Atharvaveda Paippalāda — Kāṇḍa 1
Tradição Védica (Ṛṣis)
काण्ड १ शं नो देवीर् अभिष्टय आपो भवन्तु पीतये । शं योर् अभि स्रवन्तु नः
आपः पृणीत भेषजं वरूथं तन्वे मम । ज्योक् च सूर्यं दृशे
अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा । अग्निं च विश्वशंभुवम्
ईशाना वार्याणां क्षयन्तीश् चर्षणीनाम् । अपो याचामि भेषजम्
अम्बयो यन्त्य् अध्वभिर् जामयो अध्वरीयताम् । पृञ्चतीर् मधुना पयः
अमूर् या उप सूर्ये याभिर् वा सूर्यः सह । ता नो हिन्वन्त्व् अध्वरम्
अपो देवीर् उप ब्रुवे यत्र गावः पिबन्ति नः । सिन्धुभ्यः कर्त्वं हविः
अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् । अपाम् उत प्रशस्तिष्व् अश्वा भवथ वाजिनः
विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम् । विद्मो ह्य् अस्य मातरं पृथिवीं विश्वधायसम्
ज्यायके परि णो नम- -अश्मा भवतु नस् तनूः । विरुड्विहि वरीयो ऽरातीर् अप द्वेषांस्य् आ कृधि
वृक्षं यद् गावः परिषस्वजाना अनस्फुरं शरम् अर्चन्त्य् ऋभुम् । शरम् अस्मद् यावय दिद्युम् इन्द्र शं नो भवन्त्व् अप ओषधीर् इमाः
इन्द्रस्य वज्रो अप हन्तु रक्षस आराद् विसृष्टा इषवः पतन्त्व् अस्मत्
विद्म ते शर पितरं पर्जन्यं भूरिरेतसम् । तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति
इन्द्रेण वरुणेन चन्द्रेण सूर्येण च
यद् आन्त्रेषु गवीन्योर् यद् वस्ताव् अधि संस्रुतम् । (…)
प्र ते भिनद्मि मेहनं वर्त्रं वेशन्त्या इव । तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति
यथेषुका परापतद् अवसृष्टाधि धन्वनः । एवा ते मूत्रं मुच्यतां बहिर् बाल् इति सर्वकम्
वषट् ते पूषन्न् अस्यै सुवृक्तिम् अर्यमा होता कृणोतु वेधाः । सिस्रतां नार्य् उतप्रदाता वि पर्वाणि जिहतां सूतवा उ
चतस्रो दिशः प्रदिशश् चतस्रो भूम्या उत । देवा गर्भं सम् ऐरयन् ते व्य् ऊर्णुवन्तु सूतवे
सुष्टा व्य् ऊर्णोतु वि योनिं हापयामसि । श्रथया सूषणे त्वम् अव त्वं विष्कले सृज
नेव स्नावसु पर्वसु न केशेषु नखेषु च । अवैतु पृश्नि शेवलं शुने जराय्व् अत्तवे
नेव मांसे न पीवसि नेव कस्मिंश् चनायतम् । अव जरायु पद्यताम्
अनुवाक १ ॥ ये त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः । वाचस्पतिर् बला तेषां तन्वम् अद्य दधातु मे
उप न एहि वाचस्पते देवेन मनसा सह । असोष्पते नि रमय मय्य् एव तन्वं मम
इहैवाभि वि तनु- -उभे आर्त्नी इव ज्यया । वाचस्पतिर् नि यच्छतु मय्य् एव तन्वं मम
उपहूतो वाचस्पतिर् उपहूतो ऽहं वचस्पत्युः । सं श्रुतेन राधिषीय मा श्रुतेन वि राधिषि
दिव्यो गन्धर्वो भुवनस्य यस् पतिर् एकायुवो नमसा विक्ष्व् ईड्यः । तं त्वा यौमि ब्रह्मणा देव दिव्य नमस् ते अस्तु दिवि ते सधस्थम्
दिव स्पृष्टो यजतः सूर्यत्वग् अवयाता हरसो दैव्यस्य । एकायुवो नमसा सुशेवो मृडाद् गन्धर्वो भुवनस्य यस् पतिः
अनवद्याभिः सम् उ जग्म आभिर् अप्सराभिर् अपि गन्धर्व आसु । समुद्र आसां सदनं म आहुर् यतः सद्य आ च परा च यन्ति
अभ्रिये दिद्युन् नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे । ताभ्यो वो देवीर् नम इत् कृणोमि
याः क्लन्दास् तमिषीचयो अक्षकामा मनोमुहः । ताभ्यो गन्धर्वपत्नीभ्यो अप्सराभ्यो ऽकरं नमः
अमुष्माद् अधि पर्वताद् अवत्कम् असि भेषजम् । भेषजं सुभेषजं यत् ते कृणोमि भेषजम्
आद् अङ्गा कुविद् अङ्गा शतं यद् भेषजानि ते सहस्रं वा घ यानि ते । तेषाम् असि त्वम् उत्तमम् अनास्रावम् अरोगणम्
अरुस्यानम् इदं महत् पृथिव्या अध्य् उद्भृतम् । तद् आस्रावस्य भेषजं तद् उ रोगम् अनीनशत्
उपजीका उद् भरन्ति समुद्राद् अधि भेषजम् । अरुस्यानम् अस्य् आथर्वणं रोगस्थानम् अस्य् आथर्वणम्
अयं देवानाम् असुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः । ततस् परि ब्रह्मणा शाशदान उग्रस्य मन्योर् उद् इमं नयामि
नमस् ते राजन् वरुणास्तु मन्यवे विश्वं हि देव निचिकेषि द्रुग्धम् । शतं सहस्रं प्र सुवाम्य् अन्यान् अयं नो जीवन् शरदो व्यापेत्
यद् उवक्थानृतं जिह्वया वृजिनं बहु । राज्ञस् त्वा सत्यधर्मणो मुञ्चामि वरुणाद् अहम्
अमुञ्चं त्वा वैश्वानराद् अर्णवान् महतस् परि । सजातान् उग्र आ वद ब्रह्म चाप चकीहि नः
सीसायान्व् आह वरुणः सीसायाग्निर् उपावति । सीसं म इन्द्रः प्रायच्छद् अमीवायास् तु चातनम्
इदं विष्कन्धं सहत इदं बाधते अत्रिणः । अनेन विश्वा सासहै या जातानि पिशाच्याः
ये ऽमावास्यां रात्रिम् उदस्थुर् भ्राजम् अत्रिणः । अग्निस् तुरीयो यातुहा स उ नः पातु तेभ्यः
यदि हंस्य् अश्वं यदि गां यदि पूरुषम् । सीसेन विध्यामस् त्वा यथा नो ऽसो अवीरहा
अनुवाक २ ॥ अभीवर्तेन मणिना येनेन्द्रो अभिवावृते । तेनेमं ब्रह्मणस्पते अभि राष्ट्राय वर्तय
अभिवृत्तः सपत्ना- -अभि या नो अरातयः । अभि पृतन्यन्तं तिष्ठ- -अभि यो नो दुरस्यति
अभि त्वा देवः सविता- -अभि सोमो अवीवृतत् । अभि त्वा विश्वा भूतान्य् अभीवर्तो यथाससि
उद् असौ सूर्यो अगाद् उदितं मामकं वचः । यथाहं शत्रुहासान्य् असपत्नः सपत्नहा
सपत्नक्षयणो वृषा- -अभिराष्ट्रो विषासहिः । यथाहम् एषां वीराणां विराजानि जनस्य च
तुभ्यम् एव जरिमन् वर्धताम् अयं मैनम् अन्ये मृत्यवो हिंसिषुस् त्वत् । मातेव पुत्रं प्रमना उपस्थे मित्र एनं मित्र्यात् पात्व् अंहसः
मित्रश् च त्वा वरुणश् च रिशादौ जरामृत्युं कृणुतां संविदानौ । तद् अग्निर् होता वयुनानि विद्वान् विश्वानि देवो जनिमा विवक्ति
द्यौष् टे पिता पृथिवी माता जरां मृत्युं कृणुतं दीर्घम् आयुः । यथा जीवा अदित्या उपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः
त्वम् ईशिषे पशूनां पार्थिवानां ये जाता उत ये जनित्वाः । मैनं प्राणो हासीन् मो अपानो मैनं मित्रा वधिषुर् मो अमित्राः
इन्द्रेण दत्तो वरुणेन शिष्टो मरुद्भिर् उग्रः प्रयतो न आगन् । एतं वां द्यावापृथिवी परि ददामि स मा तृषत् स मा क्षुधत्
ऊर्जम् अस्मा ऊर्जस्वती धत्तं पयो ऽस्मै पयस्वती धत्तम् । ऊर्जम् अस्मै द्यावापृथिवी अधातां विश्वे देवा मरुत ऊर्जम् आपः
शिवा अस्य हृदयं तर्पयन्त्व् अनमीवो मोदमानश् चरेह । सवासिनौ पिबतां मन्थम् एतम् अश्विनो रूपं परिधाय मायाम्
तस्य पातारं सचतां पुरीषम् ऊर्जा स्वधा सचताम् एतम् एषा । इन्द्र एतां ससृजे विद्धो अग्र ऊर्जां स्वधाम् अजरां सा त एषा । तया त्वं जीव शरदः सुवर्चा मा त आ सुस्रोद् भिषजस् ते अक्रन्
विश्वे देवासो अभि रक्षतेमम् उतादित्या जागृत यूयम् अस्मिन् । मेमं समान उत वान्यनाभिर् मेमं प्रापत् पौरुषेयो वधो यः
ये वो देवाः पितरो ये च पुत्राः सचेतसो मे शृणुतेदम् उक्तम् । सर्वेभ्यो वः परि ददाम्य् एतं त एनं स्वस्ति जरसे नयाथ
ये देवा दिवि ष्ठ ये पृथिव्यां ये अन्तरिक्ष ओषधीष्व् अप्सु । ते कृणुत जरसम् आयुर् अस्मै शतम् अन्यान् परि वृणक्त मृत्यून्
येषां प्रयाजा उत वानुयाजा हुतभागा अहुतादश् च देवाः । येषां वः पञ्च प्रदिशो विभक्तास् तान् वो अस्मै सत्त्रसदः कृणोमि
अहं ते भगम् आ ददे ऽधि शीर्ष्ण इव स्रजम् । महामूल इव पर्वतो ज्योक् पितृष्व् आसासै
इयं ते राजन् कन्या वधूर् नि धूयते यम । सा मातुर् बध्यतां गृहे ऽथो भ्रातुर् अथो पितुः
