Atharvaveda Paippalāda — Kāṇḍa 6
Tradição Védica (Ṛṣis)
अनुवाक ८ ॥ काण्ड ६ तद् इद् आस भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस् त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रून् अनु यं विश्वे मदन्त्य् ऊमाः
वावृधानः शवसा भूर्योजाः शत्रुर् दासाय भियसं दधाति । अव्यनच् च व्यनच् च सस्नि सं ते नवन्त प्रभृता मदेषु
त्वे क्रतुम् अपि पृञ्चन्ति विश्वे द्विर् यद् एते त्रिर् भवन्त्य् ऊमाः । स्वादोः स्वादीयः स्वादुना सृजा सम् अदः सु मधु मधुनाभि योधीः
इति चिद् धि त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः । ओजीयो धृष्णो स्थिरम् आ तनुष्व मा त्वा दभन् दुरेवा यातुधानाः
त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि । चोदयामि त आयुधा वचोभिः सं ते श्यामि ब्रह्मणा वयांसि
स्तुषेय्यं पुरुवर्पसम् ऋभ्वम् इनतमम् आप्त्यम् आप्त्यानाम् । आ दर्शते शवसा सप्त दानून् प्र साक्षते प्रतिमानानि भूरि
नि तद् दधिषे ऽवरं परं च यस्मिन्न् आविथावसा दुरोणे । आ मातरा स्थापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि
इमा ब्रह्म बृहद्दिवो विवक्ति- -इन्द्राय शूषम् अग्रियः स्वर्षाः । महो गोत्रस्य क्षयति स्वराजो दुरश् च विश्वा अवृणोद् अप स्वाः
एवा महान् बृहद्दिवो अथर्वा- -अवोचत् स्वां तन्वम् इन्द्रम् एव । स्वसारो मातरिभ्वरीर् अरिप्रा हिन्वन्ति च शवसा वर्धयन्ति च
ऋधङ्मन्द्रयोनिनोविभावा अमृतासुः सुजन्मा वर्धमानः । अदब्धासुर् भ्राजमानो ऽहेव त्रितो दाधार त्रीणि
नि यो धर्मणि प्रथमः ससाद- -अतो वपूंषि कृणुते पुरूणि । धास्युर् योनिं प्रथम आ विवेश- -आ यो वाचम् अनुदितां चिकाय
यस् ते शोकस् तन्व आरिरेच क्षरद् धिरण्यं शुचयो ऽनु स्वाः । अत्रा दधिषे अमृतानि नाम- -अस्मे वस्त्राणीष एरयन्त
प्र यद् एते प्रतरं पूर्व्यं गुः सदःसद आतिष्ठन्तो अजुर्यम् । कविः शुषस्य मातरा रिहाणे जामिर्वधुर्युःप्रतिमानिमीत
तद् ऊ षु ते महा पृथुर्यमन् नमः कविः काव्येनाकृणोत् । यत् सम्यञ्चो ऽभियन्तो *ऽधि क्षाम् अधा मही रोधचक्रा ववर्ध
सप्त मर्यादाः कवयस् ततक्षुस् तासाम् इद् एकाम् अभ्य् अंहुरो गात् । उतामृतासुर् वृत एषि कृण्वन्न् असुर आप्तः स्वधया समद्गुः
उतायुर् ज्येष्ठो रत्ना दधात्य् ऊर्जा वा यं सचते कविर् दाः । पुत्रो वा यत् पितरा क्षत्रम् ईर्ते ज्येष्ठं मर्यादम् अह्वयन् स्वस्ति
दर्शन् नु तान् वरुण ये त इष्टाव् आवर्वृततः कृणवो वपूंषि । अर्धम् अर्धेन शवसा पृणक्ष्य् अर्धेन शुष्मं वर्धसे *ऽमूर
अवीवृधाम शग्म्यं सखायं वरुणं पुत्रम् अदितेर् इषिरम् । कविशस्तान्य् अस्मै वचांस्य् अवोचाम रोदसी सत्यवाचौ
को वः पश्चात् प्राविच्छायत् कः पुरः प्राखनत् पथः । यदैत त्वरमाणा वरुणप्रसूता आपः
प्रजापतिर् असृजत स पुरः प्राखनत् पथः । स उ नो अन्व् अवासृजत् तेन सृष्टाः क्षरामसि
पुनाना आपो बहुधा स्रवन्ति- -इमांश् च लोकान् प्रदिशश् च सर्वाः । पुनन्त्व् अस्मान् दुरिताद् अवद्यान् मुञ्चन्तु मृत्योर् निरृतेर् उपस्थात्
