Atharvaveda Paippalāda — Kāṇḍa 3
Tradição Védica (Ṛṣis)
अनुवाक १८ ॥ काण्ड ३ आ त्वागन् राष्ट्रं सह वर्चसोद् इहि प्राङ् विशां पतिर् एकराट् त्वं वि राज । सर्वास् त्वा राजन् प्रदिशो ह्वयन्तु- -उपसद्यो नमस्यो भवेह
त्वां विशो वृणतं राज्याय त्वाम् इमाः प्रदिशः पञ्च देवीः । वर्ष्मन् राष्ट्रस्य ककुदि श्रयस्व- -अतो वसूनि वि भजास्य् उग्रः
अच्छ त्वा यन्तु हविनः सजाता अग्निर् दूतो अजिरः सन्तुरातिः । जायाः पुत्राः सुमनसो भवन्तु बहुं बलिं प्रति पश्यासा उग्रः
अश्विना त्वाग्रे मित्रावरुणोभा विश्वे देवा मरुतस् त्वा ह्वयन्तु । सजातानां मध्यमेष्ठा इह स्याः स्वे क्षेत्रे सवितेव वि राज
आ प्र द्रव परमस्याः परावतः शिवे ते द्यावापृथिवी अभूताम् । तद् अयं राजा वरुणस् तथाह स त्वायम् अह्वत् स इहेदम् एहि
इन्द्रेन्द्रं मनुष्यः परेहि सं यज्ञियास् त्वा वरुणेन संविदानः । स त्वायम् अह्वत् स्वे सधस्थे स देवान् यक्षत् स उ कल्पयाद् विशः
पथ्या रेवतीर् बहुधा विरूपाः सर्वाः सङ्गत्य वरिवस् ते अक्रन् । तास् त्वा सर्वाः संविदाना ह्वयन्तु दशमीम् उग्रः सुमना वशेह
यद् अजिरेण हविषा- -अव त्वा गमयामसि । अत्रात इन्द्रः केवलीर् विशो बलिहृतस् करत्
हरिणस्य रघुष्यदो ऽधि शीर्षणि भेषजम् । सुक्षेत्रियं विषाणयाद् विसूचीनम् अनीनशत्
अनु त्वा हरिणो वृषा पद्भिश् चतुर्भिर् अक्रमीत् । विषाणे वि ष्य गुष्पितं यत् किं च क्षेत्रियं हृदि
अदो यद् अवरोचते चतुष्पक्षम् इव च्छदिः । तेन ते सर्वं क्षेत्रियम् अङ्गेभ्यो नाशयामसि
उद् अगातां भगवती विचृतौ नाम तारके । वि क्षेत्रियस्य मुञ्चताम् अधमं पाशम् उत्तमम्
यद् आसुतेः क्रियमाणायाः क्षेत्रियं त्वा व्यानशे । वेदाहं तस्य भेषजं क्षेत्रियं नाशयामि ते
अपवासे नक्षत्राणाम् अपवास उतोषसाम् । अपास्मत् सर्वम् आमयद् अप क्षेत्रियम् अक्रमीत्
आप इद् वा उ भेषजीर् आपो अमीवचातनीः । आपो विश्वस्य भेषजीस् तास् त्वा मुञ्चन्तु क्षेत्रियात्
पुमान् पुंसः परिजातो ऽश्वत्थः खदिराद् अधि । स हन्तु शत्रून् मामकान् यांश् चाहं द्वेष्मि ये च माम्
तान् अश्वत्थ निः शृणीहि शत्रून् वैबाध दोधतः । इन्द्रेण वृत्रघ्ना मेह्य् अग्निना वरुणेन च
यथाश्वत्थ निःशृणासि पूर्वान् जातान् उतापरान् । एवा पृतन्यतस् त्वम् अभि तिष्ठ सहस्व च
यथाश्वत्थ विभिनत्स्य् अन्तर् महत्य् अर्णवे । एवा मे शत्रोश् चित्तानि विष्वग् भिन्धि सहस्व च
यः सहमानश् चरसि सासहान इव र्षभः । तेनाश्वत्थ त्वया वयं सपत्नान् सहिषीमहि
सिनात्व् एनान् निरृतिर् मृत्योः पाशैर् अमोक्यैः । अश्वत्थ शत्रून् मामकान् यांश् चाहं द्वेष्मि ये च माम्
अधराञ्चः प्र प्लवन्तां छिन्ना नौर् इव बन्धनात् । न निर् बाध प्रणुत्तानां पुनर् अस्ति निवर्तनम्
प्रैणान् नुदामि मनसा प्र चित्तेन प्र ब्रह्मणा । प्रैणान् वृक्षस्य शाखय- -अश्वत्थस्य नुदामसि
यद् अदः संप्रयतीर् अहावनदता हते । तस्माद् आ नद्यो नाम स्थ ता वो नामानि सिन्धवः
यत् प्रेषिता वरुणेन- -आच् छीभं समवल्गत । तद् आप्नोद् इन्द्रो वो यतीस् तस्माद् आपो अनु ष्ठन
अपकामं स्यन्दमाना अवीवरत वो हिकम् । इन्द्रो वः शक्तिभिर् देवीस् तस्माद् वार् णाम वो हिकम्
एको वो देव उपातिष्ठत् स्यन्दमाना उपेत्य । उदानिषुर् महीर् इति तस्माद् उदकम् उच्यध्वे
आपो देवीर् घृतम् इद् आप आहुर् अग्नीषोमौ बिभ्रत्य् आप इत् ताः । तीव्रो रसो मधुपृचाम् अरङ्गम आ मा प्राणेन सह वर्चसागन्
आद् इत् पश्याम्य् उत वा शृणोम्य् आ मा घोषो गच्छति वाङ् मासाम् । मेने भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदापः
अग्निर् नो दूतः प्रत्य् एतु शत्रून् प्रतिदहन्न् अभिशस्तिम् अरातिम् । स चित्तानि मोहयतु परेषां निहस्तांश् च कृणवज् जातवेदाः
अयम् अग्निर् अमूमुहद् यानि चित्तानि वो हृदि । वि वो धमात्य् ओकसः प्र वो धमाति सर्वतः
इन्द्र चित्तानि मोहय- -अर्वाग् आकूत्या अधि । अग्नेर् वातस्य ध्राज्या तान् विषूचो वि नाशय
व्य् एषाम् आकूतय इत- -अथो चित्तानि मुह्यत । अथो यद् अद्यैषां हृदि तद् एषां परि निर् जहि
अमीषां चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्य् अप्वे परेहि । अभि प्रेहि निर् दह हृत्सु शोकैर् ग्राह्यामित्रांस् तमसा विध्य शत्रून्
असौ या सेना मरुतः परेषाम् अस्मान् अभ्य् ऐत्य् ओजसा स्पर्धमाना । तां गुहत तमसापव्रतेन यथैषाम् अन्यो अन्यं न जानात्