इयं ते केतपा राजन्न् इमां ते परि दध्मसि । ज्योक् पितृष्व् आसाता आ शीर्ष्णः समोप्यात्
असितस्य ब्रह्मणा कश्यपस्य गयस्य च । अन्तःकोशम् इव जामयो अपि नह्यामि ते भगम्
अनुवाक ३ ॥ नक्तंजातास्य् ओषधे रामे कृष्णे असिक्नि च । इदं रजनि रजय किलासं पलितं च यत्
किलासं च पलितं च निर् इतो नाशया पृषत् । आ त्वा स्वो अश्नुतां वर्णः परा श्वेतानि पातय
असितं ते प्रलयनम् आस्थानम् असितं तव । असिक्न्य् अस्य् ओषधे निर् इतो नाशया पृषत्
अस्थिजस्य किलासस्य तनूजस्य च यत् त्वचि । दूषा कृतस्य ब्रह्मणा लक्ष्म श्वेतम् अनीनशम्
जरायुजः प्रथम उस्रियो वृषा वातभ्रजा स्तनयन्न् एति वृष्ट्या । स नो मृडाति तन्व ऋजुगो रुजन् य एकम् ओजस् त्रेधा विचक्रे
अङ्गेअङ्गे शोचिषा शिश्रियाणो यो अग्रभीत् परुर् अस्य ग्रभीता । अङ्कान् समङ्कान् हविषा यजामि हृदि श्रितो मनसा यो जजान
मुञ्चामि शीर्षक्त्या उत कास एनं परुष्परुर् आविवेश यो अस्य । यो अभ्रजा वातजा यश् च शुष्मो वनस्पतीन् सचतां पर्वतांश् च
शं ते परस्मै गात्राय शम् अस्त्व् अवराय ते । शं ते पृष्टिभ्यो मज्जभ्यः शम् अस्तु तन्वे तव
आ यातु मित्र ऋतुभिः कल्पमानः संवेशयन् पृथिवीम् उस्रियाभिः । तद् अस्मभ्यं वरुणो वायुर् अग्निर् बृहद् राष्ट्रं संवेश्यं दधातु
धाता मित्रो वरुणो देवो अग्निर् इन्द्रस् त्वष्टा प्रति गृह्णन्तु मे वचः । हुवे देवीम् अदितिं शूरपुत्रां सजातानां मध्यमेष्ठाः स्याम् अहम्
हुवे सोमं सवितारं नमोभिर् विश्वान् देवाꣳ अहमुत्तरत्वे । अयम् अग्निर् दीदायद् आह्नम् एव सजातैर् इद्धो अप्रतिब्रुवद्भिः
इहेद् असाथ न पुरो गमाथ- -इर्यो गोपाः पुष्टपतिर् व आजत् । अस्मै वः कामायोप कामिनीर् विश्वे वो देवा उप सं द्याम् इह
अस्मिन् वसु वसवो धारयन्त्व् इन्द्रस् त्वष्टा वरुणो मित्रो अग्निः । इमम् आदित्या उत विश्वे च देवा उत्तमे देवा ज्योतिषि धारयन्तु
अस्मै देवाः प्रदिशज् ज्योतिर् अस्तु सूर्यो अग्निर् उत वा हिरण्यम् । उत्तरेण ब्रह्मणा वि भाहि कृण्वानो अन्यान् अधरान् सपत्नान्
येनेन्द्राय समभरं पयांस्य् उत्तरेण ब्रह्मणा जातवेदः । तेन त्वम् अग्न इह वर्धयेमं रायस्पोषं श्रैष्ठ्यम् आ धेह्य् अस्मै
ऐषां यज्ञम् उत वर्चो भरे ऽहं रायस्पोषम् उत वित्तान्य् अग्ने । सपत्ना अस्मद् अधरे भवन्तु- -उत्तमे देवा ज्योतिषि धत्तनेमम्
मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन् । आराच् छरव्या अस्मद् विषूचीर् इन्द्र पातय
विष्वञ्चो अस्मच् छरवः पतन्तु ये अस्ता ये चास्याः । देवा मनुष्या ऋषयो ऽमित्रान् नो वि विध्यतु
यः समानो यो ऽसमानो ऽमित्रो नो जिघांसति । रुद्रः शरव्यया तान् अमित्रान् नो वि विध्यतु
सबन्धुश् चासबन्धुश् च यो न इन्द्राभिदासति । देवास् तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम्
अनुवाक ४ ॥ नासं नशन् स्वयं स्रसन्न् असतीभ्यो असत्तराः । सेहोर् अरसतरा लवणाद् विक्लेदीयसीः
अपचितः प्र पतत सुपर्णो वसतेर् इव । सूर्यः कृणोतु भेषजं चन्द्रमा वो ऽपोच्छतु
एन्य् एका श्येन्य् एका कृष्णैका रोहिणी द्वे । सर्वासाम् अग्रभं नाम- -अवीरघ्नीर् अपेतन
असूतिका रामायण्य् अपचित् प्र पतिष्यति । ग्लौर् इतः प्र पतिष्यति स गलन्तो नशिष्यति
अपेतो अपचित्वरीर् इन्द्रः पूषा च चिक्यतुः । अपेत्व् अस्य ग्रीवाभ्यो अप पद्भ्यां विजामतः
आशानाम् आशापालेभ्यश् चतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम्
य आशानाम् आशापालाश् चत्वार स्थन देवाः । ते नो निरृत्याः पाशेभ्यो मुञ्चतांहसोअंहसः
अश्लोणस् ते हविषा विधेयम् अस्रामस् ते घृतेना जुहोमि । य आशानाम् आशापालस् तुरीयो देवः स नः सुभूतम् एह वक्षत्
स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्य उत पूरुषेभ्यः । विश्वं सुभूतं सुविदत्रम् अस्तु नो ज्योग् एव दृशेम सूर्यम्
इदं जनासो विदथं महद् ब्रह्म वदिष्यति । न तत् पृथिव्यां नो दिवि यतः प्राणन्ति वीरुधः
अन्तरिक्षे समहासां स्थानं श्रान्तसदाम् इव । आस्थानम् अस्य भूतस्य विदुष् टद् वेधसो जनाः
यद् रोदसी रेजमाने भूमिश् च निरतक्षताम् । आर्द्रं तद् अद्य सर्वदा भिदुरस्येव वर्तसी
विश्वम् अन्याभि ववार विश्वम् अन्यस्याम् अधि श्रितम् । दिवे च विश्ववेदसे पृथिव्यै चाकरं नमः
सं सं स्रवन्तु सिन्धवः सं वाता दिव्या उत । तेभिर् मे सर्वैः संस्रावैर् धनं सं स्रावयामसि
ये संस्रावाः संस्रवन्ति क्षीरस्य चोदकस्य च । तेभिर् मे सर्वैः संस्रावैर् धनं सं स्रावयामसि
ये नदीभ्यः संस्रवन्त्य् उत्सासः सदम् अक्षिताः । तेभिर् मे सर्वैः संस्रावैर् धनं सं स्रावयामसि
इदं हव्या उपेतन- -इदं संस्रावणा उत । इहैतु सर्वो यः पशुर् अस्य वर्धयता रयिम्
हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो यास्व् इन्द्रः । या अग्निं गर्भं दधिरे सुवर्णास् ता न आपः शं स्योना भवन्तु
यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ् जनानाम् । (…)
यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति । या अग्निं गर्भं दधिरे सुवर्णाः (…)
शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे । घृतश्चुतः शुचयो याः पावकास् ता न आपः शं स्योना भवन्तु
अनुवाक ५ ॥ सुपर्णो जातः प्रथमस् तस्य त्वं पित्तम् आसिथ । तद् आसुरी युधा जीता रूपं चक्रे वनस्पतीन्
आसुरी चक्रे प्रथमा- -इदं किलासभेषजम् इदं किलासनाशनम् । अनीनशत् किलासं सरूपाम् अकरत् त्वचम्
सरूपा नाम ते माता सरूपो नाम ते पिता । सरूपकृत् त्वम् ओषधे सा सरूपम् इदं कृधि
यत् तनूजं यद् अग्निजं चित्रं किलासं जज्ञिषे । तद् अस्तु सुत्वक् तन्वो यतस् त्वापनयामसि
श्यामा सरूपंकरणी पृथिव्या अध्य् उद्भृता । इदम् ऊ षु प्र साधय पुना रूपाणि कल्पय
अभयं सोमः सविता कृणोत्व् अभयं द्यावापृथिवी उभे । अभयं स्वर् अन्तरिक्षं नो अस्तु सप्तऋषीणां हविषाभयं नो ऽस्तु
अभयं द्यावापृथिवी इहास्तु नो अग्निनामित्रान् प्रत्य् ओषतं प्रतीचः । मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम्
पञ्च देवा अभयस्येशत इन्द्रस् त्वष्टा वरुणो मित्रो अग्निः । मायं ग्रामो दुरितम् एन आरद् अन्यत्र राज्ञाम् अभि यातु मन्युः
अस्मै ग्रामाय प्रदिशश् चतस्र ऊर्जं सुभूतं सविता दधातु । अशत्रुम् इन्द्रो अभयं कृणोतु मध्ये च विशां सुकृते स्याम
अनु सूर्यम् उद् अयतां हृद्द्योतो हरिमा च ते । यो रोहितस्य गोर् वर्णस् तेन त्वा परि दध्मसि
परि त्वा रोहितैर् वर्णैर् दीर्घायुत्वाय दध्मसि । यथा त्वम् अरपा असो अथो ऽहरितो भव
या रोहिणीर् देवपत्या गावो या रोहिणीर् उत । रूपंरूपं वयोवयस् तेन त्वा परि दध्मसि
शुकेषु ते हरिमाणं प्रपणाकासु दध्मसि । अथो हारिद्रवेषु ते हरिमाणं नि दध्मसि
याः पुरस्ताद् आचरन्ति नीचैः सूर्याद् अथो दिवः । एतम् अप्सरसां व्रातं ब्रह्मणाच्छा वदामसि
या अधराद् आचरन्ति जिह्मा मुखा करिक्रतीः । आहता अप ता इतो नश्यन्त्व् अतश् चिन्वतीः
याः कुल्या या वन्या या उ चोन्मादयिष्णवः । सर्वास् ता मृश्मशाकरं दृषदा खल्वाꣳ इव
चेतन्तीम् अश्मलां पलां तासां वो नमो अर्चिषे । आराद् यक्ष्मं नि धत्त- -अस्मान् नो अधि पूरुषात्
कामस् तद् अग्रे सम् अवर्तत मनसो रेतः प्रथमं यद् आसीत् । स काम कामेन बृहता सयोनी रायस्पोषं यजमानाय धेहि
