Atharvaveda Paippalāda — Kāṇḍa 11
Tradição Védica (Ṛṣis)
अनुवाक २ ॥ काण्ड ११ वृषा ते ऽहं वृषण्यन्त्यै गर्भं दधामि योन्याम् । यदि देवपरिष्ठिता प्रजां तोकं न विन्दसे
धाता ते तं सिनीवाली वरुणानी प्र यच्छतु । पुमांसं पुत्रम् इन्द्राणी शतदायं दधातु ते
संवृतस् ते वक्षणासु गर्भः पुंसा पुमान् कृतः । सर्वाङ्गस् तन्वोर् जायताम् अग्निर् इवारण्योर् अधि
धत्स्व वीरं कर्मण्यं प्रस्वं त्वावध्रिम् अवशां कृणोमि । आत्मनस् ते लोहिताद् गर्भः संवर्ततां वृषा
त्वष्टा पिंशतु ते प्रजां धाता तोकं दधातु ते । राका सीव्यतु सूच्या भूतस्येशाना भुवनस्य देवी
सिनीवालीम् अनुमतिं राकां गुङ्गुं सरस्वतीम् । देवानां पत्नीर् या देवीर् इन्द्राणीम् अवसे हुवे
अभिन्नाण्डा वृद्धगर्भा- -अरिष्टा वीरसूर् इयम् । वि जायतां प्र जायतां बह्वी भवतु पुत्रिणी
परि सृज गर्भं धेहि माशाः प्र च्योष्ट लोहितम् । अनूनः पूर्णो जायताम् अश्रामोरन्वो अपिशाचधीतः
त्वं दधासि द्विपदे चतुष्पदे गर्भं प्रजाम् एजते विश्वरूपाम् । कनिक्रदद् वृषभो वीडुशेपाः प्रजापते तन्वां धेहि गर्भम्
अभिक्रन्दं स्तनयं धेहि गर्भं विद्योतमानः पवमानो वीरुद्भिः । पर्जन्येमां पृथिवी रेतसावत- -अपां रसैर् ओषधीनां पशूनाम्
आ ते नयामि वृषणं यः प्रजानां प्रजापतिः । स ते दधात्व् ऋत्वियं गर्भं योन्यां विजां प्रजाम्
ये वृषाणो गर्भकृत ऋत्वियानां समेनसः । तांस् ते ह्वयामि तद् उ ते सम् ऋध्यताम्
अग्नेष् टे त्वष्टुर् वरुणाद् इन्द्रात् सोमाद् बृहस्पतेः । पुत्रं ते पुत्रकामायै देवेभ्यो निर् ममे प्रजाम्
अङ्गाद् अङ्गात् सं स्रवतु तद् योनौ प्रति तिष्ठतु । प्रजा ते वक्षणाशया तत् ते बीजं वि रोहतु
अत्ससो यमनं ससो ऽभूतिर् यक्ष्मम् अजीजनत् । इमं सहस्रभाग् इन्द्रो विशरं नाशयाति ते
यः कार्यो यश् च कृतः स्वयंजा उत हार्यः । देवा इन्द्रज्येष्ठा विशरं नाशयन्तु ते
विशरस्य विजृम्भस्य- -इषुर् माता धनुष् पिता । आदित्याः पुत्रा आदित्या विशरं नशयन्तु ते
धन्वनो ज्याया इष्वा अपस्कम्भस्य बाह्वोः । अपाष्ठाच् छृङ्गात् कुर्मलाद् विशरं नाशयामि ते
अलवती रुरुशीर्ष्ण्य् अथो यस्यायो मुखम् । देव्यै पर्जन्यरेतस इषवे कृणुता नमः
याम् अत्रयो अङ्गिरसो गोतमा वीरुधं विदुः । तया भरद्वाजः कण्वो विशरं नाशयाति ते
यस् त्वा स्त्रैणाद् अपसरो यः पुंसो अध्यारुहत् । आक्लान्तं संक्लान्तं स्नाव तद् उ ते कल्पयामसि
वात इवाभ्रं च्यावयामि यक्ष्मं ते तन्वस् परि । वाचा यच् चक्रुस् ते गुरु तद् ऋचा लघु कृण्मसि । तेनाहम् ऋतोद्येन विशरं नाशयामि ते
यथा न सत्यं पुरुषः सदा वदितुम् अर्हति । विष्कन्धं त्वद् अपशरं विशरं पुष्ट्यामयम् । जम्भं हनुग्राभं शङ्खं तान् अजेना अजामसि
