Atharvaveda Pariśiṣṭas
Tradição Védica (Ṛṣis)
श्रीगणेशाय नमः ॥ ॐ नमो ऽथर्वात्मने वामदेवाय शिवाय ॥ श्रीसरस्वत्यै नमः ॥
अथ नक्षत्रकल्पं व्याख्यास्यामः ॥
कृत्तिका रोहिणी मृगशिर आर्द्रा पुनर्वसू पुष्याश्लेषा मघा(ः) फाल्गुनी फल्गुन्यौ हस्त(श्) चित्रा स्वाति(र्) विशाखे अनुराधा ज्येष्ठा मूल(म्) पूर्वाषाढा उत्तराषाडाभिजिच् छ्रवणः श्रविष्ठा शतभिषः पूर्वप्रोष्ठपदोत्तरप्रोष्ठपदौ रेवत्य् अश्वयुजौ भरण्यः ॥
षट् कृत्तिका एका रोहिणी तिस्रो मृगशिर एकार्द्रा द्वे पुनर्वसू एकः पुष्यः षड् आश्लेषाः षण् मघाः चतस्रः फल्गुन्यः पञ्च हस्त एका चित्रा एका स्वातिर् द्वे विशाखे चतस्रो ऽनुराधा एका ज्येष्ठा सप्त मूलम् अष्टाव् अषाढा एको ऽभिजित् तिस्रः श्रवणः पञ्च श्रविष्ठा एका शतभिषा चतस्रः प्रोष्ठपदौ एका रेवती द्वे अश्वयुजौ तिस्रो भरण्यः ॥
इति संख्यापरिमितं ब्रह्म ॥
आग्निवेश्यः कृत्तिका रोहिण्य् आनुरोहिणी श्वेतायिनं मृगशिर आर्द्रा बार्हद्गवी वात्स्यायनौ पुनर्वसू भारद्वाजः पुष्यो जातूकर्ण्यो ऽश्लेषा वैयाघ्रपद्यो मघा(ः) पाराशर्यौ पूर्वे फाल्गुण्याव् औपशिव्या उत्तरे माण्डव्यायनो हस्तश् चित्रा गौतमी कौण्डिन्यायनः स्वातिः कापिले विशाखे मैत्रेय्य् अनुराधा कौशिकी ज्येष्ठा कौत्सं मूलं हारितयज्ञी पूर्वाषाढा काश्यप्य् उत्तरा शौनको ऽभिजिद् आत्रेयः श्रवणो गार्ग्यः श्रविष्ठा दाक्षायणी शतभिषग् वात्स्यायन्यौ पूर्वे प्रोष्ठपदे आगस्त्याव् उत्तरे शाङ्खायनी रेवती कात्यायन्(य्)आव् अश्वयुजौ मातृभ्यो भरण्यः वसिष्ठः कश्यप आदित्यश् चन्द्रमा ब्रह्माणो नक्षत्रेषु ॥
कृत्तिका अग्निदेवत्या रोहिण्यां तु प्रजापतिः । सौम्यं मृगशिरं विद्यान् मरुतश् चात्र दैवतम् ॥
रुद्रस्यार्द्रादितेः पुनर्वसू पुष्ये विद्याद् बृहस्पतिम् । अश्लेषाः सर्पदैवत्या मघासु पितरः स्मृताः ॥
भगस् [तु] पूर्वयोः फल्गुन्योर् अर्यमोत्तरयोर् अपि । हस्ते च सविता दैवं चित्रा तु त्वष्टृदैवता ॥
स्वातौ तु दैवतं वायुर् इन्द्राग्नी तु विशाखयोः । अनुराधासु मित्रो वै ज्येष्ठायाम् इन्द्रमहादेवौ ॥
अहिर् बुध्न्यश् च मूलस्य निरृतिश् चात्र दैवतम् । आपः पूर्वास्व् अषाढासु विश्वे देवास् तथोत्तरे ॥
अभिजिद् ब्रह्मदेवत्यः श्रवणे विष्णुर् उच्यते । श्रविष्ठा वसुदेवत्या शतभिषग् वरुणेन्द्रयोः ॥
अज एकपाद् दिशश् च आदित्यश् च तथोत्तरे । रेवती पूषदैवत्या अश्विन्याम् अश्विनौ स्मृतौ ॥
भरण्यो यमदेवत्या देवताः संप्रकीर्तिताः ॥
कृत्तिका मघा मूलं च तथा पूर्वाणि द्वन्द्विनाम् । एतानि पुरस्ताद्भागान्य् अहःपूर्वाणि जानीयात् ॥
आर्द्रां शतभिषजं स्वातिम् आश्लेषा भरणीर् अपि । नक्तंभागानि ब्रुवते ज्येष्ठया सह ब्रह्माणम् ॥
पुनर्वसू विशाखे च उत्तराणि च द्वन्द्विनाम् । रात्रीम् उभयतः पक्षौ भजन्ते या च रोहिणी ॥
मृगशिरः पुष्यो हस्तश् चित्रा तु सहानुराधैः । श्रवणश् च श्रविष्ठाश् च रेवत्य् अश्वयुजौ नव ॥
एतान्य् उपरिष्टाद्भागानि रात्रीपूर्वाणि जानीयात् । मुहूर्तो ऽभिजिद् उच्यते ॥
पुरस्ताद्भागान्य् अनागतेनोपरिष्टाद्भागान्य् अतिक्रान्तेन उभयतोभागानि वर्तमानेन नक्तंभागानि समं चन्द्रेण वा ॥
षड् अनागतयोगीनि स्थितयोगीनि द्वादश । नवातिक्रान्तयोगीनि तथा योगः प्रदृश्यते ॥
बहूनि जातानि ग्रहो हिनस्ति कृत्तिकासु तिष्ठन्न् उत दीर्घम् आयुः । अजावयो मूषिकाश् च व्यथन्ते विशो ब्रह्मणः सह म्लेच्छवांश् च ॥
कलिङ्गानां व्यथते ननु राजा हिरण्यकारांश् च निहन्ति कृत्स्नम् । अयस्कारा लोहकारा आहिताग्निश् च कृत्स्नं नियन्ति सहाग्नितप्तैः ॥
अयो लोहं रजतं जातरूपं हिरण्यमिश्रं [यच्] च पतन्ति सारम् । काशाः कुशा यच् च सुवर्णवर्णं यच् चाग्निवर्णं फलमूलपुष्पम् ॥
[ये तत्र जाताः] सरांसि शुष्यन्त्य् अपयन्ति नद्यः प्रजा व्यथन्ते पशवो मृगाश् च ॥ प्रजापतेर् हृदये पीड्यमाने सर्वं जगद् व्यथते सप्रदेशम् ॥
महाभौमो राजा मरिष्यतीति विद्याद् एकारिणां छवकाम् इन्वकासु । नक्षत्रभागे नियन्ति योजधानाः तथा हि नूनं त्रिणवेन सृष्टम् ॥
तथा स निन्ये निधानदर्शनाय तत्र तेषां सहाक्षेमं तस्य विद्यात् । परित्य ये पूर्वपदान् बलेन उत्तिष्ठन्ति वीर्यवन्तो मृगानाम् ॥
भगेन देव्य् उपयन्ति दिव्यम् आर्द्राभागे सहिनो भवन्ति । तत्र दैवान् मानुष्यांश् च पुनर्वस्वोर् नक्षत्र भागे निनियोज धानाः ॥
तथा हि नूनं पुष्यो भाग एकधा ब्राह्मणानां तथा विदुर् नक्षत्रवेदितारः तथा हि नूनम् ॥
शतद्रयः कैशिका दक्षिणार्धा आन्ध्राश् च योगहासया प्रवृद्धाः ॥ अश्लेषाभागे सहिनो भवन्ति तत्र ॥
वेणून् पितॄंस् त्रिरुजाहुर् देवताम् । मघाभागे अष्टमे देवसृष्टम् । संयुज्यन्ते देवप्रसादनेन तत्र ॥
राज्ञां राकायाम् अथ मद्रकैकया मनोमापायनसहपरिसुन्नियोजसहान्तौ । तुन्यम् अथ सप्तमात्रं पूर्वभागे नवके फल्गुनीषु ॥
मत्स्या मागधाश् चेदयश् च शाल्वा मत्स्या उभे फल्गुनीषु । संयुज्यन्ते देवप्रसादनेन तत्र ॥
पूर्वाचार्या इच्छमानाश् च सर्वे यकृत् क्लोम सह भागेन हस्ते । संयुज्यन्ते देवप्रसादनेन तत्र ॥
ये पूर्वार्धे निजीहते चरन्तः शान्ता मृगा [जन्तु]पशवो अपगामिनस् ते । पशवो भवताश् च सर्वे चित्राया भागे सहिनो भवन्ति ॥ तत्रा-
-च्युतकेशं वाहनं जयार्थं कुमार्यो अनड्वान् सहते अत्र ये । विज्ञायते देवसृष्टं पुराणं स्वातिं भजन्ते तृणवश् च सर्वे ॥
वृक्षा वृक्षमूलम् इक्ष्वाकवश् च विशाखायां योजिताः सांपदेन । तस्मिन् गृहीते भयम् एव तेषां दैवोपसृष्टे तु बलेन कार्यम् ॥ ये तत्र जाताः ॥
ये पश्चार्धे निजीहते चरन्त आसवो मृगा उत्तरार्धाश् चान्ध्राः । अनूराधासु मगधवङ्गमत्स्याः सर्वे समग्राः सहिनो भवन्ति तत्र ॥
पञ्चैकधा जनपदा भवन्ति सयुजःकासौबलदादौष्यधाः । बाह्लीका ज्येष्ठा उपयन्ति भक्त्या तत्र ॥
इक्ष्वाकूणां निर्मथ्या मूलम् आहुः । तथा विदुर् नक्षत्रवेदितारस् तथा हि नूनम्
काम्बोजाः कालमृषाश् च क्रन्दा उच्छुष्माणः श्वानश् चावधूममर्कटाश् च पूर्वाषाढा उपयन्ति भक्त्या तत्र ॥
विश्वे देवाः सह पञ्चालज्येष्ठा आपश् च याः पान्तु भूतं भविष्यत् । उत्तराषाढा उपयन्ति भक्त्या तत्र ॥
नार्कविन्दा नार्व्विदाला नसृङ्गावौ नैषधा जन्तवो मतङ्गाः । अभिजितं हार्थविज्ञाय भेजिरे तत्र ॥
पाञ्चालाः श्रवणम् उपैति भक्त्या सुन्वन्तश् चोभे विद्वान् भूता निनियोज देवः ॥ पूर्वकर्ता भूतभविष्यकालस् तथा नि नूनम्
कुरून् श्रविष्ठास् तथा शिवास् तथाहुर् नक्षत्रभागे निनियोज धानाः ॥ तथा हि नूनम्
अङ्गादयो जनपदा गुहाशया अप्सु च ये क्षिपन्ति शतभिषजि भेषजस्य भेजिरे तत्र ॥
खड्गा हस्तिनो गवया वराहा अहीनरा कुन्तयश् चापि सर्वे । पूर्वौ प्रोष्ठपदा उपयन्ति भक्त्या तत्र ॥
उशीनरा उत्तरयोः प्रोष्ठपदयोर् नक्षत्रभागे निनियोज धानाः । तथा हि नूनम्
आवृताः शूद्राः सह कारवश् च दक्षिणपूर्वे यूकभिः सह रेवतीं हार्थविज्ञाय भेजिरे तत्र ॥
अच्युतकेशं वाहनं च पदार्थम् उचावचजनपदा महान्तः । अश्वयुजौ हार्थविज्ञाय भेजिरे तत्र ॥
उभये कीकटाः कौशलाश् च रहश् च[वो] ये च प्रसुप्ताश् चरन्ति भरणीः सहार्थविज्ञाय भेजिरे तत्र तेषां सहाक्षयम् अस्य विद्यात् ॥
करिष्यमाणः संग्रामं प्रतिराजेन क्षत्रियः । ब्राह्मणं पूर्वम् अन्विच्छेद् विद्वांसं शास्त्रवित्तमम् ॥
उत्पातान् यस् तु यान् विद्याद् दिव्यान्तरिक्षपार्थिवान् । तं वै लिप्सितुम् अर्हति राजा राष्ट्रे जिजीविषुः ॥
ग्रहाणां यः स्थितिं विद्यान् नक्षत्राणां च सांपदम् । अनभ्यक्तम् उपासीत नक्षत्रसमतां च यत् ॥
आयुधीयान् बिभ्रद् राजा कृत्तिकासु न रिष्यति । तद् धि तेजस्वि नक्षत्रं बहुलं दिवि रोचते ॥
अथो हि कृत्तिका इति नक्षत्रं भानुमत्तमम् । आग्नेयम् अग्निनक्षत्रं राजा ह्य् अस्मिन् प्रवर्धते ॥
रोहिण्या[ं] सार्धम् आसीत रज्जुपल्यानि कारयेत् । मृगशिरस्य् अश्वान् बिभृयात् सास्य सेना न रिष्यति ॥
सौम्यं सोमस्य नक्षत्रं राजा ह्य् अस्मिन् प्रवर्धते । आर्द्रायां मृगयां यायाद् अमित्रेभ्यश् च हावयेत् ॥
पुनर्वस्वाभियुञ्जीत पुष्येनैतां प्रयोजयेत् । इषीकां छेदयन् राजा अश्लेषासु न रिष्यति ॥
मघाभिः सार्धम् आसीत न यायाद् उच्छ्रयं चन । फल्गु द्वाराणि कारयेत् परिचारांश् च वाहयेत् ॥
तोरणानि च संहन्युः फलकानि च तक्षयेत् । ..... उत्तराभ्यां च हावयेत् ॥
हस्तेन चित्राम् आकाङ्क्षेन् नक्षत्रस्य परिग्रहम् । अनेकदर्शी स्याच् चित्रायां पुरा स्वातेर् अभिप्लवात् ॥
स्वातौ शिशून् नियोजयेज् जवार्थान् रथवाहिनः । अथास्मिन् [कन्याम्] उपवासयेत् क्षिप्रं सा लभते पतिम् ॥
प्रदतीन् कारयन् राजा विशाखायां न रिष्यति । लेपयेत् प्रदती राजा अनूराधासु क्षत्रियः ॥
ज्येष्ठायां हस्तिनं पश्येद् अभिषेकांश् च कारयेत् । ..... राजपुत्रांश् च योधयेत् ॥
मूलेन परिखां खानयेत् पुरं चितेन योजयेत् । नैरृतं राजनक्षत्रं वध्यान् अनेन घातयेत् ॥
त्रिरात्रं सार्धं दीक्षयित्वा आषाढासु व्रतं चरेत् । अभिजित्य् अभियुञ्जीत श्रवणेन चिकीर्षतु ॥
श्रविष्थाभिः सृजेद् रसान् ॥
शतभिषजि भिषक्कर्म भैषज्यं चात्र कारयेत् । प्राचीनप्रोष्ठपदयोर् यायाद् ...
उत्तराभ्याम् अभियुञ्जीत गृहेषु रेवत्यां वसेत् । वि सेनां कारयेद् राजा अश्विन्यां भरणीषु च ॥
चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि । तुर्मिशं सुमतिम् इच्छमानो अहानि गीर्भिः सपर्यामि नाकम् ॥
सुहवम् अग्ने कृत्तिका रोहिणी चस्तु भद्रं मृगशिरः शम् आर्द्रा । पुनर्वसू सूनृता चारु पुष्यो भानुर् आश्लेषा अयनं मघा मे ॥
पुण्यं पूर्वा फल्गुन्यौ चात्र हस्तश् चित्रा शिवा स्वाति सुखो मे अस्तु । राधे विशाखे सुहवा अनुराधा ज्येष्ठा सुनक्षत्रम् अरिष्टमूलम् ॥
अन्नं पूर्वा रासतां मे अषाढा ऊर्जं देह्य् उत्तरा आ वहन्तु । अभिजिन् मे रासतां पुण्यम् एव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम् ॥
आ मे महच् छतभिसग् वरीय आमे द्वया प्रोष्ठपदा सुशर्म । आ रेवती चाश्वयुजौ भगं म आ मे रयिं भरण्य आ वहन्तु ॥
कृत्तिका रोहिणी मृगशिर आर्द्रा पुनर्वसू पुष्याश्लेषा मघाः पूर्वे फल्गुन्यौ तन् नवमम् अग्निर् दशमम् अहोरात्रे एदादशद्वादशे ॥
एतान्य् एवास्मै नक्षत्राणि श्रियं भूतिं पुष्टिं प्रजां पशून् अन्नम् अन्नाद्यं समिन्धत इति वेद
अथ यं कामयत्य् एतान्य् एवास्मै नक्षत्राणि श्रियं भूतिं पुष्टिं प्रजां पशून् अन्नम् अन्नाद्यं समिन्धीरन्न् इति तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात्
प्राञ्चम् इध्मम् उपसमाधाय परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्ही रसान् बर्हिष्य् आधायान्वालभ्याथ जुहुयाच् चित्राणि साकं दिवि रोचनानि स्वाहेत्य् अग्नौ हुत्वा रसेषु संपातान् आनीय संस्थाप्य होमांस् तत एनं प्राशयति रसान् ॥
एवं चेद् अस्मै करोत्य् एतान्य् एवास्मै नक्षत्राणि श्रियं भूतिं पुष्टिं प्रजां पशून् अन्नम् अन्नाद्यं समिन्धते ॥
उत्तरे फल्गुन्यौ हस्तश् चित्रा स्वातिर् विशाखे अनूराधा ज्येष्ठा मूलं पूर्वाषाढा तन् नवमम् आदित्यो दशमं [नामरूप] पूर्वपक्षापरपक्षाव् एकादशद्वादशे
एतान्य् एवास्मै = १,१२.२.
अथ यम् = १,१२.३.
प्राञ्चम् इध्मम् = १,१२.४.
एवम् = १,१२.५.
उत्तराषाढाभिजिच् छ्रवणः श्रविष्ठा शतभिषक् प्रोष्ठपदौ रेवत्य् अश्वयुजौ भरण्यस् तद् दशमम् ... पौर्णमास्यमावास्ये द्वादशत्रयोदशे
एतान्य् एवास्मै = १,१२.२.
अथ यम् = १,१२.३.
प्राञ्चम् इध्मम् = १,१२.४.
एवम् = १,१२.५.
ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इतिहासपुराणं वाकोवाक्यम् इदावत्सरः परिवत्सरः संवत्सरो दशमं शीतोष्णे एकादशद्वादशे
एतान्य् एवास्मै = १,१२.२.
अथ यम् = १,१२.३.
प्राञ्चम् इध्मम् = १,१२.४.
एवम् = १,१२.५.
प्राणो अपानो व्यानः समान उदानश् चक्षुः श्रोत्रं वाङ् मनस् तन् नवमम् ... दशमं नामरूपे एकादशद्वादशे
एतान्य् एवास्मै = १,१२.२.
अथ यम् = १,१२.३.
प्राञ्चम् इध्मम् = १,१२.४.
एवम् = १,१२.५.
अजन्य् अजनिर् यशो अजनिर् वर्चो अजनिस् तेजो अजनिः सहो अजनिर् महो अजनिर् ब्रह्मा अजनिर् ब्राह्मणवर्चसम् अजनिः सर्वेषां लोकानां सर्वेषां देवानां सर्वेषां वेदानां सर्वेषां भूतानां सर्वासां स्रवन्तीनां जनिताधिपतिर् अजनिर् भवतीति वेद
अथ यं कामयेत सर्वेषां लोकानां सर्वेषां देवानां सर्वेषां वेदानां सर्वेषां भूतानां सर्वासां स्रवन्तीनां जनिताधिपतिर् अजनिः स्याद् इति तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात् ॥
प्राञ्चम् इध्मम् = १,१२.४.
एवं चेद् अस्मै करोति सर्वेषां लोकानां सर्वेषां देवानां सर्वेषां वेदानां सर्वेषां भूतानां सर्वासां स्रवन्तीनां जनिताधिपतिर् अजनिर् भवति ॥
विष्ठितश्रवा वै नामैतन् नक्षत्रं यत् पूर्वाह्ने अधितिष्ठति वितिष्ठत्य् अस्य पुण्या कीर्तिर् ऐनं पुण्या कीर्तिर् गच्छत्य् उपैनं पुण्या कीर्तिस् तिष्ठति नास्मात् पुण्या कीर्तिर् अपक्रामति कीर्तिमान् प्रजया पशुभिः श्रिया गृहैर् धनेन भवतीति वेद
अथ यं कामयेत वितिष्ठेद् अस्य पुण्या कीर्तिर् ऐनं पुण्या कीर्तिर् गच्छेद् उपैनं पुण्या कीर्तिस् तिष्ठेन् नास्मात् पुण्या कीर्तिर् अपक्रामेत् कीर्तिमान् प्रजया पशुभिः श्रिया गृहैर् धनेन स्याद् इति तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात् ॥
प्राञ्चम् इध्मम् उपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्य् आधायान्वालभ्याथ जुहुयाद् विषासहिं सहमानं स्वाहेत्य् अग्नौ हुत्वा रसेषु संपातान् आनीय संस्थाप्य होमांस् तत एनं प्राशयति रसान् ॥
एवं चेद् अस्मै करोति वितिष्ठत्य् अस्य पुण्या कीर्तिर् ऐनं पुण्या कीर्तिर् गच्छत्य् उपैनं पुण्या कीर्तिस् तिष्ठति नास्मात् पुण्या कीर्तिर् अपक्रामति कीर्तिमान् प्रजया पशुभिः श्रिया गृहैर् भवति ॥
वर्चो वै नामैतन् नक्षत्रं यन् मध्याह्नैनं वर्चो गच्छत्य् उपैनं वर्चस् तिष्ठति नास्माद् वर्चो अपक्रामति वर्चस्वी प्रजया पशुभिः श्रिया गृहैर् धनेन भवतीति वेद
अथ यं कामयेतैनं वर्चो गच्छेद् उपैनं वर्चो तिष्ठेन् नास्माद् वर्चो अपक्रामेद् वर्चस्वी प्रजया पशुभिः श्रिया गृहैर् धनेन स्याद् इति तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात् ॥
प्राञ्चम् इध्मम् उपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्य् आधायान्वालभ्याथ जुहुयाद् वर्चो असि वर्चो मयि धेहि स्वाहेत्य् अग्नौ हुत्वा रसेषु संपातान् आनीय संस्थाप्य होमांस् तत एनं प्राशयति रसान् ॥
एवं चेद् अस्मै करोत्य् ऐनं वर्चो गच्छत्य् उपैनं वर्चस् तिष्ठति नास्माद् वर्चो अपक्रामति वर्चस्वी प्रजया पशुभिः श्रिया गृहैर् धनेन भवति ॥
तेजो वै नामैतन् नक्षत्रं यद् अपराह्णैनं तेजो गच्छत्य् उपैनं तेजस् तिष्ठति नास्मात् तेजो अपक्रामति तेजस्वी प्रजया पशुभिः श्रिया गृहैर् धनेन भवतीति वेद
अथ यं कामयेतैनं तेजो गच्छेद् उपैनं तेजस् तिष्ठेन् नास्मात् तेजो अपक्रामेत् तेजस्वी प्रजया पशुभिः श्रिया गृहैर् धनेन स्याद् इति तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात् ॥
प्राञ्चम् इध्मम् उपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्य् आधायान्वालभ्याथ जुहुयाद् तेजो असि तेजो मयि धेहि स्वाहेत्य् अग्नौ हुत्वा रसेषु संपातान् आनीय संस्थाप्य होमांस् तत एनं प्राशयति रसान् ॥
एवं चेद् अस्मै करोत्य् ऐनं तेजो गच्छत्य् उपैनं तेजस् तिष्ठति नास्मात् तेजो अपक्रामति तेजस्वी प्रजया पशुभिः श्रिया गृहैर् धनेन भवति ॥
विष्ठितश्रवा वै नामैतन् नक्षत्रं यत् पूर्वाह्ने ॥
वर्चो वै नामैतन् नक्षत्रं यन् मध्याह्ने ॥
तेजो वै नामैतन् नक्षत्रं यद् अपराह्णे ॥
अकाले त्व् एवाप्रयुक्तानि भवन्ति ॥
विष्ठितश्रवा वै नामैतन् नक्षत्रं यत् पूर्वरात्रे ॥
वर्चो वै नामैतन् नक्षत्रं यद् मध्यरात्रे ॥
तेजो वै नामैतन् नक्षत्रं यद् अपररात्रे ॥
स्वेस्वे काले प्रयुक्तानि भवन्ति ॥
यो वै रात्रियान्व् एवाप्रयुक्तानि भवन्ति ॥
यो वै अह्नः पुण्याहं वेद पुण्याही भवति पुण्याहम् अस्मै भवति पुण्याह एव कुरुते ॥
सूर्यो वाह्नः पुण्याहं तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात् ॥
प्राञ्चम् इध्मम् उपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्य् आधायान्वालभ्याथ जुहुयाद् विषासहिं सहमानं स्वाहेत्य् अग्नौ हुत्वा रसेषु संपातान् आनीय संस्थाप्य होमांस् तत एनं प्राशयति रसान् ॥
एवं चेद् अस्मै करोति पुण्याही भवति पुण्याहम् अस्मै भवति पुण्याह एव कुरुते ॥
यो वै रात्र्याः पुण्याहं वेद पुण्याही भवति पुण्याहम् अस्मै भवति पुण्याह एव कुरुते ॥
चन्द्रो वै रात्र्याः पुण्याहं तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात् ॥
प्राञ्चम् इध्मम् उपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्य् आधायान्वालभ्याथ जुहुयाद् यद् राजानं स्वाहेत्य् अग्नौ हुत्वा रसेषु संपातान् आनीय संस्थाप्य होमांस् तत एनं प्राशयति रसान् ॥
एवं चेद् अस्मै करोति पुण्याही भवति पुण्याहम् अस्मै भवति पुण्याह एव कुरुते ॥
यो वा अहोरत्रयोः पुण्याहं वेद पुण्याही भवति पुण्याहम् अस्मै भवति पुण्याह एव कुरुते ॥
ब्राह्मणो वा अहोरात्रयोः पुण्याहम्
तं पृच्छेत् केनाजितेति
स चेद् ब्रूयात् कर्तव्यम् इति तथा कुर्यात्
पुण्याही भवति पुण्याहम् अस्मै भवति पुण्याह एव कुरुते ॥
यानि नक्षत्राणि दिव्य् अन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु । प्रकल्पयंश् चन्द्रमा यान्य् एति सर्वाणि ममैतानि शिवानि सन्तु ॥
अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे । योगं प्रपद्ये क्षेमं च क्षेमं प्रपद्ये योगं च नमो ऽहोरात्राभ्याम् अस्तु ॥
स्वस्तितं मे सुप्रातः सुसायं सुदिवं सुमृगं सुशकुनं मे अस्तु । सुहवम् अग्ने स्वस्त्य् अमर्त्यं गत्वा पुनर् आयाभिनन्दन् ॥
अनुहवं परिहवं परिवादं परिक्षवम् । सर्वैर् मे रिक्तकुम्भान् परा तान्त् सवितः सुव ॥
अपपापं परिक्षवं पुण्यं भक्षीमहि क्षवम् । शिवा ते पात नासिकां पुण्यगश् चाभिमेहताम् ॥
इमा या ब्रह्मणस्पते विषूचीर् वात ईरते । सध्रीचीर् इन्द्र ताः कृत्वा मह्यं शिवतमास् कृधि ॥
स्वस्ति नो अस्त्व् अभयं नो अस्तु नमो ऽहोरात्राभ्याम् अस्तु ॥
दध्योदनं भुक्त्वा कृत्तिकाभिर् अभ्युदियात् सिद्धार्थो हैव पुनर् आगच्छति ॥
आर्षभेन मांसेन रोहिण्यां मृगमांसैर् मृगशिरसि रुधिरम् आर्द्रायां गृहपतिभक्तं पुनर्वस्वोः घृतपायसं पुष्ये सर्पिर् मांसैर् अश्लेषासु
एतानि खलु प्राग्द्वाराणि नक्षत्राणि भवन्ति ॥
स यत्रैव प्राचीं दिशम् अभ्युत्थितः शस्त्रहस्तेन वा कण्ठहस्तेन वा वध्यघातेन वा समेयान् निवर्तेतार्वाक् खल्व् एतत् क्रोशाद् ऊर्ध्वं क्रोशाद् अव्याघातुकम् अर्थस्य भवति ॥
तैलेन कृशरं भुक्त्वा मघाभिर् अभ्युदियात् सिद्धार्थो हैव पुनर् आगच्छत्य्
आविकैर् मांसैर् भुक्त्वा पूर्वयोः फल्गुन्योर् अभ्युदियाद् रसैर् उत्तरयोः प्रैयङ्गवं हस्ते चित्रं भक्तं भुक्त्वा चित्रयाभ्युदियात् यानि ज्येष्ठानि तेषां भुक्त्वा स्वाताव् अभ्युदियाद् अपूपान् विशाखयोर्
एतानि खलु दक्षिणद्वाराणि नक्षत्राणि भवन्ति
स यत्रैव दक्षिणां दिशम् अभ्युत्थितः शयनहस्तेन वास्तरणहस्तेन वासन्दीहस्तेन वा नीवीहस्तेन वा जानुहस्तेन वा समेयान् निवर्तेतार्वाक् खल्व् एतत् क्रोशाद् ऊर्ध्वं क्रोशाद् अव्याघातुकम् अर्थस्य भवति
खलकुलैर् भुक्त्वानुराधाभिर् अभ्युदियात् सिद्धार्थो हैव पुनर् आगच्छति
ज्येष्ठं भक्तं भुक्त्वा ज्येष्ठयाभ्युदियान् मूलैर् भुक्त्वा मूलेनाभ्युदियाद् .... भुक्त्वा पूर्वाभिर् अषाढाभिर् अभ्युदियाद् रसैर् उत्तराभिर् नवनीतेन पायसं भुक्त्वाभिजित्य् अभ्युदियाद् .... भुक्त्वा श्रवणेनाभ्युदियाद्
एतानि खलु पश्चिमद्वाराणि नक्षत्राणि भवन्ति
स यत्रैव प्रतीचीं दिशम् अभ्युत्थितः पाशहस्तेन वा जालहस्तेन वा मत्स्यबन्धेन वा समेयान् निवर्तेतार्वाक् खल्व् एतत् क्रोशाद् ऊर्ध्वं क्रोशाद् अव्याघातुकम् अर्थस्य भवति
विदलसूपेन भुक्त्वा श्रविष्ठाभिर् अभ्युदियात् सिद्धार्थो हैव पुनर् आगच्छति
शाकं शतभिषजि गोधा गव्यैर् मांसैर् भुक्त्वा पूर्वयोः प्रोष्ठपदयोर् अभ्युदियाद् रसैर् उत्तरयोर् गृहिणीभक्तं भुक्त्वा रेवत्याभ्युदियाद् अक्षतमाषैर् भुक्त्वाश्विन्योर् अभ्युदियात् तिलतण्डुलान् भक्षयित्वा भरणीभिर् अभ्युदियाद्
एतानि खलूदग्द्वाराणि नक्षत्राणि भवन्ति
स यत्रैवोदीचीं दिशम् अभ्युत्थितः पानहस्तेन वा किण्वहस्तेन वाक्षीवेण वा समेयान् निवर्तेतार्वाक् खल्व् एतत् क्रोशाद् ऊर्ध्वं क्रोशाद् अव्याघातुकम् अर्थस्य भवति
अथ राज्ञो ऽभिप्रयाणस्यानयन्ति प्रदक्षिणमुखं श्वेतम् अजं ब्राह्मणं शुक्लवाससम् ॥
सुप्रतिष्ठितम् अविभ्रान्तं वृषभं शृङ्गिनं हरिम् । स चेन् नदति संसृष्टस् ताम् आहुः सिद्धिम् उत्तमाम् ॥
गजं ध्वजं रथं छत्त्रं वर्म योधान् अलंकृतान् । भूषणानि च सर्वाणि प्रशस्तान्य् आयुधानि च ॥
वादित्राणि च सर्वाणि पताका विविधास् तथा । शुक्लाः सुमनसो लाजा अक्षता गौरसर्षपाः ॥
फलानि पूर्णपात्राणि धूपगन्धान् जलं तिलाः । अर्चयित्वा देवताः सर्वा ब्राह्मणान् प्रतिपूज्य च ॥
पुरोहितं पुरस्कृत्य सुहृदो मन्त्रिणस् तथा । एवं प्रयातो लभते विजयं नात्र संशयः ॥
कल्याणनामधेयं च गजम् अव्यङ्गदर्शनम् । कुमारीं दधिपात्रेण गृहीतेन स्वलंकृताम् ॥
यदि चेद् अधिगो जाल्मि सूर्याचन्द्रमसोर् गृहे । अश्विना रासभेन्द्रेण यानं कुर्यात् प्रदक्षिणम् ॥
प्रादक्षिण्यम् अग्नेर् गवां ब्राह्मणानां राज्ञो रथस्य [नरवाहनस्य शकटस्य] चतुर्युक्तस्य षड्युक्ताष्टयुक्तस्य च
ह्रदस्य दक्षिणावर्तस्य कुमारस्याभ्युत्थितस्य च । मनुष्यपूर्णपिटकस्य पृथिव्या उत्थितस्य च ॥ प्रबद्धस्यैकपशोः
उलूची कालशकुनिः क्षिप्रश्येनो ऽथ वर्तिका । एते द्विजाः प्रादक्षिण्याश् चाषश् चात्र प्रदृश्यते ॥
क्रौञ्चनकुलप्रियवृक्षचैत्यानां नित्यं वयसाम् ॥
तिर्यग् न्यग् वाधिपतितं विपरीतं हीनाङ्गाङ्गातिरिक्तं विकृतनग्नमुण्डबण्डश् चित्रश्यामश्यावदन्तकुनखिजटिलः काषायाविकयोश् [चर्मा]ब्राह्मणयोर्
एतेषां किं चिद् दृष्ट्वा न गच्छेद्
यदि गच्छेद् अर्थिनो यन्ति चेद् अर्थं गच्छान् इद् ददुषो रातिम् । ववृज्युस् तृष्यतः कामम् इत्य् एतां जपेत् ॥
नि षज्यतो दस्यूंश् छादयन्न् इन्द्रेति वा
स्तुहि श्रुतम् इति वा
देवीं वाचम् अजनयन्त देवास् तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषम् ऊर्जं दुहाना धेनुर् वाग् अस्मान् उप सुष्टुतैतु इति गर्दभमुखेन प्रतिनदति प्रतिलोमप्रतिकृत्यास्य
सर्वाश् च पापिका वाचो नेष्टा । कुचेलदर्शनं च । अनर्था हिंसार्थम् । तद्दर्शनाय । पापं वा जिहीर्षतां सिद्धिः ॥
अथ रोगपरिमाणान्य्
उत्तरास्व् अषाढासूत्तरयोः प्रोष्ठपदयोर् मासम् ।
रोहिण्यां विंशतिरात्रम् ।
पुनर्वसोर् ऊनविंशतिरात्रं पूर्वाणि द्वन्द्विनाम् ।
मृगशिरसि षोडशरात्रम् अभिजिति श्रवणे च
आर्द्रायां पञ्चदशरात्रम् अनूराधाश्रविष्ठाभरणीषु च ।
पुष्ये द्वादशरात्रं हस्ते स्वातौ च ।
शतभिषजि नवरात्रं मासे वाकालं कुरुते ।
ज्येष्ठायां मूले चाष्टरात्रम् ।
रेवत्यां सप्तरात्रम् ।
कृत्तिकाश्लेषा मघा उत्तरे फाल्गुन्यौ चित्रा विशाखे अश्वयुजौ च सप्तस्व् एतेषु दशरात्रम् ॥
अथ बलयः
शुक्ल उपशुरसृपेशुक्लोसप्तमून्मोदनः । अष्टमः पललोदनो धानाः सक्तवो ऽथ शष्कुली ॥
चित्रश् च कृकवाकुश् च शुक्लः कम्बूकपिण्डकः । सर्वबीजानि मूलानि उदपात्रं च पायसौ ॥
पशु घृतं कशीका च आर्द्रमांसानि पायसौ । पथ्यायां माषसक्तवः पायसो ऽथ तिलोदनः ॥
सर्वत्र गन्धपुष्पाणि लाजानुलेपिकास् तथा । अनुद्वारं च नक्षत्रं दैवतं चात्र योजयेत् ॥
दीपाश् च मण्डले दीप्ताः शुचिश् चापि बलिं हरेत् । यो ऽस्मिन् यस् त्वा मातुर् इति विपरिहरेत् ॥
सश्वेतसक्तु कंसश् च प्राचीनार्थस्य मङ्गलम् । स्रवं च मांसपेशी च दक्षिणार्थस्य मङ्गलम् ॥
कुमारी दधिकंसश् च प्रत्यगर्थस्य मङ्गलम् । अनड्वान् ब्रह्मचारी च उदगर्थस्य मङ्गलम् ॥
कुमारीं दधिपात्रेण गृहीतेन स्वलंकृताम् । प्रदक्षिणां तु तां कुर्याद् ध्रुवं स्यात् सिद्धिर् इष्यते ॥
सेनां चेद् अभ्युत्थितां मन्द्रः प्रतिगर्जेद् राजा वामात्यो वा मरिष्यतीति विद्यात् तत्र वारुणीं जपेत् । उद् उत्तमं वरुण पाशम् इति ॥
सेनां चेद् अद्भ्युत्थितां धूमो ऽनुगच्छेद् विजेष्यतीति विद्यात् । त्वेषस् ते धूम इत्य् अनुमन्त्रयेत् ॥
सेनां चेद् अभ्युत्थितां वातो ऽनुवायाद् विजेष्यतीति विद्याद् वात आ वत्व् इत्य् अनुमन्त्रयेत् ॥
सेनां चेद् अभ्युत्थितां मृगो व्यभिमृशेद् अर्थं तस्या विनश्यतीति विद्यात् । मृगो न भीमः कुचरो गिरिष्ठा इत्य् अनुमन्त्रयेत् ॥
सेनां चेद् अभ्युत्थितां पक्षिणो व्यतिपतेयुर् मांसोदनं च तत्र दद्यात् । अलिक्लवा जाष्कमदा गृध्रा इत्य् अनुमन्त्रयेत् ॥
सेनां चेद् अभ्युत्थितां कपिञ्जलः प्रतिवदेद् भद्रं वदेति तिस्रः कापिञ्जलानि स्तवनानि वदन्ति ॥
यो अभ्य् उ बभ्रुणायसि स्वपन्तम् अत्सि पुरुषं शयानम् अगस्वलम् । अयस्मयेन ब्रह्मणाश्ममयेन वर्मणा पर्य् अस्मान् वरुणो दधद् ॥ इत्य् अभ्यवकाशे संविशति । अभ्यवकाशे संविशति ॥
अग्निर् देवो यज्वनः कृष्णवर्त्मा वैश्वानरो जातवेदा रसाग्रभुक् । स नक्षत्राणां प्रथमेन पावकः कृत्तिकाभिर् ज्वलनो नो ऽनुशाम्यताम् ॥
प्रजापतिर् यः ससृजे प्रजा इमा देवान्त् स सृष्ट्वा विनियोज्य्अ कर्मसु । स सर्वभुक् सर्वयोगेषु रोहिणी शिवाः क्रियाः कृणुतां कर्मसिद्धये ॥
विद्याविदो ये अभिशोचमानवा अर्चन्ति शक्रं सह देवतागणैः । स नो योगे मृगशिरः शिवाः क्रियाः श्रेष्ठराजः कृणुतां कर्मसिद्धये ॥
देवं भवं पशुपतिं हरं कृशं महादेवं शर्वम् उग्रं शिखण्डिनम् । सहस्राक्षम् अशनिं यं गृणन्ति स नो रुद्रः परिपातु न आर्द्रया ॥
....या विप्रैः कविभिर् नमस्यते दाक्षायणी देवपुरादिभिर् नृभिर् । सा नः स्तुता प्रथमजा पुनर्वसुः शिवाः क्रियाः कृणुतां कर्मसिद्धये ॥
यस्य देवा ब्रह्मचर्येण कर्मणा महासुरं तिग्मतयाभिचक्रिरे । तं सुबुधं देवगुरुं बृहस्पतिम् अर्चामि पुस्येण सहाभिपातु मा ॥
या नः स्तुतः परिहिणोमि मेधया तप्यमानम् ऋषिभिः कामशोचिभिः । जरत्कारसूनोर् ऋषिभिर् मनीषिभिस् ता अश्लेषा अभिरक्षन्तु नोरगैः ॥
ये देवत्वं पुण्यकृतो ऽभिचक्रिरे ये चापरे ये च परे महर्षयः । अर्चामि सूनुर् यमराजगान् पितॄंश् छिवाः क्रियाः कृणुतां च नो मघा ॥
यो योजयन् कर्मणा चर्षणीधृतो भूमिं चेति भगः प्रजाः प्रसादयन् । तद्देवत्ये शिवतमाम् अलंकृते फल्गुन्योर् ईडे भजनं च पूर्वयोः ॥
स्तुतं पूर्वैर् अर्यमणं मनीषिभिः स्तौमि देवं जगति वाचम् एरयन् । तद्देवत्ये शिवतमाम् अलंकृते फल्गुन्यौ न उत्तरे देवतातये ॥
श्[य्]आवैर् युक्तः शितिपाद् धिरण्ययो यस्य रथः पथिभिर् वर्तते सुखैः । स नो हस्तेन सविता हिरण्यभुग् घिरण्यपाणिः सविता [नो] ऽभिरक्षतु ॥
त्वष्ट्रे नमः क्षितिसृजे मनीषिणे भूतगोप्त्रे परमकर्मकारिणे । सा नः स्तुता कृणुतां कर्मसिद्धये चित्रां देवी सह योगेन रूपभृत् ॥
यः प्राणिनां जीवयन् खानि सेवते शिवो भूत्वा मातरिश्वा रसाग्रभुक् । ध्वजो ऽन्तरिक्षस्य स सर्वभूतभृद् वायुर् देवः स्वातिना नो ऽभिरक्षतु ॥
याव् ईडिताव् आत्मविद्भिर् मणीषिभिः सहितौ [यौ] त्रीणि सवनानि सामगौ । इन्द्राग्नी वरदौ नमस्कृतौ विशाखयोः कुर्वताम् आयुषे श्रीः ॥
विश्वे देवा यम् ऋषिम् आहुर् मित्रं भरद्वाजम् ऋषितः प्रसामवित् । तं जगत्या गाथया स्तौम्य् उग्रैः स माम् अनूराधाभिर् [भृतकण्वो] ऽभिरक्षतु ॥
शतक्रतुर् यो निजघान शम्बरं वृत्रं च हत्वा सरितः प्रसर्जत[ः] । स नः स्तुतः प्रीतमनाः पुरंदरो मरुत्सखा ज्येष्ठया नो ऽभिरक्षतु ॥
या धारयत्य् ओजसातिदेवपदं माता पृथिवी च सा सर्वभूतभृत् । सा नः स्तुता कृणुतां कर्मसिद्धये मूलं देवी निरृतिः सर्वकर्मसु ॥
पर्जन्यसृष्टास् तिसृणीभिर् आवृतं यास् तर्पयन्त्य् अभितः प्रवृद्धये । ताः स्तौम्य् आपो वारुणीः ... पूर्वा आषाढा स्वधयास्तु योजने ॥
यास् त्रिंशतं त्रींश् च मदन्ति देवा देवनाम्नो निर्मितांश् च भूयसः । ता नो ऽषाढा उत्तरा वसो विश्वे शिवाः क्रियाः कृणुतां सुरमताः ॥
यः सर्वज्ञः सर्वकृत् सर्वभूतभृद् यस्माद् अन्यन् न परं किं चनास्ति । अनिर्मितः सत्यजितः पुरुष्टुतः स नो ब्रह्माभिजिता नो ऽभिरक्षतु ॥
स्थानाच्युते स्थानम् इन्द्राय पातवे देवेभ्यश् च य ईरयंस् [त्रिर्] विचक्रमे । तं स्विद् धि स्वर्गं नाकपृष्ठं विश्वं विष्णुर् देवः श्रवणेनाभिरक्षतु ॥
अष्टौ शतानि श्वेतकेतूनां यानि त्वं च स त्वं निजघान भूयसः । अनादेशेनोभय[त]श् च वीडिताः श्रविष्ठाभिर् नो ऽभिरक्षन्तु वाजिनः ॥
वाजा देवी देवमृणानिकाकुभाव् उभाव् आजस्य नतकर्मणा शिवा । तव व्राजं स्तौमसि देवभोजनौ प्रत्यग्भिषक् शतभिषक् शिवौ नः ॥
शुनासीरौ नः प्रमुमूतु जिह्मसौ तौतौ पितृभ्यो ददतुः स्तनौ शुभौ । तौ पूर्वजौ कृणुताम् एकपाद् अजः प्रतिष्ठानौ सर्वकामाभयाय च ॥
सर्वार्थाय कृणोमि कर्मसिद्धये गविष्टुतायानेककारिणे नमः । सो ऽहिर् बुध्न्यः कृणुताम् उत्तरौ शिवौ प्रतिष्ठानौ सर्वकामाभयाय च ॥
यं महाहेमम् ऋषितः प्रसामविद् भरद्वाजश् चन्द्रमसौ दिवाकरम् । सजुष्टानाम् अश्वयुजौ भयाय च स नः पूषा कृणुतां रेवतीं शिवाम् ॥
जीर्णं सन्तं यौ युवानं हि चक्रतुर् ऋषिं धिया च्यवनं सोमपौ कृतौ । तौ नश् चित्तिभिर् भिषजाम् अस्य सत्करौ .... प्रजाम् अश्विन्याम् अश्विनौ शिवौ ॥
यस्य श्यामशबलौ रक्षतः स्वधा दुष्कृत् सुकृद् विविधा चर्षणीधृतौ । तौ सवित्र्या च सवितुर् धर्मचारिभिर् यमो राजा भरणीभिर् नो ऽभिरक्षतु ॥
अथ नक्षत्रस्नानानां विधिं वक्ष्यामि सांपदम् । ग्रहदैवतपूजां च येषु यत्र यथाविधि ॥
नक्षत्रयोगकालज्ञः कृत्वा तन्त्रं यथाविधि । यजेद् ग्रहान् हविष्येण यथोक्तेन च देवताः ॥
प्रशस्तलक्षणं कुम्भं ससंभारजलं बुधः । संपाताभिहितं कृत्वा मन्त्रैर् विधिम् अनुस्मरन् ॥
सावित्र्या शान्तिसूक्तैश् च महाव्याहृतिभिस् तथा । अपां स्तोत्रैः पवित्रैश् च नक्षत्रस्तुतिभिस् तथा ॥
नक्षत्रदैवतान् मन्त्रान् प्रतिनक्षत्रम् आवपेत् । काम्यांश् चैवावपेन् मन्त्रान् कर्मलिङ्गविधानवित् ॥
संपात्याथाभिमन्त्र्य वा नक्षत्रस्नानकोविदः । स्नापयेद् अर्थिनं वाग्भिः पुण्याभिर् अभिमन्त्रितम् ॥
एष एव विधिर् दृष्टः सदस्येभ्यश् च दक्षिणा । पूर्वम् आप्याययेद् देहं पश्चाद् दद्यात् तु दक्षिणाम् ॥
अनेन विधिना स्नात्वा दद्याच् चैवात्र दक्षिणाम् । प्राप्नोत्य् अनुनयं पुंसः स वेदफलम् अश्नुते ॥ [प्राप्नोत्य्: प्राप्णोत्य् एद्. (मिस्प्रिन्त्)]
आत्मानं निर्मलीकृत्य देवान् इष्ट्वा ग्रहांस् तथा । विद्वद्भ्यो दक्षिणा देया द्विजान् अन्नेन तर्पयेत् ॥
कृत्तिकाभिः शिरीषस्य अश्वत्थस्य वटस्य च । स्नापयेत् पत्त्रभङ्गेन य इच्छेद् राजपूजितम् ॥
रोहिण्यां स्नापयेद् वैश्यं सर्वबीजैर् अलंकृतम् । अक्षतान् अन्तरं कृत्वा तथा सौभाग्यम् अर्हति ॥
यदा मृगशिरो युज्येत् तदा स्नानं विधीयते । मुक्तामणिसुवर्णेन धनार्थी तेन स्नापयेत् ॥
श्रीवेष्टकसर्जरसतगरोशीरपत्त्रकैः । आर्द्रायां वणिजः स्नाताः सुलाभांस् तु लभन्ति ते ॥
पुनर्वसुभ्यां गोमार्गाद् आहरेद् अग्रमृत्तिकाम् । गोपीठे स्नापयेद् गो ऽर्थी क्षिप्रं गोमान् भविष्यति ॥
रक्तशालिसहस्रेण तावद्भिर् गौरसर्षपैः । सहस्रवीर्यानन्त्या च मदयन्तीप्रियङ्गुभिः । त्रीन् पुष्यान् ब्राह्मणः स्नातः पार्थिवं लभते यशः ॥
अश्लेषास्व् आहारयेद् उभयतः कूलमृत्तिकाः । [अश्व्]आरोहं स्नापयेत् तेन क्षिप्रवाही भविष्यति ॥
मघाभिस् तु तिलैः स्नायाद् उत्पलैः कमलैस् तथा । तस्मिंस् तु मासे सा कन्या क्षिप्रं च लभते पतिम् ॥
अथ पूर्वयोः फल्गुन्योः शतपुष्पा प्रियङ्गवः । मध्व् एव च तृतीयं स्यात् सौभाग्यं भोगवर्धनम् ॥
अथोत्तरयोः फल्गुन्योर् अक्षता गौरसर्षपाः । एतत् स्नानं प्रयुञ्जीत प्रजास्थापनम् उत्तमम् ॥
हस्तेन सर्वकारूणां चौराणां चापि नित्यशः । नदीगिरितटाकेषु मृत्तिकास्नानम् उत्तमम् ॥
चित्रायां चित्रमाल्यैस् तु सर्वगन्धैर् अलंकृतम् । योषार्थी स्नापयेत् तेन क्षिप्रं स लभते प्रियाम् ॥
स्वातिना तु गन्धैः स्नायाद् उत्पलैः कुमुदैस् तथा । तस्मिंस् तु मासे सा कन्या क्षिप्रं निर्व्यूह्यते ततः ॥
खड्गस्य च विषाणेन गजस्य ऋषभस्य वा । विशाखाभ्याम् अभिषिक्तो [राजा] पृथिवीम् अभिशासयेत् ॥
अनूराधास्व् आहारयेद् वल्मीकशतमृत्तिकाः । कर्षणं स्नापयेत् तेन धनधान्येन वर्धते ॥
ज्येष्ठायां ज्यैष्ठ्यकामं तु अभिषिञ्चेत् पुरोहितम् । रसैश् च मिश्रधान्यैश् चाभिषिक्तः प्राशयेद् रसान् ॥
मूलेन सर्वतोभद्रम् उपविष्टा वरवर्णिनी । शमीपत्त्रसहस्रेण स्नानात् पुत्रं प्रसूयते ॥
अथ पूर्वास्व् अषाढासु या स्नायाद् अहते पटे । जातरूपेण कल्याणी भोगं भुङ्क्ते पतिप्रिया ॥
अथोत्तरास्व् अषाढासु यः स्नायाच् चेद् उपोषितः । महाह्रद उशीरेण दासीदासेन वर्धते ॥
वचयोत्पलकुष्ठैश् च ब्राह्मी सिद्धार्थकैस् तथा । अभिजिद् ब्राह्मणः स्नातः पार्थिवं लभते यशः ॥
श्रवणेन स्रवन्तीनां यः स्नायात् संगमेषु च । स संगच्छति स्वर्णेन हिरण्येन धनेन वा ॥
श्रविष्ठाभिर् धनकामं [तु] स्नापयेद् यत्र चन्दनैः । एतत् स्नानं प्रयुञ्जानो धनधान्येन वर्धते ॥
शतभिषग् भिषक्कामो ऽभिषिञ्चेच् छान्तिकर्मसु । सो ऽभिषिक्तो हतपाप्मा सर्वरोगैः प्रमुच्यते ॥
[अथ] पूर्वयोः प्रोष्ठपदयो रोचनयाञ्जनेन च । स्नाता गजविषाणेन राजानं जनयेत् सुतम् ॥
अथोत्तर[योः] प्रोष्ठपदयोः प्रसन्नापद्मकं मधु । गन्धर्वं स्नापयेत् तेन राजवाही भविष्यति ॥
खड्गस्य च विषाणेन जलेन मधुसर्पिषा । रेवत्यां क्षत्रियः स्नातो [राजा] पृथिवीम् अभिशासते ॥
अश्विन्यां स्वस्तिकं माल्यं मदयन्तीप्रियङ्गुभिः । रूपाजीवायास् तत् स्नानं सौभाग्यं भोगवर्धनम् ॥
भरणीभिर् भद्रमुस्तैस् त्व् एलासिद्धर्थकैस् तथा । स्नाता पतिकुलं गच्छेद् असपत्नम् अकण्टकम् ॥
सर्वज्ञः सर्वग शंस नारद प्रज्ञानम् अन्यस्माद् अनूनप्रज्ञात् स्वर्गस्य लोकस्य देहाद्यैर्यात् पथिभिर् उपपन्नो मनुष्यः ॥
उपोषितः शुचिशीलः पुण्यगन्धो यदा भवेत् । प्राग् अस्तंगमनभोजनाद् यद् एनं नित्यम् अतन्द्रितः ॥
समयाचारपूर्वाभिः कर्मसिद्धिः प्रशस्यते । [तं] कामदुघं स्वर्गकामः परेत्य प्रतिपद्यते ॥
कृत्तिकाभिः पायसं सर्पिषा सह भोजयेत् । [तं] कामदुघं स्वर्गकामः परेत्य प्रतिपद्यते ॥
रोहिण्याम् अक्षतैर् माषैः सर्पिर्मिश्रं सहौदनम् । दुग्धान्नपानं मंहेत सो ऽक्षतो यमसादने ॥
मृगशिरसि मंहेत अजां धेनुं पयस्विनीम् । सास्मै सर्वान् कामान् दुग्ध्[व्]आ एति पूर्वा पयस्विनी ॥
आर्द्रायां कृसरं दद्यात् तैलमिश्रम् उपोषितः । पुनर्वसुभ्यां मंहेत मध्वपूपांस् त्व् अनुत्तमान् ॥
रुक्मं पुष्येण मंहेत सो ऽक्षतो यमसादने । अश्लेषा रजतं दद्यात् सौरभेयेण प्रेषितः ॥
सर्पान् निर्हन्ति प्रेतस्य परिपन्थि सुखाद् भयात् । मघाभिस् तु तिलान् दद्यान् मधुमिश्रान् स्मरन् पितॄन् ॥
कामैस् तत्रोपतिष्ठन्ति अमी ये सोमयाजिनः । [फाणितेनेष्टका मिश्रा दद्यात् पूर्वयोः फल्गुन्योर् मधुनोत्तरयोः ॥]
पूर्वोत्तरयोः फल्गुन्योर् दुहते मधुफाणिते ॥
बृहद्धस्तिरथं युक्तं हस्तेन तु ददन् नरः । सवितुः स्थानम् आप्नोति दिव्यां कामजवां सभाम् ॥
चित्रायां वृषलीं दद्यात् सर्वपुष्पैर् अलंकृताम् । गन्धैः शुश्रूषमाणस् तु ध्रुवे स्थाने [सुगन्धिः] प्रपद्यते ॥
स्वाताव् एकधनं दद्याद् यद्यद् अस्य प्रियं गृहे । असज्जमानो गच्छेत अशरीरो यथा मनः ॥
धेनुं तु रूपसंपन्नाम् अनड्वाहौ तु वा वहौ । विशाखाभ्यां मधुमन्थं प्रापयेत् स्थानम् उत्तमम् ॥
अनूराधासु प्रावरणम् अन्नं तु शुचि ज्येष्ठायां च । दद्याच् चान्नं ब्राह्मणेभ्यो भक्षैर् उच्चावचैः सह ॥
