Atharvaveda Paippalāda — Kāṇḍa 13
Tradição Védica (Ṛṣis)
अनुवाक २ ॥ काण्ड १३ अन्तर्हितं मे बृहद् अन्तरिक्षम् अन्तर्हिताः पर्वता अग्नयो मे । मैषां राध्य् अभिचार एष प्रत्यग् एनान् प्रतिसरेण हन्मि
तपःश्रमाव् अन्तरौ मत् परीतं ब्रह्मयज्ञम् अन्तरं मद् दधामि । (…)
अग्नीषोमाव् अन्तरौ मद् भवाथो दिवं वर्म पृथिवीं च कृण्वे । (…)
अन्तर्हितं मे साम प्रस्तुतम् अन्तर्हितः परमेष्ठी प्रजापतिः । (…)
अन्तर्हिता सर्पराज्ञी वीराण् मे अन्तर्हितः पुरुषो मेध्यो मे । (…)
अन्तर्हिता मे षड् उर्वीः सध्रीचीर् अन्तर्हिताः साध्या आप्त्या मे । (…)
(अन्तर्हिता) म ऋषयः प्रचेतसो अन्तर्हितः सूर्यो मातरिश्वा । (…)
अन्तर्हिता मे नद्यः स्यन्दमाना अन्तर्हिता ओषधीः पुष्पिणीर् मे (…)
अन्तर्हिताः पशवः कक्ष्या मे अन्तर्हितं वयो यत् पतत्रि । (…)
अन्तर्हिता म इषवो ब्राह्मणानाम् अन्तर्हिता वनस्पतयः समूलाः । (…)
अन्तर्हिता देवतल्पाः पुरो मे अन्तर्हिता जगती छन्दसां मे । (…)
अन्तर्हिता मे समुद्रा द्वादशा अन्तर्हिता उषसि तारका मे । (…)
अन्तर्हिता अग्नयो धिष्ण्या मे अन्तर्हिता ऋतव आर्तवा मे । (…)
अन्तर्हिता मे प्रदिशश् चतस्रो अन्तर् भूतम् उत भव्यं दधे ऽहम् । मैषां राध्य् अभिचार एष प्रत्यग् एनान् प्रतिसरेण हन्मि
हन्मि ते ऽहं कृतं हविर् यो मे घोरम् अचीकृतः । अपाञ्चौ त उभौ बाहू अपि नह्याम्य् आस्यम्
अपि नह्यामि ते बाहू अपि नह्याम्य् आस्यम् । अग्नेर् देवस्य मन्युना तेन ते ऽवधिषं हविर् यो मे घोरम् अचीकृतः
उदितः शतयोजनम् इन्द्रो वर्तयते रथम् । सायकं क्षुरवर्त्मानम् अहेर् जातानि जम्भयन्
दृढास आसन्न् अहयो हता उदरसर्पिणः । पुच्छम् उद्वेष्टयन्तः श्वा पिण्डम् अदन्न् इव
पापक पापरूपक किं मे सखायम् आतुदः । न माम् अपश्य आगतं सतीनं विषदूषणम्
अहिजम्भाश् चरामसि मुष्काबर्हो गवाम् इव । पीला उप स्वजं हन्म उप स्तम्भे पृदाक्वम्
ये के चेदम् उपासौषुर् वातस्येव पृथग् यतः । अङ्गो नु सर्वे ब्रूत- -आहेयम् अरसं विषम्
त्रिद्धिसि ते निषदनं त्रिपुषि पाप ते गृहः । अच्छिन्नं त्वा वातो हन्त्य् अच्छिन्नम् अभि वर्षति
नाकुलेन भेषजेन तेनाहीन् जम्भयामसि । मांश्चतुर् नाम वृक्षकः स एनान् अरसान् अकः
असिताहे ऽरसं विषम् उभयोः सितस्य च । अभिक्रन्दस्य या रोपीस् ता इतो ऽप नयामसि
इदं पैद्वो अजायत- -इदम् अस्य विवर्तनम् । इदं कनिक्रदो मृगो विषम् एति पराभवम्
विषूचीना वाता वान्तु विष्वग् वर्षन्तु वृष्टयः । विष्वग् विषं प्र मेह त्वं शतधार इवावटः
निर् इतो हरितस्रजम् इन्द्रो वर्तयते रथम् । तेनापि लिह्न ईयते निपिंषन्न् अहिनाम्नः
येनेन्द्र दस्यून् अमृणोर् येन वृत्रं पराभिनः । तेना शतक्रतो त्वम् अहेर् जातानि जम्भय
प्रत्य् अमोदत पृथिवी प्रति द्यौः प्रति सूर्यः । पैद्वो यद् अश्वमाता क्रन्देनाहीन् अपावपत्