शुनम् इद् व ओषधयो वि दधे भेषजाय कम् । धनायुवः सनायुवः पुरुषं पारयिष्णवः
आत्मत्राणि देवजूता वीरुधायुष्या कृता । तयाहम् इन्द्रदत्तया विशरं नाशयामि ते
अलस्य व्यञ्जनस्य वेष्टनस्योत पर्णधेः । ग्रन्थेर् ज्याया इष्वा विशरं नाशयामि ते
साकं विष्कन्ध प्र पत चाषेण किकिदीव्या । साकं वातस्य ध्राज्या सह नश्य निहाकया
जङ्गिडो ऽसि जङ्गिडो रक्षितासि जङ्गिडः । द्विपाच् चतुष्पाद् अस्माकं सर्वं रक्षतु जङ्गिडः
या गृत्स्यस् त्रिपञ्चाशीः शतं कृत्याकृतश् च ये । सर्वान् विनक्ततेजसो ऽरसान् जङ्गिडस् करत्
अरसं कृत्रिमं नाडम् अरसाः सप्त विस्रसः । अपेतो जङ्गिडामतिम् इषुम् अस्तेव साधय
कृत्यादूषण एवायम् अथो अरातिदूषणः । अथो सहस्वां जङ्गिडः प्र ण आयूंषि तारिषत्
स जङ्गिडस्य महिमा परि णः पातु विश्वतः । विष्कन्धं येन सासाह संस्कन्धम् ओज ओजसा
तृष्ट्वा देवा अजनयन् निष्ठितं भूम्याम् अधि । तम् उ त्वाङ्गिरा इति ब्रह्माणः पूर्व्या विदुः
न त्वा पूर्वा ओषधयो न त्वा तरन्तु या नवाः । विबाध उग्रो जङ्गिडः परिपाणः सुमङ्गलः
अश्वोपदान् भगवो जङ्गिडामितवीर्य । पुरा त उग्राय सत उपेन्द्रो वीर्यं ददौ
उग्र इत् ते वनस्पत इन्द्र ओज्मानम् आ दधौ । अमीवाः सर्वाश् चातयञ् जहि रक्षांस्य् ओषधे
अशरीकं विशरीकं बलासं पुष्ट्यामयम् । तक्मानं विश्वशारदम् अरसं जङ्गिडस् करत्
इन्द्रस्य नाम गृह्णन्त ऋषयो जङ्गिडं ददुः । देवा यं चक्रुर् भेषजम् अग्रे विष्कन्धदूषणम्
स नो रक्षतु जङ्गिडो धनपालो धनेव । देवा यं चक्रुर् ब्राह्मणाः परिपाणम् अरातिहम्
दुर्हार्दसं घोरचक्षुं पापकृत्वानम् आगतम् । तांस् त्वं सहस्रचक्षो प्रतीबोधेन नाशय परिपानो ऽसि जङ्गिदः
परि मा दिवः परि मा पृथिव्याः पर्य् अन्तरिक्षात् परि मा वीरुद्भ्यः । परि मा भूतात् परि मोत भव्याद् दिशो दिशो जङ्गिडः पात्व् अस्मान्
य ऋष्णवो देवकृता य उचो बभृते न्याः । सर्वांस् तान् विश्वभेषजो अरसान् जङ्गिडस् करत्
प्रति गृहाण पृथिवी नीतम् एतद् आज्यस्य मथितं शरीरम् । इमां धेनुम् अस्य दातुस् त्वं रक्ष बर्हिष्य् आ यथासत्
उत त्वाहुर् वरुणस्य पत्नीम् अथो त्वाहुर् अदितिं विश्वरूपाम् । अधि जरायुम् आघारे हव्यवाहम् अग्नाव् अस्या महिमानं जुहोमि
स साहस्रं तन्तुम् अन्व् आ ततान सो अग्निष्टोमान् दशतं सम् आप । अधिजरायुं सवत्सां यो ददाति तं वै देवाः स्वर् आ रोहयन्ति
अधिजरायुः स्वर् आ रोहयन्त्य् अनेन दत्ता सुदुघा वयोधाः । सास्मै दुहां शतधारम् अक्षितं यम् अस्य लोके परमे व्योमन्
पूर्ववत्सेन सह वत्सिनी गौर् यो ऽस्या वत्सो अपरो जरायु तत् । तृतीयं मांसं परिनिर्मितं यत् तस्माद् देवा अधिजरायुम् आहुः
आ धावय शवसा वावृधान- -उत्तराव श्रव आधेह्य् अस्मै । इमम् इन्द्र महतामेन रक्ष सं प्रजया तन्वा सं बलेन