त्वं काम सहसासि प्रतिष्ठितो विभुर् विभावा सुषखा सखीयते । त्वम् उग्रः पृतनासु सासहिः सह ओजो यजमानाय धेहि
दूराच् चकमानाय प्रविपाणायाक्षये । आस्मा अशृण्वन्न् आशाः कामेनाजनयन् स्वः
कामेन मा काम आगन् हृदयाद् धृदयं परि । यद् अमीषाम् अदो मनस् तद् ऐतूप माम् इह
यत् काम कामयमाना इदं कृण्मसि ते हविः । तन् नः सर्वं सम् ऋध्यताम् अथैतस्य हविषो वीहि स्वाहा
क इदं कस्मा अदात् कामः कामायादात् । कामो दाता कामः प्रतिग्रहीता कामः समुद्रम् आ विवेश । कामेन त्वा प्रति गृह्णामि कामैतत् ते
अनुवाक ६ ॥ इमं मे कुष्ठ पूरुषं तम् आ वह तं निष् कृधि । तम् उ मे अगदं कृधि
उदङ् जातो हिमवतः स प्राच्यां नीयसे जनम् । तत्र कुष्ठस्य नामान्य् उत्तमानि वि भेजिरे
उत्तमो नामास्य् उत्तमो नाम ते पिता । यतः कुष्ठ प्रजायसे तत एह्य् अरिष्टतातये
शीर्षहत्याम् उपहत्याम् अक्ष्योस् तन्वो रपः । कुष्ठो नो विश्वतस् पातु दैवं समह वृष्ण्यम्
यद् अग्निर् आपो अदहत् प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि । तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्धि तक्मन्
यदि शोको यद्य् अभीशोको रुद्रस्य प्राणो यदि वारुणो ऽसि । हुडुर् नामासि हरितस्य देव स नः संविद्वान् परि वृङ्धि तक्मन्
यद्य् अर्चिर् यदि वासि धूमः शकल्येषु यदि वा ते जनित्रम् । हुडुर् नामासि हरितस्य देव स नः संविद्वान् परि वृङ्धि तक्मन्
नमः शीताय तक्मने नमो रूराय कृण्मो वयं ते । यो +ऽन्येद्युर् उभयद्युश् चरन्ति तृतीयकाय नमो अस्तु तक्मने
तृतीयकं वितृतीयं सदन्दिम् उत हायनम् । तक्मानं विश्वशारदं ग्रैष्मं नाशय वार्षिकम्
आपो अद्यान्व् अचारिषं रसेन सम् असृक्ष्महि । पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा
सं माग्ने वर्चसा सृज प्रजया च बहुं कृधि । विद्युर् मे अस्य देवा इन्द्रो विद्यात् सह र्षीभिः
इदम् आपः प्र वहत- -अवद्यं च मलं च यत् । यच् च दुद्रोहानृतं यच् च शेपे अभीरुणम्
शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे । शिवान् अग्नीन् अप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः
यद् आपो नक्तं मिथुनं चचार यद् वा दुद्रोह दुरितं पुराणम् । हिरण्यवर्णास् तत उत् पुनन्तु मा प्र मा मुञ्चन्तु वरुणस्य पाशात्
अग्निर् जनविन् मह्यं जायाम् इमाम् अदात् ॥सोमो वसुविन् मह्यं जायाम् इमाम् अदात् ॥पूषो ज्ञातिविन् मह्यं जायाम् इमाम् अदात् ॥इन्द्रः सहीयान् मह्यं जायाम् इमाम् अदात् ॥ अग्नये जनविदे स्वाहा ॥सोमाय वसुविदे स्वाहा ॥पूष्णे ज्ञातिविदे स्वाहा ॥इन्द्राय सहीयसे स्वाहा ॥ अनुवाक ७ ॥ याः पुरस्ताद् आचरन्ति या वा पश्चात् सदान्वाः । अश्मानम् ऋच्छन्तीर् यन्तु यो ऽयं स्वादाव् अनाद्यः
या अधाराद् आचरन्त्य् उत्तराद् वा सदान्वाः । अश्मानम् ऋच्छन्तीर् यन्तु यो ऽयं स्वादाव् अनाद्यः
याः पश्चाद् आचरन्ति पुरस्ताद् वा सदान्वाः । अश्मानम् ऋच्छन्तीर् यन्तु यो ऽयं स्वादाव् अनाद्यः
या उत्तराद् आचरन्त्य् अधराद् वा सदान्वाः । अश्मानम् ऋच्छन्तीर् यन्तु यो ऽयं स्वादाव् अनाद्यः
उभयीर् अहम् आयाताः पराचीर् अकरं त्वत् । देवेभिर् अन्या अस्ता बह्वीर् अन्या अथो दिवम्
नमस् ते रुद्रास्यते नमः प्रतिहिताभ्यः । नमो विसृज्यमानाभ्यो नमो निपतिताभ्यः
हिरण्ययीर् म उल्बण्यः षट् सहराणि षट् शता । ताभिः परि श्रयामहे ता नो रक्षन्तु सर्वतः । बह्व् इदम् अन्यद् विष्ठितं तस्य कामं वि विध्यत
अयस्मयं मे विमितं युष्मद् भिया महत् कृतं नमसा नमसेन्यम् । तेना परि श्रयामहे तन् नो रक्षन्तु सर्वतः । (…)
अयस्मयं वर्म कृण्वे द्वारं कृण्वे अयस्मयम् । खीलान् अयस्मयान् कृण्वे ते नो रक्षन्तु सर्वतः । बह्व् इदम् अन्यद् विष्ठितं तस्य कामं वि विध्यत
इमा यास् तिस्रः पृथिवीस् तासां ह भूमिर् उत्तमा । तासाम् अधि त्वचो अहं सम् उ जग्रभ भेषजम्
श्रेष्ठम् असि वैरुधानां वसिष्ठं भेषजानाम् । यज्ञो भग इव यामेषु देवेषु वरुणो यथा
रेवतीर् अनाधृष्ठाः सिषासन्तीः सिषासथ । एता स्थ केशवर्धनीर् अथो स्थ केशदृंहणीः
दृंह मूलम् अग्रं यच्छ वि मध्यं यमयौषधे । केशवर्धनम् अस्य् आथर्वणं केशदृंहणम् अस्य् आथर्वणम्
अग्ने गोभिर् न आ गहि- -इन्दो रय्या सचस्व नः । इन्द्रो धर्ता गृहेषु नः
सविता यः सहस्रियः स नो गृहेषु रण्यतु । आ पुष्टम् एत्व् आ वसु
त्वष्टा यो वृषभो युवा स नो गृहेषु रारणत् । सहस्रेण शतेन च
धाता दधातु नो रयिम् ईशानो जगतस् पतिः । स नः पूर्णेन यच्छतु
ममोभा मित्रावरुणा ममोभेन्द्राबृहस्पती । मम त्वष्टा च पूषा च ममैव सविता वशे
मम विष्णुश् च सोमश् च ममैव मरुतो भुवन् । सरस्वांश् च भगश् च विश्वे देवा वशे मम
ममोभे द्यावापृथिवी अन्तरिक्षं स्वर् मम । ममेमाः सर्वा ओषधीर् आपः सर्वा वशे मम
मम गावो ममाश्वा ममाजाश् चावयश् च । ममैव पुरुषा भुवन् ममेदं सर्वम् आत्मन्वद् एजत् प्राणद् वशे मम
अनुवाक ८ ॥ अग्ने ऽभ्यावर्तिन्न् अभि न आ ववृत्स्व । आयुषा वर्चसा सन्या मेधया प्रजया धनेन
अग्ने जातवेदः शतं ते सन्त्व् आवृतः सहस्रं त उपावृतः । अधा पुष्टस्येशानः पुनर् नो रयिम् आ कृधि
सह रय्या नि वर्तस्व- -अग्ने पिन्वस्व धारया । विश्वप्स्न्या विश्वतस् परि
पुनर् ऊर्जा ववृत्स्व पुनर् अग्ने विशायुषा । पुनर् नः पाह्य् अंहसः
याः सेना अभीत्वरीर् आव्याधिनीर् उगणा उत । य स्तेनो यश् च तस्करस् तांस् ते अग्ने ऽपि दधाम्य् आसनि
जम्भैर् मलिम्लून् अग्ने दंष्ट्राभ्यां तस्कारान् उत । हनूभ्यां स्तेनान् मघवन् तांस् त्वं खाद सुखादितान्
ये ग्रामेषु मलिम्लुच स्तेनासस् तस्करा वने । ये कक्षेष्व् अघायवस् तांस् ते ऽग्ने ऽपि दधाम्य् आसनि
यो अस्मभ्यम् अरातीयाद् यश् च नो द्वेषद् इज् जनः । आमादः क्रव्यादो रिपूंस् तान् अग्ने सं दहा त्वम्
आ क्रन्दय धनपत उद् एनम् अर्दयामुतः । अर्वञ्चं पुनर् आ कृधि यथाहं कामये तथा
परिसर्तः परि धाव- -आकर्तः पुनर् आ कृधि । अथो म इन्द्रश् चाग्निश् च- -अमुम् आ नयताम् इह
एकार्क एककामाय यस्मै कामाय खायसे । तेन मे विश्वधावीर्य- -अमुम् आ नयताद् इह
यत्रयत्र चरन्तं न्यम्रौग् अभि सूर्यः । ततो मे पथ्ये रेवत्य् अमुम् आ नयताद् इह
असितस्य तैमातस्य बभ्रोर् अपोदकस्य च । सर्वा विषस्य धामान्य् उद्नेवाग्निम् अवीवरे
इषीकादन्त दुर्लभ किं मे सखायम् आतुदः । न माम् अपश्य आगतं सतीनं विषदूषणम्
यत् तालव्ये दति संसिसिक्षे विषं त्वम् । त्रयस् तुदा रुजामसि बभ्रुको नकुलस् त्वत्
त्रयो वै स्मः सखायो बभ्रुको नकुलस् त्वत् । ते सर्वे अप्य् अपातयन्न् आहेयम् अरसं विषम्
सारस्वतं वृषणं बभ्रुवक्षं शीतरूरे तन्वाव् अस्य भीमे । अन्येद्युकं सदन्दिं त्वा तृतीयक हुवे नमस्यं सहदेवम् अप्सुजम्
यो अप्सुजो अरुणो मानुषे जने विवेश बभ्रुर् हर्षयिष्णुर् अक्षितः । शीतरूराय तर्षयिष्णवे जुगुशीर्षसावयेशं नमो अस्तु देवाः
यो हर्षयञ् जञ्जभः स्वेदनो वशी वशः प्रारः शीतरूराशिषे मनून् । सो अस्मभ्यं मृडयन् प्रेहि संशितो यं वयं द्विष्मस् तम् अभि प्रजानन्
नमस् ते विद्म ते कासनायनं यतोयतः सुरभे संबभूविथ । स नो मा हिंसीर् नमो अस्तु तुभ्यं शीर्षक्त्या यक्ष्माद् इह पारया नः
