Atharvaveda Paippalāda — Kāṇḍa 17
Tradição Védica (Ṛṣis)
अनुवाक २२ ॥ काण्ड १७ सत्यं बृहद् ऋतम् उग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति । सा नो भूतस्य भव्यस्य पत्न्य् उरुं लोकं पृथिवी नः कृणोत्व् असंबाधं मध्यतो मानवेषु
यस्या उद्यतः प्रवतः समं बहु नानावीर्या ओषधीर् या बिभर्ति । पृथिवी नः प्रथतां राध्यतां नः
यस्यां समुद्र उत सिन्धुर् आपो यस्यां देवा अनृतम् अन्वविन्दन् । या बिभर्ति बहुधा प्राणम् एजत् सा नो भूमिर् गोष्व् अश्वेष्व् अप्य् अन्ने कृणोतु
यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरान् अभ्यवर्तयन् । यस्याम् इदं जीवति विश्वम् एजत् सा नो भूमिः पूर्वपेये दधातु
यस्यां चतस्रः प्रदिशः पृथिव्यां यस्याम् अन्नं कृष्टयः संबभूवुः । गवाम् अश्वानां वयसश् च विष्ठा भगं वर्चः पृथिवी नो दधातु
विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनीः । वैश्वानरं बिभ्रती भूमिर् अग्निम् इन्द्रर्षभा द्रविणे नो दधातु
यस्याम् आपः परिचराः समानीर् अहोरात्रे अप्रमादं क्षरन्ति । सा नो भूमिर् भूरिधारा पयो दुहाम् अथो उक्षतु वर्चसा
यां रक्षन्त्य् अस्वप्ना विश्वदानीं देवा भूमिं पृथिवीम् अप्रमादम् । सा नो मधु प्रियं दुहाम् अथो उक्षतु वर्चसा
यार्णवे ऽधि सलिलम् अग्र आसीद् यां मायाभिर् अन्वचरन् मनीषिणः । यस्यां हृदयं परमे व्योमन्त् सत्येनावृतम् अमृतं पृथिव्याः । सा नो भूमिस् त्विषिं बलं राष्ट्रे दधातु मे
याम् अश्विनाव् अमिमातां विष्णुर् यस्यां विचक्रमे । इन्द्रो यां चक्र आत्मने अनमित्रां छचीपतिः । सा नो भूमिर् वि सृजतां माता पुत्राय नः पयः
गिरयस् ते पर्वता हिमवन्तो ऽरण्यन् ते पृथिवि स्योनम् अस्तु नः । बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीम् इन्द्रगुप्ताम् अजीतो ऽहतो अक्षतो अध्यष्ठां पृथिवीम् अहम्
यत् ते मध्यं पृथिवि यच् च नभ्यं यास् त ऊर्जस् तन्वः संबभूवुः । तासु नो धेह्य् अभि नः पवस्व
माता भूमिः पुत्रो अहं पृथिव्याः पर्जन्यः पिता स उ नः पिपर्तु
यस्यां वेदिं परिगृह्नन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः । यस्यां मीयन्ते स्वरवः पृथिव्याम् ऊर्ध्वाः शुक्रा आहुत्याः पुरस्तात् । सा नो भूमिर् वर्धयाद् वर्धमाना
यो नो द्वेषत् पृथिवि यत् पृतन्याद् यो ऽभिमन्यातै मनसा वधेन । तन् नो भूमे रन्धय पूर्वकृत्वने
त्वज्जातास् त्वयि चरन्ति मर्त्यास् त्वं बिभर्षि द्विपदश् चतुष्पदः । त्वयीमे पृथिवि पञ्च मानवा येभ्यो ज्योतिर् अमृतं मर्त्येभ्य उद्यन् सूर्यो रश्मिभिर् आ तनोति
ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवी धेहि मह्यम्
विश्वस्वं मातरम् ओषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् । शिवां स्योनाम् अनु चरेम विश्वहा
महत् सधस्थं महती बभूविथ महान् वेग एजथुर् वेपथुष् टे । महांस् त्वेन्द्रो रक्षति वीर्येण सा नो भूमे प्ररोचय हिरण्यस्येव संदृशि
अग्निर् भूम्याम् अग्निर् ओषधीष्व् अग्निम् आपो बिभ्रत्य् अग्निर् अश्मसु । अग्निर् अन्तः पुरुषेषु गोष्व् अश्वेष्व् अग्नयः
अग्निर् दिव आ तपत्य् अग्नेर् देवस्योर्व् अन्तरिक्षम् । अग्निं मर्तास इन्धते हव्यवाहं घृतप्रियम्
अग्निवासाः पृथिव्य् असितज्ञुस् त्विषीमन्तं संशितं मा कृणोतु । भूम्यां देवेभ्यो जुह्वति यज्ञं हव्यम् अरंकृतम् । भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः । सा नो भूमिः प्राणम् आयुर् दधातु जरदष्टिं मा पृथिवी कृणोतु
यस् ते गन्धः पृथिवि संबभूव यं बिभ्रत्य् ओषधयो यम् आपः । यं गन्धर्वा अप्सरसश् च भेजिरे यस् ते गाम् अश्वम् अर्हति । तेनास्मान् सुरभीन् कृणु मा नो द्विक्षत कश् चन
यस् ते गन्धः पुष्करम् आविवेश यं संजभ्रुः सूर्याया विवाहे । अमर्त्याः पृथिवि गन्धम् अग्रे । तेनास्मान् सुरभीन् कृणु मा नो द्विक्षत कश् चन
यस् ते भूमे पुरुषेषु स्त्रीषु पुंसु भगो रुचिर् यो वधूषु वधूयुषु । यो गोष्व् अश्वेषु यो मृगेषूत हस्तिषु । कन्यायां वर्चो यद् भूमे तेनास्माꣳ अधि सं सृज मा नो द्विक्षत कश् चन
शिला भूमिर् अश्मा पांसुर् या भूमिः संभृता धृता । यस्यां वृक्षा वानस्पत्या ध्रुवास् तिष्ठन्ति विश्वहा । भूमिं हिरण्यवक्षसं धृताम् अच्छा वदामसि
उदीराणा उतासीनास् तिष्ठन्तः प्रक्रामन्तः । पद्भ्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम्
विमृग्वरीं पृथिवीम् आ वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम् । ऊर्जं पुष्टिं बिभ्रतीम् अन्नभागं घृतं त्वाभि नि षीदामि भूमे
शुद्धा म आपस् तन्वः क्षरन्ति यो मे सेहुर् अप्रिये तं नि दध्मः । पवित्रेण पृथिवीम् उत् पुनामि
निधीन् बिभ्रती बहुधा गुहा वसु मणिं हिरण्यं पृथिवी दधातु नः । वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना
यास् ते प्राचीः प्रदिशो या उदीचीर् यास् ते भूमे अधराद् याश् च पश्चात् । स्योनास् ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाणे
मा मा पश्चान् मा पुरस्तान् नुदिष्ठाः स्वस्ति भूमे मे कृणु वरीयो यावया वधन् मा विदन् परिपन्थिनः
यावत् ते ऽभि विपश्यामि भूमे सूर्येण मेदिना । तावन् मे चक्षुर् मा मेष्ट- -उत्तराम् उत्तरां समाम्
यत् ते भूमे विखनाम्य् ओषं तद् अपि रोहतु । मा ते मर्म विमृग्वरि मा ते हृदयम् अर्पिपम्
यच् छयानः पर्यावर्ते दक्षिणं सव्यम् अभि भूमे पार्श्वम् । उत्तानास् त्वा प्रतीचीं पृष्ट्या यद् अभिशेमहे मा हिंसीस् तत्र नो भूमे सर्वस्य प्रतिशीवरि
ग्रीष्मस् ते भूमे वर्षाणि शरद् धेमन्तः शिशिरो वसन्तः । ऋतवस् ते विहिता हायना अहोरात्रे पृथिवी नो दुहाताम्
याप सर्पं नुदमाना विमृग्वरी यस्याम् आसन्न् अग्नयो अप्स्व् अन्तः । परा दस्यून् ददती देवपीयून् इन्द्रं वृणाना पृथिवी न वृत्रं शक्राय दध्रे वृषभाय वृष्णे । स नो भूमेर् आ दिशतु यद् धनं कामयामहे
भगो अनु प्रयुङ्क्ताम् इन्द्रो यातु पुरोगवः । यस्यां सदोहविर्धाने यूपो यस्यां निमीयते । ब्रह्माणो यस्याम् अर्चन्ति ऋग्भिः साम्ना यजुर्विदः । युज्यन्ते यस्याम् ऋत्विजः सोमम् इन्द्राय पातवे । सा नो भूमिर् दक्षिणायां सुशेवा यज्ञे दधातु सुमनस्यमाना
यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः । सप्त सत्रेण वेधसो यज्ञेन तपसा सह । सा नः पशून् विश्वरूपान् दधातु दीर्घं म आयुः सविता कृणोतु
यस्याम् अन्नं व्रीहियवौ यत्रेमाः पञ्च कृष्टयः । भूम्यै पर्जन्यपत्न्यै नमो ऽस्तु वर्षम् एधते
यस्यां गायन्ति नृत्यन्ति जना मर्त्या वैलवाः । युज्यन्ते यस्याम् आक्रन्दो यस्यां वदति दुन्दुभिः । सा नो भूमिः प्र णुदतां सपत्नान् यो नो द्वेष्ट्य् अधरं तं कृणोतु
यस्यां पुरो देवकृताः क्षेत्रे यस्यां विकुर्वते । प्रजापतिः पृथिवीं विश्वगर्भाम् आशामाशां रण्यां नः कृणोतु
जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् । सहस्रं धारा द्रविणस्य नो दुहां ध्रुवेव धेनुर् अनपस्फुरन्ती
