Atharvaveda Paippalāda — Kāṇḍa 7
Tradição Védica (Ṛṣis)
अनुवाक ४ ॥ काण्ड ७ सुपर्णस् त्वान्वविन्दत् सूकरस् त्वाखनन् नसा । दिप्सौषधे त्वं दिप्सन्तं प्रति कृत्याकृतो दह
प्रति दह यातुधानान् प्रति कृत्याकृतो दह । अथो यो अस्मान् दिप्सति तम् उ त्वं जह्य् ओषधे
अग्ने पृतनाषाट् पृतनाः सहस्व । प्रति कृत्यां कृत्याकृते प्रतिहरणेन हरामसि
इष्वा ऋजीयः पततु द्यावापृथिवी तत् सुतात् । तत् तं मृग इव विध्यतु कृत्या कृत्याकृतं कृता
अघम् अस्त्व् अघकृते शपथाः शपथीव्ने । प्रत्यक् प्रति प्र हिण्मसि यश् चकार तम् ऋच्छतु
यस् त्वा कृत्य इत्य् एका
पुनः कृत्यां कृत्याकृते हस्तगृह्य परा णय । समक्षम् अस्मा आ दध्मो यथा कृत्याकृतं हनत्
पुत्र इव पितरं गच्छ स्वज इवाभिष्ठितो दश । तन्तुर् इवावव्ययन्न् इहि कृत्ये कृत्याकृतं कृता
उद् एणीव वारिण्य् अभिस्कन्दं मृगीव । कृत्या कर्तारम् ऋच्छतु
ऋश्यस्येव परीशासं परिमाय परि त्वचः । दुर्हार्दे चक्रुषे कृत्यां ग्रीवासु प्रति मुञ्चत
या कृत्ये देवकृता या वा मनुष्यजा असि । तां त्वा प्रति प्र हिण्मसि प्रतीचीनेन ब्रह्मणा
यदि स्त्री यदि वा पुमान् कृत्यां चकार पाप्मने । ताम् उ तस्मै नयामस्य् अश्वम् इवाश्वाभिधान्या
ओक्ते मे द्यावा पृथिवी ओक्ता देवी सरस्वती । ओक्तौ म इन्द्रश् चाग्निश् च क्रिमिं जम्भयताम् इमम्
अस्येन्द्र कुमारस्य क्रिमिं धनपते जहि । हता विश्वा अरातयो ऽनेन वचसा मम
यो +ऽक्ष्यौ परिसर्पति यो नासे परिसर्पति । दतां यो मध्यं गच्छति तं क्रिमिं जम्भयामसि
विरूपौ द्वौ सरूपौ द्वौ कृष्णौ द्वौ रोहितौ द्वौ । बभ्रुश् च बभ्रुकर्णश् च गृध्राः कोकाश् च ते हताः
ये क्रिमयः शितिकक्षा ये कृष्णाः शितिबाहवः । ये के च विश्वरूपास् तान् क्रिमीञ् जम्भयामसि
यो द्विशीर्षा चतुरक्षः क्रिमिः सारङ्गो अर्जुनः । शृणाम्य् अस्य पृष्टीर् अपि वृश्चामि यच् छिरः
उद् असौ सूर्यो अगाद् विश्वदृष्टो अदृष्टहा । दृष्टांश् च घ्नन्न् अदृष्टांश् च सर्वांश् च प्रमृणन् क्रिमीन्
येवाषासः कष्कषासो ध्रूक्ष्णासः शिपवित्नवः । दृष्टश् च हन्यतां क्रिमिर् अदृष्टश् चोत हन्यताम्
हतो येवाषो हतः शिपविर् हतो गङ्गणिवाꣳ उत । हता विश्वा अरातय उग्रेण वचसा मम
सर्वेषां च क्रिमीणां सर्वासां च क्रिमीणाम् । भिनद्म्य् अश्मना शिरो दहाम्य् अग्निना मुखम्
तिग्मेभिर् अग्ने अर्चिभिः शुक्रेण देव शोचिषा । आमादो नि वह त्वम् अन्यम् आसनि कृण्वताम्
शोचिषाग्ने अर्चिषा च निर् दहेतो अघायतः । सख्यम् आवं कृण्वहे त्वं च- -आमाद उप शं भुवन्
निर् आमादो नयामसि निष् क्रव्यादो गृहेभ्यः । सस्यादो नाम ये देव ते अग्ने मा दभन् त्वाम्
आमादश् च क्रव्यादश् च सस्यादश् चोभयान् सह । प्रजां ये चक्रिरे भागं तान् इतो निर् णयामसि
