Atharvaveda Śaunakīya — Kāṇḍa 5
Tradição Védica (Atharvan ṛṣis)
ऋधङ्मन्त्रो योनिं य आबभूवामृतासुर्वर्धमानः सुजन्मा । अदब्धासुर्भ्राजमानोऽहेव त्रितो धर्ता दाधार त्रीणि ॥१॥ आ यो धर्माणि प्रथमः ससाद ततो वपूंषि कृणुषे पुरूणि । धास्युर्योनिं प्रथम आ विवेशा यो वाचमनुदितां चिकेत ॥२॥ यस्ते शोकाय तन्वं रिरेच क्षरद्धिरण्यं शुचयोऽनु स्वाः । अत्रा दधेते अमृतानि नामास्मे वस्त्राणि विश एरयन्ताम् ॥३॥ प्र यदेते प्रतरं पूर्व्यं गुः सदःसद आतिष्ठन्तो अजुर्यम् । कविः शुषस्य मातरा रिहाणे जाम्यै धुर्यं पतिमेरयेथाम् ॥४॥ तदू षु ते महत्पृथुज्मन् नमः कविः काव्येना कृणोमि । यत्सम्यञ्चावभियन्तावभि क्षामत्रा मही रोधचक्रे वावृधेते ॥५॥ सप्त मर्यादाः कवयस्ततक्षुस्तासामिदेकामभ्यंहुरो गात्। आयोर्ह स्कम्भ उपमस्य नीडे पथां विसर्गे धरुणेषु तस्थौ ॥६॥ उतामृतासुर्व्रत एमि कृन्वन्न् असुरात्मा तन्वस्तत्सुमद्गुः । उत वा शक्रो रत्नं दधात्यूर्जया वा यत्सचते हविर्दाः ॥७॥ उत पुत्रः पितरं क्षत्रमीडे ज्येष्ठं मर्यादमह्वयन्त्स्वस्तये । दर्शन् नु ता वरुण यास्ते विष्ठा आवर्व्रततः कृणवो वपूंषि ॥८॥ अर्धमर्धेन पयसा पृणक्ष्यर्धेन शुष्म वर्धसे अमुर । अविं वृधाम शग्मियं सखायं वरुणं पुत्रमदित्या इषिरम् । कविशस्तान्यस्मै वपूंष्यवोचाम रोदसी सत्यवाचा ॥९॥
तदिदास भुवनेषु ज्येष्ठं यतो यज्ञ उग्रस्त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रून् अनु यदेनं मदन्ति विश्व ऊमाः ॥१॥ ववृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति । अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥२॥ त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः । स्वदोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥३॥ यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः । ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥४॥ त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि । चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥५॥ नि तद्दधिषेऽवरे परे च यस्मिन्न् आविथावसा दुरोणे । आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि ॥६॥ स्तुष्व वर्ष्मन् पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम् । आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥७॥ इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्रियः स्वर्षाः । महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥८॥ एवा महान् बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव । स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥९॥
ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम । मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥१॥ अग्ने मन्युं प्रतिनुदन् परेषां त्वं नो गोपाः परि पाहि विश्वतः । अपाञ्चो यन्तु निवता दुरस्यवोऽमैषां चित्तं प्रबुधां वि नेशत्॥२॥ मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः । ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामायास्मै ॥३॥ मह्यं यजन्तां मम यानीष्टाकूतिः सत्या मनसो मे अस्तु । एनो मा नि गां कतमच्चनाहं विश्वे देवा अभि रक्षन्तु मेह ॥४॥ मयि देवा द्रविणमा यजन्तां मयि आशीरस्तु मयि देवहूतिः । दैवाः होतारः सनिषन् न एतदरिष्टाः स्याम तन्वा सुवीराः ॥५॥ दैवीः षडुर्वीरुरु नः कृणोत विश्वे देवास इह मादयध्वम् । मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥६॥ तिस्रो देवीर्महि नः शर्म यच्छत प्रजायै नस्तन्वे यच्च पुष्टम् । मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥७॥ उरुव्यचा नो महिषः शर्म यच्छत्वस्मिन् हवे पुरुहूतः पुरुक्षु । स नः प्रजायै हर्यश्व मृडेन्द्र मा नो रीरिषो मा परा दाः ॥८॥ धाता विधाता भुवनस्य यस्पतिर्देवः सविताभिमातिषाहः । आदित्या रुद्रा अश्विनोभा देवाः पान्तु यजमानं निर्ऋथात्॥९॥ ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामह एनान् । आदित्या रुद्रा उपरिस्पृशो नो उग्रं चेत्तारमधिराजमक्रत ॥१०॥ अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः । इमं नो यज्ञं विहवे शृणोत्वस्माकमभूर्हर्यश्व मेदी ॥११॥
यो गिरिष्वजायथा वीरुधां बलवत्तमः । कुष्ठेहि तक्मनाशन तक्मानं नाशयन्न् इतः ॥१॥ सुपर्णसुवने गिरौ जातं हिमवतस्परि । धनैरभि श्रुत्वा यन्ति विदुर्हि तक्मनाशनम् ॥२॥ अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि । तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥३॥ हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि । तत्रामृतस्य पुष्पं देवाः कुष्ठमवन्वत ॥४॥ हिरण्ययाः पन्थान आसन्न् अरित्राणि हिरण्यया । नावो हिरण्ययीरासन् याभिः कुष्ठं निरावहन् ॥५॥ इमं मे कुष्ठ पूरुषं तमा वह तं निष्कुरु । तमु मे अगदं कृधि ॥६॥ देवेभ्यो अधि जातोऽसि सोमस्यासि सखा हितः । स प्राणाय व्यानाय चक्षुषे मे अस्मै मृड ॥७॥ उदङ्जातो हिमवतः स प्राच्यां नीयसे जनम् । तत्र कुष्ठस्य नामान्युत्तमानि वि भेजिरे ॥८॥ उत्तमो नाम कुष्ठस्युत्तमो नाम ते पिता । यक्ष्मं च सर्वं नाशय तक्मानं चारसं कृधि ॥९॥ शीर्षामयमुपहत्यामक्ष्योस्तन्वो रपः । कुष्ठस्तत्सर्वं निष्करद्दैवं समह वृष्ण्यम् ॥१०॥