यस् ते सर्पो वृश्चिकस् तृष्टदंश्मा हेमन्तजब्धो भृमलो गुहा शये । क्रिमिर् इल्मं पृथिवि प्रावृषि यद् एजति तन् नः सर्पन् मोप सृपद् यच् छिवं तेन नो मृड
ये ते पन्थानो बहुधा जनायना रथस्य वर्त्मन् मनसश् च यातवे । येभिश् चरन्त्य् उभये भद्रपापास् तं पन्थां जयेमानमित्रम् अतस्करम्
मन्दं (⟨ मल्वं) बिभ्रती गुरुभृद् भद्रपापस्य निधनं तितिक्षुः । सूकरेण पृथिवी संविदाना वराहाय वि जिहीते मृगाय
ये त आरन्याः पशवो मृगा वने हिताः सिंहा व्याघ्राः पुरुषादश् चरन्ति । उलं वृकं पृथिवि दुच्छुनाम् इत ऋक्षीकां रक्षो अप बधास्मत्
ये गन्धर्वाप्सरसो ये चरायाः किमीदिनः । पिशाचान् सर्वा रक्षांसि तान् अस्मद् भूमे यावय
यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि । यस्यां वात ईयते मातरिश्वा रजांसि कृण्वंश् च्यावयंश् च वृक्षान् । वातस्य प्रवाम् उपवाम् अनु वात्य् अर्चिर् यस्यां कृष्णम् अरुणं च संभृते अहोरात्रे विहिते भूम्याम् अधि
वर्षेण भूमिः पृथिवी वृतावृता । सा नो दधातु भद्रया प्रिये धामनिधामनि
द्यौश् च म इदं पृथिवी च- -अन्तरिक्षं च मे व्यचः । अग्निः सूर्य आपो मेधां विश्वे देवाश् च सं दधुः
अहम् अस्मि सहमान उत्तरो नाम भूम्याम् । अभिसाड् अस्मि विश्वाषाड् आशामाशां विषासहिः
यद् अदो देवि प्रथमाना पुरस्ताद् देवैः सृष्टा व्यसर्पो महित्वम् । आ त्वा सुभूतम् अविशत् तदानीम् अकल्पयथाः प्रदिशश् चतस्रः
ये ग्रामा यान्य् अरण्यानि याः सभा अधि भूम्याम् । तेष्व् अहं देवि पृथिव्य् उद्यासं मधुमद् वचः
यद् वदानि मधुमत् तद् वदानि यद् ईक्षे षुतद्यः पुनन्तु मा । त्विषीमान् अस्मि जूतिमान् यान् हन्मि दोधतः
अश्व इव रजो दुदुहे वि तं जनं य आक्षियन् पृथिवीम् आद् अजायत । मद्रा परि भुवनस्य गोपा वनस्पतीनां गृभिर् ओषधीनाम्
शन्तिवा सुरभिः स्योना कीलालोध्नी पयस्वती । भूमिर् नो अधि ब्रवीतु पृथिवी पयसा सह
भूमि मातर् नि धेहि मा भद्रया सुप्रतिष्ठितम् । संविदाना दिवा त्वं श्रियां मा धेहि भूत्याम्
याम् अन्वैच्छद् धविषा विश्वकर्मा यस्याम् आसन्न् अग्नयो ऽप्स्व् अन्तः । भुजिष्यं पात्रं निहितं गुहा- -आसीद् आविर् भोगैर् अभवन् मातृमद्भिः
त्वम् अस्य् आवपनी जनानाम् अदितिः कामदुघा विश्वरूपा । यत् त ऊनं तत् त आ पूरयाति प्रजापतिः प्रजाभिः संविदानः
अनुवाक १ ॥ कस्मिन्न् अङ्गे तपो अस्याधि तिष्ठति कस्मिन्न् अङ्ग ऋतम् अस्याध्याहितम् । क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्न् अङ्गे सत्यम् अस्य प्रतिष्ठितम्
क्व ब्रह्म क्व तिष्ठन्त्य् आपः कस्मिन्न् अङ्गे दिशो अस्य प्रतिष्ठिताः । कतमद् अङ्गम् अनु सं चरेते अहोरात्रे संविदाने समानम्
कस्मिन्न् अङ्गे तिष्ठति भूमिर् अस्य कस्मिन्न् अङ्गे तिष्ठत्य् अन्तरिक्षम् । कस्मिन्न् अङ्गे तिष्ठत्य् आहिता द्यौः कस्मिन्न् अङ्गे तिष्ठत्य् उत्तरं दिवः
कस्माद् अङ्गाद् दीप्यते अग्निर् अस्य कस्माद् अङ्गात् पवते मातरिश्वा । कस्माद् अङ्गाद् वि मिमीते ऽधि चन्द्रमाः स्कम्भस्य महद् विमिमानो अङ्गम्
क्व प्रेप्सन् दीप्यत ऊर्ध्वो अग्निः क्व प्रेप्सन् पवते मातरिश्वा । यत्र प्रेप्सन्तीर् अभियन्त्य् आवृतः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः
क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवतः संविदाने । यत्र प्रेप्सन्तीर् अभियन्त्य् आपः स्कम्भं (…)
क्वार्धमासाः क्व यन्ति मासाः संवत्सरेण सह संविदानाः । यत्र यन्त्य् ऋतवो यत्रार्तवाः स्कम्भं (…)
यस्मिन् स्कन्धा प्रजापतिर् लोकान् सर्वाꣳ अधारयत् । स्कम्भं तं ब्रूहि कतमः स्विद् एव सः
यत् परमम् अवमं यच् च मध्यमं प्रजापतिः ससृजे विश्वरूपम् । कियता स्कम्भः प्र विवेश तत्र यन् न पार्विशत् क्व तद् बभूव
कियता स्कम्भः प्र विवेश भूतं कियद् भविष्यद् अन्वाशये ऽस्य । एकं यद् अङ्गम् अकृणोत् सहस्रधा कियता स्कम्भः प्र विवेश तत्र
यत्र लोकाश् च कोशाश् च ब्रह्म यत्र जना विदुः । असच् च यत्र सच् चान्तः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः
यत्र तपः पराक्रम्य ऋतं धारयत्य् उत्तरम् । व्रतं च यत्र श्रद्धा च ब्रह्मापः समाहिताः स्कम्भं (…)
यस्मिन् भूमिर् अन्तरिक्षं द्यौर् अस्मिन्न् अध्याहिता । यत्राग्निश् चन्द्रमा सूर्यो वातस् तिष्ठन्त्य् आर्पिताः स्कम्भं (…)
यस्य त्रयस्त्रिंशद् देवा अङ्गे सर्वे समाहिताः । स्कम्भं (…)
यत्र ऋषयो भूतकृत ऋचः साम यजुर् मही । एकर्षिर् यस्मिन्न् आर्पिताः स्कम्भं (…)
यस्य चतस्रः प्रदिशो नाड्यस् तिष्ठन्ति प्रप्यसाः । यज्ञो यस्मिन् पराक्रान्तः स्कम्भं (…)
यत्रामृतं च मृत्युश् च पुरुषश् च समाहिताः । समुद्रो यस्य नाड्यः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः
ये पुरुषे ब्रह्म विदुस् ते स्कम्भम् अनु सं विदुः । यो वेद परमेष्ठिनं यश् च वेद प्रजापतिम् । ज्येष्ठं ये ब्राह्मणं विदुस् ते स्कम्भम् अनु सं विदुः
यस्य शिरो वैश्वानरश् चक्षुर् अङ्गिरसो ऽभवन् । अङ्गानि यस्य यातवः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः
यस्य ब्रह्म मुखम् आहुर् जिह्वां मधुकशाम् उत । विराजं यस्योध आहुः स्कम्भं (…)
यस्माद् ऋचो अपातक्षं यजुर् यस्माद् अपाकषन् । छन्दांसि यस्य लोमानि स्कम्भं तं ब्रूहि कतमः स्विद् एव सः
असच्छाखां प्रतिष्ठन्तीं परमम् इव जना विदुः । उतो सन् मन्यन्ते ऽवरे ये ऽस्य शाखाम् उपासते
यत्रादित्याश् च रुद्राश् च वसवश् च समाहिताः । स्कम्भं तं ब्रूहि कतमः स्विद् एव सः
यस्य त्रयस्त्रिंशद् देवा निधिं रक्षन्ति सर्वदा । निधिं तम् अद्य को वेद यं देवा अभिरक्षत
यत्र देवा ब्रह्मविदो ब्रह्म ज्येष्ठम् उपासते । यो वै त ब्राह्मणो वेद तं वै ब्रह्मविदो विदुः
बृहन्तो नाम ते देवा असतस् परि जज्ञिरे । एकं तद् अङ्गं स्कम्भस्य- -असद् आहुः परो जनाः
यत्र स्कम्भः प्रजनयन् पुराणं व्यवर्तयत् । एकं तद् अङ्गं स्कम्भस्य पुराणम् अनु सं विदुः
यत्र त्रयस्त्रिंशद् देवा अङ्गा गात्राणि भेजिरे । तान् वै त्रयस्त्रिंशद् देवान् एके ब्रह्मविदो विदुः
हिरण्यगर्भं परमम् अनत्युद्यं जना विदुः । स्कम्भस् तद् अग्रे प्रासिञ्चद् धिरण्यं लोके अन्तरा
स्कम्भे लोकाः स्कम्भे तपः स्कम्भे ऽध्य् ऋतम् आहितम् । स्कम्भं त्वा विद्म प्रत्यक्षम् इन्द्रे सर्वं समाहितम्
इन्द्रे लोका इन्द्रे तप इन्द्रे ऽध्य् ऋतम् आहितम् । इन्द्रं त्वा विद्म प्रत्यक्षं स्कम्भे सर्वं समाहितम्
नाम नाम्ना जोहवीमि पुरा सूर्यात् पुरोषसः । यद् अदः प्रथमं संबभूव सह तत् स्वराज्यं जगाम यस्मान् न परम् अस्ति भूतम्
यस्य भूमिः प्रमान्तरिक्षम् उतोदरम् । दिवं यश् चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः
यस्य सूर्यश् चक्षुश् चन्द्रमाश् च पुनर् नवः । अग्निं यश् चक्र आस्यं तस्मै ज्येष्ठाय ब्रह्मणे नमः
यस्य वातः प्राणापानौ चक्षुर् अङ्गिरसो ऽभुवन् । दिशो यश् चक्रे प्रज्ञानीस् तस्मै ज्येष्ठाय ब्रह्मणे नमः
यः श्रमात् तपसो जातो लोकान् सर्वान् समानशे । सोमं यश् चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः
स्कम्भो दाधार पृथिवीं द्याम् उतामूं स्कम्भो दाधारोर्व् अन्तरिक्षम् । स्कम्भो दाधार प्रदिशः षड् उर्वीः स्कम्भ इदं विश्वं भुवनम् आ विवेश
कथं वातो नेलयति कथं न रमते मनः । किम् आपः सत्यं प्रेप्सन्तीः प्र चङ्क्रमीति सर्वदा
महद् यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे । तस्मिं छ्रयन्ते य उ के च देवा वृक्षस्य स्कम्भं परित इव शाखाः
यस्मै हस्ताभ्यां पादाभ्यां वाचा श्रोत्रेण चक्षुषा । यस्मै देवा सदा बलिं प्रयच्छन्ति विमिते ऽमितं स्कम्भं तं ब्रूहि कतमः स्विद् एव सः
अप तस्य तमो हतं व्यावृत्तः स पाप्मना । सर्वाणि तस्मिन् ज्योतींषि यानि त्रीणि प्रजापतौ
यो वेतसं हिरण्ययं तिष्ठन्तं सलिले वेद । स वै गुह्यः प्रजापतिः
न प्रजापतिम् अत्य् एति नात्य् एति परमेष्ठिनम् । उतोत तत्र नो वृत यज् ज्येष्ठं परो अत्ययत्
अस्ति वै तत् परो भूमेर् अस्ति वै तत् परो दिवः । लोका वै तस्मिन् संप्रोता यस्मिन्न् ओताः प्रजा इमाः
अनुवाक २ ॥ अन्तःपात्रे रेरिहति दूर्शे दुर्निहितैषिणि । उरुण्डे अभिचङ्क्रमे वक्मके बस्तवासिनि सर्वासां भण्वा वः साकं नामधेयानि विद्मसि । यति जातानि वस् तति नश्यतेतः सदान्वाः
कर्णा दृषद्रथामहम् उरुकीं केशिनीं क्रकुम् । खडुरीम् अम्बरीष्यं नाशयामः सदान्वाः ॥ प्रपाठक
पण्डुगिरां फालदतीम् असंसूक्तनिगारिणीम् । असाताः सर्वा वो ब्रूमो नश्यतेतः सदान्वाः
याः शयानं जम्भयन्ति नक्तम् इच्छन्त्य् आतुरम् । अथो जनस्य सुप्तस्य मुखा हस्तात् प्र रिहन्ति दत्सु दत्कवनोचितास् ता इतो नाशयामसि
आपतन्तीर् विक्षिणाना वस्तगन्धाः सदान्वाः । भण्वा (अ)सिना तोत्स्यामि तीक्ष्णशृङ्ग इवर्षभः
सदान्वाः सादान्वेयां स्त्रीपुंसाꣳ उभयान् सह । सहे सहस्वान् सहसा वि मृधो हन्मि रक्षसः
चतुर्दंष्ट्रान् कुम्भमुष्कान् दीर्घकेशाꣳ असृन्मुखान् । अलाबुगन्धीन् उन्दुरान् दुर्णाम्नो नाशयामसि
स्तम्बे जाता अधि बाले रोदाकाꣳ रुदतीं त्वत् । दुर्णाम्नीः सर्वाः सन्तोका नाशयामः सदान्वाः
यासां जातानि क्रोशन्ति भित्स्व् अन्तर् वने ज्वल उप वृक्षेषु शेरते । (…)
या वाताभ्र उत्पतिते चर्त्ता वर्षेण विद्युता शाला इच्छन्ति सत्वरम् । दुर्णाम्नीः सर्वाः सन्तोका नाशयामः सदान्वाः
या धान्यात् संभवन्ति क्षेत्राद् उप्ताद् वर्पितात । कृताद् अभिप्रहाय्या नश्यतेतः सदान्वाः
याः पुरुषाः पापगन्धाः सदा रुक्षा विसृक्पदी । ता वज्रेण समर्पयन् निरजेतः शचीपते
उत् तिष्ठत निर् द्रवत न व इहास्ति न्यञ्चनम् । इन्द्रो वः सर्वासां साकं गर्भान् आण्डानि भेत्स्यति
इन्द्र जहि स्थूलशंखां मृणीहि दुर्णशीं कुहम् । अरायीं शकधूम्यं नाशयामः सदान्वाः
किम् आसुतां नग्नह्वम् अजमायुं च निघ्नतीम् । विटिटिङ्गाः प्रतोदिनीर् नाशयामः सदान्वाः
यस्यासुतं रन्धयध्वे यूयं भण्वाः सदान्वाः । तृष्टं कृणुताण्डरं यदा रसेन तृप्यत- -आत् सुराम् अव मेहथ
तस्याः पीत्वावमक्त्य् अथो शीर्षक्त्य् आ शये । ता एकान्नदूषणीर् नाशयामः सदान्वाः
अपारोगाञ् छकधूमान् वृक्षाणां यन्तु सत्वरम् । अथो दुर्हार्दसो गृहं प्र मृशन्त्व् अराय्यः
तासाम् एकाच्छवका शङ्कावङ्का वनेकृकुर् हसनैका कनिक्रदा । सर्वासां भण्वा वः साकं नामधेयानि विद्मसि । यति जातानि वस् तति नश्यतेतः सदान्वाः
सहस्वतीं प्र हरामि- इमां शालां विषासहिम् । सदान्वाघ्नीम् ओषधिं जैत्रायाच्छा वदामसि
दुःसंकाशे भीमचक्षो नग्ने भण्वे सदान्वे ध्राजिं त्विषिं शुचिम् अग्निम् अरायि किम् इहेच्छसे । धूमं माभि प्र गायि नि स्तौषामि सदान्वे
कङ्क्येका प्रखिदैका किम् इच् छान्त्यभिश्रया । चरन्ति नक्तं दुर्णाम्नो अरायीः सूतिकैष्यस् ता इतो नाशयामसि
अपक्रथाम् अभिश्रयाम् आनृत्यन्तीं कुतूहलाम् । कुसूलीं रथभञ्जनीं खलाज् जातास् त्रिकूक्वस् ता इतो नाशयामसि
या विकेशीर् उन्मदित्या- -उररा घोरचक्षवः । शीर्शाण्य् अन्या अन्यासां वितावन्तीर् इवासते सदान्वा ब्रह्मणस्पते परो भ्रूणान्य् अर्पय
यासां गन्धो नानारूपः पर्यैति पुरुषं पथि । ता अग्निः सहताम् इतो जातवेदाः सदान्वाः
याः पुरुषं दह्यमानं शून्यम् अग्नौ जिघत्सन्ति । भण्वा निष्कुष्टा नामासि मुष्टाग्रेण सदान्वास् ता इतो नाशयामसि
या उचिता आवपने शुष्कं खादन्ति मष्मसं वडवा गर्दभीर् इव । नाशयामः सदान्वाः
गर्भान् एकः प्रति मोर्शं या अदन्ति सदान्वाः । उचितास् तन्वं स्त्रिया गाव आ रोहिणीर् इव ता इतो नाशयामसि
याः पितृयात् संभवन्ति- -इन्द्रजा नः सदान्वाः । अप मित्यम् इवाभृतं पुनस् ता प्रति दद्मसि
आमादिनीः क्रूरादिनीर् अनग्निगन्ध्यादिनीः । अमुं परेत्योद्धितं शवम् अत्त सदान्वाः । शवः केवल आचारः किम् उ शालास्व् इच्छथ
याः कुमारीर् याः स्थविरा युवतीर् याः सदान्वाः । सर्वा यन्तु कुरूटिनीः कुलीनाधेनु सर्पत्व् अरायीर् अभिभा इतः
ताभ्यो रुद्रो विसृजत् त्विषिम् अध्वगघातिनीम् । ता अस्ता हन्तु विद्युता वज्रेणानपराधिना । तासां त्वं शक्र मोच् छिष इन्द्र भण्वाः फलीकुरु
कुमारान् एका स्थवीरान् या अदन्ति प्रखादिनीः । ता इन्द्रो हन्तु वृत्रहा या देवो विश्वाद् रक्षांसि सेधति
याश् च दासीर् असुराणां मनुष्येभ्यश् च याः कृताः । उभयीस् ताः परा यन्तु परावतं नवतिं नाव्या अति
यासां घोषः संगतानां वृकाणाम् इव गङ्गणः । प्रचङ्कशामैवहरां प्रयच्छन्तीं प्रतिग्रहां नाशयामः सदान्वाः
यानि सायं यथास्थामाद् रात्रीं यक्षाणि प्रेरते । अग्निष् टा सर्वा साहन्त्यो विश्वाद् रक्षांसि सेधतु
या ऋक्षीकाः कलीलान्दा- -अप्सु जाताः पुलीकयाः । गोपा आसाम् एको वेद यतो जाताः सदान्वास् ता इतो नाशयामसि
गुरुच्छायाम् ऊर्धार्यं शिशुमाकां प्रतिश्रुकाम् । अतिदुह्नां विचलन्तीं वितूलुमाम् । सर्वाश् चण्डस्य नप्त्यो नाशयामः सदान्वाः
आवदन्तीं नामहूकां तंस्तनीकां वृङ्क्तपदीम् । उद्रदन्तीम् अनासिकां नाशयामः सदान्वाः
वावदाकाम् अल्भषासां विजव्रां लब्रुवं लवुम् । अरायीं वाचमेजयां नाशयामः सदान्वाः
अनुवाक ३ ॥ ददामीत्य् एव ब्रूयाद् अनु चैनाम् अभुत्सत । वशां ब्रह्मभ्यो याचद्भ्यस् तत् प्रजावद् अपत्यवत्
प्रजया स वि क्रीणीते पशुभिश् चोप दस्यति । य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति
कूटयास्य सं शीर्यन्ते श्रोणया काटम् अर्दति । बण्डया दह्यन्ते गृहाः काणया जीयते स्वम्
विलोहितो अधिष्ठानाच् छक्नो विन्दति गोपतिम् । तथा वशायाः सांविद्यं दुरदभ्ना ह्य् उच्यसे
यो अस्याः कर्णाव् आस्कुनोत्य् आ स देवेषु वृश्चते । लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम्
पदोर् अस्या अधिष्ठानाद् विक्लिन्दुर् नाम विन्दति । अनामनात् सं शीर्यन्ते या मुखेनोपजिघ्रति
यद् अस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत् । ततः किशोरा म्रियन्ते वत्सांश् च घातुको वृकः
यद् अस्याः कस्मै चिद् भोगाय बालान् कश् चित् प्र कृन्तति । ततः कुमारा म्रियन्ते यक्ष्मश् छन्त्सत्य् अनामनात्
यद् अस्याः पल्पुलनाय शकृद् दासी समस्यति । ततो ऽपिरूपं जायते तस्माद् अव्येष्यद् एनसः