सुरां मूलेन मंहेताब्राह्मणीभ्य उपोषितः । मातुस् तेनानृणो भवति संकराच् च विमुच्यते ॥
उदमन्थम् अषाढासु पूर्वासु मधुनोत्तरम् ॥
अभिजिद् दुहितरं दद्यान् मधुपर्कपुरोगमाम् । उत्तमे ब्रह्मणः स्थाने सर्वकामैः प्रमोदते ॥
कम्बलं श्रवणे दद्याद् वस्त्रान्तरम् उपोषितः । श्रविष्ठाभिर् वस्त्रयुगं गन्धान् शतभिषग् भवेत् ॥
अजं संपच्योदनं दद्यात् पूर्वयोः प्रोष्ठपदयोर् औरभ्रेण सहोत्तरयोः ॥
धेनुं च रूपसंपन्नां गौर् गृष्टिः पूर्णदोहनीम् । रेवत्यां त्रिवत्सां दद्याच् छुभकांस्योपदोहिनीम् ॥
वस्त्रेणानड्वाहौ [सं]बद्ध्वा दद्याद् अश्वयुजो नरः । दश वर्षसहस्राणि लोम्निलोम्नि महीयते ॥
अष्टौ वर्षसहस्राणि अजधेन्वा पयो ऽश्नुते । दश वर्षसहस्राणि गोधेन्वा पयो ऽश्नुते ॥
अनड्वाहं तु यो दद्यात् सुहृदं साधुवाहिनम् । वीरं प्रजानां भर्तारं प्राप्नोति दशधेनुदम् ॥
[यदा वत्सस्य पादौ द्वौ शिरस् चापि प्रदृश्यते । तदा गौः पृथिवी ज्ञेया यावद् गर्भं न मुञ्चति ॥]
भरणीभिः कृष्णतिलां दद्यात् [तिल]धेनुं पयस्विनीम् । तया दुर्गाणि तरति क्षुरधारांश् च पर्वतान् ॥
नक्षत्राणां यथा सोमो ज्योतिषाम् इव भास्करः । भाति दिव्यं दिवं ज्योतिः पावकः शुचिर् उत्तमः ॥
एवम् उक्तां नक्षत्रदक्षिणां यो ददातीह जीवलोके । अपहत्य तमः सर्वं ब्रह्मलोके महीयते । यथा यष्टुस् तथाध्येतुर् एषा ब्राह्मी प्रतिश्रुतिर् एषा ब्राह्मी प्रतिश्रुतिर् इति ॥ (परिशिष्ट १ब्. [कृत्तिकारोहिणीमध्ये पैप्पलादा मन्त्राः]) (अव्परिस् १ब्,१.१) ॐ यद् राजानं शकधूमं नक्षत्राण्य् अकृण्वत । भद्राहम् अस्मै प्रायच्छन् ततो राष्ट्रम् अजायत ॥ (अव्परिस् १ब्,१.२) भद्राहम् अस्तु नः सायं भद्राहं प्रातर् अस्तु नः । भद्राहम् अस्मभ्यं त्वं शकधूम सदा कृणु ॥ (अव्परिस् १ब्,१.३) यो नो भद्राहम् अकरः सायं प्रातर् अथो दिवा । तस्मै ते नक्षत्रराज शकधूम सदा नमः ॥ (अव्परिस् १ब्,१.४) यद् आहुः शकधूमं महानक्षत्राणां प्रथमजं ज्योतिर् अग्रे । तन् नः शतीम् अभिकृणोतु रयिं च नः सर्ववीरं नियच्छात् ॥ (अव्परिस् १ब्,१.५) यो ऽस्मिन् यक्ष्मः पुरुषे प्रविष्ट इषितं दैव्यं सहः । अग्निष् टं घृतबोधनो ऽपस्कन्द नो विदूरम् अस्मत् सो ऽन्येन समृच्छात् ॥ तस्मै प्रसुवामसि ॥ (अव्परिस् १ब्,१.६) यस् त्वा मातुर् उत वा पितुः परिजायमानम् अभिसंबभूव । न त्वद् यम् अधिनासयाम सो ऽन्यस्मै सयातैः प्रविष्टः ॥ (अव्परिस् १ब्,१.७) अलिक्लवा गृध्राः कङ्काः सुपर्णाः श्वापदाः पतत्रिणो वयांसि शकुनयो ऽमुष्यामुस्यायणस्यामुष्याः पुत्रस्यादहने चरन्तु ॥ कृत्तिकारोहिणीमध्ये पैप्पलादा मन्त्राः ॥ (परिशिष्ट २. राष्ट्रसंवर्गः)
ॐ । ब्रह्मणे ब्रह्मवेदाय रुद्राय परमेष्ठिने । नमस्कृत्य प्रवक्ष्यामि शेषम् आथर्वणं विधिम् ॥
दैवं प्रभवते श्रेष्ठं हेतुमात्रं तु पौरुषम् । दैवेन तु सुगुप्तेन शक्तो जेतुं वसुंधराम् ॥
दैवात् पुरुषकाराच् च दैवम् एव विशिष्यते । तस्माद् दैवं विशेषेण पूजयेत् तु महीपतिः ॥
दैवकर्मविदौ तस्मात् सांवत्सरपुरोहितौ । गृह्णीयात् सततं राजा दानसंमानरञ्जनैः ॥
अपिता तु यथा बालस् तथासांवत्सरो नृपः । अमातृको यथा बालस् तथाथर्वविवर्जितः ॥ अरिमध्ये यथैकाकी तथा वैद्यविवर्जितः ॥
धर्मेण पृथिवीं कृत्स्नां विजयिष्यन् महीपतिः । विद्यालक्षणसंपन्नं भार्गवं वरयेद् गुरुम् ॥
चतुर्विधस्य कर्मणो वेदतत्त्वेन निश्चयम् । प्रजापतिर् अथैको हि न वेदत्रयम् ईक्षते ॥
अथर्वभिन्नं यच् छान्तं तच् छान्तं नेतरैस् त्रिभिः । विज्ञानं त्रिषु लोकेषु जायते ब्रह्मवेदतः ॥
अथर्वा सृजते घोरम् अद्भुतं शमयेत् तथा । अथर्वा रक्षते यज्ञं यज्ञस्य पतिर् अङ्गिराः ॥
दिव्यान्तरिक्षभौमानाम् उत्पातानाम् अनेकधा । शमयिता ब्रह्मवेदज्ञस् तस्माद् रक्षिता भृगुः ॥
ब्रह्मा शमयेन् नाध्वर्युर् न छन्दोगो न बह्वृचः । रक्षांसि रक्षति ब्रह्मा ब्रह्मा तस्माद् अथर्ववित् ॥
सेनाया रक्षणे तस्मात् स्वराष्ट्रपरिवृद्धये । शान्त्यर्थं च महीपालो वृणुयाद् भार्गवं गुरुम् ॥
गुरवे पार्थिवो दद्यात् कोतिं वरणदक्षिणाम् । अर्धमर्धं महीभागं तृतीयं तु त्रिभागतः ॥
एवं भूमिप्रमाणेन कोटिभागं विनिर्दिशेत् । येन वा परितुष्येत गुरुस् तत् पार्थिवश् चरेत् ॥
घ्नन्ति दैवोपसर्गाश् च न च देवो ऽभिवर्षति । वीरास् तत्र न सूयन्ते यद् राष्ट्रम् अपुरोहितम् ॥
न हविः प्रतिगृह्णन्ति देवताः पितरो द्विजाः । तस्य भूमिपतेर् यस्य गृहे नाथर्वविद् गुरुः ॥
समाहिताङ्गप्रत्यङ्गं विद्याचारगुणान्वितम् । पैप्पलादं गुरुं कुर्याच् छ्रीराष्ट्रारोग्यवर्धनम् ॥
तथा शौनकिनं वापि वेदमन्त्रविपश्चितम् । राष्ट्रस्य वृद्धिकर्तारं धनधान्यादिभिः सदा ॥
आथर्वणाद् ऋते नान्यो नियोज्यो ऽथर्वविद् गुरुः । नृपेण जयकामेन निर्मितो ऽग्निर् इवाध्वरे ॥
बह्वृचो हन्ति वै राष्ट्रम् अध्वर्युर् नाशयेत् सुतान् । छन्दोगो धननाशाय तस्माद् आथर्वणो गुरुः ॥
अज्ञानाद् वा प्रमादाद् वा यस्य स्याद् बह्वृचो गुरुः । देशराष्ट्रपुरामात्यनाशस् तस्य न संशयः ॥
यदि वाध्वर्यवं राजा नियुनक्ति पुरोहितम् । शस्त्रेण वध्यते क्षिप्रं परिक्षीणार्थवाहनः ॥
यथैव पङ्गुर् अध्वानम् अपक्षी चाण्डजो नभः । एवं छन्दोगगुरुणा राजा वृद्धिं न गच्छति ॥
पुरोधा जलदो यस्य मौदो वा स्यात् कदा चन । अब्दाद् दशभ्यो मासेभ्यो राष्ट्रभ्रंशं स गच्छति ॥
पलालकम् इदं सर्वम् ऋग्यजुःसामसंस्थितम् । सारं सारपरं धान्यम् अथर्वाङ्गिरसो विदुः ॥
त्रयो लोकास् त्रयो देवास् त्रयो वेदास् त्रयो ऽग्नयः । अर्धमात्रे लयं यान्ति वेदश् चाथर्वणः स्मृतः ॥
न तिथिर् न च नक्षत्रं न ग्रहो न च चन्द्रमाः । अथर्वमन्त्रसंप्राप्त्या सर्वसिद्धिर् भविष्यति ॥
गुरुणा पैप्पलादेन वेदमन्त्रविपश्चिता । वर्धते धनधान्येन राष्ट्रम् एवं न संशयः ॥
स्तब्धं नृशंसं प्रमत्तं श्रद्धाहीनम् अशास्त्रगम् । भूमिकामो न याचेत दातारम् अपि पार्थिवम् ॥
सहस्राणां शतं जप्त्वा गायत्र्यायाज्ययाजकः । पूयते भ्रूणहाप्य् एवं चाण्डालान्नाद एव च ॥
सर्वद्रव्यपरित्यागाच् छुद्धिर् अन्यैर् उदाहृता । अन्यैश् चतुर्णां वेदानाम् अधीत्याद्योत्तमा ऋचः ॥
यजनाद् अभिचाराद् वा क्व चिद् वा मन्त्रकर्मणि । पूतान् एव द्विजान् प्राहुर् अग्निकाञ्चनवर्चस इति ॥ इति राष्ट्रसंवर्गः समाप्तः ॥ (परिशिष्ट ३. राजप्रथमाभिषेकः)
ॐ अथ राजप्रथमाभिषेके प्रकृतिद्रव्याणि परीक्षेत ॥
तद् यथा ॥
रथसिंहासनासिछत्त्रचामरध्वजगजवाजिवस्त्रालंकारसांवत्सरचिकित्सकपुरोहितादीन्य्
उपयुक्तानि नोपयोजयेत् ॥
श्मशानानलदेवतानि निहितानि द्रव्याणीत्य्
आचार्यपुरोहितवज्रमुखत इत्य् आह दुर्मतिः स भारद्वाजो
न ह्य् अग्नेर् इवोपयुक्तस्योपयोगो विद्यत इति पराशरो
ब्रह्मा ब्रह्माण्डाग्निर् इवाप्रमेयो
नान्यकुलोपयुक्तो
यस्यान्यकुलोपयुक्तः पुरोधाः शान्तिकपौष्टिकप्रायश्चित्तीयाभिचारिकनैमित्तिकोर्ध्वदेहिकान्य् अथर्वविहितानि कर्माणि कुर्यात् स तस्य प्रत्यङ्गिरो भूत्वा हस्त्यश्वरथपदातिकं प्रकृतिमुखेभ्यो ...
वरिष्यन् न पुनः कुर्याद् अन्यं राजा पुरोहितम् । निर्माल्यम् इव तं राजा नान्यो भूयः समाचरेत् ॥
स्वजस्रं ह्य् अग्नौ हेतुर् भगवतो व्याधितपतितोन्मत्ताभिशस्तप्रहीणप्रध्वस्तसंप्रसारणम् ऋत्विक् ॥
तस्मात् कुलीनं श्रोत्रियं भृग्वङ्गिरोविदं विनयाकृतिशौचाचारयुक्तम् अलोलुपं व्रतनियमचारित्रवृत्तलक्षनगुणसंपन्नं संधिविग्रहचिन्तकं माहेन्द्रजालप्रभृतिकर्मादिष्व् अभिविदकं जितस्थानासनं हिमातपवर्षसहं ह्रीधृतिकम् आर्जवं शमदमदयादानशक्तिसंपन्नं बृहस्पत्युशनसोः स्थानाकृतिप्रमाणं वर्णाश्रुतवपुषा चानुमेयं तेजस्विनं गम्भीरं सत्त्वयुक्तं गुरुं वृणीयाद् भूपतिर् इति ॥
मधुपर्काद्येन विधिना यथार्थं संपाद्य दक्षिणां दद्यात्
कोटिमध्यात् तृतीयं भागम्
यथाभूमिप्रमाणेन वा
हस्त्यश्वं नरयानं दिव्यम् आभरणम् आतपत्रं हिरण्यं क्षितिगोधनधान्यरत्नादिकं च गुरवे दद्याद्
येन वा परितुष्येत ॥
अभिषेकः संहिताविधौ व्याख्यातः ॥
हस्त्यश्वं गुरवे दद्यान् नरयानं तथैव च । दिव्यम् आभरणं चैव आतपत्रादिम् एव च ॥
उच्छिष्टार्थं न गृह्णीयान् मङ्गलार्थं महीपतिः । मन्त्रौषध्यो न सिध्यन्ति राजा तत्र विनश्यति ॥
नातिदीर्घं नातिह्रस्वं नातिस्थूलं कृशं तथा । न च हीनातिरिक्ताङ्गं क्व चित् कुर्यात् पुरोहितम् ॥
हीनाधिकाङ्गं पतितं विवर्णं स्तेनं जडं क्लीबम् अशक्तियुक्तम् । भिन्नस्वरं काणं विरूपनेत्रं द्वेष्यं च राजा गुरुं नैव कुर्यात् ॥
हीनाधिकाङ्गे पुरराष्ट्रहानिः काणे जडे वाहनकोशनाशः । स्तेने त्व् अशक्ते च समस्तदोषाः क्लीबे विवर्णे नृपतिर् विनश्येत् ॥
भिन्नस्वरे जायते गात्रभेदो द्वेष्ये गुरौ विप्रतिपत्तिम् आहुः । विवर्णनेत्रे पतिते तु पुत्रान् अध्वर्युणा च निहन्ति पौत्रान् ॥
कृष्णे कोशक्षयं विद्याद् रक्ते वाहनसंक्षयः । पिङ्गलः पार्थिवं हन्याद् राष्ट्रं हन्यात् तु केकरः ॥
बह्वृचं हि नियुञ्ज्याद् यः पौरोहित्ये तु पार्थिवः । स तारपङ्के हस्तीव सह तेनैव मज्जति ॥
अध्वर्युं हि नियुञ्ज्याद् यः पौरोहित्ये तु पार्थिवः । उत्तितीर्षुर् इवाश्मानम् आदत्ते स्ववधाय सः ॥
वधबन्धपरिक्लेशं कोशवाहनसंक्षयः । करोत्य् एतान्वये ऽवस्थास् तपोयुक्तो ऽपि सामगः ॥
अन्वयाकृतिसंपन्नं तस्माद् भृग्वङ्गिरोविदम् । गोत्राङ्गिरसवासिष्ठं राजा कुर्यात् पुरोहितम् ॥
मखेषु राष्ट्रेषु पुरेषु चैव सेनासु राज्ञां स्वनिवेशनेषु । य उत्पातास् त्रिविधा घोररूपास् तान् सर्वान् शमयेद् ब्रह्मवेदवित् ॥
तस्माद् गुरुं वेदरहस्ययुक्तं चतुर्विधे कर्मणि चाप्रमत्तम् । शान्तं च दान्तं च जितेन्द्रियं च कुर्यान् नरेन्द्रः प्रियदर्शनं च ॥ प्रियदर्शनं चेति ॥ इति राजप्रथमाभिषेकः समाप्तः ॥ (परिशिष्ट ४. पुरोहितकर्माणि)
ॐ अथ पुरोहितकर्माणि ॥ राज्ञः प्रातर् उत्थितस्य कृतस्वस्त्ययनस्य
अथ पुरोहितः स्नातानुलिप्तः शुचिः शुक्लवासाः सोष्णीषः सविता प्रसवानाम् इति व्याख्यातम् ॥
इमम् इन्द्र वर्धयेत्य् उक्तम् ॥
परि धत्तेति द्वाभ्यां राज्ञो वस्त्रम् अभिमन्त्र्य प्रयच्छेत् ॥
यद् आबध्नन्न् इत्य् अलंकारान् ॥
सिंहे व्याघ्र इति सिंहासनम् ॥
यस् ते गन्ध इति गन्धान् ॥
एहि जीवं त्रायमाणम् इत्य् अक्षिणी अङ्क्ते ॥
वातरंहा इत्य् अश्वम् ॥
हस्तिवर्चसम् इति हस्तिनम् ॥
यत् ते माता यत् ते पितेति नरयानम् ॥
खड्गं चाभिमन्त्रयामीति खड्गम् ॥
खड्गं चाभिमन्त्रयामि यः शत्रून् मर्दयिष्यति । मर्दिताः शत्रवो ऽनेन वशम् आयान्तु ते सदेति ॥
पर्यङ्कम् आसनं खड्गं ध्वजं छत्त्रं सचामरम् । रथम् अश्वगजं श्रेष्ठं धनुर् वर्म शरेषुधिम् ॥
आञ्जनं गन्धमाल्यानि वस्त्राण्य् आभरणानि च । सर्वान् शान्त्युदकेनैतान् अभ्युक्ष्येच् चाभिमन्त्रयेत् ॥
दूर्वादीन् मूर्ध्नि निक्षिप्य स्वस्त्ययनैर् अभिमन्त्रयेत् । अभयं द्यावापृथिवीत्य् अभिमन्त्रितो ब्राह्मणान् प्रणिपत्य प्राक् ॥
युष्मत्प्रसादाच् छान्तिम् अधिगच्छामीति ॥
तथास्त्व् इत्य् उक्तो निर्गच्छेद् इति ॥
एवंकृत्यस्वस्त्ययनो यद् एवावलोकयति त सिध्यति ॥
तद् अपि श्लोकाः ॥
असुरैः पीड्यमानस् तु पुरा शक्रो जगत्प्रभुः । कारयाम् आस विधिवत् पुरोधस्त्वे बृहस्पतिम् ॥
स वृतो भयभीतेन शमनार्थं बुभूषता । मङ्गलानि ससर्जाष्टाव् अभयार्थं शतक्रतोः ॥
प्रोक्तानि मङ्गलान्य् अष्टौ ब्राह्मणो गौर् हुताशनः । भूमिः सिद्धार्थकाः सर्पिः शमी व्रीहियवौ तथा ॥
एतानि सततं पुण्यानि संपश्यन्न् अर्चयन्न् अपि । न प्राप्नोत्य् आपदं राजा श्रियं प्राप्नोत्य् अनुत्तमाम् ॥
अथ राजकर्माणि
विश्वावसौ मुहूर्ते स्नातो अभिषेकमन्त्रैर् अभिमन्त्रितः ॥
अनुलेपनैर् अनुलिप्तः ॥
पूर्वोक्तेन विधिना वस्त्रालंकारादिभिः
सुवर्णनिष्कं कृष्णलं वा वामहस्तेन संगृह्य ॥
यद् दुःकृतं यच् छबलं सर्वं पाप्मानं दहत्व् इत्य्
अनेन मन्त्रेण सुवर्णं शरीरे निघृष्य दक्षिणेन हस्तेन विप्राय दद्याद्
धेनुं चारोगाम्
अपरिमितगुणान् तिलान् सौवर्णमये ताम्रमये वा पात्रे स्थापयित्वा यद् अज्ञानाद् इत्य् अभिमन्त्र्य विप्राय दद्यात् ॥
यद् अज्ञानात् तथा ज्ञानाद् यन् मया शबलं कृतम् । तत् सर्वं तिलदानेन दह्यताम् इति हि प्रभो ॥
भूमिश् च सस्यसंपन्ना ब्राह्मणे वेदपारगे । यथाशक्ति प्रदेया हि बृहस्पतिवचो यथा ॥
स भुक्त्वा विविधान् भोगान् सप्तसागरमेखलाम् । पृथिवीं प्राप्य मोदेत चन्द्रवत् पृथिवीपतिः ॥
अन्नं तु विविधं नित्यं प्रदद्यात् द्विजातये । तूर्यघोषेण संयुक्तः कृतस्वस्त्ययनस् तथा ॥
गृहदेवांस् तु संपूज्य कार्यश् चाप्य् उत्सवो गृहे । छत्त्रादीनि च यानानि पूजयेद् विधिवत् स्वयम् ॥
[पुष्पैश् च विविधैः शुभ्रैः फलैश् चाप्य् अर्चयेद् बुधः] तस्मात् सर्वाणि सततं दानानि तु महीपतिः । दत्त्वा श्रद्धान्वितो विप्रैर् वृतो भुञ्जीत वाग्यतः ॥
अथ पिष्टमयीं रात्रिं चतुर्भिर् दीपकैः सह । अर्चितां गन्धमाल्येन स्थापयेत् तस्य चाग्रतः ॥
नमस् कृत्वा ततो रात्रिम् अर्चयित्वा यथाविधि । धूपेन चान्नपानेन स्तोत्रेण च समर्चयेत् ॥
पाहि मां सततं देवि सराष्ट्रं ससुहृज्जनम् । उषसे नः प्रयच्छस्व शान्तिं च कृणु मे सदा । ये त्वां प्रपद्यन्ते देवि न तेषां विद्यते भयम् ॥ (अव्परिस् ४.३.४) रात्रिं प्रपद्ये जननीं सर्वभूतनिवेशनीम् । भद्रां भगवतीं कृष्णां विश्वस्य जगतो निशाम् ॥
संवेशनीं संयमनीं ग्रहनक्षत्रमालिनीम् । प्रपन्नो ऽहं शिवां रात्रिं भद्रे पारम् अशीमहि ॥
यां सदा सर्वभूतानि स्थावराणि चराणि च । सायं प्रातर् नमस्यन्ति सा मां रात्र्य् अभिरक्षत्व् इति ॥
आ रात्रि पार्थिवम् इषिरा योषा त्रायमान इत्य् रात्र्याणि ॥
ममोभा मह्यम् आप इति सूक्ताभ्याम् अन्वालभ्य जपेत् ॥
यो नः स्व इति पञ्चभिः सर्षपाञ् जुहुयात् ॥
यो ऽस्मिन् यस् त्वा मातुर् इति दीपेन नृपस्योपरि त्रिष् परिहृत्य प्रैषकृते प्रयच्छेत् ॥
अभयम् इत्य् ऋचा चतस्रः शर्कराः प्रदक्षिणं प्रतिदिशं क्षिपेत् ॥
एह्य् अश्मानम् आ तिष्ठेति पञ्चमीम् अधिष्ठापयेत् ॥
न तं यक्ष्मा ऐतु देव इति गुग्गुलुकुष्ठदूपं दद्यात् ॥
यस् ते गन्धस् त्र्यायुषम् इति भूतिं प्रयच्छेत् ॥
दूष्या दूषिर् असीति प्रतिसरम् आबध्य
अग्निर् मा पातु वसुभिः पुरस्ताद् इति शर्करान् प्रदक्षिणं प्रतिदिशं क्षिपेत् ॥
बहिर् निःसृत्योत्तरेण गत्वा बाह्येनोपनिष्क्रम्य सुहृदे कुर्याच् छ्रद्दधते कुर्यात् ॥
नैशम् अभयं कर्म मौसलीपुत्रः पैठीनसिः ॥
अथातो रात्रिसूक्तानां विधिम् अनुक्रमिष्यामः ॥
शुचिः शुक्लवासाः पुरोहितः ॥
पार्थिवस्य पश्चिमां संध्याम् उपास्य दर्भैः पवित्रपाणी राजानम् अभिगम्य
पिष्टमयीं रात्रिं कृत्वा ॥
अन्नपानधूपदीपैर् अर्चयित्वा माल्यैश् च ॥
प्रज्वलितैश् चतुर्भिर् दीपकैर् अर्चयित्वा ॥
आ रात्रि पार्थिवम् इषिरा योषेति सूक्तद्वयेन रात्रिम् उपस्थाय ॥
त्रायमाणे विश्वजिते अह्ने च त्वेति राजानं प्रदक्षिणं त्रिः कृत्वा
राजवेश्मनि द्वारे विसर्जयित्वा ॥
न तं यक्ष्मा ऐतु देव इति गुग्गुलुकुष्ठधूपं दद्याद्
यस् ते गन्ध इति भूतिम् अभिमन्त्र्य
त्र्यायुषम् इति राज्ञे रक्षां कृत्वा ॥
असपत्नम् इति शर्कराम् अभिमन्त्र्याङ्गुष्ठात् प्रदक्षिणं प्रतिदिशं क्षिपेत् ॥
शान्ता द्यौर् इति जपित्वा राजानं वासगृहं नयेत् ॥
भूतिना रक्षां कृत्वा निष्क्रम्य
एवमेवम् अहरहः कुर्यात् ॥
यस्य राज्ञो जनपदे अथर्वा शान्तिपारगः । निवसत्य् अपि तद् राष्ट्रं वर्धते निरुपद्रवम् ॥
यस्य राज्ञो जनपदे स नास्ति विविधैर् भयैः । पीड्यते तस्य तद् राष्ट्रं पङ्के गौर् इव मज्जति ॥
तस्माद् राजा विशेषेण अथर्वाणं जितेन्द्रियम् । दानसंमानसत्कारैर् नित्यं समभिपूजयेत् ॥
नित्यं च कारयेच् छान्तिं ग्रहऋक्षाणि पूजयेत् । भूमिदोहान् प्रकुर्वीत देवतायतनेषु च ॥
चतुस्पथेषु गोष्ठेषु तीर्थेष्व् अप्सु च कारयेत् । गोतर्पणं च विधिवत् सर्वदोषविनाशनम् ॥
य एवं कारयेद् राजा सर्वकालं जितेन्द्रियः । अनन्तं सुखम् आपनोति कृत्स्नां भुङ्क्ते वसुंधराम् ॥ इति पुरोहितकर्माणि समाप्तानि ॥ (परिशिष्ट ५. पुष्याभिषेकः)
ॐ अथ पुष्याभिषेकस्य विधिं वक्ष्यामि सांपदम् । धर्मार्थकामसंयुक्तं राजा कुर्यात् पुरोहितम् ॥
सौवर्णराजतैस् ताम्रैः कलशैः पार्थिवैर् अपि । सहस्रेण शतेनाथ तोयग्रहणम् इष्यते ॥
चतुर्णां सागराणां तु नदीनां च शतस्य तु । अभिषेकाय राज्ञस् तु तोयम् आहृत्य यत्नतः ॥
एकद्वित्रिचतुर्णां वा सागरस्य तु पञ्चमम् । ओषधीस् तेषु सर्वेषु कलशेषूपकल्पयेत् ॥
सहा च दहदेवी च बला चातिबला तथा । मदयन्ती वचा श्वेता व्याघ्रदन्ती सुमङ्गला ॥
शतावरी जयन्ती च शतपुष्पा सचन्दना । प्रियङ्गू रोचनो अशीरम् अमृता च ससारिका ॥
अश्वत्थप्लक्षबिल्वानां न्यग्रोधपनसस्य च । शिरीषाम्रकपित्थानां पल्लवैः समलंकृतान् ॥
हेमरत्नौषधीबिल्वपुष्पगन्धाधिवासितान् । आच्छादितान् सितैर् वस्त्रैर् अभिमन्त्र्य पुरोहितः ॥
सावित्र्य् उभयतः कुर्याच् छं नो देवी तथैव च । हिरण्यवर्णाः सूक्तं च अनुवाकाद्यम् एव च ॥
धरणी पादपीठं स्याद् दूर्वामूलाङ्कुरान् शुभान् । तस्योपरि न्यसेत् पीठं हैमं रौप्यम् अथापि वा ॥
अनडुद्व्याघ्रसिंहानां मृगस्य च यथाक्रमम् । चत्वारि चर्माण्य् एतानि पूर्वाद् आरभ्य विन्यसेत् ॥
चातुर्होत्रविधानेन जुहुयाच् च पुरोहितः । चतुर्दिक्षु स्थितैर् विप्रैर् वेदवेदाङ्गपारगैः ॥
बिल्वाहारः फलाहारः पयसा वापि वर्तयेत् । सप्तरात्रं घृताशी व ततो होमं प्रयोजयेत् ॥
गव्येन पयसा कुर्यात् सौवर्णेन स्रुवेण तु । वेदानाम् आदिभिर् मन्त्रैर् महाव्याहृतिपूर्वकैः ॥
शर्मवर्मा गणश् चैव तथा स्याद् अपराजितः । आयुष्यश् चाभयश् चैव तथा स्वस्त्ययनो गणः ॥
एतान् पञ्च गणान् हुत्वा वाचयेत द्विजोत्तमान् । हिरण्येनाक्षतार्घेण फलैश् च मधुसर्पिषा ॥
पुण्याहं वाचयित्वास्य आरम्भं कारयेद् बुधः । तिष्यनक्षत्रसंयुक्ते महूर्ते करणे शुभे ॥
उच्चैर्घोष इति तूर्याण्य् अभिमन्त्र्य पुरोहितः । सर्वतूर्यनिनादेन अभिषिक्तो ह्य् अलंकृतः ॥
सिंहासनं समारुह्य पीठिकां वा यथाक्रमम् । चामरछत्त्रसंयुक्तं प्रतिहारविभूषितम् ॥
मत्तद्विपचतुष्कं च चतुर्दिक्षु प्रकल्पयेत् । उपविष्टस् ततो राजा प्रजानां कारयेद् धितम् । अकरा ब्राह्मणा गावः स्त्रीबालजडरोगिणः ॥
ततस् तु दर्शनं देयं ब्राह्मणानां नृपेण तु । श्रेणीप्रकृतिमुख्यानां स्त्रीजनं च नमस्करेत् ॥
आशिषस् ते हि दास्यन्ति तुष्टा जनपदा भुवि । एवं प्रजानुरज्येत पृथिवी च वशा भवेत् ॥
पुरोहितं मन्त्रिणं च सेनाध्यक्षं तथैव च । अश्वाध्यक्षं गजाध्यक्षं कोष्ठागारपतिं तथा ॥
भाण्डागारपतिं वैद्यं दैवज्ञं च यथाक्रमम् । यथार्हेण च योगेन सर्वान् संपूजयेन् नृपः ॥
राज्यं पुरोहिते न्यस्य शेषाणां च यथाक्रमम् । स्थानान्तराणि चान्यानि दत्त्वा सुखम् अवाप्नुयात् ॥
दूर्वासिद्धार्थकान् सर्पिः शमीर् व्रीहियवौ तथा शुक्लानि चैव पुष्पाणि मूर्ध्नि दद्यात् पुरोहितः ॥
अथर्वविहितो ह्य् एष विधिः पुष्याभिषेचने । राजा स्नातो महीं भुङ्क्ते शक्रलोकं स गच्छति ॥ इति पुष्याभिषेकः ॥ (परिशिष्ट ६. पिष्टरात्र्याः कल्पः)
ॐ अथातः पिष्टरात्र्याः कल्पं व्याख्यास्यामः ॥
अहतवासाः पुरस्तात् तल्पस्य गोमयेन स्थण्डिलम् उपलिप्य
अहतवस्त्रेण सिंहासनम् अवछाद्य ॥
यां देवाः प्रति नन्दन्तीति रात्रिम् आवाहयेत् ॥
संवत्सरस्य प्रतिमाम् इति पिष्टमयीं प्रतिकृतिं कृत्वोदन्मुखीम् उपवेशयेत् ॥
छत्त्रं हिरण्मयं दद्याद् आसनं च हिरण्मयम् । दद्याच् छुभ्राणि वासांसि शुभ्रं चैवानुलेपनम् ॥
शुभ्रम् अन्नम् अतथा दद्यात् प्रभूतांश् चैव मोदकान् । धूपं च विविधं नित्यं प्रदीपांश् च प्रकल्पयेत् ॥
आ मा पुष्टे च पोषे चेत्य् एताभिर् उपस्थाय ॥
रक्षोघ्नैर् मन्त्रैः सर्षपान् अभिमन्त्र्य
आवतस् त इति जपन् समन्तात् तल्पस्यावकीर्य
अयं प्रतिसर इति प्रतिसरम् आबध्य शर्करान् प्रतिदिशं क्षिपेत् ॥
धूपशेषं राज्ञे दद्याद् ॥
अभयप्रदं कर्म ॥
पश्चात् सर्वेषु कोनेषु द्विमुखीम् एकमुखीं वा । सर्वतो विजयां रक्षाम् एकां वा तेषु चतुर्मुखीम् ॥
एकमुखीं वा सर्वत्राप्रतिरथजप इत्य् एके
सर्वत्र शर्कराक्षेपश् चेति ॥
गृहीत्वा पिष्टरात्रिं तु वेश्मद्वारे विसर्जयेत् (अव्परिस् ६.२.२) वनस्पतिर् असो मध्य इति गुग्गुलुकुष्ठधूपं दद्याद्
यस् ते गन्ध इति भूतिम् अभिमन्त्र्य
त्र्यायुषम् इति राज्ञे रक्षां कृत्वा
असपत्नम् इति शर्करान् अभिमन्त्र्याङ्गुष्ठाद् [अभि]प्रदक्षिणं प्रतिदिशं क्षिपेत् ॥
शान्ता द्यौर् इति जपित्वा राजानं वासगृहं नयेत् ॥
भूतिना रक्षां कृत्वा निष्क्रम्य
एवमेवम् अहर् अहः कुर्याद् इति ॥ पिष्टरात्र्याः कल्पः समाप्तः ॥ (परिशिष्ट ७. आरात्रिकम्)
ॐ न सुष्वाप पुरा शक्रो दानवानां पुरोधसा । प्रयुक्तैर् औषधैर् योगैर् मन्त्राणां जपहोमतः ॥
प्रणिपत्य बृहस्पतिम् अथर्वाणं पुरंदरः । दानवैः परिभूतो ऽहं त्राहि माम् इत्य् उवाच ह ॥
ततो ऽसाव् एवम् उक्तस् तु प्रभूतबलवर्धनम् । आरोग्यदं भूतिकरं क्षुद्रोपद्रवनाशनम् ॥
आरात्रिकं हि कर्तव्यं तस्य त्रातुम् इदं तदा । कृत्वा पिष्टमयं दीपं सुवर्तिस्नेहसंयुतम् ॥
अति निहः प्रान्यान् इति द्वाभ्याम् एनं प्रदीपयेत् । पात्रे सपुष्पे संस्थाप्य सर्षपांश् च सहाक्षतैः ॥
प्रियङ्गुं शतपुष्पां च दूर्वां चैव शतावरीम् । सपापहारिणीं भूतिं तत्रैव च बलिं न्यसेत् ॥
अप्सरोभिः परिवृतो गुरुर् गत्वा पुरंदरम् । प्राप्तसत्त्वं सुमनसम् आसने प्रान्मुखं स्थितम् ॥
प्रेतो यन्त्व् एकशतं च दीपं समभिमन्त्रयेत् । त्रिः परिभ्रामयेद् राज्ञो मन्त्रेणाथ सुमङ्गलम् ॥
शाम्यन्त्य् अस्य ततो रोगा ग्रहा विघ्नविनायकाः । स्वस्त्य् अस्तु न्र्पराष्ट्राय स्वस्ति गोब्राह्मणाय च ॥
ततस् तु शङ्खध्वनिना दीपं गृहीत्वा सतोयधारां प्रयतो ऽपि निर्हरेत् । पुरोहितो ज्योतिषिको ऽपि वा स्वयं हितैषिनी धात्र्य् अथर्वो (पकारिता ॥
आचाम्याथ ह राजानम् आचम्यादौ पुरोहितः । ब्राह्मणाय यथाशक्ति रुक्मं प्रातः प्रदापयेत् ॥
मूलकर्मादिकं तस्य पञ्चगुह्यककारितम् । भयं राज्ञो न भवति तेजो वीर्यं च वर्धते ॥
एवं विधानम् अखिलं विहितं यथावद् एतत् समस्तशुभदं गदितं न्र्पाणाम् । नैवापदः समुपयान्ति नृपं कदा चिद् आरात्रिकं प्रतिनिशं क्रियते तु यस्य ॥ इत्य् आरात्रिकं समाप्तम् ॥ (परिशिष्ट ८. घृतावेक्षणम्)
ॐ अथ घ्र्तावेक्षणं वक्ष्यामः ॥
प्रातःप्रातः शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वा प्रबोधितो राजा शयनगृहाद् उत्थायापराजितां दिशम् अभिनिष्क्रम्योपाध्यायं प्रतीक्षेत ॥
अथ पुरोहितः स्नातानुलिप्तः शुचिः शुक्लवासाः क्र्तमङ्गलविरचितोष्णीषी शान्तिगृहं प्रविश्य देवानां नमस्कारं कृत्वा स्वस्तिवाचनम् अनुज्ञाप्य विनीतवद् उपविशेत् ॥
यमस्य लोकाद् यथा कलां यो न जीवो ऽसीति स्वस्त्ययनं कृत्वोल्लिख्याभ्युक्ष्य परिस्तीर्य शन्तातीयेन तिलान् घृताक्तान् जुहुयात् ॥
तान् हुत्वा सौवर्णराजतम् औदुम्बरं वा पात्रं घृतपूर्णं सहिरण्यं घृतस्य जूतिः सहस्रशृङ्गो यमस्य लोकाद् उरु विष्णो वि क्रमस्वेत्य् अभिमन्त्र्याज्यं तेज इति तदालभते ॥
आज्यं तेजः समुद्दिष्टम् आज्यं पापहरं परम् । आज्येन देवास् त्र्प्यन्ति आज्ये लोकाः प्रतिष्ठिताः ॥
भौमान्तरिक्षदिव्यं वा यत् ते कल्मषम् आगतम् । सर्वं तद् आज्यसंस्पर्शात् प्रणाशम् उपगच्छत्व् इति ॥
तस्मिन् घृतपात्रस्थं हि सर्वम् आत्मानं च पश्येत् ॥
दध्ना शिरो हृदयम् अन्वालभ्य जपेत् ॥
उच्चा पतन्तम् इति द्वाभ्याम्
सूर्यस्यावृतम् इति प्रदक्षिणम् आवृत्य शेषं कारयेद् इत्य्
अत्र श्लोकाः ॥
अयं घृतावेक्षणस्य प्रोक्तो विधिर् अथर्वणा । उपास्यो नित्यकालं तु राज्ञा विजयकाङ्क्षिणा ॥
एतत् समाहरेत् सर्वं प्रयतस् तु समाहितः । राजा विजयते राष्ट्रं नश्यन्ते तस्य शत्रवः ॥
द्विजोत्तमाय कपिलां राजा दद्यात् तु गां शुभाम् । आशीर्वादं ततस् तेन श्रुत्वा तन्मुखनिःसृतम् ॥
गुरुणा वाचितो यस्माद् दीर्घम् आयुर् अवाप्नुयात् । पुत्रान् पौत्रांश् च मैत्रांश् च लभते नात्रसंशयः ॥
आयुष्यम् अथ वर्चस्यं सौभाग्यं शत्रुतापनम् । दुःस्वप्ननाशनं पुण्यं घृतास्यावेक्षणं स्मृतम् इति ॥ इति घृतावेक्षणं समाप्तम् ॥ श्रीसाम्ब । यमस्य लोकाद् अध्य् आबभूविथ इति ऋचः ६, यथा कलां यथा शफम् इति ऋचः ६, घृतस्य जूतिर् इति ऋचः ४ घृतावेक्षणमध्ये पैप्पलादा मन्त्राः ॥ (परिशिष्ट ९. तिलधेनुविधिः)
ॐ अथ तिलधेनुं प्रवक्ष्यामि सर्वपापप्रणाशनीम् । तिलाः श्वेतास् तिलाः कृष्णास् तिला गोमूत्रवर्णकाः ॥
तिलानां तु विचित्राणां धेनुं वत्सं च कारयेत् । द्रोणस्य वत्सकं कुर्याच् चतुर्द्रोणा तु गौः स्मृता ॥
सुवासायां शुचौ भूमौ धूपपुष्पैर् अलंक्र्ता । कृष्णाजिने तु कर्तव्या बहूनां वापि कारयेत् ॥
कर्णौ रत्नमयौ कुर्याच् चक्षुषी दीपकौ तथा । घ्राणे तु सर्वग्न्धांस् तु जिह्वायां शारदं घृतम् ॥
दन्तेषु मौक्तिकं दद्याल् ललाटे ताम्रभाजनम् । ऊधसि तु मधूशीरम् अपाने च घृतं मधु ॥
हृदये चन्दनं दद्याज् जङ्घयोर् इक्षुकाण्डकम् । सुवर्णशृङ्गी रौप्यखुरी रौप्यलाङ्गूलदक्षिणा ॥
वस्त्रछन्ना तु दातव्या कांस्यपात्रं तु दोहनी ।
प्रजापतिश् चेत्य् अभिमन्त्र्य विप्राय दद्यात्
तत्र श्लोकाः ॥
धेनुं वत्सं च यो दद्याद् विनाथर्वाभिमन्त्रिताम् । विनानेन विधानेन देवत्वं नोपजायते ॥
विश्वरूपाः स्थिताः सर्वा धेनवः परिकीर्तिताः । धेनुत्वं न स प्रयाति विना सूक्ताभिमन्त्रिताम् । निष्फलं नश्यते सर्वं विनाभिमन्त्रितं सताम् ॥
बालत्वे यच् च कौमारे यत् पापं यौवने कृतम् । वयःपरिणतौ यच् च यच् च जन्मान्तरेषु च ॥
यन् निशायां तथा प्रातर् यन् मध्याह्नापराह्णयोः । संध्ययोर् यत् कृतं पापं कर्मणा मनसा गिरा ॥
प्रसूयमानां यो धेनुं दद्याद् ब्राह्मणपुंगवे । कृष्णाजिनं गुडधेनुं घृतधेनुं तथैव च ॥
सुवर्णरत्नधेनुं च जलधेनुं तथा पराम् । क्षीरधेनुं मधुधेनुं शर्करालवणं तथा ॥
रसादिधेनूः सर्वान्या अनेन विधिना स्मृताः । यत् तु बाल्ये कृतं पापं यौवने चैव यत् कृतम् ॥
मानकूटं तुलाकूटं कन्यानृतगवानृतम् । उदके ष्ठीवितं चैव मुसलं चापि लङ्घितम् ॥
वृषलीगमनं चैव गुरुदारानिषेवणम् । सुरापानस्य यत् पापं तिलधेनुः प्रशाम्यति ॥
या स यमपुरे घोरे नदी वैतरणी स्मृता । यत्र लोहमुखाः काकाः श्वानश् चैव भयावहाः ॥
वालुकान्ताः स्थलाश् चैव पच्यन्ते यत्र दुष्कृतः । असिपत्त्रवनं यत्र शालूकाः शाल्मली तथा ॥
तान् सुखेन व्यतिक्रम्य धर्मराजाश्रमं व्रजेत् । स्वागतं ते महाभाग स्वस्ति ते ऽस्तु महामते ॥
विमानम् एतद् योग्यं ते मणिरत्नविभूषितम् । अत्रारुह्य नरश्रेष्ठ गच्छ त्वं परमां गतिम् ॥
मा च चारभटे दद्यान् मा च दद्यात् पुरोहिते । मा च काणे विरूपे च कुष्ठिव्यङ्गे तथैव च ॥
वेदान्तगाय दातव्या वेदान्तगसुताय वा । एकैकस्मै च दातव्या माघमासे तु पूर्णिमाम् ॥
य इमां पठते नित्यं यश् चेमां शृणुयाद् अपि । देवलोकम् अतिक्रम्य सूर्यलोकं स गच्छति ॥ सूर्यलोकं स गच्छतीति ॥ इति तिलधेनुविधिः समाप्तः ॥ (परिशिष्ट १०. भूमिदानम्)
ॐ अथ रोहिण्यां सकलायाम् उपोषितो ब्रह्मा सर्वबीजरसरत्नगन्धावकीर्णं तीर्थोदकपूर्णकलशम् आदायातिसृष्टो अपाम् इत्य् अभिषेकमन्त्रैर् यथोक्तैर् दातारम् अभिषिञ्चति ॥
व्रतेन त्वं व्रतपत इति व्रतम् उपैति
याचितारदाताराव् अयाचिताशिनाव् अधह्शायिनौ भवतो
व्रतोपचारम्
यथाशक्त्यैकरात्रं पञ्चरात्रं द्वादशरात्रं वा व्रतं चरित्वा
श्वो भूते तन्त्रम् आज्यभागान्तं कृत्वान्वारभ्याथ जुहुयात् ॥
कामसूक्तं कालसूक्तं पुरुषसूक्तं महाव्याहृतिभिः संख्यापूर्विकाभिः सर्व ऋत्विजो जुह्वत्य्
अथ सुवर्णमयीं भूमिं भूमेः प्रतिकृतिं गोचर्ममात्रां कृत्वा
मण्डपवेद्यां समानीय वेद्युत्तरतो यस्यां वेदिम् इत्य् उपस्थाप्य
गिरयस् ते पर्वता इति पर्वतान् अवस्थाप्य
हिरण्यरजतमणिमुक्ताप्रवालादिभिर् उपशोभयेद् यद् अदः संप्रयतीर् इति
सा मन्दसानेति नदीः कल्पयित्वा रसैश् च परिपूरयेद्
अपाम् अग्रम् असि समुद्रं वो ऽभ्यवसृजामीति समुद्रान्
वनस्पतिः सह देवैर् न आगन्न् इति बृहस्पतिनेति वनस्पतीन् अन्यांश् च
यज्ञे त्वा मनसा संकल्पयेन् मनसा संकल्पयतीथ भवतीह भवतीह भवति
निधिं बिभ्रती बहुधेति नमस्कारयित्वा
सत्यं बृहद् इत्य् अनुवाको ये देवा दिव्य् एकादश स्थेति पुण्याहं वाचयेत्
संस्थापयेन्
नव दिवो देवजनेनेत्य् अभिमन्त्र्य ब्राह्मणेभ्यो दद्याद्
दातुर् एसास्मै रोहिणी कामं निकामं वा दुग्ध इति
यथा रोहन्ति बीजानि फालकृष्टे महीतले एवं कामाः प्ररोहन्ते प्रेत्येह मनसः सदा
सर्वेषाम् एव दानानां यत् फलं समुदाहृतम् । तत्तत् प्राप्नोति विप्रेभ्यो दत्त्वा भूमिं यथाविधि ॥ दत्त्वा भूमिं यथाविधीति ॥ इति भूमिदानं समाप्तम् ॥ (परिशिष्ट ११. तुलापुरुषविधिः)
ॐ अथातस् तुलापुरुषविधिं व्याख्यास्यामस्
तद् उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे श्रद्धाप्रेरितौ ग्रहणकाले वा
ऋत्विग्यजमानौ कॢप्तकेशश्मश्रू रोमनखानि वापयित्वा
संभारान् उपकल्प्य प्राक्तन्त्रम् आज्यभागान्तं कृत्वा
महाव्याहृतिसावित्रीशान्तिं ब्रह्म जज्ञानम् इति हुत्वा
अग्ने गोभिर् अग्ने ऽभ्यावर्तिन्न् अग्नेः प्रजातम् इति संपातान् उदपात्रानीयाभिषेककलशेषु निनयेद्
अथास्येन्द्रो ग्रावभ्याम् इत्य् अभिषेचयेद्
इदम् आपो यथेन्द्रो बाहुभ्याम् इत्य् अभिषेचयित्वा
यथोक्तम् अञ्जनाभ्यञ्जनानुलेपनं कारयित्वा वासो गन्धस्रजश् चाबध्नीयात्
तुलां हिरण्यं च पवित्रैर् अभ्युक्ष्य पुरुषसंमितो ऽर्थ इति सप्तभिस् तदारोहयेद्
अच्युता द्यौर् इति चतसृभिर् अवरोहयेत्
सूर्यस्यावृतम् इति प्रदक्षिणम् आवृत्य ब्राह्मणेभ्यो निवेदयित्वात्मालंकारान् कर्त्रे दद्यात्
सहस्रदक्षिणं ग्रामवरम्
द्विजान् अन्नेन तर्पयेत्
अथ चेन् निःस्वपक्षेण यथा संपद्यते धनम् । धातुभिः सह तौल्यम् अतु वासोभिश् च रसैस् तथा । व्रीह्यादिसप्तधान्यैर् वा यथासंपद्यते गृहे ॥
सखड्गः सशिरस्त्राणः सर्वाभरणभूषितः । तपनीयम् अगरे कृत्वा पश्चात् तोल्यो नराधिपः ॥
इन्द्रेणेदं पुरा दत्तम् अधिराज्याप्तये वरम् । सर्वपापप्रणाशाय सर्वपुण्यविवृद्धये ॥
महादानातिदानानाम् इदं दानम् अनुत्तमम् । अक्षय्यफलदं श्रेष्ठं दातॄणां श्रेयवर्धनम् ॥
यत् पापं स्वे कुले जातैस् त्रिः सप्त पुरुषैः कृतम् । तत् सर्वं नश्यते क्षिप्रम् अग्नौ तूलं यथा तथा ॥
अनामयं स्थानम् अवाप्य दैवैर् अलङ्घनीयं सुकृतैर् हिरण्मयैः । सुवर्णतेजाः प्रविमुक्तपापो दिवीन्द्रवद् राजति सूर्यलोके ॥ दिवीन्द्रवद् राजति सूर्यलेकेति ॥ इति तुलापुरुषविधिः समाप्तः ॥ (परिशिष्ट १२. आदित्यमण्डकः)
ॐ अथ यः कामयेत सर्वेषां नृणाम् उत्तमः स्याम् इति स भास्करायापूपं दद्यात्
तस्य कल्पो
यवगोधूमानाम् अन्यतमचूर्णेन मण्डलाकृतिं संश्रप्य
पात्रे कृत्वापिहितम्
सगुडाज्यसुवर्णशकलं च्वोपरिष्टान् निधायार्चयेद् रक्तकुसुमैर्
विषासहिम् इत्य् अभिमन्त्र्य ब्राह्मणाय निवेदयेत्
तत्र श्लोकाः
अनेन विधिना यस् तु पूपं दद्याद् द्विजातये । प्रयच्छेत् सततं प्राज्ञस् तस्य पुण्यफलं शृणु ॥
आरोग्यवान् वर्चस्वी च प्रजावान् पशुमांस् तथा । धनवान् अन्नवान् श्रीमांस् तथा सर्वजनप्रियः ॥
अपमृत्युशतं साग्रं नाशयत्य् अविचारतः । प्रदत्तं सूर्यलोकं च प्रापयेत् परमं पदम् ॥ प्रापयेत् परमं पदम् इति ॥ इत्य् आदित्यमण्डकः समाप्तः ॥ (परिशिष्ट १३. हिरण्यगर्भविधिः)
ॐ अथ हिरण्यगर्भविधिम् अनुक्रमिष्यामः सर्वपापापनोदनम्
उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे श्रद्धाप्रेरितौ ग्रहणकाले वा
ऋत्विग्यजमानौ क्ल्प्तकेशश्मश्रुरोमनखौ स्याताम्
अथ ऋत्विक् प्रग् अस्तंगमनाद् अश्वत्थाद् अरणी आधायाग्ने जायस्वेति द्वाभ्यां मथ्यमानम् अनुमन्त्रयते
तृतीयया जातं चतुर्थ्योपसमादधाति
शुचौ देशे परिधाप्य यथोक्तम् अञ्जनाभ्यञ्जनानुलेपनं कारयित्वा
अग्नेः प्रजातं परि यद् धिरण्यं यद् आबध्नन्न् इति हिरण्यस्रजम् आग्रथ्य रक्षन्तु त्वेति रक्षां कृत्वा
दर्भान् आस्तीर्याधह्शायिनौ स्याताम्
श्वो भूते ऽभिजिन्मुहूर्ते हिरण्मयं मण्डलाकृति नाभिमात्रं पात्रम् आधाय सापिधानम्
स्रुक्स्रुवाज्यस्थाल्युदपात्रालंकारांश् च
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिर् उदपात्रम् उपसाद्य परिचरणेनाज्यं परिचर्य नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ चाथ जुहोति
हिरण्यगर्भाय स्वाहा ॥ अग्नये स्वाहा ॥ ब्रह्मणे स्वाहा ॥ प्रजापतये स्वाहेति हुत्वा
तैर् एव नमस्कारं कारयित्वा
तैर् एवोपस्थाय स्रुक्स्रुवाज्यस्थाल्युदपात्रालंकारांश् चेति
हिरण्मये राजानं हिरण्यवतीभिः स्नापयित्वा
हिरण्यकलशैस् तस्मिन् पञ्चगव्यम् अप आसिच्य
हिरण्यगर्भसूक्तेनांहोमुचेन शन्तातीयेन पञ्चभिश् च नामभिः संपातान् आनीय
तथैव सदस्यान् असदस्यान् ऋत्विजो ऽनुज्ञापयेद्
राजा हिरण्यगर्भत्वम् अभीप्सत्य् अस्मिन् भवन्तो ऽनुमन्यन्ताम् इति
तैर् अनुष्ठितः
उद् एहि वाजिन्न् इति द्वाभ्यां प्रवेशयेत्
त्रयस्त्रिंशद् देवता इत्य् अभिसंधाय तम् अनुशास्ति
वाचं नियम्य प्रतिसंहृत्य चेन्द्रियाणि विषयेभ्यो मनसा भगवन्तं हिरण्मयं हिरण्यगर्भं परमेष्ठिनं पौरुषं ध्यायस्वेति
तथेति तत् प्रतिपद्यते
स सप्तदशमात्रान्तरम् अस्ति
सप्तदशो वै प्रजापतिः
प्रजापतेर् आवृत इति विज्ञापयेत्
तथैव सदस्यान् असदस्यान् अनुज्ञाप्योत्थापयेद्
उत्थितं हिरण्मयेन चक्रेणाभिन्युब्जयेत्
मा ते प्राण इत्य् उद्धरेद्
उद्धृतं हिरण्यनाम्नो प्रविमुच्य यस् त्वा मृत्युर् इत्य् अपास्येत्
संपश्यमाना इत्य् अवेक्षितो ब्राह्मणान् प्रणिपत्य नमस्कार्य नमो हिरण्यगर्भायेत्य्
अथ ह वै हिरण्यगर्भस्येति प्रियतमाय तत उक्तम्
ब्राह्मणा ब्रूयुर् उत्तिष्ठ हिरण्यगर्भानुगृहीतो (सीत्य्
अप्रतिरथेन हुत्वा संस्थापयेद्
अप्सु ते राजन् वरुणेति वरुणम् अभिष्टूय स्नात्वा पवित्रैः प्रत्येत्यादित्यम् उपतिष्ठन्ते
हिरण्यं तव यद् गर्भो हिरण्यस्यापि गर्भजः । हिरण्यगर्भस् तस्मात् त्वं पाहि मां महतो महान् इति
सूर्यस्यावृतम् इति प्रदक्षिणम् आवृत्य
गृहान् ऐमीति गृहान् प्रतिपद्य
त्वम् अग्ने प्रमतिर् इत्य् अग्निम् उपस्थाप्याथोत्सृजेद्
अथ द्विजेभ्यो दक्षिणां दश सहस्राण् दद्यात्
ग्रामवरं च
स्रुक्स्रुवाज्यस्थाल्युदपात्रालंकारांश् चेत्य् अन्यत् सर्वं सदस्येभ्यो
यावद् वा तुष्येरंश् तावद् वा देयम् ॥ राजा दद्याद्
यथाकामं ब्राह्मणान् अन्नेन परिचरेत्
तत्र श्लोकाः
वेदानां पारगा यस्य चतुर्णां ब्रह्मवित्तमाः । तुष्टा यस्याशिषो ब्रूयुस् तस्य यज्ञफलं भवेत् ॥
ब्राह्मणानां प्रसादेन सूर्यो दिवि विराजति । इन्द्रो ऽप्य् एषां प्रसादेन देवान् अतिविराजति ॥
हिरण्यदानस्य फलम् अमृतत्वम् इति श्रुतिः । श्रूयते ह्य् अस्य दाता यः सो ऽमृतत्वं समश्नुते ॥
राजेक्षुवाकुप्रभ्र्तयः पुरा राजर्षयो ऽमलाः । दत्त्वा हिरण्यं विप्रेभ्यो ज्योतिर् भूत्वा दिवि स्थिताः ॥
य एवं संस्कृतो राजा विधिना ब्रह्मवादिना । प्रजानाम् इह साम्राज्यं ज्यैष्ठ्यं श्रैष्ठ्यं च गच्छति ॥
अमुष्मिन् ब्रह्मणा सार्धम् आनन्दम् अनुभूय वै । ज्योतिर्मयं सत्यलोकं नचैवावर्तते पुनः ॥ (परिशिष्ट १४. हस्तिरथदानविधिः)
ॐ अथ हस्तिरथदानानाम् अनुक्रमं वक्ष्ये
जातरूपमयं क्र्त्वा एकचक्रं सुशोभनम् । हस्तिभिः सप्तभिर् युक्तम् अर्चयित्वा यथाविधि ॥
अथ वा चतुर्भिर् युक्तं हैमं राजतम् एव वा । अस्पृष्टं दारुजं वापि सर्वसंभारपूरितम् ॥
हस्तियुग्मेन संयुक्तं सौरभेययुतेन वा । भुङ्क्ते सप्तैव जन्मानि सप्तद्वीपां वसुंधराम् ॥
हस्तेन युक्ते चन्द्रमसि पौर्णमास्याम् अमावास्यायां वा पुण्ये वा ऋक्षे शुचिः शुचौ देशे तन्त्रम् इत्य् उक्तम् ॥
प्राञ्चम् इध्मम् उपसमाधायान्वारभ्याथ जुहुयात् ॥
सवित्रे स्वाहा ॥ पतंगाय स्वाहा ॥ पावकाय स्वाहा ॥ सहस्ररश्मये स्वाहा ॥ मार्तण्डाय स्वाहा ॥ विष्णवे स्वाहा ॥ प्रजापतये स्वाहा ॥ परमेष्ठिने स्वाहा इति हुत्वा.
