Atharvaveda Paippalāda — Kāṇḍa 20
Tradição Védica (Ṛṣis)
अनुवाक १४ ॥ काण्ड २० धीती वा ये अनयन् वाचो अग्रं मनसा वा ये अवदन्न् ऋतानि । तृतीयेन ब्रह्मणा वावृधानास् तुरीयेण मन्वत नाम धेनोः
स वेद पुत्रः पितरं स मातरं स सूनुर् भवत् स भवत् पुनर्मघः । स द्याम् और्णोद् अन्तरिक्षं स स्वर् विश्वा भुवो अभवत् स आभवत्
अथर्वाणं पितरं विश्वदेवं मातुर् गर्भं पितरं संयुवानम् । य ईं चिकेतामृतस्य धामन् नित्यस्य रायः परिधींर् अपश्यत्
शिवास् त एका अशिवास् त एकाः सर्वा बिभर्ष्य् अहृणीयमानः । गुहा वाचो निहितास् तिस्र एता एकेद् इदं वि बभूवानु सर्वम्
अदितिर् द्यौर् अदितिर् अन्तरिक्षम् अदितिर् माता स पिता स पुत्रः । विश्वे देवा अदितिः पञ्च जना अदितिर् जातम् अदितिर् जनित्वम्
दितेः पुत्राणाम् अदितेर् अकारिषं महाशर्मणां महताम् अनर्मणाम् । तेषां हि धाम गभिषक् समुद्र्यं नैषां वेपसः परो अस्ति किं चन
वाजस्य नु प्रसवे मातरं महीम् अदितिर् नाम वचसा करामहे । यस्याम् इदं विश्वं भुवनम् आविवेश सा नो देवी सुहवा शर्म यच्छतु
महीम् ऊ षु मातरं सुव्रतानाम् ऋतस्य पत्नीम् अवसे हुवेम । तुविक्षत्राम् अजरन्तीम् उरूचीं सुशर्माणम् अदितिं सुप्रणीतिम्
सुत्रामाणं पृथिवीं द्याम् अनेहसं सुशर्माणम् अदितिं सुप्रणीतिम् । दैवीं नावं स्वरित्राम् अनागसो अस्रवन्तीम् आ रुहेमा स्वस्तये
एकया च दशभिश् चा सुहूते द्वाभ्याम् इष्टये विंशत्या च । तिसृभिश् च वहसे त्रिंशता च वियुग्भिर् वायव् इह ता वि मुञ्च
अया विष्ठा जनयन् कर्वराणि स हि घृणिर् उरुर् वराय गातुः । स प्रत्य् उद् ऐद् वरुणो मध्वो अग्रं स्वां यत् तनूं तन्वाम् ऐरयत
यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः
यज्ञो बभूव स आ बभूव स पृथिव्या अधिपतिर् बभूव । स प्र जज्ञे स उ वावृधे पुनः सो अस्मासु द्रविणम् आ दधातु
देवा यद् देवान् हविषायजन्त्- -आमर्तियान् मनसामर्त्येन । ब्रवाम तत्र परमे व्योमन् वदेम तद् उदितौ सूर्यस्य
मुग्धा देवा उत शुनायजन्त्- -ओत गोर् अङ्गैर् बहुधायजन्त । य इमं यज्ञं मनसान्वविन्दत् प्र णो वोचत् तम् इहेह ब्रवाम
यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत । क्व स्वित् तद् अद्य नो ब्रूयाद् यदि हव्येनेजिरे
इन्द्रः सुत्रामा स्ववाꣳ अवोभिः सुमृडीको भवतु विश्ववेदाः । बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम
स सुत्रामा स्ववाꣳ इन्द्रो अस्मद् आराच् चिद् द्वेषः सनुतर् युयोत । तस्य वयं सुमतौ यज्ञियस्य्- -आपि भद्रे सौमनसे स्याम
यस् ते पृथु स्तनयित्नुर् य ऋष्वो यो दैवः केतुर् विश्वम् आभूषतीदम् । मृडया नो विद्युता देव सस्याय मोत वधी रश्मिभिः सूर्यस्य
यस् ते स्तनः शसयुर् यो मयोभूर् यः सुम्नयुः सुहवो यः सुदक्षः । येन विश्वा वनसि वार्याणि सरस्वती तम् इह धातवे कः
इदं ते हव्यं घृतवत् सरस्वत्- -ईदं पितॄणां हविरास्यं यत् । इमानि त उदिता शंतमानि तेभिर् वयं मघवानः स्याम
प्रपथे पथाम् अजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः । उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन्
पूषेमा आशा अनु वेद सर्वाः सो अस्माꣳ अभयतमेन नेषत् । स्वस्तिदा आघृणिः सर्ववीरो +ऽप्रयुच्छन् पुर एतु प्रजानन्
पूषा गा अन्व् एतु नः पूषा रक्षत्व् अर्वतः । पूषा वाजं सनोतु नः
पूषन् तव व्रते वयं न रिष्येम कदा चन । स्तोतारस् त इह स्मसि
शुक्रं ते अन्यद् यजतं ते अन्यद् विषुरूपे अहनी द्यौर् इवासि । विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्न् इह रातिर् अस्तु
धाता दधातु दाशुषे प्राञ्चं जीवातुम् अक्षितम् । वयं देवस्य धीमहि सुमतिं सत्यधर्मणः
धाता विश्वानि दाशुषे दधातु प्रजाकामाय दाशुषे दुरोणे । तस्य प्रजा अमृताः सं व्ययन्तु विश्वे देवासो अदितिः सजोषाः
धाता रातिः सवितेदं जुषन्तां प्रजापतिर् निधिपतिर् नो अग्निः । त्वष्टा पूषा प्रजया संरराणो यजमानाय द्रविणं दधातु
धाता प्रजानाम् उत राय ईशे धातेदं विश्वं भुवनं जजान । सं दाशुषे वहतु भूरि पुष्टा तस्मै देवाय हविषा विधेम
सावीर् हि देव प्रथमाय पित्रे वर्ष्माणम् अस्मै वरिमाणम् अस्मै । अथास्मभ्यं सवितर् वार्याणि द्वेद्वे आ सुवा भूरि पश्वः
भद्राद् अधि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्तु । अथेमम् अस्या वर आ पृथिव्या आरेशत्रुं कृणुहि सर्ववीरम्
दमूना देवः सविता वरेण्यो दधद् रत्नं दक्षं पितृभ्य आयूंषि । पिबात् सोमं ममदद् एनम् इष्टे परिज्मा चिद् रमते अस्य धर्मणि
तां सवितुः सत्यसवस्य चित्रां वयं देवस्य प्रसवे वनामहे । याम् अस्य कण्वो अदुहत् प्रपीनां सहस्रधारां महिषो भराय
को नो अस्या द्रुहो ऽवद्यवत्या उन् नेषति क्षत्रियो वस्य इच्छन् । कः पूर्तिकामः क उ यज्ञकामः को देवेषु वनुते दीर्घम् आयुः
कः पृश्निं धेनुं वरुणेन दत्ताम् अथर्वणे सुदुघां नित्यवत्साम् । तां बृहस्पत्या सख्या दुहानो यथावशं तन्वः कल्पयाति
न घ्रंस् तताप न हिमो जघान प्र सर्सृते पृथिवी जीरदानुः । आपश् चिद् अस्मै सदम् इत् क्षरन्ति यत्र सोमः सदम् इत् तत्र भद्रम्
यस्या इदं प्रदिशि यद् विरोचते अनुमतिं प्रति भूषन्त्य् आयवः । यस्या उपस्थ उर्व् अन्तरिक्षं सा नः शर्म बहुलं नि यच्छात्
अन्व् अद्य नो अनुमतिर् यज्ञं देवेषु यच्छताम् । अग्निश् च हव्यवाहनो भवतां दाशुषे मयः
अन्व् इद् अनुमते त्वं मंससे शं च नस् कृधि । इषं तोकाय नो दधः प्र ण आयूंषि तारिषः
अनु मन्यताम् अनुमन्यमाना प्रजावतीषम् अक्षीयमाणम् । तस्या वयं हेडसि मा वि भूम सा नो देवी सुहवा शर्म यच्छतु
अनुमते अनु मन्यस्व ता नो या ते वयं चकृमा या तनूभिः । या तोकेषु तनुषु या प्रजायां या गोष्व् ओषधीष्व् अप्स्व् अन्तः
आ नो देव्य् अनुमतिर् जगम्यात् सुक्षत्रतावीरता या सुजाता । भद्रा ह्य् अस्याः प्रमतिर् बभूव सेमं यज्ञम् अवतु देवजुष्टम्
अनुमतिर् विश्वम् इदं जजान यद् एजति चरति यच् च तिष्ठति । तस्यास् ते देवि सुमतौ स्याम्- -आनुमते अनु हि मंससे नः
यत् ते नाम सुहवं सुप्रणीते अनुमते अनुमतं सुदानु । तेन त्वं सुमतिं देव्य् अस्मा इषं पिन्व विश्ववारं सुवीरम्
प्रजाभ्यस् त्वा प्रजास् त्वानु प्राणन्तु प्रजा अनु प्राणिहि । शुक्रं ते शुक्रेण चन्द्रं चन्द्रेणामृतम् अमृतेन क्रीणामि
तपसस् तनूर् असि प्रजापतेर् वर्णः । परमेण पशुना क्रीयसे
अभि त्यं देवं सवितारम् ओण्योः कविक्रतुम् । अर्चामि सत्यसवं रत्नधाम् अभि प्रियं मतिम्
ऊर्ध्वा यस्यामतिर् भा अदिद्युतत् सवीमनि । हिरण्यपाणिर् अमिमीत सुक्रतुः कृपा स्वः
अयं सहस्रमानृषिः कवीनां मतिर् ज्योतिर् विधर्मणि । ब्रध्नः समीचीर् उषसः सम् ईरयात्
अरेपसः सचेतसः स्वसरे मन्युमत्तमाः । चिते गोः
सम् एत विश्वा ओजसा पतिं दिवो य एक इद् भूर् अतिथिर् जनानाम् । स पूर्व्यो नूतनम् आविवासन् तं वर्तनिर् अनु ववृत एकम् इत् पुरु
कुहूं देवीम् अमृतां विद्मनापसम् अस्मिन् यज्ञे सुहवां जोहवीमि । या नो ददाति श्रवणं पितॄणां तस्यै ते देवि हविषा विधेम
कुहूर् देवानाम् अमृतस्य पत्नी हव्या नो अस्य हविषः शृणोतु । सं दाशुषे किरतु भूरि पुष्टा रायस्पोषं चिकितुषे दधातु
सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम् । मित्रो वः सर्वाः सं सृजान् मयि संज्ञानम् अस्तु वः
अनुवाक १ ॥ यन् नो अग्निर् असनद् यन् न इन्द्रो विश्वे यद् देवा मरुतः स्वर्काः । तद् अस्मभ्यं सविता सत्यधर्मा सरस्वत्य् अनुमतिर् नि यच्छात्
यूयं नो देवा उभयाय वेदसे शर्म यच्छत द्विपदे चतुष्पदे । अदत् पिबद् ऊर्जयमानम् आशितं तद् अस्मभ्यं शं योर् अरपो दधात
बृहस्पते सवितर् बोधयैनं संशितं चित् संतरं सं शिशाधि । वर्धयैनं महते सौभगाय विश्व एनम् अनु मदन्ति देवाः
अमुत्रभूयाद् अधि यद् यमस्य बृहस्पतिर् अभिशस्त्या अमुञ्चत । प्रति मृत्युम् औहताम् अश्विना ते देवानाम् अग्ने भिषजा शचीभिः
इन्द्रावरुणा सुतपाव् इमं सुतं मद्यं सोमं पिबतं धृतव्रता । युवो रथो अध्वरं देववीतये प्रति स्वसरम् उप याति पीतये
इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् । इदं वाम् अस्मे परिषिक्तम् अन्ध आसद्यास्मिन् बर्हिषि मादयेथाम्
उरु विष्णो वि क्रमस्व्- -ओरु क्षयाय निष् कृधि । घृतं घृतयोने पिब प्र प्र यज्ञपतिं तिर
दिवो विष्ण उत वा पृथिव्या उरोर् वा विष्णो महो अन्तरिक्षात् । उभा हि हस्तौ मधुना पृणस्व्- -आप्रयच्छ दक्षिणाद् ओत सव्यात्
विष्णोर् नू कं प्र वोचं वीर्याणि यः पार्थिवानि विममे रजांसि । यो अस्कभायद् उत्तरं सधस्थं विचक्रमाणस् त्रेधोरुगायः
प्र तद् विष्णु स्तवते वीर्याणि मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्व् अधिक्षियन्ति भुवनानि विश्वा
अग्नाविष्णू महि धाम प्रियं वां पातं घृतस्य गुह्यानि नाम । दमेदमे सप्त रत्ना दधान्- -ओप वां जिह्वा घृतम् आ चरण्यात्