यदा पैद्वो ऽश्वमाता क्रन्देनाहीन् अपावपत् । रज्जू ष्म दत्वतीः शेरे पूयन्तीः पृथिवीम् अनु
नापो जीर्यन्ति नामृतं नेन्द्राणी विधवाभवत् । न त्वाम् आस्तेगिषद् विषम् अश्मानम् इव सायकम्
इन्द्राग्नी मित्रावरुणा त्वष्टारम् अदितिं भगम् । हुवे ऽहम् अर्वन्तं पैद्वं मा मे ऽयं पुरुषो रिषत्
सद्यो जातो ऽकनिक्रदत् सोल्बो व्य् अधूनुत । क्रन्देनाश्वस्य वाजिनो ऽहन्यन्ताहयः पृथक्
अनुवाक १ ॥ इमं स्तोमम् अर्हते जातवेदसे रथम् इव सं महेमा मनीषया । भद्रा हि नः प्रमतिर् अस्य सं सद्य् अग्ने सख्ये मा रिषामा वयं तव
यस्मै त्वम् आयजसे स साधत्य् अनर्वा क्षेति दधते सुवीर्यम् । स तूताव नैनम् अश्नोत्य् अंहतिर् अग्ने (…)
भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणा पर्वणा वयम् । जीवातवे प्रतरं साधया धियो ऽग्ने (…)
शकेम त्वा समिधं साधया धियस् त्वे देवा हविर् अदन्त्य् आहुतम् । त्वम् आदित्याꣳ आ वह तान् ह्य् ऊष्मस्य् अग्ने (…)
त्वम् अध्वर्युर् उत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः । विश्वा विद्वाꣳ आर्त्विज्या धीर पुष्यस्य् अग्ने (…)
दिशां गोपा अस्य चरन्ति जन्तवो द्विपाच् च यद् उत चतुष्पद् अक्तुभिः । चित्रः प्रकेत उषसो महाꣳ अस्य् अग्ने (…)
यो विश्वतः सुप्रतीकः सदृङ्ङ् असि दूरे चित् सन् तडिद् इवाति रोचसे । रात्र्याश् चिद् अन्धो अति देव पश्यस्य् अग्ने (…)
पूर्वो देवा भवतु सुन्वतो रथो ऽस्माकं शंसो अभ्य् अस्तु दूढ्यः । तद् आ जानीतोत पुष्यता वाचो ऽग्ने (…)
वधैर् दुःशंसाꣳ अप दूढ्यो जहि दूरे वा ये अन्ति वा के चिद् अत्रिणः । अथा यज्ञाय गृणते सुगं कृध्य् अग्ने (…)
यद् अयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः । आद् इन्वसि वनिनो धूमकेतुना- -अग्ने (…)
अध स्वनाद् उत बिभ्युः पतत्रिणो द्रप्सा यत् ते यवसादो व्य् अस्थिरन् । सुगं तत् ते तावकेभ्यो रथेभ्यो ऽग्ने (…)
त्वं मित्रस्य वरुणस्य धास्य् अवयातां मरुतां हेडो अद्भुतः । मृडा सु नो भूत्व् एषां मनः पुनर् अग्ने (…)
देवो देवानाम् असि मित्रो अद्भुतो वसुर् वसूनाम् असि चारुर् अध्वरे । शर्मन्त् स्याम तव सप्रथस्तमे ऽग्ने (…)
तत् ते भद्रं यत् समिद्धः स्वे दमे सोमाहुतो जरसे मृडयत्तमः । दधासि रत्नं द्रविणं च दाशुषे ऽग्ने सख्ये मा रिषामा वयं तव
यस्मै त्वं सुद्रविणो ददाशो ऽनागास् त्वम् अदिते सर्वताता । यं भद्रेण शवसा चोदयासि प्रजावन्तो राधसा ते स्याम
स त्वम् अग्ने सौभगत्वस्य विद्वान् अस्माकम् आयुः प्र तिरेह देव । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
किम् इन्द्रस्य परिहितं किम् अग्नेः किं विष्णोस् त्वष्टुर् वरुणस्य वासः । बृहस्पतेर् उत सोमस्य राज्ञः किं वसाना मरुतो वर्षयन्तु
धातू रुद्रस्य किं वायोर् वाजिनां वसनं महत् । किं पूषा ब्रह्मणस्पतिर् विश्वे देवाश् च बिभ्रति
