Nyāya Rakṣāmaṇi — Parte 4 de 7
Appayya Dīkṣita
मुक्तोपसृप्यव्यपदेशात् ॥२॥ 【भाष्यम्】 ‘यस्मिन्द्यौः’(मु.२.२.२) इत्यादावाधेयतया निर्दिष्टेन कार्यरपञ्चेन मुक्तामेवायतनमुपसृप्यं ज्ञातव्यम् , न तु तद्विशिष्टमिति ‘तमेवैकं जानथ’(मु.२.२.५) इत्यनेन उपदेशादपि द्युभ्वाद्यायतनं ब्रह्म ; मूलस्कन्धशाखात्मकत्वेन वृक्षस्येव ब्रह्मणः प्रपञ्चविशिष्टत्वेन प्रतिपत्तौ प्राप्तायां ‘‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’(क.४.१०) इति श्रुत्यन्तरे तस्य तथा प्रतिपत्तेर्निन्दितत्वात् । अपि च ‘अन्या वाचो विमुञ्चथ’(मु.२.२.५) वाग्विमुक्तिपूर्वकं ज्ञातव्यत्वोपदेशादपि द्युभ्वाद्यायतनं ब्रह्म । तथा ज्ञातव्यत्वस्यापि ब्रह्मणि ‘तमेव धीरो विज्ञाय’(बृ.४.४.२१) इति श्रुत्यन्तरे प्रसिद्धत्वात् । अत्र यदुक्तं पूर्वपक्षिणा प्रधानमेवात्मानं संसारिणां शरीरं जानीत स्थूलदेहादिविषयाः शरीरत्ववाचो विमुञ्चथेत्येवं प्रधानेऽप्येतद्योजयितुं शक्यमिति तत् आत्मशब्दस्य ब्रह्मासाधारणशब्दत्वसमर्थनेन पूर्वसूत्रे शरीरपरत्वासम्भवप्रदर्शनादेव निरस्तम् । किञ्च तथा सति ‘तमेवैकं जानथ’ इत्यदिकं ‘अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोअश्वाः’(तै.सं.२.९.४) इतिवदर्थवादमात्रं स्यात् ; प्रसिद्धशरीरेष्वशरीरत्ववादस्य गवाश्वव्यतिरिक्तपशुषु अपशुत्ववादस्येव बाधितत्वात् । अतिसूक्ष्मब्रह्मावगतेरत्यन्तचित्तैकाग्र्यसाध्यत्वेन तदर्थमन्यवाग्विमोकपूर्वकं ब्रह्मण ऐकरस्येन ज्ञातव्यत्वोपदेशपरत्वे तु श्रुत्यन्तरप्रसिद्ध्यनुसारेण भूतार्थवादो भवति । न च विशिष्टार्थोपदेशरूपभूतार्थवादत्वे सम्भवति असदर्थावलम्बनार्थवादत्वकल्पनं युक्तम् । अपि च ‘अमृतस्यैष सेतुः’ इत्यन्यवाग्विमोकपूर्वकादैकरस्येन ज्ञानादविद्यादिबन्धमुक्तैः प्राप्तव्यत्वोपदेशादपि द्युभ्वाद्यायतनं ब्रह्म । तथा हि – ‘अमृतस्यैष सेतुः’ इत्यत्रैतच्छब्दो नात्मनः परामर्शकः किन्तु विधेयत्वेन प्रधानस्य ज्ञानस्य परामर्शकः । तथा च यथा प्रसिद्धः सेतुः पारस्य प्रापकः , एवमयं द्युभ्वाद्यायतनज्ञानरूपः सेतुः संसारपारस्यामृतस्य ब्रह्मणः प्रापक इति तस्यार्थः । ननु ‘जानथ’ इत्याख्यातेन साध्यरूपाभिधायिनोक्तस्य ज्ञानस्य सिद्धरूपाभिधायिना नाम्ना परामर्शो न युक्त इति चेत् , न । ‘शैत्यं हि यत् सा प्रकृतिर्जलस्य’(रघु. ५.५४) इत्यत्र नपुंसकतया प्रकृतस्य स्त्रीलिङ्गविशिष्टतया परामर्शवत् , ‘पाणिर्निकुब्जः प्रसृतिस्तौ युतावञ्जलिःपुमान्’(ना.लिं.अ.) इत्यत्रैकत्वविशिष्टतया प्रकृतस्य द्वित्वविशिष्टतया परामर्शवच्च साध्यरूपविशिष्टतया प्रकृतस्यापि तदंशत्यागेन सिद्धरूपविशिष्टतया परामर्शोपपत्तेः । ‘श्येनेनाभिचरन्यजेत यथा वै श्येनो निपत्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते’ ‘अभिमन्थति स हिङ्कारो धूमो जायते स प्रस्तावः’(छा.२.११.१) ‘अपोऽश्नातितन्नेवाशितं नेवानशितम्’ इत्यादावाख्यातोक्तस्य नाम्ना परामर्शदर्शनाच्च । तथाऽप्यत्र ‘स एषोऽन्तश्चरते’(मु.२.२.६) ‘दिव्ये ब्रह्मपुरे ह्येषः’(मु.२.२.७) इत्याद्यनन्तरमन्त्राम्नातैतच्छब्दानामात्मपरत्वदर्शनादस्यापि तत्परत्वं युक्तम्’ इति चेत्, न । तेषां ज्ञानपरत्वासम्भवेन तद्विषयात्मपरत्वकल्पनेऽप्यस्य तस्मिन्नेव मन्त्रे विधेयत्वेन प्रस्तुते ज्ञाने वृत्तिसम्भवे तदुल्लङ्गनेन तद्विषापरत्वकल्पनायोगात् । न चैवं सति ‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा’ इत्यत्रापि तच्छब्दस्यानयनक्रियापरत्वप्रसङ्गः ; तस्य द्रव्यवाच्यामिक्षापदसमानाधिकरणस्य क्रियापरत्वासम्भवेन तत्प्रधानकर्मभूतपयःपरामर्शित्वकल्पनात् । नन्वेवमपि द्युभ्वाद्यायतने मुक्तोपसृप्यत्वहेतुर्न लभ्यते; अमृतस्यैव मुक्तोपसृप्यत्वलाभादिइ चेत् – न । अन्यज्ञानादमृतस्य ब्रह्मणः प्राप्त्यसम्भवेन द्युभ्वाद्यायतनज्ञानात् ब्रह्मणः प्राप्यत्वप्रतिपादनादर्थात् द्युभ्वाद्यायतनमेवामृतशब्दोक्तं ब्रह्मेति लाभात् । एवमस्य सूत्रस्य तिसृषु योजनासु आद्ययोजना भाष्ये प्रथमसूत्रव्याख्यानसमय एवात्मशब्दस्य ब्रह्मासाधारणशब्दत्वसमर्थनानन्तरं तदुपजीवित्वात्तत्रायतनवद्भावश्रवणादित्यादिना दर्शिता । द्वितीययोजना त्वेतत्सूत्रव्याख्यानसमये सूत्रस्य द्वितीयार्थत्वेन दर्शिता । तृतीययोजना तु न स्पष्टं प्रदर्शिता, किन्तु मन्त्रान्तरगतमुक्तोपसृप्यत्वव्यपदेशस्य एतत्सूत्रार्थतया वर्णनेन तत्समानन्यायतया सूचिता । भाष्ये मुण्डकोपनिषद्विवरणे च ‘अमृतस्यैश सेतुः’ इत्यत्रैतच्चब्दस्य ज्ञानपरामर्शित्वप्रतिपादनेन च किञ्चिदाविष्कृता ।१.३.२। अथ यदुक्तं पूर्वपक्षे द्युभ्वाद्यायतनत्वेनानुमानगम्यं प्रधानमेवानुवाद्यम् , न तु तथात्वेन श्रुतिप्रतिपन्नं ब्रह्मेति , तत्संख्यानुमानस्याप्रमाणत्वासम्भवेन निरस्तप्रायम् ; तथाऽपि दूषणान्तरप्रदर्शनार्थं सूत्रम् –
नानुमानमतच्छब्दात् ॥३॥ 【भाष्यम्】 सांख्यानुमानकल्पितं प्रधानमिह न ग्राह्यम् ; तत्प्रतिपादकशब्दाभावात् । न हि ‘यस्मिन्द्यौः’ इत्यादि तत्प्रतिपादकं ; तस्यान्तरङ्गश्रुत्यन्तरप्रापितब्रह्मगतद्युभ्वाद्यायतनत्वानुवादकत्वात् । यत्त्वनुमानात् श्रुतिः प्रत्यक्षानुमानसापेक्षत्वेन विलम्बितप्रवृत्तिकेति शीघ्रतरमनुमानमेव प्रापकमित्युक्तम् , तदयुक्तम् ; शब्दानां व्युत्पत्तिवेलायामर्थग्राहिमानान्तरापेक्षत्वेऽपि तत्प्रतिपादनवेलायां तदपेक्षत्वाभावेन विलम्बासिद्धेः ; अन्यथा ‘गामानय’ इत्यादिवाक्यानामसन्निकृष्टार्थविषयाणां प्रत्यक्षसाचिव्याभावेन गवानयनादिप्रतिपादकत्वाभावप्रसङ्गात् । उक्तं च वार्तिके ‘अर्थबोधेऽनपेक्षत्वान्मानान्तरमनादृतम् । व्युत्पत्त्युपायभूतं यत्तच्च तन्मात्र एव तु’ इति । तस्मात् ‘यस्मिन्द्यौः’ इत्यादि न प्रधानप्रतिपादकम् । नापि ‘अमृतस्यैष सेतुः’ इत्येतत् तत्प्रतिपादकम् ; तस्य विधेयतया प्रकृतं ज्ञानं ब्रह्मणः प्रापकमित्येतदर्थताया वर्णितत्वात् । यथा प्रसिद्धः सेतुः प्रवाहनिरोधेन प्रभूतमुदकं साधयति , एवमिदमात्मज्ञानममृतत्वं साधयतीत्यमृतशब्दस्य भावप्रधानताश्रयणेनात्मज्ञाने साधनत्वपरतयाऽपि सेतुव्यपदेशोपपत्तेश्च । आत्मन्यपि अमृतत्वधारकतया तद्व्यपदेशोपपत्तेश्च । उपक्रमश्रुतब्रह्मगतनिरपेक्षद्युभ्वाद्यायतनत्वलिङ्गेन आत्मश्रुत्या वाग्विमोकपूर्वकमेकरसतया ज्ञातव्यत्वोपदेशेन च विरुद्धस्योपसंहारस्य यथाकथञ्चिन्नयनस्योचितत्वात् । एवं च ‘उपक्रमोपसंहारानुसारेण मध्यगतमात्मश्रुत्यदिकं यथाकथञ्चित्प्रधाने नेतव्यम्’ इत्यपि निरस्तम् । सूत्रे ‘अनुमानम्’ इति कर्मणि ल्युट्प्रत्ययान्तः , आनुमानमिति शैषिकप्रत्ययान्तो वा । उपन्यस्तपूर्वपक्षबीजद्योतनार्थं प्रधानस्यानुमानपदेन ग्रहणम् । ‘अतच्छब्दात्’ इत्यत्र प्रसज्यप्रतिषेधार्थकस्य नञः समासः । तस्य क्रियासापेक्षत्वेनासामर्थ्येऽपि समासोऽस्तीति ‘अकर्तरि च कारके संज्ञायाम्’(पा.सू.३.३.१९) इत्यत्र कारकग्रहणेन ज्ञापितत्वात् , ‘असूर्यंपश्या राजदाराः’ इत्यादिप्रयोगदर्शनाच्च । ‘निर्मक्षिकम्’ इतिवदर्थाभावेऽव्ययीभावो वा । अतच्छब्दमित्यम्भावस्तु न भवति ; ‘नाव्ययीभावादतोम् त्वपञ्चम्याः’(पा.सू.२.४.८३) इति पञ्चमीपर्युदासात् ॥१.३.३॥ स्यादेतत – मा भूत् प्रधानं द्युभ्वाद्यायतनम् , जीवस्तु स्यात् ; मनःप्राणसम्बन्धश्रवणात् । न च जीवस्य मनःप्राणैरुपकरणोपकरणिभावसम्बन्ध एव प्रसिद्धो नाश्रयाश्रयिभावः , इह त्वाश्रयाश्रयिभाव एव प्रतीयते ; द्युपृथिव्यन्तरिक्षैराश्रयाश्रयिभाववाचकेनैव ओतशब्देनोपात्तत्वात् , ओतशब्दस्वारस्याच्चेति वाच्यम् । जीवोपकरणानां तेषां जीवादृष्टायत्तोत्पत्तिस्थितिकत्वेन तदाश्रितत्वव्यपदेशोपपत्तेः । अत एव जीवः ‘प्राणभृत्’ इति व्यवह्रियते । एवं च जीवे द्युपृथिव्यन्तरिक्षायतनत्वव्यपदेशोऽपि युज्यते ; तद्भोग्यभोगस्थानभोगोपकरणभोगायतनरूपाणां तेषां तददृष्टायत्तत्वात् । जीवोपकरणे प्राणेऽपि हि ‘यथा वा अरा नाभौ समर्पिता एवमस्मिन् प्राणे सर्वं समर्पितम्’(छा.७.१५.१) इति सर्वाधारत्वं श्रूयते । जीवे तच्छ्रवणस्य काऽनुपपत्तिः न चात्मशब्दो जीवेऽनुपपन्नः ; तस्य द्युभ्वादिसूत्रे ब्रह्मासाधारणत्वप्रतिपादनादिति वाच्यम् । ‘स्वशब्दात्’ इत्यनेन तस्य प्रधानसाधारण्यमेव हि व्यावर्तितम् , न तु जीवसाधारण्यमपि ; तस्य जीववाचकताया अनिवार्यत्वात् ‘स ब्रह्मवित् स लोकवित् स देववित् स भूतवित् स आत्मवित्’(बृ.३.७.१) इति अन्तर्यामिब्राह्मणे ब्रह्मणि ब्रह्मशब्दवत् जीवे आत्मशब्दस्यासाधारण्येन प्रयोगदर्शनात् । एवं ‘य आत्मनि तिष्ठन्नात्मनोऽन्तरः’(श.ब्रा.१४.५.३०) इत्याद्यन्तर्यामिब्राह्मणे ‘अयमात्मा ब्रह्म’(बृ.२.२.१९) इत्यादिश्रुत्यन्तरे च तत्र तस्यासाधारण्येन प्रयोगदर्शनात् । ‘नात्मऽश्रुतेर्नित्यत्वाच्च ताभ्यः’(ब्र.सू.२.३.१७) ‘आत्मनि चैवं विचित्राश्च हि’(ब्र.सू.२.१.२८) इत्यादिसूत्रेष्वपि तस्मिन्विशिष्यात्मशब्दप्रयोगदर्शनाच्च । यदि ‘यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति , एवमेतस्मादात्मनः सर्वे प्राणाः लोकाः सर्वे वेदाः सर्वाणि भूतानि व्युच्चरन्ति’(बृ.२.१.२०) ‘निस्सरन्ति यथा लोहपिण्डात्तप्तात्विस्फुलिङ्गकाः । सकाशादात्मनस्तद्वदात्मनः प्रभवन्ति हि’ इत्यादिश्रुतिस्मृतिषु परमात्मन्यप्यात्मशब्दप्रयोगदर्शनात् तस्याप्यसाधारण्येन वाचक इत्युच्यते, यदि वा ‘एकदेशेऽपि यो दृष्टः शब्दो जातिनिबन्धनः । तदत्यागान्न तस्यास्ति निमित्तान्तरकल्पना’ इति बर्हिराज्याधिकरणोक्तन्यायेन जीवात्मपरमात्मसाधारण्येन चेतनमात्रवाचकः स इत्युच्येत, तदाऽप्यात्मशब्दस्य जीवे नास्त्यनुपपत्तिः । वाग्विमोकपूर्वकमैकरस्येन ज्ञातव्यत्वं तद्ज्ञानस्य ब्रह्मप्रापकत्वं मुक्तिसाधनत्वं तस्यामृतत्वधारकत्वमित्येतत् सर्वमपि जीवात्मन्यपि निर्विशेषदृष्ट्योपपद्यते । तस्मात् जीव एव द्युभ्वाद्यायतनं स्यादित्याशंक्याह –
प्राणभृच्च ॥४॥ 【भाष्यम्】 चकारेण नञो हेत्श्चानुकर्षः । प्राणभृदपि न द्युभ्वाद्यायतनम् ; अतच्छब्दादेव । न हि मनःप्राणायतनत्वं तच्छब्दः । तस्य तदुपकरणकत्ववत् प्राणभृदसाधारणत्वाभावात् । ‘यस्मिन् पञ्च पञ्चजनाः’(बृ.४.४.१७) इत्यादिश्रुत्यन्तरे ब्रह्मण्यपि तत्प्रसिद्धेः । न च द्युपृथिव्यन्तरिक्षमनःप्राणायतनत्वमपि मुख्यं ब्रह्मणि सर्वोपादान इव जीवे सम्भवति । अ वा निरपेक्षं तत् ब्रह्मणोऽन्यत्र सम्भवति । तस्मात् तच्छब्दाभावात् तद्विलक्षणस्य ब्रह्मणः प्रतिपादकाच्छब्दादपि न प्राणभृद् द्युभ्वाद्यायतनम् । एवं च ‘अतछब्दात्’ इत्यस्य द्वितीयहेतुपरत्वेन योजनायां पर्युदासार्थस्य नञस्तत्पदेन समासः । उभयसाधारण्यार्थमतच्छब्दादित्युक्तिः । इदं च नैरपेक्ष्यापेक्षं पर्युदासार्थकत्वं पूर्वत्र प्रधाननिराकरणार्थहेतावपि योज्यम् ॥१.३.४॥ स्यादेतत् – प्राणभृदेव द्युभ्वाद्यायतनम् ; आत्मशब्दात् । आत्मशब्दो हि स्वभावापरपर्याय स्वरूपपरोऽप्यस्ति । इह च ‘तमेवैकं जानथ आत्मानम्’ इति शिष्यान् प्रति बोधने तस्य स्वरूपपरत्वमेव स्वारसिकम् – तमेवैकं युष्माकं प्रत्यग्भूतं स्वरूपं जानीतेति । एकजीववादे चैकस्याविद्याप्रतिबिम्बस्य सम्भवति बहून् शिष्यान् प्रति स्वरूपत्वबोधनमित्याशंक्याह –
भेदव्यपदेशात् ॥५॥ 【भाष्यम्】 भिद्यतेऽनेनेति भेदो भेदकः ‘तमेवैकञ्जानथ’ इति कर्मकर्तृभावः , अवधारणलब्धेनैकरस्येन ज्ञेयत्वं च वैलक्षण्यं भेद इति पक्षे तु स एव भेदः । तद्व्यपदेशान्न प्राणभृत् द्युभ्वाद्यायतनम् । मुमुक्षुप्राणभृज्जातेन हि निर्विशेषचिन्मात्रैकरसं ब्रह्म ज्ञेयम् , न तु प्राणभृदेव ज्ञाता तेनैव रूपेण ज्ञेयः । तत्र कर्मकर्तृभावविरोधात्, अहङ्कारसुखदुःखरागद्वेषादिसंवलितरूपस्य तस्यैकरस्येन ज्ञेयत्वायोगाच्चेति तदनुरोधेनात्मशब्दस्य जीवात्मपरत्वे, परमात्मपरत्वे, चेतनसामान्यपरत्वे, स्वरूपपरत्वे वा निर्विशेषचिन्मात्र एव पर्यवसानमभ्युपेयम् ; तस्यैव वस्तुतः तत्तद्बोधनीयजीवस्वरूपतया पर्यवसानात् । न च – बिम्बप्रतिबिम्बरूपयोः सविशेषयोर्जीवब्रह्मणोर्भेदेऽपि तदुभयानुस्यूतस्य निर्विशेषचैतन्यस्य जीवस्य च भेदो नास्ति , अन्यथा ‘षडस्माकमनादयः’ इति सिद्धान्तविरोधात् , तथा च कथमत्र भेदव्यपदेशो हेतुः स्यात् इति शङ्कनीयम् ; परिच्छिन्नापरिच्चिन्नयोस्तयोरपि भेदावश्यम्भावात् । लोकेऽप्यपरिच्छिन्नो महाकाशः परिच्छिन्नो घटाकाश इति भेदव्यपदेशदर्शनात् । षडनादित्वव्यवहारस्तु जीवब्रह्मभेदं ब्रह्मचिन्मात्रभेदं जीवचिन्मात्रभेदं च भेदराशित्वेनैकीकृत्य । अत एवाहुः ‘जीव ईशो विशुद्धा चित् भेदस्तस्यास्तयोर्द्वयोः । अविद्यातच्चितोर्योगः षडस्माकमनादयः’ इति । तस्याः सकाशात्तयोर्जीवेशयोर्भेदः तयोर्द्वयोरन्योन्यं च भेद इत्यर्थः ॥१.३.५॥ स्यादेतत् – मा भूदेतन्मन्त्रश्रुतहेतुभिः द्युभ्वाद्यायतनं जीवः ; उपरितनमन्त्रश्रुतहेतुभिस्तु स्यात् । उपरितनमन्त्रे हि ‘अरा इव रथनाभौ संहता यत्र नाड्यः । स एषोऽन्तश्चरते बहुधा जायमानः’(प्र.६.६) इति नाडीसम्बन्धनाड्यन्तस्सञ्चारजायमानत्वानि श्रूयन्ते । तानि च जीवलिङ्गानि । नाडीसम्बन्धः तदन्तस्सञ्चारश्च तावज्जीवस्य प्रसिद्धतरः ‘आसु तदा नाडीषु सृप्तो भवति’(छा.८.६.३) ‘ताभिः प्रत्यवसृप्य पुरीतति शेते’(बृ.२.२.१९) इत्यादिश्रुतिषु । जायमानत्वं तु तदसाधारणमिति स्पष्टमेव । तस्मात् बहुसाधकान्यथाकरणायोग्गाज्जीव एव द्युभ्वाद्यायतनं स्यादित्याशंक्याह –
प्रकरणाच्च ॥६॥ 【भाष्यम्】 प्रकरणमिदं मुण्डकोपनिषदि ‘कस्मिन्नु भगवो विज्ञाते’(मु.१.१.३) इत्युपक्रममारभ्य आसमाप्ति बहुतरश्रुतिलिङ्गादिनियमितं भूतयोनेरक्षरस्य परमात्मनः । तदेतददृश्यत्वाधिकरण एव प्रतिपादितमिति तन्मध्याम्नातस्य ‘यस्मिन्द्यौः’(मु.२.२.५) इति मन्त्रस्य नान्यपरत्वशङ्कावकाशोऽस्ति । न्यायव्युत्पादनार्थं प्रकरणं पिधाय तन्मन्त्रगतैः कैश्चिल्लिङ्गैरन्यपरत्वमाशंक्य तन्मन्त्रगतैरेव श्रुतिलिङ्गैः ब्रह्मपरत्वं साधितं सूत्रपञ्चकेन । अनेन तु सूत्रेण प्राकरणिकमन्त्रान्तरगतलिङ्गैर्जीवपरत्वे शङ्किते प्रकरणमुद्घाट्य प्राकरणिकमन्त्रान्तरगतैः प्रबलैः श्रुतिलिङ्गौस्तद्बाधह् प्रदर्श्यते । तत्र कानिचित् श्रुतिलिङ्गान्यदृश्यत्वाधिकरणे प्रदर्शितानि , कानिचिदिहैवाधिकरणे ‘स्वशब्दात्’ इत्यादिहेतूनामर्थान्तरोपवर्णनव्याजेन भाष्ये प्रदर्शितानि । तत्र हि ‘स्वसब्दात्’ इत्यस्य ‘तपो ब्रह्म परामृतम्’(मु.१.२.१०) ‘ब्रह्मैवेदममृतं पुरस्तात्’(मु.२.२.११) इति पूर्वत्र परत्र च ब्रह्मसंशब्दनमप्यर्थान्तरत्वेन दर्शितम् ।१। मुक्तोपसृप्यसूत्रस्य च ‘भिद्यते हृदयग्रन्थिः’(मु.२.२.८) इति मन्त्रे रागद्वेषादिमुक्तैर्ज्ञेयत्वव्यपदेशः ‘परात्परं पुरुषमुपैति दिव्यम्’(मु.३.२.८) इति मुक्तप्राप्यत्वव्यपदेशश्चार्थान्तरत्वेन दर्शितः ।२। ‘अतच्छब्दात्’ इत्यस्य च ‘यः सर्वज्ञः सर्ववित्’ इत्यादिषु श्रुतः सर्वज्ञादिशब्दोऽप्यर्थान्तरत्वेन दर्शितः ।३। एवं प्राकरणिकबहुश्रुतिलिङ्गबाधितमुत्तरमन्त्रगतं जीवलिङ्गत्रयमन्यथा नेयम् । तथा हि – नाडीसम्बन्धस्तावन्न जीवलिङ्गम् । नाड्याश्रयत्वं ह्यत्र नाडीसम्बन्धः अरनाभिदृष्टान्तानुरोधात् , ‘यत्र’ इति सप्तम्यनुरोधाच्च , न तु नाड्युपकरणत्वम् । नाड्याश्रयत्वं त्वाहत्य हृदयस्यैव श्रुतम् ‘अथ या एता हृदयस्य नाड्यः’(छा.८.७.१) इत्यादिषु । तदाश्रयत्वं जीवस्यापि हृदयद्वारैव वाच्यम् । तच्च हृदयायतनस्य ब्रह्मणोऽपि सुवचम् । एवं ‘अजायमानो बहुधा विजायते’(यजु.सं. ३१.१६) इति श्रुत्यनुसारेणाभिव्यक्तिविशेषवत्त्वरूपं जायमानत्वम्, जीववदन्तःकरनोपहितरूपेण नाड्यन्तस्सञ्चारवत्त्वम् च तस्यसुवचमेव । यदि ‘लक्षणहेत्वोः क्रियायाः’(पा.सू.३.२.१२६) इति प्रथमासमानाधिकरणशानज्विधायकसूत्रानुसारेण ‘यो जायते सोऽन्तश्चरते’ इत्येवमर्थपर्यवसायितया अन्तस्सञ्चरणक्रियालक्षणत्वेनोपन्यस्तं जननं जीवे प्रसिद्धतरं ब्रह्मव्यावृत्तमेव ग्राह्यम् ; प्रसिद्धतरस्यैव लक्षकत्वात् , अत एवान्तस्सञ्चरणमपि तेन जननेन लक्षणीयं जीवगतमेव ग्राह्यमित्युच्यते , तदाऽपि नास्त्यनुपपत्तिः ; हृदयायतनः परमात्मा जीवरूपेण जायमानः सन् नाडीनामन्तः सञ्चरत इत्यन्वयसौलभ्यात् । एवं प्रसक्तशङ्कानिराकरणार्थस्तुशब्दार्थे सौत्रश्चकारः ॥१.३.६॥ स्यादेतत् – जीवस्य प्रत्यग्रूपतया लोकानुभवसिद्धात् कर्तृत्वभोक्तृत्वादिविकारशालिनो रूपादन्यन्निर्विकारचिन्मात्रात्मकमपि रूपमस्तीत्यत्र किं प्रमाणम् , येन तत्रात्मशब्दस्य पर्यवसानं तत्रैव प्रसिद्धतरजैवरूपदृष्ट्या जायमानत्ववर्णनं चोपपद्येत । न हि कर्तृत्वभोक्तृत्वादिविशिष्टाज्जीवात् तन्नियन्तुरीश्वराच्चान्यदसङ्गोदासीनमात्मस्वरूपं श्रुतिषु प्रसिद्धमस्तीत्याशंक्य तत्र प्रमाणप्रदर्शनार्थं ‘प्रकरणात्’ इत्यनेन परिगृहीतमपि हेतुं श्रुङ्गग्राहिकयोपादाय दर्शयति –