अनुवाक ९ ॥ अस्य त्वं ददतः सोम राजन् वर्मेव तन्वं परि पाहि विश्वतः । यो ब्रह्मणे राधो विद्धो ददाति तस्य सोम प्र तिर दीर्घम् आयुः
अस्य सोम प्र तिर दीर्घम् आयुर् अहानीव सूर्यो वासराणि । मास्या सुस्रोन् नाशया व्यध्मनो विषं बहिः शल्यश् चरतु रोगो अस्मात्
दानं तृष्णायाः परि पातु विद्धं दानं क्षुधो दानविद् एव मृत्योः । अविष्कन्धो भवतु यो ददात्य् आ प्यायते पपुरिर् दक्षिणया
आ प्यायतां पपुरिर् दक्षिणया वर्मेव स्यूतं परि पाहि विश्वतः । बहिर् विषं तन्वो अस्त्व् अस्य स्रंसतां शल्यो अध्य् आरे अस्मात्
ब्रह्मा शरव्याम् अप बाधताम् इतो नद्याः कूलान् नावम् इवाधि शम्बी । तस्मै ददद् दीर्घम् आयुष् कृणुष्व शतं च नः शरदो जीवताद् इह
यदा ददाति प्रददाति यदा ब्रह्मा प्रतिगृह्णाति राधो अस्य । आद् इद् विद्याद् उपहत्यारातिः सर्वे यक्ष्मा अप तिष्ठन्तु साकम्
व्याघ्ररूपः सुरभिः सिंहस्य रेतसा कृतः । मध्ये पृथिव्या निष्ठितः सम् अख्यद् यातुधान्यः
अभि प्रेहि माप विक्थाः पदे गृभाय मापदे । अत्रैव सर्वा जम्भय याः काश् च यातुधान्यः
प्रतीबोधश् चतुरक्षः स्रक्त्यो अश्मेव वीडुभित् । प्रतीचीः कृत्या आकृत्य- -अमुं कृत्याकृतं जहि
कृत्याकृतं वलगिनं मूलिनं शपथेय्यम् । इन्द्रस् तु सर्वांस् तान् हन्तु सप्तघ्नेन रुवाम् इव
अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः । विषं हि सर्वम् आदिष्य् अथो एनम् अजीजभम्
न ते बाह्वो रसो अस्ति न शीर्षे नोत मध्यतः । किम् इदं पापयामुया पुच्छे बिभर्ष्य् अर्भकम्
यत् ते स्कन्धान् उपतस्थौ विजाम्नि यच् च ते परौ । अपमित्यम् इवाभृतं मलं ते प्रति दध्मसि
अदन्ति त्वा पिपीलिका वि वृश्चन्ति मयूर्यः । सर्वे भल ब्रवाथ शार्कोटम् अरसं विषम्
कृतं मे दक्षिणे हस्ते सव्ये मे जय आहितः । गोजिद् भूयासम् अश्वजित् कृतंचयो हिरण्यजित्
अक्षाः फलवतीं दिवं दत्त गां क्षीरिणीम् इव । सं मा कृतस्य धारया धनुः स्नाव्नेव नह्यत
उभौ हस्तौ प्रतिदीव्नो ब्रह्मणापोम्भामसि । कलिर् एनं यथा हनद् आस्य वेदो भरामहै
आ भद्रं द्वापरम् उत त्रेतां परा कलिम् । कृतं मे हस्त आहितं स हि सौमनसो महान्
यद् एयथ परेयथ यत् ते तन् मन ईयते । ततस् त्वा पुनर् अर्वाञ्चं भूतस्याजीगमत् पतिः
आ त्वा नयाद् भूतपतिर् आ देवो बृहस्पतिः । आदित्याः सर्वे त्वा नेषन् विश्वे देवाः सुवर्चसः
अनुमतिः सरस्वती भगो राजा न्य् आ नयात् । शाला मानस्य पत्नी- -इहैवास्य मनस् करत्
यस् त्वा निनानयकः स उ त्वेहा नयात् पुनः । मनो हि ब्रह्माणो विदुर् विश्वकर्मा मनीषिणः
अनुवाक १० ॥ गातो हविर् जनयन् तस्थ इन्द्र- -अग्रं ज्येष्ठ पर्य् अगामेह देव । स गातो गातोत्तमा पयापिम् अस्मभ्यम् इन्द्र ददतः प्रचेतः
अग्निर् नः पुरएतास्त्व् अञ्जसा बृहस्पतिः सन्यास्तु नः सखा । इन्द्रं हुवे वृत्रहणं पुरन्दरं भगेनाद्य भगवन्तः स्याम
त्वं सोम दिव्यो नृचक्षाः सुगाꣳ अस्मभ्यं पथो अनु ख्यः । अभि नो गोत्रं विदुष इव नेषो ऽच्छा नो वाचम् उशतीं जिगासि
इमाम् अग्ने शरणिं मीमृषो न इमम् अध्वानं यम् अगाम दूरम् । आपिः पिता प्रमतिः सोम्यानां भृमिर् अस्य् ऋषिकृन् मर्त्यानाम्
ये पुरस्ताद् आस्यन्देते गावौ स्वऋषभे इव । कृणोम्य् अर्वणी अहम् अश्ववाराद् अणीयसी
ये अधराद् आस्यन्देते गावौ स्वऋषभे इव । कृणोम्य् अर्वणी अहम् अश्ववाराद् अणीयसी
ये पश्चाद् आस्यन्देते गावौ स्वऋषभे इव । कृणोम्य् अर्वणी अहम् अश्ववाराद् अणीयसी
ये उत्तराद् आस्यन्दते गावौ स्वऋषभे इव । कृणोम्य् अर्वणी अहम् अश्ववाराद् अणीयसी
अग्ने यशस्विन् यशसा वर्धयेमम् इन्द्रावतीम् उपचितिम् इहा वह । अयं मूर्धा परमेष्ठी सुवर्चाः समानानाम् उत्तमश्लोको अस्तु
धाता विधर्ता परमोत संदृक् प्रजापतिः परमेष्ठी विराट् । स्तोमाश् छन्दांसि निविदो म आहुस् ते अस्मै राष्ट्रम् उप सं नमन्तु
भद्रम् इच्छन्त ऋषयः स्वर्विदस् तपो दीक्षाम् उप नि षेदुर् अग्रे । ततो राष्ट्रं बलम् ओजश् च जातं तद् अस्मै देवा उप सं नमन्तु
उपा वर्तध्वम् उप न एत सर्वे ऽयं चेत्ताधिपतिर् वो अस्तु समानं मन्त्रम् अभि मन्त्रयाध्वा इमं पश्चाद् उप जीवाथ सर्वे
त्वम् अग्ने प्रमतिस् त्वं पितासि नस् त्वं सखा युज्यो ऽसि जातवेदः । त्वं विश्वविद् गातुवित् कविर् विश्वा आशा अभयाः सन्त्व् अस्मे
इदं वर्चो अग्निना दत्तम् आगन् भर्गो यशः सह ओजो वयो बलम् । त्रयस्त्रिंशद् यानि वीर्याणि तान्य् अग्निः प्र ददातु मे
वर्च आ धेहि मे तन्वां सह ओजो वयो बलम् । इन्द्रियाय त्वा कर्मणे वीर्याय प्रति गृह्णामि शतशारदाय
ऊर्जे त्वा बलाय त्वा- -ओजसे सहसे त्वा । अभिभूयाय त्वा राष्ट्रभृत्याय पर्य् ऊहामि शतशारदाय
ऋतुभिष् ट्वार्तवैर् आयुषे वर्चसे त्वा । संवत्सरस्य तेजसा तेन संहनु कृण्मसि
इदम् आञ्जनम् आनजे शैलूनम् आकनिक्रदम् । अभि मा चक्रन्द भग ऋषभो वाशिताम् इव
अश्वः कनिक्रदद् यथा प्रत्यङ् मा भग आगमत् । तम् अहं प्रेण्या अधि पुत्रम् इवोपस्थ आधिषि
अक्ष्यौ मे मधुसंकाशे जिह्वा मे मधुवादिनी । नसोर् अधि प्रमन्दनं दत्सु मे सारघं मधु
मधुमन् मम नीसनं जघनं मधुमन् मम । माम् इत् किल त्वं वावनः शाखां मधुमतीम् इव
अनुवाक ११ ॥ प्रेता जयता नर उग्रा वः सन्तु बाहवः । इन्द्रो वः शर्म यच्छत्व् अनाधृष्या यथासथ
उद् धर्षन्तां मघवन्न् आयुधान्य् उत् सत्वनां मामकानां मनांसि । उद् धर्षन्तां वाजिनां वाजिनान्य् उद् वीराणां जयताम् एतु घोषः
पृथग् घोषा उलुलयः केतुमन्त उद् ईरताम् । देवा इन्द्रज्येष्ठा मरुतो यन्तु सेनया
अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते । जयामित्रान् प्र पद्यस्व मामीषां कं चनोच् छिषः
दूष्या दूषिर् असि हेत्या हेतिर् असि मेन्या मेनिर् असि ॥स्रक्त्यो ऽसि प्रतिसरो ऽसि पुनःसरो ऽसि प्रत्यभिचरणो ऽसि ॥प्रति तम् अभि चर यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥सूरिर् असि वर्चोधास् तनूपानायुष्यः कृत्यादूषणः ॥शुक्रो ऽसि भ्राजो ऽसि ज्योतिर् असि स्वर् असि ॥आप्नुहि श्रेयांसम् अति समं क्राम ॥ विष्कन्धस्य काबवस्य कर्दमस्योलूक्याः । अपस्थानस्य कृत्या यास् तेषां त्वं खृगले जहि
प्र मृणीह्य् उपहत्यां कर्दमं नीलशाक्यम् । अधा सारम् इव दारुण आयुष् कृणोम्य् अन्तरम्
विविद्धस्यावतृण्णस्य हृदस्य चाहृदस्य च । त्रिपर्णी विश्वभेषजी- -इदं कृणोतु भेषजम्
काबवस्य विष्कन्धस्य- -अपस्थापनभेषजम् । इदं कृणोमि भेषजं यथायम् अगदो ऽसति
यस्माद् अङ्गात् संसुस्राव यद् बभूव गलन्त्यशः । गावो वत्सम् इव जानानास् तत् परैतु यथायथम्
नासृग् अस्ति पतङ्गस्य तर्दस्य मशकाद्याः । वेणोः पूतुद्रोर् नास्त्य् असृङ् मास्य ग्लौर् मापचिद् भुवत्
अहं वेद यथासिथ गुर्विका नाम वा असि । अमुं त्वं तम् इतो गच्छ यम् अहं द्वेष्मि पूरुषम्
तस्यापि मध्य आ सीद नीलग्रीवासु सीदता । वातस्यानु प्रवां मशकस्यानु संविदम्
प्रेतो यन्त्व् अग्रुवो निर् इतो यन्त्व् अग्रुवः । अधराचीम् इतः परः
प्राहं ग्लावम् अध्मासं निर् अहं ग्लावम् अध्मासम् । अधराचीम् इतः परः
अभि त्वाम् अहम् ओजसा- -इन्द्रो दस्यून् इवाभुवम् । सपत्नि नश्यताद् इतो दूरं गच्छाध्य् ओकसः
सासहा इद् अहं पतिं सासहै श्वशुरा उभौ । अथो सपत्नीं सासहै यथा नश्यात्य् ओकसः
अभिभूर् अहम् आगमं विश्वकर्मा महावदात् । अहं मित्रस्य कल्पयन्न् एषु गृहेषु दुष्टरात्