रात्री माता नभः पितार्यमा ते पितामहः । सिलाची नाम वा असि सा देवानामसि स्वसा ॥१॥ यस्त्वा पिबति जीवति त्रायसे पुरुषं त्वम् । भर्त्री हि शश्वतामसि जनानां च न्यञ्चनी ॥२॥ वृक्षंवृक्षमा रोहसि वृषण्यन्तीव कन्यला । जयन्ती प्रत्यातिष्ठन्ती स्परणी नाम वा असि ॥३॥ यद्दण्डेन यदिष्वा यद्वारुर्हरसा कृतम् । तस्य त्वमसि निष्कृतिः सेमं निष्कृधि पूरुषम् ॥४॥ भद्रात्प्लक्षान् निस्तिष्ठस्यश्वत्थात्खदिराद्धवात्। भद्रान् न्यग्रोधात्पर्णात्सा न एह्यरुन्धति ॥५॥ हिरण्यवर्णे सुभगे सूर्यवर्णे वपुष्टमे । रुतं गच्छासि निष्कृते निष्कृतिर्नाम वा असि ॥६॥ हिरण्यवर्णे सुभगे शुष्मे लोमशवक्षणे । अपामसि स्वसा लाक्षे वातो हात्मा बभूव ते ॥७॥ सिलाची नाम कानीनोऽजबभ्रु पिता तव । अश्वो यमस्य यः श्यावस्तस्य हास्नास्युक्षिता ॥८॥ अश्वस्यास्नः संपतिता सा वृक्षामभि सिष्यदे । सरा पतत्रिणी भूत्वा सा न एह्यरुन्धति ॥९॥
ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः । स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥१॥ अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे । वीरान् नो अत्र मा दभन् तद्व एतत्पुरो दधे ॥२॥ सहस्रधार एव ते समस्वरन् दिवो नाके मधुजिह्वा असश्चतः । तस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवे ॥३॥ पर्यू षु प्र धन्वा वाजसातये परि वृत्राणि सक्षणिः । द्विषस्तदध्यर्णवेनेयसे सनिस्रसो नामासि त्रयोदशो मास इन्द्रस्य गृहः ॥४॥ न्वेतेनारात्सीरसौ स्वाहा । तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥५॥ अवैतेनारात्सीरसौ स्वाहा । तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥६॥ अपैतेनारात्सीरसौ स्वाहा । तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥७॥ मुमुक्तमस्मान् दुरितादवद्याज्जुषेथां यज्ञममृतमस्मासु धत्तम् ॥८॥ चक्षुषो हेते मनसो हेते ब्रह्मणो हेते तपसश्च हेते । मेन्या मेनिरस्यमेनयस्ते सन्तु येऽस्मामभ्यघायन्ति ॥९॥ योऽस्मांश्चक्षुषा मनसा चित्त्याकूत्या च यो अघायुरभिदासात्। त्वं तान् अग्ने मेन्यामेनीन् कृणु स्वाहा ॥१०॥ इन्द्रस्य गृहोऽसि । तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥११॥ इन्द्रस्य शर्मासि । तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१२॥ इन्द्रस्य वर्मासि । तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१३॥ इन्द्रस्य वरूथमसि । तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१४॥
आ नो भर मा परि ष्ठा अराते मा नो रक्षीर्दक्षिणां नीयमानाम् । नमो वीर्त्साया असमृद्धये नमो अस्त्वरातये ॥१॥ यमराते पुरोधत्से पुरुषं परिरापिणम् । नमस्ते तस्मै कृण्मो मा वनिं व्यथयीर्मम ॥२॥ प्र णो वनिर्देवकृता दिवा नक्तं च कल्पताम् । अरातिमनुप्रेमो वयं नमो अस्त्वरातये ॥३॥ सरस्वतीमनुमतिं भगं यन्तो हवामहे । वाचं जुष्टां मधुमतीमवादिषं देवानां देवहूतिषु ॥४॥ यं याचाम्यहं वाचा सरस्वत्या मनोयुजा । श्रद्धा तमद्य विन्दतु दत्ता सोमेन बभ्रुणा ॥५॥ मा वनिं मा वाचं नो वीर्त्सीरुभाविन्द्राग्नी आ भरतां नो वसूनि । सर्वे नो अद्य दित्सन्तोऽरातिं प्रति हर्यत ॥६॥ परोऽपेह्यसमृद्धे वि ते हेतिं नयामसि । वेद त्वाहं निमीवन्तीं नितुदन्तीमराते ॥७॥ उत नग्ना बोभुवती स्वप्नया सचसे जनम् । अराते चित्तं वीर्त्सन्त्याकूतिं पुरुषस्य च ॥८॥ या महती महोन्माना विश्वा आशा व्यानशे । तस्यै हिरण्यकेश्यै निर्ऋत्या अकरं नमः ॥९॥ हिरण्यवर्णा सुभगा हिरण्यकशिपुर्मही । तस्यै हिरण्यद्रापयेऽरात्या अकरं नमः ॥१०॥
वैकङ्कतेनेध्मेन देवेभ्य आज्यं वह । अग्ने तामिह मादय सर्व आ यन्तु मे हवम् ॥१॥ इन्द्रा याहि मे हवमिदं करिष्यामि तच्छृणु । इम ऐन्द्रा अतिसरा आकूतिं सं नमन्तु मे । तेभिः शकेम वीर्यं जातवेदस्तनूवशिन् ॥२॥ यदसावमुतो देवा अदेवः संश्चिकीर्षति । मा तस्याग्निर्हव्यं वाक्षीद्धवं देवा अस्य मोप गुर्ममैव हवमेतन ॥३॥ अति धावतातिसरा इन्द्रस्य वचसा हत । अविं वृक इव मथ्नीत स वो जीवन् मा मोचि प्राणमस्यापि नह्यत ॥४॥ यममी पुरोदधिरे ब्रह्माणमपभूतये । इन्द्र स ते अधस्पदं तं प्रत्यस्यामि मृत्यवे ॥५॥ यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे । तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥६॥ यान् असावतिसरांश्चकार कृणवच्च यान् । त्वं तान् इन्द्र वृत्रहन् प्रतीचः पुनरा कृधि यथामुं तृणहां जनम् ॥७॥ यथेन्द्र उद्वाचनं लब्ध्वा चक्रे अधस्पदम् । कृण्वेऽहमधरान् तथा अमूञ्छश्वतीभ्यः समाभ्यः ॥८॥ अत्रैनान् इन्द्र वृत्रहन्न् उग्रो मर्मणि विध्य । अत्रैवैनान् अभि तिष्ठेन्द्र मेद्यहं तव । अनु त्वेन्द्रा रभामहे स्याम सुमतौ तव ॥९॥
दिवे स्वाहा ॥१॥ पृथिव्यै स्वाहा ॥२॥ अन्तरिक्षाय स्वाहा ॥३॥ अन्तरिक्षाय स्वाहा ॥४॥ दिवे स्वाहा ॥५॥ पृथिव्यै स्वाहा ॥६॥ सूर्यो मे चक्षुर्वातः प्राणोऽन्तरिक्षमात्मा पृथिवी शरीरम् । अस्तृतो नामाहमयमस्मि स आत्मानं नि दधे द्यावापृथिवीभ्यां गोपीथाय ॥७॥ उदायुरुद्बलमुत्कृतमुत्कृत्यामुन् मनीषामुदिन्द्रियम् । आयुष्कृदायुष्पत्नी स्वधावन्तौ गोपा मे स्तं गोपायतं मा । आत्मसदौ मे स्तं मा मा हिंसिष्टम् ॥८॥
अश्मवर्म मेऽसि यो मा प्राच्या दिशोऽघायुरभिदासात्। एतत्स ऋछात्॥१॥ अश्मवर्म मेऽसि यो मा दक्षिणाया दिशोऽघायुरभिदासात्। एतत्स ऋछात्॥२॥ अश्मवर्म मेऽसि यो मा प्रतीच्या दिशोऽघायुरभिदासात्। एतत्स ऋछात्॥३॥ अश्मवर्म मेऽसि यो मोदीच्या दिशोऽघायुरभिदासात्। एतत्स ऋछात्॥४॥ अश्मवर्म मेऽसि यो मा ध्रुवाया दिशोऽघायुरभिदासात्। एतत्स ऋछात्॥५॥ अश्मवर्म मेऽसि यो मोर्ध्वाया दिशोऽघायुरभिदासात्। एतत्स ऋछात्॥६॥ अश्मवर्म मेऽसि यो मा दिशामन्तर्देशेभ्योऽघायुरभिदासात्। एतत्स ऋछात्॥७॥ बृहता मन उप ह्वये मातरिश्वना प्राणापानौ । सूर्याच्चक्षुरन्तरिक्षाच्छ्रोत्रं पृथिव्याः शरीरम् । सरस्वत्या वाचमुप ह्वयामहे मनोयुजा ॥८॥