आपो अस्मान् मातरः सूदयन्तु घृतेन नो घृतपुवः पुनन्तु । विश्वं हि रिप्रं प्रवहन्ति देवीर् उद् इद् आभ्यः शुचिर् आ पूत एमि
आपो देवीर् मातरः सूदयिष्णवो घृतश्चुतो मधुना सं पपृच्रे । ता अस्मभ्यं सूरयो विश्वम् आयुः क्षप उस्रा वरिवस्यन्तु शुभ्राः
उदकस्योदकतमा रेवत्तमा रेवतीनाम् । शुन्धन्ताम् आपः शुन्धन्त्व् अस्मान्
यूयम् आपो वीरश्रियो यूयं सूदयथा शुचीन् । युष्माकम् इद् दिशो महीर् ईयन्ते प्रदिशः पृथक्
यूयं मित्रस्य वरुणस्य योनिर् यूयं सोमस्य धेनवो मधिष्ठाः । युष्मान् देवीर् देव आ क्षियतीन्दुर् यूयं जिन्वत ब्रह्मक्षत्रम् आपः
शश्वद् आभिः शाशदानाः शमनान्वयामसि । आपो विश्वस्य सूदनीर् या देवा मनवे दधुः
यद् धावन्ति पुनते तद् आपो यत् तिष्ठन्ति शुद्धा इत् तद् भवन्ति । नासाम् अवद्यम् अविदं न रिप्रं सनाद् एव मधुना सं पपृच्रे
हिरण्यवर्णाः शुचयः पावकाः प्र चक्रमुर् हित्वावद्यम् आपः । शतं च वः प्रस्रवणेषु देवीः सहस्रं च पवितारः पुनन्ति
तास् तादृशीर् ब्रह्माणं सूदयन्त्य् अङ्गोष्ठ्या स्तोत्र्या जीवधन्याः । या विश्वस्य शुचिकृतो अयातोर् गाव इव पयसा स्था सुजाताः
विश्वाद् रिप्रान् मुञ्चत सिन्धवो नो यान्य् एनांसि चकृमा तनूभिः । इन्द्रप्रशिष्टा वरुणप्रसूता आ सिञ्चतापो मध्व् आ समुद्रे
रात्री माता नभः पिता- -अर्यमा ते पितामहः । शिलाची नाम वा असि सा देवानाम् असि स्वसा
यस् त्वा पिबति जीवति त्रायसे पुरुषं त्वम् । धर्त्री च शश्वताम् असि शश्वतां च न्यञ्चनी
यद् दण्डेन यद् इष्वा यद् अरुर् हरसा कृतम् । तस्य त्वम् असि भेषजी निष्कृतिर् नाम वा असि
भद्रा प्लक्षे नि तिष्ठस्य् अश्वत्थे खदिरे धवे । भद्रा न्यग्रोधे पर्णे सा न एह्य् अरुन्धति
वृक्षंवृक्षम् आ रोहसि वृषण्यन्तीव कन्यला । जयन्ती प्रत्यातिष्ठन्ती संजया नाम वा असि
हिरण्यवर्णे युवते शुष्मे लोमशवक्षणे । अपाम् असि स्वसा लाक्षे वातो हात्मा बभूव ते
हिरण्यबाहो सुभगे सूर्यवर्णे वपुष्टमे । रुतं गच्छति निष्कृतिः सेमं निष्कृधि पूरुषम्
घृताची नाम कानीनो ऽजबभ्रु पिता तव । अश्वो यमस्य यः श्यावस् तस्य हास्नास्य् उक्षिता
अश्वस्यास्नः संपतिता सा पर्णम् अभि षिष्यदः । सरा पतत्रिण्य् असि सा न एह्य् अरुन्धति
घृताचिके वातरथे विद्युत्पर्णे अरुन्धति । आतुरं गमिष्ठासि त्वम् अङ्ग निष्करीयसी
यत् ते जग्धं पिशाचैस् तत् त आ प्यायतां पुनः । लाक्षा त्वा विश्वभेषजी देवेभिस् त्रायतां सह
यथा द्यौश् च पृथिवी च न बिभीतो न रिष्यतः । एवा मे प्राण मा बिभेर् एवा मे ऽपान मा रिषः
यथा वायुश् चान्तरिक्षं च (…)
यथा सूर्यश् च चन्द्रमाश् च (…)
यथाहश् च रात्री च (…)
यथा धेनुश् चानड्वांश् च (…)
यथा मित्रश् च वरुणश् च (…)
यथा ब्रह्म च क्षत्रं च (…)
यथेन्द्रश् चेन्द्रियं च (…)
यथा वीरश् च वीर्यं च (…)
यथा प्राणश् चापानश् च (…)
यथा मृत्युश् चामृतं च (…)
यथा सत्यं चानृतं च (…)
यथा भूतं च भव्यं च न बिभीतो न रिष्यतः । एवा मे प्राण मा बिभेर् एवा मे ऽपान मा रिषः
अनुवाक १ ॥ मधुमन् मे निक्रमणं मधुमन् मे परायणम् । वाचा मधुमद् उद्यासम् अक्ष्यौ मे मधुसंदृशी