स्थित्यदनाभ्यां च ॥७॥ 【भाष्यम्】 द्युभ्वाद्यायतनं प्रकृत्याऽऽम्नाते ‘द्वा सुपर्णासयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’(मु.३.१.१) इति स्थित्यदने निर्दिश्येते । ‘अनश्नन्’ इत्यौदासीन्येन स्थितिः , ‘अत्ति’ इति कर्मफलादनम् , आभ्यां स्थित्यदनाभ्यां कर्मफलात्तुस्सकाशादन्यस्यासङ्गोदासीनचैतन्यस्वरूपस्य सिद्धेस्तत्रात्मशब्दपर्यवसानादिवर्णनं युक्तमेव । ननु ‘अनश्नन्नन्यः’ इति सविशेषस्य परमेश्वरस्य निर्देशः किं न स्यात् उच्यते – पैङ्गिरहस्य ब्राह्मणेन मन्त्रोऽयमित्थं व्याख्यातः – ‘तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम् , अनश्नन्नन्यो अभिचाकशीतीति क्षेत्रज्ञः’ इति । सत्वक्षेत्रज्ञशब्दावपि तत्रैव व्याख्यातौ ‘तदेतत्सत्वं येन स्वप्नं पश्यति । अथ योऽयं शारीर उपद्रष्टा स क्षेत्रज्ञः’ इति । एवमत्तॄनश्नतोरन्तःकरणशुद्धजीवरूपतयाऽन्यत्र व्याख्यातत्वादनश्नन्नीश्वर इति वक्तुं न युक्तम् । ननु जीवेश्वरपर एवायं मन्त्रः ; अनेन तुल्यार्थतया प्रत्यभिज्ञायमाने ‘समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’(मु.३.१.२) इत्यनन्तरमन्त्रे तयोः प्रतिपादनात् । अस्य खल्वयमर्थः – समाने वृक्षे जीवेश्वरसाधारने शरीरे निमग्नः पुरुषः अनीशया अनीश्वरया प्रकृत्या परवशीकृतो मुह्यन्नविवेकं प्राप्तः सन् शोचति । जुष्टं योगमार्गैर्निषेवितं स्वस्मादन्यमीशम् , अस्य ईशस्य इति महिमानं प्रसिद्धप्रकारं माहात्म्यं च यदा पश्यति , तदा वीतशोको भवतीति । अत्र पुरुषो जीव एव ग्राह्यः , न त्वचेतनमन्तःकरणम् । न हि तत्र पुरुषश्रुतेः , ‘शोचति’ ‘मुह्यमानः’ ‘पश्यति’ ‘वीतशोकः’ इति विशेषणानां वा सम्भवोऽस्ति । अन्यस्त्वीशशब्दोक्तत्वादीश्वर एव । अपि चास्मिन्नेव मन्त्रे भोक्तृत्वाभोक्तृत्वश्रवणादप्ययं जीवेश्वरपरः । न ह्यन्तःकरणस्य भोक्तृत्वं जीवस्य देहपरिष्वङ्गदशायामभोक्तृत्वं वोपपद्यते । पैङ्गिश्रुत्यामपि सत्वक्षेत्रज्ञशब्दाभ्यां जीवेश्वरावेवोच्येते; ’न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः’ ॥ (भ.गी.१८.४०) योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते । यः करोति तु कर्माणि स भूतात्मेति चोच्यते’ ॥ इत्यादिस्मृतिषु तयोः सत्त्वक्षेत्रज्ञपदप्रयोगदर्शनात् । ‘येन स्वप्नम्’ इत्यत्र न करणे तृतीया, यतः स्वप्नदृष्टिकरणे , अन्तःकरणे सत्त्वशब्दः स्यात् किं त्वित्थंभावे । ततश्च येन जीवेन विशिष्टः परमेश्वरः स्वप्नं पश्यति स जीवः सत्त्वमित्यर्थोऽस्तु ; स्वप्नद्रष्टृत्वस्य जीवगतस्यापि जीवद्वारा परमात्मविशेषणत्वोपपत्तेः । ‘काठिन्यवान् यो बिभर्ति’ इत्यत्र पृथिवीद्वारा काठिन्यस्य तद्विशेषणत्वदर्शनात् । शारीरसब्दश्चान्तर्यामितया सर्वशरीरेषु स्थिते परमात्मन्युपपद्यत एवेति चेत् – अत्र ब्रूमः – ‘समाने वृक्षे’ इति मन्त्रो नोक्तरीत्या जीवेश्वरपरः , अनीशया प्रकृत्येति विशेष्याध्याहारगौरवात् , किन्तु तस्यैवमर्थः – समाने वृक्षे – देहाख्ये , निमग्नः – तादात्म्याध्यासेन निमग्नवदविविक्ततामापन्नः पुरुषो भोक्ता जीवो मुह्यमानः शरीरादिगतैरनर्थजातैरात्मानमेव तद्वन्तं मन्यमानः सन् अनीशया अनैश्वर्येण ‘कृशोऽहमन्धोऽहमस्मि, किं मे जीवितेन’ इत्येवं दीनभावेनाध्यासमूलेन शोचति । यदा तु देहादिभ्योऽनर्थाश्रयेभ्योऽन्यं अत एव ईशं देहादितादात्म्याध्यासमूलदैन्यानास्पदमात्मानमिति महिमानं अस्य प्रसिद्धप्रकारं महत्त्वं च त्रिविधपरिच्छेदराहित्यरूपं पश्यति , तदा वीतशोको भवतीति । अथवा वीतशोकः सन् अस्य महिमानं तद्भावम्, इति प्राप्नोति इति । ‘इति’ इत्याख्याते ‘संज्ञापूर्वको विधिरनित्यः’(व्या.प ६४) इति गुणाभावः । ‘ईश ऐश्वर्ये’(या.पा.१०२०) इति धातोः ‘गुरोश्च हलः’(पा.सू. ३.३.१०३) इति स्त्र्यधिकारविहिताकारप्रत्ययान्तेन ईशशब्देनैश्वर्यवाचिना नञः समासे सत्यनीशयेतिरूपम् । न च प्राधान्येन पुरुषस्यान्यं प्रति प्रतियोगित्वसम्भवे अप्राधान्येन प्रस्तुतस्य सरीरस्य तत्प्रतियोगिकत्वकल्पनमयुक्तमिति वाच्यम् । यद्विषयभ्रमस्य शोकनिदानत्वमभिप्रेत्य समाने वृक्षे निमग्नो मुह्यमान इति च विशेषणं कृतं तद्विरुद्धदर्शनस्य शोकविगमहेतुत्वमित्याशयेनान्यत्वविशेषणमिति ह्येषां विशेषणानां साफल्यमुपपादनीयम् । न च ‘समाने वृक्षे निमग्नः’ इति ‘मुह्यमानः’ इति च जीवेश्वराभेदभ्रम उक्त इति वक्तुं शक्यम् , येन जीवादीश्वरस्यान्यत्वं तद्विरुद्धं स्यात् । शक्यं तु देहतादात्म्याध्यासस्तद्धर्माध्यासश्च उक्त इति वक्तुम् । अतोऽर्थानुसारेणान्यत्वस्याप्रधानप्रतियोगिकत्वं न दोषः । अत एव ‘अन्यमीशम्’ इत्यस्य स्वात्मानमिति विशेष्याध्याहारोऽपि न दोषः , स्वानैश्वर्यप्रयुक्तशोकस्य पुरुषस्यान्यैश्वर्यदर्शनेन वीतशोकत्वापत्तिवर्णनायोगाच्च । तस्मादनन्तरमन्त्रानुसारेण ‘द्वा सुपर्णा’ इति मन्त्रस्य जीवेश्वरपरत्वमिति तावदयुक्तम् । नापि भोक्तृत्वाभोक्तृत्वश्रवणात्तदुभयपरत्वमिति युक्तम् ; आध्यासिकदेहपरिष्वङ्गदशायामपि वस्तुतो निर्विशेषस्य जीवस्य जलाध्यासदशायामपि मरुमरीचिकानामनार्द्रत्ववदभोक्तृत्वस्योपपत्तेः , अन्तःकरणस्य च वस्तुतो भोक्तृत्वाभावेऽपि तत्रारोप्य भोक्तृत्वव्यपदेशोपपत्तेः । न ह्ययं मन्त्रो वस्तुतो भोक्तृत्वं प्रतिपादयति , किन्तु जीवस्य भोक्तृत्वाभावं प्रतिपादयितुं प्रवृत्तः सन् का तर्हि भोक्तृत्वानुभवस्य गतिरित्याकाङ्क्षायामन्तःकरणसंवलनोपाधिकमाध्यासिकं जीवस्य भोक्तृत्वमुपाधिमस्तके निक्षिपति । वस्तुविचारणायां त्वचेतनत्वात् , कूटस्थत्वाच्च नान्तःकरणं , न वा चैतन्यं भोक्त्रिति परमार्थः , व्यवहारदृष्ट्या तु ‘‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’(क.३.४) इति श्रुतेराध्यासिकान्तःकरणादितादात्म्यापन्नञ्चैतन्यं भोक्तृ । अयं चार्थः ‘समाने वृक्षे’ इत्यनन्तरमन्त्रे स्फुटीकृतः । यत्तु ‘येन स्वप्नं पश्यति’ इत्यत्र इत्थंभावे तृतीयेति , तत्तुच्छम् ; उपपदविभक्तितः कारकविभक्तेर्बलीयस्त्वेन (व्या.प.६९) तस्याः करणार्थतौचित्यात्, सत्त्वशब्देन जीवस्य विवक्षितत्वे ‘यः स्वप्नं पश्यति’ इत्यार्जवेन वक्तव्यतया वक्रोक्त्ययोगाच्च । न हि गन्धवत्त्वेन पृथिव्यां लिलक्षयिषितायां ‘गन्धवती पृथिवी’ इत्युक्तिं विहाय ‘यद्द्वारा परमात्मा गन्धवान्, सा पृथिवी’ इत्युक्तिर्युज्यते । शारीर ईश्वर इत्यप्ययुक्तम् ; ‘अनुपपत्तेस्तु न शारीरः’(ब्र.सू.१.२.३) इत्यादिषु शारीरशब्दस्य जीव एव प्रसिद्धत्वात् । यद्यपि ‘अस्य गोर्द्वितीयोऽन्वेष्टव्यः’ इत्यादिगुहाऽधिकरणदर्शितन्यायेन ‘द्वा सुपर्णा’ इत्यत्रापि चेतनस्य द्वितीयेन चेतनेन भाव्यम् , तथाऽपि ‘येन स्वप्नम्’ इत्यादिव्याख्यानरूपश्रुतिविरोधान्न तादृक् न्यायोऽत्रावतरति । अत एव तस्मिन्नधिकरणे श्रीभगवत्पादैरस्यापि मन्त्रस्य तन्न्यायविषयत्वं कृत्वाचिन्तारूपेण दर्शयित्वा ‘अपर आह’ इत्यादिना कृत्वाचिन्तोद्घाटनं कृतम् । तस्मात् ‘द्वा सुपर्णा’ इति मन्त्रोऽहङ्कारविविक्ते निर्विशेषचिदेकरसे प्रत्यगात्मनि प्रमाणमिति निरवद्यम् । सूत्रगतेण चकारेण ‘अथातोऽहङ्कारादेशः’(छा.७.२५.२) इत्यात्मोपदेशोऽन्यच्चैतादृशं वाक्यजातमिह प्रमाणत्वेनानुसंहितम् । अत्र प्रकरणं पिधाय कृत्वाचिन्तारूपेणाधिकरणप्रवृत्तेर्विषयवाक्यवाक्यस्थात्मशब्दस्य स्वभावादिसाधारण्याच्चास्पष्टब्रह्मलिङ्गता बोद्धव्या ॥१.३.७॥
इति द्युभ्वाद्यधिकरणम् ॥१॥ 【भाष्यम्】
भूमा सम्प्रसादादध्युपदेशात् ॥८॥ 【भाष्यम्】 इदमामनन्ति छन्दोगाः – ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूम यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्’(छा.७.२४.१) इति । अत्र संशयः – भूमा प्राणः , परमात्मा वेति । कुतोऽयं संशय इति चेत् – उच्यते । भूमशब्दस्तावत् बहुशब्दादिमनिच्प्रत्यये पृथ्वादिविहिते सति ‘बहोर्लोपो भू च बहोः’(पा.सू.६.४.१५८) इति प्रकृतिप्रत्यययोर्विकारे च सति निष्पन्नो बहुत्ववाची । बहुत्वं चात्र वैपुल्यम् , न संख्याविशेषः । बहुशब्दस्य ‘बहुषु बहुवचनम्’(पा.सू.१.४.२१) इत्यादौ संख्यायामिव ‘बह्वन्नं पच्यते यत्र’ इत्यादौ वैपुल्येऽपि प्रयोगदर्शनात् । इह च ‘यत्रान्यत् पश्यति’ इत्युत्तरवाक्ये च बहुत्वसंख्यायुक्तस्याप्यल्पस्य भूतप्रतियोगित्वेनोपादानात्, नामादिभ्योऽधिकसंख्याहीने वागादौ ‘वाग्वाव साम्नो भूयसी’(छा.७.२.१) ‘आकाशो वाव तेजसो हूयान्’(छा.७.१२.१) इत्यादौ बहुशब्दनिष्पन्नभूयश्शब्दप्रयोगदर्शनाच्च । उक्तहेतुभ्यां वैपुल्याश्रयधर्मिपर्यन्तश्चायं भूमशब्दो न वैपुल्यमात्रपरः । ‘यो वै भूम तदमृतम्’(छा.७.२४.१) ‘यो वै भूमा तत्सुखम्’(छा.७.२३.१) इति धर्मिसामानाधिकरण्याच्च । यद्यपि भूमशब्दो भावप्रत्ययान्तत्वात् ‘तत्सिद्धिजातिसारूप्यप्रशंसा भूमलिङ्गसमवायात्’(जै.सू.१.४.२८) ‘न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमाह्यस्मिन्’(ब्र.सू.१.१.२९) ‘सम्भूयैव सुखानि चेतसि परं भूमानमातन्वत’ इत्यादिषु धर्मे प्रयुक्तत्वाच्च धर्मवाचकः , तथापि ‘स य एषोऽणिमैतदात्म्यमिदं सर्वम्’(छा.६.८.७) ‘धातुः प्रसादान्महिमानमीशम्’ इत्यादावणिममहिमादिशब्दस्येव लक्षणया धर्मिपर्यन्तत्वं नानुपपन्नम् । एवं च सामान्यतो भूमा विपुल इत्यवसिते तद्विशेषाकाङ्क्षायां ‘प्राणो वा आशाया भूयान्’(छा.७.१५.१) इति प्राणप्रकरणात् प्राणो भूमेति प्राप्नोति , ‘तरति शोकमात्मवित्’(छा.७.१.३) इति परमात्मप्रकरणाच्च परमात्मा भूमेति ; ततो विशेषानवधारणात् संशयः । ननु परमात्मन एव प्रकरणं ‘तरति शोकमात्मवित्’(छा.७.१.३) ‘आत्मैवेदं सर्वम्’(छा.७.२५.२) इत्युपक्रमोपसंहारैकरूप्यात् । प्राणस्य तु सन्निधानमात्रम् । प्रकरणसन्निधानाभ्यां च प्रबलदुर्बलाभ्यां संशयो न युक्त इति चेत् , उच्यते । पूर्वपक्षे प्राणस्यैव प्रकरणम् परमात्मनः सन्निधानमात्रम् । सिद्धान्ते परमात्मन एव प्रकरणम् , प्राणस्य सन्निधानमात्रम् । एतच्च पूर्वपक्षसिद्धान्तयोः स्फिटीकरिष्यते । एवं च प्राणः प्रकरणीति स भूमशब्दोक्तविपुलविशेषतया व्यवतिष्ठतामुत परमात्मा प्रकरणीति स एव तथा व्यवतिष्ठतामिति युक्तः संशयः । तत्र पूर्वपक्षवादी मन्यते – ‘प्राणो वा आशाया भूयान्’(छा.७.१५.१) इत्यारभ्य प्राणवायोः प्रकरणमिति त्तावदभ्युपेयम् ; प्राणशब्दस्य तत्र रूढत्वात् । न च ‘एष तु वा अतिवदति’(छा.७.१६.१) इत्यारभ्य प्रवृत्ते भूमप्रतिपादने तद्विच्छेदोऽस्ति । पूर्वं नामादिप्राणपर्यन्तेषु पूर्वपूर्वप्रकरणावसानोत्तरोत्तरप्रकरणारम्भमध्यदृष्टयोः प्रश्नप्रतिवचनयोरिहादर्सनात् । इहापि प्रकरणान्तरविवक्षायां ‘अस्ति भगवो नाम्नो भूयः’(छा.७.१.५) इति ‘वाग्वाव नाम्नो भूयसी’(छा.७.२.१) इत्यादिवत् ‘अस्ति भगवः नाम्नो भूयः’(छा.७.१.५) इति ‘वाग्वाव नाम्नो भूयसी’(छा.७.२.१) इत्यादिवत् ‘अस्ति भगवः प्राणात् भूयः’ इति ‘अदो वाव प्राणाद्भूयः’ इति प्रश्नप्रतिवचने निबध्येयाताम् । न च ते निबद्धे दृश्येते । प्रत्युत ‘अतिवाद्यस्मीति ब्रूयान्नापह्नुवीत’(छा.७.१५.४) इति प्राणविद्व्रतत्वेनोक्तस्यातिवादित्वस्य ‘एष तु वा अतिवदति यः सत्येनातिवदति’(छा.७.१६.१) इत्यनुकर्षणात् प्राणप्रकरणानुवृत्तिरेवावसीयते । न च – तत्र तुशब्देन , सत्यशब्देन च प्राणातिवादिनोऽन्यस्ततोऽधिकः सत्यातिवादी प्रतीयते । सत्यशब्दार्थश्च परमात्मेति स एव भूमा न प्राणः ; प्राणप्रकरणविच्छेदात् , तत्प्रकरणानुवृत्तेश्चेति वाच्यम् । तत्र प्रकृतः प्राणातिवाद्येव नामाद्यतिवादिनोऽधिकः प्रतिपाद्यते इत्युपपत्तेः । ‘प्राणा वै सत्यम्’(बृ.२.१.२०) इत्यादौ प्राणविषयस्यापि सत्यशब्दस्य श्रवणात् । ‘एष तु वा अग्निहोत्री यः सत्यं वदति’ इत्युक्तौ प्रसिद्धाग्निहोत्रिण इव प्रस्तुतप्राणातिवादिन एव सत्यवदनरूपाङ्गविधिरित्युपपत्तेश्च । तथा सति ‘यःसत्यं वदति’ इति निर्देशः स्यात् ‘यः सत्येनातिवदति’ इति निर्देशो न स्यादिति चेत् , न । ‘यः सत्येनातिवदति’ इत्यनेन निर्दिष्टस्यार्थस्य ‘यदा वै विजानाति अथ सत्यं वदति’(छा.७.१७.१) इत्यादिपुनर्निर्देशदर्शनेन तस्यापि तत्रैवार्थे पर्यवसानस्य वक्तव्यतया सत्येन सत्यवचनेन सह योऽतिवदतीत्यर्थकल्पनोपपत्तेः । सत्यशब्दस्य सत्यवचनपरत्वे तस्य लोकप्रसिद्धत्वात् ‘सत्यं त्वेव विजिज्ञासितव्यम्’ इति ‘सत्यं भगवो विजिज्ञासे’ इति चानुपपन्नं स्यादिति चेत् , न । लोकप्रसिद्धेष्वपि विज्ञानमतिश्रद्धानिष्ठाकृतिषु ‘विज्ञानं त्वेव विजिज्ञासितव्यं विज्ञानं भगवो विजिज्ञासे’(छा.७.१७.१) इत्यादिगुरुशिष्यवचनदर्सनेन तद्वत् सत्यवचनेऽपि तयोरुपपत्तेः । ननु विज्ञानादिषु ‘विजिज्ञासितव्यम्’ इत्यस्य सम्पादनीयमित्यर्थः ; अग्रे ‘यदा वै मनुतेऽथ विजानाति , यदा वै श्रद्धधात्यथ मनुते’(छा.७.१८.१) इत्यादितदुपायकीर्तनदर्शनादिति चेत् ; तर्हि सत्येऽपि तस्य स एवार्थोऽस्तु । अग्रे ‘यदा वै विजानाति’(छा.७.१७.१) इत्यादिना तदुपायकीर्तनदर्शनादिति तुल्यम् । तस्मात् प्राणप्रकरणाविच्छेदात् स एव भूमेति युक्तम् । प्राणे च ‘यत्र नान्यत् पस्यति’(छा.७.२४.१) इत्यादि भूम्नो लक्षणं तत्प्रधानायां सुषुप्तावस्थायां दर्शनादिव्यवहारनिवृत्तिदर्शनादुपपन्नम् । यत्तु भूम्नः सुखत्वममृतत्वं च , श्रुतं तदप्यविरुद्धम् । ‘अत्रैष देवः स्वप्नान्न पश्यत्यथतदैतस्मिन् शरीरे सुखं भवति’(प्र.४.६) इति प्राणप्रधानायां सुषुप्तावस्थायां सुखश्रवणात्, ‘प्राणो वा अमृतम् (बृ.१.६.३) इति श्रवणाच्च । नन्वेवं प्राणो भूमेत्युपगमे ‘श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मवित्’(छा.४.९.३) ति प्रश्नमुपक्रम्य प्रवृत्तमात्मप्रकरणं विरुध्येतेति चेत् , न । तदुत्तरे ‘नामोपास्व’ ,’वाचमुपास्व’ इत्याद्यनात्मविद्याविधीनामेव दर्शनेन प्रश्नस्यापि तद्विषयत्वस्य वक्तव्यतया आत्मप्रकरणासिद्धेः । अनात्मनोऽपि प्राणस्याग्रे ‘प्राणो हि पिता प्राणो माता’(छा.७.१५.१) इत्यादिना सर्वात्मत्वाभिधानात् , तदभिप्रायेण ‘आत्मवित्’ इत्युपक्रमस्य ‘आत्मैवेदं सर्वम्’(छा.७.२५.२) इत्युपसंहारस्य चोपपत्तेः । नामादिविद्याविधित्सायां प्राणोपक्रमोऽपि न युक्त इति चेत् , न । नामाद्युपासनानामेव ‘स यो नाम ब्रह्मेत्युपास्ते’ इत्यादिफलार्थवादगतविशेषश्रवणानुसारेण नामादिषु प्रतीकेषु ब्रह्मशब्दोदितप्राणदृष्टिरूपतया तदुपपत्तेः । प्राणो ह्यस्मिन् प्रकरणे अरनाभिदृष्टान्तोपन्यासपूर्वकं सर्वप्रतिष्ठात्वेन , सर्वात्मत्वेन च ब्रह्मलिङ्गेनोपरिसंकीर्त्यते । न च तत्संकीर्तनं नामादिष्विव प्राणेऽपि पृथग्विद्याविधानार्थम् ; ‘यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति’(छा.७.१.५) इत्यादिना नामाद्युपासनफलसंकीर्तनवत् प्राणविद्यासंकीर्तनस्यादर्शनात् । तस्मात् पेराणे ब्रह्मगुणकीर्तनं तद्विशिष्तप्राणदृष्ट्या नामाद्युपासनासिद्ध्यर्थमित्येव व्यवतिष्ठते । एवं च ‘स यो नाम ब्रह्मेत्युपास्ते’(छा.७.१.५) इत्यादिषु प्राणे ब्रह्मशब्दप्रयोगोऽग्रे संकीर्तयिष्यमाणब्रह्मगुणविशिष्टप्राणदृष्टिलाभार्थ इति न तस्य काचिदनुपपत्तिः । नापि तस्मिन्नात्मशब्दप्रयोगानुपपत्तिरिति सर्वं समञ्जसम् । यद्वा नामादिषु ब्रह्मदृष्टिविधिरेवास्तु । आत्मशब्दोऽपि तद्विषयोऽस्तु । न चैतावता दृष्टिविशेषणतया उपसर्जनस्य तस्य प्रकरणित्वम्, किन्तु तद्दृष्ट्योपासनीयतया प्रधानभूतानां नामादीनामेव । सन्निधानमात्रं तु तस्य स्यात् । तत्तु सदपि प्रकरणाद्दुर्बलम् । अथवाऽस्तु परमात्मनो महाप्रकरणम् , तथाऽपि ‘प्राणो वा आशाया भूयान्’(छा.