्तव्येत्यर्थः । पुरुषगतं शब्दसामान्यं विशदयति – पुनरिति । यत्पुनरस्य पुरुषाख्यस्य विधियज्ञस्येव सोष्यतीत्यादिशब्दसम्बन्धित्वं तदुत्पादनमेव तदिति योजना । अवभृथसम्बन्धित्वादपि पुरुषस्य यज्ञत्वमस्तीत्याह –
किंचेति ॥५॥ 【भाष्यम्】 【भाष्यम्】 पुरुषे यज्ञदृष्टिरुक्ता सम्प्रति विशिष्टपुरुषसम्बन्धेन विद्यां स्तोतुं विद्याङ्गं च जपं विधातुमुपक्रमते – तद्धैतदिति । देवकीपुत्रस्यैतद्दर्शनश्रवणफलमाह – स चेति । किमर्थेयं गुरुशिष्याख्यायिकेत्याह – इत्थं चेति । अक्षितमसीति कीदृशीं देवतां प्रत्युच्यते तत्राऽऽह – सामर्थ्यादिति । निकृष्टस्य स्तुतिसम्बन्धायोगात्पुरुषयज्ञे सवनदेवतान्तरानुपपत्तेश्च प्राणानामेवाऽऽधिदैविकं रूपमादित्याख्यं जप्यमन्त्रार्थत्वेन सम्बध्यत इत्यर्थः । द्वितीयमन्त्रस्यार्थान्तरं वारयति – तथेति । प्रथममन्त्रवदित्यर्थः । न च द्वयोरेकार्थत्वे सत्यन्यतरस्य वैयर्थ्यं द्वयोरपि जप्यत्वेनोपयुक्तत्वादिति द्रष्टव्यम् । मन्त्रत्रयप्रतिपाद्यं सावित्रं तत्त्वमृग्भ्यामपि प्रतिपादितमिति प्रत्ययदार्ढ्यार्थमाह – तत्रेति । किमिति विद्यास्तुतिपरत्वमनयोरिष्यते जपार्थत्वमेव किं न स्यात्तत्राऽऽह – नेत्यादिना । अनयोर्जपार्थत्वेऽपि त्रित्वसंख्यायाःसत्त्वान्न सा बाध्येत्याशङ्क्याऽऽह – पञ्चेति ।
अनयोर्जप्यत्वे पञ्चकं प्रतिपद्येतेति पञ्चसंख्याया वक्तव्यत्वात्त्रित्वं बाधितं स्यादित्यर्थः ॥६॥ 【भाष्यम्】 【भाष्यम्】 “आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् । परो यदिध्यते दिवि” इति मन्त्रस्य प्रतीकग्रहणमादित्प्रत्नस्य रेतस इति, तत्पदच्छेदपूर्वकं व्याचष्टे – आदित्यादिना । इच्छब्दश्चानर्थक इति पूर्वेण सम्बन्धः । किं तत्कारणमित्यपेक्षायां सदेव सोम्येदमित्यादिश्रुतिसिद्धं ब्रह्मेत्याह – सदाख्यस्येति । आनन्दं ब्रह्मणो विद्वानितिवत्प्रत्नस्य ज्योतिरिति सम्बन्धो द्रष्टव्यः । उत्सृष्टानुबन्धो ध्वस्ततकारः स इति यावत् । ननु ब्रह्मस्वरूपभूतमेतज्ज्योतिर्नैव सर्वे पश्यन्तो दृश्यन्ते तत्राऽऽह – निवृत्तचक्षुष इति । निवृत्तानि विमुखीकृतानि विषयेभ्यश्चक्षूंषि करणानि येषां ते तथा । अत एव ब्रह्मविदः, “कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्” (क.उ. २ । ४ । १) इति श्रुत्यन्तरम् । तत्रैवोपायान्तरं सूचयति – ब्रह्मचर्यादीति । “स्मरणं कीर्तनं केलिः प्रेक्षणं गृह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिवृत्तिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥” (अ.पु. ३७२) [इत्युक्तं] ब्रह्मचर्यम् । आदिपदेनाहिंसाऽस्तेयादयो गृह्यन्ते । एतैर्निवृत्तिप्रधानैः साधनैः शुद्धमुद्दीपितमन्तःकरणं येषां ते तथा । व्यत्यये हेतुमाह – ज्योतिष्परत्वादिति । यत्स्वमहिमप्रतिष्ठितं दीप्यते तत्परं ज्योतिरिति सम्बन्धः । दीप्यमानत्वं विवृणोति – येनेति । मन्त्रान्तरमवतारयति – किञ्चेति । इतश्च विद्यास्तुत्यर्थेति यावत् । किमाहेत्यपेक्षायां द्वितीयं मन्त्रमादत्ते – उद्वयमिति । तं व्याकरोति – तमस इत्यादिना । तस्यैव ज्योतिषः प्रभाने ज्योतिर्नान्यदस्तीत्यर्थः । देवत्वेन प्रत्यगात्मत्वमाह – स्वरिति । तयोरेकत्वं “स यश्चायम्” (तै.उ. २ । ८ । ५) इत्यादिषु श्रुत्यन्तरसिद्धं दर्शयति – आदित्यस्थमिति । तत्पदार्थं त्वंपदार्थं चोक्त्वा तयोरैक्यमुक्तमिदानीमेकीभूतं ज्योतिर्विशिनष्टि – यदुत्तरमिति । एकत्वधीफलं कथयति – पश्यन्त इति । फलमेव प्रश्नपूर्वकं विवृणोति – किमित्यादिना । फलविषयं स्वानुभवं दर्शयति – अहो इति । मन्त्राणां मन्त्रयोश्चैकवाक्यत्वमुपसंहरति –
इदं तदिति ॥७॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य सप्तदशः खण्डः ॥ ननु यज्ञविज्ञानेन वक्ष्यमाणविज्ञानस्य न सङ्गतिरस्तीति कथं पौर्वापर्यमित्याशङ्क्यानन्तरखण्डस्य व्यवहितेन सम्बन्धमाह – मनोमय इति । इति चेश्वर उक्त इति पूर्वेण सम्बन्धः । तत्र ब्रह्मणो गुणयोरेकदेशत्वेन मन आकाशश्चोक्त इत्याह – ब्रह्मण इति । यथोक्तगुणकब्रह्मदृष्ट्यसमर्थस्य तयोरेव सम्पूर्णब्रह्मदृष्टिकथनार्थमुत्तरग्रन्थमवतारयति – अथेति । एवमुभयमुपदिष्टं भवतीति सम्बन्धः । तदेवोभयं विभजते – अध्यात्ममिति । कथं मनोदृष्टिविषयत्वेनाध्यात्मं मनो ब्रह्मेत्युपासनं विधित्स्यते तत्राऽऽह – मनसेति । तथाऽपि कथं ब्रह्मदृष्टेराकाशं विषयी भवति न हि तेनोपलभ्यते ब्रह्मेत्याशङ्क्याऽऽह – आकाशश्चेति ।
ब्रह्मदृष्टेर्योग्यमिति पूर्वेण सम्बन्धः ॥१॥ 【भाष्यम्】 【भाष्यम्】 अध्यात्ममधिदैवतं च विहितस्योपासनस्याङ्गानुचिन्तनं दर्शयति – तदेतदिति । मनसश्चतुष्पात्त्वं प्रश्नपूर्वकं व्युत्पादयति – कथमित्यादिना । आधिदैविकस्याऽऽकाशस्य चतुष्पात्त्वं प्रकटयति – अथेत्यादिना । मन अकाशयोरुक्तं चतुष्पात्त्वं निगमयति –
एवमिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 आध्यात्मिकान्पादान्प्रपञ्चयति – तत्रेति । पादत्वं वाचो व्युत्पादयति – वाचा हीति । यथा गवादिगन्तव्यं पादेनैव प्राप्नोति देवदत्तोऽपि वाचैव पादेन वक्तव्यं विषयं प्रतिलभते । तेन तस्या युक्तं पादत्वमित्यर्थः । प्राणस्य वाच इव पादत्वं दर्शयति – तेनापीति । आधिदैविकान्पादान्विवृणोति – अथेति । यथा गोरुदरे पादा लग्ना लक्ष्यन्ते तथाऽऽकाशस्योदर इवाग्न्यादयो लग्ना दृश्यन्ते । तस्मात्तस्य ते पादा इव भवन्तीत्यर्थः । द्विविधपादविवरणमुपसंहरति – एवमिति । सम्प्रत्याध्यात्मिकपादानामाधिदैविकपादैरधिष्ठेयतया सम्बन्धोऽनुचिन्तनीय इति दर्शयितुमुपक्रमते – तत्रेति । सोऽग्निनेत्यादेरर्थान्तरमाह – अथवेति ।
कीर्तियशसोः प्रत्यक्षत्वपरोक्षत्वाभ्यां भेदः ॥३॥ 【भाष्यम्】 【भाष्यम्】 सर्वत्रेत्युभयतः सम्बध्यते ॥४ - ५ - ६ ॥ इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्याष्टादशः खण्डः ॥ खण्डान्तरस्य सङ्गतिमाह – आदित्य इति । तस्येत्यादित्यो गृह्यते । अनभिव्यक्तनामरूपत्वाभिप्रायेणासच्छब्दो गौणो व्याख्यातस्तत्रैवकारावष्टम्भेन शङ्कते – नन्विहेति । कथमसतः सज्जायेतेत्यसत्कारणत्वस्य षष्ठे निराकरिष्यमाणत्वात्तत्र सत्कारणं भवतु प्रकृते तु सावधारणादसच्छब्दादसदेव कारणं विवक्षितमित्युदितानुदितहोमवद्विकल्प इत्यर्थः । क्रियायाः कर्तृतन्त्रत्वात्तदिच्छया तत्र विकल्पात्, वस्तुनस्तु सिद्धस्य तदिच्छाननुविधायित्वान्नविकल्पः सम्भवति । न हि स्थाणुरेव कस्यचिदपेक्षया पुरुषो भवतीति परिहरति – न क्रियास्विवेति । विकल्पासम्भवे वाक्यस्य गतिर्वक्तव्येति पृच्छति – कथमिति । असच्छब्दस्य वा गतिरवधारणस्य वा पृच्छ्यते तत्राऽऽद्यं प्रत्याह – नन्विति । द्वितीयं शङ्कते – नन्वेवशब्द इति । तस्य का गतिरिति शेषः । पूर्वकालीनसत्त्वाभिधायका सीच्छब्दस्य वाक्यशेषे श्रवणान्नोपक्रमेऽपि सत्त्वाभावावधारणं विवक्षितं किन्त्वभिव्यक्त्यभावावधारणमादित्यस्तुत्यर्थमिति समाधत्ते – सत्यमेवमिति । क्व पुनरियमादित्यस्तुतिरुपयुज्यते तत्राऽऽह – ब्रह्मदृष्टीति । जगतो नामरूपव्याकरणमादित्यायत्तमिति तदुपपादयति – आदित्येति । तथाऽपि कथमादित्यस्तुतिरित्याशङ्क्य दृष्टान्तेन दर्शयति – यथेति । किञ्चोपक्रमोपसंहारैकरूप्येणऽऽदित्ये ब्रह्मदृष्टिविधिपरमिदं वाक्यं न तस्य कारणासत्त्वे तात्पर्यं कल्पयितुं शक्यमनन्यथासिद्धकल्पकाभावादित्याह – न चेति । तत्परत्वं कथमवगतिमित्याशङ्क्योपसंहारस्योपक्रमानुसारित्वादित्याह – उपसंहरिष्यतीति । कथं तस्यासच्छब्दवाच्यत्वं तदाह – स्तिमितमिति । सत्त्वं तर्हि कथमिति तदाह – कार्येति । बीजस्योच्छूनतावत्कारणस्य सिसृक्षावस्थां दर्शयति – ईषदिति । लब्धपरिस्पन्दं प्राप्तपरिणामं सद्भूतसूक्ष्माकारेणाभवदित्यर्थः । सूक्ष्मभूतोत्पत्त्यनन्तरं स्थूलभूतोत्पत्तिमाह – ततोऽपीति । भूतसूक्ष्माकारप्राप्तेरनन्तरं पञ्चीकरणप्रक्रिययाऽन्योन्यावयवानुप्रवेशेन स्थूलभूतावस्थमासीत्यर्थः । स्थूलेभ्यश्च भूतेभ्योऽण्डनिर्वृत्तिं प्रतिजानीते – अद्भ्य इति ।
अप्सहितेभ्यो भूतेभ्य इत्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】
अवश्यायशब्देन हिममुच्यते ॥२॥ 【भाष्यम्】 【भाष्यम्】 उलूलव इत्युत्सवकालीनाः शब्दविशेषा देशविशेषे प्रसिद्धाः । स्त्रीवस्त्रान्नादय उदतिष्ठन्निति पूर्वेण सम्बन्धः । किमत्र प्रमाणमित्याशङ्क्याऽऽह – प्रसिद्धं हीति ।
एतदिति भूताद्युत्थानम् ॥३॥ 【भाष्यम्】 【भाष्यम्】 अदृष्टफलमाहत्योक्त्वा दृष्टफलमाचष्टे – किञ्चेति । तद्विदो दृष्टफलमिति सम्बन्धः – क्रियाविशेषणमिति ।
एवंविदं साधवो घोषा आगच्छेयुरिति यत्तत्क्षिप्रमप्रतिबन्धेनैवेत्यर्थः । आदित्ये ब्रह्मदृष्टिरादरस्य विषयः ॥४॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्यैकोनविंशः खण्डः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां च्छान्दोग्यभाष्यटीकायां तृतीयोऽध्यायः ॥ आदित्यस्य सूत्रावच्छेदभेदत्वात्तदुपासनानन्तरं सूत्रोपासनमुपन्यस्ते । नन्वध्यात्ममधिदैवतं च वायुप्राणयोः सूत्रात्मभूतयोरुपासनं पूर्वाध्यायेऽपि व्याख्यातं तथा च कोऽत्र विशेषो येन तदुपासनं पुनरारभ्यतेऽत आह – वायुप्राणयोरिति । साक्षात्पादकल्पनं विनेति यावत् । ब्रह्मत्वेन ब्रह्मकार्यरूपेणेत्यर्थः । विद्येति । “धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा । तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे ॥” (म.स्मृ. २ । ११२) इति स्मृतिमनुसंधाय पुष्कलधनमादाय रैक्वो राज्ञे विद्यां प्रादाज्जानश्रुतिश्च शास्त्रार्थं ज्ञात्वा पुष्कलधनं दत्त्वैव श्रद्धादिसंपन्नस्ततो विद्यामाददौ । तथाऽन्योऽपि दाता ग्रहीता वा स्यादिति तद्दानग्रहणयोर्विधिप्रदर्शनार्था चाऽऽख्यायिकेत्यर्थः । ननु षट्शतानि गवामित्यादिदर्शनाद्धनदानमेव विद्याग्रहणे साधनमिह प्रतीयते न तु श्रद्धादीत्याशङ्क्याऽऽह – श्रद्धेति । आदिपदेन तात्पर्यप्रणिपातादयो गृह्यन्ते । आख्यायिकया तदु ह पुनरेवेत्यादिलक्षणयेति यावत् । जनश्रुतस्य पुत्रो यस्तस्य पौत्रः पौत्रायणः स च प्रकृतो जानश्रुतिरेवेत्याह – पुत्रस्येति । श्रद्धया देयस्याल्पत्वशङ्कां वारयति – बहुदायीति । बहुपाकस्य फलमाह – भोजनेति । उक्तस्य राज्ञो वर्तमानत्वाभावादसत्त्वमाशङ्क्योक्तमेवमिति । स्वसमीपं प्राप्तेभ्य एवार्थिभ्योऽसावन्नं ददातीत्याशङ्क्याऽऽह –
स हेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 विशिष्टान्नदानफलं दर्शयितुमारभते – तत्रेति । वाक्यार्थं दर्शयति – ऋषय इति । संबोधनाभ्यासस्य विषयमाह – आदरं दर्शयन्निति । तदेव दृष्टान्तेन स्पष्टयति – यथेति । भल्लाक्षशब्दार्थमाह – भल्लेति । भल्लाक्षशब्दो भद्राक्षविषयः सन्विरुद्धलक्षणया मन्ददृष्टित्वसूचकः । भल्लाक्षशब्दस्य विषयान्तरमाह – अथवेति । तस्य पृष्ठगामिनो हंसस्य महात्मा नातिक्रमणीयो विजानतेति सम्यग्दर्शनाभिमानशालित्वात्तेनाग्रगामी हंसो जानश्रुतिमतिचिक्रमिषुममर्षितया पीड्यमानः सन्न त्वं धर्मं जानासि ज्ञानाभिमानं तु वहसीत्युपालब्धस्तत्र भल्लाक्षेत्युपालम्भस्वरूपं सूचयतीत्यर्थः । पृष्ठगामी हंसो निन्दापूर्वकमग्रगामिनं(णं) हंसं संबोध्य किमूचिवानित्यपेक्षायामाह – जानश्रुतेरिति । मा प्रधाक्षीरिति पाठे कथं मा प्रधाक्षीदित्युच्यते तत्राऽऽह – पुरुषव्यत्ययेनेति ।
मध्यमपुरुषं प्रथमपुरुषं कृत्वा व्याख्यानमित्यर्थः ॥२॥ 【भाष्यम्】 【भाष्यम्】 एवं सन्तमेनं प्राणिमात्रं राजानमधिकृत्य सबहुमानमेतद्वचनमात्थेति कुत्सयतीति सम्बन्धः । तत्र वैधर्म्यदृष्टान्तमाह – रैक्वमिवेति । युगं वहतीति युग्यो बलीवर्दोऽश्वो वाऽस्यामस्तीति युग्वा शकटी तया सह वर्तत इति सयुग्वा रैक्वः । वकारो मत्वर्थीयः त्वं रैक्वं ज्ञानमाहात्म्ययुक्तमधिकृत्य यथा प्रशंसावचनं तथा कर्मिणमेनं राजानमधिकृत्य कथमेवमात्थेत्यर्थः । उक्तं वाक्यार्थं संकलयति – अननुरूपमिति ।
अस्मिन्वराके राजनि धर्ममात्रनिष्ठेनेदमनुरूपं वचनं रैक्वे पुनर्विज्ञानवति यथोक्तं वचो युक्तमेवेति । इतरः पृष्ठगामी हंसः । यः सयुग्वा रैक्वस्त्वयोच्यते स कथं नु स्यादित्यन्वयः ॥३॥ 【भाष्यम्】 【भाष्यम्】 स रैक्वो येन प्रकारेण स्यात्तं प्रकारं शृण्विति प्रतिज्ञाय प्रकारप्रदिदर्शयिषया दृष्टान्तमाह – यथेति । द्यूतस्य समयः संकेतस्तदनुष्ठानकालो (वा) येन द्यूतविद्यायामेजति सोऽक्षस्तस्य कश्चिद्भागोऽथशब्दवाच्यस्तत्र यश्चतुरङ्को भागश्चत्वारोऽङ्काश्चिह्नान्यस्मिन्निति व्युत्पत्तेः कृतनामव्यवहृतेन[तेन] यदा द्यूते प्रवृत्तानां मध्ये स कोऽपि जयति तदा तस्मै कृतनामवते विजितायाधरेऽयाः संयन्तीति सम्बन्धः । तदर्थं व्याचष्टे – तदर्थमिति । अधरेयान् व्याकरोति – अधरेया इति । तानेव विशिनष्टि – त्रेतेति । अक्षस्य यस्मिन्भागे त्रयोऽङ्काः स त्रेता नामायो भवति । यत्र तु द्वावङ्कौ स द्वापरनामकः । यत्रैकोऽङ्कः स कलिसंज्ञ इति विभागः । तादर्थ्येनेतराङ्काना(णा)मन्तर्भावमुक्तं व्यक्तीकरोति – चतुरङ्क इति । तदन्तर्भवन्ति तस्मिन्कृते त्रेतादयस्तेऽन्तर्भवन्तीति यावत् । महासंख्यायामवान्तरसंख्यान्तर्भावः प्रसिद्ध एवेत्यर्थः । दृष्टान्तमनूद्य दार्ष्टान्तिकमाह – यथेति । रैक्वमभिव्याप्य सर्वं समेतीत्यस्यार्थं संक्षिपति – अन्तर्भवतीति । रैक्वे सर्वस्यान्तर्भावं प्रश्नपूर्वकं प्रकटयति – किं तदित्यादिना । तद्धर्मस्य महत्त्वादन्येषां च धर्मजातस्याल्पत्वात्तस्येतरस्मिन्नन्तर्भावः संभवतीत्यर्थः । किं च सर्वेषां प्राणिनां धर्मफलमल्पीयस्त्वान्महत्तरे रैक्वस्य धर्मफलेऽन्तर्भवतीत्याह – तस्य चेति । न केवलं रैक्वस्यैतन्माहात्म्यं किन्त्वन्यस्यापि ज्ञानवतोऽस्तीति जानश्रुतेरनुग्रहार्थमाह –
तथेति ॥४॥ 【भाष्यम्】 【भाष्यम्】 प्रतिपन्नहंसवचनखेदित इतरो राजा रात्रिशेषमतिवाह्य शयनं जहदात्मनः समीपस्थं स्तुतिकर्तारं क्षत्तारमङ्गारे हेत्यादिवाक्यमुक्तवान् । तस्याभिप्रायमाह – स एवेति । कथमिवशब्दो द्वितीये घटते । तत्राऽऽह – तदेति । अवधारणस्यापि नोपयोगोऽस्तीति चेत्तत्राऽऽह – अनर्थको वेति । प्रश्नवाक्यं व्याचष्टे – राज्ञेति । यो नु कथमित्यादि पूर्ववद्व्याख्येयम् ॥५ – ६ ॥
तस्येति कर्मणि षष्ठी ॥७॥ 【भाष्यम्】 【भाष्यम्】
मया हि गार्हस्थ्यं चिकीर्ष्यते तदर्थं च धनमर्थ्यते न चायं तादर्थ्येन किंचिदुपकर्तुमित्याशयेनानादरं विज्ञातवानस्मि यदुक्तलक्षणं रैक्वं तस्य च गार्हस्थ्याभिप्रायं धनार्थित्वं चेति शेषः ॥८॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां चतुर्थाऽध्यायस्य प्रथमः खण्डः ॥
क्षत्तृवचने श्रुते सतीति सप्तम्यर्थः । धनार्थितां च बुद्ध्वेति पूर्वेण सम्बन्धः । उहशब्दस्य पूर्ववदत्राप्येवकारोऽर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 अत्रापि विनिग्रहार्थत्वसम्भवे किमित्यानर्थक्यमित्याशङ्क्य तवैवेत्येवकारादेव विनिग्रहसिद्धिरित्याह – एवशब्दस्येति । गार्हस्थ्यार्थिनस्तव कर्मानुष्ठानार्थमिदं धनं तिष्ठतादिति चेन्नेत्याह – न ममेति । शूद्रशब्देन जानश्रुतेः संबोधनमनुचितमिति चोदयति – नन्विति । तस्याशूद्रत्वे हेत्वन्तरमाह – विद्याग्रहणायेति । तस्य श्रुतिद्वारा विद्याधिकारो नास्तीत्यपशूद्राधिकरणे निर्धारितमित्याशयेनाऽऽह – शूद्रस्य चेति । जानश्रुतेः सति क्षत्रियत्वे शूद्रसम्बोधनमयोग्यमित्युपसंहरति – कथमिति । न जातिशूद्रो जानश्रुतिः किंतु क्षत्रियोऽस्मिन्गौणः शूद्रशब्द इत्येकीयमतोपन्यासेन परिहरति – तत्रेति । तेन शुगाविष्टत्वेनासौ जानश्रुतिः शुचा हेतुना रैक्वमाद्रवतीति शूद्रः श्रुत्वा वा हंसवाक्यं रैक्वमाद्रवतीति नैमित्तिकं तत्र शूद्रपदमित्यर्थः । तथाऽपि किमिति शूद्रपदेन राजानमृषिः संबोधयतीत्याशङ्क्याऽऽह – ऋषिरिति । उक्तप्रकारद्वयसमाप्तावितिशब्दः । प्रकारान्तरेण जानश्रुतेः शूद्रत्वं गौणं व्युत्पादयति – शूद्रवद्वेति । न च शुश्रूषया तेन शूद्र इति शेषः । मुख्यं शूद्रत्वं क्षत्तृसंबन्धेन व्यावर्तयति – न त्विति । क्षत्रिये जानश्रुतौ शूद्रशब्दप्रवृत्तौ निमित्तान्तरमाह – अपरे पुनरिति । तत्र गमकं दर्शयति – लिङ्गञ्चेति ।
यदृषेर्मतमधिकधनार्थित्वमिति यावत् । अधिकं षट्शतेभ्यः सकाशादिति शेषः ॥३॥ 【भाष्यम्】 【भाष्यम्】 विद्यादाने तस्या द्वारत्वं तद्दातुश्च वरज्ञानदानतीर्थतां जानन्नुवाचेति सम्बन्धः । धनदातुर्विद्यादानतीर्थत्वे प्रमाणमाह – ब्रह्मचारीति । तस्या द्वारतां विद्यादाने तद्दातुस्तीर्थतां च जानन्नुवाचेत्युक्तमनुवदति – एवं जानन्निति । किमुक्तमित्यपेक्षायामाह – आजहारेति । तत्र वैधर्म्यदृष्टान्तमाह – पूर्ववदिति । अल्पधनहरणानिच्छायां कारणापेक्षायां शूद्रेति सम्बोधनवदित्यर्थः । रैक्वेण ग्रामादिकं गृहीत्वा विद्या जानश्रुतये दत्तेत्यस्मान्प्रति श्रुतिर्ज्ञापयति – ते हैत इति । महावृषेषु महापुण्येष्विति यावत् ॥४ -५॥ इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य द्वितीयः खण्डः ॥ कथं विद्यामुक्तवानित्याशङ्क्याधिदैवतं तदुक्तिप्रकारं दर्शयति – वायुरित्यादिना । प्राणो वाव संवर्ग इति वक्ष्यमाणेनापुनरुक्ततायै वायुं व्याचष्टे – वायुर्बाह्य इति । संवर्जनादित्यस्य व्याख्या संग्रहणादिति । संग्रहणपक्षं समर्थयते – वक्ष्यमाणा इति । किमिति संवर्गत्वं वायोरुपदिश्यते तत्र दृष्टान्तश्रुतिं प्रमाणयति – कृतायेति । संग्रसनाद्वेत्युक्तं पक्षमाकाङ्क्षापूर्वकं व्युत्पादयति – कथमित्यादिना । सूर्याचन्द्रमसोर्वायावपिगमनमाक्षिपति – नन्विति । आप्रलयात्तयोरधिकारपदे स्थित्यङ्गीकारात्स्वरूपावस्थितत्वं द्रष्टव्यम् । सूर्यादेः स्वरूपावस्थानेऽपि वायावप्ययः सम्भवतीति समाधत्ते – नैष दोष इति । अस्तमने सति सूर्यादेरदर्शनप्राप्तेर्वाय्वधीनत्वं व्युत्पादयति – वायुना हीति । सूर्यग्रहणं चन्द्रमसोऽप्युपलक्षणम् । गौणस्तर्हि वायावप्ययः सूर्यादेरित्याशङ्क्य पक्षान्तरमाह – अथवेति । सङ्गतिसमये हि संहरति वेत्यर्थः ॥१ – २॥ कथं प्राणस्य संवर्गत्वमित्याशङ्क्याऽऽह – स पुरुष इति ।
तस्मात्संवर्ग इत्यध्यात्ममिति शेषः ॥३॥ 【भाष्यम्】 【भाष्यम्】 वायुप्राणावधिदैवताध्यात्मभेदेन संवर्गगुणावुक्तावुपसंहरति –
ताविति ॥४॥ 【भाष्यम्】 【भाष्यम्】 अथ हेत्याद्यनन्तरवाक्यं व्याचष्टे – अथैतयोरिति । ब्रह्मविच्छौण्डो ब्रह्मविदां मध्ये शूरमात्मानं मन्यमान इति यावत् । बुद्ध्वा लिङ्गविशेषेणेति शेषः । जिज्ञासमानावित्युक्तमेव व्यनक्ति –
किमयमिति ॥५॥ 【भाष्यम्】 【भाष्यम्】 चतुर इति द्वितीयाबहुवचनदर्शनान्महात्मन इति तादृगेवेत्याह – द्वितीयेति । यद्वा महात्मन इत्यस्य पञ्चम्यादौ चतुर इत्यस्य च समीचीने प्रयोगदर्शनादिह तथा मा भूदिति मत्वाऽऽह – महात्मन इति । अतो हि जगारेति सम्बन्धः । कः शब्दः प्रजापतिविषयो व्याख्यातः । सम्प्रति पक्षान्तरमाह – कः स इति । यस्ताञ्जगार स कः स्यादिति प्रश्नमेके वदन्तीत्यर्थः । अत्तारं प्राणमात्मानं चैकत्वेन पश्यन्ब्रह्मचारी मह्यं भिक्षां यन्न ददतुर्भवन्तौ तत्तस्मै देवायैव न ददतुरित्यज्ञत्वमेव तयोर्दर्शयन्नाह –
यस्मा इति ॥६॥ 【भाष्यम्】 【भाष्यम्】 दर्शनमेव प्रश्नद्वारा विशदयति – कथमित्यादिना । अधिदैवतमग्न्यादीनां वायुरूपेण जनितेति सम्बन्धः । तस्य प्राथमिकं [कत्वं] कृत्वा दर्शयति – आत्मनीति । अग्न्यादीन्प्रलयकाले देवः स्वात्मनि वायुरूपेण ग्रसित्वा पुनरुत्पत्त्यवस्थायामुत्पादयितेति योजना । अध्यात्मं वागादीनपि स्वापावस्थायां स्वात्मनि प्राणरूपे संहृत्य पुनः प्रबोधावस्थायां तेषामुत्पादयिता देवः प्राणरूपेणेत्याह – अध्यात्मं चेति । देवानामग्न्यादीनां प्रजानां वागादीनां च जनितेत्युक्तं सम्प्रति व्याख्यान्तरमाह – अथ वेति । अभग्नदंष्ट्रः सर्वसंहर्तुरपि च काचन ग्लानिर्भवतीत्यर्थः । प्रजापतेर्महिम्नोऽतिप्रमाणत्वं प्रकटयति – यस्मादिति । इतिशब्दात्परस्ताद्यच्छब्दस्य सम्बन्धः तदर्थश्च यस्मादित्युक्तस्तस्मात्प्रजापतेर्महिमानमतिप्रमाणमाहुरिति पूर्वेण सम्बन्धः । वै वयमित्यादिभागं पदच्छेदपूर्वकमादाय व्याचष्टे – वयमित्यादिना । क्रियापदेन वयमित्यस्य सम्बन्धमुक्तमुपपादयति – वयमिति । ब्रह्मचारिन्निदं वयमा समन्तादुपास्महे ब्रह्मेत्युक्त्वा प्रकारान्तरेण पदच्छेदपूर्वकं व्याख्यानान्तरमाह – अन्ये नेति । शौनकस्याभिप्रतारिणश्च ज्ञानातिशयं दर्शयित्वा यतिश्च ब्रह्मचारी चेत्यादिस्मृतिमनुसृत्याऽऽह –
दत्तेति ॥७॥ 【भाष्यम्】 【भाष्यम्】 आख्यायिकाद्वारा प्रकृतायां संवर्गविद्यायामात्मा देवनामित्यादिगुणजातमुपदिश्य गुणान्तरमुपदेष्टुमनन्तरवाक्यमवतारयति – ते वा इति । तद्व्याचष्टे – ये ग्रस्यन्त इति । त एते वागादिभ्यः सकाशादन्ये पञ्चेति सम्बन्धः । अधिदैवतमग्न्यादीन्वायुसहितान्पञ्चोक्त्वा तेनैव प्रकारेणाध्यात्ममपि तेभ्यः सकाशादन्ये प्राणसहिता वागादयः पञ्च सन्तीत्याह – तथेति । अवान्तरसंख्याविनिवेशमुक्त्वा तत्रैव महासंख्यानिवेशं दर्शयति – ते सर्व इति । दशसंख्यासम्बन्धात्तेषां संख्ययेति । कृतायोपलक्षितं द्यूतं कृतमित्युच्यते । तत्र दशसंख्यावत्त्वस्य वक्तव्यत्वादिति द्रष्टव्यम् । यदुक्तमग्न्यादयो वागादयश्च दश सन्तस्तत्कृतं भवतीति तदुपपादयति – चतुरङ्क इत्यादिना । एकस्तावदयो द्यूते चतुरङ्को दृश्यते तद्वदग्न्यादयो वागादयश्च ग्रस्यमानाश्चत्वारो भवन्ति । यथा च द्यूते त्रेतानामकोऽयस्त्र्यङ्को गृह्यते तथाऽग्न्यादयो वागादयश्चैकैकन्यूनास्त्रयः । तथा च द्वापरनामायो द्व्यङ्को जायते तद्वद्वागादिष्वग्न्यादिषु च द्वौ द्वौ वर्जयित्वा द्वौ द्वौ भवतः । तथा च तत्र कलिसंज्ञायो भवत्येकाङ्कः योऽग्न्यादीनां ग्रसिता वायुर्वागादीनां ग्रसिता प्राणश्चैकस्तेभ्यो ग्रस्यमानेभ्योऽन्य इत्येवं ग्रसितृत्वेन ग्रस्यमानत्वेन च दश सन्तस्ते पूर्वोक्तं कृतं भवतीत्यर्थः । द्यूतस्य सर्वान्नात्तृत्वप्रसिद्ध्या दशसंख्यावतां देवानां कृतत्वसम्पादनेनात्तृत्वं सम्पादितम् । इदानीं दशसंख्यावत्त्वेनैव विराट्त्वसम्पादनेन तेषामन्नत्वं सम्पादयति – यत इति । अग्न्यादिषु वागादिषु च मिलितेषु दशसंख्यावत्त्वेऽपि कथमनेन तद्वत्त्वं तथा च कथं संख्यासामान्यं तेषामन्नसंख्यासामान्यसम्पादनमित्याशङ्क्याऽऽह – दशाक्षरेति । विराड्दशसंख्यावती प्रसिद्धा सा चान्नमिति श्रूयते, तथा च यथोक्तेष्वग्न्यादिषु वागादिषु च समुदितेषु संख्यासामान्याद्विराट्त्वं सम्पाद्यान्नत्वसम्पादनं सुशकमित्याह – अत इति । तेषु कृतत्वेनान्न(त्तृ)त्वं सम्पादितमुपसंहरति – तत एवेति । द्यूतस्यायचतुष्टयविशिष्टत्वेन कृतोपलक्षितेन तत्र दशसंख्यायाः सत्त्वात्तत एव संख्यासामान्यादग्न्यादयश्च कृतं भवति ततश्च तेषामत्तृत्वमित्युक्तमित्यर्थः । सम्प्रति प्रकृतेष्वग्न्यादिषु विराट्त्वमन्नत्वमिति त्रयमुपसंहरति – सैषेति । विराजो विधेयत्वात्तस्याश्च स्त्रीलिङ्गतया सैषेति विधेयलिङ्गभजनम् । त एते प्रकृता देवा विराडित्यवगन्तव्याः । सा च दशदेवतात्मिका दशसंख्यावती भवत्यन्नमिति देवतानामन्नत्वसिद्धिः । अन्नादीत्यस्य विराजा सम्बन्धादन्नादिनीति व्याख्यानम् । ततश्च देवतात्मिका विराट्कृतत्वेनान्नादिनीति तदात्मकानामग्न्यादीनामप्यत्तृत्वसिद्धिरित्यर्थः । विराट्त्वेनान्नत्वं कृतत्वेनात्तृत्वं चेति सम्पत्तिद्वयमग्न्यादौ दर्शितमुपसंहरति – कृते हीति । कृतोपलक्षिते द्यूते दशसंख्याऽन्तर्भूता प्रसिद्धा । सा चाग्न्यादौ दर्शिता । तथा च संख्यासामान्याद्द्यूतगतमत्तृत्वमग्न्यादिषु सम्पाद्यते तेनेदं दशकमन्नादीत्युच्यते विराड् वेदे दशसंख्यावतीत्युक्तम् । सा चान्नं , विराडन्नमित्युक्तत्वात् । ततश्च विराट्सम्पत्त्या भवति प्रकृतं दशकमन्नमित्यर्थः । सगुणं संवर्गदर्शनमुक्त्वा तत्फलं वक्तुं विद्वत्स्वरूपं सङ्गिरते – तथेति । यथाऽग्न्यादीनां विराट्त्वेनान्नत्वं कृतत्वेन चान्नादत्वं तथा वायुमग्न्याद्यात्मकं प्राणं च वागाद्यात्मकमेकीकृत्याऽऽत्मत्वेन विद्वान्दशदेवतास्वरूपभूतः सन्दशसंख्याया विराट्त्वेनान्नं कृतशब्दितयुगं तद्गतदशसंख्यावच्छिन्नतया कृतत्वेनान्नादी भवतीत्यर्थः । फलोक्त्युपयोगित्वेनार्थान्तरमाह – तयेति । कृतोपलक्षितद्यूतस्थसंख्यावच्छिन्नत्वेनावस्थितयाऽऽन्नत्वेनान्नादित्वेन व्यवस्थितया सर्वमिदं जगद्दशसु दिक्षु संस्थितं दृष्टमुपलब्धं भवति । न हि देवतादशकं हित्वा जगन्नाम किञ्चिदस्ति । तथा च दृष्टे देवतादशके दृष्टमेव सर्वं जगद्भवेदित्यर्थः । भूमिकामेवं कृत्वा फलं दर्शयति – एवंविद इति ।
वायुं प्राणमत्तारमात्मत्वेन पश्यतः कृतसंख्यावच्छिन्नतया स्थितस्य दशदेवताभूतस्य सर्वं जगद्दृष्टं भवति । दृष्टदेवतातिरिक्तस्य जगतोऽभावादित्यर्थः । यो यथोक्तदर्शी प्राणो भूत्वा सर्वत्रान्नादश्च भवतीति फलान्तरम् ॥८॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य तृतीयः खण्डः ॥ पूर्वेण सम्बन्धं दर्शयितुमुत्तरस्य तात्पर्यमाह – सर्वमिति । एकीकृत्य कारणरूपेणैक्यमादायेत्यर्थः । तर्हि तस्मिन्ब्रह्मदृष्टिरेव विधीयतां किमित्याख्यायिका प्रणीयते तत्राऽऽह – श्रद्धातपसोरिति । ब्रह्मचर्यवासस्योद्देश्यं फलं दर्शयति – स्वाध्यायेति । आचार्यो हि माणवकमुपनयते विज्ञातकुलगोत्रमेवेति मन्वानः पृच्छति –
किङ्गोत्रोऽहमिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 अतिथ्यभ्यागताद्यधिकृत्य परिचर्याजातं बहु चरन्ती भर्तृगृहे यतोऽहं स्थिता तेन परिचरन्ती सती परिचरणचित्ततया गोत्रादीन्नापृच्छम् । तथा च तत्स्मरणे मनो मम नाऽऽसीदिति । गोत्रादिप्रश्नाभावे हेत्वन्तरमाह – यौवन इति । यद्यपि तस्यामवस्थायां लज्जया गोत्रादि नाप्राक्षीस्तथाऽपि कालान्तरे किमिति पितरं न पृष्टवतीत्याशङ्क्याऽऽह – तदैवेति । तथाऽपि किमित्यन्यमभिज्ञं नाप्राक्षीरित्याशङ्क्याऽऽह – अत इति । प्रथमं लज्जया पितरं प्रति न प्रश्नः पुनश्च तस्योपरतत्वात्पश्चान्न दुःखबाहुल्यादन्यं प्रति प्रश्न इति स्थिते प्रश्नाभाव फलमाह – साऽहमिति । किं तर्हि तव ज्ञानमस्ति तदाह – जबाला त्विति । एवं स्थिते किमाचार्यं प्रति मया वक्तव्यमित्याशङ्क्याऽऽह – स त्वमिति । नापृष्टः कस्यचिद्ब्रूयादिति न्यायं सूचयति –
यदीति ॥२॥ 【भाष्यम्】 【भाष्यम्】 मातृवचनश्रवणानन्तरं किं कृतवानित्यपेक्षायामाह – स हेति । आचार्यसमीपे ब्रह्मचर्यवासः शिष्यभावादृते न सिद्ध्यतीत्यभिमन्वानायोक्तम् – अत इति । किमनया काकदन्तपरीक्षया भवता त्वहमुपनेतव्योऽस्मीत्याशङ्क्याऽऽह – विज्ञातेति । मातरं पृष्ट्वा विज्ञायाऽऽगम्यतामित्याशङ्क्याऽऽह – किं त्वित्यादिना ॥३ – ४॥ ब्राह्मणस्य वाऽनृतं विना कथमार्जसंयुक्तवचनमित्याशङ्क्याऽऽह – ऋजवो हीति । क्षत्रियादीनामपि केषाञ्चिदार्जवमस्तीत्याशङ्क्याऽऽह – नेतर इति । ऋजुवचनत्वेन ब्राह्मणत्वं प्रतिजानीते – यस्मादिति । उपनीयाध्याप्य चेति शेषः । तस्यानुग्रहार्थं शुश्रूषामादिष्टवानित्याह – कृशानामिति । आचार्यनियोगश्च शिष्येण सफलीकर्तव्य इत्याशयेनाऽऽह – इत्युक्त इति ।
सम्पन्ना बभूवुस्तदैनमृषभोऽभ्युक्तवानिति सम्बन्धः ॥५॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य चतुर्थः खण्डः ॥ कथमृषभः सत्यकामं प्रति वक्तुमलं न हि लोके बलीवर्दस्य मनुष्यं प्रति वचनं दृष्टमत आह – तमेतमिति । सत्यकामं श्रद्धादिसम्पन्नमेनमथ तस्यामवस्थायामृषभोऽनुग्रहायाभ्युवादेति सम्बन्धः । ऋषभस्य स्वरूपमाह – वायुदेवतेति । अरण्ये तत्र तत्र गाश्चारयतः श्रद्धापूर्वकं तपश्चरतो वायुदेवता कथं तुष्टेत्याशङ्क्याऽऽह –
दिक्सम्बन्धिनीति ॥१॥ 【भाष्यम्】 【भाष्यम्】 वाक्यान्तरं च मदीयं श्रूयतामित्याह – किञ्चेति । वायुदेवता दिक्सम्बन्धिनीत्युक्तत्वाद्दिग्गोचरमेव दर्शनमुवाचेत्याह – प्राचीति । ब्रह्मणः पादस्येति व्यधिकरणे षष्ठ्यौ । एकपादेव ब्रह्मेति विभ्रमं व्युदस्यति –
तथेति ॥२॥ 【भाष्यम्】 【भाष्यम्】 प्रथमपादोपासकस्य दृष्टमदृष्टं च फलमाह – स य इत्यादिना । कस्येदं फलमित्युक्ते पूर्वोक्तमेवोपासकमनुवदति –
य एतमिति ॥३॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य पञ्चमः खण्डः ॥ अवशिष्टं पादत्रयं कथं द्रष्टव्यमिति बुभुत्समानं सत्यकामं प्रत्याह – सोऽग्निरिति । अविदुषो विद्याभिमाननिमित्तकर्मत्यागो न युक्त इति मत्वाऽऽह – सत्यकाम इति । अभि सायं बभूवुः सायंकालं प्राप्ता इति यावत् । तस्य ब्रह्मचर्यमव्यावृत्तमिति सूचयति – तत्रेति । उपोपविवेश तत्रोपशब्दाभ्यां गवामग्नेश्च सामीप्ये निवेशनमस्योच्यते । अर्थिने विद्या वक्तव्येति सूचयति –
ऋषभेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 आत्मगोचरमग्नेश्चास्य विद्यमानमित्यर्थः । यद्वा पृथिव्यादिरूपेणाग्नेरवस्थानादग्निविषयमित्यर्थः । यथोक्तपादे गुणविशेषं निर्दिशति –
एष वा इति ॥३॥ 【भाष्यम्】 【भाष्यम्】 द्वितीयपादोपासकस्य द्विविधं फलं दर्शयति – स य इति ।
यथोक्तं चतुष्कलमिति यावत् । तथैवोपास्यगुणानुरोधेनेत्यर्थः । तद्गुणस्तेन गुणेन गुणवाननन्तवानविच्छिन्नसन्तानो भवतीत्यर्थः । अनन्तवतो लोकानक्षयानित्येतत् ॥४॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य षष्ठः खण्डः ॥ अवशिष्टपादद्वयं कथं ज्ञातव्यमिति जिज्ञासमानं प्रत्याह – सोऽग्निरिति । पक्षिविशेषविषयत्वं हंसशब्दस्य व्यावर्तयति – आदित्य इति । कथं तत्र हंसशब्दस्य प्रवृत्तिरित्याशङ्क्याऽऽह – शौक्ल्यादिति ॥१ – २॥ आदित्योऽपि स्वविषयमेव दर्शनमुक्तवानित्याह – अग्निरिति । तृतीये पादेऽपि गुणविशेषमुपदिशति – एष वा इति । यतो हेतोर्ज्योतिर्विषयमेव दर्शनमुक्तवानत एव तस्याऽऽदित्यत्वं प्रतिभातीत्यादित्यत्वे हंसस्य गमकान्तरमाह – ज्योतिर्विषयमेवेति । य एतमेवं विद्वानित्याद्युत्तरम् ॥३- ४॥ इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य सप्तमः खण्डः ॥ अवशिष्टं पादान्तरं तर्हि कथं ज्ञायतामित्याशङ्क्याऽऽह – हंसोऽपीति । मद्गुशब्दस्य वाच्यमर्थमन्वाचष्टे - मद्गुरिति । तस्य कथं सत्यकामं प्रत्युपदेष्टृत्वमत आह –
स चेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 तं मद्गुरुपनिपत्येत्यत्र मद्गुशब्दार्थं पूर्वोक्तमेव स्मारयति – मद्गुः प्राण इति । प्राणः कलेत्याद्यायतनवानित्येवमिति यथोक्तगुणं समर्थयते – आयतनमित्यादिना । तद्यस्मिन्पादे वर्तते सोऽयमायतनवान्नाम पाद इति द्रष्टव्यमिति योजना ॥२-३॥ द्विविधं विद्याफलमभिधत्ते – तं पादमिति ।
तथैवाऽऽयतनवत्त्वगुणाक्रान्तत्वेनैवेत्यर्थः ॥४॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्याष्टमः खण्डः ॥ ब्रह्मविदिव भासीत्युक्ते कीदृशी ब्रह्मविदित्यपेक्षायामाह – प्रसन्नेन्द्रिय इति । सत्यकामस्यापि तल्लक्षणवत्त्वमतःशब्दार्थः । मां त्वदाचार्यमवज्ञाय मच्छिष्यं त्वां कोऽन्यो मनुष्यो मच्छापादभीतः शिष्यत्वेनाऽऽदायानुशासनं कृतवान्यदनुशासनात्ते ब्रह्मविद्या जातेति साक्षेपं पृच्छति – कस्त्वामिति । मनुष्येभ्य सकाशादन्ये मामनुशिष्टवन्त इति सामान्यप्रतिज्ञां विभजते – देवता इति । देवतानामेवोपदेष्टृत्वं व्यतिरेकद्वारा विशदयति – कोऽन्य इति । प्रतिज्ञां निगमयति – अत इति । मया तर्हीदानीं न किञ्चिदस्ति तव कर्तव्यमित्याशङ्कां वारयति –
भगवानिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इतश्च भगवानेव ब्रवीतु मे विद्यामित्याह – किञ्चेति । तदेव कारणं दर्शयति – श्रुतमिति । अस्मिन्नर्थं आचार्यादेव विद्या श्रौतव्यैवेत्येवंलक्षणे । श्रुतमेव विशदयति – आचार्यादिति । विदिता प्राप्तेति यावत् । आचार्याधीना धीरेव फलवतीत्यतःशब्दार्थः । विद्यान्तरमाचार्येणोक्तमिति शङ्कामेवकारेण वारयति । दैवतैराचार्येण च सत्यकामायोक्तां विद्यामस्मान्प्रति श्रुतिर्ज्ञापयति – अत्रेति ।
न विगतं किन्तु पूर्वेण विद्या वाय्वादिभिराचार्येण चोपदिष्टेति शेषः । तत्रापि पादचतुष्टयानुध्यानसमुच्चितमेकमेव विज्ञानं तत्फलं च संहृत्यैकविज्ञानफलत्वेन परिणेयमेकैकपादोपासनस्य कृतार्थत्वाहेतुत्वादित्याचार्योपदेशस्यैव सार्थकत्वमिति द्रष्टव्यम् ॥३॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य नवमः खण्डः ॥ सप्रपञ्चब्रह्मोपासनमुक्त्वा कार्यब्रह्मोपासनमुच्चितं कारणब्रह्मोपासनं वक्तुं खण्डान्तरमवतारयति – पुनरिति । न केवलं ब्रह्मविद्याशेषत्वादित्यर्थः । पूर्ववदिति ।
यथा पूर्वस्मिन्खण्डे श्रद्धातपसोर्ब्रह्मोपासनाङ्गत्वप्रदर्शनायाऽऽख्यायिकेत्युक्तं तद्वदित्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 तप्त इति । भवदपेक्षितां शुश्रूषां विदधानो बहुकायक्लेशं कृतवानित्यर्थः । विवक्षितशुश्रूषाकरणमेव विशदयति – कुशलमिति । किमिति भवत्या मां ब्रूहीदमिदानीमुच्यते न हि मत्तोऽन्यत्र त्वदनुरागो युक्तिमानित्याशङ्क्य भगवति स्नेहादित्याह – भगवानिति । अग्नीन्परिचरमाणब्रह्मचारिणोऽसमावर्तनमतःशब्दार्थः । गर्हापरिहारो द्वितीयेनातःशब्देन परामृश्यते । आचार्यशुश्रूषापरं शिष्यं देवतैवानुगृह्णातीति ज्ञापयितुमारभते –
तस्मा इति ॥२॥ 【भाष्यम्】 【भाष्यम्】 आचार्यभिप्रायमजानतः शिष्यस्य दुःखप्राप्तिं दर्शयति – स हेति । अतिगमनं वस्तुस्वरूपमतीत्य विषयेषु प्रवेश इति यावत् । नानात्यया इति कामानां विशेषणम् । कथं तेन व्याधयो विशेष्यन्ते तत्राऽऽह – कर्तव्येति ।
कामा एव व्याधय इत्यर्थः ॥३॥ 【भाष्यम्】 【भाष्यम्】 आचार्यप्रवासात्तज्जायाया ब्रह्मचारिण्यनुग्रहात्तस्य चानशनाध्यवसायादनन्तरमित्यथशब्दार्थः । हन्तेति यद्यर्थः, अस्मद्भक्तं ब्रह्मचारिणमुपेक्ष्य देशान्तरं गतस्तर्हीति यावत् । अथ पुनरेत्याऽऽचार्यो ब्रह्मविद्यामस्मै विवक्षितां च वक्ष्यति किं त्वरयेत्याशङ्क्याऽऽह – दुःखितायेति । ब्रह्मविद्यासाधनसम्पत्तिमस्य दर्शयति –
तपस्विन इति ॥४॥ 【भाष्यम्】 【भाष्यम्】 प्राणो ब्रह्मेति भवद्भिरुक्तं तदहं विजानामीति सम्बन्धः । तत्र हेतुमाह – प्रसिद्धेति । प्राणपदस्य प्रसिद्धार्थत्वमेव समर्थयते – यस्मिन्निति । एवंभूतः प्राणशब्द इति शेषः । प्राणशब्दस्य प्रसिद्धार्थत्वेऽपि कुतो ब्रह्मत्वं तस्मिन्प्रसिद्धमित्याशङ्क्याऽऽह – अत इति । कार्यकरणसंघाते नष्टेऽग्रहणादित्यतःशब्दार्थः । स्वकीयज्ञानसमुच्चयार्थश्चकारः । विजानाम्यहमित्युक्तमुपसंहरति – तेनेति । स्वेनाज्ञातं ब्रह्मचारी दर्शयति – कं चेति । तस्याज्ञानमाक्षिपति – नन्विति । प्राणशब्दस्य वायुविशेषविषयत्वेन प्रसिद्धार्थत्ववदित्यपेरर्थः । ब्रह्मचारिणोऽभिप्रायं दर्शयन्नुत्तरमाह – नूनमिति । ननु विरुद्धार्थत्वादग्नीनां वाक्यं भवत्वप्रमाणमित्याशङ्क्याऽऽह – कथं चेति । विरुद्धार्थत्वप्रतीतेराप्तवाक्यस्य चाप्रामाण्यायोगाद्युक्तं ब्रह्मचारिणोऽज्ञानमिति निगमयति – अत इति । स्वस्य विशेषणत्वं कस्य च विशेष्यत्वमित्यङ्गीकारे फलं कथयति – इत्येवमिति । कस्य विशेषणत्वं स्वस्य विशेष्यत्वमित्येवमपि विशेषणविशेष्यत्वमवगन्तव्यमित्याह – यदेवेति । यथोक्तविशेषणविशेष्यभावे फलमाह – एवं चेति । यद्वावेत्यादिवाक्यार्थमुक्तमेव प्रतिपत्तिसौकर्यार्थं संक्षिपति – सुखमिति । इतरेतरविशेषणविशेष्यत्वमाक्षिपति – नन्विति । अन्यतरदेवेत्यत्र यदेव खमित्येतदुच्यते यद्वाव कं तदेव खमित्यत्र यद्वाव कमितीतरद्विशेषणमतिरिक्तमधिकमकिंचित्करमिति योजना । यदि तु यदेव खं तदेव कमिति खेन कं विशेष्यते, तदा यदेव खमित्येतदेव विशेषणमस्तु । यद्वाव कमिति पूर्वविशेषणमकिंचित्करमित्याह – यदेवेति । वाशब्दोऽतिरिक्तमित्येतदनुकर्षणार्थः । विशेषणयोरर्थवत्त्वं पूर्वोक्तं सिद्धान्ती स्मारयति – नन्विति । तथा च सुखस्य लौकिकसुखाद्व्यावृत्त्यर्थं यदेव खमिति विशेषणमाकाशस्य च लौकिकाकाशाद्व्यावृत्त्यर्थं यद्वाव कमिति विशेषणमर्थवदिति शेषः । अन्यतरविशेषणवशादपि यथोक्तव्यावृत्तिसिद्धेरकिंचित्करं विशेषणद्वयमिति शङ्कते – सुखेनेति । यदा सुखेनाऽऽकाशं विशेष्यते तदा भूताकाशादाकाशं व्यावर्तितं भवति सुखस्य तद्विशेषणत्वायोगात् । सुखमपि लौकिकसुखाद्व्यवच्छिद्यते । लौकिकसुखस्याऽऽकाशविशेषणत्वानुपपत्तेः । अतः सुखेनाऽऽकाशस्याऽऽकाशेन सुखस्य वा विशेषितत्वसामर्थ्यात्प्राप्तैव सुखाकाशयोर्लौकिकसुखाकाशाभ्यां व्यावृत्तिरित्यन्यतरदेव विशेषणमर्थवदित्यर्थः । किमन्यतरस्यैव विशेषणस्य व्यावर्तकत्वमित्यापाद्यते किं वा तस्यैवार्थवत्त्वमिति तत्राऽऽद्यमङ्गीकरोति – सत्यमेवमिति । द्वितीयं दूषयति – न त्वित्यादिना । विशिष्टस्यैव ध्येयत्वे विशेषणस्यापि ध्येयत्वं सिद्ध्यतीति चेन्नैवं दण्डी प्रैषानन्वाहेतिवद्विशेषणस्यान्यथासिद्धत्वादित्याह – विशेषणेति । द्वयोरपि विशेषणयोरर्थवत्त्वं निगमयति – अत इति । विधान्तरेण ध्येयत्वासम्भवादित्यतःशब्दार्थः । खमिव सुखेनेत्यपेरर्थः । इतश्च सुखाकाशयोरितरेतरविशेषणविशेष्यत्वमेषितव्यमित्याह – कुतश्चेति । कुतःशब्दोपात्तमितःशब्दार्थं स्फुटयति – कंशब्दस्येति । खं ब्रह्मेति खंशब्दस्य ब्रह्मशब्दसम्बन्धवदित्यपेरर्थः । गुणगुणिनोरुभयोरपि ध्येयत्वसिद्ध्यर्थमितरेतरविशेषणविशेष्यत्वं कंशब्दस्य खंशब्दस्य च प्रत्येकं ब्रह्मशब्दसम्बन्धादपि स्वीकर्तव्यमित्युक्तं व्यतिरेकद्वारा साधयति – यदि हीति । उक्तरीत्या द्वयोरपि ध्येयत्वमतःशब्दार्थः । ब्रह्मचारिणो मोहो नामान्योन्यविशेषणविशेष्यत्वाग्रहणादाकाशस्यैव गुणिनो ध्येयत्वं न तु सुखस्य गुणस्येति विभ्रमः । प्राणं चेत्यादि वाक्यं नाग्नीनां न ब्रह्मचारिणः । तथा च कथमुपाख्यायिकायामिदं निर्वहतीत्याशङ्क्याऽऽह – तदेतदिति । आकाशस्य प्राणसम्बन्धित्वं कया विधयेत्यपेक्षायामाह – आश्रयत्वेनेति ।
कार्यब्रह्मोपासनसमुच्चितं कारणब्रह्मोपासनमुपसंहर्तुमितिशब्दः ॥५॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य दशमः खण्डः ॥ प्रधानविद्यामुपदिश्याङ्गविद्याविधानायोपक्रमते – संभूयेति । अनन्तरं प्रधानविद्योपदेशादिति शेषः । अग्निविद्यां वक्तुमारब्धानामग्नीनां मध्ये प्रथममिति श्रुतावथशब्दार्थः । पृथिव्यादिचतुष्टयमनूद्याग्न्यादित्ययोरवान्तरभेदं दर्शयति – तत्रेति । एवमग्न्यादित्ययोस्तादात्म्यमितीतिशब्दार्थः । य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मीत्येतावतैव तयोस्तादात्म्यसिद्धेः स एवाहमस्मीति पुनरुक्तिरनर्थिकेत्याशङ्क्याऽऽह – पुनरिति । भोज्यत्वं लक्षणं स्वभावो ययोस्तयोर्गार्हपत्येन यथा सम्बन्धस्तथा गार्हपत्यादित्ययोर्न सम्बन्धः किन्तु तादात्म्यलक्षण एवेत्यत्र हेतुमाह – अत्तृत्वेति । पृथिव्यादावपि तादात्म्यं किं न स्यादित्याशङ्क्याऽऽह – पृथिवीति ।
आभ्यामग्न्यादित्याभ्यामिति यावत् । स एवाहमस्मीति परावृत्त्या पुनर्वचनं यथोक्तार्थविशेषसिद्ध्यर्थमिति भावः ॥१॥ 【भाष्यम्】 【भाष्यम्】 उक्ताया विद्याया गार्हपत्यविषयाया द्विविधं फलं दर्शयति – स यः कश्चिदित्यादिना । कस्यैतत्फलमित्यपेक्षायामुक्तमेव संक्षिपति –
य एतमेवमिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्यैकादशः खण्डः ॥ गार्हपत्योपदेशानन्तर्यमथशब्दार्थः । अबादिचतुष्टयमनूद्य दक्षिणाग्नौ चन्द्रे च विशेषं दर्शयति – तत्रेति । अन्वाहार्यपचनचन्द्रमसोस्तादात्म्येनाबन्नेन नक्षत्राणां च ताभ्यां भोज्यत्वेन सम्बन्ध इति वक्तुं पुनर्वचनमित्याह – स एवेति । कथं पुनरन्वाहार्यपचनचन्द्रमसोस्तादात्म्यं तत्राऽऽह – अन्नसम्बन्धादिति । प्रसिद्धं हि दर्शपूर्णमासयोरन्वाहार्यपचने हविः श्रवणम् । ते चन्द्रं प्राप्यान्नं भवन्तीत्यादौ चन्द्रमसि प्रसिद्धोऽन्नसम्बन्धः । तस्मात्तयोस्तादात्म्यमित्यर्थः । तयोरेकत्वे हेत्वन्तरमाह – ज्योतिष्ट्वेति । तत्रैव हेत्वन्तरमाह – दक्षिणेति । अन्वाहार्यपचनो हि दक्षिणाग्निरुच्यते । चन्द्रमाश्च दक्षिणेन पथा प्राप्यमाणो दक्षिणस्यां दिशि भवतीति गम्यते । उत्तरदिगधिष्ठातुरपि तस्य तत्सम्बन्धानिवारणात्तद्युक्तं तयोरैक्यमित्यर्थः । अपां नक्षत्राणां च चन्द्रवदन्वाहार्यपचनेन तादात्म्यमाशङ्क्याऽऽह – अपामिति । पूर्ववत्पृथिव्यन्नयोस्तयोर्गार्हपत्यादित्याभ्यामन्नत्वेन सम्बन्धवदिति यावत् । सम्बन्धोऽन्वाहार्यपचनचन्द्रमोभ्यामिति शेषः । कथं नक्षत्राणामन्नत्वं तत्राऽऽह – नक्षत्राणामिति । कथं पुनरपामन्नत्वं तदाह – अपामिति । दक्षिणाग्नेर्दक्षिणाग्निं प्रतीति यावत् । पृथिव्या गार्हपत्याग्निं प्रत्यन्नत्ववदित्युदाहरणार्थः । स य एतमेवं विद्वानित्याद्यन्यदित्युक्तम् ॥१ -२॥ इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य द्वादशः खण्डः ॥ गार्हपत्यस्य दक्षिणाग्नेश्चोपासनानन्तर्यमथशब्दार्थः । तत्रावान्तरभेदं दर्शयति – य एष इति । सोऽहमस्मीत्याद्यन्यत्समानमिति सम्बन्धः । यथा पूर्वं ज्योतिष्ट्वाविशेषाद् गार्हपत्यादित्ययोरन्वाहार्यपचनचन्द्रमसोश्च साम्यमुक्तं तथा ज्योतिष्ट्वसामान्याद्विद्युदाहवनीययोस्तादात्म्यमेष्टव्यमित्याह – पूर्ववदिति । कथं तर्हि ताभ्यां दिवाकाशयोः सम्बन्धस्तत्राऽऽह – दिवा(द्व्या)काशयोस्त्विति । आहवनीयस्य फलत्वाद्दिवो विषयत्वं तत्र होमादिद्वारा निष्पन्नापूर्वस्य द्युलोकफलत्वाभ्युपगमद्विद्युतस्त्वाकाशाश्रयत्वं प्रसिद्धमतो विद्युदाहवनीययोर्भोग्यत्वेनैव दिवा(द्व्या)काशयोः सम्बन्ध इत्यर्थः । स य एतमेवमित्याद्यन्यदित्युक्तम् ॥१-२॥ इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य त्रयोदशः खण्डः ॥ अग्नीनां मिथो विसंवादं व्यावर्तयति – ते पुनरिति । तथाऽप्यात्मविद्या श्रोतव्येत्याशङ्क्याऽऽह – आत्मविद्येति । कथमाचार्योपदेशमन्तरेण भगवदुपदेशवशादेव मे विद्या फलवत्याचार्याद्धैव विद्या विदिता साधिष्ठमित्यादि हि प्रागुक्तमत आह –
आचार्यस्त्विति ॥१॥ 【भाष्यम्】 【भाष्यम्】 अपनिहनुत इवेत्यत्रेवशब्दतात्पर्यं दर्शयति – न चेति । उक्तमभिप्रायमाकाङ्क्षापूर्वकं विवृणोति – कथमित्यादिना । काक्वा स्वरभङ्गेन भीतः सन्नुक्तवानस्फुटमिति यावत् । भीतिं शिष्यस्यापनयन्नाचार्यो ब्रूते – किं नु सोम्येति । आचार्यवाक्यस्थमितिशब्दमनूद्य व्याचष्टे – इत्येवमिति । पृष्टः सन्निति पूर्वेण सम्बन्धः । यस्मादग्निभिरुक्तमाचार्याय प्रतीकद्वारा शिष्यो निवेदितवांस्तस्मादाचार्यः प्राप्तः सावकाशमित्याह – यत इति । कं ब्रह्म खं ब्रह्मेत्यादिना ब्रह्मापि तैरुक्तमित्याशङ्क्याऽऽह – न ब्रह्मेति । कथं तर्हि साकल्येन ब्रह्म ज्ञातव्यमित्यत आह – अहं त्विति । ब्रह्मज्ञाने किं स्यादित्याशङ्क्याऽऽह – शृण्विति ॥२ – ३॥ इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य चतुर्दशः खण्डः ॥ कथमुपसन्नायाऽचार्यो ब्रह्मचारिणे ब्रह्मविद्यामुक्तवानित्यत आह – य एष इति । अक्षिस्थाने तदुपलक्षितो द्रष्टा य एष पुरुषो दृश्यत इति सम्बन्धः । नासौ सर्वेषां छायात्मातिरिक्तो दृष्टिगोचरतामाचरतीत्याशङ्क्याधिकारिणो विशिनष्टि – निवृत्तेति । निवृत्तानि विषयेभ्यो विमुखानि चक्षूंषि बाह्यानि करणानि येषां तैरिति यावत् । बाह्यकरणानां स्ववशत्वाधीनं विशेषणान्तरमाधत्ते – ब्रह्मचर्यादीति । मनसो विषयपारवश्यराहित्ये विशेषणान्तरमाह – शान्तैरिति । तेषां निवृत्तचक्षुष्ट्वं हेतुमाह – विवेकिभिरिति । पुरुषोऽक्षिणि द्रष्टेत्यत्र बृहदारण्यकश्रुतिं प्रमाणयति – चक्षुष इति । आचार्येणापूर्वविद्योपदेशादग्नीनामुक्तिर्मिथ्या प्राप्तेति शङ्कते – नन्विति । अग्निवचनस्य गत्यन्तरमाह – भविष्यदिति । नाग्नीनामुक्तिर्मृषा नापि तेषां भविष्यद्विषयाज्ञानमिति दूषयति – नैष दोष इति । यत्सुखगुणकमाकाशमुपास्यमग्निभिरुपदिष्टं तस्यैव कारणब्रह्मणो द्रष्टृरूपस्याक्षिणि दृश्यत इत्यनुवादो गतिव्याख्यानायाऽऽचार्येण क्रियते तन्नास्ति दोषद्वयमित्यर्थः । अक्षिणि दृश्यत इति प्रयोगादाचार्येण च्छायात्मा विवक्षित इत्याशङ्क्याऽऽह – एष इति । इतश्च नायं पुरुषश्छायात्मेत्यनन्तरवाक्यमवतार्य व्याकरोति – एतदित्यादिना । इतिशब्दो यथोक्तगुणैरुपास्यः पुरुषो न च्छायात्मा भवितुमर्हतीत्यर्थः । असङ्गत्वाच्च नायं छायात्मेत्याह – किञ्चेति । माहात्म्यं स्थानद्वारेणोच्यत इति शेषः । किमेतावता पुरुषस्याऽऽयातमित्याशङ्क्याऽऽह –
स्थानस्यापीति ॥१॥ 【भाष्यम्】 【भाष्यम्】 तस्यैवोपास्यत्वार्थं गुणान्तरं दर्शयति – एतमिति । पुरुषस्य संयद्वामत्वं ब्रह्मविदुक्त्या सिद्धमपि नावयवार्थमन्तरेण व्यक्तीभवतीति शङ्कते – कस्मादिति । अवयवार्थोपन्यासेन परिहरति – यस्मादिति । गुणोपास्तिफलमाह – तथेति ।
उपास्यगुणानुसारेणेत्यर्थः एवंविदं संयद्वामगुणविशिष्टपुरुषोऽस्मीति वेदितारमित्येतत् ॥२॥ 【भाष्यम्】 【भाष्यम्】 गुणान्तरमुपास्यत्वाय दर्शयति – एष इति । तद्व्युत्पादयति –
एष इति ॥३॥ 【भाष्यम्】 【भाष्यम्】 गुणान्तरं ध्यानायोक्त्वा व्युत्पादयति – एष इत्यादिना । आदित्यादिरूपेणास्यैव दीप्यमानत्वे श्रुत्यन्तरमनुकूलयति – तस्येति । गुणोपास्तिफलमाह –
य एवमिति ॥४॥ 【भाष्यम्】 【भाष्यम्】 गतिं वक्तुं पूर्वोक्तब्रह्मविद्यायामधिकगुणानेवाऽऽचार्योऽन्ववादीदिदानीं तामेव गतिमवतारयति – अथेति । तां वक्तुं पातनिकां करोति – यद्यदीति । करणाकरणाभ्यां विदुषो न वृद्धिर्नापि हानिरित्यत्र श्रुत्यन्तरं प्रमाणयति – न कर्मणेति । अथ यदु चैवेत्यादिवाक्यस्य तात्पर्यं दर्शयति – शवकर्मणीति । तात्पर्यान्तरं दर्शयति – न पुनरिति । यदि विदुषोऽपि शवकर्म कर्तव्यं कस्तर्हि तस्य विशेषस्तत्राऽऽह – अक्रियमाणे हीति । अन्यत्रेत्यविद्यावानुच्यते – इहेति । प्रस्तुतवाक्यस्य विद्यावतो वोक्तिरिति शवकर्मण्यनादरपूर्वकमिति शेषः । विद्यावतः शवकर्मभावाभावयोरप्रतिबन्धः फलं सिद्ध्यति । अविद्यावतस्तु शवकर्माकरणे कर्माणि न फलदानीति विद्यास्तुतिरिहाभिप्रेतेति भावः । तेऽर्चिषमेवेत्यत्र तच्छब्दार्थं व्याचष्टे – ये सुखाकाशमिति । सत्यलोकस्थमितिदेशव्यवच्छेदेन किमिति व्याख्यायते मुख्यमेव ब्रह्मशब्दलम्बनं किं नोच्यते तत्राऽऽह – गन्तृगन्तव्येति । एतेभ्यो हेतुभ्यः सत्यलोकस्थं ब्रह्म न मुख्यमिति सम्बन्धः । मुख्यब्रह्मप्राप्तावपि यथोक्तव्यपदेशा भविष्यन्तीत्याशङ्क्याऽऽह – सन्मात्रेति । तदनुपपत्तर्न तादृग्ब्रह्म ब्रह्मशब्दमिति शेषः । अनुपपत्तिमेव स्फोरयति – ब्रह्मैवेति । तत्रेति मुख्यप्राप्तिरुच्यते । कस्यचिदपि सन्मात्रब्रह्मप्राप्तिरत्र नास्तीत्याशङ्क्याऽऽह – सर्वभेदेति । वक्ष्यति षष्ठेऽध्याये श्रुतिरिति शेषः । जीवस्य सन्मात्रं ब्रह्म पारमार्थिकं रूपं चेदुपासकस्यापि न गतिरुचिता तस्यापि ब्रह्मातिरिक्तस्वरूपाभावादित्याशङ्क्याऽऽह – न चेति । एकत्वलक्षणो मार्गो न दृष्टश्चेदगमनाय नोपतिष्ठते । न हि ध्याननिष्ठस्यादृष्टमेकत्वं गमनं वारयितुं पारयत्यज्ञानप्रतिबन्धात् । तस्य गमनभ्रान्तिसम्भवादित्यर्थः । यद्वैकत्वलक्षणो मार्गो नावगतो न गमनाय मोक्षायोपस्थितो भवतीत्यर्थः । तत्र प्रमाणमाह - स एनमिति । स परमात्मा प्रत्यक्त्वेनाज्ञातः सन्नेनमधिकारिणं मुक्तिप्रदानेन न पालयतीत्यर्थः । प्रकृतां गतिमुपसंहरति – एष इति । गतिफलं निगमयति – एतेनेति । इममितिविशेषणादनावृत्तिरस्मिन्कल्पे । कल्पान्तरे त्वावृत्तिरिति सूच्यते । आवर्तशब्दं व्याकरोति – आवर्तन्त इति ।
सफलाया यथोक्तेन गतिपूर्वकेण फलेन सहिताया इति यावत् । कार्यब्रह्मोपासनमुच्चिता कारणब्रह्मोपासना यथोक्ता न विद्यासहिताऽविद्याऽत्र विवक्षिता तस्या इत्यर्थः ॥५॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य पञ्चदशः खण्डः ॥ पूर्वोत्तरग्रन्थयोरसङ्गतिमाशङ्क्य प्रासङ्गिकीं सङ्गतिमाह – रहस्यप्रकरण इति । रहस्यमुपासनं तत्प्रकरणे विदुषां फलप्राप्तये मार्गोपदेशप्रसङ्गेन यज्ञस्य समाप्तिगमनायानन्तरग्रन्थेन मार्गोपदेशादस्ति सङ्गतिरित्यर्थः । किञ्च पूर्वोत्तरग्रन्थयोरारण्यकत्वेन समानत्वादपि सङ्गतिरस्तीत्याह – आरण्यकत्वेति । किञ्चाग्निविषया विद्या प्रकृता यज्ञे च सिद्धेऽग्निसम्बन्धे यदि किमपि क्षतमुत्पद्यते तदा प्रायश्चित्तार्था व्याहृतयो विधातव्या इत्यनन्तरग्रन्थप्रवृत्तिरिति सङ्गत्यन्तरमाह – यज्ञ इति । प्रकृतायामुपासनायां मौनमङ्गीक्रियते वाग्व्यापारे विक्षिप्तचित्ततया ध्यानानुष्ठानासिद्धेः । ऋत्विग्विशेषस्य च प्रायश्चित्ताभिज्ञस्य मौनमत्र विधीयते तेनास्ति मिथः सङ्गतिरित्याह – तदभिज्ञस्येति । यज्ञस्य देवतोद्देशेन द्रव्यत्यागात्मकत्वात्क्रियायाश्च क्षणभङ्गिन्या गतिमत्त्वायोगान्मार्गोपदेशासम्भवात्कथमाद्या सङ्गतिरित्याशङ्क्य गतिमत्त्वं सम्पादयितुं यज्ञस्य वायुरूपत्वमाह – एष इत्यादिना । यज्ञो वाय्वात्मक इति श्रौती प्रसिद्धिस्तामेव प्रकटयति – वायुप्रतिष्ठ इति । श्रुतीरुदाहरति – स्वाहेति । स्वाहाकारमुच्चार्य वाते वायौ धीयते क्षिप्यत इति वातेधा यज्ञः । श्रुत्यन्तरमाह – अयमिति । आदिशब्देन “वाताद्यज्ञः प्रयुज्यताम्” (तै.ब्रा. ३ । ७ । ४ । २४) इति श्रुतिर्गृह्यते । आदर्शितश्रुतीनामर्थं संगृह्णाति – वात इति । यो यज्ञः क्रियासमवायी तत्समुदायात्मकः स वायुरेव । द्वयोश्चलनात्मकत्वाविशेषात् । तस्माद्वायुप्रतिष्ठस्तदात्मको यज्ञ इत्यर्थः । वायुप्रतिष्ठो यज्ञ इत्यत्र श्रुत्यन्तरमाह – वात एवेति । पवनत्वश्रुत्याऽपि वायुयज्ञयोरेकत्वमाह – एष ह यन्निति । विनाऽपि वायुं शुद्धिः सिद्ध्यतीत्याशङ्क्याऽऽह – न हीति । अचलतो विहितक्रियामननुतिष्ठत इति यावत् । शुद्धिर्नाम दोषनिरासः । स च निषिद्धं परित्यक्तुं यतमानस्य सिद्ध्यति । न तु निषिद्धक्रियात्यागोदासीनस्य दोषनिरासात्मिका शुद्धिः सम्भवति । चलनं च वायुः । तस्माद्वायुरेव चलनद्वारा सर्वं जगत्पुनातीत्याह – दोषेति । वायोरस्तु पावनत्वं प्रकृते किमायातमित्याशङ्क्याऽऽह – यद्यस्मादिति । वाय्वात्मना गतिविशिष्टस्य यज्ञस्य मार्गद्वयमुपदिशति – तस्येति । एवं विशिष्टस्य पावनस्य वायुरूपस्येति यावत् । यज्ञस्योक्तमार्गद्वयवैशिष्ट्ये सोपस्कारमैतरेयवाक्यमुदाहरति – प्राणेति । प्राणापानाभ्यामुच्छ्वासनिश्वासाभ्यां परिचलनं विद्यते यस्यास्तस्या वाचश्चित्तस्य च पूर्वापरभावक्रमेण यज्ञः सम्पाद्यते । मनसा हि ध्यायन्वाचमभिव्याहरन्पूर्वापरीभावेन यज्ञं सम्पदयतीत्यर्थः । यज्ञस्य मार्गद्वयविशिष्टत्वमुपसंहरति –
अत इति ॥१॥ 【भाष्यम्】 【भाष्यम्】 तयोरन्योन्यमुपकार्योपकारकभावं दर्शयति – तयोरिति । वाचा सम्यक्प्रयुक्तयेति शेषः । संस्कृतायां च वाग्वर्तन्यां तयैव यज्ञो निष्पन्नो भवतीत्याह – वाचैवेति । किं तर्हि मनोवर्तन्या संस्क्रियत इत्याशङ्क्याऽऽह – तत्रेति । यज्ञस्य द्वाभ्यां मार्गाभ्यां नीयमानत्वे पूर्वोक्तरीत्या स्थिते सतीति यावत् । मनोवर्तन्याः संस्काराभावे प्रत्यवायं दर्शयति – अथेत्यादिना । मनोवर्तनी ब्रह्मणा वाग्वर्तनी च होतृप्रभृतिभिः संस्कार्येति व्यवस्थान्तरमित्यर्थः । स ब्रह्मेत्यन्वयं सूचयति – ब्रह्मेति । पुनरुक्तिस्तस्य क्रियापदेन सम्बन्धद्योतनार्था । एतस्मिन्नन्तरे काले प्रातरनुवाकशस्त्रमारभ्य तत्परिसमाप्तेरन्तरावस्थायामित्यर्थः । वाचो होत्रादिभिः संस्कार्यत्वमस्तु, मनसश्च ब्रह्मसंस्कार्यत्वं मा भूदेतावता यज्ञस्य किमायातमित्याशङ्क्याऽऽह – स यज्ञ इति । यज्ञभ्रंशमेवाऽऽकाङ्क्षाद्वारा व्युत्पादयति – कथमित्यादिना । नाशेऽपि यज्ञस्य यजमानस्य किमायातमित्याशङ्क्याऽऽह – यज्ञप्राणो हीति । वाग्वर्तनीसंस्काराभावेऽपि तुल्यो दोषः ॥२ -३॥ मौनगुणं दर्शयति – अथ पुनरिति । तथैव सम्यगनुष्ठातार इति यावत् । तथा ब्रह्मा चान्ये चर्त्विजो द्वे वर्तन्यौ संस्कुर्वन्त्येवेत्याह – नेति । वर्तनीद्वयसंस्कारे किं स्यादित्यपेक्षायामाह – एवमिति ॥४ -५॥ इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य षोडशः खण्डः ॥ नित्यानुष्ठानमुक्त्वा नैमित्तिकप्रायश्चित्तविधानार्थमुपक्रमते – अत्रेति । तद्वेषे ब्रह्मणो मौनभ्रंशे सतीति यावत् । रसान्विशेषतो ज्ञातुं पृच्छति –
कानिति ॥१॥ 【भाष्यम्】 【भाष्यम्】
एवं यथा लोकानभ्यतपत्तथेति यावत् । जग्राहेति सम्बन्धः ॥२॥ 【भाष्यम्】 【भाष्यम्】 तदेव विवृणोति – भूरिति व्याहृतिमित्यादिना । प्रथमोऽतःशब्दो यत इत्यस्मिन्नर्थे । यद्दृक्त इति । ऋक्शब्दस्तस्मिन् । उक्तप्रायश्चित्तमेवाऽऽकाङ्क्षापूर्वकं विवृणोति – कथमित्यादिना । क्रियाविशेषणमिति । यज्ञस्य क्षतं सन्दधातीति यत्तदृचामेव रसने सन्दधातीत्यर्थः । ओजसा सन्दधातीति सम्बन्धः ॥३ -४॥ तथा च यथोक्ते साधने सतीत्यर्थः । यथा पूर्वस्मिन्प्रायश्चित्ते यज्ञस्य क्षतमिव रसने होता सन्दधाति तथा द्वितीयतृतीयप्रायश्चित्तयोरपि यजुषां साम्नां च रसेनाध्वर्युरुद्गाता च तत्क्षतं संधत्त इत्याह – पूर्ववदिति । होत्राद्यपराधाधीनयज्ञभ्रंशे प्रायश्चित्तमुक्त्वा ब्रह्मापराधकृते यज्ञनशे किं प्रायश्चित्तमित्याशङ्क्याऽऽह – ब्रह्मेति । यथा यथोक्तप्रायश्चित्ते लिङ्गं दर्शयति – त्रय्या हीति । ब्रह्मणस्त्रयीसारत्वे प्रमाणमाह – अथ केनेति । साधारणकार्यस्य साधारणसामग्रीजन्यत्वनियमाद्वेदत्रयसाधारणे ब्रह्मत्वे वेदत्रयसाधारणमेव प्रायश्चित्तं वाच्यमित्येको न्यायो दर्शितः । संप्रत्यस्यैव वेदैकत्वप्रसिद्धेर्ब्रह्मणः सर्ववेदार्थाभिज्ञस्य ज्ञानमाहात्म्येनैव दोषनिरासान्नान्यत्प्रायश्चित्तं विधेयमिति न्यायान्तरमाह – न्यायान्तरं वेति ॥५ -६॥ वस्तुस्वभाववैचित्र्यादुत्पन्नस्यापि क्षतस्य केनचित्सन्धानं भवतीत्यत्र दृष्टान्तानाह – तद्यथेत्यादिना । किं तत्र साधनमिति तद्दर्शयति – क्षारेणेति । खरे सुवर्णे वह्निसंयुक्ते द्रवीभूते क्षारप्रक्षेपेण ट्ङ्कणादिना मृदुकरणं मिथोऽवयवसंयोजनं सन्धानं प्रसिद्धमित्यर्थः । रजतं सुवर्णेन स्वरसतस्तावदशक्यसन्धानं तथाऽपि वह्निसंयोगपूर्वक पूर्ववदेव तत्रापि प्रसिद्धं सन्धानमित्याह – सुवर्णेनेति । रजतेनेत्यादावपि यथोक्तं द्रष्टव्यम् । सन्दधाति ब्रह्मेति शेषः । भेषजेनेव कृतः संस्कृत इति यावत् । तदेव स्फुटयति – रोगार्त इति । भवति संस्कृत इति शेषः ॥७ -८॥ इतश्चैवंविदा ब्रह्मणा भवितव्यमित्याह – किञ्चेति । गाथाशब्दो गायत्र्यादिच्छन्दोव्यतिरिक्तच्छन्दोविषयः । यतो यतः प्रदेशात्कर्माऽऽवर्तत इत्युक्तं विवृणोति – ऋत्विजामिति ।
यत्र यत्र प्रदेशे यज्ञस्य क्षतिरध्वर्युप्रभृतीनामभवत्तत्र तत्र यज्ञस्य क्षतरूपं प्रायश्चित्तेन प्रतिसन्दधानो ब्रह्मा कर्तॄन्परिपालयतीति सम्बन्धः ॥९॥ 【भाष्यम्】 【भाष्यम्】 ऋत्विजि ब्रह्मणि मानवशब्दप्रवृत्तौ निमित्तमाह – मौनेति । ज्ञानातिशयस्तच्छब्दार्थः । कर्तॄनभिरक्षतीति सम्बन्धः । उक्तमर्थं दृष्टान्तेन प्रकटयति – योद्धॄनित्यादिना । प्रकरणार्थमुपसंहरति –
एवमिति ॥१०॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य सप्तदशः खण्डः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतयां च्छान्दोग्योपनिषद्भाष्यटीकायां चतुर्थोऽध्यायः ॥ वृत्तमनूद्य वर्तिष्यमाणाध्यायस्य सङ्गतिं सङ्गिरते – सगुणेति । विद्यान्तरं पञ्चाग्निविद्यातिरिक्ता सगुणविद्या । तच्छीलिनां तन्निष्ठानामिति यावत् । तामेव गतिमर्चिरादिलक्षणामित्यर्थः । ततो गतिद्वयात्तृतीया च विद्याकर्मरहितानामिति शेषः । अथ क्रमेण मुक्तिसम्भवादुत्तरा गतिरुच्यतां किमिति दक्षिणा तृतीया च संसाररूपा गतिरतिनिकृष्टा व्यपदिश्यते तत्राऽऽह – कष्टतरेति । सगुणब्रह्मविद्यावतामर्चिराद्यां गतिमुक्त्वा समुच्चितानामसमुच्चितानां कर्मणां संसारगतिप्रभेदरूपं फलं वक्तुमयमारम्भ इत्यर्थः । कर्मविधिश्च धनसम्पत्तौ सत्यां भवति । तत्सम्पत्तिश्च ब्राह्मणस्य श्रैष्ठ्ये सत्येव सम्भवतीति श्रैष्ठ्यसिद्धये प्राणोपासनं पूर्वत्रानुक्तं वक्तव्यमित्यन्तरग्रन्थसङ्गतिं वदन्प्रसङ्गं करोति – प्राणः श्रेष्ठ इत्यादिना । प्राणो ब्रह्मेत्यादिवाक्यमादिशब्दार्थः । उदाहृतानुदाहृतश्रुत्यन्तरसमुच्चयार्थश्चकारः । प्राणस्य वागादिभ्यः श्रैष्ठ्यमुक्तमाक्षिपति – स कथमिति । सर्वैर्वागादिभिः संहत्य प्राणस्य कार्यकरत्वे सम्प्रतिपन्ने स एव कथं श्रेष्ठो निर्धार्यते तेषामन्यतमस्यैव श्रैष्ठ्यं किं न स्यादित्यर्थः । तस्यैवोपास्यतया श्रैष्ठ्यमाशङ्क्य वागादीनामन्यतमस्योपास्यत्वमपास्य प्राणस्यैव नोपास्यत्वं हेत्वभावादित्याक्षेपान्तरमाह – कथं चेति । प्राणस्य श्रेष्ठत्वं ज्येष्ठत्वमित्यादिगुणविधानार्थमेव तावत्प्रथममारभ्यते – यो ह वै ज्येष्ठं चेति । आद्यं चोद्यं परिहरति – प्रथममिति । प्राणस्यैवोपासनं न वागादीनामित्येतदनन्तरमारभ्यतेऽथ ह प्राण उच्चिक्रमिषन्नित्यादिनेति द्वितीयं चोद्यमुद्धरति – इदमनन्तरमिति । कोऽसौ ज्येष्ठत्वश्रेष्ठत्वगुणो वेदितव्य इत्यत आह – फलेनेति । कुतो वागादिभ्यो ज्यैष्ठ्यं प्राणस्य प्रतीतं सर्वे हि वागादयः सप्राणाः सहैव गर्भस्थे स्वतो वृत्तिभागिनो भवन्ति तत्राऽऽह – गर्भस्थे हीति । तत्र गर्भविवृद्धिदर्शनं प्रमाणयति – ययेते । कदा तर्हि वागादीनां वृत्तिलाभस्तत्राऽऽह – चक्षुरादीति । प्राणस्य ज्यैष्ठ्यं प्रतिपादितं निगमयति – इति प्राण इति । गुणद्वयमुपास्यत्वाय दर्शितं निगमयति –
अत इति ॥१॥ 【भाष्यम्】 【भाष्यम्】 तदर्थत्वेनैव गुणान्तरं दर्शयति – यो ह वा इति । वसुमत्तमं धनवत्त्वादन्येषां निवासकारणमित्यर्थः । तथैवेत्युपासनानुसारेणेति यावत् । वसिष्ठो ह भवतीति वासयिता वेत्यर्थः । वाचो वसिष्ठत्वं समर्थयते – वाग्मिनो हीति ।
वसुमत्तमाश्च तेनान्यान्निवासयन्तीति शेषः ॥२॥ 【भाष्यम्】 【भाष्यम्】 गुणान्तरमाध्यानायोपदिशति – यो हेति । प्रतिष्ठात्वं चक्षुषो विशदयति –
चक्षुषा हीति ॥३॥ 【भाष्यम्】 【भाष्यम्】 गुणान्तरमाह – यो ह वा इति । दैवाः कामाः स्वर्गादयो (वा) मानुषाः पश्वादयः । श्रोत्रस्य सम्पत्त्वं साधयति – यस्मादिति ।
इत्येवं यस्मात्तस्मादिति योजना ॥४॥ 【भाष्यम्】 【भाष्यम्】 संप्रति गुणान्तरमाह – यो हीति । कथं पुनरायतनत्वं मनसः सिद्धमित्यत आह –
इन्द्रियोपहृतानामिति ॥५॥ 【भाष्यम्】 【भाष्यम्】 यथोक्ता गुणा मुख्यप्राणगामिनो न प्रत्येकं वागादिषु भवन्तीति वक्तुमाख्यायिकां प्रमाणयति –
अथेति ॥६॥ 【भाष्यम्】 【भाष्यम्】 कञ्चिद्विराजं कश्यपादीनामन्यतमं वेत्यर्थः । शरीरस्य पापिष्ठत्वं पापकार्यप्रधानत्वम् । इवशब्दोऽवधारणार्थः । उक्तमेवार्थं संक्षिप्याऽऽह – कुणपमिति । त्यक्तप्राणं शवरूपमिति यावत् । ननु प्रजापतिः सर्वज्ञो मुख्यमेव प्राणं किमिति श्रेष्ठं नाभिवदति तत्राऽऽह – काक्वेति ।
अयं श्रेष्ठ इत्युक्ते यत्तेषां वागादीनां दुःखं तत्परिहर्तुमिच्चन्प्रजापतिः स्वरभङ्गोपायविशेषेण श्रेष्ठमुक्तवान्न स्फुटमित्यर्थः ॥७॥ 【भाष्यम्】 【भाष्यम्】 अन्यदित्यस्य विषयमाह – चक्षुरिति । बालानामपि बहिरन्तरिन्द्रियवत्वाविशेषात्कथममनस इति विशेषणमत आह – अप्ररूढेति ॥८-९-१०-११॥
परीक्षितेषु श्रेष्ठतारहितेषु निरूप्य निश्चितेष्वित्येतत् । पदनसीलाः पादास्तेषां संहतिः पड्विस्तस्या ईशा नियामकाः शङ्कवोवर्णविकारश्छान्दसः । तान्यथोक्तानश्वो युगपदुत्पाटयेद्यथेति दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह – एवमिति ॥१२॥ 【भाष्यम्】 【भाष्यम्】 मयि श्रेष्ठत्वधीर्युष्माकमस्तीति कथं ज्ञातुं शक्यमित्याशङ्क्याऽऽह – अथेति । वचनं प्रश्नपूर्वकं प्रकटयति – कथमित्यादिना । क्रियाविशेषणत्वमेव विशदयति – यद्वसिष्ठत्वेति । वसिष्ठत्वेन गुणेनाहं गुणवानस्मीति यत्तत्त्वमेवेति योजना । अनन्तरं वाक्यमादाय व्याचष्टे – त्वमित्यादिना । तद्वसिष्ठ इति समस्तपदमिति गृहीत्वा व्याख्याय पक्षान्तरमाह – अथ वेति । यच्छब्दवदित्यपेरर्थः । अहं वसिष्ठत्त्वगुणोऽस्मीति यत्तत्त्वमेव वसिष्ठत्वगुणोऽसीति कथमिदानीमुच्यते । अन्यथा हि पूर्वमभिधानं तवाऽऽसीदित्याशङ्क्याऽऽह – त्वत्कृत इति । वाचि दर्शितं न्यायं चक्षुरादावतिदिशति – तथेति ॥१३-१४॥ वागादिवचनादुत्थाय प्राणाधीनतां वागादेः श्रुतिरेव कथयतीत्युत्तरस्य “न वै वाच” (छा.उ. ५ । १ । १५) इत्यादेस्तात्पर्यमाह – श्रुतेरिति । तदेव च सोपस्कारं व्याकरोति – युक्तमित्यादिना । यदि सर्वाण्येव करणानि वाक्तन्त्राणि स्युस्तर्हि वाच इत्येव तानि ब्रूयुः । यदि चक्षुस्तन्त्राणि स्युस्तदा सर्वाण्येव चक्षूंषीति वदेयुः । न चैवं वदन्ति, प्राणा इति तु तानि कथयन्ति । तस्मात्प्राणपारतन्त्र्यं करणानां सिद्धमित्यर्थः । वागादिभिरुक्तं त्वं तद्वसिष्ठोऽसीत्यादि प्राणस्यैव यथोक्तगुणवतो ध्येयत्वं प्रकरणार्थः । साक्षादुपसंहारादर्शनादुपसञ्जिहीर्षतीत्युक्तम् । आख्यायिकाया यथाश्रुतमर्थमाक्षिपति – नन्विति । यथा पुरुषाश्चेतनावन्तो विवदमानाः स्पर्धन्ते तथा वागादयोऽचेतनाः स्वकीयश्रेष्ठत्वसिद्ध्यर्थं विप्रतिपन्ना मिथः स्पर्धेरन्निति नैव युक्तमचेतनेषु स्पर्धादेरदर्शनादित्यर्थः । किं च वाग्व्यतिरिक्तानामन्योन्यं वचनमेवनुचितं वचनस्य वाग्व्यापारत्वादित्याह – न हीति । किञ्च वागादीनां देहादपसर्पणाद्ययुक्तमचेतनत्वादित्याह – तथेति । वाशब्दो न हीत्यस्यानुकर्षणार्थः । अग्न्यादयश्चेतनावत्यो देवतास्ताभिरधिष्ठितत्वात्तादात्म्याभिप्रायेण वागादीनां चेतनावत्त्वसम्भवाद्वदनादि व्यवहारः सम्भवतीत्यग्निर्वाग्भूत्वा मुखं प्राविशदित्यादिश्रुतिमनुसृत्योत्तरमाह – तत्रेति । एकस्मिन्देहेऽनेकचेतनावतां प्रसह्य विरुद्धानेकाभिप्रायानुविधायित्वेन देहस्योन्मथनप्रसङ्गादक्रियत्वप्रसङ्गाद्वा नानेकचेतनाधिष्ठितत्वमेकस्य देहस्य सम्भवतीति शङ्कते – तार्किकेति । किमेकशरीरमनेकचेतनाधिष्ठितं न भवति किं वा तैर्निर्णीतकर्तृ भोक्त्रधिष्ठितमिति विकल्प्याऽद्यं दूषयति – नेति । अस्ति हि परमते शरीरस्य जीवाधिष्ठितस्यैवेश्वराधिष्ठितत्वं तथाचकशरीरमनेकचेतनाधिष्ठितं न भवतीति नास्ति सेश्वरवादिनां शङ्केत्यर्थः । संग्रहवाक्यं विवृणोति – ये तावदिति । अचेतनानां चेतनाधिष्ठितानामेव प्रवृत्तिरित्यत्र दृष्टान्तमाह – रथादिवदिति । द्वितीयं प्रत्याह – न चेति । [यदि] कार्यकरणानामधिष्ठातृदेवता तर्हि तत्कार्यकरणानां किमधिष्ठातृदेवतान्तरमिति पृच्छति – किं तर्हीति । देवताकार्यकरणानामधिष्ठातृदेवतान्तरमिष्टं चेदनवस्था स्यादिति मन्वानं प्रत्याह – कार्यकरणवतीनामिति । शाकल्यब्राह्मणमनुसृत्याऽऽह – प्राणेति । ननु भूयस्यो देवताः कथं तासां प्राणलक्षणैकदेवताप्रभेदत्वमत आह – अध्यात्मेति । अध्यात्माधिभूताधिदैवानां भेदकोटिर्विकल्पो यासामिति विग्रहः । नियन्तृत्वप्रयुक्तव्यापारवत्त्वं वारयितुं विशिनष्टि – अध्यक्षतामात्रेणेति । अथेश्वरस्यापि नियन्तृत्वात्कार्यकरणवत्त्वं देवतानामिव स्यादिति चेन्नेत्याह – स हीति । अकरणत्वमकार्यत्वस्योपलक्षणम् । तत्र श्रुतिं प्रमाणयति – अपाणीति । आदिपदेन च “न तस्य कार्यं करणं च विद्यत” (श्वे.उ. ६ । ८) इत्यादिम्नत्रवर्णो गृहीतः । सूत्रात्मा हिरण्यगर्भः सा चैका समष्टिरूपा देवता तदवस्थाभेदानां देवतानामीश्वरो नियन्तेत्युक्तं तत्र प्रमाणमाह – हिरण्यगर्भमिति । आदिपदेन “हिरण्यगर्भः समवर्तत” इत्यादि गृह्यते । देवानामीश्वरस्य चास्मिन्देहे भोक्तृत्वाभावे कस्य भोक्तृत्वमित्यत आह – भोक्तेति । तद्विलक्षणो देवतेश्वराभ्यां व्यावृत्त इति यावत् । वागादिशब्दवाच्याश्चेतनावत्यो देवता इति स्वीकृत्याऽऽख्यायिकायाः स्वार्थनिर्वृत्त्यर्थमुक्तमिदानीं तस्यास्तात्पर्यमाह – वागादीनां चेति । कल्पनाप्रयोजनमाह – विदुष इति । यथोक्तां कल्पनां दृष्टान्तेन स्पष्टयति – यथेत्यादि । तेनोक्ता इत्युक्तमेव व्यनक्ति – एकैकश्येनेति । विदुष इत्यादिनोक्तं प्रयोजनं प्रकटयति – कथं नामेति । विद्वान्प्राणश्रेष्ठतां कथं नाम प्रतिपद्येतेति सम्बन्धः । प्रतिपत्तिप्रकारं संक्षिपति – वागादीनामिति । फलवती कल्पनेति शेषः । दृष्टेऽप्यर्थे श्रुतिमनुग्राहकत्वेन दर्शयति –
तथा चेति ॥१५॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य प्रथमः खण्डः ॥ वागादीनां स्वामी श्रैष्ठ्यादिगुणः प्राणोऽस्मीति विद्यादिति प्रधानविद्यामुपदिश्य तद्दर्शनाङ्गभूतान्नवासोदृष्टिविधानार्थे प्रक्रमे प्रथममन्नदृष्टिं विधातुं प्रसङ्गं प्रकुरुते – स होवाचेति । मुख्यस्य प्राणस्य प्रष्टृत्वं वागादीनां प्रतिवक्तृत्वं च काल्पनिकमित्याह – मुख्यमिति । यदिदमित्युक्तमेव च यत्पदं वाक्यार्थकल्पनार्थं यदन्नमित्यत्रानूद्यते । तद्वा एतदित्याद्युत्तरवाक्यस्य पूर्ववाक्यादर्थभेदाभावमाशङ्क्याऽऽह – प्राणस्येति । प्राणशब्दं विहायानशब्दप्रयोगे तात्पर्यमाह – सर्वप्रकारेति । अन चेष्टायामितिधातुजस्यानशब्दस्योपादानं सर्वप्रकारचेष्टया प्राणस्य व्याप्तिगुणप्रदर्शनार्थम् । तथा च यः कोऽपि दहति शोषयति प्लावयति वा स सर्वोऽपि प्राण एवेति युक्तं प्राणस्यान इति नामेत्यर्थः । प्रत्यक्षं पूर्वोक्तधातुजन्म नामेति यावत् । उक्तमेवार्थं समर्थयते – प्रादीति । अनशब्दस्येति शेषः । न प्राणस्य सर्वचेष्टाप्तिरित्येवकारार्थः । तथा च प्राणादिशब्दोपादाने विशेषव्याप्तिरेवेति स्थिते सतीत्यर्थः । अन इति प्रत्यक्षमिदं नाम सर्वान्नानामत्तुर्नामग्रहणमिति सम्बन्धः । तदेव व्याचष्टे – सर्वान्नानामिति । ततश्च प्राणशब्दस्य प्राणविदः सर्वमन्नं चेत्तद्विदुषो भक्ष्याभक्ष्यविभागासिद्धौ तद्विषयं शास्त्रं विरुध्येतेत्याशङ्क्याऽऽध्यात्मिकं रूपं हित्वाऽऽधिदैविकेन रूपेण तस्य सर्वान्नत्वे विभागशास्त्रमाध्यात्मिकपरिच्छेदविषयत्वेनाविरुद्धमित्याह – प्राणभूतत्वादिति । प्राणभूतो विद्वानित्यत्र श्रुत्यन्तरं संवादयति –
प्राणादिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 प्राणविद्याङ्गत्वेनान्नदृष्टिरुपदिष्टा । संप्रति तदङ्गत्वेन वासोदृष्टिं प्रस्तौति – स होवाचेति । अत्रापि प्राणस्य प्रष्टृत्वं वागादीनां प्रतिवक्तृत्वं च कल्पितमेवेत्याह – पूर्ववदिति । अपां प्राणं प्रति वासोरूपत्वे गमकमाह – यस्मादिति । वासोदृष्टिफलमाचष्टे – लम्भुक इति । अनग्नो ह भवतीत्यस्य पौनरुक्त्यमाशङ्क्यार्थविशेषमाह – वासस इति । आचमनान्तरं प्राणविदो विधीयत एवंविदशिष्यन्नाचामेदिति श्रुतेरित्याशङ्क्याऽऽह – भोक्ष्यमाणस्येति । आदिपदेन प्रतिवचने गृह्येते । सर्वप्राणिभोग्येऽन्ने तस्यान्नमितिदृष्टिवदाचमनीयास्वप्सु तस्य विधीयते वासोदृष्टिरित्युक्तं व्यतिरेकद्वारा विवृणोति – यदीति । तादर्थ्येनानग्नतार्थत्वेनेति यावत् । अथ पूर्वमन्नदृष्टिरेव विधीयते सर्वान्नभक्षणस्य प्रमाणविरुद्धत्वादिह त्वपूर्वमाचमनमविरोधाद्विधीयतामित्याशङ्क्याऽऽह – तुल्ययोरिति । एकस्याऽऽचमनस्य शुद्ध्यर्थत्वमनग्नतार्थत्वं च वक्तुमशक्यं विरोधादित्याशङ्क्याऽऽह – यत्त्विति । विरोधो यथा स्यात्तथेति यावत् । तर्हि कीदृगाचमनं विवक्षितमित्याह – किं तर्हीति । प्रयतस्य भावः प्रायत्यं तदर्था याऽऽचमनक्रिया तत्साधनभूतास्वप्सु वासःसङ्कल्पनं क्रियान्तरमत्र विधित्सितमित्याह – प्रायत्येति । क्रियाभेदे फलितमाह – तत्रेति । अन्यार्थास्वप्स्वन्यार्थत्वचिन्तने प्रमाणविरोधाद्विधियोगेन वासोर्थमाचमनान्तरमेव विधेयं तत्र चानग्नतार्थत्वचिन्तनमुचितमिति शङ्कार्थः । वासोर्थापूर्वाचमनविधाने तत्रानग्नतार्थत्वदृष्टिविधाने च वाक्यभेदप्रसङ्गात्प्रसिद्धाचमनसाधनभूतास्वप्सु वासोदृष्टिपरमेव च वाक्यमित्युत्तरमाह – नेत्यादिना ।
वासोर्थत्वमन्यार्थत्वं दृष्ट्यर्थत्वमित्युक्ते प्रमाणस्यैकस्य वाक्यस्याप्रमाणत्वप्रसङ्गादिति यावत् ॥२॥ 【भाष्यम्】 【भाष्यम्】 तद्धैतदित्यादिवाक्यं न विधानार्थं नापि फलवचनं तथा च व्यर्थमित्याशङ्क्याऽऽह – तदेतदिति । स्तुतिमेव प्रश्नपूर्वकं विवृणोति – कथमिति ।
जीवते पुरुषाय प्राणविद्याविदे तद्दर्शनं ब्रूयात्तदाऽस्मिन्महाफलं भवतीति किमु वक्तव्यमिति योजना ॥३॥ 【भाष्यम्】 【भाष्यम्】 वाक्यशेषं पूरयति – तस्येति । महत्त्वद्वारा विषयोपभोगकामुकस्य कर्मविधायि शास्त्रं श्येनादिशास्त्रवदनर्थफलमेवेत्याशङ्क्याऽऽह – महत्त्वे हीति । तस्येति प्रकृतमन्थाख्यकर्मोक्तिः । कालादीत्यादिशब्दो द्रव्यादिसंग्रहार्थः । दैक्षं दीक्षायां भवं मौञ्ज्यभ्यञ्जनादि न सर्वमेवायमनुतिष्ठति । प्रकृतिधर्मा हि विकृतावनुवर्तन्ते । प्रकृतिवद्विकृतिः कर्तव्येति न्यायात् । न चेदं कर्म कस्यचिद्विकृतिरतो यथोक्तधर्मवत्त्वमेवात्र विवक्षितमित्यर्थः । दीक्षित्वेत्यनेन विवक्षितं धर्मान्तरमाह – उपसदिति । उपसदो नामेष्टयः प्रवर्ग्याहस्सु प्रसिद्धाः । तासु व्रतं पयोमात्रभक्षणं तदुपेतो भूत्वा मन्थं सम्पाद्य जुहोतीति वाजसनेयके समानप्रकरणे श्रवणादिति यावत् । पिष्टं कृत्वा तदाममपक्वमेव दधिमधुनोः सम्बन्धिपात्रे प्रक्षिप्येति सम्बन्धः । औदुम्बरत्वे नियमः । पात्रस्याऽऽकारे तु विकल्पः । कथमश्रुतं पात्रमत्र कल्प्यते तत्राऽऽह – श्रुत्यन्तरादिति ।
औदुम्बरे केशाकारे कंसे चमसे वेति वाजसनेये श्रवणात्सर्वशाखाप्रत्ययन्यायेनापेक्षितं पात्रमत्र गृहीतमित्यर्थः । आवसथसम्बन्धी लौकिकोऽग्निरावसथ्यो विविक्षितो यस्मिनौपासनाख्यं कर्म क्रियते । आज्यस्य हुत्वेति सम्बन्धः । आवापस्थानमाहुतिप्रक्षेपप्रदेशो गृह्योक्तः ॥४॥ 【भाष्यम्】 【भाष्यम्】 गोदोहनवदधिकृताधिकारमिदं कर्म प्राणविदोऽस्मिन्नधिकारोऽस्तीत्याह – यथोक्तेति । अनन्तरं प्राणविद्यानिष्पत्तेरिति शेषः । वसिष्ठाय स्वाहेत्यादिवाक्यं पूर्ववाक्येन तुल्यार्थमित्याह – समानमिति । तुल्यत्वमेव स्पष्टयति – वसिष्ठायेति ।
स्वाहेति मन्त्रं समुच्चार्य हुत्वेति सम्बन्धः । तथैव प्रथमहोमानन्तरमित्यर्थः ॥५॥ 【भाष्यम्】 【भाष्यम्】 आहुत्यानन्तर्यमथशब्दार्थः । भवतु प्राणस्येदं नाम मन्थस्य तु कथं मन्त्रार्थत्वमित्याशङ्क्याऽऽह – अन्नेन हीति । प्रतिज्ञातेऽर्थे प्रश्नपूर्वकं हेतुमाह – कुत इति । अतश्चामो नामासीति पूर्वेण सम्बन्धः । हेतुं व्याचष्टे –
यस्मादिति ॥६॥ 【भाष्यम्】 【भाष्यम्】 अनन्तरं जपकर्मणः सकाशादिति शेषः । तदेव स्पष्टयति – मन्त्रस्येति । मन्त्रस्यैकैकेन पादेन मन्थस्यैकैकं ग्रासं भक्षयतीति योजना । भोजनं मन्थरूपमिति सम्बन्धः । तत्कथं सवितुः स्यात्प्राणस्य हि मन्थद्रव्यमन्नमित्युक्तं तत्राऽऽह – प्राणमिति । उच्यते सवितुर्भोजनमिति शेषः । प्राणादित्ययोरेकत्वे फलितं वाक्यार्थमाह – आदित्यस्येति । मन्थरूपं तद्भोजनमिति पूर्वेण सम्बन्धः । प्रार्थनाविषयं भोजनमेव विशिनष्टि – येनेति । तस्यैव विशेषणान्तरं श्रेष्ठमित्यादि । स्थितिकारणत्वमुक्त्वा जनकत्वं पक्षान्तरमाह – अतिशयेनेति । जगद्व्याप्तौ फलदाने ध्यातुः शैघ्र्यम् । किमिति भोजने कथ्यमाने ध्यानमुच्यते तत्राऽऽह – विशिष्टेति । शुद्धधीत्वं ध्यानकारणमुक्त्वा प्रकृतकर्मवत्प्रेप्सितमहत्त्वे हेतुत्वादपि ध्यानमनुष्ठेयमित्याह – अथवेति । सावित्रं रूपमुक्तम् । नियमेनौदुम्बरं वैकल्पिकाकारे विशेषः । पात्रं प्रक्षाल्य पिबतीति सम्बन्धः । मन्थलेपं पात्रं प्रक्षाल्य पीत्वाऽऽचमनपूर्वकमग्नेः पश्चिमभागे कृष्णाजिनव्यवहितायां केवलायां वा भूमौ प्राक्शिरा भूत्वा शयीतेत्याह – पीत्वेति । शयानस्य कर्तव्यं दर्शयति – वाचंयम इति । तस्य स्वप्ने कथञ्चिदुत्तमस्त्रीदर्शने शुभागमः सूच्यत इत्याह – स एवंभूत इति ॥७-८॥ इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य द्वितीयः खण्डः ॥ प्राणविद्या तदङ्गकर्म चेत्युभयमुक्तमिदानीमग्निविद्यामाख्यातुकामस्तावदाख्यायिकातात्पर्यमाह – ब्रह्मादीति । तासां च वक्तव्यत्वे हेतुमाह – वैराग्यहेतोरिति ।
राजा कुमारेति सम्बोधयन्नभिमानं श्वेतकेतोरपनिनीषति ॥१॥ 【भाष्यम्】 【भाष्यम्】 यथेत्यस्यार्थमाह – येनेति । विद्वदविदुषोस्तुल्यमार्गयोः सतोर्द्वा मार्गौ तयोर्मध्ये देवयानस्येत्यादि योज्यम् । उक्तं वाक्यार्थं संक्षिपति – इतरेतरेति ।
विदुषां च कर्मिणां च मार्गद्वयमधिकृत्य सह प्रस्थितानां यत्र मिथो वियोगो भवति तत्किं वेत्थेत्यर्थः ॥२॥ 【भाष्यम्】 【भाष्यम्】 पितृलोकसम्बन्धिनं लोकमेव व्याकरोति – यं प्राप्येति । आहुतिनिर्वृत्ता इत्यस्य व्याख्यानमाहुतिसाधनाश्चेति । अपूर्वरूपाणामपां भूतान्तरसमुच्चयार्थश्चकारः । अथवा पयोघृतादिरूपेणाऽऽहुतिं साधयन्तीति चाऽऽहुत्या पुनरपूर्वात्मना निष्पन्ना इत्यर्थः । क्रमेणेति ।
श्रद्धासोमवृष्ट्यन्नरेतसां हवनद्वारेणेति यावत् । षष्ठाहुतिभूतानामन्त्येष्टिविधानेन शरीराहुतिद्वारा सूक्ष्मतां गतानामित्यर्थः ॥३॥ 【भाष्यम्】 【भाष्यम्】 त्वत्पृष्टार्थजातातिरिक्तविषयमनुशासनं ममास्तीत्यनुशिष्टोऽस्मीत्युक्तमित्याशङ्क्याऽऽह –
यो हीति ॥४॥ 【भाष्यम्】 【भाष्यम्】 अननुशिष्य त्वामन्वशिषमिति कथमुक्तवानस्मीत्याशङ्क्याऽऽह – यत इति । नैकञ्चनेत्युक्तमेव नञ्पदं नाशकमिति सम्बन्धं दर्शयितुं पुनरुपात्तम् । अतो मां प्रति तव मिथ्यावादिता सिद्धेति शेषः । पिता स्वकीयमिथ्यावादित्वशङ्कां परिहरति – स होवाचेति । यथा मा त्वमित्यादिवाक्यं पूरयित्वा व्याख्यायानन्तरवाक्यमाकाङ्क्षापूर्वकमुत्थापयति – कथमित्यादिना । तद्व्याचष्टे - यथेति । अज्ञानाविशेषोऽतःशब्दार्थः । अन्यथाभावो ज्ञातेऽपि विषये तावनुक्तिरिति यावत् । त्वदीयमज्ञानं कुतो हेतोर्मया ज्ञातव्यमित्याशङ्कामुद्भाव्यानन्तरवाक्येनोत्तरमाह – कुत इत्यादिना । अतस्तव पात्रभूतस्यानुपदेशान्मदीयमज्ञानं ज्ञातव्यमिति शेषः । अर्हणां योग्यां पूजामित्यर्थः । सभागपदं सप्तम्यन्तं राजविषयं प्रथमान्तं गौतमविषयमिति भेदः । गौतममागतं योगक्षेमार्थिनं बुद्ध्वा राजा प्रसन्नः सन्नुक्तवानित्याह – तं होवाचेति । तर्हि कृतकृत्यस्य तव किमित्यागमनमित्याशङ्क्याऽऽह – यामेवेति । कृच्छ्रीभावमभिनयति – कथमिति ॥५ -६॥ गौतमस्य वचनं[यदि]राज्ञो दुःखीभावकारणं तर्हि प्रत्याख्यायतामित्याशङ्क्याऽऽह – स हेति । किमिति तर्हि चिरं वसेत्युक्तवानित्यत आह – न्यायेनेति । संवत्सरं वसेति यावत् । वक्तव्या विद्येति शेषः । कथं राज्ञो ब्राह्मणं प्रत्याज्ञां कुर्वतो न प्रत्यवायः स्यादित्याशङ्क्याऽऽह – यत्पूर्वमिति । प्रत्याख्यानादिविषयं हेतुवचनम् । न केवलं विद्यावशादेव श्रैष्ठ्यं किन्तु जातितोऽपीत्यपेरर्थः । तर्हि ब्रूहि तां वाचमित्याशङ्क्याऽऽह – तत्रेति । विद्याप्रवचने प्रस्तुते सतीति यावत् । यथेत्यस्यापेक्षितं पूरयति – तथेति । प्रसिद्धमेव स्फोरयति – तस्मादिति । ब्राह्मणानामनया विद्यया प्रशास्तृत्वस्य प्रागभावादिति यावत् । इतिशब्दोपात्तमर्थं कथयति – क्षत्त्रियेति ।
उक्तप्रत्याख्यानादिकारणमतःशब्दार्थः ॥७॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य तृतीयः खण्डः ॥ ननु यथाप्रश्नमेव प्रतिवचनमुचितं पञ्चमं तु प्रश्नं प्राथम्येन प्रतिवदता क्रमो निराकृतस्तत्र किं कारणमत आह – पञ्चम्यामिति । अर्थक्रममनुसृत्य पाठक्रमोऽभिधातव्य इत्यर्थः । ननु वाजसनेयकेऽग्निहोत्रप्रकरणेऽग्निहोत्राहुत्यपूर्वपरिणामं जगदित्युक्तं तदेवेहापि विवक्ष्यत इति चेत्किमनेन पिष्टपेषणन्यायेनेत्याशङ्क्यार्थभेदं वक्तुमग्निहोत्रप्रकरणस्थितमर्थमनुवदति – अग्निहोत्राहुत्योरिति । उक्तप्रकारमेव प्रदर्शयन्प्रथमं याज्ञवल्क्यस्य जनकं प्रति पट्प्रश्नानुत्थापयति – तं प्रतीति । कार्यारम्भस्तच्छब्दार्थः । अग्निहोत्राहुत्यन्नापूर्वपरिणामो जगदिष्यते । तत्राग्निहोत्रे सायं प्रातश्च हुतयोराहुत्योरस्माल्लोकादुत्क्रान्तिः । उत्क्रान्तयोः परलोकं प्रति गतिः । गतयोस्तत्र प्रतिष्ठा । प्रतिष्ठितयोः स्वाश्रये सम्पाद्यमाना तृप्तिः । तृप्तिमापाद्यावस्थितयोः पुनरिमं लोकं प्रत्यावृत्तिः । आवृत्तयोराश्रयः पुमान्कथममुं लोकं प्रत्युत्थानशीलो भवतीति कार्यारम्भमधिकृत्य पट्प्रश्नाः प्रवृत्ता इत्यर्थः । तत्रैव वाजसनेयके याज्ञवल्क्यं प्रति जनकस्य प्रतिवचनं दर्शयति – तेषां चेति । अपूर्वरूपे खल्वाहुती यजमानमुत्क्रामन्तं परिवेष्ट्योत्क्रामतः । ते च धूमादिना यजमानेऽन्तरिक्षमाविशति तदाश्रितत्वात्तदाविशतः । ते पुनरन्तरिक्षस्थयजमानानुकूलतया स्थिते स्वयमन्तरिक्षाधिकरणे तदाहवनीयमिव कुर्वाते । आहुत्यधिकरणस्याऽऽहवनीयत्वात् तत्र वायुं समिधमिव कुरुतः । वायुनाऽऽन्तरिक्षस्य समिध्यमानत्वात् । शुक्लां शुद्धामाहुतिमिव मरीचीरेवाऽऽदधाते । मरीचीनामन्तरिक्षे व्याप्तत्वात् । ते चान्तरिक्षस्थे तन्निष्ठं यजमानं फलोन्मुखमादधाते । ते पुनरन्तरिक्षादुत्क्रामति यजमाने सहोत्क्रामतः । यजमाने च द्युलोकमाविशति सहाऽऽविशतः । तमाविश्य तमेवाऽऽहवनीयं कुर्वाते आदित्यं समिधमित्याद्यन्तरिक्षवदेवोक्तम् । यथा वाऽऽहुती पूर्वमन्तरिक्षं तर्पयत इत्युक्तं तथैव द्युलोकस्थयजमानं फलदानेन सुखिनमातन्वाते । ते चाऽऽरब्धक्षये ततो द्युलोकाद्यजमाने पृथिवीगाविशत्यब्भूते सहाऽऽवर्तेते । पृथिवीं चाऽऽविश्य व्रीह्यादिना स्वाश्रयं श्लेपयित्वा रेतःसिघ्मं पुरुषमाश्रयद्वारेणाऽऽविशतः । पुरुषाच्च रेतोद्वारा द्वितीयां प्रकृतिमाविश्य गर्भीभूतं कर्मानुष्ठानयोग्यं देहभागिनमापादयतः । ततोऽसौ पारलौकिकं कर्मानुष्ठायान्ते लोकं प्रत्युत्थानशीलो भवति । इति सर्वं जनकेनोक्तमित्यर्थः । तथाऽपि कथमर्थभेदसिद्धिरित्याशङ्क्योक्तमेव संक्षिप्याऽऽह – तत्रेति । वाजसनेयकं सप्तम्यर्थः । प्रकृतश्रुतेरर्थविशेषं दर्शयति – इह त्विति । पञ्चधा द्युपर्जन्यपृथिवीपुरुषयोषित्प्रकारैरिति यावत् । पञ्चाग्निसम्बन्धमवतार्य प्रथमपर्यायस्य तात्पर्यमाह – इहेति । अयं लोको भूलोकस्तस्मिन्नित्यर्थः । आहुत्योरप्समवायित्वसिद्ध्यर्थं विशिनष्टि – पय आदीति । तयोः श्रद्धात्वसिद्ध्यर्थं श्रद्धापुरःसरे इत्युक्तम् । तयोरधिकरणोऽग्निरित्यादिकल्पनोपयोगित्वेन विशेषणान्तरमादत्ते – आहवनीयेति । तयोः स्वातन्त्र्यं परिहरति – कर्त्रादीति । अधिकरणशब्दो भावप्रधानो धर्मिपरः । काल्पनिको द्युलोकाख्योऽग्निस्तत्सम्बन्धमिति तच्छब्दोऽग्निविषयः । अन्यच्चेत्युक्तं स्पष्टयति – समिदादीति । आदिशब्दो धूमार्चिरङ्गारादिविषयः । पर्यायतात्पर्यमुक्त्वाऽऽक्षराणि व्याकरोति – असावित्यादिना ।
इहेत्येतल्लोकनिर्देशः पूर्वेण सम्बध्यते । तदुत्थानादित्यत्र तच्छब्देनाऽऽदित्यो गृहीतः ॥१॥ 【भाष्यम्】 【भाष्यम्】 अध्यात्माधिदैवविभागेन देवान्विशदयति – यजमानेति । प्रत्ययविशेषत्वेन श्रद्धाया होम्यत्वानुपपत्तिरित्याशङ्क्य श्रद्धां व्याकरोति – अग्निहोत्रेति । किञ्च प्रश्नप्रतिवचनयोरेकार्थत्वात्प्रश्ने चापां होम्यतया श्रुतत्वात्प्रतिवचनेऽपि ताः श्रद्धाशब्दिता होम्यतया विवक्षिता इत्याह – पञ्चम्यामिति । अप्सु श्रद्धाशब्दस्य वृद्धव्यवहारप्रयोगाभावान्नैवमित्याशङ्क्याऽऽह – श्रद्धेति । कथमापः श्रद्धाशब्देन प्रसिद्धवदुच्यन्ते तत्राऽऽह – श्रद्धामिति । श्रद्धापूर्वकहोममुद्दिश्य पयःसोमाज्यादिसाधनं संपाद्य जुहोतीति तैत्तिरीयकाः पठन्ति । तथा चाप्सु श्रद्धाशब्दः सम्भवतीत्यर्थः । उक्तमर्थं दृष्टान्तेन स्पष्टयति – यथेत्यादिना । उक्तं मधुविद्यायामिति शेषः । चान्द्रं कार्यं चन्द्रसमीपस्थं तत्सदृशं शरीरमित्यर्थः । तथाऽपि यजमानानां कथं फलवत्वमत आह – यजमानाश्चेति । आहुती तच्छब्दवाच्ये प्राधान्यं मयडर्थः । तदेव स्पष्टयति – आहुतिभावनाभाविता इति । तत्संस्तुतास्तदनुसारिणस्तदाश्रया इत्यर्थः । तद्भावितत्वफलमाह – आहुतिरूपेणेति । तेनाऽऽकृष्टत्वं वशीकृतत्वम् । आहुतिभाविता इत्युक्तं स्पष्टयति – श्रद्धेति । तत्पूर्वकं पयःसोमादिसाध्यं यत्कर्म तदाश्रया इत्यर्थः । सोमभूतास्तत्समीपस्थं शरीरं प्राप्य तत्स्वरूपा इत्यर्थः । कथं सोमसारूप्यं कर्मिणां फलमित्याशङ्क्याऽऽह – तदर्थमिति । यजमानानां सोमभावो गतिमन्तरेण न सिध्यति । तथा च वक्तव्या गतिरित्याशङ्क्याऽऽह – अत्रेति । आहवनीयोऽग्निः सप्तम्यर्थः । सा तर्हि कुत्रोच्यते न हि तदुक्तिमन्तरेण यथोक्तं फलं सिध्यत्यत आह –
तां त्विति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य चतुर्थः खण्डः ॥ द्वितीयहोमसम्बन्धी द्वितीयः पर्यायस्तस्यार्थं निर्ज्ञातुं तमेव पर्यायमादत्ते श्रुतिरित्यर्थः । पुरोवातादीत्यादिशब्देन वर्षहेतुर्वायुभेदो गृह्यते । उक्तं चाभ्राणां धूमकार्यत्वं पौराणिकैः – “यज्ञधूमोद्भवं त्वभ्रं द्विजानां च हितं सदा । दावाग्निधूमसम्भूतमभ्रं वनहितं स्मृतम् ॥ मृतधूमोद्भवं त्वभ्रमशुभाय भविष्यति । अभिचाराग्निधूमोत्थं भूतनाशाय वै द्विजाः ॥”
इति ॥१॥ 【भाष्यम्】 【भाष्यम्】 अध्यात्मं यजमानस्य प्राणा, इन्द्रादयस्त्वधिदैवतं देवा इत्याह – पूर्ववदिति । सोमं राजानमित्यादि व्याचष्टे –
