Atharvaveda Śaunakīya — Kāṇḍa 14
Tradição Védica (Atharvan ṛṣis)
(विवाह प्रकरणम्) तुभ्यमग्रे पर्यवहन्त्सूर्यां वहतुना सह । स नः पतिभ्यो जायां दा अग्ने प्रजया सह ॥१॥ पुनः पत्नीमग्निरदादायुषा सह वर्चसा । दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥२॥ सोमस्य जाया प्रथमं गन्धर्वस्तेऽपरः पतिः । तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥३॥ सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये । रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् ॥४॥ आ वामगन्त्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अरंसत । अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्यामशीमहि ॥५॥ सा मन्दसाना मनसा शिवेन रयिं धेहि सर्ववीरं वचस्यम् । सुगं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथिष्ठामप दुर्मतिं हतम् ॥६॥ या ओषधयो या नद्यो यानि क्षेत्राणि या वना । तास्त्वा वधु प्रजावतीं पत्ये रक्षन्तु रक्षसः ॥७॥ एमं पन्थामरुक्षाम सुगं स्वस्तिवाहनम् । यस्मिन् वीरो न रिष्यत्यन्येषां विन्दते वसु ॥८॥ इदं सु मे नरः शृणुत ययाशिषा दंपती वाममश्नुतः । ये गन्धर्वा अप्सरसश्च देवीरेषु वानस्पत्येषु येऽधि तस्थुः । स्योनास्ते अस्यै वध्वै भवन्तु मा हिंसिषुर्वहतुमुह्यमानम् ॥९॥ ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनामनु । पुनस्तान् यज्ञिया देवा नयन्तु यत आगताः ॥१०॥ {७} मा विदन् परिपन्थिनो य आसीदन्ति दंपती । सुगेन दुर्गमतीतामप द्रान्त्वरातयः ॥११॥ सं काशयामि वहतुं ब्रह्मणा गृहैरघोरेण चक्षुषा मित्रियेण । पर्याणद्धं विश्वरूपं यदस्ति स्योनं पतिभ्यः सविता तत्कृणोतु ॥१२॥ शिवा नारीयमस्तमागन्न् इमं धाता लोकमस्यै दिदेश । तामर्यमा भगो अश्विनोभा प्रजापतिः प्रजया वर्धयन्तु ॥१३॥ आत्मन्वत्युर्वरा नारीयमागन् तस्यां नरो वपत बीजमस्याम् । सा वः प्रजां जनयद्वक्षणाभ्यो बिभ्रती दुग्धमृषभस्य रेतः ॥१४॥ प्रति तिष्ठ विराडसि विष्णुरिवेह सरस्वति । सिनीवालि प्र जायतां भगस्य सुमतावसत्॥१५॥ उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत । मादुष्कृतौ व्येनसावघ्न्यावशुनमारताम् ॥१६॥ अघोरचक्षुरपतिघ्नी स्योना शग्मा सुशेवा सुयमा गृहेभ्यः । वीरसूर्देवृकामा सं त्वयैधिषीमहि सुमस्यमाना ॥१७॥ अदेवृघ्न्यपतिघ्नीहैधि शिवा पशुभ्यः सुयमा सुवर्चाः । प्रजावती वीरसूर्देवृकामा स्योनेममग्निं गार्हपत्यं सपर्य ॥१८॥ उत्तिष्ठेतः किमिच्छन्तीदमागा अहं त्वेडे अभिभूः स्वाद्गृहात्। शून्यैषी निर्ऋते याजगन्थोत्तिष्ठाराते प्र पत मेह रंस्थाः ॥१९॥ यदा गार्हपत्यमसपर्यैत्पूर्वमग्निं वधूरियम् । अधा सरस्वत्यै नारि पितृभ्यश्च नमस्कुरु ॥२०॥ {८} शर्म वर्मैतदा हरास्यै नार्या उपस्तिरे । सिनीवालि प्र जायतां भगस्य सुमतावसत्॥२१॥ यं बल्बजं न्यस्यथ चर्म चोपस्तृणीथन । तदा रोहतु सुप्रजा या कन्या विन्दते पतिम् ॥२२॥ उप स्तृणीहि बल्बजमधि चर्मणि रोहिते । तत्रोपविश्य सुप्रजा इममग्निं सपर्यतु ॥२३॥ आ रोह चर्मोप सीदाग्निमेष देवो हन्ति रक्षांसि सर्वा । इह प्रजां जनय पत्ये अस्मै सुज्यैष्ठ्यो भवत्पुत्रस्त एषः ॥२४॥ वि तिष्ठन्तां मातुरस्या उपस्थान् नानारूपाः पशवो जायमानाः । सुमङ्गल्युप सीदेममग्निं संपत्नी प्रति भूषेह देवान् ॥२५॥ सुमङ्गली प्रतरणी गृहाणां सुशेवा पत्ये श्वशुराय शंभूः । स्योना श्वश्र्वै प्र गृहान् विशेमान् ॥२६॥ स्योना भव श्वशुरेभ्यः स्योना पत्ये गृहेभ्यः । स्योनास्यै सर्वस्यै विशे स्योना पुष्टायैषां भव ॥२७॥ सुमङ्गलीरियं वधूरिमां समेत पश्यत । सौभाग्यमस्यै दत्त्वा दौर्भाग्यैर्विपरेतन ॥२८॥ या दुर्हार्दो युवतयो याश्चेह जरतीरपि । वर्चो न्वस्यै सं दत्ताथास्तं विपरेतन ॥२९॥ रुक्मप्रस्तरणं वह्यं विश्वा रूपाणि बिभ्रतम् । आरोहत्सूर्या सावित्री बृहते सौभगाय कम् ॥३०॥ {९} आ रोह तल्पं सुमनस्यमानेह प्रजां जनय पत्ये अस्मै । इन्द्राणीव सुबुधा बुध्यमाना ज्योतिरग्रा उषसः प्रति जागरासि ॥३१॥ देवा अग्रे न्यपद्यन्त पत्नीः समस्पृशन्त तन्वस्तनूभिः । सूर्येव नारि विश्वरूपा महित्वा प्रजावती पत्या सं भवेह ॥३२॥ उत्तिष्ठेतो विश्वावसो नमसेडामहे त्वा । जामिमिच्छ पितृषदं न्यक्तां स ते भागो जनुषा तस्य विद्धि ॥३३॥ अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च । तास्ते जनित्रमभि ताः परेहि नमस्ते गन्धर्वर्तुना कृणोमि ॥३४॥ नमो गन्धर्वस्य नमसे नमो भामाय चक्षुषे च कृण्मः । विश्वावसो ब्रह्मणा ते नमोऽभि जाया अप्सरसः परेहि ॥३५॥ राया वयं सुमनसः स्यामोदितो गन्धर्वमावीवृताम । अगन्त्स देवः परमं सधस्थमगन्म यत्र प्रतिरन्त आयुः ॥३६॥ सं पितरावृत्विये सृजेथां माता पिता च रेतसो भवाथः । मर्य इव योषामधि रोहयैनां प्रजां कृण्वाथामिह पुष्यतं रयिम् ॥३७॥ तां पूषं छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊरू उशती विश्रयाति यस्यामुशन्तः प्रहरेम शेपः ॥३८॥ आ रोहोरुमुप धत्स्व हस्तं परि ष्वजस्व जायां सुमनस्यमानः । प्रजां कृण्वाथामिह मोदमानौ दीर्घं वामायुः सविता कृणोतु ॥३९॥ आ वां प्रजां जनयतु प्रजापतिरहोरात्राभ्यां समनक्त्वर्यमा । अदुर्मङ्गली पतिलोकमा विशेमं शं नो भव द्विपदे शं चतुष्पदे ॥४०॥ {१०} देवैर्दत्तं मनुना साकमेतद्वाधूयं वासो वध्वश्च वस्त्रम् । यो ब्रह्मणे चिकितुषे ददाति स इद्रक्षांसि तल्पानि हन्ति ॥४१॥ यं मे दत्तो ब्रह्मभागं वधूयोर्वाधूयं वासो वध्वश्च वस्त्रम् । युवं ब्रह्मणेऽनुमन्यमानौ बृहस्पते साकमिन्द्रश्च दत्तम् ॥४२॥ स्योनाद्योनेरधि बध्यमानौ हसामुदौ महसा मोदमानौ । सुगू सुपुत्रौ सुगृहौ तराथो जीवावुषसो विभातीः ॥४३॥ नवं वसानः सुरभिः सुवासा उदागां जीव उषसो विभातीः । आण्डात्पतत्रीवामुक्षि विश्वस्मादेनसस्परि ॥४४॥ शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते । आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः ॥४५॥ सूर्यायै देवेभ्यो मित्राय वरुणाय च । ये भूतस्य प्रचेतसस्तेभ्य इदमकरं नमः ॥४६॥ य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः । संधाता संधिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः ॥४७॥ अपास्मत्तम उच्छतु नीलं पिशङ्गमुत लोहितं यत्। निर्दहनी या पृषातक्यस्मिन् तां स्थाणावध्या सजामि ॥४८॥ यावतीः कृत्या उपवासने यावन्तो राज्ञो वरुणस्य पाशाः । व्यृद्धयो या असमृद्धयो या अस्मिन् ता स्थाणावधि सादयामि ॥४९॥ या मे प्रियतमा तनूः सा मे बिभाय वाससः । तस्याग्रे त्वं वनस्पते नीविं कृणुष्व मा वयं रिषाम ॥५०॥ {११} ये अन्ता यावतीः सिचो य ओतवो ये च तन्तवः । वासो यत्पत्नीभिरुतं तन् न स्योनमुप स्पृशात्॥५१॥ उशतीः कन्यला इमाः पितृलोकात्पतिं यतीः । अव दीक्षामसृक्षत स्वाहा ॥५२॥ बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । वर्चो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५३॥ बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । तेजो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५४॥ बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । भजो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥५५॥ बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । यशो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५६॥ बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । पयो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५७॥ बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । रसो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥५८॥ यदीमे केशिनो जना गृहे ते समनर्तिषू रोदेन कृण्वन्तोऽघम् । अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥५९॥ यदीयं दुहिता तव विकेश्यरुदद्गृहे रोदेन कृण्वत्यघम् । अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६०॥ {१२} यज्जामयो यद्युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीरघम् । अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६१॥ यत्ते प्रजायां पशुषु यद्वा गृहेषु निष्ठितमघकृद्भिरघं कृतम् । अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६२॥ इयं नार्युप ब्रूते पूल्यान्यावपन्तिका । दीर्घायुरस्तु मे पतिर्जीवाति शरदः शतम् ॥६३॥ इहेमाविन्द्र सं नुद चक्रवाकेव दंपती । प्रजयैनौ स्वस्तकौ विश्वमायुर्व्यश्नुताम् ॥६४॥ यदासन्द्यामुपधाने यद्वोपवासने कृतम् । विवाहे कृत्यां यां चक्रुरास्नाने तां नि दध्मसि ॥६५॥ यद्दुष्कृतं यच्छमलं विवाहे वहतौ च यत्। तत्संभलस्य कम्बले मृज्महे दुरितं वयम् ॥६६॥ संभले मलं सादयित्वा कम्बले दुरितं वयम् । अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्॥६७॥ कृत्रिमः कण्टकः शतदन् य एषः । अपास्याः केश्यं मलमप शीर्षण्यं लिखात्॥६८॥ अङ्गादङ्गाद्वयमस्या अप यक्ष्मं नि दध्मसि । तन् मा प्रापत्पृथिवीं मोत देवान् दिवं मा प्रापदुर्वन्तरिक्षम् । अपो मा प्रापन् मलमेतदग्ने यमं मा प्रापत्पितॄंश्च सर्वान् ॥६९॥ सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम् । सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजमेमम् ॥७०॥ {१३} अमोऽहमस्मि सा त्वं सामाहमस्म्यृक्त्वं द्यौरहं पृथिवी त्वम् । ताविह सं भवाव प्रजामा जनयावहै ॥७१॥ जनियन्ति नावग्रवः पुत्रियन्ति सुदानवः । अरिष्टासू सचेवहि बृहते वाजसातये ॥७२॥ ये पितरो वधूदर्शा इमं वहतुमागमन् । ते अस्यै वध्वै संपत्न्यै प्रजावच्छर्म यच्छन्तु ॥७३॥ येदं पूर्वागन् रशनायमाना प्रजामस्यै द्रविणं चेह दत्त्वा । तां वहन्त्वगतस्यानु पन्थां विराडियं सुप्रजा अत्यजैषीत्॥७४॥ प्र बुध्यस्व सुबुधा बुध्यमाना दीर्घायुत्वाय शतशारदाय । गृहान् गच्छ गृहपत्नी यथासो दीर्घं त आयुः सविता कृणोतु ॥७५॥ {१४}
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ATHARVAN ṚṢIS). Atharvaveda Śaunakīya — Kāṇḍa 14. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/atharvaveda-shaunakiya-kanda-14>. Acesso em: 26/04/2026.
Tradição Védica (Atharvan ṛṣis) (2026). Atharvaveda Śaunakīya — Kāṇḍa 14. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/atharvaveda-shaunakiya-kanda-14
Tradição Védica (Atharvan ṛṣis). "Atharvaveda Śaunakīya — Kāṇḍa 14." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/atharvaveda-shaunakiya-kanda-14.