य आमेष्व् अरमन्त न पक्वम् उपदाधृषुः । ते यन्तु सर्वे संभूय- -अन्यत्रेतो ऽघायवः
य एनस्वी दुष्कृतकृत् किल्बिषकृतसाधी यः । पुनस् तान् यज्ञिया देवा नयन्तु यत आगताः
अव रेणुम् अव रजो नेनिजे हस्त्यं मलम् । धाता नो भद्रया नेषत् स नो गोपायतु प्रजाम्
कृण्वे ऽहं रोदसी वर्म स्याम सवितुः सवे । माता नो भद्रया भूमिर् द्यौश् चास्मान् पात्व् अंहसः
यद् असुराणाम् अहन्य् अस्मान् पापा उपेथन । देवानां पयश् च दैव्यम् आपः शुन्धन्तु माम् इमाः
आ ते पितर् मरुतां सुम्नम् एमि मा नः सूर्यस्य संदृशो युवथाः । अभि नो वीरो ऽर्वतीः क्षमेत प्र जायामहै रुद्र प्रजया
यो ऽवृद्धं हन्ति यो गर्भे अन्तर् यो जातं जनितव्यं च पूरुषम् । तस्मा ऋध्यासं हविषाहम् अद्य स नः प्रजां जरदष्टिं कृणोतु
इन्द्रस्य बाहू स्थविरौ वृषाणौ चित्रा इमा वृषभौ पारयिष्णू । तौ योक्ष्ये प्रथमौ योग आगते याभ्यां जितम् असुराणां स्वर् यत्
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश् चर्षणीनाम् । संक्रन्दनो ऽनिमिष एकवीरः शतं सेना जयतु साकम् इन्द्रः
संक्रन्दनेनानिमिषेण जिष्णुना- -अयोध्येन दुश्च्यवनेन धृष्णुना । तद् इन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा
स इषुहस्तैः स निषङ्गिभिर् वशी संस्रष्टा युध इन्द्रो गणेन । संसृष्टजित् सोमपा बाहुशर्ध्य् ऊर्ध्वधन्वा प्रतिहिताभिर् अस्तात् ॥ प्रपाठक
बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः । अभिवीरो अभिषत्वा सहोजिज् जैत्रायेन्द्र रथम् आ तिष्ठ गोविदम्
इमं वीरम् अनु हर्षध्वम् उग्रम् इन्द्रं सत्वानो अनु सं रभध्वम् । ग्रामजितं गोजितं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा
अभि गोत्राणि सहसा गाहमानो अदाय उग्रः शतमन्युर् इन्द्रः । दुश्च्यवनः पृतनाषाड् अयोध्यो अस्माकं सेना अवतु प्र युत्सु
बृहस्पते परि दीया रथेन रक्षोहामित्राꣳ अपबाधमानः । प्रभञ्जञ् छत्रून् प्रमृणन्न् अमित्रान् अस्माकम् एध्य् अविता तनूनाम्
इन्द्र आसां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर एतु सोमः । देवसेनानाम् अभिभञ्जतीनां जयन्तीनां मरुतो यन्तु मध्ये
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् । महामनसां भुवनच्यवानां घोषो देवानां जयताम् उद् अस्थात्
अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या इषवस् ता जयन्तु । अस्माकं वीरा उत्तरे भवन्त्व् अस्मान् देवासो ऽवता हवेषु
वैश्वानराद् अरोचत जातो हिरण्ययो मणिः । तम् आभरद् बृहस्पतिः कश्यपो वीर्याय कम्
बृहस्पतिस् तम् अकृणोन् मणिं वैश्वानरं सहः । सप्तर्षयो बलाय कं सं दधुष् ट्वा वयोधसः
विश्वे देवास् त इन्द्रियं सप्तर्षयश् च सं दधुः । जातो हिरण्ययो मणिर् अग्नेर् वैश्वानराद् अधि