कनकाश् च तिला गावो दासी गृहमहीरथाः । कन्या हस्ती च विद्या च महादानि वै दश ॥
तस्मात् सर्वेषु दानेषु अनुक्तविधिकेषु च । अग्निं ब्रूम इति सूक्तम् आज्यतन्त्रेण होमयेत् ॥
अश्वदाता व्रजेत् स्वर्गम् अश्वारूढश् च मानवः । पूज्यते देवगन्धर्वैर् अप्सरोकिंनरैस् तथा ॥
हस्तिवर्चसं प्रथताम् इति कलशे संपातान् आनीय युगं योक्त्रं रथम् इति सर्वं संप्रोक्ष्य ॥
अश्रान्तस्य त्वा मनसा युनज्मीति योजयेत् ॥
अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य च । उत्कूलम् उद्वहो भवो उदुह्य प्रति धावतात् ॥
युक्तायार्थं दद्यात् ॥
श्यावैर् युक्तः शितिपद्भिर् हिरण्ययो यस्य रथः पथिभिर् वर्तते सुखैः । स नो हस्तेन सविता हिरण्यभुग् घिरण्यपाणिः सविता नो ऽभिरक्षतु ॥
बृहद्धस्तिरथं युक्तं हस्तेन तु ददन् नरः । सवितुः स्थानम् आप्नोति दिव्यां कामजवां सभाम् ॥ (परिशिष्ट १५. अश्वरथदानविधिः)
ॐ अथाश्वरथदानविधिः.
गोष्ठ उदकान्ते शुचौ वा देशे प्राञ्चम् इध्मम् उपसमाधायान्वारभ्याथ जुहुयात् ॥
वतरंहा भव वाजिन् युज्यमान इत्य् एतेनाश्वेषु संपातान् आनीयाश्रान्तस्य त्वेति समानम्
त्वम् इन्द्रस् त्वं महेन्द्र इति सवित्रे अर्घं दत्त्वा
पुनन्तु मेत्य् आत्मानम् आलभ्य जपेद्
रक्षन्तु त्वाग्नय इति यजमानम् अभिमन्त्र्य समृद्धिहोमान्ते
वरां धेनुं कर्त्रे दद्याद् अश्वरथं ग्रामवरं चेति
य एवं विधिना दद्याद् विदुषे अश्वरथं सुधीः । ज्यैष्ठ्यं श्रैष्ठ्यं च साम्राज्यं प्रजानाम् इह गच्छति ॥
सप्तानां लोकानाम् अन्ते ज्योतिर्लोकम् अनामयम् । गत्वा स परमानन्दं भुङ्क्ते यावद् विभावसुः ॥ (परिशिष्ट १६. गोसहस्रविधिः)
ॐ अथातो गोसहस्रविधिः ॥
गोष्ठ उदकान्ते शुचौ वा देशे प्राञ्चम् इध्मम् उपसमाधायान्वालभ्याथ जुहुयात् ॥
आ गाव इति सूक्तेनाज्यं जुहुयात् ॥
महाव्रीहीणाम् ऐन्द्रं चरुं सौम्यं च सहस्रतम्याः पयसि श्रपयित्वा गाव एव सुरभव इत्य् एतेन जुहुयात् ॥
पञ्चानां नदीनां तीर्थोदकम् ॥
पश्चाद् अग्नेस् तीर्थोदकेन पूर्णं कलशम् अवस्थाप्य हिरण्यवर्णा इत्य् अभिमन्त्र्य सं वो गोष्ठेनेति दश गाः स्नापयेत् ॥
त्वरमाननयाः समभ्युक्ष्य सहस्रतम्याः सानोदनेकेमम् इन्द्र वर्धय क्षत्रियं म इति राजानम् अभिषिच्य ॥
इमा आप इति षड्भिर् योथोक्तम् अञ्जनाभ्यञ्जनानुलेपनं कृत्वा ॥
सहस्रतमीं प्रथमाम् अलंकृत्य ॥
आ गावो माम् उपतिष्ठन्ताम् इत्य् उपतिष्ठेत् ॥
प्रजावतीः सूयवसाद् इति च सर्वाः पाययेत् ॥
प्रियम् अशनं दत्त्वाद्धि तृणम् अघ्न्य इति सहस्रतमीम् आलभ्य जपेत् ॥
मया गावो गोपतिना सचध्वम् इति मन्त्रानेत्नार्घं दत्त्वा ॥
सहस्रतम्याः पुछम् औपसंगृह्य भूमिष् ट्वा प्रतिगृह्णात्व् इति जपन् ॥
सहस्रतम्याः पृष्ठतो व्रजन् ॥
सर्वाः प्रदक्षिणीकृत्य नमस्कृत्य स्वस्तिवाच्य ब्राह्मणेभ्यो निवेद्य दश गा दक्षिणां कर्त्रे दद्यात् सहस्रतमीं वस्त्रयुग्मम् अच ॥
तद् अपि श्लोकाः ॥
सप्ताजन्मानुगं पापं पुरुषैः सप्तभिः क्र्तम् । तत्क्षणाद् विधिनानेन नाशयेद् गोप्रदो नरः ॥
सर्वेषाम् एव दानानां फलं यत् परिकीर्तितम् । तद् अवाप्नोति विरेभ्यो गोसहस्रप्रदो नरः ॥
अश्वमेधं वृषोत्सर्गं गोसहस्रं च यः सुतः । दद्यान् मदीय इत्य् आहुः पितरस् तर्पयन्ति हि ॥
तस्माद् अनेन विधिना गोसहस्रं ददेन् नरः । सर्वपापविशुद्धात्मा याति तत् परमं पदम् इति ॥ (परिशिष्ट १७. राजकर्मसांवत्सरीयम्)
ॐ अथ प्रतिसंवत्सरं राजकर्माणि क्रमेण वक्ष्यामः ॥
अथाश्वयुजे मासे शुक्लपक्षस्य तृतीये ऽहनि ॥
हरिद्रायवानाम् ॥
रक्षन्तु त्वाग्नय इति चतसृभी रक्षाम् अश्वानां बद्ध्वा हस्त्यश्वानां नीराजनं कुर्यात् ॥
अश्वो ऽसि क्षिप्रजन्मासि ....प्रदद्यात् स विशुद्धात्मा सप्तद्वीपां वसुंधराम् ॥
हस्तेन युक्ते चन्द्रमसि पौर्णमास्याम् अमावास्यायां वा पुण्ये नक्षत्रे शुचौ देशे ॥ तन्त्रम् इत्य् उक्तम् ॥
प्राञ्चम् इध्मम् उपसमाधायान्वारभाथजुहुयात् ॥
सवित्रे स्वाहा ॥ पतंगाय स्वाहा ॥ पावकाय स्वाहा ॥ सहस्ररश्मये स्वाहा ॥ मार्तण्डाय स्वाहा ॥ विष्णवे स्वाहा ॥ प्रजापतये स्वाहा ॥ परमेष्ठिने स्वाहेति हुत्वा कनकानां बद्ध्वा हस्त्यश्वानां पूर्ववन् नीराजनं कुर्यात् ॥
अथ नवम्याम् अपराह्णे वाहनानि स्नापयित्वा अहतवासा ब्रह्मा द्वादशमितां वेदिं कृत्वा ॥ तन्त्रम् इत्य् उक्तम् ॥
शान्तिकृत्यादूषणेन वाहनं त्रिः प्रोक्ष्य परीयान् ॥
निःसालाम् इति सूक्तं जपन् प्रत्येत्याभिषिञ्चयेद् एनम् ॥
अश्वम् अलंकृतं शबलकण्ठं कृत्वोपस्थाप्य दध्याद् ॥
एवम् एव मैश्रधान्यान्य् उदपात्राण्य् अन्तरासु दिक्षु ॥
तत्रैव देवता यजेत् ॥ अग्निं वायुं वरुणम् अश्विनाव् इति ॥
पयसि स्थालीपाकं श्रपयित्वा ॥
समास् त्वाग्ने त्वं नो अग्ने मा नो विदन्न् अभयैर् अपराजितैर् आयुष्यैः स्वस्त्ययनैर् अप्रतिरथेनेति च हुत्वा संस्थाप्य ॥
अग्नेर् अदो ऽसीत्य् अहतवासोभिः प्रछाद्य रसैः कुम्भान् औदुम्बरान् पूरयित्वा प्रतिदिशम् अवस्थाप्य ममाग्ने वर्चो अभयं द्यावापृथिवी उद् उत्तमं वरुणाश्विना ब्रह्मणा यातम् इति जुहुयात् ॥
पौर्णमासी प्रथमेति च जुहुयाद् दुन्दुभिम् आहन्याद् इत्य् उक्तम् ॥
उप श्वासय पृथिवीम् इति तत्रैवानुमन्त्रणं च ॥
सर्वाणि च वादित्राणि वाहनानि च ॥
जनस्यान् प्रहर्षय पञ्चमीं प्रतिष्ठापयेत् ॥
न तं यक्ष्मा ऐतु देव इति गुग्गुलक्ष्ठदूपं दद्यात् ॥
यस् ते गन्धस् त्र्यायुषम् इति भूतिं प्रयच्छेत् ॥
दूष्या दूषिर् असीति प्रतिसरम् आबध्य ये पुरस्ताद् इति प्रतिदिशं क्षिपेत् ॥
बहिर् निःसृत्योत्तरेण गत्वा बाह्येनोपनिष्क्रम्य सुहृदे कुर्याच् छ्रद्दधते कुर्याद् वाहनानाम् अभयं कर्म ॥ (परिशिष्ट १८. राजकर्मसांवत्सरीयम्)
अथाश्वयुजे मासे पौर्णमास्याम् अपराह्णे हस्तिनीराजनं कुर्यात् ॥
प्रागुदक्प्रवणे देशे यत्र वा मनो रमते ॥
गिरयस् ते पर्वता इत्य् एतया हस्तशतम् अर्धं वा मण्डलं परिगृह्य याभिर् यज्ञम् इति संप्रोक्षेत् ॥
तत्र श्लोकाः ॥
दशहस्तसमुत्सेधं पञ्चहस्तं तु विस्तृतम् । शान्तव्र्क्षमयं कुर्यात् तोरणं पुष्टिवर्धनम ॥
शुक्लैः शुक्लाम्बरध्वजैर् माल्यैश् च परिभूषितम् । कारयेत बिले शुभ्रे रसैश् च परिपूरिते ॥
रसैस् त्वाम् अभिषिञ्चामि भूमे मह्यं शिवा भव । असपत्ना सपत्नघ्नी मम यज्ञविवर्धनी ॥
इमौ स्तम्भौ घृतान्वक्ताव् उभौ मा यशसावतात् । यो मा कश् चभिदासति तम् इमौ स्तम्भौ निर्दहताम् इति ॥
उच् छ्रयस्व इमा या ब्रह्मणस्पत इत्य् एताभ्यां सुवर्णमाला पताकैः स्तम्भौ संयोज्य ॥
तस्याधस्ताच् चतुर्हस्तां वेदिं कृत्वा दर्भपवित्रपाणिर् बलिं पुष्पाणि च दत्त्वा ॥
मधुलाजामश्रैः स्वस्तिकसंयावकदधिकृसरापूपकापायसघृतविविधपानभक्षफलैर् अग्निं परिस्तीर्य ॥
आपो अस्मान् मातरः सूदयन्त्व् इति चतुरौदुम्बरान् कुम्भान् ह्रदोदकेन पूरयित्वा ॥
प्रतिदिशम् अवस्थाप्य दध्याद् रौद्राग्नेयं वायव्यं वारुणा मन्त्राः ॥
रक्षोघ्नं क्र्त्यादूशणं यशस्यवर्चस्यानि च हुत्वौषधीः समादाय द्विहस्तं मण्डलम् इत्य् उक्तम् ॥
तत्र श्लोकाः ॥
बृहत्कण्टारीकण्टका लाघुकण्टारिका स्मृताः । सुवर्णपुष्पी श्वेतगिरि कर्णिका ह्य् उदिसत्रा ॥
सिंही व्याघ्री च हरिणी ह्य् अमृता चापराजिता । पृश्निपर्णी च दूर्वा च पद्मम् उत्पलमालिनी ॥
ताम् अनुमन्त्रयते ॥
वैणवं कटकम् अवस्थाप्यादध्यात् ॥
द्वैपवैयाघ्रानडुच्चर्म परिस्तीर्य ॥
ततो या स्याद् अधिदेवता तस्यै बलिं दत्त्वा पिण्डानि च दद्यात् ॥
हस्तिनम् आचामयेत् ॥
यस्यां दिशि स रिपुर् भवति तां दिशं गत्वा हस्तिनम् आनयेद् धिरण्येन रजतेन वज्रमणिमुक्तादिभिः शङ्खेन चन्दनेन भद्रदारुणया कुष्ठेन नलदेन रोचनेनाञ्जनेन मनह्शिलया पद्मकुमुदोत्पलैर् ॥
ममाग्ने वर्च इति सूक्तं दक्षिनोत्तरमखं प्रतिजपेत् ॥
शेषेण गात्राण्य् अभ्यञ्जयेत् ॥
तत्र स्लोकाः ॥
हस्तिनां रक्षणे दण्डः कर्तव्यो वैणवो नवः । षोडशारत्निमात्रस् तु चारुपर्वमनओरमः ॥
तेन वारणान् वारयेत् ॥
दन्ताग्रेषु तृणानि कृत्वा यथा हव्यं वहसि ग्रसति ॥
सुजातं जातवेदसम् इत्य् अग्निं प्रज्वालयेत् ॥
सुजातं जातवेदसम् इति वाचयेद् यथा हव्यम् इति नीराजयित्वा ॥
निधिं बिभ्रतीति शालां प्रवेशयेद् ॥
अनपेक्षमानाः स्वानि स्थानानि व्रजन्ति दीर्घायुषो बलवन्तश् च भवन्ति ॥
गोसहस्रं कर्त्रे दक्षिणा ग्रामवरं च ॥ (परिशिष्ट १८ब्. राजकर्मसांवत्सरीयम्) (अव्परिस् १८ब्,१.१) अथ वर्षशतं प्रवर्धमानो राजानम् अभिवर्धयिष्यन् संवत्सरे जन्मदिने कुर्यात् ॥ तन्त्रम् इत्य् उक्तम् ॥ (अव्परिस् १८ब्,१.२) पुनन्तु मा वायोः पूतो वैश्वानरो रश्मिभिर् इति पवित्रैः पुण्याहादीनि च मङ्गलैर् यजमानं च संप्रोक्ष्य यद् आबध्नन्न् इति पुष्पाद्यलंकारं वर्जयित्वा माहेन्द्रं चरुं श्रपयेत् ॥ (अव्परिस् १८ब्,१.३) लोकपालेभ्यश् च द्वितीयं चरुं श्रपयेत् ॥ (अव्परिस् १८ब्,१.४) महाम् इन्द्रो य ओजसेति सूक्तेन तृतीयायां ह्य् अग्नौ हुत्वा इन्द्राय स्वाहेत्यादि लोकपालांश् चेष्ट्वा राजानम् अन्वालभ्य आदिवज् जुहुयाद् अर्वाञ्चम् इन्द्रम् इन्द्रः सुत्रामा इमम् इन्द्र वर्धय क्षत्रियं मे शतं जीवतः सरद इति ॥ (अव्परिस् १८ब्,१.५) रक्षन्तु त्वाग्नय इति चतसृभी रक्षां कृत्वा रोचनयालंकुर्यात् । त्रिगुणेन सूत्रेण बद्ध्वा ॥ (अव्परिस् १८ब्,१.६) मनायै तन्तुम् इति सूक्तेन रक्षासूत्रे संपातं च कृत्वा ॥ (अव्परिस् १८ब्,१.७) धाता ते ग्रन्थिम् इति बध्नाति ॥ (अव्परिस् १८ब्,१.८) उत्तरतन्त्रं हिरण्यं दक्षिणा ॥ (अव्परिस् १८ब्,२.१) महानवम्यां हस्त्यश्वदीक्षा प्रतिपत्प्रभृति नवरात्रम् ॥ (अव्परिस् १८ब्,२.२) शस्त्रसस्वसंपातः ॥ (अव्परिस् १८ब्,२.३) त्र्तीयायां हस्त्यश्ववाहग्राम्याश्वानां कर्म सप्तम्यां हस्त्यश्वानां दर्शनम् ॥ (अव्परिस् १८ब्,२.४) अष्टम्याम् अथ पिष्टमयीम् इत्यादि नवम्यां दुर्गापूजनम् ॥ (अव्परिस् १८ब्,२.५) अथ वा वनम्याम् इत्यादि नवम्याम् ॥ (अव्परिस् १८ब्,२.६) अथापराजितदशम्याम् ॥ (अव्परिस् १८ब्,२.७) पूर्वाह्णे विजयमहूर्ते उक्तं प्रास्थानिकम् ॥ (अव्परिस् १८ब्,२.८) एतानि खलु प्राग्द्वाराणीत्यादि ॥ (अव्परिस् १८ब्,३.१) अथ श्रवणे नक्षत्रे राज्ञाम् इन्द्रमहस्येति व्याख्यातः ॥ (अव्परिस् १८ब्,४.१) अथ पौर्णमास्याम् अपराह्णे पौर्णमासिकं कर्म ॥ (अव्परिस् १८ब्,५.१) अथापामार्गत्रयोदश्यां श्वेते मुहूर्ते स्नानं कृत्वापामार्गं त्रिः परिभ्रामयेद् राज्ञ उपरि मन्त्रेण ॥ (अव्परिस् १८ब्,५.२) इशानां त्वा भेषजानाम् इति त्रिभिः सूक्तैः प्रतीचीनफल इति सूक्तेन वा पुनः स्नानम् ॥ (अव्परिस् १८ब्,५.३) तत आरात्रिकं परिधत्तेति द्वाभ्याम् इति समानम् ॥ (अव्परिस् १८ब्,६.१) अथ दीपोत्सवं प्रतिपदि हस्त्यश्वादिक्दीक्षासमानम् ॥ (अव्परिस् १८ब्,६.२) अभ्यातानान्तं कृत्वा ये ऽस्यां प्राची दिग् इति ॥ (अव्परिस् १८ब्,६.३) मा नो देवा यस् ते सर्प इत्य् एतैः सूक्तैस् तृणानि युगतर्द्मना संपातवन्ति गणं च प्रातितमितधानाशने हस्त्यश्वादियुगपत् तन्त्रं समानम् ॥ धेनुर् दक्षिणा ॥ (अव्परिस् १८ब्,७.१) अथाक्षय्यनवम्यां रात्रौ हस्त्यश्वादीनाम् अनीकानां रथस्य परहोमश् च ॥ (अव्परिस् १८ब्,८.१) अथ विष्णुद्वादश्यां पुरोहितः पश्चिमां संध्याम् उपास्य गृहीतदर्भो यत्र राजानम् अभिगम्य पौष्टिकहोमश् च रात्रौ नीराजनं कृत्वा हस्त्यश्वेभ्यश् च ॥ (अव्परिस् १८ब्,९.१) अथ कार्त्तिक्यां पौर्णमास्यां रैवत्याम् अश्वयुज्यां वृषोत्सर्गः ॥ (अव्परिस् १८ब्,१०.१) अथाग्रयणीपौर्णमास्यां तन्त्रं कृत्वापाद् अग्रेति द्वाभ्यां रसं संपात्याभिमन्त्र्य राजानं प्राशयेत् ॥ धेनुर् दक्षिणा ॥ (अव्परिस् १८ब्,११.१) अथ पौष्यां पौर्णमास्याम् उक्तः पुष्याभिषेकः ॥ (अव्परिस् १८ब्,१२.१) अथ फाल्गुन्यां पौर्णमास्यां रात्रौ होलाका ॥ (अव्परिस् १८ब्,१२.२) महानवम्याम् उक्तप्रज्वलनं नीराजं वा ॥ (अव्परिस् १८ब्,१३.१) अथ ग्रीष्मप्रतिपद्य् आयुष्यम् इति स्नानं कृत्वापां सूक्तैर् आप्लुत्य प्रक्षिणम् आव्र्त्याप उपस्पृश्येत्य् उक्तम् ॥ (अव्परिस् १८ब्,१४.१) अथ चैत्र्यां पौर्णमास्यां तेजोव्रतं त्रिरात्रम् अश्नातीत्य् उक्तम् ॥ (अव्परिस् १८ब्,१५.१) अथ मदनत्रयोदश्यां वैशाख्यां पौर्णमास्यां च मध्याह्ने गर्ते वा वाप्यां पुष्करिण्यां घते वा सर्वगन्धान् प्रक्षिप्य प्राक्तन्त्रम् अभ्यातानान्तं कृत्वा सिंहे व्याघ्रे यशो हविः प्रातर् अग्निं गिराव् अरगराटेषु दिवस् पृथिव्या इत्य् एतैः सूक्तैर् उदकं संपात्याभिमन्त्र्य राजानं स्नापयेत् ॥ प्रविश्य संप्रोक्ष्येति च तन्त्रं संस्थापयेत् ॥ धेनुर् दक्षिणा ॥ (अव्परिस् १८ब्,१६.१) अथ श्रावण्यां पौर्णमास्यां विजये मुहूर्ते रक्षन्तु त्वाग्नय इति चतसृभी रक्षाबन्धनं कृत्वा नीराजनं च बाह्येनोपनिष्क्रम्येति पैठीनसिः ॥ (अव्परिस् १८ब्,१७.१) अथादित्यदिन आदित्यमण्डलको व्याख्यातः ॥ (अव्परिस् १८ब्,१८.१) अथ जन्मनक्षत्रे जन्मनक्षत्रयागहोमो व्याख्यातः ॥ (अव्परिस् १८ब्,१९.१) अथ राजकर्माणि प्रतिनक्षत्रं कर्तव्यानीत्य् आयुधानि खड्गप्रभृतीनि बिभृयाद् इति कृत्तिकारोहिण्यादीनि व्याख्यातानि ॥ (अव्परिस् १८ब्,१९.२) इन्द्रोत्सव इन्द्रमहोत्सवो व्याख्यातः ॥ (अव्परिस् १८ब्,१९.३) प्रतिदिनं ग्रहयागः ॥ प्रतिदिनं नक्षत्रयागः ॥ प्रतिदिनं दशगणी महाशान्तिः ॥ (अव्परिस् १८ब्,१९.४) प्रतिस्थानं कृत्तिकारोहिणीव्याख्याता नक्षत्रस्नानानि नक्षत्रक्षिणाश् च ॥ (अव्परिस् १८ब्,२०.१) राजकर्म सांवत्सरीयं हस्त्यश्वादिदीक्षा समाप्ता ॥ (परिशिष्ट १८च्. वृषोत्सर्गः) (अव्परिस् १८च्,१.१) अथ वृषोत्सर्गः ॥ (अव्परिस् १८च्,१.२) कार्त्तिकेयां पौर्णमास्यां रैवत्याम् आश्वयुज्यां वा गवां गोष्ठे पौर्णमासतन्त्रम् आज्यभागान्तं कृत्वा रुद्ररौद्राभ्याम् आज्यं जुहुयात् ॥ (अव्परिस् १८च्,१.३) पूषा गा अनु एतु न इति चतसृभिः पौष्णस्य जुहुयात् ॥ (अव्परिस् १८च्,१.४) पूषा गा अनु एतु नः पूषा रक्षातु सर्वतः । पूषा वाजं सनोतु नः ॥ (अव्परिस् १८च्,१.५) पूषन्न् अनु प्र गा इहि(इति) यजमानस्य सुन्वतः । अस्माकं स्तुवताम् उत ॥ (अव्परिस् १८च्,१.६) पूषन् तव व्रते वयं परि पूषा पुरस्ताद् इति ॥ (अव्परिस् १८च्,१.७) इन्द्रस्य कुक्षिः साहस्रस् त्वेष इति ऋषभं संपातवन्तं कृत्वा य इन्द्र इव देवेषु इति ऋषभस्य दक्षिणे कर्णे जपेत् ॥ (अव्परिस् १८च्,१.८) लोहितेन स्वधितिन इति वत्सतरीम् अनुमन्त्रयते ॥ (अव्परिस् १८च्,१.९) अयं प्रजानां जनिता प्रजापतिर् गवां गोष्ठ इह मध्यतो वसः । वत्सतरीषु अपसदने गवाम् अधि तिष्ठ पशून् भवनस्य गोपाः ॥ (अव्परिस् १८च्,१.१०) इति मण्डलानि भ्रामयति (अव्परिस् १८च्,१.११) रेतोधायै त्वातिसृजामि वयोधायै त्वातिसृजामि यूथत्वायै त्वातिसृजामि गणत्वायै त्वातिसृजामि सहस्रपोषायै त्व७अतिसृजामि अपरिमितपोषायै त्वातिसृजामीति पर्युक्ष्यैकरूपं द्विरूपं बहुरूपं वा यो वा यूथं छादयति यूथेन तेजस्विनालंकृतेनालंकृतम् अपराजितां दिशं निष्क्रामयेयुः सह वत्सतरीभिस् तन्त्रं संस्थापयेयुर् (अव्परिस् १८च्,१.१२) अथ ब्रह्मणे गां पयस्विनीं दद्यात् पायसेन ब्राह्मणान् भोजयित्वोत्सृज्य सर्वान् कामान् आप्नोति अक्षयाण् च लोकान् आप्नोतीति (परिशिष्ट १९. इन्द्रमहोत्सवः)
अथ राज्ञम् इन्द्रमहोत्सवस्य उपचारकल्पं व्याख्यास्यामः ॥
प्रौष्ठपदे शुक्लपक्षे ॥
संभृतेषु संभारेषु ब्रह्मा राजा च उभौ स्नातौ अहतवसनौ सुरभिसुजातानुलेपनौ कर्मण्यौ व्रतवन्तौ उपवसतः
[व्रतवन्तौ] श्वो भूते शम्नोदेव्याः पादैर् अर्धर्चाभ्याम् ऋचा षकृत्वोदकं परि वाचम् आचान्तो
बर्हिर् उपकल्पयित्वा राजानम् अन्वालभ्य जुहुयात् ॥
अर्वाञ्चम् इन्द्रं त्रातारम् इन्द्रम् इन्द्रः सुत्रामा इमम् इन्द्र वर्धय क्षत्रियं मे हन्ताय वृष इन्द्रस्य इन्द्रो जयाति इति च हुत्वा राष्ट्रसंवर्गैश् चा
अथ इन्द्रम् उत्थापयन्ति आ त्वा अहार्षम् अन्तर् ध्रुवाद्यौर् विशस् त्वा सर्वा वाञ्छन्तु इति सर्वतो ऽप्रमत्ता धारयेरन्न्
अद्भुतं हि सवनानयेत् समुत्थितं भवति ॥ यदि प्राच्याम् अग्निभयम् ॥ यदि दक्षिणस्यां यमभयम् ॥ यदि प्रतीच्यां वरुणभयम् ॥ यदि उदीच्यां क्षुद्भयम् ॥ यदि अन्तर्देशेभ्योभयतो विद्याद्
अग्निर् मा पातु अग्निं ते वसुमन्तम् ऋच्छन्त्व् इति ॥ यथास्वलिङ्गं द्वाभ्यां-द्वाभ्यां प्रदक्षिणं प्रतिदिशम् उपस्थापयेत् ॥
गृध्रश् चेद् अस्मिन् निपतति मृत्योर् भयं भवति ॥ यद् वा कृष्णशकुनिर् अन्तरिक्ष्र्ण पतति इति जपेद् यस् त्वा गृध्रः कपोत इति अन्ततो जपेत्
सर्वत्र अनाज्ञातेषु त्रिरात्रं घृतकम्बलम् ॥
शिरोभङ्गे तु राजानं मध्यभङ्गे तु मन्त्रिणम् । आदिभङ्गे जनपदं मूलभङ्गे तु नागरान् ॥
इन्द्राटको यदा भिद्याद् राजकोशो विलुप्यते । रज्जुछेदे परिजाते नृपतिस् तु विनश्यति ॥
सावित्र्या अभिमन्त्रितं कृत्वा प्रदक्षिणम् आवर्तयेद् राजानम् अभिभूर् यज्ञ इति एतैस् त्रिभिः सूक्तैर् अन्वारब्धे राजनि पूर्णहोमं जुहुयात् ॥
अथ पशूनाम् उपाचारम् ॥
इन्द्रदेवताः स्युर् ये राज्ञो भृत्याः स्युः सर्वे दीक्षिता ब्रह्मचारिणः स्युर्
इन्द्रं चोपसद्य यजेरन् ॥ त्रिरात्रं सप्तरात्रं वा
त्रिर् अयनम् अह्नाम् उपतिष्ठन्ते हविसा च यजन्ते ॥
आवृत इन्द्रम् अहम् इति इन्द्र क्षत्रम् इति हविषो हुत्वा
ब्राह्मणान् स्वस्तिवाच्य इन्द्रम् अवभृथाय व्रजन्ति
अपां सूक्तैर् आप्लुत्य प्रदक्षिणम् आवृत्य अप उपस्पृश्य अनपेक्षमाणाः प्रत्येत्य ब्राह्मणान् भक्त्या यद् ईप्सितं वरप्रदानैः परितोषयेत् ॥
अथ हैषमितिकम् इति ॥
श्वःश्वो ऽस्य राष्ट्रं ज्यायो भवति एको ऽस्यां पृथिव्यां राजा भवति न पुरा जरसः प्रमीयते य एवं वेद यश् चैवंविद्वान् इन्द्रमहेण चरति इति ब्राह्मणम् ॥ (परिशिष्ट १९ब्. ब्रह्मयागः) (अव्परिस् १९ब्,१.१) ॐ भार्गवं प्रणिपत्याथ भगवाञ् शौनको ऽवदत् । ब्रह्मयागविधिं कृत्स्नं विस्तरेण वदस्व मे ॥ (अव्परिस् १९ब्,१.२) परिपृष्टः स तेन अथ अथर्वा यजतां वरः । विधिं कृत्स्नं प्रतिष्ठाय आख्यातुम् उपचक्रमे ॥ (अव्परिस् १९ब्,१.३) सर्वेषाम् एव यागानां परमो ऽयम् उदाहृतः । ब्रह्मयागं प्रयत्नेन शृणु एतं तद् यथाक्रमम् ॥ (अव्परिस् १९ब्,१.४) हृद्ये मनोहरे शुभ्रे सर्वाबाधाविवर्जिते । श्लेष्मान्तकाक्षगृध्रादिपरित्यक्ते समे शुभे ॥ (अव्परिस् १९ब्,१.५) मण्डपं कारयेत् तत्र यथोक्तविधिना गुरुः । पताकातोरणिर् युक्तं द्वारैश् च अपि पृथग्विधैः ॥ (अव्परिस् १९ब्,२.१) अभ्युक्ष्य शान्तितोयेन पञ्चगव्येन वा सकृत् । गोमयेन प्रलिप्य आदौ पूजयेद् वर्णकिः पृथक् ॥ (अव्परिस् १९ब्,२.२) पुष्पैश् च विविधैः शुभ्रैः फलैश् च अपि अर्चयेद् बुधः । ततो बलिं हरेद् रात्रौ चतुर्दिक्षु विधानवित् ॥ (अव्परिस् १९ब्,२.३) प्रदीपान् घृतपूर्णांश् च प्रदद्याद् विविधान् तथा । त्ततो मण्डपमध्ये तु वर्तयेद् दिव्यमण्डलम् ॥ [चतुरश्रं चतुर्द्वारं वृत्ताकारम् अथ अपि वा] ॥ (अव्परिस् १९ब्,२.४) सितचूर्णेन तन्मध्ये लिखेत् पद्मं सुशोभनम् । बहिश् च वर्णैः शुभ्रैर् नाना शोभां प्रकल्पयेत् ॥ (अव्परिस् १९ब्,२.५) मध्ये पद्मं तु संस्थाप्य ब्रह्माणं परमेश्वरम् । ब्रह्मजज्ञानसूक्तेन यथोक्तम् उपकल्पयेत् ॥ (अव्परिस् १९ब्,३.१) तथ इमा आप इत्या द्यैर् यथावद् अधिवासयेत् । रोचनाचन्दनाद्यैश् च पुष्पैर् धूपैश् च पूजयेत् ॥ (अव्परिस् १९ब्,३.२) घृतप्रदीपमाल्यैश् च वस्त्रैर् भक्षैश् च शोभनैः । सितचन्दनकर्पूरं दद्याद् वा अपि हि गुग्गुलम् ॥ (अव्परिस् १९ब्,३.३) प्रदक्षिणं ततः कृत्वा नमेत् सर्वाङ्गकैर् नरः । दक्षिणे पश्चिमे वा अपि भागे वेदिः प्रशस्यते ॥ (अव्परिस् १९ब्,३.४) कृत्वाज्यभागपर्यन्तं ततः शान्त्युदकं पुनः । ब्रह्मजज्ञानसूक्तेन कुर्याच् चैवात्र पूजनम् । तथैव रौद्रमन्त्रैश् च अभिषेकाय कल्पयेत् ॥ (अव्परिस् १९ब्,३.५) हुत्वाभ्यातानमन्त्रांश् च ततो रुद्रगणेन च । नीलरुद्रैश् चरुं विद्वान् विधिना श्रपयेद् बुधः ॥ (अव्परिस् १९ब्,४.१) होमयेत् कुत्ससूक्तेन उच्छुष्मैश् च यथाविधि । जपेन् मन्त्रान् तथायुष्यान् मङ्गल्यांश् चापि यत्नतः ॥ (अव्परिस् १९ब्,४.२) हुत्वा च चातनं तत्र मातृनामगणेन च । स्नापयेत् पञ्चगव्येन तथा शान्त्युदकेन च ॥ (अव्परिस् १९ब्,४.३) फलस्नानं च कुर्वीत युक्तो मङ्गलवादिभिः । बन्दिभिर् वेदविद्भिश् च स्त्रीसण्गीतैर् मनोरमैः ॥ (अव्परिस् १९ब्,४.४) चारुचामरहस्ताभिश् चित्रदण्डैः सदर्पणैः । स्नापयेद् ब्रह्मसूक्तेन रौद्रेणापि तथार्चयेत् ॥ (अव्परिस् १९ब्,४.५) ततः प्रदक्षिणं कृत्वा जानुभ्यां धरणीं गतः । आशास्येष्टफलं तत्र युक्तो मङ्गलपाठकैः ॥ (अव्परिस् १९ब्,५.१) तूर्यघोषेण संयुक्तः कृतस्वस्त्ययनस् तथा । कुर्याद् दुन्दुभिनादं तु शङ्खभेरिप्रपूरितम् ॥ (अव्परिस् १९ब्,५.२) कुर्याद् उत्तरतन्त्रं च सदस्यान् वाचयेत् ततः । भोजयेच् छक्तितस् तत्र ब्राह्मणान् वेदपारगान् ॥ (अव्परिस् १९ब्,५.३) दीनानाथान्धकृपणान् भक्षभोज्यैर् अनेकधा । अन्नपानविहीनांश् च विशेषेण प्रपूजयेत् ॥ (अव्परिस् १९ब्,५.४) दत्त्वा च दक्षिणां शक्त्या दद्याद् गणबलिं निशि । गृहदेवास् तु संपूज्याः कार्यश् चाप्य् उत्सवो गृहे ॥ (अव्परिस् १९ब्,५.५) योगिनो भोजयेत् पश्चाद् गृहेसु गृहमेधिनः । अछेद्यास् तरवः कार्याः प्राणिहिंसां च वर्जयेत् ॥ (अव्परिस् १९ब्,५.६) बन्धनस्थाश् च मोक्तव्या बद्धाः क्रोधाच् च शत्रवः । अभयं घोषयेद् देशे गुरुं च परिपूजयेत् ॥ (अव्परिस् १९ब्,५.७) अभयं सर्वतो दत्त्वा इष्टे च परमेश्वरे । दीर्घम् आयुर् अवाप्नोति कृत्स्नां भुङ्क्ते वसुंधराम् ॥ (अव्परिस् १९ब्,५.८) ब्रह्मयागविधिः कृत्स्नो भक्तानां तु मयोदितः । अथर्वणा सुरेन्द्राय प्रणताय शुभेच्छया ॥ (अव्परिस् १९ब्,५.९) कृताभिषेकः कृतयाग एष कृताह्ह्निकः कृतरक्षः सुरेशः । अथर्वणो ऽनुग्रहम् आशु लब्ध्वा त्रिविष्टपं विरराजासपत्नम् ॥ इति ॥ (परिशिष्ट २०. स्कन्दयागः ओर् धूर्तकल्पः)
अथातो धूर्तकल्पं व्याख्यास्यामः ॥
चतुर्षुचतुर्षु मासेषु फाल्गुणाषाढकार्त्तिकपूर्वपक्षेषु नित्यं कुर्वीत ॥
श्वो भूते षष्ठ्याम् उपवासं कृत्वा प्रागुदीचीं दिशं निष्क्रम्य शुचौ देशे मनोहरे नोषरे मण्डलं त्रयोदशरत्निं कृत्वा मध्ये मण्डपस्य सर्ववानस्पत्यां मालां कृत्वा घण्टापताकास्रजः प्रतिसरं च मालापृष्ठे कृत्वा मध्ये दर्पणांश् चोपकल्पयित्वा तत्र यं वहन्ति हयाः श्वेता इत्य् आवाहयेत् ॥
यं वहन्ति हयाः श्वेता नित्ययुक्ता मनोजवाः । तम् अहं श्वेतसंनाहं धूर्तम् आवाहयाम्य् अहम् ॥
यं वहन्ति गजाः सिंहा व्याघ्राश् चापि विषाणिनः । तम् अहं सिंहसंनाहं धूर्तम् आवाहयाम्य् अहम् ॥
यं वहन्ति मयूराश् च चित्रपक्षा विहंगमाः । तम् अहं चित्रसंनाहं धूर्तम् आवाहयाम्य् अहम् ॥
यं वहन्ति सर्ववार्णाः सदायुक्ता मनोजवाः । तम् अहं सर्वसंनाहं धूर्तम् आवाहयाम्य् अहम् ॥
यस्यामोघा सदा शक्तिर् नित्यं घण्तापताकिनी । तम् अहं शक्तिसंनाहं धूर्तम् आवाहयाम्य् अहम् ॥
यश् च मातृगणैर् नित्यं सदा परिवृतो युवा । तम् अहं मातृभिः सार्धं धूर्तम् आवाहयाम्य् अहम् ॥
यश् च कन्यासहस्रेण सदा परिवृतो महान् । तम् अहं सिंहसंनाहं धूर्तम् आवाहयाम्य् अहम् ॥
आयातु देवः सगणः ससैन्यः सवाहनः सानुचरः प्रतीतः । षडाननो ऽष्टादशलोचनश् च सुवर्णवर्णो लघुपूर्णभासः ॥
आयातु देवो मम कार्त्तिकेयो ब्रह्मण्यपित्रैः सह मातृभिश् च । भ्रात्रा विशाखेन च विश्वरूप इमं बलिं सानुचर जुषस्व ॥
संविशस्वेति संवेशयेत् ॥
संविशस्व वरघण्टाप्सरःस्तवे यत्र सुभुजो हि निर्मिताः । संविष्टो मे धेहि दीर्घम् आयुः प्रजां पशूंश् चैव विनायकसेन ॥
इमा आप इति गन्धोदकं पाद्यं दद्यात् ॥ प्रतिगृह्णातु भगवान् देवो धूर्त इति ॥ षत् चैव हिरण्यवर्णा इतीमे दिव्यो गन्धर्व इति गन्धान् यस् ते गन्ध इति चेमाः सुमनस इति सुमनसः ॥ प्रियं धातुर् इति... ॥
वनस्पतिर् असो मेध्य इति धूपम् ॥ यक्ष्येण ते दिवा अग्निः शुक्रश् चेति दीपम् ॥ यो विश्वतः सुप्रतीक इति पर्णानि ॥
प्रक्षाल्य हविष्य् उपसादयेद् दध्योदनं क्षीरोदनं गुडोदनं मुद्गपयसमिश्रधान्यमोदकानि सर्वगन्धान् सर्वर्सान् उदकपूर्णं मूलपुर्णं पुष्पपूर्णं फलपूर्णं रसपूर्णं चोपकल्पयित्वा
इन्द्रः सीतम् इत्य् उल्लिख्य अग्ने प्रेत्य् अग्निं प्रणीय प्रज्वल्य प्राञ्चम् इध्मम् उपसमाधाय भग एतम् इध्मम् इति तिसृभिर् एतम् इध्मं सुगार्हस्पत्य इत्य् उपसमाधाय समिद्धो अग्निर् इति समिद्धम् अनुमन्त्रयते ॥
भद्रम् इच्छन्तो हिरण्यगर्भो ममाग्ने वर्चस् त्वया मन्यो यस् ते मन्यो यद् देवा देवहेडनम् इति षत् कामसूक्तादयो दश महीपतये स्वाहा ॥
धूर्ताय स्कन्दाय विशाखाय पिनाकसेनाय भ्रातृस्त्रीकामाय स्वच्छन्दाय वरघण्ताय निर्मिलाय लोहितगात्राय शलकटङ्कटाय स्वाहेति हुत्वा अग्नये प्रजापतये ये देवा दिव्य् एकादश स्थेति अनुमतये अग्नये स्विष्टकृत इति च ॥
शिवाग्निकृत्तिकानां तु स्तोष्यामि वरदं शुभम् । स मे स्तुतो विश्वरूपज् सर्वान् अर्थान् प्रयच्छतु ॥
धनधान्यकुलान् भोगान् स मे वचनवेदनम् । दासीदासं तथा स्थानं मणिरत्नं सुराञ्जनम् ॥
ये भक्त्या भजन्ते धूर्तं ब्रह्मण्यं च यशस्विनम् । सर्वे ते धनवन्तः स्युः प्रजावन्तो यशस्विनः ॥
यथेन्द्रस् तु वरान् लब्ध्वा प्रीतस् तु भगवान् पुरा । देहि मे विपुलान् भोगान् भक्तानां च विशेषत इति ॥
कामसूक्तेनोपहारम् उपहरेत् ॥
उपहारम् इमं देव मया भक्त्या निवेदितम् । प्रतिगृह्य यथान्यायम् अक्रुद्धः सुमना भव ॥
सद्योजातं प्रपद्यामि सद्योजाताय वै नमः । भवेभवे नादिभवे भजस्व मां भवोद्भवेति भवाय नमः ॥
देवं प्रपद्ये वरदं प्रपद्ये स्कन्दं प्रपद्ये च कुमारम् उग्रम् । षण्णां सुतं कृत्तिकानां षडास्यम् अग्नेः पुत्रं साधनं गोपथोक्तैः ॥
रक्तानि यस्य पुष्पाणि रक्तं यस्य विलेपनम् । कुक्कुटा यस्य रक्ताक्षाः स मे स्कन्दः प्रसीदतु ॥
आग्नेयं कृत्तिकापुत्रम् ऐन्द्रं के चिद् अधीयते । के चित् पाशुपतं रौद्रं यो ऽसि सो ऽसि नमो ऽस्तु त इति ॥
स्वामिने नमः शङ्करायाग्निपुत्राय कृत्तिकापुत्राय नमः ॥
भगवान् क्व चिद् अप्रतिरूपः स्वाहा भगवान् क्व चिद् अप्रतिरूपः ॥
मणिरत्नवरप्रतिरूपः ॥ काञ्चनरत्नवरप्रतिरूप इति ॥
एते [ते] देव गन्धा एतानि पुष्पाण्य् एष धूप एतां मालां त्रिः प्रदक्षिणां कृत्वा आदित्यकर्तितं सूत्रम् इति प्रतिसरम् आबध्नीयात् ॥
आदित्यकर्तितं सूत्रम् इन्द्रेण त्रिवृतीकृतम् । अश्विभ्यां ग्रथितो ग्रन्थिर् ब्रह्मणा प्रतिसरः कृतः ॥
धन्यं यशस्यम् आयुष्यम् अशुभस्य च घातनम् । बध्नामि प्रतिसरम् इमं सर्वशत्रुनिबर्हनम् ॥
रक्षोभ्यश् च पिशाचेभ्यो गन्धर्वेभ्यस् तथैव च । मनुष्येभ्यो भयं नास्ति यच् च स्याद् दुष्कृतं कृतम् ॥
स्वकृतात् परकृताच् च दुष्कृतात् प्रतिमुच्यते । सर्वस्मात् पातकान् मुक्तो भवेद् वीरस् तथैव च ॥
अभिचाराच् च कृत्यातः स्त्रीकृताद् अशुभं च यत् । तावत् तस्य भतं नास्ति यावत् सूत्रं स धारयेत् ॥
यावद् आपश् च गावश् च यावत् स्थास्यन्ति पर्वताः । तावत् तस्य भयं नास्ति यः सूत्रं धारयिष्यतीति ॥
अन्वायं भुक्त्वा देवं विसर्जयेत् ॥
प्रमोदो नाम गन्धर्वः प्रदोषो परिधावति । मुञ्च शैलमयात् पापन् मुञ्चमुञ्च प्रमुञ्च च ॥
[यावत्] इमा आपः पवनेन पूता हिरण्यवर्णा अनवद्यरूपाः । तावद् इमं धूर्तं प्रवाहयामि प्रवाहितो मे देहि वरान् यथोक्तान् ॥
उदितेषु नक्षत्रेषु गृहान् प्रविष्टो गृहिणीं पश्येत् धनवति धनं मे देहीति ॥
यद् भोक्तुं कामजातं जगत्यां मनसा संहीहते तत्तद् द्विजन्मा पिनाकसेनयजमानात् कामम् उपभुक्तो भुक्त्वामृतत्वं तद्वद् एवाभ्युपैति ॥ (परिशिष्ट २१. संभारलक्षणम्)
ॐ संभारान् कीर्तयिष्यामो यथालक्षणसंयुतान् । यैः कर्म क्रियमाणं हि फलवत् स्याद् द्विजन्मनाम् ॥
अछिन्नाग्रान् कुशान् आर्द्रान् इन्द्रनीलसमप्रभान् । शुष्कान् अपि श्वेतवर्णान् आहुः शान्तिकरान् बुधाः ॥
सुरभीणि च पुष्पाणि सुस्वादूनि फलानि च मनोहराणि वासांसि संभारेषूपकल्पयेत् ॥
सुरभीण्य् एव बीजानि अन्यवस्तूनि यानि च । अर्घचन्दनधूपादि हेमरत्नादि चोत्तमम् ॥ (अव्परिस् २१,१.७च्द्) गावश् च दक्षिणार्थं हि पयस्विन्यः सुलक्षणाः । (अव्परिस् २१,१.८अब्) षोडशाष्टौ च चत्वारश् चतुर्णां वेदवित्तमाः ॥
ऋत्विजस् तु समाख्याता वयःशीलगुणान्विताः । द्वात्रिंशत् षोडशाष्टौ वा शान्तिकार्ये तथाद्भुते ॥
सहिरण्याः सवस्त्राश् च सालंकाराः सवत्सकाः । ते सदस्या इति प्रोक्ता वाचने यज्ञकर्मणि ॥ (अव्परिस् २१,१.७अब्) सर्वे ते ऽपि ह्य् अथर्वाण ऋत्विजः षोडश स्मृताः । (अव्परिस् २१,१.८च्द्) शुद्धात्मानो जपैर् होमैर् वैदिकैर् वीतमत्सराः ॥
ताम्रराजतहैमानां मृन्मयानाम् अथापि वा । अछिद्राणां सवर्णानां कलशानां च संग्रहः ॥
चरूणाम् अथ पात्राणाम् इन्धनानां विशेषतः । यवव्रीहितिलऽऽआदीनाम् आज्यस्याहरणं तथा ॥
अछिद्रास्फातितावक्रा दीर्घपर्वाः सुमध्यमाः । शमीदूर्वातरूणां तु ज्ञेयाः शान्तौ शभावाः ॥
पुष्करतन्तुगोवालत्रुटिसर्षपयवस्य तु । षड्गुणितःषड्गुणितो [भवति] नरस्याङ्गुलमाने ॥
गोपुच्छसदृशो दण्डः समः श्लक्ष्णो मनोहरः । स्रुवश् च शान्तुके ज्ञेयः स्रुग् उक्ता यज्ञलक्षणा ॥
सौवर्णः शान्तिके प्रोक्तः पालशो वाथ खादिरः । अभिचारे विशेषेण कुर्यात् स्रुवम् अयोमयम् ॥
कांस्यं य्च्चाटने कुर्याद् आश्वत्थं वश्यकर्मणि । विशेषेण तु विद्वेषे स्रुवो निम्बमयः स्मृतः ॥
पौष्टिके राजतं विद्यात् ताम्रं च विजयावहम् । अमृतादौ तु विज्ञेयश् चान्दनः सिद्धिदः स्रुवः ॥