श्रद्धाख्या इति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य पञ्चमषष्ठसप्तमखण्डाः ॥ तस्या आहुतेर्गर्भः सम्भवतीत्युक्तं व्यक्तीकरोति – एवमिति । यथोक्तया रीत्या श्रद्धादीनां रेतोन्तानां यानि द्युलोकादिषु योषिदन्तेष्वग्निषु हवनानि तेषामेकैकस्मिन्पर्याये यः क्रमो व्याख्यातस्तेनेति यावत् । कथं पुनरापो गर्भीभवन्ति भूतान्तराणामपि तुल्यो गर्भीभावस्तस्य पाञ्चभौतिकत्वादत आह – तत्रेति । भूतानां मध्ये । किमित्यपां प्राधान्यविवक्षयैष निर्देशस्तासामेव केवलानां कार्यारम्भकत्वविवक्षा किं न स्यात्तत्राऽऽह – न त्विति । भूतान्तरासहकृतानां केवलानामपामारम्भकत्वे यदारब्धं कार्य न तद्भोगायतनं तस्य जलबुद्बुदवदत्यन्तचञ्चलत्वादित्यर्थः । केवलानामप्त्वमुपेत्योक्तमिदानीं तदेव नास्तीत्याह – न चेति । इतिशब्दस्तासां त्रिवृतं त्रिवृतमेकैकामकरोदिति श्रुतेरिति हेत्वर्थः । सर्वस्य त्रिवृत्कृतत्वे कथं दृष्टो विशेषव्यपदेशो युज्येतेत्याशङ्क्याऽऽह – त्रिवृत्कृतत्वेऽपीति । अपां प्राधान्यविवक्षया प्रश्नप्रतिवचनयोरप्शब्द इत्युक्तमुपसंहरति – तस्मादिति । केवलानामपामसत्त्वादिति यावत् । कथमारम्भकेषु भूतेष्वपां बाहुल्यमवगतमित्याशङ्क्य कार्यद्वारा तदधिगतिरित्याह – दृश्यते चेति । सोमादीनामब्बाहुल्येऽपि कथं पार्थिवशरीरस्य तद्बाहुल्यमित्याशङ्क्याऽऽह – बहुद्रवं चेति । पञ्चमप्रश्ननिर्णयमुपसंहर्तुं पातनिकां करोति – तत्रेति । योषाग्नाविति यावत् । गर्भीभूताः पुरुषवचसो भवन्तीति सम्बन्धः ॥१ -२॥ इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्याष्टमः खण्डः ॥ उक्तार्थे वाक्यं योजयति – इति त्विति । अपां गर्भीभावोक्तिमात्रेण पुरुषवचस्त्वस्य निर्णीतत्वादलमुत्तरग्रन्थेनेत्याशङ्क्य तस्य तात्पर्यमाह – यत्त्विति । आहुत्योः सम्बन्धीति शेषः । प्रासङ्गिकं गर्भीभावोक्तिप्रसङ्गादागतमिति यावत् । इहेति प्रकृतश्रुत्युक्तिः । प्रासङ्गिकीं सङ्गतिं त्यक्त्वा साक्षादेव पूर्वोत्तरग्रन्थयोरस्ति सङ्गतिरिति तात्पर्यान्तरमाह – इह चेति । प्रजानामूर्ध्वगमनमुत्तरत्र निरूपयिष्यते । तादर्थ्येन तासामुत्पत्तिरादावुच्यत इत्यर्थः । द्विधा सङ्गतिमुक्त्वा वाक्याक्षराणि योजयति – स गर्भ इति । सोमवृष्ठ्यन्नरेतांस्यपेक्ष्य पञ्चमत्वं गर्भाख्यस्य परिणामस्य द्रष्टव्यम् । अपां प्रकृतत्वद्योतनार्थमाहुतीत्यादिविशेषणद्वयम् । अथवा पूर्वोक्तात्कालान्न्यू[ने]नाधिकेन वा कालेन यावता जन्तुः समग्राङ्गो जायते तावता कालेन कुक्षौ शयित्वेति सम्बन्धः । अनन्तरं योनितो निर्गमनकारणीभूतकर्माभिव्यक्तेरिति शेषः । उल्बावृतत्वं कुक्षौ चिरं शयनं योनितो निःसरणमित्येतदशेषमतिप्रसिद्धं किमिति श्रुत्या व्यपदिश्यते तत्राऽऽह – उल्बावृत इत्यादीति । वैराग्यार्थत्वमस्य स्पुटयति – कष्ट हीति । श्लेष्मादीत्यादिशब्देनासृक्पूयस्नायुमज्जादीनि गृह्यन्ते । तदनुलिप्तस्येति तच्छब्दो मूत्रपुरीषादिविषयः । शक्तिर्बुद्धिसामर्थ्यम् । बलं देहसामर्थ्यम् । वीर्यमिन्द्रियसामर्थ्यम् । तेजः शरीरगता कान्तिः । प्रज्ञा चेतना जीवधर्मः । चेष्टा प्राणधर्मः । ता निरुद्धा यस्य तस्येति विग्रहः । मातुरुदरे शयानस्य कष्टत्वेऽपि तदुदराद्योनिद्वारा निःसरणं सुखकरमिति चेन्नेत्याह – तत इति । तद्ग्राहकत्वप्रकारमेवाभिनयति – मुहूर्तमपीति । यन्मातुरन्तःशयनं मुहूर्तमपि दुःसहं तत्कथं दीर्घकालं शयितुं शक्यम् । कथं च दश वा नव वा मासानन्तः शयित्वा पुनर्योनिद्वारा दुष्करं निःसरणं दुःसह्यं स्यादिति वैराग्यं ग्राहयति –
श्रुतिरित्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 जातस्य पुनरनर्थो नास्तीत्याशङ्क्याऽऽह – स एवमिति । यावदायुषमित्येतद्व्याचष्टे – पुनरिति । घटीयन्त्रवदूर्ध्वगमनार्थं वा निषिद्धं कर्म पौनःपुन्येनाऽऽचरन्यावत्कर्मणाऽर्जितमायुस्तावदस्मिन्देहे जीवति ततो म्रियते । तथा च जातस्य मृत्युध्रौव्यान्नास्ति सम्यग्ज्ञानं विना स्वस्तिप्राप्तिरित्यर्थः । अस्तु तर्हि मृतस्य कृतकृत्यतेत्याशङ्क्याऽऽह – तमेतमिति । सर्वस्य तर्हि मृतस्य परलोकित्वं स्यादिति चेन्नेत्याह – यदीति । तदा परलोकं प्रति कर्मणा निर्दिष्टमिति पूर्वेण सम्बन्धः युक्तं च तन्मृतस्याग्न्यर्थं नयनमित्याह –
यत इति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य नवमः खण्डः ॥ स उल्बावृत इत्यादिनोक्तमनुवदति – वेत्थेति । प्रत्युपस्थितः प्रजोत्पत्तिप्रदर्शनेन प्रसङ्गत इति यावत् । तद्य इत्थं विदुरित्येतद्व्याचष्टे – तत्तत्रेत्यादिना । सप्तम्यर्थमेव स्फोरयति – लोकमिति । निर्धारणार्था षष्ठी । वेदनप्रकारमनुवदति – द्युलोकादीति । तेऽर्चिषमभिसम्भवन्तीत्युत्तरत्र सम्बन्धः । साधारणोक्तेर्विशेषे सङ्कोचो हेतुं विना न सिद्ध्यतीति शङ्कते – कथमिति । पारिशेष्यं सङ्कोचमिति परिहरति – गृहस्थानामिति । षष्ठी निर्धारणे । अतश्च केवलकर्मिणो गृहस्था न विदुरिति ग्रहणमर्हन्तीति शेषः । परिव्राजका वानप्रस्थाश्च गृह्यन्तामिति चेन्नेत्याह – ये चेति । केषां तर्हीति ग्रहणमत आह – पारिशेष्यादिति । गृहस्थ एव हेत्वन्तरमाह – अग्निहोत्रेति । तदाहुत्यपूर्वपरिणामात्मकं जगदत्र पञ्चधा प्रविभज्याग्नित्वेन दर्शनमुत्तरमार्गप्राप्तिसाधनं चोद्यते । अतो विद्यायास्तत्सम्बन्धाद्गृहस्थानामपि तत्सम्बन्धस्य प्राप्तत्वात्तेषामेवेह ग्रहणमुचितमित्यर्थः । पारिशेष्यमाक्षिपति – नन्विति । ग्रामः सपत्नीको वासः । न च ब्रह्मचारिणां पत्नीसम्बन्धः । तन्न ग्रामहुत्या ब्रह्मचारिणो गृहीताः । गुरुकुलवासित्वाच्च नारण्यश्रुत्योपलक्षिताः । ततस्तेषामिह ग्रहणसम्भवान्न पारिशेष्यमित्यर्थः । किं नैष्ठिकब्रह्मचारिणोऽत्रेत्थं विदुरिति गृह्येरन्किं वोपकुर्वाणा इति विकल्पाऽऽद्यं दूषयति – नैष दोष इति । “अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम् । स्मृतं स्थानं तु यत्तेषां तदेव गुरुवासिनाम् ॥” इत्यादिपुराणस्मृतेः श्रुतिमूलत्वेन प्रामाण्यान्नैष्ठिकब्रह्मचारिणामूर्ध्वरेतसामादित्यसम्बन्धेनोत्तरायणेनोपलक्षितो देवयानाख्यो मार्गो यावता प्रसिद्धस्तस्मात्तेषामरण्यवासिभिः सहाखण्डितब्रह्मचर्येणैवार्चिरादिगतिलाभान्न पञ्चाग्निवित्त्वेन प्रयोजनमिति पारिशेष्यसिद्धिरित्यर्थः । द्वितीयं प्रत्याह – उपकुर्वाणकास्त्विति । ते हि स्वाध्यायग्रहणार्थास्तस्मिन्गृहीते स्वेच्छावशादाश्रमान्तरं गृह्णन्तस्तत्फलेनैव फलवन्तो भवन्तीति न गृहस्थादिभ्यो विभज्येत्थं विदुरिति निर्देशमर्हन्तीत्यर्थः । किं नैष्ठिकानां ब्रह्मचारिणामुत्तरमार्गप्राप्तिसम्भवादनर्थकमित्थंवित्त्वं प्राप्तमिति श्रुतिविरोधाद्द्वितीये तु पारिशेष्यासिद्धितादवस्थ्यमिति शङ्कार्थः । किमित्थंवित्त्वं नैष्ठिकान्प्रत्यनर्थकमित्युच्यते किं वा सर्वानेव प्रतीति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूषयति – न गृहस्थानिति । तान्प्रत्यर्थवत्त्वमेवेत्थंवित्त्वस्य विभज्य समर्थयते – ये गृहस्था इति । स्वभावतस्तदनुष्ठितेष्टापूर्तबलादित्यर्थः । तेषामेव गृहस्थानां मध्ये ये केचिदुक्तेन प्रकारेणेत्थं पञ्चाग्निदर्शनं विदुरग्निभ्योऽन्यद्वा सगुणं ब्रह्म विदुस्ते देवयानेनोत्तरेण पथा गच्छन्तीति सम्बन्धः । न केवलं गृहस्थानां पञ्चाग्निवित्त्वमेव किन्तु सगुणब्रह्मवित्त्वमपि तेषामस्तीति प्रमाणमाह – अथेति । अन्त्येष्टिकरणाकरणयोरविशेषेण ब्रह्मविदामर्चिरादिगतिश्रवणादस्ति गृहस्थानामपि ब्रह्मवित्त्वमिति गम्यते । परिव्राजकादिष्वन्त्येष्ट्यसम्भवेन विद्यास्तुतेरपि दुर्वचनत्वादित्यर्थः । विहितत्वाविशेषादाश्रमाणां तुल्यत्वमाश्रित्य शङ्कते – नन्विति । साम्यमुक्त्वा गृहस्थेषु विशेषं दर्शयति – अग्निहोत्रादीति । वैदिकानि कर्माणि भूयांसि सन्ति । तेषां च बाहुल्ये सत्यविदुषामूर्ध्वरेतसामेव देवयानेन पथा गमनं न गृहस्थानामित्ययुक्तं साधनभूयस्त्वे फलभूयस्त्वन्यायविरोधादित्यर्थः । आश्रमित्वाविशेषेऽपि धर्मविशेषाद्विशुद्धितारतम्यसम्भवान्नैकरूप्यमिति परिहरति – नैष दोष इति । कथं गृहस्थानामग्निहोत्रादिभूयोधर्मवतां विद्याहीनानामप्यपूतत्वं तत्राऽऽह – शतृमित्रेति । अब्रह्मचर्यादीत्यादिपदेन परिग्रहित्वादि गृह्यते | अशुद्धिबाहुल्यकारणमतःशब्दार्थः । तुल्यमूर्ध्वरेतसामप्यशुद्धिहेतुबाहुल्यादपूतत्वमित्याशङ्क्याऽऽह – हिंसेति । ऊर्ध्वरेतसां पूतत्वे सिद्धे फलितमाह – तेषामिति । ऊर्ध्वरेतसां देवयाने पथ्यनुप्रवेशे प्रमाणमाह – तथाचेति । पौराणिका आहुरिति सम्बन्धः । आश्रमधर्ममात्रमार्गद्वारेणामृतत्वमूर्ध्वरेतसामुक्तमाक्षिपति – इत्थंविदामिति । तेषां विद्यानर्थक्यमिष्टमेवेत्याशङ्क्याऽह – तथा चेति । स परमात्मा स्वयमज्ञातः सन्नेनमधिकारिणमपवर्गप्रदानेन न पालयतीति च वाक्यं विद्यामन्तरेणामृतत्वं ब्रुवतो विरुद्धमित्यर्थः । ऊर्ध्वरेतसाममृतत्वस्याऽऽपेक्षिकत्वात्तत्र विद्यानर्थक्यमेवेति परिहरति – नाऽऽभूतेति । आपेक्षिकममृतत्वमित्यत्र प्रमाणमाह – तत्रैवेति । यत्र प्रजाः कामयमाना मुक्तिभाजो न भवन्तीत्युक्तं तत्रैव तत्सन्निधाविति यावत् । कथं तर्हि यथोक्तश्रुतिविरोधसमाधिरित्याशङ्क्याऽऽह – यच्चेति । आदिशब्दस्तमेवं विद्वानमृत इह भवतीत्यादिश्रुतिसंग्रहार्थः । आपेक्षिकामृतत्वे श्रुतिविरोधो न शक्यते परिहर्तुमिति शङ्कते – न चेति । आदिशब्दस्तेषामिह न पुनरावृत्तिरित्यादिवाक्यसंग्रहार्थः । इममिहेति विशेषणावष्टम्भेन निराचष्टे – नेत्यादिना । तदेव व्यतिरेकमुखेन विशदयति – यदीति । सर्वकल्पेषु श्रुतेरेतादृशत्वादिममिहेतिपदद्वयसामान्येन सर्वकल्पविषये विशेषणानर्थक्यं दुर्वारमित्युत्तरमाह – नानावृत्तीति । विधान्तरेण विशेषणार्थसम्भवे फलितमाह – अत इति । यस्मिन्कल्पे ब्रह्मलोकप्राप्तिस्तस्मात्कल्पान्तरमन्यत्रेत्युक्तम् । ऊर्ध्वरेतसामाश्रमधर्ममात्रनिष्ठानाममृतत्वमापेक्षिकमुपक्षिप्तम् । संप्रति तेषामेव साक्षात्कृतब्रह्मतत्त्वानामात्यन्तिकममृतत्वं गतिनिरपेक्षं सिद्ध्यतीत्याह – न चेति । तेषां गत्यादिनिरपेक्षमात्यन्तिकममृतत्वं भवतीत्यत्र प्रमाणमाह – ब्रह्मैवेति । न तस्मात्प्राणा उत्क्रामन्तीति माध्यन्दिनश्रुतिमनुसृत्य न तस्येत्यादिकाण्वश्रुतिरपि नेतव्येति शङ्कते – ननु तस्मादिति । वाक्यशेषविरोधान्नैवमिति दूषयति – नात्रेति । श्रुत्यन्तरालोचनायामपि न स्वयूथ्यकल्पनेत्याह – सर्वे प्राणा इति । प्राणैः सह जीवस्येति शेषः । संसारदशायां प्राणैः सह विज्ञानात्मनो गमनेऽपि मोक्षे नास्ति प्राणानां जीवेन सह गमनमित्याशङ्कायां न तस्मादित्यादिवाक्यमित्याशङ्क्याऽऽह – यदाऽपीति । भवतु प्राणानामत्रैव समवलयस्तथाऽपि जीवस्य गमनायत्तममृतत्वमित्याशङ्क्याऽऽह – न चेति । “कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि । कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति । स प्राणमसृजत” (प्र.उ. ६ । ३) इति श्रुतेरिति शेषः । किञ्च प्राणैर्वियुक्तस्य चिदात्मनो जीवत्वं नोपपद्यते प्राणोपाधिकस्यैव तस्य जीवशब्दवाच्यत्वादित्याह – जीवत्वं चेति । उक्तमर्थं समर्थयते – सर्वगतत्वादिति । चिदात्मा हि कल्पनायामधिष्ठाने सति यतो निर्भागं सर्वस्याऽऽत्मा तस्मादग्नेर्विस्फुलिङ्गवज्जीवत्वाख्यभेदसम्पादनं तस्य प्राणसम्बन्धमात्रमेवेति वैदिकानां प्रसिद्धम् । तथा च प्राणवियोगे चिदात्मनो जीवत्वं गतिर्वा न शक्यते कल्पयितुम् । तस्मात्पूर्णत्वादिप्रतिपादकश्रुतीनां प्रमाणत्वादित्यर्थः । सदात्मनः सर्वगतस्य जीवाख्यभेदकरणं न प्राणोपाधिकृतं किं तु स्वत एव तस्यांशो जीवस्तथा चाग्निविस्फुलिङ्गवत्तस्य गत्युपपत्तिरित्याशङ्क्याऽऽह – न चेति । “निष्कलं निष्क्रियं शान्तम्” (श्वे.उ. ६ । १९) इत्यादिश्रुतेरिति शेषः । प्रकरणार्थमुपसंहरति – तस्मादिति । निर्गुणब्रह्मविदामात्यन्तिकामृतत्वस्य गमनादिनिरपेक्षत्वादिति यावत् । सगुणब्रह्मोपासकस्य सापेक्षममृतत्वमित्यत्र विशेषणश्रुतिमनुकूलयति – तदपराजितेति । आदिपदेन तदश्वत्थः सोमसवन इत्यादि गृह्यते । तेषामेव ब्रह्मविदामेष पूर्वोक्तविशेषगुणो ब्रह्मणः सत्याख्यस्य लोको नान्येषामकृतात्मनामिति विशेषदर्शनादमृतत्वं तेषां तल्लोकनिवासिभिः समं सापेक्षमेवेति निर्धारितमित्यर्थः । ऊर्ध्वरेतसामाश्रममात्रनिष्ठानामपि ब्रह्मलोको लभ्यते गृहस्थानां पुनर्विदुषामेवेत्युपपाद्य प्रकृतश्रुतिव्याख्यानमनुवर्तयति – अत इति । पूर्वोक्तपारिशेष्यादिवशादिति यावत् । परिव्राजकाश्चेत्यमुख्यसंन्यासिनस्त्रिदण्डिनो गृह्यन्ते मुख्यसंन्यासिनां ब्रह्मसंस्थोऽमृतत्वमेतीति पृथक्कृतत्वात् । श्रद्धां सत्यमित्युपासत इति श्रुत्यन्तरम् । पञ्चाग्निविदो गृहस्थाः स्वाश्रममात्रप्रवणा ऊर्ध्वरेतसः सत्यब्रह्मोपासकाश्चोभये सर्वशब्देनोच्यन्ते । चतुर्थे यदुपकोसलविद्यायां गतिव्याख्यानमतिवृत्तं तेन समानमर्चिषोऽहरित्यादिवाक्यव्याख्यानं तथा च तन्न पृथक्कर्तव्यमित्याह – समानमिति । उत्तरमार्गव्याख्यानमुपसंहरति – एष इति । देवयानेन पथा बहिरण्डाद्वयवस्थितं ब्रह्म गन्तव्यमित्येके तान्प्रत्याह – नाण्डादिति । तत्र हेतुमाह – यदन्तरेति । पितरं द्युलोकं मातरं च पृथिवीं मध्ये ये द्वे सृती अशृणवं ताभ्यामिदं विश्वं कर्मज्ञानाधिकृतं गच्छति न चाण्डाद्बहिरस्ति गतिद्वयमित्यर्थः ॥१-२॥ वेत्थ यदितोऽधि प्रजाः प्रयन्तीत्यस्य प्रश्नस्य प्रतिवचनं देवयानोपदेशेन व्याख्यातं संप्रति पितृयाणोपदेशेनापि ग्रामनिवासित्वाविशेषादित्याशङ्क्याऽऽह – ग्राम इतीति । सपत्नीको हि वासो ग्राम इत्युच्यते । न च सपत्नीकत्वमूर्ध्वरेतसां युक्तं तथा च गृहस्थानामेव ग्रामविशेषणमसाधारणं; न च तदनर्थकमूर्ध्वरेतोभ्यस्तेषां व्यावृत्त्यर्थत्वादित्यर्थः । तदेव दृष्टान्तेन स्फुटयति – यथेति । वेद्यन्तर्भावव्यासेधाद्बहिर्वेदीति विशेषणमादौ दत्तमिति प्रतीकोपादानं पुनर्व्याख्यातस्यानुवाद इत्यपुनरुक्तिः । इतिशब्दार्थमाह – इत्येवंविधमिति । परिचरणं गुर्वादिशुश्रूषा । परित्राणं रक्षणम् । आदिपदं नित्यस्वाध्यायादिसंग्रहार्थम् । उपासते तात्पर्येणानुतिष्ठन्तीति यावत् । कथमितिशब्दस्य यथोक्तार्थत्वमिति ह स्मोपाध्यायः कथयतीतिवत्प्रकृतमात्रगामित्वादित्याशङ्क्याऽऽह – इतिशब्दस्येति । देवयानाधिकृतेभ्यः सकाशात्पितृयाणाधिकृतेषु विशेषान्तरमाह – नैत इति । अप्राप्तप्रतिषेधोऽयमिति शङ्कते – कुत इति । प्राप्तिं दर्शयन्नुत्तरमाह – अस्ति हीति ।
पूर्ववत्, यथा पूर्वं देवयानेन पथाऽवयवेभ्योऽवयविनः संवत्सरस्य प्राप्तिस्तथेति यावत् ॥३॥ 【भाष्यम्】 【भाष्यम्】 अन्नशब्दस्य यथाश्रुतमर्थं गृहीत्वा चोदयति – नन्विति । औपचारिकमर्थं गृहीत्वा परिहरति – नैष दोष इति । वृद्धप्रयोगमन्तरेण कथमुपकरणविषयोऽन्नशब्दो व्याख्यायते तत्राऽऽह – दृष्टश्चेति । भवतु कर्मिणां देवान्प्रत्युपकरणत्वं तथाऽपि स्वयमुपभोगाभावादनर्थकमिष्टादिकरणमित्याशङ्क्याऽऽह – न चेति । अन्योपभोग्यानामपि स्वयं भोगसत्त्वं तस्मादित्युच्यते । तथाऽपि तेषां मृतानामशरीरिणां कथं मुख्योपभोगः सम्भवतीत्याशङ्क्याऽऽह – शरीरं चेति । कथमपां चन्द्रलोके तद्देहारम्भकत्वं तदाह – यदुक्तमिति । अथापां सोमत्वमेवात्र प्रतीयते नतु कर्मिदेहारम्भकत्वमित्याशङ्क्याऽऽह – ता आप इति । कर्मसमवायिनीनामपां कर्मापूर्वद्वारा यजमानदेहप्रतिष्ठानां कथं द्युलोकप्रवेशादि सम्भवतीत्याशङ्क्याऽऽह – अन्त्यायां चेति । अद्भिरारब्धस्य शरीरस्य भोगायतनत्वं दर्शयति –
तदारब्धेनेति ॥४॥ 【भाष्यम्】 【भाष्यम्】 तद्देवानामन्नमित्यादि व्याख्याय तस्मिन्नित्यादि व्याचष्टे – यावदिति । चन्द्रलोकस्तच्छब्दार्थः । यावत्संपातमुषित्वेति श्रूयते कथमन्यथा व्याख्यायते तत्राऽऽह – सम्पतन्तीति । पुनःशब्दप्रयोगस्य तात्पर्यमाह – पुनरिति । अथेत्यादिवाक्यार्थमुपसंहरति – तस्मादिति । तच्छब्दपरामृष्टं हेतुं स्पष्टयति – स्थितीति । यथा दीपस्य स्नेहक्षये स्थितिनिमित्ताभावादस्थितिस्तथा चन्द्रलोके स्थितिनिमित्तस्येष्टादेर्भोगेन क्षयात्तत्र स्थित्यसम्भवादावृत्तिरेवेत्यर्थः । तस्मिन्यावत्सम्पातमुषित्वेत्यत्र विचारयति – तत्रेति । तस्य चन्द्रमण्डलप्रापकस्यातिरिक्तस्य च सर्वस्य कर्मणः क्षये सतीति यावत् । सावशेषो भुक्तात्कर्मणः सकाशादतिरिक्तेन केनचित्कर्मणा सहितः सन्नित्यर्थः । पक्षद्वयेऽपि फलं पृच्छति – किं तत इति । तत्राऽऽद्यं पक्षं पूर्वपक्षमुखेन प्रतिचिक्षिप्सुस्तत्फलमाह – यदीति । तत्रैव दूषणान्तरमाह – तिष्ठत्विति । चन्द्रमण्डलं सप्तम्यर्थः । ततश्चन्द्रमण्डलादित्येतत् । इहेत्येतल्लोकोक्तिः । आदिपदं शुभाशुभकर्मानुसारिसर्वव्यापारसंग्रहार्थम् । न केवलं सर्वकर्मक्षयपक्षे मुक्तिरेव विरुध्यते किन्तु स्मृतिश्चेत्याह – तत इति । चन्द्रलोके भोक्तव्यस्य कर्मणो भोगेन क्षयादूर्ध्वं शेषेणानुपभुक्तेन कर्मणा जन्म प्रतिपद्यन्त इत्याद्या स्मृतिः सर्वकर्मक्षयपक्षे विरुध्यत इत्यर्थः । सर्वकर्मक्षयपक्षे पूर्वपक्षिणाऽन्यथावादिना प्रतिक्षिप्ते सावशेषपक्षमुत्तरवादी प्रतिपद्यते – नन्विति । तान्यपि चन्द्रमण्डले भुक्तान्येवेति नावशेषोऽस्तीत्याशङ्क्याऽऽह – न चेति । न हि सर्वकर्मवशाच्चन्द्रमण्डलप्राप्तिरिति भावः । तर्हि चन्द्रमण्डले कर्मफलोपभोगाभावादलं तदारोहेणेत्याशङ्क्याऽऽह – यन्निमित्तमिति । अविरोधश्चन्द्रमण्डले भोगस्य शेषकर्मसद्भावस्य चेति शेषः । यत्तु ततः शेषेणेत्यादिस्मृतिविरोध इति तत्राऽऽह – शेषशब्दश्चेति । निःशेषेष्वपि भुक्तेषु कर्मस्वभुक्तकर्मसु शेषशब्दो न विरुध्यतेऽभुक्तानां कर्मणां कर्मत्वस्य तुल्यत्वान्नात्र सावशेषपक्षे स्मृतिविरोधोऽस्तीत्यर्थः । यच्चन्द्रमण्डस्थलस्यैव मोक्षः स्यादिति तत्राऽऽह – अत एवेति । शेषकर्मसद्भावादेवेति यावत् । इतश्च कर्मशेषसिद्धिरित्याह – विरुद्धेति । आरम्भकत्वसम्भवादेकजात्युपभोग्यकर्मक्षयेऽपि कर्मशेषः सम्भवतीति शेषः । अथैकस्मिञ्जन्मनि सर्वाणि क्षीयन्ते कर्माशयस्यैकभविकत्वादित्याशङ्क्याऽऽह – न चेति । ऐकभविकन्यायस्योपरिष्टान्निराकरिष्यमाणत्वादित्यर्थः । इतश्च शेषकर्मसिद्धिरित्याह – ब्रह्महत्यादेश्चेति । “श्वसूकरखरोष्ट्राणाम्” इत्यादिस्मरणम् । घृतभाण्दस्नेहशेषवद्भुक्तस्यैव कर्मणः शेषात्पुनरावृत्तिर्भविष्यतीत्यत आह – स्थावरादीति । शेषकर्मसिद्धौ हेत्वन्तरमाह – गर्भभूतानामिति । कर्मशेषसद्भावमुपसंहरति – तस्मादिति । एकस्यापि कर्मणोऽनेकजन्महेतुत्वं तच्छब्दार्थः । मतान्तरमुत्थापयति – यत्त्विति । यावत्प्रवृत्तफलं कर्म न क्षीयते तावत्प्रवृत्तिप्रतिबन्धादन्यानि कर्माणि स्वफलं नाऽऽरभन्ते । मरणकाले तु प्रतिबन्धकाभावात्सर्वकर्माश्रयसङ्गातोपमर्देन तेषामुत्तरशरीरारम्भकत्वमविरुद्धमित्यर्थः । तथाऽपि कथं शेषकर्मसद्भावासिद्धिरित्यत आह – तत्रेति । अनारब्धकर्मणां सर्वेषामुत्तरशरीरारम्भकत्वे सतीति यावत् । प्रायणकाले यानि कर्माण्यभिव्यक्तानि तान्येवोत्तरशरीरारम्भकाणीतरेषां तु न शरीरारम्भकत्वमिति दूषयति – तदसदिति । मधुब्राह्मणोक्तेन न्यायेन सर्वस्य सर्वात्मकत्वाङ्गीकाराद्देहस्यापि तथात्वान्न सर्वात्मनोपमर्दोपपत्तिरित्यर्थः । उक्तमर्थमुपपादयितुं सामान्यन्यायमाह – न हीति । सर्वं सर्वस्य कारणं कार्यं चेति न्यायेन सर्वस्य सर्वात्मकत्वे स्थिते सति कस्यचित्क्वचित्सर्वात्मनोपमर्दस्तथाऽभिव्यक्तिर्वा नोपपद्यते । प्रतीयमानोपमर्दादेर्देशविशेषादिकृतत्वादित्यर्थः । उक्तन्यायं प्रकृते योजयति – तथेति । इतश्च कर्मशेषः सम्भवतीति क्रमवत्तायां दृष्टान्तमाह – यथा चेति । पूर्वं क्रमेणानुभूतानि यानि मनुष्यादिजन्मानि तैरभिसंस्कृताः सम्पादिता विरुद्धा या भूयस्यो वासनास्तज्जातिविशेषप्रापकेन कर्मणा तस्मिन्नारभ्यमाणे न निरुध्यन्त इत्यर्थः । दार्ष्टान्तिकमाह – तथेति । दृष्टान्तं विवृणोति – यदि हीति । व्यवहितवासनोच्छेदेऽपि नाव्यवहितवासनोच्छिद्यते तथा चानन्तरजन्मोत्थवासनासामर्थ्यात् मर्कटशिशोर्यथोक्तकौशलमविरुद्धमित्याशङ्क्याऽऽह – न चेति । किञ्च पूर्वप्रज्ञा चेत्यविशेषेण पूर्वजन्मार्जितवासना जीवमनुगच्छतीति श्रवणादव्यवहितपूर्वजन्मवासनैव तमन्वेतीति न शक्यं विशेषतो वक्तुमित्याह – तं विद्येति । दृष्टान्तमुपपाद्य दार्ष्टान्तिकं निगमयति – तस्मादिति । शेषकर्मसद्भावे फलितमाह – यत इति । उपभुक्तात्कर्मणः शेषेणेति सम्बन्धः – कश्चिदिति । श्रौतौ वा स्मार्तो वा यौक्तिको वा लौकिको वेत्यर्थः । एतमेवाध्वानमिति प्रकृतमध्वानं प्रश्नपूर्वकं विशदयति – कोऽसावित्यादिना । यथेतमित्युक्तमाक्षिपति – नन्विति । किं यथेतमित्येतदेव न सम्भवति किं वा यथेतमेवेति नियमो नोपपद्यते तत्राऽऽद्यं दूषयति – नैष दोष इति । द्वितीयं प्रत्याह – न चेति । अत्रेति निवृत्तिरुक्ता । अनेवंविधमपीति । यथा गतिक्रमो दर्शितो न तथा निवृत्तिर्नियता किं तु विधान्तरेणापि सम्भवतीत्यर्थः । निवृत्तेः क्रमनियमाभावे कीदृशो नियमो विवक्षित इत्याशङ्क्याऽऽह – पुनरिति । केनाभिप्रायेण तर्हि यथेतमित्युक्तमत आह – अत इति । गतिक्रमवन्निवृत्तिक्रमे नियमाभावोऽतःशब्दार्थः । उक्तं च “यथेतमनेवं च” इति । निवृत्तिनियमे फलितमाह – अत इति । परमात्मानं व्यावर्तयितुं भौतिकमित्युक्तम् । कथं पूर्वसिद्धाकाशतादात्म्यापत्तिरवरोहतां सिध्यतीत्याशङ्क्य तत्साम्यगमनमेव तद्भावापत्तिरित्युपचर्यते स्वाभाव्यापत्तिरिति न्यायादित्याह – यास्तेषामिति । घृतस्य संस्थानं काठिन्यम् । तास्वाकाशभूतासु तत्परिवेष्टिताः कर्मिणोऽध्यवरोहन्तस्तद्भूता इव भवन्तीत्यर्थः । आकाशाद्वायुमित्यस्यार्थं साधयति –
ता अन्तरिक्षादिति ॥५॥ 【भाष्यम्】 【भाष्यम्】 उन्नतेषु समुद्रादिव्यतिरिक्तेषु प्रदेशेष्विति यावत् । त इत्यनुशयिनो निर्दिश्यन्ते । इहेति पृथिवी कथ्यते । कथमस्मिन्वाक्ये बहुवचनेनानुशयिनां बहूक्त्या निर्देशः कृतस्तत्राऽऽह – क्षीणकर्मणामिति । कथं तर्हि मेघो भूत्वा प्रवर्षतीत्यादावेकवचननिर्देशस्तत्राऽऽह – मेघादिष्विति । ये पूर्वे मेघादयो नभोन्तास्तेषु प्रत्येकमभिमानिदेवतानामेकरूपत्वात्तदुपश्लिष्टानामनुशयिनामप्येकवचनेन निर्देशो युक्त इत्यर्थः । अतो वै खल्वित्यादिवाक्यं व्याचष्टे – यस्मादिति । अनुशयिनां दुःशकं निःसरणमित्युक्तं प्रपञ्चयति – यत इत्यादिना । मकरादिभिर्भक्षितानामनुशयिनां तेभ्यस्तत्समानजातीयत्वेन समुद्भवो भविष्यतीति चेन्नेत्याह – तेऽपीति । मकरादयोऽपि जलचारिभिरन्यैर्भक्ष्यन्ते तथा च समुद्रे पतितानामनुशयिनां तत्रैव लयः स्यादित्यर्थः । नन्वेवमनुशयिनः समुद्रे लीना न ततः पुनरुद्धर्तुं शक्यन्ते तथा च कृतविनाशः स्यादित्याशङ्क्याऽऽह – जलधरैरिति । समुद्राम्भोभिरिति तृतीया सहार्थे । तर्हि सर्पव्याघ्रोपभुक्तानामनुशयिनां तत्समानजातीयदेहभोगः स्यादिति चेन्नेत्याह – भक्षिताश्चेति । यैस्तर्हि सर्पादयो भक्ष्यन्ते तेभ्यस्तत्समानजातीयत्वेनानुशयिनामुद्भवः स्यादिति चेन्नेत्याह – तेऽपीति । तथाऽपि यथोक्तरीत्या परिवर्तनात्ते रेतःसिग्योगमपि यदा कदाचित्प्रपद्येरन्निति चेन्नेत्याह – कदाचिदिति । तथाऽपि भक्ष्येषु जातानां रेतःसिग्योग सुलभः स्यादिति चेन्नेत्याह – भक्ष्येष्वपीति । इतिशब्दो यच्छब्देन पूर्वेण सम्बध्यते । पूर्वमतःशब्दो हेतुपरतया व्याख्यातः संप्रति व्रीह्याद्यवधिवाचकत्वेन तं व्याचष्टे – अथवेति । दुर्निष्प्रपततरमिति तकारसहिते पाठे सति विवक्षितमर्थमाह – व्रीहियवादीति । तत्र हेतुमाह – यस्मादिति । तर्हि तेषामन्तराले विशीर्णानां देहभागित्वाभावादनुशयवैयर्थ्यमित्याशङ्क्याऽऽह – कदाचिदिति । काकतालीयया वृत्त्या यादृच्छिकन्यायेनेति यावत् । अनुशयाख्यस्य कर्मणो भाविदेहारम्भार्थत्वान्मुख्यं प्रश्नपूर्वकं विवृणोति – कथमित्यादिना । अनुशयिनो रेतःसिगाकारभाक्त्वे हेतुमाह – रेतस इति । तस्य रेतःसिगाकृत्या तदंशेन भावितत्वात्संस्कृतत्वात्तदङ्गसम्भूतत्वात्तद्रूपेण गर्भाशयमनुप्रविष्टोऽनुशयी रेतःसिगाकृतिर्भवतीत्यर्थः । रेतसो रेतःसिगङ्गसमुत्थत्वे प्रमाणमैतरेयकश्रुतिरित्याह – सर्वेभ्य इति । रेतोरूपेण गर्भाशयं प्रविष्टस्य रेतःसिगाकारत्वमुक्तं निगमयति – अत इति । अनुशयिनो रेतःसिगाकारत्वे लौकिकानुभवमनुकूलयति – तथा हीति । चन्द्रस्थलस्खलितानामवरोहतां व्रीह्यादिदेहसंश्लिष्टानां द्राघीयसा कालेन देहान्तरलाभश्चेत्तर्हि व्रीह्यादिदेहाभिमानिनामपि दुःशकं निष्क्रमणं व्रीह्यादिदेहसम्बन्धाविशेषादित्यत आह – ये त्विति । व्रीह्यादिदेहसम्बन्धाविशेषे कुतस्तद्देहभाजां ततो निःसरणमशक्यं न भवतीत्याशङ्क्य विशेषमाह – कस्मादित्यादिना । “शरीरजैः कर्मदोषैर्याति स्थावरतां नरः” (म.स्मृ. १२ । ९) इत्यादिश्रुतिस्मृत्योर्येषां कर्मनिमित्तं स्थावरं जन्म तेषां कर्मक्षयः एवावधिः । अवरोहतां तु कर्मासङ्कीर्तनाद्वैषम्यमित्यर्थः । यथा जलूका तृणात्तृणान्तरं दीर्घभूता संक्रमते न तथाऽनुशयिनो व्रीह्यादिदेहभाजोऽपि तत्त्यागेन देहान्तरं गच्छन्ति । तद्विषयविज्ञानवन्त एव गच्छन्तीत्यत्र बृहदारण्यकश्रुतिं प्रमाणयति – सविज्ञान इति । अथोपसंहृतकरणानां विज्ञाने कारणासम्भवात्कथं सविज्ञानत्वं तत्राऽऽह – यद्यपीति । दृष्टकारणभावेऽप्यदृष्टमेवैकं वासनात्मकं ज्ञानोत्पत्तौ निमित्तमिति तेन सविज्ञाना एव गच्छन्ति देहान्तरमित्यत्र हेतुमाह – श्रुतिप्रामाण्यादिति । श्रुतिरत्र बृहदारण्यकश्रुतिः । यथा सविज्ञानानामेव व्रीह्यादिदेहान्तरगमनं तथा ज्ञानिनामर्चिरादिना कर्मिणां धूमादिना च गमनं स्वप्नवदुद्भूतवासनात्मकविज्ञानेन सविज्ञानानामेवेत्याह तथेति । तेषां सविज्ञानत्वे हेतुमाह – लब्धवृत्तीति । अनुशयिनामपि तर्हि व्रीह्यादिषु संश्लिष्टानां रेतःसिगादिदेहसम्बन्धः सविज्ञानानामेवेति चेन्नेत्याह – न तथेति । अनुपपत्तौ हेतुमाह – न हीति । व्रीह्यादिसंश्लिष्टानामनुशयिनां सविज्ञानत्वे तल्लवनादौ तज्जीववत्तेषामपि प्रवासप्रसङ्गान्न रेतःसिग्देहसम्बन्धः सिद्ध्येदित्यर्थः । व्रीह्यादिषु देहान्तरं गच्छत्सु सविज्ञानत्वोपलम्भादनुशयिष्वपि देहान्तरप्राप्तेरविशेषाद्युक्तं सविज्ञानत्वमिति शङ्कते – नन्विति । तृणात्तृणान्तरं प्रति जलूकागमनवदवरोहतामपि देहाद्देहान्तरं प्रति गमनस्य तुल्यत्वाद्व्रीह्यादिवद्युक्ता सविज्ञानतेति योजना । अस्तु तेषां सविज्ञानत्वं का हानिरित्यत आह – तथा सतीति । इष्टापूर्तादिकारिणामन्तराले नरकानुभवे । तथा च सति तदनुष्ठानस्यानर्थार्थं विहितत्वे श्रेयःसाधनविषयककर्मकाण्डं विरुध्येतेत्याह – श्रुतेश्चेति । यथा बुद्धिपूर्वं वृक्षमारोहतां सविज्ञानत्वेऽपि तस्मादबुद्धिपूर्वं पततां न सविज्ञानत्वं विज्ञायते तथा चन्द्रमण्डलमारोहतां सविज्ञानत्वेऽपि ततोऽवरोहतां नैव तदस्ति उद्भूतकर्माभावात् इत्यारोहावरोहयोर्ज्ञाने विशेषसम्भवान्मैवमिति परिहरति – न वृक्षेति । संग्रहवाक्यं विवृणोति – देहादित्यादिना । चकाराद्गच्छतां सविज्ञानत्वं भवेदिति सम्बन्धः । अवरोहतां जीवानां सर्वथा विज्ञानशून्यत्वमयुक्तं चैतन्यस्वाभाव्याद्वृक्षात्पततामपि विज्ञानमात्रमस्त्येवेत्याशङ्क्योदाहरणान्तरमाह – यथा चेति । तेन मुद्गरादिना योऽभिघातस्तेन हेतुना यद्वेदनाख्यं निमित्तं तेन संमूर्छितानि संहृतानि प्रतिबद्धानि वा करणानि येषां तेषामिति यावत् । मृदितो विनष्टो देहोऽम्मयः स्थूलो देहो येषां तेषां तत एव प्रतिबद्धकरणानां विज्ञानशून्यतेति सम्बन्धः । यथोक्तदृष्टान्तवशाच्चन्द्रमण्डलादवरोहन्तो विज्ञानशून्याः सिद्ध्यन्तीति निगमयति – अत इति । तथाऽपि मूर्छितानां स्थूलदहसद्भावाद्देशान्तरगमनं युक्तम् । अवरोहतां तु तदभावे कथं व्रीह्यादिभावः सम्भवतीत्यत आह – अपरित्यक्तेति । न परित्यक्तं देहभावस्य बीजं कर्मापूर्वं याभिस्ताभिरद्भिरुपहिता जीवा मूर्छितवद्विज्ञानशून्या गमनादिक्रमेण पृथिवीं प्राप्य कर्मफलभूतजातिस्थावरशरीरैः संश्लिष्यन्त इति सम्बन्धः । स्थावरदेहसम्बन्धित्वात्तद्गतजीववत्तदा सविज्ञानत्वं सम्भवतीत्याशङ्क्याऽऽह – प्रतिबद्धेति । व्रीह्यादिसंश्लेषावस्थायामनुशयिनां कर्मणोऽनुद्भूतवृत्तित्वात्करणानां तत्र वृत्तिलाभाभावादनुद्भूतविज्ञानत्वं युक्तमित्यर्थः । न केवलं व्रीह्यादिसंश्लेषकालेऽनुद्भूतविज्ञानत्वं किन्तु व्रीह्यादेर्लवनादिकालेऽपीत्याह – तथेति । पाकः संस्कारः । रसादीत्यादिशब्देन शोणितमांसमेदोऽस्थिमज्जारेतांस्युच्यन्ते । तस्मिन्काले मूर्छितवदनुद्भूतविज्ञानत्वं देहाद्बर्हिर्निर्गतानां प्राग्देहान्तरप्राप्तेस्तदस्त्येवेति हेतुमाह – देहेति । अलब्धवृत्तित्वादिति च्छेदः । कथं पुनरनुशयिनां विज्ञानशून्यत्वे “तद्यथा तृणजलायुक्ता तृणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्याऽऽत्मानमुपसंहरति” इत्यादौ सचेतना जलूका दृष्टान्तत्वेनोपादीयते तत्राऽऽह – देहबीजभूतेति । सर्वास्ववस्थासु तासु व्रीह्यादिसंश्लेषतल्लवनादिवशादिति यावत् । न चेतनावत्त्वं जलूकादृष्टान्ते विवक्षितं किन्तु सातत्यमात्रमिति भावः । जलूकावत्त्वं जलूकासादृश्यमनुशयिनामित्यर्थः । आरोहतां सविज्ञानत्वमवरोहतां विज्ञानराहित्यमित्युपपाद्याऽऽरोहतामपि यावत्स्वस्थानेभ्यः करणान्युपसंहृत्य हृदयेऽवस्थानं तावदेव सविज्ञानत्वं न देहाद्बहिर्निर्गतानां प्राग्देहान्तरप्राप्तेस्तदस्त्यनुशयिनां तु चन्द्रमण्डलादवरुरुक्षतामपि न भाविदेहपर्यन्ता वासना दीर्घा भवति प्रमाणाभावादित्याह – अन्तराले त्विति । चन्द्रमण्दलादवरोहतां देहान्तरगमनस्य तुल्यत्वेऽपि विज्ञानशून्यत्वमदुष्टमित्युपसंहरति – इतदोष इति । यत्तु हिंसानुग्रहात्मकत्वाद्वैदिककर्मणां स्थावरत्वमपि तत्फलमेव तथा च वैदिकानां कर्मणामनर्थानुबन्धित्वादप्रामाण्यं श्रुतेरिति तत्राऽऽह – न चेति । उभयहेतुत्वमर्थानर्थहेतुत्वमिति यावत् । अहिंसन्नित्यादिश्रुतेः शास्त्रचोदितवैदिकेषु कर्मसु हिंसा नानर्थहेतुरित्याह – अभ्युपगतेऽपीति । यद्यपि स्वरूपेण हिंसाऽनर्थहेतुरभ्युपगम्यते तथाऽपि तद्युक्तानां वैदिककर्मणां नानर्थारम्भकत्वं यथा स्वरूपेण विषद्ध्यादेर्मरणज्वरादिहेतुत्वेऽपि मन्त्रशर्करादिभिः सहोपयुक्तं सन्न तत्कार्यारम्भकम् तथा हिंसायाः स्वतोऽधर्महेतुत्वेऽपि वैदिककर्मनिष्ठाया न तद्धेतुत्वं वैदिकैरेव कर्मभिस्तत्कृतदोषापनयनसिद्धेरित्यर्थः । पूर्वोक्तमेव दृष्टान्तं स्पष्टयति – मन्त्रणेति ।
तेन सहोपभुक्तस्य विषस्यानर्था हेतुत्वेन पुष्टिहेतुत्ववद्वैककर्मानुप्रविष्टाया हिंसायाः पुरुषार्थत्वमेव । अशुद्धामिति चेन्न शब्दादिति न्यायादित्यर्थः ॥६॥ 【भाष्यम्】 【भाष्यम्】 तद्भूय एव भवतीत्येतत्प्रसङ्गागतं परिसमाप्य प्रकृतश्रुतिव्याख्यानमनुवर्तयति – तत्तत्रेति । अन्याधिष्ठिते पूर्ववदभिलापादिति न्यायेन तेषु व्रीह्यादिषु संष्टिला येऽनुशयिनस्तेषां मध्ये ये केचिदस्मिन्ल्लोके चन्द्रमण्दलप्राप्तेः प्रागवस्थायामनुष्ठिताभुक्तरमणीयचरणास्ते रमणीयां योनिमापद्येरन्निति सम्बन्धः । उक्तमेव स्पष्टयति – शोभन इति । कथं रमणीयचरणानुरोधेन शोभनोऽनुशयो लक्ष्यते तत्राऽऽह – क्रौर्येति । ते खल्वनुशयिनो रेतःसिग्योगानन्तरं तेन कर्मणा रमणीयां योनिमापद्येरन्निति यत्तत् क्षिप्रमेवेति योजना । तत्रापि हेतुमाह – स्वकर्मेति । अथेति प्रतीकं गृहीत्वा व्याचष्टे – पुनरिति । तद्विपरीतास्तेभ्यो विलक्षणा इति यावत् । ते कपूयां योनिमशुभानुशयवशाद्रेतःसिग्योगानन्तरमापद्येरन्निति यत्तदपि क्षिप्रमेवेति योजना । तत्रापि विकल्पे कारणमाह – स्वकर्मेति । योनिविकल्पे तृतीयं पन्थानमवतारयितुं पूर्वोक्तौ पन्थानौ संक्षिप्यानुवदति – ये त्विति ।
शुभानुशयवशाद्ये केचित् ब्राह्मणादियोनिमापन्नास्ते स्ववर्णाश्रमविहितकर्मनिष्ठास्सन्तो यदीष्टादिकर्म कृतवन्तस्तदा दक्षिणेन पथा चन्द्र गच्छन्ति । तत्र च भोक्तव्ये भोगेन क्षीणे पुनरवशिष्टेन कर्मणा पृथिवीमागच्छन्ति । एवं घटीयन्त्रवत्पुनः पुनरारोहन्तोऽवरोहन्तश्च केवलकर्मिणो दुश्यन्ते चेद्द्विजातयः स्वकर्मस्थाः सन्तो ध्यानं लभेरन्नुत्तरेण यानेनेतो ब्रह्मलोकं गच्छन्तीत्यर्थः ॥७॥ 【भाष्यम्】 【भाष्यम्】 इदानीं तृतीयस्थानमुपदिशति – यदा त्विति । पौनःपुन्ये लोण्मध्मैकवचनात्तयोः सर्वाख्यातेषु विधानात्पुनः पुनर्जायन्ते म्रियन्ते चेत्यस्मिन्नर्थे जायस्व म्रियस्वेति प्रयोग इत्याह – तेषामिति । यद्वा सर्वेश्वरो मार्गद्वयभ्रष्टं दृष्ट्वा तं जायस्व म्रियस्वेति प्रेरयत्येतदिहोच्यत इति द्रष्टव्यम् । तेनासावित्यादिवाक्यं व्याचष्टे – येनैवमिति । उक्तया रीत्या निर्णीतान्प्रश्नान्विविच्य प्रतिपत्तिसौकर्यार्थं कथयति – पञ्चमस्त्विति । व्यावर्तनाऽपि व्याख्यातेत्युत्तरत्र सम्बन्धः । मृतानामविदुषां विदुषां चेत्यर्थः । अन्त्येष्ट्यनन्तरं विदुषां कर्मिणां च संवत्सरमिति ज्ञानिनो गृह्यन्ते । अन्ये पितृलोकमिति केवलकर्मिण इति विभागः । क्षीणानुशयानां चन्द्रलोके भोक्तव्यं कर्म भोगेन क्षपितवतामिति यावत् । स्वशब्दमेवानुवदति – तेनेति । किमर्थमेषां महायासवती तीव्रा संसारगतिरुक्तेत्याशङ्क्याऽऽह – यस्मादिति । तृतीयस्थानस्य कष्टत्वं स्पष्टयति – यस्माच्चेति । जन्मादिना जनिता या वेदना तदनुभवे कृतः क्षणोऽवसरो नान्यत्र येषां तथा । अप्लव इति च्छेदः । तृतीयस्थानवदितरयोरावृत्तिमत्त्वात्तुल्या कष्टतेत्यभिप्रेत्याऽऽह – तस्माच्चेति । संसारगत्युपवर्णनस्य तात्पर्यमुक्त्वा पञ्चाग्निविद्यायामनुष्ठानसिद्ध्यर्थं तस्याः स्तावकं श्लोकमुदाहृत्य व्याचष्टे – तदेतस्मिन्नित्यादिता । पञ्चाग्निविद्यामाहात्म्यं सप्तम्यर्थः ॥८-९ ॥ पञ्च महापातकिनः श्लोके निर्दिश्यन्ते न तु पञ्चाग्निविद्यास्तुतिरिह भातीत्याशङ्क्याऽऽह – अथेति । शुद्धत्वे हेतुमाह – तेनेति । कस्येदं फलमित्यपेक्षायां पूर्वोक्तविद्यावन्तमनुवदति –
य एवमिति ॥१०॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य दशमः खण्डः ॥ उत्तरग्रन्थस्य वैश्वानराख्यात्तृभावप्रतिपत्त्यर्थत्वे गमकमाह – अत्सीति । विद्यायाः सम्प्रदानं शिष्यस्तस्य न्यायो विनयादिसंपत्तिस्तत्प्रदर्शनार्था चाऽऽख्यायिका । दृश्यते चात्र प्राचीनशालप्रभृतीनां तत्संपत्तिरित्याह – विद्येति । पूर्वोत्तरसंदर्भयोः सम्बन्धं दर्शयन्नुत्तरसन्दर्भमवतारयति – दक्षिणेनेत्यादिना । कथमात्मब्रह्मशब्दयोरितरेतरविशेषणविशेष्यत्वं व्यावर्त्याभावादित्याशङ्क्याऽऽह – ब्रह्मेतीति । उक्तरीत्या मिथो विशेषणविशेष्यत्वे फलितमाह – अभेदेनेति । इतश्चोपास्यस्य सर्वात्मत्वं गम्यते परिच्छिन्नोपासनस्य निन्दितत्वाद्भूम्नः क्रतुवज्जायस्त्वमिति न्यायादित्याह –
मूर्धेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 भगवन्तः सन्तः सम्पादयांचक्रुरिति पूर्वेण संबन्धः ॥२-३॥
अश्वपतिरित्यादौ भगवन्त इति प्राचीनशालप्रभृतयः सम्बोध्यन्ते ॥४॥ 【भाष्यम्】 【भाष्यम्】 स हेत्यादि सोपस्कार व्याचष्टे – स हान्येद्युरित्यादिना । यथोक्तं शास्त्रप्रसिद्धमिति यावत् । किं तर्हि भगवदागमनस्य प्रयोजनं तदाह – वयं चेति । तन्ममापि नास्तीति शङ्कां निरस्यति – आत्मानमिति । शिष्यभावेनोपसन्नेभ्यो विद्या दातव्या न यथाकथञ्चिदिति राज्ञोऽभिप्रायः । ते हेत्यादिवाक्यस्य तात्पर्यं दर्शयति – यतइति । योगक्षेमार्थं राजानं प्रत्युपगमनमिष्टमेवेति मन्वानो विशिनष्टि – विद्यार्थिन इति । तथेत्यत्रातःशब्दो द्रष्टव्यः । उपनयनं पादयोर्निपातनम् । वक्ष्यमाणं वैश्वानरविज्ञानं तेनैतदित्यस्य संबन्ध इति यावत् । आख्यायिकातात्पर्यमुपसंहरति – यथेति ॥५-६-७॥ इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्यैकादशः खण्डः ॥ शिष्यो हि प्रष्टाऽऽचार्यस्तु प्रतिवक्तेति न्यायेन शङ्कते – नन्विति । वाक्यशेषावष्टम्भेन दूषयति – नैष दोष इति । बृहदारण्यकश्रुत्यालोचनायामपि नैतदन्याय्यमित्याह – अन्यत्रापीति । आचार्यस्याजातशत्रोरिति सम्बन्धः । तस्याऽऽत्मत्वे हेतुमाह – आत्मन इति ।
एकाहादिरूपोज्योतिष्टोमादिरहर्गणस्तत्र सुतं सोमरूपं लताद्रव्यमहीने प्रस्तुतं सत्रे त्वासुतमिति भेदः । तवेति पुनर्वचनमन्वयदर्शनार्थम् ॥१॥ 【भाष्यम्】 【भाष्यम्】 न केवलं प्राचीनशालनिष्ठमिदं फलं किन्त्वन्यस्यापि भवतीत्याह – अन्योऽपीति । तर्हि यथोक्तवैश्वानरज्ञानादेव कृतकृत्यतेत्याशङ्क्याऽऽह – मूर्धा त्विति । अक्षरार्थमुक्त्वा विवक्षितार्थमाह –
साध्विति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य द्वादशः खण्डः ॥ अथ प्राचीनशाले तूष्णींभूते जिज्ञासमाने सत्यनन्तरमित्यर्थः । आदित्यस्य शुक्लत्वादिरूपत्वमष्टमे स्पष्टीभविष्यति । तस्य सर्वरूपत्वेन विश्वरूपत्वमुक्तमुपपादयति –
सर्वाणीति ॥१॥ 【भाष्यम्】 【भाष्यम्】 अस्त्यन्नमित्यादि चक्षुष्ट्वेतदित्यतः प्राक्तनमिति शेषः । चक्षुष्ट्वेतदित्यादिवाक्यं व्याचष्टे – चक्षुरित्यादिना । तत्रापि तात्पर्यं यथापूर्वं द्रष्टव्यमित्याह –
पूर्ववादिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य त्रयोदशः खण्डः ॥ सत्ययज्ञोपरमानन्तरमित्यथशब्दार्थः । पृथगित्यतः प्राक्तनमादिपदेन गृहीतम् । पृथग्वर्त्मेति प्रतीकमादाय व्याचष्टे – नानेति । आभिमुख्येनाऽऽगच्छन्नावहः । ऊर्ध्वेन वहतीत्युद्वहः । तस्मात्त्वमित्यादि व्याचष्टे – तस्मादिति ।
नानादिक्का नानाविधासु दिक्षुभवा इत्येतत् ॥१॥ 【भाष्यम्】 【भाष्यम्】 अस्त्यन्नमित्यादि समानमित्यत्राऽऽदिपदमुपास्त इत्यन्तवाक्यसंग्रहार्थम् । उत्तरवाक्येऽप्यभिप्रायसाम्यं मत्वाऽऽह –
प्राणस्त्विति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य चतुर्दशः खण्डः ॥ इन्द्रद्युम्नोपरमानन्तर्यमथशब्दार्थः । अत्राऽऽदिपदमेष इत्यस्मात्प्राक्तनवाक्यसंग्रहार्थम् । कथमाकाशस्य बहुलत्वमत आह –
बहुलत्वमिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 कथं शरीरस्य मध्यमे भागे संशयवाची सन्देहशब्दो वर्तते तत्राह – दिहेरिति । आकाशस्य सर्वगतत्वेन बहुलत्वाद्देहस्य च परिच्छिन्नत्वेन तदभावात्कथमाकाशं वैश्वानरस्य शरीरं स्यादित्याशङ्क्याऽऽह – मांसेति ।
तच्छरीरमिति सम्बन्धः ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य पञ्चदशः खण्डः ॥ जनस्योपरमानन्तर्यमथशब्दार्थः । कथमबात्मको वैश्वानरो रयिरिति धनेन निर्दिश्यते तत्राऽऽह – अद्भ्य इति । आयुर्वै घृतमितिवत्कार्यवाचकेन कारणं लक्ष्यत इत्यर्थः । तस्माद्यथोक्तवैश्वानरोपासनादित्येतत् । धनरूपवैश्वानरोपासनाद्धनवानित्येव वक्तव्ये कथं पुष्टिमानित्यधिकावापस्तत्राऽऽह –
पुष्टेश्चेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 मूत्राशयो धनुर्वक्रो बस्तिरित्यभिधीयत इत्याशयेनाऽऽह –
बस्तिरिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य षोडशः खण्डः ॥ प्राचीनशालप्रभृतिषु पञ्चसु मौनमातिष्ठमानेष्वनन्तरमित्यथशब्दार्थः ॥१-२॥ इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य सप्तदशः खण्डः ॥ उद्दालकान्तेषु विद्यार्थिषूपसन्नेषु सामस्त्येन वैश्वानरविद्यां वक्तुकामस्तेषां मिथ्याज्ञानमनुवदति – तानित्यादिना । अनर्थकाविवानर्थकौ निपातौ न त्वनर्थकावेव । तेषां मिथ्याज्ञानित्वप्रसिद्धिस्मारकत्वात् । यूयमित्यन्वयार्थं प्रागुक्तमपि पाठक्रमेण पुनरनूद्य पृथगिव विद्वांस इति सम्बन्धः । ये जात्यन्धा हस्तिदर्शने भिन्नदृष्टयो भवन्ति तथा यूयं वैश्वानरमात्मानमेकमपि सर्वात्मकं सन्तं भिन्नमिव विद्वांसः परिच्छिन्नात्तृरूपेणाऽऽत्मानं बुद्धवन्तः । तथा च मिथ्यादर्शिनो यूयं प्रागेव प्रत्यवायान्मामागतवन्तः साधु कृतवन्त इत्यर्थः । प्रधानविद्यां वक्तुं पातनिकां कृत्वा तामिदानीमुपदिशति – यस्त्वित्यादिना । एतमेवंभूतं यस्तूपास्ते स सर्वेष्वन्नमत्तीति सम्बन्धः । एवंशब्दार्थमाह – यथोक्तेति । एकं समस्तं त्रैलोक्यात्मकमिति यावत् । प्रादेशमात्रमित्येतद्विभजते – प्रादेशैरिति । यथोक्तैराधिदैविकैरवयवैरध्यात्मं प्रत्यगात्मन्येवायं मीयत इति व्युत्पत्त्या प्रादेशमात्रस्तमिति यावत् । प्रकारान्तरेण व्याचष्टे – मुखादिषु वेति । तेषु हि प्रदेशेष्वयमत्तृत्वेन साक्षितया मीयत इति व्युत्पत्त्या तथोच्यत इत्यर्थः । विधान्तरेण व्याचष्टे - द्युलोकादीति । अर्थान्तरमाह – प्रकर्षेणेति । आमनन्ति चैनमस्मिन्निति न्यायेन पक्षान्तरमाह शाखान्तरेत्विति । अस्तु तर्हि जाबालश्रुत्यनुसारेण मूर्धानामारभ्याधारफलकपर्यन्ते देहावयवे सम्पादितो वैश्वानरःप्रादेशमात्रव्याचष्टे – प्रत्यगात्मतयेति । सर्वेश्वरत्वं सर्वात्मत्वं सर्वप्रत्यक्षत्वं वा हेतूकृत्य वैश्वानरशब्दमनेकधा व्याकरोति – विश्वानित्यादिना । ईश्वरो वैश्वानर इत्यत्र वैश्वानरपदमुभयत्र संबध्यते । स वैश्वानरविदन्नमदन्सर्वेषु लोकादिषु स्थित्वाऽऽन्नमत्तीति सम्बन्धः । कथमात्मशब्देन शरीरादयो गृह्यन्ते तत्राऽऽह – तेषु हीति । सर्वेषु लोकेष्वित्यादिवाक्यस्य तात्पर्यार्थं दर्शयति –