७.१५.१) इत्यारभ्यावान्तरप्रकरणं तावदभ्युपेयम् । तच्च ‘एष तु वा अतिवदति’(छा.७.१६.१) इत्यादावप्यतिवादित्वप्रत्यभिज्ञानादनुवर्तमानं न वार्यते । अतस्तस्य ‘अथातोऽहङ्कारादेशः’(छा.७.२१.१) इत्येतत्पर्यन्ते भूमनिरूपणेऽप्यनुवृत्तत्वात् भूमा प्राण एवेति न भूमलक्षणमुखेनाद्वितीयब्रह्मसिद्धिः । महाप्रकरणिनस्तु परमात्मनः कामं ‘अथात आत्मादेशः’(छा.७.२५.२) इत्यारभ्य निरूपणमस्तु । भूम्न एव परमात्मत्वे ‘स एवाधस्तात्’(छा.७.२५.२) इत्यादिना तस्य सर्वगतत्वनिरूपणानन्तरं ‘आत्मैवाधस्तात्’(छा.७.२५.२) इत्यादिना पुनः सर्वगतत्वनिरूपणमपि पुनरुक्ततयाऽनुपपन्नं स्यात् । ननु ‘अथात आत्मादेशः’ इत्यारभ्य जीवोपदेशः प्रकरणिनो भूम्नस्तदनन्यत्वप्रदर्शनार्थः । उभयोरपि हि ‘स एवेदं सर्वम्’(छा.७.२५.१) ‘आत्मैवेदं सर्वम्’(छा.७.२५.२) इति सार्वात्म्यमुपदिष्टम् । अत उभयोर्भिन्नयोः सार्वात्म्यायोगादभेदः सिद्ध्यतीति चेत् ; न । ‘अथातोऽहङ्कारादेशः’ इत्यारभ्य ‘अहमेवेदं सर्वम्’ इत्यन्तेन जीवस्योपदिष्टतया पुनस्तदुपदेशवैयर्थ्यात् । अतः ‘स एवेदं सर्वम्’ इत्यन्तः प्राणोपदेशः । ‘अथातोऽहङ्कारादेशः’(छा.७.२५.१) इत्यारभ्य जीवोपदेशः । ‘अथात आत्मादेशः’(छा.७.२५.२) इत्यारभ्य महाप्रकरणिनः प्रमात्मन उपदेशः । तस्माद्यथा परमात्मप्रकरणानुवृत्त्या द्युभ्वाद्यायतनं परमात्मा, एवं प्राणप्रकरणानुवृत्त्त्या भूमा प्राण इति । एवं प्राप्ते सिद्धान्तः – भूमा परमात्मा , न प्राणः ; प्राणादूर्ध्वमुपदेशात् । न च तदसिद्धिः ; ‘एष तु वा’(छा.७.१६.१) इत्यादौ तुशब्दसत्यश्रुतिभ्यां प्राणातिवादिनोऽन्यस्य ततोऽधिकस्य सत्यातिवादिताप्रतीतेः । न च तत्र प्राणातिवादिन एव नामाद्यतिवादिभ्यो विशेषप्रदर्शनम् ; प्राण इव नामादिष्वतिवादिनोऽनुक्तेः , सत्यशब्दस्य परमार्थे ब्रह्मणि मुख्यस्य तद्विषयत्वे सम्भवति प्राणविषयत्वकल्पनायोगाच्च । अत एव प्राणातिवादिनः सत्यवचनरूपाङ्गविधायकत्वकल्पनमप्ययुक्तम् ; परमार्थे रूढस्य सत्यशब्दस्य तद्विषये वचसि लक्षणया प्रयोगोपपत्तौ तत्र तस्य शक्त्यन्तरकल्पनायोगात्, ‘सत्येन’ इति तृतीयाया ब्रह्मण्यतिवदननिमित्ततारूपकरणत्वपरतया कारकविभक्तित्वोपपत्तौ सहार्थविषयतयोपपदविभक्तित्वकल्पनायोगाच्च । न चाग्रे ‘अथ सत्यं वदति’ इत्यादिदर्शनात्तथा कल्प्यम् ; अभ्यस्तातिवदनोपक्रमगतसत्यपदरूढ्यनुसारेण ‘सत्यं वदति’ इत्यस्यापि परब्रह्मातिवदनपरत्वात् । सत्यस्यातिवदने निमित्तत्वविवक्षया तृतीयावत् तद्विषयत्वविवक्षया द्वितीयाया अप्युपपत्तेः । ‘एष तु वा अग्निहोत्री’ इति न्यायस्त्वत्र न प्रवर्तते । तत्र द्रव्यदेवतान्तराभावेनाग्निहोत्रान्तराप्रतीतेः तुशब्दस्वारस्यभङ्गः, इह तु प्रकृतातिवादनिमित्तप्राणव्यतिरिक्तसत्यशब्दोक्तपरब्रह्मरूपातिवादनिमित्तप्रतीतेः तत्स्वारस्यभङ्गो न युक्तः । तुशब्देन ह्यतिवाद्यन्तरमवसीयते , सत्यशब्देन निमित्तान्तरम् , कुतस्तदुभयस्वारस्यभङ्गेन प्रकृतातिवादविषयत्वकल्पनावकाशः तस्मात् तुशब्दप्रत्यायितातिवाद्यन्तरनिमित्ततयोपात्तसत्यशब्दोदितः परमात्मेति तत्प्रकरणाविच्छेदात् भूमा परमात्मैव ; ‘तरति शोकमात्मवित्’(छा.७.१.३) इति परमोपक्रमप्रस्तावितपरमात्मप्रकरणाविच्छेदाच्च । न चाग्रे नामादीनां तदुपासनानां चोपदेशादात्मप्रकरणासिद्धिः ; नामाद्युत्तरोत्तरोत्कृष्टवस्तूपदेशानां परमोत्कृष्टब्रह्मप्रतिपत्त्यर्थत्वेन , तेषु ब्रह्मदृष्टिविधीनां गोदोहनवदाश्रित्यविधिरूपत्वेन च तत्प्रकरणाविरोधित्वात् । न च तथाऽपि सन्निधिना , अवान्तरप्रकरणेन वा ‘एष तु वा’(छा.७.१६.१) इत्यादेः प्राणान्वयः शङ्कनीयः । आत्मप्रकरणेन , तुशब्देन, सत्यश्रुत्या च तद्बाधात्, अभिक्रमणवत् पूर्वोत्तरसन्दंशाभावेनावान्तरप्रकरणासिद्धेश्च । न च भूम्नः परमात्मत्वे ‘स एवाधस्तात्’(छा.७.२५.१) इत्याद्युपदेशानन्तरं ‘आत्मैवाधस्तात्’(छा.७.२५.२) इत्युपदेशवैयर्थ्यम् । भूम्नः स इति परोक्षनिर्देशेन मिथ्यापरोक्षाद्द्रष्टुरन्यत्वशङ्का स्यादिति तदनन्यत्वप्रदर्शनार्थत्वात् । न चाहङ्कारोपदेशेन , आत्मोपदेशेन वा तदनन्यत्वप्रदर्शनसिद्धावन्यतरवैयर्थ्यम् । परमात्मनो हि जीवेनान्तःकरणावच्छिन्नेन तदुपाधिकर्तृत्वभोक्तृत्वपरिच्छेदादिमता अहंपदवाच्येन रूपेणैक्यं नाभिमतम् , किन्तु ततो निष्कृष्टेन शुद्धेनाहंपदलक्ष्येण रूपेण । तच्च न लोकतो विदितम् , किन्तु श्रुत्यैव । तदपि रूपं प्रत्याय्य तदैक्यं भूम्नः प्रदर्शनीयम् । तत्र यदि केवलमहङ्कारादेशः , आत्मादेश इति वा क्रियेत, तदा लोके अहंपदवाच्यस्यैवाहमर्थत्वेनात्मत्वेन च प्रसिद्धत्वात्तदादेश एवायमिति भ्रान्तिः स्यात् । तत्र ‘अहमेवाधस्तात्’(छा.७.२५.१) इत्यादिकमनुपपन्नमित्यपि शङ्का स्यात् । अतः स्थूलारुन्धतीन्यायेन प्रथममहं पदवाच्येनैक्यं प्रदर्श्य तत्प्रसक्तशङ्कानिराकरणेन वस्तुतत्त्वावबोधनाय तदनन्तरं तन्निष्कृष्टशुद्धरूपविवेचनपूर्वकं तदैक्यं प्रदर्शयितुमात्मादेश इति न कस्यापि वैयर्थ्यम् । अत एव ‘अहङ्कारस्यात्मैकत्वेन प्रत्यक्षसिद्धस्य पृथगुपदेशो भेदार्थः , भूमात्मनोर्भिन्नत्वेन प्रत्यक्षसिद्धयोः पृथगुपदेश ऐक्यार्थः , द्वयोः सार्वात्म्यायोगात्’ इति विवरणकारा वदन्ति । यदत्र चोदयन्ति – अहमर्थादन्यस्यात्मनो भूमाख्यब्रह्मभिन्नत्वेन प्रत्यक्षसिद्धत्वात् तयोरुपदेशो भेदार्थः , अहमर्थस्य तु ब्रह्मभिन्नत्वेन प्रत्यक्षसिद्धत्वात्तयोरुपदेश ऐक्यार्थ इति वैपरीत्यमपि वक्तुं शक्यम् । सार्वाम्योपदेसश्चासिद्धः । ‘स एवेदं सर्वम्’(छा.७.२५.१) ‘अहमेवेदं सर्वम्’(छा.५.२.६) ‘आत्मैवेदं सर्वम्’(छा.७.२५.२) इत्युपसंहाराणां ‘स एवाधस्तात् (छा.७.२५.१) इत्याद्युपक्रमानुसारेण सर्वगतत्वपरत्वात् । सर्वगतत्वं च बहूनां सम्भवतीति न तत्सामर्थ्यादैक्यसिद्धिः । तत्सिद्धौ वा भूमात्मोपदेशाभ्यामेव तत्सिद्धिसम्भवेन मध्ये अहङ्कारोपदेशवैयर्थ्यं च इति । तत्राहंकारोपदेशवैयर्थ्यं तावत् परिहृतम् ।यथा हि ‘अस्त्यरुन्धती नाम वसिष्टस्य पत्न्यति सूक्ष्मतारारूपा’ इति वस्तुविशेषसद्भावमुपदिश्य ताराविशेषे तदभेदं बोधयितुकामः समीपवर्तिस्थूलताराभिभूततया विविच्याप्रकाशमाने तस्मिन्नाहत्य तदभेदं बोधनीयो बोद्धुं न प्रभवेदिति प्रथमं तामेव स्थूलतारां ‘इयमतिसूक्ष्माऽरुन्धती’ इत्युपदिश्य तत्र प्रसक्तसौक्ष्म्यानुपपत्तिशङ्कावारणेन वस्तुतत्त्वबोधनार्थं ‘इयन्त्वति सूक्ष्माऽरुन्धती’ इति स्थूलताराविवेचनेन सूक्ष्मताराविशेषं ग्राहयित्वा तत्रारुन्धत्यभेदमुपदिशतीति न तत्र स्थूलतारोपदेसवैयर्थ्यम्; तद्विवेकेन सूक्ष्मताराग्रहणसौकर्यार्थत्वात् ; एवमिहापीति । न च सार्वात्म्योपदेशासिद्धिः ; ‘स एवाधस्तात्’(छा.७.२५.२) इत्युपक्रमाणामप्यवधारणैः तद्व्यतिरिक्तवस्त्वभावप्रतिपादनेन सार्वात्म्यपर्यवसायित्वात् । नापि भूमाहमर्थोपदेशयोरैक्यार्थत्वं, भूमात्मोपदेशयोर्भेदार्थत्वं चेति वैपरीत्यं वक्तुं शक्यम् ; अहमर्थोपदेशस्य स्थूलारुन्धतीन्यायेन भूमात्मैक्यार्थत्ववर्णनया प्रमाणान्तराविरुद्धनयनसम्भवे तत्कर्तृत्वभोक्तृत्वपरिच्छिन्नत्वादिग्राहकप्रमाणान्तरविरुद्धभूमाहमर्थैक्यार्थकत्वकल्पनायोगात् । भूमात्मनोरैक्यस्याप्रसक्तत्वेन तयोरुपदेशस्य ऐक्यनिषेधात्मकभेदार्थत्वायोगात् । न हि विधिवन्निषेधोऽपि स्वविषयप्रमाणान्तराप्रवृत्तिमात्रेण चरितार्थः , किन्तु प्रतियोगिप्रसक्तिमप्यपेक्षत एव । तस्मादुपक्रमोपसंहारैकरूप्यावगमात् प्रकरणादपि भूमा परमात्मा ; न प्राणः । सूत्रे सम्प्रसादशब्दः सुषुप्त्यवस्थावाचकस्तदवस्थाप्रधानस्य प्राणस्येह लक्षकतया प्रयुक्तः । यद्यपि सम्प्रसादशब्दः ‘य एष सम्प्रसादोऽस्मात्’(मै.२.२) इत्यादिश्रुतिषु जीवे प्रसिद्धः , तथाऽपि ‘स वा एष एतस्मिन् सम्प्रसादे रत्वा चरित्वा’(बृ.४.३.१७) इत्यादिश्रुतिप्रयोगात् ‘सम्यक् प्रसीदत्यस्यामवस्थायां जीवः’ इति व्युत्पत्त्या सुषुप्तावेव रूढो जीवस्यापि लक्षक एव । अत एव सुषुप्त्यवस्थायोगिनि जीवे ‘सुप्तः समस्तः सम्प्रसन्नः’ इति सम्प्रसन्नशब्दप्रयोगः । ततश्च जीव इव प्राणेऽपि लक्षणया तस्य प्रयोगो न विरुध्यते । अस्ति च सम्प्रसादशब्देन प्राणवायुलक्षणया तस्य ‘प्राणाग्नय एवैतस्मिन् पुरे जाग्रति’(प्र.४.३) इति श्रुत्या , लोकतश्च सिद्धस्य सर्वकरणप्रत्यस्तमयरूपायां सुषुप्तौ जागरणस्योद्घाटनेन प्राणो भूमेति पूर्वपक्षे तस्मिन् ‘यत्र नान्यत्पश्यति’(छा.७.२४.१) इत्यादिभूमलक्षणस्य , सुखत्वामृतत्वयोश्च उपपादनं फलम् । ततश्च प्राणादूर्ध्वमुपदेशादिति सौत्रो हेतुः । ‘प्रकरणात्’ इति हेत्वन्तरं तु उत्तरसूत्रे चशब्दसंगृहीतमनागतावेक्षणन्यायेन दर्शितम् । नन्वयं सौत्रो हेतुः परमात्मत्वे सिद्धान्तसाध्ये , उत प्राणत्वाभावे पूर्वपक्षनिरासे नाद्यः । आनन्दमयप्रकरणे मनोमयादिषु व्यभिचारात् , भूमप्रकरणे च विज्ञानमतिश्रद्धादिषु व्यभिचारात् । स्यादेतत् ; ‘सम्प्रसादादध्युपदेशात्’ इत्यस्य प्राणादधिकत्वेन उपदेशादित्यर्थः । न चैवं सति मनोमयादिषु व्यभिचारः ; तत्र प्राणान्तरत्वादिनोपदेशेऽपि तदधिकत्वेनोपदेसाभावात् । न चात्र तदसिद्धिः ; इह प्रकरने पूर्वनिर्दिष्टादूर्ध्वमभिधानं तदधिकस्यैवेति वागादिषु दृष्टत्वेन प्राणादूर्ध्वमभिहिते भूम्नि तदधिकत्वसिद्धेः , ‘वाग्वाव नाम्नो भूयसी’(छा.७.२.१) इत्यादौ भूयश्शब्दवदिहाधिक्यपरस्य भूमशब्दस्य प्रयोगाच्च । तस्य सङ्कोचकाभावेन सर्वत आधिक्यपरत्वेऽपि पूर्वनिर्दिष्टप्राणाधिक्यसिद्धेरसन्दिग्धत्वात् । अपि च ‘एष तु वा अतिवदति यः सत्येनातिवदति’(छा.७.१६.१) इत्यत्र , ‘अपशवो वा अन्ये गोअश्वाः’ इत्यत्र गोअश्वेषु अन्येभ्यः प्राशस्त्यवत् सत्यातिवादिनि प्राणातिवादिनः प्राशस्त्यं तावत् प्रतीयते । ततः एतस्य प्राशस्त्यं च तदतिवदननिमोत्तात् प्राणादेतदतिवदननिमित्तस्य सत्यस्याधिक्यकृतमेवावसीयत इति ततोऽपि प्राणादाधिक्यसिद्धिः इति चेत् । मैवम् , एतावताऽपि वाचनिकस्य प्राणादाधिक्योपदेशस्यानिर्व्यूढत्वात् , अर्थादाधिक्यसिद्धेश्च प्राणादान्तरत्वेनोपदिष्टेषु मनोमयादिषु व्यभिचारात् , ‘मन एव पिता वाङ् माता प्राणः प्रजा’(बृ.१.५.७) ‘प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च’(छा.३.१८.४) ‘पुरुषो वाव गौतमाग्निस्तस्य वागेव समित् प्राणो धूमः’(छा.५.७.१) इत्यादिश्रुतिभिर्वाङ्मनसवायुपुरुषादिषु प्राणादाधिक्यसिद्धिसत्त्वेन व्यभिचाराच्च । तस्मात् सिद्धान्तसाध्ये नायं हेतुः ; नापि पूर्वपक्षनिरासे ; समन्वयसूत्रात् सिद्धान्तसाध्यस्येव पूर्वपक्षनिराससाध्यस्य क्वचिन्निर्दिष्तस्य प्रत्यधिकरणमनुवृत्त्यभावेन ‘नेतरोऽनुपपत्तेः’(ब्र.सू.१.१.१६) इत्यादाविवात्रापि निर्देशप्रसङ्गात् , प्रथमवक्तव्यं सिद्धान्तहेतुमनुक्त्वा पूर्वपक्षनिरासहेतूक्त्ययोगात् , ‘धर्मोपपत्तेः’ इत्युत्तरसूत्रहेतोः सिद्धान्तसाध्यविषयत्वेनास्यापि तदेकविषयतौचित्याच्चेति चेत् । उच्यते – पूर्वपक्षनिरासे साध्येऽयं हेतुः । तस्य च साध्यस्य ‘नानुमानम्’ इति सूत्रगतेन नञा सह ‘प्राणभृत्’ इति सूत्रस्थस्य प्राणपदस्यानुवर्तनेन लाभः। तत्र हि जीवे प्राणभृत्पदप्रयोगस्य तस्मिन् ‘ओतं मनः सह प्राणैश्च सर्वैः’ इति श्रुतप्राणाश्रयत्वोपपादनेन पूर्वपक्षसमर्थनवदिहानुषङ्गलाभोऽपि प्रयोजनम् । प्रथममिह पूर्वपक्षनिरासहेतूक्तिः तत्सामर्थ्यादेव सिद्धान्तहेतुरपि लभ्यत इति लाघवप्रतिसन्धानात् । पूर्वपक्षनिरासको हि सौत्रो हेतुः परमात्मनि रूढां सत्यश्रुतिमपेक्ष्य समर्थनीयः । ततश्च तयैव सत्यं प्रकृत्याम्नातो भूमा परमात्मा इत्यपि सिद्ध्यति । न च सत्यश्रुतिमनपेक्ष्य तुशब्दमात्रेण प्रकरणविच्छेदो लभ्यत इति वाच्यम् ; ‘एष तु वा अग्निहोत्री’ इति वाक्यवैषम्यहेतुतया तत्राग्निहोत्रान्तरोपपादकद्रव्यदेवतान्तरं नास्ति, अत्र त्वतिवादान्तरनिमित्तं सत्यशब्दोदितं ब्रह्मास्तीति प्रदर्शनीयत्वात् । ननु सत्यश्रुत्या भूम्नः परमात्मत्वे साधिते तदधीनात्मलाभः तस्य प्राणत्वनिरासहेतुः प्राणादूर्ध्वमुपदेशोऽर्थात् सिद्ध्यतीति वैपरीत्यमपि सम्भवतीति चेत्, उच्यते । सत्यश्रुत्या भूमा परमात्मेति सिद्धिमात्रेण प्राणो न भूमेति न सिद्ध्यति । भूमवत् प्राणोऽपि परमात्मैव ; भूम्नः परमात्मत्वे सत्यश्रुतिभूमलक्षणमपाप्रकरणवत् प्राणस्य परमात्मत्वेऽपि सर्वप्रतिष्ठात्वसर्वात्मत्वलिङ्गसत्त्वात् । अतो भूमा प्राण एव; ‘एष तु वा’ इत्यादेर्नामाद्यतिवादिभ्यः प्राणरूपपरमात्मातिवादिनो विशेषप्रदर्शनार्थत्वस्य तस्यैव सत्यवदनरूपाङ्गविधानार्थत्वस्य (वा) चोपपत्तेरिति शङ्कान्तरावकाशात् । अतस्तस्यापि निवर्तमभिप्रेत्य पूर्वपक्षनिरासकः ‘सम्प्रसादादध्युपदेशात्’ इति हेतुर्मुखत उक्तः । तेन प्राणादूर्ध्वं भूम्न उपदेशस्य सिद्धवदुपादाय हेतूकरणमहिम्ना प्राणभूम्नोः परमात्मभावेनापि ऐक्यं निराकृतं भवति । तन्निराकरणं च पूर्वत्र प्राणशब्दस्य प्राणवायावुत्तरत्र सत्यशब्दस्य परमार्थे ब्रह्मणि च रूढत्वादतिवदनीयभेदेन तदुपपादकतुशब्दमहिम्ना चेति पूर्वोक्तरीत्यैवानुसन्धेयम् । प्राणे यथा सर्वप्रतिष्ठात्वं सर्वात्मत्वं च ब्रह्मलिङ्गं दृश्यते, तथा ‘यद्यप्येनानुत्क्रान्तप्राणान्’(छा. ७.१५.३) इत्युत्क्रमणं प्राणस्थितितदस्थित्योर्हननाहननप्रथाऽनुवादरूपं च प्राणलिङ्गमपि दृश्यते । न हि प्राणवायोरिव सर्वगतस्य परमात्मनो मुख्यमुत्क्रमणं सम्भवति, न वा ‘स यदि पितरं वा मातरं वा भ्रातरं वा’(छा. ७.१५.२) इत्यादिना प्रदर्शितो हननाहननप्रथानुवादः । अयं हि लौकिकप्रथाऽनुवादः । लौकिकाश्च श्वाससञ्चारसत्त्वासत्त्वाभ्यां प्राणवायोरेव स्थित्यस्थिती ज्ञातुं शक्नुवन्ति, न तदरिक्तस्य जीवस्यापि, दूरो परमात्मनः । अतिरिक्तजीवाभिज्ञानानां परीक्षकणानामपि प्राणवायुस्थित्यस्थितिभ्यामेव जीवस्यापि ते ज्ञातव्ये । अतः सर्ववेद्यप्रथमोपस्थितप्राणवायुसत्त्वासत्त्वनिबन्धनावेव हिंसोपक्रोशतदभावौ लौकिकानामिति तदनुवादः प्राणवायावेव सङ्गच्छते । एवं ‘प्राणो ह पिता’(छा. ७.१५.१) इत्यादौ पितृत्वादिना प्रशंसनमपि प्राणवायुविषयमेव व्यवतिष्ठते । प्राणस्य पितृत्वादिकमन्वयव्यतिरेकाभ्यामुपपादयितुं प्रवृत्तस्य ‘पितृहा वै त्वमसि’(छा. ७.१५.२) इत्यादेस्तत्रैव बहुधाऽभ्यस्तयायाः प्राणश्रुतेरनुग्रहाच्च । ततश्च सर्वप्रतिष्ठात्वलिङ्गमपि तदनुरोधेनैव नेतव्यम् । एवं प्राणस्य भूमशब्दितात् प्रकरणिनः परमात्मनो भिन्नत्वे सत्येवाग्रे ‘आत्मतः प्राण’(छा. ७.२६.१) इति ततः प्राणस्योत्पत्तिवचनमुपपद्यते । न च ‘स्याच्चैकस्य ब्रह्मशब्दवत्’(ब्र.सू.२.३.५) इति न्यायेन ‘प्राणो वा आशायाः’(छा. ७.१५.१) इत्यत्र प्राणशब्दस्य ब्रह्मपरत्वेऽपि ‘आत्मतः प्राणः’(छा. ७.२६.१) इत्यत्र स वायुपरः स्यादिति वाच्यम् । नामादिप्राणान्ताः येन क्रमेणोत्तरोत्तरमुत्कृष्टा दर्शितास्तद्व्युत्क्रमेणैव ‘आत्मतः प्राणः’(छा. ७.२६.१) ‘आत्मत आशा’(छा. ७.२६.१) ‘आत्मतः स्मरः’(छा. ७.२६.१) इत्यादेः प्रवृत्तत्वेनोभयोरपि प्राणशब्दयोरेकविषयत्वावश्यम्भावात् । ननु भूमैव प्रकरणी परमात्मा, न प्राण इति सिद्धान्ते भूम्नः सर्वतो भूयस्त्वार्थमेव नामादिप्राणान्तानामुत्तरोत्तरभूयस्त्वेनानुक्रमणमिति वक्तव्यमभिमतं च । न च तद्युज्यते । तथा च सति प्राणाद्भूम्न्यपि भूयस्त्वविषययोः प्रश्नप्रतिवचनयोर्दर्शनापत्तेः । न च यदर्थमन्यत् प्रक्रान्तं तदनुक्तिर्युक्तेति चेत्, मैवम् । प्रश्नप्रतिवनाभावेऽपि प्रकृतासम्बन्धनिमित्ततुशब्दसत्यश्रुतिभ्यां प्राणभूमभेदस्यावर्जनीयत्वात् । पूर्वपर्यायेष्वनुक्तस्यातिवादित्वस्य प्राणपर्याये ‘स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति’(छा. ७.१५.४) इति वचनेन प्राणस्य सर्वप्रतिष्ठात्वाद्युपन्यासेन च उपक्रान्तामोपदेशः प्राण एव समाप्त इति मत्वा नारदे भूयः पृच्छति सनत्कुमारः प्राणविज्ञानमपि विकारानृतविषयमिति न तेन सम्यगतिवादित्वम् ; किन्तु सत्येनैवेति सत्यविज्ञानं स्वयमेवोपचिक्षेप । ततः ‘सोऽहं भगवः सत्येनातिवदति’(छा. ७.१६.१) इति पृष्टवते विज्ञानादिसाधनपरम्परया तमेव सत्यं परमात्मानं भूमानमुपदिदेशेति प्रश्नप्रतिवचनाभावस्यान्यथोपपत्तेश्च । तस्मात् प्राणभूम्नोः परमात्मभावेनैक्यमिति शङ्कान्तरस्य नावकाशः । तदिदं शङ्कान्तरनिराकरणं सूचयितुं मुखतः पूर्वपक्षनिरासहेतुमुक्त्वा तेन सिद्धान्तहेतुर्गर्भीकृतः । तेनैव सिद्धान्तहेतुना ‘धर्मोपपत्तेः’(ब्र.सू.१.३.९) इत्युत्तरसूत्रगतहेतोरेकविषयत्वम् । न च तत्र चशब्दः सूत्रद्वयोक्तहेतुसमुच्चयार्थः, किन्त्वनुक्तप्रकरणसमुच्चयार्थः इत्युक्तम् । तस्मात् सर्वमनाकुलम् । १.३.८।