अश्वत्थो जातः प्रथमो ऽग्नेः प्रियतमा तनूः । वैश्वानरस्य सृष्ट्या कृत्यादूषिः कृतो मणिः
कृत्यादूषिं त्वाविदं कृत्यादूषिं भरामि त्वा । कृत्यादूषिं कृणोमि त्वा कृत्यादूषिं वयोधसम्
पतत्री पक्षी बलवान् कृत्यादूषिः सपत्नहा । नितत्निर् विश्वभेषज उग्र आपतिको मणिः
पतत्री ते बलाय कं नितत्निर् भेषजाय ते । जातो हिरण्ययो मणिर् अप रक्षांसि सेधतु
देवो मणिः सपत्नहा रक्षोहामीवचातनः । हिरण्ययोनिर् अंशुमान् कश्यपेनाभृतं सहः
वैश्वानरं तेजनम् एकम् आहुर् अग्नेर् योनेः सह चन्द्रेण जातम् । गयस्फानः प्रतरणो वयोधाः कृत्यादूषिर् वलगहास्य् उग्रः
यस्येदं भूम्याम् अधि निक्रान्तं पांसुरे पदम् । मृजानस् तन्वो यद् रपस् तस्य स्नाहि तनू अधि
दूष्यास् त्वा वधं वयं देवस्य सवितुः सवे । जीवातवे भरामसि मह्या अरिष्टतातये
आच्छेदनः प्रच्छेदनो द्विषतस् तपनो मणिः । शत्रुञ्जयः सपत्नहा द्विषन्तम् अप बाधताम्
अनुवाक १ ॥ सत्यस्य स्थूणा पृथिवीं दाधार ऋतेन देवा अमृतम् अन्व् अविन्दन् । ध्रुवेण त्वा हविषा धारयाम्य् अभि तद् द्यावापृथिवी गृणीताम्
येभिर् होमैर् विश्वकर्मा दाधारेमां पृथिवीं मातरं नः । तेभिष् ट्वा होमैर् इह धारयाम्य् ऋतं सत्यम् अनु चरन्तु होमाः
इह ध्रियध्वं धरुणे पृथिव्या उशत्या मातुः सुभगाया उपस्थे । अपराणुत्ता महसा मोदमाना अस्मिन् वास्तौ सुप्रजसो भवाथ
सुप्रजसो महसा मोदमाना वर्ष्मन् पृथिव्या उपरि श्रयध्वम् । अस्यै शालायै शर्म यच्छन्तु देवा धाराभिर् एनां पृथिवी पिपर्तु
इमां शालां श्रेष्ठतमां वसूनाम् अरिष्टवीरा अभि सं चरेम । दृढा अस्या उपमितो भवन्तु स्थिरा वीरा उपसदो भवन्तु
इमां शालां सविता वायुर् इन्द्रो बृहस्पतिर् नि मिनोतु प्रजानन् । उक्षन्तूद्ना मरुतो घृतेन भगो नो राजा नि कृषिं दधातु
मानस्य पत्नि हविषो जुषस्व तीव्रान्तस्य बहुलमध्यमस्य । आ त्वा शिशुर् वाश्यताम् आ कुमार आ वाश्यन्तां धेनवो नित्यवत्साः
दृढास् ते स्थूणा भवन्तु भूम्याम् अधि दृढाः पक्षासस् तव देवि शाले । स्थिरवीरानमित्रा न एधि शर्म नो यच्छ द्विपदे चतुष्पदे
शाला देवी गार्हपत्याय चाक्ल्̥पे तृणं वसाना जगते सुशेवा । स्थिराङ्गां त्वा स्थिरपूरुषां मानस्य पत्नि स्थिरां त्वा वीरा अभि सं चरेम
वास्तोष्पते प्रति जानीह्य् अस्मान् स्वावेशो अनमीवो न एधि । यत् त्वेमहे प्रति नस् तज् जुषस्व चतुष्पदो द्विपद आ वेशयेह
दर्भो अग्र ओषधीनां शतकाण्डो अजायत । स सहस्रवीर्यः परि णः पातु विश्वतः
यथा दर्भो जायमानस् त्वचं भिनत्ति भूम्याः । एवा स भिद्यतां जनो यो नः पापं चिकित्सति
अप नाडम् अप कृत्याम् अप रक्षः सदान्वाः । अमीवाश् चातयामसि सर्वाश् च यातुधान्यः
अस्ति वै निवत उद्वनं न वै सर्वम् अनुप्लवम् । असि त्वं तस्य दूषणो यो नः पापं चिकित्सति