उत् तिष्ठ मम वा इदं न तवेहापि किं चन । मां चैव पश्यन्न् आयत्य् अमुं च दिवि सूर्यम्
अनुवाक १२ ॥ यस् त्वा मृत्युर् अभ्यधत्त जायमानं सुपाशया । तं ते सत्यस्य हस्ताभ्याम् उद् अमुञ्चद् बृहस्पतिः
अभि त्वा जरिमाहित गाम् उक्षणाम् इव रज्ज्वा । व्य् अन्ये यन्तु मृत्यवो यान् आहुर् इतराञ् छतम्
प्र विशतं प्राणापानाव् अनड्वाहाव् इव व्रजम् । शरीरम् अस्याङ्गानि जरिम्णे नयतं युवम्
इहैव स्तं प्राणापानौ मेमं हासिष्टं मृत्यवे । अयं जरिम्णः शेवधिर् अरिष्ट इह वर्धताम्
जरसे त्वा परि दध्मो जरसे नि धुयामसि । जरा त्वा भद्रया नेषत् । व्य् अन्ये यन्तु मृत्यवो यान् आहुर् इतराञ् छतम्
मुञ्चामि त्वा हविषा जीवनाय कम् अज्ञातयक्ष्माद् उत राजक्ष्मात् । ग्राह्या गृभीतो यद्य् एष एतत् तत इन्द्राग्नी प्र मुमुक्तम् एनम्
यदि क्षितायुर् यदि वा परेतो यदि मृत्योर् अन्तिकं नीत एव । तम् आ हरामि निरृतेर् उपस्थाद् अस्पार्षम् एनं शतशारदाय
सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षम् एनम् । इन्द्रो यथैनं जरसे नयात्य् अति विश्वस्य दुरितस्य पारम्
शतं जीव शरदो वर्धमानः शतं हेमन्ताञ् छतम् उ वसन्तान् । शतम् इन्द्राग्नी सविता बृहस्पतिः शतायुषा हविषाहार्षम् एनम्
यत् ते अन्नं भुवस्पत आक्षियेत पृथिवीम् अनु । तस्य नस् त्वं भुवस्पते सं प्र यच्छ प्रजापते
व्यात्ते परमेष्ठिनो ब्रह्मणापीपदाम तम् । संवत्सरस्य दंष्ट्राभ्यां हेतिस् तं सम् अधाद् अभि
इयं तं भवस्त्व् आहुतिः समिद् देवी सहीयसी । राज्ञो वरुणस्य बन्धो असि सो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् अह्ने रात्रये बधान
मृणो ऽसि देव सवितर् गायत्रेण छन्दसा मृणामुष्य पशून् द्विपदश् चतुष्पदः । यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस् तं जहि तं मृण तस्मै मा मीमृडस् तस्मै दुराहा
नि ते पदं पदे मम नि चित्तम् एतु निष्कृतः । यथासः केवलो मम- -अहं साधारणी तव
पदेन गाम् अनु यन्ति पदेनाश्वं पदा रथम् । पदेन मर्या मत् त्वं न एषो नो अहं त्वत्
माप सृपो मा परा सृपो मान्यत्रास्मन् मनस् कृथाः । यं त्वाहिर् इव भोगैर् नाकुलेन परीमसि
नि त्वा कृण्वे संनहने नि कुरीरे न्य् ओपशे । नि त्वाधमस्मिंल् लोम्नि न्य् उ त्वा मुष्कयोर् मृजे
घृताहुता पृथिवी मा न एनो ऽस्मान् प्रजां वोचत किल्बिषाणि । अनातुराः सुमनसः सुवीरा ज्योग् जीवन्तस् तव सख्ये स्याम
अन्तर् एमि यातुधानान् अन्तर् एमि किमीदिनः । धियाम पित्र्या वयं सरस्वत्या चरामसि
मा ते रिषं खनिता यस्मै च त्वा खनामसि । द्विपाच् चतुष्पाद् अस्माकं मा रिषद् देव्य् ओषधे
अन्या वो अन्याम् अवत्व् अन्यान्यस्या उपावत । सध्रीचीः सव्रता भूत्वा अस्यावत वीर्यम्
अनुवाक १३ ॥ ध्रुवस् तिष्ठ भुवनस्य गोप मा सं विक्था वनस्पते । अत्रैव त्वम् इह वयं सुवीरा विश्वा मृधो अभिमातीर् व्य् अस्य
यो वानस्पत्यानाम् अधिपतिर् बभूव यस्मिन्न् इमा विश्वा भुवनान्य् आर्पिता । तम् अनज्मि मधुना दैव्येन तस्मान् मणिं निर् ममे विश्वरूपम्
इमं मणिं विश्वजितं सुवीरम् अस्माद् अश्वत्थात् पर्य् उद् भरामि । येन विश्वाः पृतनाः संजयान्य् अथो द्युमत् समितिम् आ वदानि
सबन्धुश् चासबन्धुश् च यो न इन्द्राभिदासति । वृश्चामि तस्याहं मूलं प्रजां चक्षुर् अथो बलम्
देवी देव्यां जातासि पृथिव्याम् अध्य् ओषधे । तां त्वा नितत्नि केशेभ्यो दृंहणाय खनामसि
इन्द्रस् त्वाखनत् प्रथमो वरुणस्य दुहितृभ्यः । दृंह जाताञ् जनयाजातान् ये जातास् तान् उ वर्षीयसस् कृधि
यस् ते केशो ऽवततः समूलो यश् च वृह्यते । सर्वं तं विश्वभेषज्या- -अभि षिञ्चामि वीरुधा
अभीशुना मेयो ऽस्तु वियामेनानुमेयः । केशो नड इव वर्धतां शीर्ष्णस् ते असितस् परि
यथा नडं कशिपुने स्त्रियो भिन्दन्त्य् अश्मना । एवा भिनद्मि ते मुष्कौ तस्मै त्वाम् अवसे हुवे
त्वं वीरुधां श्रेष्ठतमा- -अभिश्रुतास्य् ओषधे । सामुम् अद्य पूरुषं क्लीबम् ओपशिनं कृधि
क्लीबं कृध्य् ओपशिनम् अथो कुरीरिणं कृधि । उभाभ्याम् अस्य ग्रावभ्याम् इन्द्रो भिनत्त्व् आण्ड्यौ
क्लीब क्लीबं त्वाकरं वध्रे वध्रिं त्वाकरम् । अरसारसं त्वाकरम् अरसारसो ऽसि । कुरीरम् अस्य शीर्षणि कुम्बं चाधि नि दध्मसि
ये ते नाड्यौ देवकृते ययोस् तिष्ठति वृष्ण्यम् । ते ते भिनद्मि शम्यया- -अमुष्या अधि मुष्कयोः
जायमानो निर् अरुजत् सपत्नान् दोधतो ऽभयान् । स वै सपत्नानां सभा अवालप्स्यो अनाशयत्
आराद् अरातिं कृणुते अशस्तिम् अप बाधते । अवालप्स्यः स यो मणिः सहस्वान् अभिमातिहा
चक्षुर् अस्य सूत्रम् आसीत् तर्द्म श्रोत्रम् उताभरत् । अवालप्स्यः स यो मणिः सहस्वान् अभिमातिहा
इमं मणिम् आवालप्स्यं यस्मिन्न् आरोहयामसि । स वै सपत्नान् आ दत्ते स एनं पातु विश्वतः स एनं जरसे नयात्
यतो जीवेभ्यो न पितॄन् उपैति यम् आनशे दुष्कृतं दैधिषव्यम् । अयज्ञियः प्रथमो यो विवेश कृच्छ्राद् इज् ज्योतिर् अभ्य् अश्नवातै
नास्यौषधीष्व् अप्य् अस्ति नाप्स्व् अन्तर् नास्य सूर्यं संदृशम् एति चक्षुः । भूमिर् द्वेष्टि चरन्तम् एनं यम् आनशे दुष्कृतं दैधिषव्यम्
त्रिते देवा अमृजतैन एतत् त्रित एनन् मनुष्येष्व् अमृष्ट । तत एतद् अमुया रक्ष ईर्ते प्रमुक्तं ज्योतेर् अधि दूरम् एति
येभिः पाशैर् दिधिषूपतिर् विबद्धः परौपराव् आर्पितो अङ्गेअङ्गे । वि ते चृत्यन्तां विचृतो हि सन्ति भ्रूणघ्नि पूषन् दुरितानि मृष्टा
अनुवाक १४ ॥ अग्निष् टे विश आ नयाद् इन्द्रो वायुर् बृहस्पतिः । स ते धर्मम् अदीधरद् धातेव भुवनेभ्यः
बृहस्पते पुरएता विशाम् इह्य् अग्निः पश्चाद् अभि नुदात्य् आयतीः । वायुर् एना दक्षिणतः पूषोत्तराद् उपानुदात्
आ सहस्री शतरथ आ रेवान्येतु नो विशम् । एन्द्रो वामेन विश्पतिर् आ रूपेण बृहस्पतिः
स्वर्जुष्टः कश्यपस्य स राष्ट्रे जागरत् स्वे । ऋषभः शातमातुरः श्वेतन्ताद् अविह्रुतो देवान् यज्ञेन बोधयात्
महाजनाः प्रथमा ये दिदीविरे धने संहत्य महति द्विराजे । तेषां वरे यः प्रथमो जिगाय तस्याहं लोकम् अनूद् भिदेयम्
मेदिनस् ते वैभीदकास् तत इन्द्र उपावतु । अव्या वृक इव संरभ्य जिगीवान् अस्तम् आयसि
उद्बाहू हिरण्यजिद् गोजिद् अश्वजितौ भरे । व्याघ्रो जघ्निवाꣳ इव- -उत् तिष्ठाधिदेवनात्
आदिनवं प्रतिदीव्ने कृतेनास्माꣳ अभि क्षर । वृक्षम् इवाशन्या जहि यो अस्मान् प्रतिदीव्यति
दिवस् पृथिव्याः पर्य् अन्तरिक्षाद् वनस्पतिभ्यो अध्य् ओषधीभ्यः । यत्रयत्र विभृतो जातवेदास् ततस्ततो जुषमाणो न एहि
यस् ते अप्सु महिमा यो वनेषु य ओषधीषु पशुष्व् अप्स्व् अन्तः । अग्ने सर्वास् तन्वः सं रभस्व ताभिर् न एहि द्रविणोदा अजस्रः
यस् ते देवेषु महिमा स्वर्गो या ते तनूः पितृष्व् आविवेश । पुष्टिर् या ते मनुष्येषु पप्रथे ऽग्ने तया रयिम् अस्मासु धेहि
श्रुत्कर्णाय कवये वेद्याय वचोभिर् वाकैर् उप यामि रातिम् । यतो भयम् अभयं तन् नो अस्त्व् अव देवानां यज हेडो अग्ने
इन्द्रो देवानां वरुणो धृतव्रतः सोमो वीरुधां जगतः परस्पाः । वायुः पशूनां पशुपा जनानाम् अयं पुरोरा नो अस्यास्तु मूर्धा
मूर्धा दिवो अन्तरिक्षस्य मूर्धा मूर्धा सिन्धूनाम् उत पर्वतानाम् । मूर्धा विश्वस्य भुवनस्य राजा- -अयं पुरोरा नो अस्यास्तु मूर्धा
