Atharvaveda Paippalāda — Kāṇḍa 4
Tradição Védica (Ṛṣis)
अनुवाक ८ ॥ काण्ड ४ हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् । स दाधार पृथिवीं द्याम् उतामुं तस्मै देवाय हविषा विधेम
य ओजोदा बलदा यश् च विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायामृतं यस्य मृत्युस् तस्मै देवाय हविषा विधेम
यः प्राणतो निमिषतो विधर्ता पतिर् विश्वस्य जगतो बभूव । य ईशे ऽस्य द्विपदो यश् चतुष्पदस् तस्मै देवाय हविषा विधेम
येन द्यौर् उग्रा पृथिवी च दृढा येन स्व स्तभितं येन नाकः । यो अन्तरिक्षं विममे वरीयस् तस्मै देवाय हविषा विधेम
य इमे द्यावापृथिवी तस्तभान- -अधारयद् अवसा रेजमाने । यस्मिन्न् अधि वितत एति सूर्यस् तस्मै देवाय हविषा विधेम
यस्य विश्वे हिमवन्तो महित्वा समुद्रं यस्य रसया सहाहुः । दिशो यस्य प्रदिशः पञ्च देवीस् तस्मै देवाय हविषा विधेम
आपो ह यस्य विश्वम् आयुर् दधाना गर्भं जनयन्त मातरः । तत्र देवानाम् अधि देव आस्त एकस्थूणे विमिते दृढ उग्रे
आपो गर्भं जनयन्तीर् वत्सम् अग्रे सम् ऐरयन् । तस्योत जायमानस्य- -उल्ब आसीद् धिरण्ययः
हिरण्य उल्ब आसीद् यो ऽग्रे वत्सो अजायत । तं योन्योर् विद्रवन्त्योः पर्य् अपश्यद् दितिर् मही
भूतो भूतेषु पय आ दधाति स भूतानाम् अधिपतिर् बभूव । स ते मृत्युश् चरति राजसूयं स राजा राज्यम् अनु मन्यताम् इदम्
अभि प्रेहि वीरयस्व- -उग्रश् चेत्ता सपत्नहा । आ तिष्ठ मित्रवर्धन तुभ्यं देवा अधि ब्रुवन्
आतिष्ठन्तं परि विश्वे अभूषञ् छ्रियं वसानश् चरति स्वरोचिः । महत् तद् वृष्णो असुरस्य नाम- -आ विश्वरूपो अमृतानि तस्थौ
एना व्याघ्रं परिषस्वजानाः सिंहं हिन्वन्ति महते सौभगाय । महिषं न सुभुवस् तस्थिवांसं मर्मृज्यन्ते द्वीपिनम् अप्स्व् अन्तः
व्याघ्रो अधि वैयाघ्रे वि क्रमस्व दिशो महीः । विशस् त्वा सर्वा आ यन्त्व् आपो दिव्याः पयस्वतीः
या आपो दिव्याः पयसा मदन्ति या अन्तरिक्ष उत पार्थिवा याः । तासां त्वा सर्वासाम् अपाम् अभि षिञ्चामि वर्चसा
अभि त्वा वर्चसासिचं दिव्येन पयसा सह । यथासो मित्रवर्धनस् तथा त्वा सविता करत्
यत् ते चन्द्रं कश्यप रोचनावद् यत् संहितं पुष्कलं चित्रभानु । यस्मिन् सूर्या आर्पिताः सप्त साकं तस्मिन् राजानम् अधि वि श्रयेमम्
येभिः शिल्पैः पप्रथानाम् अदृंहो येभिर् दिवम् अभ्यपिंशः प्रविद्वान् । येभिर् वाचं पुष्कलैर् अव्ययस् तेन माग्ने वर्चसा सं सृजेह
येभिः सूर्य आतपति प्र केतुभिर् येभिर् अग्निर् ददृशे चित्रभानुः । येभिर् आपश् चन्द्रवर्णा अजिन्वन् तेन माग्ने वर्चसा सं सृजेह
आयं भातु प्रदिशः पञ्च देवीर् इन्द्र इव ज्येष्ठो भवतु प्रजानाम् । अस्मिन् धेहि पुष्कलं चित्रभान्व् अयं पृणातु रजसोर् उपस्थम्
अनु त्वेन्द्रो ऽवत्व् अनु बृहस्पतिर् अनु त्वा सोमो अन्व् अग्निर् आवीत् । अनु त्वा विश्वे अवन्तु देवाः सप्त राजानो य उदाभिषिक्ताः
अनु त्वा मित्रावरुणेहावताम् अनु द्यावापृथिवी ओषधीभिः । सूर्यो ऽहोभिर् अनु त्वावतु चन्द्रमा नक्षत्रैर् अनु त्वेदम् आवीत्
द्यौश् च त्वा पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणा त्वा पिपर्तु । अनु स्वधा चिकितां सोमो अग्निः पूषा त्वावतु सविता सवेन
स्तुवानम् अग्न आ नय यातुधानं किमीदिनम् । त्वं हि देवान्तितो हन्ता दस्योर् बभूविथ
आज्यस्य परमेष्ठिञ् जातवेदस् तनूवशिन् । अग्ने तौलस्य प्राशान यातुधानान् वि लापय
वि लपन्तु यातुधाना अत्रिणो ये किमीदिनः । अथेदम् अग्ने नो हविर् इन्द्रश् च प्रति हर्यतम्
अग्निः पुरस्ताद् आ यच्छतु प्रेन्द्रो नुदतु बाहुमान् । ब्रवीतु सर्वो यातुमान् अयम् अस्मीत्य् एत्य
पश्यामि ते वीर्या जातवेदः प्र णो ब्रूहि यातुधानान् नृचक्षः । त्वया सर्वे परितप्ताः पुरस्ताद् आ यन्तु प्रब्रुवाणा उपेदम्
आ रभस्व जातवेदो हृदः कामाय रन्धय । दूतो नो अग्न उत् तिष्ठ यातुधानान् इहा नय
त्वम् अग्ने यातुधानान् उपबद्धान् इहा नय । अथैषाम् इन्द्रो वज्रेण- -अपि शीर्षाणि वृश्चतु
इदं हविर् यातुधानान् नदी फेनम् इवा वहात् । यदीदं स्त्री पुमान् अकर् इह स स्तुवतां जनः
यातुधानस्य सोमप जहि प्रजां नयस्व च । नि ष्टुवानस्य पातय परम् अक्ष्य् उतावरम्
अयं स्तुवान आगमत् तं स्मोत प्रति हर्यत । बृहस्पते वशे कृथा अग्नीषोमा वि विध्यतम्
यां त्वा गन्धर्वो अखनद् वरुणाय मृतभ्रजे । तां त्वा वयं खनामस्य् ओषधिं शेपहर्षणीम्
वृषणस् ते खनितारो वृषा त्वम् अस्य् ओषधे । वृषासि वृष्ण्यावती वृषणे त्वा खनामसि