परि सायं परि प्रातः परि मध्यंदिनं परि । दर्भो हिरण्यहस्तघ्नः परि णः पातु विश्वतः
गिरौ जातः स्वर् अहासि साकं सोमेन बभ्रुणा । मा पापकृत्वनः शिषो मा पाकः पुरुषो रिषत्
दिवो मूलम् अवततं पृथिव्याम् ओत आहितः । दर्भः सहस्रवीर्यः परि णः पातु विश्वतः
सहस्रकाण्डस् तविषस् तीक्ष्णवल्शो विषासहिः । दर्भेण सर्वा रक्षांस्य् अमीवाश् चाप दहामसि
अपदग्धं दुष्वप्न्यम् अपदग्धा अरातयः । सर्वाश् च यातुधान्यः
मा त्वा दभन् यातुधाना मा ब्रध्नः शकुनिः पतन् । दर्भो राजा समुद्रियः परि णः पातु विश्वतः
यो नः पापेन वचसा- -अघोषतो दुरुक्तं ब्रुवत् । आराच् छप्तम् अप्राप्यास्मान् अप तद् यातु सर्वतः
यन् नः शपाद् अरणो यत् सपत्नः श्वश्रूर् वा यच् छ्वशुरो वा शपाति । ज्यायसः शपथान् वयं यवेन यावयामसि
यान् समस्यन्ते शपथान् वाक्क्षम्यानृत्वियामधि । यवं त्वं बिभ्रद् बाह्वोः पूर्वः प्रति शृणीहि तान्
ऋजुकेशो यवो बभ्रुर् मघवा नो ऽनुमाद्यः । हिरण्यधन्वा शपथान् उपेजतु
त्वां पीत्वेन्द्रो वृत्रं शक्रो जघान वासवः । स विषाही यथर्षभः सहस्व शपथान् यव
आराच् चरन्तु शपथा युता इतो जिह्वा उ दिता अरसाः सन्तु सर्वे । नामग्राहाद् वाचो हेडाद् ईक्षिताद् घोरचक्षसः शर्म ते वर्म कृण्मसि
अपाञ्चो यन्तु शपथा जनेनास्ता अघायुना । यो नो दुरस्याज् जीवते स्वेनानागसे सते
परि मा पातु शपथाद् अनृताद् दुरिताद् उत । परि मा ज्यायसः शंसाद् यवो रक्षतु मा रिषम्
अनास्तिग्यं शपथैर् अनतिव्याध्यं कृतम् । बृहद् वर्म प्रति मुञ्चामि ते यवम्
तं वयांसीव पक्षिण आ विशन्तु पतत्रिणः । शप्तारं शपथाः पुनः
आ नो दिश मा परि ष्ठा अराते मा नो रक्षीर् दक्षिणां याचमानाम् । प्र णः प्रदाता सविता च यच्छतां नमो वीर्त्साया असमृद्ध्यै च कृण्मः
यम् अराते पुरोधत्से पुरुषं परिरापिणम् । नमस् ते तस्मै कृण्मो मा वनिं मम विव्यथः
यम् अद्याभिप्रयुञ्ज्महे मनसा हृदयेन च । अराते तं नो मा वीर्त्सीर् दित्सन्तं परिरापिणि
प्र णो वनिर् देवकृता दिवा नक्तं च सिध्यतु । अरातिम् अनुप्रेमो वयं नमो ऽस्त्व् अरातये
उत नग्ना बोभुवती स्वप्नया सचसे जनम् । अराते चित्तं वीर्त्सन्त्य् आकूतिं पुरुषस्य च
परो ऽपेह्य् असमृद्धे वि ते हेतिं नयामसि । यं द्विष्मस् तं सचस्व कन्या भूत्वा स्रग्विणी रुक्मिणी दृशे
नमस् ते ऽस्त्व् असमृद्धे मा मां पुरोधिं कृणुथाः । वेद त्वाहं निमीवन्तीं नितुदन्तीम् अराते मर्त्यान् मर्त्येभ्यो अधि निर्वदन्तीम्
मा नो वनिं मा वाचं मा वीर्त्सीर् उग्राव् इन्द्राग्नी न आ भजतां वसूनि । सर्वे नो ऽद्य दित्सन्तो अरातिं प्रति हर्यत
सवितारम् अनुमतिं भगं यन्तो हवामहे । वाचं जुष्टां मधुमतीं वदानि देवानां देवहूतिषु