माम् अनु प्रसारयन् मम पत्तो निपेदिवान् । अथो मे पुनर् आयतो अक्ष्यौ कामेन शुष्यताम्
वशा मधुघ ते माता- -उक्षा भ्रातर्षभः पिता । धेन्वा अधि प्रजातो ऽसि राजा सन् मधुमत्तमः
वृषाणं वृष्ण्यावन्तं सोमपृष्ठं दिवि श्रितम् । इन्द्राण्य् अग्र आभरन् मधुघं भगाय कम्
पितुभोजनो मधुघः शौष्कास्यो हृदयाय कम् । स मा मधुनानक्तु यथाहं कामये तथा
सिन्धुप्रजानो मधुघो अश्व इव नीयते जनाꣳ अनु । स मा (…)
मधुमती सिनीवाली मधुना मा सम् उक्षतु । सा मा मधुनानक्तु यथाहं कामये तथा
यथा मधु मधुकृतो न्यञ्जन्ति मधाव् अधि । एवा न्य् अनज्मि ते मनो अध्य् अस्यां मामकी तनू
यत् ते मनः परागतं यद् बद्धम् इह वेह वा । तत् त आ वर्तयामसि मयि बध्नामि ते मनः
कश्यपश् च सुपर्णश् च यन् मरीच्याम् अतिष्ठताम् । सुपर्णः पर्य् अवापश्यत् समुद्रे भूमिम् आवृताम्
यां सुपर्णः पर्यपश्यद् अन्तर् महत्य् अर्णवे । तां सूकर त्वं मायया त्रिः समुद्राद् उद् आभरः
यं समुद्राद् उदभरो भूमिं सूकर मायया । सैषा विषस्य दूषण्य् अस्मै भवतु भेषजी
अच्युता हिरण्येन या सत्ये अधितिष्ठति । तस्यास् ते विश्वधायसो विषदूषणम् उद् भरे
यस्याः कुलायम् इत्य् एका
यस्या भूम्या उपजीका गृहं कृण्वत आत्मने । तस्यास् ते विश्वधायसो विषदूषणम् उद् भरे
यस् त्वा भूमे ऽन्वविन्दद् यस् त्वा भूम उदाभरत् । तयोः सहस्रधामन्न् अहं नामानि जग्रभ
यानि त इन्द्रो अकृणोद् भूमे नामानि वृत्रहा । तानि ते बभ्रोः सं विद्म सेहैधि विषदूषणी
यानि ते मरुतश् चक्रुर् यानि सप्तर्षयो विदुः । विश्व आदित्या यां विदुः सा भूमिर् विषदूषणी
सहस्व यातुधानान् सहस्व यातुधान्यः । सहस्व सर्वा रक्षांसि सहमानास्य् ओषधे
सहमाने सहस्वति सहन्त्य् अहमुत्तरे । उताहम् अस्मि सासहिः सासहे वः सदान्वाः
या सहमाना चरसि सासहान इवर्षभः । सदान्वाघ्नी रक्षोघ्नी सा त्वम् उग्रास्य् ओषधे
खेले है लम्बनस्तनि नश्येतः प्रामुतः पत । न त्वाम् अविव्यचद् इह- -उक्षेव शृङ्गवच् छिरः
असुवाने बहुपुत्रे अनन्तर्वे महोदरि । पथास्मत् सत्वरे त्वं शर्करा बप्सती चर
ये ऽरायाश् चरथ पाकस्येच्छन्त आसुतिम् । तान् अग्ने कृष्णवर्तने तीक्ष्णशृङ्गोदृषन्न् इहि
अदो यद् दारु प्लवते सिन्धोर् मध्ये अपूरुषम् । तद् आ रभस्व दुर्हणो तेन याहि परस्तरम्
यस्या जनित्रम् इष्टर्गा अदृष्टाः क्रिमयः प्लुषयः । तस्यै बलासपत्न्यै नमस् कृणोमि कुष्ठ्यै
शर्वपुत्रे भवपत्नि यातुभ्रात्रि सदान्वे । तस्याद्धि पुत्रान् भ्रातॄंश् च यत्र त्वा विनयामसि
वृषायम् अंशुर् वृषभाय गृह्यते वृषायम् उग्रो नृचक्षसे । दिव्यो नर्यो ऽचिक्रदन् महन् नामर्षभस्य यत् ककुत्
विषुवान् विष्णो भव त्वं यो नृपतिर् मम । अथो इन्द्र इव देवेभ्यो वि ब्रवीतु जनेभ्यः
मनुष्येभ्यो वि ब्रवीतु सजूर् इन्द्रेण मेदिना । अग्निश् च तुभ्यं साहन्त्यो राष्ट्रं वैश्वानरो दधत्
यस्यायं भाग ऋषभ इन्द्राय परिणीयते । स हन्तु शत्रून् आयतो अथो हन्तु परायतः
स हन्ता शत्रोर् भवतु हन्ता भवतु दोधताम् । विशाम् अह प्रणीर् अयद् अग्रम् उद्भिन्दताम् असत्
