Atharvaveda Paippalāda — Kāṇḍa 15
Tradição Védica (Ṛṣis)
अनुवाक ३ ॥ काण्ड १५ सम्यन् दिग्भ्यः पवते सं स्वर्विन् मधोर् अतो माधवः पात्व् अस्मान् । अग्निर् देवो दुष्टरीतुर् अदाभ्य इदं क्षत्रं रक्षतु पात्व् अस्मान्
रथन्तरं सामभिः पात्व् अस्मान् गायत्रेण च्छन्दसा विश्वरूपम् । द्वादशा इष्टया स्तोमो अह्नां समुद्रो वाच इदम् ओजः पिपर्तु
उग्रा दिशाम् अभिभूतिर् वयोधाः शुचिः शुक्रे अहन्य् ओजस्ये । इन्द्राधिपतिः पिपृताद् अतो नो मयि क्षत्रं विश्वतो धारयेदम्
बृहद् राष्ट्रं क्षत्रभृद् वृद्धवृष्ण्यं त्रिष्टुभौजः शुभितम् उग्रवीरम् । इन्द्र स्तोमैः पञ्चदशेन वर्च इदं वातेन सगरेण रक्षतु
प्राची दिशां सहयशा यशस्वती विश्वे देवाः प्रावृषाह्नां स्वर्वती । इदं क्षत्रं दुष्टरम् अस्त्व् ओजो अनाधृष्टं सहस्वं सहस्वत्
वैरूपे सामन्य् अह तच् छकेयं जगत्यैनद् विक्ष्व् आ वेशयामि । विश्वे देवाः सप्तदशेन वद्यम् इदं क्षत्रं सलिलावतम् उग्रम्
धत्री दिशां क्षत्रम् इदं दाधर्तु- -उपस्थाशानां मित्रवद् अस्त्व् ओजः । मित्रावरुणा शरदाह्ना चिकित्नू अस्मै क्षत्राय महि शर्म यच्छतम्
वैराजे सामन्य् अधि मे मनीषा- -अनुष्टुभा संभृतं वीर्यं सहः । इदं क्षत्रं मित्रवद् आर्द्रदान्व् ओजा मित्रावरुणा रक्षतम् आधिपत्ये
सम्राड् दिशां सहसाम्नी सहस्वत्य् ऋतुर् हेमन्तो विष्ठया नः पिपर्तु । ओषजातां बृहती च शक्वरी- -इमं यज्ञम् अवतां नो घृताची
स्वर्वती सुदुघा नः पयस्वती दिशां देव्य् अवतु नो घृताची । त्वं गोपाः पुरएतोत पश्चाद् बृहस्पते याम्यां युङ्धि वाचम्
स्तोमैकविंशे भुवनस्य पत्नि विवस्वग्वाते अभि नो गृणीहि । घृतवती सवितर् आधिपत्ये पयस्वती रन्तिर् आशा नो अस्तु
ऊर्ध्वा दिशां रन्तिर् आशौषधीनां संवत्सरेण सविता नो अह्ना । रेवत् साम्नां पङ्क्तिश् छन्दसाम् अजातशत्रुः स्योना नो अस्तु
विष्टम्भो दिवो धरुणः पृथिव्या अस्येशाना जगतो विष्णुपत्नी । विश्वव्यचा इषयन्ती सुहुतिः स्योना नो अस्त्व् अदितेर् उपस्थे
ध्रुवा दिशां विष्णुपत्न्य् अघोरा- -अस्येशाना सहसो या मनोता । बृहस्पतिर् मातरिश्वोत वायुः संधाना वाता अभि नो गृणन्तु
यो नः पिता जनिता यो विधर्ता यो नः सतो अभ्य् आ सज् जजान । स आशिषा द्रविणम् इच्छमानः प्रथमच्छदो वर आ विवेश
अभ्य् आ वर्तस्व पृथिवी यज्ञेन पयसा सह । अपान्तो अग्निर् इषितो ऽव रोहतु
यद् अग्ने चन्द्रं यत् पूतं यच् छुक्रं यच् च यज्ञियम् । तद् देवेभ्यो भरामसि
इषम् ऊर्जम् अहम् अत आदि यज्ञस्य योनौ महिषस्य धामन् । आ नो गोषु विशस्त्व् आ प्रजायां जहामि सेदिम् अनिराम् अमीवाम्
आयुषो ऽसि प्रतरणं विप्रं भेषजम् उच्यसे । तद् आञ्जन त्वं शन्ताते ऽसि मायोभवं कृतम्
यो हरिमा जायान्यो अङ्गभेदो विसल्पकः । सर्वं ते यक्ष्मम् अङ्गेभ्यो बहिर् निर् हन्त्व् आञ्जनम्
आञ्जनं पृथिव्यां जातं भद्रं पुरुषजीवनम् । कृणोत्व् अत्प्रमायकं रथजूतिम् अनागसम्
प्राण प्राणं त्रायस्वासो असवे मृड । निरृते निरृत्या नः पाशेभ्यो मुञ्च
सिन्धोर् गर्भो ऽसि विद्युतां पुष्पम् । वातः प्राणः सूर्यश् चक्षुर् दिवस् पयः