यं याचामि नकुल्या जिह्वयोष्ठापिधानया । श्रद्धा तम् अद्य विन्दतु दत्ता सोमेन बभ्रुणा
ऐतु देवस् त्रायमाणः कुष्ठो हिमवतस् परि । तक्मानं सर्वं नाशयन् सर्वाश् च यातुधान्यः
त्रीणि ते कुष्ठ नामानि नघमारो नघारिषो नघायुषो न घायं पुरुषो रिषत् । यस्मै परिब्रवीमि त्वा सायंप्रातर् अथो दिवा
जीवला नाम ते माता जीवन्तो नाम ते पिता मारिषा नाम ते स्वसा न (…)
उत्तमो ऽस्य् ओषधीनाम् अनड्वाञ् जगताम् इव व्याघ्रः श्वपदाम् इव न घायं पुरुषो रिषत् । यस्मै परिब्रवीमि त्वा सायंप्रातर् अथो दिवा
त्रिः शाम्बुभ्यो गिरेयेभ्यस् त्रिर् आदित्येभ्यस् परि । त्रिर् जातो विश्वदेवेभ्यः स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । तक्मानं सर्वं नाशयन् सर्वाश् च यातुधान्यः
अश्वत्थो देवसदनस् तृतीयस्याम् इतो दिवि । तत्रामृतस्य चक्षणं ततः कुष्ठो ऽजायत । सः (…)
हिरण्ययी नौर् अचरद् धिरण्यबन्धना दिवि (…)
यत्र नावः प्रभ्रंशनं यत्र हिमवतः शिरः । तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत । स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । तक्मानं सर्वं नाशयन् सर्वाश् च यातुधान्यः
यं त्वा वेद पूर्व ऐक्ष्वाको यं वा त्वा कुष्ठ काश्यः । यं शावसो यं मात्स्यस् तेनासि विश्वभेषजः
शीर्षालाकं तृतीयकं सदन्दिर् यश् च हायनः । तक्मानं विश्वधावीर्य- -अधराञ्चं परा सुव
अनुवाक २ ॥ ये पर्वताः सोमपृष्ठा आप उत्तानशीवरीः । वातः पर्जन्य आद् अग्निस् ते क्रव्यादम् अशीशमन्
यस् ते हन्ति चराचरम् उत्थास्यन्तं सरीसृपम् । गर्भं यो दशमास्यं तम् इतो नाशयामसि
यदि घ्नन्त्य् अप्सरसो गन्धर्वा गेह्या उत । क्रव्यादो मूरदेविनस् तान् इतो नाशयामसि
यस् त ऊरू आरोहत्य् असृक् ते रेहणाय कम् । आमादः क्रव्यादो रिपूंस् तान् इतो नाशयामसि
यस् ते श्रोणी च्यावयत्य् अन्तरा दम्पती शये । योनिं यो अन्तर् आरेढि तम् इतो नाशयामसि
यस् त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते । प्रजां यस् ते जिघत्सति तम् (…)
यस् त्वा पत्युः प्रतिरूपो जारो भूत्वा निपद्यते । अरायं कण्वं पाप्मानं तम् इतो नाशयामसि
हा है खर्व खलते नैगूरकर्ण तुण्डिल । इन्द्रस्य तिग्मम् आयुधं तेन त्वा नाशयामसि
नमस् तण्डाय नमः कुसुमाय नमः प्रतिपाव्ने नमः कःस्वधेये । नमस् तुभ्यं निरृते विश्ववारे जरेमं धापयतां विश्वरूपा
यावद् द्यौर् यावत् पृथिवी यावत् पर्येति सूर्यः । तावत् त्वम् उग्र गुल्गुलो परीमां पाहि विश्वतः
एकराज्ञीम् एकव्रताम् एकस्थाम् एकलामिकाम् । पाटां सपत्नचातनीं जैत्रायाच्छा वदामसि
एकराज्ञ्य् एकव्रत एकस्थ एकलामिके । न त्वा सपत्नी सासाह गैरेयी च न बाह्या
उत्तराहम् उत्तराभ्य उत्तरेद् अधराभ्यः । अधः सपत्नी मामक्य् अधरेद् अधराभ्यः