स्रुवाणां विषयं ज्ञात्वा कीलकानां विधिं तथा । गृहस्याश्मविधिं दिक्षु कर्मसिद्धिम् अवाप्नुयात् ॥
श्लेष्मातकार्ककण्टकिकटुतिक्तादिवर्जिते । अरिष्टगृध्रकौशिकविहंगैश् च विवर्जिते ॥
गुल्मवल्लीलतायुक्ते हृद्यैश् च मधुरैर् द्रुमैः । तरुणैः फलवद्भिश् च श्मशानास्थिविवर्जिते ॥
मयूरचक्रवाकादिहंसकारण्डवादिभिः । सुस्वरैर् नादिते देशे हृद्याङ्कुरसमन्विते ॥
नदीतटे समुद्रस्य संगमे वा विशेषतः । अनिन्द्ये दिग्विभागे च उत्तरे वापराजिते ॥
भूमिं संशोधयेत् कर्ता प्रागुदक्प्प्रवणे शुभे । प्राचीं संशोध्य यत्नेन मण्डपं तत्र कारयेत् ॥
नवकोष्ठं समं वापि हस्तैः षोषशभिर् मितम् । चतुरश्रं चतुर्द्वारम् एकोर्ध्वद्वारम् एव वा ॥
तत ईशानकोणे तु स्नानवेदिं समाचरेत् । दशद्वादशहस्तं वा यथावितानम् एव वा ॥
चतुर्गुणोच्छ्रयाश् चैव मूलस्तम्भास् तु ये ततः । उपस्तम्भास् तु ये पार्श्वे तदर्धेन प्रकीर्तिताः ॥
कुम्भाः स्तम्भैस् तथा देयाः कामैर् द्वारं दिशां स्मृतम् । यजमानोच्छ्रयं वापि तदर्धेन प्रकीर्तिताः ॥
कुण्डाकृति गृहं कुर्याद् द्विगुणं परिवेष्तितम् । सर्वदिक्षु प्लवं चैव कुण्डस्योर्ध्वं न छादयेत् ॥
परितो द्वादशस्थूनं चतु[ः]स्तम्भं तु मध्यतः । अर्चितं पूजितं नित्यं शान्तौ शान्तिगृहं स्मृतम् ॥
नेत्राद्युल्लोचशोभिष्ठं नानावर्णध्वजाकुलम् । रक्ता पीता च धूम्रा च कृष्णा नीलाथ पाण्डुरा ॥
विचित्रा हीन्द्रनीलाभा पताकाः षोडश स्मृताः । [ऐन्द्रायुधधूम्रकृष्णनीलपाण्डुरवर्णकाः] ॥
[पीतरक्तसिताः श्यामा पताकाः षोडश स्मृताः ।] कलशान् षोडशान् तत्र उपरिष्टान् महाध्वजः ॥
वस्त्रेणाछादितान् कुर्यात् सहिरण्यान् पृथक्पृथक् । मणिमुक्ताफलैः पुष्पैर् हृद्यैश् च मधुरैः फलैः ॥
समन्ताद् दिक्षु विन्यस्तैः प्रदीपैश् चाप्य् अलंकृतम् । धूपैर् बल्युपहारैश् च जयघोषैश् च बन्दिनाम् ॥
शङ्खतूर्यनिनादैस् तु वीणादुन्दुभिसस्मितैः । पूज्यमानो हि नृपतिः प्रविशेत् सपुरोहितः ॥
ततः शान्त्युदकं कृत्वा चातनेनानुयोजितम् । संप्रोक्ष्य विधिवन् मन्त्रैर् आनयेद् अरणी ततः ॥
मथिते ऽग्नौ विधानेन शान्त्युदकेन समन्त्रकम् । होमं कृत्वा यथोक्तं तु निमित्तान्य् उपलक्षयेत् ॥
मेघदुन्दुभिनिर्घोषैः प्रज्वलन् सर्वतस् तथा । अव्यवछिन्नदीर्घार्चिः सुस्निग्धः सिद्धिकारकः ॥
किंशुकाशोकपद्माभो नीलोत्पलनिभस् तथा । वह्निः सिद्धिकरो ज्ञेयः सप्तरात्रान् न संशयः ॥
हुतमात्रे प्रज्वलति विहसन्न् इव दृश्यते । तं विद्यात् सिद्धिदं वह्निं पद्मवर्णनिभं तथा ॥
अस्निग्धार्चिः सधूमो यः कृष्णवर्णो ऽप्रदक्षिणः । यथोक्तविपरीतस् तु न वह्निः स्यात् प्रयंकरः ॥
यस्मिन् प्रसन्नताम् एति हूयमाने हुताशने । तत्र नित्यं महासिद्धिर् असमाप्ते विनिर्दिशेत् ॥ असमाप्ते विनिर्दिशेत् ॥ इति संभारलक्षणं समाप्तम् ॥ (परिशिष्ट २२. अरणिलक्षणम्)
ॐ अथातः संप्रवक्ष्यामि अरण्योश् चैव लक्षणम् । रूपम् अथा प्रमाणं च गुणदोषान् तथैव च ॥
चोदितान् शब्दशास्त्रेण आचार्येण तु धीमता । पुरा कल्पे च यद् दृष्टम् ऋषिभिश् चैव लक्षणम् ॥
गृह्याग्निं परिसंगृह्य धर्मपत्न्या सहैव तु । वैतानिकास् ततः कुर्याद् आधानाद्या यथोदिताः ॥
तिथौ शुभायां नक्षत्रे दिशं गत्वा त्व् अनिन्दिताम् । अश्वत्थात् तु शमीगर्भाद् उक्तम् आहरणं श्रुतेः ॥
शमीवृक्षे तु यो ऽश्वत्थो नान्यवृक्षेण संयुतः । मध्ये मूलं न बाह्ये तु स गर्भः परिकीर्तितः ॥
अभावे तु शमीगर्भे अश्वत्थाद् एव वाहरेत् । प्राप्ते चैव शमीगर्भे समारोप्य विसर्जयेत् ॥
चतुर्विंशाङ्गुला दीर्घा विस्तरेण षडङ्गुला । चतुरङ्गुलोच्छ्रया च अरणिश् चोत्तरारणिः ॥
आ स्कन्धाद् उरसो वापि इति स्तौदायनैः स्मृता । बाहुमात्रा देवदर्शैर् जाजलैर् ऊरुमात्रिका ॥
चारणवैद्यैर् जङ्घे च मौदेनाष्टाङ्गुलानि च । जलदायनैर् वितस्तिर् वा षोडशेति तु भार्गवः ॥
शिरःप्रमाणे नाभौ तु चतुर्विंशतिकैव हि । शौनकादिभिर् आचार्यैर् एतन् मानं प्रकीर्तितम् ॥
तस्यास् तु पिण्डः षड्भागे चतुर्भागे तु विस्तरे । चतुरश्रा च श्लक्ष्णा च छिद्रग्रन्थिविवर्जिता ॥
क्लिन्ना भिन्नाग्निसंस्पृष्टा स्फुटिता विद्युता हता । अन्यैश् च दोषैः संयुक्ता वर्जनीया प्रयत्नतः ॥
शिरोग्रन्थिर् हरेच् चक्षुश् छिद्रा पत्नीविनाशिनी । क्लिन्ना विनाशयेत् पुत्रान् स्फुटिता शोकम् आवहेत् ॥
ऊर्ध्वशुष्के न कर्तव्या कृष्णे रूक्षे तथैव च । उभे अप्य् एकवृक्षे च अरणिश् चोत्तरारणिः ॥
तत्प्रमाणा तदर्धा वा भूयसी वा यथेच्छया । अनेनैव तु मन्थव्यो न कुर्याद् योनिसंकरम् ॥
योनिसंकरसंकीर्णे महान् दोषः प्रपद्यते । स यज्ञस् तामसो नाम फलं तत्र न विद्यते ॥
पिण्डे त्व् अयनविषुवौ पृथुत्वे ऋतवः स्थिताः । अर्धमासाश् च दीर्घत्वे कालश् चात्र प्रतिष्ठितः ॥
यजमानो ऽरणिर् इति वदन्त्य् एके विपश्चितः । तत्प्रधानाः क्रियाः सर्वा यज्ञश् चापि तथैव हि ॥
प्रथमे मूलषड्भागे पादौ जङ्घेति कीर्त्यते । द्वितीये जानुनी ऊरू तृतीये श्रोणिर् उच्यते ॥
चतुर्थे जठरं साङ्गं ग्रीवा चैव तु पञ्चमे । षष्थे शिरः समाख्यातम् अङ्गान्य् एतानि निर्दिशेत् ॥
मथिते पादजङ्घे च पिशाचः संप्रजायते । जानुनोश् च तथा चोर्वो राक्षस्त्वं प्रयाति हि ॥
श्रोण्यां च सर्वकामा[ः] स्युर् जठरे क्षुत् तथा स्मृता । उरस्य् अमित्रा ग्रीवायां मृत्युः शिरसि वेदना ॥
श्रोण्याम् एवात ऐच्छन्ति निर्दोषा कीर्तिता यतः । तथा वित्तपशून् पुत्रान् स्वर्गम् आयुः प्रियं सुखम् ॥
प्रथमं मन्थनं श्रोण्याम् आधाने च विशेषतः । इतराणि यथेष्तं हि ग्रीवां सर्वत्र वर्जयेत् ॥
त्रीण्य् अङ्गुलानि त्यक्त्वादौ तथा चत्वारि चान्ततः । मध्ये देवाः स्थितास् तस्माद् वह्निं तत्रैव मन्थयेत् ॥
अनुलोमा भवेद् योनिः पार्श्वभेदो न विद्यते । आनुलोम्येन मथितः सर्वान् कामान् प्रयच्छति ॥
मूलाद् अङ्गुलम् उत्सृज्य त्रीणित्रीणि च पार्श्वयोः । देवयोनिस् तु विज्ञेया तत्र मथ्यो हुताशनः ॥
[मूलात् त्यक्त्वाङ्गुलान्य् अष्टौ अग्रात् तु द्वादशैव हि । अन्तरे देवयोनिः स्यात् तत्र मथ्यो हुताशनः] ॥
वेदा यज्ञाय संभूता यज्ञा अग्नौ प्रतिष्ठिताः । अरण्योर् जायते चाग्निस् तयोस् तस्मात् प्रधानता ॥
अरण्यर्धेन चैव स्युः खादिरौ चात्रपीडकौ । नेत्रं तु षड्गुणं चात्राद् उत्तरो ऽष्टाङ्गुलः स्मृतः ॥
अष्टाङ्गुलः प्रमन्थः स्याच् चात्रं स्याद् द्वादशाङ्गुलम् । ओवीली द्वादशाङ्गुला एष यज्ञविधिः स्मृतः ॥
व्याममन्त्रं वदन्त्य् एके अन्ये हस्तत्रयं विदुः । त्रिवृतं मुष्टिसंयुक्तं यज्ञवृक्षजवल्कलैः ॥
चात्रे च भास्कराः प्रोक्ता उत्तरे वसवस् तथा । नेत्रे देवगणाः सर्वे विष्णुश् चैव तु पीडके ॥
अरणिर् या द्वितीया तु उत्तरा सा प्रकीर्तिता । तत्रैकदेशं संगृह्य उत्तरः स च कीर्तितः ॥
प्राङ्मुखोदङ्मुखो वापि भ्रामकः पश्चिमामुखः । पाणिभ्यां पीडनं शुभ्रम् उत्तराग्रं प्रगृह्य तु ॥
मूले मूलं तु संयोज्य चात्रस्यैवोत्तरस्य च । अरण्युपरि संस्थाप्य पीडकेन तु पीडयेद् ॥
नेत्रेण भ्रामयेच् चात्रं यावद् वह्निः प्रजायते । सर्वैर् हि देवैः संपन्नस् तेन सर्वसुखः स्मृतः ॥
ब्रह्माद्यैर् दैवतैश् चैव विद्वद्भिश् च तपोधनैः । एष यन्त्रप्रयोगस् तु दृष्टो यज्ञार्थहेतुभिः ॥
यजमानेन मन्थव्यः स्वशाखाश्रोत्रियेण वा । तन्मन्त्रेन द्विजाग्र्यैर् वा स्मृतम् एतद् धि मन्थनम् ॥ (अव्परिस् २२.९.१) (अथ) यद्य् अरणी जीर्णे स्यातां जन्तुभिर् मन्थनेन वा ॥ समानीते नवे अरणी आहृत्य श्वे भूते दर्शेनाष्ट्वा तस्मिन् पूर्वे शकलीकृत्य गार्हपत्ये प्रक्षिप्योपर्य् अग्नौ धारयन् जपति ॥
उद् बुध्यस्वाग्ने प्र विशस्य योन्यां देवयज्यायै वोढवे जातवेदः । अरण्योर् अरणी सं चरस्व जीर्णां त्वचम् अजीर्णया निर् णुदस्वेत्य्
आज्यं संस्कृत्याहवनीये मनस्वतीं जुहोति ॥ [पुत्रार्थी श्रावयेत्] ॥
मनो ज्योतिर् जुषताम् आज्यस्य विछिन्नं यज्ञं सम् इमं दधातु । या इष्टा उषसो या अनिष्टास् ताः सं चिनोमि हविषा घृतेन स्वाहेति अग्नये ऽग्निमते ऽष्टाकपालं पुरोडाशं निर्वपति ॥ शराव् ओदनं सदक्षिणं ददाति ॥ सा प्रकृतेष्तिः संगृह्यते ॥
प्रसङ्गेनैव कथितम् अग्निमन्थनम् अत्र वै । अरण्योश् चाङ्गसंभूतं नेत्रं चात्रं च पीडकः ॥
य इदं धारयिष्यति अरण्योर् इह लक्षणम् । न तस्य दुर्लभं किं चिद् लोके परत्र च ॥
पुत्रार्थी श्रावयेन् नित्यम् अचिराल् लभते सुतम् । श्रुतशीलं वृत्तवन्तं दीर्घायुर् विपुलां प्रजाम् ॥
एतद् एवं समाख्यातं पिप्पलादेन धीमता । द्विजानां बालवृद्धानां पुरश्चरणम् उत्तमम् ॥
अधीत्यैतच् च देहान्ते परं ब्रह्माधिगच्छति । न तस्य मृत्युर् न जरा निद्रा व्याधिर् न चैव हि । क्षुत्पिपासाभयं नास्ति ब्रह्मभूतः स तिष्ठति ॥ (परिशिष्ट २३. यज्ञपात्रलक्षणम्)
ॐ अथातो यज्ञपात्राणां लक्षणं योनिर् एव च । रूपं तथा प्रमाणं च क्रमेनैव प्रकथ्यते ॥
चमसग्रहपात्राणि होमपात्राणि यानि च । यज्ञवृक्षास् तथा शाखा ब्रह्मवेदे प्रदर्शिताः ॥
पितृपिण्डेषु दर्व्याद्यम् अग्निष्वात्तं च याज्ञिकम् । सायंहोमेषु नित्यानि तथा नैमित्तिकानि च ॥
बिल्वाकृतिश् चरुः प्रोक्तस् ताम्रो वा मृन्मयो ऽपि वा । ग्रीवायां मुखविस्तीर्णश् चरुस्थालीति कीर्त्तितः ॥
कुशस्याम्रस्य वा पर्णैर् वेणोर् वा बल्बजस्य वा । चतुष्कोणार्धवीतं च लोके शूर्पं तद् उच्यते ॥
असिः खड्गं च निस्त्रिंशः पर्यायाः परिकीर्त्तिताः । तदाकृट्य् एव यद् रूपं यज्ञे स्फ्यं च वदन्ति तम् ॥
इध्मोच्छ्रयम् अर्धखातं खातेनैव तु विस्तरः । मध्ये हीनं तथोर्ध्वाग्रं वारणं तद् उलूखलम् ॥
स्थूलत्वान् मुष्टिमात्रं च स्कन्धमात्रं प्रमाणतः । वारणं मुसलं चैव अधस्ताल् लोहवेष्टितम् ॥
स्रुवस् तु मूलदण्डश् च बिलं चाङ्गुष्ठपर्वणः । समवेते पृथग्भूते बिलार्धे दण्डवृत्तता ॥
वैकङ्कती ध्रुवा प्रोक्ता सर्वयज्ञेषु या स्मृता । तथाग्निहोत्रहवणी स्रुवश् चापि तथा स्मृतः ॥
मूलदण्डा त्वग्बिला च पुष्करं चतुरङ्गुलम् । पुष्कराद् द्विगुणं चाग्रं गजोष्ठं परिपठ्यते ॥
[नेत्रादिकरणैर् हीनं नासिकाभ्यां द्विजैस् तथा । द्व्यङ्गुलः खाता च बिलाद् अङ्गुलं चैव पिण्डिका । वृत्ता वा चतुरश्रा वा साधस्ताच् छोभना स्मृता] ॥
अर्धाङ्गुलं पृथुत्वेन बिलबाह्यं समन्ततः । बिलं वृत्तं स्रुचो मध्ये दण्डस्थौल्यं बिलार्धतः ॥
चतुर्विंशत्यङ्गुलं दण्डं वदन्त्य् एके मनीषिणः । सप्तत्रिंशद् अङ्गुलानि सा स्रुक् चैव प्रकीर्तिता ॥
भिन्ना विशीर्णा वक्रा च क्लिन्ना च स्फुटिता तथा । सुषिरा ग्रन्थिभिर् युक्ता चक्षुरादिविनाशिनी ॥
दग्धशेषे ऽर्धशुष्के च विद्युता चैव पातिते । उन्मूल्ये पतिते भग्ने मनसापि न चिन्तयेत् ॥
शुभनक्षत्रातिथिषु शुभां गत्वा दिशं बुधः । स्रुवार्थं पातयेद् वृक्षं प्रातः प्राग्रं च सौम्यवाक् ॥
मृगो हरिणरुरुश् च कृष्णपृष्ठशिरस् तथा । यत् तस्य चर्म त्वक् चैव तत् कृष्णाजिनम् उच्यते ॥
वाममुष्टिगृहीतास् तु प्रछिद्यन्ते सकृत् कुशाः । परशुनासिना वा तत् सकृदाछिन्नम् उच्यते ॥
अङ्गुष्ठपर्वाग्रमुखं दर्व्याकृति तु मेक्षणम्. वैकङ्कते पालाशे वा प्रादेशस् तु प्रमाणतः ॥
अलाबु वैणवं वापि दार्व्यं वैणवम् एव वा । अक्षाव् अमण्डलौ प्रोक्तौ यथा दृष्टं पुर र्षिभिः ॥
चक्राभ्यां काष्ठसंघातैः शिल्पिभिश् चैव यत् कृतम् । लोके प्रसिद्धं शकटम् अग्निष्ठं याज्ञिके विधौ ॥
आज्यं घृतं विजानीयान् नवनीतं सुसंस्कृतम् । सौवीराद्य् अञ्जनं चैव अथ वा दैविकं तथा ॥
अभ्यञ्जनं च तत् प्रक्तं तिलतैलं च यद् विदुः । आसनं कशिपु प्रोक्तं कायस्थं चोपबर्हणम् ॥
यवोदरैर् अष्टभिस् तु अङ्गुलं परिपठ्यते । चरुत्विंशत्यङ्गुलं तु याज्ञिकैर् हस्त आकृतः ॥
हस्तमात्रं स्रुवः खड्गं सकृदाछिन्नम् एव च । बाहुमात्रा जुहूः प्रोक्ता ध्रुवा बर्हिस् तथैव च ॥
ताम्रश् चैव स्रुवः प्रोक्तः खड्गं खादिरम् एव च । पालाशी च जुहूः कार्या इध्माश् चैव विशेषतः ॥
ग्रहाः पात्राणि चमसा दण्डयूपासनानि च । वृक्षेषु याज्ञिकेषु स्युर् यथालाभेषु नान्यतः ॥
समिधः प्रादेशमात्र्यो नित्यहोमे प्रकीर्तिताः । समिल्लक्षणदृष्टानि प्रमाणानि यथाक्रमम् ॥
शम्य् अश्वत्थ[ः] पलाशश् च खादिरो ऽथ विकङ्कतः । काश्मर्योदुम्बरो बिल्वो यज्ञवृक्षाः प्रकीर्तिताः ॥
एषाम् अलाभे वृक्षाणाम् अन्ये ग्राह्यास् तु याज्ञिकैः । यज्ञाङ्गकार्ये द्रष्टव्याः समिदर्थं विशेषतः ॥
यवव्रीहिमहाव्रीहिप्रयङ्गूणां हि तण्डुलाः । श्यामाकतण्डुलतिला आसाद्याः श्रुतिचोदिताः ॥
सायंहोमेषु यद् द्रव्यं प्रातर्होमेषु तद् भवेत् । भिन्नद्रव्यहुतं यत् तु न हुतं तस्य तद् भवेत् ॥
उदिते ऽनुदिते चैव समयाध्युषिते तथा । क्षुधाकाले तथाप्य् केके पक्षहोमं तु कारयेत् ॥
यायावराणां मुनिभिः पक्षहोमस् तु तैः स्मृतः । यथा कथं चिद् वचनं श्रुत्युक्तं द्विज आचारेत् ॥
आतुरः पथिकश् चैव राजोपद्रवपीडितः । पक्षहोमं तदा कुर्यान् निस्तीर्य सततं चरेत् ॥
चतुर्दशगृहीतं तु सकृद् उन्नयते हविः । एका समित् सकृद् धोमः सो ऽर्धमासाय कल्पते ॥
चतुर्दशगुणं कृत्वा स्रुचा पात्रेण पूर्ववत् । एवं गार्हपत्ये च दक्षिणाग्नौ च जुह्वति ॥
पूर्वा हुत्वाहुतीः सायं व्युष्टायाम् अपरे ऽह्नि । एतेनैव विधानेन जुह्वति प्रातराहुतीः ॥
ऋषिभिश् च पुरा दृष्टम् आपत्कालेषु सर्वतः । अरण्योश् च समारोप्य श्रुतिदृष्टेन कर्मणा ॥
होमार्थेष्व् एतद् द्रष्टव्यम् आहिताग्निगृहेष्व् अपि । तत्प्रयोजनमात्रं तु न दोषः सूतकेषु च ॥
सद्यःशौचादिकं प्रोक्तं सूतकं च द्विजातिभिः । स्वयंहोमीति वचनान् न दोषः श्रुतिचोदनात् ॥
व्रतिनां सत्त्रिणां चैव महाराजाहिताग्नयः । एषां दोषो न विद्येत सायम्प्रातः क्रिये स्थिते ॥
पालाश्यः समिधो ऽदोषा नित्यं होमे प्रकीर्तिताः । अथ वा कौशिकोक्तानां यज्ञियानां महीरुहाम् ॥
अङ्गुलत्रयम् आवर्त्य उच्छ्रये ऽप्य् अङ्गुलत्रयम् । पुरोडाशप्रमाणं तु सर्वत्र कथितं नृणाम् ॥
षोडशाङ्गुलम् आवर्त्य त्रिभागं चोत्तरम् ऋजु । दक्षिणस्यां दिशि स्थानं दक्षिणाग्नेः प्रकीर्तितम् ॥
अष्टाविंशत्य् अङ्गुलानि गार्हपत्यं प्रकीर्तितम् । आहवनीयम् [चतुर्]विंशतिश् चतुरश्रं तु कारयेत् ॥
अङ्गुलानि तु षट्त्रिंशद् ध्न्वाकृत्या तु कारयेत् । दक्षिणाग्नेस् तु वै कुण्डं विद्वद्भिज् परिकथ्यते ॥
ईशान्यां दिशि सभ्यस्य गार्हपत्यविधानतः । सभ्यं नेच्छन्ति शालाग्नौ माहकिः कौशिकस् तथा ॥
मौदायनास् तथेच्छन्ति शौनकेयास् तथैव च । मन्ताद् एव तथा प्रोक्तं द्रव्यं यत्र न दृश्यते ॥
आज्यं तत्र विजानीइयाद् धोमस् तत्र स्रुवेण च । अभ्युक्षणं हविःकर्म कर्तव्यं वज्रपाणिना ॥
कुशहस्तेन कर्तव्या जपहोमपितृक्रियाः । यज्ञे चैव अङ्गभूताश् च पात्रमन्त्रहविर्द्विजाः । चरुत्भिश् च क्रियाः सर्वाश् चातुर्होत्रं तद् उच्यते ॥
याज्ञिकास् तु वदन्त्य् अन्ये चतुर्भिर् यच् च हूयते । ब्रह्मणाध्वर्युहोतृभ्यां त्रिभिर् अग्निचतुर्थकैः ॥
दुर्भिक्षे चाकुले भङ्गे ऋत्विजां चाप्य् असंभवे । एकश् चातुर्होत्रं कुर्याद् आपस्तम्बे प्रपठ्यते ॥
ऋत्विजां च७अप्य् असाम्निध्ये अध्वर्युस् तत् पठेत् स्वयम् । अस्थानपठिते कुर्युर् ऋत्विग् इत्यादि चोदितम् ॥
खाते लूने तु यच् चोक्तं संस्कारश्रुतिहेतुभिः । द्रव्याणां यज्ञक्ल्प्त्यर्थं कुर्यात् पूर्वेण संग्रहम् ॥
पात्रासादं द्वितीयं च प्रोक्षणेन विवर्जितम् । उभयोश् चैव कुर्वीत पाकयज्ञेष्टिकर्मवत् ॥
कृष्णाजिनं तिला दर्भा मन्त्रा आज्यं द्विजोत्तमाः । दोषो न विद्यते ह्य् एषां यथार्थं संनियोजयेत् ॥
आज्यं धूमहविर् ज्वाला परिपाकः स्फुलिङ्गकैः । दावाग्निकाष्ठसंस्पर्शे अग्नेर् दोषो न विद्यते ॥
जपाध्यायतपोदानैः सोपवासैः सहोमकैः । श्राद्धादिपितृकार्यैस् च न दोषः परिवेदने ॥
पितृभ्रातृसपत्नैश् च पतितोन्मत्तषण्ढकैः । जात्यन्धमूकबधिरैर् न दोषः परिवेदने ॥
अत्यन्तकामिना चैव पत्नीहीनेन चैव हि । एषाम् अनुज्ञाम् आदाय कुर्याद् वैतानिकी[ः] क्रियाः ॥
रौद्रराक्षसपैशाचान् आसुरांश् चाभिचारिकान् । मन्तांश् च पितृकर्मैवं कृत्वालभ्योदकं स्पृशेत् ॥
स्रुक् स्रुवश् च ध्रुवा खड्गं मुसलोलूखलं चरुः । उदकेनैव सोष्णेन संप्रक्षाल्य विशुध्यति ॥
पात्रं ग्रहाश् च चमसा हविः शूर्पं कुशासनम् । सोमस्पृष्टं च यद् भाण्डं वारिशौचेन शुध्यति ॥
वेदोक्तं सर्वमन्तोक्तं शौनकेन महात्मना । अवश्यं तद् द्विजैः कार्यं श्रेयस्कामैस् तु नित्यशः ॥
पात्रानां तु प्रसाङ्गेन यद् अन्यत् परिकीर्तितम् । सायं प्रातस् तु होमाङ्गं पुरा दृष्टं महर्षिभिः ॥
गुरुणा भाषितेनैव याज्ञिकानुमतेन च । सदापदिष्टद्रव्याणां लक्षणं परिकीर्तितम् ॥
नित्यं ये ऽनुस्मरिष्यन्ति यज्ञपात्रेषु लक्षणम् । राजसूयाश्वमेधाभ्यां फलं प्राप्स्यन्ति ते ध्रुवम् ॥
पिप्पलादेन महता समाख्यातम् इदं शुभम् । ब्राह्मणानां हितार्थाय पुत्रशिष्यहिताय च ॥
निष्कामो वा सकामो वा वेदोक्तं यः समाचरेत् । निष्कामस्य तु मुक्तिः स्यात् सकामः फलम् अश्नुते ॥
निष्कामेण तु यत् किं चित् कर्तव्यम् इति वैदिकम् । तत् सर्वं मुक्तिदं ज्ञेयं परापरपरं सुखम् ॥
न शोकस् तस्य नो व्याधिर् न मृत्युर् न जरा तथा । न क्षुधा न पिपासा च अमृतात्मा स तिष्ठति ॥ (परिशिष्ट २४. वेदिलक्षणम् [+ अग्निवर्णलक्षणम्])
ॐ अथ र्षिपुत्रिकायां तु स्फुतं सर्वेषु कर्मसु । लक्षणं ह्य् अग्निवर्णानां प्रवक्ष्यामि यथाक्रमम् ॥
वास्तुकर्मण्य् अथोत्पाते पतेर् नीराजने विधौ । सर्वनक्षत्रहोमेषु ग्रहातिथ्यविधौ तथा ॥
यात्रोद्याने विवाहेषु चूडोपनयनेषु च । सर्वेषु चाग्निहोमेषु वह्निवर्णान् निबोधत ॥
मानेनाध्यर्धशीर्सण्या त्रिमध्या षण्मुखा स्मृता । चतुरश्रा चकर्तव्या वेदिः शान्तीष्टिकर्मसु ॥
एषा वै विपरीता च कार्या घोरेषु कर्मसु । कर्मणाम् अनुरूपां तु वेदिं वक्ष्याम्य् अतः परम् ॥
यथावर्तनगोचर्मचक्रतल्पेषु संमिता । संमृज्य प्रोक्ष्य संस्तीर्य विधिवच् चोपशोभयेत् ॥
श्लक्ष्णाः समाहिताः सर्वाः प्रागुदक्प्रवणाः शुभाः । संमृज्य प्रोक्ष्य संस्तीर्य विधिवच् चोपशोभयेत् ॥
दक्षिणेन तु या वक्रा याज्ञिकं सा विनाशयेत् । या च वक्रोत्तरेण स्याद् यजमानं विनाशयेत् ॥
पुरस्तात् पृष्ठतो वापि मध्यतो विषमा च या । पुरम् अन्तःपुरं चापि नायकं च हिनस्ति सा ॥
एषा संक्षेपतः प्रोक्ता वेदिः सामान्यलक्षणा । विशेषतस् तु तेष्व् एव कर्मस्व् एवाभिधास्यते ॥
प्राचीं संशोधयेद् भूमिं यज्ञवास्तु यथोदितम् । समित्कुशाग्निवर्णानां लक्षणज्ञो भवेद् गुरुः ॥
ततस् तु यत्नवान् सम्यग् अग्नाव् उपसमाहिते । अग्निवर्णान् परीक्षेत यथोवाचोशनाः कविः ॥
शब्दं वर्णं च गन्धं च रूपं स्नेहं प्रभां गतिम् । स्पर्शं चापि परीक्षेत अग्नाव् इति विनिश्चयः ॥
स्वाहाकारावसाने तु स्वयम् उत्थाय पावकः । हविर् यात्राभिलषति तद् विद्याद् अर्थसिद्धये ॥
वृषवारणमेघौघनेमिदुन्दुभिनिःस्वनः । मृणालपद्मदूर्वाभकुमुदोत्पलगन्धमुक् ॥
तथा महात्मा स्तनयन् वाहकुम्भनिभद्युतिः । संहितज्वालनिकरः पावकः पापनाशनः ॥
कुरण्टाकृतिगोक्षीरहेमारुणतडित्प्रभः । प्रोत्फुल्लोत्पलकुन्देन्दुकुमुदाभोत्पलद्युतिः ॥
हुतो ऽपि संज्वलत्य् एव स्निग्धो विप्रस्य दक्षिणः । लेलिहानः प्रमुदितः कृष्णवर्णो ऽर्थसिधये ॥
विशालमूलो ह्य् अमलो नीलः पृथुलमध्यमः । प्रदीप्ताग्रो ऽमलततो ज्वालामालाकुलो ऽनलः ॥
प्रदक्षिणः प्रसन्नार्चिर् अर्चिष्मान् अर्चितद्युतिः । अर्चनीयश् च नृपतेर् अर्चितो हव्यवाहनः ॥
परिस्तरणयोगाच् च यज्ञकाण्डपरिच्छदम् । शान्तिवेश्मार्ध्वदीप्तार्चिर् ऋत्विजश् चानुलिम्पति ॥
प्रहसन्न् इव शब्देन द्योतयन्न् इव तेजसा । कृतपुण्यस्य नृपतेर् हूयमानो हुताशनः ॥
कर्मणो ऽवभृथे यस्य हविषो ऽन्ते च पार्थिवम् । सुगन्धाभिर् अधूमाभिः शिखाभिः संस्पृशन्न् इव ॥
अर्चिभिर् ज्वालभारैश् च प्रदहन् द्विषतां दिशः । विधूमः कुण्डली यः स्याद् अनुलोमश् च सिद्धये ॥
कुरण्टहेमारुणशङ्खकुन्दमुक्तावलीन्दुप्रतिमे हुताशे । समस्वने सिंहवृषैर् गजेन्द्रबलाहकौघस्वनदुन्दुभीनाम् ॥
विशालमूले पृथुले च मध्ये ज्ञेयानले संप्रति पीडिताग्रे । मृणालपद्मानिलतुल्यगन्धे त्रिसागरान्ता वसुधा नृपस्य ॥
आतप्तपद्मानिलतुल्यगन्धे त्रिसागरान्ता वसुधा नृपस्य । तस्यार्थबान्धववती सकला महीयं वीर्यांशुजालविवराहतराजशब्दा ॥
विभ्राजते त्व् अखिलरागयुतो हुताशो हस्तावृतं कथयतीव जयं नृपस्य । सूर्यांशुभिः कृतविघट्टनहेमपद्मकिंजल्कचूर्णनिकरारुणतामलांशुः ॥
क्षीरोदशुक्तिपुटगर्भविकीर्णमुक्तासंघातपाण्डुररजो रथनेमिघोषः । दाता नृपाय वसुधां तु हिमांशुमौलिज्योत्स्नाविकाशितसमुद्रजलां हुताशः ॥
लक्ष्मीप्रदोहरमृणालकपालशुभ्रस्निग्धानुवृत्तशिखरप्रकृतिश् च यत्र । वैश्वानरो ज्वलति यस्य विशुद्धमूर्तिः स प्राप्नुयान् नृपशताधिपतां नरेन्द्रः ॥
बालार्कबोधितसरोरुहगर्भगन्धस् तोयावलम्बिजलदस्तनिताभिरामः । राज्ञो ददाति वसुधां हुतभुग् गजेन्द्रदन्ताग्रकम्पितमहार्णववीचिवृक्षाम् ॥
यस्यां वसन्तरविमण्डलतुल्यबिम्बो वेद्यां नृपस्य परिपूर्णमरीचिजालः । तस्यानलाकलितसागरतोयवस्त्रा म्रागैक्षवेनिर् अवनिर् वशम् अभ्युपैति ॥
यस्यानलो ज्वलति काञ्चनतुल्यगौरो प्रज्वाल्यमानवपुर् उत्पलकोशगन्धः । आयाति तस्य भवनं ह्य् अलिदीप्तिमाला सव्रीडसूर्यकिरणा क्षितिपाललक्ष्मीर् इति ॥ (परिशिष्ट २५. कुण्डलक्षणम्)
ॐ शौनकं तु सुखासीनं भार्गवः परिपृच्छति । कुण्डं कस्मिन् भवेत् कीदृक् कस्यां वा दिशि किं फलम् ॥
स तस्मा उपसन्नाय आचष्टे भार्गवाय तु । कुण्डं यस्मिन् भवेद् यादृग् यस्यां वा दिशि यत् फलम् ॥
चतुरश्रं शफाकृत्या अर्धचन्द्रं त्रिकोणकम् । वर्तुलं पञ्चकोणं च पद्माभं सप्तकोणकम् ॥
कुण्डान्य् एतानि पूर्वादिदिक्षु अष्टसु विनिर्दिशेत् । दिग्देवतानां चाष्टानां कर्मणि स्वम्स्वम् आदिशेत् ॥
चतुरश्रं तु पूर्वस्याम् ऐन्द्रेष्व् अपि च कर्मसु । शफाकृति तदाग्नेय्याम् आग्नेयेष्व् अपि कर्मसु ॥
अर्धचन्द्रं तु याम्यायां याम्येष्व् अपि च कर्मसु । नैरृत्यां च त्रिकोणं स्याद् अभिचारविधौ शुभम् ॥
वारुण्यां वर्तुलं ज्ञेयं वारुण्येष्व् अपि कर्मसु । वायव्यां पञ्चकोणं तु वायव्येष्व् अपि कर्मन् ॥
उत्तरस्यां तु पद्माभं सौम्येष्व् अपि च कर्मसु । ऐशान्यां सप्तकोणं तु रौद्रेष्व् अपि यथोदितम् ॥
सर्वकर्मसु विज्ञेयं कुण्डं पद्मनिभं तु यत् । चतुरश्रं तु सर्वत्र समं स्याद् विजयावहम् ॥
सर्वशान्तिकरं कुण्डं पद्माकारं विशेषतः । शान्तिके चतुरश्रं च पौष्टिके वर्तुलं तथा ॥
अभिचारे त्रिकोणं च वश्यादौ चार्धचन्द्रकम् । षट्कोणं मारणादौ च विद्वेषे चाष्टकोणकम् ॥
मेखला सर्वकुण्डेषु द्वादशाङ्गुलम् इष्यते । चतुरङ्गुलमानेन पूर्वापूर्वसमुच्छ्रिता ॥
न चेत् पुरस्ताद् धीनं स्यात् सुखं यज्ञः समाप्यते । यत् तु दक्षिणतो ऽहीनं तद् राज्ञस् त्व् अभयप्रदम् ॥
यथाहीनं पश्चिमेन भवेत् तत् सिद्धिदं शुभम् । उत्तरेण समम्यत् स्यात् तद् राज्ञो राज्यवर्धनम् ॥
मध्ये समं च सुखदं दिग्विदिक्षु समं तु यत् । तद् राजजनसंपत्कृत् सर्वांश् चारीन् विनाशयेत् ॥
न चेत् पुरस्ताद् इत्यादि य एष कथितो विधिः । मण्डपानां गृहाणां च माने शान्तिकरः स्मृतः ॥
हस्तकुण्डं सदाहोमे अयुते द्विकरं स्मृतम् । लक्षहोमे चतुष्पाणि कोट्याम् अष्टकरं स्मृतम् ॥ (परिशिष्ट २६. समिल्लक्षणम्)
ॐ समिधां संप्रवक्ष्यामि प्रमाणं लक्षणं शुभम् । तथाशुभं च तत्त्वेन यथाफलविभागतः ॥
यज्ञकर्मणि कर्तव्या[ः] शान्तिके पौष्टिके तथा । प्रादेशमात्रीः समिधः प्रोक्ताः सर्वेषु कर्मसु ॥
तिर्यग् यवोदराण्य् अष्टाव् ऊर्ध्वा वा व्रीहयस् त्रयः । अङ्गुलस्य प्रमाणेन प्रादेशो द्वादशाङ्गुलः ॥
अत ऊर्ध्वं न कर्तव्या नापि ह्रस्वा न चोर्ध्वतः । न वक्रा चैव कर्तव्या नापि ग्रन्थिसमन्विता ॥
ऊर्ध्वतस् तु यतो वक्रा चित्रदद्रुविचर्चिकाः । करोति यागे क्षिप्रं तु तस्मात् तां परिवर्जयेत् ॥
द्विफला पिण्डवर्जापि त्रिफला वापि या भवेत् । षट्फला सप्तफला या चतुरङ्गं विनश्यति ॥
सपत्त्रपुष्पसमिधः कल्पयित्वा विचक्षणः । पौष्टिकं कर्म कुर्वीत सिध्यते नात्र संशयः ॥
पत्त्रपुष्पयुता यास् तु शान्तद्रुमसमुद्भवाः । समिधो गोष्ठमध्ये तु प्रशस्ताः परिकीर्तिताः ॥
[अथापरं प्रवक्ष्यामि समिधां चैव लक्षणम्] ॥
विशीर्णा द्विदला ह्रस्वा वक्रा चैव द्विधाग्रतः । कृशा च दीर्घा स्थूला च कर्मसिद्धिविनाशिनी ॥
[यद् यत्र लक्षणं प्रोक्तं यस्मिन् काले यथाविधि । तत्र तेनैव सिद्धिः स्याद् विपरीते तथा भयम्] ॥
समाहृतानां समिधां तासां चैव फलं शृणु ॥
विशीर्णायुःक्षयं कुर्याद् द्विदला रोगदा भवेत् । अभिमुखगतमात्रा सद्यो ह्रस्वा निवर्तयेत् ॥
दुर्भगं कुरुते वक्रा स्थानभ्रंशं द्विधाग्रतः । कृशा सर्वविनाशाय दीर्घा नाशयते श्रियम् ॥
स्थूला तु कुरुते विघ्नं सर्वकार्ये द्विजस्य तु । अतः प्रमाणं विविधं फलं चापि तथा शृणु ॥
लतापल्लवसंजाता द्वादशाङ्गुलकल्पिता । क्षीराक्ता शान्तिके होमे होतव्या तु विशेषतः ॥
केवलं मुक्तिसिद्ध्यर्थं घृताक्ता[म्] होमयेद्द्विजः । दशाङ्गुलप्रमाणां हि होमयेन् मन्त्रकर्मणि ॥
नवाङ्गुला तु कर्तव्या तैलाभ्यक्ताभिचारिके । अष्टाङ्गुला विभूत्यर्थे घृतदध्ना तु होमयेत् ॥
केवलं मधुसंयुक्ता सप्ताङ्गुलदलीकृता । उच्चाटने प्रशस्ता सा द्विदला च न शान्तये ॥
विद्वेषे कटुतैलाक्ता द्विदला तु षडङ्गुला । सर्वतो ग्रन्थिहीना तु विप्राणां स्यात् समिच् छुभा ॥
अवक्राग्रन्थिसंयुक्ता क्षत्रियाणां जयावहा । मध्ये तु ग्रन्थिसंयुक्ता वैश्यानां भूतिसाधनी ॥
त्रयाणाम् अपि वक्ष्यन्ते या ग्राह्याः समिधः स्मृतः । नात्यार्द्रा नातिशुष्का वा नैव चोषरसंभवाः ॥
न दग्धा न कृमिदष्टाः सर्वदोषविवर्जिताः । समिधाम् इन्धनानां च तुल्यान् वृक्षान् ब्रवीम्य् अतः ॥
शुषुकैर् या इन्धनैः पूर्वं यज्ञवृक्षमयैः शुभैः । आर्द्राणि होमयेच् चैव शुष्कैः कलहकर्मणि । शुष्काणि हीन्धनानि स्युः समिधस् तु यथोदिताः ॥
पुष्टिकामः पलाशस्य गृह्णीयाच् छान्तिकर्मणि उदुम्बरस्य वित्तार्थी वटाश्वत्थस्य राज्यधीः ॥
श्रीकामो बिल्ववृक्षस्य कदम्बस्य तथैव च । विद्वेषं कटुकैः कुर्यात् कण्टकैर् मरणं भवेत् ॥
ककुभं कटभं वृक्षं कौविरालं तु कौहकम् । वंशं विभीतकं शिग्रुं विद्याद् उच्चाटने हितान् ॥
स्तम्भने सर्वसैन्यानां विजयार्थे जयं दिशेत् । अपामार्गेण सौभाग्यम् आयुष्कामो हि दूर्वया ॥
पुन्नागचम्पकौ वृक्षा ये चान्ये क्षीरिणः शुभाः । यद् यत्र लक्षणं प्रोक्तं यस्मिन् काले यथाविधि ॥
तत्र तेनैव सिद्धिः स्याद् विपरीते तथा भयम् । अर्कः पलाशो मधुको न्यग्रोधोदुम्बरस् तथा ॥
प्लक्षो ऽश्वत्थो गोमयानिकुशाश् च समिधः क्रमात् । यथाक्रमेण समिध आदित्यादिग्रहेषु च ॥
शतं सहस्रं लक्षं वा गायत्र्या परमाहुतिः । हूयमानं तु यत् किं चित् कृतान्नं यदि वा तिलाः ॥
ग्रहनक्षत्रपीडायां सावित्र्यापि हुतं हुतम् । एषभेदो मयाख्यातः शुभस्य त्व् अशुभस्य च ॥
यथोक्तम् एतद् यः कुर्यात् स सर्वफलम् आप्नुयाद् इति ॥ (परिशिष्ट २७. स्रुवलक्षणम्)
ॐ सौवर्णराजतैस् ताम्रैः कांस्यैर् द्रौमैस् तथायसैः । स्रुवैः सर्वगुणोपेतैः कर्म कुर्याद् यथाक्रमम् ॥
सौवर्णै राजतैर् यज्ञे ताम्रैः शान्तिकपौष्टिके । कांस्येन रुधिरं मांसं नान्यज् जुहुवीत किं चन ॥
सर्वे यज्ञे प्रयोक्तव्या वर्जयित्वायसं स्रुवम् । आयसं खादिरं चैव अभिचारे प्रयोजयेत् ॥
अधुन्वंश् चैव जुहुयात् स्रुवेणास्फुटिताहुतिम् । धुन्वन् हि हन्ति पुत्रान् तु राक्षसा स्फुटिताहुतिः ॥
नान्यत् किं चिद् अभिध्यायेद् उद्धृत्यान्यत आहुतिम् । तद् दैवतम् अभिध्यायेद् आहुतिर् यस्य हूयते ॥
स्रुवे पूर्णे जपेन् मन्त्रम् उत्तानं शान्तिके करम् । शान्तिके पौष्टिके चैव वर्जयेत् तु कनीनिकाम् ॥
नातिदीर्घो नातिह्रस्वो नातिस्थूलः कृशस् तथा । अष्टाविंशत्यङ्गुलः स्यात् कनिष्ठाग्रप्रमाणतः ॥
दीर्घो हिनस्ति राजानं ह्रस्व र्त्विजं विनाशयेत् । स्थूलः सस्योपघाताय कृशः क्षयकरः स्मृतः ॥
गोपुच्छाग्राकृतिर् दण्डो मण्डलाग्र[म्] शिरो विदुः । अङ्गुष्ठाग्रप्रमाणेन निम्नं शिरसि खानयेत् ॥
एतल् लक्षणम् उद्दिष्टं स्रुवस्य फलभेदतः । गोपथेन यथाशास्त्रम् उद्धृतं श्रुतिचोदनात् । स्रुवेण कुरुते कर्म हस्तेनापि तथा शृणु ॥ (परिशिष्ट २८. हस्तलक्षणम्)
ॐ यदा जुहोति हस्तेन दक्षिणेनेतरेण वा । तदा वक्ष्ये विधिं तस्य श्रेयसी स्याद् यथाहुतिः ॥
यथा नश्यति चैवास्य कर्म गुह्यम् अजानतः । तथाहं संप्रवक्ष्यामि गोपथः पाठम् इच्छताम् ॥
कुशबल्बजमौञ्जां वा कृत्वा वेष्टिम् अनामिकाम् । होमकर्म ततः कुर्यात् स्पृष्ट्वा वामेन दक्षिणम् ॥
न रिक्तपाणिर् जुहुयान् नानिपातितजानुकः । अनिपातितजानोश् च हरन्त्य् आहुती राक्षसाः ॥
उद्धृत्य समिधो ऽन्नं वा पञ्चभिर् जुहुयाद् बुधः । शनैश् च निर्वपेद् अन्नं मध्ये ऽग्नौ सुसमाहितः ॥
गृहकर्मणि यज्ञे वा तथा पञ्चभिर् एव तु । शान्तिके पौष्टिके वैव वर्जयेत् तु कनीनिकाम् ॥
तिसृभिर् जुहुयाद् अन्नं न तिलान् नैव तण्डुलान् । यदाभिचारिकं किं चित् तस्मिन् काले प्रयोजयेत् ॥
वामेनाभिचारन् नित्यं त्रिभिर् अङ्गुलिभिः समैः । निर्दिष्टं तिसृभिः शूलं तेन शत्रुं निपातयेत् ॥
अपसव्येन हस्तेन सव्यं यदि जुहोति तत् । सव्येन चापसव्यं तु [सव्यं यदि जुहोति तत्] ॥
अभिचारस् तु तत् प्रोक्तः....षर्वशान्तिं गमिष्यति ॥ (परिशिष्ट २९. ज्वालालक्षणम्)