अग्नाविष्णू महि तद् वां महित्वं वीतं घृतस्य गुह्या जुषाणा । दमेदमे सुष्टुत्या वावृधाना प्रति वां जिह्वा घृतम् उच् चरण्यात्
उन् नम्भय पृथिवीं भिन्धीदं दिव्यं नभः । ऊध्नो दिव्यस्य नो धातर् ईशानो वि ष्या बिलम्
अपक्रामन् पौरुषेयाद् गृणानो दैव्यं सहः । प्रणीतीर् अभ्यावर्तस्व देवो देवानां सख्या जुषाणः
पितोर् अहं पितुपतिं तद् ईडे धाता विधर्ता भुवनेष्व् एषु । नेमेन मह्यं मधुमाꣳ इहैधि नेमेनामुष्मै विषुवान् न्व् एधि
अयं पितोः पितुमान् आभृतस् पर्- -ईदं शृणोतु यद् अहं ब्रवीमि । नेमेन मह्यं मधुमाꣳ इहैधि नेमेनामुष्मै विषुवान् न्व् एधि
अत्रैवैनं निरृत आ रभस्व्- -आत्रैवैनं निरृते प्र क्षिणीह्य् अत्रैवैनं सर्व वि वृश्च । नेमेन मह्यं मधुमाꣳ इहैधि नेमेनामुष्मै विषुवान् न्व् एधि
यत् त्वा पित उपब्रुवे तन् म आ शृण्व् अस्मिन् मे हवे हव्यो यथासः । अमुं देवैर् निरृतिः संविदान्- -आमुं छिनत्ति वरुणस्य पाशात्
यद् अस्मृति चकृमा किं चिद् एन उपारिम चरणैर् जातवेदः । तस्मात् पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वम् अस्मान्
अग्ने ऽध्यक्षो न एहि पाहि नो दुरितात् पाहि दुष्वप्न्यात् । आसन्याद् अन्याद् यक्ष्मान् नः पाहि
त्विषिर् असि त्विषिवन्तो भूयास्म । चक्षुष्मन्तो गोमन्तः प्रजावन्तो वर्चस्विनः
यद् अह्ना संचिनुथ क्षीरं भरथोधभिः । इदं तद् विश्वरूपा वः पयो हरामि वीरुधा
यद् अघ्न्या ओषधीभ्यो ऽद्भ्यः संभरथा मधु । इदं तद् विश्वरूपा वः क्षीरं हराम्य् ओषध्या
यो अभ्यवभृणायसि स्वपन्तम् इच्छ पूरुषं शयानम् अकस्वलम् । अयस्मयेन वर्मण्- -आश्ममयेन वर्मणा पर्य् अस्मान् वरुणो दधत्
ये नो गृहे ब्राह्मणा मन्यमाना घोरां वाचं मिथुयानुब्रुवन्ति । एनोहृतो मलहृतो भवन्तु दुर्योणम् अस्मत् परि ते हरन्तु
अयम् अग्निः सत्पतिर् वृद्धवृष्णियो रथीव पत्यै न जनयत् पुरोहितः । नाभा पृथिव्या निहितो दविद्युतद् अधस्पदं कृणुतां ये पृतन्यवः
अग्ने शर्ध महते सौभगाय तव द्युम्नान्य् उत्तमानि सन्तु । सं जास्पत्यं सुयमम् आ कृणुष्व शत्रूयताम् अभि तिष्ठा महांसि
दृष्टो दमूना अतिथिर् दुरोण इमं नो यज्ञम् उप याहि विद्वान् । विश्वा ह्य् अग्ने अभियुजो विहत्य शत्रूयताम् आ भरा भोजनानि
अग्ने सपत्नान् प्र णुदस्व जातान् प्रत्य् अजाताञ् जातवेदो नुदस्व । अधि नो ब्रूहि सुमनस्यमानः शर्म नो यच्छ त्रिवरूथम् उद्भित्
प्रान्यान् सपत्नान् सहसा सहस्व प्रत्य् अजाताञ् जातवेदः शृणीहि । इदं राष्ट्रं पिपृहि सौभगाय्- -आनु त्वा देवा वसवो मदन्ताम्
यो नो मित्रावरुणाभिदासात् सपत्नो वोत्पिपानो बृहस्पते । सर्वं तम् अग्ने अधरं पातयास्मद् यथेन्द्राहम् उत्तमश् चेतयानि
अहम् एषाम् उत्तमश् चेतयानि मम वशम् उप तिष्ठन्तु सर्वे । आजुह्वानो घृतपृष्ठः सुवर्चा वसोर् मध्ये दीदिहि जातवेदः
अमुम् अग्ने अधरं पातयास्मज् जासयोत्पिपानं सपत्नम् । ये नो धूर्वान् अधरे ते भवन्तु विश्वा द्वेषांस्य् अभितो नि मृड्ढि
मूर्धानं दिवो अरतिं पृथिव्या विशस् त्वा सर्वा बलिहृत उपासताम् । तासाम् उग्रो मध्यमेष्ठेयम् अस्या स्वे क्षेत्रे सवितेव वि राज
आ प्रत्यञ्चं दाशुषे दाश्वांसं सरस्वन्तं पुष्टिपतिं रयीणाम् । रायस्पोषं श्रवस्यं वसानम् इह हुवेम सदनं रयीणाम्
यस्य व्रते पशवो यन्ति सर्वे यस्य व्रत उपतिष्ठन्त आपः । यस्य व्रते पुष्टिपतिर् निविष्टस् तं सरस्वन्तम् अवसे हुवेम
ये ते सरस्वन्न् ऊर्मयो मधुमन्तो घृतश्चुतः । तेभिर् नो ऽविता भुवः
दिव्यं समुद्रं पयसं बृहन्तम् अपां गर्भं वृषभम् ओषधीनाम् । अभीपतो रय्या तर्पयन्तं सरस्वन्तं रयिष्ठां सादयेह
इन्द्रस्य कुक्षिर् असि सोमधान आत्मा देवानाम् उत विश्वरूपः । इह प्रजा जनय यास् त आसु या अन्यत्रेह तास् ते स्वधितो गृणन्तु
श्येनः सुपर्णो दिव्यो नृचक्षाः सहस्रपाच् छतयोनिर् वयोधाः । स नो नि यच्छाद् वसु यत् पराभृतम् अस्माकम् अस्तु पितृषु स्वधावत्
अति धन्वान्य् अत्य् अपस् ततर्द श्येनो नृचक्षा अवसानदर्शः । तरन् विश्वावरा रजांस्- -ईन्द्रेण सख्या शिव आ जगाम
आगन् देवः सविता सर्वधाया उरुज्योतिर् अविदामा नमोभिः । महीं नावम् अदितेर् आ रुहेम यत्र सोमः सदम् इत् तत्र भद्रम्
उद् वयम् इत्य् एका
पतिर् दिवः पतिर् अग्निः पृथिव्याः पतिर् विश्वस्य भुवनस्य राजति । पतिर् विश्वा ओषधीर् आ विवेश पत्नीवान् अग्न इह याहि सोमम्
सं क्रामतं मा जहीतं शरीरं प्राणापानौ सयुजेह स्तम् । सप्तऋषिभ्यः परि दद्म एतं त एनं स्वस्ति जरसे नयन्तु
यत् त आयुर् अतिहितं पराचैर् अपानः प्राणो य उ ते परेतः । अग्निष् टद् आहार् निरृतेर् उपस्थात् तद् आत्मनि पुनर् आ वेशयामि
मा त्वा प्राणो हासीद् यस् त्वे प्रविष्टो मा त्वापानो ऽवहाय परा गात् । संरभ्य जीव शरदः सुवर्चा अग्निष् टे गोपा अधिपा वसिष्ठः
राकाम् अहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । सीव्यत्व् अपः सूच्याच्छिद्यमानया ददातु वीरं शतदायम् उक्थ्यम्
यास् ते राके सुमतयः सुपेशसो याभिर् ददाति दाशुषे वसूनि । ताभिर् नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा
या राका या सिनीवाली या गुङ्गूर् या सरस्वती । इन्द्राणीम् अह्व ऊतये वरुणानीं स्वस्तये
या सुबाहुः स्वङ्गुरिः सुषुमा बहुसूवरी । तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन
सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा । जुषस्व हव्यम् आहुतं प्रजां देवि दिदिड्ढि नः
या विश्वत इन्द्रम् असि प्रतीची सहस्रस्तुताम् अभि यन्तु देवीः । विष्णुपत्नि तुभ्यं राता हवींषि पतिं देवि राधसा चोदयस्व
अनुवाक २ ॥ उप ह्वय इति तिस्रः
सूयवसाद् भगवतीत्य् एका
संजानाना उप सीदान् अभिज्ञु पत्नीवन्तो नमस्यं नमस्यान् । रिरिक्वांसस् तन्वा सुम्नम् आयुः सखेत् सख्युर् निमिषि रक्षमाणाः
समिद्धो अग्निर् अश्विना तप्तो वां घर्म आ गतम् । दुह्यन्ते नूनं वृषणेह धेनवो दस्रा वदन्ति कारवः
समिद्धो अग्निर् अश्विना रथी दिवस् तप्तो घर्मो दुह्यते वाम् इषे मधु । वयं हि वां पुरुतमासो अश्विना हवामहे सधमादेषु कारवः
यद् उस्रियास्व् आहुतं घृतं पयो ऽयं सो अश्विना वां भाग आ गतम् । माध्वी धर्तारा विदथस्य सत्पती तप्तं घर्मं पिबतं रोचने दिवः
तप्तो वां घर्मो नक्षति सुहोता प्र वाम् अध्वर्युश् चरति पयस्वान् । मधोर् दुग्धस्याश्विना तनाया वीतं पातं पयस उस्रियायाः
उप द्रव पयसा गोधुग् ओषुम् आ घर्मे सिञ्च पय उस्रियायाः । वि नाकम् अख्यत् सविता वरेण्यो ऽनु द्यावापृथिवी सुप्रणीतिः
स्वाहाकृतः शुचिर् देवेषु घर्मो यो अश्विनोश् चमसो देवपानः । तम् उ विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्य् आस्ना रिहन्ति
सुगा वो देवाः सदना कृणोमि य आतस्थेदं सवनं जुषाणाः । वहमाना भरमाणा अभ्रा अस्तं घर्मं तम् उदातिष्ठतानु
शिवा नः शंतमा भव सुमृडीका सरस्वति । मा ते युयोम संदृशः
उपैनं देवो अग्रभीच् चमसेन बृहस्पतिः । यजमानाय शुन्धत इन्द्र गीर्भिर् न आ भर
सं मा सिञ्चन्तु मरुत इत्य् एका
इडैवास्माꣳ अनु वस्तां व्रतेन यस्याः पदे पुनते देवयन्तः । घृतपदी शक्वरी सोमपृष्ठ्- -ओप यज्ञम् अस्थित वैश्वदेवी
द्रप्सश् चस्कन्देत्य् एका
यस् ते द्रप्स स्कन्दति यस् ते अंशुर् बाहुच्युतो धिषणाया उपस्थात् । अध्वर्योर् वा परि यः पवित्रात् तं ते जुहोमि मनसा वषट्कृतम्
द्रप्सः पतितो विश्वयः परिश्रुतः । अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे
यस् ते द्रप्सः पतितः पृथिव्यां धानासोमः परिवापः करम्भः । अयं देवो बृहस्पतिः सं तं सिञ्चतु वर्चसे
पयस्वतीर् ओषधयः पयस्वन् मामकं वच इत्य् एका
अयम् अग्निर् वरेण्य आयुष् टे विश्वतो दधत् । पुनस् त्वा प्राण आयति परा यक्ष्मं सुवामि ते
जनाद् विश्वजनीनं विशाम् उरुक्षितीनाम् । दूरात् त्वा मन्य आभृतम् ईर्ष्याया नाम भेषजम्
दूराद् एतत् सं भरन्त्- -ईर्ष्याया नाम भेषजम् । तत् संवेगस्य भेषजं तद् अश्ना संगृभायिकम्
अग्नेर् इव दहतो दावस्य दहतो यथा । एताम् एतस्येर्ष्यां हृद उद्नाग्निम् इव वारये
अप मार्ज्म्य् अपनयन् मन्युं ते हृदयाद् अधि । अमुष्मिन्न् ईर्ष्याम् आ दध्मस् तत्रो एनां नि दध्मसि
तिरश्चिराजेर् असितात् पृदाकोर् अधि संभृतम् । तत् कङ्कपर्वणो विषम् इयं वीरुद् अदूदुषत्
इयं वीरुन् मधुजाता मधुश्चुन् मधुला मधु सा विह्रुतस्य भेषज्य् अथो मशकजम्भनी
यतो दष्टं यतः पीतं ततस् त्वा निर् णयामसि । अभ्र्यस्य तृप्रदंशिनो मशकस्यारसं विषम्
अयं यो विख्यो विकटो विपर्वा मुखान्य् एषां वृजिना कृणोषि । तानि त्वं देव सवितर् इषीकाम् इव सं नमः
यद् अन्नम् अद्मि बहुधा विरूपं हिरण्यम् अश्वम् उत गाम् अजाम् अविम् । यद् एव किं च प्रतिजग्रहाहम् अग्निष् टद् विश्वाद् अगदं कृणोतु
यद् आशसा मे चरतो जनाꣳ अनु याचमानस्य वदतो विचुक्षुभे । यन् मे तन्वो मनसो विरिष्टं सरस्वती तद् आ पृणाद् घृतेन
यद् आरिम प्रतिगृह्णन्त एनः सिषासन्तो बलिम् अग्ने चरन्तः । त्वं नस् तस्माद् एनसो मुमुग्धि वैश्वानरः प्रति हव्या गृभाय