धर्मोपपत्तेश्च ॥९॥ 【भाष्यम्】 दर्शनादिव्यवहाराभावनिरुपाधिकसुखत्वामृतत्वस्वमहिमप्रतिष्ठात्वसर्वगतत्वसर्वात्मत्वादीनां भूम्नि श्रूयमाणानां धर्माणां परमात्मन्येवोपपत्तेश्च भूमा परमात्मा । न ह्येतेषां निर्विशेषं परमात्मानमहायान्यत्राऽऽञ्जस्यमस्ति । दर्शनादिव्यवहाराभावस्तावत् ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’(बृ.४.५.१५) इत्यादिश्रुत्यादिषु तत्रैव प्रसिद्धः । न च ‘न शृणोति न पश्यति’(प्र. ४.२) इत्यादिना सर्वकरणव्यापारप्रत्यस्तमयरूपां सुषुप्तावस्थां प्रस्तुत्य ‘प्राणाग्नय एवैतस्मिन् पुरे जाग्रति’(प्र. उ. ४.३) इत्याम्नानात् प्राणेऽपि तत्प्रसिद्धिरस्तीति वाच्यम् । परमात्मप्रकरणानुरोधेन तस्याः श्रुतेरात्मनोऽसङ्गत्वविवक्षया प्रवृत्ततया प्राणे दर्शनाद्यभावपरत्वाभावात् । न हि तत्र प्राणविषयस्य, प्राणाधारस्य वा दर्शनादेरभावः कीर्त्यते, किन्तु सुषुप्तावात्मनो घटादिदर्शनाभावमात्रम् । न च प्राणे विद्यमाने दर्शनाद्यभावकीर्तनं तावदस्ति, तदेवेह लक्षणमिति वाच्यम् । सुषुप्तौ प्राणवद्देहस्यापि विद्यमानतया तन्मात्रस्य लक्षणत्वानुपपत्तेः । एतेन – सुषुप्तौ प्राणे जाग्रति दर्शनाद्यभावो लोकत एवावसित इत्यपि निरस्तम् । तस्मात् भूमलक्षणं तावत् परमात्मन्येव समञ्जसम् । एवं निरतिशयसुखत्वमपि । सुषुप्तौ सुखवचनमपि ह्यात्मन एव सुखरूपत्वविवक्षया प्रवृत्तम् । अमृतत्वमपि प्राणस्यापेक्षिकमेव, ‘अतोऽन्यदार्तम्’(बृ. ३.४.२) इति श्रुतेः । तस्माद्वाक्यशेषगतानां धर्माणां निर्विशेषपरमात्मन्येवोपपत्तिः । न च वाक्यशेषगतमेव भूमविदः सर्वदर्शनकीर्तनं ‘सर्वेषु लोकेषु कामचारो भवति’ इति वैषयिकफलकीर्तनं च तत्रानुपपन्नमिति वाच्यम् । सर्वदर्शनकीर्तनस्य ‘यत्र नान्यत्पश्यति’(छा. ७.२४.१) इति प्रथमश्रुतलक्षणानुसारतः सर्वविवर्ताधिष्ठानभावेन परमात्मदर्शनपरत्वात् । सार्वलौकिकफलकीर्तनस्य च ‘आत्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः’(छा. ७.२५.२) इति स्रगाद्युद्यानादिवनिताविभूतिरूपविषयकृतसुखात्मकानां रतिक्रीडामिथुनानन्दानामात्मानतिरेकोक्त्या ब्रह्मानुभवितुर्मुक्तस्य तदतिरिक्तस्यादिनिषेधपरप्रथमश्रुतवाक्यानुसारेण सर्वलोकसाध्यनिखिलसुखकणिकानां महाब्धिस्थानीयब्रह्मसुखानुभवपरत्वाच्च । तस्माद्धर्मोपपत्तेरपि भूमा परमात्मेति सुष्ठूक्तम् । अत्रोपक्रमोपसंहारैकरूप्यावगतस्य ब्रह्मप्रकरणस्य, तद्गतब्रह्मलिङ्गानां च भूमानन्वयेन पूर्वपक्षीकरणादस्पष्टब्रह्मलिङ्गता । ।१.३.९।
इति भूमाधिकरणम् ॥२॥ 【भाष्यम्】
अक्षरमम्बरान्तधृतेः ॥१०॥ 【भाष्यम्】 बृहदारण्यके ‘यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक् पृथिव्या यदन्तरा द्यावा पृथिवी इमे यद्भूतञ्च भवच्च भविष्यच्चेत्याक्षते कस्मिंस्तदोतञ्च प्रोतञ्च’(बृ. ३.८.३) इति गार्ग्या पृष्टेन याज्ञवल्क्येन ‘आकाश एव तदोतं च प्रोतं च’(बृ. ३.८.४) इत्युत्तरिते ‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’(बृ. ३.८.११) इत्यन्तम् । अत्राक्षरं प्रणवात्मको वर्णः, परमात्मा वेति संशये प्राप्तं तावत् वर्ण एवाक्षरमिति । ‘अक्षरसमाम्नायः’ इत्यादौ वर्णेष्वक्षरशब्ददर्शनात् । ननु ‘यया तदक्षरमधिगम्यते’(मु.१.१.५) इत्यादिश्रुतिषु परमात्मन्यपि स दृष्टः । सत्यं दृष्टः । लौकिकवैदिकप्रसिद्ध्यतिशयसत्त्वात् वर्णेषु तत्प्रयोगो रूढ्या । परमात्मनि तु नित्यसर्वगते ‘न क्षरति, अश्नुते वा’ इति योगेन । रूढिश्च योगात् बलीयसी । नन्वाकाशान्तसकलजगद्धारकत्वलिङ्गमनुपपन्नं वर्णे । न च लिङ्गादक्षरश्रुतिर्बलीयसीति वाच्यम् । ‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’(बृ. ३.८.७) इति ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’(बृ. ३.८.११) इति प्रश्नोत्तररूपाभ्यामुपक्रमोपसंहाराभ्यां प्रतिपिपादयिषितत्वेन ‘एतस्यैवाक्षस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतस्तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञातृ’ इति श्रुतप्रशासितृत्वद्रष्टृत्वश्रोतृत्वमन्तृत्वविज्ञातृत्वद्रष्टृत्वादिरूपजीवाभेदात्मकबहुलिङ्गसहकृतत्वेन चास्य लिङ्गस्य श्रुतेः प्रबलत्वादिति चेत् । उच्यते – जगद्धारकत्वं वर्ण्यमानं नास्ति । न खल्वत्रौतप्रोतशब्दाभ्यामक्षरस्य जगतश्चाधाराधेयभावः प्रतिपाद्यते । पूर्वत्र गार्गीब्राह्मणे ‘यदिदं सर्वमप्सोतञ्च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्च’(बृ.३.६.१) इत्यादिभिर्गार्ग्याः प्राश्नैः ‘वायौ गार्गि’(बृ.३.६.१) इत्यादिभिर्याज्ञवल्क्यस्योत्तरैश्च परिदृश्यमानपार्थिवधातुजातसलिलवाय्वन्तरिक्षलोकगन्धर्वलोकादित्यालोकचन्द्रलोकनक्षत्रलोकदेवलोकेन्द्रलोकप्रजापतिलोकब्रह्मलोकानां पूर्वपूर्वस्योत्तरोत्तरस्मिन्नोतप्रोतत्ववर्णनात् । तत्रानुक्रान्तानामन्तरिक्षलोकादीनां तत्तदुपरितनगन्धर्वलोकाद्याधारत्वायोगात् । अतस्तत्र पूर्वपूर्वलोकेभ्यः उत्तरोत्तरलोकानां कयाचिद्विवक्षयोत्कर्षमभिप्रेत्य ओतत्वप्रोतत्ववर्णनमिति नेतव्यम् । सम्भवति हि यथा पटे दीर्घतिर्यक्तन्तव ओतप्रोतास्तस्यैकदेशा एवं गन्धर्वलोकानां विभूतौ दृश्यमानायामन्तरिक्षलोका विभूतितस्तदेकदेशप्राया इति विवक्षया सादृश्यादोतप्रोतत्ववर्णनस्योत्कर्षपर्यवसानम् । अतस्तदुपरितनप्रश्नोत्तरसन्दर्भरूपाक्षरब्राह्मणगतौतप्रोतत्ववर्णनमपि तथैव नेतुं युक्तम् । तच्चोपपद्यत एव प्रणवे । ‘ओमित्येतदक्षरमुद्गीथमुपासीत ओमिति ह्युद्गायति तस्योपव्याख्यानम् । एषां भूतानां पृथिवी रसः पृथिव्या आपो रसोऽपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः साम्न उद्गीथो रसः स एष रसानां रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः’(छा.१.१.३) इति श्रुत्यन्तरे तस्य सर्वोत्कृष्टत्वप्रसिद्धिसत्त्वात् । तत्र कयाचिद्विवक्षया पृथिवीजलौषध्यादिक्रमेणोत्तरोत्तरमुत्कर्ष उक्तः, इह तु विवक्षान्तरेण पृथिवीजलवाय्वादिक्रमेणेति एतावानेव विशेषः पर्यवस्यतीति न प्रणवे ओतप्रोतत्ववर्णनस्यानुपपत्तिः । यदि चौतप्रोतशब्दाभ्यां तस्य तस्य तत्र तत्र वर्तमानत्वमेवोच्यते, तथापि प्रणवे जगदाधाराकाशौतत्वप्रोतत्ववर्णनस्य न काचिदनुपपत्तिः । जगदाधार आकाशः परमात्मा हृदयादित्यमण्डलादिवदुपासनस्थाने प्रणवे वर्तत इति सामञ्जस्यात् । न चान्याश्रितत्वोक्तिस्वारस्यादिहाकाशः प्रसिद्ध एव ग्राह्य इति वाच्यम् ; पूर्वसन्दर्भविरोधात् । एवं ह्युपाख्यायते बृहदारण्यके – जनकस्य यज्ञे कुरुपाञ्चालदेशागतेषु ब्राह्मणेष्वभिसमेतेषु ‘कः स्विदेतेषां ब्रह्मिष्ठः’ इति जिज्ञासुना जनकेन शृङ्गद्वयाबद्धपलपरिमितसुवर्णालङ्काराः सहस्रं गाः समानीय ‘ब्राह्मणा भगवन्तो यो वा ब्रह्मिष्ठः स एता गा उदजताम्’(बृ.३.१.२) इत्युक्ते तेषु ब्राह्मणेष्वदृष्टतया स्थितेषु, याज्ञवल्क्यः स्वशिष्यमुवाच ‘एताः सोम्य उदज सामश्रवा’(बृ.३.१.२) इति । ततस्तेषु ब्राह्मणेषु क्रुद्धेषु तमाश्वलः पप्रच्छ ‘त्वं नु खलु नु याज्ञवल्क्य ब्रह्मिष्ठोऽसि’(बृ.३.१.२) इति । ‘नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्मः’(बृ.३.१.२) इति याज्ञवल्क्यस्योक्तिभङ्ग्या तस्य ब्रह्मिष्ठत्वमभिमानमधिकं सन्तमवधार्य तद्विजिगीषया आश्वलादिषु केषुचित् तं पृष्टवत्सु, तेन च सदुत्तरोक्त्या जितेषु, ‘अथ हैनं गार्गी वाचक्नवी पप्रच्छ’(बृ.३.६.१) इत्यादि गार्गीब्रह्मणं प्रवृत्तम् । तत्र गार्ग्या ‘यदिदं सर्वमप्स्वोतं च प्रोतञ्च’(बृ.३.६.१) इत्यादिना तत्तदुत्तरानन्तरं पुनः पुनः पृष्टस्य याज्ञवल्क्यस्य क्रमेण ‘ब्रह्मलोकेषु गार्गि’(बृ.३.६.१) इत्युत्तरे सति ‘कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्च’(बृ.३.६.१) इति पुनः पृष्टेन याज्ञवल्क्येन ‘गार्गि माऽतिप्राक्षीर्मा ते मार्द्धा व्यपप्तत् अनतिप्रश्न्यां वै देवतामतिपृच्छसि माऽतिप्राक्षीः’(बृ.३.६.१) इति सक्रोधमुक्ते भीता गार्गी उपरराम । ततः उद्दालके प्रसिद्धे ब्रह्मविदि सूत्रमन्तर्यामिणं च पृष्टवति याज्ञवल्क्येन जिते पुनर्गार्गी सर्वेषां ब्राह्मणानां पराजयो जायत इति शङ्कया याज्ञवल्क्यस्य क्रोधं ब्राह्मणानामनुज्ञयैवाकिञ्चित्करतामापाद्य प्राक् ‘माऽतिप्राक्षीः’ इति निवारितं प्रश्नं पुनः करिष्यामीत्याशयवती ‘ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि तौ चेत् मे वक्ष्यति च न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेता’(बृ.३.८.१) इति तेषामनुज्ञां याचित्वा ‘पृच्छ गार्गि’(बृ.३.८.१) इति तैरनुज्ञाता ‘अहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ शरौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थां तौ मे ब्रूहि’(बृ.३.८.१) इति द्वितीयप्रश्ननिवारणपरिजिहीर्षया प्रश्नद्वयानुज्ञां पृष्ट्वा ‘पृच्छ’ इति तदनुज्ञाता ‘यदूर्ध्वं याज्ञवल्क्य दिवः’(बृ.३.८.३) इत्यादिना सर्वदेशकालानुवृत्तसकलप्रपञ्चाधारं पृष्ट्वा ‘आकाशे तदोतं च प्रोतं च’(बृ.३.८.४) इत्युत्तरिते ‘नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचः’(बृ.३.८.५) इति तं प्रशस्य इतः परं द्वितीयप्रश्नस्योत्तरमशक्यमित्याशयेन ‘अपरस्मै धारयस्व’(बृ.३.८.५) इत्युक्त्वा ‘पृच्छ’ इति तेनोक्ते प्रथमप्रश्नोत्तरस्थिरीकरणार्थं पुनरपि ‘यदूर्ध्वं याज्ञवल्क्य दिवः’(बृ.३.८.६) इत्यादिना प्राक् पृष्टमेव पृष्ट्वा याज्ञवल्क्येन ‘यदूर्ध्वं गार्गि’ इत्यादिना तदुक्तं सर्वमनूद्य ‘आकाश एव तदोतं च प्रोतं च’(बृ.३.८.७) इति प्राचीनोत्तर एवावधारणेन दृढीकृते तदनन्तरं कृतस्य ‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’(बृ.३.८.७) इति द्वितीयप्रश्नस्योत्तरतया ‘एतद्वै तदक्षरम्’(बृ.३.८.८) इत्यारभ्य ‘एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’(बृ.३.८.११) इत्यन्तं कृत्स्नमक्षरब्राह्मणं प्रवृत्तमिति । अत्र गार्गीब्राह्मणान्ते याज्ञवल्क्येन यः प्रस्नः सक्रोधं निवारितः स एव खलु गार्ग्या सर्वेषां पराजयो भविष्यतीति भीतया तस्य क्रोधमविगणय्य पुनरवतारितः । तस्य प्रश्नस्य परमात्मनि पर्यवसानं गार्गीब्राह्मण एव ‘अनतिप्रश्न्यां वै देवतामतिपृच्छसि’(बृ.३.६.१) इति याज्ञवल्क्यवचनेन स्फुटमिति तदनुसारेण तदुत्तरगतस्याकाशशब्दस्य परमात्मपरत्वमेव युक्तम् । अत एव प्रश्ननिवारणभङ्ग्यैव याज्ञवल्क्यः प्रथमप्रश्नस्योत्तरं वक्तुं जानातीत्यवगत्य द्वितीयप्रश्न एव भारं निधाय युगपत् प्रश्नद्वयानुज्ञामर्थितवतीति सङ्गच्छते । प्रथमप्रश्नोत्तरप्रशंसामिव कृत्वा सर्वाधारस्य परमात्मनः केनचित् प्रकारेण कश्चिदाधारोऽस्तीति ज्ञात्वा वक्तुमयं न पारयिष्यतीत्याशयेन ‘अपरस्मै धारयस्व’ इति धृष्टमुक्तवतीत्यपि सङ्गच्छते । प्रणवस्य परमात्मोपासनास्थानतया तदधिकरणत्वेनोत्तरमपि सङ्गच्छते । प्रसिद्धं हि हृदयादिषु प्रणवं विचिन्त्य तन्मध्यवर्तित्वेन परमात्मोपासनं श्रुतिस्मृतिपुराणागमेषु । यदि चाकाशः प्रसिद्धाकाशः, तथाऽपि प्रणवे तदाधारत्वस्य नानुपपत्तिः । अवकाशात्मके प्रसिद्धाकाशे सर्वं वस्तु विश्रान्तम् । सोऽपि स्वकारणे शब्दतन्मात्रे प्रणवसूक्ष्मावस्थारूपत्वेन प्रसिद्धे प्रतिष्ठित इति सामञ्जस्यम् । यदि चाकाशस्य तत्रौतप्रोतत्वेन वर्णितस्य जगतश्चाक्षरमाधारत्वेन वक्तव्यमिति निर्बन्धः, तस्यापि नास्त्यनुपपत्तिः प्रणवे ; आकाशद्वारा तस्य तदन्यजगदाधारत्वोपपत्तेः । आकाशस्य जगतश्च द्वारद्वारिभावं विनैव ओतप्रोतत्वमक्षरे वक्तव्यमिति निर्बन्धेऽपि नानुपपत्तिः; ’ओङ्कार एवेदं सर्वम्’(छा. २.२३.३) इति श्रुत्यन्तरे प्रणवस्य सर्वात्मत्वश्रवणात् । तदनुसारेणात्रापि तादात्म्येन सर्वमोतप्रोतं प्रणव इति तात्पर्यवर्णनोपपत्तेः । न च – श्रुत्यन्तरं ब्रह्मप्रतिपत्तिसाधने प्रणवे ब्रह्मगतासार्वात्म्यमारोप्य स्तुतिमात्रम् ; प्रणवस्य वस्तुतः सार्वात्म्यायोगात्, इह तन्मात्रमवलम्ब्योपक्रमोपसंहाराभ्यां प्रतिपिपादयिषितं लिङ्गमन्यथा नेतुमयुक्तम् – इति वाच्यम् ; प्रणवेऽपि मुख्यसार्वात्म्योपपत्तेः । अर्थानां ‘घटोऽयं पटोऽयम्’ इत्यादिप्रतिभासेय़ु शब्दतादात्म्योलम्भेन तत्तद्वाचकशब्दाश्रयत्वात् । शब्दानां च सर्वेषां ‘तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक् सन्तृण्णा’(छा. २.२३.३) इति श्रुत्या प्रणवात्मकत्वावगमात् । ननु ‘घटोऽयम्’ इत्यादि शब्दार्थसामानाधिकरण्यं ‘मृद्घटः’, ‘नीलो घटः’ इत्यादिवत् तादात्म्येनाश्रयिभावतो न भवति ; शब्दानामर्थाश्रयत्वमर्थानां शब्दाश्रयत्वं वेत्यत्र विनिगमनाविरहात्, शब्दानामर्थानां च व्यवस्थितेन्द्रियग्राह्यव्यवस्थितकार्यकरत्वादिवैलक्षण्यदर्शनेन भेदावश्यम्भावाच्च, किन्तु ज्ञाप्यज्ञापकभावतः । न च – ज्ञाप्यज्ञापकभावो न सामानाधिकरण्यप्रयोजकः, ‘धूमो वह्निः’ इति सामानाधिकरण्यादर्शनात्, ऐन्द्रियिकलैङ्गिकज्ञानेषु शब्दाजन्येष्वपि ‘घटोऽयं पटोऽयम्’ इत्यादिशब्दसामानाधिकरण्यानुभवाच्चेति वाच्यम् । ज्ञाप्यज्ञापकभावमात्रात् प्रत्यक्षतो दृश्यमानासु लिपिषु ‘ककारोऽयम्’ इत्यादिश्रूयमाणककारादिसामानाधिकरण्यानुभवदर्शनेन तद्वदिहाप्युपपत्तेः । वस्तुतो ‘घटोऽयम्’ इत्यादिप्रतिभासेषु पुरोवर्तिव्यक्तिषु घटशब्दादितादात्म्यं न स्फुरति, किन्तु घटशब्दादिसमर्पिततत्तदर्थतादात्म्यमेव । न हि ‘घटोऽयम्’ इत्यादीनां घटशब्दोऽयमित्यादिरर्थ ति कश्चिदप्यभिमन्यते, अन्यथा सर्वेषां शब्दानां स्वस्वरूपसमर्पणमात्रपरत्वे तत्तदर्थविशेषानवगतिप्रसङ्गादिति चेत् । अत्र ब्रूमः – विनिगमनाविरहोक्तिस्तावदनुपपन्ना; ‘स भूरिति व्याहरत् भूमिमसृजत स भुव इति व्यवहरत् सोऽन्तरिक्षमसृजत’(तै.ब्रा.२.२.४.