Atharvaveda Śaunakīya — Kāṇḍa 10
Tradição Védica (Atharvan ṛṣis)
कस्मिन्न् अङ्गे तपो अस्याधि तिष्ठति कस्मिन्न् अङ्ग ऋतमस्याध्याहितम् । क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्न् अङ्गे सत्यमस्य प्रतिष्ठितम् ॥१॥ कस्मादङ्गाद्दीप्यते अग्निरस्य कस्मादङ्गात्पवते मातरिश्व । कस्मादङ्गाद्वि मिमीतेऽधि चन्द्रमा मह स्कम्भस्य मिमानो अङ्गम् ॥२॥ कस्मिन्न् अङ्गे तिष्ठति भूमिरस्य कस्मिन्न् अङ्गे तिष्ठत्यन्तरिक्षम् । कस्मिन्न् अङ्गे तिष्ठत्याहिता द्यौः कस्मिन्न् अङ्गे तिष्ठत्युत्तरं दिवः ॥३॥ क्व प्रेप्सन् दीप्यत ऊर्ध्वो अग्निः क्व प्रेप्सन् पवते मातरिश्वा । यत्र प्रेप्सन्तीरभियन्त्यावृतः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥४॥ क्वार्धमासाः क्व यन्ति मासाः संवत्सरेण सह संविदानाः । यत्र यन्त्यृतवो यत्रार्तवाः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥५॥ क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवतः संविदाने । यत्र प्रेप्सन्तीरभियन्त्यापः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥६॥ यस्मिन्त्स्तब्ध्वा प्रजापतिर्लोकान्त्सर्वामधारयत्। स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥७॥ यत्परममवमं यच्च मध्यमं प्रजापतिः ससृजे विश्वरूपम् । कियता स्कम्भः प्र विवेश तत्र यन् न प्राविशत्कियत्तद्बभूव ॥८॥ कियता स्कम्भः प्र विवेश भूतं कियद्भविष्यदन्वाशयेऽस्य । एकं यदङ्गमकृणोत्सहस्रधा कियता स्कम्भः प्र विवेश तत्र ॥९॥ यत्र लोकाम्श्च कोशांश्चापो ब्रह्म जना विदुः । असच्च यत्र सच्चान्त स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१०॥ {२२} यत्र तपः पराक्रम्य व्रतं धारयत्युत्तरम् । ऋतं च यत्र श्रद्धा चापो ब्रह्म समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥११॥ यस्मिन् भूमिरन्तरिक्षं द्यौर्यस्मिन्न् अध्याहिता । यत्राग्निश्चन्द्रमाः सूर्यो वातस्तिष्ठन्त्यार्पिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१२॥ यस्य त्रयस्त्रिंशद्देवा अङ्गे सर्वे समाहिताः । स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१३॥ यत्र ऋषयः प्रथमजा ऋचः साम यजुर्मही । एकर्षिर्यस्मिन्न् आर्पितः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१४॥ यत्रामृतं च मृत्युश्च पुरुषेऽधि समाहिते । समुद्रो यस्य नाड्यः पुरुषेऽधि समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१५॥ यस्य चतस्रः प्रदिशो नाड्यस्तिष्ठन्ति प्रथमाः । यज्ञो यत्र पराक्रान्तः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१६॥ ये पुरुषे ब्रह्म विदुस्ते विदुः परमेष्ठिनम् । यो वेद परमेष्ठिनं यश्च वेद प्रजापतिम् । ज्येष्ठं ये ब्राह्मणं विदुस्ते स्कम्भमनुसंविदुः ॥१७॥ यस्य शिरो वैश्वानरश्चक्षुरङ्गिरसोऽभवन् । अङ्गानि यस्य यातवः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१८॥ यस्य ब्रह्म मुखमाहुर्जिह्वां मधुकशामुत । विराजमूधो यस्याहुः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१९॥ यस्मादृचो अपातक्षन् यजुर्यस्मादपाकषन् । सामानि यस्य लोमान्यथर्वाङ्गिरसो मुखं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥२०॥ {२३} असच्शाखां प्रतिष्ठन्तीं परममिव जना विदुः । उतो सन्मन्यन्तेऽवरे ये ते शाखामुपासते ॥२१॥ यत्रादित्याश्च रुद्राश्च वसवश्च समाहिताः । भूतं च यत्र भव्यं च सर्वे लोकाः प्रतिष्ठिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥२२॥ यस्य त्रयस्त्रिंशद्देवा निधिं रक्षन्ति सर्वदा । निधिं तमद्य को वेद यं देवा अभिरक्षथ ॥२३॥ यत्र देवा ब्रह्मविदो ब्रह्म ज्येष्ठमुपासते । यो वै तान् विद्यात्प्रत्यक्षं स ब्रह्मा वेदिता स्यात्॥२४॥ बृहन्तो नाम ते देवा येऽसतः परि जज्ञिरे । एकं तदङ्गं स्कम्भस्यासदाहुः परो जनाः ॥२५॥ यत्र स्कम्भः प्रजनयन् पुराणं व्यवर्तयत्। एकं तदङ्गं स्कम्भस्य पुराणमनुसंविदुः ॥२६॥ यस्य त्रयस्त्रिंशद्देवा अङ्गे गात्रा विभेजिरे । तान् वै त्रयस्त्रिंशद्देवान् एके ब्रहमविदो विदुः ॥२७॥ हिरण्यगर्भं परममनत्युद्यं जना विदुः । स्कम्भस्तदग्रे प्रासिञ्चद्धिरण्यं लोके अन्तरा ॥२८॥ स्कम्भे लोकाः स्कम्भे तपः स्कम्भेऽध्यृतमाहितम् । स्कम्भ त्वा वेद प्रत्यक्षमिन्द्रे सर्वं समाहितम् ॥२९॥ इन्द्रे लोका इन्द्रे तप इन्द्रेऽध्यृतमाहितम् । इन्द्रं त्वा वेद प्रत्यक्षं स्कम्भे सर्वं प्रतिष्ठितम् ॥३०॥ {२४} नाम नाम्ना जोहवीति पुरा सूर्यात्पुरोषसः । यदजः प्रथमं संबभूव स ह तत्स्वराज्यमियाय यस्मान् नान्यत्परमस्ति भूतम् ॥३१॥ यस्य भूमिः प्रमान्तरिक्षमुतोदरम् । दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३२॥ यस्य सूर्यश्चक्षुश्चन्द्रमाश्च पुनर्णवः । अग्निं यश्चक्र आस्यं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३३॥ यस्य वातः प्राणापानौ चक्षुरङ्गिरसोऽभवन् । दिशो यश्चक्रे प्रज्ञानीस्तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३४॥ स्कम्भो दाधार द्यावापृथिवी उभे इमे स्कम्भो दाधारोर्वन्तरिक्षम् । स्कम्भो दाधार प्रदिशः षडुर्वीः स्कम्भ इदं विश्वं भुवनमा विवेश ॥३५॥ यः श्रमात्तपसो जातो लोकान्त्सर्वान्त्समानशे । सोमं यश्चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३६॥ कथं वातो नेलयति कथं न रमते मनः । किमापः सत्यं प्रेप्सन्तीर्नेलयन्ति कदा चन ॥३७॥ महद्यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे । तस्मिन् छ्रयन्ते य उ के च देवा वृक्षस्य स्कन्धः परित इव शाखाः ॥३८॥ यस्मै हस्ताभ्यां पादाभ्यां वाचा श्रोत्रेण चक्षुषा । यस्मै देवाः सदा बलिं प्रयच्छन्ति विमितेऽमितं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥३९॥ अप तस्य हतं तमो व्यावृत्तः स पाप्मना । सर्वाणि तस्मिन् ज्योतींषि यानि त्रीणि प्रजापतौ ॥४०॥ यो वेतसं हिरण्ययं तिष्ठन्तं सलिले वेद । स वै गुह्यः प्रजापतिः ॥४१॥ तन्त्रमेके युवती विरूपे अभ्याक्रामं वयतः षण्मयूखम् । प्रान्या तन्तूंस्तिरते धत्ते अन्या नाप वृञ्जाते न गमातो अन्तम् ॥४२॥ तयोरहं परिनृत्यन्त्योरिव न वि जानामि यतरा परस्तात्। पुमान् एनद्वयत्युद्गृणन्ति पुमान् एनद्वि जभाराधि नाके ॥४३॥ इमे मयूखा उप तस्तभुर्दिवं सामानि चक्रुस्तसराणि वातवे ॥४४॥ {२५}