उद् उषा उद् उ सूर्य उच् छुष्मा ओषधीनाम् । उद् एजति प्रजापतिर् वृषा शुष्मेण वाजिना
ऊर्ध्वश्राणम् इदं कृधि यथा स्म ते विरोहतो अभितप्तम् इवानति । ततस् ते शुष्मवत्तरम् इयं कृणोत्व् ओषधिः
अपां रस ओषधीनाम् अथो वनस्पतीनाम् । अथो सोमस्य भ्रातास्य् आर्श्यम् असि वृष्ण्यम्
अश्वस्य ऋश्यस्य बस्तस्य पुरुषस्य च । य ऋषभस्य वाजस् तम् अस्मै धेह्य् ओषधे
सं वाजा ऋषभाणां सं शुष्मा ओषधीनाम् । सं पुंसाम् इन्द्र वृष्ण्यम् अस्मै धेहि तनूबलम्
अद्याग्ने अद्य सवितर् अद्य देवि सरस्वति । अद्या मे ब्रह्मणस्पते धनुर् इवा तानया पसः
ऊर्ध्वास् तिष्ठन्ति गिरय ऊर्ध्वा वाता उद् ईरते । ऊर्ध्वो ऽयं मामको मयूख इवाधि भूम्याम्
उत् तिष्ठोग्र वि धूनुष्व वि ते श्वयन्तु नाड्यः । अतन्द्रो अश्वपा इव नाव ग्लायो ऽधि मुष्कयोः
अनुवाक १ ॥ हिरण्यशृङ्गो वृषभो यः समुद्राद् उदाचरत् । तेना सहस्येना वयं नि जनान्त् स्वापयामसि
न भूमिं वातो ऽति वाति नाति तपति सूर्यः । जनांश् च सर्वान् स्वापय शुनश् चेन्द्रसखा चरन्
वह्येशयाः प्रोष्ठेशया नारीर् यास् तल्पशीवरीः । स्त्रियो याः पुण्यगन्धास् ताः सर्वाः स्वापयामसि
एजदेजद् अजग्रभं चक्षुः प्राणम् अजग्रभम् । अङ्गान्य् अग्रभं सर्वा रात्रीणाम् अतिशर्वरे
य आस्ते यश् च चरति यश् च तिष्ठन् विपश्यति । तेषां सं दध्मो अक्षाणि यथेदं हर्म्यं तथा
स्वप्तु माता स्वप्तु पिता स्वप्तु श्वा स्वप्तु विश्पतिः । स्वपन्तु सर्वे ज्ञातयः सर्वं नि ष्वापया जनम्
स्वप्न स्वप्नाभिकरणेन सर्वं नि ष्वापया जनम् । ओत्सूर्यम् अन्यान् स्वापय- -आव्युषं चरताद् अहम् इन्द्र इवारिष्टो अक्षितः
अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्याम् आस्याद् उत । यक्ष्मं शीर्षण्यं मस्तिष्काल् ललाटाद् वि वृहामसि
ग्रीवाभ्यस् त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् । यक्ष्मं दोषण्यम् अंसाभ्याम् उरस्तो वि वृहामसि
क्लोम्नस् ते हृदय्याभ्यो हलीक्ष्णात् पार्श्वाभ्याम् । यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस् ते वि वृहामसि
आन्त्रेभ्यस् ते गुदाभ्यो वनिष्ठोर् उदराद् उत । यक्ष्मं पाण्योर् अङ्गुलिभ्यो नखेभ्यो वि वृहामसि
अस्थिभ्यस् ते मांसेभ्यः स्नावभ्यो धमनिभ्यः । यक्ष्मं पृष्टिभ्यो मज्जभ्यो नाभ्या वि वृहामसि
ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् । यक्ष्मं भसद्यं श्रोणिभ्यां भंससो वि वृहामसि
अङ्गादङ्गाल् लोम्नोलोम्नो बद्धं पर्वणिपर्वणि । यक्ष्मं त्वचस्यं ते वयं विष्वञ्चं वि वृहामसि
अङ्गादाङ्गाद् अहं तव परुषःपरुषस् परि । कश्यपस्य विवृहेण यक्ष्मं ते वि वृहामसि
अग्नी रक्षोहा तिग्मस् तिग्मशृङ्ग ऋषिर् आर्षेयः कविः कवितमः । अपाघाशंसं नुदतां सहताम् अरातिं प्रत्यक् प्रतिहरणेन- -अघायते ऽघं प्रति हरामः
इन्द्रो रक्षोहा (…)
सोमो रक्षोहा (…)
वरुणो रक्षोहा (…)
वायू रक्षोहा (…)
त्वष्टा रक्षोहा (…)
धाता रक्षोहा (…)
सविता रक्षोहा (…)
सूर्यो रक्षोहा (…)
चन्द्रमा रक्षोहा (…)
बृहस्पती रक्षोहा (…)
प्रजापती रक्षोहा (…)
परमेष्ठी रक्षोहा तिग्मस् तिग्मशृङ्ग ऋषिर् आर्षेयः कविः कवितमः । अपाघाशंसं नुदतां सहताम् अरातिं प्रत्यक् प्रतिहरणेन- -अघायते ऽघं प्रति हरामः
संवसव इति वो नामधेयम् उग्रंपश्या राष्ट्रभृतो ह्य् अक्षाः । तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम्
इदम् उग्राय बभ्रवे यो ऽक्षेषु तनूवशी । घृतेन कलिं शिक्षाणि स नो मृडातीदृशे
घृतम् अग्ने अप्सराभ्यो वह त्वं पांसून् अक्षेभ्यः सिकता अपश् च । यथाभगं हव्यदातिं जुषाणा मदन्तु देवा उभयानि हव्या
यो नो देवो धनम् इदं दिदेश यो अक्षाणां ग्रहणं शेषणं च । स नो ऽवतु हविर् इदं जुषाणो गन्धर्वैः सधमादं मदेम
या अप्सरसः सधमादं मदन्त्य् अन्तरा हविर्धानं सूर्यं च । ता नो हस्तौ कृतेन सं सृजन्तु सपत्नं नः कितवं रन्धयन्तु
यद् देवान् नाथितो हुवे ब्रह्मचर्यं यद् ऊषिम । अक्षान् यद् बभ्रून् आलभे ते नो मृडन्त्व् ईदृशे
आदिनवम् इत्य् एका
भगस् त्वेतो नयतु हस्तगृह्य बृहस्पतिः पुरएता ते अस्तु । देवस् त्वा सविता सत्यधर्मा- -उपसद्यां नमस्यां कृणोतु
याम् अश्विना मधुकशां देवा अग्रे अजनयन् । तया त्वा पत्याम् ओतां कृण्मो मधुमतीं वयम्
उत्तरा श्वश्रुवा भव ननान्दुर् उपशिक्षया । यशस् त्वा पत्यां कृण्मो भवा देवृषु प्रिया
अद्भिर् आत्मानं तन्वं शुम्भमाना गृहान् प्रेहि महिषी भवासि । तत्र त्वादुर् गार्हपत्याय देवाः प्रजावती जरदष्टिर् यथासः