२) इत्यादिश्रुतिभिः ‘नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः’ इत्यादिस्मृतिभिश्चार्थानां शब्दप्रभवत्वावधारणेन शब्दानामाश्रयत्वमर्थानामाश्रयित्वमित्यत्रोपादानोपादेयभावस्य विनिगमकस्य सत्त्वात् । ज्ञाप्यज्ञापकभावकृतं सामानाधिकरण्यमित्यप्ययुक्तम् ; ‘घटोऽयम्’ इत्यादिसामानाधिकरण्यानुभवस्य ‘मृद्घटः’ इत्यादिवत् प्रमाणसिद्धोपादानोपादेयभावमूलतया प्रमारूपत्वसम्भवे लिपिषु ‘ककारोऽयम्’ इत्यादिवत् भ्रमरूपत्वस्य, औपचारिकत्वस्य वा कल्पनायोगात् । न च ज्ञाप्यज्ञापकभावस्यापि सामानाधिकरण्यप्रयोजकत्वाभ्युपगमात् लिपिषु ‘ककारोऽयम्’ इत्यादिरपि प्रमारूप एवेति वाच्यम् । तया सति ‘धूमो वह्निः’ इत्यपि सामानाधिकरण्यानुभवप्रसङ्गेन ज्ञाप्यज्ञापकभावस्य तत्प्रयोजकत्वाभ्युपगमायोगात् । लिप्यक्षरगतज्ञाप्यज्ञापकभावमात्रस्य सामानाधिकरण्यानुभवप्रयोजकत्वमभ्युपगम्य तत्प्रमात्वसमर्थने तु नास्ति तस्य प्रकृतोपयोगः, तावता ‘घटोऽयम्’ इत्यादिसामानाधिकरण्यानुभवप्रमात्वानिर्वाहात् । यत्तु ‘घटोऽयम्’ इत्यादौ शब्दार्थयोः सामानाधिकरण्यानुभव एवासिद्धः; पदद्वयार्पितयोरर्थयोरेव परस्परान्वयादिति । तत्रेदमुच्यते । ‘डित्थोऽयं ब्राह्मणः’ इत्यादौ डित्थादिशब्दानामेवार्थान्वयः इति तावदङ्गीकर्तव्यम् ; यदृच्छाशब्दाभिधेयानां समर्पणीयार्थाभावात् । न च तेषामपि तत्तदसाधारमकृतिविशेषादय एवार्थाः समर्पणीयाः स्युरिति वाच्यम् । तत्तदाकृतिविशेषानभिज्ञानां डित्थो नाम कश्चिदस्तीत्यादिमात्रमवगच्छतामपि ‘डित्थः कीदृशः’ इत्यादिप्रश्नदर्शनात् , ‘एतादृशाकृतिविशेषशाली डित्थः’ इत्याद्युत्तरवाक्येषु तत्तदाकृतिविशेषादीनां शब्दान्तरेणोपादानाच्च । एवं ‘पृथिवीत्ववती पृथिवी’ ‘प्रमाकरणं प्रमाणम्’ इत्यादिलक्षणवाक्येषु जात्युपाधिशब्दानामपि स्वरूपत एवार्थान्वयो वाच्यः; तत्समर्पणीयपृथिवीत्वादीनां शब्दान्तरेण समर्पितत्वात् । न च द्विविधेऽप्युदाहरणे डित्थपृथिव्यादिशब्दानां लक्षणया तत्तच्छब्दवाच्यमर्थ इति शङ्कनीयम् ; शब्दानामर्थानाञ्च श्रुतिसिद्धोपादानोपादेयभावमूलतादात्म्यसत्त्वेन डित्थादिशब्दामात्रलक्षणया डित्थादिशब्दानामेव तादात्म्येन विशेषणत्वोपपत्तौ तेषां तत्तच्छब्दवाच्यत्वपर्यन्तलक्षमाकल्पनस्यायुक्तत्वात् । प्रत्यक्षोपस्थितानामेव वा तेषां मन्त्राणां नियोगभावनान्वयवत् स्वस्वार्थान्वयस्योपपत्तौ लक्षणाकल्पनस्यैव युक्तत्वात् । अपि च शब्दसमर्पकाः शब्दा यत्रार्थेषु प्रयुज्यन्ते, तत्र प्रयुक्तशब्दसमर्पितितत्तच्छब्दतादात्म्यप्रतीतिरर्थेष्वङ्गीकर्तव्या । यथा ‘दशपूर्वरथः’ ‘हस्त्युपपदगिरिः’ इत्यादिप्रयोगेषु प्रयुक्तशब्दसमर्पितदशरथहस्तिगिरिप्रमुखशब्दात्मताप्रतीतिर्नृपतिपर्वतविशेषादिषु । यथा वा द्विरेफादिशब्दप्रयोगेषु तत्समर्पितभ्रमरशब्दादितादात्म्यप्रतीतिर्मधुकरादिषु । यथा च ईक्षतिपरीष्टिगम्यादिशब्दप्रयोगेषु तत्समर्पितभ्रमरशब्दादितादात्म्यप्रतीतिस्तद्धात्वर्थेषु । न च त्रिविधेऽप्युदाहरणे शब्दवाचकशब्दानां स्वार्थरूपशब्दसम्बन्धिष्वर्थेषु गङ्गादिशब्दानां तीरादिष्विव लक्षणा स्यादिति वाच्यम् । प्रवाहतीरादिभेदेन तत्र लक्षणाऽपेक्षायामप्यत्र श्रुतिसिद्धोपादानोपादेयताप्रयुक्ताभेदसत्त्वेन, लक्षणाऽनपेक्षणात् । लक्षणायामपि लक्ष्यस्याभिधेयाभेदप्रतीतिसत्त्वेनात्र लक्षणाभ्युपगमेऽपि शब्दार्थाभेदप्रतीतेरनिवार्यत्वाच्च । ‘गङ्गायां घोषः’ ‘गङ्गायां तपोधनः’ इत्यादिव्यवहारेष्वपि घोषतपोधनादिवासस्थलस्य प्रवाहादिगतातिशयितशैत्यपावनत्वादिद्योतनार्थं प्रवाहाद्यभेदबोधनायैव हि गङ्गादिशब्दप्रयोगः,अन्यथा स्वायत्त्वाच्छब्दप्रयोगस्य यत्र गङ्गातीरग्रामे घोषस्तपोधनो वा वसति तद्ग्रामनाम्न्येव लघूपायो वक्तुं शक्ये गुरूपायभूतलक्षकपदप्रयोगस्य निष्फलत्वापत्तेः । एवं लक्ष्यस्याभिधेयतादात्म्यप्रतीतिसत्त्वादेव ‘‘जाता लता हि शैले जातु लतायां न जायते शैलः । सम्प्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम्’(क.व.८८) इत्यादिकविता साङ्गत्यं प्रतिपद्यते, अन्यथा वनिताङ्गयष्टौ वल्लीतादात्म्याध्यवसायस्य तत्पयोधरयोः पर्वततादात्म्याध्यवसायस्य चाभावे ‘सम्प्रति तद्विपरीतम्’ इत्येतन्न सङ्गच्छते । ननु तथाऽपि घटादिनिष्पत्तिसमये तत्कारणचक्रान्तर्गतानां कुलालाद्युच्चार्यमाणानां घटादिशब्दानामभावात् मनसा तदनुसन्धानकल्पनेऽपि घटकलशकुम्भाद्येकैकपर्यायाभिज्ञकुलालनिर्मितघटेषु उपादानव्यवस्थित्यविनिगमप्रसङ्गात्, तेषां यावद्घटावस्थित्यवस्थानासम्भवाच्च कथं शब्दानामर्थोपादानत्वमुपपद्यत इति चेत् । उच्यते । क्रमविशेषविशिष्टघकारादिसमुदायात्मकः शब्दो घटवाचक इति नेष्यते, किन्तु तथाभूतनादाभिव्यङ्ग्यस्फोटात्मकशब्द इति तस्य नित्यत्वेन घटोत्पत्तिसमये सन्निघानाच्च तत्कारणत्वे काचिदनुपपत्तिः । पदेषु श्रूयमाणवर्णव्यतिकरेण तदभिव्यङ्ग्यस्फोटसद्भावे किं मानमिति चेत् – ‘घट इत्येतदेकं पदम्’ इति धीर्मानम् । न हीयमेकत्वधीर्वर्णविषयेति युक्तम् ; वर्णानामेकत्वात् । न च सेनावनादिन्यायादौपाधिकमेकत्वं तद्विषयः; एकत्वोदाधेरनिरूपणात् । तदनिरूपणं चानुपदमेव स्फुटीभविष्यति । तथा शब्दानामर्थवाचकत्वान्यथानुपपत्तिरपि वर्णातिरिक्तस्फोटसद्भावे मानम् ; वर्णानां वाचकत्वासम्भवेनान्यथोपपत्त्यभावात् । तथा हि – घकारादयो वर्णाः प्रत्येकं घटमभिदधीरन् मिलिता वा नाद्यः । एकवर्णोच्चारणानन्तरमर्थप्रत्यतादर्शनात्, वर्णान्तरोच्चारणानर्थक्यप्रसङ्गाच्च । न द्वितीयः । एकवक्तृप्रयुज्यमानानां क्रमिकाणामाशुतरविनाशिनां वर्णानां मेलनायोगात् । ननु च वर्णा नित्या एव, नाशुतरविनाशिनः; उच्चारणान्तरे ‘सोऽयं गकारः’ इत्यादिप्रत्यभिज्ञया पूर्वश्रुतगकाराद्यभेदावगाहिन्या स्थायित्वसिद्धौ ‘तावत्कालं स्थितं चैनं कः पश्चान्नाशयिष्यति’ इति न्यायेन तस्यास्तन्नित्यत्वपर्यवसानम् । न च – प्रतिपुरुषं वैलक्षण्यदर्शनात्, एकपुरुषोच्चारिचतवर्णेष्वपि सानुनासिकनिरनुनासिकोदात्तानुदात्तस्वरिततारमन्द्रादिवैलक्षण्यदर्शनाच्च प्रत्युच्चारणं भिन्ना एव वर्णाः । तेषु ‘सोऽयं गकारः’ इत्याद्यभेदप्रत्यभिज्ञा गत्वादिसामान्योपाधिनिबन्धना इति वाच्यम् । वैलक्षण्यानुभवानां प्रतिपुरुषं विजातीयेषु प्रत्युच्चारणं स्थानप्रयत्नवैचित्र्याद्विलक्षणेषु च तत्तदुच्चारणजन्येषु वर्णाभिव्यञ्जकेषु ध्वनिष्वनुभूयमानस्य वैलक्षण्यस्य ध्वनिवर्णविवेकाग्रहेण वर्णगतत्वाभिमानरूपतोपपत्तेः । अभेदप्रत्यभिज्ञाया गत्वादिविषयत्वकल्पनस्य सर्वकालसर्वपुरुषगतगकाराद्यभेदवाद्यसम्मतगत्वादिजातिकल्पनापेक्षत्वेन दुर्बलत्वात् । दूरगतकोलाहलश्रवणे वर्णातिरिक्तध्वन्यनुभवसत्त्वेन वर्णगतभेदप्रत्ययोपाधीनां ध्वनीनां क्लृप्तत्वात् । अतो नित्यानां वर्णानां मेलनं सम्भवतीति चेत् । मैवम् । नित्यत्वाभ्युपगमे सदा विद्यमानानामनभिव्यक्तानां तेषामर्थधीहेतुत्वाभावेन तत्तदुच्चारणविशेषजन्यध्वनिविशेषकृताभिव्यक्तिविशिष्टानामर्थधीहेतुत्वस्य वक्तव्यतयाऽभिव्यक्तिरूपविशेषणानामाशुतरविनाशित्वेन तद्विशिष्टवर्णानां मेलनायोगात् । न च – पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितान्त्यवर्णानुभवोऽर्थधीहेतुरिष्यते, ततश्च पूर्ववर्णानां संस्कारद्वारा अन्त्यवर्णस्य स्वतश्चाभिव्यक्तविशिष्टतया मेलनमस्तीति वाच्यम् ; संस्काराणां पूर्वानुभवविषयगोचरस्मृतिजननमात्रशक्तत्वेन वर्णानुभवजन्यसंस्कारैरर्थस्मरणायोगात्, पूर्वपूर्ववर्णानुभवजनितातीन्द्रियसंस्कारविशिष्टान्तिमवर्णस्याभिधायकत्वपर्यवसानेन ज्ञातकरणतया वक्तव्यस्य तस्यार्थप्रत्ययात् प्राक् ज्ञानोपायाभावाच्च । अर्थप्रत्ययादेव तदनुमितौ परस्पराश्रयापत्तेः । न च प्रत्येकवर्णानुभवजनितसंस्कारबृन्दजन्यैकस्मृतिविषयीभूतो घकारादिवर्णसमुदायोऽभिधायकः स्यादिति वाच्यम् । तथा सति ‘रसः सरः पिकः कपिः’ इत्यादिप्रयोगेषु समूहालम्बनस्मृतेस्तुल्यविषयत्वेन पदविशेषप्रतीत्यभावप्रसङ्गात् । न चैकस्मृतिविषयः क्रमविशेषविशिष्टवर्णसमुदायोऽभिधायकः स्यादिति वाच्यम् । वर्णानां स्थैर्यं व्यापकत्वं चाभ्युपगच्छतः सिद्धान्तिनस्तेषु कालतो देशतो वा क्रमाभावात् । न च क्रमिकोच्चारणविशयत्वमेव तेषु क्रमः, लिप्यक्षरानुमितश्लोकैरनुच्चरितैरर्थावगमे तदभावात् । न चोच्चारणपदस्थानेऽनुसन्धानपदनिवेशनेऽपि निर्वाहः; समूहालम्बनावगतैर्लिप्यक्षरैर्युगपद्वर्णानुमितावनुसन्धानक्रमस्याप्यभावात् । तस्माद्वर्णानां प्रत्येकं मिलितानां वा वाचकत्वस्योपपादयितुमशक्यत्वात्तेषु स्वरूपेणैकार्थवाचकत्वोपाधिना वा ‘एकं पदम्’ इति बुद्धेरुपपादयितुमशक्यत्वाच्च गकारादिव्यतिरिक्तस्तदभिव्यङ्ग्य एकः स्फोटात्मा घटादिवाचकः शब्दोऽभ्युपेयः । न च तस्यापि घकारादिप्रत्येकसमुदायाभिव्यङ्ग्यत्वपक्षयोरुक्तदोषानुषङ्गः; यतो घकारादयः प्रत्येकमेव तमभिव्यञ्जयन्तीत्यङ्गीक्रियते, किन्तु द्रागेव विशदतरं नाभिव्यञ्जयन्ति । कथं तर्हि बहुशः श्रवणानि श्लोकमिव पुनःपुनर्निरीक्षणानि रत्नतत्त्वमिव उत्क्षेपणत्वादिजात्याश्रयानेककर्मव्यक्तिदर्शनानि तत्तज्जातिमिव च क्रमेण विशदतरमवभासयन्ति । विशदतरमवभास्यमान एव स्फोटोऽर्थप्रत्ययहेतुः इति न प्रथमादिवर्णैरविशदतया स्फोटाभिव्यक्त्याऽर्थधीप्रसङ्गः । न चैवं वर्णाः प्रत्येकमेवार्थधियं जनयन्ति, अन्तिमवर्णस्तु तां विशदतरां जनयति, विशदतरैवार्थधीः स्वकार्योपयोगिनीति वक्तुं शक्यम् ; प्रत्यक्षस्फोटावभास इव परोक्षे शब्दार्थप्रत्यये विशदाविशदविभागासम्भवात् । प्रत्यक्षज्ञानधर्मो हि स्पष्टास्पष्टविभागो न तु शाब्दज्ञानधर्मोऽपि । वस्तुतो घटादिवाचकस्फोटावभासे घकारादिक्रमविशेषविशिष्टतयाऽनुसन्धीयमानोऽन्तिमवर्ण एव हेतुः; पदान्तर्गतवर्णावगतीनां पूर्वपूर्ववर्णक्रमविशेषितोत्तरवर्णविषयत्वाभ्युपगमात् । अतः प्रथमादिवर्णैरविशदस्फोटावगतिरनुभवसिद्धा नेति दोषस्य नावकाशः । नापि विपरीतक्रमोच्चारणे विशदतरस्फोटाभासप्रसङ्गः । घकारादिक्रमश्च न तदुच्चारणक्रमस्तदनुसन्धानक्रमो वा, किन्तु स्वाभाविको घकारादिगत एव; घत्वादीनामुदात्तनुदात्तह्रस्वदीर्घत्वादीनामिव तत्तदुच्चारणजन्यध्वनिधर्मत्वाङ्गीकारात् । वर्णाभिव्यञ्जकत्वेन वर्णवाद्यभिमतैर्ध्वनिभिः साक्षादेव स्फोटाभिव्यक्तिसम्भवे ध्वनिस्फोटमध्ये नित्यवर्णाङ्गीकारे गौरवात् । दूरगतकोलाहलश्रवणे घत्वादीनां श्रूयमाणध्वनिगतानामेव दूरत्वादिदोषेणानभिव्यक्तिसम्भवात् । ‘सोऽयं गकारः’ इत्यादिप्रत्यभिज्ञानां गत्वाद्यधिकरणध्वन्यभिव्यक्तेषु दर्पणमुकवदभिव्यञ्जकधर्मरूपिततया प्रतीयमानेषु वर्णस्फोटेष्वेव विश्रान्तेः । एवं च ‘तदेवेदं घट इति पदम्’ ‘तदेवेदं घटमानयेति वाक्यम्’ इत्यादिरूपा पदवाक्यप्रत्यभिज्ञाऽपि पदवाक्यस्फोटविषयत्वेन समर्थिता भवति । स्फोटमनभ्युपगच्छतां तु वर्णनित्यत्वाभ्युपगमेन वर्णप्रत्यभिज्ञैव सालम्बना स्यात्, न तु पदवाक्यप्रत्यभिज्ञाऽपि । न च तुल्ये प्रत्यभिज्ञानेऽर्धजरतीयं युक्तम् । समूहालम्बनावगतलिप्यक्षरैर्युगपद्वर्णानुमितिस्थले विवक्षितवर्णक्रमानुसारिणा लेखनक्रमेण विशिष्टतयाऽवगतैर्लिप्यक्षरैः क्रमविशेषविशिष्टानामेव वर्णानामनुमतिरिति तत्रापि पूर्वपूर्ववर्णक्रमविशिष्टान्तिमवर्णानुभवसत्त्वान्न स्फोटावभासे काचिदनुपपत्तिः । ननु घकारश्रवणे घत्वाधारव्यतिरेकेण तदनाधारो वर्णस्फोटो वा घटपदश्रवणे वर्णसमुदायव्यतिरेकेणाखण्डः पदस्फोटो वा ‘घटमानय’ इति वाक्यश्रवणे पदसमुदायव्यतिरेकेणाखण्डो वाक्यस्फोटो वा नानुभूयते, कथमेषां कल्पनमिति चेत् ; तर्हि उदात्तानुदात्तह्रस्वदीर्घत्वादिधर्माधारव्यतिरेकेण वर्णावयव्यतिरेकेण च वर्णा नानुभूयन्त इत्युदात्तत्वाद्यनाधाराखण्डवर्णकल्पनमपि न स्यात् । अनुभ्य़्यन्ते हि पदवाक्ययोर्वर्णपदरूपावयवा इव वर्णेष्वपि तदवयवाः । तद्यथा ऋकारे रेफः, लृकारे लकारः , एकारैकारयोरकार इकारश्च , ओकारौकारयोरकार उकारश्च , दीर्घेष्वाकारादिषु ह्रस्वा अकारादयः । तत्रैते वर्णावयवा अपि वर्णा इति केषाञ्चिद्दर्शनम् । नैते वर्णाः , किन्तु तत्तद्वर्णसमानाकृतयोऽवयवा इत्यन्येषां दर्शनम् । तत्र मीमांसकैः पूर्व (वर्ण) पक्षमाश्रित्य ‘सामप्रदेशे विकारस्तदपेक्षः’(जै.सू.९.२.९) इति सामाहाधिकरणे ऋक्षु सतां सन्ध्यक्षराणां गीतिकाले वृद्धत्वं प्राप्तानां ये आइभावाः आउभावाश्च न ते स्तोभवत् वर्णान्तरागमरूपाः , किन्तु वृद्धेषु सन्ध्यक्षरेषु संश्लिष्टतया स्थितानामेव अवर्णेवर्णोवर्णानां गानकाले विश्लेषणमात्रं गीत्युपायतया ऋग्गततत्तत्सन्ध्यक्षराभिव्यञ्जकमित्युक्तम् । आश्वलायनेनापि ‘विविच्य सन्ध्यक्षराणामकारम्’ इति याज्यान्ते स्थितानां सन्ध्यक्षराणामकारं विश्लिष्य तं प्लावयेत् इति विदधानेनायमेव पक्षोऽङ्गीकृतः । पाणिनिनाऽपि ‘प्लुतावैच इदुतौ’(पा.सू.८.२.१०६) इति सूत्रेण ‘ए ३ तिकायन’ ‘औ ३ पग्व’ इत्युदाहरणेषु ‘गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्’(पा.सू.८.२.८६) इत्यादिसूत्रैरैचः प्लुतप्रसङ्गे तस्यान्त्यावयवा विकारोकारौ प्लवेते, न तु तदाद्यावयवोऽकारोपीति विदधानेनायं पक्षोऽङ्गीकृतः , किन्तु तेन ‘एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुऔ’(पा.सू.८.२.१०७) इति सूत्रेण एचः अप्रगृह्यस्य दूराद्धूतव्यतिरिक्ते ‘प्रत्यभिवादेऽशूद्रे’(पा.सू.८.२.८३) ‘विचार्यमाणानाम्’(पा.सू.८.२.९७) ‘याज्यान्तः’(पा.सू.८.२.९०) इत्यादिसूत्रप्राप्तप्लुतविषये पूर्वस्यार्धस्याकारादेशो भवति स च प्लुतो भवति , उत्तरस्यार्धस्य इकारावादेशौ भवत इति विदधानेन वर्णावयवा न वर्णा इत्यपि पक्षान्तरं सूचितम् , अन्यथा एचि विद्यमानानामवर्णेवर्णोवर्णानां विश्लेषणमात्रमवर्णस्य प्लुतेन सह विदध्यात्, न तु तान् पुर्वौत्तरार्धयोरादेशरूपान् । एवं पक्षद्वयसद्भावादेव भगवता पतञ्जलिना कात्यायनेन च ‘एऔच्’ इति सूत्रे वर्णैकदेशानां वस्तुतो वर्णतया वर्णग्रहणेन ग्रहणे ‘अग्न इन्द्र’ ‘वायो उदकम्’ इत्यत्र सवर्णसीर्घः प्राप्नोति , ‘आलूय’ ‘प्रालूय’ इत्यत्र ह्रस्वाश्रयस्तुक् प्राप्नोतीत्यादिदोषं प्रदर्श्य तेषां वर्णैकदेशतया वर्णग्रहणेनाग्रहणे च ‘आनृधतुः’ ‘आनृधुः’ इत्यत्र ‘आनर्च’ ‘आनर्चतुः’ इत्यत्रेव ‘तस्मान्नुड् द्विहलः’(पा.सू.७.४.७१) इति नुट् प्राप्नोति , ‘क्लृप्तः’ ‘क्लृप्तवान्’ इत्यत्र ‘कल्पिता’ ‘कल्प्ता’ इत्यत्रेव ‘कृपो रोलः’(पा.सू.८.२.१८) इति लत्वं न प्राप्नोतीत्यादिदोषं प्रदर्श्य पक्षद्वयमपि महता प्रयत्नेन दोषजातं समाधाय समर्थितम् । सन्तु ऋकारादिषु रेफादयो वर्णाः , सन्त्ववर्णा एव वा वर्णसमानाकृतयोऽवयवाः , उभयथाऽपि ऋकारादिषु रश्रुत्यादिरूपा अवयवाः सन्तीत्यविप्रतिपन्नमेव । किं बहुना , सर्वेष्वप्यवर्णादिषु ह्रस्वदीर्घप्लुतरूपेषु स्वरितेषु पूर्वोत्तरभागावङ्गीकृत्य पाणिनिना ‘तस्यादित उदात्तमर्धह्रस्वम्’(पा.सू.१.२.३२) इति सूत्रेण आदितः स्वरितस्यार्धमात्रिको भाग उदात्तः अवशिष्टो भागोऽनुदात्तः इति वर्णितम् । एवं वर्णपदावलीव्यतिरिक्तखण्डपदवाक्यापलापे उदात्तत्वादिधर्माधारवर्णावलिव्यतिरिक्ताखण्डवर्णापलापोऽपि स्यादिति दुस्तरा प्रतिबन्दी । अत्रैवं वर्णवादिभिर्वक्तव्यम् । वर्णानामुदात्तानुदात्तत्वैकमात्रत्रिमात्रत्वाद्याधाराकारेकारोकारादिस्वरूपक्रमिकावयवसमुदायरूपत्वे ‘एकार एको वर्णः’ ‘ओकार एको वर्णः’ इत्याद्येकत्वप्रत्ययस्य ‘स एवायमेकारः’ ‘स एवायमोकारः’ इत्याद्यभेदप्रत्यभिज्ञानस्य चानुपपत्तेरखण्डा एव वर्णाः । तेष्ववयवसमुदायरूपताऽवभासस्तु तदुच्चारणविशेषजन्यतत्तद्वर्णसमानाकारक्रमिकध्वनिविशेषसन्तानोपरागोपाधिक इत्यभ्युपेयमिति । एवमेव स्फोटवादिभिरपि वक्तुं शक्यम् । पदानां वाक्यानां च क्रमिकवर्णपदरूपावयवसमुदायरूपत्वे ‘इदमेकं पदम्’ ‘इदमेकं वाक्यम्’ इत्येकत्वप्रत्ययस्य ‘तदेवेदं पदम्’ ‘तदेवेदं वाक्यम्’ इत्यभेदप्रत्यभिज्ञानस्य चानुपपत्तेरखण्डान्येव पदानि वाक्यानि च । तेषु वर्णपदरूपावयवसमुदायात्मताऽवभासस्तत्तदुच्चारणविशेषजन्यवर्णतत्सङ्घातरूपध्वनिविशेषोपरागोपाधिक इत्यभ्युपेयम् । अतो न परमार्थतो वर्णस्फोटेषु वर्णावयवा न पदस्फोटेषु पदानि । किन्तु यथिअकत्वादिसंख्यातिरिक्तायामखण्डायां सतसंख्यायां सत्यामपि तस्यां तद्ग्रहणोपायभूततावदेकत्वसमुदायरूपताभ्रान्तिर्बालानामेवमिहापि वर्णपदवाक्यस्फोटेषु तत्तदभिव्यञ्जकक्रमिकध्वनिविशेषात्मकवर्णावयववर्णपदसमुदायरूपताभ्रान्तिमात्रमित्येवाविशेषेण कल्पयितुमुचितमिति । तस्मादस्ति तावत् वर्णावलीव्यतिरिक्तो घटवाचकः स्फोटः । स तु यावन्तो घटशब्दपर्यायाः तैः सर्वैरप्येक एवाभिव्यज्यते ; प्रतिपर्यायं स्फोटभेदे प्रमाणाभावात् । अतस्तस्यैकस्य घटकारणतया नाव्यवस्थित्यविनिगमदोषापादानावकाशः । एवमन्येषामपि पदस्फोटानां स्वस्वार्थकारणत्वं द्रष्टव्यम् । सर्वे चैते स्फोटाः प्रणवस्फोटप्रकृतिकास्तदात्मकाः ; ‘ओंकारेण सर्वा वाक् सन्तृण्णा’(छा.२.२३.३) इति श्रुतेस्तद्विषयत्वात् ।अतस्तस्मिन् प्रणवस्फोटरूपे शब्दब्रह्मणि जगद्धारकत्वं तावत् अञ्जसैव उपपद्यते । ‘अस्थूलमनण्वह्रस्वमदीघम्’(बृ. ३.८.८) इति तारमन्द्रत्वैकमात्रद्विमात्रत्वनिषेधाः । तेऽप्यञ्जसोअपद्यन्ते ; ध्वनिधर्माणां तारत्वादीनां तस्मिन् भ्रमरूपप्रसक्तिसत्त्वात् । ‘अलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणममुखममात्रमनन्तरमबाह्यं न तदश्नाति किञ्चन न तदश्नाति कश्चन’(बृ. ३.८.८) इति पाञ्चभौतिकशरीरतद्धर्माणां निषेधः , तत्र ‘अवाय्वनाकाशमरसमगन्धमतेजस्कम्’(बृ. ३.