जायमानाभि जायते देवान् सब्राह्मणान् वशा । तस्माद् ब्रह्मभ्यो देयैषा तद् आहुः स्वस्य गोपनम्
य एनां वनिम् आयन्ति तेषां देवकृता वशा । ब्रह्मज्येयं तद् अब्रुवन् य एनां निप्रियायते
य एनां याचद्भ्य आर्षेयेभ्यो न दित्सति । आ स देवेषु वृश्चते ब्राह्मनानां च मन्यवे
यस्यान्यः स्याद् वशाभोगो अन्याम् इच्छेत तर्हि सः । हिंस्याद् अदत्ता गोपतिं याचितां च न दित्सति
यथा शेवधिर् निहितो ब्राह्मणानां तथा वशा । ताम् एतद् आ यन्ति यस्मिन् कस्मिंश् च जायते
स्वम् एतद् आ यन्ति यद् वशां ब्राह्मणा अभि । यथैतान् अन्यज् जिनीयाद् एवास्यानिरोधनम्
चरेद् एवा त्रैहायणाद् अविज्ञातगदा सती । वशां च विद्यान् नारद ब्राह्मणस् तर्ह्य् एष्यः
य एनाम् अवशाम् आह देवानां निहितं निधिम् । उभौ तस्मै भवाशर्वौ परिक्रम्येषुम् अस्यतः
दुरदभ्नैनम् आ शये याचितां च न दित्सति । नास्मै कामः सम् ऋध्यते यम् अदत्त्वा चिकीर्षति
यो अस्या ऊधो न वेद- -अथो अस्या स्तनान् उत । उभयेनैवैनां दुहे दातुं चेद् अशकद् वशाम्
देवा वशां याचन्ति मुखं कृत्वा ब्रह्मणम् । तेषां सर्वेषाम् अददद् धेडं न्य् एति मानुषः
हेडं पशूनां न्य् एति ब्राह्मणेभ्यो ऽददद् वशाम् । देवानां निहितं भागं मर्त्यश् चेन् निप्रियायते
यद् अन्ये शतं याचेयुर् ब्राह्मणा गोपतिं वशाम् । अथैता देवा अब्रुवन्न् एवं ह विदुषो वशा
य एवं विदुषे ऽदत्त्वा- -अन्यस्मै ददद् वशाम् । दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता
देवा वशाम् अयाचन् यस्मिन्न् अग्रे अजायत । ताम् एतां विद्यान् नारदः सह देवैर् उद् आजत
अनपत्यम् अल्पपशुं वशा कृणोतु पूरुषम् । ब्राह्मणैश् च याचिताम् अथैनां नि प्रियायते
अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च । तेभ्यो याचन्ति ब्राह्मणास् तेभ्य आ वृश्चते ऽदधत्
यावद् अस्या गोपतिर् न- -उपशृणुयाद् ऋचः स्वयम् । चरेद् अस्य तावद् गोषु नास्य श्रुता गृहे स्यात्
यो अस्या ऋच उपश्रुत्य- -अथ गोष्व् अचीचरत् । आयुश् च तस्य भूतिं च देवा वृश्चन्ति हीडिताः
वशा चरन्ती बहुधा देवानां निहितो निधिः । आविष्कृणुते रूपाणि यथा स्थाम जिगांसति
आविर् आत्मानं कृणुते यथा स्थाम जिगांसति । अथो ह ब्रह्मभ्यो वशा याक्याय कृणुते मनः
मनसा संकल्पयति तद् देवाꣳ अपि गच्छति । अथो ह ब्रह्माणो वशाम् उपप्रयन्ति याचितुम्
स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः । दानेन राजन्यो वशाया मातुर् हेडं न गच्छति
वशा राजन्य ते माता तथा संभूतम् अग्रशः । तस्या आहुर् अनर्पणं य ब्रह्मभ्यः प्रदीयते
यथाज्यं प्रतिगृहीतम् आलुम्पेत् स्रुचो अग्नये । एवा ह ब्रह्माणो वशाम् आग्नये वृश्चते ऽदधत्
पुरोडाशवत्सा सुदुघा लोके अस्योप तिष्ठति । सास्मै सर्वान् कामान् दुहे वशा प्रददुषे बहून्
सर्वान् कामान् यमराज्ये वशा प्रददुषे दुहे । अथाहुर् नारकं लोकं निरुन्धानस्य याचिताम्
प्रवीयमाना चरति क्रुद्धा गोपतये वशा । वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम्
यो वेहतं मन्यमानो गृहेषु पचते वशाम् । अप्य् अस्य पुत्रान् पौत्रांश् च याचयते बृहस्पतिः
महद् एषा वि तपति चरन्ती गोषु गौर् अपि । ततो ह गोपतये वशा ददुषे विषं दुहे
प्रियं पशूनां भवति यद् ब्रह्मभ्यः प्रदीयते । अतो वशायास् तत् प्रियं यद् देवत्रा हविः स्यात्
या वशा उदकल्पयन् देवा यज्ञाद् उदेत्य । तासां विलिप्त्यं भीमाम् उदाकुरुत नारदः
तां देवा अमीमांसन्त वशेयां न वशेति । ताम् अब्रवीन् नारद एषा वशानां वशतमा
कति नु वशा नारद यास् त्वं वेत्थ मनुष्यजाः । कतमासां भीमतमा कस्या नाश्नीयाद् अब्राह्मणः
विलिप्त्या बृहस्पते या च सूतवशा वशा । तासां नाश्नीयाद् अब्राह्मणो य आशंसेति भूत्याम्
नमस् ते अस्तु नारद- -अनुष्ठ विदुषे वशा । कतमासां भीमतमा याम् अदत्त्वा पराभवेत्
विलिप्त्या बृहस्पते या च सूतवशा वशा । याः प्रयच्छेद् ब्रह्मभ्यो य आशंशेति भूत्याम्
त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा । ताः प्र यच्छेद् ब्रह्मभ्यः स्योनावस्कः प्रजापतौ
एतद् वो ब्राह्मणा हविर् इति मन्वीत याचितः । वशां चेद् एनं याचेयुर् या भीमाददुषो गृहे
देवा वशाम् उपावदन् न नो दाद् इति हीडिताः । एताभिर् ऋग्भिर् भेदस्य तस्माद् वै स पराभवत्
उतैतां भेदो नारदाद् वशाम् इन्द्रेण याचितः । तस्मात् तं देवा एनसो वृश्चन्न् अहमुत्तरे
ये वशाया अदानाय वदन्ति परिरापिनः । इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्या
यो गोपतिं पाराणीय- -अथाहुर् मा ददा इति । रुद्रस्यास् तां हेतिं ते परि यन्त्य् अचेतसः
यदि हुतां यद्य् अहुताम् अमा च पचते वशाम् । देवान् सब्राह्मणान् ऋत्वा जिह्मो लोकान् निर् ऋच्छति
अनुवाक ४ ॥ असृङ् मांसं त्वचं पेष्ट्रं मस्तृहणं मज्ज्ञः शरीरम् । अग्निः क्रव्याद् अत्त्व् अमुष्यामुष्यायणस्यामुष्याः पुत्रस्य
प्रातर्यावद्भ्यो देवेभ्यः सायंयावद्भ्यो देवेभ्यो विश्वदानींयावद्भ्यो देवेभ्यः । अमुष्यामुष्यायणम् अमुष्याः पुत्रम् आ वृश्चामि
वैश्वानराय क्षिप्रधन्वने ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् आ वृश्चामि
क्षिप्रधन्वन् क्षिप्रहस्त । अमुष्यामुष्यायणस्यामुष्याः पुत्रस्य हृदयं यकृन् मतस्ने प्र विध्य
इन्द्राग्निभ्यां प्रजापतये परमेष्ठिने सोमाय राज्ञे वरुणाय राज्ञे । पूष्णे धात्रे सवित्रे त्वष्ट्रे ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् आ वृश्चामि
उषसे ऽह्ने रात्रये सूर्यायामुम् (…)
वीरुद्भ्य ओषधीभ्यो वनस्पतिभ्यो वानस्पतेभ्यो ऽमुम् (…)
अद्भ्यो मातरिश्वने ऽद्यावापृथिवीभ्याम् अमुम् (…)
इदावत्सराय परिवत्सराय संवत्सराय बृहते विश्वरूपायामुम् (…)
माद्भ्यः संवत्सरायामुम् (…)
दिग्भ्यो अन्तर्देशेभ्य आशाभ्य आशापालेभ्यो ऽमुम् (…) ॥ ऋतुभ्य आर्तवेभ्यो अधिपतिभ्य आधिपत्येभ्यो ऽमुम् (…) ॥ ऋषिभ्य आर्षेयेभ्यो अङ्गिरोभ्य आङ्गिरसेभ्यो ऽथर्वभ्य आथर्वणेभ्यो ऽमुम् (…) ॥ वसुभ्यो रुद्रेभ्य आदित्येभ्यः साध्येभ्य आप्त्येभ्यो ऽमुम् (…) ॥ मरुद्भ्यो ऽश्विभ्यां ब्रह्मणे ब्रह्मणस्पतये ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् आ वृश्चामि
ये स्वश् चक्रुर् ये स्वर् जज्ञुः । तेभ्यः स्वःकृद्भ्यः स्वःकारेभ्यो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् आ वृश्चामि । ते स्वःकृतः स्वःकारा अमुम् आमुष्यायणम् अमुष्याः पुत्रं परा भावयन्तु
ये तपश् चक्रुर् ये तपो जज्ञुः । तेभ्यस् तपस्कृद्भ्यस् तपस्कारेभ्यो ऽमुम् (…) । ते तपस्कृतस् तपस्कारा अमुम् (…)
ये ब्रह्म चक्रुर् ये ब्रह्म जज्ञुः । तेभ्यो ब्रह्मकृद्भ्यो ब्रह्मकारेभ्यो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् आ वृश्चामि । ते ब्रह्मकृतो ब्रह्मकारा अमुम् आमुष्यायणम् अमुष्याः पुत्रं परा भावयन्तु
अघारिणीम् अमूम् अघविद्धां विकेशीम् अपप्रतिधिमासोक्तीं देवमनुष्याः पश्यन्तु । अमुम् आमुष्यायणम् अमुष्याः पुत्रं रुरुधुषीम्