अनुवाक १ ॥ अग्निर् नो विद्वान् प्रत्य् एतु शत्रून् प्रतिदहन्न् अभिशस्तिम् अरातिम् । स सेनां मोहयतु परेषां निहस्तांश् च कृणवज् जातवेदाः
यूयम् उग्रा मरुत ईदृशे स्थ- -अभि प्रेत मृडत सहध्वम् । अमीमृडन् वसवो नाथितेभ्यो +ऽग्निर् ह्य् एषां विद्वान् प्रत्य् एतु शत्रून्
अमित्रसेनां मघवन्न् अस्माञ् छत्रूयताम् अभि । युवं तान् इन्द्र वृत्रहन्न् अग्निश् च दहतं प्रति
प्रसूत इन्द्रः प्रवता हरिभ्यां प्र ते वज्रः प्र मृणन्न् एतु शत्रून् । जहि प्रतीचो अनूचः पराचो विश्वं हि रिष्टं कृणुहि सत्यम् एषाम्
सेनामोहनं कृण्व् इन्द्रामित्रेभ्यस् त्वम् । अग्नेर् वातस्य ध्राज्या तान् विषूचो वि नाशय
इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्व् ओजसा । चक्षूंष्य् अग्निर् आ दत्तां पुनर् एतु पराजिताम्
एकशतं विष्कन्धानि विष्ठिता पृथिवीम् अनु । तेषां तु सर्वेषाम् इदम् अस्तु विष्कन्धदूषणम्
कर्षफस्य विशफस्य द्यौष्पिता पृथिवी माता । यथाभिचक्र देवास् तथापि कृणुता पुनः
अश्लेष्माणो अधारयन् तथा तन् मनुना कृतम् । कृणोमि वध्रि विष्कन्धं मुष्काबर्हो गवाम् इव
सूत्रे पिशङ्गे खृगलं यद् आबध्नन्ति वेधसः । श्रवस्यं शुष्मं काबवं वध्रिं कृण्वन्तु बन्धुरः
येना श्रवस्यो चरथ देवा इवासुरमायया । शुनां कपिर् इव दूषणो बन्धुरा काबवस्य च
दुष्ट्यै हि त्वा भन्त्स्यामि दूषयित्वा काबवम् । उद् आशवो रथा इव शपथेभिः सरिष्यथ
यमस्य लोकाद् अध्य् आ बभूविथ प्रमदा मर्तान् प्र युनक्षुधीरः । एकाकिना सरथं यासि विद्वान् स्वप्न मिमानो असुरस्य योनौ
बम्बस् त्वाग्रे विश्ववयापश्यत् पुरा रात्र्या जनितोर् एके अह्नि । ततः स्वप्नेदम् अध्य् आ बभूविथ विष्वङ्वरूपम् अपगूहमानः
बृहन् ग्रावासुरेभ्यो ऽधि देवान् उपाववर्त महिमानम् इच्छन् । तस्मै स्वप्नाय दधुर् आधिपत्यं त्रयस्त्रिंशासः स्वर् आनशानाः
नैतां विदुः पितरो नोत देवा यैषा जल्पिश् चरत्य् अन्तरेदम् । त्रिते स्वप्नम् अदधुर् आप्त्ये नर आदित्यासो वरुणेनानुशिष्टाः
व्य् अस्य क्रूरम् अभि यन्तु दुष्कृतो ऽस्वप्नेन सुकृतः पुण्यम् आयुः । स्वर् मदसि परमेण बन्धुना तप्यमानस्य मनसो ऽधि जज्ञिषे
विद्म ते सर्वाः परिजाः पुरस्ताद् विद्म स्वप्न यो अधिपा इहो ते । यशस्विनो नो यशसेह पाह्य् आराद् द्विषेभिर् अप याहि दूरम्
अम्बाः सुमुखाः सृजत पद्वत् सृजत सत्यज्ञेयम् । सृजाम्य् अहं दूतान् अस्मै विषाय हन्तवे । वार् उग्रम् अरसं विषम् आहेयम् अरसं विषं निर्विषम्
इन्द्रम् अहम् इह हुवे सोमपाम् उभयाविनम् अस्मै विषाय हन्तवे । वार् उग्रम् अरसं विषम् आहेयम् अरसं विषं निर्विषम्
वरुणम् अहम् इह हुव उग्रं राजन्यैः सह- -अस्मै विषाय हन्तवे । वार् उग्रम् अरसं विषम् आहेयम् अरसं विषं निर्विषम्
अदितिम् अहम् इह हुवे सूरपुत्रां कनीनिकाम् अस्मै विषाय हन्तवे । वार् उग्रम् अरसं विषम् आहेयम् अरसं विषं निर्विषम्
बृहस्पतिम् अहम् इह हुवे यो देवानां पुरोहितो ऽस्मै विषाय हन्तवे । वार् उग्रम् अरसं विषम् आहेयम् अरसं विषं निर्विषम्
आणाश्चाणाश् चण्डामर्का अस्मै विषाय हन्तवे । वार् उग्रम् अरसं विषम् आहेयम् अरसं विषं निर्विषम्
नवानां नवतीनां विषस्य रोपुषीणाम् । सर्वासाम् अग्रभं नाम वीतापेतारसं विषम्
मृत्युर् एको यम एकः शर्व एकः शरुर् भवः । ते नः कृण्वन्तु भेषजं देवसेनाभ्यस् परि
पुनर् नो यमः पितृभिर् ददातु पुनर् मित्रावरुणा वातो अग्निः । अघमारो अघशंसः पुनर् दात् पुनर् नो देवी निरृतिर् ददातु
या देवैः प्रहितेषुः पतात् तपसे वा महसे वावसृष्टा । सोमस् त्वाम् अस्मद् यावयतु विद्वान् पितरो वा देवहुता नृचक्षसः
सहस्राक्षो अमर्त्यः पुरुरूप इहावतु । सख्ये त उग्र मा रिषं सहगुः सहपूरुषः
यस् ते मन्युः सहस्राक्ष विषेण परिषिच्यते । तेन त्वम् अस्मभ्यं मृड शिवो नः शम्भुर् आ चर
मा ते मयौ सहस्राक्ष भामे भून् मामकं जगत् । यो नो द्वेष्टि तं गच्छ यं द्विष्मस् तं जहि
अनुवाक २ ॥ ये स्थास्यां प्राच्यां दिशि हेतयो नाम देवास् तेषां वो अग्निर् इषवः । ते नो मृडत ते नो ऽधि ब्रूत तेभ्यो नमस् तेभ्यः स्वाहा
ये स्थास्यां दक्षिणायां दिश्य् अविष्यवो नाम देवास् तेषं व आप इषवः । ते नो मृडत ते नो ऽधि ब्रूत तेभ्यो नमस् तेभ्यः स्वाहा
ये स्थास्यां प्रतीच्यां दिशि विराजो नाम देवास् तेषं वः काम इषवः । ते नो मृडत ते नो ऽधि ब्रूत तेभ्यो नमस् तेभ्यः स्वाहा
ये स्थास्याम् उदीच्यां दिशि प्रविध्यन्तो नाम देवास् तेषं वो वात इषवः । ते नो मृडत ते नो ऽधि ब्रूत तेभ्यो नमस् तेभ्यः स्वाहा