आयुष्मन्तं वर्चस्वन्तम् अथो अधिपतिं विशाम् । अस्याः पृथिव्याश् चेत्तारम् इमम् इन्द्रर्षभं कृणु
यः सुशृङ्गः सुककुदः कल्याणो बर्हिर् आसदत् । कार्षीवणप्रजानेन ऋषभेण यजामहे
ऋषभेण यजमाना अक्रूरेणेव सर्पिषा । मृधश् च सर्वा इन्द्रेण पृतनाश् च सहामहे
यं तुभ्यं भागम् ऋषभं देवाः केवल्यं ददुः । तेन वृत्राणि जङ्घनः शत्रूंश् च जह्य् आहवे
जहि शत्रून् वि मृधो नुदस्व कृष्याः संभूतो असि वीर्यावान् । इन्द्राय भागं परि त्वा नयाम उरुर् नो लोको अपृतन्यो अस्तु
घृतवृद्ध घृताहुत सहस्रशृङ्ग सुष्टुत । घृताहवन दीदिहि
यो घृतेनाभिघारित उग्रो जैत्राय तिष्ठसि । स नः सङ्कासु पारय पृतनासाह्येषु च
कर्की सुभाग ऋषभस्य पत्नी प्रजाकामा वशिनी वाशिता गौः । तां सहस्रम् एकमुखा ददाति गर्भं दधानाम् ऋतुना चरन्तीम्
गर्भं दधाना पय इद् दुहाना अग्निहोत्रं वैश्वदेवी दुहाना । गौर् णो मा हिंसीद् वरुणस्य पत्नी
कर्क्या योनिं संमनसो ऽभि गावः प्रजां धित्सन्तो वृषणश् चरन्ति । सा न ऐत्व् अदितिर् विश्वरूपा- -अभि क्रन्दन्ति भुवनान्य् एनाम्
प्रजापतिनेषिताम् ऋत्वियावतीम् ऐनां प्रजाया ऋषभाः श्रयन्ते । वृषण्यन्तीं वृषणः सप्तनाम्नीं हिंकृण्वन्तो अभि नुदन्तु वाशिताम्
सा प्रत्य् अदर्श्य् उषसा सुवर्णा शुक्रां वसाना वरुणस्य निर्णिजम् । वैश्वदेवी स्वधाम् आभरन्ती प्रजां दाता पुष्यतु गोपतिष् टे
स्वयंस्थावर्य् ऋषभाय तिष्ठसि प्रतीची सोमं प्रति सूर्यम् अग्निम् । अहिंसन्ती वाशिते माम् उपेहि पशून् दाता पुष्यतु गोपतिष् टे
वशी दाता भवतु वाशिताया अग्नेर् भागम् उस्रियां यो ददाति । प्रियं धाम हृदयं सोम्यं मधु वाजिनीं त्वा वाजिनो वाजयन्तु
यो वाशितायां गव्य् अन्तर् अग्निर् यद् अस्यां नृम्णं महिमा बभूव । नमस् तस्मै प्रतिगृह्णन् कृणोमि स्योना मे अस्तु तन्वे सुशेवा
एयम् अगन् वाशिता तां प्रतीमः पुंसां व्रातेन सह पुष्ट्या गौः । ऊर्जं दधाना घृतम् इद् दुहाना सहस्रपोषाय मे अस्तु दात्रे
अनुवाक २ ॥ ब्रह्म जज्ञानम् इत्य् एका ॥ अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे । वीरान् नो अत्र मा दभन् तद् व एतत् पुरो दधे
प्रत्नान् मानात् परि ये संबभूवुः श्लोकवन्तः सौमनसस्य वन्तवः । अपानक्षासो बधिरा अहासत- -ऋतस्य पन्थां न तरन्ति दुष्कृतः
सहस्रधारम् अभि ते सम् अस्वरन् दिवो नाके मधुजिह्वा असश्चतः । तस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्तु सेतवे
पर्य् ऊ षु प्र धन्वा वाजसातये परि वृत्राणि सक्षणिः । दिवस् तद् अर्णवाꣳ अन्व् ईयसे सनिस्रसो नामासि त्रयोदशो मासः
इन्द्रस्य गृहो ऽसीन्द्रस्य शर्मासीन्द्रस्य वर्मासीन्द्रस्य वरूथम् असि । व्य् एतेनावैतेनापैतेनारात्सीर् असौ स्वाहा
तिग्मायुधौ तिग्महेती सुशेवाव् अग्नीषोमाव् इह सु मृडतं नः । मुमुक्तम् अस्मान् गृभीतान् अवद्याज् जुषेथां यज्ञम् अमृतम् अस्मासु धत्तं स्वाहा
चक्षुषो हेते मनसो हेते ब्रह्मणो हेते मेन्यामेनिर् असि । अमेनयस् ते सन्तु ये ऽस्मान् अभ्यघायन्ति स्वाहा