वैश्वानरविदिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 वैश्वानरोपासकः सर्वात्मा सन्नन्नमत्तीत्येवं कस्माद्धेतोर्निश्चितमित्याशङ्कामनूद्य हेतुप्रदर्शनपरत्वेनोत्तरत्वेनोत्तरं वाक्यमुपादत्ते – कस्मादित्यादिना । वैश्वानरस्य सर्वात्मत्वात्तदुपासकस्यापि तदात्मतया सर्वात्मत्वादसौ सर्वात्मा भूत्वा सर्वत्रान्नमत्तीति युक्तमित्यर्थः । तस्येत्यादिवाक्यस्य तात्पर्यान्तरमाह – अथ वेति । प्रधानविद्यामुक्त्वा तदङ्गप्राणाग्निहोत्रं दर्शयितुकामो भूमिकां करोति – अथेति । संपादयितुमिच्छन्नादौ तदङ्गान्यश्वपतिराहेत्यर्थः । वेदिरिति स्थण्डिलमात्रं गृह्यते । अग्निहोत्रे तावन्मात्रस्योपयुक्तत्वादितरस्य दर्शपूर्णमासाद्यङ्गत्वात् । वेद्यामास्तीर्यन्ते ये दर्भा[स्ते] बर्हिःशब्देनोच्यन्ते । हृदयस्य गार्हपत्यत्वं मनःप्रणयनहेतुत्वात्, प्रणीतमुत्पन्नमिवेत्यर्थः । आहवनीयसादृश्यं च मुखस्य दर्शयति –
आहवनीय इति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्याष्टादशः खण्डः ॥ एवं सतीत्युक्तन्यायेनाग्निहोत्रे संपादिते सतीत्यर्थः । संपादितस्याग्निहोत्रत्वस्य सामान्यादग्न्युद्धरणादीनि तदङ्गान्यत्र भवेयुरित्याशङ्क्य तद्बुद्धिमात्रस्य विवक्षितत्वान्मैवमित्याह – अग्निहोत्रेति । इहेति वैश्वानरविदो भोजनमुच्यते । प्रकृतहोमगतावान्तरविभागमाह – स भोक्तेति । कथमिति मन्त्रो वा द्रव्यपरिमाणं वा फलं वा पृच्छ्यते तत्र प्रथमं प्रत्याह – प्राणायेति । यदि द्वितीयस्तत्राऽऽह – आहुतीति । अवदानस्य प्रमाणं परिमाणं कर्मिणां प्रसिद्धं तेन परिमितमिति यावत् । तृतीयश्चेत्तत्राऽऽह –
तेनेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 भुञ्जानस्य तृप्तौ प्रत्यक्षं प्रमाणं प्राणादेस्तृप्तौ शास्त्रमिति विभागमभिप्रेत्याऽऽह – प्रत्यक्षमिति ।
प्रजादिभिश्च भोक्ता तृप्यतीति संबन्धः ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्यकोनविंशः खण्डः ॥ इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य विंशः खण्डः ॥ इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्यैकविंशः खण्डः ॥ इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य द्वाविंशः खण्डः ॥ इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य त्रयोविंशः खण्डः ॥ प्रसिद्धाग्निहोत्रनिन्दाद्वारेण वैश्वानरविदो यथोक्तमग्निहोत्रमवश्यकर्तव्यतायै स्तौति –
स यः कश्चिदित्यादिना ॥१॥ 【भाष्यम्】 【भाष्यम्】 प्राणाग्निहोत्रस्य वैशिष्ट्ये हेत्वन्तरमतःशब्दोपात्तं प्रश्नपूर्वकं प्रकटयति – कथमित्यादिना । नैयमिकाग्निहोत्रनिन्दाद्वारा प्राणाग्निहोत्रस्तुत्यनन्तरं विधान्तरेण तस्यैव निरवद्यता कीर्त्यत इत्यथशब्दार्थः । एतदिति वैश्वानरदर्शनमुक्तम् – एवमिति । वैश्वानरस्योक्तसर्वात्मत्वादिप्रकारेणेत्यर्थः । अग्निहोत्रमिति साम्पादिकमग्निहोत्रं गृह्यते । कथमिदमुक्तार्थं सर्वेषु लोकादिष्वन्नमत्तीति वाक्यं व्याख्यातं तस्य सर्वेषु लोकादिषु हुतं भवतीत्यन्यादृशमिदं वाक्यं तत्राऽऽह –
हृतमिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इतश्च वैश्वानरविद्यावतोऽग्निहोत्रं विशिष्टमिति वक्तुं वैश्वानरविद्यां स्तौति – किं चेति । तत्र वैश्वानरविद्यामाहात्म्ये दृष्टान्त इति यावत् । इषीकाया मुञ्जामध्यवर्तितृणस्येत्येतत् । सर्वशब्दात्प्रारब्धकर्मणोऽपि दाहमाशङ्क्याऽऽह – वर्तमानेति । वैश्वानरविद्याया महाफलत्वे सिद्धे तद्वतोऽग्निहोत्रं विशिष्टमिति तत्कर्तुः सर्वदोषास्पर्शित्वमित्याशयेनाऽऽह –
य एतदिति ॥३॥ 【भाष्यम्】 【भाष्यम्】
विद्यामेव विद्यास्तुतिद्वाराऽग्निहोत्रमिति यावत् । स्तुत्यर्थेऽग्निहोत्रस्य स्तुतिरूपो योऽर्थस्तस्मिन्नित्येतत् ॥४॥ 【भाष्यम्】 【भाष्यम्】 मन्त्रस्य तात्पर्यार्थं दर्शयति – जगदिति ।
विदुषो वैश्वानरात्मनः सर्वात्मत्वादित्यर्थः ॥५॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य चतुर्विंशः खण्डः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां च्छान्दोग्योपनिषद्भाष्यटीकायां पञ्चमोऽध्यायः समाप्तः ॥ वर्तिष्यमाणाध्यायस्यातीतेन सन्दर्भेण सम्बन्धं वक्तुं प्रतीकं गृहीत्वा तं प्रतिजानीते – श्वेतकेतुरिति । तमेव प्रकटयन्प्रथमं तृतीयेनाध्यायेनास्य सम्बन्धं कथयति – सर्वमिति । एतद्वक्तव्यं तदर्थोऽयं षष्ठोऽध्याय आरभ्यत इति सम्बन्धः । व्यवहितं सम्बन्धमुक्त्वाऽव्यवहितं तमादर्शयति – अनन्तरं चेति । अध्यायतात्पर्यमुक्त्वाऽऽख्यायिकातात्पर्यमाह – पितेति । पिता प्रतिवक्ता पुत्रश्च प्रष्टेत्येवंविधेयमाख्यायिका । सा च विद्यायाः सारिष्ठत्वद्योतनार्था । पिता हि पुत्राय सारतममेवोपदिशतीत्यर्थः । कुलस्यानुरूपमित्यादिवचनान्न कुलाधमस्य गुरुत्वमिति गम्यते । ब्रह्मचर्यमध्ययनार्थमिति शेषः । गत्वेत्यादिवचनान्माणवकाधीनमध्ययनमिति सूचितम् । मा भूदुपनयनमध्ययनं चेत्याशङ्क्याऽऽह –
न चैतद्युक्तमिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 किमिति पिता स्वयमेवोपनीय पुत्रं नाध्यापयति तत्राऽऽह – तस्येति । अतःशब्दः स्वगृहविषयः । अनुमानं कल्पनं तत्र कल्पकमाह – येनेति ।
अनूचानोऽनुवचनसमर्थः । कर्मव्युत्पत्त्या करणव्युत्पत्त्या चाऽऽदेशशब्दो व्याख्यातः ॥२॥ 【भाष्यम्】 【भाष्यम्】 किमित्यधीतसर्ववेदमधिगततदर्थं च पुत्रमात्मविद्यामधिकृत्य पिता पृच्छति तस्य सर्ववेदाध्ययनादिनैव कृतार्थत्वादित्याशङ्क्याऽऽह – सर्वानपीति । तदेतदद्भुतं श्रुत्वाऽऽहेत्युक्तं विवृणोति –
कथं न्विति ॥३॥ 【भाष्यम्】 【भाष्यम्】 मृन्मयमित्यस्य व्याख्या मृद्विकारजातमिति । तद्यथा मृत्पिण्डेन विज्ञातेन विज्ञातं स्यात्तथाऽन्यदपि सर्वं कारणेन विज्ञातेन तद्विकारजातं विज्ञातं भवतीति योजना । अन्यविज्ञानादन्यविज्ञानमदृष्टत्वादश्लिष्टमिति शङ्कते – कथमिति । कार्यकारणयोरन्यत्वासिद्धेर्मैवमिति परिहरति – नैष दोष इति । तदेव स्फुटयति – यन्मन्यस इत्यादिना । अन्यत्वाभावे लोकप्रसिद्धिविरोधं शङ्कते – कथं तर्हीति । वाचाऽऽरम्भणमित्यत्र वाचेति तृतीया षष्ठ्यर्थे द्रष्टव्या । नामधेयमित्यस्यार्थं कथयति – नामैवेति । विकारस्य मिथ्यात्वे किं परमार्थतोऽस्तीत्याशङ्क्याऽऽह –
मृत्तिकेत्येवेति ॥४॥ 【भाष्यम्】 【भाष्यम्】 एकेनैव दृष्टान्तेन विवक्षितार्थसिद्धौ किमनेकदृष्टान्तोपादानेनेत्याशङ्क्याऽऽह – अनेकेति । न वा इत्यादिप्रतीकमादाय व्याचष्टे – भगवन्त इति । तेषामज्ञाने हेतुमाह – यदित्यादिना । ननु श्वेतकेतुर्गुरूणामज्ञानमाचक्षाणो गुरुद्रोही प्रत्यवायी स्यादित्याशङ्क्याऽऽह – अवाच्यमपीति । गुरुणामज्ञानमतःशब्दार्थः ॥६-७॥ इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य प्रथमः खण्डः ॥ यद्विज्ञानेन सर्वविज्ञानं लभ्यते तद्विज्ञानं प्रतिज्ञातं प्रकटीकर्तुं प्रथमं सर्वस्य सन्मात्रत्वं प्रतिजानीते – सदेवेति । सच्छब्दस्य सामान्यविषयत्वं व्युदस्यति – सदितीति । तस्य पृथिव्यादिभ्यो विशेषं दर्शयति – सूक्ष्ममिति । आकाशादिभ्यो विशेषमाह – निर्विशेषमिति । अन्त्यविशेषव्यावृत्त्यर्थं विशेषमाह – सर्वगतमिति । तस्य ताटस्थ्यं व्यावर्तयति – एकमिति । प्रत्यगभिन्नस्य तस्य संसारित्वं वारयति – निरञ्जनमिति । निष्क्रियत्वेन तत्कूटस्थत्वमाह – निरवयवमिति । यथोक्ते वस्तुनि प्रमाणमाह – यदवगम्यत इति । विशेषणानुसारेण शङ्कते – किं नेदानीमिति । वर्तमानदशायामसत्त्वं जगतो नास्तीत्याह – नेति । सदा सत्त्वाविशेषे विशेषणं न निर्वहतीति शङ्कते – कथमिति । किं विशेषणसामर्थ्यादिदानीमसत्त्वं जगतश्चोद्यते किं वा विशेषणस्यार्थवत्त्वं पृच्छ्यते तत्राऽऽद्यं दूषयति – इदानीमपीति । प्रत्यक्षविरोधान्न वर्तमानावस्थायां जगदसत्त्वसिद्धिरित्यर्थः । द्वितीयं प्रत्याह – किंत्विति । यच्चेदं वर्तमानं जगन्नामरूपविशेषणवदालक्ष्यते तदिदंशब्दस्य तद्बुद्धेश्च विषयभावेन स्थितं भवतीति कृत्वेदमिदानीमित्यपि व्यवह्रियते तदेव त्वग्रे प्रागुत्पत्तेः सच्छब्दस्तद्बुद्धिश्चेत्येतावन्मात्रगम्यमेव न त्विदंशब्दस्य तद्बुद्धेश्च विषयो भवतीत्यग्रे सदेवेदमासीदित्यवधार्यते तस्माद्विशेषणमिदंशब्दबुद्धिव्यावृत्त्यपेक्षं प्राक्कालीने जगत्यविरुद्धमित्यर्थः । अथावर्तमानावस्थायामपि जगतः सत्त्वे किमिति तत्रेदंशब्दबुद्धी न क्रमेते अत आह – न हीति । यथा सुषुप्ते काले सदपि वस्तु नेदंशब्दबुद्ध्योर्गोचरं तथा प्रागुत्पत्तेः सदपि जगन्नामवत्त्वेन रूपवत्त्वेन चेदमिति न व्यवहर्तुं शक्यं करणोपसंहारस्योभयत्र तुल्यत्वादित्यर्थः । सुषुप्तेऽपि वस्तुनो न सत्त्वं मानाभावादित्याशङ्क्याऽऽह – यथेति । न हि तत्र वस्तुनोऽसत्त्वमुत्थितस्य परामर्शादनुभूतस्यानुभवितुश्चाभावे तदयोगात् । न च तत्र विभक्तं वस्तु दृश्यते सुषुप्त्यभावप्रसङ्गादतस्तत्र केवलसन्मात्रं वस्त्विति यथाऽवगमस्तथा प्रागुत्पत्तेरपि सर्वं सन्मात्रमुक्तमेवेत्यर्थः । उक्तमेवार्थं संप्रतिपन्नेनोदाहरणान्तरेण समर्थयते – यथेत्यादिना । किमिदं सदित्यपेक्षायां तल्लक्षणमाह – एकमिति । अवतारिते लक्षणवाक्ये प्रथमं विशेषणयोरर्थमाह – स्वकार्येति । सजातीयस्वगतभेदहीनमित्यर्थः । विशेषणान्तरमादाय व्याकरोति – अद्वितीयमितीति । विजातीयभेदशून्यमित्यर्थः । यदुक्तं सत्सामानाधिकरण्यात्सदेव सर्वमिति तत्राऽऽरम्भवादी शङ्कते – नन्विति । किं कार्यस्य सत्सामानाधिकरण्यं वर्तमानदशायां परपक्षेऽपि संभवतीत्युच्यते किं वा प्रागवस्थायामपीति विकल्प्याऽऽद्यमङ्गीकरोति – सत्यमिति । द्वितीयं दूषयति – प्रागुत्पत्तेस्त्विति । लक्षणवाक्यं च परपक्षे दुर्योज्यमित्याह – न चेति । वाक्यद्वयपर्यालोचनया परपक्षासंभवमुपसंहरति – तस्मादिति । दृष्टान्तदार्ष्टान्तिकयोरैकरूप्याद्दृष्टान्तानां कार्यकारणभेदनिष्ठत्वाच्च वैशेषिकपक्षासिद्धिरित्याह – मृदादीति । वैशेषिकपक्षासंभवेऽपि वैनाशिकपक्षो भविष्यतीति शङ्कते – तत्तत्रेति । असच्छब्दस्य तुच्छव्यावृत्तविषयत्वं वारयति – अभावमात्रमिति । सतोऽन्यदसदिति स्थितेरसद्वादिनाऽपि प्रतियोगिभूतं सदास्थितमित्याशङ्क्याऽऽह – सदभावमात्रमिति । तदेव वैधर्म्यदृष्टान्तेन स्फुटयति – यथेति । सदिति यथाभूतमसदिति च ततो विपरीतं गृह्यमाणं सच्चासच्चेति द्विविधं तत्त्वं भवतीति यथा नैयायिका वदन्ति द्वे तत्त्वे सदसती भावाभावाविति तैरप्यभ्युपगमान्न तथा बौद्धैर्द्विविधं तत्त्वमिष्टं सदत्यन्ताभावोऽसदित्यभ्युपगमादप्रतीतप्रतियोगिकाभावस्यात्यन्ताभावतया शशविषाणं नास्तीत्यादौ प्रसिद्धत्वादित्यर्थः । तमिमं वैनाशिकपक्षं शिष्यमुखेन दूषयति – नन्वित्यादिना । शिष्योक्तमङ्गीकरोति – बाढमिति । भावस्य योऽभावस्तन्मात्रमसदित्यभ्युपगच्छतां तेषां पक्षे न युक्तं कालसंबन्धाद्यसत इति युक्तमेव त्वयोक्तमित्यर्थः । किं च तन्मते यस्य कस्यचिदसत्त्वमिष्टं सर्वस्य वेति विकल्प्याऽऽद्यमुपेत्य द्वितीयं दूषयति – असत्त्वेति । किमभ्युपगन्ता यदा कदाचिदभ्युपगन्तव्यः किं वा प्रागवस्थायामपीति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूषयन्नाशङ्कते – इदानीमिति । स किं तदानीमसत्त्वान्नाभ्युपगम्यते किं वा तदभ्युपगन्तुरभावान् नाऽऽद्य इत्याह – न प्रागुत्पत्तेरिति । न द्वितीयः यथा प्रागुत्पत्तेर्जगदसदित्यस्याभ्युपगन्ता संप्रत्यभ्युपगम्यते तथा प्रागवस्थायामभ्युपगन्ता सन्नित्यस्याप्यभ्युपगन्तुरिदानीमभ्युपगमसम्भवात् । न हि प्रागुत्पत्तेस्तत्सत्त्वे मानाभावः । विमतः कालो ज्ञातृसत्तावान्कालत्वात्संमतवदित्यनुमानादित्याह – प्रागुत्पत्तेरिति । परपक्षं दूषयित्वा वाक्यतात्पर्यं दर्शयितुं चोदयति – नन्विति । अन्यापोहस्य शब्दार्थत्वे सत्यपोह्यवस्तुनस्तदर्थत्वे वा कथमसदिति शब्दस्यार्थसिद्धिराकृतेश्च मीमांसकप्रक्रियया शब्दार्थत्वे सत्येकमद्वितीयमितिपदयोराकृतिवाचकत्वायोगादर्थानुपपत्तिस्तदभावे च पदार्थसंसर्गाद्यात्मनो वाक्यार्थस्यानुपपत्तिर्वाक्यार्थस्यानुपपत्तौ च निर्विषयमिदं वाक्यमप्रमाणं स्यादित्यर्थः । सदभिनिवेशनिवृत्त्यर्थमिदं वाक्यं न तु शून्यमेव साक्षादभिधत्ते तन्न वाक्याप्रामाण्यमिति परिहरति – नैष दोष इति । तथाऽपि कथमसदादिशब्दानामगृहीतशक्तित्वे वाक्यार्थोपपत्तिरित्याशङ्क्याऽऽह – सदित्ययमिति । एकमद्वितीयमिति शब्दद्वयवदिदमासीदिति च शब्दौ सच्छब्देन समानाधिकरणावेवेत्याह – तथेति । सदेवेत्यादिवाक्यस्योक्तविधयाऽर्थवत्त्वेऽपि कथमसदेवेत्यादिवाक्यमर्थवदित्याशङ्क्याऽऽह – तत्रेति । इवशब्दो यद्वदित्यस्मिन्नर्थे तद्वदिति पृथक्प्रयोगात् । किमिति वाक्यस्य सदभिनिवेशनिवृत्तिपरत्वं सदभावपरत्वमेव किं न स्यादित्याशङ्क्याऽऽह – न त्विति । सदभावस्यात्यन्ताभावलक्षणस्य तुच्चत्वाच्छब्दशक्तिगोचरत्वासम्भवादित्यर्थः । अन्यपरत्वासम्भवे सदभिनिवेशनिवृत्तिपरत्वं वाक्यस्य सिद्धमित्युपसंहरति – अत इति । प्राक्काले पुरुषस्य सदभिनिवेशनिवृत्तिरत्र विवक्षिता चेत्तर्हि नञ्पदमेव प्रयोक्तव्यं किमित्यसदेवेदमग्र आसीदिति प्रयुक्तमित्याशङ्क्याऽऽह – दर्शयित्वा हीति । अथवा सदेवेत्यादिना स्वपक्षमुक्त्वा तद्दृढीकरणार्थत्वेनासदेवेत्यादिनाऽनुवादोऽयमिति तात्पर्यान्तरमाह – दर्शयित्वा हीति । प्रथमे पक्षे तस्मादित्यादिवाक्यस्यार्थाभावाद्द्वितीयः पक्षो गृहीतस्तत्र कारणस्यासत्त्वमुक्तमिदानीं कार्यस्यापि तद्दर्शयति – तस्मादिति । अजायतेति वक्तव्ये कथं श्रुत्या जायतेति प्रयुक्तमित्याशङ्क्याऽऽह –
अडभाव इति ॥१॥ 【भाष्यम्】 【भाष्यम्】 कुतस्तु खल्वित्यादिवाक्यालोचनायामपि द्वितीयः पक्षो ग्राह्य इत्यभिप्रेत्याऽऽह – तदेतदिति । विमतमभावपुरःसरं कार्यत्वादङ्कुरवदिति प्रमाणं शङ्कते – यदपीति । अप्रसिद्धविशेषणत्वं मत्वा परिहरति – तदपीति । बीजोपमर्देनाङ्कुरोत्पत्तेरिष्टत्वात्कथमप्रसिद्धविशेषणतेति शङ्कते – कथमिति । किमङ्कुरोत्पत्तौ बीजावयवा उपमृद्यन्ते किं वा बीजाकारसंस्थानमिति विकल्प्याऽऽद्यं प्रत्याह – ये तावदिति । द्वितीयं दूषयति – यत्पुनरिति । तत्किं परमार्थवस्तु किं वा संवृतिसिद्धं नाऽऽद्योऽभ्युपगमविरोधादित्युक्तं द्वितीयमुत्थापयति – अथ संवृत्येति । संवृतिं विकल्पयति – केयमिति । आद्ये भावस्याभावादुत्पत्तौ दृष्टान्ताभावः संवृतेरवस्तुत्वेन च बीजसंस्थानसत्त्वासाधकत्वादित्याह – यदीति । द्वितीयमनूद्य दूषयति – अथेति । तत्त्वं यया संव्रियत आच्छाद्यते सा संवृतिर्लौकिकी बुद्धिः सा चेद्भावरूपेष्टा तर्हि तया बीजावयवानामङ्कुराकारपरिणामसिद्धेर्दृष्टान्तासिद्धिरित्यर्थः । लौकिकबुद्धिमनाश्रित्य परमतमेवाऽऽदाय शङ्कते – अवयवा इति । असत्यवयविन्युपमर्दायोगवदवयवेष्वपि तदयोगस्य तुल्यत्वान्नेदं चोद्यमित्युत्तरमाह – न तदवयवेष्विति । तदेव स्फुटयति – यथेति । नन्वस्मत्पक्षे परमावयवी नास्त्यवयवास्तु सन्त्येवेति चेत्तत्राऽह – बीजावयवानामपीति । तर्हि तेषामङ्कुरजन्मन्युपमर्दः स्यादिति चेत्तत्राऽऽह – तदवयवानामपीति । न चाङ्कुरजन्मन्यवयवपरम्पराविश्रान्तिभूमिरुपपद्यते तस्याः शून्यत्वे तदुपमर्दे सत्कारणवादापातात् । अशून्यत्वेऽपि कार्यत्वे कादाचित्कद्रव्यस्य सावयवत्वेनोक्तदोषतादवस्थ्यादकार्यत्वे भावश्चेदुपमर्दासिद्धिरभावश्चेत्तदुपमर्दे सत्कारणवादापत्तिरेवेति भावः । असद्वादस्याप्रामाणिकत्वमुक्त्वा सद्वादस्य प्रामाणिकत्वमाह – सद्बुद्धीति । परमते दृष्टान्ताभावमुक्तमनूद्य स्वमते तत्सत्त्वं च समुच्चिनोति – न त्विति । घटस्याप्यभावादेवोत्पत्तेरिष्टत्वाद्दृष्टान्तासंप्रतिपत्तिरित्याशङ्क्याऽऽह – यदीति । किं च यद्यस्योपादानं दृष्टं तच्छब्दप्रत्ययौ तत्रानुवर्तेते यथा तथाऽभावश्चेघटादेरुपादानं तच्छब्दधियौ तत्रानुवृत्ते स्यातां न चानुवर्तेते तस्मादसतः सदुत्पत्तिरयुक्तेत्याह – अभावेति । भावस्य सतो मृत्पिण्डस्य घटादिकारणत्वमन्वयव्यतिरेकाभ्यामुक्तं तत्रान्वयव्यतिरेकयोरन्यथासिद्धिमुद्भावयति – यदपीति । तस्मिन्नपि पक्षे न मत्पक्षक्षतिरित्युत्तरमाह – तदपीति । यदुक्तं सद्रूपाया बुद्धेः सद्रूपां बुद्धिं प्रति कारणत्वमिति तदसिद्धमिति शङ्कते – मृद्घटबुद्ध्योरिति । सत्त्वसिद्धौ हि पूर्वभावित्वं कारणत्वं कार्यत्वं चोत्तरभावित्वं युक्तं बुद्धीनां चासत्त्वादानन्तर्यमात्रेण व्यवह्रियते निमित्तनैमित्तिकत्वमित्यर्थः । असतीनामपि बुद्धीनामानन्तर्येण निमित्तनैमित्तिकत्वमित्येतन्न शक्यं सम्भावयितुं दृष्टान्ताभावादित्युत्तरमाह – न बुद्धीनामिति । कुतस्तु खल्वित्यादिवाक्यं व्याख्यातमुपसंहरति – अत इति । पूर्वमसतः सदुत्पत्तौ दृष्टान्ताभाव उक्त इदानीमन्यदुपसंहृतमि शङ्कां वारयति – असत इति । स्वपक्षसिद्धिमुपसंहरतीति सम्बन्धः । सिद्धान्तेऽपि दृष्टान्तासिद्धिस्तुल्येति शङ्कते – नन्विति । यद्यपि मृदो घटोत्पत्तिर्दृष्टा तथाऽपि न मृदो मृदन्तरं घटाद्घटान्तरमुत्पद्यमानमुपलभ्यते तस्मान्न सतः सदन्तरोत्पत्तिरित्यर्थः । किं सदन्तरस्य सतः सकाशादुत्पत्तिरेव वार्यते किं वा कारणत्वं सतो निराक्रियते तत्राऽऽद्यमङ्गीकरोति – सत्यमिति । द्वितीयं निराकरोति – किं तर्हीति । तत्रापि दृष्टान्ताभावमाशङ्क्याऽऽह – यथेति । कुण्डलीभावे कार्यत्वप्रसिद्धिर्नास्तीत्याशङ्क्योदाहरणान्तरमाह – यथा चेति । प्रभेदैरवतिष्ठत इति सम्बन्धः । सत एव सर्वप्रकारेणावस्थाने प्राक्कालिकं कार्यस्य सत्त्ववचनमयुक्तं तस्य सर्वदा सत्त्वाविशेषादिति शङ्कते – यद्येवमिति । प्रागवस्थं हि कारणं सन्मात्रत्वं च कार्यस्यावधार्यते तथा च कारणस्यैव सतस्तेन तेनाऽऽकारेणावस्थानमित्यङ्गीकारेऽपि कार्यस्य प्राक्कालिकं सत्त्वावधारणमविरुद्धमित्युत्तरमाह – नन्विति । कार्यस्य कारणमात्रत्वं चेदवधृतं तर्हि कारणमेवाऽऽसीन्न कार्यं तदसदेवेदानीं जातमित्यसत्कार्यवादिमतमायातमिति शङ्कते – प्राप्तमिति । कारणस्यैव कार्यरूपेणावस्थानान्नासत्कार्यवादापत्तिरिति दृष्टान्तेन परिहरति – नेत्यादिना । विमतमुपादानाद्भिद्यते तद्विलक्षणबुद्धिविषयत्वाद्यथाऽश्वबुद्धिविलक्षणबुद्धिविषयो महिषस्ततो भिद्यते । तथाच कथं सत एवेदंधीविषयानिर्वाच्यावस्थाङ्गीकारेणासत्कार्यवादापत्तिसमाधिरिति चोदयति – नन्विति । विलक्षणबुद्धिविषयत्वस्य भेदमात्रसाधकत्वे सिद्धसाधनं तात्त्विकभेदसाधकत्वे दृष्टान्तासिद्धिरित्यभिप्रेत्याऽऽह – नेति । किं च कार्यस्य व्यभिचारित्वेन रज्जुसर्पादिवन्मिथ्यात्वानुमानादनिर्वाच्यसंस्थानादेव कार्यबुयालम्बनत्वं सतोऽङ्गीकर्तव्यमित्याह – पिण्डेति । तदेव स्फुटयति – यद्यपीति । मृत्त्वमन्तरेण पिण्डघटयोः स्वरूपाभावादिति तच्छब्दार्थः । अव्यभिचारे मृत्त्वमित्यादिदृष्टान्तः । अव्यभिचारफलमाह – तस्मादिति । दृष्टान्तगतमर्थं दार्ष्टान्तिके समर्थयति – एवमिति । पृथगेव प्रथमानस्य कार्यस्य कथं सन्मात्रत्वमित्याशङ्क्याऽऽह – वाचारम्भणेति । कार्यमिथ्यात्वं स्फुटीकर्तुं चोदयति – नन्विति । यथा खल्वज्ञातेभ्यो रज्ज्वाद्यवयवेभ्यः सर्पादिसंस्थानमनिर्वाच्यमिष्टं तथा श्रुतिजनितजगत्कारणत्वबुद्ध्यनुपपत्त्या कल्पितेभ्यः सतो मायोपाधिकस्यावयवेभ्यो विकारसंस्थानमुपपद्यते तस्मादयं द्वैतप्रपञ्चो ब्रह्मविवर्तः सम्भवतीति परिहरति – नैष दोष इति । ब्रह्मविवर्तो जगदित्यत्र श्रुतिमनुकूलयति – वाचाऽऽरम्भणमिति । प्रपञ्चमिथ्यात्वे फलितमुपसंहरति –
एकमेवेति ॥२॥ 【भाष्यम्】 【भाष्यम्】 अद्वितीयत्वसमर्थनार्थमुत्तरवाक्यमुत्थाप्य व्याचष्टे – तत्सदिति । सच्छब्दवाच्यं जगत्कारणं प्रधानमिति केचित्तदप्येतेन निरस्तमित्याह – अतश्चेति । ईक्षापूर्वकारित्वादिति यावत् । अचेतनत्वाभ्युपगमान्न तस्येक्षापूर्वकं स्रष्टृत्वमिति शेषः । परिणामविवर्तवादावाश्रित्योदाहरणद्वयम् । बहु स्यामित्यादिश्रुतितात्पर्यं वक्तुं निरस्तमेव चोद्यमुद्भावयति – असदेवेति । बहु स्यां प्रजायेयेत्यनेनेक्षितुरेव कार्याकारापत्तिवचनेन वैशेषिकादिमतमेतन्निरस्तमिति श्रुतितात्पर्यं दर्शयन्नुतरमाह – नेत्यादिना । तदेव प्रपञ्चयति – यथेत्यादिना । प्रतिज्ञातमर्थं मतद्वयानुसारेण दृष्टान्ताभ्यां स्पष्टयति – यथा रज्जुरिति । अज्ञानान्वयव्यतिरेकाभ्यां रज्जुसर्पादेरज्ञानमयत्वे च द्वैताभिनिवेशस्य सन्मात्राविवेके सत्येवोत्पत्तेर्विचारेण तद्विवेके चानुत्पत्तेर्द्वैतमप्यज्ञानमयमेव तस्य तु तत्त्वं सन्मात्रमधिष्ठानं वाङ्मनसातीतमित्यर्थः । तस्य वाङ्मनसातीतत्वे प्रमाणमाह – यत इति । अन्यदेव तद्विदितादित्यादिवाक्यमादिपदार्थः । तैत्तिरीयकश्रुतिविरोधमाशङ्कते – नन्विति । तथाऽपि कथं विरोधधीरित्याशङ्क्याह – इति विरुद्धमिति । अस्यां श्रुतौ सतः सकाशादेव प्राथम्येन तेजः सृज्यमानमुच्यते श्रुत्यन्तरे तु तस्मादेव सतः सकाशादाकशं प्राथम्येन सृष्टमित्युपदिष्टं तथा च कथमिदं मिथो विरुद्धं सिद्ध्यतीत्यर्थः । तैत्तिरीयकश्रुत्यनुसारेण च्छान्दोग्यश्रुतेर्व्याख्यानसम्भवान्न विरोधोऽस्तीति परिहरति – नैष दोष इति । सृष्टिक्रमस्य विवक्षितत्वमङ्गीकृत्योक्तं तदेव नास्त्यद्वितीयत्वं तु सतो विवक्षितमिति पक्षान्तरमाश्रित्याऽऽह – अथ वेति । तत्र गमकं दर्शयति – मृदादीति । मृदादिकार्यं घटादितद्व्यतिरेकेण नास्ति मृदाद्येव तु सत्यमितिदृष्टान्ते अपादानाद्ब्रह्मणः सतस्तेजोबन्नादिकार्यं तदतिरेकेण नास्ति सन्मात्रमेव सत्यमिति दार्ष्टान्तिकेऽपि विवक्षितं प्रतिभातीत्यर्थः । तत्तेजोऽसृजतेत्यादिश्रुतेस्तात्पर्यान्तरमाह – अथवा त्रिवृत्करणस्येति । तासां त्रिवृतं त्रिवृतमेकैकां करवाणीत्यादौ त्रिवृत्करणस्येष्टत्वात् त्रयाणामेव भूतानामिह सृष्टिरुच्यते । न चैवं पञ्चीकरणमविवक्षितमिति वाच्यम्, भूतत्रयसृष्टिश्रुतौ श्रुत्यन्तरसिद्धाकाशादिसृष्टेरुपलक्षणवत् त्रिवृत्करणश्रुत्या पञ्चीकरणोपलक्षणात् । तथा च श्रुत्यन्तरसिद्धयोराकाशवाय्वोस्तेजःप्रभृतिष्वन्तर्भावमभिप्रेत्य लघूपायेन सर्वस्य सन्मात्रत्वं मन्तव्यमिति मन्वाना श्रुतिस्त्रिवृत्करणमेवाऽऽचक्षाणा तदनुरोधेन त्रयाणामेव सृष्टिमाहेत्यर्थः । तेजसोऽचेतनस्य कथमीक्षितृत्वमित्याशङ्क्य वाक्यार्थमाह – तेजोरूपेति । अपां तेजःकार्यत्वे लोकानुभवमनुकूलयति –
यस्मादिति ॥३॥ 【भाष्यम्】 【भाष्यम्】 पृथिव्यामन्नशब्दप्रयोगे हेतुमाह – पार्थिवं हीति । अपां कार्यमन्नमित्यत्रापि लोकप्रसिद्धिं दर्शयति – यस्मादिति । ता अन्नमसृजन्तेत्यत्राद्भ्योऽन्नसृष्टिरुपदिष्टा दृष्टान्तेऽपि ताभ्यस्तत्सृष्टिरुपदिश्यते तथा च पौनरुक्त्यमित्याशङ्क्यार्थविशेषं दर्शयति – अन्नमिति । तत्तेज ऐक्षतेत्यादौ यथाश्रुतमर्थं गृहीत्वा चोदयति – नन्विति । प्राणिषु हिंसाप्रतिषेधवदनुग्रहविधानवच्च तेजःप्रभृतिषु तदभावात्तेष्वीक्षणकार्यदृष्टिवदेतेषु तद्दृष्ट्यभावाच्च नैतेष्वीक्षणं प्रामाणिकं तथा च प्रकृतं प्रमत्तगीतमित्यर्थः । तेषां गौणमीक्षितृत्वमुपेत्य परिहरति – नैष दोष इति । सतोऽपि गौणमीक्षणमुपचारप्राये पाठादिति शङ्कते – नन्विति । सन्निधेः शब्दस्य बलीयस्त्वमुपेत्य परिहरति – न सदीक्षणस्येति । तुल्यं तेजःप्रभृतिष्वपि शब्दगम्यत्वमीक्षणस्येति चेन्नेत्याह – तेजःप्रभृतीनां त्विति । विमतमीक्षितृ न भवत्यचेतनत्वात्कुम्भवदित्यनुमानात्तेजोमुखे जगतीक्षणासम्भवात्तत्र श्रुतं तदौपचारिकमुचितमित्यर्थः । साङ्ख्योऽनुमानावष्टम्भेन शङ्कते – नन्विति । अचेतनस्य कथमीक्षणमित्याशङ्क्याऽऽह – अत इति । अनुमातुं कल्पयितुमिति यावत् । कथमचेतने चेतनवदुपचारस्तत्राऽऽह – दृष्टश्चेति । आत्मशब्दावष्टम्भेन परिहरति – नेत्यादिना । आत्मोपदेशोऽपि प्रधाने ग्राणी भविष्यतीति शङ्कते – आत्मोपदेशोऽपीति । तामेव शङ्कां दृष्टान्तद्वारा विवृणोति – यथेति । इदं परिहरन्नस्मिन्नात्मोपदेशो गौणो न भवति तन्निष्टस्य मोक्षोपदेशादित्युत्तरमाह – नेत्यादिना । मोक्षोपदेशोऽप्युपचरितो भविष्यतीति शङ्कते – सोऽपीति । शङ्कामेव विवृणोति – प्रधानात्मेति । एकविज्ञानेन सर्वविज्ञानोपदेशमाश्रित्य परिहरति – न येनेति । उक्तमेव विवृणोति – सत्येकस्मिन्निति । सतोऽन्यस्य ज्ञातव्यस्याप्रामाणिकत्वाच्च सतो ज्ञाने सर्वज्ञानोपदेशो युक्तिमानित्याह – न चेति । सम्प्रति [साङ्ख्यै]हि प्रधानज्ञाने तद्विकारस्य तदभिन्नस्य ज्ञानं तस्य च पुरुषार्थत्वात्तज्ज्ञाने पुरुषाणामपि ज्ञानमुपचर्यते । तस्मादेकविज्ञानेन सर्वविज्ञानोपदेशान्न मोक्षोपदेशमुख्यत्वसिद्धिरित्याशङ्क्याऽऽह – सर्वस्य चेति । कथमुपनिषदारम्भो वृथेत्युच्यते पुमर्थसाधनज्ञानार्थत्वादित्याशङ्क्याऽऽह – पुरुषार्थेति । तस्यानुमानवादिनः साङ्ख्यस्य मते मुक्तिहेतोर्ज्ञानस्य जडाजडयोरैक्यानुपपत्तिरित्यादिना तर्केणैव सिद्धत्वादुपनिषदारम्भो वृथैवेत्यर्थः । श्रुतेर्मुख्यार्थत्वे बाधकाभावात्तत्परित्यागायोगादीक्षत्यधिकरणन्यायेन प्रधानवादासिद्धिरिति परमतनिरसनमुपसंहरति – तस्मादिति । प्रधानवादासम्भवे परिशेषायातं स्वमतं निगमयति –
अत इति ॥४॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य द्वितीयः खण्डः ॥ महाभूतानामचेतनानां ब्रह्मकार्यतोक्ता सम्प्रति जीवाविष्टानां भौतिकानामपि परम्परया ब्रह्मकार्यतैवेति वक्तुं तान्यनुवदति – तेषामिति । पूर्वाध्याये येषां गत्यागती दर्शिते तृतीयं च स्थानमुक्तं तानि तच्छब्देन परामृश्यन्ते । तेषां प्रसिद्धत्वद्योतनार्थं खल्वित्युक्तम् । भूतानां त्रीण्येव बीजानि भवन्तीत्युत्तरत्र सम्बन्धः । भूतशब्दस्य तेजःप्रभृतिषु रूढत्वात्तेषामिह ग्रहणं किं न स्यादित्याशङ्क्याऽऽह – एषामितीति । भूतानां प्रत्यक्षत्वमेषामिति निर्दिश्यते । सम्भवति च पक्ष्यादीनां प्रत्यक्षतेति तान्येवात्र भूतानि विवक्षितानि न तु तेजःप्रभृतीनि तेषां प्रत्यक्षत्वायोगादित्यर्थः । तेजःप्रभृतीनां प्रत्यक्षत्वायोगादेषामिति निर्देशानुपपत्तिं समर्थयते – तेषामिति । तेषां प्रत्यक्षतया निर्देशासम्भवे हेत्वन्तरमाह – देवताशब्देति । देवतानां परोक्षत्वप्रसिद्धेरेतेषु च देवतापदप्रयोगान्नैतेषां प्रत्यक्षत्वोपपत्तिरित्यर्थः । तस्मान्महाभूतानामत्र भूतशब्देनोपादानायोगादित्यर्थः । आण्डजं पक्ष्यादीत्येतत्प्रत्यक्षेणोपपादयति – पक्षिसर्पादिभ्यो हीति । अन्यदपीति गोधाद्युच्यते । अण्डाज्जातमितिव्युत्पत्त्यनुसारेणाण्डमेव बीजं न त्वण्डजमिति शङ्कते – नन्विति । पौरुषेयी व्युत्पत्तिः श्रुत्या बाध्येति परिहरति – सत्यमित्यादिना । न केवलं श्रुतेरेषा व्यवस्था किन्तूपपत्तेश्चेत्याह – दृश्यते चेति । सत्येवाण्डजादौ तज्जातीयमण्डजादि सन्तत्या जायते तदभावे तदभाव इत्यन्वयव्यतिरेकाभ्यामण्डजाद्यवाण्डजजातिकारणम् । यद्यप्वण्डाद्यभावे नाण्डजादि जायते तथाऽप्यण्डादिभावेऽण्डजाद्यभावेऽपि तद्भवतीति नान्वयः । तस्मादण्डजादीनामण्डजान्येव बीजानि नाण्डादीनीत्यर्थः । धानाशब्दो बीजविषयः । ननु स्वेदजं संशोकजमिति बीजद्वयमवशिष्यते तत्किमिति न व्युत्पाद्यते तत्राऽऽह – स्वेदजेति । स्वेदमुद्भिद्य जायमानं दंशमशकादि तदुद्भिज्जेऽन्तर्भवति । संशोकादौष्ण्याज्जायमानं यूकादि तदण्डजेऽन्तर्भवति । यद्वा स्वेदजं यूकादि तदण्डजेऽन्तर्भूतं संशोकादौष्ण्याद्भूमिमुद्भिद्य जातं मशकादि तस्योद्भिज्जेऽन्तर्भावः । तथा च न तयोरस्ति पृथग्व्युत्पादनापेक्षेत्यर्थः । स्वेदजादेरण्डजादावन्तर्भावस्य प्रापकमाह –
एवमिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 जीवाविष्टानां भूतानां सत्कार्यत्वं प्रकरणप्रामाण्यादुक्तमिदानीं जीवानां विशिष्टरूपेण ब्रह्मकार्यत्वेऽपि न स्वरूपेण तत्कार्यत्वं ब्रह्मैवोपाधिप्रविष्टं जीवव्यवहारास्पदमित्यङ्गीकारात्तथा च ब्रह्मणि विज्ञाते जीवविज्ञानं सेत्स्यति जीवानां च भोगायतनानि भौतिकानि कार्याणि तेषां नामरूपनिर्माणं वक्तव्यमित्यभिप्रेत्योत्तरग्रन्थमादाय व्याकरोति – सेयमित्यादिना । यथा बहु स्यामिति पूर्वमीक्षितवती तथा किमिति पुनरैक्षत प्रयोजनाभावादित्याशङ्क्याऽऽह – ह्रदेवेति । इदानीं महाभूतसृष्टेरनन्तरमिति यावत् । ब्रह्मणो मायोपाधिकस्य कारणत्वान्मायोपाधिवशात्पूर्वसृष्टावनुभूतत्वं तत्संस्कारस्य बुद्धिस्थत्वं स्मरणं चेत्यादि न विरुद्धमिति द्रष्टव्यम् । आत्मनेतिविशेषणस्य तात्पर्यमाह – प्राणेति । निर्विकल्पकचिन्मात्ररूपा देवता मायावशान्महाभूतानि सृष्ट्वा तेषु यदा प्रविष्टा तदा तदारब्धेषु सूत्रविराट्प्रभृतिषु समष्टिव्यष्ट्यात्मसु देहेषु प्रविश्य तत्तद्देहाभिमानवती देवदत्तादिनाम्ना रूपेण च शौक्ल्यादिना संबोज्य पिण्डं व्याकरोतीत्याह – अनुप्रविश्येति । देवतायाः सर्वज्ञत्वादसंसारित्वात्स्वातन्त्र्याच्च सङ्कल्पप्रवेशावयुक्ताविति शङ्कते – नन्विति । किं साक्षादनुप्रवेशादि विरुध्यते किं वा जीवद्वाराऽपीति विकल्प्याऽऽद्यमङ्गीकरोति – सत्यमिति । साक्षादनुप्रवेशादि नास्ति चेत्तर्हि कथं तदित्याकाङ्क्षापूर्वकं द्वितीयं दूषयति – कथमिति । देवताया जीवद्वारेणानुप्रवेशाद्यविरुद्धमिति शेषः । अविरोधमेव साधयितुं जीवस्वरूपमाह – जीवो हीति । आभिमुख्येनाहमित्यापरोक्ष्येण भासत इत्याभासः स्वतोऽपरोक्षश्चित्प्रतिबिम्बस्तन्मात्रं जीवो नामेत्यर्थः । तस्य स्वरूपेणानादित्वेऽपि विशिष्टरूपेण सादित्वं दर्शयति – बुद्ध्यादीति । बुद्ध्यादिभिर्भूतमात्रादिभिश्च चिदात्मनः संसर्गस्तेन जनितस्तत्तन्त्र इति यावत् । ननु चिदात्मा कूटस्थोऽसङ्गोऽद्वितीयश्चेष्यते स कथं बुद्ध्यादिभिर्भूतमात्रादिभिश्च चिदात्मनः संसृज्यते तत्राऽऽह – अचिन्त्येति । सत्त्वादिप्रकारैरशक्यचिन्तनीयाऽनादिरनिर्वाच्या सम्यग्ज्ञानमन्तरेण नाशशून्या दण्डायमाना या मायाशक्तिस्तस्या विषयत्वेनाऽऽनाश्रयत्वेन च परा देवताऽवतिष्ठते । तस्याश्च स्वनिष्ठमायाशक्तिवशाद्बुद्ध्यादिभिरात्मनः सम्बन्धः सिद्ध्यतीत्यर्थः । बुद्ध्यादिसम्बन्धफलमाह – चैतन्येति । तदाभासो जीवशब्दवाच्यः सिद्ध्यतीति शेषः । बुद्ध्यादिभिरात्मनः सम्बन्धे मायाशक्तिरुपादानमित्युक्तं तत्रैव निमित्तकारणमाह – देवतेति । आवरणविक्षेपशक्तिसम्पन्ना हि मायाशक्तिस्ततोऽविद्योत्थदेशकालाद्यनवच्छिन्नदेवतास्वरूपोऽहमितिविशेषाग्रहणमावरणं निमित्तं कृत्वा बुद्ध्याद्यध्यासः सिद्ध्यतीत्यर्थः । बुद्ध्याद्यध्यासस्य कर्यान्तरं दर्शयति – सुखेति । परैव तर्हि देवता संसारिणी स्यादिति चेत्सत्यमज्ञानद्वारा बुद्ध्यादिसम्बन्धमनुभूय जीवत्वं प्राप्य सैव संसरतीत्याह – छायामात्रेणेति । परस्या देवतायाः स्वतःसंसाराभावं दृष्टान्तेन स्पष्टयति – यथेत्यादिना । तस्याः स्वतो दुःखाद्यसम्बन्धे श्रुतिं प्रमाणयति – सूर्य इति । उपाधिद्वारा तस्याः संसारित्वे च श्रुतिरस्तीत्याह – ध्यायतीति । प्रतिबिम्बे छायाशब्दप्रयोगान्मिथ्यात्वमिष्टमिति मन्वानः शङ्कते – नन्विति । तन्मृषात्वमिष्टमेवेत्याशङ्क्याऽऽह – तथेति । जीवस्य मृषात्वे स्वीकृते सति तस्येहलोकपरलोकौ तद्धेतुर्मोक्षस्तद्धेतुश्चेति सर्वं मृषा स्यादित्यर्थः । विशिष्टरूपेण मिथ्यात्वेऽपि स्वरूपेण सत्यत्वाज्जीवस्य ब्रह्मास्मीतिज्ञानान्मुक्तिः सम्भवतीति समाधत्ते – नैष दोष इति । यत्तु परलोकेहलोकादि मृषा स्यादिति तत्राऽऽह – सर्वं चेति । कथं तर्हि तस्य मिथ्यात्वोक्तिरित्याशङ्क्याऽऽह – स्वत इति । यथा प्रपञ्चो ब्रह्मात्मना सत्योऽपि स्वरूपेण मिथ्येत्युक्तं तथा जीवशब्दवाच्योऽपि ब्रह्मात्मना सत्यः स्वरूपेण मिथ्येति स्वीकर्तव्यमित्याह – तथेति । अथ भोक्ता स्वरूपेणापि सत्योऽस्तु भोग्यप्रपञ्चस्यैव मिथ्यात्वमिष्यतामित्याशङ्क्याऽऽह – यक्षानुरूपो हीति । लौकिकन्यायानुसारेण भोग्यप्रपञ्चस्य मिथ्यात्वे भोक्तुरपि विभक्तस्वरूपेण तत्वसिद्धिरतो जीवशब्दवाच्यस्य मिथ्यात्वेऽपि तल्लक्ष्यस्य सन्मात्रस्य सत्यत्वमिति व्यवस्थेत्यर्थः । यच्च तार्किकैरुच्यते प्रपञ्चस्य मिथ्यात्वे सौगतमतानुमतिः सत्यत्वे चाद्वैतव्याहतिरित्युक्तं तदप्युक्तन्यायेन निरस्तमित्याह – अत इति । अद्वैतवादे दोषाभावं वैधर्म्यदृष्टान्तेन स्पष्टयति –
यथेति ॥२॥ 【भाष्यम्】 【भाष्यम्】 व्याकरवाणीत्येतदन्तं वाक्यं व्याख्याय तदनूद्य तासामित्यादि व्याचष्टे – सैवमित्यादिना । व्याकरवाणीत्यैक्षतेति सम्बन्धः । कथं पुनरिदं त्रिवृत्करणमित्याशङ्क्य प्रथममेकैकां देवतां द्विधा द्विधा विभज्य पुनरेकैकभागं द्विधा द्विधा कृत्वा तदितरभागयोर्निक्षिप्य त्रिवृत्करणं विवक्षितमित्याह – एकैकस्या इति । गुणप्रधानभावानङ्गीकारे समानपरिमाणसूत्रत्रयनिर्मितरज्जुवत्त्रिवृत्करणमेकमेव स्यादित्याह – अन्यथेति । एवकारार्थं दर्शयति – न त्विति । गुणप्रधानभावेन त्रिवृत्करणमुपसंहर्तुमितिशब्दः । इतश्च गुणप्रधानभावेन त्रिवृत्करणमेष्टव्यमित्याह – एवं हीति । पृथङ्नामप्रत्ययलाभेनापि किं स्यादित्याशङ्क्याऽऽह – पृथगिति । सेयमित्यादि व्याचष्टे –
एवमित्यादिना ॥३॥ 【भाष्यम्】 【भाष्यम्】 संक्षेपेण त्रिवृत्करणं प्रतिज्ञायोदाहरणतः स्फुटीकर्तुमारभमाणो देहे त्रिवृत्करणस्याग्रे स्फुटीकर्तव्यत्वाद्देहातिरिक्तेषु प्रथमं तदुदाहर्तुमुपक्रमते –
तिष्ठतु तावदिति ॥४॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य तृतीयः खण्डः ॥ कथमुदाहरणतोऽवधारणमित्याशङ्क्यानन्तरवाक्यमवतारयति – यत्तदिति । उदाहरणशब्दं व्युत्पादयति – उदाहरणं नामेति । तत्रैव श्रुतिमवतार्य व्याचष्टे – तदेतदित्यादिना । अत्रिवृत्कृतानां रूपमिति विद्धीति सम्बन्धः । तत्राग्नौ रूपत्रये पूर्वोक्तरीत्या पृथक्कृते सतीति यावत् । इदानीं विवेकदशायामित्यर्थः । अक्षरार्थमुक्त्वा वाक्यतात्पर्यार्थमाह – प्रागिति । रूपत्रयविवेकात्प्रागवस्थायामग्निशब्दबुद्धी तद्विवेकादूर्ध्वं तन्निवृत्तिरित्येतमर्थं दृष्टान्तेन समर्थयते – यथेत्यादिना । अग्निविषये श्रुतं हित्वाऽधिककल्पनायां नास्ति निबन्धनमिति शङ्कते – नन्विति । रोहितादिरूपत्रयविवेके सत्यग्नेरग्नित्वमपगच्छतीत्यत्र दृष्टान्तमाह – यथेति । शब्दबुद्धिप्रक्षेपेऽपि न श्रुतत्यागोऽस्तीति परिहरति – नैवमिति । तत्र प्रमाणत्वेनानन्तरवाक्यमादाय व्याचष्टे – यत इति ।
अग्नेर्नाममात्रत्वमतःशब्दार्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 प्रक्रमपर्यालोचनायामुदाहरणे न्यूनत्वमस्तीति शङ्कते – नन्विति । यद्वापीकूपादे रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्येत्युदाहरणसम्भवान्न न्यूनतेति परिहरति – नैष दोष इति । तर्हि तेजोविषयमप्युदाहरणमूहनीयं किमित्युदाहृतमित्याशङ्क्याऽऽह – तेजस इति । यदि क्वचिदपि नोदाहरणमुच्यते नोपलक्षणमेव सिध्येदग्नेस्त्रयाणां रूपत्त्वेन यथोक्तरूपविभागस्य तेषु स्फुटत्वसम्भवात्तेजसो दृष्टान्तप्रदर्शनमन्नादिविषयोदाहरणोपलक्षणार्थं, तेन नोपेक्षितमित्यर्थः । अबन्नयोरपि त्रिवृत्करणमुपलक्षितं चेत्तर्हि तत्र रसगन्धयोरसाधारण्यात्तयोस्त्रिवृत्करणमुदाहर्तव्यमित्याशङ्क्याऽऽह – गन्धरसयोरिति । यथा यदबन्नयोर्भास्वरं लोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्येति शक्यते रूपं विवेक्तुं न तथाऽमुको रसो गन्धो वा तेजसोऽपामग्नेश्चास्तीति ज्ञातुं शक्यमित्यनुदाहरणं तयोरित्यर्थः । ननु त्रिवृत्करणे त्रिष्वपि रूपवद्गन्धरसौ सम्भावितौ तत्कथं तयोस्रयाणामसम्भवोक्तिस्तत्राऽऽह – न हीति । सम्भावितावपि तौ त्रिषु विवेक्तुमशक्यावित्यनुदाहरणीयावित्यर्थः । तर्हि सर्वेषु भूतेषु सम्भावितयोः स्पर्शशब्दयोरुदाहरणं किं न स्यादित्याशङ्क्याऽऽह – स्पर्शशब्दयोरिति । यथा लोहितादिरूपत्रयं त्रयाणां विभागेन दर्शयितुं शक्यं न तथा शब्दत्रयं स्पर्शत्रयं च त्रयाणां विभागेन दर्शयितुं शक्यं, नो खल्वेकत्रोष्णशीतानुष्णाशीतस्पर्शत्रयं दृश्यते नापि खरमधुरमध्यमशब्दत्रयमेकत्रोपलब्धमित्यर्थः । सर्वस्य त्रिवृत्कृतत्वे फलितमाह – यदीति । यथाऽग्न्यादि त्रिवृत्कृतं तथा सर्वमेव जगद्यदि त्रिवृत्कृतमित्यङ्गीकृतं तदाऽग्नेरग्नित्ववज्जगतो जगत्त्वमपगतं त्रीणि रूपाणीत्येव सत्यमिति योजना । तथाऽपि कथं सन्मात्रपरिशेषः स्यादित्याशङ्क्याऽऽह – तथेति । रूपत्रयव्यतिरेकेण जगतोऽभाववत्कृष्णस्यापि रूपस्य पृथिवीशब्दितस्य शुक्लरूपमात्रजलकार्यत्वात्तदतिरेकेणासत्त्वं पृथिवीवदपामपि शुक्लरूपमात्राणां लोहितरूपमात्रतेजोविकारत्वात्तद्व्यतिरेकेणाभावस्तस्यापि सत्कार्यत्वात्ततो भेदेनासत्त्वं सन्मात्रमेव परिशिष्टमित्येतत्त्रिवृत्करणप्रकरणे विवक्षितमित्यर्थः । त्रिवृत्करणपक्षे नैकविज्ञानेन सर्वविज्ञानं सिद्ध्यति परिशिष्टविज्ञेयसद्भावादिति शङ्कते – नन्विति । इतिपदं कथमित्यादिना सम्बध्यते । गन्धादयश्च शब्दान्ता गुणा गुणिश्वनन्तर्भूताः सन्तीति न सद्विज्ञानेन तद्विज्ञानोपपत्तिरित्याह – गन्धेति । तद्विज्ञाने = सद्विज्ञानेन वाय्वादिविज्ञाने, तत्र प्रकारान्तरं तत्कार्यत्वादतिरिक्तमिति यावत् । आकाशादेस्त्रिष्वेवान्तर्भावसम्भवान्न परिशिष्टविज्ञेयमस्तीति परिहरति – नैष दोष इति । कथं तेजोबन्नेषु सर्वस्य आकाशादेर्दर्शनमित्याह – कथमिति । तत्र शब्दस्पर्शयोराकाशवाय्वोश्च भूतत्रये प्रत्यक्षानुमानाभ्यामुपलब्धिं दर्शयति – तेजसीति । तेजोग्रहणमबन्नयोरुपलक्षणं तत्रापि स्पर्शाद्युपलब्धेरविशेषाद्यत्तु गन्धादि ज्ञेयान्तरमिति तत्राऽऽह – तथेति । भूतत्रये स्पर्शाद्यन्तर्भाववदिति यावत् । त्रिष्वेवान्तर्भावे फलितमाह – रूपवतामिति । भूतत्रये रूपवत्याकाशादेरन्तर्भावं व्यतिरेकद्वारा समर्थयते – न हीति । अन्तर्भावोक्तिप्रयासं परिहर्तुं पक्षान्तामाह – अथवेति । प्रदर्शनार्थं पञ्चीकरणस्येति शेषः । कथं पञ्चीकरणे सन्मात्रपरिशेषः सिद्ध्यतीत्याशङ्क्याऽऽह – यथेति । यदा पञ्चापि भूतानि प्रत्येकं द्वेधा विभज्य पुनरेकैकं भागं चतुर्धा कृत्वा स्वभागातिरिक्तेषु पूर्वेषु भागेष्वेकैकशो निक्षिप्यते तदा पञ्चीकरणं श्रुत्युपलक्षितं लभ्यते तत्रापि पञ्चानां भागानां पृथक्करणे पञ्चैव तन्मात्राण्यवशिष्यन्ते तान्यपि पृथिव्यादीन्यबादिकार्यत्वात्तत्तत्कारणव्यतिरेकेण न सिद्ध्यन्तीति त्रिवृत्करणवत्पञ्चीकरणेऽपि न्यायसाम्यात्सर्वस्य सद्विकारत्वात्तद्व्यतिरेकेणाभावात्तेन विज्ञातेन तदपि विज्ञातमेव स्यात्सन्मात्रं तु परमार्थसत्यं परिशिष्टं भवतीत्यर्थः । उक्तन्यायेनैकविज्ञानेन सर्वविज्ञानश्रुतिरविरुद्धेत्युपसंहरति – तदेकस्मिन्निति ॥२-३-४॥ त्रिवृत्करणपक्षेऽप्येकविज्ञानेन सर्वविज्ञानश्रुतिविरुद्धेत्युपपाद्य त्रिवृत्करणमुदाहरणान्तरेण दर्शयितुमारभते – एतदिति ।