अलिक्लवा गृध्राः कङ्काः सुपर्णाः श्वपदाः पतत्रिणः । वयांसि शकुनयो ऽमुष्यामुष्यायणस्यामुष्याः पुत्रस्यादहने चरन्तु
तद् आपः प्र वहत- -अवद्यं च मलं च यत् । यद् दुष्वप्न्यम् आरिम यद् ऋचानृतम् ऊदिम
आपः सप्त स्रवन्तीस् ता नो मुञ्चंत्व् अंहसः
मुञ्चन्तु मा शपथ्याद् अथो वरुण्याद् उत । अथो यमस्य पड्बीशाद् विश्वस्माद् देवदुष्कृतात्
जामिशंसाद् दुष्वप्न्याद् द्रुहो मा मुञ्चन्तु वरुणस्य पाशात्
मह्यम् इन्द्रो वरुणो बृहस्पतिः सविता वर्च आदधन्
भ्रातृव्यहं सपत्नहम् असौ मे भ्रातृभ्यो ऽसौ सपत्नः
तं हन्मि तं दुःस्वप्न्येन विध्यामि तम् अनायुष्टया विध्यामि तं क्षपितायव्येन विध्यामि तम् अधराञ्चं मृत्युपथम् अभ्यप नुदामि
विद्म ते स्वप्न जनित्रं पाप्मनः पुत्रो ऽस्य् अभूत्या अधि जातो यमस्य करणः । तं त्वा स्वप्न तथा विद्म । यो भद्रः स्वप्नः स मम यः पापस् तं द्विषते प्र हिण्मः । तम् अस्मै गमयामस् तेनैनं विध्यामो ऽभूत्यैनं विध्यामो निर्भूत्यैनं विध्यामः पराभूत्यैनं विध्यामो ग्राह्यैणं विध्यामस् तमसैनं विध्यामो अग्न एनं क्रव्याद आ वृशामो देवानाम् एनं घोरैः क्रूरैः प्रैषैर् अभि प्रेष्यमो वैश्वाणरस्यैनं दंष्ट्रयोर् अपि दध्मः
(…) जनित्रं ग्राह्याः पुत्रो ऽसि निरृत्या अधि (…)
(…) जनित्रं वरुणस्य पुत्रो ऽसि वरुणान्या अधि (…)
(…) जनित्रम् अह्नः पुत्रो ऽसि रात्र्या अधि (…)
(…) जनित्रं दिवस् पुत्रो ऽसि भूम्या अधि (…)
(…) जनित्रं वनस्पतीनां पुत्रो ऽस्य् ओषदीभ्यो ऽधि (…)
(…) जनित्रं वानस्पत्यानां पुत्रो ऽसि वीरुद्भ्यो ऽधि (…)
(…) जनित्रं तन्द्रियाः पुत्रो ऽसि कोटीया अधि (…)
(…) जनित्रं रक्षसां पुत्रो ऽस्य् अभ्वेभ्यो ऽधि (…)
विद्म ते स्वप्न जनित्रं गन्धर्वाणां पुत्रो ऽस्य् अप्सरोभ्यो अधि जातो यमस्य करणः । तं त्वा स्वप्न इति त्रीणि
द्यावापृथिवी अहोरात्रे नक्षत्रपेशः । इदम् अहम् अमुष्मिन्न् आमुष्यायणे ऽमुष्याः पुत्रे दुष्वप्न्यं व्रजेत्
यद् अस्मास्व् इत्य् आष्टादशकी
मा प्र गाम पथो वयं मा यज्ञाद् इन्द्र सोमिनः । मान्त स्थुर् नो अरातयः
यो यज्ञस्य प्रसाधनस् तन्तुर् देवेष्व् आततः । तम् आहुतम् अशीमहि
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतं सपर्यत । दूरेदृशे देवजाताय केतवे दिवस् पुत्राय सूर्याय शंसत
द्यावा च तत्र तततनन्न् अहानि च न ते अदेवः प्रदिवो वि वासति । यद् एतशेभिः प्रतरै रथर्यसि प्राचीनम् अन्यद् अनु वर्तते रज उद् अन्येन ज्योतिषा यासि सूर्य
येन सूर्य ज्योतिषा बाधसे तमो जगच् च विश्वम् अभीयर्षि भानुना । तेनास्मद् विश्वाम् अनिराम् अनाहुतिम् अपामीवाम् अप दुष्वप्न्यं सुव
विश्वाम् अनिराम् अमीवाम् अनाहुतिम् अमुष्मा आमुष्यायणायामुष्याः पुत्राय प्र हिण्मः
द्यावापृथिवी वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् । अमुष्मा आमुष्यायणायामुष्याः पुत्राय
वातापवमानौ वहतम् (…)
इन्द्राग्नी वहतम् (…)
मित्रावरुणा वहतम् (…)
भवाशर्वौ वहतम् (…)
देवाश्विना वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् । (…)
देवा मरुतो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् । (…)
देवाः पितरो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् । (…)
देव सूर्य वह दुष्वप्न्यं परा वह दुष्वप्न्यम् । (…)
देव चन्द्रमो वह दुष्वप्न्यं परा वह दुष्वप्न्यम् । (…)
देवा नक्षत्राणि वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् । (…)
देवीर् आपो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् । (…)
देव विष्णो वह दुष्वप्न्यम् (…)
देव त्वष्टर् वह (…)
देव धातर् वह (…)
देव सवितर् वह (…)
देव पूषन् वह (…)
देव बृहस्पते वह (…)
देव प्रजापते वह (…)
देव परमेष्ठिन् वह दुष्वप्न्यं परा वह दुष्वप्न्यम् । (…)
अहोरात्रे वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् । अमुष्मा आमुष्यायणायामुष्याः पुत्राय
अनुवाक ५ ॥ इन्द्रो वज्रम् असिञ्चद् वृत्राय हन्तवे । त्वष्टा वज्रम् असिञ्चद् वृत्राय हन्तवे
यो वज्रः स विश्वानरो यत् तेग्मवीर्यं स विश्वाषाड् यद् धारम्भणं स वैश्वानरः
एतद् वा इदं सर्वं यद् एतानि त्रीणि । विश्वानरो वैश्वानरो विश्वाषाट्
सर्वान् एव पुण्यांल् लोकान् अव रुन्धे सर्वाश् च देवता य एवं विद्वान् अनडुहो व्रतं बिभर्ति
तम् आदत्त तम् उद् ऐङ्गयत् तम् उपामिमीत प्र हराणीति
सो ऽस्य हस्ताद् अमुच्यत दैवो वज्रः क्षुरः पविः सहस्रपृष्टिर् दिविस्पृशः
स संशिञ्जानो ऽतिष्ठद् धरिहरा भवन्न् एतद् ऋच्छन्
स समुद्रं प्राविशत् स समुद्रम् अदहत्
तस्मात् समुद्रो दुर्गिर् अपपिद् वैश्वानरेण हि दग्धः
स शक्र उद् अक्रामत् सो ऽध्यायद् असौ वज्रो असुरैः सम्पद्यदेवास् तं रक्षति व्रतं चराणीति स व्रतम् अचरत्
सो ऽणुः कृशो ऽभवत् तस्माद् अणुः कृशो व्रतचारी भवत्य् अणुर् हि कृशो भूत्वेन्द्रो असुरान् अपावृङ्क्त
स परमेष्ठिनम् उपाधावत्
स प्रजापतिम् उपाधावत्
स विष्णुम् उपाधावत्
स गृहपतिम् उपाधावत्
स विराजम् उपाधावत्
स स्वराजम् उपाधावत्
स सम्राजम् उपाधावत्
सो ऽहोरात्रे उपधावत्
सो ऽर्धमासान् उपाधावत्
स मासान् उपाधावत्
स ऋतून् उपाधावत्
स आर्तवान् उपाधावत्
स ऋषीन् उपाधावत्
स आर्षेयान् उपाधावत्
सो ऽङ्गिरस उपपाधावत्
स आङ्गिरसान् उपाधावत्
सो अथर्वण उपाधावत्
स आथर्वणान् उपाधावत्
विश्वान् देवान् मरुद्गणास् तम् अन्व् अवाद्रवन् सोमः प्रथमो ऽथेन्द्राग्नी
तम् उपामन्त्रयन्तापुण्यया वाचा क्रूरया च हनिष्यामस् त्वा वित्त्वा चेत्स्यामोनचतमिष्यसीति सो ऽशाम्यत्
तस्माद् यो ब्रह्म वेदोतापस्कृतं शमयति दोहयत एवैनान्
तम् ऋक्सामाभ्याम् आदत्त यजुषा यज्ञेन गायत्रेण वामदेव्येन च
एतद् वा इदं सर्वं यद् ऋक्सामे एताव् इन्द्रस्य बाहू
तम् आदत्त तं परुष्य् आधत्त
प्रजा वै समृद्धिर् अक्षितिः पशवः परूंषि
प्रजाम् एव समृद्धिम् अक्षितिम् अव रुन्धे यः (…) ॥ [सेए १७.२७.४ब्
स दिक्षु प्रत्य् अतिष्ठत् ॥ दिश एवानु प्रति तिष्ठति यः (…)
स विश्वाषाह्य् अक्रमत् ॥एषा वै विष्वाषाड् ड्यौर् एवासौ ॥ एते वै सर्वे पुण्या लोकाः सर्वाश् च देवताः स नाधारयत् ॥ सर्वान् एव पुण्याꣳल् लोकान् अव रुन्धे सर्वाश् च देवता यः (…)
स विश्वानरे ऽक्रमत ॥एष वै विश्वानरो यद् अन्तरिक्षं समुद्रः ॥एते वै पथयो देवयाना यत् सूर्यस्य रश्मयः सः (…) ॥ पथिषु देवयानेषु ध्रियते प्र पथो देवयानान् जानाति यः (…)
स वैश्वानरे ऽक्रमत ॥एष वै वैश्वानरो यद् अयं पवमानः ॥एष वै सर्वा अनुप्रजातो ध्रियते स नाधारयत् ॥ ध्रियन्ते अस्मिन् प्राणा यः (…)
स वृत्रे ऽक्रमत ॥ तस्य वृत्रस्याङ्गा पर्वाणि शरीराण्य् अभज्यन्त । एतानि वै वृत्रस्याङ्गा पर्वाणि शरीराणि यद् इमे पर्वताः
स यत्र हृदा मनसा कामयत इह मे राध्यते तद् अस्मै राध्यते
अस्याम् एव प्रतिष्ठाम् आयतनं विन्दते यः (…)
स देवान् आगच्छत् तं देवा अब्रुवन्न् आशंसामहे गुर्व् एतद् व्रतम् आरण्येषु पशुषु ग्राम्येष्व् अत्य् एति