यो ऽस्माञ् चक्षुषा मनसा यश् च वाचाकूत्या चित्त्या ब्रह्मणाघायुर् अभिदासात् । तम् अग्ने त्वं मेन्यामेनिं कृणु स्वाहा
उद् आयुर् उत् कृतम् उद् बलम् उन् मनीषोद् इन्द्रियं नृम्णम् अस्मासु धेहि स्वाहा
आयुष्कृतायुष्मती स्वधावन्तौ गोपा मे स्थो गोपायतं मा । आत्मसदौ मे स्तं तन्वे सुशेवौ मा मा हिंसिष्टं स्वाहा
इन्द्रस्य गृहो ऽसीन्द्रस्य शर्मासीन्द्रस्य वर्मासीन्द्रस्य वरूथम् असि । तं त्वा प्र विशामि सर्वाङ्गः सर्वात्मा सर्वगुः सर्वपूरुषः सह यन् मे ऽस्ति तेन
अस्तृतो नामाहम् अयम् अस्मि स आत्मानं परि दधे द्यावापृथिवीभ्याम् । गोपीथाय प्र हूयसे
अस्तृतो नाम प्राजापत्यो देवो मासस् त्रयोदशः । सर्वगुः सर्वपूरुषः प्रागां देवपुरा अहम्
अन्तः प्रागां देवपुराः सहग्रामः स्वस्तये । संवत्सरस्य मध्यतः सर्वैः सोदर्यैः सह ॥ प्रपाठक
प्राहम् अगां देवपुरा य एवास्मि स एव सन् । यो मा कश् चाभिदासति स प्रजापतिम् ऋच्छतु
अश्मासि प्रतिस्पशः पाहि रिषः पाहि द्विषः । पाहि दैव्याभिशस्त्याः स म इह तन्वं पाहि
यो ऽस्मान् प्राच्या दिशो ऽघायुर् अभिदासात् । एतत् स ऋच्छाद् अश्मवर्म नो ऽस्तु
(…) अस्मान् दक्षिणाया दिशः (…)
(…) अस्मान् प्रतीच्या दिशः (…)
(…) अस्मान् उदीच्या दिशः (…) ॥(…) अस्मान् ध्रुवाया दिशः (…) ॥ यो ऽस्मान् ऊर्ध्वाया दिशो ऽघायुर् अभिदासात् । एतत् स ऋच्छाद् अश्मवर्म नो ऽस्तु
प्राच्यै दिशे स्वाहा
दक्षिणायै दिशे स्वाहा
प्रतीच्यै दिशे स्वाहा
उदीच्यै दिशे स्वाहा
ध्रुवायै दिशे स्वाहा
ऊर्ध्वायै दिशे स्वाहा
दिवे स्वाहा
अन्तरिक्षाय स्वाहा
पृथिव्यै स्वाहा
पृथिव्यै स्वाहा
अन्तरिक्षाय स्वाहा
दिवे स्वाहा
महाकण्ठं करीषजम् ऊबध्यादम् अनाहुतिम् । ओष्ठः कोकमुखश् च यस् तान् इतो नाशयामसि
रामदन्तम् अवदलं प्रहालम् अहिनासिकम् । उपवर्तं बलाहकं खेलं गर्दभनादिनं गृध्रं हस्त्यायनं तान् (…)
प्रमृश्यादिनम् अभ्यमं भीमहस्तं मरीमृशम् । त्रस्ताक्षं मृद्वङ्गुलिं नखोग्रं दन्तवीर्यं तान् (…)
पर्यन्यम् अभिपापदं जिगीषमाणं रूपकम् । अथो शलल्यं शेवलं तान् (…)
तण्डम् अग्रेतुण्डिकम् अलिंशम् उत वत्सपम् । दामग्रन्थिं सनिस्रसम् अरण्येयं चार्म्येयं तान् (…)
इदं यज् जानुकेशवं रक्षश् चरत्य् आसुरं बहिः प्रयुतम् इच्छति । अंसून् पांस्यूंश् च केश्यान् अरायाञ् छ्वकिष्किणस् तान् इतो नाशयामसि
यः कुमाराञ् जनस्यात्ति तरुणान् दास आसुरः । अरायः केश्य् अघलो यो जनान् हन्त्य् अत्ति च तम् इतो नाशयामसि
हिराक्षो नाम गेह्यो ऽरायो नाम सूर्तहा । तम् इतो नाशयामसि
वितूलं भस्वम् आखिदं वनक्रोशं च रोरुहम् । आमादं प्रयुतैषणं पर्युन्दानं परिद्रवं वृकस्य न्यञ्चं गङ्गणं तान् इतो नाशयामसि
यश् च भूमा या च स्फातिर् योर्जा यो रसश् च ते । हरामि शक्र ताꣳ अहं त्वया प्रत्तां शचीपते
क्षेत्रात्क्षेत्राद् आ हरामि स्फातिं सर्वां शचीपते । त्वयाहं वृत्रहन् प्रत्तम् आ हरामि गृहाꣳ उप
यस् ते सीताभगः क्षेत्रे या राद्धिर् यच् च शीयते । अथो या निष्ठा ते क्षेत्रे तां त आदिषि ब्रह्मणा
यत् खले यन् मयारे यद् गोष्ठे यच् च शेवधौ । अथो यत् कुम्भ्यां शये तस्य ते रसम् आ ददे