ये स्थास्यां ध्रुवायां दिशि विलिम्पा नाम देवास् तेषं वो ऽन्नम् इषवः । ते नो मृडत ते नो ऽधि ब्रूत तेभ्यो नमस् तेभ्यः स्वाहा
ये स्थास्याम् ऊर्ध्वायां दिश्य् अविष्यन्तो नाम देवास् तेषं वो वर्षम् इषवः । ते नो मृडत ते नो ऽधि ब्रूत तेभ्यो नमस् तेभ्यः स्वाहा
यो अप्स्व् अन्तर् यो वृत्रे अन्तर् यः पुरुषे यो अश्मनि । य आविवेशौषधीर् यो वनस्पतींस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत्
यः सोमे अन्तर् य उ गोष्व् अन्तर् य आविष्टो वयसि यो मृगेषु । य आविवेश द्विपदो यश् चतुष्पदस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत्
य इन्द्रेण सरथं संबभूव वैश्वानर उत विश्वदाव्यः । यं जोहवीमि पृतनासुषासहिं तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत्
यो देवो विश्वाद् यम् उ कामम् आहुर् यं दातारं प्रतिगृह्णन्तम् आहुः । यो धीरः शक्रः परिभूर् अदाभ्यस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत्
यं त्वा होतारं मनसाभिसंविदुस् त्रयोदश भौवनाः पञ्च मानवाः । वर्चोधसे यशसे सूनृतावते तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत्
उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । वैश्वानरस्य ज्येष्ठेभ्यस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत्
दिवं पृथिवीम् अन्तरिक्षं ये विद्युतम् अनुसंचरन्ति । ये दिक्ष्व् अन्तर् य उ वाते अन्तस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत्
बृहस्पतिं वरुणं मित्रम् अग्निं हिरण्यपाणिं सवितारम् इन्द्रम् । विश्वान् देवान् अङ्गिरसो हवामह इमं क्रव्यादं शमयन्त्व् अग्निम्
शान्तो अग्निः क्रव्याद् अथो पुरुषरेषणः । अथो यो विश्वदाव्यस् तं क्रव्यादम् अशीशमम्
आयम् अगन् पर्णमणिर् बली बलेन प्रमृणन् सपत्नान् । ओजो देवानां पय ओषधीनां मयि राष्ट्रं जिन्वत्व् अप्रयुच्छन्
मयि राष्ट्रं पर्णमणे मयि धारया श्रियम् । अहं राष्ट्रस्याभीवर्गे युजा भूयासम् उत्तरः
यं निदधुर् वनस्पतौ वाजं देवाः प्रियं निधिम् । तं म इन्द्रः सहायुषा मणिं दधातु भर्तवे
सोमस्य पर्णः सह उग्रम् आगन्न् इन्द्रेण दत्तो वरुणेन सख्या । तम् अहं बिभर्मि बहु रोचमानो दीर्घायुत्वाय शतशारदाय
आ मा रुक्षत् पर्णमणिर् मह्या अरिष्टतातये । यथाहम् उत्तरो ऽसानि मानुष्या अधि सम्पदः
पुनर् मैत्व् इन्द्रियं पुनर् आत्मा द्रविणं ब्राह्मणं च । पुनर् अग्नयो धिष्ण्यासो यथास्थाम कल्पयन्ताम् इहैव
ये तक्षाणो रथकाराः कर्मारा ये मनीषिणः । सर्वांस् तान् पर्ण रन्धय- -उपस्तिं कृणु मे जनम्
उपस्तिर् अस्तु वैश्य उत शूद्र उतार्यः । सर्वांस् तान् पर्ण रन्धय- -उपस्तिं कृणु मे जनम्
येन वेहद् बभूविथ नाशयामसि तद् वयम् । इदं तद् अन्यत्र त्वद् अप दूरे नि दध्मसि
आ ते गर्भो योनिम् एतु पुमान् वाण इवेषुधिम् । आ वीरो ऽत्र जायतां पुत्रस् ते दशमास्यः
पुमांसं पुत्रं जनय तं पुमान् अनु जायताम् । भवासि पुत्राणां माता जातानां जनयासि च
यानि भद्राणि बीजान्य् ऋषभा जनयन्ति । तैस् त्वं पुत्रं विन्दस्व सा प्रसूर् धेनुका भव
कृणोमि ते प्रजापत्यम् आ गर्भो योनिम् एतु ते । विन्दस्व पुत्रं नारि यस् तुभ्यं शम् असच् छम् उ तस्मै त्वं भव
यासां पिता पर्जन्यो भूमिर् माता बभूव । तास् त्वा पुत्रविद्याय देवीः प्रावन्त्व् ओषधीः
यस् ते योनिम् उदिङ्गयाद् ऋषभो रेतसा सह । स त आ सिञ्चतु प्रजां दीर्घायुं शतशारदाम्
यां त्वा वातोवरयद् आर्द्रनाभा महर्षभः । तस्यास् ते विश्वधायसो विषदूषणम् उद् भरे
यां त्वा वराहो अखनद् एकस्मिन्न् अधि पुष्करे । तस्यास् ते विश्वधायसो विषदूषणम् उद् भरे
यां त्वादितिर् अवपद् बीजवापम् अधि पुष्करे । तस्यास् ते विश्वधायसो विषदूषणम् उद् भरे
यस्याः कुलायं सलिले अन्तर् महत्य् अर्णवे । तस्यास् ते विश्वधायसो विषदूषणम् उद् भरे
उत् ते भर उत्तमाया अधमायास् त उद् भरे । उन् मध्यमान् मध्यमे तद् विषदूषणम् उद् भरे
अग्रभं सम् अग्रभम् उभावन्तौ सम् अग्रभम् । दिवश् च पृथिव्याश् च विषदूषणम् उद् भरे
अनुवाक ३ ॥ पैद्वो ऽसि पृतनायुः स्वाहा ॥सोमम् अहिंसीः सोमहिंसितो ऽसि स्वाहा ॥ब्राह्मणम् अहिंसीर् ब्रह्महिंसितो ऽसि स्वाहा ॥ नाभूद् अहिर् भ्रूणम् आरद् अहिर् अद्रिम् अरसावधीत् । विषस्य ब्रह्मणामासीत् ततो जीवन् न मोक्षसे
उष्टो ऽहिः समुष्टो *ऽहिर् निर्धीतो अरसः कृतः । विषस्य ब्रह्मणामासीत् ततो जीवन् न मोक्षसे