८.८) इति पञ्चभूतात्मकत्वनिषेधः, ‘अलोहितमस्नेहम्’ इत्यसृङ्मज्जोपलक्षितानामस्थिमांसादीनामपि निषेधः , ‘अचक्षुष्कम्’ इत्यादिना चक्षुराद्युपलक्षितसकलज्ञानेन्द्रियकर्मेन्द्रियाभ्यन्तरवायुनिषेधः , ‘अमुखम्’ इति स्वेददूषिकादिनिस्सरणनिषेधः । ‘मुखं निस्सरणे वक्त्रे प्रारम्भोपाययोरपि इति नैखण्डुकाः । ‘अमात्रम्’ इति सूक्ष्मशरीरनिषेधः , ‘असङ्गम्’ इति दोषलेपनिषेधः, ‘अनन्तरमबाह्यं न तदश्नाति किञ्चन’ इति बाह्याभ्यन्तरसकलभोगनिषेधः । यद्वा ‘न तदश्नाति’ इत्यनेनैव भोगनिषेधे भोगोपयुक्तानां बाह्याभ्यन्तरेन्द्रियादीनां ‘अनन्तरमबाह्यम्’ इति सामान्येन निषेधः । ‘न तदश्नाति कश्चन’ इति ‘तं देवा भक्षयन्ति’ इति श्रुतकर्मपरतन्त्रस्वर्गिवदन्यपरतन्त्रत्वस्य निषेधः । अत्र किञ्चित्किञ्चिन्निषेधेनार्थसिद्धनिषेधानामन्येषां विशिष्य निषेधप्रयासः प्रणवस्यापाञ्चभौतिकं शुद्धसत्त्वारब्धं ज्योतिर्मयतया छायातमोविरोधि कर्मपारतन्त्र्यभोगापेक्षे विना केवलं भक्तदर्शनोपासनालम्बनं भवत्विति कृपापरिगृहीततया बाह्यसौन्दर्योपयुक्तावयवान्विना भोगाद्युपयुक्तप्राणेन्द्रियादिरहितं अतिनिर्मलं शरीरमस्तीति तदस्तित्वस्थिरीकरणार्थम् । तत् यद्यपि स्फोटात्मकस्य प्रणवस्य स्वतो नास्ति , तथाऽपि तद्वाच्यस्य तस्मिन् प्रतीके उपासनीयस्य तदभिमानिदेवतारूपस्य च ब्रह्मणोऽस्ति ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते’(छा.१.६.६) इत्यादिश्रुतिप्रसिद्धमिति तस्य शरीरेण प्रणवस्य शरीरवत्त्वं व्यपदेष्टुं शक्यम् ; ब्रह्मप्रणवयोरभेदोपचारस्य – ’शिवो वा प्रणवो ह्येषः प्रणवो वा शिवः स्मृतः । वाच्यवाचकयोर्भेदो नात्यन्तं विद्यते क्वचित् ॥ तस्मादेकाक्षरं देवमाहुरागमपारगाः । वाच्यवाचकयोरैक्यं मन्यमाना मनीषिणः ॥ इत्यादिपुराणप्रसिद्धत्वात् , ‘यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः’(महाना ८.१८) इत्यादितैत्तिरीयोपनिषन्मन्त्रे च वेदाद्यन्तयोः प्रतिष्ठितं स्वरमोङ्कारमुपक्षिप्य तस्यैव निर्विशेषब्रह्माभेदोपचारेण प्रकृतावविद्यायां निमग्नतया जीवभावमुक्त्वा तस्य जीवस्य यः परो नियन्ता स महेश्वरः सगुणः परमेवर इति प्रतिपादनाच्च । ’यं वेदादौ स्वरं प्राहुर्वाच्यवाचकभवातः । वेदैकवेद्यं यथार्थ्याद्वेदान्ते च प्रतिष्ठितम् ॥ स एव प्रकृतौ लीनो भोक्ता यः प्रकृतेर्मतः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ इति शिवपुराण अस्य मन्त्रस्य उक्तार्थपरतयोपबृंह्मणात् । अथर्वशिरसि ‘य ओङ्कारः स प्रणवो यः प्रणवः स सर्वव्यापी यः सर्वव्यापी सोऽनन्तो योऽनन्तस्तत्तारं यत्तारं तत्सूक्ष्मं तच्छुक्लं यच्छुक्लं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्मेति स एकः स एको रुद्रः स ईशानः स भगवान् स महेश्वरः स महादेवः’(अथर्वशिरस् ३) इति ब्रह्मप्रणवभेदोपचाराश्रयणेन तदुभयनाम्नामेकनामत्वेन परिगणनपूर्वकम् ‘अथ कस्मादुच्यत ओङ्कारो यस्मादुच्चार्यमाण एव सर्वं शरीरमूर्ध्वमुन्नामयति तस्मादुच्यत ओङ्कारः’ इत्यारभ्य ‘अथ कस्मादुच्यते महादेवः यः सर्वान् भावान् परित्यज्यात्मज्ञानयोगैश्वर्ये महति महीयते तस्मादुच्यते महादेवः’(अथर्वशिरस्. ४) इत्यन्तेन तत्तद्व्यवस्थितयोगेनैव निर्वचनाच्च । एतेन – प्रशासितृत्वादीन्यपि ब्रह्मलिङ्गानि प्रणवे व्याख्यातानि । ‘यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तत् भवति’(बृ. ३.८.२०) इत्येतदपि प्रणवे युज्यते । ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’(छा.१.१.१०) इत्युद्गीथरूपप्रणवविदः क्रतूनां वीर्यवत्तरत्ववदक्षररूपप्रणवविदो यागादीनामनन्तफलकत्वोपपत्तेः । ‘यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात् प्रैति स कृपणोऽथ य एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात् प्रैति स ब्राह्मणः’(बृ. ३.८.१०) इत्येतदपि तस्मिन्नुपपद्यते ; ब्राह्मणानां प्रणवस्वरूपपरिज्ञानस्यावश्यकत्वात् । तस्मादिह प्रणव एवाक्षरमिति पूर्वः पक्षः । एवं प्राप्ते सिद्धान्तमाह – ‘अक्षरमम्बरान्तधृतेः’ । यदुक्तमोतप्रोतशब्दाभ्यामक्षरस्योत्कृष्टत्वं प्रतिपाद्यत इति , तदयुक्तम् ; ‘एतस्मिन् खल्वक्षरे’ इत्यधिकरणनिर्देशसहिताभ्यां ‘यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः’(मु. २.२.५) ‘मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव’(भ.गी. ७.७) इत्यादिश्रुतिस्मृतिष्वाधेये दृष्टप्रयोगाभ्यामोतप्रोतशब्दाभ्यां डृतेरेव प्रतिपादयितुमुचितत्वात् । न चास्मिन्नेव प्रकरणे ‘कस्मिन् खल्वन्तरिक्षलोका ओताश्च प्रोताश्च’ इति ‘गन्धर्वलोकेषु गार्गि’(बृ. ३.६.१) इत्यादिप्रश्नोत्तरेषु तयोरुत्कृष्टत्वे दृष्टः प्रयोग इति वाच्यम् । तत्राप्यधिकरणसप्तम्या ओतप्रोतशब्दयोश्च स्वारस्यानुसारेण धृतेरेव प्रतिपादनाङ्गीकारात् । वचनबलादुपरितनानामपि गन्धर्वलोकादीनामन्तरिक्षलोकादिधारकत्वस्य , पर्वतानां क्षितिधारकत्वस्येव , ध्रुवस्य ज्योतिश्चक्रधारकत्वस्येवाधःप्रसृतमूलपाशाद्यवयवकल्पनयोपपादनीयत्वात् । श्रुतोपपादनार्थं ह्यश्रुतमपि कल्पनीयम् , न त्वश्रुतकल्पनाभिया श्रुतं परित्याज्यम् ; स्वर्गकामादिवाक्यबाधप्रसङ्गात् । वस्तुतोऽन्तरिक्षलोकादीनां क्रमेण गन्धर्वलोकादिष्वोतप्रोतत्वे श्रुतेर्नास्ति तात्पर्यम् , किन्तु अवाक्यभेदाय चरमनिर्देश्ये सर्वस्यौतप्रोतत्व एवेत्यनुपदमेव दर्शयिष्यते । एवमस्य पक्षस्य दूषणं ‘धृतेः’ इति सूत्रावयवेन सूचितम् । यदुक्तम् – जगदाधार आकाशः परमात्मा तदधिकरणमक्षरं तदुपासनास्थानभूतः प्रणव इति , तदप्ययुक्तम् ; आकाशशब्दस्य रूढ्या वाच्यं प्रसिद्धाकाशं विहाय परमात्मपरत्वकल्पने करणाभात् । न च पूर्वसन्दर्भानुसारेण तथा कल्पनम् ; ‘अनतिप्रश्न्यां वै देवतामतिपृच्छसि’(बृ. ३.६.१) इति परदेवताविषयप्रश्ननिवारणमेकान्तरितप्रश्नस्तद्विषयो भविष्यतीति दूरदृष्टिमता याज्ञवल्क्येनात्रैव कृतमित्युपपत्तेः । अक्षरब्राह्मणारम्भेऽपि द्वितीयप्रश्न एव परमात्मविषयो भविष्यतीति जानत्याऽपि चिकीर्षितस्य तस्य निवारणपरिजिहीर्षया युगपत् प्रश्नद्वयानुज्ञा पृष्टेत्युपपत्तेः । प्रथमप्रश्नानन्तरं याज्ञवल्क्यप्रशंसापूर्वकधार्ष्ट्यवचनस्यापि द्वितीयप्रश्नोत्तरे पतिष्यतीत्यभिमानेनोपपत्तेः । वादिनो हि कक्ष्यान्तरेऽवश्यं प्रतिवादी पतिष्यति इति निश्चयवन्तः प्रतिवादिनः पूर्वकक्ष्यायां श्लाघाभासं कुर्वन्तीति लोके प्रसिद्धम् । एवमन्यथाप्युपपन्ने पूर्वसन्दर्भे तदनुसारेणाकाशः परमात्मा अक्षरं प्रणव इत्यङ्गीकृत्याक्षरे श्रुतानां ब्रह्मलिङ्गानां तदभेदोपचाराश्रयेण नयनं न युक्तम् । एवमस्य पक्षस्य दूषणं सूत्रे विषयवाक्यगतमाकाशशब्दं विहायाम्बरशब्दप्रयोगेण सूचितम् । यदुक्तम् – आकाशो भूताकाश एवास्तु , तदाधारत्वं शब्दतन्मात्ररूपे प्रणवे सम्भवति इति , तदप्ययुक्तम् । न ह्यकाशं प्रत्येवाक्षरस्याधारत्वमुच्यते , किन्त्वाकाशान्तस्य सकलस्य जगतः । कुत एतदवसीयते इति चेत् – ‘आध्यानाय प्रयोजनाभावात्’(ब्र.सू.३.३.१४) इत्यधिकरणन्यायादित्यवेहि । तत्र खल्वधिकरणे ‘‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः’(क. ३.१०) इत्यादिकठवल्लीमन्त्रेष्विन्द्रियार्थमनःप्रभृतीनामुत्तरोत्तरपरत्वं न प्रतिपाद्यम् ; तत्प्रतिपादने वाक्यभेदप्रसङ्गात् । ‘‘अव्यक्तात् पुरुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः’(क. ३.११) इत्यग्रे निर्देश्यस्य पुरुषस्येन्द्रियार्थमनःप्रभृतिभ्यः सर्वेभ्यः परत्वमेव प्रतिपाद्यमिति निर्णीतम् । एवमत्रापि भूगोलकादिब्रह्मलोकान्तानामुत्तरोत्तरस्य पूर्वपूर्वाधारतायां न तात्पर्यम् ; किन्त्वग्रे निर्देश्यस्याक्षरस्याकाशान्तसकलाधारतायामेव । अत एव भूगोलकादिब्रह्मलोकान्तानामुत्तरोत्तरस्य पूर्वपूर्वाधारत्वे प्रतिपादितेऽपि ‘यदूर्ध्वं याज्ञवल्क्यदिवो यदवाक् पृथिव्याः’(बृ. ३.८.६) इत्यादिप्रश्नेन सर्वाणि तानि यत्रौतप्रोतानि , तस्मिन् वस्तुनि पृष्टे तावदाधारत्वेनोत्तरे’ आकाशो निर्दिष्टः । अयं न्याय आकाशादुपरिनिर्दिष्टे अक्षरेऽपि योजनीयः । एवं तर्हि ब्रह्मलोकान्तजगदाधारत्वमाकाशे आकाशान्तजगदाधारत्वमक्षरे च प्रतिपाद्यम् , इत्येवमपि वाक्यभेदः स्यादिति चेत् ; मैवम् । पूर्वपूर्ववाक्योदिताधाराधेयपरम्पराया वस्तुतोऽक्षरस्यैव सर्वाधारत्वप्रतिपादने विश्रान्तावपि पूर्वसन्दर्भतोऽप्राप्तमप्युत्तरे निर्देक्ष्यमाणस्य प्रसिद्धाकाशस्य ब्रह्मलोकान्तजगदाधारत्वमवकाशप्रदत्वेन लोकप्रसिद्धमेवावलम्ब्य पूर्वसन्दर्भतो न्यायप्राप्तं चरमनिर्देश्ये सर्वाधारत्वं ब्रह्मलोकाधार एव गार्ग्या समापितमिति याज्ञवल्क्यस्य भ्रान्त्युत्पादनेन तस्याप्याधारान्तरप्रश्ने निरुत्तरो भूत्वा तस्याधारान्तरं नास्तीत्युक्त्वा वा पराजितो भवत्वित्यभिसन्धाय तत्र वाक्यसन्दर्भतात्पर्याविषयभूतमेव प्राङ्निर्दिष्टसर्वाधारत्वं गार्ग्योपन्यस्तमित्युपपत्तेः । एवमस्य पक्षस्य दूषणं सूत्रे अन्तग्रहणेन सूचितम् । यदुक्तं द्वारद्वारिभावेन सर्वाधारत्वं शब्दतन्मात्ररूपे प्रणवे सङ्घटत इति , तदप्युक्तयुक्त्यैव निरस्तम् ; साक्षादेव सर्वाधारत्वमाध्यानाधिकरणन्यायप्राप्तं ‘यदूर्ध्वं याज्ञवल्क्य दिवः’(बृ.३.८.२) इत्यादिसर्वाधारप्रश्नलिङ्गान्वितं चान्तग्रहणेन सूचितमिति व्याख्यातत्वात् । अथ यदुक्तम् – सर्वाधारत्वं प्रणवे साक्षादेव सम्भवति ; ‘ओङ्कार एवेदं सर्वम्’(छा.२.२३.८) इति श्रुतेरर्थवादत्वेन नयनसम्भवेऽपि स्फोटात्मनि प्रणवे सर्वाधारतायां प्रमाणदर्शनादिति , तदप्ययुक्तम् ; वर्णेष्वेवाक्षरशब्दस्य रूढत्वेन तदभिव्यंग्यत्वेन पूर्वपक्षिकल्पिते स्फोटे तत्प्रसिद्ध्यभावात् , अक्षरशब्दरूढ्यवलम्बनस्य पूर्वपक्षस्य स्फोटे प्रवर्तयितुमशक्यत्वात् । तदेतदभिसन्धाय भामत्यामुक्तं ‘न च वर्णातिरिक्ते स्फोटात्मन्यलौकिके अक्षरपदप्रसिद्धिरस्ति’ इति । एवमस्य पक्षस्य दूषणं सूत्रे धर्मिनिर्देशकेनाक्षरपदेनैव सूचितम् ॥१.३.१०॥ स्यादेतत् – अक्षरपदस्य स्फोटे रूढ्यभावेऽप्यभिव्यंग्याभिव्यञ्जकभावसम्बन्धेन रूढिपूर्विका लक्षणा सम्भवति । ब्रह्मणि तु ‘न क्षरति’ इति नित्यत्वेन ‘अश्नोति’ इति व्यापकत्वेन वा योगः कल्पनीयः । योगाच्च रूढिपूर्वकलक्षणा बलीयसी ; लक्षणायाः शक्यसम्बन्धरूपाया रूढिघटितव्यापारान्तररूपत्वेन प्रथमोपस्थितरूढित्यागापेक्षाद्योगात् बलीयस्त्वात् । अत एव ‘प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातॄणां प्र यजमानस्य’ इत्यध्वर्युप्रैषे उद्गातृशब्दस्य क्वचिदृत्विग्विशेषे रूढस्य बहुवचननिर्वाहार्थं ‘उद्गायन्ति इत्युद्गातारः’ इत्युच्चैर्गायत्सु सर्वेष्वपि योगवृत्तिर्नाश्रयणीया, किन्तु सदसि स्तोत्रकर्तृत्वेनोद्गात्रा सह तदन्तरङ्गसम्बन्धवतोः प्रस्तोतृप्रतिहर्त्रोरेव रूढिपूर्वकलक्षणाऽश्रयणीयेति निर्णीतं ‘उद्गातृचमसमेकस्य श्रुतिसंयोगात्’(जै.सू.३.५.८) इति पूर्वतन्त्राधिकरणे । एवंचोपक्रमगताभ्यस्तश्रुतितुल्याक्षरपदप्राबल्यानुसारेण वाक्यशेषगतानां प्रशासितृत्वादिलिङ्गानामन्यत्र दृष्टेन ब्रह्माभेदोपचाराश्रयणेन नयनं युक्तम् । उपक्रमोपसंहाराभ्यां प्रतिपिपादयिषितं जगदाधारत्वलिङ्गं स्फोटेऽप्युपपद्यते इति समर्थितत्वान्न तद्बलादक्षरशब्दस्य योगाश्रयणं कार्यमित्याशङ्क्याह –
सा च प्रशासनात् ॥११॥ 【भाष्यम्】 स्यादेवं ब्रह्माभेदाश्रयणेन प्रणवे प्रशासितृत्वनयनं यदि प्रशासनवाक्ये तन्मात्रमुक्तं स्यात् । न त्वेवम्, किन्तु ‘एतस्यैवाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः एतस्यैवाक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः’(बृ.३.८.९) इति प्रशासनाधीना धृतिरुच्यते । प्रशासनाधीना धृतिश्च सैव , याऽत्रोपक्रमोपसंहाराभ्यां प्रतिपिपासयिषिताऽम्बरान्तधृतिः । सैव हि स्थालीपुलाकन्यायेन किञ्चित्किञ्चिद्धृतिमुदाहृत्य प्रशासनाधीनतया वर्णितेति युक्तम् ; प्रकृतप्रत्यभिज्ञाने तदन्यविषयत्वकल्पनायोगात् । एवं चोपक्रमोपसंहाराभ्यां प्रतिपिपादयिषिताम्बरान्तधृतिरेव वाक्यशेषसमर्पितप्रशासनाधीना जातेति तस्या अचेतने स्फोटेऽनुपपन्नत्वात् प्रतिपिपादयिषितलिङ्गानुसारेणाक्षरशब्दस्य ब्रह्मणि योगवृत्तिराश्रयणीया । सूत्रे चकार एवकारार्थः । या अम्बरान्तधृतिः पूर्वसूत्रे निर्दिष्टा , सैव प्रशासनहतुका नान्येति सूत्रार्थः ॥१.३.११॥ स्यादेतत् – स्फोटं चेतनमपि केचिदभ्युपगच्छन्ति शब्दब्रह्माद्वैतवादिनः , तन्मतानुसारेण प्रशासनमपि स्फोटस्योपपद्यत इत्याशङ्क्याह –
अन्यभावव्यावृत्तेश्च ॥१२॥ 【भाष्यम्】 एवं चेत् ब्रह्म स्फोट इति नाममात्रे भेदः स्यान्न वस्तुनि ; मुक्त्यन्वयिसकलजीवाभेदं जडप्रपञ्चराहित्यं चानभ्युपगम्य स्फोटाद्वैतोपपादनायोगात् । अन्यभावोऽन्यत्वं , तस्य व्यावृत्तिरभावः । स्फोटाद्वैताभ्युपगमे तस्य ब्रह्मान्यत्वाभावात् स्फोटोऽक्षरमिति वदता ब्रह्माक्षरमित्येवोक्तं स्याद् इति तेन सह न विवाद इति सूत्रार्थः । स्यादेतत् – स्फोटस्य च्तनस्यापि जडप्रपञ्चमात्रकारणस्य तदभेद एवाभ्युपगम्यते , अतस्तस्य सिद्धान्त्यभिमतब्रह्मरूपत्वाभावादस्ति विवादावकाश इति चेत् ; एवं तर्हि स्फोटावलम्बनसकलक्षुद्रोपद्रवपरिहारार्थं घटादिवाचकशब्दस्य घकारादिवर्णसमुदायातिरिक्तत्वं नास्तीति प्रतिपादयिष्यामः । ‘एकं पदम्’ इत्येकत्वप्रत्ययस्य ‘तदेवेदं पदम्’ इति प्रत्यभिज्ञानस्य च निर्वाहार्थं खलु वर्णावयवातिरिक्तवर्णप्रतिबन्द्या वर्णावलीव्यतिरिक्तस्तदभिव्यंग्योऽखण्डः पदस्फोटः साधितः । तत्रेदं पृच्छामः – घादिवर्णावली तत्तदर्थविशेषेणागृहीतसम्बन्धाऽपि केवलं वर्णविशेषरूषितक्रमविशेषरूपेण गृहीता घटादिवाचकस्फोटतदेकत्वाभेदानभिव्यञ्जयेत् , उत तैर्गृहीतसम्बन्धैव आद्ये काव्यश्लोकादिश्रवणे तदन्तर्गतशब्दानां तत्तदर्थैरगृहीतसम्बन्धस्यापि पुंसः ‘इदमेकं पदमिदमेकं पदम्’ इत्यादिक्रमेण एतावन्त्यत्र श्लोके पदानीत्यवधारणं स्यात् । ‘प्रजापतेर्हृदयेनापि पक्षं प्रत्युपतिष्ठते सत्रस्यर्ध्याहवनीयस्याग्नेस्तुवन्ति’ इत्यादिषु प्रजापतेर्हृदयादिशब्दानां सामविशेषादिषु रूढिमजानतामपि ‘प्रजापतेर्हृदयेन’ इत्येकं पदमित्यवधारणं स्यात् । श्रूयमाणे शब्दे किमयं हालाहलशब्दो हलाहलशब्दो वा , मरकतशब्दो मरतकशब्दो वेत्यादिवर्णक्रमविशेषसन्देहे सत्युभयथाऽपि गरलविशेषवाचकोऽयं , रत्नविशेषवाचककोऽयमित्यादिनिश्चयवतां ‘इदमेकं पदम्’ इत्यवधारणं न स्यात् ; तद्विषयस्य स्फोटस्याभिव्यञ्जकवर्णावलीसन्देहेनानभिव्यक्तेः । तस्मात् द्वितीयपक्ष एवोररीकर्तव्यः । ततश्च स्फोटवादिनाऽपि वर्णावल्यां तत्तदर्थसम्बन्धं शक्तिरूपमङ्गीकृत्य घकारादिवर्णावलीश्रवणकाले प्रत्येकवर्णानुभवैः पूर्वपूर्ववर्णक्रमविशिष्टान्तिमवर्णानुभवेन वोपायान्तरेण वाऽभिव्यक्तिरित्यपि समर्थनीयम् । एवं च स्फोटाऽभिव्यक्तेः प्रागेवावभासमानेनैकेन सम्बन्धेन क्रोडीकृतानां वर्णानामेवैकदेशस्थत्वेन क्रोडीकृतानां वृक्षाणामेव ‘एकं वनम्’ इति बुद्धिगोचरत्ववत् ‘एकं पदम्’ इति बुद्धिगोचरत्वोपपत्तौ किमतिरिक्तपदस्फोटकल्पनया वर्णेष्वेकत्वप्रत्ययस्त्वेकाक्षरनिखण्डुपर्यालोचनादिरहितानां तत्तदर्थैरगृहीतसम्बन्धानामपि जायत इति वर्णावयवेष्वेकत्वोपाधेरनिरूपणाद्युक्तं तस्य तदतिरिक्तवर्णविषयत्वम् । ननु वर्णनित्यत्ववादिभिः स्फोटवादिभिरिव वर्णेषु क्रमो निरूपयितुं न शक्यते । स्फोटवादिनां ह्यनित्या ध्वनय एव वर्णाः , न तु ध्वनिस्फोटमध्ये नित्यवर्णाङ्गीकारे प्रमाणमस्तीत्युक्तमिति चेत् ; सत्यम् । वर्णनित्यत्ववादिनामप्यनुसन्धानक्रमः सम्भवत्येव । मौनिलिखितलिप्यक्षरैर्युगपद्वर्णानुमितिस्थलेऽपि क्रमिकलिपिभिर्लेखकानुसन्धानक्रमविशेषितवर्णानुमितिः सम्भवतीति न कदाचिदनुपपत्तिः । ननु तथापि ‘तदेवेदं पदम्’ इति प्रत्यभिज्ञानं वर्णवादिनामनुपपन्नम् ; क्रमभेदेन पदभेदावश्यंभावादिति चेत् , सत्यम् । तत्तु केशनखदीपादिश्विव सादृश्येनोपपादनीयम् , अन्यथा लूनपुनर्जातकेशनखनिर्वापितारोपितदीपादिष्वपि प्रसिद्धकेशसन्तानाद्यभिव्यंग्याखण्डकेशादिकल्पनं स्यात् । तदतिरिक्तकेशादिकमनुभवानारूढं इति चेत् , समं प्रकृतेऽपि । न हि गौरित्यत्र गकारौकारविसर्जनीयातिरेकेणाखण्डं स्फोटमनुभूयमानं कश्चिदप्यभिमन्यते । नन्वेवं सति वर्णप्रत्यभिज्ञाऽपि तज्जातीयत्वविषयासम्भवतीति किमर्थं वर्णनीयत्वाभ्युपगमः उच्यते – गकारादिरेक एव सर्वदेशकालसम्बन्धीति वादिनां मते तद्विषयत्वकल्पनं गत्वादिजातितद्व्यक्त्यनेकत्वकल्पनापेक्षम् । वर्णावल्यां तु सादृश्यं संप्रतिपन्नमिति पदप्रत्यभिज्ञाया एव सादृश्यविषयत्वं , न तु वर्णप्रत्यभिज्ञायास्तज्जातीयविषयत्वमित्यभ्युपगम्यते । सन्तु वा वर्णा अप्यनित्याः ; का नो हानिः अत एव भाष्यकारैर्देवताऽधिकरणे तदनित्यत्वपक्षोऽपि दर्शितः । वेदनित्यत्वं तु वर्णानामनित्यत्वेऽपि प्रकारान्तरेण तत्रैव समर्थयिष्यते । एवं स्फोटप्रतिक्षेपेऽपि दर्शितः । वेदनित्यत्वं तु वर्णानामनित्यत्वेऽपि प्रकारान्तरेण तत्रैव समर्थयिष्यते । एवं स्फोटप्रतिक्षेपेऽपि ‘अन्यभावव्यावृत्तेः’ इति सूत्रमेव योजनीयम् । तत्र घटादिवाचकस्य वर्णावल्यतिरिक्तत्वाभावादिति सूत्रार्थः । यत्तु भाष्ये ‘सा च प्रशासनात्’(ब्र.