त्रिवृत्करणमिति यावत् । ते पुनरिति त्रिवृत्करणविज्ञानवन्तो निर्दिश्यन्ते ॥५॥ 【भाष्यम्】 【भाष्यम्】 वेदनप्रकारमेवाऽऽकाङ्क्षापूर्वकं प्रकटयति – कथमित्यादिना । अन्यदग्न्यादिभ्यः सकाशादिति शेषः । यदनेकरूपत्वात्कपोतादिरूपेण सन्दिह्यमानमेतद्दृश्यते तस्मिन्कपोतादिस्वरूपे यत्किञ्चिद्रोहितमिव रूपं गृह्यमाणं पूर्वेषामासीत्तत्तेजसो रूपमिति ते विदितवन्त इति योजना । अत्यन्तदुर्लक्ष्यं नामरूपाभ्यां दुर्ज्ञानं द्वीपान्तरागतं पक्ष्यादीत्यर्थः । अगृह्यमाणमिति च्छेदः यथा नु खल्वित्यादिवाक्यं वृत्तानुवादपूर्वकमवतारयति – एवं तावदिति । यथा खल्वेकैका देवता पुरुषं प्राप्य त्रिवृत्त्रिवृद्भवति तथेदानीं तदाध्यात्मिकं त्रिवृत्करणमेवमेवेति जानीहीति सम्बन्धः । आध्यात्मिकं त्रिवृत्करणमिति शेषः ॥६-७॥ इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य चतुर्थः खण्डः ॥ कथं त्रिधा विभज्यमानत्वं कथं वा तस्य विनियोग इति प्रश्नपूर्वकं विवृणोति – कथमित्यादिना । रसादीत्यादिशब्देन रुधिरादि गृह्यते । तस्य कर्मफलस्य नाडीचरो भोक्तेति हिताख्या नाड्यस्तास्विति यावत् । कथमन्नोपयोगात्प्रागेव मनसः सिद्धत्वात्तन्मनो भवतीत्युच्यते तत्राऽऽह – मनोरूपेणेति । मनसोऽन्नोपचितत्ववचनाद्वैशेषिकपरिभावाऽपि दूषिता वेदितव्येत्याह – ततश्चेति । मनसो दैवत्वविशेषणान्नित्यत्वसिद्धिरित्याशङ्क्याऽऽह – यदपीति । केनाभिप्रायेण तर्हि विशेषणमित्याशङ्क्याऽऽह – किं तर्हीति । तर्हि चक्षुरादिभ्यो वैलक्षण्यादस्ति तदपेक्षया नित्यत्वमित्याशङ्क्याऽऽह – यच्चेति । यद्वा चक्षुरादिष्वसत्स्वपि मनसः सत्त्वोपलम्भात्तदपेक्षया तस्य नित्यत्वमेष्टव्यमित्याशङ्क्याऽऽह – यच्चेति । आत्मवन्मनसो नित्यत्वं किं न स्यादित्याशङ्क्याऽऽह –
सदिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 भुक्तस्यान्नस्य त्रैविध्यमुक्त्वा पीतानामपामपि त्रैविध्यमाह –
तथेति ॥२॥ 【भाष्यम्】 【भाष्यम्】 कथं तेजसोऽग्न्यादित्यादेरशनमित्याशङ्क्य विशिनष्टि – तैलेति । मज्जाशब्दार्थमाज – अस्थीति । योऽणिष्ठः सा वागित्युक्तं व्यक्तीकरोति –
तैलघृतादीति ॥३॥ 【भाष्यम्】 【भाष्यम्】 भुक्तस्यान्नस्य पीतानामप्यपामशितस्य तैलादेश्च येऽणिष्ठा धातवस्ते मनोवाक्प्राणा इत्येवं यतः सिद्धमतस्तेषामन्नादिमयत्वं युक्तिमित्याह – यत इति । तेषामन्नादिमयत्वं व्यतिरेकासिद्धिमाश्रित्याऽऽक्षिपति – नन्विति । आखुप्रमुखानां स्फुटोदपादानाद्यनुपलम्भेऽपि यत्तेषां भक्ष्यं तत्रैवोदकान्तर्भावसम्भवात्प्राणादेरम्मयत्वाद्युपपन्नमित्युत्तरमाह – नैष दोष इति । सर्वस्यान्नादेस्त्रिवृत्कृतत्वस्योक्तत्वात्तस्य सर्वस्यैव भक्ष्यस्य भूतत्रयात्मत्वसम्भवादेकैकं भक्षयतोऽपि सर्वभक्षकत्वोपपत्तेर्मन आदेरन्नादिमयत्वमविरुद्धमित्यर्थः । उक्तमेव व्यक्तीकरोति – न हीत्यादिना । उक्तरीत्या मनाअदेरन्नादिमयत्वप्रत्यायनद्वारा प्रनाड्या सन्मात्रपरिशेषे प्रत्यायिते सति श्वेतकेतुश्चोदयतीत्याह – इत्येवमिति । सर्वेषां सन्निधानाविशेषेऽन्नस्य सूक्ष्मांशो मन एवोपचिनोति न प्राणमिति निश्चयासिद्धिरित्याह – नाद्यापीति । पार्थिवमेवोपचिनोतीति विशेषमाशङ्क्याऽऽह – यस्मादिति । एकस्मिन्नुदरे प्रविष्टानामन्नादीनां मिश्रीभूतत्वान्मनसश्च सर्वभूतगुणव्यञ्जकत्वेन सर्वभूतारब्धत्वात्पार्थिवत्वासिद्धेर्नोक्तो विशेषः सम्भवतीत्यर्थः । यस्मादेवमभिप्रायः श्वेतकेतोरत इति योजना । मन आदेरन्नादिमयत्वमुपपादयितुमुत्तरग्रन्थमवतारयति – तमेवमिति ।
यत्त्वं मन आदेरन्नादिमयत्वं कथमिति पृच्छसि तदिदं यथोपपद्यते तथाऽत्रान्नादिमयत्वे तस्य दृष्टान्तमुच्यमानं शृण्विति योजना ॥४॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य पञ्चमः खण्डः ॥ मिश्रीभावेऽपि सूक्ष्मभागस्य पृथगेव कार्यकारणत्वे दृष्टान्तमाह –
दध्न इति ॥१॥ 【भाष्यम्】 【भाष्यम्】 दृष्टान्तमनूद्य दार्ष्टान्तिकमाह – यथेति । खजो मन्थास्तेन मध्यमानस्य दध्नो यथाऽणिमा तथा यथोक्तस्यान्नस्य योऽणिमेति योज्यम् । कथं तन्मनो भवतीत्युच्यते प्रागपि मनसः सिद्धत्वादित्याशङ्क्याऽऽह – मनोऽऽवयवैरिति ॥२-४॥ मन आदेरन्नादिमयत्वमुपसंहरति – अन्नमयं हीति । अतो भवदभिप्रायादिति यावत् । एतत्सर्वमिति प्राणस्याम्मयत्वं वाचस्तेजोमयत्वं चोच्यते । हृदयप्रदेशे प्राणादिसंनिधानाविशेषे कथं मनस एवान्नरसेनोपचय इत्येतन्नाद्यापि समाहितमिति मत्वाऽऽह – मनस्त्विति । मनसो विशेषतोऽन्नमयत्वमुपपादयितुमुत्तरग्रन्थमुत्थापयति –
तथेति ॥५॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य षष्ठः खण्डः ॥ अन्वयव्यतिरेकाभ्यां मनसोऽन्नरसोपचितत्वं दर्शयितुमन्नरसजनितां शक्तिं कलात्वेन कल्पयति – अन्नस्येत्यादिना । षोडशदिनावच्छेदेन षोडशधा कल्पनं द्रष्टव्यम् । तथाऽपि पुरुषस्य कथं षोडशकलत्वमत आह – तयेति । तामेव प्रकृतामन्नरसकृतां शक्तिं विशिनष्टि – यस्यामिति । तया संयुक्तः पुरुषः षोडशकल इति पूर्वेण सम्बन्धः । अन्नरसजनितं मानसशक्तिप्रयुक्तं संघातस्य सामर्थ्यमित्यत्र वाक्यं प्रमाणयति – वक्ष्यति चेति । आयो लाभोऽस्यास्तीत्यायी यावदन्नं प्राप्यात्ता भवति तावदेवास्य द्रष्टेत्यादिव्यवहारः सम्भवतीत्यर्थः । उक्तेऽर्थे लोकानुभवमनुकूलयति – सर्वस्येति । तदेव स्पष्टयति – मानसेनेति । किंच केचिन्मानसेनैव बलेन ध्यानाहारा दृश्यन्ते तच्च ध्यानमन्नपरम्परापरिनिष्पन्नमन्नस्यैव देहादिरूपेण परिणतत्वादित्याह – ध्यानेति । एवं पातनिकां कृत्वा षोडशकलशब्दार्थमाह – अत इति । यतोऽन्नकृतं मानसं वीर्यमतस्तदेव षोडशधा विभज्य कला यस्येति योजना । एतच्छब्देनान्नकृतं मानसं वीर्यं परामृश्यते । विच्छेत्स्यते विच्छेदमापत्स्यते यस्मात्तस्मादपः पिबेति पूर्वेण सम्बन्धः । अपां पानपरित्यागे प्राणविच्छेदे कारणमाह – यस्मादिति । प्राणस्याम्मय्यत्वेऽपि किमित्यपां परित्यागे तस्योच्छेदस्तत्राऽऽह – न हीति ॥१-३॥ ऋगाद्यप्रतिभानं तत्रेत्युच्यते । ईषदपि न देहात्कुतो बहु दहेदिति योजना ॥३-५॥ व्यावृत्तिर्व्यतिरेकोऽन्नोपयोगाभावे मनसः सामर्थ्याभावः । अनुवृत्तिरन्वयोऽन्नोपयोगे मनसः सामर्थ्यमिति भेदः । मनसोऽन्नमयत्वमुपपादयितुमुपक्रान्तमापोमयः प्राण इत्यादि कथमिहोच्यते तत्राऽऽह – यथैतदिति । विद्यासमाप्तिमन्तरेण कथं द्विर्वचनमित्याशङ्क्याऽऽह –
द्विरभ्यास इति ॥६॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य सप्तमः खण्डः ॥ त्रिवृत्करणनिर्णयविषयमवान्तरप्रकरणं परिसमाप्य महाप्रकरणं सद्विषयमेवानुवर्तयन्मनसो लये सुषुप्तौ जीवस्य सत्संपत्तिं वक्तुं मन उपाधिकत्वमुक्तमनुवदति – यस्मिन्निति । उपाधेः स्वरूपमुक्तं संचारयति – तन्मन इति । उपाध्युपहिते कार्यकरत्वं दर्शयति – यन्मय इति । मनसो भावे जाग्रत्स्वप्नव्यवहारसिद्धिरित्युक्त्वा तदभावे सुषुप्तिमवतारयति – तदुपरमे चेति । आत्मनि मनोवशादेव दर्शनादिव्यवहारो न स्वारस्येनेत्यत्र बृहदारण्यकश्रुतिं प्रमाणयति – तदुक्तमिति । द्वितीये वाक्ये सधीरित्येतदुपयुज्यते । तृतीये तु विज्ञानमयो मनोमय इति च पदद्वयमुपजीव्यते । एवं भूमिकां कृत्वा समनन्तरवाक्यमादत्ते – तस्येति । तत्पुत्रायेत्यत्र तस्यां देवतायां तदवस्थानमिति तच्छब्दार्थः । तत्रेति द्वितीयपक्षोक्तः । अर्थादिति । स्वप्नस्य हि कार्यस्य सतत्त्वं कारणं तच्च सुषुप्तमेव । “सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः” (नै.सि. ४ । ४३) इत्युभयापगमनात् । द्वितीयव्याख्याने सुषुप्तमेवार्थवशात्फलतीत्यर्थः । इतश्च स्वप्नान्तशब्देन साक्षादर्थाद्वा सुषुप्तमेवोक्तमित्याह – स्वमिति । नन्ववस्थान्तरेऽपि स्वमपीतो भवतीतिवचनमविरुद्धमिति चेन्नेत्याह – नहीति । तत्रापि कथं स्वापः स्यादित्याशङ्क्याऽऽह – तत्रेति । स्वपितिनामनिर्वचनसामर्थ्यसिद्धमर्थं निगमयति – अत इति । ननु स्वप्नान्तशब्दो बुद्धान्तशब्दवद्यदा स्वप्नमेवान्वचष्टे तदाऽपि स्वमपीतो भवतीत्यविरुद्धं सर्वदा जीवस्य सद्रूपब्रह्मप्राप्तेस्तुल्यत्वादत आह – यत्र त्विति । स्वप्नदर्शनस्य पुण्यापुण्यकार्यत्वं प्रकटयति – पुण्यापुण्ययोर्हीति । न केवलं पुण्यापुण्याभ्यामेव स्वप्ने संयुज्यते किन्त्वविद्यादिभिश्चेति न तत्र स्वाप्ययः सम्भवतीत्याह – पुण्यापुण्ययोश्चेति । तर्हि स्वप्नवन्न सुषुप्तेऽपि स्वाप्ययः स्यात्तत्रापि कामकर्मादिसबन्धसम्भवादित्याशङ्क्याऽऽह – अनन्वागतमिति । सति जीवरूपे कथं देवताभावः सम्भवतीत्याशङ्क्याऽऽह – मनसीति । तस्मादित्यस्यातःशब्दो व्याख्यानं तेन परामृष्टं हेतुमेव स्पष्टयति – स्वमात्मानमिति । स्वपितिनामनिर्वचनफलं दर्शयति – गुणेति । सुषुप्ते स्वरूपावस्थानस्य मुख्यस्यासंभवान्मुक्तत्वेनानुत्थानप्रसङ्गात्स्वरूपावस्थानप्रसिद्धेर्निमित्तं वक्तव्यमिति पृच्छति – कथं पुनरिति । ज्वरादिरोगग्रस्तस्य स्वभावस्थितौ प्रसिद्धः श्रमाभावः सुषुप्तं च श्रमापनोदावस्थानं तथा च तत्र स्वरूपस्थितिप्रसिद्धिरविरुद्धेत्याह – जाग्रदिति । संगृहीतं समाधानं विवृणोति – जागरिते हीति । करणानामनेकव्यापारनिमित्ता ग्लानिर्भवतीत्यत्र मानमाह – श्रुतेश्चेति । अनुभवसमुच्चयार्थश्चकारः सुषुप्त्यवस्थायां करणानामुपरतौ प्रमाणमाह – तथा चेति । सुषुप्तौ प्राणस्यापि वागादिवदुपसंहृतत्वमाशङ्क्याऽऽह – करणानीति । अन्यथा मृतिभ्रान्तिः स्यादिति भावः जीवस्यापि बहिर्व्यापारः स्यादिति चेन्नैवं करणाभावादित्याह – तदेति । ननु सुषुप्ते श्रमापनोदार्थं न स्वरूपावस्थानं तत्कुतो लौकिकी प्रसिद्धिरित्याशङ्क्याऽऽह – नान्यत्रेति । उक्तमर्थं लौकिकदृष्टान्तेन स्पष्टयति – दृश्यते हीति । बृहदारण्यकश्रुत्यालोचनायामपि सुषुप्त्यवस्थायामवस्थाद्वयजनितश्रमापोहार्थं ब्रह्मनीडप्राप्तिर्गम्यत इत्याह –
तद्यथेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 तत्रेति सुषुप्त्यवस्थोच्यते । यथोक्तोऽर्थो हि जीवस्य ब्रह्मण्यवस्थानं तस्मिन्निति यावत् । सशब्दो दृष्टान्तविषयः शकुनिविषयो वा । अप्राप्येति च्छेदः । यथा मञ्चाक्रोशनेन मञ्चस्थो देवदत्तो लक्ष्यते तथा तन्मन इति मनसि स्थितो जीवो लक्ष्यो भवतीत्याह – मञ्चाक्रोशनवदिति । न केवलं प्रकरणात्प्राणशब्देन परा देवतालक्ष्यतेऽन्यत्र प्रयोगदर्शनाच्चेत्याह – प्राणस्येति । प्राणशब्देन परदेवतालक्षणायां फलितमाह – अत इति । प्राणमेवोपश्रयते विज्ञानात्मेत्यत्र हेतुमाह –
प्राणबन्धनमिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 वृत्तमनूद्यानन्तरवाक्यमुत्थापयति – एवमिति । आहाशनापिपासे सोम्येत्यादीति शेषः । किमभिप्रायः सन्पिता पुत्रं प्रत्येवमाहेत्याकाङ्क्षायामाह – अन्नादीति । अन्नादीनि कार्याणि कारणान्यबादीनि तेषां या परम्परा तयाऽपि जगतो यत्सल्लक्षणं मूलं तद्दर्शयितुमिच्छन्पिता पुत्रं प्रत्यशनेत्यादिकं वाक्यमाहेत्यर्थः । अशनेत्यस्य सन्नन्तत्वाभावेऽपि कथं तदर्थो व्याख्यायते तत्राऽऽह – अशनेति । यकारस्य लोपेनास्मिन्प्रयोगे सन्प्रत्ययः प्रयुक्तस्तथाच तदर्थोक्तिरविरुद्धेत्यर्थः । तत्राशनायापिपासयोः सतत्त्वं विज्ञापयति – यत्रेति । सामान्येनोक्त नाम विशेषतो ज्ञातुं पृच्छति – किं तदिति । यत्कठिनमन्नं पुरुषेणाशितं तत्पीता आपो नयन्त इति सम्बन्धः । तदेति परिणामावस्थोक्तिः । अथेत्यन्नस्य भुक्तस्य जीर्णत्वानन्तर्यमुच्यते । कथं तदा नाम्नो गौणत्वं तदाह – जीर्णे हीति । तद्यथेत्यत्र तच्छब्दार्थमाह – तत्तत्रेति । एतस्मिन्नर्थे दृष्टान्त उच्यत इति शेषः । अशनायेति कथमपामाख्यानमशनाया इति हि वक्तव्यं तत्राऽऽह – विसर्जनीयेति ।
तत्रेत्यस्य व्याख्यानमेवं सतीत्यपामशितनेतृत्वे सतीत्यर्थः । अद्भिः पीताभिरिति शेषः । तत्रेति शरीरनिर्देशः ॥३॥ 【भाष्यम्】 【भाष्यम्】 अन्नस्य देहमूलत्वमाकाङ्क्षापूर्वकं व्युत्पादयति – कथमित्यादिना । तथा पुरुषभुक्तान्नवदिति यावत् । तथाऽपि कथं सतो मूलस्य सिद्धिरत आह – यत्त्विति । सतो मूलस्य वास्तवं रूपं दर्शयति – एकमिति । तस्य सर्वकल्पनाधिष्ठानत्वेन परिणामवादं व्युदस्यति – यस्मिन्निति । अध्यासे मूलकारणमाह – अविद्ययेति । प्रजाः सर्वाः सन्मूलाः सदायतनाश्चेत्युक्तमर्थं दृष्टान्तेन समर्थयते – न हीति । सत्प्रतिष्ठाः सदायतनाश्चेत्यनयोरर्थभेदाभावमाशङ्क्याऽऽह – अन्ते चेति । प्रतिष्ठाशब्दस्य लयवाचित्वादायतनशब्दस्य चाऽऽश्रयविषयत्वान्न पौनरुक्त्यमित्यर्थः । लयशब्दस्य सुषुप्त्यादिविषयत्वं वारयति – समाप्तिरिति । सम्यगाप्तिः समाप्तिरिति प्राप्तिरत्र विवक्षितेति शङ्कां वारयति – अवसानमिति । तस्याभावत्वेन तुच्छरूपत्वं निरस्यति –
परिशेष इति ॥४॥ 【भाष्यम्】 【भाष्यम्】 अन्नाख्यशुङ्गद्वारा सतो मूलस्याधिगतेरनन्तरमित्यथशब्दार्थः । पिपासतीत्येतन्नाम पुरुषो यस्मिन्काले भवतीति योजना । कथं पिपासतीत्येतन्नाम पुरुषस्य गौणमित्याशङ्क्याऽऽह – द्रवीकृतस्येति । भवत्वपां तेजसा शोष्यमाणत्वं किं तावतेत्याशङ्क्याऽऽह – नितरां चेति । तदा पानेच्छावस्थायामित्यर्थः । तेजसो यदुदकनेतृत्वमुक्तं तत्र श्रुतिमवतार्य व्याचष्टे – तदेतदाहेति । उदन्यमिति वक्तव्ये कथमुदन्येत्युक्तं तत्राऽऽह – उदन्येतीति । तत्रापि तेजस्यपीत्येतत् । यथाऽशनायेति च्छान्दसं तथा तेजस्युदन्येत्यपि च्छान्दसमेवेत्याह – पूर्ववदिति । अन्नद्वारा सतो मूलस्याधिगमवदम्बुद्वाराऽपि तस्याधिगतिरस्तीत्याह –
अपामपीति ॥५॥ 【भाष्यम्】 【भाष्यम्】 तेजःशुङ्गद्वाराऽपि सतो मूलस्य प्रतिपत्तिरस्तीत्याह – सामर्थ्यादिति । त्रिवृत्करणवशादिति यावत् । शरीरस्य भूतत्रयकार्यत्वमतःशब्दार्थः । यथा पूर्वमन्नशुङ्गेन देहेनान्नाख्यं मूलं गम्यत इत्यादि व्याख्यातं तथा तेजःशुङ्गेन देहेन तेजो मूलं गम्यत इत्यादि व्याख्येयमित्याह – पूर्ववदिति । वृत्तानुवादपूर्वकं यथेत्यादिवाक्यमादत्ते – एवं हीति । उक्तया रीत्या नामद्वयप्रसिद्धिद्वारेण यथोक्तदेहाख्यशुङ्गस्यान्नादिकारणपरम्परया सदाख्यं मूलमुक्तविशेषणं सन्मूलमन्विच्छेत्युपदेशेन श्वेतकेतुं ज्ञापयित्वा व्यवस्थया शरीरमेकैकभूतारब्धमित्याक्षेपे प्राप्ते यदस्मिन्प्रकरणे तेजःप्रभृतीनामुपयुज्यमानानां स्वस्वभावानुसारेण संघातस्योपचयकरत्वं वक्तव्यं प्राप्तं तदिह सर्वशरीरेषु सर्वभूतकार्योपलम्भाद्व्यवस्थायां प्रमाणाभावाद्दृश्यमाने संघाते कस्य भूतस्य कियत्कार्यमित्यपेक्षायामन्नमशितमित्यादावुक्तमेव द्रष्टव्यमिति पूर्वोक्तं व्यपदिशतीति योजना । सतो मूलस्य व्यवहारसत्यत्वं वारयति – परमार्थेति । वस्तुतो नाविद्यासंबन्धस्तस्यास्तीत्याह – अभयमिति । अविद्याकार्यसंबन्धोऽपि परमार्थतो न तस्यास्तीत्याह – असंत्रासमिति । उभयसम्बन्धाभावे समुत्खातनिखिलदुःखत्वेन परमानन्दत्व तस्य सिद्ध्यतीत्याह – निरायासमिति । पूर्वोक्तमेव व्यक्तीकरोति – तत्रैवेति । किं तदन्नमशितमित्यादाभुक्तं तत्राऽऽह – अन्नादीनामिति । साप्तधातुकं त्वगसृङ्मांसमेदोमज्जास्थिशुक्राख्याः सप्त धातवस्तेषां संहतिरूपमित्यर्थः । तेजोबन्नकार्यभूतदेहशुङ्गद्वारा सत्तत्वं निरूपितमिदानीं मरणद्वारेणापि तन्निरूपयितुमारभते – सोऽयमिति । तदाहेत्यत्र क्रमवद्गमनं तदित्युक्तम् । वाग्व्यापारस्य मनसि लये हेतुमाह – मनःपूर्वको हीति । प्राणसंपत्तिर्मनसस्तदधीनत्वम् । मनोव्यापारनिवृत्त्यवस्था तदेत्युच्यते । प्राणश्च तदेत्यविज्ञानावस्था कथ्यते । कथं प्राणस्य स्वात्मन्युपसंहृतबाह्यकरणत्वं तदाह – संवर्गविद्यायामिति । तत्र हि प्राणः संवृङ्क्ते वागादीनिति । दृष्टमतो युक्तं तस्य स्वात्मन्युपसंहृतकरणत्वमित्यर्थः । तेजसीति भौतिकमाध्यात्मिकं तेजो गृह्यते । जीवतीत्याहुरिति सम्बन्धः । सकरणस्य सप्राणस्य च भूतवर्गस्य परस्यां देवतायामुक्तक्रमेणोपसंहारेऽपि जीवस्य किमायातमित्याशङ्क्याऽऽह – तदेवमिति । तस्यां परस्यां देवतायामुक्तेन क्रमेण तेजस्युपसंहृते सतीति यावत् । स्वमूलं मनसो मूलं भूतपञ्चकम् । निमित्तोपसंहारादित्यत्र निमित्तं मनो विवक्षितम् । सत्सम्पन्नस्य सत्याभिसंधेर्न पुनरुत्थानमित्येतद्दृष्टान्तेन स्पष्टयति – यथेति । अभयं देशं प्राप्तो न पुनः सभयं देशं गन्तुमिच्छतीति शेषः । यस्त्वनृताभिसंधो यथोक्तया रीत्या न तत्संपन्नस्तं प्रत्याह –
इतरस्त्विति ॥६॥ 【भाष्यम्】 【भाष्यम्】 अस्येति षष्ठ्या सर्वं जगदुक्तम् । असंसारी संसारी वेति च्छेदः । मूलादेर्विशेषं दर्शयति – परमार्थेति । कल्पितस्य जगतः स्वरूपं प्रत्यग्भूतमतात्त्विकमिति शङ्कां वारयति – सतत्त्वमिति । तत्त्वेन सहितमपि सतत्त्वमित्याशङ्क्याऽऽह – याथात्म्यमिति । कथमेवमर्थत्वमात्मशब्दस्य लभ्यते तत्राऽह – आत्मशब्दस्येति । सतो भवत्वात्मत्वं मम तु किं स्यादित्याशङ्क्याऽऽह – अत इति । सन्देहास्पदमेव विशिनष्टि – अहन्यहनीति । सन्देहे हेतुमाह – येनेति । तेन सन्दिग्धमेतदिति पूर्वेण सम्बन्धः । सन्देहव्यावृत्तिस्तर्हि कथमित्यत आह – अत इति । पुत्रस्य प्राप्तसन्देहापोहार्थमुत्तरग्रन्थमुत्थापयति –
एवमिति ॥७॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्याष्टमः खण्डः ॥ यथेत्यादिदृष्टान्तमवतारयति – यत्पृच्छसीति । प्रत्यहं सुषुप्ते सर्वाः प्रजाः सत्सम्पद्य सत्सम्पन्नाः स्मो वयमिति यन्न विदुस्तदज्ञानं कस्मात्कारणादिति यन्मां पृच्छसि तत्र सुषुप्तादावज्ञाने कारणभूतं दृष्टान्तमुच्यमानं श्रुणु त्वमिति योजना । यथा स दृष्टान्तः स्पष्टो भवति तथोच्यत इत्याह – यथेति । पुनर्मधुपदं क्रियापदेन सम्बन्धप्रदर्शनार्थम् । मधुकृतां मधुनिष्पादकत्वमाकाङ्क्षापूर्वकं दर्शयति – कथमित्यादिना । नानागतीनां नानाफलानामित्येतत् । बहूनां रसानां कथमेकतेत्याशङ्क्याऽऽह – मधुत्वेनेति । तदेव स्पष्टयति –
मधुत्वमिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 ते यथेत्यादि व्याचष्टे – ते रसा इति । उक्तमर्थं वैधर्म्यदृष्टान्तेन स्पष्टयति – यथा हीत्यादिना । इहेति प्रकृतदृष्टान्तोक्तिः । दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –
यथेति ॥२॥ 【भाष्यम्】 【भाष्यम्】 रसानामचेतनत्वेन विवेकानर्हत्वात्कथं चेतनावतामेवं दृष्टान्तः स्यादित्याशङ्क्याऽऽह – यस्माच्चेति । चेतनानामपि सुषुप्त्यादौ जाड्यास्कन्दिततया रसतुल्यत्वात्तेषां विवेकानर्हावस्थापत्तिमात्रे प्रकृतमुदाहरणमविरुद्धमिति भावः । एवं यथोक्तरसदृष्टान्तवशेनेति यावत् । सता सम्पन्नानामपि तत्स्यादित्याशङ्क्याऽऽह –
संसारिण इति ॥३॥ 【भाष्यम्】 【भाष्यम्】 स य एषोऽणिमेत्याद्यवतारयति – ताः प्रजा इति । इतः सद्विज्ञानरहितेभ्यः सकाशादिति यावत् । यमणुभावमिति यच्छब्दोऽध्याहर्तव्यः । प्रश्नान्तरं दृष्टान्तबलादुत्थापयति – यथेति । सतोऽहमागतोऽस्मीत्युत्थितस्य ज्ञानाभावं दृष्टान्तेनोपपादयितुमुत्तरग्रन्थमुत्थापयति –
इत्युक्त इति ॥४॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य नवमः खण्डः ॥
आगमनावध्यपरिज्ञानं तत्रेत्युक्तम् ॥१॥ 【भाष्यम्】 【भाष्यम्】 प्रश्नान्तरं व्याचष्टे – दृष्टमिति । विनष्टा इति लोके दृष्टमिति सम्बन्धः । जीवास्तु प्रत्यहं सुषुप्त्यवस्थायां मरणप्रलययोश्च कारणभावं गच्छन्तोऽपि न विनश्यन्तीति यदेतत्तदिति योजना । जीवविनाशं शङ्कमानस्य प्रतिबोधनार्थमुत्तरं वाक्यमुत्थापयति – तथेति ॥२-३॥ इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य दशमः खण्डः ॥ जीवस्य नाशाभावं वक्तुमादौ दृष्टान्तमाह –
श्रुण्विति ॥१॥ 【भाष्यम्】 【भाष्यम्】 ननु रोगग्रस्तायां वातोपहतायां वा शाखायां प्राणोपसंहारेऽपि कुतो जीवोपसंहारः सम्भवति तत्राऽऽह – वागिति । ननु वृक्षे जीवस्य सद्भावे तत्रोपसंहारानुपसंहारौ वक्तव्यौ तत्र तस्य सत्त्वं तु कुतस्त्यमत आह – जीवेन चेति । रसरूपेण वर्धयदिति सम्बन्धः । वृक्षशरीरे जीवस्य सत्त्वेऽपि किमित्यसौ कदाचित्तदीयामेकां शाखां जहातीत्याशङ्क्याऽऽह – अशितेति । जीवोपसंहारेऽपि किमिति शाखा शुष्यति तत्राऽह – जीवस्थितीति । जीवस्य स्थितिर्निमित्तं यस्येति विग्रहः । तथा शाखायामुक्तप्रकारेणेति यावत् । यत्तु वैशेषिकवैनाशिकाभ्यां स्थावराणां निर्जीवत्वेनाचेतनत्वमुक्तं तदेतन्निरस्तमित्याह – वृक्षस्येति ।
आदिशब्दो वृद्धिमोदादिसंग्रहार्थः । स एष वृक्षो जीवेनाऽऽत्मनाऽनुप्रभूत इति दृष्टान्तश्रुतिः ॥२॥ 【भाष्यम्】 【भाष्यम्】 श्रुतिदृष्टान्ते विवक्षितमंशमनूद्य दार्ष्टान्तिकमाह – यथेत्यादिना । जीवस्य सुषुप्ते नाशाभावे हेत्वन्तरमाह – कार्यशेषे चेति । तस्मिन्सति सुषुप्तो भूत्वा पुनरुत्थितस्य कार्यस्य शेषोऽस्ति यस्मिन्कर्मणि तदिदं ममासमाप्तमिति स्मृत्वा तस्य समापनदर्शनान्न स्वापे जीवो नश्यतीत्यर्थः । मरणकाले तन्नाशाभावे हेत्वन्तरमाह – जातमात्राणामिति । आद्यश्चकारः समुच्चये द्वितीयोऽवधारणे । जीवस्य प्रलयादावविनाशे कारणान्तरमाह – अग्निहोत्रादीनामिति । इतिशब्दो जीवस्य नित्यत्वोपसंहारार्थः । यदुक्तं सन्मूलाः सोम्येत्यादि तत्र चोदयति – कथं पुनरिति । विलक्षणयोर्न कार्यकारणत्वमिति शङ्कमानं प्रतिबोधयितुमुत्तरं वाक्यमुपादत्ते –
तथेति ॥३॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्यैकादशः खण्डः ॥ स्थूलस्य कार्यस्य सूक्ष्ममुख्यकारणत्वमेतदित्युच्यते । अस्य सोम्य महतो वृक्षस्येति प्रकृतं वृक्षं परामृशति –
अत इति ॥१॥ 【भाष्यम्】 【भाष्यम्】 यमेतमणिमानं न पश्यस्येतस्याणिम्नो बीजस्येति सम्बन्धः । तथाऽपीत्यत्यन्ताणुत्वाददर्शनेऽपीत्यर्थः । अत्यन्तसूक्ष्माद्बीजादत्यन्तस्थूलस्य वृक्षस्योत्पत्त्युपलम्भोऽतःशब्दार्थः । सन्मूलाः सोम्येत्यादिश्रुत्या दृश्यते त्विति न्यायेन च जगतः सत्कार्यत्वे सिद्धे श्रद्धामन्तरेणापि तन्निर्णयसम्भवात्किमिति श्वेतकेतुः श्रद्धत्स्त्वेति पित्रा नियुज्यते तत्राऽऽह – यद्यपीति । सत्यामपि श्रद्धायां कथं बाह्यविषयासक्तमनसोऽत्यन्तसूक्ष्मेष्वर्थेष्ववगमः स्यादित्याशङ्क्याऽऽह – श्रद्धायां त्विति । मनःसमाधानवशाद्बुभुत्सितस्यार्थस्यावगतिरित्यत्र बृहदारण्यकश्रुतिं सम्वादयति –
अन्यत्रेति ॥२॥ 【भाष्यम्】 【भाष्यम्】 प्रत्यक्षतोऽनुपलभ्यमानत्वान्नास्तीति मन्वानः शङ्कते – यदीति । अनुपलभ्यमानस्यापि सत्त्वमाशङ्क्याऽऽह – इत्येतदिति । अप्रत्यक्षस्यापि जगन्मूलस्यास्तित्वं प्रतिपादयितुमुत्तरग्रन्थमवतारयति –
तथेति ॥३॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य द्वादशः खण्डः ॥ नोपलभ्यते स्वेन प्रकारेणेति शेषः । इतीममर्थं प्रत्यक्षीकर्तुं यदीच्छसि तर्हि दृष्टान्तमत्र शृण्विति योजना । रात्रेरत्ययानन्तर्यमथशब्दार्थः । जगन्मूलं स्वतोऽप्रत्यक्षमपि प्रत्यक्षमुपायान्तरेणेति पित्रोक्तोऽर्थस्तं प्रत्यक्षीचिकीर्षुर्घटादावुदके पिण्डरूपं लवणं रात्रौ प्रक्षिप्य तदत्ययानन्तरं प्रातःकाले पितृसमीपं श्वेतकेतुर्गतवानित्याह – स हेति । यथा तत्पिण्डरूपं लवणं प्रक्षेपात्प्रागभूत्तथा न विज्ञातवानिति सम्बन्धः । उदके प्रक्षिप्तं लवणं विमृश्यापि न विज्ञायते चेदसदेव तर्हि तदित्याशङ्क्याऽऽह – विद्यमानमेवेति । किमिति तर्हि चक्षुषा स्पर्शेन वा नोपलभ्यते तत्राऽऽह –
अप्स्विति ॥१॥ 【भाष्यम्】 【भाष्यम्】 कथं तर्हि तस्य विद्यमानत्वमवगतं तत्राऽऽह – यथेति । यद्यपि पिण्डरूपं लवणमुदके क्षिप्तमवमृश्यापि चक्षुस्स्पर्शनाभ्यां न त्वं वेत्थ तथाऽपि तत्तत्र विद्यत एव यतस्ताभ्यामगृह्यमाणमपि तत्रोपायान्तरेणोपभ्यत इत्येतमर्थं प्रत्याययितुमुत्तरं वाक्यमित्यर्थः । यथाशब्दो यद्यपीत्यर्थे । तद्धेत्यादि व्याचष्टे – लवणमिति । संवर्तत इतीदं वचनं ब्रुवन्नाजगामेति सम्बन्धः । दृष्टान्तमनूद्य दार्ष्टान्तिकमाह – इत्येवमुक्तवन्तमित्यादिना । सतो जगन्मूलस्यास्मिन्देहे सत्त्वं त्वया कथमवगतमत आह – वावेति । अत्र वावेत्यादिनाऽत्रैव किलेत्यस्य पौनरुक्त्यमाशङ्क्यार्थविशेषं दर्शयति –
यथाऽत्रेत्यादिना ॥२॥ 【भाष्यम्】 【भाष्यम्】 उपायान्तरजिज्ञासया पृच्छति – यद्येवमिति । तर्हि तदेत्यध्याहृतस्य तस्येत्यादिना सम्बन्धः । सतो मूलस्योपलम्भेऽनुपलम्भे वा किं स्यादित्याशङ्क्याऽऽह – यदुपलम्भादिति । बुभुत्सितमुपायमुपदर्शयितुमुत्तरग्रन्थमुपादत्ते –
तथेति ॥३॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य त्रयोदशः खण्डः ॥ यथाऽयमुपायः शक्यो ज्ञातुं तथा लोके प्रदृश्यते दृष्टान्त इत्याह – यथेति । तमेव दृष्टान्तं व्याचष्टे – हे सोम्येति । यथा दिग्भ्रमोपेतो यत्किञ्चिद्दिगभिमुखो विक्रोशति तथा स तत्र विजने देशे शब्दं कुर्यादिति सम्बन्धः । प्राङित्यस्यार्थमाह – प्रागञ्चन इति । तस्यैव विवक्षितमर्थं कथयति – प्राङ्मुख इति ।
वक्ष्यमाणप्रकारैर्विकल्पार्थो वाशब्दः ॥१॥ 【भाष्यम्】 【भाष्यम्】 यथाबन्धनं बन्धनमनुसृत्येति यावत् । पण्डितो मेधावीतिविशेषणद्वयस्य व्यवच्छेद्यं दर्शयति – नेतर इति । व्याख्यातं दृष्टान्तं सोपस्करमनुवदति – यथेत्यादिना । दार्ष्टान्तिकं व्याचष्टे – एवमिति । आदिशब्देन वाव्याकाशौ गृह्येते । मयड्विकारार्थः । देहारण्यस्यानेकानर्थसङ्कटत्वं कथयति – वातेति । शीतौष्णादीत्यादिपदेन रागद्वेषादिद्वन्द्वं गृहीतं तेनानेकेन द्वन्द्वेन जातं सुखं दुःखं च तदुपेतमिदं देहारण्यमित्येतत् । बन्ध्वादीत्यादिशब्दो मित्रक्षेत्रादिविषयः । पुण्यापुण्यादीत्यादिपदमविद्याकामवासनासंग्रहार्थम् । देहारण्यं प्रविष्टस्य जन्तोर्विक्रोशनप्रकारं सकारणं सूचयति – अहमित्यादिना । तस्य सदा दुःखित्वशङ्कां वारयति – कथञ्चिदेवेति । आपाततो ब्रह्मवित्त्वमात्रेण मुक्तबन्धनत्वासिद्धेर्विशिनष्टि – ब्रह्मिष्ठमिति । यदाऽऽसादयति तदा सुखी स्यादित्युत्तरत्र सम्बन्धः । संसारविषयं दोषदर्शनं तस्य क्षयिष्णुत्वादिज्ञानं तस्य मार्गो विवेकः स यस्याऽऽचार्येण दर्शितो विद्यातः स दर्शितसंसारविषयदोषदर्शनमार्गः । आचार्येण साधनचतुष्टयसम्पन्नस्याधिकारिणः संसारान्मोक्षितत्वप्रकारं दर्शयति – नासीति । यद्यपि वाक्यार्थज्ञाने वाक्यमेवोपायस्तथाऽप्याचार्योपदेशजनितातिशयदर्शनात्तदुपदेशोऽवगत्यन्तवाक्यार्थज्ञाने प्रथमो हेतुरुपदेशमात्राद्यस्य नावगत्यन्तवाक्यार्थधीस्तस्य प्रमाणाद्यसम्भवनानिरसनसमर्थो विचारो मेधाविशब्देन विहितस्तस्य प्रज्ञातिशयवति प्रयोगादिति भावः । पुरुषव्यत्यये हेतुमाह – सामर्थ्यादिति । अस्मद्युपपदेऽसत्युत्तमपुरुषप्रयोगानुपपत्तेर्देहादिस्थित्यनुपपत्तेर्वेत्यर्थः । यावदित्यादिवाक्यार्थं स्पष्टयति – येनेति । पूर्ववदिति सामर्थ्यात्पुरुषव्यत्ययं लक्षयति । अथशब्दस्य सत्सम्पत्तेर्देहमोक्षादानन्तर्यमर्थो भविष्यतीत्याशङ्क्याऽऽह – न हीति । अथ सम्पत्स्य इति विदेहमुक्तिमुक्तामाक्षिपति – नन्विति । अप्रवृत्तफलानीति च्छेदः । उत्पन्ने चेति चकारोऽप्यर्थः । विमतानि कर्माणि ब्रह्मज्ञानेन न क्षीयन्ते कर्मत्वात्प्रवृत्तफलकर्मवदित्यर्थः । क्षीयन्ते चास्य कर्माणि, ज्ञानाग्निः सर्वकर्माणीत्यादिश्रुतिस्मृतिविरोधात्कालात्ययापदिष्टतेति शङ्कते – अथेति । अतिप्रसङ्गान्न श्रुतिस्मृत्योर्यथाश्रुतार्थतेति परिहरति – तदेति । ज्ञानस्याऽऽनर्थक्यमुक्त्वा पक्षान्तरमाह – देशान्तरेति । यथा ग्रामप्राप्त्युपायोपायोऽश्वोरथो वेति ज्ञाने सत्यसत्यन्तराये कस्यचिदेव ग्रामप्राप्तिर्भवति न त्वन्तरायवतस्तज्ज्ञानेऽपि तत्प्राप्तिर्यथा तथा समुत्पन्नज्ञानस्यापि कस्यचिदेव भोगेन क्षीणकर्माशयस्य मोक्षो न ज्ञानमात्रादित्यनियतफलत्वमित्यर्थः । कर्मत्वहेतोरप्रयोजकत्वं वदन्नुत्तरमाह – न कर्मणामिति । संग्रहवाक्यमेव प्रपञ्चयन्नादौ नञर्थं स्फुटयति – यदुक्तमिति । तत्र हेतुमाह – विदुष इति । प्रामाण्याद्देहान्तरारम्भे तद्विरोधप्रसङ्गादिति शेषः । श्रुत्यन्तरमाश्रित्य शङ्कते – नन्विति । तथा चानारब्धकर्मवशाद्विदुषोऽपि देहान्तरमारब्धव्यमिति शेषः । तत्प्रामाण्यमङ्गीकरोति – सत्यमेवमिति । तर्हि विदुषोऽपि देहान्तरमनारब्धकर्मवशादारब्धव्यं नेत्याह – तथाऽपीति । विशेषमेवाऽऽकाङ्क्षाद्वारा विशदयति – कथमित्यादिना । प्रवृत्तफलत्वमेव स्फुटयति – यैरिति । उक्तमर्थं दृष्टान्तेन स्पष्टयति – यथेति । लक्ष्यस्य वेधो भेदनं तत्समकालमेवेष्वादेरूर्ध्वं गतिप्रयोजनं नास्तीति न स्थितिर्लक्ष्यमुद्दिश्य मुक्तस्य तस्याऽऽरब्धवेगस्याप्रतिबन्धेन तदासादितस्य वेगक्षयादेव स्थितिदृष्टान्तवद्विद्यार्थे देहे विद्यालाभानन्तरं फलं नास्तीति न कर्माणि निवर्तन्ते किन्तु भोगक्षयादेव तस्य लब्धवृत्तित्वादित्यर्थः । प्रवृत्तफलेभ्योऽप्रवृत्तफलानां कर्मणां विशेषमाह – अन्यानि त्विति । न चाप्रवृत्तफलानां कर्मणां क्षयोऽप्रसिद्धस्तथाविधस्यैव पापस्य प्रायश्चित्तेन प्रक्षयोपगमादित्याह – प्रायश्चित्तेनेवेति । आरब्धफलातिरिक्तानां कर्मणां ज्ञानान्निवृत्तौ श्रुतिस्मृती दर्शयति – ज्ञानाग्निरित्यादिना । प्रवृत्ताप्रवृत्तफलेषु कर्मसु सिद्धे विशेषे फलितमाह – अत इति । जीवनादीत्यादिशब्देन पुत्रकलत्रादि गृह्यते । मुक्तस्याप्रतिबद्धेष्वादेयविद्वेगक्षयं गतिध्रौव्यव्यवहारवदारब्धकर्मणां फलभोगोऽवश्यमेव स्यादिति सम्बन्धः । यतश्चाऽऽरब्धकर्मणां भोगादेव क्षयस्ततस्तस्येत्यादिना यच्चिरत्वं सत्सम्पत्तेरुक्तं तद्युक्तमेवेति कृत्वा यथोक्तस्य दोषस्य सद्यःशरीरपातादिलक्षणस्याऽऽशङ्कानुपपत्तिरित्युपसंहरति – इतीति । आद्यस्येतिशब्दस्य तस्येत्यनेन सम्बन्धः । यत्तूत्पन्नेऽपि ज्ञाने यावज्जीवं विहितानि करोत्येवेति तत्राऽऽह –
ज्ञानोत्पत्तेरिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानस्य नाऽऽनर्थक्यमविद्यातत्कार्यनिवर्तनेन सत्सम्पत्तिहेतुत्वान्नाप्यनैकान्तिकफलत्वमन्तरायाभावादित्युक्तमिदानीमर्चिरादिमार्गप्राप्त्या वाऽत्रैवाविद्यानिवृत्तिमात्रेण वा सत्सम्पत्तिरिति सन्दिहानः शङ्कते – आचार्यवानिति । संशयानस्य सम्बोधनार्थमुत्तरं वाक्यमवतारयति –
तथेति ॥३॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य चतुर्दशः खण्डः ॥ नन्वेष संसारिणो मरणक्रमो नतु विदुषः सत्सम्पत्तिक्रमस्तयोर्विशेषस्य वक्तव्यत्वादत आह – संसारिण इति । करणोपरमे तेजःसहचरितभूतसूक्ष्मोपसंहारे च विशेषविज्ञानाभावः समान एव विद्वदविदुषोरित्यर्थः । कस्तर्हि तयोर्विशेषस्तत्राऽऽह – अविद्वानिति । सतस्तस्मादज्ञातात्सदात्मनः सकाशादिति यावत् । एकदेशिमतमुत्थाप्य प्रत्याचष्टे – अन्ये त्विति । भवतु विदुषोऽपि तदभिसन्धिपूर्वकं गमनमित्याशङ्क्याऽऽह – न हीति । आदिशब्देन गत्यागती गृह्येते । सद्विज्ञानवतो गमनयोगे हेत्वन्तरमाह – अविद्येति । विदुषोऽविद्याकामकर्मणामभावे प्रमाणमाह – पर्याप्तकामस्येति । ननु कामप्रविलय एवात्र श्रूयते नाविद्याकामकर्मनिर्मोकस्तत्राऽऽह – नदीति ।
यथा नद्यो गङ्गाद्या नामरूपे विहाय समुद्रं प्रविशन्ति तथा विद्वान्नामरुपे हित्वा परं पुरुषमुपैतीतिदृष्टान्तपूर्विकायाः श्रुतेर्नामरूपबीजावस्थाविद्याया लयो गम्यते न चाविद्याकामयोरभावे कर्मोपपत्तिस्तस्मान्न विदुषो गतिपुर्विका सत्सम्पत्तिरित्यर्थः ॥२॥ 【भाष्यम्】 【भाष्यम्】 विमतः सत्सम्पन्नः पुनरावृत्तिमर्हति सत्सम्पन्नत्वान्मरणकाले सत्सम्पन्नवद्विमतो वा विशेषविज्ञानाभावो नाऽऽत्यन्तिको विशेषविज्ञानाभावत्वान्मरणकालीनविशेषविज्ञानाभाववदित्यनुमानाद्विद्वदविदुषोरविशेषं मन्वानः शङ्कते – यदीति । तत्रानृताभिसन्धत्वं तादृगभिसन्धिमन्निष्ठत्वं वोपाधिरित्यनुमानद्वयं दूषयितुमुत्तरं ग्रन्थमुत्थापयति –
तथेति ॥३॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य पञ्चदशः खण्डः ॥ परीक्षणाय परीक्षाद्वारेण रक्षणार्थमिति यावत् । परस्वग्रहणमात्रेण बन्धेन प्रतिग्रहीतुरपि बन्धप्रसङ्गान्न तन्मात्रं बन्धनकारणमित्याह – अन्यथेति ।
तत एवानृताभिसन्धत्वादेवेत्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 तत एवेति । स्तैन्यस्य कर्मणोऽकर्तृत्वादेवेत्यर्थः । दृष्टान्ते विवक्षितमंशमनुवदति –
तप्तेति ॥२॥ 【भाष्यम्】 【भाष्यम्】 तदनुवादपूर्वकं दार्ष्टान्तिकमाह – स यथेति । स य एषोऽणिमेत्यादि व्याचष्टे – यदात्मेति । त्वं तदसीति त्वमर्थोद्देशेन तदर्थभावो विधीयते तत्रोद्देश्यस्य शरीरद्वयविशिष्टस्य विरोधादशरीरब्रह्मात्मत्वं विधातुमशक्यमिति मन्वानश्चोदयति – कः पुनरिति । त्वंपदेन वाच्यस्य लक्ष्यस्य वा ब्रह्मत्वायोगस्त्वयोच्यते नाऽऽद्योऽङ्गीकारान्न द्वितीयःशरीरद्वयवैशिष्ट्योपलक्षितस्य श्रोतृत्वाद्यध्यासास्पदस्य त्वंपदलक्ष्यस्य ब्रह्मत्वविधाने विरोधास्फुरणादिति परिहरति – योऽहमिति । विज्ञाय च वेदेति पूर्वेण सह सम्बन्धः । तस्य सतः सकाशादौपाधिको भेदो वस्तुतस्त्वैक्यमिति मत्वाऽऽह – तेजोबन्नमयमिति । त्वंपदार्थं श्वेतकेतुं निर्धार्य तद्धास्येत्यादि व्याचष्टे – आत्मानमिति । अज्ञातार्थप्रकाशनं मानफलं तस्य स्वप्रकाशे ब्रह्मणि नोपपत्तिरिति मन्वानश्चोदयति – किं पुनरिति । अत्राऽऽत्मनीति सम्बन्धः । स्वप्रकाशे प्रकाशातिशयस्य मानफलस्यासम्भवेऽप्यध्यस्तव्यावृत्तिस्तत्फलं भविष्यतीत्युत्तरमाह – कर्तृत्वेति । अश्रुतस्य श्रवणायामतस्य मननायाविज्ञातस्य विज्ञानफलसिद्धये चाधिकृतं यमर्थं त्वंपदवाच्यमवोचाम तस्य स्वात्मनि क्रियाकर्तृत्वे फलभोक्तृत्वे च यन्मिथ्यैवाधिकृतत्वविज्ञानं तन्निवृत्तिर्मानफलमिति योजना । यथोक्तं मानफलमेव प्रपञ्चयति – प्राक्चेति । अहमेवात्राधिकृतश्चेति चकारस्य सम्बन्धः । तस्येत्यज्ञस्येत्यर्थः । विरोधमेव स्फोरयति – न हीति । प्रमाणफलमुपसंहरति – तस्मादिति । तत्त्वमसीति वाक्यं मुख्यैकत्वपरमिति स्वपक्षमुक्त्वा परपक्षं शङ्कते – नन्विति । आध्यासिकमेकत्वं सामानाधिकरण्यालम्बनमिति स्वपक्षं दृष्टान्तेनोक्त्वा सिद्धान्तं दूषयति – नत्विति । श्वेतकेतोः सन्मात्रत्वे तदज्ञानायोगादसकृदुपदेशासिद्धिरित्यर्थः । किमध्यासवाक्यसामान्यादाध्यासिकमेकत्वं सामानाधिकरण्यालम्बनं किं वा मुख्यैकत्वे बाधकसद्भावादिति विकल्प्याऽऽद्यं दूषयति – नेत्यादिना । यथा लोके शुक्तिकां रजतमिति प्रत्येतीत्यादावितिशब्दपरं सामानाधिकरण्यं न वस्तुनिष्ठं दृष्टं तथाऽध्यासवाक्यानामप्यादित्यो ब्रह्मेत्यादेश इत्यादीनामितिशब्दपरसामानाधिकरण्यवशादवस्तुनिष्ठत्वं गम्यते न तथा तत्त्वमसिवाक्यस्यावस्तुनिष्ठत्वमितिशब्दपरत्वाभावेन सामानाधिकरण्यस्य स्वरूपपर्यवसायित्वनिश्चयादित्यर्थः । इह त्विति प्रकरणोक्तिः । इह प्रवेशं दर्शयित्वेत्यत्र तेजोबन्नमयं सङ्घातमिहेति व्यपदिशति । जीवब्रह्मणोर्भेदग्राहिप्रमाणविरोधान्न मुख्यमेकत्वं किं तु चैतन्यगुणयोगाद्गौणमिति द्वितीयं शङ्कते – नन्विति । यथा मृदादि कारणमेव घटादि कार्यं न पृथगस्ति तथा सर्वमिदमाकाशादिकार्यं सन्मात्रं तत्र सर्वप्रकारभेदरहितमेकरसमबाधितमित्युपदेशदर्शनान्न गौणमेकत्वमित्युत्तरमाह – नेत्यादिना । इतश्च नोपचरितमेकत्वमित्याह – न चेति । औपचारिकविज्ञानस्य मृषात्वे दृष्टान्तमाह – त्वमिति । किञ्च गौणमेकत्वं वदता स्तुत्यर्थत्वं विधिपरत्वं वा वाक्यस्य वक्तव्यं आद्येऽपि श्वेतकेतोः सतो वा वस्तुनः स्तुतिरिति विकल्प्याऽऽद्यं दूषयति – नापीति । उपास्यत्वात्सतः स्तुतिरिति द्वितीयमाशङ्क्य दूषयति – नापि सदिति । इतश्च श्वेतकेतुत्वोपदेशेन सतो न स्तुतिरित्याह – नापि सत इति । श्वेतकेतोरनुपास्यत्वेन स्तुत्यसम्भवेऽपि कर्तृत्वात्कर्मसु तत्स्तावकत्वं वाक्यस्य युक्तमित्याशङ्क्य कर्मविध्यसन्निधानात्सदात्मत्वमात्रप्रतीतेश्च नैवमित्याह – न चेति । विकल्पान्तरमुद्भावयति – ननु सदस्मीतीति । एकविज्ञानेन सर्वविज्ञानवचनविरोधान्न दृष्टिविधिपरत्वमित्युत्तरमाह – नन्विति । गौणपक्षेऽपि तुल्याऽनुपपत्तिरित्यपेरर्थः । एकविज्ञानेन सर्वविज्ञानश्रुतेर्न विरोधोऽस्तीति पूर्ववाद्याह – नेति । नेदमेकविज्ञानेन सर्वविज्ञानं दृष्टिविधिस्तुतिः कार्यकारणानन्यत्वादियुक्तिभिरुपपादितत्वाद्विधिपक्षे चासम्भावनादिनिराससमर्थाचार्यवत्त्वोपदेशानर्थक्यादौपदेशिकज्ञानमात्रेण विध्यनुष्ठानसिद्धेर्विध्यपेक्षितस्य च तेनैवाऽऽक्षेपादित्युत्तरमाह – नाऽऽचार्यवानिति । तदेव विवृणोति – यदि हीति । आचार्यवत्त्वमिति नोपदिश्यत इति शेषः । इतश्च नेदं वाक्यं दृष्टिविधिपरमेष्टव्यमित्याह – तस्येति । सदात्मत्वसाक्षात्कारादृतेऽपि सकृदनुष्ठितपरोक्षबुद्धिमात्रान्मोक्षसम्भवाद्विलम्बाभिधानमनर्थकमापद्येत यथा सकृदनुष्ठितादपि यागाद्भवति स्वर्गस्तद्वदिह च चिरमिति क्षेपकरणं मोक्षस्येति तस्मान्नेदं दृष्टिविधिपरमित्यर्थः । किञ्च विधिवादिना प्रतीयमानेऽर्थे वाक्यस्याप्रामाण्यं विपर्यासलक्षणमनुत्पत्तिलक्षणं वा वाच्यं तदुभयं दुर्वचमित्याह – न चेति । तत्त्वमसीत्यधिकारिणं प्रत्युक्ते सति प्रमाणभूतेन तेन वाक्येन जनिता सद्ब्रह्माहमिति या तस्य बुद्धिस्तां निवर्तयितुं नाहं सदिति बलवती बुद्धिरुत्पन्नेति न शक्यते वक्तुं विवेकवतः श्रुतवाक्यस्य तथाविधबुद्ध्यनुत्पादात् । न चाधिकारिणः श्रुतवाक्यस्य सद्ब्रह्माहमिति बुद्धिर्नोत्पन्नेति वक्तुं शक्यमधिकारिणः प्रमितिजनको वेद इति न्यायात् । न च भेदप्रत्ययो यथोक्ताया बुद्धेर्बाधकस्तस्य स्वाप्नभेदप्रत्ययवन्मिथ्यात्वानुमानादित्यर्थः । इतश्च तत्त्वमसिवाक्यं वस्तुपरमेवेत्याह – सर्वोपनिषदिति । तत्त्वमसिवाक्यान्नायथार्था बुद्धिर्नापि न भवेत्येव बुद्धिरित्येतमर्थं दृष्टान्तेनाऽऽह – यथेति । जीवे भासमानेऽप्यनवभासमानत्वान्न स्वभावो ब्रह्मेत्युक्तमनूद्य दूषयति – यत्तूक्तमिति । लोकायतातिरिक्तानां देहादतिरेको जीवस्य स्वाभाविकोऽपि नावभासते तथा ब्रह्मभावोऽपि तस्यानाद्यनिर्वाच्याज्ञानसामर्थ्यादेव नावभासिष्यते । तथा च तस्मिन्भासमानेऽप्यनवभासमानत्वान्न स्वभावो ब्रह्मेत्ययुक्तं व्याप्त्यभावादित्याह – कार्येति । ननु देहव्यतिरिक्तात्मवादिनामात्मनि भाति देहव्यतिरिक्तोऽपि भात्येवेति व्याप्तिसिद्धिरित्याशङ्क्याऽऽह – कथमिति । देहादिसङ्गातादतिरिक्तोऽहमित्येवं व्यतिरिक्तविज्ञाने सति कथं तेषां कर्तृत्वादिविज्ञानं सम्भवति । न हि सङ्गाताभिमानविगमे तद्युज्यते । न च तन्नास्त्येव दृश्यमानत्वादित्यर्थः । सिद्धे दृष्टान्ते दार्ष्टान्तिकमाह – तद्वदिति । देहाद्व्यतिरिक्तस्य सतोऽप्यप्रतिभानवत्सदात्मकस्यापि श्वेतकेतोर्देहादिष्वात्माभिमानित्वात्सदात्मनि ब्रह्मणि विज्ञानं न स्यादतस्तत्स्वभावस्यापि ब्रह्मभावस्याप्रतिभानमज्ञानकृतमित्यर्थः । वाक्यस्यार्थान्तरपरत्वासम्भवे फलितमुपसंहरति – तस्मादिति ।
महावाक्यस्योक्तया विधयाऽर्थान्तरपरत्वासम्भवाद्विकारेऽनृताभिसन्धिकृतोऽयं जीवात्मेत्येवंरूपं यन्मिथ्याज्ञानं तस्य सनिदानस्य निवर्तकमेवेदं तत्त्वमसिवाक्यं न त्वभूतप्रादुर्भावफलमित्येवं जीवब्रह्मणोरैक्यं सर्वोपनिषत्सारभूतं स्थितमित्यर्थः ॥३॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य षोडशः खण्डः ॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां श्रीशङ्करभगवत्कृतच्छन्दोग्यभाष्यटीकायां षष्ठोऽध्यायः समाप्तः ॥ षष्ठसप्तमयोरध्याययोः सम्बन्धं वक्तुकामः षष्ठे वृत्तं कीर्तयति – परमार्थेति । उत्तमाधिकारिणं प्रत्यबाधिततत्त्वबोधनं प्रधानं तत्परोऽतीतोऽध्यायः स सतो ब्रह्मणः प्रत्यङ्निश्चयपरत्वेनैव व्याख्यात इत्यर्थः । अध्यायान्तरभूमिकामारचयति – न सत इति । मध्यममधिकारिणं प्रति परम्परया ब्रह्मात्मत्वमुपदेष्टुं सप्तमप्रपाठकप्रवृत्तिरित्यर्थः । नन्वत्रापि ब्रह्मात्मत्वमेवोपदेष्टुमिष्टं चेत्किमिति तर्हि नामादीनि तत्त्वानि निर्दिश्यन्ते तत्राऽह – अनिर्दिष्टेष्विति । वाशब्दः शङ्कानिरासार्थः । अनिर्दिष्टेष्विति । नामादिसंकीर्तनस्य तात्पर्यान्तरमाह – अथवेति । अधमोऽधिकारी नामादीनि ब्रह्मत्वेनोपास्य तत्फलं च भुक्त्वा क्रमेण साक्षाद्ब्रह्मभावं प्राप्नोतीति प्रदर्शयितुमुत्तरो ग्रन्थ इत्यर्थः । शाखाचन्द्रनिदर्शनन्यायेन मध्यमस्याधिकारिणो ब्रह्मसिद्धिस्वीकारार्थं मध्यमस्याधिकारिणो ध्यानार्थं वा नामादिसंकीर्तनमित्युक्तम् । इदानीमुत्तममेवाधिकारिणमधिकृत्य भूमस्तुत्यर्थं नामादिवचनमिति मतान्तरमाह – अथवा नामादीति । अध्यायसंबन्धमुक्त्वाऽऽख्यायिकासम्बन्धमाह – आख्यायिका त्विति । स्तुत्यर्थत्वमेव प्रश्नपूर्वकं प्रकटयति – कथमित्यादिना । तथा च परविद्यया कृतार्थत्वात्तस्याः स्तुतिरत्र विवक्षितेति शेषः । अतीताध्यायादिष्टसदात्मविज्ञानादन्यदेव देवतोपासनं मोक्षसाधनमित्याशङ्क्य तन्निषेधेन सदात्मविज्ञानस्यैव मोक्षसाधनत्वं दृढीकर्तुमाख्यायिका प्रवृत्तेति पक्षान्तरमाह – अथवेति । द्वितीयमाख्यायिकातात्पर्यं प्रपञ्चयति – येनेत्यादिना ।
सर्वस्यापि ज्ञेयस्य यद्विज्ञानं तस्य साधनमुत्पादनं तत्र शक्त्या संपन्नो वेदवेदाङ्गाभिज्ञत्वेन तस्यापीति यावत् । अस्ति हि नारदस्योत्तमाभिजने जन्म । ब्रह्मणो मानसपुत्रत्वादस्ति चोत्तमकर्म विद्याऽस्ति च वृत्तं सदाचरणमस्ति च श्रवणध्यानादि साधनशक्तीनां धर्माधर्मसाधनस्य वा शरीरस्य शक्तेः संपत्तिश्च जन्मादयो निमित्तमस्याभिमानस्य तं त्यक्त्वेति यावत् । इतिशब्दोऽध्यायाख्ययिकयोः संबन्धोक्तिसमाप्त्यर्थः । अध्ययनेन ज्ञानं लक्ष्यते । तथा चाधीष्व ज्ञापयेत्यर्थः । मन्त्रः उपसदनस्येति शेषः । न्यायतः समित्पाणिरित्यादिशास्त्रोक्तविधिवशादिति यावत् ॥१॥ 【भाष्यम्】 【भाष्यम्】 अध्ययनवाचि पदं स्मरणपरतया कथं व्याख्यातमित्याशङ्क्याऽह – यद्वेत्थेति ।