कथं महे असुरायाब्रवीरिह कथं पित्रे हरये त्वेषनृम्णः । पृश्निं वरुण दक्षिणां ददावान् पुनर्मघ त्वं मनसाचिकित्सीः ॥१॥ न कामेन पुनर्मघो भवामि सं चक्षे कं पृश्निमेतामुपाजे । केन नु त्वमथर्वन् काव्येन केन जातेनासि जातवेदाः ॥२॥ सत्यमहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः । न मे दासो नार्यो महित्वा व्रतं मीमाय यदहं धरिष्ये ॥३॥ न त्वदन्यः कवितरो न मेधया धीरतरो वरुण स्वधावन् । त्वं ता विश्वा भुवनानि वेत्थ स चिन् नु त्वज्जनो मायी बिभाय ॥४॥ त्वं ह्यङ्ग वरुण स्वधावन् विश्वा वेत्थ जनिम सुप्रणीते । किं रजस एना परो अन्यदस्त्येना किं परेणावरममुर ॥५॥ एकं रजस एना परो अन्यदस्त्येना पर एकेन दुर्णशं चिदर्वाक्। तत्ते विद्वान् वरुण प्र ब्रवीम्यधोवचसः पणयो भवन्तु नीचैर्दासा उप सर्पन्तु भूमिम् ॥६॥ त्वं ह्यङ्ग वरुण ब्रवीषि पुनर्मघेष्ववद्यानि भूरि । मो षु पणींरभ्येतावतो भून् मा त्वा वोचन्न् अराधसं जनासः ॥७॥ मा मा वोचन्न् अराधसं जनासः पुनस्ते पृश्निं जरितर्ददामि । स्तोत्रं मे विश्वमा याहि शचीभिरन्तर्विश्वासु मानुषीषु दिक्षु ॥८॥ आ ते स्तोत्राण्युद्यतानि यन्त्वन्तर्विश्वासु मानुषीषु दिक्षु । देहि नु मे यन् मे अदत्तो असि युज्यो मे सप्तपदः सखासि ॥९॥ समा नौ बन्धुर्वरुण समा जा वेदाहं तद्यन् नावेषा समा जा । ददामि तद्यत्ते अदत्तो अस्मि युज्यस्ते सप्तपदः सखास्मि ॥१०॥ देवो देवाय गृणते वयोधा विप्रो विप्राय स्तुवते सुमेधाः । अजीजनो हि वरुण स्वधावन्न् अथर्वाणं पितरं देवबन्धुम् । तस्मा उ राधः कृणुहि सुप्रशस्तं सखा नो असि परमं च बन्धुः ॥११॥
समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः । आ च वह मित्रमहश्चिकित्वान् त्वं दूतः कविरसि प्रचेताः ॥१॥ तनूनपात्पथ ऋतस्य यानान् मध्वा समञ्जन्त्स्वदया सुजिह्व । मन्मानि धीभिरुत यज्ञमृन्धन् देवत्रा च कृणुह्यध्वरं नः ॥२॥ आजुह्वान ईड्यो बन्द्यश्चा याह्यग्ने वसुभिः सजोषाः । त्वं देवानामसि यह्व होता स एनान् यक्षीषितो यजीयान् ॥३॥ प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् । व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥४॥ व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः । देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥५॥ आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ । दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥६॥ दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै । प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥७॥ आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती । तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वतीः स्वपसः सदन्ताम् ॥८॥ य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा । तमद्य होतरिषितो यजीयान् देवं त्वष्टारमिह यक्षि विद्वान् ॥९॥ उपावसृज त्मन्या समञ्जन् देवानां पाथ ऋतुथा हवींषि । वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥१०॥ सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः । अस्य होतुः प्रशिष्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥११॥
ददिर्हि मह्यं वरुणो दिवः कविर्वचोभिरुग्रैर्नि रिणामि ते विषम् । खातमखातमुत सक्तमग्रभमिरेव धन्वन् नि जजास ते विषम् ॥१॥ यत्ते अपोदकं विषं तत्त एतास्वग्रभम् । गृह्णामि ते मध्यममुत्तमं रसमुतावमं भियसा नेशदादु ते ॥२॥ वृषा मे रवो नभसा न तन्यतुरुग्रेण ते वचसा बाध आदु ते । अहं तमस्य नृभिरग्रभं रसं तमस इव ज्योतिरुदेतु सूर्यः ॥३॥ चक्षुषा ते चक्षुर्हन्मि विषेण हन्मि ते विषम् । अहे म्रियस्व मा जीवीः प्रत्यगभ्येतु त्वा विषम् ॥४॥ कैरात पृश्न उपतृण्य बभ्र आ मे शृणुतासिता अलीकाः । मा मे सख्युः स्तामानमपि ष्ठाताश्रावयन्तो नि विषे रमध्वम् ॥५॥ असितस्य तैमातस्य बभ्रोरपोदकस्य च । सात्रासाहस्याहं मन्योरव ज्यामिव धन्वनो वि मुञ्चामि रथामिव ॥६॥ आलिगी च विलिगी च पिता च मता च । विद्म वः सर्वतो बन्ध्वरसाः किं करिष्यथ ॥७॥ उरुगूलाया दुहिता जाता दास्यसिक्न्या । प्रतङ्कं दद्रुषीणां सर्वासामरसं विषम् ॥८॥ कर्णा श्वावित्तदब्रवीद्गिरेरवचरन्तिका । याः काश्चेमाः खनित्रिमास्तासामरसतमं विषम् ॥९॥ ताबुवं न ताबुवं न घेत्त्वमसि ताबुवम् । ताबुवेनारसं विषम् ॥१०॥ तस्तुवं न तस्तुवं न घेत्त्वमसि तस्तुवम् । तस्तुवेनारसं विषम् ॥११॥
सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन् नसा । दिप्सौषधे त्वं दिप्सन्तमव कृत्याकृतं जहि ॥१॥ अव जहि यातुधानान् अव कृत्याकृतं जहि । अथो यो अस्मान् दिप्सति तमु त्वं जह्योषधे ॥२॥ रिश्यस्येव परीशासं परिकृत्य परि त्वचः । कृत्यां कृत्याकृते देवा निष्कमिव प्रति मुञ्चत ॥३॥ पुनः कृत्यां कृत्याकृते हस्तगृह्य परा णय । समक्षमस्मा आ धेहि यथा कृत्याकृतं हनत्॥४॥ कृत्याः सन्तु कृत्याकृते शपथः शपथीयते । सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥५॥ यदि स्त्री यदि वा पुमान् कृत्यां चकार पाप्मने । तामु तस्मै नयामस्यश्वमिवाश्वाभिधान्या ॥६॥ यदि वासि देवकृता यदि वा पुरुषैः कृता । तां त्वा पुनर्णयामसीन्द्रेण सयुजा वयम् ॥७॥ अग्ने पृतनाषाट्पृतनाः सहस्व । पुनः कृत्यां कृत्याकृते प्रतिहरणेन हरामसि ॥८॥ कृतव्यधनि विध्य तं यश्चकार तमिज्जहि । न त्वामचक्रुषे वयं वधाय सं शिशीमहि ॥९॥ पुत्र इव पितरं गच्छ स्वज इवाभिष्ठितो दश । बन्धमिवावक्रामी गच्छ कृत्ये कृत्याकृतं पुनः ॥१०॥ उदेणीव वारण्यभिस्कन्दं मृगीव । कृत्या कर्तारमृच्छतु ॥११॥ इष्वा ऋजीयः पततु द्यावापृथिवी तं प्रति । सा तं मृगमिव गृह्णातु कृत्या कृत्याकृतं पुनः ॥१२॥ अग्निरिवैतु प्रतिकूलमनुकूलमिवोदकम् । सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥१३॥
एका च मे दश च मेऽपवक्तार ओषधे । ऋतजात ऋतावरि मधु मे मधुला करः ॥१॥ द्वे च मे विंशतिश्च मेऽपवक्तार ओषधे । ऋतजात ऋतावरि मधु मे मधुला करः ॥२॥ तिस्रश्च मे त्रिंशच्च मेऽपवक्तार ओषधे । ऋतजात ऋतावरि मधु मे मधुला करः ॥३॥ चतस्रश्च मे चत्वारिंशच्च मेऽपवक्तार ओषधे । ऋतजात ऋतावरि मधु मे मधुला करः ॥४॥ पञ्च च मे पञ्चाशच्च मेऽपवक्तार ओषधे । ऋतजात ऋतावरि मधु मे मधुला करः ॥५॥ षट्च मे षष्टिश्च मेऽपवक्तार ओषधे । ऋतजात ऋतावरि मधु मे मधुला करः ॥६॥ सप्त च मे सप्ततिश्च मेऽपवक्तार ओषधे । ऋतजात ऋतावरि मधु मे मधुला करः ॥७॥ अष्ट च मेऽशीतिश्च मेऽपवक्तार ओषधे । ऋतजात ऋतावरि मधु मे मधुला करः ॥८॥ नव च मे नवतिश्च मेऽपवक्तार ओषधे । ऋतजात ऋतावरि मधु मे मधुला करः ॥९॥ दश च मे शतं च मेऽपवक्तार ओषधे । ऋतजात ऋतावरि मधु मे मधुला करः ॥१०॥ शतं च मे सहस्रं चापवक्तार ओषधे । ऋतजात ऋतावरि मधु मे मधुला करः ॥११॥
यद्येकवृषोऽसि सृजारसोऽसि ॥१॥ यदि द्विवृषोऽसि सृजारसोऽसि ॥२॥ यदि त्रिवृसोऽसि सृजारसोऽसि ॥३॥ यदि चतुर्वृषोऽसि सृजारसोऽसि ॥४॥ यदि पञ्चवृषोऽसि सृजारसोऽसि ॥५॥ यदि षड्वृषोऽसि सृजारसोऽसि ॥६॥ यदि सप्तवृषोऽसि सृजारसोऽसि ॥७॥ यद्यष्टवृषोऽसि सृजारसोऽसि ॥८॥ यदि नववृषोऽसि सृजारसोऽसि ॥९॥ यदि दशवृषोऽसि सृजारसोऽसि ॥१०॥ यद्येकादशोऽसि सोऽपोदकोऽसि ॥११॥
तेऽवदन् प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा । वीडुहरास्तप उग्रं मयोभूरापो देवीः प्रथमजा ऋतस्य ॥१॥ सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छदहृणीयमानः । अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ॥२॥ हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेति चेदवोचत्। न दूताय प्रहेया तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥३॥ यामाहुस्तारकैषा विकेशीति दुच्छुनां ग्राममवपद्यमानाम् । सा ब्रह्मजाया वि दुनोति राष्ट्रं यत्र प्रापादि शश उल्कुषीमान् ॥४॥ ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम् । तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥५॥ देवा वा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसा ये निषेदुः । भीमा जाया ब्राह्मणस्यापनीता दुर्धां दधाति परमे व्योमन् ॥६॥ ये गर्भा अवपद्यन्ते जगद्यच्चापलुप्यते । वीरा ये तृह्यन्ते मिथो ब्रह्मजाया हिनस्ति तान् ॥७॥ उत यत्पतयो दश स्त्रियाः पूर्वे अब्राह्मणाः । ब्रह्मा चेद्धस्तमग्रहीत्स एव पतिरेकधा ॥८॥ ब्राह्मण एव पतिर्न राजन्यो न वैश्यः । तत्सूर्यः प्रब्रुवन्न् एति पञ्चभ्यो मानवेभ्यः ॥९॥ पुनर्वै देवा अददुः पुनर्मनुष्या अददुः । राजानः सत्यं गृह्णाना ब्रह्मजायां पुनर्ददुः ॥१०॥ पुनर्दाय ब्रह्मजायां कृत्वा देवैर्निकिल्बिषम् । ऊर्जं पृथिव्या भक्त्वोरुगायमुपासते ॥११॥ नास्य जाया शतवाही कल्याणी तल्पमा शये । यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१२॥ न विकर्णः पृथुशिरास्तस्मिन् वेश्मनि जायते । यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१३॥ नास्य क्षत्ता निष्कग्रीवः सूनानामेत्यग्रतः । यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१४॥ नास्य श्वेतः कृष्णकर्णो धुरि युक्तो महीयते । यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१५॥ नास्य क्षेत्रे पुष्करिणी नाण्डीकं जायते बिसम् । यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१६॥ नास्मै पृश्निं वि दुहन्ति येऽस्या दोहमुपासते । यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१७॥ नास्य धेनुः कल्याणी नानड्वान्त्सहते धुरम् । विजानिर्यत्र ब्रह्मणो रात्रिं वसति पापया ॥१८॥
नैतां ते देवा अददुस्तुभ्यं नृपते अत्तवे । मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाद्याम् ॥१॥ अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः । स ब्राह्मणस्य गामद्यादद्य जीवानि मा श्वः ॥२॥ आविष्टिताघविषा पृदाकूरिव चर्मणा । सा ब्राह्मणस्य राजन्य तृष्टैषा गौरनाद्या ॥३॥ निर्वै क्षत्रं नयति हन्ति वर्चोऽग्निरिवारब्धो वि दुनोति सर्वम् । यो ब्राह्मणं मन्यते अन्नमेव स विषस्य पिबति तैमातस्य ॥४॥ य एनं हन्ति मृदुं मन्यमानो देवपीयुर्धनकामो न चित्तात्। सं तस्येन्द्रो हृदयेऽग्निमिन्धे उभे एनं द्विष्टो नभसी चरन्तम् ॥५॥ न ब्राह्मणो हिंसितव्योऽग्निः प्रियतनोरिव । सोमो ह्यस्य दायाद इन्द्रो अस्याभिशस्तिपाः ॥६॥ शतापाष्ठां नि गिरति तां न शक्नोति निःखिदम् । अन्नं यो ब्रह्मणां मल्वः स्वाद्वद्मीति मन्यते ॥७॥ जिह्वा ज्या भवति कुल्मलं वाङ्नाडीका दन्तास्तपसाभिदिग्धाः । तेभिर्ब्रह्मा विध्यति देवपीयून् हृद्बलैर्धनुर्भिर्देवजूतैः ॥८॥ तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो यामस्यन्ति शरव्यां न सा मृषा । अनुहाय तपसा मन्युना चोत दुरादव भिन्दन्त्येनम् ॥९॥ ये सहस्रमराजन्न् आसन् दशशता उत । ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन् ॥१०॥ गौरेव तान् हन्यमाना वैतहव्यामवातिरत्। ये केसरप्राबन्धायाश्चरमाजामपेचिरन् ॥११॥ एकशतं ता जनता या भूमिर्व्यधूनुत । प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥१२॥ देवपीयुश्चरति मर्त्येषु गरगीर्णो भवत्यस्थिभूयान् । यो ब्राह्मणं देवबन्धुं हिनस्ति न स पितृयाणमप्येति लोकम् ॥१३॥ अग्निर्वै नः पदवायः सोमो दायाद उच्यते । हन्ताभिशस्तेन्द्रस्तथा तद्वेधसो विदुः ॥१४॥ इषुरिव दिग्धा नृपते पृदाकूरिव गोपते । सा ब्राह्मणस्येषुर्घोरा तया विध्यति पीयतः ॥१५॥
अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन् । भृगुं हिंसित्वा सृञ्जया वैतहव्याः पराभवन् ॥१॥ ये बृहत्सामानमाङ्गिरसमार्पयन् ब्राह्मणं जनाः । पेत्वस्तेषामुभयादमविस्तोकान्यावयत्॥२॥ ये ब्राह्मणं प्रत्यष्ठीवन् ये वास्मिञ्छुल्कमीषिरे । अस्नस्ते मध्ये कुल्यायाः केशान् खादन्त आसते ॥३॥ ब्रह्मगवी पच्यमाना यावत्साभि विजङ्गहे । तेजो राष्ट्रस्य निर्हन्ति न वीरो जायते वृषा ॥४॥ क्रूरमस्या आशसनं तृष्टं पिशितमस्यते । क्षीरं यदस्याः पीयते तद्वै पितृषु किल्बिषम् ॥५॥ उग्रो राजा मन्यमानो ब्राह्मणं यो जिघत्सति । परा तत्सिच्यते राष्ट्रं ब्राह्मणो यत्र जीयते ॥६॥ अष्टापदी चतुरक्षी चतुःश्रोत्रा चतुर्हनुः । द्व्यास्या द्विजिह्वा भूत्वा सा राष्ट्रमव धूनुते ब्रह्मज्यस्य ॥७॥ तद्वै राष्ट्रमा स्रवति नावं भिन्नामिवोदकम् । ब्रह्माणं यत्र हिंसन्ति तद्राष्ट्रं हन्ति दुछुना ॥८॥ तं वृक्षा अप सेधन्ति छायां नो मोप गा इति । यो ब्राह्मणस्य सद्धनमभि नारद मन्यते ॥९॥ विषमेतद्देवकृतं राजा वरुणोऽब्रवीत्। न ब्राह्मणस्य गां जग्ध्वा रास्त्रे जागार कश्चन ॥१०॥ नवैव ता नवतयो या भूमिर्व्यधूनुत । प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥११॥ यां मृतायानुबध्नन्ति कूद्यं पदयोपनीम् । तद्वै ब्रह्मज्य ते देवा उपस्तरणमब्रुवन् ॥१२॥ अश्रूणि कृपमानस्य यानि जीतस्य वावृतुः । तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥१३॥ येन मृतं स्नपयन्ति श्मश्रूणि येनोन्दते । तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥१४॥ न वर्षं मैत्रावरुणं ब्रह्मज्यमभि वर्षति । नास्मै समितिः कल्पते न मित्रं नयते वशम् ॥१५॥
उच्चैर्घोषो दुन्दुभिः सत्वनायन् वानस्पत्यः संभृत उसृइयाभिः । वाचं क्षुणुवानो दमयन्त्सपत्नान्त्सिंह इव जेष्यन्न् अभि तंस्तनीहि ॥१॥ सिंह इवास्तानीद्द्रुवयो विबद्धोऽभिक्रन्दन्न् ऋषभो वासितामिव । वृषा त्वं वध्रयस्ते सपत्ना ऐन्द्रस्ते शुष्मो अभिमातिषाहः ॥२॥ वृषेव यूथे सहसा विदानो गव्यन्न् अभि रुव संधनाजित्। शुचा विध्य हृदयं परेषां हित्वा ग्रामान् प्रच्युता यन्तु शत्रवः ॥३॥ संजयन् पृतना ऊर्ध्वमायुर्गृह्या गृह्णानो बहुधा वि चक्ष्व । दैवीं वाचं दुन्दुभ आ गुरस्व वेधाः शत्रूणामुप भरस्व वेदः ॥४॥ दुन्दुभेर्वाचं प्रयतां वदन्तीमाशृण्वती नाथिता घोषबुद्धा । नारी पुत्रं धावतु हस्तगृह्यामित्री भीता समरे वधानाम् ॥५॥ पूर्वो दुन्दुभे प्र वदासि वाचं भूम्याः पृष्ठे वद रोचमानः । अमित्रसेनामभिजञ्जभानो द्युमद्वद दुन्दुभे सूनृतावत्॥६॥ अन्तरेमे नभसी घोषो अस्तु पृथक्ते ध्वनयो यन्तु शीभम् । अभि क्रन्द स्तनयोत्पिपानः श्लोककृन् मित्रतूर्याय स्वर्धी ॥७॥ धीभिः कृतः प्र वदाति वाचमुद्धर्षय सत्वनामायुधानि । इन्द्रमेदी सत्वनो नि ह्वयस्व मित्रैरमित्रामव जङ्घनीहि ॥८॥ संक्रन्दनः प्रवदो धृष्णुषेणः प्रवेदकृद्बहुधा ग्रामघोषी । श्रियो वन्वनो वयुनानि विद्वान् कीर्तिं बहुभ्यो वि हर द्विराजे ॥९॥ श्रेयःकेतो वसुजित्सहीयान्त्संग्रामजित्संशितो ब्रह्मणासि । अंशून् इव ग्रावाधिषवणे अद्रिर्गव्यन् दुन्दुभेऽधि नृत्य वेदः ॥१०॥ शत्रूषाण्नीषादभिमातिषाहो गवेषणः सहमान उद्भित्। वाग्वीव मन्त्रं प्र भरस्व वाचं सांग्रामजित्यायेषमुद्वदेह ॥११॥ अच्युतच्युत्समदो गमिष्ठो मृधो जेता पुरएतायोध्यः । इन्द्रेण गुप्तो विदथा निचिक्यद्धृद्द्योतनो द्विषतां याहि शीभम् ॥१२॥
विहृदयं वैमनस्यं वदामित्रेषु दुन्दुभे । विद्वेषं कश्मशं भयममित्रेषु नि दध्मस्यव एनान् दुन्दुभे जहि ॥१॥ उद्वेपमाना मनसा चक्षुषा हृदयेन च । धावन्तु बिभ्यतोऽमित्राः प्रत्रासेनाज्ये हुते ॥२॥ वानस्पत्यः संभृत उस्रियाभिर्विश्वगोत्र्यः । प्रत्रासममित्रेभ्यो वदाज्येनाभिघारितः ॥३॥ यथा मृगाः संविजन्त आरण्याः पुरुषादधि । एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥४॥ यथा वृकादजावयो धावन्ति बहु बिभ्यतीः । एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥५॥ यथा श्येनात्पतत्रिणः संविजन्ते अहर्दिवि सिंहस्य स्तनथोर्यथा । एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥६॥ परामित्रान् दुन्दुभिना हरिणस्याजिनेन च । सर्वे देवा अतित्रसन् ये संग्रामस्येषते ॥७॥ यैरिन्द्रः प्रक्रीडते पद्घोषैश्छायया सह । तैरमित्रास्त्रसन्तु नोऽमी ये यन्त्यनीकशः ॥८॥ ज्याघोषा दुन्दुभयोऽभि क्रोशन्तु या दिशः । सेनाः पराजिता यतीरमित्राणामनीकशः ॥९॥ आदित्य चक्षुरा दत्स्व मरीचयोऽनु धावत । पत्सङ्गिनीरा सजन्तु विगते बाहुवीर्ये ॥१०॥ यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृनीत शत्रून् । सोमो राजा वरुणो राजा महादेव उत मृत्युरिन्द्रः ॥११॥ एता देवसेनाः सूर्यकेतवः सचेतसः । अमित्रान् नो जयन्तु स्वाहा ॥१२॥
