Atharvaveda Paippalāda — Kāṇḍa 9
Tradição Védica (Ṛṣis)
अनुवाक ४ ॥ काण्ड ९ ऊर्ध्वा अस्य समिधो भवन्त्य् ऊर्ध्वा शुक्रा शोचींष्य् अग्नेः । द्युमत्तमा सुप्रतीकस्य सूनोस् तनूनपाद् असुरो विश्ववेदाः
देवो देवेषु देवः पथो अनक्ति मध्वा घृतेन । मध्वा यज्ञं नक्षति प्रीणानो नराशंसः सुकृद् देवः सविता विश्ववारः
अच्छायम् एति शवसा घृतेन- -ईडे वह्निं नमसाग्निम् । स्रुचो अध्वरेषु प्रयत्सु
स यक्षद् अस्य महिमानम् अग्नेः स इन् मन्द्रासु प्रयत्सु । वसोश् चेतिष्ठो वसुधातमश् च
द्वारो देवीर् अन्नस्य विश्वे व्रता ददन्ते अग्नेः । उरुव्यचसो धाम्ना पत्यमानाः
ते अस्य वृषणो दिव्या नु योना । उषासानक्तेमं यज्ञम् अवताम् अध्वरं नः
दैवा होतार इमम् अध्वरं नो अग्नेर् जिह्वेम् अभि गृणीत । कृणुता नः स्विष्टिम्
तिस्रो देवीर् बर्हिर् एदं सदन्त्व् इडा सरस्वती मही । भारती गृणाना
तन् नस् तुरीपम् अद्भुतं पुरुक्षु । त्वष्टा सुवीर्यं रायस्पोषं वि स्यर्त नाभिम् अस्मे
वनस्पते अव सृजा रराणस् त्मना देवेभ्यः । अग्निर् हव्यं शमिता सूदयाति
अग्ने स्वाहा कृणु जातवेद इन्द्राय भागम् । विश्वे देवा हविर् इदं जुषन्ताम्
यजूंषि यज्ञे समिधः स्वाहा- -अग्निः प्रविद्वान् इह वो युनक्तु । युनक्तु देवः सविता प्रजानन्न् अस्मिन् यज्ञे सुयुजः स्वाहा
इन्द्र उक्थामदानि यज्ञे अस्मिन् प्रविद्वान् युनक्तु सुयुजः स्वाहा । छन्दांसि यज्ञं मरुतः स्वाहा मातेव पुत्रं पिपृतेह युक्ताः
प्रैषा निविद आप्रियो यजूंषि शिष्टाः पत्नीभिर् वहतेह युक्ताः । एयम् अगन् बर्हिषा प्रोक्षणीभिर् यज्ञं तन्वाना अदितिः स्वाहा
विष्णुर् युनक्तु बहुधा तपांस्य् अस्मिन् यज्ञे सुयुजः स्वाहा
त्वष्टा युनक्तु बहुधा नु रूपाण्य् अस्मिन् यज्ञे (…)
इन्द्रो युनक्तु बहुधा वीर्यान्य् अस्मिन् (…)
सोमो युनक्तु बहुधा पयांस्य् अस्मिन् (…)
भगो युनक्त्व् आशिषो न्व् अस्मा अस्मिन् यज्ञे सुयुजः स्वाहा
अश्विना ब्रह्मणेतम् अर्वाग् वषट्कारेण यज्ञं वर्धयन्तौ स्वाहा
बृहस्पते ब्रह्मणेह्य् अर्वाङ् यज्ञो ऽयं स्वर् इदं यजमानाय धेहि स्वाहा
आपः पुनन्तु वरुणः पुनात्व् अयं च यः पवते विश्वदानीम् । यज्ञो भगो अधिवक्ता विधर्ता- -अग्निश् च नः पावयेतां सूर्यश् च
दशशीर्षो दशजिह्व आ रभे वीरको भिषक् । मा ते रिषं खनिता यस्मै च त्वा खनामसि
दशरात्रे किलासस्य वीरुधा वेद भेषजम् । इतस् तद् अभ्रियाखनं किलासं नाशयामि ते
अप्स्व् अन्या वि रोहति धन्वन्य् अन्याधि तिष्ठति । किलासम् अन्यानीनशद् वर्चसान्या सम् उक्षतु
आज्येन घृतेन जुहोमि किलासभेषजम् । वीरुधाम् अग्नेः सङ्काशे किलासं नानु विद्यते
पिशङ्गरूपो भवति कल्माषम् उत संदृशि । किलास नश्येतः परः प्र त्वा धक्ष्यामि वीरुधा
यानि पृथग् उत्पतन्ति नक्षत्राणीव संदृशि । किलासं सर्वं नाशयन्न् ओघ इवाभ्य् एमि वीरुधा
यदि वा पुरुषेषितात् किलास पर्याजगन् । नमो नमस्यामो देवान् प्रत्यक् कर्तारम् ऋच्छतु
शीर्ष्णस् ते स्कन्धेभ्यो ललाटात् परि कर्णयोः । ओषध्या वर्षजूतया किलासं नाशयामि ते । स्वस् त्वा वर्ण आयत्य् अनरातिः सहौषधिः
ग्रीवाभ्यस् त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् । (…)
अंसाभ्यां ते दोर्भ्यां बाहुभ्यां परि हस्तयोः । (…)
पृष्टिभ्यस् ते पार्श्वाभ्यां श्रोणिभ्यां परि भंससः । (…)
ऊरुभ्यां ते ऽष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् । ओषध्या वर्षजूतया किलासं नाशयामि ते । स्वस् त्वा वर्ण आयत्य् अनरातिः सहौषधिः
सहैव वो हृदयानि सह विज्ञानम् अस्तु वः । सहेन्द्रो वृत्रहा करत् सह देवो बृहस्पतिः
समानम् अस्तु वो हृदयं समानम् उतो वो मनः । समानो अग्निर् वो देवः सह राष्ट्रम् उपाध्वम्
सं जानीध्वं सहृदयाः सर्वे संमनस स्थ । नष्टो वो मन्युर् जीर्णेर्ष्या सह जीवाथ भद्रया
यथा पुत्रः प्रवावदः पितृभ्यां वदति प्रियम् । एवा यूयम् अन्यो ऽन्यस्मै जिह्वया वदत प्रियम्
सहैव वो धान्यानि समानाः पशवश् च वः । सह पृथिव्यां वीरुधः सह वः सन्त्व् ओषधीः
सह दीक्षा सह यज्ञो विवाहो वः सहासति । सह प्रफर्वा नृत्यन्तु सह व स्त्रिय आसताम्
सहैव वो वीर्याणि सहान्यान् रन्धयाध्वै । सह पतत्रिणीम् इषुम् अन्यस्मै हेतिम् अस्यत
सं वस्यामि समितिं मधुना वाचम् आञ्जिषम् । युष्माकम् अन्ये शृण्वन्तु- -उदितं सङ्गते जने
युष्मान् मित्रा वृणतां युष्मान् प्रतिजना उत । युष्मात् ज्ञातित्वं प्रेप्सन्त्य् अमृतं मर्त्या इव
संसम् इद् यः सम् आकरं सह यूथा गवाम् इव । समानम् अस्तु वो मनो ज्येष्ठं विज्ञानम् अन्व् इत