उद् उत्तरम् आरोहन्ती व्यस्यन्ती पृतन्यतः । अभ्य् अष्ठाः शत्रोर् मूर्धानं सहपुत्रा विराड् भव
श्वश्रूणां श्वशुराणां गृहाणां च भगस्य च । वि राज पत्यां देवृषु सजातानां विराड् भव
यद् गिरिषु पर्वतेषु गोष्व् अश्वेषु यन् मधु । येनाक्षा अभ्यषिच्यन्त तेनाहम् अस्या मूर्धानम् अभि षिञ्चामि नार्याः
यद् वर्चो गवि कल्याणे यद् वा सूयवसे तृणे । अभ्यञ्जनस्य यद् वर्चस् तेन मानज्मि वर्चसा
अनुवाक २ ॥ येनाचरद् उशना काव्यो ऽग्रे विद्वान् क्रतूनाम् उत देवतानाम् । सहृदयेन हविषा जुहोमि सध्रीचीनं वो मनो ऽस्तूग्रम्
महत् सत्यं महद् धविर् उशना काव्यो महान् । देवानाम् उग्राणां सतां हृदयानि सहाकरम्
अहं सत्येन सयुजा चराम्य् अहं देवीम् अनुमतिं प्र वेद । इन्द्रो देवानां हृदयं वो अस्तु सध्रीचीनं वो मनो ऽस्तूग्रम्
त्वष्टा वायुः कश्यप इन्द्रम् अग्निर् मनसान्व् आयन् हविषस् पदेन । अविन्दञ् छक्रं रजसि प्रविष्टं सध्रीचीनं वो मनो ऽस्तूग्रम्
येनेमे द्यावापृथिवी विचष्कभुर् येनाभवद् अन्तरिक्षं स्वर् यत् । मनसा विद्वान् हविषा जुहोमि सध्रीचीनं वो मनो ऽस्तूग्रम्
द्यावापृथिवी हृदयं ससूवतुर् येनेदं त्वष्टा विकृणोति धीरः । तस्योशना क्रतुभिः संविदानश् चित्तं विवेद मनसि प्रविष्टम्
चित्तं चैतद् आकूतिश् च येन देवा विषेहिरे । एतत् सत्यस्य श्रद्धया- -अर्षयः सप्त जुह्वति
त्वया मन्यो सरथम् आरुजन्तो हर्षमाणासो हृषिता मरुत्वन् । तीक्ष्णेषव आयुधा संशिशाना उप प्र यन्तु नरो अग्निरूपाः
अग्निर् इव मन्यो तरसा सहस्व सेनानीर् नः सहुरे हूत एधि । जित्वाय शत्रून् वि भजासि वेद ओजो मिमानो वि मृधो नुदस्व
सहस्व मन्यो अभिमातिम् अस्मे रुजन् मृणन् प्रमृणन्न् एहि शत्रून् । उग्रं ते शर्धो नन्व् आ रुरुध्रे वशी वशं नयासा एकज त्वम्
एको बहूनाम् असि मन्यव् ईडिता पशून्पशून् युद्धाय सं शिशाधि । अकृत्तरुक् त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे
विजेषकृद् इन्द्र इवानवब्रवो ऽस्माकं मन्यो अधिपा भवेह । प्रियं ते नाम सहुरे गृणीमसि विद्मा तम् उत्सं यत आबभूविथ
आभूत्या सहसा वज्र सायक सहो बिभर्ष्य् अभिभूत उत्तरम् । क्रत्वा नो मन्यो सह मेद्य् एधि महाधनस्य पुरुहूत संसृजि
संसृष्टं धनम् उभयं समाकृतम् अस्मभ्यं दत्तं वरुणश् च मन्यो । भियो दधाना हृदयेषु शत्रवः पराजिता यन्तु परमां परावतम्
शं नो देवी पृश्निपर्ण्य् अशं निरृतये करत् । उग्रा हि कण्वजम्भनी तां त्वाहार्षं सहस्वतीम्
सदान्वाघ्नी प्रथमा पृश्निपर्ण्य् अजायत । तया कण्वस्याहं शिरश् छिनद्मि शकुनेर् इव
ऊर्जभृतं प्राणभृतं प्रजानाम् उत तर्पणीम् । सर्वास् ताः पृश्निपर्णी- -इतः कण्वा मा नीनशत्
समाकृत्यैना निर् अज तीक्ष्णशृङ्ग इव ऋषभः । अरायं कण्वं पाप्मानं पृश्निपर्णि सहस्वति
त्वम् उग्रे पृश्निपर्ण्य् अग्निर् इव प्रदहन्न् इहि कण्वा जीवितयोपनीः । गिरिम् एना आ वेशय तमांसि यत्र गच्छांस् तत् पापीर् अपि पादय
अरायम् असृक्पावानं यश् च स्फातिं जिहीर्षति । गर्भादं कण्वं नाशय पृश्निपर्णि सहस्वति
या नो गा या नो गृहान् या न स्फातिम् उपाहरान् । ता उग्रे पृश्निपर्णि त्वं कण्वा मा नीनश इतः
यस्मिन्न् आशीः प्रतिहित इदं तच् छल्यो वेणुर् वेष्टनं तेजनं च । सूनुर् जनित्रीं जनयेहि शृण्वन्न् अयं त आत्मेत इत् प्रहितः
अस्थि भित्त्वा यदि मज्ज्ञः पपाथ यदि वासि रतः पुरुषन्तिकामे । उर्वीं गव्यूतिम् अभ्य् एह्य् अर्वाङ् पश्चा रश्मीन् उद्यतः सूर्यस्य
मातरिश्वा पवमानस् त्वायन् सूर्य आभ्राजन् तन्वा दृशे कः । अस्नो गन्धात् पुवसः प्र च्यवस्व वि मुच्यस्व योन्या या ते अत्र
प्र च्यवस्वातो अभ्य् एह्य् अर्वाङ् अर्थांस् ते विद्म बहुधा बहिर् ये । इमाः स्वसारो अयम् इत् पिता त इयं ते मातेमम् एहि बन्धुम्
अमित्रैर् अस्ता यदि वासि मित्रैर् देवैर् वा देवि प्रहितावसृष्टा- -आविद्धा शृङ्गं पुरुषे जहाथ । बाणः शृङ्गं शिखरः सं सताम् इतः
शिखासु सक्तो यदि वास्य् अग्रे यदि वासि सक्तः पुरुषस्य मांसे । दधृङ् न पाशाꣳ अपवृज्य मुक्त्वा- -अक्षिशल्यः कृणुताम् आयनाय
हस्ताद् धस्तं सम् अयो भ्रियमाणो बहिष् ट्वा पश्यान् वीरुधां बलेन । अद्भिः प्रणिक्तः शयासा अभ्यक्तः कोशे जामीनां निहितो अहिंसः
षष्टिरात्रे षष्टिकस्य शल्यस्य परिधिष् कृतः । इतस् तम् अद्य ते वयम् आस्थानाच् च्यावयामसि
सं मज्जा मज्ज्ञा भवतु सम् उ ते परुषा परुः । सं ते राष्ट्रस्य विस्रस्तं सं स्नाव सम् उ पर्व ते
मज्जा मज्ज्ञा सं धीयताम् अस्थ्नास्थ्य् अपि रोहतु । स्नाव ते सं दध्मः स्नाव्ना चर्मणा चर्म रोहतु