न सैन्धवस्य पुष्पस्य सूर्यो म्लापयति त्वचम् । पाटे ऽम्लातया त्वया सपत्न्या वर्च आ ददे
न वै पाटे पाटेवासि सुभागंकरणीद् असि । पाटे भगस्य नो धेह्य् अथो मा महिषीं कृणु
यत् पाटे अधि वृक्षे वातप्लवा महीयसे । जयन्ती प्रत्यातिष्ठन्ती संजया नाम वा असि
उत्तानपर्णां सुभगां सहमानां सहस्वतीम् । अच्छा बृहद्वदां वद पाटां सपत्नचातनीम्
पाटाम् इन्द्रो व्य् आश्नाद् धन्तवा असुरेभ्यः । तयाहं सपत्नीं साक्षीय महेन्द्रो दानवान् इव
पाटा बिभर्त्य् अङ्कुशं हिरण्यवन्तम् अङ्किनम् । तेन सपत्न्या वर्च आ लुम्पामि ममेद् असत्
इमां खनाम्य् ओषधिं वीरुधां बलवत्तमाम् । यया सपत्नीं बाधते कृणुते केवलं पतिम्
यासाम् आराद् आघोषामो वातस्येव पृथग् यतः । तासां श्वन्वतीनाम् इन्द्रो अपि कृतच् छिरः
याः पुरस्ताद् आचरन्ति साकं सूर्यस्य रश्मिभिः (…)
या वातम् अनुसंयन्त्य् अन्तरिक्षे अधो दिवः (…)
यासां प्रेङ्खो दिवि बद्धो अन्तरिक्षे हिरण्ययः (…)
यास् तल्पान् अनुनृत्यन्त्य् अन्तरिक्षे हिरण्ययान् (…)
याः पतन्ति वातरथा उत्तानाः पादघातिनीः (…)
या वृक्षं परिसर्पन्ति साच्य् अक्षी करिक्रतीः (…)
याश् चत्वरे संगच्छन्ते विकुम्बाश् चेलवासिनीः (…)
यासां सिकतवापिषु गृहो मितो हिरण्ययः (…)
या आरोकैः प्रपद्यन्ते पुष्करैर् इव जामयः (…)
या नदीः प्रतिगाहन्ते संरभ्य कन्या इव (…)
यास् तीर्थानि विगाहन्ते ऽघ्न्याः श्वसतीर् इव (…)
याः समुद्राद् उच्चरन्त्य् उच्चैर् घोषान् करिक्रतीः (…)
या गच्छन्ति जनंजनम् इच्छन्तीः प्रयुतं बहु । तासां श्वन्वतीनाम् इन्द्रो अपि कृतच् छिरः
अग्निर् आयुष्मान् स वनस्पतिभिर् आयुष्मान् । स मायुष्मान् आयुष्मन्तं कृणोतु
वायुर् आयुष्मान् सो ऽन्तरिक्षेणायुष्मान् (…)
सूर्य आयुष्मान् स दिवायुष्मान् (…)
चन्द्र आयुष्मान् स नक्षत्रैर् आयुष्मान् (…)
सोम आयुष्मान् स ओषधीभिर् आयुष्मान् (…)
यज्ञ आयुष्मान् स दक्षिणाभिर् आयुष्मान् (…)
समुद्र आयुष्मान् स नदीभिर् आयुष्मान् । स मायुष्मान् आयुष्मन्तं कृणोतु
ब्रह्मायुष्मत् तद् ब्रह्मचारिभिर् आयुष्मत् । तन् मायुष्मद् आयुष्मन्तं कृणोतु
इन्द्र आयुष्मान् स वीर्येणायुष्मान् । स मायुष्मान् आयुष्मन्तं कृणोतु
देवा आयुष्मन्तस् ते ऽमृतेनायुष्मन्तः । ते मायुष्मन्त आयुष्मन्तं कृण्वन्तु
प्रजापतिर् आयुष्मान् स प्रजाभिर् आयुष्मान् । स मायुष्मान् आयुष्मन्तं कृणोतु
दक्षिणा मा दक्षिणतो दक्षिणा पातु सव्यतः । पश्चाद् अनुव्याधात् पातु सर्वस्या भवहेत्याः
पशुना त्वं पशुपते द्विपाद् दत्त्वा चतुष्पदा । आत्मन्वतीं दक्षिणां प्राणं दत्त्वा प्राणिहि
यां ददासि श्रद्दधानो दक्षिणां ब्राह्मणकृते । सा त्वा यक्ष्मात् पारयत्व् अग्नेः संतापाद् दिव्यस्य शोकात्