इदं यद् एषां हृदयं तद् एषां हृदये भवत् । अथो यद् एषां हृदयं तद् वेषां हृदि श्रितम् । समानम् अस्तु वो मनः श्रेष्ठं विज्ञानम् अन्व् इत
इदं यद् एषां मन एषां यानि मनांसि च । सध्र्यग् इन्द्र तत् कृणु रथे पादाव् इवाहितौ
सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वा- -अत्य् अतिष्ठद् दशाङ्गुलम्
त्रिभिः पद्भिर् द्याम् अरोहत् पाद् अस्येहाभवत् पुनः । तथा व्य् अक्रामद् विष्वङ्ङ् अशनानशने अनु
तावन्तो अस्य महिमानस् ततो ज्यायांश् च पुरुषः । पाद् अस्य विश्वा भूतानि त्रिपाद् अस्यामृतं दिवि
पुरुष एवेदं सर्वं यद् भूतं यच् च भाव्यम् । उतामृतत्वस्येश्वरो यद् अन्नेनाभवत् सह
यत् पुरुषं व्यदधुः कतिधा व्य् अकल्पयन् । मुखं किम् अस्य किं बाहू किम् ऊरू पादा उच्येते
ब्राह्मणो ऽस्य मुखम् आसीद् बाहू राजन्यो ऽभवत् । मध्यं तद् अस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत
विराड् अग्रे सम् अभवद् विराजो अधि पूरुषः । स जातो अत्य् अरिच्यत पश्चाद् भूमिम् अथो पुरः
यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत । वसन्तो अस्यासीद् आज्यं ग्रीष्म इध्मः शरद् धविः
तं यज्ञं प्रावृषा प्रौक्षन् पुरुषं जातम् अग्रशः । तेन देवा अयजन्त साध्या वसवश् च ये
तस्माद् अश्वा अजायन्त ये च के चोभयादतः । गावो ह जज्ञिरे तस्मात् तस्माज् जाता अजावयः
तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे । छन्दो ह जज्ञिरे तस्माद् यजुस् तस्माद् अजायत
तस्माद् यज्ञात् सर्वहुतः संभृतं पृषदाज्यम् । पशून् तांश् चक्रे वायव्यान् आरण्यान् ग्राम्याश् च ये
सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः । देवा यद् यज्ञं तन्वाना अबध्नन् पुरुषं पशुम्
मूर्ध्नो देवस्य बृहतो ऽंशवः सप्त सप्ततीः । राज्ञः सोमस्याजायन्त जातस्य पुरुषाद् अधि
चन्द्रमा मनसो जातश् चक्षुः सूर्यो ऽजायत । श्रोत्राद् वायुश् च प्राणश् च मुखाद् अग्निर् अजायत
नाभ्या आसीद् अन्तरिक्षं शीर्ष्णो द्यौः सम् अवर्तत । पद्भ्यां भूमिर् दिशः श्रोत्राङ् तथा लोकाꣳ अकल्पयन्
अनुवाक १ ॥ इमां खनाम्य् ओषधिम् अदृष्टहननीम् अहम् । अश्वस्यावो ददाति त्वा वैरूपो वाजिनीवति
नादृष्टा वो जिह्वाः सन्ति न दन्ता हन्वोर् अधि । नापि मध्यं नो शिरस् ते यूयं किं करिष्यथ
इन्द्रामित्रा इन्द्रहता न व इहास्ति न्यञ्चनम् । इन्द्रो वः सर्वासां साकं शक्रस् तृणेढु वृत्रहा
अश्वतराꣳ अयःशफान् यान् इन्द्रो अधितिष्ठति । तैर् वो ऽपि नह्येय ते मुखान्य् उदरसर्पिणः
अपिनह्यम् अदृष्टानां मुखं पादा दृतेर् इव । उतैषां जिह्वा निष्कर्ता निर्दन्ता हन्वोर् अधि
अवधिषम् असृगादां नि क्रोडादा अलिप्सत । अभैत्सं सर्वेषाम् आण्डानि ये अदृष्टाः पृथिवीक्षितः
रिश्यासः पौरुषासो दर्भासो वैरिणा उत । मौञ्जा अदृष्टाः सैर्याः सर्वे साकं नि जस्यत
अदृष्टानां सप्त जाता पृथिवी न शिशे मही । तान् इन्द्रो बाहुभ्यां सर्वाञ् छक्रो अपावयत्
ये वः सन्ति सप्त जाता अदृष्टाः पुरुषादिनः । ग्राव्णांशून् इव सोमस्य तान् सर्वान् प्र मृणीमसि
य आत्मजा ये वस्तिजा य रुषा य उ तोदिनः । तेभ्यः खनाम्य् ओषधिं येभ्यो बिम्बीवधः कृतः
अदृष्टेभ्यस् तरुणेभ्यो युवद्भ्य स्थविरेभ्यः । आहार्षम् उग्राम् ओषधिं येभ्यो बिम्बीवधः कृतः
ये च दृष्टा ये चादृष्टास् तितीलाः शलुनाश् च ये । तान् अग्ने सर्वान् सं दह क्रिमीन् अनेजतो जहि
शीतिजला इति शीता वाता उपा वान्तु । हिमेनाग्निर् आवृतो हिमेनाग्निः परीवृतः
य(त्) त्वा देवा अपारुन्धन्न् आ समुद्रम् अधावयः । हिमो जघान गोअजं हिमो अक्षं हिमश् छदिः
हिमाद् अधि प्र यामसि हिमे अद्य विमोचनम् । यम् अवटं शतदरम् अवैन्ध सप्तवध्रये
अवका तत्र रोहतु खदे परि बिलं तव । अर्चिष् टे अग्ने प्रथमम् अङ्गाराꣳ अपराꣳ उत
गृभ्णामि ब्रह्मणा नाम धामधाम परुष्परुः । शीतिका नाम ते माता जलाषो नाम ते पिता
इह त्वम् अन्तरा भव बाहिकम् अस्तु यद् रपः । हिमे जातोदके वृद्धा सिन्धुतस् पर्य् आभृता । तया ते अग्रभं नाम- -अश्वम् इवाश्वाभिधान्या
आमा नामास्य् ओषधे तस्यास् ते नाम जग्रभ । अगस्त्यस्य पुत्रासो मा वि धाक् पुरुषान् मम
मा नो अग्ने तन्वं मा वासांसि रीरिषः । यं त्वा समुद्रज वयम् आरोहाम स्वस्तये
दिवस् तारा अवापद्रन् धारात् समुद्रिया अपः । हिरण्यकुम्भो हरितो ऽवकाभिः परिवृतस् तेनाग्निं शमयामसि
शमयाम्य् अर्चिर् अग्नेः शिवस् तपतु मा वि धाक् । गृभीते द्यावापृथिवी गृभीतं पार्थिवं रजः
नि मुञ्जेषु यद् उदकं नि नडेषु यद् अन्तरम् । यत् समुद्रे यत् सिन्धौ तेनाग्निं शमयामसि
वेतसस्यावकाया नडस्य वीरणस्य च । रोहितकस्य वृक्षस्य- -अग्निं शमनम् उद् भरे