अग्निस्तक्मानमप बाधतामितः सोमो ग्रावा वरुणः पूतदक्षाः । वेदिर्बर्हिः समिधः शोशुचाना अप द्वेषांस्यमुया भवन्तु ॥१॥ अयं यो विश्वान् हरितान् कृणोष्युच्छोचयन्न् अग्निरिवाभिदुन्वन् । अधा हि तक्मन्न् अरसो हि भूया अधा न्यङ्ङधरान् वा परेहि ॥२॥ यः परुषः पारुषेयोऽवध्वंस इवारुणः । तक्मानं विश्वधावीर्याधराञ्चं परा सुवा ॥३॥ अधराञ्चं प्र हिणोमि नमः कृत्वा तक्मने । शकम्भरस्य मुष्टिहा पुनरेतु महावृषान् ॥४॥ ओको अस्य मूजवन्त ओको अस्य महावृषाः । यावज्जातस्तक्मंस्तावान् असि बल्हिकेषु न्योचरः ॥५॥ तक्मन् व्याल वि गद व्यङ्ग भूरि यावय । दासीं निष्टक्वरीमिच्छ तां वज्रेण समर्पय ॥६॥ तक्मन् मूजवतो गच्छ बल्हिकान् वा परस्तराम् । शूद्रामिच्छ प्रफर्व्यं तां तक्मन् वीव धूनुहि ॥७॥ महावृषान् मूजवतो बन्ध्वद्धि परेत्य । प्रैतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमा ॥८॥ अन्यक्षेत्रे न रमसे वशी सन् मृडयासि नः । अभूदु प्रार्थस्तक्मा स गमिष्यति बल्हिकान् ॥९॥ यत्त्वं शीतोऽथो रूरः सह कासावेपयः । भीमास्ते तक्मन् हेतयस्ताभिः स्म परि वृङ्ग्धि नः ॥१०॥ मा स्मैतान्त्सखीन् कुरुथा बलासं कासमुद्युगम् । मा स्मातोऽर्वाङैः पुनस्तत्त्वा तक्मन्न् उप ब्रुवे ॥११॥ तक्मन् भ्रात्रा बलासेन स्वस्रा कासिकया सह । पाप्मा भ्रातृव्येण सह गछामुमरणं जनम् ॥१२॥ तृतीयकं वितृतीयं सदन्दिमुत शारदम् । तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम् ॥१३॥ गन्धारिभ्यो मूजवद्भ्योऽङ्गेभ्यो मगधेभ्यः । प्रैष्यन् जनमिव शेवधिं तक्मानं परि दद्मसि ॥१४॥
ओते मे द्यावापृथिवी ओता देवी सरस्वती । ओतौ म इन्द्रश्चाग्निश्च क्रिमिं जम्भयतामिति ॥१॥ अस्येन्द्र कुमारस्य क्रिमीन् धनपते जहि । हता विश्वा अरातय उग्रेण वचसा मम ॥२॥ यो अक्ष्यौ परिसर्पति यो नासे परिसर्पति । दतां यो मध्यं गच्छति तं क्रिमिं जम्भयामसि ॥३॥ सरूपौ द्वौ विरूपौ द्वौ कृष्णौ द्वौ रोहितौ द्वौ । बभ्रुश्च बभ्रुकर्णश्च गृध्रः कोकश्च ते हताः ॥४॥ ये क्रिमयः शितिकक्षा ये कृष्णाः शितिबाहवः । ये के च विश्वरूपास्तान् क्रिमीन् जम्भयामसि ॥५॥ उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा । दृष्टांश्च घ्नन्न् अदृष्टांश्च सर्वांश्च प्रमृणन् क्रिमीन् ॥६॥ येवाषासः कष्कषास एजत्काः शिपवित्नुकाः । दृष्टश्च हन्यतां क्रिमिरुतादृष्टश्च हन्यताम् ॥७॥ हतो येवाषः क्रिमीणां हतो नदनिमोत । सर्वान् नि मष्मषाकरं दृषदा खल्वामिव ॥८॥ त्रिशीर्षाणं त्रिककुदं क्रिमिं सारङ्गमर्जुनम् । शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ॥९॥ अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्। अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥१०॥ हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः । हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा ॥११॥ हतासो अस्य वेशसो हतासः परिवेशसः । अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥१२॥ सर्वेषां च क्रिमीणां सर्वासां च क्रिमीनाम् । भिनद्म्यश्मना शिरो दहाम्यग्निना मुखम् ॥१३॥
सविता प्रसवानामधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१॥ अग्निर्वनस्पतीनामधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥२॥ द्यावापृथिवी दातॄणामधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥३॥ वरुणोऽपामधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥४॥ मित्रावरुणौ वृष्ट्याधिपती तौ मावताम् । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥५॥ मरुतः पर्वतानामधिपतयस्ते मावन्तु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥६॥ सोमो वीरुधामधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥७॥ वायुरन्तरिक्षस्याधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥८॥ सूर्यश्चक्षुषामधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥९॥ चन्द्रमा नक्षत्राणामधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१०॥ इन्द्रो दिवोऽधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥११॥ मरुतां पिता पशूनामधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१२॥ मृत्युः प्रजानामधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१३॥ यमः पितॄणामधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१४॥ पितरः परे ते मावन्तु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१५॥ तता अवरे ते मावन्तु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिस्ठायामस्याम् । चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१६॥ ततस्ततामहास्ते मावन्तु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१७॥