देवाञ्जनं त्रैककुदं परि मा पाहि विश्वतः । न त्वा तरन्त्य् ओषधयो बाह्याः पर्वतीया उत
वीदं मध्यम् अवासृजद् रक्षोहामीवचातनः । अमीवाः सर्वाश् चातयन् नाशयद् अभिभा इतः
बह्व् इदं राजन् वरुण- -अनृतम् आह पुरुषः । तस्मात् सहस्रवीर्य मुञ्च नः पर्य् अंहसः
यद् आपो अघ्न्या इति वरुणेति यद् ऊचिम । तस्मात् सहस्रवीर्य मुञ्च नः पर्य् अंहसः
मित्रश् च त्वा वरुणश् च- -अनु प्रेयतुर् आञ्जन । तौ त्वानुगत्य दूरं भोगाय पुन रोहतु
ऋणाद् ऋणम् इव सं नय कृत्यां कृत्याकृतो गृहम् । चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीर् अपि शृणाञ्जन
यद् अस्मासु दुष्वप्न्यं यद् गोषु यच् च नो गृहे । अमामगत्यस्त दुर्हार्दः प्रिय प्रति मुञ्चताम्
अपाम् ऊर्ज ओजसो वावृधानम् अग्नेर् जातम् अधि जातवेदसः । चतुर्वीरं पर्वतीयं यद् आञ्जनं दिशः प्रदिशः करद् इच् छिवास् ते
चतुर्वीरं बध्यत आञ्जनं ते सर्वा दिशो अभयास् ते भवन्तु । ध्रुवस् तिष्ठाधि सवितेव वार्य इमा विशो अभि हरन्तु ते बलिम्
आङ्क्ष्वैकं मणिम् एकं कृणुष्व स्नाह्य् एकेन पिबैकम् एषाम् । चतुर्वीरं नैरृतेभ्यश् चतुर्भ्यो ग्राह्या बन्धेभ्यः परि पात्व् अस्मान्
अग्निर् माघ्न्येनावतु प्राणायापानायायुषे । वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा
इन्द्रो मेन्द्र्येणावतु प्राणायापानायायुषे । वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा
सोमो मा सोम्येनावतु प्राणायापानायायुषे । वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा
भगो मा भगेनावतु प्राणायापानायायुषे । वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा
मरुतो मा गणैर् अवन्तु प्राणायापानायायुषे । वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा
अनुवाक १ ॥ आयुर्दा देव जरसं पृणानो घृतप्रतीको घृतपृष्ठो अग्ने । घृतं पिबन्न् अमृतं चारु गव्यं पितेव पुत्रं जरसे नयेमम्
आयुर् अस्मै धेहि जातवेदः प्रजां त्वष्टर् अधि नि धेह्य् ओनः । रायस्पोषं सवितर् आ सुवास्मै शतं जीवाति शरदस् तवायम्
इमम् अग्न आयुषे वर्चसे धाः प्रियं रेतो वरुण मित्र राजन् । मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर् जथासत्
अग्निष् ट आयुः प्रतरं कृणोतु सोमस् ते पुष्टिं प्रतरं दधातु । इन्द्रो मरुत्वान् अधि ते ब्रवीत्व् आदित्यैस् ते अदितिः शर्म यच्छतु
रेवतीस् त्वा व्यक्षणं कृत्तिकाश् चकृतुस् त्वा । अपसस् त्वाम् अतन्वत धियो ऽवयन्न् अवाग्नायीर् अपृञ्चन्
सहस्रम् अन्ताꣳ अभितो ऽददन्ता- -अशीतिर् मध्यम् अभयं वि नारीः । देवीर् देवाय परिधे सवित्रे महत् तद् आसामघवन् महित्वम्
इमम् अश्मानम् आ तिष्ठ- -अश्मेव त्वं स्थिरो भव । प्र मृणीहि दुरस्यतः सहस्व पृतणायतः
येन देवं सवितारं परि देवा अधारयन् । तेनेमं ब्रह्मणस्पते परि राष्ट्राय धत्तन
परीमम् इन्द्रम् आयुषे महे क्षत्राय धत्तन । यथैनं जरसे नयाञ् ज्योक् क्षत्रे अधि जागरत्
परीमं सोमम् आयुषे महे श्रोत्राय धत्तन । यथैनं जरसे नयां ज्योक् श्रोत्रे अधि जागरत्