आयतीर् उदहार्यो वि ते हरन्तु यद् रपः । परायतीः परावतः परा हरन्तु यद् रपः
हिमस्य त्वा जरायुण- -अग्ने परि व्ययामसि । शीतिके शीतम् इत् करो हिमिके हिमम् इत् करः
अक्षण्वता लाङ्गलेन पद्वता पतयिष्णुना । लाङ्गूलगृह्य चर्कृषुर् वृकेण यवम् अश्विना
देवा एतं मधुना संयुतं यवं सरस्वत्याम् अधि वणाव् अचर्कृषुः । इन्द्र आसीत् सीरपतिः शतक्रतुः किनाशा आसन् मरुतः सुदानवः
हिरण्ययं कलशं सुदानवो दिव्यया सरघया कृतम् । अव भृतम् अश्विना यवं तद् युवं मधु चक्रथुः
कृशाव् एतद् अजयतम् अश्विना सारघं मधु । ततो यवो व्य् अरोहत् सो ऽभवद् विषदूषणः
युवार्वान् सरघायाः प्रखिद्य मध्व् आभरत् । (…)
यद् वृकं मधुपावानम् अवामयतम् अश्विना । (…)
कैरण्डा नाम सरसो वृकस्य वम्या अधि । ततो यवो व्य् अरोहत् सो ऽभवद् विषदूषणः
यद् अस्य भरथो मधु सरघा सथ्व् अच्छिनत् । सद्यस् तद् अर्वतो युवं पुनर् आ दत्तम् अश्विना
यो यवं दिग्धविद्धो अहिदष्ट उपासरत् । तीर्थे रध्रम् इव मज्जन्तम् उत् तं भरतम् अश्विना
यं वहन्त्य् अष्टायोगाः षड्योगा यं चतुर्गवाः । स ते विषं वि बाधताम् उग्रो मध्यमशीर् इव
यस्य यव प्रसर्पस्य् अङ्गमङ्गं परुष्परुः । तस्माद् यक्षं वि बाधस्व- -उग्रो मध्यमशीर् इव
शकलं च न ते यव- -अन्या रुहन्त्य् ओषधीः । यव इद् यावयाद् गोर् अश्वात् पुरुषाद् विषम्
यवो राजा यवो भिषग् यवस्य महिमा महान् । यवस्य मन्थं पपिवान् इन्द्रश् चकार वीर्यम्
आ भरामृतं घृतस्य पुष्पम् आ भर । अनभ्रिखात ओषध इदं दूषय यद् विषम्
य आयन्ति दिग्धविद्धाः शूद्रा राजन्या उत । चक्षुर् मे सर्व आदृश्य ते यन्त्य् अगदाः पुनः
जीवातवे न मर्तवे शिरस् त आ रभामहे । रसं विषस्य नाविदम् उद्नः फेनम् अदन्न् इव
भूम्या मध्याद् दिवो मध्याद् भूम्या अन्ताद् अथो दिवः । मध्ये पृथिव्या यद् विषं तद् वाचा दूषयामसि
अश्वत्थे निहितं विषं कपाले निहितं विषम् । शिलाया जज्ञे तैमातः प्रथमो विषदूषणी
विषस्याहं वैन्दकस्य विषस्य दार्व्यस्य च । अथो विषस्य स्वैत्नस्य समानीं वाचम् अग्रभम्
तद् इद् वदन्त्य् अर्थिन उत शूद्रा उतार्याः । विषाणां विष्वगर्थानां सर्वथैवारसं विषम्
परुषस् त्वामृतकर्णो विष प्रथमम् आवयत् । यथा ह तं नारोपयस् तथास्य् अरसं विषम्
यद् वो देवा उपजीका उद्देहं शुषिरं ददुः । तत्रामृतस्यासिक्तं तच् चकारारसं विषम्
शकुन्तिका मे अब्रवीद् विषपुष्पं धयन्तिका । न रोपयति न मादयत्य् अरसं शार्वीयं विषम्
अत्य् अपप्ताम दुर्गाणि शारीः शकुनयो यथा । इहेन्द्राणीं वरुणानीं सिनीवालीं क्रकोढ्याम् । ग्राहां शूरपुत्रां देवीं याचामो विषदूषणम्
आलकं व्यालकं व्य् आवं जाल्म जीगीमहे । जरद्विषं युवाभिषग् वयम् इत् सासहामहै
अस्थाद् द्यौर् अस्थात् पृथिव्य् अस्थाद् विश्वम् इदं जगत् । अस्थुर् विषस्यारोपयो ऽनड्वाहः क्रिशा इव
यावत् सूर्यो वितपति यावच् चाभिविपश्यति । तेनाहम् इन्द्रदत्तेन कृणोम्य् अरसं विषम् । तद् विषम् अरसं विषम् अधोभाग् अरसं विषम्
मातरिश्वा सम् अभरद् धाता सम् अदधात् परुः । इन्द्राग्नी अभ्य् अरक्षतां त्वष्टा नाभिम् अकल्पयत्
भवस् त्वा अभ्य् अरुक्षद् रुद्रस् ते अंसुम् आभरत् । रात्री त्वाभ्य् अगोपायत् सा त्वं भूते अजायथाः
द्यौष् ट आयुर् गोपायद् अन्तरिक्षम् असुं तव । माता भूतस्य भव्यस्य पृथिवी त्वाभि रक्षतु
यां त्वा देवाः समदधुः सहस्रपुरुषं सतीम् । सा देवी त्वम् अस्येदम् अपाज व्य् अजा विषम्
याः पुरस्तात् प्रस्यन्दन्ते दिवा नक्तं च योषितः । आपः पुरु स्रवन्तीस् ता उ ते विषदूषणीः
आतपस् ते वर्षम् आसीद् अग्निश् छायाभवत् तपः । उल्बं ते अभ्रम् आसीत् सा त्वं भूते अजायथाः
गन्धर्वस् ते मूलम् आसीच् छाखा अप्सरसस् तव । मरीचीर् आसन् पर्णानि सिनीवाली कुलं तव
अजरा देवा अदधुर् अमृतं मर्त्येष्व् आ । तस्यै तद् अग्रम् आ ददे तद् उ ते विषदूषणम्
अनभ्रौ खनमानं विप्रं गम्भीरे अपसम् । भिषक् चक्षुर् भिषक् खने तद् उ ते विषदूषणम्
याः पुरस्ताद् वितिष्ठन्ते गावः प्रव्राजिनीर् इव । अमृतस्येव वा अस्य् अथो हास्य् अरुन्धती
यो मयः सरघायाः प्रखाय मध्व् आभरत् । ततो यवः प्राजायत सो ऽभवद् विषदूषणः
यवस्यैतत् पलालिनो गोधूमस्य तिलस्य च । व्रीहेर् यवस्य दैव्येन कृणोम्य् अरसं विषम्
महीं योनिं समुद्रस्य- -अन्व् अविन्दन्न् ऋतायवः । तां देवा गुह्याम् आसीनां समुद्राच् चिद् उद् आभरन्
समुद्राच् चिद् उदाभृत्य ताम् उ पुष्कर आ दधुः । अस्याः पृथिव्या देव्याश् चक्षुर् आकाश्यम् असि विषदूषणम्
अनुवाक २ ॥ समानम् अर्थं पर्यन्ति देवा रूपंरूपं तपसा वर्धमानाः । यद् आदित्यम् अभिसंविशन्ति तद् एकं रूपम् अमृतत्वम् एषाम्