पर्वताद्दिवो योनेरङ्गादङ्गात्समाभृतम् । शेपो गर्भस्य रेतोधाः सरौ पर्णमिवा दधत्॥१॥ यथेयं पृथिवी मही भूतानां गर्भमादधे । एवा दधामि ते गर्भं तस्मै त्वामवसे हुवे ॥२॥ गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । गर्भं ते अश्विनोभा धत्तां पुष्करस्रजा ॥३॥ गर्भं ते मित्रावरुणौ गर्भं देवो बृहस्पतिः । गर्भं त इन्द्रश्चाग्निश्च गर्भं धाता दधातु ते ॥४॥ विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥५॥ यद्वेद राजा वरुणो यद्वा देवी सरस्वती । यदिन्द्रो वृत्रहा वेद तद्गर्भकरणं पिब ॥६॥ गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् । गर्भो विश्वस्य भूतस्य सो अग्ने गर्भमेह धाः ॥७॥ अधि स्कन्द वीरयस्व गर्भमा धेहि योन्याम् । वृषासि वृष्ण्यावन् प्रजायै त्वा नयामसि ॥८॥ वि जिहीष्व बार्हत्सामे गर्भस्ते योनिमा शयाम् । अदुष्टे देवाः पुत्रं सोमपा उभयाविनम् ॥९॥ धातः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः । पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१०॥ त्वष्टः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः । पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥११॥ सवितः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः । पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१२॥ प्रजापते श्रेष्ठेन रूपेणास्या नार्या गवीन्योः । पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१३॥
यजूंषि यज्ञे समिधः स्वाहाग्निः प्रविद्वान् इह वो युनक्तु ॥१॥ युनक्तु देवः सविता प्रजानन्न् अस्मिन् यज्ञे महिषः स्वाहा ॥२॥ इन्द्र उक्थामदान्यस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥३॥ प्रैषा यज्ञे निविदः स्वाहा शिष्टाः पत्नीभिर्वहतेह युक्ताः ॥४॥ छन्दांसि यज्ञे मरुतः स्वाहा मातेव पुत्रं पिपृतेह युक्ताः ॥५॥ एयमगन् बर्हिषा प्रोक्षणीभिर्यज्ञं तन्वानादितिः स्वाहा ॥६॥ विष्णुर्युनक्तु बहुधा तपांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥७॥ त्वष्टा युनक्तु बहुधा नु रूपा अस्मिन् यज्ञे युनक्तु सुयुजः स्वाहा ॥८॥ भगो युनक्त्वाशिषो न्वस्मा अस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥९॥ सोमो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥१०॥ इन्द्रो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥११॥ अश्विना ब्रह्मणा यातमर्वाञ्चौ वषट्कारेण यज्ञं वर्धयन्तौ । बृहस्पते ब्रह्मणा याह्यर्वाङ्यज्ञो अयं स्वरिदं यजमानाय स्वाहा ॥१२॥
ऊर्ध्वा अस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचीष्यग्नेः । द्युमत्तमा सुप्रतीकः ससूनुस्तनूनपादसुरो भूरिपाणिः ॥१॥ देवो देवेषु देवः पथो अनक्ति मध्वा घृतेन ॥२॥ मध्वा यज्ञं नक्षति प्रैणानो नराशंसो अग्निः सुकृद्देवः सविता विश्ववारः ॥३॥ अछायमेति शवसा घृता चिदीदानो वह्निर्नमसा ॥४॥ अग्निः स्रुचो अध्वरेषु प्रयक्षु स यक्षदस्य महिमानमग्नेः ॥५॥ तरी मन्द्रासु प्रयक्षु वसवश्चातिष्ठन् वसुधातरश्च ॥६॥ द्वारो देवीरन्वस्य विश्वे व्रतं रक्षन्ति विश्वहा ॥७॥ उरुव्यचसाग्नेर्धाम्ना पत्यमाने । आ सुष्वयन्ती यजते उपाके उषासानक्तेमं यज्ञमवतामध्वरं नः ॥८॥ दैवा होतार ऊर्ध्वमध्वरं नोऽग्नेर्जिह्वयाभि गृनत गृनता नः स्विष्टये । तिस्रो देवीर्बर्हिरेदं सदन्तामिडा सरस्वती मही भारती गृणाना ॥९॥ तन् नस्तुरीपमद्भुतं पुरुक्षु । देव त्वष्टा रायस्पोषं वि ष्य नाभिमस्य ॥१०॥ वनस्पतेऽव सृजा रराणः । त्मना देवेभ्यो अग्निर्हव्यं शमिता स्वदयतु ॥११॥ अग्ने स्वाहा कृणुहि जातवेदः । इन्द्राय यज्ञं विश्वे देवा हविरिदं जुषन्ताम् ॥१२॥
नव प्राणान् नवभिः सं मिमीते दीर्घायुत्वाय शतशारदाय । हरिते त्रीणि रजते त्रीण्ययसि त्रीणि तपसाविष्टितानि ॥१॥ अग्निः सूर्यश्चन्द्रमा भूमिरापो द्यौरन्तरिक्षं प्रदिशो दिशश्च । आर्तवा ऋतुभिः संविदाना अनेन मा त्रिवृता पारयन्तु ॥२॥ त्रयः पोषास्त्रिवृति श्रयन्तामनक्तु पूषा पयसा घृतेन । अन्नस्य भूमा पुरुषस्य भूमा भूमा पशूनां त इह श्रयन्ताम् ॥३॥ इममादित्या वसुना समुक्षतेममग्ने वर्धय ववृधानः । इममिन्द्र सं सृज वीर्येणास्मिन् त्रिवृच्छ्रयतां पोषयिष्णु ॥४॥ भूमिष्ट्वा पातु हरितेन विश्वभृदग्निः पिपर्त्वयसा सजोषाः । वीरुद्भिष्टे अर्जुनं संविदानं दक्षं दधातु सुमनस्यमानम् ॥५॥ त्रेधा जातं जन्मनेदं हिरण्यमग्नेरेकं प्रियतमं बभूव सोमस्यैकं हिंसितस्य परापतत्। अपामेकं वेधसां रेत आहुस्तत्ते हिरण्यं त्रिवृदस्त्वायुषे ॥६॥ त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् । त्रेधामृतस्य चक्षणं त्रीण्यायूंषि तेऽकरम् ॥७॥ त्रयः सुपर्णास्त्रिवृता यदायन्न् एकाक्षरमभिसंभूय शक्राः । प्रत्यौहन् मृत्युममृतेन साकमन्तर्दधाना दुरितानि विश्वा ॥८॥ दिवस्त्वा पातु हरितं मध्यात्त्वा पात्वर्जुनम् । भूम्या अयस्मयं पातु प्रागाद्देवपुरा अयम् ॥९॥ इमास्तिस्रो देवपुरास्तास्त्वा रक्षन्तु सर्वतः । तास्त्वं बिभ्रद्वर्चस्व्युत्तरो द्विषतां भव ॥१०॥ पुरं देवानाममृतं हिरण्यं य आबेधे प्रथमो देवो अग्रे । तस्मै नमो दश प्राचीः कृणोम्यनु मन्यतां त्रिवृदाबधे मे ॥११॥ आ त्वा चृतत्वर्यमा पूषा बृहस्पतिः । अहर्जातस्य यन् नाम तेन त्वाति चृतामसि ॥१२॥ ऋतुभिष्ट्वार्तवैरायुषे वर्चसे त्वा । संवत्सरस्य तेजसा तेन संहनु कृण्मसि ॥१३॥ घृतादुल्लुप्तं मधुना समक्तं भूमिदृंहमच्युतं पारयिष्णु । भिन्दत्सपत्नान् अधरांश्च कृण्वदा मा रोह महते सौभगाय ॥१४॥