चक्षुषः पाशान् मनसश् च पाशाद् वीक्षायाः पाशाद् उत शक्वरीणाम् । तस्मान् मुमुग्धि विश्वावसो त्वं नो दातॄणां दानं भुनजामहै वयम्
अदुर् मे विश्वे देवा अदात् सवितेदम् । अदान् मे ब्रह्मणस्पतिः प्रियो मित्रो अदाद् इदम्
इन्द्रेण मेदिना युज्- -आप बाधे पृतन्यतः । अधरे सन्तु शत्रवः
अग्निर् इन्द्रश् च यद् युवं हतो वृत्राण्य् अप्रति । उग्रा हि वृत्रहन्तमा
अग्निम् इन्द्रं च यद् वयं पुरोधायै हवामहे । तौ नो मृडात ईदृशे
याभ्यां स्वर् अजयन्न् अग्रे याव् आतस्थतुर् भुवना जुषाणा । प्रचर्षणी वृषणा वज्रबाहू अग्निम् इन्द्रं वृत्रहणा हुवेम
ययोर् ओजसा स्तभिता रजांसि यौ वीर्यैर् वीरतमा शचीभिः । यौ पत्येते अप्रतीतौ सहोभिर् विष्णुम् अगन् वरुणं पूर्वहूतिः
ययोर् अप्सु न महिमा नदीषु प्ररिरिचे प्रदिवि रोचनायाम् । ययोर् अस्त्य् अनुमतिर् भूयिष्ठा विष्णुम् अगन् वरुणं पूर्वहूतिः
ययोर् इदं प्रदिशि यद् विरोचते प्रजाम् अति वि च चष्टे शचीभिः । महऋतस्य धर्माणा युवाना विष्णुम् अगन् वरुणं पूर्वहूतिः
उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैव वाम् । इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम्
यद् अशुद्धं यद् अनृतं यच् चरामसि पापया । आपो मा तस्माद् एनसो दुरितात् पान्तु विश्वतः
दुष्वप्न्यं दुर्जीवितम् इत्य् एका
यद् अवामृक्षत कृष्णशकुनिर् मुखेन निरृते तव । अग्निष् टत् सर्वं शुन्धतु हव्यवाड् घृतसूदनः
यद् अस्मान् कृष्णशकुनेर् निष्पत्य तत आनशे । आपो मा तस्माद् एनसो दुरितात् पान्तु विश्वतः
अग्निर् मा पातु प्रथमो दुरर्मणो निरृत्यां विश्वा दुरितानि मृज्महे । विश्वे मा देवा मरुतः पुनन्तु वरुणो राजा सविता पवित्रैः
अन्तरिक्षेण पतति यातुधाननिबाधितः । स्तोकं यम् अभ्यचुश्चुतत् तम् उ स्योनं कृणोमि ते
यत् त्वा कृष्णो अभ्यमृक्षद् देवेभ्यस् परि निर्हतः । शिवं ते तन्वे तत् कृण्मो वि ते पाशांश् चृतामसि
तृष्टिके तृष्टिवन्दन उद् अमुं छिन्धि तृष्टिके । यथा कृतद्विष्टे दशत् सर्वस्मै शेप्यावते
तृष्टासि तृष्टिकासि विषा विषातक्य् असि । परिवृत्ता यथासस्य् ऋषभेण वशेव
आ ते ददे वक्षणाभ्य आ ददे हृदयाद् अधि । आ ते मुखस्य यद् वर्च आ पुंसो यत् तितृप्ससि
मयि वर्चो मयि श्रवो मयि द्युम्नं मयि त्विषिः । अहं ते वर्च आ ददे अहं भूयासम् उत्तमः
अनुवाक ३ ॥ अभि प्रागात् सहस्राक्षो युक्त्वा शपथो रथम् । शप्तारम् अन्विच्छन् यातु वृक इवाविमतो गृहम्
परि णो वृङ्धि शपथ ह्रदम् अग्निर् इव दहन् । शप्तारम् अत्र त्वं जहि दिव्या वृक्षम् इवाशनिः
यो नः शपाद् अशपतः शपतो यश् च नः शपात् । वृक्ष इव विद्युता हत आ मूलाद् अनु शुष्यतु
शप्तारं यन्तु शपथा यः सुहार्त् तेन नः सह । जिह्वाश्लक्ष्णस्य दुर्हार्दः पृष्टीर् अपि शृणीमसि
यं द्विष्मो यश् च नो द्वेष्ट्य् अघायुर् यश् च नः शपात् । शुने पेष्ट्रम् इवावक्षामं तं प्रत्य् अस्यामि मृत्यवे
प्रेतो यन्तु व्याध्यः प्रानुध्याः प्रो अशस्तयः । अग्नी रक्षस्विनीर् हन्तु सोमो हन्तु दुरस्यतीः
प्र चतेतः पापि लक्ष्मि नश्येतः प्रामुतः पत । अयस्मयेनाङ्केन यं द्विष्मस् तस्मिन् त्वा सृजामः
या त्वा लक्ष्मीः पतयालूर् अजुष्ट्- -आधिचस्कन्द वन्दनेव वृक्षम् । अन्यत्रास्मत् सवितस् ताम् इतो धा हिरण्यहस्तो वसु नो रराणः
निर् अरणीं सविता साविषत् पदोर् निर् हस्तयोर् वरुणो मित्रो अर्यमा । निर् आदित्या अनुमती रराणाः प्र णः सुवात् सविता सौभगाय
एकशतं लक्ष्म्यः साकं मर्त्यस्य जनुषेह जाताः । तासां पापिष्ठा निर् अतः प्र हिण्मः शिवास्मभ्यं जातवेदो नि यच्छ
यत् त आत्मन् तन्वां घोरम् अस्ति यद् वा केशेषु प्रतिचक्षणे वा । तत् ते विद्वान् अप बाधे अहं प्र त्वा सुवात् सविता सौभगाय
निर् लक्ष्म्यं ललाम्यं निर् अरातिं सुवामसि । यथा नो वस्यसीद् असो रायस्पोषम् इहा सुव
अग्निम् अच्छ देवयतां मनांसि चक्षूंषीव सूर्यं सं चरन्ति । यदी सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे अह्नाम्
इन्द्रो राजा जगतश् चर्षणीनाम् अधि क्षमि विषुरूपं यद् अस्ति । ततो ददाति दाशुषे वसूनि चोदद् राध उपस्तुतश् चिद् अर्वाक्
शकुनिर् भूत्वा प्र बभस्ति पिप्पलं पत्यां निविष्टा यदि वा घ पत्न्याम् । भीमा घोरा लक्ष्म्यः सहभव्यास् ता इतो हविषा निर् यजामः
या ते गृहेषूत वा धनेषु प्रजां लक्ष्मीर् यदि वा ते बभस्ति । तां बृहस्पतिर् हविषा बाधमानो निर्हूय प्र दध्माव् अधि दूरम् अस्मत्
रिश्यपदीं रिशद्वतीं गोषेधां विधमाम् उत । विलीढ्यं व्याध्यं ब्रह्मणा ता अनीनशम्
प्रत्योषन्तीम् उत्सङ्गिनीम् उत च्छिद्राम् उतारणीम् । सिंहीं ज्येष्ठलक्ष्मीं व्याघ्रीं नाशयामसि
अनुध्यायिनीं परिचरां विबाधाम् उत हिंसतीम् । रोदस्य पत्नीं रोधनां प्र ता धमामि लक्ष्म्यः
वामस्पृहां पितृषदं येषन्तीं तपनीम् उत । असिध्यन्तीं प्रध्वंसिनीम् अष्ट्रावधां च लक्ष्म्यं ब्रह्मणा ता अनीनशम्
आसन्मन्त्र्यां वचस्यां संपिबन्तीं न्यक्वरीम् । उत्तरां जनंगमां प्र ता धमामि लक्ष्म्यः
या ते घोरा तन्वम् आविवेश या ते लक्ष्मीः सर्वा समक्ता । अग्निष् टे तास्व् अदत्त सौभगाय्- -आपः शुन्धन्तु बृहते रणाय
अदेवृघ्नीं वरुण्- -आपतिघ्नीं बृहस्पते । इन्द्रापुत्रघ्नीं लक्ष्म्यम् अस्यै ताः सवितः सुव
या ते लक्ष्मीश् चक्षुषि योत दत्सु या हस्तयो स्तनयोर् योपपक्षयोः । श्रोण्योर् भंससि या पदोष् टे सर्वास् ता अति क्राम घोराः
ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् । लक्ष्मीः श्रोणिभ्याम् अङ्गेभ्यो याः पापीस् ता अनीनशन्
अपाश्लीलं पृथिवी हन्तु यत् पदोर् अप हस्तयोर् वरुणो मित्रो अर्यमा । अपादित्या अनुमती रराणाः प्र णः सुवात् सविता सौभगाय
एता एना व्याकरन् खिले गा अदितीर् इव । रमन्तां भद्रा लक्ष्म्यो याः पापीस् ता अनीनशन्
साहुषी नाम वा असि सहमाना सहस्वती । गृहगुप्तिम् अनुवर्तिं कुलायिनीं ता इहा वेशयामसि
संचारिण्य् उभैर् या बभूव्- -आन्या अन्यां जिन्वति भद्रपापीः । तां लक्ष्मीं निहवा नयामो भद्रा सुभद्राम् अपि सौभगाय
एकशतं लक्ष्म्यस् तासां राज्ञी बभूविथ । भद्राभिर् भद्रे संभूय भद्रेणाभि सचस्व नः
दिवस् पृथिव्याः पर्य् अन्तरिक्षाद् वातात् पशुभ्यो अध्य् ओषधीभ्यः । यतो लक्ष्मीर् वृजिना संबभूव सा ब्रह्मणा प्रच्युता दूरम् एतु
वाल्कुत्सस्य च गन्धेन हिरण्यवर्चसेन च । आत् पुष्करिण्या यो गन्धो भगो मा तेन जिन्वतु
यद् इन्द्रो अग्रे असुराञ् जघान ततो लक्ष्मीर् न्य् अदधुर् मर्त्येषु । तासां पापिष्ठा निर् अतः सुवामः शिवा अस्यै जातवेदो नि यच्छ
या त्वा लक्ष्मीर् देवृघ्नी या पतिघ्नी गृहेभ्यस् त्वा नुदते या व्याडा । अतस् त्वम् एनसो मुच्यमान्- -ओत् तरेमाः स्रोत्याः सप्त साकम्
निपिंशन्तीं नितुदन्तीं संपिबन्तीं न्यक्वरीम् । प्रभङ्गां भ्रूणघ्नीं लक्ष्मीं ब्रह्मणा ता अनीनशम्
उदोजिष्ठां सहस्यां जयन्तीम् अपराजिताम् । लक्ष्मीर् याः पुण्याः कल्याणीस् ता अस्यै सवितः सुव
लक्ष्म्यः सम् अलप्सत सम् अलप्सत लक्ष्म्यः । अजैषुर् भद्रा लक्ष्म्यः परा पापीर् अजेषत
लक्ष्मीणां लक्ष्मीतमे लक्ष्मीणाम् अधिपा असि । तां त्वाहं शुद्धो गोप्स्यामि देवजा हि बभूविथ
सभा च मा समितिश् चावतां प्रजापतेर् दुहितरौ सचेतसौ । येन संगच्छा उप मा स तिष्ठाद् अन्तर् वदानि हृदये जनानाम्
सभा सेना समितिस् त्वाम् अवन्तु प्रजापतेर् दुहितरः प्रचेतसः । येन वदान्य् उप मा स शिक्षाद् अन्तर् वदानि हृदये जनानाम्
मां वदन्तम् अनु सर्वे वदन्तु मां प्राणन्तम् अनु प्राणन्तु सर्वे । मां विशन्तम् अनु सर्वे विशन्तु मयि देवा एकवृतो भवन्तु
सूर्यो मा चक्षुषः पातु बृहस्पतिर् वाचः सोमो राजा सभायाः । इन्द्रो वो दृशे भवामि
वेद वै ते सभे नाम सुभद्रासि सरस्वति । अथो ये ते सभासदस् ते मे सन्तु सुवाचसः
इमा या ब्रह्मणस्पते विषूचीर् वाच ईरते । सध्रीचीर् इन्द्र ताः कृत्वा मह्यं शिवतमाः कृधि
अहम् एषां हस्तरसम् अहं विज्ञानम् आ ददे । सर्वस्या अस्याः संसदो ऽहं भूयासम् उत्तम इन्द्रो यो गायताम् इव
उत्तमं मोत्तमे कृध्य् उत्तमा हि बभूविथ । यां त्वा भुरण्युर् अन्वैच्छद् गन्धर्वः शरदः शतम्
अभिभूर् अहम् आगमम् अहं भूयासम् उत्तमः । इदं प्रतिप्रवादिनं द्विषन्तम् अव धून्वे
उरुष् टे वस्तिर् भवतु समुद्रस्य बिलं यथा । परोदकम् इव सिच्यतां मूत्रं ते तन्वस् परि
यथा वातो यथोदकं यथा समुद्र एजति । एवा ते गर्भ एजतु निरैतु दशमास्यो बहिर् जरायुणा सह
इदम् उ श्रेयो ऽवसानम् आगां शिवे मे द्यावापृथिवी अभूताम् । असपत्नाः प्रदिशो मे भवन्तु न वै त्वा द्विष्मो अभयं नो अस्तु
वास्तोष्पत इह नः शर्म यच्छ भद्राच् छ्रेयो अभि नो नेष वस्यः । अरिष्टा वीरा इह मे भवन्तु द्विपाच् चतुष्पान् मय्य् अस्तु पुष्टम्
अनमीवो वास्तोष्पते विश्वा रूपाण्य् आविशन् । सखा सुशेव एधि नः