परि धत्त धत्त वर्चसेमं जरामृत्युं कृणुत दीर्घम् आयुः । बृहस्पतिः प्रायच्छद् वास एतत् सोमाय राज्ञे परिधातवा उ
जरां सु गच्छ परि धत्स्व वासो भवा गृष्टीनाम् अभिशस्तिवा उ । शतं च जीव शरदः सुवर्चा रायस्पोषम् उप सं व्ययस्व
परीदं वासो अपि धाः स्वस्तये ऽभूर् वापीनाम् अभिशस्तिपा उ । शतं च जीव शरदः पुरूचीर् वसूनि चारुर् विभजासि जीवन्
योगे योगे तपस्तरं वाजे वाजे हवामहे । सखाय इन्द्रम् ऊतये
हिरण्यवर्णो अजरः सुवीरो जरामृत्युः प्रजया सं विशस्व । तद् अग्निर् आह तद् उ सोम आह बृहस्पतिः सविता तद् इन्द्रः
यदोत्तमत् तन्तु बधाय नावद्वासः पूर्वयावत् पुरुरूपपेशः । भद्रातीका समजरं सुवीरं तेन देवाः प्र तिरन्त्व् आयुः
यस्य ब्राह्मणः सिचम् आरभन्ते श्रथ्नन्तो नीवं प्रतिरन्त आयुः । तस्य देवा देवहूतिं जुषन्तां स विश्वहा सचतां स्वस्ति
अन्यद् आ धत्स्व परि धत्स्व वास इमम् उल्बम् अप लुम्पामि यस् ते । जरसे त्वाम् ऋषयः सं व्ययन्तु सूर्यो भगस् ते प्र तिरन्त्व् आयुः
यस्य देवासः प्रथमवास्यं हरामि तं त्वा विश्वे अवन्तु देवाः । तं त्वा भ्रातरः सुवृधा वर्धमानम् अनु जायन्तां बहवः सुजातम्
अहतेनाहतो भव स्थिर स्थिरेण सं भव । प्र मृणीहि दुरस्यतः सहस्व पृतनायतः
मित्रः पृथिव्या अध्यक्षः । स मावत्व् अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां देहहूत्याम् अस्याम् आकूत्याम् अस्याम् आशिषि स्वाहा
वरुणो ऽपाम् अध्यक्षः । (…)
वायुर् अन्तरिक्षस्याध्यक्षः । (…)
सूर्यो दिवो ऽध्यक्षः । (…)
चन्द्रमा नक्षत्राणाम् अध्यक्षः । (…)
वसुः संवत्सराणाम् अध्यक्षः । (…)
संवत्सर ऋतुनाम् अध्यक्षः । (…)
अग्निर् वनस्पतीनाम् अध्यक्षः । (…)
इन्द्रः कर्मणाम् अध्यक्षः । (…)
सविता प्रसवानाम् अध्यक्षः । (…)
विष्णुः पर्वतानाम् अध्यक्षः । (…)
त्वष्टा रूपाणाम् अध्यक्षः । (…)
रुद्रः पशूनाम् अध्यक्षः । (…)
सोमः पयसाम् अध्यक्षः । (…)
पर्जन्य ओषधीनाम् अध्यक्षः । (…)
समुद्रो नदीनाम् अध्यक्षः। (…)
हिंकारः साम्नाम् अध्यक्षः । स मा (…)
सरस्वती वाचाम् अध्यक्षा । सा मा (…)
पूषा पथीनाम् अध्यक्षः । स मा (…)
गायत्री छन्दसाम् अध्यक्षा । सा मा (…)
बृहस्पतिर् देवानाम् अध्यक्षः । (…)
प्रजापतिः प्रजानाम् अध्यक्षः । (…)
यमः पितॄणाम् अध्यक्षः । स मावत्व् अस्मिन् (…)
पितरः परे ऽवरस् ततस् ततामहः । ते मावन्त्व् अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां देवहूत्याम् अस्याम् अकूत्याम् अस्याम् आशिषि स्वाहा
देवानां देवा देवा देवेष्व् अधिदेवाः परा क्रमध्वम् । प्रथमा द्वितीयेषु द्वितीयास् तृतीयेषु
त्रिर् एकादशा विश्वे वैश्वानरा महि महान्तो न मारभध्वम् । इदं शकेयं यद् इदं कृणोमि स्वाहा
अनुवाक २ ॥ जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम् उपस्थे । अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु
धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम । धनुः शत्रोर् अपकामं कृणोतु धन्वना सर्वाः पृतना जयेम
वक्ष्यन्तीवेद् आ गनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना । योषेव शिङ्क्ते वितताधि धन्वञ् ज्या इयं समिति पारयन्ती