ॐ बृहस्पतिं सुखासीनम् आत्मविद्यापरायणम् । प्रणिपत्य महर्त्विजं नारदः परिपृच्छति ॥
कथयस्व महाप्राज्ञ सर्वशास्त्रविशारद । अशुभं यच् छुभं वापि लक्षणं पावकस्य तु ॥
स पृष्टस् तेन तत् सर्वम् आचचक्षे महामतिः ॥
हूयमानोयदा वह्निर् ऋजुज्वालः प्रदृश्यते । स्निग्धश् च किंशुकाभश् च सिद्धिस् तत्र विनिर्दिशेत् ॥
यत्र बालार्कवर्णाभः कर्मण्य् अग्निः प्रदृश्यते । शान्तिं लभेते तत्राशु यजमानपुरोहितौ ॥
अशोककुसुमाभो ऽपि काञ्चनाभस् तथैव च । शान्तिं करोत्य् आकालेन हूयमानो हुताशनः ॥
अधूमो ज्वलते क्षिप्रं कृत्वावर्तं प्रदक्षिणम् । तदा शान्तिं विजानीयाद् विपरीते तथा भयम् ॥
श्वसते गर्जते चैव विस्फुलिङ्गाः समन्ततः । प्रायश्चित्तिं तदाकुर्याद् यद् उक्तं कौशिकेन तु ॥
अथाप्य् आलिङ्गते भूमिं भ्रमते च समन्ततः । अशुभं कथयेत् तत्र होत्रे ऽसौ पावकः स्वयम् ॥
कपिलः पिङ्गलस् ताम्रो रक्तः काञ्चनसप्रभः । शुभकृत् पावको ज्ञेयो विपरीतो भयावहः ॥
यदाग्नौ लक्षणं किं चिद् अशुभं तु प्रदृश्यते । होता क्लेशम् अवाप्नोति शान्तिं तत्र प्रयोजयेत् ॥ (परिशिष्ट ३०. लघुलक्षहोमः)
ॐ शौनकं तु सुखासीनं गौतमः परिपृच्छति । लक्षहोमस्य यत् पुण्यम् आहुतीनां च देवताः ॥
तस्मै यथावद् आचष्टे शौनको ज्ञानलोचनः । शृणुष्वावहितो भूत्वा लक्षहोमं यथाविधि ॥
अग्न्यागारस्य या भूमिस् तां प्रवक्ष्याम्य् अशेषतः । शुद्धाक्षारा समा स्निग्धा या च पूर्वोत्तरप्लवा ॥
अभस्मास्थ्यङ्गारतूषा प्रशस्ता परिकीर्तिता । प्रमाणं बाहुमात्रं तु जङ्घामात्रं द्विरत्निकम् ॥
चतुरश्रं चतुष्कोणं तुल्यं सूत्रेण धारयेत् । ब्राह्मणा वेदसंपन्ना ब्रह्मकर्मसमाधयः ॥
उपोष्य चैकरात्रं च गायत्र्या अयुतं जपेत् । उपोष्य चैव गायत्र्या जपेयुर् अयुतं बुधाः ॥
ते शुक्लवाससः स्नाताः स्रग्भिर् गन्धैर् अलंकृताः । निराहारास् तथा दान्ताः संतुष्टाः सजितेन्द्रियाः ॥
कौशम् आसनम् आसीनाः प्रयुञ्ज्युर् होमम् उत्तमम् । उल्लिख्य चाद्भिर् अभ्युक्ष्य संस्कृत्य विधिपूर्वकम् ॥
अग्ने प्रैह्य् अग्निना रयिम् इत्य् उपस्थाप्य पावकम् । कुर्याद् उपसमाधाय समास् त्वाग्ने समाहितः ॥
लक्षहोम@@कुते पूर्णे धेनुं दद्यात् पयस्विनीम् । अनड्वान् काञ्चनं वस्त्रं तुष्येयुर् येन वा द्विजाः ॥
यवैस् तु विपुलान् भोगान् धान्यैर् आयुष्यम् एव च । तिलैर् हुत्वा तु तेजस्वी आयुः कीर्तिं च वर्धते ॥
आदित्यलोको ऽर्कमयी पालाशी सोम आप्यते । आश्वत्थी विष्णुलोकस्य ब्राह्म औदुम्बरी तथा ॥
अनेनैव विधानेन हूयते ऽत्र हुताशनः । हुत्वैतांश् चतुरो लक्षान् ब्रह्मलोकं स गच्छति ॥
यावज् जीवति कर्तासौ तावत् पुत्रान् धनं श्रियम् । पूर्णे काले विमानेन नीयते परमं पदम् ॥ (परिशिष्ट ३०ब्. बृहल्लक्षहोमः) (अव्परिस् ३०ब्,१.१) ॐ अथ काङ्कायनो भगवन्तम् अथर्वाणं पप्रच्छ ॥ भगवन् केन विधानेन कोटिहोमं लक्षहोमम् अयुतहोमं वा प्रारम्भमाणः कथम् ऋत्विजो वृणीते कथं च कुर्युस् तस्मै स होवाच ॥ (अव्परिस् ३०ब्,१.२) ब्राह्मणो वा राजा वा वैश्यो वा ग्रामो वा जनपदो वा श्रीकामः शान्तिकामः कोटिहोमं लक्षहोमम् अयुतहोमं वाहं करिष्यामीति तस्या समाप्तेर् भवद्भिर् अमांसाशिभिर् ब्रह्मचारिभिर् हविष्यभुग्भिर् भवितव्यम् (अव्परिस् ३०ब्,१.३) तैस् तथेति उक्तः कुण्डम् एकहस्तं द्विहस्तं चतुर्हस्तम् अष्टहस्तं वा [समस्तहस्तं वा दीर्घं वा] दशहस्तं खानयेत् तथा च बादरिः ॥ (अव्परिस् ३०ब्,१.४) लक्षहोमे तु कर्तव्यम् अष्टहस्तं न संशयः । द्विहस्तं वा प्रकुर्वीत चतुर्हस्तम् अथापि वा ॥ (अव्परिस् ३०ब्,१.५) कुण्डं वा दशहस्तं तु द्विविस्तारं तथोत्तरम् । न चेत् पुरस्ताद् धीनं स्यात् सुखं यज्ञः समाप्यते ॥ (अव्परिस् ३०ब्,१.६) अथ दक्षिणतो हीनं यजमानभयंकरम् । पश्चिमेन विहीनं स्याद् यज्ञस्यासिद्धिदं ध्रुवम् ॥ (अव्परिस् ३०ब्,१.७) उत्तरेण विनिर्दिष्टं राज्ञो राज्यहरं भृशम् । मध्ये विहीनं यद् कुण्डं प्रजाक्षयकरं विदुः ॥ (अव्परिस् ३०ब्,१.८) स्रक्तिहीनं तु यत् कुण्डं तद् अप्य् अशुभदं भवेत् । द्वादशाङ्गुलमानेन मेखलाक्षेत्रम् उच्यते ॥ (अव्परिस् ३०ब्,१.९) मेखलात्रयम् उद्धिष्टम् उभयं चतुरङ्गुलम् । चतुरङ्गुलमानेन पूर्वापूर्वसमुच्छ्रिता ॥ (अव्परिस् ३०ब्,१.१०) प्रथमा सात्त्विकी प्रोक्ता द्वितीया राजसी स्मृता । तृतीया तामसी ज्ञेया मेखला वृषभध्वजः ॥ (अव्परिस् ३०ब्,१.११) चतुर्दशाङ्गुलां तत्र योनिं कुर्वीत साधकः । अष्टाङ्गुलं भवेद् वृत्तं निर्वाहस् तु षडङ्गुलः ॥ (अव्परिस् ३०ब्,१.१२) गजोष्ठसदृशाकार प्राजापत्या च सा चिदुः । एवं कृत्वा विधानेन कुण्डं लक्षणलक्षितम् ॥ (अव्परिस् ३०ब्,१.१३) सर्वलक्षणसंपूर्णं सर्वतस् तु समाहितः । कुण्डं सिद्धिकरं ज्ञेयम् आयुःकीर्तिविवर्धनम् ॥ (अव्परिस् ३०ब्,१.१४) तस्माद् यत्नेन कुण्डं खात्वाद्भिर् अभ्युक्ष्य पुरस्ताद् अग्नेर् आदित्यादीन् ग्रहान् प्रतिष्ठाप्योत्तरतः कृत्तिकादीनि नक्षत्राणि स्वासु दिक्षु लोकपालान् सर्वासु कुण्डस्रक्तिष्व् अग्न्यादिदेवान् रतिष्ठाप्य (अव्परिस् ३०ब्,१.१५) तेषां प्रतिमन्त्रम् आवाहनादिकं कृत्वा विलीनपूतम् आज्यं गृहीत्वा स्रुवं स्रुचं च संमृज्य प्रतप्येध्मम् उपसमाधायान्वारब्धाय वास्तोष्पत्यादिभिश् चतुर्भिर् गणैः शान्त्युदकं कृत्वा ततः कर्तारम् आचामयति च संप्रोक्षति च ॥ (अव्परिस् ३०ब्,१.१६) अथ समिधो घृताक्तास् तिलान् वा स्वाहाकारवतीः संख्यावत्यो गायत्र्या महाव्याहृतिभिर् वा सर्व ऋत्विजो जुह्वति ॥ (अव्परिस् ३०ब्,१.१७) श्रीपर्णमिश्राः श्रीकामस्य शमीपर्णमिश्राः शान्तिकामस्य करीरसक्तुमिश्रा वृष्टिकामय्स बदरादिफलमिश्राः पशुकामस्य ॥ (अव्परिस् ३०ब्,२.१) अहरहः कर्मणो ऽपवर्गाद् अथ पूर्णायां कोट्यां लक्षे वायुते वान्वारब्धे यजमाने निशि महाभिषेकं कृत्वा वसोर् धारं जुह्वति ॥ (अव्परिस् ३०ब्,२.२) औदुम्बरीं स्रुचं शुरःप्रमाणां ब्राह्मणस्य ललातप्रमाणां क्षत्रियस्य स्कन्धप्रमाणां वैष्यस्याप्रमाणां जनपदस्य (अव्परिस् ३०ब्,२.३) तेषाम् अन्ते सरणार्थं निम्नं खानयित्वोष्णोदकेन प्रक्षाल्याज्यम् आनीय वसोर् धारां वैश्वानरं प्राप्नोति ॥ (अव्परिस् ३०ब्,२.४) तद् यद् आज्यधानीं च वैश्वानरं प्राप्नोति अथोच्चारयति ॥ (अव्परिस् ३०ब्,२.५) ओजश् च मे क्षत्रं च मे ये अग्नयो अमो देववधेभ्यो भवाशर्वौ मृडतं प्राणाय नम इति हुत्वा अर्घं प्रदाय वस्त्रं लोध्रं माल्यं फलादीनि भाजने कृत्वा नमस् ते अस्तु पश्यत इति स्वाहाकारेणाग्नौ प्रक्षिप्य यम्यं कामं कामयते सो ऽस्मै कामः समृध्यते ॥ (अव्परिस् ३०ब्,२.६) समृद्धिहोमादि समानं स्वस्त्ययनानि जपेत् पुण्याहं वाचयेद् गोभूतिलसुवर्णं वासश् च र्त्विग्भ्यः संप्रदाय प्रणिपत्य विसर्जयेत् ॥ (अव्परिस् ३०ब्,२.७) तस्मिन्न् अहनि व्यतीते यदि स्त्री माल्यहस्ता श्वेतचन्दनानिलिप्ता श्वेतपुष्पाण्य् आदाय प्रयच्छेद् गौरसर्षपान् पाण्याधारे वा गृहीत्वा प्रासादम् आरोहयेत् कुञ्जरं वा प्रमत्तम् अश्वं श्वेतं वा पर्वतं गोवृषं वा यानं युक्तं वाजिभिर् यद्य् आरोहेत् स्वप्नकाले समस्तसिद्धिं विद्यान् मनसो याम् अभीष्टाम् ॥ (अव्परिस् ३०ब्,२.८) तस्मात् तां रात्रीं प्रयतः स्वपेत् ॥ स्वप्नं दृष्ट्वा र्त्विग्भ्यो निवेदयेत् ॥ परो ऽपेहि यो न जीबो ऽसि विद्म ते स्वप्न यथा कलां यथा शफम् इति राजमुखम् अभिमन्त्र्य यथागतं गच्छेयुस् तद् अपि श्लोकाः ॥ (अव्परिस् ३०ब्,२.९) दिव्यान्तरिक्षभौमेषु अद्भुतेषु न संशयः । कोटिहोमं विदुः प्राज्ञा लक्षं वायुतम् एव वा ॥ (अव्परिस् ३०ब्,२.१०) अविज्ञातं च यत् पापं सहसा चैव यत् कृतम् । तत् सर्वं लक्षहोमस्य करणाद् धि विनश्यति ॥ (अव्परिस् ३०ब्,२.११) तस्मात् सर्वेषु कार्येषु शान्तिकेषु विशेषतः । यः कुर्यात् प्रयतो नित्यं न सो ऽनर्थान् समश्नुते ॥ (परिशिष्ट ३१. कोटिहोमः)
ॐ देवाश् च ऋषयश् चैव पीड्यमाना महासूरैः । मृत्युना व्याधिभिश् चैव ब्रह्माणम् इदम् अब्रुवन् ॥
कर्मणा केन देवेश मृत्युर् व्याधिश् च जीयते । ऐश्वर्यं प्राप्यते वापि स्थानं च परमं प्रभो ॥
एवम् उक्तो महातेजा ब्रह्मा लोकपितामहः । प्रत्युवाचेश्वरः सर्वान् विप्रान् देवगणैः सह ॥
शृणुध्वं प्रयताः सर्वे प्राप्यते येन कर्मणा । ऐश्वर्यम् आयुर् आरोग्यं पुत्रा विजय एव च ॥
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । ये जपन्ति सदा तेभ्यो न भयं विद्यते क्व चित् ॥
तया होमश् च कर्तव्यः सततं सिद्धिम् इच्छता । यवैस् तिलैः समिद्भिश् च व्रीहिभिः सर्षपैस् तथा ॥
अथ चेन् महतीं सिद्धिं प्रार्थयेध्वं सुरोत्तमाः । पुरोधसा कारयध्वं कोटिहोमं महाफलम् ॥
यादृशं कृतवान् पूर्वम् अथर्वा त्र्यम्बकस्य तु । तादृशेन विधानेन कोटिहोमः प्रयुज्यते ॥
महत्त्वं प्रार्थयमानः शर्वो ऽथर्वाणम् अब्रवीत् । कुरुष्व मम तत् कर्म महत्त्वं येन लभ्यते ॥
ऐश्वर्यम् आयुर् आरोग्यं स्थानं च परमं प्रभो । पुत्रा लक्ष्मीर् यशो मेधा बलं पौरुष्यम् एव च ॥
एवम् उक्तो महातेजा अथर्वा मन्त्रदर्शवित् । गायत्रीं तपसा युक्ताम् ऋचः पदम् इतीति ह ॥
[ऋचः पदं मात्रयेति मन्त्रे विज्ञायते हि सा ।] गायत्री वै त्रिपाद् ब्रह्म विश्वरूपा च संस्थिता ॥
प्राणदा सर्वभूतानां धारणी यापि नित्यशः । इति निश्चित्य मनसा कोटिहोमं प्रयोजयत् ॥
समिद्भिः शान्तवृक्षस्य गायत्र्या सुसमाहितः । ततो महत्त्वम् अगमद् ऐशर्यं परमं तथा ॥
महादेव इति चास्य नाम लोकेषु विश्रुतम् । उपद्रवाश् च ये के चिद् उपघातास् तथैव च । सर्वे ऽस्य प्रशमं याताः स्कन्दं पुत्रं च लब्धवान् ॥
ततः प्रीतस् तु भगवाञ् शंकरः पर्यपृच्छत । अथर्वाणं महाप्राज्ञं कोटिहोमस्य को विधिः ॥
चतुर्विंशाक्षरं ब्रह्म त्रिपादं लोकधारणम् । सावित्रं तेन होमो ऽयं कृतो मे कोटिसंमितः ॥
विधिं चास्य प्रवक्ष्यामि सर्वलोकहिताय वै । यत्प्रयोगाद् भवेच् छान्तिर् वृद्धिश् च परमा नृणाम् ॥
उपद्रवेषु भूतानाम् आपत्सु विविधासु च । कोटिहोमः प्रयोक्तव्यः केतूनां दर्शने तथा ॥
उपसर्गभये चैव परचक्रभये तथा । अनावृष्टिभये चैव कोटिहोमं प्रयोजयेत् ॥
आरम्भं तस्य कुर्वीत शुक्ले चापि तिथौ शुभे । मुहूर्ते विजये चैव तिथिछिद्राणि वर्जयेत् ॥
रोहिण्यां वैष्णवे त्वाष्ट्रे पौष्णे मैत्रोत्तरेषु च । अभिजित्पुष्यसौम्येषु कुर्यात् पुण्येषु वा बुधः ॥
अथ चेत् त्वरते कर्तुं कोटिहोमं महाफलम् । पुण्याहं वाचयित्वास्य आरम्भं कारयेद् बुधः ॥
अष्टहस्तं तु निर्दिष्टं कोटिहोमस्य खातकम् । तस्यैवार्धप्रमाणेन लक्षहोमे विधीयते ॥
त्रिरात्रोपोषितो ब्रह्मा कृत्वा शान्तिं चतुर्गणीम् । प्रोक्षयेत् कर्मसिद्ध्यर्थं वास्तु शान्त्युदकेन तु ॥
महाशान्तिविधानेन निर्मथ्याग्निं समाहितः । तावत् कुर्याद् बुधः सर्वं यावन् नो नैरृतं कृतम् ॥
ततः प्रभाते बहुश उद्धृत्याग्निं समाहितः । निर्मथ्य हावयेत् तत्र समिधो ब्राह्मणान् बहून् ॥
शतं सहस्रं कोटिं वा विंशतिर् दश वा द्विजाः । जुहुयुः शान्तवृक्षस्य समिधो घृतसंयुताः ॥
स्वयं वापि यजेद् ब्रह्मा सवितारं दिनेदिने । पाकयज्ञविधानेन मन्त्रश् चात्र विषासहिम् ॥
शान्तिकामो यवैः कुर्यात् तिलैः पापापनुत्तये । समिद्भिः सर्वकामस् तु बिल्वैः प्राप्नोति काञ्चनम् ॥
लभते श्रियम् अग्र्यां तु पद्मैस् तेजो घृतेन तु । दध्ना तु लभते पुत्रान् पयसा ब्रह्मवर्चसम् ॥
हविष्यभोजिनो दान्ताः शुक्लाम्बरधरास् तथा । हावका नियताः सर्वे भवेयुर् ब्रह्मचारिणः ॥
आरण्यम् उपयुञ्जानः पयसा वापि वर्तयेत् । फलाहारो ऽपि वा ब्रह्मा कोटिहोमं समाचरेत् ॥
प्रत्येकं चैव होतॄणां दातव्या दक्षिणा ततः । निष्को अश्वो गौर् वासश् च हिरण्यं वापि शक्तितः ॥
यश् चैवापि भवेद् ब्रह्मा प्रयोक्ता सर्वकर्मणाम् । सर्वस्वं तस्य देयं स्याद् धिरण्यं वापि तत्समम् ॥
कोटिहोमे समाप्ते तु यजेद् ग्रहगणान् बुधः । कारयेद् अमृतां चैव घृतकम्बलम् एव च ॥
कार्यामृता मृत्युभये घृतकम्बलसंयुता । परचक्रागमे त्व् ऐन्द्री घृतकम्बल[म्] एव च ॥
रौद्री सर्वाद्भुतोत्पत्तौ घृतकम्बलसंयुता । [सलिला सलिलक्षये घृतकम्बल एव च ॥]
घृतकम्बलपृष्ठा च सलिला सलिलक्षये । येनयेन तु कामेन कोटिहोमं प्रयोजयेत् ॥
आम्नातं तत्र यत् कर्म तद् अन्ते कारयेद् बुधः । एष एव विधिर् दृष्टो अभिचारे विधीयते ॥
प्रतिलोमयात्र होमः सावित्र्या तिलसर्षपैः । आरम्भं तस्य घोरेषु नक्षत्रेषु दिनेषु च ॥
कारयेत् कृष्णपक्षस्य तिथिछिद्रेषु सर्वदा । मघाश्लेषा तथा मूलं रेवत्य् आर्द्रा च सर्वदा ॥
दर्भार्थे तु शरान् कुर्याद् घृतार्थे तैलम् उच्यते । स्वाहाकारे तु फट्कारो वेण्याद्याः स्युश् चतुर्दश ॥
चाण्डालाग्नौ चिताग्नौ वा सूतिकाग्नाव् अथापि वा । हावयेद् घोरवृक्षाणां समिधस् तैलसंयुताः ॥
रक्तोष्णीषी रक्तवासाः कृष्णाम्बरधरो ऽपि वा । जुहुयाद् वामहस्तेन समिधो दक्षिणामुखः ॥
खादिराग्नौ मधूच्छिष्टे कृत्वा प्रतिकृतिं रिपोः । तापयेत् प्रतिलोमां तु सावित्रीं मनसा जपेत् ॥
कण्ठे शूलार्पितां कृत्वा तापयेत् तु दिनेदिने । यावच् छत्रुर् वशं याति विलीनायां विनश्यति ॥
एवंप्रोक्तविधानेन कोटिहोमस्य शंकरः । प्रीतिमान् उच्यते येन तच् छुभं भौतिकं ददौ ॥
अथर्वा भौतिकं लब्ध्वा शिष्येभ्यस् तत् पुनर् ददौ । शुभं मोक्षकरं पुण्यं प्रियं पशुपतेर् व्रतम् ॥
एतज् ज्ञात्वा तु यः सम्यक् कोटिहोमं प्रयोजयेत् । सर्वान् कामान् अवाप्नोति ब्रह्मलोकं स गच्छति ॥
यस् त्व् इमं श्रावयेद् विद्वान् पठते चैव सर्वदा । कोटिहोमफलं लब्ध्वा रुद्रलोके महीयते ॥
गोपथात् पाणिनेयाय मध्ये नॄणां प्रमोदिनाम् । हितार्थम् उद्धृतो ग्रन्थः कोटिहोमस् तु विश्रुतः ॥ (परिशिष्ट ३२. गणमाला) (अव्परिस् ३२,१) ॐ भूस् तत् सवितुः शं नो देवीः शान्ता द्यौः शं न इन्द्राग्नी शं नो वातो वातु उषा अप स्वसुस् तम इति शान्तिगणः ॥ (अव्परिस् ३२,२) कृत्याप्रतिहरणो दूष्या दूषिर् असि ईशानां त्वा समं ज्योतिर् उतो अस्य् अबन्धुकृद् ये पुरस्तात् सुपर्णस् त्वा यां ते चक्रुः प्रतीचीनफलो यद् दुष्कृतम् अयं प्रतिसरो यां कल्पयन्तीति कृत्याप्रतिहरणानि ॥ इति कृत्यागणः ॥ (अव्परिस् ३२,३) चातनः स्तुवानम् इदं हविर् ये ऽमावास्याम् उप प्रागान् निःसालाम् अरायक्षयणं शं नो देवी पृश्निपर्ण्य् आ पश्यति तान्त् सत्यौजास् त्वया पूर्वं पुरस्ताद् युक्तो अन्तर्दावे जुहुत प्राग्नये रक्षोहणम् इत्य् अनुवाकश् चातनानि ॥ इति चातनगणः ॥ (अव्परिस् ३२,४) मातृनामा दिव्यो गन्धर्व आ पश्यतीमं मे अग्ने यौ ते मातेति मातृनामानि ॥ इति मातृगणः ॥ (अव्परिस् ३२,५) वास्तोष्पतीय आशानाम् आशापालेभ्य इहैव ध्रुवाम् ऋधङ्मन्त्रो योनिम् उत पुत्रः पितरम् इन्द्रस्य गृहो ऽसीति चतस्रो दिवे स्वाहाशमवर्म मे पृथिव्यै श्रोत्रायेति धन्वानीति द्वे ऊर्जं बिभ्रद् इति षट्सत्यं बृहद् इत्य् अनुवाको वास्तोष्पतीयानि ॥ इति वास्तुगणः ॥ (अव्परिस् ३२,६) पाप्महा वि देवा जरसावृतम् अप नः शोशुचद् अघम् अव मा पाप्मन्न् इति पाप्महा ॥ इति पाप्महा गणः ॥ (अव्परिस् ३२,७) तक्मनाशनो जरायुजः प्रथमो यद् अग्निर् उद् अगातां दशवृक्ष मुञ्च क्षेत्रियात् त्वा हरिणस्य रघुष्यदो मुञ्चामि त्वा भवाशर्वौ मन्वे वां यो गिरिषु दिवे स्वाहाग्निस् तक्मानम् अग्नेर् इवास्याव मा पाप्मन्त् सृजाव ज्याम् इव वरणो वारयाता इमं यवं विद्रधस्य बलासस्य नमो रूरायेति द्वे शीर्षक्तिं शीर्षामयम् इति तक्मनाशनानि ॥ इति तक्मनाशनगणः ॥ (अव्परिस् ३२,८) दुःस्वप्ननाशनानि दौष्वप्न्यं दौर्जीवित्यं परो ऽपैहि यो न जीवो ऽसि पर्य् आवर्ते दुष्वप्न्याद् यत् स्वप्ने अन्नम् अश्नमि यो न स्तायद् दिप्सति यो नः सुप्तां जाग्रतो यन् मे मन्सो दुष्वप्न्यं काम स्वप्नं सुप्त्वा विद्म ते स्वप्नेति त्रयः पर्याया दुःस्वप्ननाशनानि ॥ इति दुःस्वप्ननाशनगणः ॥ (अव्परिस् ३२,९) आयुष्यो यथा द्यौः प्राणापानाव् ओजो ऽसि तुभ्यम् एवाक्षीभ्यां ते मुञ्चामि त्वोत देवा आवतस् त उप प्रियम् अन्तकाय मृत्यव आ रभस्व प्राणाय नमो विषासहिम् इत्य् आयुष्याणि ॥ इति आयुष्यगणः ॥ (अव्परिस् ३२,१०) वर्चस्यो ये त्रिषप्ता अस्मिन् वसु प्रातर् अग्निं हस्तिवर्चसं सिंहे व्याघ्रे यशो हविर् यशसं मेन्द्रो गिराव् अरगराटेषु यथा सोमः प्रातःसवने यच् च वर्चो अक्षेषु येन महानघ्न्या जघनम् इति वर्चस्यानि ॥ इति वर्चस्यगणः ॥ (अव्परिस् ३२,११) स्वस्त्ययनो अमूः पारे पातं न इन्द्रापूषणा त्वष्टा मे दैव्यं येन सोम नमो देववधेभ्यो ऽभयं मित्रावरुणाव् उप प्रागात् सहस्राक्षो ऽनमित्रं नो अधराद् यमोमृत्युर् बृहस्पतिर् नः परि पातु त्यम् ऊ षु त्रातारम् इन्द्रः सुत्रामा स सुत्रामा आ मन्द्रैर् इन्द्र मर्माणि ते वर्म मे द्यावापृथिवी ऐन्द्राग्नं वर्म गिरयस् ते यत् ते मध्यं यास् ते प्राचीर् मा नः पश्चाद् इति स्वस्त्ययनानि ॥ इति स्वस्त्ययनगणः ॥ (अव्परिस् ३२,१२) अभयः स्वस्तिदा विशां ब्राह्मणेन पर्युक्तासि न ता अर्वा रेणुककाटो अभयं मित्रावरुणाव् अभयं द्यावापृथिवी अस्मै ग्रामाय हतं तर्दं पूषेमा आशा इन्द्रः सुत्रामा मैतं पन्थां स्वस्तिदा विशां पतिर् नम ते घोषिणीभ्य आ ते राष्ट्रम् इदम् उच् छ्रेयो यत इन्द्र भयामह इत्य् अभयानि ॥ इत्य् अभयगणः ॥ (अव्परिस् ३२,१३) अपराजितो विद्मा शरस्य मा नो चिदन्न् अदारसृत् स्वस्तिदा संशितं मे त्वया मन्यो यस् ते मन्यो एता देवसेना अवमन्युर् निर्हस्तः परि वर्त्मान्य् अभिभूर् इन्द्रो जायत्य् अभि त्वेन्द्रेत्य् अपराजितानि ॥ इत्य् अपराजितगणः ॥ (अव्परिस् ३२,१४) शर्मवर्मा यः सपत्न इतश् च यद् अमुतश् चापेन्द्र द्विषतो यूयं नः प्रवत इमम् अग्न आयुषे तिस्रो देवीर् उरुव्यचा नो इन्द्रस्य शर्मासीति उत्तमां वर्जयित्वा येन देवा असुराणाम् अनडुद्भ्यस् त्वम् इति द्वे तनूष् टे वाजिन् वाजस्य नु प्रसवे देवानां पत्नीर् अधि ब्रूहि रक्षोहणं वाजिनं ये स्राक्त्यं वर्म मे द्यावापृठिवी ऐन्द्राग्नं वर्म बहुलं वर्म मह्यम् अयं मित्रः पृथिव्योद् अक्रामद् अस्पत्नं पुरस्ताद् इति शर्मवर्मा ॥ इति शर्मवर्मा गणः ॥ (अव्परिस् ३२,१५) देवपुरा ये पुरस्ताद् ब्रह्म जज्ञानं सहस्रधार एवाग्निर् मा पातु अग्निं ते वसुवन्तं मित्रः पृथिव्योद् अक्रामद् अप न्य् अधुः पौरुषेयं वधं जितम् अस्माकम् इति देवपुरीयः ॥ इति देवपुरीयगणः ॥ (अव्परिस् ३२,१६) रुद्रो ये ऽस्यां प्राची दिग् इतिरुद्रगणः ॥ इति रुद्रगणः ॥ (अव्परिस् ३२,१७) रौद्रो रुद्र जलाषभेषज ये ऽस्यां प्राची दिग् उद् इतस् त्रयो अक्रमन् भवाशर्वौ मन्वे वां ब्रह्म जज्ञानम् अनाप्ता ये सहस्रधार एव ग्रीष्मो हेमन्तो अनडुद्भ्यस् त्वं मह्यम् आपो वैश्वानरो यमो मृत्युर् यां ते रुद्र यो अग्नौ रुद्रो भवाशर्वौ मृडतं भवाशर्वाव् इदं ब्रूमो यस् ते सर्पो वृश्चिकस् तस्मै प्राच्या दिशो अन्तर्देशाद् इति रौद्रगणः ॥ इति रौद्रगणः ॥ (अव्परिस् ३२,१८) चित्रागणो मा नो विदन्न् अदारसृत् स्वस्तिदा विशाम् अमूहोआरे अघद्विष्टा अग्ने यत् ते तप इति पञ्च सूक्तानि रुद्र जलाषभेषज ये ऽस्यां प्राची दिग् वि देवा उत देवा अग्नेर् मन्व इतिप्रभृतीनि मृगारसूक्तान्य् उत्तमं वर्जयित्वाप नः शोशुचद् अघं पृथिव्याम् अग्नये ममाग्ने व्रह्म जज्ञानम् अनाप्ता ये सहस्रधारे सविता प्रसवानां नव प्राणान् पातं नस् त्वष्टा मे येन सोम नमो देववधेभ्यो ऽभयं मित्रावरुणाव् उप प्रागात् सहस्राक्षः सिंहे व्याघ्रे ऽभयं द्यावापृथिवी ग्रीष्मो हेमन्तो ऽनडुद्भ्यस् त्वं मह्यम् आपो वैश्वानरो यमो मृत्युर् अभि त्वेन्द्र विश्वजित् त्रायमाणायै इमं मे अग्ने विषाणा पाशान् शकधूमं सोमारुद्रेति द्वे बृहस्पतिर् नस् त्यम् ऊ षु त्रातारम् इन्द्रः सुत्रामा आ मन्द्रैर् इन्द्र मर्माणि ते अन्तकाय मृत्यवा आ रभस्वायं प्रतिसरो ऽयं मे वरणो भवाशर्वौ मृडतं प्राणाय नमो ऽग्निं ब्रूम इत्य् अर्थसूक्तं सत्यं बृहद् इति द्वे प्रथमे गिरयस् ते यत् ते मध्यं यास् ते प्राचीर् मा नः पश्चाद् ग्रीष्मस् ते भूमे वर्षाण्य् उपस्थास् ते भूमे मातः सहस्रशृङ्गो वृषभो जातवेदा मा प्र गाम पथो यो यज्ञस्य तस्मै प्राच्या दिशो अन्तर्देशाद् इति पर्यायश् चित्रागणः ॥ इति चित्रागणः ॥ (अव्परिस् ३२,१९) पत्नीवन्तो अदितिर् द्यौः सिनीवालि कुहूं देवीम् इति त्रीणि सूक्तानि पत्नीवन्तः ॥ इति पत्नीवन्तगणः ॥ (अव्परिस् ३२,१९ब्) स्वस्ति मात्र इन्द्र जुषस्वाया विष्ठा शिवे ते स्तां पादाभ्यां ते सं ते शिर्ष्णो वत्सो विराज इत्य् एका उच्चा पतन्तम् इति द्वे भूयान् इन्द्रो विषासहिं सहमानम् इत्य् आदित्यगणः ॥ (अव्परिस् ३२,२०) शं नो देवी शं न इन्द्राग्नी शं नो वातो वातु शान्ता द्यौः पिप्पलादिशान्तिगणः ॥ इति पिप्पला[दि]शान्तिगणः ॥ (अव्परिस् ३२,२१) गने यद् इति पञ्च सूक्तानि पञ्चापत्यानि भवन्ति पाञ्चजन्यानि भवन्ति पाञ्चापत्यो गणः ॥ इति पञ्चापत्यगणः ॥ (अव्परिस् ३२,२२) अम्बयो यन्ति शम्भुमयोभुभ्यां ब्रह्म जज्ञानम् अस्य वामस्य यो रोहित उद् अस्य क्र्तवो मूर्धाहम् इति द्वे सूक्ते विषासहिम् इति सलिलगणः ॥ इति सलिलगणः ॥ (अव्परिस् ३२,२३) ये त्रिषप्ता इति विश्वकर्मा गणः ॥ (अव्परिस् ३२,२४) अघद्विष्टा देवजाता शं नो देवी वरणो वारया[तै] पिप्पली विद्रधस्य या बभ्रव इति गणकर्मा गणो भैसज्यश् च भवति ॥ इति भैषज्यगणः ॥ (अव्परिस् ३२,२५) अयं ते योनिर् आ नो भर धीती वा य इत्य् अर्थसूक्तम् उत्थापनो गणः ॥ इत्य् उत्थापनगणः ॥ (अव्परिस् ३२,२६) अम्बयो यन्ति शम्भुमयोभू हिरण्यवर्णा निःसालां ये अग्नयो ब्रह्म जज्ञानम् इत्य् एकैत देवा मृगारसूक्तान्य् उत्तमं वर्जयित्वाप नः शोशुचद् अघं पुनन्तु मा सस्रुषीर् हिमवतः प्र स्रवन्ति वायोग् पूतः पवित्रेण शं च नो मयश् च नो ऽनडुद्भ्यस् त्वं मह्यम् आपो वैश्वानरो रश्मिभिर् यमो मृत्युर् विश्वजित् संज्ञानं नो यद्य् अन्तरिक्षे पुनर् मैत्व् इन्द्रियं शिवा नः शं नो वातो वातु अग्निं ब्रूमो वनस्पतीन् इति शान्तिगणः ॥ इति सर्वैः सूक्तैः कौशिकोक्तबृहच्छान्तिगणः ॥ (अव्परिस् ३२,२७) अम्बयो यन्ति शम्भुमयोभू हिरण्यवर्णा उत देवा यद्य् अन्तरिक्षे पुनर् नैत्व् इन्द्रियं शिवा नः शं नो वातो वात्व् अग्निं ब्रूमो वनस्पतीन् इति शान्तातीयो लघुशान्तिगणः ॥ (अव्परिस् ३२,२८) ये त्रिषप्ता ममाग्ने वर्चः प्रातर् अग्निं गिराव् अरगराटेषु दिवस् पृथिव्या हस्तिवर्चसं सिंहे व्याघ्रे यशो हविर् यस् ते गन्ध इति तिसृभिर् वर्चस्यगणः ॥ (अव्परिस् ३२,२९) या असुरा मनुष्या मा नो विदन् नमो देववधेभ्य इत्य् अभयगणः ॥ (अव्परिस् ३२,३०) भूतो भूतेष्व् इति राजानम् अभिषेकगणः ॥ (अव्परिस् ३२,३१) [य] आशानाम् आशापालेभ्यो अग्नेर् मन्व इति सप्त सूक्तानि या ओषधयः सोमराज्ञीर् वैश्वानरो न आ गमच् छुम्भनी द्यावापृथिवी यद् अर्वाची[न]म् अग्निं ब्रूमो वनस्पतीन् इति मुञ्चन्तु ना भवाशार्वा या देवीर् यन् मातली रथक्रीतम् इत्य् एताश् चतस्रो वर्जयित्वा अंहोलिङ्गगणः ॥ (परिशिष्ट ३३. घृतकम्बलम्)
ॐ ब्रह्मणे ब्रह्मवेदाय नमस्कृत्वा स्वयंभुवे । घृतकम्बलं प्रवक्ष्यामि ब्रह्मणो निगदो यथा ॥
बृहस्पतिर् महेन्द्राय चकार घृतकम्बलम् ॥
अथेन्द्रो ह वा असुरैः पराजितश् चिन्ताम् आपेदे
तं सविताब्रवीत् प्रायश्चित्तं कुरुष्वाप्रतिरुद्धो भविष्यसीति
तम् इन्द्रो ऽब्रवीत् ॥ भगवन् त्वम् एवाप्रतिरुद्धः प्रायश्चित्तं कुर्व् इति ॥
स प्रायश्चित्तम् अकरोत्
पुण्ये नक्षत्रे बार्हस्पत्ये मुहूर्ते ऽभिजित्य् औदुम्बरं कुम्भं द्रोणेन साढकेन पूरयित्वा तस्मिन्न् एव वासप्रभृतयः ओषधयो दर्भप्रभृतयश् च बिल्वगौरसर्षपाश् चेत्य् एतान् संभारान् संभृत्य घृतकुम्भं बर्हिष्य् आधायैतैर् गणैर् आज्यं जुहुयात् ॥
प्र पतेत इत्य् एकेनाङ्गादङ्गाच् छमलम् अवलिख्य सपत्नं भ्रातृव्यं हृदये इमर्मणि वासिनाविध्य गोमयेन काषायेण वाच्छाद्य शान्तेर् अप्रतिघातकं कर्म ततो ज्येष्ठं घृतकम्बलं ब्रह्मणः पुत्रम् अकरोत्
तस्य ह वा एतस्य घृतकम्बलस्य सावित्रीगणशरीरस्य शन्तातीयः शिरः त्रिषप्तीयो मुखं रुद्ररौद्रौ चक्षुषी घृतलिङ्ग आस्यं नैरृतो जिह्वा दन्तोष्ठाव् अभयापराजितौ कृत्यादूषणचातनौ श्रोत्रे शर्मवर्मस्वस्त्ययनौ बाहू मातृनामवाष्टोष्पत्यौ पादौ....पायुश् च भैषज्यं न्यायः प्राणापानाव् इति मीमांसत इत्य्
एष ह वै ज्येष्ठो घृतकम्बलो ब्रह्मणः पुत्रो ऽपराजितगणेनेष्ट्वेन्द्रो ऽसुरान् अजयन् मृत्युम् अलक्ष्मीम् अरातिं दुःस्वप्नदुर्भूतान्य् अजयद्
यथा चैवंविद्वान् घृतकम्बलं कुरुते सर्वकामान् आप्नोति सर्वव्याधिरहितो भवति ब्रह्मलोकम् अवाप्नोतीति ब्राह्मणम् ॥
यदा सर्वम् इदं व्याप्तम् असुरैर् नावशेषितम् । स्थातुं देवाः पराभूतास् ते ऽथर्वाणम् उपागताः ॥
कर्माद्य् एकं कुरुष्व त्वं यद् भृग्वङ्गिरसोर् मतम् । असुराणां वधार्थायेत्य् उक्तः कर्ताथ सो ऽभवत् ॥
परचक्रोपसृष्टस्य राज्ञो विजयम् इच्छतः । प्रतिरुद्धस्य वा भूयः श्रीकामस्येच्छतः श्रियम् ॥
प्रादुर्भावाद्भुतानां च ग्रहाणां विग्रहे तथा । शङ्कमानो ऽभिचाराद् वा कारयेद् घृतकम्बलम् ॥
घृतमात्रा तु विज्ञेया मागधप्रस्थसंमिता । शतानि पञ्च द्रोणानां पलैकशतम् एव वा ॥
[सर्वपापप्रणाशाय सर्वकामार्थसिद्धये । सर्वरोगक्षयार्थाय प्रयोज्यो घृतकम्बलः] ॥
घृतप्रमाणं वक्ष्यामि माषकं पञ्चकृष्णलम् । माषकाणि चतुह्षष्टिः पलम् एकं विधीयते ॥
द्वात्रिंशत्पलकं प्रस्थं मागधैः परिकीर्तितम् । आढकं तु चतुःप्रस्थं चतुर्भिर् द्रोणम् आढकैः ॥
द्रोणप्रमाणं विज्ञेयं ब्रह्मणा निर्मितं पुरा । द्वादशाभ्यधिकैर् नित्यं पलानां पञ्चभिः शतैः ॥
[घृतमात्रा तु विज्ञेया मागधप्रस्थसंमिता । शतानि पञ्च द्रोणानां पलानां वा शतोत्तरे] ॥
घृतद्रोणशतेनोक्त एको द्रोणवरस् तथा । यथाशक्ति प्रयुञ्जीत घृतं कृत्वाथ भागशः ॥
चतुर्भागो ऽभिषेकाय चतुर्भागस् तु हूयते । भागो देयः सदस्येभ्यः कर्ता भागेन युज्यते ॥
पुष्ये प्रयोगं कुर्वीत प्राजापत्ये ऽथ मारुते । वैष्णवे पूषदैवत्ये उत्तरेष्व् अथ वा त्रिषु ॥
तप्तकृछ्रावसाने वा सर्वकृछ्रस्य चान्ततः । यस्मिन् वा स्नातका ब्रूयुस् तत्र कुर्याद् विचक्षणः ॥
पाकयज्ञविधानेन कृत्वोपक्रमणं बुधः । निशाकाले बहिर्ग्रामे कुर्याद् अग्निनिवेशनम् ॥
यजेत निरृतिं तत्र कृष्णवासाश् चतुष्पथे । यथोक्तं नैरृतैर् मन्त्रैर् हविर्भिश् च यथाक्रमम् ॥
तृतीयेन तु सूक्तेन निवेद्य बलिम् अन्ततः । यथाव्यावर्तने चैव यद् उक्तं तत् समाचरेत् ॥
ततः स्नातः शुक्लवासाः प्राश्य शान्त्युदकं शुचिः । पर्युक्ष्योपसमाधाय घृतसंस्कार इष्यते ॥
पूर्वं महाव्याहृतिभिः सावित्र्या तदनन्तरम् । शान्तिश् च ब्रह्म जज्ञानं ब्रह्म भ्राजद् इतीति च ॥
अग्ने गोभिर् अग्ने ऽभ्यावर्तिन्न् अग्ने जातवेदः सह रय्या पुनर् ऊर्जेति ॥
अग्निम् ईले पुरोहितम् अग्न आ याहि वीतये । बृहस्पतिर् न इत्य् एका बृहस्पते युवं तथा ॥
एतैर् आज्यं च जुहुयात् संपातान् आनयेद् घृते । कृत्यादूषणमन्त्रैश् च कुर्याच् छान्त्युदके विधिम् ॥
संपातान् आनयेत् तत्र चातनैर् मातृनामभिः । वास्तोष्पत्यैर् वाष्टोष्पताव् आनयेत् समदूषणम् ॥
निधाय हविर् आसाद्य घृतकुम्भं सुसंस्कृतम् । घृतभागौ तु याव् अन्यौ पूर्वेणाग्नेर् निधापयेत् ॥
दर्भादीन् तु वासादींश् च संभारान् गौरसर्षपान् । बिल्वं च कुम्भे निधायापरेणाग्नेर् निधापयेत् ॥
सावित्रः शन्तातीयश् च कृत्यादूषण एव च । अभयापराजितायुष्या वर्चस्यश् च ततः परः ॥
संसक्तीयः सुषुप्तीयः स्वस्त्ययनः शर्मवर्म च । चातनो मातृनामानि भैषज्यं न्याय एव च ॥
घृतलिङ्गौ तथा रौद्रौ संपातान् आनयेद् घृते । गणान्तेषु यथाशक्ति ब्राह्मणान् स्वस्तिवाचयेत् ॥
यो ऽस्मिन्न् अक्षीभ्यां ते सहस्राक्षं ब्रह्म जज्ञानम् । ब्रह्म भ्राजद् उद् अगाद् इदम् आपस् तथापश् च ॥
अभिषिञ्चेत् सर्वमन्त्रैर् आयुष्यैर् अभयैस् तथा । मृण्मयश् चात्र भवति द्वेष्यस्य च पराकृतिः ॥
अभिषिञ्चेत् सर्वमन्त्रैर् आयुष्यैर् अभयैस् तथा । मृण्मयश् चात्र भवति द्वेष्यस्य च पराकृतिः ॥
तस्योपरिष्टाद् अभिषिच्य कुर्यान् मात्रातलेखनीम् । अङ्गादङ्गाद् अथान्येन प्र पतेति चतसृभिः ॥
भ्रातृव्यहम् इति वैश्वानरोयन्त्य् अवसानेन । द्यावादिना पर्यायेण समलंकृटम् उल्लिखेत् ॥
द्विषन्तं मे परावद् वि द्विषन्तं निर् दहन्तु मे । भ्रातृव्यतान् इति द्वाभ्यां पर्यायाश् च त्रयः पराः ॥
अन्वालभ्य तु कर्तारम् उपविष्ट उदङ्मुखः । स्वप्नतक्माष्टनयनैः सौभाग्यैर् वर्मभिस् तथा ॥
रुद्ररौद्रपरैर् मन्त्रैर् आज्यहोमो विधीयते । स्राक्त्यं वा यदि वाश्वत्थम् औदुम्बरम् अथापि वा ॥
शङ्खं च मणिम् आबध्य प्रतिसरैर् अभिमन्त्रयेत् । अन्वारभ्याभिषेकं तु रौद्राभ्यां जुहुयात् ततः ॥
यत् ते वास [इति] परिधानं यथोक्तं परिधापयेत् । रोचना गुग्गुलु घृतम् अभ्यञ्जनम् अथाञ्जनम् ॥
तत एतैर् अलंकृत्य ईक्षयेतादर्षे मुखम् । दश गा दक्षिणां दद्याद् वृषभं घृतम् एव च ॥
ब्राह्मणान् स्वस्तिवाच्याथ प्राङ्मुखः संविशेत् ततः । रक्षोहणम् [इत्य्] अनुवाकं जपेत् कर्ताथ ऋत्विजः ॥
शर्मवर्मैतद् उक्तं स्नातस्य रक्षोभ्यो ऽभयंकरम् इति ॥
न राक्षसा न गन्धर्वा न पिशाचा न चासुराः । क्रूराः पुरुषमर्मज्ञा न हिंसन्ति घृतार्चितम् ॥
सिद्धाभिषेको नैशश् च घृतकम्बलम् एव च । लक्षः पुष्याभिषेकश् च प्रधानावभृतस् तथा ॥
महाशान्तित्रयस्त्रिंशत् तत्र षट् प्रस्तरैः सह । नियतान्येवदृछाया कर्तव्या भूतिम् इच्छता ॥ (परिशिष्ट ३४. अनुलोमकल्पः)
ॐ नमो ऽथर्ववेदाय ॥