ऊर्जा या ते निरुप्तस्य- -ऊर्जा यावहतस्य ते । ऊर्जां ते पिष्यमाणस्य- -ऊर्जां पिष्टात् त आ ददे
(…) ते निरुप्तस्य- -ऊर्जा यावहतस्य ते । ऊर्जां ते पच्यमानस्य- -ऊर्जां पक्वात् ते (…)
ऊर्जा या ते प्रणद्धस्य- -ऊर्जा या मथितस्य ते । ऊर्जां ते दुह्यमानस्य- -ऊर्जां दुग्धात् त आ ददे
आ ते ददे गवाम् ऊर्जाम् ऊर्जाम् अविभ्य आ ददे । अजाभ्य ऊर्जाम् आदाय- -आ त एकशफाद् ददे
ऊर्जा या ते पुरुषेषु- -ऊर्जा वित्ते च वेद्ये । ऊर्जां ते सर्वेषाम् अहं गृहाणां ब्रह्मणा ददे
पितुं नु स्तोषं महो धर्माणं तविषीम् । यस्य त्रितो व्य् ओजसा वृत्रं विपर्वम् अर्दयत्
स्वादो पितो मधो पितो वयं त्वा ववृमहे । अस्माकम् अविता भव
उप नः पितव् आ गहि शिवः शिवाभिर् ऊतिभिः । मयोभूर् अद्विषेण्यः सखा सुशेव एधि नः
तव त्ये पितो रसा रजांस्य् अनु विष्ठिताः । दिवि वाता इव श्रिताः
तव त्ये पितो ददतस् तव स्वादिष्ठ ते पितो । प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते
त्वे पितो महानां देवानां मनो हितम् । अकारि चारु केतुना तवाहिम् अवसावधीत्
यद् अदः पितो अजगन् विवस्व पर्वतानाम् । अत्रा चिन् नो मधो पितो ऽरं भक्षाय गम्याः
यत् ते सोम गवाशिरो यवाशिरो भजामहे । वातापे पीव इद् भव
यद् अपाम् ओषधीनां परिंशम् आरिशामहे (…)
करम्भ ओषधे भव पीवो वृक्क उदारथिः । वातापे पीव इद् भव
तं त्वा वयं पितो वचोभिर् गावो न हव्या सुषूदिम । अस्मभ्यं त्वा सधमादं देवेभ्यस् त्वा सधमादम्
प्रति त्यं चारुम् अध्वरं गोपीथाय प्र हूयसे । मरुद्भिर् अग्न आ गहि
नहि देवो न मर्त्यो महस् तव क्रतुं परः (…)
ये महो रजसो विदुर् विश्वे देवासो अद्रुहः (…)
ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः (…)
य उग्रा अर्कम् आनृचुर् अनाधृष्टास ओजसा (…)
ये नाकस्याधि रोचने दिवि देवास आसते (…)
य ईङ्खयन्ति पर्वतान् तिरः समुद्रम् ओजसा (…)
आ ये तन्वन्ति रश्मिभिस् तिरः समुद्रम् अर्णवम् (…)
अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु (…)
आ यन्तु मरुतो गणै स्तुता दधतु नो रयिम् (…)
आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः । मरुद्भिर् अग्न आ गहि
अनुवाक ३ ॥ सं मा सिञ्चन्तु मरुतः सं पूषा सं बृहस्पतिः । सं मायम् अग्निः सिञ्चतु प्रजया च धनेन च दीर्घम् आयुष् कृणोतु मे
(…) सिञ्चन्त्व् आदित्याः सं मा सिञ्चन्त्व् अग्नयः । इन्द्रः सम् अस्मान् सिञ्चतु (…)
(…) सिञ्चन्त्व् अरुषाः सम् अर्का ऋषयश् च ये । पूषा सम् (…)
(…) सिञ्चन्तु गन्धर्वाप्सरसः सं मा सिञ्चन्तु देवताः । भगः सम् (…)
(…) सिञ्चन्तु पृथिवीः सं मा सिञ्चन्तु या दिवः । अन्तरिक्षं सम् (…)
(…) सिञ्चन्तु प्रदिशः सं मा सिञ्चन्तु या दिशः । आशा सम् (…)
(…) सिञ्चन्तु नद्यः सं मा सिञ्चन्तु सिन्धवः । समुद्रः सम् (…)
(…) सिञ्चन्तु कृषयः सं मा सिञ्चन्त्व् ओषधीः । सोमः सम् (…)
सं मा सिञ्चन्तु या आपः सं मा सिञ्चन्तु वृष्टयः । सरस्वती सम् अस्मान् सिञ्चतु प्रजया च धनेन च दीर्घम् आयुष् कृणोतु मे