दुर्वेदावस्ताद् बहुधा परस्ताद् विश्वे देवाः प्रति पश्यन्त्य् आयतीम् । या भद्रा या सर्वतः समीची सेद् आहुतिर् भवतु मे तराज्या
गृष्टिं धेनुम् अधिजरायुं स्वधां कृण्वानः प्र ददाति ब्रह्मणे । सास्मै दुहां शतधारम् अक्षितम् अमुष्मिꣳल् लोके युग उत्तरस्मिन्
वत्सं जरायु प्रतिधुक् पीयूषं यो नो ददाति सुदुघामधेनुम् । तस्य देवाः प्र तिरन्त्व् आयुः स आ रोहतु सुकृताम् उलोकम्
परिवालाम् अधिजरायुं युधा जीवो अददाग्र एताम् । स्योना नः शग्मा शिवा विशेह मा नो हिंसीर् हरसा दैव्येन
भद्रकृतं सुकृतमादु शंभुवम् अरं भुवं प्रति गृह्णाम्य् आयतीम् । घृतश्रियं नभसी संवसानां देवान् मनुष्याꣳ असुरान् उतर्षीन्
पञ्च देवाः प्र पिबन्त एताम् इन्द्रस् त्वष्टा वरुणो मित्रो अग्निः । ते सर्वे सम् अदुर् मह्यम् एतां तयेह जीवन् प्र तिरस्वायुः
कश्यपो ऽयं जमदग्निर् वसिष्ठ ऋषयो नः ससनुर् अग्र एताम् । भरद्वाजो गोतमो अत्रिर् नः स्योनां विश्वामित्रो ददुषः प्र तिरात्य् आयुः
ऊर्जं देवेभ्यः सुभग ऊर्जं मनुष्येभ्यः । ऊर्जं पितृभ्यो अघ्न्य ऊर्जा ददत मा विश
या जाता ओषधयो देवेभ्यस् त्रियुगं पुरा । मन्ये नु बभ्रूणाम् अहं शतं धामानि सप्त च
शतं वो अम्ब धामानि सहस्रम् उत वो रुहः । अधा शतकृत्वो यूयम् इमं मे अगदं कृत
पुष्पवतीः प्रसूमतीः फलिनीर् अफला उत । अश्वा इव स्थ जित्वरीर् वीरुधः पारयिष्णवः
ओषधीर् इति मातरो यद् वो देवीर् उपब्रुवे । रपांसि विघ्नतीर् इत रक्षश् चातयमानाः
निष्कृतिर् नाम वो माता निष्कृतिर् नाम वः पिता । सराः पतत्रिणी स्थ यद् आमयति निष्कृतिः
अश्वत्थे वो निषदनं पर्णे वो वसतिष् कृता । गोभाज इत् किलासथ यत् सनवथ पुरुषम्
यद् अहं वाजयन्न् इमा ओषधीर् हस्त आदधे । आत्म यक्ष्मस्य नश्यतु पुरा जीवगृभो यथा
उच् छुष्मा ओषधीनां गावो गोष्ठाद् इवेरते । धनं सनिष्यन्तीनाम् आत्मानं तव पूरुषः
यद् ओषधयः समग्मत राजानः समिताव् इव । विप्रः स उच्यते भिषग् रक्षोहामीवचातनः
अश्वावतीं सोमावतीम् ऊर्जयन्तीम् उदोजसम् । आवित्सि सर्वा ओषधीर् इतो मा पारयान् इति
अति विश्वाः परिष्ठा स्तेन इव व्रजम् अक्रमीत् । ओषधयः प्रचुच्यवुर् यत् किं च तन्वो रपः
यस्यौषधयः प्रसर्पथ- -अङ्गम् अङ्गं परुष् परुः । तस्माद् यक्ष्मं वि बाधध्वम् उग्रो मध्यमशीर् इव
अन्या वो अन्याम् अवत्व् अन्यान्यस्या उपावत । ओषधयः संविदाना इदं मे प्रावता वचः
अवपतन्तीर् अपदं दिव ओषधयस् परि । यं जीवम् अश्नवामहै न स रिष्याति पूरुषः
या ओषधयः सोमराज्ञीर् बह्वीः शतविचक्षणाः । बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अंहसः
याः फलिनीर् या अफला अकोशा याश् च केशिनीः । बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अंहसः