मृधस् ते सम्राड् अव हन्तु सर्वाꣳ अमित्रान् राजा वरुणो विषूचः । इन्द्रः शत्रून् असुनीतिं नयाति ते ऽयं पुरोरा नो अस्यास्तु मूर्धा
विशस् त्वा राजन् प्रदिशो जुषन्तां दैवीर् विशः सुप्रकेताः सकेताः । विश्वा आशा मनुष्यो वि भाह्य् अयं पुरोरा नो अस्यास्तु मूर्धा
वि बाधस्व दृंहस्व वीडयस्व- -अधस्पदं शत्रवस् ते भवन्तु । सपत्नसाह ऋषभो जनाषाड् उग्रश् चेत्ता पञ्च कृष्टीर् वि राज
शिवं क्षेत्रम् अनमीवं ते अस्तु- -उत्तमे नाके अधि तिष्ठेहि । पुत्रान् भ्रातॄन् बहुलान् पश्यमानो विश्वे त्वा देवा इह धारयन्तु
त्वष्टा रूपेण सविता सवेन- -अहर् मित्रेण वरुणेन रात्री । इन्द्रो ज्यैष्ठ्येन ब्रह्मणायं बृहस्पतिर् । धाता त्वा धीभिर् अभि रक्षत्व् इह
वास्तोष्पत इह नः शर्म यच्छ घने वृत्राणां संगथे वसूनाम् । इहैवैधि ग्रामपतिर् जनाषाड् विश्वैर् देवैर् गुपितो रक्षमाणः
अनुवाक १५ ॥ ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् उग्रं धनुर् ओजस्वान् आ तनुष्व । प्रति दुर्हार्दं हरसा शृणीहि कृत्वानम् अग्ने अधरं कृणुष्व
प्रत्य् एनं याहि प्रति भङ्ध्य् एनं विविध्यन्न् अग्ने वितरं वि भाहि । प्रत्यङ् प्रेहि वर्त्मना जर्हृषाणः कृत्याकृते दुष्कृते माधि वोचः
यो नो दुर्हार्द् धृदयेनाभिवस्ते यश् चक्षुषा मनसा यश् च वाचा । प्रत्यङ् दंष्ट्राभ्याम् अभि तं बुभूषन् कृत्याकृतं दुष्कृतं निर् दहाग्ने
प्रतीबोधश् चतुरक्षो दिव्यो अश्मेव वीडुभित् । प्रभञ्जञ् छत्रून् प्रति याह्य् अग्ने कृत्याकृतं दुष्कृतं हृदये विध्य मर्मणि
इन्द्र क्षत्रम् अभि वामम् ओजो ऽजायथा वृषभ चर्षणीनाम् । अपानुदो जनम् अमित्रयन्तम् उरुं देवेभ्यो अकृणोर् उलोकम्
मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगामा परस्याः । सृकं संशाय पविम् इन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व
अंहोमुचे प्र भरे मनीषाम् आ सुत्राम्णे सुमतिम् आवृणानः । इदम् इन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः
अंहोमुचं वृषभं यज्ञियानां विराजन्तं प्रथमम् अध्वराणाम् । अपां नपातम् अश्विनौ हुवे धिय इन्द्रियेण न इन्द्रियं धत्तम् ओजः
धातारम् इन्द्रं सवितारम् ऊतये हुवे देवाꣳ अमृतान् मर्त्यः सन् । श्रेष्ठे नो वसवो धत्त धाम्नि मा रधाम द्विषते मो अरातये
अधि ब्रवीत्व् अधिवक्ता न इन्द्रो अधि ब्रवीतु सविता दैव्येन । स्वस्ति मित्रावरुणा च धत्तां रात्रिंरात्रिम् अहरहश् च देवाः
अधि ब्रवीतु पृथिवी उत द्यौर् अधि ब्रुवन्तु मरुतः पृश्निमातरः । यो नो द्वेष्ट्य् अरणो यः सनाभिः पविर् इव नेमेर् अधरः सो अस्तु
यस्य त्रया गतम् अनुप्रयन्ति देवा मनुष्याः पशवश् च सर्वे । तन् नो देवं मनो अधि ब्रवीतु सुनीति नो नयतु द्विषते मा रधाम
वर्चस्वान् असि देवेषु वर्चस्वान् ओषधीष्व् आ । अथो वर्चस्विनं कृधि यम् अश्वत्थाधिरोहसि
यम् अश्वत्थो अध्यरुक्षद् राजा मनुष्यं जनम् । इन्द्रम् इव वि मृधो हनत् तस्माद् राष्ट्रम् अनपच्युतम्
आरोहो नाम वा असि सहस्वान् उद् अजायथाः । तं त्वा सपत्नसासहम् अश्वत्थ बिभराद् अयम्
राजा वा असि भूतानाम् ऋषभो वीरुधां पतिः । स नः सपत्नान् अश्वत्थ विषूचो व्य् उद् आ कृधि
संपश्यमाना अमृताय आयन् शुद्धा योनिभ्यस् परि जायमानाः । शिवं कृण्वाना उप जिघ्रतेमं वीरं वीरेष्व् अप्य् आ कृणुध्वम्
शिवो वो वीर इह जातो अस्तु शुद्धो योनिभ्यस् परि जायमानः । अरिष्टो ऽयं वर्धतां सर्वम् आयुर् वर्म ज्यायोभ्यो हविषा कृणोतु
जरां मृत्युं प्रेप्सतु जीव एष नास्य क्रिमिर् ईशातो नोत जम्भः । संरभ्य जीव शरदः सुवर्चा अग्निष् टे गोपा अधिपा वसिष्ठः
जरामृत्युर् जरायुर् जराचक्षुर् जरास्वः । जरसे त्वा जरदष्टिं परि ददामि
द्यौष् टे पिता पृथिवी मातान्तरिक्षम् आत्मा । वातः प्राणः सूर्यश् चक्षुर् दिवस् पयः । सुपर्णस् त्वाभ्य् अव पश्याद् आयुषे वर्चसे ऽयम् अन्नस्यान्नपतिर् अस्तु वीरः
अनुवाक १६ ॥ यज्ञस्य चक्षुः प्रभृतिर् मुखं च वाचा श्रोत्रेण मनसा जुहोमि । इमं यज्ञं विततं विश्वकर्मणा- -आ देवा यन्तु सुमनस्यमानाः
ये देवानाम् ऋत्विजो ये च यज्ञिया येभ्यो हव्यं क्रियते भागधेयम् । इमं यज्ञं सह पत्नीभिर् एत्य यावन्तो देवास् तति मादयन्ताम्
यन् मा हुतं यद् अहुतम् आजगाम यस्माद् अन्नान् मनसोद्रारजीमि । यद् देवानां चक्षुष आगसीनम् अग्निष् टद् धोता सुहुतं कृणोतु
अग्नेष् ट्वा जिह्वया हुतम् इष्टं मरुद्भिर् अनुमतं पितृभिः प्राश्नामि
अग्नेः प्रजातं परि यद् धिरण्यम् अमृतं दध्रे अधि मर्त्येषु । य एनद् वेद स इद् एनद् अर्हति जरामृत्युर् भवति यो बिभर्ति
यद् धिरण्यं सूर्येण सुवर्णं प्रजावन्तो मनवः पूर्व ईषिरे । तत् त्वा चन्द्रं वर्चसा सं सृजात्य् आयुष्मान् भवति यो बिभर्ति
आयुषे त्वा वर्चसे त्वा- -ओजसे च बलाय च । यथा हिरण्य तेजसा विभासासि जनाꣳ अनु
यद् वेद राजा वरुणो वेद देवो बृहस्पतिः । इन्द्रो यद् वृत्रहा वेद तत् त आयुष्यं भुवत् तत् ते वर्चस्यं भुवत्
यद् आबध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः । तत् ते बध्नामि शतशारदाय- -आयुष्मान् जरदष्टिर् यथासः
नैनं रक्षांसि न पिशाचाः सहन्ते देवानाम् ओजः प्रथमजं ह्य् एतत् । यो बिभर्ति दाक्षायणं हिरण्यं स जीवेषु कृणुते दीर्घम् आयुः
अपां रेतो ज्योतिर् ओजो बलं च वनस्पतीनाम् उत वीर्याणि । इन्द्र इवेन्द्रियम् अव रुध्मो अस्मिन् स दक्षमाणो बिभरद् धिरण्यम्
समानां मासाम् ऋतुभिष् ट्वाहं संवत्सरस्य पयसा पिपर्मि । इन्द्राग्नी त्वा ब्रह्मणा वावृधानाव् आयुष्मन्तम् उत्तमं त्वा करातः
यत् ते चतस्रः प्रदिशो मनो जगाम दूरकम् । तत् त आ वर्तयामसि- -इह क्षयाय जीवसे
यत् ते भूमिं चतुःस्रक्तिं मनः (…)
यत् ते यमं वैवस्वतं मनः (…)
यत् ते समुद्रम् अर्णवं मनः (…)
यत् ते दिवं यत् पृथिवीं मनः (…)
यत् ते वायुम् अन्तरिक्षं मनः (…)
यत् ते सूर्यं यद् उषसं मनः (…)
यत् ते चन्द्रं नक्षत्राणि मनः (…)
यत् त आपो यद् ओषधीर् मनः (…)
यत् ते परां परावतं मनो जगाम दूरकम् । तत् त आ वर्तयामसि- -इह क्षयाय जीवसे
यं गृह्णन्त्य् अप्सरसो यं मथ्नाति बृहस्पतिः । तं कश्यपस्य ब्रह्मणा सविता पुनर् आ भरत्
यो भर्ताकूः परिधाय मृगेष्व् अपि धावति । तं कश्यपस्य ब्रह्मणा सविता पुनर् आ भरत्
सविताग्निर् ब्रह्मा सोम इन्द्रस् त्वष्टा बृहस्पतिः । एते मरुद्युतं त्वा ब्रह्मणा पुनर् आ भरन्
भद्रां वाचं शिवं चक्षुर् मरुद्युताय कृण्मसि । इमां ह्य् अस्मा ओषधिम् आ हराम्य् अरुन्धतीम्
अनुवाक १७ ॥ त्रिभ्यो रुद्रेभ्यः प्रवसन् यजामि ज्येष्ठः कनिष्ठ उत मध्यमो यः । ज्योतिष्काराः कवयः सोमपा ये कण्वा अजन्तु निर् इतो वधेन
इन्द्राग्नी वीतं हविषः संविदानौ समिद्धो अग्निः समिधा गीर्भिर् इन्द्रः । नुदेथां कण्वा निर् इतो अरातिम् आराद् रक्षांसि तपतं व्य् अस्मत्
वास्तोष्पते सुप्रजसः सुवीरा षष्ठीस्यामि शरदः शतानि । दुर्वास्तु कण्वा अभि निर् णुदस्व सुवास्त्व् अस्माꣳ उप सं विशस्व
या तन्तिषत् खलसद् या च गोष्ठे या जाताः शकधूमे सभायाम् । प्रपायां जाता उत याश् च भित्सु ताश् चातयामः शिवता नो अस्तु
दुद्वा च दुद्वती च स्थस् तद् वां नाम तद् वां नामधेयम् । रुद्रप्रेषिते स्थो ऽव्ये नाम पर्य् अस्मान् वृङ्क्तम् । यो नो द्वेष्टि तम् ऋच्छतम्