सो ऽनड्वाहम् उपाधावत् तम् अनड्वान् अब्रवीत् किं मे प्रतीवाहो भविष्यतीति वरं वृणीष्वेति स वरम् अवृणीत
ब्रध्नलोको ऽसानि ब्रध्नस्य विष्टपि श्रया इति
षोडशो वा इत ऊर्ध्वो लोको यद् ब्रध्नो यद् ब्रध्नस्य विष्टपः
ब्रध्नलोको भवति ब्रध्नस्य विष्टपि श्रयते यः (…)
अथाहीना आश्वत्थिर् अब्रवीन् न ताद् ब्राह्मणं निन्दानि याद् एनम् अशृणोन् नेद् इष्टापूर्तेन वि भवानीति
कृत्या वा एषा मनुष्येषु चरति यद् अनड्वान् यद् अनडुद्व्रती
य एवं विदुषो ऽसाधु कीर्तयति- -इष्टम् एवास्य पूर्तं मायां सं वृक्ते
इन्द्रो वा अग्रे असुरेष्व् अनडुद्व्रतम् अचरत् तेषाम् इष्टं पूर्तं मायां संवृक्तानिन्द्रं ह्य् एनम्
सो ऽनडुहो वहे ऽक्रमत सर्वाꣳल् लोकान् प्राजानात्
याव् अस्य पूर्वपादौ तौ पूर्वपक्षौ याव् अपरपादौ ताव् अपरपक्षौ
याव् अस्यौष्ठौ तौ पुरोडाशौ ये नासिके तौ स्रुवौ
ये अस्याक्षौ तौ सूर्याचन्द्रमसौ ये निमेषास् तान्य् अहोरात्राणि यानि वक्षणानि ते सूर्यस्य रश्मयः सः (…)
द्रोणकलशः शिरः सोमो राजा मस्तिष्कः
ये अस्य शृङ्गे तद् ऋतं सत्यम्
ध्रुवं वा ऋतं सत्यं तस्माद् एते ध्रुवे
ध्रुवम् एव र्तं सत्यम् अनु प्रति तिष्ठति यः (…)
याव् अस्य कर्णौ सा श्रद्धा ॥ चराचरा वै श्रद्धा तस्मात् कर्णौ मुहुर् वरीवर्जयति
श्रद्दधते ऽस्मै श्रद्धानीयो भवति यः (…)
यास्य दक्षिणा हनुः सा जुहुर् या सव्या सोपभृद् यः कण्ठः सा ध्रुवा ॥अग्निर् आस्यं विद्युज् जिह्वा मरुतो दन्ताः पवमानः प्राणः ॥एषा वै सा याम् आहुर् वसोर् धारेति यद् आन्त्रगुदम् ॥ वसोर् एव धारां समृद्धिम् अक्षितिम् अव रुन्धे यः (…)
यद् अस्य चर्मं तद् अभ्रं यानि लोमानि तानि नक्षत्राणि ॥स्वेदो वर्षम् ऊष्मा नीहार ओषधयश् च वनस्पतयश् चोबध्यम् ॥यो ऽस्य दक्षिणो ऽर्धस् तौ शारदौ मासौ यः सव्यस् तौ हैमनौ ॥यो ऽस्य जघनार्धस् तौ शैशिरौ मासौ यः पूर्वाधस् तौ वासन्तौ ॥यद् अस्य पृष्ठं तौ ग्रैष्मौ मासौ यन् मध्यौ तौ वार्षिकौ ॥संवत्सरो वा एष संभृतो यद् अनड्वान् यद् अनडुद्व्रती ॥ कल्पन्ते अस्मा ऋतवो न र्तुष्व् आ वृश्चत ऋतूनां प्रियो भवति यः (…)
तपश् च वरश् च महश् च यशश् च यद् अस्मिन्न् अन्तर् ऋचः सामानि यजूंषि ब्राह्मणम्
ब्रह्म चैव लोकं चाव रुन्धे ब्राह्मणवर्चसी भवति यः (…)
अथ यद् अस्मिन्न् अन्तः ॥शतं श्रद्धा शतं दीक्षाः शतं यज्ञाः शतं दक्षिणाः ॥शतं भूतयः शतं पुष्टयः शतं प्रभूतयः शतं समृद्धयः ॥शतम् अभूतयः शतं निर्भूतयः शतं पराभूतयः शतम् असमृद्धयः ॥शतमध्यानि शतम् अल्गणानि शतं तमांसि शतं रुधिराणि ॥य एवं विदुषो ऽसाधु कीर्तयत्य् एतैर् एवैनं तमोभिः प्रोर्णोति ॥यद् अस्य प्राचीनं नाभ्यास् तेन द्विषन्तम् आ विशति ॥अथ यद् अस्य प्रतीचीनं नाभ्यास् तेन मृतुं नाष्ट्राम् अवर्तिं तरति ॥ प्र पथो देवयानां जानाति यः (…)
शतम् अर्धमासाः शतं मासाः शतम् ऋतवः शतम् आर्तवाः ॥शतम् इदावत्सराः शतं परिवत्सराः शतं संवत्सराः ॥शतं ब्रह्माणि शतं कर्माणि शतं ज्योतींषि शतम् अमृतानि ॥शतं प्राणाः शतम् अपानाः शतं व्यानाः शतं समानाः ॥ ज्योग् जीवति सर्वम् आयुर् एति न पुरा जरसः प्र मीयते यः (…)
अथ यद् अस्मिन्न् अन्तः ॥शतं गायत्राः शतं साह्नाः शतं त्रिरात्राः शतम् अतिरात्राः ॥शतम् अग्निष्टोमाः शतं द्वादशाहाः शतं षोडशिनः शतं सर्वपृष्ठ्याः ॥शतं राजासूयाः शतं वाजपेयाः शतं कामप्राः सहस्रं सत्रायणानि ॥एष वानड्वान् सर्वाङ्गः सर्वात्मा सर्वपरुः सर्वपान् मध्यतः प्रत्य् अष्ठात् ॥ऋक्सामाभ्याम् उत्तभितो यजुषा यज्ञेन गायत्रेण ब्रह्मणा प्रथित उपरिष्टात् ॥ प्रथते प्रजया पशुभिर् गृहैर् धनेन यः (…)
इन्द्रो बलेनासि परमेष्ठी व्रतेन गौस् तेन वैश्वदेवः ॥ यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस् तस्य प्राणान् सं वृह तस्य प्राणान् वि वृह
इन्द्रो ऽसीन्द्रस्य रूपम् असि प्रजापतिर् असि परमेष्ठ्य् असि
स्वर् असि स्वर्गो ऽसि स्वर्गलोको ऽसि स्वर्गं मा लोकं गमय
येनास्य वहस् तेन यज्ञो येन वहति तेन लोकः
येनैनं पश्यति तेन विश्वो येनैनं गमयति तेन सर्वः
ये ऽस्य पादाः सा प्रतिष्ठा । प्रति तिष्ठति प्रजया पशुभिर् गृहैर् धनेन य एवं विद्वान् अनडुहो व्रतं बिभर्ति
अनुवाक ६ ॥ नडम् आ रोह न ते अत्र लोक इदं सीसं भागधेयं त एहि । यो गोषु यक्ष्मः पुरुषेषु यक्ष्मस् तेन त्वं साकम् अधराङ् परेहि
अघशंसदुःशंसौ करेणानुकरेण च । मृत्यूंश् च सर्वांस् तेनेतो यक्ष्मांश् च निर् अजामसि
निर् इतो मृत्युं निरृतिं निर् यक्ष्मम् अजामसि । यो नो द्वेष्टि तम् अद्ध्य् अग्ने क्रव्याद् यं द्विष्मस् तं ते प्र सुवामः
यद्य् अग्निः क्रव्याद् यदि वा व्याघ्र इमं गोष्ठम् अन्योका आ विवेश । तं माषाज्यं कृत्वा प्र हिणोमि दूरं स गच्छत्व् अप्सुषदो ऽत्य् अग्नीन्
यत् त्वा कुद्धाः प्रचक्रुर् मन्युना पुरुषे मृते । सुकल्पम् अग्ने तत् त्वया पुनस् त्वोद् दीपयामसि
पुनस् त्वादित्या रुद्रा वसवः पुनर् ब्रह्मा वसुनीतिर् अग्रे । पुनस् त्वा ब्रह्मणस्पतिर् आधाद् दीर्घायुत्वाय शतशारदाय
यो अग्निः क्रव्यात् प्रविवेश वो गृहम् इमं पश्यन्न् इतरं जातवेदसम् । तं हरामि पितृयज्ञाय दूरं स घर्मम् इन्धत् परमे सधस्थे
क्रव्यादम् अग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः । इहैवायम् इतरो जातवेदा देवो देवेभ्यो हव्यं वहतु प्रजानन्
क्रव्यादम् अग्निम् इषितो हरामि जनान् द्रुहन्तं वज्रेण मृत्युम् । वि तं शास्मि गार्हपत्येन विद्वान् पितॄणां लोके अपि भागो अस्य
क्रव्यादम् अग्निं शसमानम् उक्थ्यं प्र हिणोमि पथिभिः पितृयाणैः । मा देवयानैः पथिभिर् आ गा अत्रैवैधि पितृषु जागृहि त्वम्
सम् इन्धते संकसुकं स्वस्तये शुद्धा भवन्तः शुचयः पावकाः । जहाति रिप्रम् अत्य् एन एति समिद्धो अग्निः सुपुना पुनाति
देवो अग्निः संकसुको दिवस् पृष्ठान्य् आरुहत् । मुच्यमानो निर् अंहसो मोह्यास्माꣳ अशस्त्याः
अस्मिन् वयं संकसुके अग्ने रिप्राणि मृज्महे । अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्
संकसुको विकसुको निरृथो यश् च निस्वरः । ते ते यक्ष्मं सवेदसो दूराद् दूरम् अचुच्यवुः
अन्नात् त्वा पुरुषेभ्यो गोभ्यो अश्वेभ्यस् त्वा । क्रव्यादं निर् णुदामस्य् अग्निं जीवितयोपनम्
यो नो अश्वेषु वीरेषु यो गोषु यो अजादिषु । क्रव्यादं निर् णुदामस्य् अग्निर् यो जनयोपनः
समिद्धो अग्न आहुत स नो माभ्यपक्रमीः । अत्रैव दीदिहि द्यवि ज्योक् च सूर्याय दृशे
यस्मिन् देवा अमृजत यस्मिन् मनुष्या उत । तस्मिन् घृतस्तावो मृष्ट्वा त्वम् अग्ने दिवं रुह
सीसे मृढ्वं नडे मृढ्वम् अग्निः संकसुकश् च यः । अथो अव्यां रामायां शीर्षक्तिम् उपबर्हणे
सीसे बलं सादयित्वा शीर्षक्तिम् उपबर्हणे । अव्याम् असिक्न्यां मृष्ट्वा शुद्धा भवन्ति यज्ञियाः
परं मृत्यो अनु परेहि पन्थां यस् त एष इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि- -इह मे वीरा बहवो भवन्तु
इमे जीवा वि मृतैर् आववृत्रन्न् अभूद् भद्रा देवहूतिर् नो अद्य । प्राञ्चो अगाम नृतये हसाय सुवीरासो विदथम् आ वदेम