लोम लोम्ना सं धीयतां त्वचा सं कल्पयात् त्वचम् । असृक् ते अस्ना रोहतु मांसं मांसेन रोहतु
रोहिणी संरोहिण्य् अस्थ्नः शीर्णस्य रोहिणी । रोहिण्याम् अह्नि जातासि रोहिण्य् अस्य् ओषधे
यदि शीर्णं यदि द्युत्तम् अस्थि पेष्ट्रं त आत्मनः । धाता तत् सर्वं कल्पयात् सं दधत् परुषा परुः
यदि वज्रो विसृष्टस् त्वार काटं पतित्वा यदि वा विरिष्टम् । वृक्षाद् वा यद् अवसद् दशशीर्ष ऋभू रथस्येव सं दधामि ते परुः
उत् तिष्ठ प्रेहि सम् अधायि ते परुः सं ते धाता दधातु तन्वो विरिष्टम् । रथः सुचक्रः सुपविर् यथैति सुखः सुनाभिः प्रति तिष्ठ एवम्
अनुवाक ३ ॥ उद्यन्न् आदित्यो घुणान् हन्तु सूर्यो निम्रोचन् रश्मिभिर् हन्तु । तावन् नो अभिसंहितम्
अप्सरा मूलम् अखनद् गन्धर्वः पर्य् अब्रवीत् । तेन वो वृत्रहा सूर्यो नि जम्भ्याꣳ अमृतद् घुणाः
घुणान् हन्त्व् आयती घुणान् हन्तु परायती । घुणान् अवघ्नती हन्तु घुणान् पिनष्टु पिंषती
घुणा न किं चनेह वः प्रतिबुद्धा अभूतन । प्रदोषं तस्करा इव
घुणानां मध्यतो ज्येष्ठः कनिष्ठ उत मध्यमः । हता वः सर्वे ज्ञातयो हता माता हतः पिता
यथा फेन उदकेन ददृशानो निजस्यति । एवा वयं घुणान् सर्वान् साकं वाचा नि जासयामसि
नि गावो गोष्ठे असदन् नि मृगासो अविक्षत । नि त्वम् आदित्य रश्मिभिर् घुणान् सर्वाꣳ अजीजसः
उद्यन् रश्मीन् आ तनुष्व बाणवद्भिः सम् अर्पय । घुणांस् त्वं सर्वान् आदित्य घोरया तन्वा तप
य आनतः पराणतो दारोर् इवापतक्षणम् । शर्कोटो नाम वा असि कुतस् त्वं विषवान् असः
य उभयेन प्रहरसि पुच्छेन चास्येन च । आस्ये चन ते विषं कुतस् ते पुच्छधाव् असत्
विदुत्सुरस्य दानवस्य तस्य त्वं नपाद् असि । तस्याग्रे ऽरसं विषं ततस् तवारसं विषम्
अरसारसं त्वाकरं वध्रे वध्रिं त्वाकरम् । वध्रिं त्वा चक्रुर् देवा अमृतास आसुरम्
इयत्तकः कुषुम्भकस् तकं भिनद्मि शम्यया । ततो विषं परासिचम् अपाचीम् अनु संवतम्
इमाः पश्चा मयूर्यः सप्त स्वसारो अग्रुवः । तास् ते विषं वि जह्रिर उदकं कुम्भिनीर् इव कूपात् कुलिजिनीर् इव
नवानां नवतीनाम् इत्य् एक
व्रातम् अहम् अपक्ष्णानां व्रातं मुण्डीयसाम् उत । व्रातं मुण्डिव्लानाम् अहं प्र ध्वाङ्क्षाꣳ इव चातये
प्रवक्ता प्रमादयिता निद्रा तन्द्रीस् तृतीयकः । ताञ् जङ्गिडस्याग्निना सर्वान् प्रति दहामसि
अशुद्धान् नः परि पाहि रक्षोभ्य उत जङ्गिड । यातुधानात् किमीदिनस् तस्मान् नः पाहि जङ्गिड
अप्सराभ्यो गन्धर्वेभ्यो देवेभ्यो असुरेभ्यः । अथो सर्वस्मात् पाप्मनस् तस्मान् नः पाहि जङ्गिड
नि ते शत्रून् दहति देवो अग्निर् निर् अरातिम् अमतिं यातुधानान् । आ याहि शत्रून् दुरितापघ्नञ् छतान् नो यक्ष्मेभ्यः परि पाहि जङ्गिड
अकर्माग्निम् अधिपाम् अस्य देवम् अन्वारप्स्व सहसा दैव्येन । सहस्वान् नः सहसा पातु जङ्गिडो यथा जयेम पृतनाज्येषु
सत्यो अग्निः सत्या आपः सत्ये मे द्यावापृथिवी विश्वशंभुवौ । सत्यम् इदं ब्रह्मास्माकं कृतम् अस्तु यम् अबध्नाद् उशनेन्द्राय तं ते बध्नामि जङ्गिडम्
इयत्तिका शकुन्तिका सका जघास ते विषम् । माहं मृषि मो असौ पुरुषो मृत । स च न मरति मा वयं मराम । आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत्
सूर्ये विषम् आ सृजामि दृतिं सुरावतो गृहे । (…)
त्रिषप्ता विस्फुलिङ्गका विषस्य पुष्पकम् अक्षन् । (…)
आल्वन्तरुटं विषं विदारी करम्भो अरसं विषम् । (…)
वार् उग्रम् अरसं विषम् अग्निश् च विश्वचर्षणिः । (…)
शकुन्तिका मे अब्रवीद् विषपुष्पं धयन्तिका । (…)
न रोपयति न मादयति न विषं हन्ति पूरुषम् । माहं मृषि मो असौ पुरुषो मृत । स च न मरति मा वयं मराम । आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत्
नवानां नवतीनाम् इत्य् एका
मधुमती पत्ये अस्मि जाराय मधुमत्तरा । अथो मधव्यं मे भंसो मधु निपदने अहम्
मधुना मा सं सृजामि मासरेण सुराम् इव । वाङ् म इयं मधुना संसृष्टा- -अक्ष्यौ मे मधुसंदृशी
मधु द्यौर् मधु पृथिवी मध्व् इन्द्रो मधु सूर्यः । स्त्रियो या जज्ञिरे मधु ताभ्यो ऽहं मधुमत्तरा
मधुमतीर् ओषधय आपो मधुमतीर् उत । गावो या जज्ञिरे मधु ताभ्यो ऽहं मधुमत्तरा
मधोर् जातो मधुघो वीरुधां बलवत्तमः । तेनाहं सर्वस्मै पुंसे कृण्वे निकरणं हृदि
यथाश्वो बन्धनेष्ठो वडवाम् अभिधावति । एवा त्वम् उग्र ओषधे ऽमुं कनिक्रदतम् आ नय
अङ्गो नु मोद् इव श्वसो अङ्गो नु मोद् इव स्तनः । अन्या विवित्समानो अन्याः पराजिघांसन् । माम् अनु प्र ते मनश् छाया यन्तम् इवान्व् अयत्