वीची नामास्य् अघहारा नाम । नमस् ते अस्तु वातके ऽन्यत्रास्मद् अघं कृधि
ऋजीते परि णो नम- -अग्रेण परि णो नम । अश्मानं तन्वं कृण्महे अद्या नः सोम मृडय
त्वं दर्भासि पतिर् ओषधीनां विभिन्दन् यासि कन्या इवैनाम् । भिन्धि शिरः कृमेर् जायान्यस्य शरीरं भिन्ध्य् उत भिन्ध्य् अस्थि
यः कीकसास्थो विरदात् परूंषि यस्योद्धार उष्णिहास् ता हि वव्रे । हनिष्यामि वां निर् अतः परेतं तृणान्य् अत्तम् अवसीरिणाम् इव
अयं य आस्ते जठरेष्व् अन्तः कास्फीवशं निरजं मर्त्यस्य । हनिष्यामि वां निर् अतः परेतं स्तायद् एयथुः प्रति वाम् अभुत्सि
येनेयथुस् तेन पथा परेतं स्तायद् एयथुः प्रति वाम् अभुत्सि । ब्रह्मणा वां परितृह्य समन्तं वि च्छेत्स्यामि नकुल इव सर्पम्
यज्ञपतिम् ऋषय एनसाहुर् निर्भक्ता भागाद् अनुतप्यमानाः । यद् एनश् चकृवान् बद्ध एष ततो विश्वकर्मन् प्र मुमुग्ध्य् एनम्
अदान्यान् सोमपान् मन्यमानो यज्ञस्य विद्वान् समये न धीरः । मधव्यान् स्तोकान् अप यान् रराध सं मा तैः सृजतु विश्वकर्मा
ये भक्षयन्तो न वसून्य् आनृधुर् यान् अग्नयो अन्वतप्यन्त धिष्ण्याः । या तेषाम् अवया दुरिष्टात् स्विष्टं तद् विश्वकर्मा कृणोतु
भीमा ऋषयो नमो अस्त्व् एभ्यश् चक्षुर् यद् एषां मनसश् च संदृक् । बृहस्पतये महिषाय दिवे नमो विश्वकर्मन् नमस् ते पाह्य् अस्मान्
सर्वा इमा ओषधयः पृथिव्याम् अधि निष्ठिताः । अथैव भद्रिके त्वम् असुरेभ्यो अजायथाः
शतं जह्य् अप्सरसां शतं श्वन्वतीनाम् । गन्धर्वपत्नीनां शतस्य- -इन्द्रो अपि कृतच् छिरः
याः पतन्ति पुरो वातं पतन्ति रेष्मभिः सह । चेतन्तीम् अश्मलां पलाम् इन्द्रो अप्सरसो हनत्
वि वो यशो हवामहे वि वो हविष्यम् ओदनम् । अपावरीर् अपोर्णुत- -अस्मद् यक्ष्मम् अपोर्णुत वातस् तेजन्यं यथा
असितस्य विद्रधस्य लोहितस्य वनस्पते । विसल्पकस्यौषधे मोच् छिषः पिशितं चन
यत् ते बलास तिष्ठतः कक्षे मुष्काव् अपाकृतम् । वेदाहं तस्य भेषजं चीपद्राम् अभिचक्षणम्
निर् बलासं बलासिनो विसल्पम् उत विद्रधम् । परोपहत्यां ते वयं परा यक्ष्मं सुवामसि
शीर्षरोगम् अङ्गरोगं शुक्तिवल्गं विलोहितम् । परा ते अज्ञातं यक्ष्मम् अधराञ्चं सुवामसि
अनुवाक १८ ॥ पयो देवेषु पय ओषधीषु पय आशासु पयो ऽन्तरिक्षे । तन् मे धाता सविता च धत्तां विश्वे तद् देवा अभि सं गृणन्तु
पयो यद् अप्सु पय उस्रियासु पय उत्सेषूत पर्वतेषु । तन् मे धाता सविता च धत्तां विश्वे तद् देवा अभि सं गृणन्तु
यन् मृगेषु पय आविष्टम् अस्ति यद् एजति पतति यत् पतत्रिषु । तन् मे धाता सविता च धत्तां विश्वे तद् देवा अभि सं गृणन्तु
यानि पयांसि दिव्य् आर्पितानि यान्य् अन्तरिक्षे बहुधा बहूनि । तेषाम् ईशाने वशिनी नो अद्य प्र दत्तां द्यावापृथिवी अहृणीयमाने
आगन्मेमां समितिं विश्वरूपां यस्यां पूर्वम् अवदद् देव एकः । सा नः सूक्तैर् जुजुषाणा समीच्य् अस्मान् वृणीतां सुमनस्यमाना
इयं देवी समितिर् विश्वरूपा शिल्पं कृण्वाना चरति जनेषु । तां राजानः कवयो हृत्सु केतैर् अराजानश् च वदनैः पुनन्ति
अग्निं सामित्यम् उप सं सदेम वाचा प्रियं मधुमत्या वदन्तः । सोमो राजा वरुणो मित्रधर्मा मयि श्रेमाणम् उप सं नमन्तु
यो वः शुष्मो हृदये यो बाह्वोर् यश् च चक्षुषि । जिह्वाया अग्रे यो मन्युस् तं वो वि नयामसि
त्रिष् कुष्ठासि वृत्राज् जातस् त्रिर् दिवस् परि जज्ञिषे । त्रिः सोमाज् जज्ञिषे त्वं त्रिर् आदित्येभ्यस् परि
जीवलं नघारिषं जयत्कम् अपराजितम् । तं त्वामृतस्येशानं राजन् कुष्ठा वदामसि
अन्तरा द्यावापृथिवी अन्तरिक्षम् इदं महत् । तत्रामृतस्येशानं कुष्ठं देवा अबध्नत
कुष्ठो ऽसि देवकृतो हिमवद्भ्यो निराभृतः । तीक्ष्णाभिर् अभ्रिभिः खातः स चकर्थारसं विषम्
यास् ते शतं धमनयः सहस्राणी च विंशतिः । बभ्रोर् अश्वस्य वारेण- -अपि नह्यामि ता अहम्
शतस्य ते धमनीनां सहस्रस्यायुतस्य च । दृतेः पादम् इव सारथिर् अपि नह्यामि यद् बिलम्
परमस्यां परावति शुष्को भण्डुश् च तिष्ठतः । ततः शुष्कस्य शुष्मेण तिष्ठन्तु लोहिनीर् अपः
परि वः सिकतामयं मरुं बिले वपामसि । यकच् चिद् अस्रवीत् पुरा तकच् चिद् अशमीद् इदम्
रुद्र मा त्वा जीहिडाम सुष्टुत्या मघवन् मा सहूत्या । भिषक्तमं त्वा भिषजां शृणोम्य् उन् नो वीराꣳ ईरय भेषजेभिः
रुद्र यत् ते गुह्यं नाम यत् ते अद्धातयो विदुः । शिवा शरव्या या तव तया नो मृड जीवसे
अग्निं त्वाहुर् वैश्वानरं सदनान् प्रदहन् व् अगाः । स नो देवत्राधि ब्रूहि मा रिषामा वयं तव
या देवैः प्रहितेषुः पतात् तपसे वा महसे वावसृष्टा । सोमस् त्वाम् अस्मद् यावयतु विद्वान् अवन्तु नः पितरो देवहूतिषु
अनुवाक १९ ॥ रायस्पोषं धेहि नो जातवेद ऊर्जावद् अग्ने यशः सूनृतावत् । दधाम भागं सुनवाम सोमं यज्ञेन त्वाम् उप शिक्षेम शक्र
वयम् अग्ने धनवन्तः स्याम- -अलं यज्ञायोत दक्षिणायै । ग्रावा वदेद् अभि सोमस्यांशून् एन्द्रं शिक्षेमेन्दुना सुतेन
ईशानं त्वा शुश्रुमा वयं पुरो धनानां धनपते । गोमद् अग्ने अश्ववद् भूरि पुष्टं हिरण्यवद् अन्नवद् धेहि मह्यम्
दुहां मे द्यौः पृथिवी पयो ऽजगरो मा सोदको ऽभि वि सर्पतु । प्रजापतिना तन्वम् आ प्रीणे ऽरिष्टो म आत्मा
अस्माञ् जुषध्वम् असवो ऽद्य मा नः पुरा जरसो ऽसवो वधिष्ट । पाका गृणीमस् तव वीर्याय शतं हिमान् अधिपतिर् न एहि
उन् मृणो अगाद् आर्जुनम् अगात् सुश्रुद् भगवो गोपाय मा । अह्ने ऽद्यात्मानं परि ददे सूर्यप्राणो भवामि
नि मृणो अगाद् आसितम् अगात् सुश्रुद् भगवो गोपाय मा । रात्रये ऽद्यात्मानं परि ददे अग्निप्राणो भवामि
अनाभूर् अस्य् अनाभो ऽनाभुवो भूयास्म । स यत्र त्वं प्रजापते त्रिर् एकस्याह्नः प्रजाः संपश्यसि । तत्र माम् अपि सं पश्य- -अनष्टपशुर् भुवनस्य गोपाः
यथा मृगं रोपयसि तिरश् चर्मातिविध्यसि । एवा त्वम् उग्र ओषधे अमुं रोपय माम् अभि
बन्धश् चेमा उपधिश् च मधुमन् नौ समञ्जनम् । द्वारौ भगस्येमा ऊरू मृगस् तृष्यन्न् इवा चर
अभि त्वाधाम् अभिधिना जालेनेव महाजषम् । यथा मम क्रताव् असो मम चित्ते सचावहै
अहं वै त्वद् उत्तरास्म्य् अध त्वम् उपधिर् मम । सं नौ बध्नामि संबन्धनेन यथासावाविचर्त्याव् आ मृत्योर् आ परावतः
अपोच्छन्ती दुष्वप्न्यम् अप दुर्हार्दम् उच्छतम् । अपोष्टं सर्वं क्षेत्रियं सर्वाश् च यातुधान्यः
उद् अगातां भगवती विचृतौ नाम तारके । वि क्षेत्रियस्य मुञ्चतां संग्रन्थिं हृदयस्य च
नमो अस्तु वरत्राभ्यो नम ईषायुगेभ्यः । मृगायारण्ये तिष्ठते क्षेत्रियायाकरं नमः
आखोर् इदं क्षैत्रपत्यं मनोश् च मानवस्य च । मनः सर्वस्य पश्यत इह भूयः स्याद् इति
उद् एहि देवि कन्य आचिता वसुना सह । न त्वा तरन्त्य् ओषधयो बाह्याः पर्वतीया उत
यथा त्वा देव्य् ओषधे सर्वः कामयते जनः । एवा भगस्य नो धेहि देवेभ्य इवामृतं परि
उत्सक्तपत्न्य् ओषध आवतंकरणीद् असि । यद् एषि यन् निषीदसि तत्र त्वाहं सम् अग्रभम् अश्वम् इवाश्वाभिधान्या
यथा कुमारस् तरुणो मातरं प्रतिनन्दति । एवास्मान् प्रति नन्दतु यां वयं कामयामहे
अनुवाक २० ॥ त्रीणि पात्राणि प्रथमान्य् आसन् तानि सत्यम् उत भूतं ततक्ष । ऋतस्य माने अधि या ध्रुवाण्य् एभिर् देवा अमृतं भक्षयन्ति