देवो देवेभिर् आ गमन् महान् नो अतिथिष् पिता । स प्रैति जातवेदसम् एकरूपो गुहा भवन्
आतिथ्यम् अग्निं निर् अपप्तद् एव उभयेभिः पितृभिः संविदानः । महान् नु मर्य उप भक्षम् आगन् संगृभ्यादित्या(न्) न्य् अविष्ट वह्निः
त आ विशन्ति पुरुषं शयानं प्राणा निविष्टा न शसन्त्य् एनम् । ते नो रात्र्या सुमनस्यमाना अह्ना रक्षन्त्य् अहृणीयमानाः
पशुभ्यो नः पशुपते मृड सर्व सं वृह आयताम् । मा नः प्राणेषु रीरिषः
वायुः सत्ये अधिश्रितः प्राणापानाव् अभिरक्षन् । सं प्रजा ऐरयद् इमाः
देवा यत्ताः प्रजापताव् आदित्याश् च येमिरे । पूषा रश्मिष्व् आयत आदित्यो विष्णुर् आक्रमे स रोहं दिवि रोहति
प्रजाद्देवाः सवितुः सवे त्वष्टा रूपाणि पिंशतु । अञ्जन्तौ मधुना पयो अतन्द्रं यातम् अश्विना
विश्वे देवाः प्र यातन- -आदित्यासः सजोषसः । पुरः पश्चात् स्वस्तये
ब्रह्म वर्म बृहस्पतिः संगवो नो ऽभि रक्षतु । देवो देवैः पुरोहितः
मरुतो वृष्ट्या न आ गत सत्यधर्माण ऊतये । अपराह्नेषु जिन्वत
इन्द्रो राजा दिवस् पतिर् अहर् विमाय तिष्ठति । स न इमाः कल्पयाद् दिशः
आवतस् ते परावतः परावतस् त आवतः । इहैव भव मा नु गा मा पूर्वान् अनु गा गतान् असुं बध्नामि ते दृढम्
यत् त्वाभिचेरुः पुरुषः सो यद् अरुणो जनः । उन्मोचन प्रमोचने उभे वाचा वदामि ते
यद् दुद्रोहिथ शेपिषे स्त्रियै पुंसे अचित्त्या । (…)
यद् एनसो मातृकृताच् छेषे पितृकृताद् उत । उन्मोचन प्रमोचने उभे वाचा वदामि ते
यत् ते माता यत् ते पिता जामिर् भ्राता च सर्जतः । प्रत्यक् सेवस्य भेषजं जरदष्टिं कृणोमि त्वा
एह्य् एहि पुनर् एहि सर्वेण मनसा सह । दूतौ यमस्य मानु गा अधि जीवपुरा इहि
अनुहूतः पुनर् एहि विद्वान् उदयनं पथः । आरोहणम् आक्रमणं जीवतोजीवतो ऽयनम्
मा बिभेर् न मरिष्यसि जरदष्टिर् भविष्यसि । निर् अवोचम् अहं यक्ष्मम् अङ्गेभ्यो अङ्गज्वरं तव
शीर्षरोगो अङ्गरोगो यश् च ते हृदयामयः । यक्ष्मः श्येन इव प्रापप्तद् वाचा नुत्तः परस्तरम्
ऋषी बोधप्रतीबोधाव् अस्वप्नो यश् च जागृविः । ते ते प्राणस्य गोप्तारो दिवा नक्तं च जाग्रतु
अयम् अग्निर् उपसद्य इह सूर्य उद् एतु ते । उद् एहि मृत्योर् गम्भीरात् कृच्छ्राच् चित् तमसस् परि
नमो यमाय नमो ऽस्तु मृत्यवे नमः पितृभ्य उत ये नयन्ते । उत्पारणस्य यो वेद तम् अग्निं तत् पुरो दधे
ऐतु प्राण ऐतु मन ऐतु चक्षुर् अथो बलम् । शरीरम् अस्य सं विदां तत् पद्भ्यां प्रति तिष्ठतु
प्राणेनाग्ने चक्षुषा सं सृजेमं सम् ईरय तन्वा सं बलेन । वेत्थामृतस्य मा मृत मो षु भूमिगृहो भुवत्
मा ते प्राण उप दसन् मापानो अपि धायि ते । सूर्यस् त्वाधिपतिर् मृत्योर् उदायच्छाति रश्मिभिः
इयम् अन्तर् वदत्य् उग्रा जिह्वा पनिष्पदा । तया रोगान् वि नयामः शतं रोपीश् च तक्मनः
अयं लोकः प्रियतमो देवानाम् अपराजितः । यस्मै त्वम् इह जज्ञिषे दिष्टः पुरुष मृत्यवे । तस्मै त्वानु ह्वयामसि मा पुरा जरसो मृथाः
ते ऽवदन् प्रथमा ब्रह्मकिल्बिषे ऽकूपारः सलिलो मातरिश्वा । वीडुहरस् तप उग्रं मयोभुव आपो देवीः प्रथमजा ऋतस्य
सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छद् अहृणीयमानः । अन्वर्तिता वरुणो मित्र आसीद् अग्निर् होता हस्तगृह्या निनाय
हस्तेनेव ग्राह्य आधिर् अस्या ब्रह्मजायेति चेद् अवोचत् । न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य
याम् आहुस् तारकां विकेशीं दुच्छुनां ग्रामम् अवपद्यमानाम् । सा ब्रह्मजाया प्र दुनोति राष्ट्रं यत्र प्रापादि शशः कल्कुषीमान्
ब्रह्मचारी चरति वेविषद् विषः स देवानां भवत्य् एकम् अङ्गम् । तेन जायाम् अन्व् अविन्दद् बृहस्पतिः सोमेन नीतां जुह्वं न देवाः
देवा एतस्याम् अवदन्त पूर्वे सप्तर्षयस् तपसे ये निषेदुः । भीमा जाया ब्राह्मणस्यापनीता दुर्धां दधाति परमे व्योमन्
ये गर्भा अवपद्यन्ते जगद् यच् चापलुप्यते । वीरा ये हन्यन्ते मिथो ब्रह्मजाया हिनस्ति तान्
सर्वे गर्भाः प्र व्यथन्ते कुमारा दशमास्याः । यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजाया अचित्त्या
पुनर् वै देवा अददुः पुनर् मनुष्या उत । राजानः सत्यं कृण्वन्तो ब्रह्मजायां पुनर् ददुः
पुनर्दाय ब्रह्मजायां कृत्वी देवैर् निकिल्बिषम् । ऊर्जं पृथिव्या भक्त्वा- -उरुगायम् उपासते
न तत्र धेनुर् दुहे नानड्वान् सहते धुरम् । विजानिर् यत्र ब्राह्मणो रात्रिं वसति पापया
न वर्षं मैत्रावरुणं ब्रह्मज्यम् अभि वर्षति । नास्मै समितिः कल्पते न मित्रं नयते वशम्
असृङ्मती चरति ब्रह्मजाया आशा लिम्पन्ती प्रदिशश् चतस्रः । यः क्षत्रियः पुनर् एनां ददाति स दिवो धारां धयति प्रपीनाम्
यो ऽपुनर्दाय ब्रह्मजायां राजा तल्पे निपद्यते । दुर्योणा अस्मा ओषधीर् याः काश् चाभि विपश्यति