अनुवाक ४ ॥ खनन्ति त्वा तैमातां दासा अरसबाहवः । दास्य् असि प्रक्रीर् अस्य् उत्खातम् अरसं विषम्
अदन्ति त्वा कक्कटासः कुरुङ्गा अधि सानुषु । पापी जग्धप्रसूर् अस्य् अभ्रिखाते न रूरुपः
अव ज्याम् इव धन्वनः शुष्मं तिरामि ते विष । प्र रोपीर् अस्य पातय सूर्यः पूर्वा इवोषसः
सिन्धुः पश्चात् परिहितः सूर्यस्योदयनं पुरः । ततो यद् अन्तरा वनं तत् सर्वं विषदूषणम्
मधु त्वा मधुकृत् कृणोतु पितुं त्वा पितुकृत् कृणोतु । उतो निषद्य पातवे अथो ऊर्ध्वाय तिष्ठते
जघास त्वा लोमकर्णस् तन् न्य् आस परुष्णियाम् । तद् भैमीश् चक्रिरे स्रजः सर्वं महिषदो विषम्
उर्व्या उरुक्षितस् तुराया आतुरस्य च । भूम्या हि जग्रभ नाम विषं वारयताम् इति । विषं दूषयताद् इति
अहं वा इन्द्रमातरम् इन्द्रौजाम् इन्द्रभ्रातरम् । इन्द्राधिवक्त्रां वीरुधम् आहार्षं विषदूषणीम्
यत् किं च पद्वच् छफवद् यत् काण्डि यच् च पुष्पवत् । यद् एजति प्रजापतिः सर्वं तद् विषदूषणम्
सिन्धुः पश्चाद् धरुणः सूर्यस्योदयनं पुरः । ततो यद् अन्तरा विषं तद् वाचा दूषयामसि
यावत् सूर्यो वितपति यावच् चाभि विपश्यति । तावद् विषस्य दूषणं वचो निर् मन्त्रयामहे
जिह्वा मे मधुसंस्रावा जिह्वा मे मधुवादिनी । जिह्वे वर्चस्वती भव मायं मे पुरुषो रिषत्
हा है कल्याणि सुभगे पृश्निपर्ण्य् अनातुरे । इमं मे अद्य पूरुषं दीर्घायुत्वायोन् नय
याभ्यो वर्षन्ति वृष्टयो याभिर् जीवन्त्य् अघ्न्याः । ता मे विषस्य दूषणीः सविता व्य् अकाशयत्
प्रजापतिष् ट्वा बध्नात् प्रथमम् अस्तृतं वीर्याय कम् । तं ते बध्नाम्य् आयुषे वर्चस ओजसे च बलाय च- -अस्तृतस् त्वाभि रक्षतु
ऊर्ध्वस् तिष्ठ रक्षन्न् अप्रमादम् अस्तृतेमं मा त्वा दभन् पणयो यातुधानाः । इन्द्र इव दस्यून् अव धूनुष्व पृतन्यतः सर्वाञ् छत्रून् वि षहस्व- -अस्तृतस् त्वाभि रक्षतु
शतं चन प्रहरन्तो ऽभिघ्नन्तो न तस्त्रिरे । तस्मिन्न् इन्द्रः पर्य् अदत्त चक्षुः प्राणम् अथो बलम् अस्तृतस् त्वाभि रक्षतु
इन्द्रस्य त्वा वर्मणा परि धापयामो यो देवानाम् अधिराजो बभूव । पुरस् त्वा देवाः प्र णयन्तु सर्वे ऽस्तृतस् त्वाभि रक्षतु
अस्मिन् मणाव् एकशतं वीर्याणि सहस्रं प्राणा अस्मिन्न् अस्तृते । व्याघ्रः शत्रून् अधि तिष्ठ सर्वान् यस् त्वा पृतन्याद् अधरः सो ऽस्त्व् अस्तृतस् त्वाभि रक्षतु
घृताद् उल्लुप्तो मधुमान् पयस्वान् सहस्रप्राणः शतयोनिर् वयोधाः । शम्भूश् च मयोभूश् च- -ऊर्जस्वांश् च पयस्वांश् च- -अस्तृतस् त्वाभि रक्षतु
यथा त्वम् उत्तरो असो असपत्नः सपत्नहा । सजातानाम् असो वशी तथा त्वा सविता करद् अस्तृतस् त्वाभि रक्षतु
अपश् च रपश् च- -ऊष्मा च बाष्पश् च । शोकश् चाभिशोकश् च तृतीयेकश् च परेपरश् च तक्मान इतो नश्यत
वेद वै ते तक्मन् नाम- -अग्निष् ट्वं नामासि । तं त्वेतो वि नयामः शनि तक्मा
वृत्रस्य हरो ऽसि नभसो नपात् । द्यौश् चास्मत् पृथिवी च तक्मानं नाशयताम् इतः
पञ्चप्सिनिर् नाम ते माता स उ एकप्सिनिर् उच्यसे । तस्याहं वेद ते नाम स तक्मन् निर् अतो द्रव
औदुम्बरश् च नामासि प्रियातिथिश् च । तं त्वेतो नाशयामसि ब्रह्मणा वीर्यावता
यो ऽसि जल्पंश् च लपंश् च- -आवां च तपंश् च । तृतीयेकश् च मौञ्जिगलश् च ते तक्मान इतो नश्यत
विकिलीद विलोहित विकाशक्रंदरज्जन । गिरिं गच्छ धूमकेतो हृषे नमांसि सन्तु ते
बृहत् त्वम् अग्ने रक्षो अधमं जहि मध्यमं न्य् उत्तमं शृणीहि । शं नो अग्निर् ज्योतिरनीको अस्तु शं द्यावापृथिवी अनेहसा
मातेव पितेवाभि रक्षतैनं मुञ्चतैनं पर्य् अंहसः
वाताज् जातो अन्तरिक्षाद् विद्युतो ज्योतिषस् परि । स नो हिरण्यजाः शङ्खः कृशनः पात्व् अंहसः
हिरण्यानाम् एको ऽसि सोमाद् अधि जज्ञिषे । रथे ऽसि दार्शत इषुधौ रोचनस् त्वम्
यो अग्रतो रोचनावान् समुद्राद् अधि जज्ञिषे । शङ्खेन हत्वा रक्षांस्य् अत्रिणो वि षहामहे
ये अत्रिणो यातुधाना रक्षसो ये किमीदिनः । सर्वाञ् छङ्ख त्वया वयं विषूचो वि षहामहे
शङ्खेनामीवाम् अमतिं शङ्खेनोत सदान्वाः । शङ्खो नो विश्वभेषजः कृशनः पात्व् अंहसः
दिवि जातः समुद्रतः सिन्धुतस् पर्य् आभृतः । स नो हिरण्यजाः शङ्ख आयुष्प्रतरणो मणिः
देवानाम् अस्थि कृशनं बभूव तद् आत्मन्वच् चरत्य् अप्स्व् अन्तः । तं ते बध्नाम्य् आयुषे वर्चस ओजसे च बलाय च कार्शनस् त्वाभि रक्षतु
अनुवाक ५ ॥ कन्या वार् अवायती सोमम् अपि स्रुताविदत् । अस्तं भरन्त्य् अब्रवीद् इन्द्राय सुनोमि त्वा शक्राय सुनोमि त्वा
असौ य एषि वीरको गृहंगृहं विचाकशत् । इमं जम्भसुतं पिब धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम्