गन्धयुक्तिः कुङ्कुमादिसम्पादनम् ॥२॥ 【भाष्यम्】 【भाष्यम्】 तर्हि सर्वज्ञः स्वतन्त्रस्त्वं कृतकृत्योऽसीत्याशङ्क्याऽऽह – सोऽहमिति । कथं मन्त्रविदित्यस्य कर्मविदिति व्याख्यानमित्याशङ्क्याऽऽह – मन्त्रेऽष्विति । मन्त्रविदेव नाऽऽत्मविदित्यत्र विरोधं चोदयति – नन्विति । मन्त्रवित्त्वे तत्प्रकाश्यात्मवित्त्वमपि स्यात्तदभावे मन्त्रवित्त्वमपि न युक्तमित्यर्थः । अभिधानमभिधेयमित्येवं रूपस्य भेदस्य विकारत्वेन मिथ्यात्वादात्मनश्च विकारत्वानङ्गीकारान्मन्त्रप्रकाश्यत्वाभावान्न विरोध इति परिहरति – नाभिधानेति । आत्मनो विकारत्वाभावेऽप्यभिधेयत्वमेष्टव्यमिति शङ्कते – नन्विति । श्रुत्यन्तरावष्टम्भेन निराचष्टे – नेत्यादिना । आत्मशब्देनाऽऽत्मनोऽभिधेयत्वाभावे वाक्यशेषादिविरोधः स्यादित्याशङ्कते – कथं तर्हीति । आत्मशब्देनावाच्यस्याऽऽत्मनस्तेन लक्षणया प्रतिपत्तिसंभवान्नोपक्रमोपसंहारविरोधोऽस्तीत्युत्तरमाह – नैष दोष इति । विशिष्टे गृहीतशब्दो विशेषणे प्रयुक्ते यत्सन्मात्रं परिशिष्टं तदवाच्यमपि लक्षणया बोधयतीत्यर्थः । केवलात्मविषयस्याऽऽत्मशब्दस्य तद्दर्शनमन्तरेण विशिष्टात्मदृष्टिमात्रेण कथं प्रयोगः कथं वा तत्प्रयोगेऽपि ततो विवक्षितात्मधीरित्याशङ्क्य दृष्टान्तेन परिहरति – थेत्यादिना । आत्मनो मुख्यवृत्त्या मन्त्रप्रकाश्यत्वाभावे फलितमाह – तस्मादिति । शब्दार्थज्ञानमात्रेणाऽऽत्मवित्त्वं न भवतीत्यनेनाऽऽचार्योपदेशजनितज्ञानवत एवाऽऽत्मवित्त्वमित्युक्तं तत्र प्रमाणमाह – अत एवेति । औपदेशिकज्ञानविषयत्वं तर्हि स्वीकृतमित्याशङ्क्याऽऽह – यत इति । मा तर्हि तवाऽऽत्मविद्या भूदित्याशङ्क्य शोकनिवृत्त्युपायत्वेन तदपेक्षां सूचयति – श्रुतमिति । आत्मज्ञानोडुपेनाऽऽत्मज्ञानाख्येन प्लवेनेति यावत् । कथं मदीयमर्थज्ञानं सर्वं नाममात्रमित्याशङ्क्याऽऽह –
वाचाऽऽरम्भणमिति ॥३॥ 【भाष्यम्】 【भाष्यम्】 उक्तमुपपादयति – नाम वा इति । तदुपसंहरति – नामैवेति । केन रूपेणेदं नामाऽऽदर्तव्यमित्याशङ्क्याऽऽह – नामेति । उपास्तिप्रकारं दृष्टान्तेन स्फुटयति –
यथेति ॥४॥ 【भाष्यम्】 【भाष्यम्】 नाम्नि ब्रह्मदृष्ट्योपास्यमाने किं स्यादित्याह – स यस्त्विति । यो नामेत्यादिवाक्यस्य पौनरुक्त्यमित्याशङ्क्याऽऽह –
यो नामेति ॥५॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य प्रथमः खण्डः ॥ वाग्वाव नाम्नो भूयसीत्युक्तं वाङ्नाम्नोरेकत्वाद्व्याप्यव्यापकत्वानुपपत्तिरित्याशङ्क्य व्याचष्टे – वागितीन्द्रियमिति । जिह्वामूलादिष्वित्यादिशब्देनोरःकण्ठथशिरोदन्तौष्ठनासिकातालूनि गृह्यन्ते । वागिन्द्रियस्य वर्णेभ्योऽभिव्यङ्ग्येभ्यो भूयस्त्वेऽपि नाम्नस्तु भूयस्त्वं कुतस्त्यमित्याशङ्क्याऽऽह – वर्णाश्चेति । तयोर्व्यङ्ग्यव्यञ्जकभावेऽपि कथं व्याप्यव्यापकत्वमित्याशङ्क्याऽऽह – कार्याद्धीति । वाचो नाम्नो भूयस्त्वं प्रश्नपूर्वकं प्रपञ्चयति – कथं चेत्यादिना । इतश्च वाचो भूयस्त्वमेष्टव्यमित्याह – यद्यदीति । अन्वयव्यतिरेकाभ्यां तस्या भूयस्त्वे सिद्धे फलितमाह –
तस्मादिति ॥१॥ 【भाष्यम्】 【भाष्यम्】
स यो वाचमित्याद्यन्यदित्युच्यते ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य द्वितीयः खण्डः ॥ मनःशब्दस्य वृत्तिमात्रविषयत्वं व्यावर्तयति – मन इति । कथं तस्य वाचो भूयस्त्वं तदाह – तद्धीति । वाचो मनस्यन्तर्भावेऽपि कुतो मनसस्तस्या भूयस्त्वं तत्राऽऽह – यच्चेति । मनसो वागादेर्व्याप्तिं दृष्टान्तेन स्पष्टयति – यथेत्यादिना । इतश्च मनसोऽस्ति भूयस्त्वमित्याह – यदेति । विवक्षाबुद्धिस्तां करोतीति शेषः । इच्छेयेतीच्छां कृत्वेति शेषः । तस्याऽऽत्मत्वमुपपादयति – आत्मन इति । तस्य लोकत्वं साधयति –
सत्येवेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य तृतीयः खण्डः ॥ संकल्पशब्दार्थमाह – संकल्पोऽपीति । का साऽन्तःकरणवृत्तिर्या संकल्पशब्दितेत्याशङ्क्याऽऽह – कर्तव्येति । द्विविधे विषये विभागेन समर्थितेऽपि कथं यथोक्तस्य संकल्पस्य मनसो भूयस्त्वमित्याशङ्क्याऽऽह – विभागेन हीति । संकल्पस्य कारणत्वान्मनसश्च कार्यत्वादतो भूयस्त्वमित्यर्थः । कार्यकारणभावं तयोराकाङ्क्षापूर्वकं व्यक्तीकरोति – कथमित्यादिना । मनसः सकाशाद्वाचोऽनन्तरभावित्वे विशेषं दर्शयति – तां चेति । नाम्नि मन्त्राणामन्तर्भावं समर्थयति – सामान्ये हीति । कथं मन्त्रेष्वनुपलब्धकर्मणामन्तर्भावस्तत्राऽऽह – मन्त्रेति । कथं कर्म नामन्त्रकमस्तीत्युच्यते ब्राह्मणविहितस्यापि कर्मणो दर्शनादित्याशङ्क्याऽऽह – यद्धीति । ब्राह्मणस्य मन्त्रव्याख्यानरूपत्वादतिस्पष्टमन्त्रानुपलम्भेऽपि कल्प्यते मन्त्रोक्तत्वमित्यर्थः । एतदेव प्रपञ्चयति – याऽपीत्यादिना । एकस्यां शाखायां यत्कर्म मन्त्रेष्वनुपलब्धं तच्छाखान्तरीयमन्त्रप्रकाशितं भविष्यतीत्यत्र हेत्वन्तरमाह – त्रयीति । तथाऽपि कथं मन्त्रप्रकाशितत्वं तत्राऽऽह – त्रयीशब्दश्चेति । मन्त्रेषु कर्माण्यन्तर्भवन्तीत्यत्र श्रुत्यन्तरानुमतिं कथयति -
मन्त्रेष्विति ॥१॥ 【भाष्यम्】 【भाष्यम्】 तथाऽपि कथं संकल्पस्य भूयस्त्वमित्याशङ्क्याऽऽह – तानीति । अयनपर्यायत्वेनोक्तगमनस्य क्रियात्वं व्यावर्तयति – प्रलय इति । इतश्च संकल्पस्याप्यस्ति महत्त्वमित्याह – समक्लृप्तामिति । यतो द्यावापृथिव्यादिषु महत्स्वपि संकल्पानुवृत्तिर्दृश्यतेऽतोऽपि तस्य महत्वं गम्यते न केवलं कारणत्वादेवेत्यर्थः । इतश्च तस्य महत्त्वमेष्टव्यमित्याह – तेषामिति । वृष्टेर्द्युलोकादिकार्यत्वात्तदीयसंकल्पस्य तन्निमित्तत्वोपचारात्तस्य भूयस्त्वसिद्धिरित्यर्थः । सृष्टिवशादन्नं समर्थीभवतीत्यत्र प्रसिद्धिं प्रमाणयति – वृष्टेर्हीति । अन्नाधीनं प्राणसामर्थ्यमित्यत्र हेतुमाह – अन्नमया हीति । आपोमयः प्राण इत्युक्तत्वात्कथमन्नमयत्वमित्याशङ्क्याऽऽह – अन्नोपष्टम्भका इति । तत्र वाजसनेयकश्रुतिं प्रमाणयति – अन्नमिति । प्राणानां मन्त्राध्ययनकारणत्वं व्युत्पादयति – प्राणवानिति । ततो मन्त्रप्रकाशितकर्मवशादिति यावत् । कर्मफलवशाज्जगतः सर्वस्यावैकल्येऽपि कथं संकल्पस्य महत्त्वमित्याशङ्क्याऽऽह – एतद्धीति । तन्महत्त्वे फलितमाह –
अत इति ॥२॥ 【भाष्यम्】 【भाष्यम्】 आत्मातिरिक्तानां लोकानां कथं नित्यत्वमत आह – अत्यन्तेति । लोकानामेवं ध्रुवत्वमुच्यतां किमिति लोकिनस्तदुच्यते तत्राऽऽह – लोकिनो हीति । कथमुपकरणसंपन्नेषु प्रतिष्ठितशब्दो भवतीत्याशङ्क्याऽऽह – पशुपुत्रादिभिरिति । यावत्संकल्पस्येत्यादिश्रुतेर्विषयसंकोचं दर्शयति – आत्मन इति । संकल्पस्य यावद्गोचरस्तत्रास्य कामचारो भवतीति सम्बन्धः । निरङ्कुशे संकल्पशब्दे का हानिरित्याशङ्क्याऽऽह – उत्तरेति ।
यदि संकल्पमात्रस्य गोचरे संकल्पोपासकस्य कामचारो भवति तर्हि सर्वसंकल्पस्य विचित्रतया सर्वगोचरत्वसंभवाद्यावच्चित्तस्य गतमित्यादिना वक्ष्यमाणफलं विरुध्येत न हि संकल्पोपासनादेव सर्वस्मिन्फले सिद्धे चित्ताद्युपासनं तत्फलं वा पृथक्कथयितुमुचितमतो यावत्संकल्पस्येत्यादिश्रुतेरुक्तः संकोचो युक्त इत्यर्थः ॥३॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य चतुर्थः खण्डः ॥ चित्तशब्दस्य मनःशब्देन पुनरुक्तिं परिहरति – चित्तं चेतयितृत्वमिति । तस्याऽऽत्मत्वं व्यावर्तयति – प्राप्तेति । इदं वस्त्वेवं प्राप्तमिति प्राप्तकालवस्तुनो वस्त्वनुरोधी चेतनाख्यो वृत्तिविशेषस्तद्वत्त्वं चित्तत्त्वमित्यर्थः । अतीतं भोजनं तृप्तिसाधनं दृष्टं भोजनत्वादागामिनोऽपि तस्य तदेव प्रयोजनमितिनिरूपणसामर्थ्यं चित्तमिति प्रसिद्धमित्याह – अतीतेति । यथोक्तस्य चित्तस्य संकल्पाद्भूयस्त्वं प्राप्तमपूर्वत्वं व्युत्पादयति – कथमित्यादिना । संकल्पप्रकरणं परामृशति –
पूर्ववदिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 यथा संकल्पस्य निमित्तत्वे सति स्तुत्यर्थमधिकरणत्वं युक्तं तथा चित्तस्य विभक्तस्य संकल्पादिषु निमित्तत्वेऽपि स्तुत्यर्थमेव तदधिकरणत्वमाह – तानीति । इतश्च चित्तस्यास्ति वैशिष्ट्यमाह – किंचेति । यद्यपि बहुशास्त्रार्थपरिज्ञानवान्संस्तथाऽपि यद्यचित्तो भवतीति योजना । अचित्तस्यासत्समत्वं श्रुतवैयर्थ्यं चेत्युक्तं प्रश्नद्वारा विवृणोति – कस्मादित्यादिना । श्रुतमपीत्यपिशब्देन सत्त्वं गृह्यते । चित्ताभावे श्रुतादेर्वैयर्थ्योक्त्या तद्वैशिष्ट्यमादिष्टमिदानीं तद्वैशिष्ट्ये हेत्वन्तरमाह – अथेति । चित्तवतोक्तार्थग्रहणार्थं श्रोतुमिच्छा लोकस्य भवतीत्यत्र हेतुमाह –
तस्मादिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य पञ्चमः खण्डः ॥ क तद्ध्यानमित्यपेक्षायामाह – ध्यानं नामेति । अचलत्वं साधयति – भिन्नजातीयैरिति । कथं तस्य चित्ताद्भयस्त्वमित्याशङ्क्यानेकाग्रतादोषोपहतस्यातीतादिफलनिरूपणेन सामर्थ्यादर्शनादेकाग्रतारूपो ध्यानपदार्थश्चेतयितृत्वात्तस्य कारणत्वात्ततो भयानेवेत्यभिप्रेत्याऽऽह – एकाग्रतेति । इतश्चास्ति तस्य भूयस्त्वमित्याह – दृश्यते चेति । फलद्वारा तन्माहात्म्यं प्रश्नपूर्वकं दृष्टान्तेन स्पष्टयति – कथमित्यादिना । गौरवपरिहारार्थं पक्षान्तरमाह – मनुष्या एवेति । मनुष्याणामेव सतां कुतो देवत्वमित्याशङ्क्याऽऽह – शमादीति । ध्यानफलं नैश्चल्यं तन्महत्सु पृथिव्यादिषु दृष्टं तथाच तद्वैशिष्ट्यमित्यर्थः । तत्रैव हेत्वन्तरमाह – यस्मादिति । धनादिभिर्महत्त्वे हेतुमुत्कृष्टं कर्मेति यावत् । ध्यानस्याऽऽपादनमनुष्ठानं तेन तत्फललाभो लक्ष्यते तस्यांशो येषामस्ति ते तथा । ध्यानफललाभकलावत्त्वमेव स्फुटयति – निश्चला इति । एवकारार्थमाह – नेति । महत्सु पुरुषेषु ध्यानफलानुवृत्तिर्दृष्टैत्यन्वयमुक्त्वा व्यतिरेकमाह – अथेति । व्यतिरेकं दर्शयित्वाऽन्वयमुपसंहरति – अथ ये महत्त्वमिति । महत्सु नैश्चल्यदर्शनमतः शब्दार्थः । महत्त्वफलमाह – अत इति ॥१-२॥ इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य षष्ठः खण्डः ॥ विज्ञानस्योक्तभूयस्त्वं प्रश्नपूर्वकं दर्शयति – कथमित्यादिना । यद्यपि प्रमाणतया तज्ज्ञानं शास्त्रार्थज्ञानपूर्वकं तथाऽपि कथं तस्य ततो भूयस्त्वं तत्राऽऽह – यस्येति । इतश्च तस्य ध्यानाद्भूयस्त्वमित्याह – किंचेति । भूयस्त्वफलमाह –
अत इति ॥१॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानविज्ञानशब्दयोरर्थभेदं कथयति – विज्ञानमिति । तथाऽपि लोकानामचेतनानां कुतस्तदुभयाश्रयत्वमित्याशङ्क्याऽऽह –
तद्वद्भिरिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य सप्तमः खण्डः ॥ लोके बलशब्दार्थे श्वेतकेतुवाक्यं प्रमाणयति – अनशनादिति । कथं तर्हि शरीरसामर्थ्ये बलशब्दप्रयोगस्तत्राऽऽह – शरीरेऽपीति । तदेवेत्यन्नोपयोगजनितमेवेत्यर्थः । न केवलं कारणत्वादेव बलं विज्ञानाद्भूयः किन्तु प्रत्यक्षं च तस्य ततो भूयस्त्वमित्याह – विज्ञानवतामिति । तस्माद्बलस्य विज्ञानाद्भूयस्त्वमिति शेषः । समुदितमपि कम्पयते तथाऽन्यत्रापि द्रष्टव्यमिति सम्बन्धः । यस्मादेवं बलस्य कारणत्वं विज्ञानस्य च कार्यत्वं तस्मात्ततस्तद्भूयस्त्वमित्येतस्मिन्नर्थे कार्यकारणभावमेतयोरुपपादयति – यस्मादित्यादिना । इतश्च बलस्य भूयस्त्वमेष्टव्यमित्याह – किंचेति ॥१-२॥ इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्याष्टमः खण्डः ॥ अथवा यदि सोऽभुञ्जानोऽपि कथंचिज्जीवेत्तदा जीवन्नपि सम्बन्धः । कथमशनशून्यस्य जीवनमित्याशङ्क्याऽऽह – दृश्यन्त इति । अन्नोपयोगाभावे बलहानिरिति व्यतिरेकमुक्त्वा तदुपयोगे बलं भवतीत्यन्वयं व्याचष्टे – अथेति । अथान्नस्याऽऽय इत्यपि पाठोऽस्ति तत्रान्नस्याऽऽय इत्येतदेव पदमन्नप्राप्तिपरतया व्याख्येयमेकारमीकारत्वेन विपरिणमय्य वर्णव्यत्ययाङ्गीकारादित्याह – आय इत्येतदिति । द्रष्टा श्रोतेत्याद्यन्नकार्यस्य श्रवणादपि पाठान्तरमन्नप्राप्तिपरतया व्याख्येयमित्याह – द्रष्टेत्यादीति । कथं तदन्नकार्यमित्याशङ्क्यान्वयव्यतिरेकौ दर्शयति – दृश्यते हीति ॥१-२॥ इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य नवमः खण्डः ॥ अपां कारणत्वेनान्नाद्भूयस्त्वमन्वयव्यतिरेकाभ्यां साधयति – यस्मादित्यादिना । अपां सर्वजगदात्मकत्वाच्चान्नाद्भूयस्त्वमुचितमित्याह – अप्संभवत्वादिति । दधिपयःप्रभृत्याहुतिपरिणामत्वादन्तरिक्षादेरप्संभवत्वमवसेयम् । अपां सर्वमूर्तात्मकत्वमुपसंहरति – इत्यादीति ॥१-२॥ इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य दशमः खण्डः ॥ इति शब्दस्तदाहुतिरित्यनेन संबध्यते । वैशब्दार्थं दर्शयति – प्रसिद्धमिति । अप्तेजसोरुक्तं कार्यकारणत्वमुपजीव्य फलितमाह – तेज एवेति । अप्तेजसोर्विधान्तरेण कार्यकारणभावं दर्शयति – किंचान्यदिति । तदेवोपपादयति – ऊर्ध्वाभिरिति । तेजसोभूयस्त्वफलमाह –
तेज इति ॥१॥ 【भाष्यम्】 【भाष्यम्】 तमःशब्दार्थमाह – बाह्येति । बाह्यं तमः शार्वरं प्रसिद्धमाध्यात्मिकज्ञानरागादि तदुभयमपहततमस्कानित्यत्र तमःशब्दितमित्यर्थः । अपहतशब्दार्थमाह –
अपनीतेति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्यैकादशः खण्डः ॥ वायोः सकाशादाकाशो भूयानिति वक्तव्ये कथं तेजसो भूयानित्युक्तमत आह – वायुरिति । कारणत्वेऽपि कथमाकाशस्य वायुसहितात्तेजसो भूयस्त्वमित्याशङ्क्याऽऽह – कारणं हीति । तेजसो वायुसहितादाकाशस्य भूयस्त्वं प्रश्नपूर्वकं प्रकारान्तरेण दर्शयति – कथमित्यादिना । इतश्चाऽऽकाशस्यास्ति भूयस्त्वमित्याह – किंचेति । तद्भूयस्त्वफलमाह –
अत इति ॥१॥ 【भाष्यम्】 【भाष्यम्】 कथमाकाशोपासकस्य प्रकाशव्याप्तलोकप्राप्तिरित्याशङ्क्याऽऽह –
प्रकाशाकाशयोरिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य द्वादशः खण्डः ॥ नपुंसकलिङ्गं श्रुतं पुंलिङ्गत्वेन कथं व्याख्यातमित्याशङ्क्य पुंलिङ्गोपक्रममाश्रित्याऽऽह – लिङ्गव्यत्ययेनेति । कथं पुनः स्मरणस्याऽऽकाशाद्भूयस्त्वमित्याशङ्क्याऽऽह – स्मरणे हीति । अन्वयमुक्त्वा व्यतिरेकं दर्शयति – असतीति । आकाशादेः स्मरणाभावेऽपि सत्त्वमङ्गीकृत्य भोग्यत्वाभावादानर्थक्यमुक्तं संप्रत्यस्मरणे सत्त्वमेव नास्तीत्याह – नापीति । स्मरणस्य भूयस्त्वमनुभवानुसारेण साधयति – दृश्यते हीति । हिशब्दार्थो यस्मादित्युक्तः । स्मरणाभावे श्रवणाद्यभावं व्यतिरेकमुक्त्वा तद्भावे तद्भावमन्वयमाह – यदेति । इतश्चास्ति स्मरणस्य भूयस्त्वमित्याह – तथेति । तद्भूयस्त्वे फलितमाह – अत इति ॥१-२॥ इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य त्रयोदशः खण्डः ॥ आशाया भूयस्त्वमाकाङ्क्षाद्वारा व्युत्पादयति – कथमित्यादिना ॥१-२॥ इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य चतुर्दशः खण्डः ॥ प्राणस्य सर्वास्पदत्वेन भूयस्त्वं कथयति – नामोपक्रममिति । प्रकृतश्रुतिवशात्तदुपक्रमे यस्य जगतोऽस्ति तत्तथा पाठक्रममेवाऽऽश्रित्याऽऽशा चान्ते यस्यास्ति तज्जगत्तथेति विग्रहः । कार्यकारणत्वं क्वाचित्कमुपादानोपादेयत्वं निमित्तनैमित्तिकत्वमपि क्वाचित्कमेव । उत्तरोत्तरभूयस्तया पूर्वस्मात्पूर्वस्मान्नामादेरुत्तरोत्तरवागादिभूयस्त्वेनेति यावत् । स्मृतिनिमित्तः सद्भावो यस्य तत्तथा । आशाख्यै रशनापाशैः सर्वतो विपाशितमित्यत्र दृष्टान्तमाह – बिसमिवेति । बिसशब्दो मृणालविषयः । यथोक्तं जगद्यस्मिन्नर्पितं स एष भूयानिति सम्बन्धः । सर्वस्य जगतस्तस्मिन्नर्पितत्वमेव दृष्टान्तद्वारा स्पष्टयति – येन चेति । सर्वतो व्यापिनेत्यस्यैव स्फुटीकरणमन्तर्बहिर्गतेनेति । प्राणस्याऽऽशायाः सकाशाद्भूयस्त्वमाकाङ्क्षापूर्वकं समर्थयते – कथमित्यादिना । लिङ्गानां व्यष्टीनां संघातः समुदायस्तद्रूपे समष्ट्यात्मनीति यावत् । उपाधितद्वतोरैक्यमभिप्रेत्य विशिनष्टि – प्रज्ञात्मनीति । तस्यैवाध्यात्ममधिभूतमधिदैवं चावस्थानं सूचयति – दैहिक इति । प्राणान्तरं व्यावर्तयति – मुख्य इति । यथोक्तेऽस्मिन्प्राणे सर्वं समर्पितमित्युत्तरत्र सम्बन्धः । प्रज्ञात्मनीति परमात्मोपाधित्वं प्राणस्योक्तं तदुपपादयति – यस्मिन्निति । तस्मिन्सर्वं समर्पितमिति पूर्ववत्सम्बन्धः । किमिति चक्षुरादिषु विद्यमानेषु मुख्यस्यैव प्राणस्य परमात्मोपाधित्वमुपगतमित्याशङ्क्याऽऽह – यश्चेति । प्राणस्येश्वरं प्रति सर्वाधिकारित्वे श्रुत्यन्तरं प्रमाणयति – कस्मिन्निति । ईश्वरं प्रति प्राणस्यैवोपाधिकत्वे हेत्वन्तरमाह – यस्त्विति । अत्रापि पूर्ववदन्वयः । प्राणश्छायावदीश्वरमनुगच्छतीत्यत्र श्रुत्यन्तरं प्रमाणयति – तद्यथेति । भूतमात्राः शब्दादयः पृथिव्यादयश्च विषयाः प्रज्ञामात्रासु शब्दादिबुद्धिषु तज्जनकेन्द्रियेषु वेत्यर्थः । भवतु तासां प्राणेऽर्पितत्वं तथाऽपि कथं प्राणस्य च्छायावदीश्वरं प्रत्यनुगतिस्तत्राऽऽह – स एष इति । कौषीतकिनां श्रुतिरिति शेषः । प्राणस्य यथोक्तविशेषणवैशिष्ट्यमतःशब्दार्थः । व्याख्यातं भागमनूद्यावशिष्टमंशं व्याकरोति – एवमिति । प्राणः प्राणेन यातीत्यस्यार्थमाह – अत इति । सर्वास्पदत्वादिति यावत् । प्राणः प्राणेन यातीत्यादेः प्राणो ह्येवैतानि सर्वाणि भूतानीत्यन्तस्य तात्पर्यार्थं संक्षिप्य कथयति – सर्वमिति । दातुर्देयस्य संप्रदानस्य च प्राणाभिन्नत्वं प्रकटयति – प्राण इति ।
तदपीति दीयमानमुच्यते । स्वस्य संप्रदानस्य च प्राणाभिन्नत्वात्प्राणायैवेत्युक्तम् । प्राणस्य सर्वात्मत्वमतःशब्दार्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 प्रसिद्धिरनतिक्रमणीयेति शङ्कते – कथमिति । अन्वयव्यतिरेकाभ्यां पित्रादिशब्दानां प्राणविषयत्वान्न प्रसिद्धेरुल्लङ्घनमित्याह – उच्यत इति । अन्वयव्यतिरेकावेव प्रश्नपूर्वकं प्रकटयति – कथमित्यादिना । पित्रादिषु प्राणे सति पित्रादिशब्दानां प्रयुज्यमानत्वमन्यथा चाप्रयुज्यमानत्वं तदित्युच्यते । त्वंकारादियुक्तमित्यादिपदेन तिरस्कारप्रभेदो गृह्यते । पित्रादिष्वप्रियवादिनं प्रति विवेकिना धिक्कारवचने हेतुमाह –
पितृहेति ॥२॥ 【भाष्यम्】 【भाष्यम्】 सति प्राणे पित्रादिषु पित्रादिशब्दानां प्रयुज्यमानत्वमित्यन्वयमुक्त्वा व्यतिरेकमाह – अथैनानेवेति । समस्य पुञ्जीकृत्य व्यत्यस्यावयवान्विभज्येत्यर्थः । यद्यपीत्युपक्रमादेवमपीत्येतत्तथाऽपीत्यस्मिन्नर्थे द्रष्टव्यम् । तदेवातिक्रूरं कर्म विशिनष्टि – समासेति । अवयवविभजनमादिशब्दार्थः । तद्देहसंबद्धमित्यत्र तच्छब्दः क्रूरपित्रादिविषयः । यद्यपि त्यक्तप्राणेष्वपि देहेषु पित्रादिशब्दो दृष्टस्तथाऽपि नासौ मुख्यः । तद्विषये क्रूरकर्मानुष्ठानेऽपि शिष्टगर्हादृष्टेरिति भावः । उक्तान्वयव्यतिरेकफलमुपसंहरति –
तस्मादिति ॥३॥ 【भाष्यम्】 【भाष्यम्】 प्राणस्यैव पित्रादिसंज्ञकत्वे किं स्यादित्याशङ्क्याऽऽह – तस्मात्प्राणो हीति । प्राणस्य भूयस्त्वमित्थं व्युत्पाद्य तद्विज्ञानफलमाह – स वा इति । प्राणविदतिवादी भवतीति सम्बन्धः । कथं प्राणवित्त्वमित्यपेक्षायामाह – एवमिति । सर्वात्मत्वं यथोक्तप्रकारः फलतोऽनुभवः स्वरूपत्वेन साक्षात्कारः । तदनुदर्शनेनैव प्राणवित्त्वे सिद्ध्यति सति किमिति मननविज्ञाने पृथगुपन्यस्येते तत्राऽऽह – मननविज्ञानाभ्यां हीति । उक्तान्वयव्यतिरेकाख्योपपत्तिसहकृताद्वाक्याद्यत्प्राणविषयं ज्ञानं जायते तदत्र विज्ञानं विवक्ष्यते । तत्फलसाक्षात्करणं दर्शनमिति भेदः । मननविज्ञाने विना दर्शनासंभवोऽतःशब्दार्थः । एवं मननादिद्वारेणेति यावत् । अतिवादित्वं व्युत्पादयति – नामादीति । नापह्नुवीतेत्युक्तं व्यक्तीकरोति – कस्मादिति ।
यद्यस्मादयं विद्वानात्मत्वेन सर्वेश्वरं प्राणोऽस्मीत्युपगतवांस्तस्मादपह्नवे हेत्वभावादात्मनोऽतिवादित्वं नापह्नुवीतेति(त्यर्थः) ॥४॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य पञ्चदशः खण्डः ॥ अत्र प्राणान्तमुपदेशं श्रुत्वा नारदस्य तूष्णीभावे किं कारणमित्याशङ्कायामाह – स एष इति । कथं तस्योपरतिरवगतेत्याशङ्क्याऽऽह – न पूर्ववदिति । किमिति तर्हि प्राप्तायामुपेक्षायां स्वयमेवाऽऽचार्यो व्युत्पादयतीत्याशङ्क्याऽऽह – तमेवमिति । “एतस्माज्जायते प्राण” (मु.उ. २ । १ । ३) इति श्रुत्यन्तरात्प्राणस्य विकारत्वेनानृतत्वं “वाचाऽऽरम्भणं विकारो नामधेयम्” (छा.उ. ६ । १ । ४) इत्युक्तम् । तस्मिन्ननृते प्राणे ब्रह्मणि विज्ञानं तेनेति यावत् । परितुश्ष्टत्वे कथमकृतार्थत्वमित्याशङ्क्य मिथ्याज्ञानशालित्वादित्याह – परमार्थेति । न च तस्योपेक्षार्हत्वमित्याह – योग्यमिति । मिथ्याग्रहविशेषो नास्ति प्राणात्परमित्यभिमानः । कथं तर्हि प्राणविदोऽतिवादित्वमुक्तं तत्राऽऽह – नामादीति । कस्तर्हि परमार्थतोऽतिवादीत्याशङ्क्याऽऽह – यस्त्विति । सोऽतिवादीति यतः सनत्कुमारस्याभिप्रायोऽत एवाऽऽहेति योजना । ननु नारदस्य नाद्यापि सत्यविज्ञानमुत्पन्नं कथं सत्येनातिवदानीति पृच्छति तत्राऽऽह –
तथेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य षोडशः खण्डः ॥ यदा वै विजानातीत्यादिवाक्यं व्याकुर्वन्नुत्तरमाह – यदेति । यदि विश्वं सद्रूपादनुगताद्भिन्नमसदेव स्याद्यदि त्वभिन्नं सन्मात्रमेव परमार्थसत्यं सिद्ध्येदिति परमार्थतः सत्यं यदैव विजानातीत्यर्थः । विज्ञानप्रकारमभिनयति – इदमिति । ततस्तदाऽनृतं विकारजातं हित्वा सदेव सत्यमिति कृत्वा यद्वदति तत्तदेव वदतीति योजना । सत्यविज्ञानस्य तद्वदनं प्रति हेतुत्वद्योतनार्थोऽथशब्दः । श्रत्यन्तरावष्टम्भेन भेदाभेदवादी शङ्कते – नन्विति । किं बृहदारण्यकश्रुत्या विकारस्य सत्यत्वमुक्तमित्येतावन्मात्रमुच्यते किं वा परमार्थसत्यत्वमिति विकल्प्याऽऽद्यमंगीकरोति – सत्यमिति । द्वितीयं दूषयति – न त्विति । भेदाभेदयोर्विरोधादेकोपाधावयोगाद्विकारस्य च रज्जुसर्पवन्मिथ्यात्वानुमानादत्यन्ताबाध्यत्वाभिप्रायेण सत्यत्वं श्रुत्यन्तरेणैवोक्तमित्यर्थः । कथं तर्हि प्राणादिषु सत्यत्वमुक्तमित्याशङ्क्याङ्गीकारं स्फोरयति – किं तर्हीति । इन्द्रियजनितसद्बुद्धिविषयत्वापेक्षं भूयत्रयं सदित्युच्यते । तदविषयत्वापेक्षं भूतद्वयं त्यदिति व्यवह्रियते । तथा च भूतपञ्चकं सच्च त्यच्चेति व्युत्पाद्य सत्यममिति यथोक्तं तथा तद्बीजभूतयोर्नामरूपयोस्तदात्मकत्वाच्च प्राणानां सत्यत्वं व्यावहारिकमिष्टमित्यर्थः । इतश्च प्राणादिषु मिथ्याभूतेष्वपि सत्यश्रुतिरविरुद्धेत्याह – तद्द्वारेणेति । प्राणादीनां व्यावहारिकसत्यत्वानुवादद्वारेणाध्यारोपापवादन्यायेन परमार्थसत्यस्य ब्रह्मणोऽवगतिर्विवक्षितेति कृत्वा तेष्वपि सत्यत्वश्रुतिरविरुद्धेत्यर्थः । यथोक्तोऽर्थो विवक्षितो बृहदारण्यकश्रुतावित्यत्र गमकमाह – प्राणा वा इति । ननु श्रुत्यन्तरे विकारस्यापि व्यावहारिकं सत्यत्वमिष्टं प्रकृते तु न तदिष्यते भूम्न एव सत्यत्वाङ्गीकारात्तथा च विरोधतादवस्थ्यमत आह – इहापीति । यदि प्राणस्यापि व्यवहारतः सत्यत्वमुपगतं किं तर्हि सनत्कुमारस्य विवक्षितमित्याशङ्क्याऽऽह – इह त्विति । यदा वै विजानात्यथ सत्यं वदतीति यद्व्याख्यातं तदन्वयव्यतिरेकाभ्यां स्फुटयन्नादौ व्यतिरेकमाह – नाविजानन्निति । परमार्थसत्यमविजानन्नपि वदत्यग्न्यादीनित्याशङ्क्याऽऽह – यस्त्विति । तर्हि कथं सदेव परमार्थसत्यमिति वदतोऽभीष्टसिद्धिरित्याशङ्क्याऽऽह – न त्विति । तान्येव तर्हि रूपाणि पृथग्विद्यन्ते नेत्याह – तथेति । अतोऽस्य नास्ति सत्यवादित्वं किंत्वसत्यवादित्वमेवेत्युपसंहरति – इत्यत इति । व्यतिरेकं दर्शयित्वाऽन्वयमन्वाचष्टे – विजानन्नेवेति । अस्तु तर्हि सत्यविज्ञानपूर्वकमतिवादित्वमित्याशङ्क्याऽऽह – न चेति । यद्येवं जिज्ञासाद्वारा सत्यविज्ञानं ज्ञेयमित्येवमिष्टं चेदित्यर्थः । सत्यवदनं प्रति सत्यविज्ञानस्य यथा कारणत्वमुक्तं तथा पूर्वस्य पूर्वस्योत्तरमुत्तरं कारणत्वेन द्रष्टव्यमित्यतिदिशति –
एवमिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य सप्तदशः खण्डः ॥ विज्ञानकारणीभूतां मतिं व्याचष्टे –
मतिरिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्याष्टादशः खण्डः ॥ मननहेतुभूतां श्रद्धां व्याकरोति –
आस्तिक्येति ॥१॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्यैकोनविंशः खण्डः ॥ श्रद्धाहेतुं निष्ठां व्याचष्टे –
निष्ठेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य विंशः खण्डः ॥ निष्ठानिदानं कृतिं विभजते – कृतिरिति । कथं पुनरेतेषामुत्तरमुत्तरं पूर्वस्य पूर्वस्य कारणीभवति तत्राऽऽह –
सत्यां हीति ॥१॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्यैकविंशः खण्डः ॥ कृतिस्तर्हि कुतो भवतीति तत्राऽऽह – साऽपीति । यदा सुखं लभते तदा भवतीति सम्बन्धः । ननु सुखलाभस्येन्द्रियसंयमादिव्यतिरेकेणाभावात्कथं सुखलाभाधीना कृतिरित्याशङ्क्याऽऽह – सुखमिति । वक्ष्यमाणसुखलब्धव्यत्वाभिमानादेव यथोक्ता कृतिः सिद्ध्यतीत्यर्थः । सुखं लब्ध्वा करोतीत्येतद्दृष्टान्तेन साधयति – यथेति । दृष्टं फलं पुत्रपश्वादि तज्जन्यसुखोद्देशपूर्विका लोके कृतिर्दृष्टा तथाऽऽत्मन्यपि सुखं लब्ध्वैव करोति न तु विना तदुद्देशमित्यर्थः । नन्विन्द्रियाणां मनसश्च संयमपूर्वकं सुखं भवति तथा च कथं तल्लब्ध्वा करोतीत्युच्यते तत्राऽऽह – भविष्यदपीति । उत्तरग्रन्थमाकाङ्क्षापूर्वकमुत्थापयति –
अथेत्यादिना ॥१॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य द्वाविंशः खण्डः ॥ भूम्नोऽर्वागपि वैषयिकं सुखमस्तीत्याशङ्क्याऽऽह – ततोऽर्वागिति । कथमल्पत्वेऽपि सुखत्वं वार्यते तत्राऽऽह – अल्पस्येति । दुःखरूपां तृष्णां प्रत्यल्पस्य सुखस्य हेतुत्वेऽपि कथं स्वयं सुखं न भवतीत्याशङ्क्याऽऽह – न हीति । अल्पस्य सुखस्य दुःखान्तर्भावे सिद्धे फलितमाह –
अत इति ॥१॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य त्रयोविंशः खण्डः ॥ भूम्नः सविशेषत्वं निर्विशेषत्वं वेति प्रश्नपूर्वकं निर्विशेषत्वं निर्धारयति – किमित्यादिना । नान्यच्छृणोति स भूमेति सम्बन्धः । किमिति स्पर्शनादिष्वपि सत्सु दर्शनश्रवणयोरेव निषेध्यत्वेनात्र ग्रहणमित्याशङ्क्याऽऽह – नामेति । अनुक्तानां स्पर्शादीनामुपलक्षणार्थत्वेनात्र द्वयोर्ग्रहणं स्पर्शनाद्यविषयत्वस्यापि भूम्नि भावादित्याह – अन्येषामिति । अत्रेति लक्षणवाक्योक्तिः । तत्र हेतुमाह – प्रायश इति । यस्मिन्नधिकरणे तत्त्वविचारणायामन्योऽन्यं न पश्यति न श्रुणोति न मनुते न विजानाति स भूमेति द्रष्टृदृश्यादिविकल्पनिषेधेनाध्यासाधिकरणत्वोपलक्षितस्य विकल्पाविषयत्वमेव भूमलक्षणमित्युपसंहरति – एवमिति । उक्तमेव लक्षणं स्फुटयितुं विमृशति – किमत्रेति । लोकप्रसिद्धदर्शनादिविषयत्वाभावमात्रं भूम्नो लक्षणं तन्निषेधेन स्वज्ञेयत्वं वेति विमर्शार्थः । कस्मिन्पक्षे को लाभः को वा दोष इति शिष्यः पृच्छति – किंचात इति । आद्यमनूद्य तत्र लाभं दर्शयति – यदीति । अन्यस्य प्रसिद्धस्य दर्शनादेर्विषयत्वं भूम्नि नास्तीत्येतावन्मात्रं तस्य लक्षणमित्युच्यते चेत्सर्वविकल्पातीतः प्रत्यगात्मा भूमेत्यस्मत्पक्षसिद्धिरित्यर्थः । द्वितीयं पक्षमनूद्य तस्मिन्दोषं सूचयति – अथेत्यादिना । तमेव दोषं प्रश्नपूर्वकं स्फुटयति – यद्येवमित्यादिना । सति क्रियाकारकफलभेदे कथं संसारनिवृत्तिस्तत्राऽऽह – क्रियेति । सति भेदे क्रियादेः संसारत्वं लोके दृष्टं तद्वैलक्षण्यादेकस्मिन्नेव क्रियाकारकभावस्य न संसारतेति चोदयति – आत्मैकत्व इति । एकस्मिन्क्रियादिभेदस्यासंभवं दर्शयन्नुत्तरमाह – नाऽऽत्मन इति । द्वितीयपक्षस्य दुष्टत्वे स्पष्टीकृते प्रथमपक्षस्यापि समानं दुष्टत्वमिति शिष्यः शङ्कते – अन्येति । आद्यपक्षेऽपि न पश्यतीत्येतावतैव दर्शनाद्यभावलाभाद्यत्रेत्यन्यदिति च विशेषणे व्यर्थे स्यातामित्यर्थः । व्यर्थमेवेदृशं वचनमित्याशङ्क्य शिष्यः स्वयमेव ब्रूते – दृश्यते हीति । लोके हि यत्र शून्ये गृहे नान्यत्पश्यति तद्देवदत्तीयमिति प्रयोगो दृश्यते न च तस्य नैरर्थक्यमिष्टं व्यवहाराङ्गत्वात् । यथा च तस्मिन्यथोक्ते धनधान्याद्यदर्शनेऽपि स्तम्भादीन्गृहं च न न पश्यतीति श्रुतस्य नैरर्थक्यं न गम्यते । किं तु तत्र स्तम्भादीनां तस्य च दर्शनमिष्टं तथा यत्र नान्यत्पश्यतीत्यत्रापि विशेषणवैयर्थ्ये समाधानं वक्तव्यमित्यर्थः । किं विशेषणार्थवत्त्वानुपपत्त्या भूम्न्यधिकरणाधिकर्तव्यभावः स्वात्मदर्शनं च वाच्यमित्युच्यते किं वा श्रुतस्य गतिर्वक्तव्येति पृच्छ्यते तत्राऽऽद्यं दूषयति – नेत्यादिना । तथा तत्त्वमसीतिवदित्यर्थः । निर्धारितत्वादधिकरणाधिकर्तव्यभेदानुपपत्तिरिति शेषः । यच्चान्यत्र पश्यतीति विशेषणादात्मनः स्वदर्शनं वाच्यमिति तत्राऽऽह – अदृश्य इति । द्वितीयमनूद्य गतिमाह – यत्रेत्यादिना । परिहारभागं दृष्टान्तेन स्पष्टयति – यथेति । एकस्मिन्नेव भूम्नि यत्रेति विशेषणमनर्हमपि प्रयुज्यते प्रसिद्धानुवादेनाधिकरणादिविकल्पाविषयत्वलक्षणस्य भूम्नो लक्षणस्य विवक्षितत्वादित्याह – एवमिति । यदविद्यावस्थमन्यदर्शनादि तदनुवादेन नान्यत्पश्यतीति विशेषणं च भूम्नि विरुध्यते दर्शनाद्यविषयत्वलक्षणस्य भूम्नो लक्षणस्य विवक्षितत्वादित्याह – अविद्येति । लक्षणवाक्यार्थमुपसंहरति – तस्मादिति । दर्शनादिसकलसांसारिकव्यवहाराभावोपलक्षितं तत्त्वं भूमेत्यर्थः । अथ यत्रेत्यादिवाक्यं व्याकरोति – अथेति । परिच्छिन्नस्याविद्याकालभावित्वं दृष्टान्तेन विवृणोति – यथेति । तत एव परिच्छिन्नत्वादिति यावत् । कथं तदमृतमिति भूम्नि तच्छब्दप्रयोगस्तत्राऽऽह – तच्छब्द इति । भूम्नः सुखत्ववचनात्तस्य चाऽऽश्रयं पृच्छति – स तर्हीति । व्यवहारदृष्ट्या प्रश्नो वस्तुदृष्ट्या वेति विकल्प्याऽऽद्यं प्रत्याह – इत्युक्तवन्तमिति । द्वितीयमनूद्य निराकरोति –
यदीति ॥१॥ 【भाष्यम्】 【भाष्यम्】 पूर्वापरविरोधमाशङ्क्य परिहरति – यदीत्यादिना । भूम्नः स्वतोऽन्यस्मिन्प्रतिष्ठितत्वाभावोऽत्रेत्युच्यते तत्रान्यो हीत्यादिवाक्यस्य हेतुत्वेन हेतुना तेन व्यवहितेन नाहमेवं ब्रवीमीत्यस्य सम्बन्ध इति योजना । कथं तर्हि ब्रवीति भवानित्याशङ्क्याऽऽह –
किंत्विति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य चतुर्विंशः खण्डः ॥ अवतारितमेव वाक्यं प्रश्नपूर्वकमवतार्य व्याचष्टे – कस्मादित्यादिना । उक्तमेवार्थं व्यतिरेकद्वारा विवृणोति – सतीति । अहंकारात्मत्वोपदेशस्याभिप्रायमाह – यत्रेति । कोऽसावहंकारेणाऽऽदिश्यत इत्याशङ्क्य प्रयोजनानुवादपूर्वकमाह –
द्रष्टुरिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 अहंकारादेशात्पृथगात्मादेशस्य तात्पर्यमाह – अहंकारेणेति । उक्तात्मविज्ञानवतः कृतकृत्यतामाह – आत्मैवेति । एकमिति सजातीयभेदराहित्यस्योक्तिः । अन्यशून्यमिति विजातीयभेदशून्यत्वमुच्यते । रतिक्रीडयोरवान्तरभेदं दर्शयति – देहमात्रेति । क्रीडा बाह्यसाधनेत्यत्र लोकसंमतिमाह – लोक इति । देहस्य जीविते च भोगत्यागयोश्च निमित्तं बाह्यवस्तु तत्र सर्वत्र निरपेक्षो यदृच्छालाभेष्वासङ्गवर्जितो विद्वानित्याह – देहेति । जीवन्मुक्तिमुक्त्वा विदेहमुक्तिं दर्शयति – स इति । स्वाराज्यं निमित्तीकृत्य फलान्तरमाह – यत एवमिति । स्वाराज्यसर्वलोककामचारयोस्तात्पर्यमाह – प्राणादिष्विति । यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवतीत्यादिना परिच्छिन्नं परतन्त्रं च पूर्वभूमिषु फलमुक्तमत्र तु परमानन्दप्राप्तौ तद्व्यावृत्तिरुच्यते न तु सोपाधिकं रूपमित्यर्थः । फलप्रदर्शनद्वारेण स्तुत्वा विद्यामविद्वन्निन्दाद्वाराऽपि तां स्तौति – अथेत्यादिना । ते क्षय्यलोका भवन्तीति सम्बन्धः । भेददर्शिनां विनाशिफलत्वे हेतुमाह – भेददर्शनस्येति ।
परिच्छिन्नस्य विनाशित्ववचनं तस्मादिति परामृशति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य पञ्चविंशः खण्डः ॥ उक्तविद्यास्तुत्यर्थमेव विदुषः स्रष्टृत्वमाह – तस्येति ।
तथा विदुषः स्रष्टृत्वव्यवहारवदित्यर्थः । क्रीडादिरन्यो व्यवहारः ॥१॥ 【भाष्यम्】 【भाष्यम्】 न केवलं ब्राह्मणोक्तमिह विद्याफलं किं तु मन्त्रोक्तं चेत्याह – किंचेति । तच्छब्दार्थः सप्तम्या निर्दिश्यते । स च विद्याफलरूपः । न पश्य इति मन्त्रमादाय व्याचष्टे – पश्यतीत्यादिना । सर्वमाप्नोतीति पूर्णता परिच्छेदभ्रमव्यावर्तनेन विवक्षिता न तु क्रिमिकीटकादिभावोऽपुरुषार्थत्वप्रसङ्गादिति द्रष्टव्यम् । विद्यास्तुतिपौष्कल्यार्थं सगुणविद्याफलमपि निर्गुणब्रह्मविदाप्नोतीत्याह – किंचेति । त्रिधा तेजोऽबन्नरूपेण । शब्दस्पर्शादिरादिशब्दार्थः । विद्यां तत्फलं तदपेक्षितां स्तुतिं चाभिधायाऽऽहारशुद्धावित्यादेस्तात्पर्यमाह – अथेति । “रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्” (भ.गी. २ । ६४) इत्यादिस्मृतिमाश्रित्याऽऽहारशब्दं व्याकरोति – आह्रियत इतीति । कथं तस्याऽऽह्रियमाणत्वं तत्राऽऽह – भोक्तृरिति । कीदशी तस्य शुद्धिरित्याशङ्क्याऽऽह – रागेति । आहारशुद्धिफलमाह – तस्यामिति । अन्तःकरणशुद्धिफलं कथयति – सत्त्वेति । स्मृतिलाभफलं दर्शयति – तस्यां चेति । भवतीत्याहारशुद्धिरपेक्षितेति शेषः । प्रकृतवाक्यतात्पर्यमुपसंहरति – यत इति । तस्मै मृदितकषायायेत्यादिवाक्यमवतार्य व्याचष्टे – सर्वमिति । आगतिं गतिमायव्ययौ । तस्य वैशिष्ट्यान्तरमाह –
तमेवेति ॥२॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य षड्विंशः खण्डः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां श्रीशङ्करभगवत्कृतच्छन्दोग्योपनिषद्भाष्यटीकायां सप्तमोऽध्यायः समाप्तः ॥ पूर्वस्मिन्नध्यायद्वये निर्विशेषमात्मतत्त्वमनवच्छिन्नं सदानन्दैकतानमावेदितं तथा चोपनिषदारम्भे चरितार्थे किमवशिष्यते यदर्थमध्यायान्तरमित्याशङ्क्याऽऽह – यद्यपीति । कर्तुमिति तदधिगमाय विशिष्टो देश उपदेष्टव्य इति सम्बन्धः । मन्दबुद्धीनां तर्हि परमार्थवस्तुनो ब्रह्मणोऽधिगतिरपेक्षितेत्यर्थः । न केवलं मन्दाधिकारिणां ब्रह्माधिगमशेषत्वेन हृदयदेशोपदेश एवात्र कर्तव्यः किं तु पूर्वत्रानुक्तगुणाद्यर्थान्तरोपदेशश्च कार्य इत्याह – यद्यपीति । अवशिष्टमर्थान्तरमुपदेष्टव्यमन्वाचष्टे – तथेति । मन्दधियां ब्रह्मधीशेषत्वेन देशविशेषवद्गुणविशेषवच्च ब्रह्मचर्यादिसाधनविशेषो विधातव्य इति सम्बन्धः । शब्दोत्थब्रह्मज्ञानवतां विधिं विनाऽपि विषयवैमुख्यसम्भवात्किं विधिनेत्याशङ्क्याऽऽह – यद्यपि ब्रह्मविदामिति । यथा साधनविशेषो वक्तव्योऽवशिष्यते तथोपासकानां गतिश्च वक्तव्येत्यवशिष्टमर्थान्तरमाह – तथेति । एकत्वदर्शिनां गन्त्रादिसर्वभेदप्रत्ययास्तमयादविद्याविशेषस्य देहस्थितिनिमित्तस्य क्षये सति निवृत्तिसम्भवात्कुतो गतिर्वक्तव्येत्याशङ्क्याऽऽह – यद्यप्यात्मैकत्वविदामिति । अविद्यादिशेषस्थितिनिमित्तक्षये स्वात्मन्येव निवृत्तिरित्युत्तरेण सम्बन्धः । स्वात्मनिर्वाणेऽपि कृतकरूपत्यागेन स्वाभाविकस्वरूपावस्थानमित्यत्र दृष्टान्तानाह – गगन इवेति । अनेकोदाहरणोपादानं बुद्धिसौकर्यार्थम् । उक्तमेवाध्यायतात्पर्यं संक्षिप्य दर्शयति – दिग्देशेति । दिशादेशेन गुणैर्गत्या फलभेदेन च शून्यं तदनवच्छिन्नमिति यावत् । तस्य दिगाद्यनवच्छिन्नत्वे हेतुमाह – अद्वयमिति । तर्हि तेषां भ्रमापोहार्थं परमार्थसदद्वयं ब्रह्म ग्राहयितव्यं किमित्यन्यथोपदिश्यते तत्राऽऽह – सन्मार्गस्था इति । अध्यायतात्पर्यं संक्षेपविस्तराभ्यां दर्शयित्वा श्रुत्यक्षराणि व्याकरोति – अथेत्यादिना । उत्तमबुद्धीन्प्रति निर्विशेष ब्रह्मोपदेशानन्तरं मन्दबुद्धीन्प्रति सविशेषमुपदिश्यते ब्रह्मेत्यर्थः । तत्र तावदुपास्यायतनं निर्दिशति – यदिदमिति । हृदयपुण्डरीकस्य वेश्मसादृश्ये हेतुमाह – द्वारपालादीति । तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषय इत्यादिश्रुतेरुक्तहेतुसिद्धिः । तस्याऽऽश्रयं दर्शयति – अस्मिन्निति । शरीरस्य ब्रह्मपुरत्वं दृष्टान्तेन साधयति – राज्ञ इति । तत्रोक्तं वेश्म दृष्टान्तेन स्पष्टयति – पुरे चेति । कथं पुनः सर्वगतस्य निरवयवस्य ब्रह्मणो यथोक्तवेश्मनिष्ठत्वमित्याशङ्क्याऽऽह – ब्रह्मण इति । ननु संसारिणो ब्रह्मातिरिक्तस्य स्वकर्मोपार्जितेन शरीरेण स्वामित्वसंबन्धो न ब्रह्मणस्तदसंबन्धिनः कथं तत्रोपलब्धिरत आह – अस्मिन्हीति । ब्रह्मणो जीवात्मना सृष्टे कार्ये जलार्कवत्प्रवेशे हृदयपुण्डरीकस्य ब्रह्मोपलब्ध्यधिष्ठानत्वं पूर्वोक्तमविरुद्धमित्याह – तस्मादिति । अन्तराकाशस्यात्यल्पतरत्वे हेतुमाह – वेश्मन इति । आकाशशब्दस्य भूताकाशविषयत्वं व्यावर्तयति – आकाशाख्यमिति । कथं वाक्यशेषेऽप्याकाशशब्दो ब्रह्मणि वर्तते तत्राऽऽह – आकाश इवेति ।
तस्मिन्यदन्तस्तदाश्रयेण सहान्वेष्टव्यं तस्मिन्वा स्वे महिम्नि यदन्तस्तदाकाशाख्यं ब्रह्म तदन्वेष्टव्यं तस्मिन्वा हृदयपुण्डरीकावच्छिन्ने नभसि यदन्तराकाशाख्यं ब्रह्म तदन्वेष्टव्यमिति योजना ॥१॥ 【भाष्यम्】 【भाष्यम्】 दहरोऽस्मिन्नित्यादिवाक्यस्य यथाश्रुतमर्थं गृहीत्वा चोद्यमुत्थापयति – तं चेदिति । तदेव चोद्यमाकाङ्क्षाद्वारा विवृणोति – कथमित्यादिना । भवतु परिच्छिन्ने शरीरे पुण्डरीकाकारस्य हृदयस्याल्पत्वं तदन्तर्वर्तिनश्चाऽऽकाशस्य ततोऽप्यल्पतरत्वं तथाऽपि प्रकृते किं स्यादित्याशङ्क्याऽऽह – पुण्डरीक एवेति । किंशब्दस्य प्रश्नविषयत्वं व्यावर्तयति – न किंचनेति । हृदयपुण्डरीकान्तर्वर्तिनमाकाशमुपेत्याऽऽद्यं दूषयति – यदि नामेति । फलानुपलम्भोऽतःशब्दः । तत्रेत्यन्तर्वर्त्याकाशोक्तिः । शिष्याचार्यव्यतिरिक्तस्यात्राप्रस्तुतत्वात्कस्येदं नियोगवचनमित्याशङ्क्याऽऽह –
इति श्रुतेरिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 किमाचार्यो ब्रूयादित्यपेक्षायां वक्ष्यमाणेऽर्थे शिष्याणां मनःसमाधानमादौ प्रार्थयत इत्याह – श्रुणुतेति । श्रोतव्यमेव दर्शयितुं शिष्यैरुक्तमनुवदति – तत्रेति । किमाकाशस्य स्वाभाविकं दहरत्वमुपेत्य चाद्यते किं वा परोपाधिनिमित्तमिति विकल्प्याऽऽद्यं दूषयति – तदसदिति । ततश्च तस्य स्वाभाविकं दहरत्वमाश्रित्य चोद्यं निरवकाशमिति शेषः । कथं तर्हि दहरत्वोक्तिराकाशस्येत्याशङ्क्याऽऽह – किं तर्हीति । तस्मिन्विशुद्धे तावन्मात्रं ब्रह्म यथोक्तविशेषणं योगिनां विषयेभ्यो विमुखीकृतान्तःकरणानामुपलभ्यत इति सम्बन्धः । अन्तःकरणस्य शुद्धत्वे दृष्टान्तमाह – स्वच्छ इवेति । ब्रह्मणस्तस्मिन्नुपलभ्यमानत्वे प्रतिबिम्बरूपमिवेत्युदाहरणम् । प्रतिपत्तिसौकर्यार्थमुदाहरणान्तरम् । ब्रह्मणो नैसर्गिकमागन्तुकं च व्यवधानं नास्तीत्युपलब्धिसिद्ध्यर्थं विशिनष्टि – स्वच्छमिति । तादृगेव दहरत्वमादाय चोद्यते चेदनौपाधिकं महत्त्वमुपेत्य समाधिः सम्भवतीति कल्पान्तरं निरस्यति – स्वतस्त्विति । यस्मिन्नन्वेष्टव्यमाश्रयेण सहेति शेषः । यावांस्तावानिति वचनादाकाशेन तुल्यपरिमाणत्वं ब्रह्मणोऽभिप्रेतं तथाच ज्यायानाकाशादित्यादि विरुद्धमित्याशङ्क्याऽऽह – नापीति । केनाभिप्रायेण तर्हि तावानित्युक्तमत आह – किं तर्हीति । “न तस्य प्रतिमाऽस्ति” (श्वे.उ. ४ । १९) इत्याकाशादि येन व्याप्तं लोकोऽनुभवति तस्मिन्नक्षरे सर्वमृगादि समाहितमित्यर्थः । कार्यकारणयोरतुल्यपरिमाणत्वप्रसिद्धेश्च नाऽऽकाशसमता ब्रह्मणोऽस्तीत्याह – तस्मादिति । आधाराधेययोस्तुल्यपरिमाणत्वाच्चैवमित्याह – एतस्मिन्निति । इतश्चाऽऽकाशस्य न स्वाभाविकं दहरत्वमित्याह – किंचेति । कार्यं हि द्यावापृथिव्यादि कारणे समाहितं तच्च हृदये ध्येयमित्यभिप्रेत्य बुद्ध्युपाधिविशिष्ट इत्युक्तम् । आकाशे द्यावापृथिव्यादिः समाहितत्वे भूमविद्यासंवादं दर्शयति – यथा वेति । न विद्यते सर्वं तदास्मिन्समाहितमिति सम्बन्धः । नास्तिशब्दस्यात्यन्तासद्विषयत्वं व्यावर्तयति –