जीवलां नघारिषाम् आ ते बध्नाम्य् ओषधिम् । या त आयुर् उपाहराद् अप रक्षांसि चातयात्
कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः । ताम् आ रोहन्ति कवयो विपश्चितस् तस्य चक्रा भुवनानि विश्वा
सप्त चक्रान् वहति काल एष सप्तास्य नाभीर् अमृतं न्व् अक्षः । स इमा विश्वा भुवनान्य् अञ्जन् कालः स ईयते प्रथमो नु देवः
पूर्णः कुम्भो अधि काल आहितस् तं वै पश्यामो बहुधा नु सन्तम् । स इमा विश्वा भुवनानि प्रत्यङ् कालं तम् आहुः परमे व्योमन्
स एव सन् भुवनान्य् आभरत् स एव सन् भुवनानि पर्य् ऐत् । पिता सन्न् अभवत् पुत्र एषां तस्माद् वै नान्यत् परम् अस्ति तेजः
कालो ऽमूं दिवम् अजनयत् कल इमां पृथिवीम् उत । कालेन भूतं भव्यं च- -इषितं ह वि तिष्ठते
कालो भूतिम् असृजत् कले तपति सूर्यः । कालो ह विश्वा भूतानि काले चक्षुर् वि पश्यति
काले मनः काले प्राणः काले नाम समाहितम् । कालेन सर्वा नन्दन्त्य् आगतेन प्रजा इमाः
काले तपः काले ज्येष्ठं काले ब्रह्म समाहितम् । कालो ह सर्वस्येश्वरो यः पितासीत् प्रजापतेः
तेनेषितं तेन जातं तद् उ तस्मिन् प्रतिष्ठितम् । कालो ह ब्रह्म भूत्वा बिभर्ति परमेष्ठिनम्
कालः प्रजाम् असृजत कालो अग्रे प्रजापतिम् । स्वयम्भूः कश्यपः कालात् तपः कालाद् अजायत
कालाद् आपः सम् अभवन् कालाद् ब्रह्म तपो दिशः । कालेनोद् एति सूर्यः काले नि विशते पुनः
कालेन वातः पवते कालेन पृथिवी मही द्यौर् मही काल आहिता । कालो ह भूतं भव्यं च पुत्रो अजनयत् पुरः
कालाद् ऋचः सम् अभवन् यजुष् कालाद् अजायत । कालो यज्ञं सम् ऐरयद् देवेभ्यो भागम् अक्षितम्
काले गन्धर्वाप्सरसः काले लोकाः समाहिताः । काले ऽयम् अङ्गिरा देवो अथर्वा चाधि तिष्ठतः
इमं च लोकं परमं च लोकं पुण्यांश् च लोकान् विधृतीश् च पुण्याः । सर्वाꣳल् लोकान् अभिजित्य ब्रह्मणा कालः स ईयते परमो नु देवः
सप्तैतं सप्त ऋषयः शल्यकर्ता द्वादश । आविद्धं शल्यं चाक्रतुर् इन्द्रराशिं महोदरम्
इन्द्रराशिं मित्रावरुणाव् आविद्धं निर् अकृन्ततम् । प्रसूतम् इन्द्रेणोग्रेण ब्राह्मणानाम् असत् पितुः
नैनम् अश्नीयाद् अब्राह्मणो न गृहान् प्र हरेत् स्वान् । तृष्टं विषम् इव तैमातम् इन्द्रराशिः खले शये
अयं शये तन्वं रक्षमाणो यो अश्नात्य् अविचक्षाण एतम् । मध्ये खलस्य निर्मित इन्द्रराशिर् महोदरः
उतैष यक्ष्मं भवति- -इन्द्रराशिर् महोदरः । भीमो अन्नस्य संकाशे अश्व इवात्ति शिनी नडम्
य इन्द्रराशिं निर्वपाद् वर्धयात् खलमान्याः । स्फातिं च खल्यां गृह्णातु गवां च बहु पुष्यतु
यम् उवाह शुनःशेपो यम् इन्द्रो ब्रह्मणस्पतिः । तं चक्रुः शिवम् अस्मभ्यं ऋषयो जीवनाय कम्
तृढं शाकं तम् अशयद् दत्तम् आसीच् छ्वापदम् । पन्द्रा स्म रुप्यन्तः शेरे य आदन्वहुतं हविः