सू.१.३.११) इति सूत्रस्याक्षरमव्याकृतमिति पक्षनिराकरणार्थत्वेन , ‘अन्यभावव्यावृत्तेः’ इति सूत्रस्याक्षरं जीव इति पक्षनिराकरणार्थत्वेन योजनम् , तत्... अयमप्यर्थः सम्भवतीत्यभिप्रेत्य , न त्वयमेवार्थ इत्यभिप्रेत्य । द्वितीयसूत्रस्याव्याकृतनिराकरणमात्रपरत्वे हि ‘प्रशासनात्’ इत्येव सूत्रणीयं स्यात् । तावतैवाक्षरसब्दरूढ्यविषयस्याव्याकृतस्त निराकरणसम्भवात् । पूर्वसूत्रनिर्दिष्टाया अम्बरान्तधृतेरेव प्रशासनाधीनत्वमित्येतावत्पर्यन्तं न वक्तव्यं स्यात् । ‘अन्यभावव्यावृत्तेः’ इति तृतीयसूत्रमप्यस्पष्टविवक्षितार्थमनेकत्रयोजनाऽनुकूलं विश्वतोमुखं न वक्तव्यं स्यात् । भाष्ये तु ‘अन्यभावव्यावृत्तेः’ इति सूत्रार्थतया अत्रैव स्फुटं कर्तव्यमपि स्फोटनिराकरणं देवताधिकरणे (ब्र.सू.१.३.८ अधि) कृतम् । अत्र तन्निराकरणे कृतेऽपि देवताधिकरणे ‘सब्द इति चेन्नातः प्रभवात्’(ब्र.सू.१.३.२८) इति सूत्रं जगतः स्फोटात्मकशब्दप्रभवत्वार्थकम् ; अनित्यानां वर्णानां जगत्कारणत्वानुपपत्तेः । अतः सूत्राभिमतस्य स्फोटस्य निराकरणमयुक्तमिति शङ्कोत्थाने सति पुनरपि तत्प्रसङ्गो भविष्यतीति तत्रैव निराकरणे यत्नलाघवदर्शनात् ॥१.३.१२॥
इत्यक्षराधिकरणम् ॥३॥ 【भाष्यम्】
ईक्षतिकर्मव्यपदेशात्सः ॥१३॥ 【भाष्यम्】 अक्षरादम्बराधारात्प्रणवः पर्युदासितः । तद्धेयमपरं किं वा परमित्यत्र चिन्त्यते । एषा प्रसङ्गसङ्गतिः । बुद्धिस्थस्य निरूपणार्हत्वं प्रसङ्गः । आथर्वणिकानामुपनिषदि ‘स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकं जयति’(प्र.५.१) इति सत्यकामप्रश्ने ‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारस्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति’(प्र.५.२) इति परापरब्रह्मदृष्ट्या प्रणवोपासनमुपक्रम्य एकमात्रं प्रणवमुपासीनस्य तत्प्रथममात्रात्मकऋग्वेदप्रापणीयमनुष्यलोकप्राप्तिफलम् , द्विमात्रं प्रणवमुपासीनस्य तद्द्वितीयमात्रात्मकयजुर्वेदप्रापणीयान्तरिक्षलोकप्राप्तिफलं चाभिहितम् । तदनन्तरमिदमाम्नायते ‘यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते’(प्र. ५.५) इति । अत्र त्रिमात्रे प्रणवे उपासनीयं किमपरं हिरण्यगर्भाख्यं ब्रह्म, उत परं ब्रह्मेति संशये ‘स सामभिरुन्नीयते ब्रह्मलोकम्’ इति देशपरिच्छिन्नफलश्रवणादपरं ब्रह्मेति पूर्वःपक्षः । ननु कथमत्रैवं पूर्वपक्षावकाशः ‘परं चा परं च’(प्र.५.२) इति परापरब्रह्मदृष्ट्या प्रणवोपासनमुपक्रम्यात्र ‘परं पुरुषम्’(प्र. ५.५) इति परविशेषणदानेन परं ब्रह्मोपास्यमिति स्पष्तमेव प्रतीतेः । देशपरिच्छिन्नफलश्रवणलिङ्गानुसारादपरब्रह्मण्येव परपदमापेक्षिकपरत्वपरतया योजनीयमित्यपि न युक्तम् ; परब्रह्मोपासनानामपि कासाञ्चित् ‘चक्षुष्यश्श्रुतो भवति’(छा.१.१३.३) इत्यादिक्षुद्रलश्रवणात् , सर्वासामेव परब्रह्मोपासनानां कार्यब्रह्मलोकावाप्तिफलकत्वस्य ‘कार्यं बादरिरस्य गत्युपपत्तेः’(ब्र.सू.४.३.३) इत्यधिकरणे व्यवस्थापयिष्यमाणत्वाच्च । न च वाच्यम् – सगुणविषयाणामेवाहंग्रहोपासनानां तत्फलकत्वं तस्मिन्नधिकरणे व्यवस्थापयिष्यते , इह तु परं ब्रह्मोपासनीयं चेत्तन्निर्गुणमेव पर्यवस्येत् , दहरशाण्डिल्यविद्यादिष्विवात्र ब्रह्मणि गुणाश्रवनात् , निर्गुणोपासनस्य तु देशपरिच्छिन्नं फलं न युक्तम्. इति । यतोऽत्रापि ब्रह्माभेददृष्ट्योपासनीयप्रणवगुणैरेव त्रिमात्रत्वादिभिर्ब्रह्म सगुणं सम्भवति , अन्यथोपास्यत्वायोगात् , ‘‘तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’(क. उ.१.५.९) इति निर्गुणस्योपास्यत्वनिषेधात् । ननु ‘त्रिमात्रेणोंकारेण’(प्र.५.५) इति ब्रह्माभिधानस्य प्रणवस्य ब्रह्मोपासने साधनत्वमेव तृतीयाश्रुत्योक्तम् , न तु तदभेददृष्ट्योपास्यत्वमिति चेत् , न । ‘परं चापरं च ब्रह्म’(प्र. ५.५) इत्यभेददृष्ट्युपक्रमानुसारेण तृतीयाया द्वितीयार्थतौचित्यात् । तस्मादुपक्रमं परामृशतां नास्ति पूर्वपक्षमिदमधिकरणमिति चेत् ; उपक्रमं परामृशतामेवास्ति पूर्वपक्षमिदमधिकरणमिति ब्रूमः । उपक्रम एव हि ‘तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति’(प्र. ५.२) इत्यपरब्रह्मदृष्ट्या प्रणवोपासनस्यापरब्रह्मप्राप्तिः , परब्रह्मदृष्ट्या तदुपासनस्य परब्रह्मप्राप्तिः फलमिति विभज्य दर्शितम् । ततश्चान्यत्र परब्रह्मोपासनानां ब्रह्मलोकावाप्तिफलकत्वसम्भवेऽप्यत्र विवक्षितायां परब्रह्मोपासनायां तत्फलकत्वं न युक्तम् , किन्त्वपरब्रह्मोपासनायामेव तद्युक्तम् । तस्मादुपक्रमानुसारेणात्र ब्रह्मलोकावाप्त्फलस्यापरब्रह्मलिङ्गत्वादपरमेव ब्रह्मोपास्यमिति ततोऽवधार्यते । ननु ‘पुरिशयं पुरुषमीक्षते’(प्र.५.५) इति ध्यातव्यपुरुषस्येक्षणं ब्रह्मलोके श्रुतम् । ईक्षणस्य च तत्त्वविषयत्वं नियतम् । ततस्तत्रेक्षणीयः पुरुषः परमेव ब्रह्मेति निश्चिते ध्यातव्यमपि तदेव स्यात् ; ईक्षणध्यानयोः कार्यकारणयोरेकविषयत्वनियमात् । एवं च परब्रह्मसाक्षात्कारसाध्या तदवाप्तिरेव फलत्वेन विवक्षितेति निर्णये ब्रह्मलोकावाप्तिरफलभूताऽपि सूर्यसम्पत्तिवत् फलद्वारत्वेन वर्णिता नेतव्येति न तल्लिङ्गविरोधोऽपीति चेत् ; स्यादेतदेवं यदीक्षणस्य तत्त्वविषयत्वं नियतं स्यात् , न त्वेतदेवम् । ईक्षणं हि दर्शनम् । तत्स्वप्नशुक्तिरजतभ्रमादिषु प्रातिभासिकानामपि साधारणं दृष्टम् । तथाऽपीक्षणस्य तत्त्वविषयत्वमौत्सर्गिकम् , बाधकाभावे चौत्सर्गिकमेव ग्राह्यमिति चेत् , न । यत् प्रायिकं तदेवौत्सर्गिकम् । हिरण्यगर्भमप्यतात्त्विकं वदतः सकलविशेषरहितं परं ब्रह्मैकमेव तात्त्विकमिति वदतस्तव तद्दर्शनमेकमेव तत्त्वविषयं स्यात् । तद्विरलम् । प्रपञ्चान्तर्गतपदार्थदर्शनानि तु भूयांसि इति स्पष्टमेव । अतो विचारणायामीक्षणस्यातत्त्वविषयत्वमौत्सर्गिकमित्येव युक्तम् । ननु तथाऽपि ध्यानपूर्वकस्येक्षणस्य तत्त्वविषयत्वं नियतमिति चेत् ; न । विधुरपरिभावितकामिनीसाक्षात्कारे व्यभिचारात् , ‘ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम्’(श्वे.उ.१.३) इति मन्त्रोक्ताविद्याशक्तिदर्शने व्यभिचाराच्च । अयं मन्त्रोह्यविद्याशक्तिदर्शनपरः इति भगवत्पादैरेव व्याख्यातः । अस्तु वेक्षणस्य तत्त्वविषयतानियमेआत्र तस्य परब्रह्मविषयता ; तावता ध्यानस्य तद्विषयता कुतः ध्यानेक्षणयोरेकविषयत्वनियमात् इति चेत् , न । तदसिद्धेः ; ‘वासुदेवो हि भगवान् ध्यायन् बिल्वोदकेश्वरम् । अलब्ध मायाच्छन्नस्य निकुम्भस्य निरीक्षणम् ।’ तथाप्यौत्सर्गिकं तत् इति चेत् , न । औत्सर्गिकस्यापि तस्यात्र त्वया त्यक्तव्यत्वात् । ध्यानं हि सर्वत्र तव आरोपितगुनविशिष्टविषयम् ; निर्विशेषस्य त्रिकालाबाध्यस्य समन्वयसूत्रे भगवत्पादैरेवोपास्यत्वस्य निषिद्धत्वात् । तथा च ध्यानमतत्त्वविषयम् , ईक्षणं तत्त्वविषयमिति च नियमद्वयमभ्युपगच्छता कथं तयोरेकविषयत्वं क्वचिदप्यभ्युपगन्तुं शक्यम् व्याघातापत्तेः । यत्तु ब्रह्मलोकावाप्तिर्द्वारमात्रं न फलमित्युक्तम् , तदपि न ; ‘कतमं वाव स तेन लोकं जयति’(प्र.५.१) इति उपक्रमगतप्रश्नानुसारेण तस्याः फलत्वे तात्पर्यस्य वर्णनीयत्वात् । ननु यद्ययं त्रिमात्रोपासनाविधिरपरब्रह्मविषयः , तदा परब्रह्मप्राप्तिफलकत्वेनादावुपक्षिप्ता परब्रह्मोपासना क्व निरूपिताऽस्त्विति चेत् ; उत्तरत्रेति ब्रूमः । उत्तरत्र हि त्रिमात्रप्रणवोपासनेनैवाजरामृतत्वादिविशेषितपरब्रह्मप्राप्तिरपि श्रूयते ‘ऋग्भिरेतं यजुर्भिरन्तरिक्षं स सामभिर्यत्तत्कवयो वेदयन्ते तमोकारेणान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परं च’(प्र.५.७) इति । अत्र यत्तत् कवयः उपासकाः लभन्ते , तमपरब्रह्मलोकमोंकारेणान्वेतीति प्रागुक्तैव अपरब्रह्मोपासना तल्लोकप्राप्तिफलोपसंहृता । ‘यत्तच्छान्तमजरममृतमभयं परं च तदप्योंकारेणान्वेति विद्वान्’ इति परब्रह्मोपासना तत्प्राप्तिफला प्रतिपादिता । परब्रह्म नोपासनीयमिति मते प्रणवेन तद्वेदनं तत्प्राप्तिफलं प्रतिपादितम् । प्रत्युत सिद्धान्तिन एवादावुपक्षिप्ताया अपरब्रह्मोपासनाया निरूपणं नास्तीति न्यूनताऽऽपद्यते । न च तन्मते एकमात्रद्विमात्रोपासने एवापरब्रह्मोपासनं स्यादिति वाच्यम् । तयोर्मनुष्यलोकान्तरिक्षलोकप्राप्तिफलकत्वेनोक्तत्वात् , अपरब्रह्मोपासनस्य च तल्लोकावाप्तिफलकत्वेनादावुपक्षिप्तत्वात् । तस्मादपरब्रह्मलोकावाप्तिफलकत्रिमात्रोपासनाकर्म अपरं ब्रह्मेति युक्तम् । एवं प्राप्ते राद्धान्तः – ईक्षतिकर्म तावत् परं ब्रह्म ; ‘पुरिशयं पुरुषमीक्षते’(प्र.५.५) इति तस्येक्षतिकर्मत्वेन व्यपदेशादपरब्रह्मभावव्यावृत्तेः । न हि तस्यापरब्रह्मत्वे तथा व्यपदेशोऽर्थवान् । तल्लोकप्राप्तस्तमीक्षत इत्यस्यार्थसिद्धत्वात् । नन्वीक्षतिकर्म परं ब्रह्मेति पक्षेऽपि तथा व्यपदेशो निरर्थकः ; ब्रह्मलोकं प्राप्तास्तत्र क्रमेण परब्रह्मदर्शनं प्राप्नुवन्तीत्यस्याप्यर्थसिद्धत्वात् , अन्यथा ‘एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते’(छा.४.१५.६) इति श्रुतिविरोधादिति चेत् , मैवम् । ब्रह्मलोकं प्राप्ता नावर्तन्त इति नायं नियमः ; महाभिषक्प्रभृतीनामावृत्तिस्मरणात् , ‘इमं मानवमावर्तम्’ इति श्रुताविममिति विशेषणेन वर्तमानमन्वन्तरमात्रावृत्तिनिषेधाच्च , किन्तु यासामुपासनानां ब्रह्मलोकप्राप्तिद्वारा क्रममुक्तिफलकत्वे किञ्चित् प्रमाणमस्ति ताभिर्ब्रह्मलोकं प्राप्ता एव नावर्तन्त इति नियमः । अतोऽस्या उपासनायाः क्रममुक्तिफलकत्वज्ञापनार्थं सार्थकं ‘पुरुषमीक्षते’ इति श्रवणम् । ननु तथाऽपि ‘स सामभिरुन्नीयते ब्रह्मलोकम्’(प्र.५.५) इति ब्रह्मलोकप्राप्तिवचनं निरर्थकमनुवादमात्रमित्यवश्यमङ्गीकर्तव्यम् , ‘तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति’(छा.५.१०.१) इत्यादिश्रुत्यन्तरे सर्वासामपि परब्रह्मोपासनानां ब्रह्मलोकप्रापकत्वस्य वर्णितत्वेन तत एवास्या अपि तत्प्रापकत्वस्य सिद्धेः । तस्मादिह ब्रह्मलोकप्राप्तिवचनस्यानुवादत्वात् तद्वदिदमपि ‘पुरुषमीक्षते’ इति श्रवणं लोकाधिपतेरपरब्रह्मणो दर्शनपरं सदनुवादमात्रं स्यात् , अनुवादप्रायपाठादिति चेत् ; मैवम् । प्रणवे ब्रह्माभेददृष्टिरूपस्य प्रकृतोपासनस्य प्रतीकोपासनत्वेन श्रुत्यन्तरादस्य ब्रह्मलोकप्राप्तिफलकत्वासिद्धेः । ‘अप्रतीकालम्बनान्नयतीति बादरायणः’(ब्र.सू.४.३.६) इत्यधिकरणे प्रतीकविशेषणत्वं विना प्राधान्येन ब्रह्मोपासकानामेवार्चिरादिमार्गेण ब्रह्मलोकप्राप्तावुदाहृतश्रुतेस्तात्पर्यस्य वर्णितत्वात् । तस्मादिह ब्रह्मलोकप्राप्तिवचनं विशिष्टोपदेशरूपं नानुवादमात्रमिति ‘पुरुषमीक्षते’ इति श्रवणमपि तथैव निर्वहणीयम् । तथा निर्वाहश्चेक्षतिकर्म परं ब्रह्मेत्यभ्युपगम एव घटते, न त्वपरब्रह्मेत्यभ्युपगमे । अपि च श्रुतिरेव साक्षादीक्षतिविषयं पुरुषमपरब्रह्मभावाद्व्यावर्तयति ‘ एतस्माज्जीवघनात् परात्परम्’ इति । अत्र ‘एतस्मात्’ इति ‘स सामभिरुन्नीयते ब्रह्मलोकम्’ इत्यत्र लोकाधिपतित्वेन सन्निहितमपरं ब्रह्म परामृश्यते ; सर्वनाम्नां सन्निहितपरामर्शित्वस्वाभाव्यात् , तस्यैव च सन्निहिततरत्वात् । न च तत्र ततोऽपि सन्निहितो लोकः परामृश्यतामिति वाच्यम् । चेतनस्य हि चेतनान्तरादुत्कर्षवर्णनमुत्कर्षाय भवति , न त्वचेतनादुत्कर्षवर्णनम् । अतो लोकमतिक्रम्य ल्काधिपतेरेव समासे न्यग्भूतस्यापि परामर्शः ; ‘‘सर्वनाम्नाऽनुसन्धिर्वृत्तिच्छन्नस्य’(क.व्य.सू.५.१.११) इति वामनसूत्रे सर्वनाम्नां कृत्तद्धितसमासरूपवृत्त्युपसर्जनपरमर्शित्वस्य व्युत्पत्तिसिद्धताया उक्तत्वात् । ननु भाष्ये ‘एतस्माज्जीवघनात्’ इत्यस्य लोकपरत्वपक्षोऽपि दर्शितः सत्यम् । ‘अपर आह’ इत्युपक्रमेणैव तस्मिन् पक्षेऽस्वारस्यमपि तत्रैव ध्वनितम् । तस्मादीक्षतिकर्म तावत्परं ब्रह्म । एवं च परस्य ब्रह्मण ईक्षतिकर्मत्वेन व्यपदेशात् तथा व्यपदिश्यमानः स एव परब्रह्मभूतः पुरुषो ध्यायतिकर्म ; उभयत्र ‘परं पुरुषम्’ इति श्रवणेन उभयोरैक्यप्रत्यभिज्ञानात् । ननु च ध्यानवाक्ये ‘परं पुरुषम्’ इति श्रूयते । ईक्षणवाक्ये ‘परात्परं पुरुषम्’ इति श्रूयते । अतो नास्ति प्रत्यभिज्ञेति चेत् ; मैवम् । ध्यानवाक्येऽपि हि परशब्दस्यापरब्रह्मापेक्षया परत्वमेवार्थः । ‘एतद्वै सत्यकाम परं चा परं च ब्रह्म यदोङ्कारः’(प्र.५.२) इत्युपक्रमे अपरब्रह्मणः सन्निहितनिर्दिष्टतया तस्यैव परभावापेक्षितप्रतियोगितयाऽन्वयौचित्यात् । ईक्षणवाक्येऽपि तस्मादपरब्रह्मण एव परत्वमुच्यत इति अस्त्येव दृढतरा प्रत्यभिज्ञा । ननु तथाऽपि स्थलद्वयपरामससापेक्षा प्रत्यभिज्ञा लिङ्गतो दुर्बला । अतोऽपरब्रह्मप्राप्तिलिङ्गेन ध्यायतिकर्मापरं ब्रह्म स्यादिति चेत् ; न । इदमपि लिङ्गं लिङ्गत्वसिद्ध्यर्थमुपक्रमपरामर्शसापेक्षमिति हि त्वयैव दर्शितम् । अतः कथमेवमत्र लिङ्गस्य बलवत्ताऽवकाश इति लिङ्गादिह परपुरुषश्रुतिप्रत्यभिज्ञैव बलीयसी । ननु यदि प्रत्यभिज्ञया अत्र लिङ्गबाधः , तर्ह्युपक्रमोपक्षिप्तमपरब्रह्मोपासनं तत्प्राप्तिफलकं नोक्तं स्यादिति चेत् ; नैष दोषः , किन्तु प्रकरणस्य परब्रह्मोपासनामात्रपरतयैकवाक्यतापादकत्वात् गुण एव । ननु तथाऽपि एकमात्रद्विमात्रोपासनाविधिसत्त्वाद्वाक्यभेदोऽवश्यमाश्रयणीयः । अतो वाक्यभेदस्यापरिहार्यत्वात् , उपक्रमे अपरब्रह्मोपासनोपक्षेपस्य वैयर्थ्यप्रसङ्गाच्चापरब्रह्मोपासनाविधिरपि क्वचिदाश्रयणीयः । स चात्रैव स्यात् ; तल्लोकावाप्तिलिङ्गसत्त्वात् । दुर्बलस्यापि लिङ्गस्य ‘आनर्थक्यप्रतिहतानां विपरीतं बलाबलम्’ इति न्यायेनात्र बलवत्त्वादिति चेत् , न । सर्वस्यापि परब्रह्माभेददृष्टिविशिष्टात्रिमात्रोपासनाविध्यर्थवादतयाऽन्वयेनानर्थक्यस्यैकवाक्यताभङ्गस्य चाप्रसरात् । तथा हि. ओङ्कारस्यायं महिमा , यदपरब्रह्मतयोपास्यमानोऽपि तत्प्राप्तिफलको भवति । मात्रावैगुण्येनोपास्यमानोऽपि मनुष्यलोकान्तरिक्षलोकप्राप्तिफलको भवति । तस्मादेवंभूतमहिमाऽयमोंकारो हेयमल्पफलमपरं ब्रह्म विहाय परब्रह्मतया त्रिमात्र एवोपासनीय इत्येवमेकवान्यतया सर्वस्याप्यर्थवत्त्वसम्भवे वाक्यभेदाश्रयणं न युक्तम् । तस्मादेकवाक्यतासाकाङ्क्षपरब्रह्मप्रकरणानुगृहीतश्रुतिप्रत्यभिज्ञाबलादीक्षतिकर्म पुरुष एव ध्यायतिकर्म , ईक्षतिध्यायत्योः एकविषयत्वनियमाच्च । यद्यप्यन्यध्यानमपि अन्येक्षणजनकम् , तथाऽपि तददृष्टद्वारकम् । समानविषयत्वे त्वीक्षणध्यानयोः कार्यकारणभावो दृष्टद्वारकः ;कामिनीं भावयतः कामिनीसाक्षात्कारदर्शनात् । न चात्र दृष्टद्वारसम्भवे अदृष्टद्वारमाश्रयणीयम् । एतेन – ध्याने प्रणवानुप्रवेशाद्विषयैक्यं नास्तीति शङ्काऽपि निरस्ता । भावनाप्रचयस्य साक्षात्कारजनकत्वे हि तद्विषयविषयत्वं तन्त्रम् , न तु तदन्याविषयत्वमपि ; गौरवात् । तस्मादीक्षणध्यानयोरेकविषयत्वनियमादपीक्षतिकर्म पुरुष एव ध्यायतिकर्म । अत्र दर्शितस्य सर्वस्यापि सिद्धान्तस्य सूत्रारूढत्वमुपपाद्यते । ईक्षतिकर्म परं ब्रह्म ; ईक्षतिकर्मव्यपदेशात् । ‘पुरुषमीक्षते’ इतीक्षतिकर्मत्वव्यपदेशादित्यर्थः । हेतावपेक्षितोऽपि त्वप्रत्ययः पक्षसमर्पकतया ‘ईक्षतिकर्म’ इत्यस्य पृथक्पदत्वमप्यस्तीति ज्ञापनार्थं न प्रयुक्तः । नन्वीक्षतिकर्मत्वव्यपदेशोऽपरब्रह्मण्यपि घटते ; तल्लोकं प्राप्तेन तस्य द्रष्टुं शक्यत्वादिति हेतूपमर्दशङ्कायां ‘अन्यभावव्यावृत्तेः’((ब्र.सू.१.३.१२) इति पूर्वाधिकरणसूत्रमनुषञ्जनीयम् । यतस्तल्लोकं प्राप्तस्य तद्दर्शनमर्थसिद्धम् अतस्तदुपदेशो व्यर्थः स्यादिति तदुपदेशारम्भसामर्थ्यादीक्षतिकर्मणः पुरुषस्यापरब्रह्मभावाद्व्यावृत्तेरित्यर्थः । अपरब्रह्मव्यावर्तकविशेषणश्रवणादपीक्षतिकर्म परं ब्रह्मेति हेत्वन्तरेऽपि ‘अन्यभावव्यावृत्तेः’ इति सूत्रमनुषञ्जनीयम् । तत्रेक्षतिकर्मणोऽपरब्रह्मभावव्यावर्तकतत्परत्वविशेषणसत्त्वादित्यर्थः । अस्मिन् पक्षे व्यावृत्तिशब्दो ण्यर्थान्तर्भावेण व्यावर्तकपरः । एवमीक्षतिकर्मणः परब्रह्मभावे सिद्धे तदेवेक्षतिकर्म ध्यायतिकर्मेत्यत्र साध्ये ध्यायतिकर्मणाऽर्थात् परब्रह्मभावसिद्धिफलके पक्षो हेतुश्चेत्युभयं ‘स’ इत्यनेन प्रदर्श्यते । तत्रेक्षतिकर्मणि पक्षे तदिति नपुंसकनिर्देशं विहाय पुंल्लिङ्गनिर्देश ईक्षणवाक्यस्थपुरुषपदानुसारेण । तदनुसारश्च परपुरुषश्रुतिप्रत्यभिज्ञारूपहेतुप्रदर्शनार्थः । ध्यायतिकर्मेऽति साध्यं त्वौचित्यादध्याहर्तव्यम् । ईक्षणध्यानविषययोरेकत्वरूपहेतुप्रदर्शनार्थः । ध्यायतिकर्मेति साध्यं त्वौचित्यादध्याहर्तव्यम् । ईक्षणध्यानविषययोरेकत्वरूपहेतुप्रदर्शनार्थः । ध्यायतिकर्मेति साध्यं त्वौचित्यादध्याहर्तव्यम् । ईक्षणध्यानविषययोरेकत्वरूपहेतुप्रदर्शनार्थं तु ‘अन्यभावव्यावृत्तेश्च’ इति कृत्स्नसूत्रमनुषञ्जनीयम् । ध्यायतीक्षतिकर्मणोऽर्भिन्नत्वे ध्यानस्यादृष्टद्वाराश्रयणप्रसङ्गेन तयोर्भिन्नत्वव्यावृत्तेरित्यर्थः । चकारस्स इति पक्षनिर्देशेनैवैकस्मिन् हेतौ लब्धे इदं हेत्वन्तरमिति ज्ञापनार्थः ॥१.३.१३॥