यो भूतं च भव्यं च सर्वं यश्चाधितिष्ठति । स्वर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥१॥ स्कम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः । स्कम्भ इदं सर्वमात्मन्वद्यत्प्राणन् निमिषच्च यत्॥२॥ तिस्रो ह प्रजा अत्यायमायन् न्यन्या अर्कमभितोऽविशन्त । बृहन् ह तस्थौ रजसो विमानो हरितो हरिणीरा विवेश ॥३॥ द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत । तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये ॥४॥ इदं सवितर्वि जानीहि षड्यमा एक एकजः । तस्मिन् हापित्वमिच्छन्ते य एषामेक एकजः ॥५॥ आविः सन् निहितं गुहा जरन् नाम महत्पदम् । तत्रेदं सर्वमार्पितमेजत्प्राणत्प्रतिष्ठितम् ॥६॥ एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा । अर्धेन विश्वं भुवनं जजान यदस्यार्धं क्व तद्बभूव ॥७॥ पञ्चवाही वहत्यग्रमेषां प्रष्टयो युक्ता अनुसंवहन्ति । अयातमस्य ददृशे न यातं परं नेदीयोऽवरं दवीयः ॥८॥ तिर्यग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् । तदासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ॥९॥ या पुरस्ताद्युज्यते या च पश्चाद्या विश्वतो युज्यते या च सर्वतः । यया यज्ञः प्राङ्तायते तां त्वा पृच्छामि कतमा सर्चाम् ॥१०॥ {२६} यदेजति पतति यच्च तिष्ठति प्राणदप्राणन् निमिषच्च यद्भुवत्। तद्दाधार पृथिवीं विश्वरूपं तत्संभूय भवत्येकमेव ॥११॥ अनन्तं विततं पुरुत्रानन्तमन्तवच्चा समन्ते । ते नाकपालश्चरति विचिन्वन् विद्वान् भूतमुत भव्यमस्य ॥१२॥ प्रजापतिश्चरति गर्भे अन्तरदृश्यमानो बहुधा वि जायते । अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥१३॥ ऊर्ध्वं भरन्तमुदकं कुम्भेनेवोदहार्यम् । पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः ॥१४॥ दूरे पूर्णेन वसति दूर ऊनेन हीयते । महद्यक्षं भुवनस्य मध्ये तस्मै बलिं राष्ट्रभृतो भरन्ति ॥१५॥ यतः सूर्यः उदेत्यस्तं यत्र च गच्छति । तदेव मन्येऽहं ज्येष्ठं तदु नात्येति किं चन ॥१६॥ ये अर्वाङ्मध्य उत वा पुराणं वेदं विद्वांसमभितो वदन्ति । आदित्यमेव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम् ॥१७॥ सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् । स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥१८॥ सत्येनोर्ध्वस्तपति ब्रह्मणार्वाङ्वि पश्यति । प्राणेन तिर्यङ्प्राणति यस्मिन् ज्येष्ठमधि श्रितम् ॥१९॥ यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु । स विद्वान् ज्येष्ठं मन्येत स विद्याद्ब्राह्मणं महत्॥२०॥ {२७} अपादग्रे समभवत्सो अग्रे स्वराभरत्। चतुष्पाद्भूत्वा भोग्यः सर्वमादत्त भोजनम् ॥२१॥ भोग्यो भवदथो अन्नमदद्बहु । यो देवमुत्तरावन्तमुपासातै सनातनम् ॥२२॥ सनातनमेनमाहुरुताद्य स्यात्पुनर्णवः । अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः ॥२३॥ शतं सहस्रमयुतं न्यर्बुदमसंख्येयं स्वमस्मिन् निविष्टम् । तदस्य घ्नन्त्यभिपश्यत एव तस्माद्देवो रोचतेष एतत्॥२४॥ बालादेकमणीयस्कमुतैकं नेव दृश्यते । ततः परिष्वजीयसी देवता सा मम प्रिया ॥२५॥ इयं कल्याण्यजरा मर्त्यस्यामृता गृहे । यस्मै कृता शये स यश्चकार जजार सः ॥२६॥ त्वं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी॥ त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥२७॥ उतैषां पितोत वा पुत्र एषामुतैषां ज्येष्ठ उत वा कनिष्ठः । एको ह देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः ॥२८॥ पूर्णात्पूर्णमुदचति पूर्णं पूर्णेन सिच्यते । उतो तदद्य विद्याम यतस्तत्परिषिच्यते ॥२९॥ एषा सनत्नी सनमेव जातैषा पुराणी परि सर्वं बभूव । मही देव्युषसो विभाती सैकेनैकेन मिषता वि चष्टे ॥३०॥ {२८} अविर्वै नाम देवतर्तेनास्ते परीवृता । तस्या रूपेणेमे वृक्षा हरिता हरितस्रजः ॥३१॥ अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति । देवस्य पश्य काव्यं न ममार न जीर्यति ॥३२॥ अपूर्वेणेषिता वाचस्ता वदन्ति यथायथम् । वदन्तीर्यत्र गच्छन्ति तदाहुर्ब्राह्मणं महत्॥३३॥ यत्र देवाश्च मनुष्याश्चारा नाभाविव श्रिताः । अपां त्वा पुष्पं पृछामि यत्र तन् मायया हितम् ॥३४॥ येभिर्वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः । य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ॥३५॥ इमामेषां पृथिवीं वस्त एकोऽन्तरिक्षं पर्येको बभूव । दिवमेषां ददते यो विधर्ता विश्वा आशाः प्रति रक्षन्त्येके ॥३६॥ यो विद्यात्सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः । सूत्रं सूत्रस्य यो विद्याद्स विद्याद्ब्राह्मणं महत्॥३७॥ वेदाहं सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः । सूत्रं सूत्रस्याहं वेदाथो यद्ब्राह्मणं महद्॥३८॥ यदन्तरा द्यावापृथिवी अग्निरैत्प्रदहन् विश्वदाव्यः । यत्रातिष्ठन्न् एकपत्नीः परस्तात्क्वेवासीन् मातरिश्वा तदानीम् ॥३९॥ अप्स्वासीन् मातरिश्वा प्रविष्टः प्रविष्टा देवाः सलिलान्यासन्॥ बृहन् ह तस्थौ रजसो विमानः पवमानो हरित आ विवेश ॥४०॥ उत्तरेणेव गयत्रीममृतेऽधि वि चक्रमे । साम्ना ये साम संविदुरजस्तद्ददृशे क्व ॥४१॥ निवेशनः संगमनो वसूनां देव इव सविता सत्यधर्मा । इन्द्रो न तस्थौ समरे धनानाम् ॥४२॥ पुण्डरीकं नवद्वारं त्रिभिर्गुणेभिरावृतम् । तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥४३॥ अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश्चनोनः । तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम् ॥४४॥ {२९}
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ATHARVAN ṚṢIS). Atharvaveda Śaunakīya — Kāṇḍa 10. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/atharvaveda-shaunakiya-kanda-10>. Acesso em: 26/04/2026.
Tradição Védica (Atharvan ṛṣis) (2026). Atharvaveda Śaunakīya — Kāṇḍa 10. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/atharvaveda-shaunakiya-kanda-10
Tradição Védica (Atharvan ṛṣis). "Atharvaveda Śaunakīya — Kāṇḍa 10." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/atharvaveda-shaunakiya-kanda-10.