इमं जीवेभ्यः परिधिं दधामि मैषां नु गाद् अपरो अर्थम् एतम् । ज्योग् जीवन्तः शरदः पुरूचीस् तिरो मृत्युं दधतां पर्वतेन
यथाहान्य् अनुपूर्वं भवन्ति यथर्तव ऋतुभिर् यन्ति साकम् । यथा न पूर्वो अपरं जहात्य् एवा त्वष्टर् आयुंषि कल्पयैषाम्
आ रोहतायुर् जरसं वृणाना अनुपूर्वं यतमाना यति ष्ठ । तान् वस् त्वष्टा सुजनिमा सजोषाः सर्वम् आयुर् नयतु जीवनाय
अश्मन्वती रीयते सं रभध्वं वीरयध्वं प्र तरता सखायः । अत्रा जहीत ये असन् दुरेवा अनमीवान् उत् तरेमाभि वाजान्
उत् तिष्ठता प्र तरता सखायो +ऽश्मन्वती स्यन्दते नदीयम् । अत्रा जहीत ये असन्न् अशिवाः शिवान् स्योनान् उत् तरेमाभि वाजान्
वैश्वदेवीं सूनृताम् आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः । अतिक्रामन्तो दुरितानि विश्वा शतं हिमाः सर्ववीरा मदेम
उदीचीनैः पथिभिर् वायुम् अद्भिर् अतिक्रामन्तो ऽवरान् परेभिः । त्रिः सप्त कृत्व ऋषयः परेता मृत्युं प्रत्यौहन् पदयोपनेन
मृत्योः पदं योपयन्त एत द्राघीय आयुः प्रतरं दधानाः । आसीना मृत्युं नुदता सधस्थे ऽथ जीवा विदथम् आ वदेम
इमा नारीर् अविधवाः सुपत्नीर् आञ्जनेन सर्पिषा सं विशन्तु । अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिम् अग्रे
इमे वीरा अविधवाः सुजानय आञ्जनेन सर्पिषा सं स्पृशन्ताम् । अनश्रवो अनमीवाः सुरत्नाः स्योनाद् योनेर् अधि तल्पं रुहेयुः
व्याकरोमि हविषाहम् एतौ तौ ब्रह्मणा व्य् अहं कल्पयामि । स्वधां पितृभ्यो अजरां कृणोमि दीर्घेनायुषा सम् इमां सृजामि
यो नो अग्निः पितरो हृत्स्व् अन्तर् आविवेशामृतो मर्त्येषु । मय्य् अहं तं परि गृह्णामि देवं मा सो अस्मान् द्विक्षत मा वयं तम्
अपावर्त्याग्निं गार्हपत्यं क्रव्यादा प्रेत दक्षिणा । प्रियं पितृभ्य आत्मने ब्रह्मणे कृणुत प्रियम्
द्विभागधनम् आदाय प्र क्षिनात्य् अवर्त्या । अग्निः पुत्रस्य ज्येष्ठस्य यः क्रव्याद् अनिराहितः
यत् कृषते यद् वनुते यच् च वस्तेन विन्दते । सर्वं मर्त्यस्य तन् नास्ति क्रव्याच् चेद् अनिराहितः
अयज्ञियो हतवर्चा भवति नैनेन हविर् अत्तवे । छिनत्ति कृषिं गां धनं यः क्रव्याद् अनुवर्तते
बहु गृध्यैः प्र वदत्य् आर्तिं मर्त्यो न्य् एति च । क्रव्याद् यम् अग्निर् अन्तिकाद् अनुविद्वान् वितावति
ग्राह्या गृहाः सं सृज्यन्ते यत् स्त्रिया म्रियते पतिः । ब्रह्मैव विद्वान् एष्यो यः क्रव्यादं निर् आदधत्
यद् रिप्रं दुरितं चकृमा यच् च दुष्कृतम् । आपो मा तस्माच् छुन्धन्त्व् अग्निः संकसुकश् च यः
ता अधराद् उदीचीर् आववृत्रन् प्रजानतीः पथिभिर् देवयानैः । पर्वतस्य ऋषभस्याधि पृष्ठे नवाश् चरन्ति सरितः पुराणीः
अग्ने अक्रव्यान् निष्क्रव्यादं नुदा देवजनं वह
इमं क्रव्यात् प्र विवेश- -अयं क्रव्यादम् अन्व् अगात् । व्याघ्रौ कृत्वा नानानं तं हरामि शिवापरम्
अन्तर्धिर् देवानां परिधिर् मनुष्याणाम् अग्निर् गार्हपत्य उभयान् अन्तरा श्रितः । जीवानाम् अग्ने प्र तिर दीर्घम् आयुः पितॄणां लोकम् उप यन्तु ये मृताः
सुगार्हपत्यो वितपन्न् अरातीर् उषामुषां श्रेयसींश्रेयसीं दधत् । सर्वान् अग्ने सहमानः सपत्नान् ऐषाम् ऊर्जं रयिम् अस्मासु धेहि
इमम् इन्द्रं वह्निं पप्रिम् अन्व् आरभध्वं स वो निविद्वान् विजहातु मृत्युम् । तेनाप हत शरुम् आपतन्तं तेन रुद्रस्य परि पातास्ताम्
अहोरात्रे अन्व् एषि बिभ्रत् क्षेम्यस् तिष्ठन् प्रतरणः सुवीरः । अनातुरां सुमनसस् तल्प बिभ्रज् ज्योग् एव नः पुरुषगन्धिर् एधि
ते देवेष्व् आ वृश्चन्ते पापं जीवन्ति सर्वदा । क्रव्याद् यान् अग्निर् अन्तिकाद् अनुविद्वान् वितावति
प्रेव मनसा पतिति मुहुर् आ वर्तते पुनः । क्रव्याद् यम् अग्निर् अन्तिकाद् अश्व इवानुवपते नडम्
ये ऽश्रद्धया धनकाम्यात् क्रव्यादा समासते । ते वा अन्येषां कुम्भीं पर्य् आदधति सर्वदा
इषीकां चरतीं वित्त्वा तिल्पियं दण्डनं नडम् । तान् इन्द्र इध्मं कृत्वा यमस्याग्निं निरादधौ
अविः कृष्णा भागधेयं पशूनां सीसं क्रव्याद् उत चन्द्रं त आहुः । माषाः पिष्टा भागधेयं हव्यं ते ऽरण्यान्या गह्वरं सचस्व
प्रत्यञ्चम् अर्कं प्रत्यर्पयित्वा प्रविद्वान् पन्थां वि ह्य् आचकार । परामीषाम् असून् दिदेश दीर्घेणायुषा सम् अधाद् इहेमान्
अनड्वाहं प्लवम् अन्व् आरभध्वं स वो निर्वक्षद् दुरिताद् अवद्यात् । आ रोहत सवितुर् नावं हिरण्ययीं षड्भिर् ऊर्मिभिर् अमतिं चरेम
गोभिष् टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् । वयं राजानः प्रथमा धनानाम् अरिष्टास ऋजनीभिस् तरेम
पूर्णं नारि प्र हराभि कुम्भम् अपां रसैर् ओषधीनां घृतस्य । इमान् पातॄंर् अमृतेना सम् अङ्धि स्थिरा वीराः संमनसो भवन्तु
अनुवाक ७ ॥ पुमान् पुंसो अधि तिष्ठ चर्म तत्र ह्वयस्व यतमा प्रिया ते । यावन्ताव् अग्रे प्रथमं समेयथुस् तद् वां वयो यमराज्ये समानम्
तावद् वां तेजस् तति वीर्याणि तावच् चक्षुस् ततिधा वाजिनानि । अग्निः शरीरं सचते यदैधो अधा पक्वान् मिथुना सं भवाथः
सम् अस्मिंल् लोके सम् उ देवयाने सं स्मा समेतं यमराज्ये । पूतौ पवित्रैर् उप तद् उ ह्वयेथां यद्यद् रेतो अधि वां संबभूव
आपः पुत्रासो अभि सं विशध्वम् इमं जीवं जीवधन्याः सम् एत । तासां भजध्वम् अमृतं यद् आहुर् यम् ओदनं पचति वो जनित्री
यं वः पिता पचति यं च माता रिप्रान् निर्मुक्थ्यै शमलाच् च वाचः । स ओदनः शतधारः स्वर्ग उभे व्याप नभसी महित्वा
उभे नभसी उभयांश् च लोकान् ये यज्वनाम् अभिजिताः स्वर्गाः । तेषां ज्योतिष्मान् मधुमान् यो अग्रे तस्मिन् पुत्रैर् जरसि सं श्रयेथाम्
प्राचींप्राचीं प्रदिशम् आ रभेताम् एतं लोकं श्रद्दधानाः सचन्ते । मिमाथां पात्रं तद् वां पूर्णम् अस्तु स वां पक्वः पित्र्याणे न्यायत्
दक्षिणां दिशम् अभि नक्षमाणौ पर्य् आवर्तेथाम् अभि पात्रम् एतत् । तस्मै वां यमः पितृभिः संविदानः पक्वाय शर्म बहुलं नि यच्छात्
प्रतीची दिशाम् इयम् इद् वरं वां यस्यां सोमो अधिपा मृडिता च । तस्यां मिमाथां सुकृतः सचेथाम् अधा पक्वेन सह सं भवेम
उत्तरं राष्ट्रं प्रजयोत्तरावद् दिशाम् उदीची कृणवन् नो अग्रम् । पाङ्क्तं छन्दः पुरुषो बभूव विश्वैर् विश्वाङ्गैः सह सं भवेम
ध्रुवेयं विराण् नमो अस्त्व् अस्यै शिवा पुत्रेभ्य उत मह्यम् अस्तु । सा नो देव्य् अदिते विश्ववार इर्य इव गोपा अभि रक्ष पक्वम्
पितेव पुत्राꣳ अभि सं सचस्व नः शिवा नो वाता इह वान्तु शग्माः । यम् ओदनं पचतो देवते इह तं नस् तप उत सत्यं म वित्ताम्
यद्यत् कृष्णः शकुन एह गत्वा त्सरं विषक्तं बिल आससाद । दासी वा यद् आर्द्रहस्ता समङ्क्त उलूखलं मुसलं शुन्धतापः
अयं ग्रावा पृथुबुध्नो वयोधाः पूतः पवित्रैर् अप हन्तु रक्षः । आ रोह चर्म महि शर्म यच्छ मा दम्पती पौत्रम् अघं नि गाताम्
वनस्पतिः सह देवैर् न आगन् रक्षः पिशाचाꣳ अपबाधमानः । स उच्छ्रयातै प्र वदाति वाचं तेन लोकाꣳ अभि सर्वाञ् जयेम
सप्त मेधां पशवः पर्य् अगृह्णन् य एषां मेदस्वान् उत यश् चकर्श । त्रयस्त्रिंशद् देवतास् त्वां सचन्ते स नः स्वर्गम् अभि नेषि लोकम्