पुनर् ददामि ते विषं पूर्वपद्यम् इद् आरिथ । मां ददश्वान् मन्यसे मया दष्टो न मोक्षसे
एकशतं भेषजानि तेषां मातास्य् ओषधे । समुद्रम् अव गच्छसि पृथिव्याम् अधि निष्ठिता
तस्यां वेदाधि भेषजं दशशीर्षो दशजिह्वः । यस् ते प्रथम आददे शं श्वावन्त ओषधे यम् अदाद् वीरयुग् भिषक्
पुनश् चक्षुः पुनः प्राणः पुनर् आयुर् न आगमत् । निष् ट्वाकरं निष्कृत्या निष् ट्वा निष्कृत्याकरम्
मुञ्चामि त्वा शपथ्याद् अथो वरुण्याद् उत । अथो यमस्य पड्वीशाद् विश्वस्माद् देवकिल्बिषात्
सं ते शीर्ष्णः कपालानि हृदयस्य च यो विदुः । उद्यन् सूर्य आदित्यो अङ्गद्योतम् अनीनशत्
हिमवतः प्र स्रवथ सिन्धौ समह सङ्गमः । ता आपः सर्वाः सङ्गत्य चक्षुः प्राणं च धत्त नः
हस्तिवर्चसं प्रथतां बृहद् यशो अदित्या यत् तन्वः संबभूव । तत् सर्वे सवितुर् मह्यम् एतद् विश्वे देवासो अदितिः सजोषाः
मित्रश् च वरुणश् च- -इन्द्रो रुद्रश् च वेधतु । देवासो विश्वधायसस् तेन माञ्जन्तु वर्चसा
यत् ते वर्चो जातवेदो बृहद् भवत्य् आहुते । तेन माम् अद्य वर्चसा अग्ने वर्चस्विनं कृधि
येन हस्ती वर्चसा संबभूव येन राजा मनुष्येष्व् अन्तः । येन देवा ज्योतिषा द्याम् उदायन् तेन माग्ने वर्चसा सं सृजेह
यावद् वर्चः सूर्यस्य- -असुरस्य च हस्तिनः । तावन् मे अश्विना वर्चः कृणुतं पुष्करस्रजा
यावच् चतस्रः प्रदिशश् चक्षुर् यावत् समश्नुते । तावत् सम् ऐत्व् इन्द्रियं मयि तद् धस्तिवर्चसम्
संशितं म इदं ब्रह्म संशितं वीर्यं मम । संशितं क्षत्रं मे जिष्णु येषाम् अस्मि पुरोहितः
सम् अहम् एषां राष्ट्रं श्यामि सम् ओजो वीर्यं बलम् । वृश्चामि शत्रूणां बाहू सं श्यामि स्वान् अहम्
तेक्ष्णीयांसः पर्शोर् अग्नेस् तीक्ष्णतरा उत । इन्द्रस्य वज्रात् तेक्ष्णियांसो येषाम् अस्मि पुरोहितः
अधस् पद्यन्ताम् अधरे भवन्तु ये न इन्द्रं मघवानं पृतन्यान् । क्षणामि ब्रह्मणामित्रान् उन् नयामि स्वान् अहम्
एषाम् अहम् आयुधा सं श्याम्य् एषां राष्ट्रं सुवीरं वर्धयामि । एषां क्षत्रम् अजरम् अस्तु जिष्णु- -उग्रम् एषां चित्तं विश्वे वन्तु देवाः
अभि प्रेत जयत प्रसूताः सं वः श्यामि नर आयुधानि । तीक्ष्णेषवो बलधन्वनो हत- -उग्रायुधा अबलान् उग्रबाहवः
इहैव ध्रुवां नि मिनोमि शालां क्षेमे तिष्ठाति घृतम् उक्षमाणा । तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा अभि सं चरेम
इहैव ध्रुवा प्रति तिष्ठ शाले अश्वावती गोमती सूनृतावती । ऊर्जस्वती घृतवती पयस्वत्य् उच् छ्रयस्व महते सौभगाय
धरुण्य् असि शाले बृहच्छन्दाः पूतिधान्या । आ त्वा वत्सो मीमयद् आ कुमार आ धेनवः सायम् आ स्यन्दमानाः
इमां शालां सविता वायुर् अग्निस् त्वष्टा होता नि मिनोतु प्रजानन् । उक्षन्तूध्ना मरुतो घृतेन भगो नो राजा नि कृषिं तनोतु
मानस्य पत्नी शरणा स्योना देवी देवेभिर् निमितास्य् अग्रे । तृणं वसाना सुमना असस् त्वं रयिं नो धेहि सुभगे सुवीरम्
आ त्वा कुमारस् तरुण आ वत्सो जगता सह । आ त्वा परिश्रुतः कुम्भ आ दध्नः कलश्य् अयत्
अनुवाक ४ ॥ इमम् इन्द्र वर्धय क्षत्रियं म इमं विशाम् एकवृषं कृणु त्वम् । निर् अमित्रान् अक्ष्णुह्य् अस्य सर्वांस् तान् रन्धयास्मा अहमुत्तरेषु
अयम् अस्तु धनपतिर् धनानाम् अयं विशां विश्पतिर् अस्तु राजा । अस्मिन्न् इन्द्र महि वर्चांसि धेह्य् अवर्चसं कृणुहि शत्रुम् अस्य
एमं भज ग्रामे अश्वेषु गोषु निष्टं भज यो ऽमित्रो अस्य । वर्ष्मत् क्षत्राणाम् अयम् अस्तु राजा- -इन्द्र शत्रूं रन्धय सर्वम् अस्मै
अस्मै द्यावापृथिवी भूरि वामं सं दुहातां घर्मदुघे इव धेनुम् । अयं राजा प्रिय इन्द्रस्य भूयात् प्रियो गवाम् ओषधीनाम् उतापाम्
युनज्मि त उत्तरावन्तम् इन्द्रं येन जयन्ति न पराजयन्ते । यस् त्वा करद् एकवृषं जनानाम् उत राजन्न् उत्तमं मानवानाम्
उत्तरस् त्वम् अधरे सन्त्व् अन्ये ये के च राजन् प्रतिशत्रवस् ते । एकवृष इन्द्रसखा जिगीवां छत्रूयताम् अभि तिष्ठा महांसि
विषाणास्याङ्गिरसी देवजाः प्रतिचक्षणी । दिवस् पृथिव्याः संभूता सहस्राक्षीहैधि नः
सहस्राक्षी या तु गृभा- -अति पश्यास्य् ओषधे । सदान्वाघ्नी रक्षोघ्नी भवेह प्रतिचक्षणी
ये हरन्त्य् आसुतेयं पयस्फातिं चौषधे । तांस् त्वं सहस्रचक्षो गृभाय कृतवीर्ये
य आतुरं रन्धयन्ते ऽर्ष्मन्तं च विहृतम् । तांस् त्वं सहस्रचक्षो गृभाय कृतवीर्ये
यथाश्वा चतुरक्षो रात्रिं नक्तातिपश्यति । एवा सहस्रचक्षो त्वं प्रति पश्यास्य् आयतः