ते आचरन्ती समनेव योषा मातेव पुत्रं पिपृताम् उपस्थे । अप शत्रून् विध्यतां संविदाने आर्त्नी इमे विस्फुरन्ती अमित्रान्
बह्वीनां पिता बहुर् अस्य पुत्रो व्यचः कृणोति समदो ऽवगत्य । इषुधिः सङ्काः पृतनाश् च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः
रथे तिष्ठन् नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः । अभीशूनां महिमानं पनायत मनः पश्चाद् अनु यच्छन्ति रश्मयः
तीव्रान् घोषान् कृण्वतां वृषपाणयो ऽश्वा रथेभिः सह वाजयन्तः । अपक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति शत्रूंर् अनपव्ययन्तः
रथवाहनं हविर् अस्य नाम यत्रायुधं निहितम् अस्य वर्म । तत्रा रथम् उप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः
स्वादुषंसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः । चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः
ब्रह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा । पूषा नः पातु दूरिताद् ऋतावृधो रक्षा माकिर् णो अघशंस ईशत
बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु
सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता । यत्रा नरः सं च वि च द्रवन्ति तद् अस्मभ्यम् इषवः शर्म यच्छान्
सुपर्णो वासो यद् उ सर्पिर् आसा मनो हिरण्यम् इषवः पतत्री । मास्माङ् अरन्न् अमुत आपतन्तीर् इतः प्रहिताः सवितर् जयन्तु
अहिर् इव भोगैः पर्य् एति बाहुं ज्याया हेतिम् अपबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमांसं परि पातु मृत्योः
आ जङ्घन्ति सान्व् एषां जघनाꣳ उप जिघ्नते । अश्वाजनि त्र प्रचोदय- -अश्वान् समत्सु पादय
दिवस् पृथिव्याः पर्य् ओज आभृतं वनस्पतिभ्यः परि संभृतं सहः । अपाम् ओज्मानं परि गोभिर् आभृतम् इन्द्रस्य वज्रं हविषा रथं यज
इन्द्रस्य वज्रो मरुताम् अनीकं मित्रस्य गर्भो वरुणस्य नाभिः । सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय
वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः । गोभिः संनद्धो रथ वीडयस्व- -आस्थाता ते जयतु जेत्वानि
उप श्वासय पृथिवीम् उत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् । स दुन्दुभे सजूर् इन्द्रेण देवैर् दूराद् दवीयो अप सेध शत्रून्
आ क्रन्दय बलम् ओजो न आ धा अभि ष्टन दुरिता बाधमानः । अप सेध दुन्दुभे दुच्छुनाम् इत इन्द्रस्य मुष्टिर् असि वीडयस्व
प्रामूञ् जयाभीमे जयन्तु केतुमद् दुन्दुभिर् वावदीतु । सम् अश्वपर्णाः पतयन्तु नो नरो ऽस्माकम् इन्द्र रथिनो जयन्तु
इन्द्रो रथाय प्रपदं कृणोतु यम् अध्यष्ठान् मघवा जयन्ताम् । इर्य इव पशुभिर् युयोतु गोपा अरिष्टो जातः प्रथमः सिषासन्
पर्जन्यस्येव स्तनयित्नुर् आसोर् इन्द्राग्न्योर् इव चेखिद्यते घोषो अस्य । साहस्रो वीरः शतं ससन्वान् अयुतं ससन्वान् रथ मृडेह
श्येनस्य पक्षौ हरिणस्य बाहू इन्द्रस्य मुष्टिर् मरुताम् अनीकम् । गोभिः संनद्धो असि वीडयस्व