ददासीमां दक्षिणां मा त आममच् छल्यान् यक्ष्मान् वि वृहामो वयं ते । कर्णशूलम् उपहत्या अरातीः सर्वे यक्ष्मा अप तिष्ठन्तु साकम्
अन्नेन प्राणं वनुते तिरो धत्ते परिधानेन यक्ष्मम् । हिरण्यम् अश्वं गां ददत् कृणुते वर्म दक्षिणाम्
उष्णीषं त्वा शीर्षक्त्या वासस् त्वा तन्वामयात् । चन्द्रं हिरण्यम् अन्ध्यात् कर्णाद् दत्तं शुक्रं भ्राजद् बाधिर्यात् पातु दक्षिणा
उपबर्हणं त्वा ग्रीवामयान् मणयो यक्ष्माद् दत्क्रव्यात् । अङ्गरोगाद् अभ्यञ्जनम् अन्नं त्वान्तष्ट्यामयात्
अधस्पदाद् आमयतः पदो रोगाद् उपानहौ । दण्डस् त्वा दत्तः परि पातु सर्पाद् दक्षिणतः प्रयतो दक्षिणेन
सौमनसं दक्षिणां दक्षमाणा इषम् ऊर्जं दक्षिणां संवसानाः । भगस्य धाराम् अवसे प्रतीमः
सहस्राङ्गा शतं ज्योतींष्य् अस्या यज्ञस्य पप्रिर् अमृता स्वर्गा । आ न एतु दक्षिणा विश्वरूपा- -अहिंसन्तीं प्रति गृह्णीम एनाम्
अनुवाक ३ ॥ अग्निर् मा पातु वसुभिः पुरस्तात् तस्मिन् क्रमे तस्मिं श्रये तां पुरं प्रैमि । स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा
वायुर् मान्तरिक्षेणैतस्या दिशः पातु तस्मिन् (…)
सोमो मा रुद्रैर् दक्षिणाया दिशः (…)
वरुणो मादित्यैर् एतस्या दिशः (…)
सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु तस्मिन् क्रमे तस्मिं श्रये तां पुरं प्रैमि । स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा
अपो मौषधीमतीर् एतस्या दिशः पान्तु तासु क्रमे तासु श्रये तां पुरं प्रैमि । ता मा रक्षन्तु ता मा गोपायन्तु ताभ्य आत्मानं परि ददे स्वाहा
विश्वकर्मा मा सप्तर्षिभिर् उदीच्या दिशः (…)
इन्द्रो मा मरुत्वान् एतस्या दिशः (…)
प्रजापतिर् मा प्रजननवान् सह प्रतिष्ठया ध्रुवाया दिशः (…)
बृहस्पतिर् मा विश्वैर् देवैर् ऊर्ध्वाया दिशः पातु तस्मिन् क्रमे तस्मिं श्रये तां पुरं प्रैमि । स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा
अग्निं ते वसुमन्तम् ऋच्छन्तु ये माघायवः प्राच्या दिशो +ऽभिदासान्
वायुं ते ऽन्तरिक्षवन्तम् ऋच्छन्तु ये माघायव एतस्या दिशो +ऽभिदासान्
सोमं ते रुद्रवन्तम् ऋच्छन्तु ये माघायवो दक्षिणाया दिशो +ऽभिदासान्
वरुणं त आदित्यवन्तम् ऋच्छन्तु ये माघायव एतस्या दिशो +ऽभिदासान्
सूर्यं ते द्यावापृथिवीवन्तम् ऋच्छन्तु ये माघायवः प्रतीच्या दिशो +ऽभिदासान्
अपस् त ओषधीमतीर् ऋच्छन्तु ये माघायव एतस्या दिशो +ऽभिदासान्
विश्वकर्माणं ते सप्तर्षिवन्तम् ऋच्छन्तु ये माघायव उदीच्या दिशो +ऽभिदासान्
इन्द्रं ते मरुत्वन्तम् ऋच्छन्तु ये माघायव एतस्या दिशो +ऽभिदासान्
प्रजापतिं ते प्रजननवन्तम् ऋच्छन्तु ये माघायवो ध्रुवाया दिशो +ऽभिदासान्
बृहस्पतिं ते विश्वदेववन्तम् ऋच्छन्तु ये माघायव ऊर्ध्वाया दिशो +ऽभिदासान्