गोभिर् अश्वैर् वसुभिर् अपक्रीतास्य् ओषधे । श्यावस्याश्वस्य चक्षुषा प्रति पश्य किमीदिनः
सं सचध्वं सं पिबध्वम् अन्नं वो मधुमत् सह । व्रतं वः सर्वं सध्र्यक् समानं चेतो अस्तु वः
सं जानीध्वम् इन्द्रश् चेत्ता वो ऽस्त्व् अयं वो ऽग्निर् नि हरः शमयाति । यद् वैरहत्यम् उत भीमम् आसीद् विश्वे देवा अप तत् प्लावयन्तु
शं वः स्यास्तु बृहस्पतिः शं द्यावापृथिवी उभे । शम् अन्तरिक्षम् उत वो मरुत्वान् शं वः स्यास्त्व् अदितिर् देवपुत्रा
कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ओषधीः । कल्पन्ताम् अग्नयः सर्वे ऽस्मै श्रैष्ठाय सव्रताः
सं वः सृजामि हृदयं संसृष्टं मनो अस्तु वः । संसृष्टा वस् तन्वः सन्तु संसृष्टः प्राणो अस्तु वः
सं वः पशूनां हृदयं सृजामि सं पुत्राणाम् उत या दुहितरो वः । सं वो जायानां मनसा मनांसि सं पतीनाम् उत चक्षुः सृजामि
प्राची दिग् अग्निर् अधिपतिर् असितो रक्षितादित्या इषवः । तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु । यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस् तं वो जम्भे दध्मस् तम् उ प्राणो जहातु
दक्षिणा दिग् इन्द्रो ऽधिपतिस् तिरश्चिराजी रक्षिता वसव इषवः । तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु । यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस् तं वो जम्भे दध्मस् तम् उ प्राणो जहातु
प्रतीची दिग् वरुणो ऽधिपतिः पृदाकू रक्षिता मित्र इषवः । तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु । यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस् तं वो जम्भे दध्मस् तम् उ प्राणो जहातु
उदीची दिक् सोमो ऽधिपतिः स्वजो रक्षिता वात इषवः । तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु । यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस् तं वो जम्भे दध्मस् तम् उ प्राणो जहातु
ध्रुवा दिग् विष्णुर् अधिपतिः कल्माषग्रीवो रक्षिता वीरुध इषवः । तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु । यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस् तं वो जम्भे दध्मस् तम् उ प्राणो जहातु
ऊर्ध्वा दिग् बृहस्पतिर् अधिपतिश् चित्रो रक्षिताशनिर् इषवः । तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु । यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस् तं वो जम्भे दध्मस् तम् उ प्राणो जहातु
अनड्वान् दाधार पृथिवीं द्याम् उतामूम् अनड्वान् दाधारोर्व् अन्तरिक्षम् । अनड्वान् दाधार प्रदिशः षड् उर्वीर् अनड्वान् इदं विश्वं भुवनम् आ विवेश
अनड्वान् दुहे सुकृतस्य लोक ऐनं प्यायेत पवमानः पुरस्तात् । पर्जन्यो धारा मरुत ऊधो अस्य यज्ञः पयो दक्षिणा दोहो अस्य
अनड्वान् इन्द्रः स पशुभ्यो वि चष्टे त्रयां छक्रोप मिमीते अध्वनः । स भूतं भविष्यद् भुवनं दुहानः सर्वा देवानां बिभ्रच् चरति व्रतानि
यस्य नेशे यज्ञपतिर् न यज्ञो नास्य दातेशे न प्रतिग्रहीता । यो विश्वभृद् विश्वकर्मा घर्मं नो ब्रूत यतमश् चतुष्पात्
इन्द्र एष मनुष्येष्व् अन्तर् घर्मस् तप्तश् चरति शोशुचानः । सुप्रजा असत् स उदारे न सर्षद् यो नाश्नीयाद् अनडुहो विजानन्
येन देवाः स्वर् आरुरुहुर् हित्वा शरीरम् अमृतस्य धाम । तेन गेष्म सुकृतस्य लोकं घर्मस्य व्रतेन यशसा तपस्यया
द्वादशैता रात्रीर् व्रत्या आहुः प्रजापतेः । तत्रापि ब्रह्मणो व्रतं तत्राप्य् अनडुहो बलम्
यास् त आहुः प्रजापतेर् व्रत्या रात्रीर् द्वादश । तत्रापि ब्रह्म यो वेद तद् वा अनडुहो बलम्
दुहे वा अनड्वान् सायं दुहे प्रातर् दुहे दिवा । दोहा ये अस्य संयन्ति तान् विद्मानुपदस्वतः
यो वेदानडुहो दोहान् सप्तान् उपदस्वतः । प्रजां च लोकं चाप्नोति तथा सप्त र्षयो विदुः
मध्यम् एतद् अनडुहो यत्रैष वह आहितः । एतावद् अस्य प्राचीनं यावान् प्रत्यङ् समाहितः
पद्भिः सेदिम् अवक्रामन्न् इरां जङ्घाभिर् उत्खिदन् । श्रमेणानड्वान् कीलालं कीनाशश् चाभि गच्छतः
इन्द्र एष मनुष्येष्व् अनड्वान् इत्य् उच्यते । शफासो अस्य मा रिषन् सर्वा याश् चास्य कुष्ठिकाः
इन्द्रो बलेनासि परमेष्ठी व्रतेन येन गौस् तेन वैश्वदेवः । यो अस्मान् द्वेष्टि यं वयं द्विष्मस् तस्य प्राणान् सं बृहत् तस्य प्राणान् वि वृह
अनुवाक ५ ॥ गृहान् ऐमि मनसा मोदमान ऊर्जं बिभ्रद् वसुमनिः सुमेधाः । अघोरेण चक्षुषा मित्रियेण गृहाणां पश्यन् पय उत् तरामि
इमे गृहा मयोभुव ऊर्जस्वन्तः पयस्वन्तः । पूर्णा वामस्य तिष्ठन्तस् ते नो जानन्तु जानतः