विषम् अश्नात्य् अपां विषम् अश्नाति वीरुधाम् । यो ब्रह्मजायां न पुनर् ददाति तस्मै देवाः सुदिहं दिग्धम् अस्याम्
उद्यत् पतयो दश स्त्रियाः पूर्वे अब्राह्मणाः । ब्रह्मा चेद् धस्तम् अग्रहीत् स एव पतिर् एकधा
ब्राह्मण एव पतिर् न राजा नोत वैश्यः । तत् सूर्यः प्रब्रुवन्न् एति पञ्चभ्यो मानवेभ्यः
नैतां ते देवा अददुस् तुभ्यं नृपते अत्तवे । मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाद्याम्
अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः । स ब्राह्मणस्य गाम् अद्याद् अद्य जीवानि मा श्वः
निर् वै क्षत्रं नयति हन्ति वर्चो ऽग्निर् इवारब्धः प्र दुनोति राष्ट्रम् । यो ब्राह्मणं देवबन्धुं हिनस्ति न स पितॄणाम् अप्य् एति लोकम्
देवपीयुश् चरति मर्त्येषु गरगीर्णो भवत्य् अस्थिभूयान् । यो ब्राह्मणं मन्यते अन्नम् एव स विषस्य पिबति तैमातस्य
विषं स पिबति तैमातं पश्यन्न् अग्निं प्र सीदति । यो ब्राह्मणस्य सद् धनम् अभि नारद मन्यते
शतापाष्ठां नि गिरति तां न शक्नोति निष्खिदम् । अन्नं यो ब्रह्मणां मल्वः स्वाद्व् अद्मीति मन्यते
य एनां हन्ति मृदु मन्यमानो देवपीयुर् धनकामो न चित्तात् । सं तस्येन्द्रो हृदये अग्निम् इन्ध उभे एनं द्युष्टो नभसी चरन्तम्
न ब्राह्मणो हिंसितवा अग्नेः प्रियतमा तनूः । सोमो ह्य् अस्य दायाद इन्द्रो अस्याभिशस्तिपाः
अग्निर् वै नः पदवायः सोमो दायाद उच्यते । जेता अभिशस्तेन्द्रस् तत् सत्यं देवसंहितम्
आविष्टिताघविषा पृदाकूर् इव चर्मणा । सा ब्राह्मणस्य राजन्य तृष्टैषा गौर् अनाद्या
इषुर् इव दिग्धा नृपते पृदाकूर् इव गोपते । सा ब्राह्मणस्येषुर् दिग्धा तया विध्यति पीयकः
तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो याम् अस्यन्ति शरव्यां न सा मृषा । अनुहाय तपसा मन्युना चोत दूराद् अव भिन्दन्ति ते तया
जिह्वा ज्या भवति कुल्मलं वाङ् नाडीका दन्तास् तपसा सुदिग्धाः । तेभिर् ब्रह्मा विध्यति देवपीयून् हृद्बलैर् धनुर्भिर् देवजूतैः
ये ब्राह्मणं हिंसितारस् तपस्विनं मनीषिणं ब्रह्मचर्येण श्रान्तम् । अवर्तिमद् भविता राष्ट्रम् एषां तमसीव निहितं नानु वेत्ताः
ये सहस्रम् अराजन्न् आसन् दशशता उत । ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन्
गौर् एव तान् हन्यमाना वैतहव्याꣳ अवातिरत् । ये केशर प्राबन्धायाश् चरमाजाम् अपेचिरन्
अतिमात्रा अजायन्त नोद् इव दिवम् अस्पृशन् । भृगुं हिंसित्वा माहीना असंभव्यं पराभवन्
ये बृहत्सामानम् आङ्गिरसम् आर्पयन् ब्राह्मणं जनाः । येत्वस् तेषाम् उभयादन्न् अविस् तोकान्य् आवयत्
ये ब्राह्मणं प्रत्यष्ठीवन् ये चास्मिच् छुक्लम् ईषिरे । अस्नस् ते मध्ये कुल्यायाः केशान् खादन्त आसते
अष्टापदी चतुरक्षी चतुःश्रोत्रा चतुर्हनुः । द्विजिह्वा द्विप्राणा भूत्वा सा राष्ट्रम् अव धूनुते
ब्रह्मगवी पच्यमाना यावत् साभि विजङ्गहे । तेजो राष्ट्रस्य निर् हन्ति न वीरो जायते पुमान्
आक्रमणेन वै देवा द्विषन्तो घ्नन्ति पूरुषम् । स्तेयादं ब्रह्मज्यं क्षेत्रे चानृतवादिनम्
विषम् एतद् देवकृतं राजा वरुणो अब्रवीत् । न ब्राह्मणस्य गां जग्ध्वा राष्ट्रे जागार कश् चन
तद् वै राष्ट्रम् आ स्रवति भिन्नां नावम् इवोदकम् । ब्राह्मणो यत्र जीयते तद् राष्ट्रं हन्ति दुच्छुना
एकशतं वै जनता भूमिर् या व्यधूनुत । प्रजां हिंसित्वा ब्राह्मणीम् असंभव्यं पराभवन्
याम् उदाजन्न् ऋषयो मनीषिणः श्रमसातां बृहतीं देवजूताम् । सा ब्रह्मज्यं पचति पच्यमाना राष्ट्रम् अस्य बृहती यच् च वर्चः
वाचा ब्राह्मणम् ऋच्छति जामि हन्त्य् अचित्त्या । मित्राय सत्ये द्रुह्यति यं देवा घ्नन्ति पूरुषम्
एकपाच् छन्द एककामं च । तद् आप्नोति चाव च रुन्धे प्रथमया रात्र्या प्रथमया समिधा
द्विपाच् छन्दो द्विपदश् च पशून् । तद् आप्नोति चाव च रुन्धे द्वितीयया रात्र्या द्वितीयया समिधा
त्रींल् लोकांस् त्रींल् लोकपतीन् । तद् आप्नोति चाव च रुन्धे तृतियया रात्र्या तृतीयया समिधा
चतुष्पाच् छन्दश् चतुष्पदश् च पशून् । तद् आप्नोति चाव च रुन्धे चतुर्थ्या रात्र्या चतुर्थ्या समिधा
पञ्च दिशः पञ्च प्रदिशः । तद् आप्नोति चाव च रुन्धे पञ्चम्या रात्र्या पञ्चम्या समिधा
त्रैष्टुभं छन्दो विराजं स्वराजं सम्राजम् । तद् आप्नोति चाव च रुन्धे सष्ठ्या रात्र्या षष्ठ्या समिधा
सप्त प्राणान् सप्तापानान् सप्त ऋषींश् च । तद् आप्नोति चाव च रुन्धे सप्तम्या रात्र्या सप्तम्या समिधा
ओजश् च तेजश् च सहश् च बलं च । तद् आप्नोति चाव च रुन्धे अष्टम्या रात्र्या अष्टम्या समिधा