अक्षरानि विलोमानि न स्वरं प्रतिलोमयेत् । प्रत्यारम्भनिघातेषु स्थानान्य् अन्यानि निर्दिशेत् ॥
यकारस् तु तकारान्तो अन्त्यस्वरितसंज्ञितः । स तूदात्तः स एवादौ दकारः शिष्यते गुरुः ॥
दकारात् स्वर्यते नीचम् उपोदात्ते प्र योजयेत् । अन्यानि तु यथापूर्वम् उदात्तप्रचितानि तु ॥
प्रथमो ऽष्टाक्षरो ऽर्धर्चो द्वितीयः षोडशाक्षरः । आदाव् अन्ते च विज्ञेया व्याहृतिश् चाप्य् अथर्वणाम् ॥
रक्तवर्णा विलोमा च यमेन परिकीर्तिता । सर्वशत्रुविनाशाय सर्वकर्मार्थसिद्धये ॥
मृत्युश् च देवता चास्या निछन्नं छन्द उच्यते । स्वाहाकारे तु फट्कारः कोटिहोमे विधिः स्मृतः ॥
अनुलोमां विलोमां वा गायत्रीं यः पठेत् सदा । सर्वार्थास् तस्य सिध्यन्ति न चानर्थान् समश्नुते ॥
त् या द चो प्र नः यो यो धि ॥ हि म धी स्य व दे र्गो भ यम् णी रे र्व तु वि त्स त त् ॥ (परिशिष्ट ३५. आसुरीकल्पः)
ॐ कटुके कटुकपत्त्रे सुभगे आसुरि रक्ते रक्तवाससे । अथर्वणस्य दुहिते अघोरे अघोरकर्मकारिके ॥
अमुकं हनहन दहदह पचपच मथमथ । तावद् दह तावत् पच यावन् मे वशम् आनयसि स्वाहा ॥
शय्यावस्थितायास् तावज् जपेद् यावत् स्वपिति ॥ प्रस्थिताया गतिं दह स्वाहा ॥ उपविष्टाया भगं दह स्वाहा ॥ सुप्ताया मनो दह स्वाहा प्रबुद्धाया गृदयं दह स्वाहेति ॥
अथात आसुरीकल्पम् उपदेशाद् अथर्वणः । नास्यास् तिथिर् न नक्षत्रं नोपवासो विधीयते ॥
घृतादिद्रव्यसर्वेषु आसुरी शतजापिता । पत्त्राद्यवयवश् चास्या जिकैषा चानुयायिनी ॥
हन्तुकामो हि शत्रूंश् च वशीकुर्वंश् च भूपतीन् । आसुरीश्लक्ष्णपिष्टाज्यं जुहुयाद् आकृतिं बुधः ॥
अर्केन्धनाग्निं प्रज्वाल्य छित्त्वास्त्रेणाकृतिं तु ताम् । पादाग्रतो ऽष्टसहस्रं जुहुयाद् यस्य वश्य् असौ ॥
घृताक्तया स्त्री वशिनी पालाशाग्नौ द्विजोत्तमाः । गुडाक्तया क्षत्रियास् तु वैश्यास् तु दधिमिश्रया ॥
शूद्रास् तु लवणमिश्रै राजिकां पिष्टयेद् बुधः । आ सप्ताहात् सर्व एते आसुरीहोमतो वशाः ॥
कटुतैलेन त्रिसंध्यं कुलोच्छेदं करोति हि । शुनां तु लोमभिः सार्धम् अपस्मारी त्रिभिर् दिनैः ॥
निवृत्तिः क्षीरमध्वाज्यैर् लवणेन तु सज्वरी । अर्कैधःसमिदग्नौ तु कार्यो विस्फोटसंभवः ॥
तेषाम् उपशमं विद्यात् सुराश्वर्या घृतेन च । अर्कक्षीराक्तयाऋकाग्नाव् अक्षिणी स्फोटयेद् द्विषः ॥
गतासुमांसं तस्यैव निर्माल्यं चितिभस्म च । एषां चूर्णेन संस्पृष्टो हास्यशीलो ऽभिजायते ॥
अजाक्षीराक्तया होमात् तस्य मोक्षो विधीयते । तगरं कुष्ठमांसी च तस्याः पत्त्राणि चैव हि ॥
एतैः श्लक्ष्णैस् तु संस्पृष्टः पृष्ठतः परिधावति । तस्याः फलानि मूलानि सुरभीहस्तिमेदसा ॥
सूक्ष्मात् तद्द्रव्यसंस्पर्शाद् अनुधावत्य् अचेतसः । अछिद्रपत्त्राण्य् असित उशीरः सर्षपास् तथा ॥
एतच्शूर्णात् पूर्वफलं घृते चैवापराजयः ॥
कुसुमानि मनह्शिलाप्रियङ्गुतगराणि च । गजेन्द्रमदसंयुक्तं किं कुर्वाणस् त्व् अकृद् वरम् ॥
याश् च स्त्रियो ऽभिगच्छन्ति ता वशाः पदालेपतः । सपुष्पां तां समादाय अञ्जनं नागकेशरम् ॥
अनेनाक्ताभ्याम् अक्षिभ्यां यम्यं पश्येत् स किंकरः । अञ्जनं तगरं कुष्ठं देवीजं काष्ठम् एव च ॥
माण्सी च सर्वभूतानां सौभाग्यस्य तु कारणम् । तत्समिधां लक्षहोमान् निधानं पश्यते महत् ॥
सर्पिर्दधिमध्वक्तपत्त्राणां वृद्धपुत्री सहस्रतः । राज्यं तु लभते वश्यं तत्पत्त्रत्रिसहस्रतः ॥
स्वर्णसहस्रस्याप्तिस् तु तत्पुष्पाणां तु लक्षतः । सहस्रजापाच् च तद्वद् उदके क्षीरभक्षिणः ॥
वारिपूर्णे ऽथ कलशे लोकेशीपल्लवान् क्षिपेत् । स्नानाद् अलक्ष्म्या मुच्येत सौवर्णकलशे ऽपि तु ॥
विनायकेभ्यः स्नानतो दौर्भाग्याच् चैव दुर्भगात् । पृष्ठतश् चानुधावन्ति संस्पृष्ट उदकेन तु ॥
उशीरं तगरं कुष्ठं मुस्ता तत्पत्त्रसर्षपाः । चूर्णेनाभिहतस् तूर्णम् ईश्वरो ऽपि वशो भवेत् ॥
तुलसीभूमहादेवीचूर्णस्पृष्टस् तथा वशी । राजाभयं सुरेश्वरीमार्जनाद् भारणात् तथा ॥
न स्यात् तस्याद्भुतं किं चिन् न क्षुद्रोपद्रवस् तथा । नानैश्वर्यं नाप्रजत्वं यस्य देव्य् आसुरी गृहे ॥ (परिशिष्ट ३६. उच्छुष्मकल्पः)
ॐ नम उच्छुष्मेभ्यः
....शिखां देवीं प्रपद्ये शंकरायणीं । सर्वार्थसाधनीं विभ्वीं सर्वेशीं ब्रह्मचारिणीम् ॥
ते इष्टकाकारकरालम् अतिचतुर्मुखम् ॥ चतुर्विधैस् तु रूपं ध्यानम् ॥
शिवे जटिले ब्रह्मचारिणि स्तम्भनि जम्भनि मोहनि हुं फट् नमः स्वाहा ॥
आत्मरक्षा ॥
प्राच्यां दिशीन्द्रो राजा देवानाम् आधिपत्यं कुरुते । तं देवं भगवन्तं सगणं सानुचरं सपरिवारं सशिराः प्रणिपत्य विज्ञापयति । वज्रेण प्रहरणेनेमां दिशं विदिशं च सर्वकलिकलुषम् अशुभं प्रशमयों नमः स्वाहा ॥
दक्षिणस्यां दिशि यमो राजा प्रेतानाम् आधिपत्यम् इति । दण्डेन प्रहरणेनेति ॥
प्रतीच्यां दिशि वरुणो राजापाम् आधिपत्यम् इति । पाशेन प्रहरणेनेति ॥
उदीच्यां दिशि कुबेरो राजा यक्षाणाम् आधिपत्यम् इति । गदया प्रहरेणेति ॥
ध्रुवायां दिशि वासुकी राजा नागानाम् आधिपत्यम् इति । दंष्ट्रया प्रहरणेनेति ॥
ऊर्ध्वायां दिशि सोमो राजा नक्षत्राणाम् आधिपत्यं कुरुते । तं देवं भगवं सगणं सानुचरं सपरिवारं सशिराः प्रणिपत्य विज्ञापयति ॥ तेजसा प्रहरणेनेमां दिशं विदिशं च सर्वकलिकलुषम् अशुभं प्रशमयों नमः स्वाहा ॥
अथोच्छुष्महृदयम् ॥ द्युरुद्युरु दरदर विदारयविदारय मिलिमिलि नमः स्वाहा ॥
उच्छुष्मशिखा ॥ शिवे जटिल इति प्रथमः ॥
कुरुकुरु मुरुमुरु महा मुञ्च महा मुञ्च विदुविदु नमः स्वाहा ॥ इति कवचम् ॥
ॐ नमो महापिङ्गलाय सिंहनादनादिने नमः स्वाहा ॥ इत्य् अस्त्रमन्त्रः ॥
एषाम् उच्छुष्मरुद्राणाम् अतः कल्पो निगद्यते । अथर्ववेदोद्भवानां तिथ्यृक्षाद्ययोगतः ॥
ग्रामे वाथाप्य् अरण्ये वा प्रचरेत यथाविधि । सद्यःसिद्धिकरा ह्य् एते उच्छुष्माः परिकीर्तिताः ॥
आत्मरक्षां दिशां बन्धं शिखाबन्धं च सर्वदा । एतैर् एव यथायोगम् आदौ कुर्याद् विचक्षणः ॥
खदिरस्योदुम्बरस्य तथा बिल्वपलाशयोः । दधिसर्पिर्मधुयुजां शान्तानां वापि बिल्वतः ॥
समित्सहस्रत्रितयं हुत्वा शान्तिर् गवां भवेत् । तीक्ष्णासृग्विषयुक्तानां फट्कारश् च विनाशने ॥
प्रयोगाद् अप्य् असिद्धिश् चेत् तत्कर्मेदं समारभेत् । उच्छुष्मरूपी भक्षयंस् तीक्ष्णः सक्तूदकानि तु ॥
अभीष्टां वा स्त्रियं गत्वा ध्यात्वा वा रेत उत्सृजेत् । मूत्रां पुरीषं चोत्सृज्य गोकङ्कालाधिरोहणम् ॥
कृत्वा मन्त्रं निशि जपेद् यावद् गोशृङ्गतश् चरेत् । ज्वालाभङ्गं ततस् तस्य कर्मसिद्धिं समादिशेत् ॥
[दधिमधुघृताक्तानाम् इति शेषः] ॥
सप्तक्षीराञ्जलिग्रासः स्रुवो ह्य् अस्मिन् प्रशस्यते । क्षीरं तेनाथ जुहुयाद् धनकामस्य नित्यशः ॥
घृतेन तेजस्कामस्य आयुःकामस्य दूर्वया । कुकुसं तुम्बरं वापि विद्याद् उच्चाटकर्मणि ॥
ब्राह्मणं तु वशीकर्तुं शालिपिष्टमयीं तनुम् । कृत्वा चतुष्पथं गत्वा गृहीत्वा शस्त्रम् उत्तमम् ॥
अष्टोत्तरसहस्रेण कृत्वा तदभिमन्त्रणम् । अष्टाङ्गं तेन तां छित्वा मन्त्रतो वशम् आनयेत् ॥
अष्टोत्तरसहस्रं वा प्रकृते जुहुयाद् बुधः । ब्राह्मणीं तु वशीकर्तुं कुर्यान् माषमयीं तनुम् ॥
सर्पिर्दधिमध्वक्तानां लाजानाम् आहुतीः शुभाः । कन्याकामो ऽष्टसहस्रं हुत्वा कन्याम् अवाप्नुयात् ॥
अपि वा पिष्टमय्याः प्राग् जुहुयात् संध्ययाहुतीः । दर्भेषीकां वाभिमन्त्र्य तद्गृहे निश्चलां न्यसेत् ॥
तावद् उद्वेजयेत् सा तु वज्रभूता हि तद्गृहम् । कन्यायाः साधनीयायास् [तु] यावल् लाभस् ततो भवेत् ॥
प्रधानम् अन्यं वा किं चिद् वशीकर्तुं नरोत्तमम् । समिधः खदिरादीनाम् औदुम्बर्यश् च होमयेत् ॥
श्मशानखट्वाङ्गमयीं होमयेन् मन्त्रसाधने । पलाण्डुलशुनप्रस्थं हुत्वा मस्तं न संशयः ॥
शिरीषाङ्गमयीं राज्ञो बलिस् त्रिमधुरेण तु । ब्राह्मणे पायसमयीं क्षत्रियस्य विषाणिकाम् ॥
वैश्यस्य साधने होम्याश् चूर्णैः सुरभिसंस्कृताः । चतुष्पथे तु शूद्रस्य पद्मिन्युत्करणेन तु ॥
लिखित्वा नाम संगृह्य कराग्राङ्गुलिपीडिताम् । शिरःपीडा ज्वरः शूलं विमतिः स्वस्त्यसंगतिः ॥
बल्याद्या वा प्रयोक्तव्या ब्राह्मणादिचतुष्टये । एवं सत्य् अभिचारश् च चतुर्णाम् अपि दर्शितः ॥
लिङ्गं वा राजसर्षपैः समालिख्याथ धूपयेत् । गौरैर् अर्घं तथा दद्यान् म्रियते साप्य् असंशयम् ॥
अभक्षभक्षो ह्य् अस्वास्थ्यं सर्वरोगप्रकोपनम् । निःसंज्ञता पिण्डपातो जपावृत्त्या भवन्ति हि ॥
एकादशं न जप्तव्यं कुलोत्सादस् ततो भवेत् ॥
ॐ नमो महापिङ्गलाय त्रिवृते त्रिवृते नमः स्वाहा ॥
नमः सरान्तितेवतेवसु त्रिवृते त्रिवृते त्रिपर्वणे त्रिशीर्षाय नमः स्वाहा ॥
नमः कटविकटकण्टेमाटे पाटले विकले असौर्यासौ असौर्यासौ पृथिवीष्टका इष्टकाजिनात्यून्यो सौगलुंतिगलुंतेकटमसि कटप्रवृते प्रद्विष रुद्र रौद्रेणावेशयावेशय हनहन दहदह पचपच मथमथ विध्वंसयविध्वंसय विश्वेश्वर योगेश्वर महेश्वर नमस् ते ऽस्तु मा मा हिंसीः हुं फट् नमः स्वाहा ॥
कालाय करालाय नमः स्वाहा ॥
कृतान्ताय नमः स्वाहा ॥
अमोघाय नमः स्वाहा ॥
अघोराय नमः स्वाहा ॥
अनिवर्ताय नमः स्वाहा ॥
भगाय नमः स्वाहा ॥
भगप्रमथनाय नमः स्वाहा ॥
वृषभाय नमः स्वाहा ॥
इन्द्रनेत्राय नमः स्वाहा ॥
सुवर्णचूडाय नमः स्वाहा ॥
हाहाहीही नमः स्वाहा ॥
नमस् तीक्ष्णाय तीक्ष्णदंष्ट्राय भीषणाय सहस्रपादायानन्तशीर्षाय वामनाय नमः स्वाहा ॥
महावक्त्राय पिङ्गलनेत्राय नमः स्वाहा ॥
खनखनाय नमः स्वाहा ॥
घनघनाय नमः स्वाहा ॥
घुसुघुसाय नमः स्वाहा ॥
अलेपाय नमः स्वाहा ॥
पशवे नमः स्वाहा ॥
महापशुपतये नमः स्वाहा ॥
उच्छुष्माय नमः स्वाहा ॥
उच्छुष्मरुद्राय नमः स्वाहा ॥
एषां क्रमेण कृत्यानि वक्ष्यमाणानि योजयेत् । अष्टसहस्राभिजप्तम् अन्यद् द्रव्यं तु होमतः ॥
शत्रोर् नाम्ना लवणस्य सहस्रम् अष्टकाधिकम् । हुत्वा धनायुषोर् हानिर् ज्वरेण स च शुष्यति ॥
क्षिप्रं शान्तिर् भवेत् तस्य क्षीरहोमात् तु तावतः ॥
कणैः पुत्तलिकां कृत्वा गोशृङ्गेणार्घधूपबे । अष्टसहस्राभिजप्तं मदनस्य तु कण्टकम् ॥ तेनाष्टादशवेधात् तु मूलक्षीरान् निवर्तनम् ॥
दध्ना च मधुसर्पिर्भ्यां त्त्रिवर्णैः सर्षपैर् हुतैः ॥ गौरैर् अष्टसहस्रेण जप्तैर् आवेशयेद् रिपून् ॥
दध्याद्यभ्यक्तलाजानां होमाद् अष्टसहस्रतः ॥ नाशयेत् सततज्वरं द्वितीयादिं च दूरतः ॥
परिजप्य दर्भेषीकां कुम्भकारादिवेश्मसु । न्यस्त्वा पाकं सुरापाकं कैवर्तादि विनाशयेत् ॥
अक्षतैस् तण्डुलैः कृत्वा प्रतिदेहं सुशोभनम् । संस्थाप्य धान्यराशौ तं चन्दनादुरु दाहयेत् । बलिं त्रिमधुरं दत्त्वा स्यात् स राशिश् चतुर्गुणः ॥
खादिरं कीलकं तीक्ष्णं तैलाक्तं द्वादशाङ्गुलम् । परिजप्तं ग्राममध्ये निखनेत् सद्य उद्वसेत् ॥
महापातकदोषेण ग्रामी निर्धनतां व्रजेत् । क्षीरेण कीलकस्नानात् कुर्यात् तुष्टस् तु शान्तिकम् ॥
क्षीरस्याष्टसहस्रं च जुहुयात् तदनन्तरम् ॥
कलापमन्त्रां गुटिकां तन्नाम्ना गव्यमांसतः । महापातकसंबन्धाज् जायते ऽस्य धनक्षयः ॥
त्रिवर्णसर्षपैर् होमात् सह त्रिमधुरेण तु । संपद्यते सुतस् तस्य मेधावी श्रुतधारकः । तद्धोमात् के चिद् इच्छन्ति उन्मत्तत्वं न संशयः ॥
तिला दूर्वा त्रिमधुरं होमतो व्याधिनिग्रहम् । तण्डुलप्रक्षेपश् च ॥
त्र्यक्तोदुम्बरसमिधो दोग्ध्री धेन्व् अष्टकप्रदाः । एकाहं भैक्षभुग् भूत्वा मासाष्टकयुतस्य वा ॥
प्रादेशान्तं बिल्ववृक्षं मूलशाखासमन्वितम् । कृष्णाष्टम्यां चतुर्दश्यां सायं हुत्वा तु रुक्मभाक् ॥
समिधां वैतसीनां तु अग्नाव् अर्केन्धनाद् धुते । अहोरात्रिकहोमात् स्यात् पर्जन्यो बहुवर्षदः । लक्षत्रयं भैक्षाहारो जप्त्वा कर्मैतद् आरभेत् ॥
दुग्धाक्तान् सर्षपान् हुत्वा तस्माद् भस्म मुखे क्षिपेत् । सर्वेषु व्यवहारेषु स भवत्य् अपराजितः ॥
शस्त्रं जप्तम् उपादाय रणे ग्रस्तो न जीयते । खनखनायेति मन्त्रः पूर्वसेवार्थ उच्यते ॥
उत्तरस्या विशेषाद् वा चेदानीम् अत उत्तरम् । खादिरत्र्यक्तसमिधां पूर्वसेवा सहस्रतः । अतसीसमिधाम् एवं मेधावी विदुषां प्रभुः ॥
गोचर्ममात्रं स्थण्डिलं गोमयेनोपलेपयेत् । तत्राग्निं त्रिकपालेषु ज्वालयित्वा प्रणम्य च ॥
शिरसा वानरेणाथ मुखवाद्यं तु कारयेत् । यत्र तच् छ्रूयते तत्र आगच्छन्ति वरस्त्रियः ॥
दम्ष्ट्राघण्टानिनादास् तु ज्वालामुखभयानकाः । यत् त्वं कामयसे पुत्र तत् सर्वं दद्महे वयम् ॥
इति ब्रुवत्यः सर्वास् ता यत्र होमः कृतो भवेत् । तद्भस्मना तु संस्पृष्टाश् छागल्यः सुप्रभावतः ॥
लक्षजापोत्तरं गत्वा नदीम् उदधिगामिनीम् । वालुकास्थण्डिले लिङ्गं तन्मयं तज्जसद्मनि ॥
पद्माष्टशतम् आहृत्य पूजयित्वा विधानतः । उदके नाभिमात्रे च सुप्रभातं पुनर् जपेत् ॥
ततो माण्डलिको राजा दीनाराणां गवां शतम् । प्रणम्य श्रद्धया तस्मै दद्याद् उद्धर माम् इति ॥
लक्षजपाद् अबाध्यस् तु पशूनां दम्ष्ट्रिशृङ्गिणाम् । इतरेषां पशूनां तु लक्षत्रितयवर्धनम् ॥
संजप्तशिवनिर्माल्यदानाद् उन्मत्ततां व्रजेत् ॥ शमाय चन्दनं दद्यात् त्रिष्व् एतं मन्त्रसंस्कृतम् ॥
समाधिनानुमन्त्रितं गोशृङ्गम् अरिमन्दिरे । निखातं सद्य एवैनं मन्दिरं परिदीपयेत् ॥
तीक्ष्णतैलं कटु प्रोक्तं दर्वी ग्रामस्रुवस् तथा । त्रिमधुरं त्व् अत्र विज्ञेयं मधुसर्पिस्तिलात्मकम् ॥
संमुखं मानसं ध्यायञ् शुभं कर्म प्रयोजयेत् । विमुखं भञ्जनादौ तु नरः कर्मणि सिद्धिभाक् ॥
अष्टोत्तरस् त्रिसाहस्रो होमो हास्य प्रकीर्तितः । कीलकास्त्रादि यच् चान्यत् तत् सहस्राभिमन्त्रितम् ॥ (अव्परिस् ३६.चोल्) इत्य् उच्छुष्मकल्पः समाप्तः ॥ इति परिशिष्टानां पूर्वार्धं समाप्तम् इति ॥ (परिशिष्ट ३७. समुच्चयप्रायश्चित्तानि) [रेसेम्ब्लेस् इन् फ़ोर्म् थे १३थ् अध्याय ओफ़् थे कौशिकसूत्र]
ॐ भृग्वङ्गिरोरूपधारिणे शिवाय नमः ॥ अथ यत्रैतद् अपहन्यमाने मुसलं पतति तद् घोरं भवति तद् अप्य् एतद् ऋचोक्तम् ॥
उलूल्हलान् मुसलं पतितं हिनस्ति पत्नींकुले ज्येष्ठम् । कृषीः प्रजाः पशवः संविशेअन्ते यथेन्द्रसृष्टं प्रपतेत वज्रम् इति ॥
तद् वज्रं शान्त्युदकेन संप्रोक्ष्य अरातीयोर् इत्य् उल्लिख्य यत् त्वा शिक्व इति प्रक्षाल्य बर्हिष्य् आधाय जुहोति ॥
वज्रः पतितस् तु वरं हिनस्ति तं त्वा वयम् अपहन्म घोरम् । स नः शिवो ऽस्तु द्विषतां वधाय सपत्नान् मे द्विषतो हन्तु सर्वान् ॥
यद्वत् प्रजाः पपनयद् धस्ताद् यदि वोलूखलात् । सपत्नान् मे परिपाहि मां त्व् एवं परिपाहि नः ॥
यद्य् अन्तरिक्षे यदि वासि सोच्चैर् वज्रः सृष्टो यदि वा पार्थिवैर् उत । मन्त्राः प्रयुक्ता वितता महान्तो ऽघोरो वज्रो मुसलप्रपातः ॥
वज्रो ऽसि सपत्नहेति तिस्रः ॥
वज्रो ऽसि सपत्नहा त्वयाद्य वृत्रं साक्षीय । त्वाम् अद्य वनस्पते वृक्षाणाम् उद् अयुष्महि ॥
स न इन्द्रपुरोहितो विश्वतः पाहि रक्षसः । अभि गावो अनूषताभि द्युम्नं बृहस्पते ॥
प्राण प्राणं त्रायस्वासो असवे मृड । निरृते निरृत्या नः पाशेभ्यो मुञ्च इति ॥
त्यम् ऊ षु त्रातारम् इन्द्रः सुत्रामा स सुत्रामा आ मन्द्रैर् इन्द्र मर्माणि ते वर्मणा छादयामीति उलूखलमुसले संपातान् आनीय संस्थाप्य होमान् उलूखलम् अन्नेनैव पूरयित्वा प्रतिप्रवर्तयेद् उलूखलमुसलं वसनं च गां च कर्त्रे दद्यात् सा तत्र प्रायश्चित्तिः ॥
अथ यत् काको ऽभिमृशति तन् मृत्युम् आशङ्क्यं भवति ॥ तद् अप्य् एतद् ऋचोक्तम् ॥....अन्तकाय मृत्यव आ रभस्व प्राणाय नम इति स्वाहेति अग्नौ हुत्वा सा तत्र प्रायश्चित्तिः ॥
अथात आज्यस्थाली च्यवते प्रचलति वा का तत्र प्रायश्चित्तिः ॥ संनतिमहाव्याहृतिसावित्रीकूष्माण्ड्यः स सर्वाभिर् जुहुयात् सा तत्र प्रायश्चित्तिः ॥
अथ पवित्रम् प्रणश्येत कर्ममध्यात् प्रमादतः । अन्यच् छित्त्वा मन्त्रयेत कर्मशेषम् उपक्रमेत् । आत्मेन्द्रियसमायुक्तं तेन मन्त्रेण कारयेत् ॥
वायोः पूतः पवित्रेण यन् मे छिद्रं पुनर् मैत्व् इन्द्रियं मा न आपो मेधां मा नो मेधां मा नः पिपरिद् अश्विनेति संनतिभिर् आज्यं जुहुयाद् व्याहृतिभिश् च गां च कर्त्रे दद्यात् सा तत्र प्रायश्चित्तिः ॥
अथ यस्यासमाप्ते कर्मणि बर्हिर् आदीप्येत ततस् तन् निर्वाप्य जुहुयात् ॥
यद् अग्निर् बर्हिर् अदहद् वेद्या वासो अपां ततः । त्वम् एव नो जातवेदो दुरितात् पाहि तस्मात् ॥
निर्दग्धा नो अमित्रास् तु यथेदं बर्हिस् तथा । अमित्राणां श्रियं भूतिं ताम् एषां परि निर् जहि ॥
यत्कामास् ते जुहुमस् तन् नो अस्तु विशाम्पते । ये देवा यज्ञम् आयान्ति ते नो रक्षन्तु सर्वतः ॥
अवदग्धं दुःस्वप्न्यम् अवदग्धा अरातयः । सर्वाश् च यातुधान्यः ॥
मा त्वा दभन् यातुधाना मा ब्रध्नः शम्युम् इच्छत । दर्भो राजा समुद्रियः परि नः पातु विश्वतः ॥
अतो ऽन्यद् बर्हिर् उपकल्प्योदकेन संप्रोक्ष्य पुनः स्तृणाति ॥
इदं बर्हिर् अमृतेनेह सिक्तं हिरण्मयं हरितं ते स्तृणामि । तद् वै पुराणम् अभिनवं स्तृणीष्व वासः प्रशस्तं प्रति मे गृहाणेत्य् अन्येन च बर्हिषाभिप्रछादये ॥
आहुत्यां तु गृहीतायां हुतोच्छिष्टं प्रमादतः । तम् आहुतिं प्रतिष्ठाप्य शं नो देवीर् इत्य् आचम्य ब्रह्मापरम् इत्य् अर्धर्चेनेमां हुत्वा ब्रह्मज्येष्ठेति हुत्वा सा तत्र प्रायश्चित्तिः ॥
केशकीटावपन्ना चेच् छंभुवाय स्वाहेति भस्मनि हुत्वा हविर् उत्पूयान्यां जुहुयात् सा तत्र प्रायश्चित्तिः ॥
अथ चेच् चलितदन्तं पतितदन्तं वोपनयेत् तत्र प्रायश्चित्तम् आह गृहे वा बर्हिः [वा] पिता वाचार्यो वा द्वादशरात्रं दीक्षेयातां कर्ता त्रिरात्रं गौरसर्षपसर्पिःपयोभिः स्नातः प्रयतः शुचिः शुक्लवासाः पौर्णमासं तन्त्रम् आज्यभागान्ते सावित्रीम् अनुयोजयेत् तेन शान्त्युदकेनैनम् आचामयति संप्रोक्षति च ॥
सावित्री शान्तिर् ब्रह्म जज्ञानं ये त्रिषप्ता अग्निं ब्रूम आयुष्यवर्चस्यस्वस्त्ययनाभयापराजितशर्मवर्मभिर् जुहुयात् तं संपात्य यः श्रमात् तपसो यो वेतसं यो भूतम् ऊर्ध्वा अस्येदावत्सराय यद्य् अन्तरिक्षे पुनर् मैत्व् इन्द्रियम् इत्य् आप्लावयति सा तत्र प्रायश्चित्तिः ॥
नश्येच् चेन् मदुघमणिः शाम्येद् वाग्निर् विवाहजः । अत्यद्भुतं द्वयम् इदं दम्पत्योस् तु विनाशनम् ॥
पूतुदारुमणिस् तत्र बन्ध्यो मन्त्राश् च मादुघाः । पूतुदारु न विन्द्याच् चेद् यवं तत्र नियोजयेत् ॥
आयुष्मन्तौ सुप्रजसौ सुवीरौ धाता पूषा द्रविणे नौ दधातु । विमुञ्चतां शमलं किल्बिषं नौ दीर्घम् आयुश् च सविता कृणोत्व् इति शान्त्युदकेनाङ्गुलिं संप्रोक्ष्य बध्नीयात्
समिधो ऽभ्यादध्याद् उपतिष्टेत संनतिभिर् व्याहृतिभिर् जुहुयाद् गां च कर्त्रे दद्यात् सा अत्र प्रायश्चित्त्ः ॥
ॐ अथ यस्य तन्त्रे ऽप्रणीतो ऽहुतो ऽग्निर् उपशाम्यति ॥ पुनस् त्वादित्या इत्य् अग्निं प्राणीय संनतिभिर् व्याहृतिभिः समास् त्वाग्ने ऽभ्य् अर्चतेति च सूक्ताभ्यां जुहुयात् परिसंख्याहोमांश् च ॥
अथ यत्रैतद् विवाहग्निर् उपशाम्यति अग्निप्रणयनमन्त्रैः प्राजापत्यं प्रणीय प्राक्तन्त्रं प्रणीय यद् देवा यद् विद्वांसो ऽपमित्यम् अप्रतीतं यद् धस्ताभ्यं यद् अदीव्यन्न् इत्य् एतैः सूक्तैर् आज्यं जुहुयात् समिधो ऽभ्यादध्याद् उपतिष्ठेत वासः कर्त्रे दद्यात् ॥
अथ यत्रैतत् कालातीतासु क्रियास्व् अतीत उत्तरायणे आज्यभागान्ते यन् मे स्कन्नं यद् अस्मृतीत्य् अनुमन्त्रयेत् तस्मै प्राच्या दिशो अन्तर्देशाद् इति पर्यायान् एकविंशतिं जुहुयात् संस्कारातीते च कर्मणि ॥
अथ यत्रैतत् प्राणीतो ऽग्निर् उपशाम्यति ॥ यद्य् अन्तरिक्षे पुनर् मैत्व् इन्द्रियं पुनस् त्वादित्या इत्य् अग्निं प्रणीय प्रज्वाल्य ममाग्ने वर्च इति समिधम् आधाय शेषं कर्म समापयेत् ॥
अथ यस्योपयामो ऽवपतेद् धस्तात् स यन् मे उपयाम इत्य् आददीत,
यन् मे उपयामो ऽपतद् धस्ताद् य आयुषा परिष्कृतः । तम् अहं पुनर् आददे ॥
पुनर् इन्द्रः पुनर् भगः पुनर् मे ब्रह्मणस्पतिः । ब्रह्म जीवितु दाद् इत्य् [आददीत]
यन् मे छिद्रं यद् अस्मृतीति जुहुयात् ॥
यन् मे स्रुवो ऽपतद् धस्ताद् इत्य् उपयामेन व्याख्यातम् ॥
मेखलादीनि चेत् प्लवेरन् पुनर् उपनयेत ॥ विमोचनीयान् होमान् हुत्वान्यं ब्राह्मणम् अनूचानम् उपवेश्योदपात्रं चापराजितेन निष्क्रम्य वासो यज्ञोपवीतादि दत्त्वाभ्युक्ष्याचम्यापां सूक्तैः पवित्रैश् च संप्रोक्ष्य प्रियं मा कृणु देवेष्व् इति यज्ञोपवीतं दत्त्वा विमृग्वरीं मा नः पश्चाद् इति द्वाभ्यां प्राङ्मुख उपविश्य महाव्याहृतिभिः सावित्री शान्तिसूक्तं ब्रह्म जज्ञानं यद् अस्मृत्य् अनुमतिः सर्वम् इति जुहुयाद् अभ्यातानैश् च ॥
अथ यत्रैतन् मेखला प्रपतति जीर्णा वा स्यात् तां सावित्र्योद्धृत्यान्तं कृत्वा शान्त्युदकेन संप्रोक्ष्य महाव्याहृतिभिः सावित्री शान्तिसूक्तं ब्रह्म जज्ञानं ये त्रिषप्ता इदावत्सराय घृतेन त्वाग्निं ब्र्हूम इति ॥
चतुर्थ्याम् अहुतायां यदि घटोदकं नश्येत तथैव पुनर् आनीय शं नो देवीर् इहेत देवीर् इत्य् अनुमन्त्र्याम्बयो यन्त्य् आपो हि ष्ठा शं नो देवीर् इति संपात्य व्याहृत्या संनत्या च जुहुयात् आपो भृग्वङ्गिरोरूपम् अपां पुष्पम् इत्य् उदकुम्भम् अभिमन्त्रयेत् ॥ वासो दक्षिणा ॥
अथ यस्यासमाप्ते कर्मण्य् उदपात्रं प्रवर्तेत तद् अनुमन्त्रयते
यद् उदपात्रं प्रवर्तते ब्रह्मणास्थापितं महत् । स्थानाच् च्युतं प्रवर्तितं तन् मे वहतु किल्बिषम् ॥ इत्य् आस्थापयति ॥
पूरणेन पूरयित्वा पुनः पूर्णम् इत्य् एतया ।
पुनः पूर्णम् इदं पात्रं ब्रह्मणास्थापयामसि । विश्वैस् [तद्] देवैर् अभिष्टुतम् ॥
ऊर्जं पुष्टं दधातु नो रायस् पोषं श्रियम् आयुः । मयि कर्म समृध्यताम् इति ॥
अथ चेत् प्रभज्येत भूमिर् भूमिम् अगाद् इत्य् अनुमन्त्र्यान्यतरम् आहृत्य यद्य् अन्तरिक्षे पुनर् मैत्व् इन्द्रियम् इत्य् अनुमन्त्र्य वैश्वानरो न ऊतय उद् एनं वैश्वानरो रश्मिभिर् इति जुहुयात् सा तत्र प्रायश्चित्तिः ॥ (परिशिष्ट ३८. ब्रह्मकूर्चविधिः)
ॐ ब्रह्मकूर्चविधिं पुण्यं संक्षेपाद् वच्म्य् असंशयम् । पावनानां परं यो हि पावनं तपसां तपः ॥
स्नात्वा शुचिः शुचौ देशे गोमयेनावसेचिते । वस्त्रेण संहिते चापि सितपुष्पैः प्रपूजिते ॥
अहोरात्रोसितः क्षान्तः पवित्रात्मा प्रपावनः । शुक्लवासाः सुगन्धिः प्राग् उपविष्टः कुशासने ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । आहरेत् ताम्रपात्रे तु शकृन् मूत्रं त्व् अभूगतम् ॥
गोमूत्रं नीलवर्णायाः कृष्णाया गोमयं तथा । पयस् तु ताम्रवर्णायाः श्वेताय आहरेद् दधि ॥
कपिलाया घृतं ग्राह्यम् अलाभे स्यात् तु पञ्चमम् ॥
गोमूत्रैकपलं दद्याद् अङ्गुष्ठाग्रं तु गोमयम् । क्षीरस्य सप्त दध्नस् तु त्रीण्य् एकैकं घृताम्भसोः ॥
गायत्र्याहृत्य गोमूत्रं गन्धद्वारेति गोमयम् । आ प्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥
तेजो ऽसि शुक्रम् इत्य् अज्यं देवस्य त्वा कुशोदकम् । सप्तपत्त्रास् तु ये दर्भा अछिन्नाग्राः समायुताः ॥
तैः समुद्धृत्य होतव्यं देवताभ्यो यथाकर्मम् । अग्नये स्वाहा सोमाय प्रजापतय इत्य् अपि ॥
बृहस्पते अति यद् इदं विष्णुर् इतीति च । मानस्तोकेन गायत्र्या एतैश् च जुहुयात् ततः ॥
प्रणवेन प्रणवेनैव पिबेच् च प्रणवेन तु । होतव्यं प्रणवेनैव पिबेच् च प्रणवेन तु ॥
मध्यमेन पलाशस्य पद्मपत्त्रेण वा पिबेत् । अपि वा ताम्रपात्रेण हुतशेषं विशुद्धये ॥
यत् त्वगस्थिगतं पापं देहे तिष्ठति देहिनाम् । ब्रह्मकूर्चो दहेत् सर्वं प्रदीप्तो ऽग्निर् इवेन्धनम् ॥
त्रयोदश्यादिचतुर्षु त्रिःस्नानाक्षारभोजनम् । पञ्चदश्यां पञ्चगव्यं सोपवासं महाफलम् ॥
अभोज्याभक्ष्यशूद्रान्नभक्षणे वेदविक्रये । प्रतिग्रहे कालमन्त्रहीने होमे द्युमैथुने ॥
बालत्वे यत् कृतं चैव युवा वृद्धवयास् तथा । मातापितृकृतं चैव तत् क्षणाद् एव निर्दहेत् ॥
मासेमासे प्रयुञ्जानोदेवलोकम् अवाप्नुयात् । अर्धमासेअर्धमासे च ऋषीणां लोकम् उत्तमम् ॥
षड्रात्रे चैव षड्रात्रे ब्रह्मलोकम् अनामयम् । अहरहः प्रयुञ्जानः परं ब्रह्माधिगच्छति ॥
अनेन विधिनैवेष्ट्वा देवतर्पणपूर्वकम् । ब्रह्मणा निर्मितं ह्य् एतत् पवित्रं परमं हितम् ॥ (परिशिष्ट ३९. तडागादिविधिः)
ॐ पिप्पलादं महाप्राज्ञम् इदम् ऊचुर् महर्षयः । भूमिखातस्य शुद्ध्यर्थं विधिं प्रब्रूहि तत्त्वतः ॥
कूपवापीतडागेषु पुष्करिण्यां च वेश्मसु । अहोरात्रोषितो भूत्वा ततः कर्म समारभेत् ॥
शान्त्युदकेन तद् ब्रह्मा पूर्वोक्तं यद् अगस्तिना । परि प्रागाद् इति द्वाभ्याम् अभिमन्त्रयते ततः ॥
चरुतन्त्रेण विधिना चरुं भौमं तु निर्वपेत् । प्राक्तन्त्रम् आज्यभागान्तं सत्यं बृहद् इति स्मृतम् ॥
हविर् आज्यं समिधश् च उपस्थानं यथाक्रमम् । कूपादीनां समीपे तु जपेन् मन्त्रान् समाहितः ॥
अम्बयो यन्त्य् आपो हि ष्ठा शं नो देवीर् इति त्रयम् । हिरण्यवर्णाः पुनन्तु मा सस्रुषीर् हिमवतो ऽप्सु ते ॥
जप्त्वा तु धेनुम् आनीतां पिबन्तीम् अनुमन्त्रयेत् । आ गाव इति सूक्तेन तारयेत् तु तथैव गाम् ॥
कूपवापीतडागानां समीपे चाभिमन्त्रयेत् । उप ह्वये सूयवसात् कर्त्रे दद्यात् तु गां शुभाम् ॥
कामसूक्तेन गृह्णीयात् कर्म संस्थापयेत् ततः । हिरण्यरजतादीनां मत्स्यादीन् कारयेद् बुधः ॥
सौवर्णौ कूर्ममकरौ राजतौ मत्स्यमुद्गरौ । ताम्रौ कुलीरकर्कटाव् आयसः शिशुमारकः ॥
शान्त्युदकं पञ्चगव्यं तस्मिन्न् एव जले क्षिपेत् । कर्तृदातारौ स्नायेतां द्रुपदाद् इव शुम्भनी ॥
ब्राह्मणान् भोजयित्वा तु पुण्याहं वाचयेत् ततः । सम्यग् विधानम् एतद् धि कूपादेः संप्रकीर्तितम् । पुण्यं कर्म द्विजातीनां स्वर्गस्याक्षय्यम् इच्छताम् ॥ (परिशिष्ट ४०. पाशुपतव्रतम्)
ॐ अथ पाशुपतव्रतादेशो
नाश्रोत्रियाय नाचरितवेदव्रताय नाकृतवपनाय ददीत ॥
मासद्वित्रिचतुष्पञ्चसंवत्सरद्वादशसंवत्सरपरिमितं नैष्ठिकं वा
अथास्यायतनानि ॥
महादेवायतने ऽपां समीपे ॥
गिरिगुहायां गवां गोष्ठे ऽग्न्यागारे वा
नदीनां बहूनां प्रतिश्रये
अनुसवनम् ॥
भस्मना स्नानं रौद्रहोमस्नपनं च सर्पिःक्षीरगन्धोदकैर्
गन्धपुष्पधूपदीपोदनपायसयावकलाजादि प्रदक्षिणान्तं च ॥
निवेद्य निर्माल्यगन्धहारीहासगीतवादनाद्युपहारान्
दक्षिणेन तृतीयम् उपतिष्ठते
कटककेयूरधारिणे नमो वृषाय नमो वृषभध्वजाय नमो
वानरं ते मुखं रौद्रम् अनिन्द्यं शुभं पशुम् एवाजननेवाजनकं घोरं जीवं जात्यम् एव रुक्मं ददामीति एकवासा विवासा वा विरागाणि वस्त्राणि ददीत ॥
गोचर्ममात्रं स्थण्डिलम् उपलिप्य गोमयेनोल्लिख्याभ्युक्ष्याग्ने प्रेहीत्य् अग्निं प्रणीयोपसमाधाय परिस्तीर्य ब्रह्माणं कल्पयित्वा नान्यदेवतादिशि रुद्रस्य दक्षिणोदपात्रं स्थापयित्वा महाव्याहृतिभिर् अग्न्यायतने निधाय रुद्रम् आवाहयति ॥
रुद्रं क्रुद्धाशनिमुखं देवानाम् ईश्वरं परम् । श्वेतपिङ्गलं देवानाम् प्रपद्ये शरणागतः ॥
यस्य युक्ता रथे सिंहा व्याघ्राश् च विषमाननाः । तम् अहं पौण्डरीकाक्षं देवम् आवाहये शिवम् इत्य् आवाह्याभ्यर्च्य ॥
न तं यक्ष्मैतु देव इति गुग्गुलुं धूपं च दद्यात् ॥
तत् पुरुषाय विद्महे महादेवाय धीमहि । तन् नो रुद्रः प्रचोदयात् ॥
तस्मै देवाय विद्महे महादेवाय धीमहि । तन् नो रुद्रो ऽनुमन्यताम् ॥ इति रुद्रसावित्रीं जप्त्वा ॥
यो अग्नौ रुद्र इत्य् अनुमन्त्रयेन् नमो अस्तु यावद् आवाहने देवदेवस्यावाहयाम्य् अहम् इति ॥
प्रमर्दने सर्वासुरविनाशाय ॐ फट्कारं करोति ॥
निवेदने ऽहम् अमुकं निवेदयामीति जटी मुण्डी पञ्चशिखी वा ॥
ब्राह्मणो ह वा अहम् अमुकसगोत्रो भगवतो महेश्वरस्य व्रतं चरिष्यामीति वाचयित्वा ॥
ततो ऽस्य मौञ्जीं प्रयच्छति ॥ सावित्र्या तु दण्डं पालाशं बैल्वम् आश्वत्थं वा असिं लकुटं खट्वाङ्गं परशुं वा ॥
अघोरेभ्यो ऽथ घोरेभ्यो ऽघोरघोरतरेभ्यश् च । सर्वतः शर्वशर्वेभ्यो नमस् ते रुद्र रूपेभ्य इत्य् आदौ शर्वं नमस्कृत्योपविश्याज्यं निरतिशायित्वेध्मान् आदीपयत्य् अन्तर इति
इध्मा जातवेदसः समिद्धस्य तेभ्यो वर्धयस्व प्रजया पशुभिः श्रिया गृहैर् धनेनेति ॥
यवाघारौ आज्यभागौ जुहुयाद्
वायवे स्वाहा ॥ शर्वाय रुद्राय स्वाहा ॥ पशुपतये भीमाय स्वाहा ॥ शान्तायाधिपतये देवाय स्वाहेति ॥
एवम् एव पत्नीनां तूष्णीम् अधिपस्य जुहुयाद्
एवं सर्वेषु व्रतनिवेदनेषु व्रातपतीर् जुहोति ॥
व्रतेन त्वम् इत्य् उभयीरुहम् इति पञ्चभी रौद्रान् होमान् हुत्वा होमावसानेन भस्मना स्नानं करोति ॥
भस्मस्नानम् [तावद्] ग्रहीष्यामि सर्वपापप्रणाशनम् । भस्मस्नानेन रुद्रो हि स्नातो ऽभूत् पूत आत्मना ॥
भस्मना स्नायते रुद्रो विष्णुः स्नायते भस्मना । तेन स्नानेन स्नाम्य् अहं येन स्नातो महेश्वरः ॥
येन स्नाता उमा देवी रुद्रो भर्ता महेश्वरः । येन स्नाता गणाः सर्वे येन स्नाता द्विजातयः ॥
येन स्नाता शिवः शर्वः शंकरश् च वृषध्वजः । स्नातानि सर्वभूतानि गङ्गायमुनयागमे ॥
स्नातो ऽहं सर्वतीर्थेषु नदीप्रस्रवणेषु च । वारुणाग्नेयसौम्यानां भस्मना स्नानम् उत्तमम् । तेन स्नानेन स्नाम्य् अहं येन स्नातो महेश्वरः ॥
भूतिस् तु पिङ्गलो बभ्रुर् भूतिर् विष्णुः सनातनः । भूतिर् ब्रह्मा महेन्द्रश् च भूतिर् देवाः सह र्षिभिः ॥
भूतिर् मे ऽलक्ष्मीं निर्णुदेद् भूतिर् मे श्रियम् आवहेत् । भूतिर् म आयुषा वित्तं वर्चो ब्रह्म प्रयच्छतु ॥
भस्मना चरन्तो नित्यं ध्यायिनः परिचिन्तकाः । यान्ति पाशुपतं स्थानं पुनरावृत्तिदुर्लभम् ॥
वाचा तु यत् कृतं कर्म मनसा च विचिन्तितम् । अलक्ष्मीश् चापद् दुःस्वप्नं भस्मना तत् प्रणश्यतु ॥
मोक्षणं मोक्षकाले च भस्मशेषं विसर्जयेत् । मुक्तो ऽहं सर्वपापेभ्यो रुद्रलोकं व्रजाम्य् अहम् ॥
एतत् स्नानं वारुणं पर्वसु शरीरलेपेन यथाकामं पर्वसूपवसेत् ॥
स्त्रीशूद्रं नाभिभाषेत ॥
तदा सावित्रीं जपेत् ॥
यदि भाषेत तदा रुद्रसावित्रीं जपेत् ॥