ऋतेन स्थूणा अधि रोह वंश्- -ओग्रो विराजन्न् अप वृङ्क्ष्व शत्रून् । मा ते रिषन्न् उपसत्तारो अत्र विराजां जीवाच् छरदः शतानि
आ रोहतं पक्षाव् अमृतं वसानौ दम्पत्योः कृणुतं दीर्घम् आयुः । तत्र नारी पुत्रिणी जीवपत्न्- -ईदं कुलायम् उपसंविशाति
अग्निर् मा विश्वाद् दुरितात् पुनातु मातरिश्वा पवमानः पुरस्तात् सोमो मा पातु मरुतो बृहस्पतिर् वायुश् च मा पवमानः पुनीताम्
त्वया सत्यं वि जयन्ते तव सत्यं विवाचनम् । अग्रे वृक्षस्य जायसे सेमं जनय पूरुषम्
वृक्षस्य शतशाखस्य माधुन्तस्य निकृत्वनः । विभीदकस्य यत् फलं तेन त्वोन् मादयामसि
पूर्वे वातात् प्र पततं पूर्वे पततम् अश्विभ्याम् । इमे न्यर्वणी अहम् उद्नेवाग्निम् अवीवरे
मा यक्ष्मम् इह हासिष्ट मा रिफन्तो वि गातन । सुभूतम् अस्मभ्यं धत्त युष्मान् अन्व् एतु किल्बिषम्
इह वर्च इह पय इह चक्षुर् उप ह्वये । इहेन्द्रियं दधातन
आ हि हरी अपप्तताम् इमं वत्सं वनाद् इयम् । अपकामं ह्य् अघ्न्ये वत्सो देवि ममार ते
ये त्वोपविदुर् विदुर् निजवत्सेव दोहस्व । अहं ते वेद संमनः संवननस्य वेद ते
एष ते अघ्न्ये वत्सस् तं वाञ्छ । तां सत्योक्तिं ब्रूमः
या सरस्वती गोवननी सा वामेनाङ्कसा न्येत्य । इमां गां वानयतु स्वाहा
अनुवाक ४ ॥ दूराद् भेषजम् आभृतं बहून्य् अति योजना । अपश्यम् अस्यन्तं रुद्रं न दृष्टो दुष्कृतं करत्
भिनद्मि ते परावतो वत्सस्य शेप्याम् इव । वृषेद् असो यथा मयि कृष्णो विषाणवाꣳ इव
सर्वा गावः संमनसः सच्छवयः सनाभयः । समानं बिभ्रतीर् नाम वत्सा उद् रिहतां मिथः
इन्द्रस् त्वाग्रे अवानयत् सविता त्वोतापरः । तृतीयम् अश्विना त्वाघ्न्ये वाञ्छ
आ ते नयतु सवित्- -आ नयतु बृहस्पतिः । पतिर् यः प्रतिकाम्यस् तम् अस्यै धेह्य् ओषधे
इन्द्रं वयम् अनुराधम् इत्य् एका
भग प्रेहि प्रथमो ऽनु त्वा वयम् एमसि । इन्द्राग्नी ब्रह्मणास्मान् स्वस्ति नयतां पथा
अदितिः प्रैतु प्रथमा बृहस्पतिः पुरएता ते अस्तु । इन्द्रो भयं व्य् अस्यतु शूद्राच् च न आर्याच् च
इमे ये अनसि युक्ता उष्टारा उत पील्वा । तेषां सम् अग्रभं पदः सम् ईर्मान् सम् उ सक्थ्यः
वि मध्यमा अप्रोषत गर्दभा क्षिपिता इव । अथासुरस्य मायया मयीदं स्थापयामसि
सं मा भगेन द्विगुणेन वर्चसा सं मा पृथिव्या सं मौषधीभिः । सं मापो मयोभुवो भगेन वर्चसा सिचन्
वर्चो मे मित्रावरुणेत्य् एका
ऋचं साम यजामहे याभ्यां कर्माणि कृण्वते । वि ते सदसि राजतो यज्ञं देवेषु यच्छताम्
अङ्गमङ्गं सं चिनोमि चक्षुः प्राणम् अथो बलम् । प्रियाः श्रुतस्य भूयास्म्- -आयुष्मन्तः सुमेधसः
एतन् नो देव सवितर् जगद्धात्री च रक्षतम् । पूषैनत् पुनर् आजत्व् अविनष्टम् अविह्रुतम्
यावन्त्य् एव पलितानि साकं जज्ञिरे अग्रशः । तेभ्यः परि ब्रवीमि त्वा कृष्णाः केशा भवन्तु मे
कृष्णान् केशान् सिनीवालि कृष्णान् केशान् सरस्वति । कृष्णान् मे अश्विना केशान् कृणुतं पुष्करस्रजा
अदो यद् अग्रे देवानां पुरस्ताद् अवतिष्ठति । तन् मे +ऽब्रवीत् त्वष्टा विरिष्टभेषजम्
श्वा विश्वधायसा विश्वभेषज्या कृतम् । यद् आमयति निष् कृधि निष्कृतिर् नाम वा असि
सं ते चृतामि तकरिं सं योनिं सं गवीन्यौ । सं मातरं च पुत्रं च सं गर्भं च जरायु च
तिर्यङ् ते गर्भो भवतु हृदयस्थं जरायु ते । आद् ओषम् अग्निम् आ रोह्- -आद् गच्छ यमसादनम्
वि ते चृतामि तकरिं वि योनिं वि गवीन्यौ । वि मातरं च पुत्रं च वि गर्भं च जरायु च
अन्वङ् ते गर्भो भवत्व् अनुसोत जरायु ते । यथा त्वं पुत्रं विन्दासै यथा जीवासि भद्रया
प्र पृष्ठे गर्भम् अर्दय वि योन आस्यं सृज । निर् ऐतु दशमास्यो गर्भो गवीन्योर् अधि
विष्कम्भेण वि ष्कभाय तौ विष्वञ्चौ व्याकुरु । एष वाम् अग्निर् अन्तरा स विष्वञ्चौ व्य् अस्यतु
विष्कम्भो वि ष्कभायतु मनश् च हृदयं च वाम् । विवर्तन वर्तय शश्वतीभ्यः समाभ्यः
समुद्रं त्वा प्र हिणोमि स्वां योनिम् अपीहि । अच्छिद्रस् तन्वा भूयासं मा परा सेचि मे पयः
यद् अत्रापि रसस्य मे परापपातास्मृतम् । तद् इहोप ह्वयामहे तन् मा प्यायतां पुनः
कविर् अग्रे प्र लिलेख धर्ता केशाꣳ अधारयत् । इहैव विश्वतो दधद् धाता त्वष्टा त्वचि केशाꣳ अचीक्ल्̥पत्
सरस्वति व्रतेषु ते दिव्येषु देवि धामसु । मन्द्रे हिरण्यवर्तने प्र ण आयूंषि तारिषः
यद् अप्सु ते सरस्वति गोष्व् अश्वेषु यन् मधु । तेन नो वाजिनीवति मुखम् अङ्धि सरस्वति वर्चसा
यो अद्य देव सूर्य त्वां च मां चान्तरायति । तस्मिन् दुष्वप्न्यं सर्वं दुरितानि च मृज्महे
यो नो +ऽभिच्छायं मर्त्येष्व् अग्निं तिष्ठस्य् अन्तरा । तस्य वृश्चामि ते मूलं न च्छायां करवो ऽपरम्
घ्नन्त्व् एनं देवेषवो ब्रह्माणो घ्नन्तु मेन्या । यो अस्माकं प्रजापते अग्निं तिष्ठत्य् अन्तरा
प्रजापते यो ऽस्माꣳ आदृश्- -आग्निं तिष्ठत्य् अन्तरा । तं मृत्यवे प्र यच्छामि स रुद्रस्यास्त्व् आखणः
प्र सुवैनं देववज्रेभ्यो मृत्युर् वि क्रमताम् अधि । सिनात्व् एनान् निरृतिर् मृत्योः पाशैर् बन्धैर् अविमोक्यैः
सुमङ्गलेन वचसा केशिन् ग्रामं न आ वद । ब्रह्मणाब्रह्मणा त्व्- -ओलूकाच्छा वदामसि
पराङ् एव परा वद पराचीम् अनु संवतम् । यथा यमस्य त्वा गृहे ऽरसं प्रतिचाकशं नियस्तं प्रतिचाकशम्
शुनम् उलूक नो वद यं द्विष्मस् तम् इतो नय । राज्ञो यमस्य ते गृहे सिकताभिर् विदेव्यम् आखुस् ते मूषिकेद् भागः
आ वद बहुलं गोष्ठं धीतवत्सम् अनष्टगुम् । ध्वाङ्क्षाय द्विपदां वद शुने चतुष्पदां वद
पुनर् मे राजा वरुणः पुनर् इन्द्रः पुनर् भगः । पुनर् मे विश्वे देवा आयुर् जीवितवा अदुः
उत् तिष्ठातः प्र द्रवार्वाङ् मात्र तिष्ठो ऽभिचाकशत् । सपत्न्या वर्च आदाय्- -आथास्माभिः सहाससि
उत् तिष्ठत निर् द्रवत न व इहास्ति न्यञ्चनम् । अमुष्य वित्तम् अभि वः सुवामि तद् अनुवध्वं सुदतीर् अहिनस् तत्
ये अस्माकं सबन्धवो विष्ठिताः पृथिवीम् अनु । तेषाम् इन्द्र इव देवानाम् अहं भूयासम् उत्तमः
ये अग्नयः पार्थिवा आहिताः पृथिवीम् अनु । तेषाम् असि त्वं संगथे स नो जीवातवे कृधि
चित स्थ परिचित स्थ्- -आग्नयश् च निहवा नाम । ते नो मा नि ह्वध्वं तेभ्यो वो नमो न वो हवम् एमि । यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः स वो हवम् एतु
इन्द्राग्नी पुनर् आ कृतं न एता स्थिरवीराव् अपरावीतगू । अस्माकं सर्वा निहवे सन्त्व् एषां वयं विद्याम गुह्यं नाम गवाम्
प्रजापते अनुनिक्रन्दय विश्वे देवाः पदवायाः सन्त्व् आसाम् । आदित्या अनुसंगत्य शूरा इन्द्रज्येष्ठाः पुनर् आ वर्तयन्तु
इन्द्र प्रणेतर् वर्धय म्- -आश्विना मां वहतम् आश्वश्वा । ऐन्द्राग्नं वर्म प्रतिमुञ्चमानो यथोभयेभ्यश् चारु समितिम् आ वदानि
चारुवाक् चारुवदनश् चारु सं काश नो नृभिः । अद्वेष्यप्रतीकाशो जिगीवाꣳ अपराजितः
अपि वृश्च पुराणवद् व्रततेर् इव गुष्पितम् । ओजो दासस्य जम्भय यद् एतद् अस्य संभृतं मधु तद् इन्द्रस्य विभजावहै
म्लापयामि व्रजः शुभ्रं वरुणस्य व्रतेन ते । यथा शेपोअपाय्य् अस स्त्रीषु चासो अनावयाः
अवस्थस्य क्लदीवतो भङ्गुरस्य नितोदिनः । यद् उत्ततम् अव तत् तनु यद् आततं नि तत् तनु
अमिम्लपं ते तन्वं क्लीबं त्वा वीरुधाकरम् । अन्तःकोश इव कोशेषु स्त्रीष्व् अप्याकृतश् चर
आ नो मेदं गृहपतिर् दधात्व् इन्द्रेण मेदिना । आ नो मेदं सरस्वत्य् आ नो वहन्तु सिन्धवः
मेदं धाता मेदं पूषा मेदम् इन्द्रो दधातु मे । मेदं मे अश्विनोभ्- -आ धत्तां पुष्करस्रजा
ऊरू मेदय मे बाहू अष्ठीवन्ता उरश् च मे । वपां पर्य् अस्य उदरे मेदम् इन्द्रो दधातु मे
चर्मण इवोपनीतस्य सर्वान् केशान् वृहामि ते । अयस्पात्रम् इव ते शिरो यथासत् समरं समम्
अनुवाक ५ ॥ दिवि तारा उदभि श्र्यन् सप्त सूर्यस्य रश्मयः । धाराः समुद्रिया अपस् तास् ते शल्यम् अचुच्यवुः
ईडे अग्निं स्वावसुं नमोभिर् इह प्रसक्तो वि चयत् कृतं नः । रथैर् इव प्र भरे वाजयद्भिः प्रदक्षिणं मरुतां स्तोमम् ऋध्याम्
सप्त स्रवन्ति शिशवे मरुत्वते पिता पुत्रेभ्यो अप्य् अवीवतद् व् ऋता । उभे पिपृत उभे अस्य राजत उभे यतेते उभे अस्य पुष्यतः
वेदः स्वस्तिर् द्रुहणः स्वस्तिः पर्शुर् वेदिः परशुर् नः स्वस्तिः । हविष्कृतो यज्ञिया यज्ञकामास् ते देवासो हविर् इदं जुषध्वम्
उप प्रियं पनिप्नतं युवानम् आहुतीवृधम् । अगन्म बिभ्रतो नमः
इमा यास् ते शतं हिराः सहस्रं धमनीर् उत । तासां ते सर्वासां साकम् अश्मना बिलम् अप्य् अधाम्
इदं खनामि भेषजं मांपश्यम् अभिरोरुदम् । येना निचक्र आसुर्- -ईन्द्राणी केवलं पतिम्
अक्ष्यौ नौ मधुसंकाशे अनीकं नौ समञ्जनम् । अन्तः कृणुष्व मा हृदि मन इन् नौ सहासति
त्वाष्ट्रेणाहं वचस्- -एर्ष्यां व्य् अमीमदम् । अथो यो मन्युस् ते पते तम् उ ते शमयामसि
व्रतेन त्वं व्रतपते समक्तो ऽहा विश्वा सुमना दीध्यो नः । तं त्वा वयं जातवेदः समिद्धं प्रजावन्त उप सदेम सर्वे
प्रजावतीः सूयवसे रिशन्तीर् मा वो विद्युत् तरन् मोत सेना । सुगे तीर्थे सुप्रपाणे पिबन्तीः परिवृज्य वधं गोहनं चरन्तु