पुरस्ताद्युक्तो वह जातवेदोऽग्ने विद्धि क्रियमाणं यथेदम् । त्वं भिषग्भेषजस्यासि कर्ता त्वया गामश्वं पुरुषं सनेम ॥१॥ तथा तदग्ने कृणु जातवेदो विश्वेभिर्देवैः सह संविदानः । यो नो दिदेव यतमो जघास यथा सो अस्य परिधिष्पताति ॥२॥ यथा सो अस्य परिधिष्पताति तथा तदग्ने कृणु जातवेदः । विश्वेभिर्देवैर्सह संविदानः ॥३॥ अक्ष्यौ नि विध्य हृदयं नि विध्य जिह्वां नि तृन्द्धि प्र दतो मृणीहि । पिशाचो अस्य यतमो जघासाग्ने यविष्ठ प्रति शृणीहि ॥४॥ यदस्य हृतं विहृतं यत्पराभृतमात्मनो जग्धं यतमत्पिशाचैः । तदग्ने विद्वान् पुनरा भर त्वं शरीरे मांसमसुमेरयामः ॥५॥ आमे सुपक्वे शबले विपक्वे यो मा पिशाचो अशने ददम्भ । तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥६॥ क्षीरे मा मन्थे यतमो ददम्भाकृष्टपच्ये अशने धान्ये यः । तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥७॥ अपां मा पाने यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम् । तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥८॥ दिवा मा नक्तं यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम् । तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥९॥ क्रव्यादमग्ने रुधिरं पिशाचं मनोहनं जहि जातवेदः । तमिन्द्रो वाजी वज्रेण हन्तु छिनत्तु सोमः शिरो अस्य धृष्णुः ॥१०॥ सनादग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः । सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥११॥ समाहर जातवेदो यद्धृतं यत्पराभृतम् । गात्राण्यस्य वर्धन्तामंशुरिवा प्यायतामयम् ॥१२॥ सोमस्येव जातवेदो अंशुरा प्यायतामयम् । अग्ने विरप्शिनं मेध्यमयक्ष्मं कृणु जीवतु ॥१३॥ एतास्ते अग्ने समिधः पिशाचजम्भनीः । तास्त्वं जुषस्व प्रति चैना गृहाण जातवेदः ॥१४॥ तार्ष्टाघीरग्ने समिधः प्रति गृह्णाह्यर्चिषा । जहातु क्रव्याद्रूपं यो अस्य मांसं जिहीर्षति ॥१५॥
आवतस्त आवतः परावतस्त आवतः । इहैव भव मा नु गा मा पूर्वान् अनु गाः पितॄन् असुं बध्नामि ते दृढम् ॥१॥ यत्त्वाभिचेरुः पुरुषः स्वो यदरणो जनः । उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥२॥ यद्दुद्रोहिथ शेपिषे स्त्रियै पुंसे अचित्त्या । उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥३॥ यतेनसो मातृकृताच्छेषे पितृकृताच्च यत्। उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥४॥ यत्ते माता यत्ते पिता जमिर्भ्राता च सर्जतः । प्रत्यक्सेवस्व भेषजं जरदष्टिं कृणोमि त्वा ॥५॥ इहैधि पुरुष सर्वेण मनसा सह । दूतौ यमस्य मानु गा अधि जीवपुरा इहि ॥६॥ अनुहूतः पुनरेहि विद्वान् उदयनं पथः । आरोहणमाक्रमणं जीवतोजीवतोऽयनम् ॥७॥ मा बिभेर्न मरिष्यसि जरदष्टिं कृणोमि त्वा । निरवोचमहं यक्ष्ममङ्गेभ्यो अङ्गज्वरं तव ॥८॥ अङ्गभेदो अङ्गज्वरो यश्च ते हृदयामयः । यक्ष्मः श्येन इव प्रापप्तद्वचा साढः परस्तराम् ॥९॥ ऋषी बोधप्रतीबोधावस्वप्नो यश्च जागृविः । तौ ते प्राणस्य गोप्तारौ दिवा नक्तं च जागृताम् ॥१०॥ अयमग्निरुपसद्य इह सूर्य उदेतु ते । उदेहि मृत्योर्गम्भीरात्कृष्णाच्चित्तमसस्परि ॥११॥ नमो यमाय नमो अस्तु मृत्यवे नमः पितृभ्य उत ये नयन्ति । उत्पारणस्य यो वेद तमग्निं पुरो दधेऽस्मा अरिष्टतातये ॥१२॥ ऐतु प्राण ऐतु मन ऐतु चक्षुरथो बलम् । शरीरमस्य सं विदां तत्पद्भ्यां प्रति तिष्ठतु ॥१३॥ प्राणेनाग्ने चक्षुषा सं सृजेमं समीरय तन्वा सं बलेन । वेत्थामृतस्य मा नु गान् मा नु भूमिगृहो भुवत्॥१४॥ मा ते प्राण उप दसन् मो अपानोऽपि धायि ते । सूर्यस्त्वाधिपतिर्मृत्योरुदायच्छतु रश्मिभिः ॥१५॥ इयमन्तर्वदति जिह्वा बद्धा पनिष्पदा । त्वया यक्ष्मं निरवोचं शतं रोपीश्च तक्मनः ॥१६॥ अयं लोकः प्रियतमो देवानामपराजितः । यस्मै त्वमिह मृत्यवे दिष्टः पुरुष जज्ञिषे । स च त्वानु ह्वयामसि मा पुरा जरसो मृथाः ॥१७॥
यां ते चक्रुरामे पात्रे यां चक्रुर्मिश्रधान्ये । आमे मांसे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥१॥ यां ते चक्रुः कृकवाकावजे वा यां कुरीरिणि । अव्यां ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥२॥ यां ते चक्रुरेकशफे पशूनामुभयादति । गर्दभे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥३॥ यां ते चक्रुरमूलायां वलगं वा नराच्याम् । क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥४॥ यां ते चक्रुर्गार्हपत्ये पूर्वाग्नावुत दुश्चितः । शालायां कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥५॥ यां ते चक्रुः सभायां यां चक्रुरधिदेवने । अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥६॥ यां ते चक्रुः सेनायां यां चक्रुरिष्वायुधे । दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥७॥ यां ते कृत्यां कूपेऽवदधुः श्मशाने वा निचख्नुः । सद्मनि कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥८॥ यां ते चक्रुः पुरुषास्थे अग्नौ संकसुके च याम् । म्रोकं निर्दाहं क्रव्यादं पुनः प्रति हरामि ताम् ॥९॥ अपथेना जभारैनां तां पथेतः प्र हिण्मसि । अधीरो मर्याधीरेभ्यः सं जभाराचित्त्या ॥१०॥ यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् । चकार भद्रमस्मभ्यमभगो भगवद्भ्यः ॥११॥ कृत्याकृतं वलगिनं मूलिनं शपथेय्यम् । इन्द्रस्तं हन्तु महता वधेनाग्निर्विध्यत्वस्तया ॥१२॥
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ATHARVAN ṚṢIS). Atharvaveda Śaunakīya — Kāṇḍa 5. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/atharvaveda-shaunakiya-kanda-5>. Acesso em: 26/04/2026.
Tradição Védica (Atharvan ṛṣis) (2026). Atharvaveda Śaunakīya — Kāṇḍa 5. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/atharvaveda-shaunakiya-kanda-5
Tradição Védica (Atharvan ṛṣis). "Atharvaveda Śaunakīya — Kāṇḍa 5." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/atharvaveda-shaunakiya-kanda-5.