अनडुहां पृश्निशफानां वहतां वहरापिणाम् । कीनाशस्य श्रमात् स्वेदाद् इन्द्रराशिर् अजायत
यत् किनाशस्य स्वेद एति संतप्तस् तन्वस् परि । अपां गाव इव तृष्यन्तीर् इन्द्रराशिं सो अश्नुते
यत् कीनाशं सीरपतिर् दण्डेन हन्ति मन्युतः । यत् किं च खल्यं सादान्ववम् इन्द्रराशौ तद् आहितम्
उलूखलमुसलं तानि चोदय सूर्पं नार्य् अपविचे कृणुष्व । वाहाय पुत्राय गोतम इन्द्रराशिं मधुमन्तं कृणोतु
एतत् सूर्पं जरितर् आ हर- -उलूखलमुसलं कुम्भ्य् आ गहि । पुत्रा नो अद्य सुदिनत्वे अह्नि पित्तम् अश्नन्त मधुमन्तम् अंशुम्
अग्निर् नो दूतः प्रहितो ऽयम् आगन् स नः सर्वम् अन्नम् अविषं कृणोतु । निराविद्धम् अकृतं ब्रह्मणेतो ऽदोमधं पित्तम् अत्त प्रसूताः
स्वादो पितो मधो पित उप नः पितव् आ गहि । शिवः शिवाभिर् ऊतिभिः
सिंहो भूत्वा गा मृणात्य् अग्निर् भूत्वा धान्यम् । इन्द्रराशिर् अनिर्मितो मयारं चाव गच्छति
शतकाण्डो दुश्च्यवनः सहस्रपर्ण उत्तिरः । दर्भो य उग्र ओषधिस् तं ते बध्नाम्य् आयुषे
नास्य केशान् प्र वपन्ति नोरसि ताडम् आ घ्नते । यस्मा अच्छिन्नपर्णेन दर्भेण शर्म यच्छति
दिवि ते तूलम् ओषधे पृथिव्याम् असि निष्ठितः । त्वया सहस्रकाण्डेन आयुष् प्र वर्धयामहे
तिस्रो दिवो अत्य् अतृणस् तिस्र इमाः पृथिवीर् उत । तयाहं सर्वान् दुर्हार्दो जिह्वां नि तृणद्मि वचांसि च
त्वम् असि सहमानो अहम् अस्मि सहस्वान् । उभौ सहस्वन्तौ भूत्वा सपत्नान् सहिषीवहि
सहस्व नो अभिमातिं सहस्व पृतनायतः । सहस्व सर्वान् दुर्हार्दः सुहार्दो मे बहून् कृधि
दर्भेण देवजातेन दिविष्टम्भेन शश्वद् इत् । तेनाहं सस्वतो जनाꣳ असनं सनवानि च
प्रियं मा दर्भं कृणु ब्रह्मराजन्याभ्यां शूद्राय चार्याय च । यस्मै च कामयामहे सर्वस्मै च विपश्यते
यो जायमानः पृथिवीम् अदृंहद् यो अस्तभ्नाद् अन्तरिक्षं दिवं च । यं बिभ्रतं ननु पाप्मा विवेद स नो ऽयं दर्भो धरुणो दिवा कः
सपत्नहा शतकाण्डः सहस्वान् ओषधीनां प्रथमः सं बभूव । स नो ऽयं दर्भः परि पातु विश्वतस् तेन साक्षीय पृतनाः पृतन्यतः
सहस्रार्घः शतकाण्डः पयस्वान् अपाम् अग्निर् वीरुधां राजसूयम् । स नो ऽयं दर्भः परि पातु विश्वतो दैवो मणिर् आयुषा सं सृजाति नः
घृताद् उल्लुप्तो मधुमान् पयस्वान् भूमिदृंहो अच्युतश् चावयिष्णुः । नुदन् सपत्नान् अधरांश् च कृण्वन् दर्भारोह महता महेन्द्रियेण
त्वं भूमिम् अत्य् एष्य् ओजसा त्वं वेद्यां सीदसि चारुर् अध्वरे । त्वां पवित्रम् ऋषयो ऽभरन्त त्वं पुनीहि दुरितान्य् अस्मत्
तीक्ष्णो राजा विषासही रक्षोहा विश्वचर्षणिः । तेजो देवानां बलम् उग्रम् एतत् तं ते बध्नामि जरसे स्वस्तये
दर्भेण त्वं कृणु वीर्याणि दर्भं बिभ्रद् आत्मना मा व्यथिष्ठाः । अतिष्ठायो वर्चसैध्वन्यान् सूर्य इवा भाहि प्रदिशश् चतस्रः