नष्टमिति ॥३॥ 【भाष्यम्】 【भाष्यम्】 आश्रयनाशादाश्रितनाशः स्यादिति न्यायमाश्रित्य शङ्कते – तं चेदिति । यद्यस्मिन्सर्वं समाहितं ततो देहनाशे किमवशिष्यत इति सम्बन्धः । शिष्याणामधिकावापं दोषमाशङ्कते – कथमिति । शङ्कितं दोषं परिहरति – नैष दोष इति । सर्वं तदस्मिन्समाहितमित्यत्रोक्तेन सर्वशब्देनेति शेषः । शिष्याणामधिकावापं दोषं परिहृत्य प्रकृतं चोद्यं विवणोति – यदेत्यादिना । आकाशस्य शिष्यमाणत्वमाशङ्क्याऽऽह – घटेति ।
ततो यथोक्तान्नाशादिति सम्बन्धः ॥४॥ 【भाष्यम्】 【भाष्यम्】 कया पुना रीत्या शून्यविषया शिष्यमतिरपनेतव्येति प्रश्नपूर्वकं विवृणोति – कथमित्यादिना । देहादिविक्रियया ब्रह्मणो न विक्रियाऽस्तीत्येतत्कैमुतिकन्यायेन साधयति – न चेति । देहादिषु तादात्म्येन स्थितं चेद्ब्रह्म दोषैरसंस्पृष्टमित्ययुक्तमित्याशङ्क्याऽऽह – कथमिति । प्रकृता दहरोपासना तत्र व्यासङ्गो विक्षेपः । यदि देहादिदोषैरसंस्पृष्टत्वं ब्रह्मणो नोच्यते चेदेते न क्वचिदुपपद्यन्ते तर्हि तदविवक्षितमेव स्यादित्याशङ्क्याऽऽह – इन्द्रेति । नास्येत्यादिनोऽक्तेऽर्थे हेतुमाह – एतदिति । कथं यथोक्तं ब्रह्मणः पुरमवितथं स्यादित्याशङ्क्याऽऽह – ब्रह्मैवेति । सत्यशब्दसामानाधिकरण्यादुक्तसमाससिद्धिरित्यर्थः । कथं तर्हि शरीरं ब्रह्मपुरमित्युक्तमत आह – शरीराख्यं त्विति । तदेव स्फुटयितुं शरीरस्य मिथ्यात्वं सप्रमाणं दर्शयति – तत्त्विति । अथ मिथ्याभूतस्य तस्य कथं ब्रह्मपुरत्वमत आह – तद्विकार इति । किं च व्यावहारिकं सत्यमिदं शरीरं तद्युक्तं तस्यानृतस्यापि ब्रह्मोपलब्ध्यधिष्ठानस्य ब्रह्मपुरत्वमित्याह – व्यावहारिकमिति । ब्रह्म तु परमार्थसत्यमतश्चैतदेव सत्यमित्युक्तं ब्रह्मपुरमित्याह – सत्यं त्विति । ब्रह्मणः सत्यत्वेऽपि पुरत्वायोगात्कुतो ब्रह्मपुरत्वमित्याशङ्क्याऽऽह – सर्वव्यवहारेति । दहराकाशस्याल्पत्वं विनाशित्वमित्याशङ्कितं दोषं परिहृत्योपास्यत्वसिद्ध्यर्थं पातनिकां करोति – अत इति । अस्मिन्सर्वकामसमाधाने फलितमुपासनमुपदिशति – अतस्तदिति । यथोक्ते दहराकाशे कीदृगुपासनं कर्तव्यमित्यपेक्षायामहंग्रहेणेत्याह – एष इति । पुनरुक्तिं शङ्कते – तदुक्तमिति । तां परिहरति – यद्यपीति । अन्यथा देहसम्बन्धं विना स्वभावतोऽपीत्यर्थः । निवृत्त्यर्थं पुनरुच्यत इति पूर्वेण सम्बन्धः । प्रकारान्तरेण पुनरुक्तिं चोदयति – नन्विति । शोकस्यान्ता किंचिद्व्यवधाय पिपासा येष्वस्ति ते शोकान्तास्तेषां जरादीनामपहतपाप्मत्वेन प्रतिषिद्धत्वे हेतुमाह – कारणेति । कथं धर्माधर्मप्रतिषेधे जरादिविकारप्रतिषेधस्तत्राऽऽह – धर्मेति । इति पृथक्प्रतिषेधोऽनर्थकः स्यादिति सम्बन्धः । जरादिप्रतिषेधस्यार्थवत्त्वमङ्गीकृत्य पाप्मप्रतिषेधस्य नैरर्थक्यमिति पक्षान्तरमाह – जरादीति । धर्मादेर्जरादेर्वा निषेधादितरनिषेधः सिद्ध्यतीत्यङ्गीकरोति – सत्यमेवमिति । तर्हि किमित्यपहतपाप्मेत्युक्त्वा विजरो विमृत्युरित्याद्युच्यते तत्राऽऽह – तथाऽपीति । तथाऽपि दुःखे प्रतिषिद्धे किमिति जरादि प्रतिषिध्यते तत्राऽऽह – जरादिति । यत्तु कार्याभावे सतोरपि धर्माधर्मयोरुत्खातदन्तोरगवदकिंचित्करत्वादपहतपाप्मेति न पृथग्वक्तव्यमिति तत्राऽऽह – पापनिमित्तानामिति । ईश्वरस्य सत्यकामत्वं साधयति – वितथा हीति । यथेश्वरस्यावितथाः कामास्तथा संकल्पाश्चेत्याह – तथेति । अभावरूपाणां धर्माणामद्वैताव्याघातमकत्वेन सम्भावितत्वेऽपि कथं भावरूपा धर्माः सम्भवेयुरित्याशङ्क्याऽऽह – संकल्पा इति । शुद्धसत्त्वं रजस्तमोभ्यामस्पृष्टं त्रिगुणाया मायाया अंशभूतं तदेवोपाधिस्तन्निमित्तं येषां ते तथा । अस्वाभाविकानां संकल्पादीनामीश्वरविशेषणत्वे दृष्टान्तमाह – चित्रगुवदिति । यथा चित्रा गावोऽस्वाभाविकाश्चित्रगोर्देवदत्तस्य विशेषणं तथा ब्रह्मणोऽपि कामादय इत्यर्थः । किमिति कामादयो ब्रह्मणि स्वाभाविका न भवन्ति धर्मधर्मिणोरेवोपचारादद्वैतश्रुतेरुपपत्तेरित्याशङ्क्याऽऽह – न स्वत इति । वाक्यान्तरमवतारयितुं पातनिकां करोति – यथोक्तेति । ज्ञानप्रकारं निमित्ताधिकारिप्रदर्शनपूर्वकं दर्शयति – गुरुभ्य इति । प्रश्नपूर्वकं यथा हीत्यादिवाक्यमाह – न चेदिति । यथाकाशात्मापरिज्ञानमत्रेति परामृष्टम् । अक्षरोत्यमर्थं ह्येवेत्यनेन दृष्टान्तेन दर्शयित्वा वाक्यार्थं कथयति – यथा ह्येवेति । अमुमर्थं प्रश्नपूर्वकमन्वाचष्टे – किमित्यादिना । उक्तदृष्टान्तेन विवक्षितमंशमनूद्यदृष्टान्तान्तरस्य तात्पर्यमाह –
एष इति ॥५ ॥ 【भाष्यम्】 【भाष्यम्】 केषामेष दोषो भवतीत्याकाङ्क्षायामाह – उक्त इति । कर्मसाध्यस्य पारतन्त्र्यं क्षयिष्णुत्वं च ज्ञानहीनकर्मसाध्यविषयब्रह्मोपासकानामेष दोषो भवतीति दर्शयत्त्युत्तरं वाक्यमित्यर्थः । अविदुषामेवास्वातन्त्र्यदोषमुक्त्वा विदुषां स्वातन्त्र्यफलं कथयति –
अथेत्यादिना ॥६॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति श्रीमदानन्दगिरिटीकायां अष्टमाधायस्य प्रथमः खण्डः ॥ उक्तमेवार्थमाकाङ्क्षापूर्वकमुपपादयति –
कथमित्यादिना ॥१॥ 【भाष्यम्】 【भाष्यम्】 सुखहेतुभूता इति कुतो विशेषणमित्याशङ्क्याऽऽह – सामर्थ्यादिति । तदेव स्फुटयति – नहीति ॥२-९॥
तेन ज्ञानमाहात्म्येनेति यावत् ॥१०॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य द्वितीयः खण्डः ॥ त इमे सत्याः कामा इत्यादेस्तात्पर्यमाह – यथोक्तेति । आह समनन्तरा श्रुतिरिति शेषः । तमेवानुक्रोशं दर्शयति – कष्टमिति । अनृतमपिधानमिवापिधानं तेषांमिति सम्बन्धः । किं तदनृतं तदाह – बाह्येति । कथं तदपिधानमात्मस्थानां कामानामित्याशङ्क्याऽऽह – तन्निमित्तमिति । उक्तमर्थमाकाङ्क्षापूर्वकमुत्तरं वाक्यमवतार्योपपादयति – कथमित्यादिना ।
तं हृदयाकाशे स्वात्मनि सन्तमपि द्रष्टुमिच्छन्नपि यस्मान्न लभते तस्मादनृतापिधानं निमित्तं कृत्वा तदलाभो भवतीति योजना ॥१॥ 【भाष्यम्】 【भाष्यम्】 इतश्च तेषामलाभे निमित्तमनृतापिधानमेवेत्याह – अथ पुनरिति । यथोक्तेन विधिनेत्युपास्तिप्रकारोक्तिः । आत्मस्थानां कामानामनृतापिधानत्वमुक्तं निगमयति – अत्रेति । यस्मादविद्वद्भिरलभ्या विद्वद्भिश्च लभ्याः सत्याः कामाः सर्वाधारे जगन्मूलकारणे ब्रह्मणि स्वात्मभूते वर्तन्ते तस्मात्ते भवन्त्यनृतापिधानाः । सत्यामविद्यायामनुपलम्भाद्विद्यया तत्प्रशमने चोपलम्भादित्यर्थः । यदुक्तं ब्रह्मणि स्वात्मनि कामाः सन्तोऽपि नोपलभ्यन्त इत्यन्याय्यमिति तत्र दृष्टान्तं प्रश्नपूर्वकमुत्थाप्य व्याचष्टे – कथमिवेत्यादिना । तत्र स्वायत्तस्याप्यप्राप्तौ दृष्टान्तो निर्दिश्यत इति शेषः । दार्ष्टान्तिकं व्याकरोति – एवमेवेति । अलाभप्रकारमभिनयति – एषोऽहमिति । तत्र हेतुमाह – अनृतेनेति । यथोक्तेन मिथ्याज्ञानशब्दितानाद्यनिर्वाच्याज्ञानकृतेन तृष्णाप्रभेदेन तन्निमित्तेनेच्छाप्रचारेणेत्यर्थः । तस्मात्प्रजानां स्वात्मभूतब्रह्मलोकालाभ इति शेषः । स्वरूपादनृतेन हृतत्वमेव स्फोरयति – अविद्यादीति । प्रकृतमाक्रोशमुपसंहरति –
अत इति ॥२॥ 【भाष्यम्】 【भाष्यम्】 अनुक्रोशद्वारा यथोक्तब्रह्मध्यानानुष्ठाने प्रयत्नस्य कर्तव्यतोक्ता, सम्प्रति नामादाविव हृदये ब्रह्मदृष्ट्यारोपमात्रमिति शङ्कां वारयितुमनन्तरवाक्यमवतार्य व्याकरोति – स वा इत्यादिना । कथमात्मा यथोक्तो हृदयेऽस्तीति गम्यते तत्राऽऽह – तस्येति । यथोक्तावगतिफलमाह – अहरहरिति । एवंविदिति विशेषणममृष्यमाणः शङ्कते – नन्विति । अनेवंविदोऽपि सुषुप्तिकाले ब्रह्मप्राप्तिमङ्गीकरोति – बाधमेवमिति । तर्हि किमित्येवंविदिति विशेषणमित्याशङ्क्याऽऽह – तथाऽपीति । विद्वदविदुषोर्विशेषमेव दृष्टान्तेन स्पष्टयति – यथेति ।
त्वं तदसीत्याचार्येण प्रतिबोधितो विद्वान्सदेव भवत्यन्यस्त्वविद्वानस्मीति देहादिकमेव जानन्न सदेव भवतीति योजना । देहपातेऽपीत्यपिशब्देन जीवदवस्था दृष्टान्तिता ॥३॥ 【भाष्यम्】 【भाष्यम्】 संप्रसादस्य विदुषो यन्मुक्त्यालम्बनं शुद्धं ब्रह्म तत्तादात्म्योपदेशेनोपास्यं स्तोतुं संप्रसादशब्दार्थं कथयति – सुषुप्तेति । सम्यक्प्रसीदतीति संप्रसादो विद्वानिति शेषः । स्वाभाविकमेवाऽऽत्मनः स्वास्थ्यं कथं सुषुप्ते प्रसीदतीति विशेष्यते तत्राऽऽह – जाग्रदिति । जहातीति सुषुप्तः पुरुषः संप्रसाद इति विशेषव्युत्पत्तिबलेन संप्रसादशब्दः सौषुप्तसर्वजीवसाधारणस्तत्कथमेष संप्रसाद इति सन्निहितविद्वत्परामर्शस्तत्राऽऽह – संप्रसादशब्द इति । तस्य सौषुप्तसर्वजीवसाधारणत्वेऽपि प्रक्रमवशाद्विद्वानेवैष संप्रसाद इति व्यपदिश्यते । यथा सन्निहितोऽर्थो यत्नविशेषादेष इति शब्दशक्तिवशादुच्यते तथेहापीत्यर्थः । एष एवंवित्प्रकृतः संप्रसादः स विद्वानिति यावत् । विवेकानन्तर्यमथशब्दार्थः । समुत्थानशब्दस्य मुख्यार्थत्वं वारयति – न त्विति । देहाद्व्युत्थितस्यापि स्वेन रूपेणामिनिष्पत्तिर्भविष्यतीत्याशङ्क्याऽऽह – न हीति । कुतोऽयं स्वरूपेऽभिनिष्पत्तिप्रयोगस्तत्राऽऽह – प्रागिति । एतच्छब्दः सम्यग्ज्ञानविषयः । अनात्मस्वरूपप्रतिपत्तिभ्रान्तिनिवृत्त्यपेक्षया स्वरूपसंपत्तिरुपचरितेत्यर्थः । किं तत्स्वरूपमिति तदाह – अशरीरता हीति । यथा मिथ्यारूप्यतादात्म्यनिवृत्तौ स्वाभाविकेनारूप्यात्मना शुक्तिरवतिष्ठते तथा शरीरतादात्म्यभ्रान्तिनिवृत्तौ तदभावोपलक्षितं स्वच्छं स्वरूपमेवावस्थितं भवतीत्यर्थः । एष आत्मेति होवाचेत्यत्रैषशब्दार्थमाह – यत्स्वमिति । कोऽसावुक्तिकर्तेत्याकाङ्क्षायामाह – स ब्रूयादिति । न केवलमात्मत्वमेव प्रकृतस्य ज्योतिषः किन्तु रूपान्तरत्वमस्तीत्याह – किञ्चेति । अविनाशित्वे हेतुमाह – भूमेति । तथाऽपि कथमविनाशित्वं तत्राऽऽह – यो वा इति । इतिशब्दो हेत्वर्थः । यस्माद्यथोक्तलक्षणं ब्रह्म तस्मात्तदुपासनामर्हतीत्यर्थः । उपास्यस्य ब्रह्मणो नाम निर्दिशति – तस्येति । उक्तस्य पुनरुक्तिरनर्थिकेत्याशङ्क्य परिहरति –
किमर्थमित्यादिना ॥४॥ 【भाष्यम्】 【भाष्यम्】 उपास्यस्तुत्यर्थं नामोक्त्वा तादर्थ्येनैव नामाक्षराणि प्रस्तौति – तानीति । तानि कानीत्यपेक्षायामाह – एतानीति । कथं तकार इत्युच्यत ईकारस्यापि तत्र भावादित्याशङ्क्याऽऽह – ईकार इति । तत्र हेतुमाह – ह्रस्वेनेति । दीर्घमीकारमुद्दिश्य ह्रस्वं पुनरनुवदन्नविवक्षितत्वमेव नामाक्षरेषु तस्य सूचयतीत्यर्थः । त्रयाणामक्षराणामवान्तरभेदं दर्शयति – तेषामिति । निर्धारणे षष्ठी । वर्णविभागानन्तर्यमथशब्दार्थः । तकारस्याक्षरसामान्यान्मर्त्यत्वम् । कथमक्षरे पूर्वे यमित्यक्षरेण प्रयोक्ता नियमयतीत्याकाङ्क्षायां नियमनस्वाभाव्येनेत्याह – आत्मन इति । यमित्यक्षरस्य नियमनस्वाभाव्यमेव साधयति – यद्यस्मादिति । तस्य तत्स्वभावत्वेऽनुभवमनुकूलयति – संयते इवेति । यमा यमित्यक्षरेणेत्यर्थः । तस्य पूर्वाभ्यामुपरिष्टाद्भावित्वं तन्नियामकत्वे हेतुरिति मत्वाऽऽह – एतेनेति । लक्ष्येते पूर्वे अक्षरे इति शेषः । ब्रह्मणः सत्यमिति नाम तस्य यन्निर्वचनं कृतं तस्य प्रयोजनमाह – ब्रह्मेति । फलवाक्यस्थमेवंवित्पदं व्याकरोति – एवमिति । वाक्यं तु न व्याख्येयं प्रागेव व्याख्यातत्वादित्याह –
अहरिति ॥५॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति श्रीमदानन्दगिरिटीकायां अष्टमाध्यायस्य तृतीयः खण्डः ॥ वाक्यान्तरमादत्ते – अथेति । तस्य तात्पर्यमाह – उक्तलक्षण इति । प्रकारान्तरेण स्तुतिप्रारम्भार्थो वाक्यस्थोऽथशब्दः । किमिति स्तुतिरित्यपेक्षायां स्तुत्ये ब्रह्मण्याधारे ब्रह्मचर्याख्यस्य साधनस्य सम्बन्धविधानार्थमित्याह – ब्रह्मचर्येति । यथा मृदादिमयः सेतुर्व्यवस्थाहेतुरस्येदं क्षेत्रमिति तथाऽयमपि व्यवस्थाहेतुरित्याह – सेतुरिवेति । सेतुत्वं साधयति – विधृतिरिति । विधारकत्वमुपपादयति – अनेनेति । वर्णाश्रमादीत्यादिशब्दो वयोवस्थाविषयः । फलादीत्यादिशब्दस्तु तदवान्तरजातीयविषयः । कर्त्रनुरूपक्रियादिभेदविषयनियमः सह वर्णादिव्यवस्थापयता परमेश्वरेण सर्वं जगद्विधृतमिति सम्बन्धः । अन्वयमुखेनोक्तमेव व्यतिरेकमुखेनाऽऽह – अध्रियमाणं हीति । उक्तमेवार्थं प्रश्नपूर्वकं विशदयति – किमर्थमित्यादिना । नैतमिति प्रतीकग्रहणं यत्तद्व्याचष्टे – सेतुमित्यादिना । तदेव वैधर्म्यदृष्टान्तेन स्पष्टयति – यथेत्यादिना । परमात्मनो न कालपरिच्छेद्यतेत्यत्राऽऽथर्वणश्रुतिं प्रमाणयति – यस्मादिति । तरतीति तरतेरतिक्रमणार्थो नाऽऽत्मनि सम्भवतीत्यत्र हेतुमाह – कारणं हीति । कार्यस्य कारणातिक्रमणं माभूत् अहोरात्रादेस्त्वात्मातिक्रमणं किं न स्यादित्याशङ्क्याऽऽह – अहोरात्रादि चेति । तरतेरतिक्रमणार्थत्वमङ्गीकृत्यापि निषेधे हेतुमाह – अन्येनेति । तरतिवाक्यस्यापहतपाप्मादिवाक्येन पौनरुक्त्यमाशङ्क्य परिहरति – यद्यपीति । विशेषणानामानन्त्यात्प्रत्येकं प्रतिषेधवचनासम्भवमभिप्रेत्याऽऽह – अहोरात्राद्या हीति । पाप्मकार्याणामात्मानमप्राप्यैव निवृत्तौ हेतुमाह –
अपहतेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 यथोक्तसेतुप्राप्तौ फलितमाह – यस्मादिति । स्वाभाविकमस्यानर्थत्वमित्याशङ्क्याऽऽह – देहवत्त्व इति । विद्धो दुःखादिसम्बन्धी । इतश्चाऽऽत्मसेतोरस्ति महाभागधेयत्वमित्याह – किंचेति । कथं सर्वमपि तमोरूपमहरेव विदुषः स्यान्नहि विद्ययाऽपि विरुद्धोऽर्थः सिद्ध्यतीत्याशङ्क्याऽऽह – विज्ञप्तीति । तत्र हेतुमाह – सकृदिति ।
ब्रह्मलक्षणोऽवेद्यो लोकः स्वप्रकाशचिदेकतानो यतोऽवतिष्ठतेऽतस्तद्रूपत्वाद्विदुषो यथोक्तरूपत्वमविरुद्धमित्यर्थः ॥२॥ 【भाष्यम्】 【भाष्यम्】 विद्याफले यथोक्तरीत्या व्यवस्थिते सत्येतत्फलं विद्यावत्त्वेन केषां सिद्ध्यतीत्याशङ्क्याऽऽह – तत्रेति । ब्रह्मचर्यवतां विद्याद्वारा ब्रह्माख्यो लोकः फलतीत्यर्थः । तेषामेवेत्येवकारद्योतितमर्थमाह – नान्येषामिति । ब्रह्मविदामपीति वाङ्मात्रब्रह्मवित्त्वमुच्यते । तेषां ब्रह्मचर्यवतां ब्रह्मविदामिति यावत् । ब्रह्मचर्यसाधनवतामेव ब्रह्मवित्त्वेन ब्रह्माख्या लोको भवतीति स्थिते फलितमाह – तस्मादिति ।
साधनं ब्रह्मविद्यायामिति शेषः । ब्रह्मविदामिति भाविनीं वृत्तिमाश्रित्योक्तम् ॥३॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य चतुर्थः खण्डः ॥ अथ यथोक्तपरमात्मप्राप्तिसाधने ज्ञाने सहकारिब्रह्मचर्यं प्रागेवोक्तं तथाच कृतं ब्रह्मचर्यविषयेणोत्तरग्रन्थेनेत्याशङ्क्याऽऽह – य आत्मेति । शमाद्यपेक्षयाऽन्तरशब्दः । उक्तमपि ब्रह्मचर्यं विधातुमनन्तरग्रन्थप्रवृत्तिरित्यर्थः । किमिति तर्हि तस्य स्तुतिरित्याशङ्क्य तस्या विधिशेषत्वं दर्शयति – यज्ञादिभिश्चेति । श्रुतिराहोत्तरं वाक्यमित्युक्तं तदादाय व्याकरोति – अथेत्यादिना । ब्रह्मचर्यस्योक्तरीत्या विधित्सितत्वे तदीयस्तुतिप्रारम्भार्थोऽथशब्दः । यज्ञस्य ब्रह्मचर्येऽन्तर्भावं साधयति – यज्ञस्यापीति । उक्तमेवार्थमाकाङ्क्षाद्वारा समर्थयते – कथमित्यादिना । पारम्पर्येण चित्तशुद्धिद्वारेणेत्यर्थः । न केवलं फलद्वारा यज्ञो ब्रह्मचर्येऽन्तर्भवति किन्तु यकारज्ञकारसम्स्पर्शादपीत्याह – यो ज्ञातेति । इष्टस्य ब्रह्मचर्यान्तर्भावमाकाङ्क्षाद्वारा स्फोरयति – कथमित्यादिना । पूजयित्वा तमात्मानमनुनिन्दत इति सम्बन्धः । ब्रह्मचर्येणाऽत्मविषयैषणं निष्पाद्यते इष्टेनापि तदेव सम्पाद्यते तस्मादेषणादुभयसादृश्यादिष्टमपि यज्ञवद्ब्रह्मचर्यमेवेत्याह –
एषणादिति ॥१॥ 【भाष्यम्】 【भाष्यम्】 बहुयजमानकं वैदिकं कर्म सत्त्रायणम् । तथा यज्ञवदिष्टवच्चेत्यर्थः । कथं सत्त्रायणं ब्रह्मचर्येऽन्तर्भवतीत्याशङ्क्याऽऽह –
सत इति ॥२॥ 【भाष्यम्】 【भाष्यम्】 उपवासपरायणत्वमनाशकायनं तत्कथं ब्रह्मचर्येऽन्तर्भवतीत्याशङ्क्याऽऽह – यमात्मानमिति । अरण्यायनमरण्यवासस्तत्कथं ब्रह्मचर्यान्तर्भूतमित्याशङ्क्याऽऽह – अरण्यशब्दयोरिति । विस्तरेणोक्तमर्थं संक्षिप्याऽऽह – यो ज्ञानादित्यादिना ।
यो ब्रह्मचर्येणाऽत्मनो ज्ञानादात्मानं विन्दते स ब्रह्मलोकं लभते तस्माद्यज्ञो ब्रह्मचर्यमिति योजना । आदिशब्देन स्वस्य परमपुरुषार्थसाधनत्वं गृह्यते ॥३॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मचर्यस्य स्तुतत्वात्तद्विषयं विधिमिक्त्वा तत्सहकृतविद्यासाध्यफलं कथयति – तत्तत्र (ही)ति । ब्रह्मचर्यस्यात्यल्पसाधनत्वान्महती स्तुतिरयुक्ता तद्ब्रह्मचर्येण ज्ञानमुपलक्ष्य तदेव स्तूयत इति मतमुत्थापयति – नन्वत्रेति । तस्य क्षुद्रसाधनत्वमसिद्धं दुरनुष्टेयत्वात्तद्व्यतिरेकेण ज्ञानासम्भवाच्चेत्युत्तरमाह – नेत्यादिना । विषयापहृतचित्तानां नराणां विवेकासम्भवे प्रमाणमाह – पराञ्चीति । ध्यायतो विषयानित्याद्या स्मृतिरत्र विवक्षिता । ब्रह्मचर्यस्योत्तमसाधनत्वे सिद्धे फलितमाह – ज्ञानेति । ब्रह्मलोकप्राप्तिसाधनस्य ब्रह्मचर्यस्य यज्ञादिभिः स्तुतत्वात्तेषामपि तत्प्राप्तिसाधनत्वं श्रुत्याऽभिप्रेतमिति शङ्कते – नन्विति । किं तेषां पुरुषार्थसाधनत्वं प्रस्तुतश्रुत्या प्रतीतं किं वा ब्रह्मलोकसाधनत्वमिति विकल्प्याऽऽद्यमङ्गीकरोति – सत्यमिति । न द्वितीयो वाक्यभेदप्रसङ्गादित्याह – न त्विति । कथं तर्हि यज्ञादिभिर्ब्रह्मचर्यस्तुतिस्तत्राऽऽह – किं तर्हीति । उक्तमर्थं दृष्टान्तेन स्पष्टयति – यथेति । त्वमिन्द्रस्त्वं विष्णुरित्यादिना विप्रादिभी राजा स्तूयते तथाऽपि न तस्येन्द्रादिव्यापारे निरङ्कुशं कर्तृत्वमस्तीति यथेष्यते तथा यज्ञादिभिर्ब्रह्मचर्यस्य स्तुतस्यापि नास्ति तुल्यफलत्वमित्यर्थः । ब्रह्मलोकस्थान्पदार्थान्निर्णेतुं विचारमवतारयन्नादौ तद्विषयमाह – य इम इति । तत्रैकं पक्षमुत्थाप्य दृष्टान्तेन तदुत्थितिप्रकारमाह – ते किमिति । पक्षान्तरं स्वप्नदृष्टान्तवशाद्दर्शयति – आहोस्विदिति । कस्मिन्पक्षे को लाभः को वा दोषः, इति शिष्यः पृच्छति – किंचात इति । घटस्थौल्ये दोषदर्शनान्मानसत्त्वेन सौक्ष्म्ये च पुराणानुग्रहसंभवात्ते मानसा एवेत्याह – यदीति । न केवलं तेषां स्थौल्ये स’त्युभे अस्मिन्नि’त्यादिश्रुत्या पुराणस्मृत्या च विरोधः किं त्वशोकं संतापवर्जितमहिमं शीतस्पर्शशून्यं ब्रह्मलोकमुपयन्तीत्याद्याश्च श्रुतयो ब्रह्मलोकं निरूपयन्त्यस्तत्रत्यानामर्थानां स्थौल्ये विरुध्येरन् । स्थूलानां पदार्थानां तत्र सत्त्वे शीतस्पर्शादेरवर्जनीयत्वादित्याह – अशोकमिति । ब्राह्मलौकिकपदार्थानां मानसत्वे पुराणस्मृत्यन्तरविरोधं शङ्कते – नन्विति । किं दृश्यमानरूपेण समुद्रादीनां ब्रह्मलोकगमनं स्मृत्यर्थः किं वा स्वरूपान्तरेणेति विकल्प्याऽद्यं दूषयति – न मूर्तिमत्व इति । उभयत्रानुपलम्भप्रसङ्गादिति । प्रथमपक्षायोगेद्वितीयंपक्षंपरिशिष्टमाचष्टे – तस्मादिति । अस्तु द्वितीयो विकल्पः का नो हानिरित्याशङ्क्य ब्रह्मलके मानसेन देहेन मानसादीनामेव सागरादीनां मानसरूपेण सह सम्बन्धोपपत्तेर्मानस्य एव मूर्तयस्तेषां ब्रह्मलोकस्थाःकल्पयितुं युक्ता इत्याह – तुल्यायां चेति । तर्हि मनोरथकल्पितवदतिचञ्चलत्वाद्भोगयोग्याकारत्वं सागरादीनां न स्यादित्याशङ्क्याह – दृष्टा हीति । स्वप्नतुल्यत्वे मिथ्यात्वप्रसक्तिरिति शङ्कते – नन्विति । प्रसङ्गस्येष्टत्वमाशङ्क्य श्रुतिविरोधमाह – त इम इति । ये स्वप्ने दृष्टास्ते न सन्ति न तु न दृष्टा इति दर्शनं न बाध्यते तथा च स्वाप्नसंवेदनस्य सत्यत्वमिष्टं तथैव ब्राह्मलौकिकानां पदर्थानाम् । मानस्य इति दृष्टान्तं विवृणोति – मानसा हीति । जागरिते संविदतिरिक्ताः सन्ति पदार्थास्तद्वासनारूपास्ते स्वप्ने भान्ति न तु संविदात्मकत्वं तेषामिति शङ्कते – नन्विति । जागरितस्यापि संविद्विवर्तत्वान्न पृथगस्ति सत्वमित्युत्तरमाह – अत्यल्पमिति । भूमविद्यालोचनायामपि जाग्रद्विषयाणां संविद्विवर्तत्वं सेत्स्यतीत्याह – संकल्पमूला हीति । इतश्च जाग्रद्विषयाणां संविद्विवर्तत्वमित्याह सर्वश्रुतिषु चेति । ननु कुलालो घटं चिकीर्षुर्मनसि संकल्पितमाकारं बहिर्निर्मिमीते तत्र सङ्कल्पो बाह्याकरस्य निमित्तं संकल्पश्च पूर्वानुभूतसजातीयगोचरः पूर्वानुभूतोऽपि पूर्वतरसंकल्पनिमित्त इति निमित्तनैमित्तिकभावः । सर्वस्य संविद्विवर्तत्वे कथमुपपद्यते तत्राऽह – तस्मादिति । यस्मात्सतः सर्वस्येक्षणं पूर्वकल्पीयसदृशगोचरं पूर्वकल्पीयास्ततः पूर्वतरेक्षणनिमित्ता इति संविदेवेत्थं स्वाविद्यया विवर्तते निरवयवस्य सन्मात्रस्य स्वारस्येनेक्षणाद्यनुपपत्तेस्तस्मात्सर्वस्य संविद्विवर्तत्वेऽपि निमित्तनैमित्तिकभावोऽयमनिर्वाच्यो न विरुध्यत इत्यर्थः । अथ सच्छब्दवाच्यायाः संविदोऽनिर्वाच्यस्पन्दनकाले ये विषया बाह्यतया भासन्ते तेषां कदाचिदपि संविदतिरेकेण सत्त्वानङ्गीकारादाद्यन्तासत्त्वलक्षणमनृतत्वमापद्येत तथा च व्यवहारभङ्गप्रसङ्गस्तत्राऽऽह – यद्यपीति । तथाऽपि नानृतत्वमित्यध्याहारः अध्यस्तस्याधिष्ठानमेव स्वात्मातस्मिन्न कदाचिदप्यत्यन्तासत्त्वं तादात्मयेनैव स्फुरणादतो न व्यवहारभङ्गप्रसङ्ग इति भावः । कदाचिदपि नानृतत्वमिति वदता प्रतीतिकालात्कालान्तरेऽपि विषयाणां नासत्त्वमित्युक्तं तत्रानुभवविरोधं शङ्कते – नन्विति । स्वप्नदृष्टानां समीहितमेव कालान्तरे मिथ्यात्वमित्यङ्गीकरोति – सत्यमिति । तर्हि तेषामसत्त्वमेव स्वीकृतमित्याशङ्क्याऽऽह – जाग्रदिति । तथाऽपि जाग्रद्बोधेनाविषयीकरणादसत्त्वं स्वप्नदृष्टानामेष्टव्यमित्याशङ्क्याऽऽह – तथेति । यदि जाग्रद्बोधेनाविषयीकरणमात्रेणासत्त्वं स्वप्नदृष्टानां पदार्थानामिष्टं तर्हि जाग्रद्विषयाणामपि स्वप्नबोधेनाविषयीकरणादसत्त्वप्रसङ्गस्तन्न कदाचिदपि संविदि विषयाणामत्यन्तासत्त्वमित्यर्थः । कथं तर्हि वाचारम्भणश्रुतिरित्याशङ्क्याऽऽह – विशेषेति । त्रयाणां रूपाणां सत्यत्वे विशेषाकारमात्रं मिथ्येत्युक्तमयुक्तं तेष्वपि विशेषाकारस्य सत्त्वादित्याशङ्क्याऽऽह – तान्यपीति । कथं तर्हि तेषु सत्यपदं प्रयुक्तमित्याशङ्क्याऽऽह – स्वत इति । तर्हि तत्सत्यमित्येतावत्प्रयोक्तव्यं किमिति त्रीणि रूपाणीत्येव सत्यमित्युक्तं तत्राऽऽह – प्रागिति । प्रकृतमुपसंहरति – तस्मादिति । प्रथमपक्षवद्द्वितीयपक्षे दोषाभावादिति यावत् । यद्यैहिकविषयवद्ब्राह्मलौकिका अपि विषया विचार्यमाणाः सत्यास्तर्हि कस्तत्र विशेषो येनैतत्परित्यागेन तत्कामिनां विद्याविधानं तत्राऽऽह – बाह्येति । जन्या ब्रह्मलोके विषया इति शेषः । प्रकृतायाः फलश्रुतेरित्यध्याहारः । ननु तेषामविद्यादशायामर्थक्रियाकारित्वरूपसत्यत्वसंभवेऽपि कुतो विद्यावस्थायां सत्यत्वमित्याशङ्क्याऽह – सत्सत्येति ।
यथा रज्ज्वां कल्पितसर्पादयो रज्जुतत्त्वबोधे तदात्मतामेवाऽऽपाद्यन्ते विवेचनात्तथा सर्वेऽपि विषया विद्यावस्थायामन्वयव्यतिरेकाभ्यां परिहारायासन्मात्रत्वमेव प्राप्नुवन्तीति तत्सत्यत्वमविरुद्धमित्यर्थः ॥४॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य पञ्चमः खण्डः ॥ सगुणविद्याफलस्वरूपमित्थमुपपाद्य तत्प्राप्तये गतिर्वक्तव्येति नाडीखण्डमवतारयति – यस्त्विति । यथोक्तो गुणः सत्यकामत्वादिः । ब्रह्मचर्यादीत्यादिशब्दः शमदमादिसङ्ग्रहार्थः । तमेवाऽऽदिशब्दार्थं स्पष्टयति – त्यक्तेति । अधिकारिणः सफलोपास्तिविध्यानन्तर्यमथशब्दार्थः । रसेनान्नस्येति शेषः । तदाकारा इति तच्छब्दोऽन्नरसविषयः । शुक्लस्येत्यादिषष्ठी पूर्ववत् । श्रुतावितिशब्दोऽध्याहारद्योतनार्थः । कथं पुनरन्नरसस्य पिङ्गलादिविचित्रो वर्णविशेषः सिद्ध्यतीत्याशङ्क्याऽऽह – सौरेणेति । यत्पित्ताख्यं सौरं तेजस्तेन पाकोऽशितस्य पीतस्य च जायते तेनाभिनिर्वृत्तेनाल्पेन कफेन संपर्कात्तदेव पित्ताख्यं सौरं तेजो भवति पिङ्गलं तेन संपर्काद्रसस्य नाडीनां च जायते पिङ्गलत्वमित्यर्थः । तदेव च पित्ताख्यं सौरं तेजो यथोक्तपाकाभिनिर्वृत्तेन प्रभूतेन वातेन सम्बन्धात्तद्भूयस्त्वाद्भवति नीलं तेन च संपर्कादन्नरसस्य नाडीनां च जायते नैल्यमित्याह – तदेवेति । प्रकृतमेव पित्ताख्यं सौरं तेजो यथोक्तपाकवशादभिनिर्वृत्तकफस्य स्वसम्बन्धिनो भूयस्त्वाद्भवति शुक्लं तेन च सम्पर्कादन्नरसस्य नाडीनां च शौक्ल्यं भवतीत्याह – तदेव चेति । उक्तपाकाभिनिर्वृत्तेन कफेन तदभिनिर्वृत्तस्यैव वातस्य समतायां तदेव तेजस्तत्सम्बन्धि पीतं जायते तत्सम्बन्धाच्चान्नरसस्य च नाडीनां च पीतत्वं भवतीत्याह – कफेनेति । यदा तु यथोक्तपाकाभिनिष्पन्नं शोणितं बहुलं भवति तदा तस्य नाडीनां च लौहित्यं भवतीत्याह – शोणितेति । पक्षान्तरमाह – वैद्यकाद्वेति । अन्वेषणप्रकारमाह – कथमिति । नाभेरूर्ध्वं हृदयादधस्तादामाशयमाचक्षते । तद्गतं तेजःसौरं पित्तमित्युच्यते । तच्चान्नरसस्य धात्वन्तरसहकारिवशाद्वर्णविशेषे कारणम् । “आमाशयगतं पित्तं रञ्जकं रसरञ्जनात्” (अ.हृ. १३ । २५) इत्यादिवचनादित्यर्थः । कथं तर्हि पिङ्गलस्येत्याद्या श्रुतिरित्याशङ्क्याऽऽह – श्रुतिस्त्विति । उक्तमर्थमाकाङ्क्षाद्वारा स्फोरयति – कथमित्यादिना ।
आदित्यस्य पैङ्गल्यादयो वर्णविशेषाः शास्त्रप्रामाण्यादेव प्रत्येतव्याः ॥१॥ 【भाष्यम्】 【भाष्यम्】 आदित्यस्य तेजसो नाडीष्वनुगतस्य पैङ्गल्यादयो वर्णविशेषा भवन्तीत्युक्तं तदेव प्रश्नद्वारा दृष्टान्तावष्टम्भेन स्पष्टयति – तस्येत्यादिना । उभयत्राऽऽदित्यमण्डले पुरुषे चेत्यर्थः । तत्र पूर्वोक्तमेव दृष्टान्तमनुवदति – यथेति । उभौ ग्रामौ महापथो यथा गच्छति तथोभयत्राऽऽदित्यस्य रश्मयः प्रविष्टाः इत्यर्थः । तमेव प्रवेशं प्रश्नद्वारा प्रकटयति – कथमित्यादिना । कथं नाडीनां पिङ्गलादिवर्णत्वमित्याशङ्क्य सौरेण तेजसेत्यादिनोक्तं स्मारयति – यथोक्तास्त्विति । अमुष्मिन्नादित्ये सृप्ता इति सम्बन्धः । कथं स्त्रीलिङ्गेन निर्दिष्टानां रश्मीनां पुंलिङ्गेन निर्देशस्तत्राऽऽह –
रश्मीनामिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 नाडीस्वरूपमुक्त्वा विज्ञानात्मस्वापाधिकरणत्वेन ताः स्तोतुमादौ स्वापं प्रस्तौति – तत्तत्रेति । सप्तम्यर्थमेव स्फुटयति – एवं सतीति । नाडीस्वरूपे पूर्वोक्तरीत्या निरूपिते सतीत्यर्थः । एतत्स्वपनमिति क्रियाविशेषणम् । समस्तविशेषणस्यार्थवत्वमाह – स्वापस्येति । दर्शनवृत्तिमददर्शनवृत्तिश्चेति द्विप्रकारत्वं स्वापस्येष्टम् । तत्र दर्शनवृत्तेः स्वापस्य व्यावृत्त्यर्थं समस्त इति विशेषणम् । तस्य संपिण्डितमर्थमाह – उपसंहृतेति । विशेषणान्तरमुत्थाप्य व्याकरोति – अत इति । उपसंहृतसर्वकरणत्वादिति यावत् । उक्तं विशेषणद्वयमुपजीव्य स्वप्नमित्यादि व्याचष्टे – अत एवेति । नाडीषु प्रविष्टो भवतीति यदुक्तं तदयुक्तं य एषोऽन्तर्हृदय आकशस्तस्मिञ्शेत इत्यङ्गीकारादित्याशङ्क्याऽऽह – नाडीभिरिति । नाडीष्विति श्रुता सप्तमी कथं नाडीभिरिति तृतीयया व्याख्यायते तत्राऽऽह – न हीति । तदेति सुषुप्त्यवस्थोच्यते । तस्यामवस्थायां कर्माभावे कथं पुनरुत्थानमित्याशङ्क्याऽऽह – देहेति । सुखदुःखानुभवाभावात्पाप्मासंस्पर्शोऽत्र विवक्षितो न तु कर्माभावादित्यर्थः । अविषयत्वं साधयति – अन्यो हीति । सुषुप्ते स्वरूपावस्थस्य कथं प्रच्यवनमित्याशङ्क्याऽऽह – स्वरूपेति । अविद्याकामकर्मणां बीजमनाद्यज्ञानं तस्य ब्रह्मविद्याख्येनाग्नीना न स्वापे दाहस्तन्निमित्तं सुषुप्तस्य पुनः स्वरूपप्रच्यवनमिति सम्बन्धः । तदेव व्याचष्टे – जाग्रदिति । कीदृक्प्रच्यवनमित्यपेक्षायामाह – बाह्येति । एतच्च सति सम्पद्य न विदुरित्यादावुदितमित्याह – इत्यवोचामेति । तेजसा हेति पाप्मास्पर्शे श्रौतौ हेतुस्तं हेतुं व्याचष्टे – यदेति । तद्व्याप्तिकार्यमाह – अत इति । कार्यकरणसंस्पर्शाभावफलं दर्शयति –
तस्मादिति ॥३॥ 【भाष्यम्】 【भाष्यम्】 नाडीरेवं स्तुत्वा ताभिरूर्ध्वगमनं प्रदर्शयितुं मरणकालं प्रसञ्जयति – तत्रेति । तस्यैवार्थमाह – एवं सतीति ।
नाडीनामुक्तरीत्या प्राशस्त्ये सतीत्यर्थः । ताभिरूर्ध्वगमनप्रदर्शनप्रारम्भार्थोऽथशब्दः । रोगादीत्यादिपदमागन्तुकसर्वनिमित्तसंग्रहार्थम् । जरादीत्यादिपदं तु नैसर्गिकसर्वनिमित्तद्योतनार्थमिति भेदः । एतन्नयनमिति क्रियाविशेषणम् ॥४॥ 【भाष्यम्】 【भाष्यम्】 प्रारब्धकर्मावसानार्थोऽथशब्दः । एतदिति क्रियाविशेषणमेतदुत्क्रमणं यथा स्यात्तथेत्यर्थः । यथोक्ताभिर्नाडीषु प्रसृताभिरादित्यमण्डलादागताभिरिति यावत् । कर्मणा जितं वशीकृतं स्वात्मसम्बन्धितामापादितं लोकमनतिक्रम्य तं प्रत्यविद्वान्केवलकर्मवान्गच्छतीत्यर्थः । दहरविद्यावतो गतिं दर्शयति – इतरस्त्विति । यथोक्तसाधनं दहरविज्ञानं तेन सम्पन्नो विशिष्ट इत्यर्थः । ध्यायन्गच्छतीत्युत्तरत्र सम्बन्धः । यथापूर्वं स्वस्थावस्थायामिव मरणावस्थायामपीत्यर्थः । वा हेतिनिपातद्वयस्यावधारणरूपमर्थं कथयति – एवेति । उच्छब्दार्थमाह – ऊर्ध्वमिति । वाशब्देन द्योतितं विकल्पं दर्शयति – विद्वाञ्श्चेदिति । यदि विद्वान्प्रमीयते तदोर्ध्वमेव गच्छति । यदि त्वविद्वान्प्रमीयते तदा तिर्यगेव गच्छतीति विभागः । विदुषस्त्यक्तदेहस्याऽऽदित्यप्राप्तावत्यन्तशैघ्र्यं दर्शयितुमनन्तरवाक्यमादत्ते – स विद्वानिति । तद्व्याचष्टे – यावतेति । आदित्यप्राप्तौ किं स्यादित्यत आह – अत इति । अविदुषामपि तर्हि प्राप्तानामादित्यं ततो निरुद्धानां पुनर्ब्रह्मलोकाप्राप्तिरित्याशङ्क्याऽऽह – सौरेणेति । देहे निरुद्धानां मूर्धन्यया नाड्या नोत्क्रमणमविदुषामित्यत्र लिङ्गं दर्शयति –
विष्वङ्ङिति ॥५॥ 【भाष्यम्】 【भाष्यम्】 यथोक्तोऽर्थो नाडीविभागलक्षणः । प्रधानत इति विशेषणतात्पर्यमाह – आनन्त्यादिति ।
प्रकरणं नाडीविषयं दहरविद्याविषयं वा ॥६॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य षष्ठः खण्डः ॥ दहरविद्यायामुपास्य स्तुत्यर्थमुक्तमनुवदति – अथेति । विवेकानन्तर्यमथशब्दार्थो व्याख्यातः । शरीरात्समुत्थानं तस्मिन्नहंममाभिमानत्यागः । स्वरूपं विशिनष्टि – एष इति । उक्तिकर्तृत्वमाचार्यस्य दर्शितमेव । प्राणो वा संप्रसादो विज्ञानात्मा वेति संशयात्पृच्छति – तत्रेति । प्रकृतं वाक्यं सप्तम्यर्थः । तस्य च संप्रसादस्य परमात्मविषयं ज्ञानं केनोपायेन भवतीति प्रश्नान्तरमाह – कथं वेति । किं तस्य परमात्माधिगमेनेत्याशङ्क्याऽऽह – यथेति । तथा तस्याधिगमः कथमिति सम्बन्धः । अभिनिष्पद्यमानरूपश्चाऽऽत्मा सविशेषो निर्विशेषो वेतिप्रश्नान्तरं करोति – येनेति । आत्मनो हि सच्चिदानन्दैकतानादर्थान्तराणि रूपाणि दृश्यमानानि शरीरसम्बन्धप्रयुक्तानि । तथा च ततः शरीरादुपाधेर्यदन्यत्तस्य स्वरूपं तत्कथं सर्वप्रमाणाप्रतिपन्नमस्तीति प्रश्नान्तरमाह – सम्प्रसादस्य चेति । एतेषां प्रश्नानामुत्तरत्वेनोत्तरग्रन्थमवतारयति – इत्येत इति । प्रजापतेरिन्द्रविरोचनयोश्च संवादरूपा याऽत्राऽख्यायिका दृश्यते सा किमर्थेत्याशङ्क्याऽह – आख्यायिका त्विति । शिष्यस्य विद्याया ग्रहणे गुरोस्तस्याःसम्यक्प्रदाने च यो विधिः श्रद्धालुत्वादिप्रकारस्तत्प्रदर्शनार्थेति यावत् । यद्वा विद्याया ग्रहणं स्वीकरणं यत्र संप्रदाने तद्दानपात्रे शिष्ये दृश्यते तस्य विधिर्ब्रह्मचर्यादिस्तत्प्रदर्शनार्थेत्यर्थः । आख्यायिकायास्तात्पर्यान्तरमाह – विद्येति । प्रजापतिना प्रोक्ता देवैरसुरैश्च प्रार्थितेन्द्रविरोचनाभ्यां देवासुराधिपतिभ्यामायासेन महता प्रेप्सिता देवराजेन च कथंचित्प्राप्ता तस्मान्महार्हेयं विद्येति तस्याः स्तुत्यर्थाऽऽख्यायिकेत्यर्थः । महद्भिरुपासितस्य महार्हत्वे दृष्टान्तमाह – राजसेवितमिति । यन्मायोपाधि सविशेषं चैतन्यं निरुपाधि निर्विशेषमिति सविशेषनिर्विशेषयोरभेदाभिप्रायेण प्रजापतिवाक्यं व्याकर्तुमादत्ते – य आत्मेति । तत्र सोऽन्वेष्टव्य इति वाक्ये सशब्दार्थमाह – यस्येति । उपासनमपि किमर्थमित्यपेक्षायामाह – उपलब्ध्यर्थमिति । तस्यैतत्फलमिति सम्बन्धः । कथं निर्गुणविद्यायाः सर्वलोककामावाप्तिः फलमित्याशङ्क्याऽऽह – सर्वात्मतेति । परिच्छेदभ्रमव्यावृत्त्या पूर्णस्वरूपेणावस्थितिरित्यर्थः । प्रजापतिवाक्यात्प्रतीयमानविधिस्वरूपमाह – अन्वेष्टव्य इति । एवकारव्यावर्त्यं दर्शयति – नापूर्वविधिरिति । शब्दादेव विद्योदये तदुत्पत्त्यर्थोऽपूर्वविधिरग्निहोत्रादिविधिवन्न सम्भवतीत्यर्थः । कथमिह नियमविधिरपि स्यादवघातविधिवदित्याशङ्क्याऽऽह – एवमिति । मिथ्याज्ञानसंस्कारप्राबल्यादनात्माभिनिवेशस्य पक्षे प्राप्तौ शास्त्राचार्याभ्यामात्मान्वेषणमेव कार्यमिति नियम इत्यर्थः । इतश्च नियमविधिरेव नापूर्वविधिरित्याह – दृष्टार्थत्वादिति । अन्वेषणविजिज्ञासनाभ्यां ज्ञानसाधनमुक्तं तस्य च विद्याद्वाराऽविद्यानिवृत्तिर्दृष्टमेव फलमन्वयव्यतिरकाभ्यां तद्धेतुत्वावगमात्तथा च तत्र नापूर्वविधेरवकाशोऽस्तीत्यर्थः । तयोर्दृष्टफलत्वे वाक्यशेषमनुकूलयति – दृष्टार्थत्वं चेति । कथमसकृत्प्रयुक्तेन न पश्यामीति वर्तमानापदेशेनान्वेषणादेर्दृष्टफलतेत्याशङ्क्य देहातिरिक्तात्मवादिनां वाक्योत्थज्ञानादनुमानाच्च मनुष्यत्वादिभ्रमनिवृत्तिप्रसिद्धेर्मैवमित्यभिप्रेत्याऽऽह – पररूपेणेति । अन्वेषणादेर्दृष्टफलत्वे फलितमाह – इति नियमार्थतेति ।
अपूर्वविधित्वं तद्विषयत्वमिति यावत् । इहेत्यन्वेषणादेरुक्तिरग्निहोत्रादिवदन्वेषणादेरत्यन्ताप्राप्त्यभावस्योक्तत्वादित्यर्थः॥१॥ 【भाष्यम्】 【भाष्यम्】 इदानीमाख्यायिकां व्याख्यातुमाख्यायिका तु विद्याग्रहणसंप्रदानविधिप्रदर्शनार्थेत्यादिनोक्तं स्मारयति – तद्धेति । अवतारिताख्यायिकाक्षराणि व्याचष्टे – तद्धेत्यादिना । किमितीन्द्रविरोचनौ विद्यार्थिनावपि परिकरं परित्यज्य शरीरमात्रेण प्रजापतिं प्रगतवन्तौ तत्राऽह – विनयेनेति । तयोरुक्तरूपगतिवशादेवदर्शितमर्थान्तरं कथयति – त्रैलोक्येति । विद्येति दर्शयतीति पूर्वेण सम्बन्धः । तस्या गुरुतरत्वे हेतुमाह – यत इति ।
सविदंमैत्रीम् ॥२॥ 【भाष्यम्】 【भाष्यम्】 तमात्मानं ज्ञातुमिच्छन्ताववास्वेति वक्तव्येऽप्यवास्तमिति प्रजापतिवचोनुकर्षणमात्रमिति द्रष्टव्यम् । अथेन्द्रविरोचनयोर्मिथो वैरिणोरपि विद्यार्थित्वेन चिरमेकत्र ब्रह्मचर्यवासेन सूचितमर्थं दर्शयति –
तेनेति ॥३॥ 【भाष्यम्】 【भाष्यम्】 शुद्धकल्मषौ प्रक्षालितदोषाविति यावत् । पुरुषो द्रष्टेति सम्बन्धः । अस्मदादिभिस्तत्र द्रष्टा दृष्टो नास्तीत्याशङ्क्याऽऽह – निवृत्तेति । इन्द्रियाणां विषयेभ्यो वैमुख्ये हेतुमाह – मृदितेति । योगिभिः समाधिनिष्ठैरन्तर्दृष्टिभिरिति यावत् । यआत्मेत्यादिवाक्येनास्यैकवाक्यतां दर्शयति – एष इति । भूमविद्यया चास्यैकवाक्यत्वं सूचयति – भूमाख्यमिति । इतिशब्दो वाक्यसमाप्त्यर्थः । उक्तेऽर्थे वाक्यं पातयति – अथ योऽयमिति । प्रश्नार्थोऽथशब्दः । इतिशब्दः समाप्त्यर्थः । यश्चक्षुरुपलक्षितो द्रष्टैष एव मयोक्तोऽपहतपाप्मादिधर्मवानात्मा युवाभ्यां पुनरन्यथागृहीतमिति निपातेन सूचयन्नुक्तवान्प्रजापतिरित्याह – एवमिति । प्रजापतिश्चेदेवमुक्तवान्कथं तर्हि तयोर्वैमुख्यं न निवृत्तमित्याशङ्क्याऽऽह – एतदिति । यथोक्तवचोरूपं वस्त्विति यावत् । यत्प्रजापतिना मनसि निहितं तत्प्रकटीकर्तुं चोदयति – नन्विति । शिष्टशिष्यगतं विपरीतग्रहणमाचार्येणानुज्ञातुमयुक्तमित्यङ्गीकृत्य प्रजापतेरभिप्रायमाह – सत्यमेवमिति । कथं तर्हि तयोर्विपरीतग्रहणमपनेतव्यमित्याशङ्क्याऽऽह – गृह्णीतां तावदिति । तावद्विपरीतमिति शेषः । चकारेण क्रियापदमनुकृष्यते । यद्यदाचरति श्रेष्ठ इति न्यायेन सर्वेषां मृषावादित्वं स्यादिति शङ्कते – नन्विति । प्राजापत्यमभिप्रायमेव प्रकटयन्नतिप्रसङ्गं परिहर्तुं तदीयमनृतवादित्वं दूषयति – न चेति । तदेवाऽऽकाङ्क्षापूर्वकं स्फुटयति – कथमित्यादिना । शिष्याभ्यां गृहीतो योऽयमात्मा ततः सकाशादात्मना स्वेनैव प्रजापतिनोक्तो योऽस्त्यक्ष्युपलक्षितो द्रष्टा समनसि प्रजापतेः सन्निहिततरोऽतः स एव तेनोक्त इत्यर्थः । इतश्च द्रष्टा प्रजापतेर्मनसि सन्निहिततर इत्याह – सर्वेषां चेति । प्रजापतेर्मनसि द्रष्टुः सन्निहितत्वेऽपि कथं तस्य न मृषावादित्वमत आह – तमेवेति । इतश्च प्रजापतेर्नमृषावादित्वमित्याह –
तथा चेति ॥४॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य सप्तमः खण्डः॥ आत्मानमुदशरावेऽवेक्ष्य तं तत्राऽत्मानं पश्यन्तौ तावनन्तरं यदात्मनो न विजानीथो युवां तन्मे प्रब्रूतमिति सम्बन्धः । प्रजापतिवचनमुपक्रमानुकूलं न भवतीति शङ्कते – नन्विति । उपक्रममतिक्रम्य ब्रुवाणस्य प्रजापतेरभिप्रायमाह – उच्यत इति । तत्र प्रथममिन्द्रविरोचनाभ्यामावाभ्यामिदमविदितमिति प्रजापतिं प्रत्यवचने कारणमाह – नैवेति । छायात्मनि च्छायायां तद्धेतौ शरीरे चेन्द्रविरोचनयोर्यथाक्रममात्मधीरियं निश्चिता प्रवृत्तेत्यर्थः । तयोस्तत्राऽऽत्मप्रत्ययस्य निश्चितत्वे गमकमाह – येनेति । प्रव्रजनेऽपि शान्तहृदययोस्तयोः सत्यप्रत्ययस्य कथं निश्चितत्वमित्याशङ्क्याऽऽह – नहीति । तेन विपरीतग्राहित्वेनेति यावत् । उक्तमगृहीत्वा विपरीतं गृहीतवन्तौ तर्हि प्रजापतिनोपेक्षणीयौ कुबुद्धित्वादित्याशङ्क्य प्राजापत्यमभिप्रायमाह – विपरीतग्राहिणौ चेति । कथमिदं प्रजापतेरभिमतमित्यधिगतमत आह – विपरीतेति । प्राजापत्ये प्रश्ने देवासुरराजयोर्विपरीतग्रहणमनुवदति –
तौ हेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 तदपनयनप्रकारं सूचयति – तौ ह पुनरिति । छायायां तद्धेतौ च देहे तयोरात्मनिश्चयो यस्तस्य निरासायेति यावत् । इह चेति पर्यायोक्तिः । नाऽऽदिदेश तत्प्रयोजनाभावादित्यर्थः । उक्तोदाहरणेन च्छायायां देहे चेन्द्रविरोचनयोरात्मप्रत्ययो नापनीतो भवतीति शङ्कते – कथमिति । छायायास्तत्कारणस्य चाऽऽगन्तुकत्वादनात्मत्वमत्र विवक्षितमित्युत्तरमाह – साध्वलंकारेति । पूर्वमुदकादिसम्बन्धावस्थायामिति यावत् । व्यभिचारित्वाच्च च्छायातत्कारणयोरनात्मत्वमित्याह – शरीरैकदेशानामिति । उपपत्तिभ्यां सिद्धमर्थं निगमयति – इत्युदशरावादाविति । न केवलं छायातत्कारणयोरेवानात्मत्वं किं तूक्तन्यायेनाहंकारादीनां तद्धर्माणां चाऽऽत्मीयत्वं प्रयुक्तमिति प्रसङ्गादतिदिशति – न केवलमिति । आत्मत्वाभिमतमहंकारादीति शेषः । मोहादादात्मीयत्वाभिमतमित्यध्याहार्यम् । एतेनेति सूचितमेव हेतुं दर्शयति – कादाचित्कत्वादिति । अनात्मेत्यनात्मत्वमनात्मीयत्वोपलक्षणार्थम् । तर्हि तयोर्यथोक्तरीत्या विपरीतग्रहणस्यापगतत्वात्किमुत्तरेण प्रजापतिवाक्येनेत्याशङ्क्याऽऽह –
एवमिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 तथैवेत्यस्य व्याख्यानं पूर्ववदिति । यथैवेदमिति प्रतीकग्रहणं तद्व्याचष्टे – यथेति । आवां स्व इतीदमुदाहरणं यथैवेति सम्बन्धः । अक्षिवाक्यादुदशराववाक्यात्साध्वलंकारवाक्याच्च च्छायातद्धेत्वोरन्यतरस्यैवाऽऽत्मत्वमभ्यासादिति भ्रमातिशयः सुतरामित्युक्तः । प्रजापतिवाक्यमुत्थापयति – यस्येत्यादिना । वाक्यव्याख्यानमतिदिशति – पूर्ववदिति । एषशब्देन तयोरभिप्रेतमेवाऽऽत्मानं छायाख्यं देहाख्यं च परामृश्य प्रजापतिरनुमोदितवानित्याशङ्क्याऽऽह – नत्विति । तौ ह शान्तहृदयावित्यादिवाक्यस्य तात्पर्यमाह – य आत्मेत्यादीति । संस्कृतौ तावद्भवतामिति शेषः । संस्कृतयोरपि तयोरात्मविषये कथं विवेको भविष्यतीत्याशङ्क्याऽऽह – मद्वचनमिति । उपेक्षायां कारणान्तरमाह – पुनरिति । किमिति शान्तहृदयत्वं तुष्टहृदयत्वेन व्याख्यायते हृदयगतः शम एव किं न विवक्ष्यते तत्राऽऽह –
न त्विति॥३॥ 【भाष्यम्】 【भाष्यम्】 यदि प्रजापतिस्तावुपेक्षितवान्किमिति तर्हि तौ हान्वीक्ष्येत्यादिवाक्यमित्याशङ्क्याऽऽह – एवं तयोरिति । प्रजापतिरुवाचेति सम्बन्धः । तर्हि किमिति तावाहूय नोक्तवानित्याशङ्क्याऽऽह – प्रत्यक्षवचनेनेति । कर्तृत्वेन सम्बन्धार्थमुक्तमेव पुनरनुवदति – प्रजापतिरिति । किमसावूचिवानित्यपेक्षायामाह – अनुपलभ्येति । यथोक्तं प्रजापतिवाक्यं श्रुत्वाऽपि गच्छतोरिन्द्रविरोचनयोर्विरोचनगतमवान्तरविशेषमाह – स्वगृहमिति । पित्रा तथोक्तत्वेऽपि किमस्माभिस्तत्र कर्तव्यमित्याशङ्क्याऽऽह – तस्मादिति । तथा पूजनीत्यत्ववदिति यावत् । तथेत्युक्तप्रकारोक्तिः । तथाऽपि प्रार्थिता सर्वलोककामावाप्तिरसिद्धेत्याशङ्क्याऽऽह –
इह लोकेति ॥४॥ 【भाष्यम्】 【भाष्यम्】 विरोचनसम्प्रदायस्याविच्छिन्नत्वं दर्शयति – तस्मादिति । देहात्मवादस्याऽऽसुरत्वादिति यावत् । तत्संप्रदायस्तेषां विरोचनप्रभृतीनामसुराणां संप्रदायो देहात्मत्वोपदेशः । किमित्यात्मत्वादिरहितमासुरमाहुरित्यपेक्षायामाह – आसुराणां हीति । प्रकृतोपनिषत्कार्यं कथयति –