स्वर् यद् देवा विभजन्त आयन् त्रीणि पात्राणि प्रथमान्य् आसन् । आदित्या एकं वसवो द्वितीयं तृतीयं रुद्रा अधि सं बभूवुः
धाता वेद सवितैतानि सर्वा बृहस्पतिः प्रथमो देवो अग्निः । एभिर् इन्द्रो जठरम् आपृणीते त्रिभिः पात्रैर् उत विश्वे च देवाः
ऊर्ध्वा तिष्ठन्ति न नु जिह्मा भवन्ति नोनं बभूव कतमच् चनैषाम् । देवानां पात्राणि निहितानि यानि तानि सं पाति य ऋतस्य गोपः
पौर्णमासी प्रथमा यज्ञियासीद् अह्नां रात्रीणाम् अतिशर्वरेषु । ये त्वां यज्ञैर् यज्ञिये बोधयन्त्य् अमी ते नाकं सुकृतः परेताः
पूर्णा पश्चाद् उत पूर्णा पुरस्तात् पौर्णमासी मध्यत उज् जिगाय । तस्यां देवैः संवसन्तो महित्वा नाकस्य पृष्ठे सम् इषा मदेम
चतस्रो दिशः प्रदिशो ह पञ्च षड् उर्वीर् आहू रजसो विमानीः । द्वादश र्तव आर्तवाश् च ते मा- -आ प्याययन्तु भुवनस्य गोपाः
यथादित्या अंशुम् आप्याययन्ति यम् अक्षितम् अक्षितयः पिबन्ति । एवा माम् इन्द्रो वरुणो बृहस्पतिर् आ प्याययन्तु भुवनस्य गोपाः
आगन् रात्री संगमनी वसूनां विश्वं पुष्टं वस्व् आवेशयन्ती । अमावास्यायै हविषा विधेम- -ऊर्जं वसाना पयसा न आगन्
मा त्वा रात्रि पुरो दघन् मोत पश्चाद् विभावरि । आयुष्मन्तः सुप्रजसः सुवीरा ऋध्यास्म त्वा सुवर्चसः
यस्य देवस्य सुमतौ सुनीतिर् एति सुमतिं गृहाणाम् । आ मा पुष्टं च पोष्यं च रात्र्या देवानां सुमतौ स्याम
अहम् एवास्म्य् अमावास्या- -अमा वसन्ति सुकृतो मयीमे । मयि देवा उभये साध्याश् च- -इन्द्रज्येष्ठाः सम् अगच्छन्त सर्वे
प्रथमा ह व्य् उवास सा धेनुर् अभवद् यमे । सा नः पयस्वती दुहा उत्तरामुत्तरां समाम्
यां देवाः प्रतिनन्दन्ति धेनुं रात्रीम् उपायतीम् । संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली
संवत्सरस्य प्रतिमां ये त्वा रात्र्य् उपासते । तेषाम् आयुष्मतीं प्रजां रायस्पोषेण सं सृज
इयम् एव सा या प्रथमा व्यौच्छत् साप्स्व् अन्तर् आसु चरति प्रविष्टा । वधूर् जिगाय नवगज् जनित्री त्रय एनां महिमानः सचन्ते
वानस्पत्या ग्रावाणो घोषम् अक्रत हविष् कृण्वन्तः परिवत्सरीणम् । एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम्
इडायास् पदं घृतवत् सरीसृपं जातवेदः प्रति हव्या गृभाय । ये ग्राम्याः पशवो विश्वरूपास् तेषां सप्तानां मयि रन्तिर् अस्तु
इडया जुह्वतो हविर् देवान् घृतवता यजे । गृहान् अलुभ्यतो वयं दृषदोमोप गोमतः
यज र्तुभ्य आर्तवेभ्यो माद्भ्यः संवत्सराय च । धात्रे विधर्त्रे समृधे भूतस्य पतये यज
आयम् अगन् संवत्सरः पतिर् एकाष्टके तव । तस्मै देवाय हविषा विधेम स उ नः शर्म यच्छतु
एकाष्टकायै हविषा विधेम य र्तून् पञ्चानु प्रविष्टा । सस्येन सस्यम् उपसंचरन्तो अरिष्टास ऋतुन र्तुम् उप सं चरेम
वसन्तो ग्रीष्मो मधुमन्त वर्षाः शरद् धेमन्त ऋतवो नो जुषन्ताम् । आ नो गोषु भजन्त्व् आ प्रजायां सुशर्मण्य् एषां त्रिवरूथे स्याम
एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानम् इन्द्रम् । तेन देवा व्य् अषहन्त शत्रून् हन्तासुराणाम् अभवच् छचीपतिः
पूर्णा दर्वे परा पत सुपूर्णा पुनर् आ पत । सर्वान् यज्ञान् सं पृञ्चति- -इषम् ऊर्जं न आ भर
इषम् ऊर्जं न आभृत्य- -इडया पशुभिः सह । सरस्वति त्वम् अस्मासु रायस्पोषं नि यच्छ
अनुवाक २१ ॥ वातस्य नु महिमा रथस्य- -आरुजन्न् एति स्तनयन्न् अस्य घोषः । दिवस्पृग् एत्य् अरुणानि कृण्वन्न् अथो एति पृथिव्या रेणुम् अस्यन्
सं प्रेरते अनु वातस्य विष्ठा ऐनं गच्छन्ति समनेव योषाः । ताभिर् विद्वान् सरथं देव ईयते पतिर् विश्वस्य भुवनस्य गोपाः
आत्मा देवानां भुवनस्य गोपा यथावशं चरति देव एषः । घोष इद् अस्य श्रूयते न रूपं तस्मै देवाय हविषा विधेम
अन्तरिक्षे पथिभिर् ईयमानो न नि विशते कतमच् चनाहः । अपां योनिः प्रथमजा ऋतस्य क्व स्विज् जातः कुत आ बभूव
अन्तरिक्षे पतयन्तं वात त्वाम् आशुम् आशुभिः । पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः
उपत्रिकं संचविचं त्रिर्यमं चतुरेकजम् । तं मातरिश्वानं देवं दिवो देवा अवासृजन्
अप न्य् अधुः पौरुषेयं वधं मद् इन्द्राग्नी धाता सविता बृहस्पतिः । सोमो राजा वरुणो अश्विना यमः पूषास्मान् परि पातु मृत्योः
यानि चकार भुवनस्य यस् पतिः प्रजापतिर् मातरिश्वा प्रजाभ्यः । प्रदिशो यानि वसते दिशश् च तानि मे वर्माणि बहुलानि सन्तु
यत् तनुष्व् अनह्यन्त देवा द्विराजयोधिनः । इन्द्रो यच् चक्रे वर्म तद् अस्मान् पातु विश्वतः
वर्म मे द्यावापृथिवी वर्माहर् वर्म सूर्यः । वर्म मे विश्वे देवाः क्रन् मा मा प्रापत् प्रतीचिका
सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम् आविवेश । बाधेथां द्वेषो निरृतिं पराचैः कृतं चिद् एनः प्र मुमुक्तम् अस्मत्
तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राव् इह सु मृडतं नः । प्र णो मुञ्चतं दुरिताद् अवद्याद् गोपायतं नः सुमनस्यमानौ
सोमारुद्रा धारयेथाम् असुर्यं प्र वाम् इष्ट्वा वरम् अश्नवातै । युवं नो धत्ताम् इह भेषजानि प्र यच्छतं वृषणा जेत्वानि
सोमारुद्रा युवम् अस्मास्व् अन्तस् तनूषु विश्वा भेषजानि धत्तम् । अव स्यतं मुञ्चतं किं चिद् एनो अङ्गेषु बद्धम् उत यदृशत्वि
घृतस्य जूतिः समना सदेवाः संवत्सरं हविषा वर्धयन्ती । श्रोत्रं चक्षुः प्राणो अच्छिन्नो नो अस्त्व् अच्छिन्ना वयम् आयुषो वर्चसः
उपास्मान् प्राणो ह्वयताम् उप वयं प्राणं हवामहे । वर्चो जग्राह पृथिव्य् अन्तरिक्षं वर्चः सोमो बृहस्पतिर् विधर्ता
वर्चसो द्यावापृथिवी संग्रहणी बभूवतुर् वर्चो गृहीत्वा पृथिवीम् अनु सं चरेम । यशसा गावो गोपतिम् उप तिष्ठन्त्य् आयतीर् यशो गृहीत्वा पृथिवीम् अनु सं चरेम
व्रजं कृणुध्वं स हि वो नृपाणो वर्मा सीव्यध्वं बहुला पृथूनि । पुरः कृणुध्वम् आयसीर् अधृष्टा मा वः सुस्रोच् चमसो दृंहता तम्
न्यग् वातो वाति न्यक् तपति सूर्यः । नीचीनम् अघ्न्या दुहे न्यग् भवतु ते विषम्
नि गावो गोष्ठे असदन् नि वत्सा अधि तन्त्याम् । न्य् ऊर्मयो नदीनां नि शुष्मा अरसानाम्
अहीनाम् अहिकानां सं हि शीर्षाण्य् अग्रभम् । ह्रदं सहस्रबाहुः परेत्य व्य् अनिजम् अहेर् विषम्
तुराणाम् अतुराणां विशाम् उरुक्षिताम् उत । कृणोमि तुभ्यं भेषजम् आहेयम् अरसं विषम्
इमा ऊरू सवासिनौ वर्चसाञ्जे अहं मम । नाम ह्य् एनयोर् वेद यथा न बहवो विदुः
वर्चसापीना पृथिवी सूर्येणोत्तभिता द्यौः । त्विषिं यां पश्यामो वाते तां नि यच्छे ममोर्वोः
वेद वै वां नामधेयं जिगीवाꣳ अपराजितम् । प्रजां च बह्वीम् आ शासे राष्ट्रं चेन्द्राभिरक्षितम्
विदुषी वां नामधेयम् अश्विना सारघं मधु । सूर्य इव चक्षुर् भूतानां प्रजां धारयतं मयि रयिं धारयतं मयि
शतपाशां वि तनोम्य् ऊरुभ्यां जघनेन च । तस्मिन् यो बध्यते बन्धे स मे अस्त्व् अन्यक्षकः
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ṚṢIS). Atharvaveda Paippalāda — Kāṇḍa 1. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-1>. Acesso em: 26/04/2026.
Tradição Védica (Ṛṣis) (2026). Atharvaveda Paippalāda — Kāṇḍa 1. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-1
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 1." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-1.