पदज्ञा स्त रमतयः संहिता विश्वरूपा उप नो देवीर् देवेभिर् एत । इमं गोष्ठम् इदं सदो घृतेना नः सम् उक्षत
या ग्रैव्या अपचितो अथो या उपपक्षियाः । विजामन् या अपचितः स्वयंस्रसस् ता इतो नाशयामसि
सांतपना इदं हविर् मरुतस् तज् जुजुष्टन । युष्माकोती रिशादसः
यो नो मर्तो मरुतो दुर्हणायुस् तिरश् चित्तानि वसवो जिघांसात् । तस्मिन् तान् पाशान् प्रति मुञ्चता यूयं तपिष्ठेन तपसा हन्तना तम्
संवत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषेभ्यः । ते अस्मत् पाशान् प्र मुञ्चन्तु सर्वान् सांतपना मत्सरा मादयिष्णवः
धृषत् पिब कलशे सोमम् इन्द्र वृत्रहा शूर समरे वसूनाम् । माध्यंदिने सवन आ जुषस्व रयिष्ठानो रयिम् अस्मासु धेहि
युनज्मि त्वा ब्रह्मणा दैव्येन्- -आस्मै क्षत्राणि धारयन्तम् अग्ने । दिदिड्ढ्य् अस्मभ्यं द्रविणेह भद्रा प्रेमं वोचो हविर्दां देवतासु
वि ते मुञ्चामि रशनां वि योक्त्रं वि नियोजनम् । इहैव त्वम् अजस्र एध्य् अग्ने
प्रजापते न हि त्वद् अन्यो विश्वा रूपाणि महिना जजान । यत्कामास् ते जुहुमस् तन् नो अस्तु वयं स्याम पतयो रयीणाम्
यत् ते देवा अकृण्वन् भागधेयम् अमावास्ये संवसन्तो महित्वा । सेमं यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम्
घृतं ते अग्ने दिव्ये सधस्थे घृतेन त्वा मनुर् अद्या सम् ईधे । घृतं ते देवा आप्या वहन्ति घृतं तुभ्यं दुह्रते गावो अग्रे
मय्य् अग्रे अग्निं गृह्णामि सह क्षत्रेण वर्चसा बलेन । मयि प्रजां मय्य् आयुर् दधामि स्वाहा मय्य् अग्निः
अप्सु ते राजन् वरुण गृहो मितो हिरण्ययः । ततो धृतव्रतो राजा सर्वा धामानि नो मुचेः
धाम्नोधाम्नो राजन्न् इतो वरुण नो मुचेः
यद् आपो अघ्न्या इति वरुणेति यद् ऊचिम । ततो वरुण नो मुचेः
यो रुद्रो अग्नौ यो अप्स्व् अन्तर् य ओषधीर् वीरुध आविवेश । य इमा विश्वा भुवनानि चाक्ल्̥पे तस्मै रुद्राय नमो अस्त्व् अद्य
अपेह्य् अरिर् अस्य् अरिर् वा असि । विषे विषम् अपृक्था अहिम् एवाभ्य् अपेहि तं जहि
पृतनाजितं सहमानम् अग्निम् उग्रं हुवेम परमात् सधस्थात् । स नः पर्षद् अति दुर्गाणि विश्वहा क्षासद् देवो ऽति दुरितान्य् अग्निः
यद्य् अन्तरिक्षे यदि वात आस यदि वृक्षेषु यदि वोलपेषु यद् अश्रवन् पशव उद्यमानं तद् ब्राह्मणं पुनर् अस्मान् उपैतु
शं मा वातो अभि वातु शं मे तपतु सूर्यः । अहानि शं भवन्तु मे शं रात्री प्रति धीयतां शम् उषा मे व्य् उच्छतु
उत् तिष्ठत पितरो ये पुरास्थन् यमं राजानम् अवसानम् अर्चत । अयं नृणां नृतमः श्रेष्ठ आगन् तस्मै लोकं कृणुत यावत्सबन्धु
यस्येदं शस्तं प्रतिमाकृतं देवैर् दत्तम् असूरियं च संभृतम् । त्रिः सप्त कृत्व ऋषयः परेता मृत्युं प्रत्य् औहन् पदयोपनेन
अगमन् गावः सदनम् अगमद् वसतिं वयः । आस्थाने पर्वता अस्थुः स्थामन् वृक्काव् अरीरमम्
आ गावो गोष्ठम् अगमन्न् आग्निधानान्य् अग्नयः । आ वृक्कौ सम् अवित्साताम् उत्सक्तभेषजम् असि
यथा द्यां च पृथिवीं च्- -आन्तस् तिष्ठति तेजनम् । एवा रोगं चास्रावं च मुञ्जस् तिष्ठतिय् अन्तरा
अस्थाद् इदं विश्वं भुवनम् अस्थाद् वातो वनच्यवः । अस्थुर् वृक्षा ऊर्ध्वस्वप्नास् तिष्ठाद् रोगो अयं तव
शतं यद् भेषजानि ते सहस्रं संभृतानि च । तेषाम् असि त्वम् उत्तमं श्रेष्ठम् आस्रावभेषजं वसिष्ठं रोगनाशनम्
यद् अद्य त्वा प्रयति यज्ञे अस्मिन् होतश् चिकित्वन्न् अवृणीमहीह । ध्रुवम् अयो ध्रुवम् उता शमिष्ठ प्रजानन् विद्वान् उप याहि सोमम्
सम् इन्द्र नो मनसा नेष गोभिः सं सूरिभिर् हरिवन् सं स्वस्त्या । सं ब्रह्मणा देवकृतं यद् अस्ति
सं वर्चसेत्य् एका
संस्रावभागास् तविषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश् च देवाः । इमं यज्ञम् अभि विश्वे गृणन्तः स्वाहा देवा अमृता मादयन्ताम्
यान् आवह उशतो देव देवांस् तान् प्रेरय पुनर् अग्ने स्वे सधस्थे । जक्षिवांसः पपिवांसो मधून्य् अस्मै धत्त वसवो वसूनि
अयं नो यज्ञो अप्य् एतु देवान् उत्तरां वेदिम् अप्य् एतु वेदिः । वि मुञ्चाम्य् ऋत्विजो दक्षिणाभिर् देवा यक्षीष्ट पुनर् उत्तरावत्
यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ । स्वां योनिं गच्छ स्वाहा
एष ते यज्ञो यजमान सहसूक्तनमोवाकः । सुवीरः स्वाहा
मनसस्पत इमं देव यज्ञम् । स्वाहा वाचि स्वाहा वाते धाः स्वाहा
स्वाहा हुतेभ्यो वषड् ढुतेभ्यः । देवा गातुविदो गातुं वित्त्वा गातुम् इत स्वाहा
सं बर्हिर् अक्तं हविषा घृतेन सम् इन्द्रेण वसुभिः सं मरुद्भिः । सं देवेभिर् विश्वदेवेभिर् अक्तम् इन्द्रं गच्छतु यत् स्वाहा
आशासाना सौमनसं प्रजां चक्षुर् अथो बलम् । इन्द्राण्या अनुव्रतं सं नह्ये अमृताय कम्
इन्द्राणी नारी सुभगा सुपत्न्य् उद् अंशेन पतिविद्ये बिभेद । त्रिंशद् यस्या जघनं योजनान्य् उपस्थ इन्द्रं स्थविरं पिपर्तु
सेनासि पृथिवी धनंजय्- -आदितिर् विश्वरूपा सूर्यत्वक् । इन्द्राणी प्राषाट् संजयन्ती तस्यै त एना हविषा विधेम
अजिरोत्तिष्ठन्त्य् उत्थिताग्रे त्वरी प्राषाट् तूर्तम् उपचरन्तीम् । प्राषाट् कस् त्वरिषा त्वाग्रे त्वरिकस् त्वयिषमेस त्वा भद्रे
पर्यावर्ते दुष्वप्न्यात् पापात् स्वप्नाद् अभूत्याः । ब्रह्माहम् अन्तरं कृण्वे परा स्वप्नमुखाः शुचः
यत् स्वप्ने अन्नम् अश्नामि न प्रातर् अधिगम्यते । सर्वं तद् अस्तु नः शिवं नहि तद् दृश्यते दिवा
अनुवाक ६ ॥ विश्वं विव्यज्मि पृथिवीव पुष्टम् आयदायत् प्रति गृह्णाम्य् अन्नम् । वैश्वानरस्य महतो महिम्ना स्योनम् अस्मभ्यं मधुमत् कृणोतु
त्रिशृङ्गम् असि दुरभिधर्षम् इन्द्राय ध्रियसे । पूषा ते प्राशिता
पाहि नो अग्ने तन्वं पाहि गाः पाहि यत् तनूकृतम् । अहुतादाव् अमर्त्यौ ताव् अस्मान् पातो अंहसः
यौ देवानाम् अहुतादाव् अमर्त्यौ स्वर्भानुश् च स्वर्ज्योतिश् च । तयोस् त्वास्येन प्राश्नाम्य् अग्नेष् ट्वा वैश्वानरस्य त्वास्येन प्राश्नामि
दक्षश् च त्वा मानसः प्राश्नीतां स्वर्भानुश् च मारुतः । मा पृणन् पूर्त्या वि राधि मो वयं प्रजया धनेन
अनाधृष्यस्य ते पितो अनाधृष्यशवसः । सर्ववीराः सर्वात्मानो भक्षं क्रियास्म
कामो मे राज्ञि प्र विवेश त्वां तम् अहं निर् ह्वये पुनः । गृहेषु गोषु मे मनो अक्ष्योर् अस्तु मे भगो जिह्वायाम् अस्तु मे रसो बाह्वोर् अस्तु मे बलम् ऊर्वोर् अस्तु मे जवः
दिवो ऽसि निर्मथितं पृथिव्या अध्य् उद्भृतम् । समुद्राद् उच्यसे जातम् अक्ष्यामयभेषजम् अस्य् आथर्वणम्
पूषा परस्ताद् आ वर्तयतु चतस्रो भूम्या दिशः । सगलिक पुषलिक पुनर् नो नष्टम् आयति जीवेन भुनजामहै
यद् आभरच् छृतद् अग्निस् तेजने नष्टवेदनम् । खर्गलेव पुनर् दत्तं पुनर् अस्मा अश्विना नष्टम् आजतम्
यद्य् अस्य् अप्रियजा यदि वान्यत आभृतः । विसल्पकस्य भेषजीर् देवीर् आप इमा मम
यवस्य पूतिकस्य दृशाम्बस्योत गर्मुतः । तेषां सम् अग्रभं शुष्मम् आशूनां धावताम् इव
यस् तनुः प्रतुर्वणी वध इव प्रसर्पति । मयूरः किल ते विषं कृकवाकुश् च जक्षतु
उदीचीनः प्र तनोति नितत्निर् भूम्याम् अधि । ओज्मानं पश्य वीरुधो मिथुना सम् अवीवनत्
नि त्वातनं नितत्निना परि त्वागां सहीयसा । श्येनाद् अभिद्रवीयसा सुपर्णान् निकरीयसा
यद् अत्रापि मधोर् अहं निरष्ठविषम् अस्मृतम् । अग्निश् च तत् सविता च पुनर् मे जठरे धत्ताम्
अग्ने रुद्रस्य जायासि दुहितासि प्रजापतेः । उच्चैःश्लोके दानपत्नि हविःश्रव उप त्वा ह्वय उप मा ह्वयस्व । नरिष्टा नाम वा असि
यथासौ हरिणो वृषा कूलाद् अधि प्रस्कन्दति । एवा नि ष्कन्द पित्र्याद् भगं जयन्ती धनं जयन्ती
ऋजिश्वा मह्यम् अब्रवीद् गन्धर्वस्यानुशासनम् । एतत् ते पतिवेदनम्
पाटा भिनत्तु कुम्भं पाटा कुम्भीं गदोहनीम् । पाटा सर्वस्य पात्रस्य वधूं कृणोतु विश्वतः
अपेहि तक्मंश् चर परो अन्यम् अस्मद् इच्छ पुरुषं कं चिद् एव । वेद ते तक्मन् पितरं वेद मातरम्
शमीवान् असि शामीवतः शमीवान् आभिशोकिः । अभिशोको हार्षणिर् हर्षणो जाञ्जभिः
यः पशूनां मार्जनीयो यं त्वम् अंशेन भेजिषे । अभीहि तक्मन् गर्दभं न माम् अभ्येतुम् अर्हसि
विस्रसा नाम ते माता किःकिशो (⟨ किष्किषो) नाम ते पिता । शिमिदा नाम ते स्वसा
गिरिं गच्छ गिरिजा असि गिरौ ते माहिषो गृहः । दासी चक्रम् आस्थाय नाम्लाते नि क्रन्दयिष्यति
आ वातो वात्व् अनघः सर्वस्य दूतो अभिशस्तिपाः । जलाषम् इत् प्र सिञ्चति तद् विषस्याप सिञ्चतु
याम् अस्यति पृश्निबाहुर् इष्टं हरिद्रुपर्ण्यम् । ताम् अस्य निष् खिदामसि यथा जीवासि भद्रया
अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य च । उत्कूलम् उद्वहो भव्- -ओदुह्य प्रति धावतात्
एतं दन्तं निरृत्या घोरम् आहुर् यस्त आसन्न् अवरूढ एषः । तं दुर्हार्दे प्र हिणोमि घोरं स नो मा हिंसीज् ज्यायसो मा कनीयसः
शिवः शग्मो भवतु दन्त एष मा नो हिंसीज् ज्यायसो मा कनीयसः । अघमारम् अघशंसं निरृथं तं ते दन्तः सचतां घोर एषः
अघमारम् अघशंसं निरृथं दुर्हार्दे दन्तं प्र हिणोमि घोरम् । सो अस्यात्तु द्विपदश् चतुष्पदः शिवो अस्मभ्यं सुमना अस्त्व् एषः