उद् यंयमीति सहितेव बाहू उभे सिचौ यजते भीम ऋञ्जन् । उच् छुक्रम् अत्कम् अजते शचीभिर् नवा मातृभ्यो वसना जहाति
उग्रौ ते नेमी पवी त उग्रा उग्राः शङ्कवो बृहतो रथस्य । ईषात्र वेणवो नमतिस् त उग्रा- -अग्निश् चक्षुः प्रवयणं रथस्य । तेनामित्रान् प्रमृणन् याहि शत्रून्
अरा नाभयो बलम् इत् ते अक्ष उग्रौ ते कोषौ सह निस्यदाभ्याम् । आण्योर् वध्रान् उत कोषघोरा स्थानं बन्ध उत वन्धुरं ते
गोष्ठे बलं मृग एकम् अङ्गं परा क्रमध्वं मह आ सुवन्त । अभीशवो हतानेन वृत्रम् अयं क्षत्रेण प्रजयास्तूग्रः
आ तिष्ठ जिष्णुस् तरसा सपत्नान् साहस्रो वीरः प्रमृणन् याहि शत्रून् । पृष्टियुगे कृणुतं वीर्याणि तद् एताम् एतं रथम् अस्य शग्मे
अष्टौ चक्षूंषि कवयः सं नमन्त्व् अश्वा प्राकाशा ऋजु धावयन्तः । अनु त्वा स्कम्भो ददतां पितेव चक्रमाणम् ऐनं धत्स्वोपस्थे प्र तिरात्य् आयुः
कविभिः स्यूतः स रथे विबद्धः स धन्वधिर् धनुचित्ते जजान । अनुप्रास्येमानि पृथुमध्यमान्य् अश्वेभ्यः शंत्वाय कविभिः कृतानि तेभिष् टे शर्म यच्छन्तु देवाः
अग्निं ब्रूमो वनस्पतीन् ओषधीर् उत वीरुधः । इन्द्रं बृहस्पतिं सूर्यं ते नो मुञ्चन्त्व् अंहसः
ब्रूमो देवं सवितारं धातारम् उत पूषणम् । त्वष्टारम् अग्र्यं ब्रूमस् ते (…)
ब्रूमो राजानं वरुणं मित्रं विष्णुम् अथो भगम् । अंशं विवस्वन्तं ब्रूमस् ते (…)
गन्धर्वाप्सरसो ब्रूमो अश्विना ब्रह्मणस्पतिम् । अर्यमा नाम यो देवस् ते (…)
वातं ब्रूमः पर्जन्यम् अन्तरिक्षम् अथो दिशः । आशाश् च सर्वा ब्रूमस् ते (…)
अहोरात्रे इदं ब्रूम सूर्याचन्द्रमसा उभा । आदित्यान् सर्वान् ब्रूमस् ते नो मुञ्चन्त्व् अंहसः
मुञ्चन्तु मा शपथ्याद् अहोरात्रे अथो उषाः । सोमो मा दिव्यो मुञ्चतु यम् आहुश् चन्द्रमा इति
पञ्च राज्यानि वीरुधां सोमश्रेष्ठानि ब्रूमसि । भङ्गो दर्भो यवः सहस् ते नो मुञ्चन्त्व् अंहसः
ये ग्राम्याः सप्त पशव आरण्या उत ये मृगाः । शकुन्तान् पक्षिणो ब्रूमस् ते नो मुञ्चन्त्व् अंहसः
भवाशर्वाव् इदं ब्रूम उग्रः पशुपतिश् च यः । इषूर् या एषां विद्मस् ते नो मुञ्चन्त्व् अंहसः
यज्ञं ब्रूमो यजमानम् ऋचः सामानि भेषजा । यजूंषि होत्रान् ब्रूमस् ते नो मुञ्चन्त्व् अंहसः
ऋतून् ब्रूम ऋतुपतीन् आर्तवाꣳ उत हायनान् । समाः संवत्सरान् मासस् ते नो (…)
दिवं ब्रूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान् । समुद्रा नद्यो वेशन्तास् ते (…)
सप्त ऋषीन् वा इदं ब्रूमो ऽपो देवीः प्रजापतिम् । पितॄन् यमश्रेष्ठान् ब्रूमस् ते (…)
विश्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः । विश्वाभिः पत्नीभिः साकं ते (…)
आदित्या रुद्रा वसवो देवा दैवा अथर्वणः । अङ्गिरसो मनीषिणस् ते (…)
ये देवा दिविषदो ऽन्तरिक्षसदश् च ये । पृथिव्यां शक्रा ये श्रितास् ते (…)
एत देवा दक्षिणतः पश्वात् प्राञ्च उद् एतन पुरस्ताच् छक्रा उत्तराद् विश्वे देवाः समेत्य ते (…)
अरायान् ब्रूमो रक्षांसि सर्पान् पुण्यजनान् उत । मृत्यून् एकशतं ब्रूमस् ते नो मुञ्चन्त्व् अंहसः
या देवीः पञ्च प्रदिशो ये देवा द्वादशर्तवः । संवत्सरस्य ये दंष्ट्रास् ते नः सन्तु सदा शिवाः