उद् ईरतां पृथिवी जीरदानुः शीत एनाम् अन्तर्वान् अनु वातु वातः । ऋत्वियावती पृथिवी प्रति गृह्णातु बीजं सहस्रवल्लिशं सुरुहारोहयन्ती
इन्द्र एनां हर्यश्वो अग्निर् वा रोहिताश्वः । अश्विना रासभाश्वा कृषिं देवीम् अयूयुजन्
शुनं वरत्राम् आ यच्छ शुनम् अष्ट्राम् उद् इङ्गय । शुनं तोतप्यतां फालः शुनं वहतु लाङ्गलम्
युनक्तु वाहान् वि युगा तनोत कृते क्षेत्रे वपतेह बीजम् । तथा धाता तथा भगस् तथा कृणुताम् अश्विना तथा देवी सरस्वती
सुपिप्पला ओषधयो नाहीना अपक्षत । तद् इन्द्रो वरुणो वायुर् अश्विनेदं मे प्र तिरता वचः
धाता पूषा बृहस्पतिर् भूत्याः सम् अजीगमन् । कृषिं देवाः स्वर्विदः
कल्याणी सुभगेव या संस्थायां वपुषेण्या । सा नस् तिराति मधुमन्तम् अंशुम्
अन्नस्य भूमा पुरुषस्य भूमा भूमा पशूनां त इह श्रयन्ताम् । तीव्रा वर्षन्तु वृष्टयो भूतये महसे वृधे
पिन्वानः पर्जन्यस् तिष्ठतु सह पृष्ठयोद् एति सूर्यः । आनन्दं जनयन् यवः सर्वा अरातीर् अपबाधमानः
वि जिहीष्व पृथिवीम् अह्युर् वि पक्षम् ऋद्वी भव । भद्रं रोहतु धान्यम्
उत्सेध सेध गा अजन् विन्देहेरां महस् कृधि । मा वो रिषत् कूटग्राहो मा व आ शारि लाङ्गलम्
मो अस्माकम् उग्राः संरब्धास् तन्वः किं चनाममत् । रायस्पोषं शुनासीरा अथो सीताभगश् च यः
देष्ट्री समुद्रः सिनीवाली कृषिं नो अभि हिन्वत । इमा याः पञ्च प्रदिशस् ता वातो अभि हिन्वत । वलीके सत्वताम् इव तीव्रा वर्षन्तु वृष्टयः
शुनं कीनाशो अन्व् एतु वाहाञ् छुनं फालो विनुदन्न् एतु भूमिम् । शुनासीरा हविषा वावृधाना शुनं धान्यानि कृणुतां युवं नः
या नः पीपरद् अश्विना ज्योतिष्मती तमस् तिरः । ताम् अस्मे रासेताम् इषम्
ऊर्ध्वश्रितो वै नामैता आपो यद् ओषधयश् च वनस्पतयश् च तासाम् अग्निर् अधिपतिः । यो वा एता ऊर्ध्वश्रित आपो वेदाग्निम् अधिपतिम् । यथैतम् एता ऊर्ध्वा उपतिष्ठन्त्य् एवैनम् ऊर्ध्वा उप तिष्ठन्त्य् अधिपतिर् भवति स्वानां चान्येषां च य एवं वेद
प्रस्कद्वरीर् वै नामैता आपो यत् पृष्वास् तासाम् आदित्यो ऽधिपतिः । यो वा एताः प्रस्कद्वरीर् आपो वेदादित्यम् अधिपतिम् । यथैता एतस्मिन्न् उद्यति प्रस्कन्दन्त्य् एवास्मिन्न् आ यति प्रस्कन्दन्त्य् अधिपतिः (…)
तक्वरीर् वै नामैता आपो याः सूदय तासां पृथिव्य् अधिपत्नी । यो वा एतास् तक्वरीर् आपो वेद पृथिवीम् अधिपत्नीम् । यथैता एतस्यां प्रणुतास् तकन्तीर् यन्त्य् एवैनेन द्विषन्तः प्रणुता यन्त्य् अधिपतिः (…)
वशिनीर् वै नामैता आपो याः स्यन्दन्ते तासां वरुणो ऽधिपतिः । यो वा एता वशिनीर् आपो वेद वरुणम् अधिपतिम् । यथैतम् एतासां स्यन्दमानानां वशम् आदत्त एवा द्विषतां वशम् आ दत्ते ऽधिपतिः (…)