शिवं ते दन्तं हविषा कृणोमि शिवो मह्यं कुर्वते दन्तो अस्तु । शिवानि ते त्रीणि त्रिकद्रुकाणि सन्तु शिवो मह्यं नभसी रोदसी स्ताम्
पुरुरूपा पृथुपेशा अरंकृद् वहतोर् असि । प्रतिष्ठासि चतुष्पदां यस् त एष पञ्चमः पादस् तं तेन प्रति गृह्णामि
ससर्परीर् अमतिं बाधमाना बृहन् मिमाय जमदग्निदत्ता । आ सूर्यस्य दुहिता ततान श्रवो देवेष्व् अमृतम् अजुर्यम्
ससर्परीर् अभरत् तूयम् एभ्यो ऽधि श्रवः पाञ्चजन्यासु कृष्टिषु । सा पक्ष्या नव्यमायुर् दधाना यां मे पुलस्ति जमदग्नयो ददुः
अघ्न्ये दूरमूत् कन्द नि पदश् चतुरो जहि । अधा गोदुहः शीर्षणि शफाꣳ उरसि वादय
शृङ्गाभ्याम् उप स्रष्टारं पदावर्तय गोदुहम् । अथो ये अन्ये तिष्ठन्ति तान् विषूचो वि नाशय
यथा नर्ता सक्षिकाजिं नि कुल्फम् अभिनृत्यति । एवा त्वम् अघ्न्ये पदः सर्वान् साकम् उद् अर्दय
उद् उ क्षीरम् उत्तभितं स्यन्दन्ताम् अस्य धेनवः । असृक् तस्य गावो दुह्रां यो अस्मान् नापचायति
ऋक्षीकाया यथा मनो व्याघ्रस्य यथा मनः । एवा तस्य गवां मनो यो अस्मान् नापचायति
उत्तमोस्य् ओषधीनां वीरुधां बलवत्तमः । सस्यन्दन त्वम् ओषधे सर्वाः स्यन्दय गा इमाः
अरन्तुरथन्तु । वनेषु शुष्मो अस्तु ते पृथिव्याम् अस्तु यद् धरः
अकृद् अश्वो अकृत् खरो अकृद् अश्वतरो हरिः । एवासि बह्वघे तव भसन् नदत्व् आसिचा
यथा नदति गर्दभ एवा नदति ते भसत् । व्रीहेर् यवस्य माषस्य्- -ऐतत् पश्याभिदर्शनम्
उद् भरे द्यावापृथिवी उद् आप उद् अग्निम् उद् इन्द्रम् उत् सूर्यम् उद् रात्रिम् उद् अहः
नमस्कृत्य द्यावापृथिवीभ्याम् अन्तरिक्षाय मृत्यवे । मेक्ष्याम्य् ऊर्ध्वस् तिष्ठन् मा मा हिंसिषुर् ईश्वराः
यन् मेढ्वा यद् अप्सरसः पयो देवीर् अहृषत । तद् इहोप हृयामहे चक्षुषे च बलाय च । देवानां देवहूत्या मयि त्या देवताः पुनः
यास्य दोषा रसस्य मे त्वं देवि ततर्पिथ । नाराशंसेन स्तोमेन्- -आहं त्वत् पुनर् आ ददे युष्मद् अप्सरसस् परि
यन् मे तन्वो रसं वयम् उद् अप्सरसस् परि । नाराशंसेन स्तोमेन प्रजाम् आ प्यायामहे
यन् मे पयो विषिषिचे जाग्रतः स्वपतश् च यत् । पुनस् तद् अद्य मे देवा आ सिञ्चन्तु तनू अधि
यद् अद्य दुग्धं पृथिवीम् असक्त यद् ओषधीर् व्यसरद् यद् आपः । वत्से पयो गवि पयो यद् अस्याम् अस्मांस् तत् सचतां पयः
परा पतन्त्य् आशवो ऽश्वा अधोधुरं यथा । एवा मूत्र प्र भिद्यस्व वि वस्तेर् आस्यं सृज
विषितं ते वस्तिबिलम् इत्य् एका
अस्य पारे समुद्रस्य शुक्रं ज्योतिर् अमर्त्यम् । तन् नः पात्व् अंहसस् तन् नः पातु विश्वतः
आ नो मेधा सुमतिर् विश्वरूपा हिरण्यवर्णा जगती जगम्यात् । सा नो अग्ने मेधा जुषताम् इह प्रचेताः
निष् क्रामत्व् इषिर्यो अत्र प्रविष्टो वयाष्ठश् च सयुजा याव् इह स्तः । सप्त ऋषीणां स्यूमरश्मिः पथैतु स्वान् मृगान् पुनर् अप्य् एतु कृष्णः
सप्त ऋषीन् गच्छ स्यूमरश्मये मृगान् कृष्णः सचतां वाजो अश्वम् । ईडो अस्मान् सुप्रजसः सुवीरान् सह यज्ञेन पयसा सचातै
नमो अस्त्व् ऋषये स्यूमरश्मये नमः कृष्णायोत यो वाजो अस्य । नमो देवायार्वतेषु जिष्णवे ऽयं नो वाजी प्र तिरात्य् आयुः
अति यन्त्य् अहान्य् अति रात्रीर् अत्य् उषसः । आपो अन्तर्धावरीस् ताभिर् अन्तर् दधे त्वा
यथा नैदाघ्ये मासि बह्वीः शुष्यन्त्य् ओषधीः । एवा प्र शुष्य माम् अनु यच् च पश्यामि यच् च न
पाटा बिभर्त्य् अङ्कुशं हिरण्यवन्तम् अङ्किनम् । तेनाहम् अन्येषां स्त्रिय आ लुम्पामि ममेद् असन्
अनुवाक ७ ॥ इन्द्र जीव सूर्य जीव देवा जीवा जीव्यासम् अहम् । सर्वम् आयुर् जीव्यासम्
अनाभूर् अस्मि नैतवे तन्त्यां बद्धो दिवि श्रितः । आहा त्वा निरृतये
रन्तिर् असि रमतिर् असि । सं श्रुतेन राधिषीय मा श्रुतेन वि राधिषि
दर्शो ऽसि दर्शतो ऽसि विश्वतः संदृष्टः । सोमो असि रुद्रो असि
तं त्वा यं देवा अंशुम् आप्यायन्ति तं त्वा यम् आदित्या अंशुम् आप्यायन्ति । तं त्वा यम् अक्षितम् अक्षितये पिबन्ति स नः सोमः प्र तिरद् दीर्घम् आयुः
अन्येषां प्राणेना प्यायस्व मास्माकं प्राणेन । यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस् तस्य प्राणेना प्यायस्व
चिद् असि समुद्रयोनिः श्येन ऋतावान् । सोमपीथोप न एह्य् अर्वाङ् रायस्पोषेण प्रजया धनेन
स्वरव स्थ नमो वो महताम् ऊर्जायै । पर्णां माव गाम्
अपश्चाद्दघ्वान्नस्य भूयासम् । अन्नादायान्नपतये रुद्राय नमो अग्नये
या ते वसो वात इषुः सा त एषा । तया नो मृड
अग्निस् तक्मानम् अप बाधताम् इतो वरुणो ग्रावा मरुतः पूतदक्षाः । बर्हिषदः समिधः शोशुचानास् तक्मनः शोचाम् अप निर् नुदन्तु
यो अभ्यवभृणायसि स्वपन्तम् इच्छ पुरुषं शयानम् अकोविदम् । स नः सहस्रवीर्य्- -आनुष्ठाता शिवो भव
देवयातुर् असि मृडो ऽसि । मृडास्माकं द्विपदे चतुष्पदे मा तस्य मीमृडो द्विपदे चतुष्पदे यो अस्मान् द्वेष्टि यं वयं द्विष्मः
ब्रह्मयातुर् असि मृडो ऽसि । मृडास्माकं द्विपदे चतुष्पदे मा तस्य मीमृडो द्विपदे चतुष्पदे यो अस्मान् द्वेष्टि यं वयं द्विष्मः
अन्नयातुर् असि मृडो ऽसि । मृडास्माकं द्विपदे चतुष्पदे मा तस्य मीमृडो द्विपदे चतुष्पदे यो अस्मान् द्वेष्टि यं वयं द्विष्मः
मनुष्ययातुर् असि मृडो ऽसि । मृडास्माकं द्विपदे चतुष्पदे मा तस्य मीमृडो द्विपदे चतुष्पदे यो अस्मान् द्वेष्टि यं वयं द्विष्मः
अवभरणो नामासि देवत्रा णो अक्षमापः । यो अस्मान् द्वेष्टि यं वयं द्विष्मस् तं त आसन्न् अपि दघ्मः
यद् अदोस्नाता आसुरो दीक्षितो ऽचरत् । तस्य यन् मलम् अवास्रवत् स हि नासि तावद् अनुष्ठ्या त्वा विद्म- -अरसं वृश्चिक ते विषम्
केतुलुङ्गा नाम ते माता कर्कटः पिता । तत् सत्यम् अरसम् अभग ते विषम्
द्वे विषस्य धारे स्त्रिया अन्या पुंसो अन्या । ते उभे अरसे
विश्ववित् तं नष्टम् अनु पश्यसि । अदो मे नष्टं तन् मे पुनर् देहि
विश्वकर्मन् तत् त्वम् उप गच्छसि । अदो मे नष्टं तन् मे पुनर् देहि
विश्वव्यचस् तत् त्वय्य् अध्य् आहितम् । अदो मे नष्टं तन् मे पुनर् देहि
परि पूषा पुरस्ताद् धस्तं दधातु दक्षिणम् । पुनर् नो नष्टम् आयति जीवेन भुनजामहै
इन्द्रस् त्वाभ्य् ऐत् सर्पत् तत् त्वा गोष्ठ आदधात् । तद् आस्रावस्य भेषजं तद् उ रोगम् अनीनशत्
विष्णोर् मनसा पूते स्थः । देवो वां सवितोत् पुनातु
विष्णोर् मनसा पूतम् असि देवस् त्वा सवितोत् पुनातु । अच्छिद्रेण पवित्रेण सहस्रधारेण सुप्वा
हृदा पूतं मनसा जातवेदो विश्वानि देवो वयुनानि विद्वान् । सप्तास्यानि तव यान्य् अग्ने तेभ्यो जुहोमि स जुषस्व हव्यम्
अग्नाव् अग्निर् इत्य् एका
यस् ते केशाꣳ अवाचीनान् क्रिमिर् वृहति मूर्धतः । प्राणं तस्योप दाशयाद् वीरुत् खनति भेषजी
वेद वै ते भग नाम भूरिर् नामासि रयिर् नाम । तं त्वा भग प्र विशामि स मा भग प्र विश । तस्मिन् सहस्रकाण्डेन मृजे भग त्वयि
आ मा गच्छन्तु ब्रह्मचारिणः स्वाहा
चराणि स्वाहा
वि राजानि स्वाहा
असानि भद्रेभ्यः श्रेयान् स्वाहा
यशस्वी जनुताम् अनु चराणि स्वाहा
देवानां मा मनुष्याणां पशूनां ब्रह्मचारिणाम्
प्रियं प्रजापतेः कृणु स्वाहा
हा अम्ब पनेचरि
अयं मे हस्तो अक्षितो रुदति तम् उ मे अगदं कृधि
त्वं क्षित्स्य भेषज्य् उभयोर् अक्षितस्य च
उदेलडि
असुर् असि स्वाहा
क्रतुर् असि स्वाहा
पुरुषो ऽसि स्वाहा
विजातिर् असि स्वाहा
प्रजातिर् असि स्वाहा
स्वजातिर् असि स्वाहा
स्वजातिर् नामासि स्वाहा
वेद वै ते नारद नाम वाग् नामासि तस्य ते यशो भक्षीय
वेद वै ते सनात् कुमार नाम चक्षुर् नामासि तस्य ते मधु भक्षीय
स्नुषासौ सेनास्याः सेनाया इहास्याः श्वशुरोयम् अस्याः श्वशुरः । सा यथा स्नुषा श्वशुराद् अधस्पद्यते अधरा पद्यते नीची पद्यते
एवासौ सेनास्याः सेनाया अधस् पद्यताम् अधरा पद्यतां नीची पद्यताम् । सेन्द्राग्निभ्यां हतवीरां हतपूरुषां पराजितां प्रणुत्तैतु परमां परावतम्
ताम् इन्द्राग्नी हतवीरां हतपूरुषां पराजितां प्रणुत्तां यतीम् अन्वाक्शीताम् । पराजित एत्व् असाव् आमुष्यायणो अमुष्याः पुत्रः
अस्ना व्यक्त एतु । अघं हि रण्येत्व् असाव् आमुष्यायणो अमुष्याः पुत्रः
अघप्रतीको अघेनैनं विध्यामः । अभूत्या एनं पाशे सित्वा दुष्वप्न्येन सं सृज्य मृत्योर् व्यात्त आसन्न् अपि दधामि
सृजाम्य् आप उशतीर् उपेमाः संरराणाः पयसा सं बभूवुः । दत्तो अस्मभ्यं द्रविणेह भद्रा अपां प्रति प्रति गृह्णात्व् एनाः
उच् छ्रयस्व बहुर् भव स्वेन महसा यव । पृणीहि सर्वा पात्राणि मा त्वा दिव्याशनिर् वधीत्
आशृण्वन्तं यवं देवं यत्र त्वाच्छावदामसि । तद् उच् छ्रयस्व द्यौर् इव समुद्र इवैध्य् अक्षितः
अक्षितास् त उपसदो अक्षिताः सन्तु राशयः । पृणन्तो अक्षिताः सन्त्व् अत्तारः सन्त्व् अक्षिताः
सकृद् यद् द्यौर् अजायत सकृद् भूमिर् अजायत । सकृद् यः पृश्निया दुग्धं तद् अन्यो नानु जायते मा त्वानु जनि कश् चन
इष्वग्रम् इषुयावनं मणिं कृण्वे सुमङ्गलम् । स मा शरव्याभ्यः पातु दिवानक्तं च जीवसे