भूतं ब्रूमो भूतपतिं भूतानाम् उत यस् पतिः । भूतानि सर्वा ब्रूमस् ते नो मुञ्चन्त्व् अंहसः
अनुवाक ३ ॥ यावद् द्यौर् यावत् पृथिवी यावत् पर्येति सूर्यः । तावत् त्वम् उग्र ओषधे परि पाह्य् अरुन्धति
अरिष्टस् त्वा खनत्य् अरिष्टाय खनामि त्वा । द्विपाच् चतुष्पाद् अस्माकं सर्वम् अस्त्व् अनातुरम्
देवानाम् असि स्वसा मरुताम् असि सञ्चरी । यं जीवम् अश्नुषे त्वं न स रिष्याति पूरुषः
अरुन्धती नामासि तृतीयस्याम् इतो दिवि । तत्रामृतस्य रोहणं तेन त्वाच्छावदामसि
शं त आपो हृद्याः शं ते कुलिज्या उत । शं वातः शं बृहस्पतिः शं ते तपतु सूर्यः
शं त इन्द्राग्नी भवतां शं रात्री प्रति धीयताम् । शं ते पृथिव्यां वीरुधः शम् उ ते सन्त्व् ओषधीः
बह्वीषु हि त्वाम् अविदम् ओषधीं वीर्यवतीम् । अरुन्धति त्वाम् आहार्षम् इतो मा पारयान् इति
अभिप्रेप्सेव जीवन्तम् अभि दस्येद् अरुन्धती । एषा दविद्द्य भेषजी देवी वातीकृतस्य च
अनु षिञ्च नस् तत् कुर्व् अगदो वै भविष्यति । वातीकृतस्य भेषज्य् आगन् देव्य् अरुन्धती
मा बिभेर् न मरिष्यस्य् अगदो वै भविष्यसि । वातीकृतस्य भेषज्य् आगन् देव्य् अरुन्धती
अरुन्धत्यः सं वदन्ते गावः प्रव्राजिनीर् इव । यम् आतुरम् अभिगच्छ- -अमावतं कृणु मावतम्
इमं मे त्वं जरामृत्युं पुरुषं कृण्व् ओषधे । राज्ञी हि सर्वासाम् अस्य् ओषधीनाम् अरुन्धती
त्रायमाणा ह्य् असि जीवला वीर्यावती । अरुन्धति त्वाम् आहार्षम् इतो मा पारयान् इति
दिग्धेन च विद्धस्य- -अघस्याघविषा च या । अरुन्धति त्वं तस्यासि विषस्य विषदूषणी
आहेयेन च दष्टस्य- -अघस्य (…)
वातीकारेण च क्षिप्तस्य- -अघस्य (…)
भवेन च (…) । (…)
शर्वेण च (…) । (…)
रुद्रेण च (…) । (…)
पशुपतिना च क्षिप्तस्य (…)
उग्रेण च देवेन च क्षिप्तस्य (…)
महादेवेन च क्षिप्तस्य (…)
ईशानेन च क्षिप्तस्य- -अघस्याघविषा च या । अरुन्धति (…)
यत् पृथिव्यां विषं वीरुत्स्व् अधि यद् विषम् । (…)
यद् ओषधीभ्यः संभरन्ति ब्रह्माणो मेनये विषम् । (…)
यद् ब्राह्मणाः संभरन्ति तृष्टमाशीविषं विषम् । (…)
यः क्षिप्तो मृत्युना यस्मैर् यो दष्टस् तृष्टदंश्मभिः । अरुन्धति त्वं तस्यासि विषस्य विषदूषणी
सं जिहीष्वामुक्था यक्ष्माद् आरुक्षो लोकम् उत्तमम् । अपा जीवसि पात्रेण- -अधि जीवपुरा इहि
अप्सरसो वि वो यकृद् वि वो भिनद्मि मेहनम् । वि चण्डालं व्य् अर्जुनं वि ववृत्रं भिनद्मि वः
विश्वजन्याः पाञ्चजन्या महारुक्माः शिखण्डिनीः । सर्वा इन्द्रस्य वज्रेण हता बुद्बुदयातवः
अन्धाचीम् असिताचीम् उलूखलस्य बुध्नेन । अवैतं वत्सपं जहि
दूराद् एनाः प्रत्य् आ पश्यम् आपतन्तीर् अथो दिवः । देवानां हव्यमोहनीर् इन्द्रो अप्सरसो हनत्
आ हता अप ता इतः खलाद् इव यातुधान्यः । अमुं गच्छत पूरुषं समुद्रम् अप गच्छति
दिवं गच्छन्तु दिव्याः सरो गच्छन्तु सारसीः । उलुङ्गुलस्य यो गुहस् तद् उ गच्छन्त्व् आसुरीः
आस्कन्दिके विस्कन्दिके पराचीर् अप नृत्यन्तु । सारङ्गेण शुना सह
यः सारङ्गो हिरण्यदन् श्वा दिव्यः परिप्लवः । तस्याहं नाम जग्रभ- -अस्मा अरिष्टतातये