सं भगो वर्चसा माग्ने सं विष्णुः पुष्ट्या सिचत् । क्षत्रं सम् अस्मान् सिञ्चतु प्रजया च धनेन च- -आयुष्मन्तं कृणोतु मा
सं विराड् वर्चसा माग्ने सं देष्ट्री पुष्ट्या सिचत् । इडा सम् अस्मान् सिञ्चतु प्रजया च (…)
सं धाता वर्चसा माग्ने सं सिक्तिः पुष्ट्या सिचत् । सं देवो अस्मान् अर्यमा प्रजया च (…)
सम् अंशो वर्चसा माग्ने सं वायुः पुष्ट्या सिचत् । वातः सम् अस्मान् सिञ्चतु प्रजया च (…)
सं सभा वर्चसा माग्ने सं सुरा पुष्ट्या सिचत् । सूर्या सम् (…)
सं सविता वर्चसा माग्ने सं सूर्यः पुष्ट्या सिचत् । चन्द्रः सम् (…)
सं पशवो वर्चसा माग्ने सं यज्ञः पुष्ट्या सिचत् । दक्षिणा सम् (…)
सं मा सिञ्चतु द्रविणं सं मा सिञ्चत्व् इन्द्रियम् । तेजः सम् (…)
सं मा सिञ्चन्तु वर्चांसि सं मा सिञ्चन्तु भूतयः । सत्यं सम् अस्मान् सिञ्चतु प्रजया च धनेन च- -आयुष्मन्तं कृणोतु मा
आ रात्रि पार्थिवं रजः पितुर् अप्रायि धामभिः । दिवः सदांसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः
न यस्याः पारं ददृशे न योयुवद् विश्वम् अस्यां नि विशते यद् एजति । अरिष्टासस् त उर्वि तमस्वति रात्रि पारम् अशीमहि भद्रे पारम् अशीमहि
ये ते रात्रि नृचक्षसो द्रष्टारो नवतिर् नव । अशीतिः सन्त्य् अष्टा उतो ते सप्त सप्ततिः
षष्टिश् च षट् च रेवति पञ्चाशत् पञ्च सुम्नयि । चत्वारश् चत्वारिंशच् च त्रयस् त्रिंशच् च वाजिनि
द्वा च विंशतिश् च ते रात्र्य् एकादशावमाः । तेभिर् नो ऽद्य पायुभिर् नि पाहि दुहितर् दिवः
रक्षा माकिर् णो अघशंस ईशत मा नो दुःशंस ईशत
मा नो अद्य गवां स्तेनो मावीनां वृक ईशत । माश्वानां भद्रे तस्करो मा नृणां यातुधान्यः
परमेभिः पथिभि स्तेनो धावतु तस्करः । परेण दत्वती रज्जुः परेणाघायुर् अर्षतु
अन्धं रात्रि तिष्ठधूमम् अशीर्षाणम् अहिं कृणु । हनू वृकस्य जम्भय- -आ स्तेनं द्रुपदे जहि
त्वयि रात्रि वसामसि स्वपिष्यामसि जागृहि । गोभ्यो नः शर्म यच्छ- -अश्वेभ्यः पुरुषेभ्यः
अथो यानि च वस्महे यानि चान्तः परीणहि । तानि ते परि दद्मसि
रात्रि मातर् उषसे नः परि देहि । उषा नो अह्ने परि ददात्व् अहस् तुभ्यं विभावरि
यत् किं चेदं पतयति यत् किं चेदं सरीसृपम् । यत् किं च पद्वद् आसन्वत् तस्मात् त्वं रात्रि पाहि नः
सा पश्चात् पाहि सा पुरः सोत्तराद् अधराद् उत । गोपाय नो विभावरि स्तोतारस् त इह स्मसि
ये रात्रिम् अनुतिष्ठन्ति ये च भूतेषु जाग्रति । पशून् ये सर्वान् रक्षन्ति ते न आत्मसु जाग्रतु ते नः पशुषु जाग्रतु
वेद वै रात्रि ते नाम घृताची नाम वा असि । तां त्वा भरद्वाजो वेद सा नो वित्ते ऽधि जागृहि
ब्रह्मास्य शिरो बृहद् अस्य पृष्ठं वामदेव्यम् उदरम् ओदनस्य । छन्दांसि पक्षौ मुखम् अस्य सत्यं विष्टारी यज्ञस् तपसो ऽधि जातः
अनस्थाः शुद्धाः पवनेन पूताः शुचयः शुचीन् अपि यन्ति लोकान् । विष्टारिणम् ओदनं ये पचन्ति नैषां शिश्नं प्र दहति जातवेदाः
नैषां शिश्नं प्र दहति जातवेदाः स्वर्गे लोके बहु स्त्रैणम् एषाम् । नैनान् यमः परि मुष्णाति रेतः
आस्ते यम उप याति देवान् सं गन्धर्वैर् मदति सोम्यैः । विष्टारिणम् ओदनं ये पचन्ति नैनान् अवर्तिः सचते कुतश् चन