सूनृतावन्तः सुभगा इरावन्तो हसामुदाः । अक्षुध्या अतृष्यासो गृहा मास्मद् बिभीतन
येषाम् अध्येति प्रवसन् येषु सौमनसो बहुः । गृहान् उप ह्वयामहे ते नो जानन्त्व् आयतः
उपहूता इव गाव उपहूता अजावयः । अथो अन्नस्य कीलाल उपहूतो गृहेषु नः
उपहूता भूरिधनाः सखायः स्वादुसंमुदः । अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा
हन्तायम् अस्त्व् अप्रतिघात्यः सासह्वाꣳ इन्द्रः पृतना अभिष्ठिः । प्रजापतिर् अदधाद् ओजो अस्मै बृहद् धविर् हविषा वर्धनेन
प्रजापते हविषा वर्धनेन हन्तारम् इन्द्रम् अकृणोर् अघात्यम् । तस्मै विशो देवकृता नमन्त स हि हन्ता स हि हव्यो बभूव
प्रजापते अभि नो नेष वस्य उर्वीं गव्यूतिम् अभिमातिषाहः । वर्धयन्न् इन्द्रं बृहते रणाय देवं देवेन हविषा वर्धनेन
यथा विश्वाः पृतनाः संजयासि यथा शत्रून् सहमानः सहासै । यथासः सम्राट् सुसम्राड् एवा त्वेन्द्रो ऽप्रतिवधं कृणोतु
अयं वीरो ऽप्रति हन्तु शत्रून् विश्वे देवा अप सदस् कराथ । मास्य प्रजां रीरिषन् मोत वीरान् इमम् इन्द्रो ऽप्रतिवधं कृणोतु
जहि शत्रून् प्रति रन्धयस्व- -अग्निष् टे गोपा अधिपा वसिष्ठः । शर्म ते राजा वरुणो नि यच्छाद् एवा त्वेन्द्रो ऽप्रतिवधं कृणोतु
सं स्पृशेथां तनूभ्यां सं मुखाभ्यां सम् आत्मना । सं वां ब्रह्मणस्पतिः सोमः सं स्पर्शयाति वाम्
अभ्य् अस्य नाम वाचा दधामि नाह मोक्ष्यते । ममेद् अहैनं कामे लभै कृष्णम् इवाखरे
यः प्रेमा प्रेण्याम् आसीद् दत्तः सोमेन बभ्रुणा । तस्माद् अधि श्रुतं मम मय्य् अस्य मन आहितम्
यं पुमांसं कामयसे यस्मिन् वा भगम् इच्छसे । हृच्छोकम् अस्मिन्न् आ दध्मो यथा शुष्याति त्वाम् अनु
यथास्य हृदयं शुष्याद् अपिच्छिन्नेव शंगुणी । चक्षुर् आकाश्यं भीमं मांपश्यम् अभिरोरुदम्
प्रियंकरणम् उत्तमं मधुघेन तद् आभृतम् । त्वं हासि वर्चस्यो ऽथो हासि सुमङ्गलः । अथो सर्वासां वीरुधां प्रियङ्करणम् उच्यसे
प्रतीची सोमम् अस्य् ओषधे प्रतीच्य् उत सूर्यम् । प्रतीची विश्वान् देवांस् तथा त्वाच्छा वदामसि
इमां खनाम्य् ओषधिं नितत्नीम् अनुतन्तमाम् । आयतः प्रतिनन्दनीं परायतो निवर्तनीम्
अमुष्याहं परायत आयतो मनो अग्रभम् । अग्रभं हस्त्यं मनो ऽथो हृदय्यं मनः
मयि ते मन आहितं मयि चित्तं मयि व्रतम् । ममेद् अपि क्रताव् असो मम चित्ते सचावहै
अहं वदानि मा त्वं सभायां घ त्वं वद । ममेद् असस् त्वं केवलो नान्यासां कीर्तयाश् चन
यदि वासि तिरो जनं यदि वा नद्यस् तिरः । इयं त्वा मह्यम् ओषधिर् बद्ध्वेव न्य् आनयात्
यथा कलाम् इत्य् एका ॥ सं राजानो ऽगुः सम् ऋणान्य् अगुः सं कुष्ठा अगुः सं कुला अगुः । सम् अस्मासु सुष्वप्न्यं निर् द्विषते दुष्वप्न्यं सुवामः
देवानां पत्नीनां गर्भ यमस्य करणः । यो भद्रः स्वप्नः स मम यः पापस् तं द्विषते प्र हिण्मः
तृष्णामा नामासि कृष्णशकुनेर् मुखं निरृतेर् मुखम् । तं त्वा स्वप्न तथा विद्म
स त्वं स्वप्नाश्व इवाकायम् अश्व इव नीनाहम् । अनास्माकं देवपीयुं पियारुं वप्सः
यद् अस्मासु दुष्वप्न्यं यद् गोषु यच् च नो गृहे । अनास्माकस् तद् देवपीयुः पियारुं निष्कम् इव प्रति मुञ्चताम्
नवारत्नीन् अवमाय- -अस्माकं तन्वस् परि । दुष्वप्न्यं सर्वं दुर्भूतं द्विषते निर् दिशामसि
अनुवाक ६ ॥ देवा मरुतः पृश्निमातरो ऽपो दत्तोदधिं भिन्त । दिवस् पृथिव्या उरोर् अन्तरिक्षाद् अस्मै क्षत्रायानेन ब्रह्मणाभ्यः प्रजाभ्य आभ्य ओषधीभ्यः स्वाहा
देवा अग्न इन्द्र सूर्य- -अपः (…)
देवाः सयुजो मित्र वरुणार्यमन्न् अपः (…)
देवाः पितरो ऽवमा आयवः क्राव्य- -अपः (…)
देवाप्सुषदो ऽपां नपात् तनूनपान् नराशंस- -अपो दत्तोदधिं भिन्त । (…)
देव बृहस्पते ऽपो धेह्य् उदधिं भिन्धि । (…)
देव प्रजापते ऽपो धेह्य् उदधिं भिन्धि । (…)
देव परमेष्ठिन्न् अपो धेह्य् उदधिं भिन्धि । दिवस् पृथिव्या उरोर् अन्तरिक्षाद् अस्मै क्षत्रायानेन ब्रह्मणाभ्यः प्रजाभ्य आभ्य ओषधीभ्यः स्वाहा
प्रजापतेर् जायमानाः प्रजा जाताश् च या इमाः । ता अस्मै प्रति वेदय चिकित्वाꣳ अनु मन्यताम्
येषाम् ईशे पशुपतिः पशूनां चतुष्पदाम् उत वा ये द्विपादः । निष्क्रीतास् ते यज्ञिया यन्ति लोकं रायस्पोषाय यजमानं सचन्ताम्
प्रमुञ्चन्तो भुवनस्य गोपा गातुं देवा यजमानाय धत्त । उपाकृतं शशमानं यद् अस्थात् प्रियं देवानाम् अप्य् एतु पाथः
ये बध्यमानम् अनु दीध्याना अन्वैक्षन्त मनसा चक्षुषा च । अग्निष् टान् अग्रे प्र मुमुक्त देवः प्रजापतिः प्रजया संविदानः