अम्भश् च महश् चान्नं चान्नाद्यं च । तद् आप्नोति चाव च रुन्धे नवम्या रात्र्या नवम्या समिधा
ब्रह्म च क्षत्रं चेन्द्रियं च ब्राह्मणवर्चसं च । तद् आप्नोति चाव च रुन्धे दशम्या रात्र्या दशम्या समिधा
विश्वावसू च सर्ववसू च । तद् आप्नोति चाव च रुन्धे एकादश्या रात्र्या एकादश्या समिधा
पाङ्क्तं छन्दः प्रजापतिं संवत्सरम् । तद् आप्नोति चाव च रुन्धे द्वादश्या रात्र्या द्वादश्या समिधा
अनुवाक ३ ॥ यो वा एकशरावं निर्वपेद् एकर्षिम् एवानु निर् वपेत् । एष वा एकर्षिर् यद् अग्निः । एकर्षिं चैव लोकं चाव रुन्धे एकर्षिर् इव तपत्य् एकर्षिर् इव दीदायैकर्षिर् इवान्नादो भवति य एवं वेद । स य एवं विद्वान् प्राश्नीयाद् एताम् एव देवतां मनसा ध्यायेद् एकर्षेस् त्वा चक्षुषा पश्याम्य् एकर्षेस् त्वा हस्ताभ्याम् आ रभ एकर्षेस् त्वास्येन प्राश्नाम्य् एकर्षेस् त्वा जठरे सादयामीति । स यथा हुतम् इष्टं प्राश्नीयाद् एवैनं प्राश्नाति
यो वै द्विशरावं निर्वपेत् प्राणापानाव् एवानु निर् वपेत् । एतौ वै प्राणापानौ यन् मातरिश्वा चाग्निश् च । प्राणापानौ चैव लोकं चाव रुन्धे ज्योग् जीवति सर्वम् आयुर् एति न पुरा जरसः प्रमीयते यः (…) । स य एवं विद्वान्) प्रश्नीयाद् एताम् एव देवते मनसा ध्यायेत् प्राणापानयोस् त्वा चक्षुषा पश्यामि प्राणापानयोस् त्वा हस्ताभ्याम् आ रभे प्राणापानयोस् त्वास्येन प्राश्नामि प्राणापानयोस् त्वा जठरे (…) । (…)
यो वै त्रिशरावं निर्वपेत् त्रीण्य् एव त्रिकद्रुकाण्य् अनु निर् वपेत् । एतानि वै त्रीणि त्रिकद्रुकाणि यद् ऋचः सामानि यजूंषि ब्राह्मणम् । ब्रह्म चैव लोकं चाव रुन्धे ब्राह्मणवर्चसी भवति यः (…) (…) प्राश्नीयाद् एताम् एव देवतां मनसा ध्यायेद् ब्रह्मणस् त्वा चक्षुषा पश्यामि ब्रह्मणस् त्वा हस्ताभ्याम् आ रभे ब्रह्मणस् त्वास्येन प्राश्नामि ब्रह्मणस् त्वा (…) । (…)
यो वै चतुःशरावं निर्वपेच् चतस्र एवोर्वीर् अनु निर् वपेत् । एता वै चतस्र उर्वीर् यद् दिशः । दिशश् चैव लोकं चाव रुन्धे कल्पन्ते अस्मै दिशो दिशां प्रियो भवति यः (…) । (…) प्राश्नीयाद् एताम् एव देवतां मनसा ध्यायेद् दिशां त्वा चक्षुषा पश्यामि दिशां त्वा हस्ताभ्याम् आ रभे दिशां त्वास्येन प्राश्नामि दिशां त्वा (…) । (…)
यो वै पञ्चशरावं निर्वपेद् वैश्वानरम् एव पञ्चमूर्धानम् अनु निर् वपेत् । एष वै वैश्वानरः पञ्चमूर्धा यद् द्यौश् च पृथिवी च मातरिश्वा चाग्निश् चाजस्रा चातपन् । वैश्वानरं चैव लोकं चाव रुन्धे वैश्वानर इव तपति वैश्वानर इव दीदाय वैश्वानर इवान्नादो भवति यः (…) । (…) प्राश्नियाद् एताम् एव देवतां मनसा ध्यायेद् वैश्वानरस्य त्वा चक्षुषा पश्यामि वैश्वानरस्य त्वा हस्ताभ्याम् आ रभे वैश्वानरस्य त्वास्येन प्राश्नामि वैश्वानरस्य त्वा (…) । (…)
यो वै षट्शरावं निर्वपेत् षड् याव्न एव देवान् अनु निर् वपेत् । एते वै षड् यावानो देवा यद् ऋतवः । ऋतूंश् चैव लोकं चाव रुन्धे कल्पन्ते अस्मा ऋतवो न ऋतुष्व् आवृश्चत ऋतूनां प्रियो भवति यः (…) । (…) प्राश्नीयाद् एता एव देवता मनसा ध्यायेद् ऋतूनां त्वा चक्षुषा पश्याम्य् ऋतूनां त्वा हस्ताभ्याम् आ रभ ऋतूनां त्वास्येन प्राश्नाम्य् ऋतूनां त्वा (…) । (…)
यो वै सप्तशरावं निर्वपेत् सप्त ऋषीन् एवानु निर् वपेत् । एते वै सप्त ऋषयो यत् प्राणापानव्यानाः । सप्तर्षींश् चैव लोकं चाव रुन्धे ज्योग् जीवति सर्वम् आयुर् एति न पुरा जरसः प्रमीयते यः (…) । (…) प्राश्नीयाद् एता एव देवता मनसा ध्यायेत् सप्तर्षीणां त्वा चक्षुषा पश्यामि सप्तर्षीणां त्वा हस्ताभ्याम् आ रभे सप्तर्षीणां त्वास्येन प्राश्नामि सप्तर्षीणां त्वा (…) । (…)
यो वा अष्टशरावं निर्वपेद् विराजम् एववाष्टापदीम् अनु निर् वपेत् । एषा वै विराड् अष्टापदी यद् द्यौश् च पृथिवी चापश् चौषधयश् च वायुश् चान्तरिक्षं च सूर्यश् च चन्द्रमाश् च । विराजं चैव लोकं चाव रुन्धे वि राजत्य् अस्मिंश् च लोके अमुष्मिंश् च वैराज र्षभ इत्य् एनम् आहुर् यः (…) । (…) प्राश्नीयाद् एताम् एव देवतां मनसा ध्यायेद् विराजस् त्वा चक्षुषा पश्यामि विराजस् त्वा हस्ताभ्याम् आ रभे विराजस् त्वास्येन प्राश्नामि विराजस् त्वा (…) । (…)
यो वै नवशरावं निर्वपेन् नव याव्न एव देवान् अनु निर्वपेत् । एते वै नवयावानो देवा यन् मासाः । मासश् चैव लोकं चव रुन्धे कल्पन्ते अस्मै मासा मासां प्रियो भवति यः (…) । (…) प्राश्नीयाद् एता एव देवता मनसा ध्यायेन् मासां त्वा चक्षुषा पश्यामि मासां त्वा हस्ताभ्याम् आ रभे मासां त्वास्येन प्राश्नामि मासां त्वा (…) । (…)