कुविच् छकत् कुवित् करत् कुविन् नो वस्यसस् करत् । कुवित् पतिद्विषो यतीर् इन्द्रेण सं गमामहै
आ चन त्वा चिकित्सामो ऽधि चन त्वा नेमसि । शनैर् इव शनकैर् इव- -इन्द्रायेन्दो परि स्रव
इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय । शिरस् ततस्योर्वराम् आद् इदं म उपोदरे
असौ च या न उर्वरा- -आद् इमां तन्वं मम । अथो ततस्य यच् छिरः सर्वा ता रोमशा कृधि
खे रथस्य खे ऽनसः खे युगस्य शतक्रतो । अपालाम् इन्द्र त्रिष् पूत्व्य् अकृणोः सूर्यत्वचम्
दिवस् पृष्ठे मधुपृचः सुपर्णाः पञ्चाशत् ते भुवनस्य गोपाः । आनुजावरम् अनु रक्षन्त उग्रा येषाम् इन्द्रं वीर्यायैरयन्त
पुरोहितः परमेष्ठी स्वराज्याय- -अभीवर्धम् अस्मा अकृणोद् बृहस्पतिः । तेन सपत्नान् अधरान् कृणुष्व क्षेमे पशून् बहुलान् वर्धयित्वा जैत्रायोद् यातु रथवाहनं ते
गोभाजम् अंशं तव ये समानाः सर्वे समग्रा दधृग् आभरन्त । अभि वर्धस्व भ्रातृव्यान् अभि ये त्वा पृतन्यतः
नि पिण्ढि सर्वान् धूर्वतो ऽभीवर्धो यथाससि । अभीवर्धम् अभीभवम् अभीषेणं महागणम् । विशस् त्वा सर्वा आ यन्त्व् आपो दिव्याः पयस्वतीः
अभि वर्धस्व प्रजया वावृधानो अभ्य् अनीकैः पशुभिर् भवासि । ब्रह्मराजन्यैर् विश्यैर् वावृधानः शूद्रैर् अतीहि सभया पृतन्यतः
वर्धस्व क्षेत्रैः प्रथस्व प्रजया वर्धस्व वीरैः पशुभिर् बहुर् भव । श्रिया शुल्कैर् यतमस् त्वा पृतन्याद् आप्तस् तुभ्यं स बलिहृत्याय तिष्ठतु
इन्द्रं मित्रं वरुणम् अग्निम् ऊतये मारुतं शर्धो अदितिं हवामहे । रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन
त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु शंभुवः । (…)
अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा । (…)
नराशंसं वाजिनं वाजयन्तं क्षयद्वीरं पूषणं सुम्नैर् ईमहे । (…)
बृहस्पते सदम् इन् नः सुगं कृधि शं योर् यत् ते मनुर्हितं तद् ईमहे । (…)
इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाढ ऋषिर् अह्वद् ऊतये । रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन
देवैर् नो देव्य् अदितिर् नि पातु देवस् त्राता त्रायताम् अप्रयुच्छन् । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
अप नः शोशुचद् अघम् । अग्ने शुशुग्ध्य् आ रयिम्
अप नः शोशुचद् अघम् । सुक्षेत्रिया सुगातुया वसूया च यजामहे
अप नः शोशुचद् अघम् । प्र यद् भन्दिष्ठ एषां प्रास्माकासश् च सूरयः
अप नः शोशुचद् अघम् । प्र यत् ते अग्ने सूरयो जायेमहि प्र ते वयम्
अप नः शोशुचद् अघम् । प्र यद् अग्नेः सहस्वतो विश्वतो यन्ति भानवः
अप नः शोशुचद् अघम् । त्वं हि विश्वतोमुख विश्वतः परिभूर् असि
अप नः शोशुचद् अघम् । द्विषो नो विश्वतोमुख- -अति नावेव पारय
देवाः शरणकृतः शरणा मे भवत प्राच्या दिशो ऽग्निना राज्ञाध्यक्षेण । यशा भूयासं यशसं मा कृणुत चारुम् अन्नादं परा द्विषन्तं शृणीत
(…) भवत दक्षिणाया दिश इन्द्रेण राज्ञा- (…)
(…) भवत प्रतीच्या दिशो वरुणेन राज्ञा- (…)
(…) भवत- -उदीच्या दिशः सोमेन राज्ञा- (…)
(…) भवत ध्रुवाया दिशो विष्णुणा राज्ञा- (…)
(…) भवत- -ऊर्ध्वाया दिशो बृहस्पतिना राज्ञा- (…)
(…) भवत- -उत्तमाया दिशः प्रजापतिना राज्ञा- (…)
(…) भवत परमाया दिशः परमेष्ठिना राज्ञा- (…)
देवाः शरणकृतः शरणा मे भवत सर्वाभ्यो दिग्भ्य ईशानेन राज्ञाध्यक्षेण । यशा भूयासं यशसं मा कृणुत चारुम् अन्नादं परा द्विषन्तं शृणीत
अनुवाक ६ ॥ प्रातर् अग्निं प्रातर् इन्द्रं हवामहे प्रातर् मित्रावरुणा प्रातर् अश्विना । प्रातर् भगं पूषणं ब्रह्मणस्पतिं प्रातः सोमम् उत रुद्रं हुवेम
प्रातर्जितं भगम् उग्रं हुवेम वयं पुत्रम् अदितेर् यो विधर्ता । आध्रश् चिद् यं मन्यमानस् तुरश् चिद् राजा चिद् यं भगं भक्षीत्य् आह
भग प्रणेतर् भग सत्यराधो भगेमां धियम् उद् अवा ददन् नः । भग प्र णो जनय गोभिर् अश्वैर् भग प्र नृभिर् नृवन्तः स्याम
उतेदानीं भगवन्तः स्याम- -उत प्रपित्व उत मध्ये अह्नाम् । उतोदिते मघवन् सूर्ये वयं देवानां सुमतौ स्याम
भग एव भगवाꣳ अस्तु देवास् तेन वयं भगवन्तः स्याम । तं त्वा भग सर्व इज् जोहवीति स नो भग पुरएता भवेह
सम् अध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । अर्वाचीनं वसुविदं भगं नो रथम् इवाश्वा वाजिन आ वहन्तु
अश्वावतीर् गोमतीर् न उषासो वीरवतीः सदम् उच्छन्तु भद्राः । घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः
यस् ते मन्यो ऽविधद् वज्र सायक सह ओजः पुष्यति विश्वम् आनुषक् । साह्याम दासम् आर्यं त्वया युजा वयं सहस्कृतेन सहसा सहीयसा
मन्युर् इन्द्रो मन्युर् एवास देवो मन्युर् होता वरुणो जातवेदाः । मन्युर् विश ईडते मानुषीर् याः पाहि नो मन्यो तपसा सजोषाः
अभीहि मन्यो तवसस् तवीयान् तपसा युजा वि जहि शत्रून् । अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्य् आ भरा त्वं नः
त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर् भामो अभिमातिषाहः । विश्वचर्षणिः सहुरिः सहीयाꣳ अस्मास्व् ओजः पृतनासु धेहि
अभागः सन्न् अप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः । तं त्वा मन्यो अक्रतुर् जिहीडाहं स्वा तनूर् बलदावा न एहि
अयं ते अस्म्य् उप न एह्य् अर्वाङ् प्रतीचीनः सहुरे विश्वदावन् । मन्यो वज्रिन्न् उप न आ ववृत्स्व हनाव दस्यूंर् उत बोध्य् आपे
अभि प्रेहि दक्षिणतो भवा नो अधा वृत्राणि जङ्घनाव भूरि । जुहोमि ते धरुणो मध्वो अग्रम् उभा उपांशु प्रथमा पिबेव
अग्नेर् मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यम् इन्धते । विशोविशः प्रविशिवांसम् ईमहे स नो मुञ्चत्व् अंहसः
सुजातं जातवेदसम् अग्निं वैश्वानरं विभुम् । हव्यवाहं हवामहे स नो मुञ्चत्व् अंहसः
यथा हव्यं वहसि जातवेदो यथा यज्ञं कल्पयसि प्रजानन् । एवा देवेभ्यः सुमतिम् इहा वह स नो मुञ्चत्व् अंहसः
यामन्यामन्न् उपयुक्तं वहिष्ठं कर्मन्कर्मन्न् आभगम् । अग्निम् ईडे रक्षोहणं यज्ञवृधं घृताहुतं स नो मुञ्चत्व् अंहसः
येन र्षयो वलम् अद्योतयन् युजा येनासुराणाम् अयुवन्त मायाः । येनाग्निना पणीन् इन्द्रो जिगाय स नो मुञ्चत्व् अंहसः
येन देवा अमृतम् अन्वविन्दन् येनौषधीर् मधुमतीर् अकृण्वन् । येनेदं स्वर् आभरन् स नो मुञ्चत्व् अंहसः
यस्येदं प्रदिशि यद् विरोचते यज् जातं जनितव्यं च केवलम् । स्तौम्य् अग्निं नाथितो जोहवीमि स नो मुञ्चत्व् अंहसः
वायोः सवितुर् विदथानि मन्महे याव् आत्मन्वद् विदथो यौ च रक्षथः । यौ विश्वस्य परिभू बभूवथुस् तौ नो मुञ्चतम् अंहसः
ययोः संख्याता वरिमाणि पार्थिवा याभ्यां रजो गुपितम् अन्तरिक्षम् । ययोः प्रयां नानु कश् चनानशे तौ नो मुञ्चतम् अंहसः
तव व्रते नि विशन्ते जनासस् त्वय्य् उदिते प्रेरते चित्रभानो । युवं वायो सविता च भुवनानि रक्षथस् तौ नो मुञ्चतम् अंहसः
प्र सुमतिं सवितर् वाय ऊतये महस्वन्तं मत्सरं मादयेथाम् । अर्वाग् वामस्य प्रवता नि यच्छथस् तौ नो मुञ्चतम् अंहसः
रयिं मे पोषं सवितोत वायुस् तनू दक्षम् आ सुवतां सुशेवम् । अयक्ष्मतां महो अस्मासु धत्तं तौ नो मुञ्चतम् अंहसः
अपेतो वायो सविता च दुष्कृतम् अप यक्ष्मं शिमिदां सेधतं परः । सं ह्य् ऊर्जा सृजथः सं बलेन तौ नो मुञ्चतम् अंहसः
उप श्रेष्ठा न आशिषो देवयोर् धामन्न् अस्थिरन् । स्तौमि देवं सवितारं च वायुं तौ नो मुञ्चतम् अंहसः
मरुतां मन्वे अधि मे ब्रुवन्तु प्रेमं वाजं वाजसाता अवन्तु । आशून् इव सुयमान् अह्व ऊतये ते नो मुञ्चन्त्व् अंहसः
उत्सम् अक्षितं व्यचन्ति ये सदा ये वा सिञ्चन्ति रसम् ओषधीषु । पुरो दधे मरुतः पृश्निमातॄंस् ते नो मुञ्चन्त्व् अंहसः
पयो धेनूनां रसम् ओषधीनां जवम् अर्वतां कवयो य इन्वथ । शग्मा भवन्तु मरुतः स्योनास् ते नो मुञ्चन्त्व् अंहसः
अपः समुद्राद् दिवम् उद् वहन्ति दिवस् पृथिवीम् अभि ये सृजन्ति । ये +ऽद्भिर् ईशाना मरुतश् चरन्ति ते नो मुञ्चन्त्व् अंहसः
ये कीलालैस् तर्पयन्ति ये घृतेन ये वा वयो मेदसा संसृजन्ति । य ईशाना मरुतो वर्षयन्ति ते नो मुञ्चन्त्व् अंहसः
यदीद् इदं मरुतो मारुतेन यदि देवा दैव्येनेदृग् आर । यूयम् ईशिध्वे वसवस् तस्य निष्कृतेस् ते नो मुञ्चन्त्व् अंहसः
तिग्मम् अनीकं विदितं सहस्वन् मारुतं शर्धः पृतनासूग्रम् । स्तौमि मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्व् अंहसः
अनुवाक ७ ॥ मन्वे वां द्यावापृथिवी सुभोजसौ ये अप्रथेथाम् अमिता योजनानि । प्रतिष्ठे ह्य् अभवतं वसूनां ते नो मुञ्चतम् अंहसः
प्रतिष्ठे हि बभूवथुर् वसूनां प्रवृद्धे देवी सुभगे उरूची । द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतम् अंहसः
ये स्रोत्या बिभृथो ये मनुष्यान् ये अमृतं बिभृथो ये हवींषि । द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतम् अंहसः
ये उस्रिया बिभृथो ये वनस्पतीन् ययोर् वां विश्वा भुवनान्य् अन्तः । द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतम् अंहसः
ये कीलालैस् तर्पयथो ये घृतेन याभ्यां न र्ते किं चन शक्नुवन्ति । द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतम् अंहसः