अद्यां ते विरणी पराचीर् अप नृत्यत । शृणामि घोरा वः पृष्टी ब्रह्मणा कीकसा उत
एकत्रिंशद् अश्ववतीश् चतस्र उत गुङ्गुवः । शिवा दश शृता दश केशिनीः पञ्चविंशतिः । इदम् उलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नमः
याः प्रेङ्खे प्रेङ्खयन्ते सन्ताने मालवा इव । (…)
याः पुरस्ताद् आचरन्ति साकं सूर्यस्य रश्मिभिः । (…)
या अधराद् आचरन्त्य् अनसा छदिसा सह । (…)
याः पश्चाद् आचरन्त्य् अन्धेन तमसा सह । (…)
या उत्तराद् आचरन्ति वर्षेण विद्युता सह । (…)
या अधस्ताद् उद्वीक्षन्ते साच्य् अक्षि करिक्रतीः (…)
या उपरिष्टाद् अवेक्षन्ते नीले व्यक्तानि बिभ्रतीः । (…)
या अन्तरिक्ष ईरयन्ति वातेन रेष्मणा सह । (…)
या नदीर् इति चतस्रः
अनुवाक ४ ॥ त्वज् जाता रुद्र शन्तमा त्वं हि नो बभुर्या इराय भेषजेभिः । वि यक्ष्मान् यावयास्मद् व्य् अंहो व्य् अमीवाश् चातयास्मद् विषूचीः
त्वं देवानाम् असि रुद्र श्रेष्ठस् तवस् तवसाम् उग्रबाहो । हृणीयसा मनसा मोदमान आ बभूविथ रुद्रस्य सूनोः
त्वं हि नो वीराꣳ ईरय भेषजेभिर् उरुं नो भवन्त मघवो मरुत्वन् । करा नः पारम् अंहसः स्वस्ति विश्वा अभीतीर् अप सेधास्मत्
त्वं हि नो वृषभ चक्षिमेष्ठा अस्मै रुद्रायोग्राय मीढुषे । क्षयद्वीराय प्र भरामहे मतिं यथा नः शम् असो द्विपदे शं चतुष्पदे
क्व तेषु रुद्र हस्तो मृडयाको जलाषः । अपभर्ता रपसो दैव्यस्य
प्र यक्ष्मः प्र निरृतिर् एत्व् अस्मत् सेनेव सृष्टा प्रचताम् अमीवा । आराध्वं सना वृजना जहीत
अर्हन् धनुर् हितं बिभर्ष्य् अर्हन् निष्कं रजन्तं विश्वरूपम् । अर्हन्न् इदं दयसे विश्वम् एजन् न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वान् परि पश्यसि भूमिम्
नमस् ते अस्तु विद्युते नमस् ते स्तनयित्नवे । नमस् ते अस्त्व् अश्मने येन प्रदिशम् अस्यसि
मा देवानाम् उग्र राजन्न् अस्माकं पुरुषा रिषन् । रक्षांस्य् अस्मद् यक्ष्मांश् च नाशयामसि ब्रह्मणा
ब्रह्मणेतो नाशयामो यत् किं चाङ्गेष्व् आमयत् । शल्यान् यक्ष्मस्याथो रोपीस् ता इतो वि नयामसि
नयामि वां पशुपती घृतेनाज्येन वर्धयन् । यं द्विष्मो यश् च नो द्वेष्टि तस्य वेशः करिष्यथः
अधि ब्रूतं पशुपती द्विपदे मे चतुष्पदे । प्रसूतौ यत्र जघ्नतुस् ततो मे मातरं रिषत्
या वां रुद्रः शिवा तनू या वां सन्ति रोगणाः । या वाम् आयुष्मतीस् तनूस् ताभिर् नो मृडतं युवम्
न प्र मिनन्ति व्रतिनो व्रतानि सत्यं जिन्वन्तो विदथा वदन्तः । यस्येमे रोदसी उभे संयुक्ते मनसा हृदा
स प्रजानां प्रजापतिः साधु रक्षति वर्षति । स वेद रत्नभेषजं देवेभ्यस् पर्य् आभृतं तेन नो मृडतं युवम् । जीवातवे न मर्तवे ऽथो अरिष्टतातये
सगुणास आसते संयुक्ता बलाय कम् । तेषां यद् इन्द्रियं वृह चति रोचति रोचना
ये ते रोचने बृहती अन्तरिक्षे अथो दिवः । ताभ्याम् उप प्र याहि नः सर्ववीराꣳ अरिष्यतः
सर्ववीरा अरिष्यन्तो रोचने अधि तस्थिम । यथा नस् तृष्णमद् वसु दिवि क्षिपद्भ्यो अप्सु या
इन्द्राग्नी हुवे प्रथमौ ह्वयामि मरुतः शिवान् । ह्वयामि विश्वान् देवान् इमं होमम् अवन्तु मे