तयेति॥५॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्याष्टमः खण्डः॥ एवं विरोचनगतं विशेषं दर्शयित्वा देवराजगामिनं विशेषमाह – अथेत्यादिना । द्वयोस्तुल्येऽपि प्राजापत्यवाक्यश्रवणे देवराजस्यैव कथं पथि तदनुसन्धानं वृत्तमित्याशङ्क्याऽऽह – दैव्येति । स्मरणफलमाह – स्मरन्नेवेति । प्रजापतिवचनं स्मरतोऽपि कथमिन्द्रस्य च्छायात्मग्रहणे दोषदर्शनमित्याशङ्क्याऽऽह – उदशरावेति । यदर्थो देहादेरनात्मत्वज्ञापनायेति यावत् । कादाचित्कत्वव्यभिचारित्वादिर्न्यायः तदेकदेशो व्यभिचारिणोऽनात्मत्वम् । न्यायैकदेशदृष्टिफलमाचष्टे – येनेति । दोषदर्शनमेवाऽऽकाङ्क्षाद्वारा स्फोरयति – कथमित्यादिना । उदाहृते वाक्ये विवक्षितमर्थं कथयति – यथेति । परिष्कृतो भवतीत्येतद्व्याचष्टे – नखेति । एवमेव देहस्य नखाद्यपगमे छायात्मनोऽपि तदपगमवदित्यर्थः । शरीरेऽस्मिन्नन्धे सति च्छायात्माऽप्यन्धो भवतीति सम्बन्धः । किमिति देहस्याऽऽन्ध्ये छायात्मनस्तदिष्टमित्याशङ्क्याऽऽह – नखलोमादिभिरिति । तैः सह चक्षुरादीनां तुल्यत्वाद्देहावयवत्वस्य देहेनखाद्यभावे छायायामपि तदभावाभ्युपगमाद्देहे चक्षुराद्यभावेऽपि च्छायाया तदभावो युक्त इत्यर्थः । स्रामशब्दस्यापुनरुक्तमर्थं कथयति – स्रामः किलेति । पदार्थमुक्त्वा वाक्यार्थमाह – स्राम इति । पारतन्त्र्यादनात्मत्वं छायाया दर्शयित्वा तत्रैव हेत्वन्तरमाह –
तथेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 विनाशित्वादियुक्तिदर्शनफलमुपसम्हरति – अत इति । दोषं दृष्ट्वा यथोक्तरीत्या किं कृतवानित्यपेक्षायामाह – इत्येवमिति । सर्वज्ञो हि प्रजापतिरिन्द्राभिप्रायं जानन्नेव किमर्थं प्राकृतवत्पृच्छतीत्याशङ्क्याऽऽह – विजानन्नपीति । आचार्यस्य ज्ञातवतोऽपि शिष्यं प्रत्यभिप्रायविशेषेण ज्ञातुं प्रश्नोपपत्तौ दृष्टान्तमाह – यद्वेथेति । तथा च प्रजापतिप्रश्नानुरोधेनेति यावत् । इन्द्रविषयः स्वशब्दः। शिष्ययोः श्रवणसाम्येऽपि प्रतिपत्तिवैषम्ये निमित्तं पृच्छति – नन्विति । आचार्यमतोपन्यासद्वारा परिहरति – तत्रेति । तत्र प्रतिपत्तिविशेषे दृष्टान्तेन निमित्तविशेषं दर्शयति – यथेति । आचार्योक्तबुद्ध्या तात्पर्येण प्रजापतिना छायात्मैवोक्त इति भ्रान्त्येत्यर्थः । विरोचनस्येन्द्रवच्छायात्मग्रहणमाचार्योक्तबुद्ध्या नाभूदित्याह – न तथेति । कथं तर्हि तस्याऽऽत्मदर्शनमित्याशङ्क्याऽऽह – देह एवेति । आचार्येणाऽत्मा देह एवोक्त इति बुद्ध्या तत्रैव विरोचनस्याऽऽत्मज्ञानमासीदित्यर्थः । इन्द्रस्य छायात्मग्रहणे देवानप्राप्तस्यैवमार्गमध्ये दोषदर्शनवद्विरोचनस्यासुरानप्राप्तस्याध्वनि देहात्मदर्शने दोषदर्शनं च न प्रवृत्तमित्याह – नापीति । दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह – तद्वदेवेति । विद्याग्रहणौपयिकस्य सामर्थ्यस्य प्रतिबन्धभूतो यो रागादिदोषस्तदल्पत्वापेक्षमिन्द्रस्य च्छायायामात्मग्रहणमित्युक्तं व्यक्तीकरोति – इन्द्र इति । यथोक्तदोषभूयत्वापेक्षं गृह्णतो विरोचनस्याभिप्रायं दृष्टान्तेन दर्शयति – यथेत्यादिना । उक्तमर्थं बृहदारण्यकश्रुत्यवष्टम्भेन स्पष्टयति – स्वचित्तेति । देवान्मनुष्यानसुरांश्च प्रजापतिना दकारोपदेशे साधारण्येन कृते तेषां तदीयश्रवणे तुल्येऽपि तदर्थविशेषावधारणं स्वचित्तगुणदोषवशादेव बृहदारण्यके ख्यापितं तथेहापीत्यर्थः । तत्र वा कथं तुल्येऽपि श्रवणेऽर्थविशेषबुद्धिस्तत्राऽऽह – दाम्यतेति । अदान्ता हि वयं स्वभावस्तेन दाम्यतेत्यस्मान्प्रति पितोक्तवानिति देवानां मतिराविरासीत् । स्वभावतो लुब्धा वयं तेन दत्तेत्यस्मान्प्रत्युक्तवान्पितेति मनुष्याणां बुद्धिरासीत् । सुक्रूरा हि वयं स्वभावस्तेन दयध्वमित्यस्मान्प्रति प्रजापतिरूचिवानित्यसुराणां प्रतिपत्तिर्बभूव । तदेवं दकारमात्रश्रवणादात्मचित्तानुरोधेन विचित्रा तेषां मनीषा प्रवृत्ता तथेन्द्रविरोचनयोरपि भविष्यतीत्यर्थः । अथेन्द्रविरोचनयोर्युक्तिदर्शनाविशेषादर्थप्रतिपत्तेरप्यविशेषः स्यादिति चेन्नेत्याह – निमित्तान्यपीति ।
युक्तिदर्शनान्यपि स्वचित्तगुणदोषाल्पत्वबहुत्वापेक्षाण्यतस्तयोस्तदपेक्षं प्रतिपत्तिवैषम्यमविरुद्धमित्यर्थः ॥२॥ 【भाष्यम्】 【भाष्यम्】 इन्द्राभिप्रायं बुद्ध्वा प्रजापतिरनुमोदितवानित्युक्तमिदानीमनुमोदनवाक्यं व्याकरोति – एवमेवेति । इन्द्राभिप्रायविषय एष शब्दः । अनुव्याख्यास्यामीत्युक्तं श्रुत्वा श्रोतुकाममुपगतमिन्द्रंप्रत्याह –
यस्मादिति ॥३॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य नवमः खण्डः ॥ पूर्ववच्छायात्मदर्शनवदित्यर्थः । अस्मिन्नप्यात्मनीति स्वप्न दृशीत्यर्थः । छायात्मनः शरीरानुविधायित्ववन्न स्वप्नदृशस्तदनुविधायित्वं तथा च कथं पूर्ववद्दोषदर्शनमित्याशङ्क्य परिहरति –
कथमित्यादिना ॥१॥ 【भाष्यम्】 【भाष्यम्】 स्राम्येण चक्षुरादिगतानवरतसलिलगलनविषयत्वेनेति यावत् । देहदोषेणाऽऽत्मनो न दोषो भवतीति प्रागेवोक्तं तत्किमर्थमिह पुनरुच्यतेऽत आह – यदध्यायादाविति । न्यायोऽन्वयव्यतिरेकाख्यः । एतद्देहाभिमाने हि सत्येव देहधर्मेण संयुज्यत इव द्रष्टा स्वप्ने त्वेतद्देहाभिमानाभावान्न तेन संसृज्यत इत्याह – तदिहेति । स्वप्नद्रष्टा चेद्देहदोषेण न युज्यते कथं तर्हि तस्मिन्दोषदर्शनमित्याशङ्क्याऽऽह – न तावदिति । किमित्येवकारो यथाश्रुतो न व्याख्यायते तत्राऽह – न त्विति । इति शब्दो द्रष्टव्यमित्यनेन सम्बध्यते । देहस्य वधेन नायं हन्यत इति विशेषणात्स्वतो वधः स्वप्नदृशो नियमतो विवक्षितः कस्मादेवशब्दो न यथाश्रुत एवेति शङ्कते – नास्येति । किमयं प्रजापतिमाप्तमनाप्तं वा मन्यते यद्यनाप्तं बुध्यते न तर्हि तं प्रत्युपगतिरिन्द्रस्य विद्याग्रहणार्थं सम्भवतीति मत्वाऽऽह – नैवमिति । विकल्पान्तरं प्रत्याह – प्रजापतिमिति । न स्वतो हननं स्वप्नदृशो विवक्षितमिन्द्रस्येति शेषः । उक्तमेव स्फोरयति – एतदिति । दृष्टान्तेन शङ्कते – नन्विति । दृष्टान्तं विघटयति – नैवमिति । तद्विघटनप्रकारं प्रश्नपूर्वकं प्रकटयति – कस्मादित्यादिना । एतदेवाऽऽकाङ्क्षापूर्वकं प्रपञ्चयति – कथमित्यादिना । अथेन्द्रो दृश्यत इति श्रुत्यर्थं गृहीत्वा छायात्मानमेव गृहीतवानित्युक्तं कथमिदानीमन्यथोच्यते तत्राऽऽह – तथेति । यथेदं वाक्यमक्ष्युपलक्षितद्रष्टृपरं तथा प्रागेव व्याख्यातं न तु स्वप्नद्रष्टरि च्छायात्मनीव स्पष्टा विनाशदृष्टिरित्यर्थः । यथा तदुपगम्य स्वप्नद्रष्टारं घन्तीव तथेति यावत् । इवशब्दमाक्षिपति – नन्विति । वेत्तृत्वं विकारश्चेदमृतत्वं न स्यान्मृदादिवद्विनाशित्वप्रसङ्गात्तस्मादिवशब्दो युक्त इत्युत्तरमाह – उच्यत इति । अहं वेद्मीतिविक्रियाश्रयत्वप्रत्यक्षविरोधादिवशब्दो न युक्त इति शङ्कते – नन्विति । अध्यासादपि प्रत्यक्षोपपत्तेर्न विकारित्वं सिद्ध्यतीति परिहरति – नेत्यादिना । नाहमित्यादि वाक्यमवतारयति – तिष्ठत्विति । न वेत्त्यप्रियवेत्तैव भवतीत्यर्थः । इष्टं सर्वलोककामावाप्तिलक्षणं विधेये ब्रह्मभावेनाऽऽध्यासिकमप्यप्रियवेत्तृत्वादिकमस्ति तत्पुनरुद्देशेऽप्यागतमतस्त्वदभिप्रायेणाप्रियवेत्तेव स्वप्नद्रष्टा न तु मदभिप्रायेणेति विशिनष्टि – तवेति । तत्र हेतुमाह – आत्मन इति । वसापराणीत्यादिवाक्यतात्पर्यमाह – द्विरुक्तमपीति । तथा प्रजापतिवाक्यानुसारेणेति यावत् ॥२-४॥ ॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य दशमः खण्डः ॥ यथा पूर्वमेतं त्वेव त इत्याद्युक्त्वा य एष स्वप्ने महीयमान इत्याद्युक्तं तथेहाप्येतं त्वेवेत्युक्त्वा तद्यत्रैतदित्याह – विशिष्टाधिकारिणे प्रजापतिरिति योजना । व्याख्यातस्यैव वाक्यस्यार्थं संक्षिप्य दर्शयति – अक्षिणीति । तत्रापि सुषुप्तदर्शनेऽपीत्यर्थः । तदेव दोषदर्शनं प्रश्नद्वारा स्फोरयति – कथमित्यादिना । स्वात्मानं न जानातीत्युक्तमेवाऽऽकाङ्क्षाद्वारेणाभिनयति – कथमिति । तत्र वैधर्म्यदृष्टान्तमाह – यथेति । स्वपरविवेकाभावे दोषमाह – अत इति । घ्नन्ति त्वेवेत्यत्रोक्तं लक्षयति – पूर्ववदिति । कुतो ज्ञानाभावमात्रेण विनष्टत्वमित्याशङ्क्योक्तमभिप्रायं स्पष्टयति – ज्ञाने हीति । एवकारो यथाश्रुत एव किं न स्यादित्याशङ्क्याऽऽह – न त्विति ॥१-२॥ पूर्ववद्ब्रह्मचर्यादेशाभावे हेतुमाह – स्वल्पस्त्विति । आख्यायिकातोऽपसृत्य श्रुतिरस्मभ्यं किमर्थमित्यमुपदिशतीत्याशङ्क्याऽऽह –
एवमिति ॥३॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्यैकादशः खण्डः ॥ कार्यकारणपरिवेष्टितौ विश्वतैजसावुक्तौ कारणमात्रबद्धश्च प्राज्ञो व्याख्यातः संप्रत्यशरीरं तुरीयमुपदेष्टुं सशरीरतां निन्दति – मघवन्निति । शरीरवदात्मनोऽपि विनाशित्वमवस्थाविशेषे दर्शितमित्याशङ्क्याऽऽह – यन्मन्यस इति । सशरीरो विशेषविज्ञानवान्भवत्यशरीरस्य तु विशेषविज्ञानाभावाद्विनाशभ्रमो न पुनरसौ वस्तुतो विनश्यति स्वेन रूपेणाभिनिष्पद्यत इति संप्रसादस्याविनाशित्ववचनादित्यभिप्रेत्य कारणमेव स्पष्टयन्नक्षराणि व्याचष्टे – यदिदमित्यादिना । ननु मर्त्यमित्येतावतैव मृत्युव्याप्तत्वे शरीरस्य सिद्धे किमित्यात्तं मृत्युनेति पुनरुच्यते तत्राऽऽह – कदाचिदेवेति । वैराग्यार्थं विशेषवचनमित्युक्तं यत्तदेव वैराग्यं किमर्थमित्याशङ्क्याऽऽह – कथमिति । निवर्तने विशेषवचनं फलवदिति शेषः । तदस्येत्यत्र तच्छब्दार्थमाह – शरीरमित्यत्रेति । मघवन्नित्यादिवाक्यं सप्तम्यर्थः । त्रिस्थानतया जाग्रत्स्वप्नसुषुप्ताख्यस्थानत्रयसम्बन्धित्वेनेति यावत् । अमृतत्वं षडूर्मिवर्जितत्वम् । अशरीरत्वं स्वाभाविकसावयवत्वादिराहित्यम् । आत्मनोऽधिष्ठानमित्यत्र भोगेत्यपेक्षितपूरणं कृतम् । भोक्तृभोगायतनं शरीरमिति विशेषणार्थमुक्त्वा तस्यैवार्थान्तरमाह – आत्मनो वेति । अधिष्ठानं जनयितुस्तस्योपलब्धेरधिकरणमिति यावत् । अधिष्ठानशब्दस्यार्थान्तरमाह – जीवरूपेणेति । उत्तरवाक्यस्थं सशरीरशब्दं व्याचष्टे – यस्येति । ईदृशं मर्त्यत्वादिविशेषणवदित्यर्थः । तद्यथोक्तं शरीरमधिष्ठितमनेनेति व्युत्पत्त्या तदधिष्ठितः स तद्रूपः पुरुष इत्यर्थः । तस्यैव संपिण्डितमर्थमाह – तद्वानिति । उक्तेऽर्थे विशेषणं पातयति – सशरीर इति । अशरीरस्य कथं सशरीरत्वमित्याशङ्क्याऽऽह – अशरीरेति । अविवेकतः सशरीरो भवतीति पूर्वेण सम्बन्धः । यतः सशरीरोऽत एव प्रियाप्रियाभ्यामात्तो वै पुरुष इति योजना । वैशब्दार्थमाह – प्रसिद्धमिति । एतच्छब्दार्थमेवोत्तरवाक्यव्याख्यानेन स्फोरयति – सशरीरस्येति । तौ ममेति मन्यमानस्य सतः स्वस्य तयोः संततिरूपयोरपहतिर्नास्तीति सम्बन्धः । प्रियाप्रिययोः स्वारस्येन विनाशोऽस्ति क्षणिकत्वादित्याशङ्क्य संततिरूपयोरित्युक्तम् । इतिशब्दो वाक्यसमाप्त्यर्थः । अजस्य देहसम्बन्धद्वारा संसारित्वमुक्त्वा तस्यैव विद्यावतो देहनिवृत्तिद्वारेण मुक्तिं दर्शयति – तं पुनरिति । मुक्ते पुंसि प्रियाप्रिययोर्मिलितयोरस्पर्शेऽप्येकैकस्य स्पर्शः स्यादित्याशङ्क्याऽऽह – स्पृशिरिति । प्रत्येकं सम्बन्धमभिनयति – प्रियमिति । समस्ततया श्रुतस्यानेकस्य प्रत्येकं क्रियासम्बन्धे दृष्टान्तमाह – नेति । प्रियाप्रिययोर्मुक्तात्मन्यसंस्पर्शं पातनिकापूर्वकं कैमुतिकन्यायेन दर्शयति – धर्माधर्मेति । तत्रेत्यशरीरताख्यं स्वरूपमुच्यते । प्रियस्पर्शाभावं श्रुत्वा मोक्षस्यापुमर्थत्वं शङ्कते – नन्विति । इहापीति मुक्तो गृह्यते । स्वाभाविकप्रियाप्रतिषेधान्नापुमर्थत्वं मुक्तेरित्युत्तरमाह – नैष दोष इति । प्रतिषेधमेवाभिनयति – अशरीरमिति । कादाचित्कयोरेव प्रियाप्रिययोरेष निषेध इत्यत्र नियामकमाह – आगमापायिनोरिति । कादाचित्के स्पर्शशब्दवन्न स्वात्मन्येतच्छब्दोऽस्तीत्याह – न त्विति । आत्मनि तर्हि कादाचित्कमेव प्रियमिति तन्मात्रप्रतिषेधात्तदवस्थमपुमर्थत्वमित्याशङ्क्याऽऽह – सवितुरिति । भूमविद्यालोचनायामपि सुखमात्रस्याऽऽत्मनि न प्रतिषेधोऽस्तीत्याह – इहापीति । तथाऽपि विषयविषयिभावेन भेदाभावात्तदवस्थमपुरुषार्थत्वमिति शङ्कते – नन्विति । भेदो न पुमर्थत्वोपयोगी केवलव्यतिरेकाभावात्सुखसाक्षात्कारस्तु पुरुषार्थः स चाभेदेऽपि विद्यत इत्याशङ्क्याऽऽह – स्वरूपेणेति । आत्मनि विशेषज्ञानराहित्यमिन्द्रस्य नेष्टमित्यत्र हेतुमाह – नाहेति । किं तर्हीन्द्रस्येष्टमित्याशङ्क्याऽऽह – तद्धीति । येन ज्ञानेनाऽऽप्नोति तदिष्टमिन्द्रस्येति पूर्वेण सम्बन्धः । किमिदं विशेषविज्ञानमिन्द्रस्येष्टमित्युच्यते किं वा हितमिति विवक्ष्यते तत्राऽऽद्यमङ्गीकरोति – सत्यमिति । द्वितीयं दूषयति – न त्विति । द्वितीयाद्वै भयं भवतीत्यादिश्रुतेरित्यर्थः । तथाऽपीष्टमेवेन्द्राय प्रजापतिनोपदेष्टव्यमित्याशङ्क्याऽऽह – हितं चेति । किं तर्हि तस्य हितमिति चेत्तदाह – व्योमवदिति । हितं वक्तव्यमिति सम्बन्धः । हितमेव न त्विष्टमिति स्थिते फलितमाह – तत्रेति । सर्वेषां भूतानां लोकानां कामानां चाऽऽत्मा सच्चिदानन्दमात्रं तद्रूपत्वं चेन्मुक्तस्येष्यते कथं तर्हि तस्यैश्वर्यश्रुतयो निर्वहन्तीति चोदयति – नन्विति । सगुणविद्यावतां यदैश्वर्यं तन्निर्गुणविद्यास्तुत्यर्थं संकीर्त्यते । ब्रह्मीभूतस्य मुक्तस्य सगुणविद्याया अपि प्रत्यग्भूतत्वात्फलस्य तत्रोपचरितुं युक्तत्वादिति परिहरति – नेत्यादिना । सर्वात्मत्वे निन्दाऽपि प्राप्नोतीति शङ्कते – नन्विति । दुःखस्य दुःखत्वाभाववत्तस्याऽऽत्मा विद्वानपि न दुःखी भविष्यतीति समाधत्ते – न , दुःखस्येति । तर्हि दुःखिनामात्मा मुक्त इति दुःखी स्यात्तत्राऽऽह – आत्मनीति । न तावदात्मनः स्वभावतो दुःखित्वं किन्त्वाविद्यकं सा च मुक्तस्य दग्धेति दुःखित्वाप्रसक्तिरित्यर्थः । तर्हि विद्यया दग्धायामविद्यायां तदध्यारोपितमैश्वर्यमपीश्वरस्य सगुणविद्याफलभूतं दग्धमेवेति कथं स्तुत्यर्थमिह तदुपदेशसिद्धिरित्याशङ्क्याऽऽह – शुद्धेति । शुद्धं सत्त्वं रजस्तमोभ्यामस्पृष्टं तस्मान्मायैकदेशाज्जाताः संकल्पा निमित्तानि येषां कामानामैश्वर्यभेदानां ते तथोक्तास्तेषां सर्वेषु विषयेषु मनोमात्रेणेश्वराभिध्यानरूपेण सिद्धानामीश्वराख्येन स्वभावेनाभिसम्बन्धो मायावस्थायां सिद्ध्यतीत्यर्थः । ननु जीवानामेवाविद्यातत्कार्यसम्बन्धा नेश्वरस्येति चेन्नेत्याह – पर एवेति । चतुर्ष्वपि पर्यायेषु त्वमर्थानुवादेन तस्य तदर्थत्वं विधेयमिति स्वाभिप्रायेण प्रजापतिवाक्यं व्याख्यातं सम्प्रति स्वयूथ्यमतमुत्थापयति – य एष इति । प्रथमपर्यायस्य च्छायात्माविषयत्ववद्द्वितीयतृतीयपर्याययोरपि विज्ञानात्मविषयत्वमित्याह – स्वप्नेति । अन्य एव परस्मादुक्त इति सम्बन्धः । चतुर्थपर्यायवत्पर्यायत्रयेऽपिपरमात्मैव कस्मान्नोच्यते तत्राऽऽह – न पर इति । अपहतपाप्मत्त्वादेरवस्थावत्त्वस्य च मिथो विरोधो हेत्वर्थः । नन्वन्तिमे पर्याये परस्योपदेशो युज्यते तज्ज्ञानस्य मुत्तिफलत्वात्किमिति पूर्वेषु पर्यायेषु च्छायादयो निर्दिश्यन्ते तत्फलाभावादत आह – छायाद्यात्मनां चेति । तत्र प्रथमं छायात्मोपदेशस्य प्रयोजनमाह – आदावेवेति । परस्यातिसूक्ष्मत्वेन दुर्विज्ञेयत्वात्तस्मिन्नेवाऽऽदावुच्यमाने सति तस्यापि सूक्ष्मस्य श्रवणेऽपि श्रोतुरनात्मनिष्ठस्य किल व्यामोहः स्यात्स मा भूदिति पृथक्छायात्मोपदेशः कृत इति सम्बन्धः । स्वप्नसुषुप्तयोर्विज्ञानात्मोपदेशस्य प्रयोजनं दर्शयन्नुक्तमर्थं दृष्टान्तेन स्पष्टयति – यथेत्यादिना । इतिशब्दस्तिङा सम्बध्यते । पर्यायान्तरस्य तात्पर्यमाह – चतुर्थे त्विति । मरणधर्मकाद्देहात्पृथग्भूत्वा ज्योतिःस्वरूपमशरीरत्वंप्राप्तो यद्यपि चतुर्थे पर्याये कथ्यते तथाऽपि कथमसौ परमात्मा स्यादित्याशङ्क्याऽऽह – यस्मिन्निति । स सम्प्रसादो यो विद्वान्कर्तृत्वेन विवक्षितः । किमिदं व्याख्यानं शब्दानुसारि किं वाऽर्थानुसारीति विकल्प्याऽद्यमङ्गीकरोति – सत्यमिति । द्वितीयं दूषयति – नत्विति । असम्भवमेवाऽऽकाङ्क्षाद्वारा स्फुटयति – कथमित्यादिना । यद्याद्ये पर्याये छायात्मोपदिश्येत तर्हीन्द्रविरोचनयोः सम्यग्दर्शित्वाद्विपरीतग्रहापोहार्थं प्रजापतेरायासो वृथा स्यात् । तेन नेदं याख्यानमर्थानुसारीत्यर्थः । इतश्च नाऽऽद्ये पर्यायेछायात्मोपदेशोऽस्तीत्याह – किंचेति । प्रजापतिनोपदिष्टस्यापि च्छायात्मनो ग्रहणं न मृष्यतीत्याशङ्क्य हेत्वन्तरं स्पष्टयति – यदीति । तेन च्छायात्मग्रहणापनयकारणावचनेनेति यावत् । तेन प्रजापतिनेत्येकस्तच्छब्दो योज्यः । इतश्च प्रथमे पर्याये द्रष्टुरेवोपदेशोनच्छायापुरुषस्येत्याह – किंचान्यदिति । एतच्छब्देन सन्निहितावलम्बिना छायात्मानमनुकृष्य स्वप्ने द्रष्टुरुपदेशे प्रजापतेर्मृषावादित्वं प्रसज्येत तथा च प्रथमेऽपि पर्याये द्रष्टैवोपदिष्ट इत्यर्थः । स्वप्नावस्थाविशिष्टस्य स्थानान्तरेबाध्यत्वान्न तत्र द्रष्टुरुपदेशोऽस्तीति शङ्कते – स्वप्न इति । अनुभवानुसारेणोत्तरमाह – नेत्यादिना । किंच प्रकाशकारणानामुपरमे यः प्रकाशः स नैसर्गिक इति न्यायेन प्रतीचः स्वयंज्योतिष्ट्वं बृहदारण्यके स्वाप्नावस्थामाश्रित्योक्तं ततश्च तत्र द्रष्टुरुपदेशः सिद्ध्यतीत्याह – न चेति । सूर्यादीनामुपरमे यः प्रकाशो दृश्यमानः स नैसर्गिक इत्ययुक्तं स्वप्नेऽप्यन्तःकरणस्य सत्त्वादित्याशङ्क्यऽऽह – यद्यपीति । करणत्वाभावे हेतुं पृच्छति – किं तर्हीति । नीलपीतादिजाग्रद्वासनाभिर्विवर्तमाना साक्षिणो वेद्यतामापद्यते । तथा च पटचित्रवद्विचित्रवासनामयचेतसः साक्षिगम्यत्वान्न स्वनोपलब्धौ करणं भवतीति तद्द्रष्टुः स्वयंज्योतिष्ट्वं न्यायसिद्धमित्याह – पटेति । प्रासङ्गिकं हित्वा द्रष्टैवोपदिष्टः स्वप्नावस्थायामित्यत्र हेत्वन्तरमाह – किञ्चेति । तथा च जाग्रदवस्थायामिव स्वप्नेऽपि द्रष्टैवोपदिष्ट इति शेषः । इतश्च द्रष्टुरेवोपदेशः स्वप्नदशायामित्याह – प्राप्ताविति । न केवलमुक्तसौषुप्तो निषेधो निषेध्यप्राप्तिसापेक्षत्वादवस्थाद्वये द्रष्टुरुपदेशमाकाङ्क्षति किं तु तुरीयगतो निषेधोऽपि निषेध्यमाकाङ्क्षन्नवस्थाद्वये द्रष्टुरुपदेशमाकाङ्क्षतीत्याह – तथेति । निषेधस्य प्राप्तिसापेक्षत्वात्प्रकृतस्यैव द्रष्टुरविद्यानिदाने सशरीरत्वे तन्निमित्तयोः स्थानद्वयगतयोर्न प्रियाप्रिययोरपहतिरस्तीति न ह वै सशरीरस्येत्यादिनोक्तं सशरीरत्वे प्राप्तयोः प्रियाप्रिययोस्तस्यैवावस्थात्रयातीतस्य सत्यां विद्यायामशरीरमित्यादिना प्रतिषेधो युक्त इति योजना । स्वप्ने द्रष्टुरुपदेशे हेत्वन्तरमाह – एकश्चेति । चतुर्थपर्यायस्यसौषुप्तादर्थान्तरविषयत्वमुक्तमनुभाष्य दूषयति – यच्चोक्तमित्यादिना । तदेव व्यतिरेकद्वारा स्फोरयति – यदीति । अधिकरणाधेयभावेन भेदः सत्यो नास्तीत्यत्र हेत्वन्तरमाह – किंचान्यदिति । जीवपरयोर्भेदस्य षष्ठप्रपाठकविरोधवत्सप्तमप्रपाठकविरोधोऽपि स्यादित्याह – तथेति । बृहदारण्यकश्रुत्यालोचनायामपि जीवेश्वरभेदो न सम्भवतीत्याह – नान्य इति । इतश्च जीवपरयोरभेदो नास्तीत्याह – सर्वश्रुतिष्विति । श्रौतमर्थमुपसम्हरति – तस्मादिति । आत्मैक्ये परस्यैव संसारित्वं सर्वदेहेषु स्यादिति चेन्नेत्याह – न चेति । आरोपितसंसारित्वं वस्तुतो नाऽऽत्मन्यस्तीत्येतद्दृष्टान्तेन स्पष्टयति – न हीति । मिथ्या च तदज्ञानं चेति मिथ्याज्ञानं तेनाध्यस्तान्यविद्यमानान्येव विद्यमानवत्प्रतीतिमापादितानीति यावत् । न ह वै सशरीरस्येत्यादि वदता वास्तवत्वं शरीरसम्बन्धस्य विवक्षितमिति शङ्कामुक्तन्यायातिदेशेन निरस्यति – एतेनेति । आत्मनि संसारस्य प्रसक्तिर्नेति यावत् । यावदध्यासभावित्वं प्रियाप्रिययोरपहत्यभावो न वास्तवत्वं शरीरसम्बन्धस्यैव प्रियाप्रियमूलस्य दुर्निरूपत्वादित्यर्थः । स्वप्नद्रष्टा खल्वप्रियवेत्तेव भवति नत्वप्रियवेत्तैवेति यत्पूर्वत्र स्थितं तत्सिद्धम् । लाभान्तरमाह – एवं चेति । प्रजापतेर्वचनं सत्यं भवेदिति सम्बन्धः । अपौरुषेय्यां श्रुतौ कुतः प्रजापतेर्वचनं सावकाशमित्याशङ्क्याऽऽह – यदिवेति । सुखादयः साश्रया गुणत्वाद्रूपादिवदित्यनुमानात्तदाश्रयः परिशेषादात्मा भविष्यतीति वैशेषिकादितर्कविरोधादसत्यं श्रुतेर्वचनमित्याशङ्क्याऽऽह – न चेति । सुखादीनामुपाधिधर्मत्वेन सिद्धसाध्यत्वान्नास्ति श्रौतवचसो बाधकमित्यर्थः । प्रत्यक्षमिति शङ्कते – नन्विति । तस्याऽऽभासत्वान्न बाधकत्वमिति परिहरति – नेत्यादिना । दृष्टान्तोऽपि सम्प्रतिपन्नो न भवतीति शङ्कते – सर्वमिति । जरादेः सत्यवचनं त्वदीयमेवमस्त्येवेत्यङ्गीकरोति – अस्त्येवेति । अङ्गीकारे हेतुमाह – दुरवगममिति । अधिकारिणः प्रमितिजनको वेद इति न्यायात्तादृशानामनधिकारिणां दुर्ज्ञानमात्मतत्त्वम् । अतोऽस्त्येव जरादिसत्यत्ववचनं न तावता वस्तुक्षतिरित्यर्थः । दुरवगमत्वे लिङ्गमाह – येनेति । अत्रेत्यात्मतत्वोक्तिः । तस्य दुर्ज्ञानत्वे लिङ्गान्तरमाह – तथेति । वैनाशिकभ्रान्तिरप्यात्मनो दुर्ज्ञानत्वं गमयतीत्याह – तथेन्द्रस्येति । साङ्ख्यभ्रान्तिरपि दुर्ज्ञानत्वमात्मनो ज्ञापयतीत्याह – तथा साङ्ख्या इति । तार्किकभ्रान्तिरपि तस्य दुर्ग्रहत्वे गमिकेत्याह – तथाऽन्य इति । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावना न वाऽऽत्मगुणाः । मीमांसकभ्रान्तिस्तस्य दुर्ग्रहत्वे गमिकेत्याह – तथाऽन्य इति । यदा परीक्षकाणामपीदृशी भ्रान्तिरात्मनो दुरवगमत्वं गमयति तदा विचारविधुराणां लौकिकानां भ्रान्तिस्तत्रप्रमाणयितव्येत्याह – किमन्य इति । अन्ये बम्भ्रमतीति किं वक्तव्यमिति सम्बन्धः । यदि लौकिकानां परीक्षकाणां चेदमात्मतत्त्वं दुर्ज्ञानं प्रतिज्ञायते केषां तर्हीदं सुज्ञानमित्याशङ्क्याऽऽह – तस्मादिति । एषणास्विवाऽऽत्मतत्त्वेऽपि तेषामौदासीन्यं वारयति – अनन्यशरणैरिति । तेषां कुटीचकादिभावं व्यासेधति – परमहंसेति । कर्मनिष्ठानामाश्रमानतीत्य नैष्कर्म्यप्राधान्येन वर्तमानत्वं दर्शयति – अत्याश्रमिभिरिति । अनन्यशरणैरित्युक्तं व्यनक्ति – वेदान्तेति । पूज्यतमैरिति नित्यानुवादः । तेषामात्मवेदनोपायं प्राक्तनमुपदिशति – प्राजापत्यं चेति । स्थानत्रयं तुरीयं चेत्येतद्विषयं प्रकरणचतुष्टयम् । यथोक्ताधिकारिणामेवाऽऽत्मवेदनमित्य त्रलिङ्गान्तरमाह – तथेति ।
अशरीरमित्यादिवाक्यव्याख्यानोपसंहारार्थमितिपदम् ॥१॥ 【भाष्यम्】 【भाष्यम्】 सशरीरस्य बन्धो मुक्तिरशरीरस्येति स्थिते किमर्थमशरीरो वायुरित्यादिवाक्यमित्याशङ्क्याऽऽह – तत्रेत्यादिना । कथं वायोरशरीरत्वं तदाह – अविद्यमानमिति । एवं सति वाय्वादीनामशरीरत्वे सतीतियावत् । आकाशस्य सर्वत्रैकरूपत्वादमुष्मादिति कुतो व्यपदेशसिद्धिरित्याशङ्क्याऽऽह – अमुष्मादितीति । यथोक्तान्यशरीराणि वाय्वादीनि तेषामाकाशत्वापत्तौ दृष्टान्तमाह – यथेति । तथा वाय्वादीनि स्वेनरूपेणागृह्यमाणत्वदशायामाकाशाख्यतां गतानीति सम्बन्धः । तानि च वाय्वादीनि तथाभूतान्याकाशात्मत्वं प्राप्तानीत्येतत् । वर्षादिफलनिष्पत्त्यर्थं वाय्वादीनामाकाशदेशात्समुत्थानमुक्तमाकाङ्क्षाद्वारेण स्फुटयति – कथमित्यादिना । स्वेन स्वेन रूपेणाभिनिष्पद्यन्त इति सम्बन्धः । तत्रवायोरभ्रस्य विद्युतः स्तनयित्नोश्च स्वेन रूपेणाभिनिष्पत्तिप्रकारं विवृणोति – पुरोवातादीति ।
स्तिमितभावं हित्वा वायुरितिशेषः ॥२॥ 【भाष्यम्】 【भाष्यम्】 दृष्टान्तमनूद्य दार्ष्टान्तिकमाह – यथेति । वाय्वादीनामित्यस्य पुरस्तात्तथेत्यध्याहर्तव्यम् । तत्राऽऽदिशब्देनाभ्रविद्युत्स्तनयित्वनो गृह्यन्ते । आकाशादीत्यादिपदमभ्रादिकारणसंग्रहार्थम् । शरीरसाम्यमेव विशिनष्टि – अहमिति । प्रतिबोधनेदृष्टान्तमाह – प्रजापतिनेति । यथोक्तेन क्रमेण पर्यायचतुष्टयोपदिष्टप्रकारेणेति यावत् । मघवान्प्रतिबोधित इति सम्बन्धः । दार्ष्टन्तिके प्रतिबोधनप्रकारं दर्शयति – नासीति । शरीराद्विदुषः समुत्थाने दृष्टान्तमाह – आकाशादिवेति । समुत्थानं विभजते – देहादीति । पुनरुक्तिं परिहरति – इति व्याख्यातमिति । उत्तरवाक्यस्थं सशब्दं व्याचष्टे – स येनेति । स उत्तमपुरुष इति सम्बन्धः । सम्प्रसादस्य स्वेन रूपेणाभिनिष्पत्तिं दृष्टान्तेन स्पष्टयति – प्रागित्यादिना । उक्तदृष्टान्तानुसारेणाविद्यादशायां शरीरात्मत्वमापन्नो जीवो विद्यया प्रकाशितब्रह्मसतत्त्वः स्वेन रूपेणाभिनिष्पन्नो भवतीति दार्ष्टान्तिकमाह – एवं चेति । पुरुषस्योत्तमविशेषणं पुरुषान्तरव्यवच्छेदार्थमित्यभिप्रेत्य पुरुषभेदं दर्शयति – अक्षीति । इति चत्वारः पुरुषा इतिशेषः । तत्र पूर्वेषां त्रयाणां व्यवच्छेद्यत्वं तुरीयस्य तूत्तमपुरुषत्वमित्याह – एषामिति । यथोक्तोत्तमपुरुषे भगवत्सम्मतिं सङ्गिरते – कृतेति । “द्वाविमौ पुरुषौ लोके क्षरमक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥” (भ. गी. १५ । १६-१८) इति हि स भगवानूचिवान् । स तत्रेत्यादि व्याचष्टे – स संप्रसाद इति । क्वचिदिति स्वर्गलोकोक्तिः । क्वचिन्मनोमात्रैरित्यत्र क्वचिदिति ब्रह्मलोको गृह्यते । नोपजनमिति प्रतीकं गृहीत्वा व्याकरोति – स्त्रीपुंसयोरिति । तन्न स्मरन्पर्येतीति सम्बन्धः । यथोक्तदेहस्मृतौ काऽनुपपत्तिरित्याशङ्क्याऽऽह – तत्स्मरणे हीति । विदुषो मुक्तस्यानुभूतदेहास्मरणे दूषणमाशङ्कते – नन्विति । असर्वज्ञत्वदोषं निराकरोति – नैष दोष इति । अनुभूतार्थस्मृतौ हि सर्वज्ञ इति । न च शरीराद्यनुभूतं तस्याविद्याकामकर्ममूलस्याज्ञानमात्रत्वात्तस्य च सकार्यस्य ज्ञानोदयमात्रेण नष्टत्वात्प्रागपि शरीरादेरनुभवविपरीतवर्तित्वानुपपत्तेरित्यर्थः । शरीरादि पूर्वं सम्यग्ज्ञानेनाविषयीकृतमपि सद्भ्रान्त्याऽनूभूतमेवेति विदुषामपि स्मर्तव्यमिति चेन्नेत्याह – न हीति । मुक्ते पुरुषे शरीरादयो न सम्बध्यन्ते चेत्कथं तर्हि तत्र कामाः सम्बध्येरन्नित्याशङ्क्याऽऽह – ये त्विति । किमिति सर्वैरेते कामा नानुभूयेरन्नित्याशङ्क्याऽऽह – अनृतापिधाना इति । इतश्च विदुषामेव तदभिव्यक्तिरित्याह – विद्येति । किमिति निर्गुणविद्याप्रकरणे विदुषि सत्यकामसम्बन्धवचनं तत्राऽऽह – इत्यात्मज्ञानेति । आत्मविद्यास्तुत्यर्थं विदुषि कामसम्बन्धवचनम् । मनसैतान्कामान्पश्यन्नित्यत्र विशेषश्रवणमपि युक्तमित्याह – अत इति । इन्द्रियादिषु भवतां कामानां कुतो ब्रह्मलोकभावित्वमित्याशङ्क्याऽऽह – यत्रेति । मनसैतान्कामानित्यादिवाक्यं स्तुत्यर्थमपि प्रधानवाक्यविरुद्धत्वात्त्याज्यमिति शङ्कते – नन्विति । वाक्ययोर्मिथो विरोधे दृष्टान्तमाह – यथेति । “यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्नतु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्” (बृ.उ. ४ । ३ । २३) इति बृहदारण्यकश्रुतिमाश्रित्य विरोधं धुनीते – नैष दोष इति । अथ यथोक्तं वाक्यं सुषुप्तमधिकृत्य प्रवृत्तं कथं मुक्तविषयतयोदाहृतमत आह – यद्यपीति । सुप्तस्य मोक्षदृष्टान्तत्वात्तद्गतस्य च दार्ष्टान्तिकेऽनुगमाद्यदुक्तं सुषुप्ते तत्सम्बन्धो मुक्ते सिद्ध्यतीत्यर्थः । किं च मुक्तमेवाधिकृत्य “यत्र त्वस्य सर्वमात्मैवाभूत्” (बृ.उ. ४ । ५ । १५) इत्यादि तत्रैवोक्तमित्याह – केनेति । फलार्थवादस्याक्षिवाक्यस्य च मिथो विरोधं शङ्कते – अशरीरेति । दृश्यत इत्यस्य पदस्य चाक्षुषदर्शने रूढत्वादशरीरस्य तदयोग्यत्वादशरीरात्मोक्तिर्दृश्यत इति श्रुतिविरुद्धेत्यर्थः । आत्मत्वामृतत्वादिब्रह्मविषयानेकश्रुतिलिङ्गविरोधाद्दृश्यत इत्येकस्याःश्रुतेर्ज्ञानमात्रविषयनिरोधोऽस्तीत्यभिप्रेत्यानन्तरवाक्यमुत्थापयति – तत्रेति । चाक्षुषदर्शनाविषयत्वे सति चक्षुषो दर्शने को हेतुरित्यपेक्षायां लिङ्गहेतुकं तावद्दर्शनं सम्भवतीति मत्वा दृष्टान्तमाह श्रुतिः । स दृष्टान्तो यथा भवति तथोच्यत इत्याह – तत्रेति । तमेव दृष्टान्तमनूद्य व्याचष्टे – यथेत्यादिना । अध्याहारराहित्यसिद्ध्यर्थं पक्षान्तरमाह – प्रयोग्येति । एवमित्यनेन द्वितीयो यथाशब्दः सम्बध्यते । शरीरस्य रथस्थानीयत्वं शरीरं रथमेव त्विति श्रुत्यन्तरान्मन्तव्यम् । अस्मिन्युक्तः स रथस्थानीय ईश्वरेण स्वकर्मफलोपभोगनिमित्तं प्राणो रथित्वेन नियुक्त इति सम्बन्धः । घ्राणप्राणं व्यावर्तयति – पञ्चवृत्तिरिति । “बुद्धिं तु सारथिं विद्धि मनःप्रग्रहमेव च । इन्द्रियाणि हयानाहुः” (क.उ. १ । ३ । ३) इति श्रुत्यन्तरमाश्रित्याऽऽह – इन्द्रियेति । आत्मानं रथिनं विद्धीतिश्रुतिविरुद्धं प्राणस्य रथित्वमित्याशङ्क्य तस्योपाधिर्यस्तदभेदाङ्गीकारात्मैवमित्याह – प्रज्ञात्मेति । तस्याध्यात्मसन्तानशरीरद्वयविशिष्टत्वेन स्फुरितं स्वरूपं दर्शयति – विज्ञानेति । ईश्वरस्य यथोक्तप्राणोपाधिद्वारा भोक्तृत्वादिसंसारित्वमित्यत्र श्रुत्यन्तरं प्रमाणयति – कस्मिन्निति । प्रतिष्ठास्यामीतीक्षित्वा स प्राणमसृजतेत्यादिश्रुतिरिति शेषः । तथा च यथा राज्ञा सर्वाधिकारित्वेन सेनाध्यक्षः सन्धिविग्रहादौ नियुज्यते तथेश्वरेण सर्वचेष्टान्तराधिकृतः स्वकीयदर्शनादिव्यापारनिमित्तं नियुक्तो भवतीत्याह – राज्ञेति । प्राणः स्वविलक्षणेन चेतनेन नियुज्यते प्रयोज्यत्वादश्वादिवदित्यनुमानाद्देहसंहतात्प्राणादतिरिक्तोऽसंहतश्चेतनः सिद्ध्यतीति समुदायार्थः । चक्षुरादिचेष्टा चेतननिमित्ता चेष्टात्वाद्रथादिचेष्टावदित्यनुमानान्तरं सूचयति – तस्यैवेति ।
प्रकृतप्राणविषयस्तच्छब्दः । मात्रेत्येतस्य व्याख्यानमेकदेश इति । प्राणसंवादे चक्षुरादीनां प्राणपारतन्त्र्यप्रतीतेस्तदेकदेशत्वं तेषामिति द्रष्टव्यम् ॥३॥ 【भाष्यम्】 【भाष्यम्】 शरीराद्व्यतिरिक्तमात्मानं सम्भाव्य तस्यौपाधिकं द्रष्टृत्वमाचष्टे – अथेति । अतिरिक्तात्मसम्भावनानन्तर्यमथशब्दार्थः । यत्र तत्रेतिसप्तमीभ्यां संसारदशोच्यते । अनुगतं चक्षुरिति सम्बन्धः । दर्शनाय चक्षुरित्यस्यार्थं समर्थयते – यस्येति । यस्य परस्य द्रष्टुरर्थे करणं चक्षुरिष्टं स परश्चक्षुषि लिङ्गेन दृश्यत इति सम्बन्धः । पारार्थ्ये चक्षुषो हेतुमाह – देहादिभिरिति । यत्संहतं तत्स्वविलक्षणशेषं दृष्टं यथा शयनासनादि तथा तदपि चक्षुर्देहादिभिः संहतत्वाद्यस्य विलक्षणस्य शेषभूतं सोऽत्र दर्शनेन लिङ्गेन दृश्यते । विमतं साश्रयं धर्मत्वाद्रूपादिवदित्यनुमानादित्यर्थः । दृश्यत इत्यस्याविरुद्धार्थमुक्त्वाऽक्षिणीत्यस्य विवक्षितमर्थमाह – अक्षिणिति । यथाऽक्षिद्वारा रूपोपलब्धा परस्तथा तत्तदिन्द्रियद्वारा तत्तद्विषयोपलब्धा पर एवेति कृत्वा युक्तमिदमुपलक्षणमिति साधयति – सर्वविषयेति । सर्वेन्द्रियैरुपलब्धृत्वमविशिष्टं चेत्कथं तर्हि सर्वास्वपि श्रुतिषु चक्षुष्येवात्मोपदिश्यते तत्राऽऽह – स्फुटेति । चक्षुषः स्फुटोपलब्धौ हेतुत्वे श्रुतिं सम्वादयति – अहमिति । यत्रादर्शमिति चाक्षुषः प्रत्ययस्तद्वस्तु सत्यं स्फुटोपलम्भादिति द्वयोर्विवदमानयोर्दृष्टमित्यर्थः । य एषोऽक्षिणीत्यत्र सर्वेन्द्रियद्वारोपलब्धा विवक्षित इत्युक्तं व्यक्तीकरोति – अथापीति । चक्षुषि स्फुटोपलम्भेऽपीति यावत् । योऽस्मिन्देहे येन केनापीन्द्रियेण यं कंचिद्विषयं वेद स आत्मेति सम्बन्धः । उक्तमेवार्थमाकाङ्क्षाद्वारा स्फोरयति – कथमित्यादिना । जिघ्राणीति यो वेदेत्युक्तमेव संक्षिपति –
अस्येति ॥४॥ 【भाष्यम्】 【भाष्यम्】 इन्द्रियैर्घ्राणादिभिरसंस्पृष्टं तत्तद्द्वारेणानिष्पन्नमिति यावत् । केवलं मनोमात्रजनितमित्येतन्मन्वानि संपादयानीत्यर्थः । यो वेदेत्यत्र प्रत्ययार्थभूतं कर्तृत्वं सापेक्षत्वान्मिथ्या प्रकृत्यर्थं रूपं तु संविन्मात्रमनपेक्षतया सत्यमात्मस्वरूपमित्याह – यो वेदेति । आत्मा संवेदनस्वभावश्चेत्तत्संसर्गादेव विषयसिद्धिसम्भवाच्चक्षुरादिवैयर्थ्यं स्यादित्याशङ्क्याऽऽह – दर्शनादीति । अन्तःकरणवृत्तिर्दर्शनादिक्रिया । सा चाऽऽत्मनः संविदेकरसस्यासङ्गोदासीनस्य विषयसंसर्गभ्रमहेतुस्तन्निष्पत्त्यर्थानि चक्षुरादीनि भवन्ति सार्थकानीत्यर्थः । तेषामुक्तरीत्या सार्थकत्वे गमकमाह – इदं चेति । करणानामुक्तं सार्थकत्वं प्रकृतस्य संविन्मात्रस्यासङ्गत्वादेव स्वतो विषयसम्बन्धानुपपत्त्या तत्सम्बन्धभ्रान्तिकारणान्तःकरणवृत्तिविशेषापेक्षया निर्धारितमित्यर्थः । आत्मनः संविन्मात्रस्वभावत्वे कथं कर्तृत्वव्यपदेश इत्याशङ्क्याऽऽह – आत्मन इति । य एषोऽक्षिणीत्यादि वाक्यं प्रपञ्चितं सम्प्रति स तत्रेत्यादि फलवाक्यं प्रपञ्चयितुमिन्द्रियान्तरेभ्यो मनसो वैलक्षण्यं दर्शयति – मनोऽप्त्येति । तस्य चक्षुष्ट्वेऽपि कुतो दैवत्वमित्याशङ्क्याऽऽह – वर्तमानेति ।
आगन्तुकदोषराहित्यं मृदितदोषत्वम् । सर्वेश्वरो व्यज्यते यस्मिन्विशुद्धे मनसि तन्मनः सर्वेश्वरं तदुपाधिरस्येति तथोक्तः । ईश्वरेण तदभिव्यञ्जकेनेत्येतत् । अविद्यादिप्रतिबन्धकस्याभावान्मनसा नित्यं प्रततं दर्शनं नित्याभिव्यक्तस्वरूपं चैतन्यं तेन पश्यन्निति योजना ॥५॥ 【भाष्यम्】 【भाष्यम्】 तं वा एतमित्यादि व्याचष्टे – यस्मादिति । पदार्थमुक्त्वा वाक्यार्थमाह – यदर्थं हीति । स सर्वांश्चेत्यादिवाक्यमाशङ्कोत्तरत्वेनोत्थाप्य व्याचष्टे – तद्युक्तमित्यादिना ।
यथोक्तं फलं तच्छब्दार्थः । प्रकरणं निर्विशेषब्रह्मात्मैकत्वज्ञानविषयम् ॥६॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य द्वादशः खण्डः ॥ दहरविद्याप्रकरणे निर्विशेषं ब्रह्म उपास्यस्तुत्यर्थं प्रसङ्गादुक्तं तत्प्रकरणपरिसमाप्त्यर्थं प्रकृताया दहरविद्यायाः शेषभूतजपविधानार्थमारभते – श्यामादिति । अत्यन्तदुरवगाह्यत्वाद्ध्यानहीनानामिति शेषः । कथं जीवतो ब्रह्मलोकप्राप्तिरित्याशङ्क्याऽऽह – मनसेति । न तर्हि मुख्या तत्प्राप्तिरित्याशङ्क्याऽऽह – शरीरेति । विपरीतपाठं हेतुत्वेनेति व्याचष्टे – यस्मादिति । हेतुः प्रतिज्ञया योज्यते – अत इति । दृष्टान्तमाकाङ्क्षापूर्वकमवतार्य व्याचष्टे – कथमित्यादिना । शरीरस्य त्याज्यत्वे हेतुमाह – सर्वानर्थेति ।
इतिशब्दो ध्यानसमाप्त्यर्थो दहरोऽस्मिन्नन्तराकाश इति ॥१॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य त्रयोदशः खण्डः ॥ लक्षणनिर्देशस्य प्रकृतोपयोगं दर्शयति – आध्यानायेति । “सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्ति । आकाशा ह्येवेभ्यो ज्यायान्” (छा. उ. १ । ९ । १) इत्याद्याः श्रुतयः । आकाशशब्देनाऽऽत्मनः श्रुतिषु प्रसिद्धत्वे हेतुमाह – आकाश इवेति । ते यदन्तरेत्यत्र ते इति पदं प्रथमाद्विवचनान्तं गृहीत्वा व्याख्याय द्वितीयाद्विवचनान्तं षष्ठ्यर्थमादाय व्याचष्टे – तयोर्वेति । यदन्तरेति समस्तं पदं पूर्वत्र व्याख्यातमधुना तु व्यस्तं व्याकृतं तदेव व्याकरणं संक्षिपति – नामरूपाभ्यामिति । ताभ्यामस्पृष्टं चेत्कथं तन्निर्वाहकमित्याशङ्क्याऽऽह – नामरूपाभ्यामस्पृष्टमिति । मायावशादिति शेषः । आत्मत्वेऽपि कथं करतलामलकवद्ब्रह्मणोऽपरोक्षत्वमत आह – आत्मा हीति । तेन स्वसंवेद्यत्वेनेति यावत् । कुतो देहद्वयोपहितस्याऽऽत्मनः स्वसंवेद्यत्व तत्राऽऽह – अशरीर इति । परिच्छिन्नस्याशरीरत्वमयुक्तमित्याशङ्क्याऽऽह – व्योमवदिति । ब्रह्मैव प्रत्यक्षभूतमिति कथमवगतमित्याशङ्क्याऽऽह – आत्मेति । अनात्मत्वं चेदब्रह्मत्वप्रसङ्गात्प्रत्यग्भूतं ब्रह्म वक्तव्यमित्यर्थः । उपास्यस्वरूपं दर्शयित्वा तदुपासकस्य प्रार्थनामन्त्रमुत्थाप्य व्याकरोति – अत ऊर्ध्वमिति । प्रथमतो ब्राह्मणग्रहणे हेतुमाह – ब्राह्मणा एवेति । विशेष्यं निर्दिशति – स्त्रीव्यञ्जनमिति । योनिशब्दितं प्रजननेन्द्रियमित्यर्थः । कथं तद्भक्षयितृ भवेत्तदाह – तत्सेविनामिति ।
तदभिगमनं नाम गर्भवासस्तस्यातिशयेनानर्थहेतुत्वं ज्ञापयितुं द्विर्वचनमित्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य चतुर्दशः खण्डः॥ उक्तविज्ञानस्यौत्प्रेक्षिकत्वशङ्कां व्युदस्यन्ननादिपारम्पर्यागतत्वं दर्शयति – तद्धैतदिति । सोपकरणमुपकरणैः शमादिभिः सहितमिति यावत् । तद्द्वारेण हिरण्यगर्भद्वारेणेत्यर्थः । विद्याप्रकरणं समाप्याविद्वदनुष्ठितस्य कर्मणः साफल्यमविद्वत्संतोषार्थं कथयति – यथेत्यादिना । इहेति प्रकृतोपनिषदुक्तिः । प्राङ्मुखत्वपवित्रपाणित्वादयो नियमाः । भिक्षाशनस्नानाचमनादिर्विधिः । किमित्येष नियमोऽध्ययने कथ्यते तत्राऽऽह – एवं हीति । तत्रापीति सप्तम्या यथोक्तोऽधिकारी गृहीतः । एतत्सर्वं स्वयं कुर्वन्ब्रह्मलोकमभिसम्पद्यत इति सम्बन्धः । एवं वर्तयन्नित्यस्य व्याख्यानमेवं यथोक्तेन प्रकारेण कुर्वन्निति । अप्राप्तप्रतिषेधाशङ्कां वारयति – पुनरावृत्तेरिति । चन्द्रलोकादिवद्ब्रह्मलोकादपि प्राप्ता पुनरावृत्तिस्तस्या न चेत्यादिना प्रतिषेधान्नाप्राप्तप्रतिषेधप्रसक्तिरित्यर्थः । अपुनरावृत्तिवाक्यस्थान्यक्षराणि व्याकरोति – अर्चिरादिनेति ।
प्रागिति महाप्रलयात्पूर्वकालोक्तिः । ततो ब्रह्मलोकादित्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य पञ्चदशः खण्डः ॥
वियदादिजगज्जातं जातमज्ञानतो यतः । तदस्मि नामरूपादिविरहि ब्रह्म निर्भयम् ॥१॥ 【भाष्यम्】 【भाष्यम्】
नमस्त्र्यय्यन्तसंदोहसरसीरुहभानवे । गुरवे परपक्षौघध्वान्तध्वंसपटीयसे ॥२॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां श्रीशङ्करभगवत्प्रणीतच्छान्दोग्यभाष्यटीकायामष्टमोऽध्यायः समाप्तः ॥ प्रथमोऽध्यायः प्रथमः खण्डः द्वितीयः खण्डः तृतीयः खण्डः चतुर्थः खण्डः पञ्चमः खण्डः षष्ठः खण्डः सप्तमः खण्डः अष्टमः खण्डः नवमः खण्डः दशमः खण्डः एकादशः खण्डः द्वादशः खण्डः त्रयोदशः खण्डः द्वितीयोऽध्यायः प्रथमः खण्डः द्वितीयः खण्डः तृतीयः खण्डः चतुर्थः खण्डः पञ्चमः खण्डः षष्ठः खण्डः सप्तमः खण्डः अष्टमः खण्डः नवमः खण्डः दशमः खण्डः एकादशः खण्डः द्वादशः खण्डः त्रयोदशः खण्डः चतुर्दशः खण्डः पञ्चदशः खण्डः षोडशः खण्डः सप्तदशः खण्डः अष्टादशः खण्डः एकोनविंशः खण्डः विंशः खण्डः एकविंशः खण्डः द्वाविंशः खण्डः त्रयोविंशः खण्डः चतुर्विंशः खण्डः तृतीयोऽध्यायः प्रथमः खण्डः द्वितीयः खण्डः तृतीयः खण्डः चतुर्थः खण्डः पञ्चमः खण्डः षष्ठः खण्डः सप्तमः खण्डः अष्टमः खण्डः नवमः खण्डः दशमः खण्डः एकादशः खण्डः द्वादशः खण्डः त्रयोदशः खण्डः चतुर्दशः खण्डः पञ्चदशः खण्डः षोडशः खण्डः सप्तदशः खण्डः अष्टादशः खण्डः एकोनविंशः खण्डः चतुर्थोऽध्यायः प्रथमः खण्डः द्वितीयः खण्डः तृतीयः खण्डः चतुर्थः खण्डः पञ्चमः खण्डः षष्ठः खण्डः सप्तमः खण्डः अष्टमः खण्डः नवमः खण्डः दशमः खण्डः एकादशः खण्डः द्वादशः खण्डः त्रयोदशः खण्डः चतुर्दशः खण्डः पञ्चदशः खण्डः षोडशः खण्डः सप्तदशः खण्डः पञ्चमोऽध्यायः प्रथमः खण्डः द्वितीयः खण्डः तृतीयः खण्डः चतुर्थः खण्डः पञ्चमः खण्डः षष्ठः खण्डः सप्तमः खण्डः अष्टमः खण्डः नवमः खण्डः दशमः खण्डः एकादशः खण्डः द्वादशः खण्डः त्रयोदशः खण्डः चतुर्दशः खण्डः पञ्चदशः खण्डः षोडशः खण्डः सप्तदशः खण्डः अष्टादशः खण्डः एकोनविंशः खण्डः विंशः खण्डः एकविंशः खण्डः द्वाविंशः खण्डः त्रयोविंशः खण्डः चतुर्विंशः खण्डः षष्ठोऽध्यायः प्रथमः खण्डः द्वितीयः खण्डः तृतीयः खण्डः चतुर्थः खण्डः पञ्चमः खण्डः षष्ठः खण्डः सप्तमः खण्डः अष्टमः खण्डः नवमः खण्डः दशमः खण्डः एकादशः खण्डः द्वादशः खण्डः त्रयोदशः खण्डः चतुर्दशः खण्डः पञ्चदशः खण्डः षोडशः खण्डः सप्तमोऽध्यायः प्रथमः खण्डः द्वितीयः खण्डः तृतीयः खण्डः चतुर्थः खण्डः पञ्चमः खण्डः षष्ठः खण्डः सप्तमः खण्डः अष्टमः खण्डः नवमः खण्डः दशमः खण्डः एकादशः खण्डः द्वादशः खण्डः त्रयोदशः खण्डः चतुर्दशः खण्डः पञ्चदशः खण्डः षोडशः खण्डः सप्तदशः खण्डः अष्टादशः खण्डः एकोनविंशः खण्डः विंशः खण्डः एकविंशः खण्डः द्वाविंशः खण्डः त्रयोविंशः खण्डः चतुर्विंशः खण्डः पञ्चविंशः खण्डः षड्विंशः खण्डः अष्टमोऽध्यायः प्रथमः खण्डः द्वितीयः खण्डः तृतीयः खण्डः चतुर्थः खण्डः पञ्चमः खण्डः षष्ठः खण्डः सप्तमः खण्डः अष्टमः खण्डः नवमः खण्डः दशमः खण्डः एकादशः खण्डः द्वादशः खण्डः त्रयोदशः खण्डः चतुर्दशः खण्डः पञ्चदशः खण्डः
Usando este texto em trabalho acadêmico? Obter citação formal
ĀNANDAGIRI. Ānandagiri Ṭīkā — Chāndogya. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/anandagiri-tika-chandogya>. Acesso em: 26/04/2026.
Ānandagiri (2026). Ānandagiri Ṭīkā — Chāndogya. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/anandagiri-tika-chandogya
Ānandagiri. "Ānandagiri Ṭīkā — Chāndogya." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/anandagiri-tika-chandogya.