कमण्डलुकपाले भिन्ने भूमिर् भूमिम् अगाद् इत्य् अप्सु प्रवेशयेत् ॥
रेतःस्कन्दे यन् मे रेतस् तेजसा संनिषद्य देहात् प्रस्कन्देत् पुनर् न भवाय । तद् अग्निर् वायुः... ...अपि चेयं पृथिवी कञ्चखन्तेति ॥
सम्यक् क्व चित् करोति
व्रतम् उपाध्यायाछन्दो वर्तयेत् ॥
तत उदीक्षणम् ॥
व्रातपतीर् जुहोति ॥
समासो ऽहं व्रतस्विष्टकृत इति हुत्वादित्याभिमुखस् तिष्ठेत ॥
यन् मे दुरुक्तं दुर्हुतं दुर्ध्यातं दुर्विचिन्तितम् । तन् मे भगवान् ईशानः सर्वं त्वं क्षन्तुम् अर्हसि ॥
नवोनवो भवसि जायमान इत्य् अप्सु प्रवाहयेद्
ये श्रद्धयेदं पशुपतेर् व्रतं चरन्ति । तेषां मधु विशक्षे हे ददते न पुनर्गमनं मधुरिवाद्येहैव च । ते रुद्रा विरतौ पशुपतिसायुज्यं गच्छति
तद् एष श्लोकः ॥
विलीनपाशपञ्जराः समाप्ततत्त्वगोचराः । प्रयान्ति शंकरं परं पतिं विभुं सदाशिवम् ॥ (परिशिष्ट ४१. संध्योपासनविधिः)
ॐ अथातः संध्योपासनविधिं व्याख्यास्यामः ॥
प्राङ् वोदङ् वा ग्रामान् निष्क्रम्य शुचिः शुचौ देशे गुप्ततीर्थायतनेषु वा
सुप्रक्षालितपाणिपादवदनः प्राग् वीरासनेनोपविश्य जीवा स्थेत्य् आचम्यापो हि ष्ठेत्य् अभ्युक्ष्य प्राणायामान् कृत्वाचम्योत्तिष्ठन् दक्षिणहस्तस्था आपो अयोजाला इत्य् अप उत्सृजेद् बहुधा ॥
हरिः सुपर्ण इति प्रातर्
उद् उ त्यं चित्रं देवानाम् इति मध्यंदिने
अथ सौरमन्त्रान् यथाकामं जपेद्
उद् वयं तमसस् परीति च
उद् घेद् अभि श्रुतामघम् इत्य् अस्तमित आसीनः
सावित्र्यन्ते वाञ्जलयो जपश् च ॥
अथोर्ध्वजानुर् आसीन इति वीरासनी
प्रत्युत्थायाभयं पश्चाद् अभयं पुरस्ताद् इत्य् उपतिष्ठते
तिष्ठन् प्रातः प्राङ्मुख
आयातु वरदेत्य् आवाह्य
गायत्रं छन्दः सविता देवता विश्वामित्र ऋषिर्
यथाक्षरं दैवतं रूपं च मनसि समाधाय महाव्याहृतिभिः संधाय गायत्रीं जपेत् ॥
अष्टकृत्व एकादशकृत्वो द्वादशकृत्वः पञ्चदशकृत्वः शतकृत्वः सहस्रकृत्व इति ॥
अष्टकृत्वः प्रयुक्ता गायत्री गायत्रेण छन्दसा संमिता भूलोकम् अभिजयति ॥
एकादशकृत्वः प्रयुक्ता त्रैष्टुभेन छन्दसा संमितान्तरिक्षलोकम् अभिजयति ॥
द्वादशकृत्वः प्रयुक्ता जागतेन छन्दसा संमिता दिवं लोकम् अभिजयति ॥
पञ्चदशकृत्वः प्रयुक्ता पञ्चदशेन वज्रेण संमिता ब्रह्मलोकम् अभिजयति ॥
शतकृत्वः प्रयुक्ता शतपर्वणा वज्रेण संमिता सर्वाण्ल् लोकान् अभिजयति ॥
सहस्रकृत्वः प्रयुक्ताग्निष्टोमाप्तोर्यामादीनां क्रतूनां फलम् अवाप्नोति ॥
अतो यथाकामं जपित्वा पश्येम शरदः शतम् इन्द्र जीवेत्य् आशिषः प्रार्थयते ॥
स्तुता मया वरदेति विसृज्योदीराणा उत सूर्यस्यावृतम् असपत्नं पुरस्ताद् यस्मात् कोशाद् इति यथार्थम् उपतिष्ठते ॥
य इमां न विन्दन्ति नाधीयते संध्याकाले नोपासते ते ह्य् अश्रोत्रिया भवन्त्य् अनुपनीताः क्रियाहीनाश् छेदनभेदनभोजनमैथुनान्य् अभिचरन्तः ॥
संध्याकाले ह्य् अजपन्तः श्वसूकरसृगालकुक्कुटसर्पयोनिषु वर्षसहस्राणि जायन्ते ॥
समास् तस्यैवोपजायन्ते ॥
तस्माद् यथोक्तां सायं प्रातः संध्याम् उपासीत ॥
अरण्यचरितो गुप्तः शुक्लब्राह्मणकर्मसु । प्रायेण लभते लोकान् यथोक्तांस् तां समाचरन् ॥
सायं संध्याम् उपासीत कृतवीरासनो द्विजः । कृतोत्तानस् तथा प्रातः प्राञ्जलिः सुसमाहितः ॥
एतद् वीरासनं स्थानं ब्रह्मणा निर्मितं पुरा । द्विजानं बालवृद्धानां पुरश्चरणम् उत्तमम् ॥
सायं प्रातस् तु यः संध्याम् अस्कन्नाम् उपतिष्ठते । स तया पावितो देव्या ब्राह्महः पूतकिल्बिषः ॥
न सीदेत् प्रतिगृह्णानः पृथ्वीम् अपि ससागराम् । ये चास्य विषमाः के चिद् दिवि सूर्यादयो ग्रहाः ॥
ते चास्य सौम्या जायन्ते शिवाः सुखकराः सदा । स्थानं वीरासनं चएषां पृथिवी च प्रदक्षिणा । अग्निहोत्रं हुतं चैषां ये वै संध्याम् उपासते ॥
अर्धास्तमित आदित्ये अर्धोदिते दिवाकरे । गायत्र्यास् तत्र सांनिध्यं संध्याकालः स उच्यते ॥
भूम्यादित्यान्तरं यस् तु छादयेच् चतुरङ्गुलम् । तां तु संध्यां परां विद्याच् छायासंभेदने परे ॥
यावन्तस् तु कराद् भ्रष्टाः पतन्ति जलबिन्दवः । भूत्वा वज्राणि ते सर्वे पतन्ति ह्य् असुरेषु वै ॥
ततो विभावसुस् तेषां प्रीतात्माप्यायते वरम् । यैर् अहं मोक्षितो विप्रैस् तेषां लोको तथा मम ॥
गायत्र्या अक्षमालायां सायं प्रातः शतं जपेत् । चतुर्णां खलु वेदानां समग्रं लभते फलम् ॥
संध्यां ये नोपतिष्ठन्ति ब्राह्मण्यं नोपपद्यते । उपपद्येत वा भूयो यदि स्युस् तीर्थमृत्यवः ॥
ऋषयो दीर्घसंध्यत्वाद् दीर्घाण्य् आयुम्ष्य् अधारयन् । तस्माद् दीर्घाम् उपासीत समिच्छन् वृद्धिम् आयुषः ॥
तद् यथाग्निर् देवानां ब्राह्मणो मनुष्याणां वसन्त ऋतूनाम् एवं गायत्री छन्दसाम् ॥
तद् यथा गायत्री कत्यक्षरा कतिपदा किं वास्या गोत्रं किं वास्य रूपं कीदृशं तस्याः शरीरं भवति ॥
यद् वै भूः स ऋग्वेदो यद् भुव इति सो ऽथर्ववेद इति
तद् यथेदम् अक्षरम् ॐ इत्य् अक्षरं तत् परमं शम् इत्य् अक्षरं गुह्यं तत् परमं पवित्रम् ॥
आदित्यो वै सावित्र्य् आदित्येन सह सावित्री स्तौति सुवति प्रातः प्रसुवति तस्मात् सावित्रीत्अम् ॥
अक्षरदैवतं व्याख्यास्यामः
प्रथमम् आग्नेयं द्वितीयम् आश्विनं तृतीयं सौम्यं चतुर्थं वैष्णवं सावित्रं पञ्चमं षष्ठं पौष्णं सप्तमं मारुतम् अष्टमं बार्हस्पत्यं नवमं मैत्रं दशमं वारुणम् एकादशम् ऐन्द्रं द्वादशं वैश्वदेवं वसूनां त्रयोदशं चतुर्दशं रुद्राणां पञ्चदशम् आदित्यानाम् अदितेः षोडशं वायव्यं सप्तदशमं भौमम् अष्टादशम् एकोनविंशम् आन्तरिक्षं दिव्यं विंशं दिग्देवतानि चत्वार्य् अक्षराणि ॥
अथ यत् पूर्वां संध्याम् उपास्ते तद् गायत्र्याः शिरस् तेन पृथिवीं जयति ॥
अथ यन् मध्याह्ने तीक्ष्णं रुद्रस् तपति द्वितीयं शिरस् तेनान्तरिक्षं जयति ॥
अथ यद् अस्तमियात् तत् तृतीयं शिरस् तेन दिवं जयति ॥
तस्या ओंकारः शिरः सह व्याहृतिभिर् दर्भाः केशा ओषधीवनस्पतयो लोमानि चक्षुषी सूर्याचन्द्रमसौ विद्युद् धसितं विष्णुवरुणौ उरसी रुद्रो हृदये पौर्णमासी चामावास्या च स्तनौ अहश् च रात्री च पार्श्वे
दश दिशः कुक्षी सर्वज्ञानानि व्याकरणम् उदरं पृथिवी श्रोणी वायुः स्थानं भूषणं नक्षत्राणि श्रीसरस्वतीरूपा पदक्रममन्त्रब्राह्मणकल्पशरीरा सावित्री गोत्रेण ब्रह्मदेया भवति ब्रह्मदेया भवतीति ब्राह्मणम् ॥ (परिशिष्ट ४२. स्नानविधिः)
अथ स्नानविधिं पुण्यं वक्ष्यमाणं निबोधत । येन स्नाता दिवं लोकं प्राप्नुवन्ति द्विजोत्तमाः ॥
सरित्सु वा तडागे वा देवखाते ह्रदे ऽपि वा । गर्तप्रस्रवणे वापि पुण्यं स्नानं समाचरेत् ॥
पारक्ये तु ताडागे हि स्नानं नैव विधीयते । तडागकर्तुर् दुष्कृतैर् लिप्यते स्नानम् आचारन् ॥
सरितां सरसां चैव अप्राप्तौ निर्झरस्य च । उद्धृत्य चतुरः पिण्डान् स्नायात् तु परखातके ॥
अन्वीक्ष्यमाणः पार्श्वानि कुशहस्तः समाहितः । द्विजो मध्यंदिनाद् अर्वाग् अरोगी स्नानम् आचरेत् ॥
यत् ते भूम इति मृदं संगृह्य र्चा समाहितः । यस् ते गन्ध इति त्रिभिर् मृधिर् आत्मानम् आलभेत् ॥
अघद्विष्टेति सूक्तेन दूर्वां शिरसि विन्यसेत् । अग्रमग्रम् इत्य् एतया गोमयेनानुलेपयेत् ॥
अग्रमग्रं चरन्तीनाम् ओषधीनां वनेवने । यन् मे रोगं च शोकं च तन् मे त्वं नुद गोमय ॥
प्रणवाद्या व्याहृतीस् तु गायत्रीं च शिरोयुताम् । पठेत् त्रिर् अनवानं हि प्राणायामः स उच्यते ॥
अम्बयो यन्तीत्य् आदीनि त्रीणि सूक्तानि हि क्रमात् । हिरण्यवर्णा यद् अदो वायोः पूतः पुनन्तु मा ॥
वैश्वानरो रश्मिभिश् च तथाप्सु त इति स्मृतम् । एतैः संप्लावयेत् सूक्तैस् ततो ऽघमर्षणम् ॥
अपो दिव्याश् च सं माग्ने इदम् आपः शिवेन मा । यद् आपो नक्तम् इति च एतत् स्याद् अघमर्षणम् ॥
यद् आपो नक्तं मिथुनं चकार यद् वा दुद्रोह दुरितं पुराणम् । हिरण्यवर्णास् तत उत् पुनन्तु प्र मा मुञ्चन्तु वरुणस्य पाशात् ॥
सरस्वतीं गयां गङ्गां नैमिषं पुष्कराणि च । स्मृत्वा तीर्थानिपुण्यात्नि अवगाहेज् जलं ततः ॥
गच्छतः स्नानकार्याय पितरः सह दैवतैः । पृष्ठतः त्व् अनुगच्छन्ति तत्समीपं जलार्थिनः ॥
आशां त्यक्त्वा निवर्तन्ते वस्त्रनिष्पीडनेन तु । तस्मान् न पीडयेद् वस्त्रम् अकृत्वा पितृतर्पणम् ॥
उत्साहं वरुणः स्नाने अग्निर् होतुः श्रियं हरेत् । आयुष्यं भुञ्जतो मृत्युस् त्रिषु मौनम् अतश् चरेत् ॥ (अव्परिस् ४२,२.८च्द्) स्नानवस्त्रे मृदस् तिस्रः प्रदद्याच् छुद्धिहेतुना । ८अब् । स्नात्वा पर्युक्ष्य वासो ऽन्यच् छोध्ये जङ्घे मृदा पुनः ॥
वस्त्रनिष्पीडतोयेन अपवित्रीकृते हि ते । उत्तिर्य वस्त्रं निष्पीड्य जपेद् आध्यात्मिकानि तु ॥
अध्यात्मम् अस्यवामीयं कौत्सं कौष्माण्डिकं तथा । जप्त्वाथर्वशिरश् चैव भवाशर्वीयम् एव च ॥
प्राणाश् च भगवान् कालः पुरुषो मन्युर् एव च । उच्छिष्टो रोहितो व्रात्य एतान्य् आध्यात्मिकानि तु ॥
संवत्सरेण यत् पापं कृतं घोरम् अविस्तरम् । जप्त्वैतानि ततः पापान् मुच्यते नात्र संशयः ॥
विषासहिं मनसा हि जप्त्वा गायत्रीं च तथा त्रिदिवं प्रायाति । परिभ्रष्टस् त्रिदिवात् तपःक्षये जातिस्मरत्वं पुनर् एव विन्दते ॥ (परिशिष्ट ४३. तर्पणविधिः)
ॐ अथ तर्पणविधिम् अनुक्रमिष्यामः ॥
स्नातोपस्पर्शनकाले ऽवगाह्य देवतास् तर्पयति ॥
वसूनां नमो
ब्रह्मणे नमो
वैश्रवणाय नमो
धर्माय नमः
कामाय नमो
लोकाय अमो
देवाय नमो
वेदाय नम
ऋषिभ्यो नम
आर्षेयेभ्यो नमो
अङ्गिरोभ्यो नम
आङ्गिरसेभ्यो नमो
अथर्वेभ्यो नम
आथर्वणेभ्यो नमो
मरुद्भ्यो नमो
मारुतेभ्यो अमो
वसुभ्यो नमो
रुद्रेभ्यो नम
आदित्येभ्यो नमः
सिद्धेभ्यो नमः
साध्येभ्यो नम
आप्येभ्यो नमो
अश्विभ्यां नमो
गुरुभ्यो नमो
गुरुपत्नीभ्यो नमः
पितृभ्यो नमो
मातृभ्यो नमः ॥
अग्निस् तृप्यतु ॥
वायुस् तृप्यतु ॥
सूर्यस् तृप्यतु ॥
विष्णुस् तृप्यतु ॥
प्रजापतिस् तृप्यतु ॥
विरूपाक्षस् तृप्यतु ॥
सहस्राक्षस् तृप्यतु ॥
सोमस् तृप्यतु ॥
ब्रह्मा तृप्यतु ॥
देवास् तृप्यन्तु ॥
वेदास् तृप्यन्तु ॥
ऋषयस् तृप्यन्तु ॥
आर्षेयास् तृप्यन्तु ॥
सर्वाणि छन्दांसि तृप्यन्तु ॥
ओम्कारवषट्कारौ तृप्यताम् ॥
महाव्याहृतयस् तृप्यन्तु ॥
सावित्री तृप्यन्तु ॥
गायत्री तृप्यतु ॥
द्यावापृथिव्यौ तृप्यताम् ॥
यज्ञास् तृप्यन्तु ॥
ग्रहास् तृप्यन्तु ॥
नक्षत्राणि तृप्यन्तु ॥
अन्तरिक्षं तृप्यतु ॥
अहोरात्राणि तृप्यन्तु ॥
संख्यास् तृप्यन्तु ॥
संध्यास् तृप्यन्तु ॥
समुद्रास् तृप्यन्तु ॥
नद्यस् तृप्यन्तु ॥
गिरयस् तृप्यन्तु ॥
केषेत्रौषधिवनस्पतयस् तृप्यन्तु ॥
गन्धर्वाप्सरसस् तृप्यन्तु ॥
नागास् तृप्यन्तु ॥
वयांसि तृप्यन्तु ॥
सिद्धास् तृप्यन्तु ॥
साध्यास् तृप्यन्तु ॥
विप्रास् तृप्यन्तु ॥
यक्षास् तृप्यन्तु ॥
रक्षांसि तृप्यन्तु ॥
मन्त्रास् तृप्यन्तु ॥
भूतान्य् एवमादीनि तृप्यन्तु ॥
श्रुतिं तर्पयामि ॥
स्मृतिं तर्पयामि ॥
धृतिं तर्पयामि ॥
रतिं तर्पयामि ॥
गतिं तर्पयामि ॥
मतिं तर्पयामि ॥
दिशं तर्पयामि ॥
विदिशं तर्पयामि ॥
श्रद्धामेधे तर्पयामि ॥
धारणां तर्पयामि ॥
गोब्राह्मणांस् तर्पयामि ॥
स्थावरजङ्गमानि तर्पयामि ॥
सर्वान् देवांस् तर्पयामि ॥
सर्वभूतानि तर्पयामि ॥
यज्ञोपवीतं ग्रीवायाम् अवलम्ब्य सनकादिमनुष्यांस् तर्पयति ॥ सनकस् तृप्यतु
सनन्दनस् तृप्यतु ॥
सनातनस् तृप्यतु ॥
कपिलस् तृप्यतु ॥
वोढस् तृप्यतु ॥
आसुरिस् तृप्यतु ॥
पञ्चशिखस् तृप्यतु ॥
सनन्दनं तर्पयामि ॥
ससनकं तर्पयामि ॥
विद्वांसं सनातनं तर्पयामि ॥
सनत्कुमारं तर्पयामि ॥
सनकं तर्पयामि ॥
सहदेवं सनातनं तर्पयामि ॥
प्लुतिं तर्पयामि ॥
पुलस्त्यं तर्पयामि ॥
पुलहं तर्पयामि ॥
भृगुं तर्पयामि ॥
अङ्गिरसं तर्पयामि ॥
मरीचिं तर्पयामि ॥
क्रतुं तर्पयामि ॥
दक्षं तर्पयामि ॥
अत्रिं तर्पयामि ॥
वसिष्ठं तर्पयामि ॥
मानसांस् तर्पयामि ॥
अञ्जली द्विर्द्विः ॥
अथापसव्यं कृत्वा पित्र्यां दिशम् ईक्षमाणः शतर्चिनाद्यृषींस् तर्पयति ॥ शतर्चिनस् तृप्यन्तु ॥
माध्यमिकास् तृप्यन्तु ॥
गृत्समदस् तृप्यतु ॥
विश्वामित्रस् तृप्यतु ॥
अघमर्षणस् तृप्यतु ॥
वामदेवस् तृप्यतु ॥
अत्रिस् तृप्यतु ॥
भरद्वाजस् तृप्यतु ॥
वसिष्ठस् तृप्यतु ॥
प्रगाथास् तृप्यन्तु ॥
पावमान्यस् तृप्यन्तु ॥
क्षुद्रसूक्तमहासुक्तौ तृप्यताम् ॥
शुनस् तृप्यतु ॥
जैमिनिस् तृप्यतु ॥
वैशम्पायनस् तृप्यतु ॥
पाणिनिस् तृप्यतु ॥
पैलस् तृप्यतु ॥
सुमन्तुस् तृप्यतु ॥
भाष्यगार्ग्यौ तृप्यताम् ॥
बभ्रुबाभ्रव्यौ तृप्यताम् ॥
मण्डुमाण्डव्यौ तृप्यताम् ॥
गार्गी तृप्यतु ॥
वाचक्नवी तृप्यतु ॥
वडवा तृप्यतु ॥
प्रातिथेयी तृप्यतु ॥
सुलभा तृप्यतु ॥
मैत्रेयी तृप्यतु ॥
कहोलं तर्पयामि ॥
कौषीतकिं तर्पयामि
महाकौषीतकिं तर्पयामि ॥
सुयज्ञं तर्पयामि ॥
शाङ्खायनं तर्पयामि ॥
महाशाङ्खायनं तर्पयामि ॥
आश्वलायनं तर्पयामि ॥
ऐतरेयं तर्पयामि ॥
महैतरेयं तर्पयामि ॥
पैठीनसिं तर्पयामि ॥
मधुछन्दांसि तृप्यन्तु ॥
भारद्वाजं तर्पयामि ॥
जातूकर्ण्यं तर्पयामि ॥
पैङ्ग्यं तर्पयामि ॥
महापैङ्ग्यं तर्पयामि ॥
शाकलं तर्पयामि ॥
बाष्कलं तर्पयामि ॥
गार्ग्यं तर्पयामि ॥
माण्डुकेयं तर्पयामि ॥
पैङ्ग्यस् तृप्यतु ॥
महापैङ्ग्यस् तृप्यतु ॥
मदमित्रं तर्पयामि ॥
महामदमित्रं तर्पयामि ॥
औदवाहं तर्पयामि ॥
सौयामिं तर्पयामि ॥
शौनकिं तर्पयामि ॥
पैठीनसिं तर्पयामि ॥
महापैठीनसिं तर्पयामि ॥
शाकपूणिं तर्पयामि ॥
ये चान्य आचार्यास् तान् सर्वांस् तर्पयामि ॥
प्रतिपुरुषं पितरः ॥
पितृवंशस् तृप्यतु ॥
मातृवंशस् तृप्यतु ॥
अञ्जलीं त्रींस्त्रीन् ॥
धरस् तृप्यतु ॥
ध्रुवस् तृप्यतु ॥
सोमस् तृप्यतु ॥
आपस् तृप्यतु ॥
अनलस् तृप्यतु ॥
अनिलस् तृप्यतु ॥
प्रत्यूषस् तृप्यतु ॥
प्रभासस् तृप्यतु ॥ इति वसवः ॥
मृगव्याधस् तृप्यतु ॥
सर्पस् तृप्यतु ॥
निरृतिर् महाशयस् तृप्यतु ॥
अज एकपात् तृप्यतु ॥
अहिर् बुध्न्यस् तृप्यतु ॥
पिनाकी परंतपस् तृप्यतु ॥
भुवनस् तृप्यतु ॥
ईश्वरस् तृप्यतु ॥
कपाली महाद्युतिस् तृप्यतु ॥
स्थाणुस् तृप्यतु ॥
भवो भगवांस् तृप्यतु ॥ इति रुद्राः
भगस् तृप्यतु ॥
अंशस् तृप्यतु ॥
अर्यमा तृप्यतु ॥
मित्रस् तृप्यतु ॥
वरुणस् तृप्यतु ॥
सविता तृप्यतु ॥
धाता तृप्यतु ॥
त्वष्टा तृप्यतु ॥
पूषा तृप्यतु ॥
विवस्वान् महाबलस् तृप्यतु ॥
इन्द्रस् तृप्यतु ॥
विष्णुस् तृप्यतु ॥
कव्यवालं तर्पयामि ॥
अनलं तर्पयामि ॥
अनिलं तर्पयामि ॥
सोमं तर्पयामि ॥
यमं तर्पयामि ॥
अर्यमणं तर्पयामि ॥
अग्निष्वात्तांस् तर्पयामि ॥
सोमपांस् तर्पयामि ॥
बर्हिषदस् तर्पयामि ॥ इति देवपितरः ॥
यमाय नमो
धर्मराजाय नमो
मृत्यवे नमो
अन्तकाय नमो
वैवस्वताय नमः
कालाय नमश्
चित्राय नमश्
चित्रगुप्ताय नमः
सर्वभूतक्षयाय नमः
कृताय नमः
कृतान्ताय नमो
महोदराय नमो
धात्रे नमो
विधात्रे नमो
यमेभ्यो नमो
यमदूतेभ्यो नमः ॥
विश्वेशास् तृप्यन्तु ॥
सिकतास् तृप्यन्तु ॥
पृश्निजास् तृप्यन्तु ॥
नीलास् तृप्यन्तु ॥
शृङ्गिणस् तृप्यन्तु ॥
श्वेतास् तृप्यन्तु ॥
कृष्णास् तृप्यन्तु ॥
अजास् तृप्यन्तु ॥ इति यमदूताः ॥
यां कां चित् सरितं गत्वा कृष्णपक्षे चतुर्दशीम् । एकैकस्य तिलैर् मिश्रान् दद्यात् त्रीन् उदकाञ्जलीन् ॥
आ यातेति हि तिसृभिः पितॄन् आवाहयेत् ततः । उद् ईरताम् इति तिसृभिः पितृभ्यो दद्यात् तिलोदकम् ॥
नाभिमात्रे जले स्थित्वा चिन्तयेन् मनसा पितॄन् । तथा मातामहेभ्यश् च शुचौ देशे ऽथ बर्हिषि ॥
परा यातेत्य् एतया पितॄंस् तृप्तान् विसर्जयेत् । मनो न्व् आ ह्वामहीत्य् एवं पञ्चभिर् मन उपाह्वयेत ॥
एतद्द् हि तर्पणं श्रेष्ठं स्वयम् उक्तं स्वयंभुवा । श्रद्धधानः समाचष्टे ब्रह्मलोकं स गच्छति ॥ (परिशिष्ट ४४. श्राद्धविधिः)
ॐ अथातः श्राद्धविधिं व्याख्यास्यामः ॥
चतुष्प्रकारं श्राद्धं भवति ॥
नित्यम् आभ्युदयिकं काम्यम् एकोद्दिष्टं चेति ॥
तत्र नित्यम् अमावास्यायाम् ॥
आभ्युदयिकं मातृपूर्वकं पुंसवनादिषु संस्कारेषु ॥
काम्यं तिथिद्रव्यब्राह्मणसंयोगे ॥
एकोद्दिष्टं संचयनप्रभृत्य् आ सपिण्डीकरणात् ॥
तत्र नित्ये युग्मान् दैवे ब्राह्मणान् उपामन्त्रयेत् ॥
आभ्युदयिके उभयत्र युग्मान् ॥
यवैस् तिलार्था ऋजवो दर्भाः प्रदक्षिणं कुर्यात् ॥
काम्यं तु नित्यवत् ॥
अथैकोद्दिष्टं तूष्णीं यावद् उक्तम् ॥
नाग्नेवं न दैवम् अयुग्मान्ब्राह्मणान् ॥
दक्षिणामुख उपविश्य पित्र्येणोपचर्यैकं पवित्रम् एकम् उदपात्रम् अप्रत्यावृत्तिम् आसनं नामगोत्रेणैकं पिण्डम् एतत् ते अन्नम् इति ॥
श्वे ऽद्येति वा श्राद्धं करिष्यामीति ब्राह्मणान् उपामन्त्रयेत् ॥
त्रीन् पञ्च सप्त वा न प्रसज्येत विस्तर इति वचनात् ॥
प्राङ्मुखान् विश्वेदेवान् उदङ्मुखान् पितॄन् ॥
वेदवेदाङ्गविदः पञ्चाग्निर् अनूचानो ऽव्यवहारी श्रोत्रियस् त्रिणाचिकेतस् त्रिमधुस् त्रिसुपर्णी छन्दोगो ज्येष्ठसामगो ऽथर्वशिरसो ऽध्येता संध्यास्नायी देवपितृसदाह्निको मातृपितृशुश्रूषुर् भृग्वङ्गिरोविद् धर्मशास्त्रविद् इति ॥
प्रयतो ऽपराह्णे शुचिः शुक्लवासाः ॥
स्वागतेनाभ्यर्च्याचमनीयं कृत्वा दत्त्वा ब्राह्मणान् उपसंगृह्योपवेशयेद्
दैवे पित्र्ये च सदर्भेष्व् आसनेषु
ततो ऽनुज्ञापयेद् देवान् पितॄंश् चावाहयिष्यामीति
आवाहय सौम्यास् ते सन्त्व् इत्य् अनुज्ञातः पूर्वं देवान् आवाहयेद् विश्वे देवास आ गतेति ॥
विश्वे देवास आ गत शृणुता म इमं हवम् । एदं बर्हिर् नि षीदत इति ॥
आ यातेति पितॄन् आवाहयेद् आच्या जान्व् इत्य् उपवेशयेत् सं विशंत्व् इति संवेशयेद् इति ॥
यज्ञोपवीती सावित्र्योदपात्रम् अभिमन्त्र्य
विश्वेभ्यो देवेभ्यः पादयम् अर्घ्यम् आचमनीयम् इति ब्राह्मणहस्तेषु निनयेत् ॥
त्रीण्य् उदपात्राणि कल्पयेद् गन्धमाल्यतिलैर् मिश्राणि कृत्वाऽ
ऽउद् ईरताम् इति तिसृभिर् उदपात्राण्य् अन्वृचं सपवित्रेषु ब्राह्मणहस्तेषु निनयेत् ॥
प्रपितामहेभ्यः पितामहेभ्यः पितृभ्यश् चेति दत्त्वा
गन्धमाल्यधूपाञ्जनादर्शप्रदीपस्योपहरनम्
सर्वान्नप्रकारम् आदायाग्नौ करिष्यामीत्य् अनुज्ञाप्य कुरुष्वेत्य् अनुज्ञातो दर्भैर् दक्षिणाग्रैर् अग्निं परिस्तीर्य जुहुयाद् अग्नये कव्यवाहनायेति तिसृभिर्
हुतशेषं ब्राह्मणेभ्यो दद्याद्
अङ्गुष्ठम् उपयम्य प्रदक्षिणं दैवे प्रसव्यं पित्र्य इदं विष्णुर् इति जपेज् जानुं निषद्य भूमाव्
अतस् तिलैर् मांसैः शाकैर् युषैः कृसरापायसापूपैर् लाजैर् भक्षैर् इक्षुविकारैः पानैर् मधुना घृतेन दध्ना पयसा चैव प्रभूतमृष्टतो ऽन्नं दद्याद् अनसूयः ॥
पवित्रपाणिर् धर्भेष्व् आसीनो मधु वाता इति जपेत्
पवित्रं धर्मशास्त्रम् अप्रतिरथं प्राणसूक्तं पुरुषसूक्तम् उपनिषदम् अन्यद् वाध्यात्मिकं किं चित्
तृप्ताञ् ज्ञात्वान्नं प्रकीर्य दत्त्वा चापः सकृत्सकृद् अन्नं ये ऽग्निदग्धा इति विकिरम् ॥
दर्भिर् आस्तीर्य द्युऔर् दर्विर् अक्षितेति तिसृभिः सर्वान्नप्रकारम् उद्धृत्याज्येन संनीय त्रीन् पिण्डान् संहतान् निदधात्य्
एतत् ते प्रततामहेति दक्षिणतः पत्नीभ्य इदं वः पत्न्या इतीदम् आशंसूनाम् इदम् आशंसमानानाम् इत्य् अन्नेन प्रसव्यं परिकिरनम् ॥ ये दस्यव इत्य् उल्मुकेनाभिपरिहरणम्
एकोद्दिष्टे त्व् एकं पिण्डम् एकम् उदपात्रम् आचम्योपोत्थाय एतं भागम् एतं सधस्थाः श्येनो नृचक्षा इति च श्राद्धं दत्त्वाभिमन्त्रयेच् छेषम्
अनुज्ञाप्याचमनीयं दत्त्वा पुण्याहं वाचयेद् दक्षिणां च दत्त्वा यथाशक्त्य् उदपात्रशेषं सपवित्रेषु ब्राह्मणहस्तेषु निनयेत्
पुत्रं पौत्रम् इत्य् एकम् आपो अग्निम् इति द्वितीयं युक्ताभ्यां तृतीयं पुत्रं पौत्रम् इत्य् एकयोदपात्रम् इति कौशिकः ॥
प्रपितामहेभ्यः पितामहेभ्यः पितृभ्यो मातुलमातामहेभ्यो निर्दिष्टं तेभ्यः सर्वेभ्यः सपत्नीकेभ्यः स्वधावद् अक्षय्यम् अस्त्व् अक्षय्यम् अस्त्व् इति व्राह्मणवचनम् ॥
दातारो नो ऽभिवर्धन्तां वेदाः संततिर् एव च । श्रद्धा च नो मा व्यगमद् बहुदेयं च नो ऽस्त्व् इत्य्
एवं वरान् वाचयित्वा नमो वः पितर इत्य् एवमादि मनो न्व् आ ह्वामहीत्य् एवमन्तं समानं पिण्डपितृयज्ञेन मध्यमपिण्डप्रदानं चेति ॥
वाजेवाजे ऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥
इति ब्राह्मणान् हस्तेषु गृहीत्वोत्थाप्य प्रदक्षिणं कुर्याद्
एष श्राद्धविधिर् अनेन विधिना पुत्रान् पशून् धान्यं हिरण्यम् आयुश् च लभते य एवं वेदेति च ब्राह्मणम् ॥
माहकिः कौशिकाच् च माहकिः कौशिकाच् चेति ॥ (परिशिष्ट ४५. अग्निहोत्रहोमविधिः)
ॐ अग्निहोत्रम् ॥
सायम् आरम्भः प्रातर् अपवर्गः ॥
नान्तरेणान्यत् कुर्यात् ॥
प्रातर् आरम्भमित्य् एके ॥
यज्ञपात्राणि प्रक्षाल्याग्निहोत्रं श्रपयेत् ॥
श्रप्यमाणं चेद् विष्यन्देत् तद् अद्भिर् उपनिनयेत्
तद् अनुमन्त्रयते पृथिवीं तुरीयम् इत्य् एताभिः
प्रत्यानीयोदग् उद्वास्य बर्हिर् उदपात्रम् उन्दयति पर्युक्ष्य ॥
ऋतं त्वा सत्येन परिषिञ्चामीति होष्यन् ॥
सत्यं त्व र्तेनेति हुते ॥
गार्हपत्याद् आहवनीयम् उदकधारां निनयति ॥ अमृतम् अस्य् अमृतम् अमृतेन संधेहीति ॥
आहवनीयं पर्युक्ष्य गार्हपत्यं प्राप्याङ्गारान् अवलोड्य चरुस्थाल्या संस्पर्शयति ॥
निरूढं जपत्य् उभयम् इति प्रत्यूढम् इति प्रतिनिनयति
स्रुवं स्रुचं च प्रतितपति निष्टप्तं रक्षो निष्टप्ता अरातयः प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्य्
अद्भिर् अभ्युक्ष्य चरुस्थाल्यां स्रुवेण स्रुचि गृहीतम् इति समानम्
स्रुचम् आदाय गृह्याहवनीयम् अभिक्रामतीदम् अहं यजमानं स्वर्गं लोकम् उन्नयामीति ॥
बर्हिषि स्रुचं निधाय समिधम् आदधाति ॥
अग्निज्योतिषं त्वा वायुमतीं प्राणवतीं स्वर्ग्यां स्वर्गायोपदधामि भास्वतीं स्वाहेति ॥
समिधं प्रदीप्ताम् अभिजुहोति ॥
सजूर् देवेन सवित्रा सजू रात्र्येन्द्रवत्या जुषाणो अग्निर् वेतु स्वाहेति सायम् ॥
सजूर् देवेन सवित्रा सजूर् उषसेन्द्रवत्या जुषाणः सूर्यो वेतु स्वाहेति प्रातर्
आहुतिर् उदयहोमे ऽग्नेर् एव
ज्योतिष्मान् उदेत्य् आयंतनताम् इति ॥
प्रजापते न त्वद् एतान्य् अन्य इति मनसैवोभयत्र प्राजापत्योत्तराभुतीर् हुत्वा
स्रुवं त्रिर् उदञ्चम् उन्नयति रुद्रान् प्रीणामीति
बर्हिषि स्रुवं निधायोन्मृज्य
पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधां करोमीति ॥
हुतम् अग्निहोत्रं सर्वेष्व् इत्य् एके ॥
चरुस्थाल्याः स्रुवेण ॥
इह पुष्टिं पुष्टिपतिर् दधात्व् इह प्रजां जनयतु प्रजापतिः । अग्नये गृहपतये रयिमते पशुपतये पुष्टिपतये स्वाहेति गार्हपत्ये ॥
अग्नये ऽन्नादायान्नपतये स्वाहेति दक्षिणाग्नौ हुत्वा ॥
मनसैवोभयत्र प्रजापतेश् चरुस्थाली
स्रुचं स्रुवं बर्हिष्य् आधायोत्तरतो ऽग्नेर् उपविश्य प्राश्नाति ॥
प्राणान् प्रीणामीत्य् उपस्पृश्य गर्भान् प्रीणामीति द्वितीयं विश्वान् देवान् प्रीणामीत्य् अन्ततः सर्वम्
अप्रक्षालितयोदकं स्रुचा निनयति सर्पेतरजनान् प्रीणामीति
बर्हिषा प्रक्षाल्य सर्पपुण्यजनान् प्रीणामीति द्वितीयम् ॥
गन्धर्वाप्सरसः प्रीणामीति अपरेणाहवनीयम् उदकं तृतीयम् ॥
सप्त र्षीन् प्रीणामीति स्रुचं स्रुवं च प्रतितपति
दक्षिणान् नयामीति रात्रौ स्रुग्दण्डम् अवमार्ष्टि ॥
प्रातर् उन्मार्ष्टि ॥
इत्य् उक्तं समिदाधानम्
अग्न्युपस्थानम् ॥ रात्रिं रात्रिम् अप्रयातं भरन्त इति ॥
यथाकालं सायम्सायं गृहपतिर् अयं नो अग्निर् इति द्वे
गार्हपत्यपश्चाद् दुग्धान्नस्याग्निहोत्रश्रपणी विधीयते ॥
यज्ञ ते वेद पृष्ठम् इत्य् एतयालभ्याभिमन्त्रयते ॥
उखायं स्रवन्त्यां स मर्दकर्मभ्यो ऽन्यस्यां दृढतरायां प्रत्यासिच्य सुता देवेष्व् इत्य् अनुमन्त्रयते ॥
एवं सर्वासूखासु सोमकलशमहावीरे वा
अथ यस्याग्निहोत्रधेन्वादि व्यापद्येत । तत्र यथादेवतं जुहुयाद् अप्रतिभावे व्याहृतिभिः ॥ (परिशिष्ट ४६. उत्तमपटलम्)
अथ वेदव्रतस्यादेशनविधिं व्याख्यास्यामः ॥
सांवत्सरिकं वेदव्रतम् ॥
कल्पानां षाण्मासिकम् ॥
रोमनखानि धारयेत् त्रिषवणं तु स्नायाद् धविष्यम् अश्नीयान् न तु नक्तम् अणून् माशान् मसूरांस् तु ॥
दण्डमथितम् उद्धृतस्नेहं नाशीयात् ॥
दण्डकमण्डलुधारणं वासश् चाथोर्णम्
शिरस्व्रतं च सांवत्सरिकं वेदव्रतेनैव व्याख्यातम् ॥
अथ प्रमाणानि वक्ष्यामो
यमानां मित्रस्य मृगार्थस्याक्षीराक्षारभोजनम् अयुग्मम् आछादनम् अनन्तर्हिता शय्या
मृगार्थेष्व् अविशेषेण यमेषु सर्वम् एव शमीधान्यं न भुञ्जीता
अथोपसमादधाति ॥
समास् त्वास्मै क्षत्राण्य् एतम् इध्मम् अग्निर् भूम्याम् इति तिसृभिर् ममाग्ने वर्च इति सर्वसूक्तेनायुष्यैर् वर्चस्यैः स्वस्त्ययनैर् अभयैर् अपराजितैः शर्मवर्मभिश् चोपसमादधाति ॥
व्रतं निवेद्य व्रातपतीभिः समिधो ऽभ्यादध्याद्
आङ्गिरसान् समासान् हुत्वा भार्गवैर् विपर्यस्ताम् आङ्गिरसीम्
वेदादिभिर् वेदोत्तमैः वर्गादिभिर् वर्गोत्तमैः पदादिभिः पदोत्तमैः काण्डादिभिः काण्डोत्तमैर् अनुवाकादिभिर् अनुवाकोत्तमैर् महत्काण्डैर् विशेषेण सूक्तादिभिः सूक्तोत्तमैर्
अत्रैतान्य् अष्टर्चप्रभृतीनि व्याख्यातानि ॥
ब्रह्मज्येष्ठेति एका कामोजज्ञे कामस् तद् इति हुत्वा
कल्पव्रते विशेषो वचनकर्मसु ब्राह्मणं श्रावयेत् ॥
केशीब्राह्मणं च
येषु व्रतविशेषः स्यान् न तान् मन्त्रान् उदाहरेत् समासवत् स होतव्यः पुराणार्थं विजानता ॥
अग्निम् ईले पुरोहितं यज्ञस्य देवम् ऋत्विजम् । होतारं रत्नधातमम् ॥
तच् छं योर् आवृणीमहे गातुं यज्ञाय गातुं यज्ञपतये । दैवी स्वस्तिर् अस्तु नः स्वस्तिर् मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजं शं नो अस्तु द्विपदे शं चतुष्पदे ॥
इषे त्वोर्जे त्वा वायव स्थोपायव स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वम् अघ्न्या इन्द्राय भागम् [ऊर्जस्वतीः पयस्वतीः] प्रजावतीर् अनमीवा अयक्ष्मा मा व स्तेन ईशत माघशंसो रुद्रस्य हेतिः परि वो वृणक्तु ध्रुवा अस्मिन् गोपतौ स्यात बह्वीर् यजमानस्य पशून् पाहि ॥
दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र ण आयुम्षि तारिषत् ॥
अग्न आ याहि वीतये गृणानो गव्यदातये । नि होता सत्सि बर्हिषि ॥
एष स्य ते धारया सुतो ऽव्यो वारेभिर् यवने मदितव्यम् । क्रीडन् रश्मिर् अपार्थिवः ॥
ये त्रिषप्ता वस्योभूयाय ये त्रिषप्ता मर्माणि ते वस्योभूयाय ये त्रिषप्ता ये दिशां मर्माणि ते यां देवा वस्योभूयाय ये त्रिषप्ताः समानां मासाम् आ ते नयत्व् आ अर्जन्यस्य ये दिशां कृत्याकृतं वलगिनम् अक्षितास् ते मर्माणि ते विषम् एवेन्द्रं मित्रं वशां देवा यां देयाः सूर्य एनम् अन्नाद्येन यशसा प्र बुध्यस्वाह्ना प्रत्यग् वस्योभूयाय ॥
ये त्रिषप्ताः शं न आपो यथा वातो यदि नो गां हंस्य् अपेन्द्र द्विषतः पुत्रम् अत्तु समानां वृषायमाणः सूर्यम् ऋतं परिपाणम् अस्य् आ हरामिये क्रिमय
आ ते नयतु पर्णो ऽसीन्द्रपुत्रे विश्वाहा ते गोसनिं व्य् अस्मै मित्रावरुणाव् आ पर्जान्यस्य स्वप्न स्वप्नाभिकरएन देवानाम् अस्थि महान्तं कोशं यो अन्तरिक्षेणोप श्रेष्ठा अहम् एव वात इवाव बाधे ये दिशाम्
अर्धम् अर्धेनैवा महान् अर्वाञ्चम् इन्द्रं शीर्षामयम् उपहत्याम् अश्वस्याश्न इन्द्रस्य वरूथं हिरण्यवर्णा सुभगा अत्रैनान् इन्द्रोद् आयुर् उद् बृहता मनो
देवो देवाय सद्यो जातस् तस्तुवन्न् अग्निर् इवैतु शतं च मे यद्य् एकादशो ऽसि नास्य धेनुर् इषुर् इव दिग्धा न वर्षम् अच्युतच्युद् एता देवसेना
गन्धारिभ्यः सर्वेषां च क्रिमीणां ततस् ततामहाः प्रजापते श्रेष्ठेनाश्विना ब्रह्मणाग्ने स्वाहा घृताद् उल्लुप्तं तार्ष्टाघीर् अयं लोकः कृत्याक्र्तं वलगिनम् ॥
दिवे चक्षुषे अयं नस् त्रिंशद् धाम मा नो हासिषुर् यत् किं चेदम् अहं जजान यावदङ्गीनं यस् ते ऽङ्कुशस् तानूष् टे वाजिन्न् आञ्जनस्य द्वादशधा
अभ्यञ्जनम् अक्षितास् ते यावन्तो मा ब्रध्नः समीचीर् यदि वासि बृहस्पतिर् नो यो नः शपात् सूयवसाद् यं देवा यथा शेपो नमस्कृत्य मर्माणि ते अग्नेः शरीरम्
प्रति चक्ष्वाप्रजास्त्वम् इतो जय [यत् प्रत्याहन्ति] विषम् एव यास् ते शिवा एतं वो युवानं ज्योतिष्मतो लोकान् सं ते शीर्ष्ण इन्द्रं मित्रं प्रभ्राजमानाम् आरे अभूद्
एतम् इध्मम् अकामो धीरो वशां देवा नमस् ते घोषिणीभ्यः प्राण मा मद् यन् मातली अप्सु स्तीमासु यां देवा भूमे मातः प्रत्यञ्चम् अर्कम् ऊर्ध्वायै त्वा यदि हुताम्
सूर्य एनं यो यज्ञस्याबोध्य् अग्निः कृष्णायाः पुत्रो अन्नाद्येन यशसा ब्रह्मापरं प्र बुध्यस्वैनं श्रद्धा अह्ना प्रत्यं शक्वरी स्थ वस्योभूयाय ॥
व्रतैर् भृग्वङ्गिरःप्रोक्तैर् आनुपूर्व्याद् विधानतः । उपसन्ने गुरुः कुर्याद् व्रतविद् ब्रह्मचारिणि ॥
ग्रामाद् यथोक्तं बाह्येन स्थण्डिले ऽग्निं प्रणीय तु । नित्येनोपसमाधाय संस्कृत्य जुहुयाद्द् हविः ॥
औपगव्या व्याहृतयः सावित्री शान्तिर् एव च । व्रातपत्यः समासौ च तन्मन्त्रांहोमुचैः सह ॥
कूष्माण्ड्यः कामसूक्तं च ब्रह्मवत्यो ऽथ देवताः । व्रतादेशे तथोत्सर्गे होमः क्षीरोदनः स्मृतः ॥
उत्सर्गे कामसूक्तं च पूर्वां चाहुतिम् उद्धरेत् । निवेद्य व्रातपत्यो ऽन्ते इदावत्सर एव च ॥
आवर्तनान्तं सामान्यं व्याहृत्याद्य् उभयोर् अपि । एतत् सामासिकं प्रोक्तम् आदेशोद्दीक्षणं बुधैः ॥
व्रतेषु दक्षिणा धेनुः कल्याणी तरुणी च या । अनड्वान् वा धुरंधरस् तत्समं वापि काञ्चनम् ॥
सावित्र्या अथ वेदस्य कल्पानां तदनन्तरम् । मैलं मैलोत्तरं चैव षष्ठं संमितम् उच्यते ॥
षड्व्रतं ब्राह्मणं विद्यात् त्रिव्रतं क्षत्रियं विदुः । द्विव्रतस् तु भवेद् वैश्य एतद् आचार्यशासनम् ॥
विषासहिं सहमानम् अग्निर् मा गोप्ता ओ चित् सखायम् इत एत उदारुहन् धनुर् हस्ताद् एतद् आ रोह चन्द्रमा अप्स्व् इति ॥
ॐ आङ्गिरसानाम् आद्यैः पञ्चानुवाकैः स्वाहा ॥
षष्ठाय स्वाहा ॥
सप्तमाष्टमाभ्यां स्वाहा ॥
नीलनखेभ्यः स्वाहा ॥
हरितेभ्यः स्वाहा ॥
क्षुद्रेभ्यः स्वाहा ॥