स्वर्गं लोकम् अभि नो नयासि सं जाया सह पुत्रैः स्याम । गृह्णामि हस्तम् अन्व् ऐत्व् अत्र मा नस् तारीन् निरृतिर् मो अरातिः
ग्राहिं पाप्मानम् अति ताꣳ अयाम तमो व्यस्य प्र वदासि वल्गु । वानस्पत्य उद्यतो मा जिहिंसीर् मा तण्डुलं वि शरीर् देवयन्तम्
विश्वव्यचा घृतपृष्ठो भविष्यं सयोनिर् लोकम् उप याहि विद्वान् । वर्षवृद्धम् उप यच्छ शूर्पे त्विषिं पलावान् अप तद् विनक्तु
त्रयो लोकाः संमिता ब्राह्मणेन द्यौर् एवासौ पृथिव्य् अन्तरिक्षम् । अंशून् गृभितान् अनु संरभेथाम् आ प्यायन्तां पुनर् आ यन्तु शूर्पात्
पृथग् रूपाणि बहुधा पशूनाम् एकरूपो भवति सं समृद्ध्याम् । एतां त्वचं लोहिनीं तां नुदेथां ग्रावा शुन्धाति मलग इव वस्त्रा
जनित्रीव प्रति हृण्यासि सूनुं सं त्वा दधामि पृथिवीं पृथिव्या । उखाः कुम्भीर् वेद्यां संचरन्तां यज्ञायुधैर् आज्येनाभिषिक्ताः
भूम्यां त्वा भूमिम् अधि धारयामि तनूः समानी विकृता त एषा । यद्यद् युक्तं लिखितम् अर्पणं च तेन मा सुस्रोर् अपि तद् वपामि
अग्निः पचन् रक्षतु त्वा पुरस्ताद् इन्द्रो रक्षाद् दक्षिणतो महित्वा । सोमस् त्वा दृंहाद् धरुणे प्रतीच्या उत्तरात् त्वा वरुणः सं ददातै
आ यन्तु दिवः पृथिवीं सचन्ते भूम्याः सचन्ते उर्व् अन्तरिक्षम् । शुद्धाः सतीस् ता उ शुन्धन्त एव ता नः स्वर्गम् अभि लोकं नयन्तु
पूताः पवित्रैः पवन्ते अभ्राद् दिवं च यन्ति पृथिवीं च लोकान् । ता जीवला जीवधन्याः प्रतिष्ठाः पात्र आसिक्ताः पर्य् अग्निर् एन्धाम्
उतेव प्रभ्वीर् उत संमितास उत शुक्राः शुचयश् चामृतासः । ता ओदनं दम्पतिभ्यां प्रतिष्ठा आपः शिक्षन्तीः प्रवता सुनाथाः
उद् योधयन्त्य् अभि वल्गन्ती तप्ताः फेनम् अस्यन्ति बहुलं च बिन्दुम् । योषेव दृष्ट्वा पतिम् ऋत्विया या- -एतैस् तण्डुलैर् भवता सम् आपः
संख्याता स्तोकाः पृथिवीं सचन्ते प्राणापानैः संमिता ओषधीभिः । असंख्याता ओप्यमानाः सुवर्णाः सर्वं समापं शुचयः शुचित्वम्
उत्थापय सीदतो बुध्न एनान् अद्भिर् आत्मानम् अपि सं सृजन्ताम् । अमासि पात्र उदकं यद् एतन् मितास् तण्डुलाः प्रदिशो यतीमाः
प्र यच्छ पर्शुं त्वरया हरन्त्व् अहिंसन्त ओषधीर् दान्तु पर्वम् । सोमो यासां परि राज्यं बभूव- -अमन्युता वीरुधो मे भवन्तु
नवं बर्हिर् ओदनाय स्तृणीत प्रियं हृदश् चक्षुषो वल्ग्व् अस्तु । तत्र देवाः सह देवैर् विशन्त्व् इमं प्राश्नन्तु दक्षिणतो निषद्य
वनस्पते स्तीर्णम् आ सीद बर्हिर् अग्निष्टोमैः संमितो देवताभिः । त्वष्टेव रूपं सुकृतं स्वधीत्येना एहाः परि पात्रे ददृश्राम्
धर्ता ध्रियस्व धरुणे पृथिव्या अच्युतं त्वा देवताश् च्यावयन्तु । तं दम्पती जीवन्तौ जीवपुत्रा उद्वासयातः पर्य् अग्निधानात्
षष्ट्यै शरद्भ्यः परि दध्म एतं स्वः पक्वेनाभ्य् अश्नवातै । उपैनं पुत्राः पितरश् च सीदान् इमं स्वर्गं गमयान्तम् अग्ने
सर्वान् समागान् अभिजित्य लोकान् यावन्तः कामाः समपूपुरस् तान् । वि गाहेथाम् आयवनं च दर्विर् एकस्मिन् पात्रे अध्युद्धरैनम्
उप स्तृणीहि प्रथया पुरस्ताद् घृतेन पात्रम् अभि घारयेदम् । वाश्रेवोस्रा तरुणं स्तरस्मिम् इमं देवासो अभिहिंकराथ
उपास्तरीर् अकरो लोकम् एतम् उरुः पृथुश् चासमः स्वर्गः । तस्मिन् सुपर्णो महिषः श्रयातै देवा एनं देवताभ्यः प्र यच्छान्
यद्यज् जाया पचति त्वत् परःपरः पतिर् वा जाय उत त्वत् तिरः । सं तत् सृजेथां सह वां तद् अस्तु सं राधयन्तौ सह लोकम् एतम्
यावन्तो अस्याः पृथिवीं सचन्ते अस्मात् पुत्राः परि ये संबभूवुः । सर्वांस् तान् उप पात्रे ह्वयेथां नाभिं जनानाः शिशवः समायन्
वसोर् या धारा मधुना समक्ता घृतेन मिश्रा अमृतस्य नाभयः । सर्वास् ता अव रुन्धे स्वर्गः षष्ट्यां शरत्सु निधिपा अभीच्छात्
निधिं निधिपा अभ्य् एनम् इच्छाद् अनीश्वरा अभितः सन्त्व् अन्ये । अस्माभिर् दत्तो निहितः स्वर्गस् त्रिभिः काण्डैस् त्रीन् स्वर्गान् अरुक्षत्
अग्नी रक्षस् तपतु यद् विदेवं क्रव्यात् पिशाच इह मा प्र पास्त । नुदाम एनम् अव रुध्मो अस्मद् आदित्या नो अङ्गिरसः सचन्ताम्
आदित्येभ्यो अङ्गिरोभ्यो मध्व् इदं घृतेन मिश्रं प्रति वेदयामः । शुद्धहस्तौ ब्राह्मणस्यानिहत्य- -एनं स्वर्गं सुकृताव् अपीतम्
इदं काण्डम् उत्तमं प्रापम् अस्य यस्माल् लोकात् परमेष्ठी समाप । आ सिञ्च सर्पिर् घृतवत् समङ्ध्य् एष भागो अङ्गिरसो नो अत्र
सत्याय च तपसे देवताभ्यो निधिं शेवधिं परि दध्म एतम् । मा नो द्यूते ऽव गान् मा समित्यां मा स्मान्यस्मा उत् सृजता पुरा मत्
न किल्बिषम् अत्र नाधारो अस्ति न यन् मित्रैः समममान एति । पक्तारं पक्वः पुनर् आ विशास्य् अनूनं पात्रं निहितं नो अस्तु
अहं पचाम्य् अहम् इद् वदामि ममेद् उ कर्मन् करुणे ऽपि जायाः । कौमारो लोको अजनिष्ट पुत्रो ऽन्व् आरभेथां वय उत्तरावत्
प्रियं प्रियाणां कृणवाम यातन् तमस् ते हन्तु यतमे द्विषन्ति । धेनुर् अनड्वान् वयो यद् अन्यत् पौरुषेयम् अप मृत्युं नुदन्तु
सम् अग्नयो विदुर् अन्यो अन्यं य ओषधीः सचते यश् च सिन्धून् । यावन्तो देवा दिव्य् आतपन्ति हिरण्यं ज्योतिर् दधतो बभूव
एषा त्वचां पुरुषे सं बभूव- -अनग्नाः सर्वे पशवो ये अन्ये । क्षत्रेनात्मानं परि धापयेताम् अमोतं वासो मुखम् ओदनस्य
यद् अक्षेषु वदसि यत् समित्यां यद् वा धने अनृतं वित्तकाम्या । समानं तन्तुं सह संवसानौ तस्मिन् सर्वं शमलं सादयाथः
वर्षं वनुष्वापि गच्छ देवांस् त्वचो धूमं पर्य् उत् पातयासि । विश्वव्यचा विश्वकर्मा स्वर्गः सयोनिर् लोकम् उप याह्य् एतम्
तन्वः स्वर्गो बहुधा वि चक्रे यथा विद आत्मन्य् अन्यवर्णाः । अपाजैत् कृष्णां रुशतीं पुनानो या लोहिनी तां ते अग्नौ जुहोमि
प्राच्यै दिशे अग्नये ऽधिपतये ऽसिताय रक्षित्र आदित्यायेषुमत एतं परि दध्मः । तं नो गोपायन्त्व् आस्माकम् ऐतोर् दिष्टं नो अत्र जरसे नि नेषत् । जरा मृत्यवे परि णो दधात्व् अधा पक्वेन सह सं भवेम
दक्षिणायै दिश इन्द्रायाधिपतये तिरश्चिराजे रक्षित्रे वसुभ्य इषुमद्भ्य एतम् (…)
प्रतीच्यै दिशे वरुणायाधिपतये पृदाकवे रक्षित्रे मित्रायेषुमत एतम् (…)
उदीच्यै दिशे सोमायाधिपतये स्वजाय रक्षित्रे वातायेषुमत एतम् (…)
ध्रुवायै दिशे विष्णवे ऽधिपतये कल्माषग्रीवाय रक्षित्रे वीरुद्भ्य इषुमतीभ्य एतम् (…)
ऊर्ध्वायै दिशे बृहस्पतये ऽधिपतये श्वित्राय रक्षित्रे अशनीभ्य इषुमतीभ्य एतं परि दध्मः । तं नो गोपायन्त्व् आस्माकम् ऐतोर् दिष्टं नो अत्र जरसे नि नेषत् । जरा मृत्यवे परि णो दधात्व् अथा पक्वेन सह सं भवेम
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ṚṢIS). Atharvaveda Paippalāda — Kāṇḍa 17. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-17>. Acesso em: 26/04/2026.
Tradição Védica (Ṛṣis) (2026). Atharvaveda Paippalāda — Kāṇḍa 17. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-17
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 17." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-17.