यो वै दशशरावं निर्वपेद् इडाम् एव धेनुम् अनु निर्वपेत् । एसा वा इडा धेनुर् यद् यज्ञः पशवः । इडां चैव धेनुं यज्ञं च लोकं च पशूंश् चाव रुन्धे कल्पन्ते अस्मा इड इडां प्रियो भवति यः (…) । (…) प्राश्नीयद् एताम् एव देवतां मनसा ध्यायेद् इडायास् त्वा चक्षुषा पश्यामि- -इडायास् त्वा हस्ताभ्याम् आ रभ इडायास् त्वास्येन प्राश्नामि- -इडायास् त्वा (…) । (…)
यो वा एकादशशरावं निर्वपेद् रोहितम् एवानु निर् वपेत् । एष वै रोहितो यद् इन्द्रः । इन्द्रं चैव लोकं चाव रुन्धे इन्द्रियावी प्रिय इन्द्रस्य भवति यः (…) । (…) प्राश्नीयाद् एताम् एव देवतां मनसा ध्यायेद् इन्द्रस्य त्वा चक्षुषा पश्यामि- -इन्द्रस्य त्वा हस्ताभ्याम् आ रभ इन्द्रस्य त्वास्येन प्राश्नामि- -इन्द्रस्य त्वा (…) । (…)
यो वै द्वादशशरावं निर्वपेद् विश्वाम् एव देवान् अनु निर् वपेत् । एते वै विश्वे देवा यद् इदं सर्वम् । विश्वांश् चैव देवाꣳल् लोकं चाव रुन्धे कल्पन्ते अस्मै विश्वे देवाः प्रियो विश्वेषां देवानां भवति य एवं वेद । स य एवं विद्वान् प्राश्नीयाद् एता एव देवता मनसा ध्यायेद् विश्वेषां त्वा देवानां चक्षुषा पश्यामि विश्वेषां त्वा देवानां हस्ताभ्याम् आ रभे विश्वेषां त्वा देवानाम् आस्येन प्राश्नामि विश्वेषां त्वा देवानां जठरे सादयामीति । स यथा हुतम् इष्टं प्राश्नीयाद् एवैनं प्राश्नाति
इमां मात्रां निर् वप ओदनस्य तस्य पक्ता मुच्यतां किल्बिषेभ्यः । अभिद्रोहाद् एनसो दुष्कृताच् च पुनातु मा पवनैः पवित्रः
भद्रौ हस्तौ भद्रा जिह्वा भद्रं भवतु मे वचः । मह्यं पवित्रम् ओदनं ब्रह्मणा निर् वपामसि हस्ताभ्यां निर् वपामसि
यन् मयि गर्भे सति माता चकार दुष्कृतम् । अयं मा तस्माद् ओदनः पवित्रः पात्व् अंहसः
यद् अर्वाचीनम् एकहायनाद् अनृतं किं चोदिम । (…)
यद् दुष्कृतं यच् छमलं यद् एनश् चकृमा वयम् । (…)
यन् मातरं यत् पितरं यद् वा जामिं जिहिंसिम । (…)
यन् मातृघ्ना यत् पितृघ्ना भ्रूणघ्ना यत् सहासिम । (…)
श्यावदता कुनखिना स्तेनेन यत् सहासिम । (…)
शिशुन्धानां पूंश्चलानां तक्ष्णां यद् अन्नम् आशिम । (…)
यद् अपाम् अपजह्रिम निमज्य पपिमोदकम् । (…)
यत् क्रुद्धा मन्युतो वयं ब्राह्मणस्य निजग्मिम पदा वा गाम् उपारिम । (…)
यद् ब्रह्मचर्ये यत् स्नातचर्ये अनृतं किं चोदिम । (…)
किलासेन दुश्चर्मणा वण्डेन यत् सहाशिम- -आधाराभिगतेन वा । (…)
यत् क्षेत्रम् अभितिष्ठाथ- -अश्वं वा यं निरेमिषे । (…)
यद् अक्षेषु हिरण्ये गोष्व् अश्वेषु यद् धने अनृतं किं चोदिम । (…)
सख्युर् जायां स्वां दासीं सूतिकां लोहितावतीम् अशुद्धां यद् उपेयिम । (…)
परिवित्तेन परिविविदानेन- -अभ्यवस्नातेन परिभक्षितेन दिधिषूपत्या यत् सहाशिम । (…)
यत् कुसीदं विभेजिम द्विमेयं धनकाम्या । (…)
यद् द्व्येकं यत् त्र्येकम् उपैकम् इति यद् ददौ । (…)
यत् त्वरमाणाः शबलम् अपक्वं मांसम् आशिम । (…)
यद् अन्नम् आशिमा वयम् अनन्नम् अन्नकाम्या- -उदरस्याभिशाच्या । (…)
यद् विद्वांसो यद् अविद्वांसो अनृतं किं चोदिम । अयं मा तस्माद् ओदनः पवित्रः पात्व् अंहसः
यद् देवस्य सवितुः पवित्रं सहस्रधारं विततं हिरण्यम् । येनेन्द्रम् अपुननमार्तमर्त्यास् तेनायं मां सर्वपशुं पुनातु
येनापुनात् सविता रेवतीर् अपो येनापुनीत वरुणः सवाय । येनेमा विश्वा भुवनानि पूतास् तेनायं मां सर्वपशुं पुनातु
अति क्रामामि दुरितं यद् एनो जहामि रिप्रं परमे सधस्थे । येन यन्ति सुकृतो नापि दुष्कृतस् तम् आ रुहेम सुकृताम् उलोकम्
मा यक्ष्मम् इह हासिष्ट मा रिफन्तो वि गातन । अमैव पुण्यम् अस्तु नो अत्तॄन् अन्व् एति किल्बिषम्
इमं पचाम्य् ओदनं पवित्रं पवनाय कम् । स मा मुञ्चतु दुष्कृताद् विश्वस्माच् चैनसस् परि
सहस्राक्षं शतधारम् ऋषिभिः पवनं कृतम् । तेना सहस्रधारेण पवमानः पुनातु मा
येन पूतम् अन्तरिक्षं यस्मिन् वायुर् अधि श्रितः । (…)
येन पूते द्यावापृथिवी आपः पूता अथो स्वः । (…)
येन पूते अहोरात्रे दिशः पूता उत येन प्रदेशाः । (…)
येन पूतौ सूर्याचन्द्रमसौ नक्षत्राणि भूतकृतः सह येन पूताः । (…)
येन पूता वेदिर् अग्निः परिधयः सह येन पूताः । (…)
येन पूतं बर्हिर् आज्यम् अथो हविः । (…)
येन पूतो यज्ञो वषट्कार उताहुतिः । (…)
येन पूतौ व्रीहियवौ याभ्यां यज्ञो अधिनिर्मितः । (…)
येन पूता अश्वा गावो अथो पूता अजावयः । (…)
येन पूता ऋचः सामानि यजुर् ब्रह्मणा सह येन पूतम् । (…)
येन पूता अथर्वाण आथर्वणा अङ्गिरसो देवताः सह येन पूताः । (…)
येन पूता ऋतवो येनार्तवा येभ्यः संवत्सरो अधिनिर्मितः । (…)
येन पूता वनस्पतयो वानस्पत्या ओषधयो वीरुधः सह येन पूताः । (…)
येन पूता गन्धर्वाप्सरसाः सर्पपुण्यजनाः सह येन पूताः । (…)