असन्तापे सुतपसा हुवे वाम् उर्वी गभीरे कविभिर् नमस्ये । द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतम् अंहसः
यन् मेदम् अभिशोचति येन वा येन वा कृतं पौरुषेयं न दैव्यम् । स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतम् अंहसः
भवाशर्वौ मन्वे वां तस्य वित्तं ययोर् वां विश्वं यद् इदं वितिष्ठते । याव् ईशाते अस्य द्विपदो यौ चतुष्पदस् तौ नो मुञ्चतम् अंहसः
ययोर् अभ्यध्व उत यद् दूरे चिद् यौ विदिताव् इषुभृताम् असिष्ठौ । भवाशर्वौ भवतं मे स्योनौ तौ नो मुञ्चतम् अंहसः
ययोर् वधान् नापपद्यते किं चन- -अन्तर् देवेषूत मानुषेषु । भवाशर्वौ भवतं मे स्योनौ तौ नो मुञ्चतम् अंहसः
याव् आरेभाते बहु साकम् उग्रौ प्र चेद् अस्राष्ट्रम् अभिभां जनेषु । भवाशर्वौ भवतं मे स्योनौ तौ नो मुञ्चतम् अंहसः
सहस्राक्षौ वृत्रहणा हुवे वां दूरेहेती स्वन्नेमी उग्रौ । भवाशर्वौ भवतं मे स्योनौ तौ नो मुञ्चतम् अंहसः
यः कृत्याकृद् यातुधानो महालो नि तस्मिन् हतम् अधि वज्रम् उग्रौ । भवाशर्वौ भवतं मे स्योनौ तौ नो मुञ्चतम् अंहसः
अधि मे ब्रूतं पृतनासूग्रौ सं वज्रेण सृजतं यः किमीदी । स्तौमि भवाशर्वौ नाथितो जोहवीमि तौ नो मुञ्चतम् अंहसः
मन्वे वां मित्रावरुणाव् ऋतावृधौ सत्यौजसौ द्रुह्वाणं यौ नुदेथे । यौ सत्यावानम् अवथो हवेषु तौ नो मुञ्चतम् अंहसः
सत्यौजसौ द्रुह्वाणं यौ नुदेथे प्र सत्यावानम् अवथो हवेषु । यौ गच्छथो नृचक्षसा बभ्रुणा सुतं तौ नो मुञ्चतम् अंहसः
याव् अङ्गिरसो ऽवथो याव् अगस्तिं मित्रावरुणा जमदग्निम् अत्रिम् । यौ कश्यपम् अवथो यौ वसिष्ठं तौ नो मुञ्चतम् अंहसः
यौ भरद्वाजम् अवथो वध्र्यश्वं विश्वामित्रं वरुण मित्र कुत्सम् । यौ कक्षीवन्तम् अवथः प्रोत कण्वं तौ नो मुञ्चतम् अंहसः
यौ श्यावाश्यम् अवथो यौ गविष्ठिरं मित्रावरुणा पुरुमीढम् अत्रिम् । यौ विमदम् अवथः सप्तवध्रिं तौ नो मुञ्चतम् अंहसः
यौ मेधातिथिम् अवथो यौ त्रिशोकं मित्रावरुणा उशनां काव्यं यौ । यौ मुद्गलम् अवथो गोतमं च तौ नो मुञ्चतम् अंहसः
ययो रथः सत्यवर्त्म र्जुरश्मिर् मिथुया चरन्तम् अभियाति दूषयन् । स्तौमि मित्रावरुणा नाथितो जोहवीमि तौ नो मुञ्चतम् अंहसः
इन्द्रस्य मन्वे शश्वद् यस्य मन्विरे वृत्रघ्न स्तोमा उप मेम आगुः । यो दाशुषः सुकृतो हवम् एता स नो मुञ्चत्व् अंहसः
यश् चर्षणिप्रो वृषभः स्वर्विद् यस्य ग्रावाणः प्रवदन्ति नृम्णे । यस्याध्वरः सप्तहोता मदच्युत् स नो मुञ्चत्व् अंहसः
य उग्राणाम् उग्रबाहुर् यजुर् यो दानवानां बलम् आससाद । येन जिताः सिन्धवो येन गावः स नो मुञ्चत्व् अंहसः
यस्य वशास ऋषभास उक्षणो यस्मै मीयन्ते स्वरवः स्वर्विदे । यस्मै शुक्रः पवते ब्रह्मशुम्भितः स नो मुञ्चत्व् अंहसः
यस्य जुष्टिं सोमिनः कामयन्ते यं हवन्त इषुवन्तं गविष्टौ । यस्मिन्न् अर्कः शिश्रिये यस्मिन्न् ओजः स नो मुञ्चत्व् अंहसः
य उत्तमः कर्मकृत्याय जज्ञे यस्य वीर्यं प्रथमस्यानुबुद्धम् । येनोद्यतो वज्रो ऽभ्यायताहिं स नो मुञ्चत्व् अंहसः
यः संग्रामान् नयति सं युधे वशी यः पुष्टानि संसृजति द्वयानि । स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्व् अंहसः
शुनं वत्सान् अपा करोमि शुनं बध्नामि तन्त्याम् । आग्रयणं ब्रह्मणां हविस् तस्मिञ् जागार कश्यपः
बाहुं वत्सम् उपनयन् पात्रे गां दुहन्न् अब्रवीत् । अरिष्टं ब्रह्मभ्यो हविः शिवं कृणोतु कश्यपः
त्रयस् तिष्ठन्ति सुकृतस्य लोके त्रयो ऽतीकाशास् त्रीणि शीर्षाण्य् एषाम् । त्रयस् तिष्ठन्ति परिगृह्य कुम्भीं यथा हविः कश्यप न व्यथातै
सत्यात् सम्भूतो वदति तण्डुलान् क्षीर आवपन् । ऋषिर् ब्रह्मभ्य आग्रयणं नि वेदयतु कश्यपः
ऋतुमुखे चन्द्रभागः पात्र ओदनम् उद् धरात् । प्राश्नन्तु ब्रह्माणो हविर् यथा वेदेन कश्यपः
ये भूतान्य् असृजन्त ये भूतान्य् अकल्पयन् । सर्वस्य विद्वान् अध्वर्युः षण्णां भवतु कश्यपः
शिवा आपो वत्सेभ्यः शिवा भवन्त्व् ओषधीः । वातो वत्सेभ्यः कश्यपः शिवः शिवं तपतु सूर्यः
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ṚṢIS). Atharvaveda Paippalāda — Kāṇḍa 4. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-4>. Acesso em: 26/04/2026.
Tradição Védica (Ṛṣis) (2026). Atharvaveda Paippalāda — Kāṇḍa 4. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-4
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 4." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-4.