प्रतिष्ठितो ऽसि ब्रह्मणा जम्भयामसि त्वा वयम् । अपामार्गेण विद्वला इदं त्वाप मृज्महे युवन्तं क्षिपन्तं जहि
शीर्णं त एतन् न क्षुतं त एतत् संक्षुतं दुःक्षुतं तुभ्यम् अस्तु । रुद्राशनिष् टे जघनेन ग्रीवा इन्द्र इव वृत्रं वज्रेण हन्तु
अनुहवं परिहवं परिवादं परिक्षवम् । सव्येर्मं रिक्तकुम्भां परा तां सवितः सुव
अपपापं परिक्षवं पुण्यं भक्षीमहि क्षवम् । शिवा ते पापनासिकां पर्णकश् चाभि मेहताम्
अभि त्वा पञ्चशाखेन हस्तेनाधां सहीयसा । यथा न विद्विषावहै न विभवाव कदा चन
चाक्रवाकं संवननम् अस्यस्य स्वंकरम् । अमुं स्वं कृणोतु मे यम् अहं कामये प्रियम्
यत् कक्षीवां संवननं च्यवनश् चक्र आसुरः । तद् वां कृणोमि दम्पती सं प्रियौ भवतं युवम्
यथा संयुक्तौ पक्षिणौ संप्रियौ चरतो मृगौ । एवा संयुक्तौ ब्रह्मणा संप्रियौ भवतं युवम्
प्रेहि प्र हर पादाव् आ गृहेभ्यः स्वस्तये । कपिञ्जल प्रदक्षिणं शतपत्राभि नो वद
भद्रं वद दक्षिणतो भद्रम् उत्तरतो वद । भद्रं पुरस्तान् नो वद भद्रं पश्चात् कपिञ्जल
शुनं वद दक्षिणतः शुनम् उत्तरतो वद । शुनं पुरस्तान् नो वद शुनं पश्चात् कपिञ्जल
यौवनानि महयसि जिग्युषाम् इव दुन्दुभिः । कपिञ्जल प्रदक्षिणं शतपत्राभि नो वद
अनुवाक ८ ॥ उत् तभ्नामि गवां क्षीरम् उद् रथं रथवाहनम् । उत् तब्धा अस्माकं वीरा मयि गावश् च गोपतौ
उत् त्वा स्तभ्नातु सविता देवो अग्निर् उन् मित्रावरुणाव् अश्विनोभा । सर्वान् सपत्नान् अवधीर् युगेन विशां पतिर् उपसत्तैध्य् अत्र
त्वं हि रुद्र वशिनी निर्निषे त्वं देवेषूत मानुषेषु । यद् ईशानो नयसि यच् च हंस्य् अस्माकम् अस्तु पितृषु स्वधावत्
वायव् आ रुन्धि नो मृगान् अस्मभ्यं मृगयद्भ्यः । स नो नेदिष्ठम् आ कृधि वातो हि रशनाकृतः
उद् असुर्य उद् उ यकृत् स्थाम गच्छतु ते पुनः । यतो निलयते यकृत् तत् प्रस्तम्भम् आजतु । मेमं पृथुप्रवर्तने जघनस्तम्भिनं करः
या पार्श्वे संतनोति हृदयं जिह्वया सह । तां त्वं देवि पृथिवि हिक्काम् अरसां कृधि
अनुसृप्ताम् इत्य् एका
प्र पतात इति द्वे
अहरहर् बलिम् इत्ये हरन्तो ऽश्वायेव तिष्ठते घासम् अग्ने । रायष्पोषेण सम् इषा मदन्तो ऽग्ने मा ते प्रतिवेशा रिषाम
रात्रिंरात्रिम् अप्रयामं भरन्तो ऽश्वायेव तिष्ठते घासम् अस्मै । रायस्पोषेण सम् इषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम
आग्न आयूंषि पवस्वा सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम्
त्रीण्य् आयूंषि तव जातवेदस् तिस्रो व्युष्टीर् उषसस् ते अग्ने । तिस्रस् ते तन्वो देवसंशितास् ताभिर् नः पाहि सदम् अप्रमादम्
पाहि नो अग्न एकया पाहि न उत द्वितीयया । पाहि गीर्भिस् तिसृभिर् ऊर्जांपते पाहि चतसृभिर् वसो
समीची माहनी पाताम् आयुष्मत्या ऋचो मा छित्सि । तनूपात् साम्नो वसुविदं लोकम् अनु चराणि
य ऋते चिद् इत्य् एका
भगेह्य् अर्वाङ् उप माम् इह त्वं मदो नामासि मयि मादयामुम् । सुरा त एकम् अभवज् जनित्रम् अग्नेर् अधि जातो ऽसि ब्रह्मणा तेजसा च
सहानया प्रविशेहान्तरा माम् । विशन्त्य् एहि प्रविशन्त्य् एह्य् आ मा विश प्र मा विश्- -ओप त्वा ह्वय उप मा ह्वयस्व । नरिष्टा नाम वा असि
यथापः प्रवता यन्ति यथा मासा अहर्जरम् । एवा मा ब्रह्मचारिणो धातर् आ यन्तु सर्वदा
आ गन्त मा रिषण्यत प्रस्तोतारो माप स्थात सुमन्यवः । दृढासो अमरिष्णवो मावपिष्यवः
धाता ते हस्तम् अग्रहीत् सविता हस्तम् अग्रहीत् । मित्रस् त्वम् असि धर्मण्- -अग्निर् आचार्यस् तव
अग्नेर् ब्रह्मचार्य् असि मम ब्रह्मचार्य् असि । प्रजापतिष् ट्वा गोपायतु देवाय त्वा सवित्रे परि ददामि स्वस्ति चरताद् इहासौ
विश्वम् असि विश्वपते सर्वम् असि सर्वपते । तं त्वासौ देवाय त्वा सवित्रे परि ददामि स्वस्ति चरतान् मयि
समाववर्त्ति विष्ठितो जिगीषुर् विश्वेषां कामश् चरताम् इहास्तु । विश्वा द्वेषांसि दुरिता हित्व्- -आ यन्त्व् अनुव्रता सवितुर् दैव्यस्य
आ नो हस्तो अकृतागात् स्वर्गः पुनर् ऐतु तन्वा संविदानः । प्राणेन तेजसा हरसा बलेन मित्रो अस्मान् वरुण उभयतस् पातु
यत् काम कामयमाना इदं कृण्मसि ते हविः । तन् नः सर्वं सम् ऋध्यताम् अथैतस्य हविषो वीहि स्वाहा
यद् वर्चो द्यावापृथिव्योर् अथो यद् आञ्जन त्वयि । तेन सुचक्षा वर्चस्य् अहं भूयासम् आञ्जन
यद्य् अस्पृषि श्लिष्टं यदि वा स्वप्नयानुश्लिष्टम् । आश्लिष्टावच्छेदनम् अस्य् अभिदृष्टवीर्यम्
अव वार् इव वारिवा अव वर्षं गिरेर् इव । अव ज्याम् इव धन्वनो हृदि श्लिष्टं छिनद्मि ते
यत् ते हृदि श्लिष्टं यच् च श्लिष्टं पुरीतति । मध्ये पृष्टीनां यच् छ्लिष्टं तत् पार्ष्ण्याव छिनद्मि ते
यत् ते श्लिष्टं क्लोम कर्णेषु यच् च शिश्ने सनाभ्याम् । इन्द्रस् तद् अब्रवीद् भिषक् पार्ष्णिर् आश्लिष्टावच्छेदनी
एषा वै दुःसहा नाम पार्ष्णिर् आश्लिष्टावच्छेदनी । इदम् अहम् अमुष्यामुष्यायणस्यामुष्याः पुत्रस्याश्लिष्टां प्र च्छिनद्मि
विपश्चित् पुच्छम् आभरत् तद् विष्णुः पुनर् आभरत् । तद् अग्निना मनसा संविदानं पुमांसम् अस्यै पुत्रं धेहि स्वाहा
विपश्चित् पुच्छम् आ भर यर्ज्जरहस्ता चित्त्या । यथास्याः पुत्रो जायता अभिभूर् णो विपश्चिता
अपेहीतो विपश्चित् त्वं पुमान् अयं जनिष्यते । पुमान् पुंसो अधि संभूतः स पुमान् एव जायताम्
भद्राय कर्णः क्रोशतु भद्रायाक्षि वि वेपताम् । परा दुष्वप्न्यं सुव यद् भद्रं तन् न आ सुव
अक्षिवेपं दुष्वप्न्यम् आर्तिं पुरुषरेषिणीम् । तद् अस्मद् अश्विना युवम् अप्रिये प्रति मुञ्चतम्
यत् पार्श्वाद् उरसो मे अङ्गादङ्गाद् अववेपते । अश्विना पुष्करस्रजा तस्मान् नः पातम् अंहसः
यदीद् अमृतकाम्याघं (· ·) रिप्रम् उपेयिम । अन्धश्रोण इव हीयतां मा नो न्व् आगाद् अघं यतः
अरिप्रा आपो अप रिप्रम् अस्मत् । यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस् तस्मिन् दुष्वप्न्यम् आ सृजामि
पयो मे क्लोम कर्णेषु पयो मे वीरुधो दधन् । पयो मे सृष्टा देवेषु पयो मे दधत्
अदर्शि गातुवित्तमो यस्मिन् व्रतान्य् आदधुः । उपो षु जातम् आर्यस्य वर्धनं सोमं गच्छन्तु नो गिरः
प्र दैवोदासो अग्निर् देवाꣳ अच्छा न मज्मना । अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य सानवि
यस्माद् रेजन्ति कृष्टयश् चर्कृत्यानि कृण्वतः । सहस्रसा मेधसाताव् इव त्मन्- -आग्निं धीभिर् दुवस्यत
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य संगथे
आ प्यायस्व मदिन्तम सोम विश्वेभिर् अंशुभिः । भवा नः सुम्नयुः सखा वृधे
सं ते पयांसि सम् उ यन्तु वजाः सं वृष्ण्यान्य् अभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवांस्य् उत्तमानि धिष्व
विद्म त्वा वयं सोमं राजानं ये त्वा न विदुः । तेषां चक्षुषा श्रोत्रेण प्राणेन प्रजया पशुभिर् गृहैर् धनेना प्यायस्व । एषा त ओषधीस् तया त्वम् आ प्यायस्व
आपीनो अस्मान् आप्यायच् चक्षुषा श्रोत्रेण प्राणेन प्रजया पशुभिर् गृहैर् धनेन
यद् वेद राजा वरुणो वेद देवो बृहस्पतिः । इन्द्रो यद् वृत्रहा वेद तत् सत्यं चित्तमोहनम्
शर्वेण नीलशिखण्डेन भवेन मरुतां पित्रा । विरूपाक्षेण बभ्रुणा वाचं वदिष्यतो हताः
एतद् यद् अन्यत्र जिगांसथ यद् अन्यत्र विवीषथ । तद् वश् चित्तम् अमूमुहं तद् वश् चित्तम् अनीनशम्
अस्ति वै पथां निष्कुटं नदीनां च निरङ्कशम् । तेन वश् चित्तम् अमूमुहं तेन वश् चित्तम् अनीनशम्
यानि वः सप्त चेतांस्य् अष्टौ यानि मनांसि च । तद् वश् चित्तम् अमूमुहं तद् वश् चित्तम् अनीनशम्
इन्द्रेण मेदिना युज्- -आग्निना जातवेदसा । तेन वश् चित्तम् अमूमुहं तेन वश् चित्तम् अनीनशम्
प्रतीचीनां वो अभ्य् अधाम् अश्वम् इवाश्वाभिधान्या । कृण्वे वो मामके वशे पदोर् उपानहौ यथा
देवानां संसद् असि देवानां यातुर् असि । यया तन्वा ब्रह्म जिन्वसि तया मा जिन्व
रोचे मा प्रकाशे मा कण्वा विदन् मा गमय । अनु मा बुध्यन्ताम्
वयः सुपर्णा उप सेदुर् इन्द्रं प्रियमेधा ऋषयो नाधमानाः । अप ध्वान्तम् ऊर्णुहि पूर्धि चक्षुर् मुमुग्ध्य् अस्मान् निधयेव बद्धान्
अप्सु जातस्य महतस् पर्य् अश्मनः । स्वयंजातस्य शोचिषो ऽद्भिः पर्वत नाशय
उत्तोदिनीं शिमिद्वती दुर्गयोनिर् व्यद्वराम् । मृगाꣳ अनु प्र पातय मरीचीर् अनु नाशय
अश्वस्यास्नः संपतिता पर्णे ते वसतिष् कृता । असृक् पतत्रिणाम् असि जहि वामून् प्र बाधम
असृक्तो अधि जातो ऽसि पर्णे ते सदनं कृतम् । आण्डं पतत्रिणाम् असि जहि वामून् प्र बाधम
यथा गर्दभो विवर्तनाद् विधूय विपलायते । एवासौ पलायताम् अमुष्माद् अध्य् आयतः
सनिर् असि सनितासि सनेयम्
कृतिर् असि कर्तासि क्रियासम्
वित्तिर् असि वेत्तासि विदेयम्
भूतिर् असि भूतासि भूयासम्
भूर् असि सुभूर् असि सुभूर् नामासि
प्रजापतेर् मध्यमः श्रेष्ठो रश्मिर् असि
भूतये त्वा वित्तये त्वा पशूनां त्वा वित्तय आ दधामि
अग्निर् वह्निर् वह्निर् अग्निः
इन्द्र आरोद्धा प्रजापतिः प्रदाता