येषां प्राणा अन्वबध्नन्त बद्वं गवां पशूनाम् उत पूरुषाणाम् । इन्द्रस् तान् अग्रे प्र मुमुक्त देवः प्रजापतिः प्रजया संविदानः
य आरण्याः पशवो विश्वरूपा ये विश्वरूपा उतैकरूपाः । वायुष् टान् अग्रे प्र मुमुक्त देवः प्रजापतिः प्रजया संविदानः
प्रजानन्तः प्रति गृह्णन्तु देवाः प्राणम् अङ्गेभ्यस् पर्याचरन्तम् । द्यां गच्छ प्रति तिष्ठा शरीरैः स्वर्गं याहि पथिभिः शिवेभिः
समास् त्वाग्न ऋतवो वर्धयन्तु संवत्सर ऋषयो यानि सत्या । सं द्युम्नेन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशश् चतस्रः
सं चेध्यस्वाग्ने प्र च बोधयैनम् उच् च तिष्ठ महते सौभगाय । मा ते रिषन्न् उपसत्तारो अत्र ब्राह्मणास् ते यशसः सन्तु मान्ये
त्वाम् अग्ने वृणते ब्राह्मणा इमे शिवो अग्ने प्रतरणो न एधि । सपत्नहाग्ने अभिमातिजिद् भव स्वे क्षये दीदिह्य् अप्रयुच्छन्
इहैवाग्ने अधि धारया रयिं मा त्वा दभन् पूर्वचित्ता निकारिणः । क्षत्रम् अग्ने सुयमम् अस्तु तुभ्यम् उपसत्ता वर्धतां ते अनिष्टृतः
क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधेयं यतस्व । सजातानां मध्यमेष्ठेयम् अस्या राज्ञाम् अग्ने विहव्यो दीदिहीह
अति निहो ऽति निरृतीर् अत्य् अरातीर् अति द्विषः । विश्वा ह्य् अग्ने दुरिता तर त्वम् अथास्मभ्यं सहवीरं रयिं दाः
अनाधृष्यो जातवेदा अनिष्टृतो विराड् अग्ने क्षत्रभिर् दीदिहीह । व्यमीवाः प्रमुञ्चन् मानुषेभ्यः शिवेभिर् अद्य परि पाहि नो गयैः
अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । तं जानन्न् अग्न आ रोह- -अथा नो वर्धया रयिम्
प्रदातारं हवामहे अग्निम् उग्रम् ऊतये । शुचिर् यो वृत्रहन्तमः
अग्ने अच्छा वदेह नः प्रत्यङ् नः सुमना भव । प्र णो यच्छ विशां पते धनदा असि नस् त्वम्
प्र णो यच्छत्व् अर्यमा प्र भगः प्र बृहस्पतिः । प्र पूषा प्रोत सूनृता रयिं देवी दधातु नः
अर्यमणं बृहस्पतिम् इन्द्रं दानाय चोदय । वातं विष्णुं सरस्वतीं सवितारं च वाजिनम्
सोमं राजानम् अवसे ऽग्निं गीर्भिर् हवामहे । आदित्यं विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम्
इन्द्रवायू बृहस्पतिः सुहवेह हवामहे । यथा नः सर्वम् इज् जगत् सङ्गत्यां सुमना असत्
त्वं नो अग्ने अग्निभिर् ब्रह्म यज्ञं च वर्धय । त्वं नो देव दातवे रयिं दानाय चोदय
वाजस्येदं प्रसवे संबभूव मेमा च विश्वा भुवनान्य् अन्तः । उतादित्सन्तं दापयति प्रजानन् रयिं च नः सर्ववीरं नि यच्छात्
दुह्रां मे पञ्च प्रदिशो दुह्राम् उर्वीर् यथाबलम् । प्रापेयं सर्वाम् आकूतिं मनसा हृदयेन च
गोसनिं वाचम् उदेयं वर्चसा माभ्य् ऊर्णुहि । आ रुन्धां सर्वतो वायुस् त्वष्टा पोषाय ध्रियताम्
यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ् छग्धि तव त्वं न ऊतिभिर् वि द्विषो वि मृधो जहि
इन्द्रं वयम् अनूराधं हवामहे ऽनु राध्यास्म द्विपदा चतुष्पदा । मा नः सेना अररुषीर् उप गुर् विषूचीर् इन्द्र द्रुहो वि नाशय
इन्द्रस् त्रातोत वृत्रहा परस्पा नो वरेण्यः । स रक्षिता चरमतः स मध्यतः स पश्चात् स पुरस्तान् नो अस्तु
उरुं नो लोकम् अनु नेषि विद्वान् स्वर्यज् ज्योतिर् अभयं स्वस्ति । उग्रा त इन्द्र स्थविरस्य बाहू उप क्षियेम शरणा बृहन्ता
अभयं नः करत्य् अन्तरिक्षम् अभयं द्यावापृथिवी उभे । अभयं पश्चाद् अभयं पुरस्ताद् उत्तराद् अधराद् अभयं नो अस्तु
अभयं मित्राद् अभयम् अमित्राद् अभयं ज्ञाताद् अभयं पुरो नः । अभयं नक्तम् अभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु
अनुवाक ७ ॥ जय प्रेहि माप क्रामः शत्रूणां वेद आ खिद । इन्द्रः सपत्नहा भीमः सञ्जयस् ते सम् आनृधत्
त्वं जयासि न परा जयासा अर्भेष्व् आजौ मघवन् महत्सु च । उग्रं चित् त्वाम् अवसे सं शिशीमहे स त्वं न इन्द्र हवनेषु मृड
गोजिता बाहू असमक्रतू युधि कर्मन्कर्मञ् छतमूती स्वजङ्करा । अकल्प इन्द्रो ऽप्रतिमानम् ओजः स त्वं न इन्द्र हवनेषु मृड
वेदाहम् ऐन्द्रं प्रियम् अस्य शेवधिं यद् अस्य नाम गुह्यं समीके । स इज् जयाति मघवा ममासत्य् अस्माकं युध्मो विहवे हवं गमत्
वयं जयेम त्वायुजा भृतो अस्माकम् अंशम् उद् अवा भरेभरे । अस्मभ्यम् इन्द्र वरिवः सुगं कृधि प्र शत्रूणां मघवन् वृष्णिया रुज
त्वां देवेषु प्रथमं हवामहे त्वं बभूविथ पृतनासु सासहिः । सेमं नः कारुम् उपमन्युम् उद्भिदम् इन्द्र करासि प्रसवे रथं पुरः
स्मर स्मरो ऽसि देवैर् दत्तो ऽसि स्मर । अमुष्य मन आ स्मर यथाहं कामये तथा