येन पूता नद्यः सिन्धवः समुद्रः सह येन पूतः । (…)
येन पूताः पर्वता हिमवन्तो वैश्वानरः परिभूः सह येन पूतः । (…)
येन पूता विश्वे देवाः परमेष्ठी प्रजापतिः । (…)
येन पूत स्तनयित्नुर् अपां वत्सः प्रजापतिः । (…)
येन पूतः प्रजापतिर् लोकान् विश्वं भूतं स्वर् आजभार । (…)
येन पूतम् ऋतं सत्यं तपो दीक्षा च पूयते । (…)
येन पूतम् इदं सर्वं यद् भूतं यच् च भाव्यम् । तेना सहस्रधारेण पवमानः पुनातु मा
उच्चैर् घोषो दुन्दुभिः सत्वनायं वानस्पत्यः संभृत उस्रियाभिः । वाचं क्षणुवानो दमयन् सपत्नान् सिंह इव ज्येष्यन्न् अभि तंस्तनीभिः
सिंह इवास्तानीद् द्रुवयो विबद्धो ऽभिक्रन्दन्न् ऋषभो वाशिताम् इव । वृषा त्वं वध्रयस् ते सपत्ना ऐन्द्रस् ते शुष्मो अभिमातिषाहः
संजयन् पृतना ऊर्ध्वमायुर् गृह्या गृह्णानो बहुधा वि चक्ष्व । दैवीं वाचम् आ हुर गुरस्व वेधाः शत्रूणाम् उप भरस्व वेदः
वृषेव यूथं सहसो विदानो गव्यन्न् अभि रुव संधनाजित् । शुचा विध्य हृदयं परेषां हित्वा ग्रामान् प्रच्युता यन्तु शत्रवः
दुन्दुभेर् वाचं प्रयतां वदन्तीम् आशृण्वती नाथिता घोषबुद्धा । नारी पुत्रान् धावतु हस्तगृह्य- -अमित्री भीता समरे वधाना
धीभिः कृतः प्र भरस्व वाचम् उद् धर्षय सत्वनाम् आयुधानि । अमित्रसेनाम् अभिजञ्जभानो द्युमद् वद दुन्दुभे सूनृतावत्
पूर्वो दुन्दुभे वि षहस्व शत्रून् भूम्याः पृष्ठे वद बहु रोचमानः । इन्द्रमेदी सत्वनः सं ह्वयस्व मित्रैर् अमित्रान् अव जङ्घनीहि
अन्तरेमे नभसी घोषो अस्तु पृथक् ते ध्वनयो यन्तु शीभम् । अभि क्रन्द स्तनयोत्पिपानां श्लोककृन् मित्रतूर्याय स्वर्धि
संक्रन्दनः प्रवेदो धृष्णुषेणः प्रवेदकृद् बहुधा ग्रामघोषी । श्रेयो वन्वानो वयुनानि विद्वान् कीर्तिं बहुभ्यो वि भज द्विराजे
श्रेयःकेतो वसुजित् सहीयान् मित्रं दधानस् त्विषितो विपश्चित् । अंशून् इव ग्रावाधिषवणे अद्रिर् गव्यं दुन्दुभे अधि नृत्य वेदः
शत्रूषाण् नीषाड् अभिमातिषाहो गवेषणः सहमान उद्भित् । वाग्वी मन्त्रं प्र जनयस्व वाजिन् साङ्ग्रामजित्यायेषम् उद् वदेह
अच्युतच्युत् समदो गमिष्ठो मृधो जेता पृतनाषाड् अयोध्यः । इन्द्रेण क्ल्̥प्तो विदथा निचिक्यद् धृद्द्योतनो द्विषतां याहि शीभम्
इमास् तपन्तु त्वौषधीर् ओषधीनाम् अयं रसः । अश्वत्थस् ते ऽयं हृद्य् अग्निर् भूतो व्य् ओषतु प्र पतातो ममाध्या
यथा सूत्रं लाक्षारक्तम् आज्येनानुषिच्यते । एवा ते कामः सर्पत्व् अन्तर् अस्थसु मज्जसु प्र (…)
यथा कुष्ठः प्रयस्यति यथा दह्यते अर्चिषा । एवा ते दह्यतां मनः प्र (…)
पुंसः कुष्ठात् प्र क्षरति स्तोक आधीभिर् आभृतः । स ते हृदये वि वर्ततां प्र (…)
एष ते स्तोको हृदयं दिग्धेवेषुः प्र पद्यताम् । अस्त्राखणं यथेष्वा कामो विध्यतु त्वा मम प्र (…)
हरित एधि शुष्काक्षः सर्वदा हृदयामयि । स्त्रियस् ते अन्या मा छान्त्सुर् अथो त्वाशाभि शोचतु प्र (…)
शोचीमद् अस्तु ते शयनं शोचीमद् उपवेशनम् । शोचीमद् अस्तु ते मनो यथात्र न रमासा अर्वाची न मनास प्र (…)
न रमासै सङ्गतेषु शयानं त्वाभि शोचतु । स्तोकस् त्वोत्तुद उत् तुदात् प्र (…)
अन्तर् दहति चर्मणो अस्थिमांसेभिर् आभृतम् । सर्वान् यज्ञः प्र याशयाद् ऐड आधीभिस् तव प्र (…)
हृदये ऽधि सम् इध्यतां स्वैर् मांसेभिर् एष ते । अग्निः कामस्य यो महान् स मह्यं रन्धयाति त्वा प्र (…)
अश्वत्थम् अग्निम् आज्यं दूतान् कृण्वे मनोजवान् । अग्निश् चरुम् इवार्चिषा कामो विध्यतु त्वा मम प्र (…)
शयानम् अग्न आसीनम् अश्वत्थश् च सवासिनौ । चरन्तम् उपतिष्ठन्तं ममाधिभिर् वि विध्यतं प्र (…)
चरन्तं त्वा तिष्ठन्तम् आसीनम् अपि संसदि । रेष्मा तृणम् इव मथ्नातु दहन् कामरथो मम प्र (…)
यथेन्द्रायासुरान् अरन्धयद् बृहस्पतिः । एवा त्वम् अग्ने अश्वत्थान् अमून् मह्यम् इहानय प्र (…)
अहं ते मन आ दद ऐडेन सह मेदिना । देवा मनुष्या गन्धर्वास् ते मह्यं रन्धयन्तु त्वा प्र (…)
यथा अश्वत्थस्य पर्णानि नेलयन्ति कदा चन । एवासौ मम कामेन माव स्वाप्सीत् कदा चन प्र पतातो ममाध्या
कुष्ठं तपन्ति मरुतः स्वाध्यं दूर-आजानं स्वरयन्तो अर्चिषा । यथा न स्वपात् कतमच् चनाहर् ऐव गच्छान् ममाध्या
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ṚṢIS). Atharvaveda Paippalāda — Kāṇḍa 9. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-9>. Acesso em: 26/04/2026.
Tradição Védica (Ṛṣis) (2026). Atharvaveda Paippalāda — Kāṇḍa 9. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-9
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 9." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-9.