त्वं प्रथमो अमृतत्वम् अग्ने देवो देवत्वं प्रथमो जिगेथ । तव दिवि हृदयं सं बभूव स नः शिवा आपो जातवेदो नि यच्छ
अग्नाव् अग्निश् (चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एषः । तस्मै जुहोमि हविषा घृतेन मा देवानां यूयवद् भागधेयम्)
ये देवा दिवि ष्ठ ये पृथिव्यां जातवेदो य उराव् अन्तरिक्षे । ये गिरिषु पर्वतेष्व् अप्स्व् अन्तस् ते देवा अशनिं यावयाथ
मित्रं दिग्भिः कृणुष्व जातवेद आशाभिर् मित्रम् अधिपा विपश्चित् । मा नो हिंसीर् दिव्येनाग्निना सस्यां येन यन्ति मरुत स्पर्धमानाः
विद्योतमान स्तनयन् वृषेवैषि कनिक्रदत् । भीमः पर्जन्य ते रथः स उ नः शर्म यच्छतु
ये विद्युतम् अशनिम् आ तन्वन्ति मरुतः सलिलाद् अधि । कृष्यै नो विश्ववाराया अवधन्वा नि तन्वताम्
यो विद्युतम् अशनिम् आतंत्य् अन्तरिक्षाद् उत वाताद् दिवश् च । तेभ्यो मरुद्भ्यो नमो ऽस्त्व् ओजसे
ता यन्तु स्वरंकृताः स्योनाः शिवतमाः पथा । मा न इन्द्र यवं वधीर् मित्रमेनेन कृण्महे
दर्भो अग्र ओषधीनां शतकाण्डो अजायत । स देवैः प्रहितो ऽयम् आगन् स्वस्तये वृषा मरुद्भिः सह संविदानः
वृषाक्षस्यासुरस्य मेनिर् असि तां त्वया तथा वेद कर्णस्य कौविदस्येवमाशा । तां माभ्य् अव गा द्वादशाह्नानि वि रक्षे
असिर् मे तिग्मस्यायस इन्द्राग्निभ्यां सुसंशितः । तेन सेधाम् इद् आदुनिं कृषिं मे माव गाद् इति सस्यं मे मा वधीद् इति
मरुतः परि वृङ्धि नो दिवः क्षुद्रेभिर् अश्मभिः । उदुम्बरस्य शाखया विचक्षुषा- -अशनिं यावयामसि
मरुतो मृडयात नो दिवः शुक्रेभिर् अश्मभिः । उदुम्बरस्य शाखया विचक्षुषा- -अशणिं यावयामसि
वर्ताद् वर्तम् आ क्राम पर्वताद् अधि पर्वतम् । गिरौ प्रतिशृता सती वृक्षान् भङ्धि मा यवम्
अदाम्ना त्वा सन्ध्यामि यावण्या परिभूर्ण्या । सानौ प्रतिशृता सती तृणं भङ्धि मा यवम्
उशती नामासि सलिन्दा नाम । अन्याम् आसां गच्छ यं द्विष्मस् तं गच्छ
पराचीम् अनु संवतं पराचीम् अनु संविदं पराच्य् अनु नि द्रव । इतस् त्वा नाशयामसि ब्रह्मणा वीर्यावता
वार् भवोदकं भव- -उदकस्योदकं भव । क्षुद्रात् क्षोदीयसी भूत्वा- -अथेह्य् अधमं तमः
स्योना भव शिवा भव शिवाच् छिवतरा भव । फेनान् मृदीयसी भूत्वा- -इदं शस्यम् उपा चर
नमस् ते अस्तु विद्युते स्तनयित्नवे । नमस् ते अग्ने दूरे हेते कृण्मो मा नो हिंसीर् द्विपदो मा चतुष्पदः
प्रति त्वा सहसासहः सहसा प्रति रुध्मसि । ऐन्द्रम् इदं सहो महद् भूम्यास् तवं दिवि श्रितम् । अफालकृष्टम् आ क्रम मा न इन्द्र यवं वधीः
याः समुद्राद् उच्चरन्त्य् उत्सेभ्यो या नदीभ्यः । अत्यन्तः सर्पो वैद्युतो ऽशनिं यावयाद् इतः ॥ अनुवाक ५
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ṚṢIS). Atharvaveda Paippalāda — Kāṇḍa 15. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-15>. Acesso em: 26/04/2026.
Tradição Védica (Ṛṣis) (2026). Atharvaveda Paippalāda — Kāṇḍa 15. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-15
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 15." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-15.