रथी ह भूत्वा रथयान ईयते पक्षी ह भूत्वापि दिवं सम् एति । एष यज्ञो विततो वहिष्ठो विष्टारी पक्वो दिवम् आ ससाद
चतुरः कुम्भांश् चतुर्धा ददाति क्षीरेण पूर्णान् उदकेन दध्ना । एतास् त्वा कुल्या उप यन्तु विश्वतः स्वर्गे लोके स्वधया पिन्वमानाः
घृतह्रदा मधुकूलाः सुरोदकाः क्षीरेण पूर्णा उदकेन दध्ना । एतास् त्वा कुल्या उप यन्तु विश्वहा स्वर्गे लोके स्वधया मादयन्तीः
पुण्डरीकं कुमुदं सं तनोति बिसं शालूकं शफको मुलाली । स्वर्गे लोके स्वधया पिन्वमाना उप मा तिष्ठन्तु पुष्करिणीः समक्ताः
यम् ओदनं पचामि श्रद्दधानो विष्टारिणं लोकजितं स्वर्गम् । स मे मा क्षेष्ट सदम् अश्यमानो विश्वरूपा कामदुघा धेनुर् अस्तु मे
वृषभं सन्तं सह सूनृतया स्वर्गे लोके अमृतं दुहानम् । ये मे पुत्राः पितरश् च सन्ति ते त्वा विष्टारिन्न् उप सर्वे सदेयुः
य इमान् यज्ञान् अभि वितष्टार यस्येमे लोकाः स्वधया समक्ताः । ये मे पौत्रा उत ये पितामहास् तेभ्यो विष्टारिन्न् अमृतानि धुक्ष्व
यदि पृथिवीं यद्य् अन्तरिक्षं यदि दिवं देवता वा जगन्थ । ये मे प्रपौत्राः प्रपितामहाश् च ते त्वा विष्टारिन्न् अनु प्र ज्ञेषुर् अत्र
स्वर्गे लोके अप्सरस एनाञ् जाया भूत्वोप शेरते । विष्टारिणम् ओदनं ये पचन्त्य् अस्मिंल् लोके दक्षिणया परिष्कृतम्
निर् णुदैनां प्र णुदैनां स्वान् निपदनाद् अधि । विभ्रंशम् अस्यै कृण्मो वि गृहैर् भ्रंशताम् असौ
अपाञ्चं पतिम् आ कुर्व् अधराचीं स्त्रियं नय । अतीमान् दश पर्वतान् अतीमा नाव्या दश
अधराचीम् अवाचीम् अथो अकुशलां दिशम् । विभ्रंशम् अस्यै कृण्मस् तेनैनां प्र दहामसि
आज निर् अज बिलं बिलाद् अरण्यम् आ कुर्व् अरण्याद् अरणं जनम् । मृगाꣳ अनु प्र पातय वातस्यैनां शिखां कुरु
वाताग्रे अस्या हृदयं मनो रेष्मणि दध्मसि । विभ्रंशम् अस्यै कृण्मो विध्वंशम् आसक्तं दमे
सर्वम् अनु परि प्लवताम् अन्तरा द्यावापृथिवी उभे । यथानवधृता चराद् वृषतूलम् इवोपरि
अशम् अस्यै वातो वात्व् अशं तपतु सूर्यः । अथो यद् अन्नम् अश्नाति तद् अस्यै विषवत्तरम्
सिंहस् ते अस्तु चक्षुष इत्य् एका
एष वाम् अग्निर् अन्तरा स विष्वञ्चौ व्य् अस्यतु । यथा वां न सहासत्य् उत्तरस्मिंश् चनायुषि
उत् पातय शिमिदावति प्र पातय शिमिदावति । इमौ व्य् अस्य दम्पती पक्वं मांसम् इवासिना
मेयम् अस्मिन् पतौ रंस्त मो अस्मिञ् छयने स्वे । जहातु वसनं स्वम् अहिर् जीर्णाम् इव त्वचम्
यथा मृताश् च जीवाश् च- -अस्मिंल् लोके व्योकसः । एवेमौ दम्पती स्ताम् अस्मिंल् लोके व्योकसौ
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ṚṢIS). Atharvaveda Paippalāda — Kāṇḍa 6. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-6>. Acesso em: 26/04/2026.
Tradição Védica (Ṛṣis) (2026). Atharvaveda Paippalāda — Kāṇḍa 6. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-6
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 6." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-6.