वैकङ्कतेनेध्मेन देवेभ्य आज्यं वह । अग्ने तान् इह मादय सर्व आ यन्तु मे हवम्
इन्द्र आ याहि मे हवम् इदं करिष्यामि तच् छृणु । इम ऐन्द्रा अतिसरा आकूतीः सं नमन्तु मे । तेभिः शकेम वीर्यं जातवेदस् तनूवशिन्
यद् असाव् अमुतो देवा अदेवः संश्चिकीर्षति । मा तस्याग्निर् हव्यं वाक्षीद् धवं देवाश् च मोप गुर् ममैव हवम् एतन
अति धावतातिसरा विश्वस्येशाना ओजसः । वृश्चतामुष्य जीवितम् इन्द्रेण सह मेदिना
अतिसृत्यातिसरा इन्द्रस्यौजसा हत । अविं वृक इव मथ्नीत ततो वो जीवन् मा मोचि प्राणम् अस्यापि नह्यत
यान् असौ प्रतिसरान् अकश् चकार कृणवच् च यान् । त्वं तान् इन्द्र वृत्रहन् प्रतीचः पुनर् आ कृधि यथामुं तृणहञ् जनम्
यम् अमी पुरोदधिरे ब्रह्माणम् उपभूतये । इन्द्रस्य ते अधस्पदं तं प्र यच्छामि मृत्यवे क्रव्याद् एनं शमयतु
यदि प्रेयुर् देवपुरा ब्रह्म वर्माणि चक्रिरे । तनूपानं परिपाणानि चक्रिरे सर्वं तद् अरसं कृधि
अत्रैनम् इन्द्र वृत्रहन्न् उग्रो मर्मणि विध्य । अत्रैवैनम् अभि तिष्ठ शक्र मेद्य् अहं तव । अनु त्वेन्द्रा रभामहे स्याम सुमतौ तव
यथेन्द्र उद्वाचनं लब्ध्वा चक्रे अधस्पदम् । कृण्वे ऽमुम् अधरं तथा शश्वतीभ्यः समाभ्यः
आङ्गिरसो जन्मनासि तम् उ त्वाहुर् वनस्पते । स पीलो रक्षो बाधस्व साकम् इन्द्रेण मेदिना
अप रक्षांसि बाधस्व बाधस्व परिरापिणः । पिशाचान् पीलो क्रव्यादो बाधस्व मूरदेविनः
ययाहुस् तृष्टं कटुकम् अपगूढं फले कुलम् । तस्यै हिरण्यकेश्यै नमः कृण्मो अरातये
या महती महोन्माना सर्वा आशा व्यानशे । तस्यै हिरण्यकेश्यै नमः कृण्मो अरातये
यस् ते योनिं प्रतिरेढ्य् आण्डादो गर्भदूषणः । अरायं पुत्रं प्रापी यस् तं पीलुः सहताम् इतः
यदा पीलव् आङ्गिरस पक्वो ऽतिष्ठो वनस्पते । अथाहुर् इन्द्रं जज्ञानं शक्रं बर्जह्ये प्रति
यथा सेदिम् अबाधथाः पच्यमानो वनस्पते । एवा पीलो रक्षो बाधस्व साकम् इन्द्रेण मेदिना
यत् पिशाचैः पुरुषस्य जग्धं भवत्य् आत्मनः । आ पीलो प्यायते पुनस् तव चाश्नाति पिप्पलम्
पीलुं त्वाहुः पीवं त्वाहुर् अथो त्वाहुर् वनस्पतिम् । सर्वा ते भद्रा नामानि तेभिर् नः पाह्य् अंहसः
रक्षोहणं वृत्रहणं पीलुं पिशाचजम्भनम् । जज्ञानम् अग्रे वृक्षाणां तं ते बध्नाम्य् आयुषे
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ṚṢIS). Atharvaveda Paippalāda — Kāṇḍa 7. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-7>. Acesso em: 26/04/2026.
Tradição Védica (Ṛṣis) (2026). Atharvaveda Paippalāda — Kāṇḍa 7. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-7
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 7." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-7.