किं देवानां परिधानं समानं यस्मिन्न् एषां सांमनस्यं बभूव । क्व रात्री निविशते क्वाहः क्वेदम् अभ्रं भवति यत् समेति व्येति च
कतमेनापो दिवम् उद्वहन्ति कः समेनोदयनेन नेता । वातस्य त्वा विद्युतां स्तनयित्नुर् अपां पृच्छाम्य् अयनान्य् अग्नेः
पृच्छामि त्वा पृषतीं रोहिणीं च वत्सं पृच्छामि सह मातरं त्वा । इन्द्रं त्वानु पृच्छामि साक्षात् सभानां च सभापतिम्
को वयसाम् अदधान् नामानि कः पशूनां कः सर्पाणां देवजना य आसन् । को ऽस्य जन्तोर् अदधाद् ब्रूहि नस् तत्
कति रोहाः स्वर् आ रोहयन्ति येभी रोहितो दिवम् आरुरोह । राष्ट्रभृतः क्षत्रभृतो वसुभृतो वसुदानवो वसुयवः
कश् चतुर्धा वि क्रमते महित्वा कं रक्षन्ति कवयो ऽप्रमादम् । पुरुषं त्वानु पृच्छामि साक्षान् मृत्योर् अङ्गानि कति तानि वेत्थ
यं सिषेव वृषभश् चर्षणीणाम् इन्द्रो वज्रम् अहीना स्पर्धमानः । येन वृत्रं मघवा संपिपेश तं नः प्र ब्रूहि यदि तं प्रवेत्थ
कः पर्वतानाम् अदधान् नामानि को वनस्पतीनाम् अदधाद् ओषधीनाम् । पृच्छामि त्वा भुवनस्य नाभिं गां त्वा पृच्छामि कतमानि साक्षात्
देवतल्पा देवकोशाः क्वेह तान् नः प्र ब्रूहि यदि तान् प्रवेत्थ । पृच्छामि त्वा गरगिरः कियन्तो येभ्यो ऽग्निर् हव्यं वहति प्रजानन् हुतं मर्त्यैर् अमृतो मर्त्येभ्यः
स्वप्ने य एकस् तमसा सहैत्य् अङ्गानि गृह्णन् पुरुषस्य चक्षुः । स प्रातर् एति तमसा पुनः स हा ज्योतिर् एति क्व सददेति
व्रतपतिम् अधिपतिं मधुकृता मधुपतिम् । देवांस् त्वा सर्वान् पृच्छाम्य् अहुतादश् च ते कति
को ऽन्तरिक्षात् परि पश्यतीदं यस्माद् अग्र इन्द्रियं संबभूव । महत् स कस्माद् अभयं बिभाय कस्य युक्तस्यास्या स्रक्वाल् लोहितं परापतत् तत् क्वेह
इत्थम् एके प्रव्रजन्तीत्थम् एके दक्षिणाः प्रत्यञ्च उदञ्चः प्राञ्चो ऽभि व्रजन्त्य् एके । तेषां सर्वेषाम् इह सङ्गतिः साकं स एको भूतश् चरति प्रजानन्
मरीचिर् आसीत् सा मनसः सम् अभवत् । सा प्रवीयत सा गर्भम् अधत्त । स गर्भो ऽवर्धत स वृद्धो ऽब्रवीज् जाया इति । तस्यै प्रजापतिर् अजुहोत् स्वधिष्ठाना चेति स्वधिचरणा चेति । प्रजापतिः ससृजे कपाले विजिहीथां मा मा सं ताप्तं महान्तं लोकम् अभिपश्यमाने सो ऽजायत तस्य जातस्य द्यावापृथिवी पार्श्वे आस्तां समुद्रौ कुक्षी सूर्याचन्द्रमासाव् अक्षी विराट् शिरः । तस्माज् जातात् सर्वे पाप्मानो विजन्ते सर्वे अस्मात् पाप्मानो विजन्ते य एवं वेद
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ṚṢIS). Atharvaveda Paippalāda — Kāṇḍa 13. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-13>. Acesso em: 26/04/2026.
Tradição Védica (Ṛṣis) (2026). Atharvaveda Paippalāda — Kāṇḍa 13. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-13
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 13." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-13.