बृहस्पतेस् त्वा मुखेन याचामि सूर्यस्य त्वा चक्षुषा प्रतीक्षे अदब्धेन त्वा चक्षुषावेक्षे
अयुतो ऽहम् अयुतो म आत्मा अयुतं मे चक्षुर् अयुतं मे श्रोत्रम् अयुतो मे प्राणो अयुतो मे ऽपानो अयुतो ऽहं सर्वः
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूत आ रभे
अग्नेष् ट्वास्येन प्राश्नामि बृहस्पतेर् मुखेन
इन्द्रस्य त्वा जठरे सादयामि वरुणस्योदरे
यो अग्निर् नृमणा नाम ब्राह्मणेषु प्रविष्टः
तस्मिन्न् एतत् सुहुतम् अस्तु प्राशितं तन् मा मा हिंसीः परमे व्योमन्
अनुवाक ९ ॥ वेद वै ते तक्मन् नाम विश्वसो नाम वा असि । असमरथो नाम ते पिता हार्षी नाम तक्मन् ते माता शिमिदा नाम ते स्वसा
गिरिं गच्छेति साप्तमिकी
असुरास् त्वोद् अव भरन् समुद्राद् अधि मायया । तद् आस्रावस्य भेषजं तद् उ रोगम् अनीनशत्
रोगस्थानम् असृक्स्थानम् अथो आस्रावभेषजम् । बभ्रोर् अश्वस्य वारेण्- -आपि नह्यामि ता अहम्
यन् मे दण्डो वापाति दीक्षया तपसा सह । तम् अहं पुनर् आ ददे पुनर् इन्द्रः पुनर् भगः । पुनर् मे ब्रह्मणस्पतिर् ब्रह्म जीवितवा अदात्
इत्थाद् उलूकाप तन्वन् उत्तानपादम् अर्भकः । स मे प्रेमाणम् आ वहद् अप द्वेषः परा वहत्
यथा बाणः सुसंशितः परापतत्य् आशुमत् । एवा मूत्रस्य ते धारा परा पतति केतुमत्
यथा मधु मधुकृतः संभरन्ति मधाव् अधि । एवा मे मधुमद् वचो देवेषु पुरुषेषु च
दीर्घायुत्वाय तपसे मह्या अरिष्टतातये । सुपर्णो मह्यम् अब्रवीद् एतद् उत्सक्तभेषजम् एतत् पुलिशभेषजम्
अग्नी रक्षांसीत्य् एका
पैशिर् माता पेशिः पिता पैशेयः पेश्या हतः । अद्धा कृतस्य ब्रह्मणा वृश्चिकस्यारसं विषम्
निर् ह्वयामि पर्णसादान् निर् उत् पुच्छाद् उ ते विषम् । भूमिस् त उच्यते माता तस्यै ते नम इत् सृज
किम् उ दन्त आमयति किम् अभूद् उपवेशनम् । आपो निर् अस्यता क्रिमिम् अगदे कृणुता हनू
यत्र भूम्या अनामृतं दिवि चन्द्रमसि श्रितम् । विद्वाꣳ अहं तत्र मन्ये माहं पौत्रम् अघं नि गाम्
यत् ते सुसीमे हृदयम् अदो वै तत् प्रजापतौ । वेदाम तस्य ते वयं (माहं पौत्रम् अघं नि गाम्)
यत् सुवर्णाया हृदयं पृथिव्याम् अधि निष्ठितम् । वेदाहं तस्यास् तन् नाम (माहं पौत्रम् अघं नि गाम्)
अग्नेर् हृदयम् असि विद्युत् तत् त्वा तथा वेद । माहं पौत्रम् अघं नि गाम्
प्रजा इमे प्रजापत इन्द्राग्नी शर्म यच्छतम् । यथाहं ज्योग् इहासानि प्रजानाम् अधिपा वशी
यां प्रजाम् अविदाम् अद्य्- -आत्मनः परिनिर्मिताम् । आयुष्मतीं तनूकृतां ताꣳ अग्ने जरसे नय
इन्द्र इवासानि सासहिर् अग्निर् इव ज्योतिषा बृहन् । सूर्य इव विश्वतः प्रत्यक् समुद्र इव दुष्टरः
ऋचं साम यद् अप्राक्षं हविर् ओजो यजुर् बलम् । एतं मा तस्मान् मा हिंसीद् वेदः पृष्टः शचीपते
उद् भरे द्यावापृथिवी सहौषधीभिः । गृह्णामि प्रजां निर् अपः सृजामि
मा न आपो मेधां मा ब्रह्म प्र मथिष्टन । सुष्यदा यूयं स्यन्दध्वम् उपहूतो ऽहं सुमेधा वर्चस्वी
मा नो मेधां मा नो दीक्षां मा नो हिंसिष्ट यत् तपः । शिवा नः सर्व आयुष आपो भवन्तु मातरः
इह प्रजा विश्वरूपा रमन्ताम् अस्मिन् गोष्ठे विश्वभृतो जनित्रीः । अग्निं कुलायम् उप संविशन्तीर् जानन्तु नः पयसा घृतेन
रन्तय स्थ रमतय स्थ मयि श्रित स्थ मयि श्रयध्वम् । मनोता नाम स्थ ग्राम्या अप्सरसो वेद वो वित्तम् आ मा विशत
शर्व नीलशिखण्ड वीर कर्मणिकर्मणि । इमाम् अस्य प्राशं जहि येनेदं विवदामहे
तृतीयकं वितृतीयं सदन्दिं तक्मानम् उत राजयक्ष्मम् । यथा शक्र उन्मुमोच तृतीयकम् एवाहं तद् उन् मुञ्चामि तृतीयकं तम् अस्याम् ओषध्यां बध्नामि
आध्वस्तपक्ष्णे बृहते पथे ऽहम् अकरं नमः
इन्द्राय त्विषीमते पथे ऽहम् अकरं नमः
व्याघ्रायोभयादते पथे ऽहम् अकरं नमः
नमस् ते पथ्ये रेवति स्वस्ति मा परा णय स्वस्ति पुनर् आ नय । अथो स्वस्ति नस् कृधि जीवा ज्योतिर् अशीमहि
आमनसं यजामहे सत्यप्राशं पुरोहितम् । तं देवं प्रथमं यजे यो ऽमुम् आमनसं करत्
आमनस्क देवक्- -आरोरुवत्क देवक । अर्वाग् अवस्तरं कृधि यम् अहं कामये प्रियम्
अयं नो अग्निर् अध्यक्षो अयं नो वसुवित्तमः । अस्योपसद्ये मा रिषाम्- -आयं रक्षतु नः प्रजाम्
अस्मिन् सहस्रं पुष्यास्म्- -ऐधमानाः स्वे गृहे । इमं सम् इन्धिषीमह्य् आयुष्मन्तः सुवर्चसः
शुद्धवाला कृष्णफला कब्रूर् बलासभेषजी । शुक्तिवल्गस्य नाशनी देवी ददातु भेषजम्
अश्वत्थो देवसदनस् तृतीयस्याम् इतो दिवि । तत्र लोहितवृक्षो जातः शिग्रुः क्षिप्तभेषजः
न तत्र भवो हन्ति न शर्व इषुम् अस्यति । यत्र त्वं देव तुम्बुरो पर्वतेषु विरोहसि
कृष्याम् अन्यो वि रोहति गिरेर् अन्यो ऽधि पक्षसि । त्रातारौ शश्वताम् इमाव् आ गन्तां शिग्रुतुम्बुरू
यावत् पर्णं यावत् फलं यावन्तो अध्यृक्षराः । तावन्तः शुष्मास् तुम्बुरोस् तद् उ ते विषदूषणम्
रुद्र जलाषभेषज्- -एमं रोगम् अशीसमो जलाणिति
अस्थाद् द्यौर् अस्थात् पृथिव्य् अस्थाद् इदम् उर्व् अन्तरिक्षम् । ऋषभस्येव कनिक्लदतो हृदयं शमयामि ते
सं मा सिञ्चन्तु मरुतः सं मासौ रोहिणी दिवः । सं मायम् अग्निः सिञ्चतु प्रजया च धनेन च दीर्घम् आयुष् कृणोतु मे
नक्तं हरी मृगयेते दिवा सुपर्णरोहितौ । भवाय च शर्वाय च्- -ओभाभ्याम् अकरं नमः
नमो भवाय नमः शर्वाय नमः कुमारशत्रवे । नमो नीलशिखण्डाय नमः सभाप्रपादिने
यस्य हरी अश्वतरौ गर्दभाव् अभितःसरौ । तस्मै नीलशिखण्डाय नमः सभाप्रपादिने
असाव् एति शिशुमारो असाव् एति पुलीकया । कुमारशत्रो व रोह्- -ओदकं परिवाचनम्
यथेदम् अभ्रम् अर्भकं पर्जन्याद् अप शीयते । एवा मे अश्विना मुखाद् अभील्य् अप शीयताम्
अभीलि नश्येतः परस् त्वचं मे माभि मिम्लपः । अगस्त्यस्य ब्रह्मण्- -आभीलीं नाशयामसि
सेसिचाम् उपत्वचां नाशय्- -आ पुरुरूपाद् अभील्यं मुखात्
यन् मे कृताद् अप्रियाद् आरुरोह मलं मुखम् । अपां वात इव शीपालं सूर्यस् तद् अप लुम्पतु
अप मे ऽभीली पतत्व् अभ्रं वातहृतं यथा । आ मा सुवर्णं गच्छतु सुभागम् अस्तु मे मुखम्
यथा सूर्यस्योपोदये हिरण्यं प्रतिरोचते । एवा मे अश्विना मुखं सुवर्णं प्रति रोचताम्
प्र यद् गावो न भूर्णयस् त्वेषा वयांस्य् अक्रमन् । घ्नन्तु कृष्णाम् अप त्वचं सुभागम् अस्तु मे मुखम्
इन्द्रेण प्रेषित उलूका सं पचामि ते
सोमेन प्रेषित उलूका सं पचामि ते
सूर्येण प्रेषित उलूका सं पचामि ते
बृहस्पतिना प्रेषित उलूकासं पचामि ते
प्रजापतिना प्रेषित उलूकासं पचामि ते
ग्राह्या दूतो ऽस्य् उलूका सं पचामि ते
निरृत्या दूतो ऽस्य् उलूका सं पचामि ते
वरुणस्य दूतो ऽस्य् उलूका सं पचामि ते
मृत्योर् दूतो ऽस्य् उलूका सं पचामि ते
यमस्य दूतो ऽस्य् उलूका सं पचामि ते
राजा त्वा वरुणो ऽखनद् दत्तां सोमेन बभ्रुणा । तां त्वा विद्म प्रतापिकां प्रामुष्य हृदयं तप
शोचयैनं प्रतपैनं सम् एनं तक्मना सृज । यथास्य दह्यमानस्य्- -आग्निः पर्वाण्य् अन्व् अयद् । हृदयं प्रेवलिज्जयाद् अक्ष्यौ कामेन शोचयान् मुहूर्तं माम् अपश्यतः
अयम् इत् त्वाग्निर् आ नयाद् वातस् त्वात उद् यमात् । यं त्वम् एनं नि वर्तय्- -आसौ हा इह ते मनः
अग्निष् ट्वा तपतु सूर्यस् त्वा तपतु वातस् त्वा युङ्क्तां मरुतश् च युञ्जताम् । अर्वाङ् एहि समटमानो मरीचिभिः
वृहामि ते लोमान्य् अङ्गेभ्यः पचामि मांसं ज्वलयाम्य् अस्थि । इह ते रमतां मनो मयि ते रमतां मनः
अयं पिण्डः कर्करपिण्डः स्मरः पाञ्चलः संतपनः करंकरः । अमुष्य हृदयं तपो यम् अहं कामये प्रियम्
यथायम् अग्निस् तपति यथा तपति सूर्यः । एवा ते तप्यतां मनो हृदयम् अङ्गमङ्गं परुष्परुर् मां कामेन न रमासा अत्र
यथा तपति परशुं यथा वासिनखादनम् । यथा सूर्य उद्यन् सर्वं संतपति । एवा ते तप्यतां मनो हृदयम् अङ्गमङ्गं परुष्परुर् मां कामेन न रमासा अत्र
सं त्वा द्यौश् च पृथिवी च तपतां मां कामेन न रमासा अत्र
स्मर है स्मरताद् अमुम् अङ्गज्वरेणोच्छोचनीनाम् । तक्मनैनं सं सृज विश्वशारदेन मम कामेन
अष्टाशीतिं सहस्राण्य् अत्य् अवादीद् वचो मम । इहारे ऽहम् अवादिषम् अत्रारे प्रायस्य् अस्तम्
यं सुमित्रः सुमित्रायै चक्रे ऽवासा स्मरम् । यथा सा तस्य कामेन न सुष्वाप कदा चन । एवासौ मम कामेन माव स्वाप्सीत् कदा चन
पर्य् अग्निर् आपस् तपति परि द्याम् एति सूर्यः । परि त्वाम् इन्द्रो वृत्रहा मह्यं तपतु सर्वतः
यथा वातो न्यावाति यथा तपति सूर्यः । एवा त्वम् इन्द्र वृत्रहन्न् अमुं मह्यम् इहा नय
शालालवं संवननं वनाद् वननम् आभृतम् । येन गयो गन्धर्वो अप्सरसां समवानयत् । तेनाहम् अमुं मयि वानयाम्य् आ मृत्योर् आ परावतः
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ṚṢIS). Atharvaveda Paippalāda — Kāṇḍa 20. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-20>. Acesso em: 26/04/2026.
Tradição Védica (Ṛṣis) (2026). Atharvaveda Paippalāda — Kāṇḍa 20. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-20
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 20." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-20.