शोचयास्य हृदयं काम गच्छ- -अङ्गज्वरो दहतु शोचतु त्मना । सङ्कल्पा अस्य समरन्ताधीभिर् इयम् एवास्य दिगमहन्यन्याः
निरानन्दाः प्रमुच्छदो मनोमुहो नयुवो नष्टकृत्वा अरण्यवः । आवेशिनीः प्रद्रुपो रोपयिष्णुर् एत आस्ताध्यः प्र हिणोमि ब्रह्मणा
हृत्कर्तनी ऋतुदा ग्रामान्नाशनीः स्वप्नच्छिद उघ्ननीघ्ना मनोमुहः । आवेशिनीः प्रद्रुपो रोपयिष्णुर् एत आस्ताध्यः प्र हिणोमि ब्रह्मणा
इन्द्राग्नी मित्रावरुणा ते अद्य- -उभे च द्यावापृथिवी मातरिश्वा । अश्विना देवः सविता भगश् च मनस् त उ घ्नन्तु न रमासा अत्र
त्रयस्त्रिंशत् त्वा उत घ्नन्तु देवा आध्यश् चित्तम् उप ते भरन्ताम् । भरद्वाजस्य मतयस् त ईशतां छिन्नेव नौर् बन्धनात् प्र प्लवस्व
एताः पतन्त्य् आध्यो वार्षिकीर् इव विद्युतः । तासां प्रतिग्रहो भव सायं गोष्ठे गवाम् इव
नि शीर्षतो नि पातित आध्यो वेशयामि ते । तास् त्वा समुत्तुदन्तीर् बोधयन्तीर् उपासताम्
एतास् त आध्यः प्र हिणोमि ब्रह्मणा तृप्रा अश्रीपुरोगवाः । तास् त्वा तृणम् इव शोषयान् अथो त्वा रोदयान् बहु
अजो ह्य् अग्नेर् अजनिष्ट शोकात् सो ऽपश्यज् जनितारम् अग्रे । तेन देवा देवताम् अग्र आयन् तेन रोहान् अरोहन्न् उप मेधीयांसः
क्रमध्वम् अग्निभिर् नाकम् उख्यां हस्तेषु बिभ्रतः । दिवस् पृष्ठं स्वर् गत्वा मिश्रा देवेभिर् आध्वम्
अग्ने प्रेहि प्रथमो देवयतां चक्षुर् देवानाम् उत मर्त्यानाम् । इयक्षमाणा भृगुभिः सजोषसः स्वर् यन्तु यजमानाः स्वस्ति
स्वर् यन्तो नापेक्षन्त आ द्यां रोहन्तु राधसः । यज्ञं ये विश्वतोधारं सुविद्वांसो वि तेनिरे
ओदनम् अनज्मि शवसा घृतेन दिव्यं समुद्रं पयसं बृहन्तम् । तेन गेष्म सुकृतस्य लोकं सरोरुहाणा अधि नाकम् उत्तमम्
यौ ते पक्षाव् अजरौ पतत्रिणौ याभ्यां रक्षांस्य् अपहंस्य् ओदन । ताभ्यां पत्यास्म सुकृतस्य लोकं यत्र र्षयः प्रथमजाः पुराणाः
यतस् तिष्ठो दिवस् पृष्ठे व्योमन्न् अध्य् ओदन । अन्वायन् सत्यधर्माणो ब्राह्मणा राधसा सह
पृष्ठात् पृथिव्या अहम् अन्तरिक्षम् आरुहम् अन्तरिक्षाद् दिवम् आरुहम् । दिवो नाकस्य पृष्ठात् स्वर् ज्योतिर् अगाम् अहम्
अजो ऽस्य् अज स्वर्गो ऽसि त्वया लोकम् अङ्गिरसः प्र जानन् । तं लोकम् अनु प्र ज्ञेष्म
येना सहस्रं वहसि येन वा सर्ववेदसम् । तेनेमं यज्ञं नो वह स्वर् देवेषु गन्तवे
अजं च पचत पञ्च चौदनान् । अजं पञ्चौदनं पक्त्वा देवा लोकान् सम् आनशुः
या ते प्रजापिहिता पुराभूद् ध्रुवेणाश्विनाप तं भरामि । अग्निष् टे तामाद्यमः पुनर् दाद् वैश्वानरः परमस्माद् व्योम्नः
त्वं पतिः शिवो ऽग्ने द्वितीयो *ऽस्यै प्रजां जरदष्टिं सृजस्व । मुञ्चैनां ग्राह्या निरृतिर् यद् बन्ध- -अग्ने प्रजां प्रजाकामायै धेहि
त्वाम् अग्ने वृषभं वाशितेयम् आच्या जानु पुत्रकामा सपर्यति । ताम् आ रोह सुमनस्यमानः प्रजापतेः प्रजया सं सृजैनाम्
तुभ्यं नारी पुत्रकामेयम् अग्ने शुद्धं पूतं घृतम् आ जुहोति । ताम् अधि स्कन्द वीरयस्व रेतोधा उग्रः प्रजया सं सृजैनम्
पर्वताद् दिवो योनेर् गात्राद्गात्रात् समाशृतम् । रेतो देवस्यदेवस्य त्सरौ पर्णम् इवाधाम्
इन्द्रस्य जातस्य प्र पपात नाभिस् ताम् एको देवः प्रति जग्राह कामी । त्वया वयं ब्राह्मणाः सोमपाः सूपयाम उत या न सूते
तेजनात् त्यजनं जातं तेजनं जायते शरात् । न येषति न शोचति यस् त्वा बिभर्ति तेजन
परुत्नम् असि तेजन परुत्नं ते प्रभञ्जनम् । परुत्नो अस्तु स कामो येनामूं कामयामहे
यावद् ओषः शरो अस्त्वो जनेभ्यः कृणवद् भयम् । तावद् ओषस् त्वं तेजन त्यजनं भवताद् इह
त्यजनं म आपो दधन् त्यजनं मरुतो दधन् । त्यजनं मे विश्वे देवास् त्यजनं पितरो दधन्
तेनाहम् अन्येषां स्त्रियो अत्याक्षं विद्विषः पुरा । पुरा द्विषो अत्याक्षं पुरा मध्यन्दिनाद् उत । पुरा सायत्वाद् अत्याक्षं तेजने हि महद् बलम्
अस्थाद् द्यौर् अस्थात् पृथिव्य् अस्थाद् विश्वम् इदं जगत् । अस्थाद् अवहृदेवात् तिष्ठात् कामो अयं तव
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ṚṢIS). Atharvaveda Paippalāda — Kāṇḍa 3. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-3>. Acesso em: 26/04/2026.
Tradição Védica (Ṛṣis) (2026). Atharvaveda Paippalāda — Kāṇḍa 3. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-3
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 3." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-3.