पर्यायिकेभ्यः स्वाहा ॥
प्रथमेभ्यः शङ्खेभ्यः स्वाहा ॥
द्वितीयेभ्यः शङ्खेभ्यः स्वाहा ॥
तृतीयेभ्यः शङ्खेभ्यः स्वाहा ॥
उपोत्तमेभ्यः स्वाहा ॥
उत्तमेभ्यः स्वाहा ॥
उत्तरेभ्यः स्वाहा ॥
ऋषिभ्यः स्वाहा ॥
शिखिभ्यः स्वाहा ॥
गणेभ्यः स्वाहा ॥
महागणेभ्यः स्वाहा ॥
सर्वेभ्यो ऽङ्गिरोभ्यो विदगणेभ्यः स्वाहा ॥
पृथक् सहस्राभ्यां स्वाहा ॥
ब्रह्मणे स्वाहा ॥
ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवम् आ ततान । भूतानां ब्रह्मा प्रथमो ऽथ जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥
आथर्वणानां चतुरृचेभ्यः स्वाहा ॥
पञ्चर्चेभ्यः स्वाहा ॥
षडर्चेभ्यः स्वाहा ॥
सप्तर्चेभ्यः स्वाहा ॥
अष्टर्चेभ्यः स्वाहा ॥
नवर्चेभ्यः स्वाहा ॥
दशर्चेभ्यः स्वाहा ॥
एकादशर्चेभ्यः स्वाहा ॥
द्वादशर्चेभ्यः स्वाहा ॥
त्रयोदशर्चेभ्यः स्वाहा ॥
चतुर्दशर्चेभ्यः स्वाहा ॥
पञ्चदशर्चेभ्यः स्वाहा ॥
षोडशर्चेभ्यः स्वाहा ॥
सप्तदशर्चेभ्यः स्वाहा ॥
अष्टादशर्चेभ्यः स्वाहा ॥
एकनविंशर्चेभ्यः स्वाहा ॥
विंशतिः स्वाहा ॥
महत्काण्डाय स्वाहा ॥
तृचेभ्यः स्वाहा ॥
एकर्चेभ्यः स्वाहा ॥
क्षुद्रेभ्यः स्वाहा ॥
एकानृचेभ्यः स्वाहा ॥
रोहितेभ्यः स्वाहा ॥
सूर्याभ्यां स्वाहा ॥
व्रात्याभ्यां स्वाहा ॥
प्राजापत्याभ्यां स्वाहा ॥
विषासह्यै स्वाहा ॥
मङ्गलिकेभ्यः स्वाहा ॥
ब्रह्मणे स्वाहा ॥
ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवम् आ ततान । भूतानां ब्रह्मा प्रथमो ऽथ जज्ञे तेनार्हति ब्रह्मना स्पर्धितुं क इति ॥ (परिशिष्ट ४७. वर्णपटलम्)
ॐ वर्णान् पूर्वं व्याख्यास्यामः प्राकृता ये च वैकृताः । श्रुतिनिर्वचनात् सर्वे विवदन्ते विवृत्तिषु ॥
वृत्तिः करणं वर्णानां कर्णयोस् तु श्रुतिर् यथा । श्रुतिप्रदेशाद् विमतस् तद् यथा वर्ण उच्यते ॥
समानसंध्यक्षराणि स्पर्शा अन्तःस्था ऊष्माणः । एतैर् अन्ये न दृश्यन्ते एतावान् वर्णसंचयः ॥
[येषां च श्रुतिसंहितायां विभागे असदृशी स्यात् ॥ तान् एव वर्नान् विरुद्रादये च प्रदिसे कृतः] ॥
ये वर्णाभ्यां श्रूयन्ते च येषां नास्ति विभागतः । मानसांश् चापि संग्राह्यान् उपदेशेन वर्तयेत् ॥
क्रान्तान् बहिर् निधानस्य यमांश् चाननुनासिकान् । सव्याक्षेपं ततो वर्णान् उपदेशेन वर्तयेत् ॥
इति वर्णाः स्वराः प्रोक्तास् तेषाम् आद्याश् चतुर्दश । समानाक्षराण्य् उच्यन्ते शेषः संध्यक्षराणि तु ॥
अनवर्णस्वरो नामि कादयो व्यञ्जनं स्मृतम् । पञ्चविंशतिर् आद्यैषां स्पर्शा वर्गाश् च पञ्चकाः ॥
चत्वारो यादयो ऽन्तःस्थाः शादिर् ऊष्माष्टको गणः । अयोगवाहा वर्तन्ते तेषाम् आद्याः पृथग्विधाः ॥
विसर्जनीयो ऽनुस्वारो जिग्वामूलीय [इत्य् अधः] । उपध्मानीय इत्य् एते चत्वारो ऽथ परे यमाः ॥
नासिक्याभिनिधानौ च विद्यते येन पूरणम् । पञ्चषष्टिर् इयान् वाचो राशिर् यो वेदलोकयोः ॥
मुखनासिके ये वर्णा उच्यन्ते ते ऽनुनासिकाः । समानास्यप्रयत्ना ये ते सवर्णा इति स्मृताः ॥
ह्रस्वो ऽवर्णपरस् तस्य सवर्णस्य च वाचकः । ह्रस्वोत्तरस् तु दीर्घो ऽपि तस्मात् तस्मात् तस्यैव वाचकः ॥
वर्गान्तरस् तु वर्गादिर् वर्गस्य ग्राहको मतः । वर्गाणां च यथासंख्यं प्रथमादित्वम् इष्यते ॥
अकारेणोच्यते ऽतस् तु कारो यस्मात् परो भवेत् । तस्य तद् ग्रहणं बोध्यं ककारो ऽत्र निदर्शनम् ॥
व्यञ्जनं घोषवत्संज्ञम् अन्तःस्था हः परौ यमौ । त्रयस्त्रयश् च वर्गान्त्या अगोषः शेष उच्यते ॥
शषसाश् च यमौ द्वौ च द्वितीयाः प्रथमाश् च ये । अघोषा व्यञ्जनशेषं घोषवद् दृश्यते बुधैः ॥
अतः स्थानानि वर्णानां कण्ठो ऽवर्णहकारयोः । वोसर्जनीय ऐ औ च स्वाद्ययोर् मात्रयोः स्मृतः ॥
शेषस् ताल्वोष्ठयोर् बोध्यः स यथासंख्यम् इष्यते । द्विस्थानं यमयोश् चापि वर्गान्त्यानां च शिष्यते ॥
जिह्वामूलाम् ऋवर्णस्य कवर्गस्य च भाष्यते । यश् चैव जिह्वामूलीय ल्वर्णश् चेति च स्मृतः ॥
ताल्व् एयशचवर्गाणाम् इवर्णस्य च भाष्यते । मूर्धा स्थानं षकारस्य टवर्गस्य तथा मतः ॥
दन्ता लसतवर्गाणाम् उवर्णस् त्व् ओष्ठ्य उच्यते । उपध्मानीय ओकारो वः पवर्गश् च तथा मताः ॥
नासिक्ये नासिका स्थानं तथानुस्वार इष्यते । यमा वर्गोत्तमाश् चापि यथोक्तं चैव ते मताः ॥
रेफस्य दन्तमूलानि प्रत्यग् वा तेभ्य इष्यते । इति स्थानानि वर्णानां कीर्तितानि यथाक्रमम् ॥
अपर आह । हनुमूले तु रेफः स्याद् दन्तमूलेषु वा पुनः । प्रत्यग् वा दन्तमूलेभ्यो मूर्धन्य इति चापरे ॥
उरःस्थो घोषो विसृष्टः कण्ठदेशे निहन्यते । ततो नादो वितिष्ठते तस्य विकृतिर् अक्षरम् ॥
पूर्वाभिर् अणुमात्राभिः कण्ठ्यं संसेव्यते ऽक्षरम् । उत्तराभिस् तु मात्राभिर् मुखविकृतिर् उच्यते ॥
अपि प्रयोगस्य हेतोः संयोगः सह धार्यते । अव्यवहितो ऽक्षरेण नानावर्णः स्वरोदयः ॥
द्वितीयेषु तथोष्मणां तृतीयेषु च घोषाणाम् । चतुर्थेषु घोषोष्मणाम् उपदेशेन वर्तयेत् ॥
उत्तमेषु तु नासिक्यम् अन्तःस्थेषु घोषं स्मृतम् । हकारस्य घोषोष्माणाव् उपदेशेन वर्तयेत् ॥
ऋकाराक्षरयो रेफम् अणुमात्र सर्व... । स्वरितस्य द्वैधीभावे उपदेशेन वर्तयेत् ॥
ऋवर्णदेशसंदेहो ऽस्वरः स्यात् स्याद् अनन्तरम् । परो वा यदि वा पूर्वो रेफम् एव तु विद्धि तम् ॥
अकारश् च इकारश् च उकार ऋकार एव च । ह्रस्वदीर्घप्लुताः सर्वे ल्वर्णे नास्ति दीर्घता ॥
एकारश् च तथाइकार ओकार औकार एव च । दीर्घमात्रप्लुतास् तेषां संज्जा संध्यक्षराणि च ॥
उदात्तश् चानुदात्ताश् च स्वरिताः कम्पिताश् च ये । अनुनासिकास् तथा शुद्धा दृश्यते ह्रस्वता बुधैः ॥
वर्णाः पञ्चषष्टिः स्वरा द्वाविंशतिः समानाक्षराणि चतुर्दश अष्टौ संध्यक्षराण्य् एकोनविंशतिर् नामिनस् त्रिचत्वारिंशद् व्यञ्जनानिस्पर्शाः पञ्चविंशतिश् चत्वारस् त्व् अन्तःस्थाः चत्वारो यमाश् चाष्टाव् ऊष्माणो ऽयोगवाहा दशायोगवाहा दश ॥ (परिशिष्ट ४८. कौत्सव्यनिरुक्तनिघण्टुः) (अव्परिस् ४८,१) ॐ अथर्वणे नमः ॥ (अव्परिस् ४८,२) [पचति । पचते । अशनशि । सिस्रते । गमेः । वायि । चायि ॥१ ॥ व्यापि । चक्रि । देवा चष्टे । अव चाकशत् । व्यानशे । त्रिषि निषामयत्योः । योष्टिः सप्ते च ॥२ ॥ रिञ्जति] । (अव्परिस् ४८,३) वश्मि । वश्मि । उश्मसि । अव वेति । वाञ्छति । वेष्टि । वनोति । जुषते । हर्यति । आचके । उशिक् । मन्यते । अछान्त्सुः ॥३ ॥ छन्त्सत् । चाकनत् । चकमानः । कनति । कानिषत् । कामे ॥ (अव्परिस् ४८,४) मिमेति ॥४ ॥ नर्दति । ध्वनति ॥ (अव्परिस् ४८,५) ध्वंसते । [कृणति । किंशक्ते ॥] (अव्परिस् ४८,६) वनति । भनति । [स्तर्षति ।] स्फूर्जति ॥ (अव्परिस् ४८,७) ह्लादते । [निरृते ।] ह्लादयति ॥ (अव्परिस् ४८,८) शब्दयति ॥ (अव्परिस् ४८,९) अर्चति । अर्चति । रेभति । गायति । जल्पति । स्तोभति । स्तौति । यौति । रौति । नौति । गदति । नदति । भनति । भनते । [तत्रते ।] पणते । पणस्यति । पणायते । भन्दते । [यत्रस्यते. कृकृम्धम्पात्] कृपण्यति । धमति । सपति । पपृक्षाः । गूर्धयति । वेदयति । वादयति ॥५ ॥ वल्गूयति । महयति । मन्त्रयते । सेवते । पृच्छति ॥६ ॥ छन्दति । शशमानः । जरते । [छरति ।] वेनति । वन्दते ॥ (अव्परिस् ४८,१०) इरजति । इरज्यति ॥७ ॥विधेम । दुवस्यति । नमस्यति । विवासति । ऋध्नोति । ऋणद्धि । ऋच्छति ॥ (अव्परिस् ४८,११) परि स्रव । परिस्रव ॥८ ॥ पवस्व । अभ्य् अर्ष । आशिषः ॥ (अव्परिस् ४८,१२) ईमहे । ईमहे । यामि । मन्महे । दद्धि । पूर्धि । शग्धि । मिमीहि । रिरीहि । रिरिढ्ढि । मिमिढ्ढि । पीपरत् । यन्तारः । इषुध्यति । वनेमहि । मनामहे । याचते ॥ (अव्परिस् ४८,१३) दासति ॥९ ॥ दाशति । शिक्षति । महते । पृणाति । राति । रासति । प्राति । तुञ्जति । [मत्स्यति ।] ददाति ॥ (अव्परिस् ४८,१४) य्र्य्ष्यति । उरुष्यति ॥१० ॥ पिपर्ति । पारयति । पाति । पासति । प्राति । तुञ्जति । पृणाति । रक्षे ॥ (अव्परिस् ४८,१५) आ वयति । भर्वति । बभस्ति । वेनति । वेति । वेवेष्टि । अविष्यन् । [प्रग] प्साति । बप्सति । भसथः । बब्धाम् । (अव्परिस् ४८,१६) [वदति । आदेति । तिरति । त्विष्यति । हिनोति । वृद्धेः ॥] (अव्परिस् ४८,१७) [उत्पपीति । उत्पपीति ॥११ ॥ तपति । पिप्पहु । सहोति । युग्भिदी भेदयोजनयोश् च ॥] (अव्परिस् ४८,१८) हेडते । हेडते ॥१२ ॥ भामते । हृणीयते । भ्रीणाति । भ्रेषते । दोधति । हेडः । हरः । हृणिः । त्यजः । भामः । मन्युः । क्रोधे नामानि च क्रोधस्य ॥ (अव्परिस् ४८,१९) श्नथति । श्नथति ॥१३ ॥ [दोवति । कुर्वति ।] तूर्वति । [मनुष्यति । धनुष्यति ।] शृणाति । मृणाति । भृज्जति । अमति । तृणेढि । दभ्नोति । [शूषति ।] ध्वरति । धूर्वति । कृन्तति । श्वसति । स्नेहयति । मृद्नाति । [स्रध्नाति ।] दासति । स्तृणुते । स्तरते । [कृणाति ।] नि तोजति । नि वपति । [अमति । रिति ।] यातयते । आखण्डल । तडित् । हिंसायाम् ॥ (अव्परिस् ४८,२०) इनद्धि । इनद्धि ॥१४ ॥ स्वरति । हृष्यति । पथति । सृजति । ज्योतते । द्योतते । [द्योप्यते ।] भ्राजते । भ्राशते । दीदयति । साधते । द्युमत् । जमत् । कल्मलीकिनम् । मल्मलाभवन् । जञ्जणाभवन् । अर्चिः । शोचिः । तपः । तेजः । हरः । सृङ्गाणि । ज्वलेज्वलतश् च नामानि ॥ (अव्परिस् ४८,२१) इरज्यति ॥१५ ॥ पत्यते । क्षय्ति । राजति । ईश्वरे ॥ (अव्परिस् ४८,२२) [स्वस्त्ययलेपी । स्वपे ॥] (अव्परिस् ४८,२३) सिषक्ति । सेचति । सेचते ॥ (अव्परिस् ४८,२४) [अबिभस्ते ।] अभि दासते । अभि मन्यते ॥ (अव्परिस् ४८,२५) बिभर्ति । दधति । धारयते ॥ (अव्परिस् ४८,२६) हृणीयते । भृणीयते ॥ (अव्परिस् ४८,२७) वादयते । पुनाति । पणायति । पूजयति । वदति । [कुसी । हूर्छि । सासुद्यति ।] श्लाघायाम् ॥ (अव्परिस् ४८,२८) सूर्क्षति । [रादले । च्व्युच्छति । र प्रसादे । शरुलिप्सायाम् । मुक्षति ।] सादरे । [व्युच्छति । अप्रमादे । शरुलिप्सायाम् । व्याखदि । पृथग्भावे ओषधिकिच्छ्रजीवने । दशस्यति । द्रोहे । पीयति । स्पर्धायाम् । वक्षति । निवासे । इष्टाति । स्वादने ॥] (अव्परिस् ४८,२९) पिबति । पाने ॥ (अव्परिस् ४८,३०) धिनोति । प्रीतौ ॥ (अव्परिस् ४८,३१) जिन्वति । उभयत्र ॥ (अव्परिस् ४८,३२) जिघर्ति । सेचने ॥ (अव्परिस् ४८,३३) [विस्वति । विस्याप्ये ॥] (अव्परिस् ४८,३४) गोपयति । गोपने ॥ (अव्परिस् ४८,३५) शुम्भति । शोभने ॥ (अव्परिस् ४८,३६) मुञ्चति । शुद्धौ च ॥ (अव्परिस् ४८,३७) शर्धति । ध्वंसने ॥ (अव्परिस् ४८,३८) मृदति । सुखने ॥ (अव्परिस् ४८,३९) चक्षुर्भिर् माहते । दृशिहाने ॥ (अव्परिस् ४८,४०) विन्दति । लाभे ॥ (अव्परिस् ४८,४१) पुष्यति । वृद्धौ ॥ (अव्परिस् ४८,४२) [कोभति] । क्षये । दस्यति च ॥ (अव्परिस् ४८,४३) [स्रोशित च । लितगुतौ ॥] (अव्परिस् ४८,४४) ऋञ्जति । [पार्जन्यः ।] ऋजुगमने ॥ (अव्परिस् ४८,४५) [वाचौष्टयति । विलासे ॥] (अव्परिस् ४८,४६) रदति । खनने ॥ (अव्परिस् ४८,४७) [सेवति । आ क्रोशति । स्पर्शे ॥ (अव्परिस् ४८,४८) नसति । र्नचते ॥ (अव्परिस् ४८,४९) जिघर्ति । ग्रहणे । गिरणे च ॥] (अव्परिस् ४८,५०) मन्दति । तृप्तौ ॥ (अव्परिस् ४८,५१) [अमनि । भावने ॥] (अव्परिस् ४८,५२) चक्रति । प्रतिवेदने ॥ (अव्परिस् ४८,५३) जक्षति । क्षुत्सहने ॥ (अव्परिस् ४८,५४) श्लिष्यति । आश्लेषे ॥ (अव्परिस् ४८,५५) भजति । प्रेप्सायाम् ॥ (अव्परिस् ४८,५६) सेवति । सेवायाम् ॥ (अव्परिस् ४८,५७) ह्लादयति । शीतीभावने ॥ (अव्परिस् ४८,५८) काशति । प्रकाशने ॥ (अव्परिस् ४८,५९) [दानपनुपरिवस्यते ॥] (अव्परिस् ४८,६०) रोदसी ॥१६ ॥ रोदसी । रोधसी । क्षोणी । स्वधे । पुरंधी । ऋतावृतौ । प्रपित्वे । प्रतिष्ठे । प्रशस्ये । उरूची । [सान्तापे] । रजसी । विषाणे । धिष्ण्ये । गभीरे । गम्भीरे ॥१७ ॥ ओण्यौ । चंवौ । नप्त्यौ । नप्त्यौ ॥१८ ॥ पार्श्वौ । दूरे अन्ते । अनन्ते । द्यावापृथिव्योः ॥ (अव्परिस् ४८,६१) अपः । अपः ॥१९ ॥ अप्नः । दंसः । वेपः । [वेदः ।] वेषः । विष्ट्वी । व्रतम् । कर्वरम् । शक्म । क्रतुः । करणानि । करांसि । करिक्रत् । करन्ती । चक्रत् । कर्तुम् । कर्ता । कर्तवे । [थलित । हिंसायाम् । इनद्धि ।] धीः । सवः । शमी । शक्तिः । शिल्पम् । कर्मणः ॥ (अव्परिस् ४८,६२) अस्रेमा । अस्रेमा ॥२० ॥ अनेद्यः । अनिन्द्यः । अबभिशस्तिः । अनवद्यः । उक्थ्यः । सुनीथः । पाकः । प्रशस्यस्य ॥ (अव्परिस् ४८,६३) आगः । आगः । एनः । अंहः । रिपुः । दुरितम् । अशस्तिः । शमलम् । वृजिनम् । अघस्य ॥ (अव्परिस् ४८,६४) शिम्बाता । शिम्बाता ॥२१ ॥ शतरा । शातवन्ता । शिल्पम् । शेवृधम् । स्यूमकम् । मयः । द्योतनम् । सुदिनम् । शूषम् । द्युम्नम् । इन्द्रियम् । शेवम् । शिवम् । शुनम् । शम् । भेषजम् । जलाषम् । सुखस्य ॥ (अव्परिस् ४८,६५) निरृतिः । निरृतिः ॥२२ ॥कृच्छ्रम् । तृप्रम् । दुःखस्य ॥ (अव्परिस् ४८,६६) तुवि । पुरु । भूरि । शश्वत् । विश्वम् । व्यानशिः । व्योमनी । शतम् । सहस्रम् । अयुतम् । नियुतम् । प्रयुतम् । अर्बुदम् । अत्यर्बुदम् । असंख्येयम् । सरिरम् । बहोः ॥ (अव्परिस् ४८,६७) ऋहन् । ऋहन् । निघृष्वः । कृशमः । मायुकः । प्रतिष्ठा । कृधुकः । दहरकः । वम्रकः । अर्भकः । [अथुराणः] । ह्रस्वस्य ॥ (अव्परिस् ४८,६८) महः । महः । ब्रध्नः । ऋष्वः । उक्षः । गभीरः । अभ्वः । तवसः । ऋभुक्षा । उक्षा । [उक्षिता ।] विहायाः । यह्वः । उरु । बृहत् । अम्भृणः । विरप्शी । अद्भुतः । [वविषिपुः । वरिषीः] । महतः ॥ (अव्परिस् ४८,६९) नवम् । नवम् ॥२३ ॥ नूतनम् । नूतनम् । नव्यम् । अधुना । इदानीम् । नवस्य ॥ (अव्परिस् ४८,७०) प्रत्नम् ॥२४ ॥ प्रत्नम् । प्रदिवः । प्रवयाः । सनेमि । [मोक्तः । माहुः । यतः ।] पुराणस्य ॥ (अव्परिस् ४८,७१) [अधाह्यः] ॥२५ ॥ सत्रा । बट् । ऋतम् । अद्धा । सत्यस्य ॥ (अव्परिस् ४८,७२) गौः । गौः ॥२६ ॥ ग्मा । ज्मा । क्ष्मा । क्षा । क्षमा । क्षोणी । क्षितिः । अवनिः । उर्वी । मही । रिपः । अदितिः । इडा । निरृतिः । गातुः । भूः । भूमिः । पूषा । गोत्रा । पृथिव्याः । पराणि तदायतनानाम् ॥ (अव्परिस् ४८,७३) तडित् । आसात् । अम्बरम् । तुर्वशे । अस्तमीले । उपाके । अर्वाके । अन्तमानाम् । अवमे । उपमे । अन्तिकस्य ॥ (अव्परिस् ४८,७४) श्यावी । क्षपा । शर्वरी । अक्तुः । [उर्वी ।] ऊर्म्या । रम्या । नम्या । [चोषा ।] दोषा । नक्ता । तमः । रजः । असिक्नी । तमस्वती । [दमस्वती ।] महस्वती । यशस्वती । घृताची । शिरिणा । मोकी । शोकी । ऊधः । पयः । हिमा । वस्वी । रात्रेः ॥ (अव्परिस् ४८,७५) अरणः । अरणः ॥२७ ॥ गरः । क्षोदः । क्षद्म । नभः । अम्भः । कबन्धम् । सलिलम् । वाः । वनम् । घृतम् । मधु । पुरीषम् । पिप्पलम् । क्षीरम् । विषम् । रेतः । शकम् । जह्म । बृबूकम् । बुसम् । तुग्र्याः । सुक्षेमम् । वरुणः । सुरा । अररिन्द्रानि । ध्वस्मन्वत् । जामि । आयुधानि । क्षपः । अहिः । अक्षराः । तृप्तिः । रसः । सरः । पयः । भेषजम् । स्रवः । शवः । सहः । ओजः । सुखम् । क्षत्रम् । आवयाः । शुभम् । यादः । भूतम् । भुवनम् । भविष्यत् । आपः । महत् । व्योम । यशः । सर्णीकम् । [स्वर्णीकरम् ।] गहनम् । गभीरम् । [गम्भीरम् ।] गह्वरम् । कम् । अन्नम् । [सु] हविः । सद्म । सदनम् । ऋतम् । [ऋत] योनिः । ऋतस्य योनिः । सत्यम् । नीरम् । रयिः । सत् । पूर्णम् । सर्वम् । अक्षितम् । सर्पिः । अपः । पवित्रम् । अमृतम् । इन्दुः । हेम । सर्गाः । शम्बरम् । अभ्वम् । वपुः । अम्बु । तोयम् । तूयम् । कृपीटम् । अक्षरम् । क्षराः । वारि । जलम् । [चूर्णाः । संस्त्यानाः । धानाप्यम् ।] विस्रुतम् । जलाषम् ॥२८ ॥ कर्बुरम् । काष्ठाः । [इदम्] इदम् । शुक्रम् । मेध्यम् । पावकम् । पावनम् । ह्रादनम् । ह्लादनम् । [पार्वम् ।] अम्भः । [भूरी ।] उदकस्य ॥ (अव्परिस् ४८,७६) अवनयः । अवनयः ॥२९ ॥ यह्व्यः । खाः । सीराः । स्रोत्याः । एन्यः । धुनयः । रुजानाः । वक्षणाः । खादो अर्णाः । रोधचक्राः । हरितः । योषितः । स्वसृतः । अर्णवाः । सिन्धवः । कुल्याः । वहाः । उर्व्यः । इरावत्यः । पार्वत्यः । ओजस्वत्यः । सरस्वत्यः । हरस्वत्यः । अजिराः । मातरः । नदीनाम् ॥ [मधुः । वथः] (अव्परिस् ४८,७७) काटः । काटः । खातः । अवतः । अवटः । क्रिविः । सूदः । उत्सः । ऋश्यदः । कारोतरः । कुशयः । केवतः । [त्रपुः] कूपस्य ॥ (अव्परिस् ४८,७८) नराः । नराः ॥३० ॥ जन्तवः । विशः । क्षितयः । कृष्टयः । चर्षणयः । नहुषः । अरयः । अर्याः । मर्याः । मर्ताः । व्राताः । पूर्वाः । तुर्वशाः । द्रुह्यवः । आयवः । यदवः । अनवः । पूरवः । जगतः । तस्थुषः । पञ्चजनाः । विवस्वन्तः । मानवः । मनुष्याणाम् ॥ (अव्परिस् ४८,७९) निर्णिक् । निर्णिक् ॥३१ ॥ वव्रिः । वर्पः । वपुः । अमतिः । अप्सः । रप्सु । पिष्टम् । शष्यम् । कृशनम् । पेशः । मरुत् । रूपस्य ॥ (अव्परिस् ४८,८०) जठरम् ॥३२ ॥ जठरम् । [परीसानम् । जगृतम् । गर्दनम् ।] कृदरम् । उदरम् । [दर्दुरम् ।] उदरस्य ॥ (अव्परिस् ४८,८१) आयती । आयती । च्यवाना । अभीशू । अप्नवाना । विनङ्गृसौ । गभस्ती । बाहू । भुरिजौ । शक्वरी । भरित्रे । बाह्वोः ॥ (अव्परिस् ४८,८२) अग्रुवः ॥३३ ॥ अण्व्यः । व्रिशः । शर्याः । रशनाः । धीतयः । अथर्यः । विपः । कक्ष्याः । हरितः । स्वसारः । जामयः । योक्त्राणि । योजनानि । धुरः । शाखाः । अभीशवः । दीधितयः । अङ्गुलीनाम् ॥३४ ॥ (अव्परिस् ४८,८३) [व्रजिः । धुनिः । तर्थाः ।] तक्वा । । रिभ्वा । रिक्वा । रिह्वा । तायुः । तस्करः । वनर्गुः । मलिम्लुचः । अघशंसः । वृकः । स्तेनस्य ॥ (अव्परिस् ४८,८४) धीः । धीः । मेधा । केतुः । चेतः । चित्तम् । क्रतुः । असुः । शची । वयुनम् । माया । बुद्धेः ॥३५ ॥ (अव्परिस् ४८,८५) विप्रः । विप्रः । विग्रः । गृत्सः । धीरः । [रेनुः ।] वेनः । मेधाः । कण्वः । ऋभुः । नवेदाः । कविः । मनीषी । मन्धाता । मनश्चित् । आकेनिपासः । उशिजः । कीस्तासः । अद्धातयः । मतयः । मतुथाः । मेधाविनः ॥ (अव्परिस् ४८,८६) मेना । मेना । ग्ना । योषा । नना । अङ्गना । रतयः । स्त्रीणाम् ॥३६ ॥ (अव्परिस् ४८,८७) तुक् । तुक् । तोकम् । तनयम् । तक्म । शेषः । प्रजा । बीजम् । अप्नः । गयः । [ऋषः] जाः । यहुः । सूनुः । नपात् । अपत्यस्य ॥३७ ॥ (अव्परिस् ४८,८८) [कङ्कम् ।] अन्धः । [घा] सिनम् । श्रवः । [शवः । शाहः । वनः ।] अन्नम् । वाजः । पयः । पृक्षः । पितुः । सुतम् । क्षु । धासिः । इडा । इषम् । ऊर्जः । रसः । स्वधा । अर्कः । नेमः । ससम् । नमः । वयः । सूनृता । ब्रह्म । कीलालम् । अन्नस्य ॥३८ ॥ (अव्परिस् ४८,८९) ..... गर्तः । हर्म्यम् । नीरम् । पस्त्यम् । दुरोणम् । दुर्याः । स्वसराणि । अमा । दमः । कृत्तिः । योनिः । वर्म । शर्म । शरणम् । वरूथम् । क्षया । छन्दः । छदिः । छर्दिः । छाया । वेश्म । अज्मः । कुलायम् । तुकः । गृहस्य ॥३९ ॥ (अव्परिस् ४८,९०) मघम् । मघम् । रेक्णः । रिक्थम् । वेदः । श्वात्रम् । रत्नम् । रयिः । क्षत्रम् । क्षेत्रम् । भगः । मीढम् । द्युम्नम् । इन्द्रियम् । वसु । रायः । राधः । दानः । वृत्रम् । दानम् । वृतम् । वामम् । धनस्य ॥४० ॥ (अव्परिस् ४८,९१) हेम । हेम । चन्द्रम् । रुक्मम् । अरः । पेशः । कृशनम् । लोहम् । कनकम् । काञ्चनम् । हरितम् । भर्गः । अमृतम् । मरुत् । दत्रम् । जातरूपम् । हिरण्यम् । सुवर्णस्य ॥४१ ॥ (अव्परिस् ४८,९२) अघ्न्या । अघ्न्या । उस्रा । उस्रिया । स्त्री । मही । अदितिः । इडा । निरृतिः । गोः ॥४२ ॥ (अव्परिस् ४८,९३) अत्यः । अत्यः । हयः । अर्वा । वाजी । सप्तिः । वह्निः । दधिक्राः । दधिक्रावा । एतग्वः । एतशः । पैद्वः । दौर्गहः । उच्चैह्श्रवसः । तार्क्ष्यः । आशुः । ब्रध्नः । अरुषः । मांश्चत्वः । अव्यथयः । श्येनासः । सुपर्णाः । नराः । वार्याणाम् । हंसासः । अश्वानाम् ॥४३ ॥ (अव्परिस् ४८,९४) रोहितः । रोहितो ऽग्नेः । नियुतो वायोः । हरी इन्द्रस्य । विश्वरूपा बृहस्पतेः । पृषत्यो मरुताम् । रासभाव् अश्विनोः । अरुण्यो गाव उषसाम् । हरय आदित्यस्य । हरितः सूर्यस्य । श्यावाः सवितुः । अजाः पूष्णः ॥४४ ॥ (अव्परिस् ४८,९५) अध्वरः । अध्वरः । वेषः । वेदः । [वेपः । भायी ।] विदथः । सवनम् । होत्रा । इष्टिः । देवताता । मखः । विष्णुः । इन्दुः । प्रजापतिः । घर्मः । क्रतुः । कर्म । यज्ञस्य ॥ (अव्परिस् ४८,९६) भरताः ॥४५ ॥ कुरवः । वाघतः । वृक्तवर्हिषः । सबाधः । यतस्रुचः । वृकः । मरुतः ॥४६ ॥ देवयवः । ऋत्विजः ॥ (अव्परिस् ४८,९७) रेभः । जरिता । कारुः । कीरिः । सूरिः । नदः । नादः । छन्दस्यः । [क्वोसनः ।] रुद्रः । कृपण्युः । स्तामुः । ॥४७ ॥ (अव्परिस् ४८,९८) अम्बरह्म् । वियत् । व्योम । बर्हिः । स्वः । आकाशम् । आपः । पृथिवी । भूः । स्वयंभूः । अध्वा । ब्रध्नः । [पीरिठम् । पीठम् ।] सगरः । सलिलम् । समुद्रः । अन्तरिक्षस्य । पराणि तदायतनानाम् ॥४८ ॥ (अव्परिस् ४८,९९) आताः । आशाः । आष्ठाः । उपराः । काष्ठाः । व्योम । ककुभः । दिशाम् ॥४९ ॥ (अव्परिस् ४८,१००) सस्निः । सस्निः । अलातृणः । क्वणन् कुणारुः । दानवः । उदधिः । [सिरिः ।] वृत्रः । पर्वतः । चमसः । अहिः । अभ्रम् । बलाहकः । दृतिः । ओदनः । वृषन्धिः । वृत्रः । कोशः । असुरः । मेघस्य ॥५० ॥ (अव्परिस् ४८,१०१) अद्रिः । ग्रावा । गोत्रः । वलः । अश्नः । पुरुभोजाः । वलिशानः । अश्मा । गिरिः । व्रजः । चरुः । वराहः । शम्बरः । रौहिणः । रैवतः । परिघः । [पाणिघः ।] उपरः । उपलः । सानौ । रुद्रः । पर्वतस्य ॥५१ ॥ (अव्परिस् ४८,१०२) गौः । गौः । गौरी । गान्धर्वी । गभीरा । गम्भीरा मन्द्रा । मन्द्राजनी । [वाणीः] । वाशी । वाणी । वाणीची । वाणः । पविः । भारती । धमनिः । मेडिः । सूर्या । सरस्वती । निवित् । स्वाहा । वग्नुः । उपब्दिः । काकुः । मायुः । जिह्वा । घोषः । श्लोकः । शब्दः । स्वरः । स्वनः । ऋक् । होत्रा । गीः । गाथा । गणः । धेना । ग्नाः । विपा । नना । कशा । धिषणा । नौः । अक्षरम् । मही । अदितिः । शची । [त्सघीः ।] अनुष्टुप् । [शब्दः ।] रसः । [वसा । मधु । कशा ।] विराट् । वाचः ॥५२ ॥ (अव्परिस् ४८,१०३) ओजः । ओजः । पाजः । शवः । शर्धः । त्वक्षः । बाधः । नृम्णम् । तरः । तविषी । शुष्मम् । शुष्णम् । दक्षः । वीडु [तु] । च्यौत्नम् । द्युम्नम् । इन्द्रियम् । सहः । वयः । वधः । वर्गः । मज्मना । पौंस्यानि । धर्णसि । स्यन्द्रासः । द्रविणम् । बलस्य ॥५३ ॥ (अव्परिस् ४८,१०४) विद्युत् । विद्युत् । नेमिः । पविः । वज्रः । सृकः । [यतः ।] वधः । अर्कः । शम्बः । कुलिशः । कुत्सः । सायकः । त्रपुषी । वज्रस्य ॥५४ ॥ (अव्परिस् ४८,१०५) रणः । रणः । विवाक् । वदनुः । विखादः । भरे । क्रन्दः । आहावः । सम्[अन्]ईके । ममसत्यम् । नेमधितिः । सङ्का । समनम् । स्पृधः । पृत्सु । समत्सु । समरणे । समोहे । संख्ये । वृत्रतूर्ये । समर्ये । आणौ । प्रतरणे । [मंतसा ।] समनीके । [खाय । सेने ।] खले । खजे । पौंस्ये । महाधने । पृतना । ज्येष्ठः । संग्रामस्य ॥५५ ॥ (अव्परिस् ४८,१०६) [खरे । स्वारम् । सुष्टि ।] नु । नु । मक्षु । द्रवत् । ओषम् । जीराः । जूर्णिः । शूर्ताः । शूघनाः । शीभम् । तृषु । तूयम् । तूर्णिः । अजिरम् । भुरण्युः । आशु । प्राशु । तूतुजानः । तूतुजिः । तुज्यमानासः । अज्राः । साचीवित् । द्युगत् । ताजत् । तरणिः । वातरंहा । क्षिप्रस्य ॥५६ ॥ (अव्परिस् ४८,१०७) निण्यम् । निण्यम् । अपीच्यम् । सस्वः । [तत्र । तत्तन्त । तायतम् ।] अन्तर्हितस्य ॥ (अव्परिस् ४८,१०८) स्वः । पृश्निः । नाकः । गौः । विष्टप् । इष्टम् । नभः । दिवः । अन्तरिक्षस्य च । पराणि तदायतनानाम् ॥५७ ॥ (अव्परिस् ४८,१०९) [हिरुक् । हिरुक् ।] आके । पराचैः । आरे । परावते । इति दूरस्य ॥५८ ॥ (अव्परिस् ४८,११०) विभावरी । विभावरि । सूनरी । [भावती । सुनरी] भास्वरी । अहना । द्योतना । श्वेत्या । अरुषी । सूनृतावरी । उषसः ॥५९ ॥ (अव्परिस् ४८,१११) वस्तोः । वस्तोः । भानुः । वासरम् । स्वसराणि । घ्रंसः । घर्मः । घृणिः । दिवा । दिनम् । दिवे । द्यविद्यवि । अह्नः ॥६० ॥ (अव्परिस् ४८,११२) दीधितयः । गभस्तयः । वनम् । उस्राः । वसवः । मरीचयः । सप्त ऋषयः । साध्यासः । सुपर्णासः । मयूखाः । रश्मीनाम् ॥६१ ॥ (अव्परिस् ४८,११३) खेदयः । खेदयः । किरणाः । गावः । अभीशवः । [रश्मीन् ।] रश्मीनां च ॥६२ ॥ (अव्परिस् ४८,११४) आर्यः । आर्यः । राष्ट्री । नियुत्वान् । इनः । ईश्वरस्य ॥६३ ॥ (अव्परिस् ४८,११५) संयोगः । संयोगः । आशुशुक्षणिः । जहा । शिताम । मेहना । मूषः । मन्दू । ईर्मान्तासः । [वाजरान्ध्यम् ।] कायमानः । विद्रधे । तुग्वनि । [नोधात् । नदः ।] च्यवनः । कश्यपः । नू चित् । अकूपारस्य । अप्रायुवः । रजः । जुहुरे । क्राणा । विषुणः । जामिः । जसुरिः । चयसे । अन्धः । दुग्धम् । आहनः । नदः । अर्कः । सचा । चित् । पवित्रम् । पृथुज्रयाः । काणुका । अध्रिगुः । आङ्गूषः । आपान्तमन्युः । श्मशा । वाजगन्ध्यम् । [जराध्य ।] पाकस्थामा कौरयाणः । व्रन्दी । निष्षपी । क्षुम्पम् । निचुम्पुणः । [मजायेम । धृरुः ।] जोषवाकम् । कुटस्य । केपयः । सललूकम् । अस्कृधोयुः । निशृम्भाः । [ध्रुवद्रक्षम् ।] उपलप्रक्षिणी । उपसि । सवीमनि । विदथानि । श्रायन्त इव । अमूरः । विजामातुः । अमवान् । अमीवा । अमतिः । रिशादसः । आनुषक् । गिर्वणाः । अम्यक् । यादृश्मिन् । शुरुधः । अप्रतिष्कुतः । द्विबर्हाः । उराणः । जवारु । ततनुष्टिम् । इलीबिशः । [इराविणः ।] कियेधाः । तुरीपम् । प्रतद्वसू । दिविष्टिषु । दूतः । ऋचीषमः । अनर्शरातिम् ॥६४ ॥ अनर्वा । [अनर्वा । चाण्डा । वाल्हा] जढवः । बकुरः । [वक्तारः] बेकनाटान् । अभि धेतन । सदान्वे । पराशरः । करूडती । दनः ॥ (अव्परिस् ४८,११६) इक्षुणा । कीलालम् । विजाम्नि । दोषा । [अष्टमर्त्यः] ॥६५ ॥ ज्येष्ठम् । [ज्येष्ठम् । असिपक्व ।] विश्वाहा । विवसवान् । वाते । [तन्यन्तः । व्राल्म । काम्पीवकंसम् । जस्यत्यम् । जलाली ।] अन्धः । विपश्यन् । अया चिष्ठा । [आंसा । रन्तु । तमायीवयः ।] शमोप्यात् । गुल्फः । बिष्कले खर्गला । प्रतोदः । वेदः । [यत्रास्मन्नतः । रध्रः । चिक्रिः । नुलुः ।] पुच्छधौ । [सुनिः ।] अपाष्ठः । मेदी । [ज्येना ।] मर्यः । [सप्तघ्नेतः ।] वालिनि । यातारम् । [रुषंकिः । सिक्तः ।] सगणाः । [मुडिम्नाना । लिङ्गकाः । नादिना ।] मल्वः । अम्नः । [जुगुः ।] नीलागलसाला । ऐलबः । [दरिद्रः ।] नीललोहितः । श्वापदः । कुनखी । कुरीरम् । [उपसः ।] तादुरि । [कमथ । रुमथा । सर्वर्तेभ्यः । इदम् । अध्वर्युः । द्युम्नी । कुवितः । दम्नना ।] दुरोणे । [परेक्तौति] । तितौ । [उत्पवाधत ।] किमीदी । वामस्य । एकचक्रम् । अमतिः । सुमतिः । [दयते । दयन्ति । व्रीहि । वृत्ते] ॥६६ ॥ ईडे । ईडे । क्षयति । तपति । रजति । अनेकार्थाः ॥ (अव्परिस् ४८,११७) प्रपित्वे । अभीके । प्राप्तस्य ॥ (अव्परिस् ४८,११८) तिरः । सतः । अप्राप्तस्य ॥ (अव्परिस् ४८,११९) त्वः । नेमः । अर्धस्य ॥ (अव्परिस् ४८,१२०) ऋक्षाः । स्तृभिः । इति नक्षत्राणाम् ॥ (अव्परिस् ४८,१२१) वम्रीभिः । उपजिह्विका । सीमिकानाम् ॥ (अव्परिस् ४८,१२२) रम्भः । [रथः ।] पिनाकम् । इति दण्डस्य ॥ (अव्परिस् ४८,१२३) शेपः । वैतसः । इति पुंस्प्रजननस्य ॥ (अव्परिस् ४८,१२४) [परंगतिविलीके] । इति स्त्रीप्रजननस्य ॥ (अव्परिस् ४८,१२५) अनेन । अनया । [पनस्य (अव्परिस् ४८,१२६) मकि । ह्वकिर्] । इति प्रतिषेधस्य ॥ (अव्परिस् ४८,१२७) वरूथम् । [असग्रम्] । चर्मणो ऽरुत्साहस्य ॥ (अव्परिस् ४८,१२८) पणिः प्रकलविद् वणिजः ॥ (अव्परिस् ४८,१२९) श्वघ्नी । कितवस्य । अक्षधूर्तस्य ॥ (अव्परिस् ४८,१३०) [मृण्यः] । सीमिकस्य ॥ (अव्परिस् ४८,१३१) कुटस्य । कुलिशः ॥ (अव्परिस् ४८,१३२) अग्निः । जातवेदाः । वैश्वानरः । द्रविणोदाः । वनस्पतिर् इति सूक्तभाञ्जि ॥ (अव्परिस् ४८,१३३) इध्मः । [विष्णुः ।] तनूनपात् । नराशंसः । देवीर् द्वारः । उषासानक्ता । दैव्या होतारा । तिस्रो देवीः । त्वष्टा । वनस्पतिः । स्वाहाकृतय इति निपातभाञ्जि ॥ (अव्परिस् ४८,१३४) इन्द्रः । विष्णुः । सोमः । पर्जन्यः । ऋतुः । अग्नायी । पृथिवी । इडा । भृगवः । अथर्वाण इति संस्तविकास् तस्यैकवद् बहुवत् स्त्रीवच् च ॥ (अव्परिस् ४८,१३५) वहनम् देवानां यच् च दाएष्टिविषयिकं तद् अस्य कर्म ॥ (अव्परिस् ४८,१३६) अयं लोकः । वसन्तः । प्रातःसवनम् । गायत्री त्रिवृद् रथंतरम् इति तद्भक्तीनि ॥६७ ॥ (अव्परिस् ४८,१३७) वायुः । वरुणः । इन्द्रः । रुद्रः । पर्जन्यः । बृहस्पतिः । ब्रह्मणस्पतिः । वास्तोष्पतिः । क्षेत्रस्य पतिः । कः । यमः । अपां नपात् । मित्रः । विश्वकर्मा । मन्युः । तार्क्ष्यः । दधिक्राः । सरस्वान् । अग्निः । असुनीतिः । वाजः । कुतः । वातः । ऋतः । मृत्युः । धाता । विधाता । पुरूरवाः । गन्धर्वाः । अनड्वान् । प्राणाः । स्तम्भः । व्रात्य इति सूक्तभाञ्जि ॥ (अव्परिस् ४८,१३८) प्रजापतिः । चन्द्रमाः । सोमः । इन्दुः । अदितिः । धेनवः । अहिर् बुध्न्य इति निपातभाञ्जि ॥ (अव्परिस् ४८,१३९) सरस्वती । वाक् । अदितिः । उर्वशी । गौः । धेनुः । सरमा । उषा । इन्द्राणी । पृथिवी । दस्य । गोधुकसा । विराट् । अघ्न्या । सिनीवाली । कुहूः । अनुमतिः । राका । यमी । सरण्यूः । पथ्या । रोदसी । देवपत्न्यः । मरुतः । रुद्राः । ऋभवः । अङ्गिरसः । भृगवः । अथर्वाण इति संस्तविकास् तस्यैकवद् बहुवत् स्त्रीवच् च ॥ (अव्परिस् ४८,१४०) स्नेहानुप्रदानं वृत्रवधो या चका च बलकृतिस् तद् अस्य कर्म ॥ (अव्परिस् ४८,१४१) अन्तरिक्षलोकः । ग्रीष्मः । मध्यंदिनं स