ऊर्जो वै नामैता आपो यद् गावस् तासां त्वष्टाधिपतिः । यो वा एता ऊर्ज आपो वेद त्वष्टारम् अधिपतिम् । ऊर्जस्वी तेजस्वी भवति प्र साहस्रान् पशून् आप्नोत्य् अधिपतिर् भवति (…)
वर्चो वै नामैता आपो यद् घृतं तासां पूषा अधिपतिः । यो वा एता वर्च आपो वेद पूषणम् अधिपतिम् । वर्चस्वी तेजस्वी भवत्य् उतास्यानभ्यक्तस्य मुखं रोचते ऽधिपतिः (…)
ओजो वै नामैता आपो यन् मधु तासाम् इन्द्रो ऽधिपतिः । यो वा एता ओज आपो वेदेन्द्रम् अधिपतिम् । ओजस्वी वीर्यावान् इन्द्रियावी भवति प्र राजसभायां मधुपर्कम् आप्नोत्य् अधिपतिः (…)
उग्रा वै नामैता आपो यद् ध्रादुनयस् तासां मरुतो अधिपतयः । यो वा एता उग्रा आपो वेद मरुतो ऽधिपतीन् । उग्रो बलवान भवति मारुतं शर्ध इत्य् एनम् आहुर् अधिपतिः (…)
महो वै नामैता आपो यद् वर्षं तासां पर्जन्यो ऽधिपतिः । यो वा एता मह आपो वेद पर्जन्यम् अधिपतिम् । महस्वी मित्रबाहो भवत्य् उतैनेन स्वा नन्दन्त्य् अस्माकम् अयम् इति तस्मात् सर्वो वृष्टे महीयते ऽधिपतिः (…)
अतिमन्या वै नामैता आपो यत् सुरा तसाम् अश्विनाधिपती । यो वा एता अतिमन्या आपो वेदाश्विनाधिपती । अति मन्यते भ्रातृव्यान् नैनं भ्रातृव्या अति मन्यन्ते तस्मान् मत्तो मत्तम् अति मन्यते ऽधिपतिः (…)
परिचितो वै नामैता आपो याः कर्ष्वां तासां यमो ऽधिपतिः । यो वा एताः परिचित आपो वेद यमम् अधिपतिम् । पर्य् एनं स्वाश् च विश्याश् चावश्यन्त्य् अधिपतिः (…)
रन्तयो वै नामैता आपो य स्त्रियस् तासां कामो ऽधिपतिः । यो वा एता रन्तीर् आपो वेद कामम् अधिपतिम् । रमन्ते अस्मिन् रमणीयो भवति काम इव स्त्रीणाम् अधिपतिः (…)
विश्वभृतो वै नामैता आपो यत् पुरुषस् तासां मृत्युर् अधिपतिः । यो वा एता विश्वभृत आपो वेद मृत्युम् अधिपतिम् । विश्वस्य भर्ता भवति विश्वम् एनं बिभर्त्य् आस्य त्रयो ऽग्नयो गृहे धीयन्ते दक्षिणाग्निर् गार्हपत्य आहवनीयः । ऐनं चत्वारि वामानि गच्छन्ति निष्कः कंसो ऽश्वतरो हस्त्य् अधिपतिः (…)
तासां वा एतासाम् अपां हिमवान् ऊधः सोमो वत्सः परमेष्ठ्य् अधिपतिः । यो वा एतासाम् अपां हिमवन्तम् ऊधः सोमं वत्सं परमेष्ठिनम् अधिपतिं वेद । परमेष्ठी भवति गच्छति परमेष्ठिताम् अधिपतिर् भवति स्वानां चान्येषां च य एवं वेद
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ṚṢIS). Atharvaveda Paippalāda — Kāṇḍa 11. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-11>. Acesso em: 26/04/2026.
Tradição Védica (Ṛṣis) (2026). Atharvaveda Paippalāda — Kāṇḍa 11. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-11
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 11." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-11.