इति ईक्षतिकर्माधिकरणम् ॥४॥ 【भाष्यम्】
दहर उत्तरेभ्यः ॥१४॥ 【भाष्यम्】 छान्दोग्ये श्रूयते । ‘अथ यदिदमस्मिन्न्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’ , इति ‘तं चेत् ब्रूयुर्यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितम्’(छा. ८.१.३) इत्यादि । अत्र दहराकाशो भूताकाशः , परं ब्रह्म वेति लौकिकरूढिश्रौतनिरूढिभ्यां संशये रूढेः प्रबलत्वादाकाशश्रुतिबलात् भूताकाश इति पूर्वःपक्षः । ननु दहराकाशस्य भूताकाशत्वे ‘यावान्वा’ इत्यादौ तस्य भूताकाशोपमेयनिर्देशो नोपपद्यते । तथा हि – अभेदे उपमानोपमेयभावनिर्देशो द्वेधा, उपमानभावे च परस्परव्यावर्तकाविशेषेणरहितः , तत्सहितश्च । तत्राद्योऽनन्वयालङ्कारविषयः , यथा – ‘गगनं गगनाकारं सागरः सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिव’(रामा.यु.का.१०७.५०) । इह गगनादीनां गगनादिभिः सादृश्यं निबध्यमानमुपमानोपमेयभेदापेक्षं सत् वास्तवस्य तद्भेदस्याभावाद्विशेषणोपाधिकृतस्य च तस्य परस्परव्यावर्तकविशेषणप्रयोगाभावादप्रतीतेः नान्वेतीत्यन्वर्थनामाऽनन्वयः । अनन्वयिनोऽपि स्वमहिमप्रतिष्ठात्वस्येव स्वसादृश्यस्य निबन्धनमन्यस्य प्रतिष्ठावस्तुन इव उपमानस्याभावद्योतनाय । एवं गगनस्य वैपुल्ये गगनमेवोपमानं नान्यदित्येवमादिप्रकारेणानुपमत्वद्योतनफलतयोत्कर्षावहः काव्यशोभाकर एव ‘गगनं गगनाकारम्’ इत्यादिप्रयोगः , न त्वगत्या कथञ्चिन्निर्वहणीयः । द्वितीयस्तूपमाप्रभेदः यथा – ‘उपाददे तस्य सहस्ररश्मिः त्वष्ट्रा नवं निर्मितमातपत्रम् । स तद्दुकूलादविदूरमौलिर्बभौ पतद्गङ्ग इवोत्तमाङ्गे’ । (कु.मा.७.४१) अत्रोपमानस्य शिवस्यैवोपमेयत्वेऽप्युत्तमाङ्गपतद्गङ्गाप्रवाहत्वच्छत्रदुकूलसन्निकृष्टमौलित्वरूपविशेषणोपाधिकृतभेदसत्त्वान्निबध्यमानं सादृश्यमन्वेतीति नानन्वयः , किन्तूपमाप्रभेदः । एवं च सति अत्र दहराकाशस्य भूताकाशत्वे तस्यैव तदुपमेयत्वानिर्देशोऽयमनन्वयरूपो वा स्यात् , उपमाप्रभेदरूपो वा । नाद्यः , ‘अयम्’ इति, ‘एषोऽन्तर्हृदय’ इति च बाह्यत्वान्तरत्वरूपपरस्परव्यावर्तकविशेषणश्रवणात् । न च ‘अयम्’ इत्यनेनाप्यान्तरस्यैव निर्देशोऽस्त्विति वाच्यम् । तथा सति आक्षेपबीजतया श्रोतृबुद्धिस्थस्य सौक्ष्म्यस्यैव यावानित्यनेन परामर्शनीयतयाऽनन्वयस्य निरुपमसोय्क्ष्म्यपर्यवसायित्वापत्तेः । न चेष्टापत्तिः ; इह कृताक्षेपसमाधानलाभाय वैपुल्यप्रतिपादनस्यैवापेक्षितत्वात् । आक्षेपप्रकारस्त्वग्रे स्पष्टीभविष्यति । न द्वितीयः ; आन्तरस्य बाह्यवद्व्यापकत्वाभावात् । न च – हृदयपुण्डरीकावच्छिन्नाकाशस्य सूक्ष्मत्वेऽपि हृदयपुण्डरीकान्तर्गतान्तःकरणप्रतिबिम्बरूप आकाशो बाह्याकाशवद्व्यापको भवेत् , उपाधेः सौक्ष्येऽपि प्रतिबिम्बस्य बिम्बसमानरूपपरिमाणताया जानुदघ्नकूपजलगतदूरविशालाकाशप्रतिबिम्बे दर्शनात् – इति वाच्यम् । शरीरव्यवहितस्य बाह्याकाशस्य हृदयपुण्डरीकप्रविष्तेऽन्तःकरणे प्रतिबिम्बासम्भवात् । तस्माद्दहराकाशः परमात्मेति युक्तम् । तथा सति ‘आकाशवत् सर्वगतः’ इति श्रुत्यामिवात्रापि तस्य भूताकाशोपमेयत्वं युज्यते ; हृदयावच्छिन्नरूपेण तस्य व्यापकत्वाभावेऽपि स्वरूपेण व्यापकत्वात् । न च स्वरूपेण व्यापकतामात्रविवक्षायां ‘एषोऽन्तर्हृदये’ इति तद्विशेषणस्य व्यापकतावच्छेदकत्वेनान्वयाभावान्निष्प्रयोजनत्वं दोषः ; स्वरूपकथनार्थत्वोपपत्तेः । ‘एष म आत्माऽन्तर्हृदये अणीयान्व्रीहेर्वा यवाद्वा’(छा.३.१४.३) इत्यादिश्रुतौ ब्रह्मणो हृदयावच्छेदोपाधिकाणीयस्त्वोक्त्यनन्तरं ‘एष म आत्माऽन्तर्हृदये ज्यायान् दिवो ज्यायानन्तरिक्षात्’(छा.३.१४.३) इत्यादि स्वाभाविकव्यापकत्वोक्तावपि ‘अन्तर्हृदये’ इति विशेषणदर्शनात् ‘अयम्’ इति विशेषणस्य भूताकाश उपमानमिति उपमानविशेषलाभार्थतयेव प्रकृतः परब्रह्मरूपदहराकाश उपमेय इति उपमेयविशेषलाभार्थतया तस्य सप्रयोजनत्वाच्च । अपि च वाक्यशेषे ‘एष आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः’(छा.८.१.५) इत्यात्मश्रुतिरपहतपाप्मत्वादीनि ब्रह्मलिङ्गानि च श्रूयन्ते । तथा ‘इमाः सर्वाः प्रजा अहरहर्गच्छन्त्यएतं ब्रह्मलोकं न विन्दन्ति’(छा.८.३.२) इति जीवानामहरहराकाशप्राप्तिः श्रूयते । सापि ब्रह्मलिङ्गम् ; ‘सता सोम्य तदा सम्पन्नो भवति’(छा.८.८.१) इति श्रुत्यन्तरे जीवानां सुषुप्तौ ब्रह्मसम्पत्तिश्रवणात् । ब्रह्मलोकशब्दश्च तत्र श्रूयते । सोऽपि ब्रह्मणि व्यवतिष्ठते, ब्रह्मैव लोक्यमानतया लोक इति व्युत्पत्तेः ; निषादस्थपतिन्यायेन षष्ठीसमासात् कर्मधारयस्य ज्यायस्त्वात् ; जीवानामहरहश्चतुर्मुखलोकगमनाभावेन षष्ठीसमासासम्भवाच्च । तथा ‘अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय’(छा.८.४.१) इति दहराकाशस्य जगद्विधारकत्वमुच्यते । तदपि ब्रह्मलिङ्गम् ; ‘एष सेतुर्विधरण एषां लोकानामसम्भेदाय’(बृ.४.४.२२) इति श्रुत्यन्तरदर्शनात् । न चैषामुदाहृतश्रुतिलिङ्गानां दहराकाशादन्यत्रान्वयः शक्यशङ्कः ; ‘एष आत्मा’ इत्यादि वाक्यश्रुतपुंल्लिङ्गैकवचनान्तैतदादिशब्दपरामर्शयोग्यस्यान्यस्य प्रकृतस्याभावात् । ‘उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते’(छा.८.१.३) इति दहराकाशस्य , ‘अस्मिन् कामास्समाहिताः’ इति अपहतपाप्मत्वादिगुणकस्यात्मनश्च समाधानाधारत्वेनैक्यप्रत्यभिज्ञानाच्च । तस्मादुपक्रमगताया अप्येकस्या आकाशश्रुतेर्वाक्यशेषगतानि बहूनि श्रुतिलिङ्गानि बलवन्तीति तैर्दहराकाशः परं ब्रह्मेति युक्तम् । आकाससब्दस्य श्रुत्यन्तरेषु तस्मिन्नपि प्रसिद्धत्वात् । अपि च ‘ब्रह्मपुरे’ इत्युपक्रमानुसारेणापि दहराकाशः परं ब्रह्मेति लभ्यते । देहस्य ब्रह्मपुरत्वोक्त्यैव देहान्तर्वर्तित्वेन ब्रह्मोपासनाविधित्सयेदं प्रकरणमारभ्यत इत्यवगमात् । स्यादेतत् – ‘चैत्रगृहे मैत्रस्तिष्ठति’ इत्यन्यगृहत्वेन निर्दिष्टेऽप्यन्यावस्थानमुच्यते , तथेहाप्यस्तु । न च वाच्यम् – तत्र ‘मैत्र’ इति विशिष्याधेयनिर्देशात्तथा भवतु नाम , इह त्वनिर्दिष्टाधेयविशेषे वाक्ये तद्विशेषाकाङ्क्षायां यस्य पुरत्वेन देहो निर्दिष्टः , तत् ब्रह्मैवाधेयविशेषत्वेन सम्बन्धुं युक्तम् – इति । अत्राप्याकाशश्रुत्या विशिष्य भूताकाशस्याधेयत्वेन निर्दिष्टत्वात् , इति चेत् ; मैवम् । इह ब्रह्मपुरत्वेन देहोक्तेर्देहान्तर्वृत्तिब्रह्मोपासनाविधित्साऽभावे वैयर्थ्यप्रसङ्गात् । न हि मैत्रान्वेषिणं प्रति ‘चैत्रगृहे मैत्रस्तिष्ठति’ इति वाक्ये चैत्रगृहत्वोक्तिः देवदत्तगृहादिव्यावर्तनेनेवात्र ब्रह्मपुरत्वोक्तिः प्रकारान्तरेण साफल्यमश्नुवीत । तस्माद्यथा ‘प्रजापतिर्वरुणायाश्वमनयत्’ इत्याद्युपक्रमगतार्थवादेन अश्वदातुः किञ्चिद्विधास्यत इत्यवगमात् तदनन्तरश्रुतं ‘यावतोऽश्वान् प्रतिगृह्णीयात्तावतो वरुणांश्चष्कपालान्निर्वपेत्’ इति वाक्यमश्वप्रतिग्रहीतुरिष्टिविधायकतयाऽवभासमानमप्यश्वदातुस्तद्विधायकमिति योज्यते , एवमिहाप्युपक्रमे देहस्य ब्रह्मपुरत्वोक्त्या देहस्यान्तःकिञ्चित् (क.चित्) ब्रह्मोपासना विधास्यत इत्यवगमात् तदनन्तरश्रुतं दहराकाशवाक्यं भूताकाशप्रतिपादकतयाऽवभासमानमपि ब्रह्मप्रतिपादकमिति योजनीयम् । तस्मान्निरालम्बनो भूताकाशपूर्वपक्ष इति चेत् ; अत्र ब्रूमः – ’यावान्वा अयमि’त्यादौ बाह्याभ्यन्तरभेदतः । उदमानोपमेयत्वं भूताकाशे समञ्जसम् ॥ सूक्ष्मेऽप्यभ्यन्तराकाशे वैपुल्यमुपपद्यते । मानसं मानसार्थानां समाधानाय काङ्क्षितम् ॥ यच्चास्येत्यत्र पित्राद्या व्र्ण्यास्सङ्कल्पसम्भवाः । साकं द्यावापृथिव्याद्यैस्ते स्वाप्ना इव मानसाः ॥ नैवात्र दहराकाशः श्रुत्योपास्यो विधीयते । किन्तत्वन्तर्वृत्ति तस्यान्यदिदं श्रुत्यैव दर्शितम् ॥ तत्र द्यावापृथिव्यादिवर्ण्यवस्तुकरम्बिते । ब्रह्मण्यशेषाधिष्ठाने ब्रह्मश्रुत्यादिसङ्गतिः ॥ तथा हि – ‘यच्चास्येहास्ति’ इत्यादेरयमर्थः – यदस्य देहिनः इह लोके विद्यते , यच्चेह लोके इदानीं न विद्यते नष्टं भविष्यद्वा , तत्सर्वमस्मिन् दहराकाशे समाहितमिति । तच्चात्र दहरोपासनया ब्रह्मलोकं प्राप्तस्याग्रे ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति’(छा.८.२.१) इत्यादिना वर्णयिष्यमाणं स्वसङ्कल्पसमुत्थितप्राचीनानन्तजन्मसम्बन्धिदिदृक्षितपितृभ्रातृपुत्रकलत्रगीतवादित्रादिभोग्यवस्तुजातरूपम् ; अग्रे ‘यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते अथ ये चास्य जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दते’(छा.८.३.१,२) इति श्रुत्यैव तथा विवृतत्वात् । तच्च ब्राह्मलौकिकं सङ्कल्पजपित्रादिभोग्यजातं न स्थूलपार्थिवाप्यादिरूपम् , किन्तु स्वप्नदृष्टस्त्रीपुरुषादिवन्मनोविकारात्मकम् । अत एव ‘मनसैतान् कामान् पश्यन्रमते य एते ब्रह्मलोके’(छा.८.१२.५.१) इति तस्य मनोमात्र भोग्यत्वश्रुतिः , मनोमयानि ब्रह्मलोके शरीरादीनि’ इति पुराणञ्च । एवञ्च तत्प्रायपाठात् द्यावापृथिव्यादिकमपि दहरोपासकस्य स्त्र्यन्नपानगीतवादित्रादिवत् भोगोपयुक्तं मानसमेव ग्राह्यमिति तस्य सर्वस्याप्यन्तस्समाधानाय दहराकशस्य बाह्याकाशवत् व्यापकत्वमपि मानसमेवापेक्षितम् । तदेव स्वल्पापवरकदेशनिद्राणपुरुषदृश्यमानै कैककोणविश्रान्तानेकगिरिनदीसमुद्रादियुक्ताकाशवैपुल्यवत् मुहूर्तमात्रशयितपुरुषानुभूयमानविवाहपुत्रोत्पादन तदुपलालनाद्यनेकव्यापारयुक्तस्वाप्नकालदैर्घ्यवच्च वास्तवसूक्ष्मत्वाविरोधि ‘यावान्वा’ इत्यादिना वर्ण्यत इति किमत्रासमञ्जसम् ननु द्यावापृथिव्यादिकमिह वर्ण्यमानं मानसञ्चेत्तत्स्वप्नदृष्टगिरिसमुद्रादिवद्वस्तुतः सूक्ष्मेऽपि मातुं शक्नोतीत्येव शिष्याणामाक्षेपे परिहर्तुं शक्ये किमर्थं प्रातिभासिकवैपुल्याभिप्रायेण ‘यावान्वा अयम्’ इत्युक्तमिति चेत् ; सत्यम् । वस्तुतः सूक्ष्म एवास्य द्यावापृथिव्यादेः समाधानमुपपादयितुं शक्यमिति । अत एव तैत्तिरीयोपनिषदि ‘तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम्’(महानारा.११.९) इति सूक्ष्म एव हृदयसुषिररूपे भूताकाशे सर्वस्य समाधानमुक्तम् । छान्दोग्यभाष्ये च सूक्ष्मे दहराकाशे समाधानान्यथानुपपत्त्यैव ब्राह्मलौकिकपित्रादिभोग्यजातस्य मानसत्वं प्रसाधितम् । तथाऽप्यत्रात्यल्पीयसो दहराकाशस्यान्तरतिसूक्ष्ममपि वस्तूपास्यं न सम्भवतीत्याक्षिप्तवतां शिष्याणां हृदि अतिविपुलं द्यावापृथिव्यादिकं तदन्तः समाहितमित्युत्तरं न प्रविशेदिति मत्वा यक्षानुरूपबलिन्यायेन मनोविकारमनोविकाररूपद्यावापृथिव्यादिसमाधानोचितं मनोविकाररूपमेव वैपुल्यं दर्शितमित्युपपद्यतेतराम् । अवाश्यञ्च दहराकाशः परं ब्रह्मेति वदताऽपि ‘यावान्वा अयमाकाशः’ इत्यादिना दहराकाशस्य सूक्ष्मत्वविरोधि मनोविकारात्मकं वैपुल्यं वर्णितमित्ययमेव पन्थाः समाश्रयणीयः । कथम् तेन खल्वाकाशशब्दस्य ब्रह्मणि गौणी वृत्तिरेष्टव्या । तस्याश्च ‘आकाशवत् सर्वगतः’ इति श्रुत्यन्तरप्रसिद्धभूताकाशसादृश्यं निमित्ततयाऽवतिष्ठते । तथाचोपमेयनिर्देशकेनाकाशशब्देनैव भूताकाशसादृश्ये प्रतिपादिते वाक्येन प्रतिपाद्यमानं तत्सादृश्यं कथमन्वेतु न हि ‘यत् भूताकाशवद्व्यापकं ब्रह्म तत् भूताकाशसादृश्यं निमित्ततयाऽवतिष्ठते । तथाचोपमेयनिर्देशकेनाकाशशब्देनैव भूताकाशसादृश्ये प्रतिपादिते वाक्येन प्रतिपाद्यमानं तत्सादृश्यं कथमन्वेतु न हि ‘यत् भूताकाशवद्व्यापकं ब्रह्म तत् भूताकाशवद्व्यापकम्’ इति वाक्यं समञ्जसं भवति, किन्तु ‘गङ्गायां घोषः’ इति लाक्षणिकेन गङ्गापदेनैव तीरस्य गङ्गासम्बन्धित्वे लब्धे ‘गङ्गाया गङ्गायां घोषः’ इति प्रयोगवदसमञ्जसमेव भवेत् । तस्मात् ब्रह्मणस्स्वरूपेण भूताकाशवद्व्यापकत्वे ‘आकाशवत्सर्वगतः’ इति श्रुतिप्रतिपादिते गौणेनाकाशपदेन बोध्यमानेऽपि हृदयपुण्डरीकावच्छिन्नरूपेणापि तद्वापकत्वं प्रतिपादयितुं ‘यावान्वा’ इत्यादिवाक्यम् । यथा ‘अमावास्यायाममावास्यया यजेत’ ‘पौर्णमास्या यजेत’ इति वाक्ययोराग्नेयादीनां षण्णां यागानां स्वरूपेणामावास्यापौर्णमासीकालकर्तव्यत्वे तत्तदुत्पत्तिवाक्यविहिते तेषु गौणाभ्यां तृतीयान्तामावास्यापौर्णमासीपदाभ्यां बोध्यमानेऽपि तेषां त्रिशस्त्रिशः प्राच्योदीच्यसकलाङ्गसाहित्येनापि तत्तत्कालकर्तव्यत्वं प्रतिपादयितुं तद्वाक्यद्वयमित्येव समर्थनीयम् । अत एवैकादशे तस्य वाक्यद्वयस्य साफल्यं तथैव समर्थितम् – तद्वाक्यद्वयाभावे ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इति वाक्येनैकफलसाधनत्वेन बोधितानां षण्णां यागानां प्रयोगैक्यस्यौत्सर्गिकत्वात् पौर्णमास्यां प्राच्यांगानुष्ठानपूर्वकं पौर्णमासत्रिकमनुष्ठाय अमावास्यायां प्राप्तायाममावास्यात्रिकमनुष्ठायोदीच्यांगसमापनं कर्तव्यं प्रसज्येत इति । आचार्यवाचस्पतिनाऽपि ब्रह्मण्याकाशपदस्य गौणत्वे तेनैव भूताकाशवद्व्यापकत्वस्य लब्धतया पुनस्तत्र वाक्येन तत्प्रतिपादनमनन्वितमित्याशंक्य ‘तत्किमिदानीं पौर्णमास्यां पौर्णमास्या यजेत अमावास्यायाममावास्ययेत्यसाधुर्वैदिकप्रयोगः इति वदता तद्वाक्यद्वयदृष्टान्तावष्टम्भेन ब्रह्मणः स्वरूपेण भूताकाशवद्व्यापकत्वे गौणपदलब्धेऽपि हृदयावच्छिन्नरूपेणापि तद्व्यापकत्वं प्रतिपादयितुं ‘यावान्वा’ इत्यादि वाक्यमित्येव दर्शितम् । एवञ्च हृदयावच्छिन्नरूपेण सूक्ष्मस्य ब्रह्मणस्तेनैव रूपेण वैपुल्यं मानसपदार्थसमाधानोचितं मानसं वर्णितमित्येव सिद्धान्तिनाऽप्युपपदनीयं गत्यन्तराभावादित्यलं विस्तरेण । ‘एष आत्मा अपहतपाप्मा’ इत्यादिवाक्यशेषगतब्रह्मलिङ्गानां तु न दहराकाशेऽन्वयः , किन्तु तस्यान्तरुपास्यत्वेन निर्दिष्टं यत् द्यावापृथिव्यादि तदवच्छिन्ने , तत्प्रतीके वा ब्रह्मण्यन्वयः । द्यावापृथिव्यादिसमाधानोपन्यासानन्तरं ‘एतत् सत्यं ब्रह्मपुरम्’ इति प्रकृतद्यावापृथिव्यादिपरैतत्पदसमानाधिकरणेन ‘सत्यं ब्रह्मपुरम्’ इत्यनेन द्यावापृथिव्याद्यवच्छिन्नं , तत्प्रतीकं वा ब्रह्म निर्दिश्य ‘अस्मिन्कामास्समाहिताः’ इत्युपासकस्य कमनीयानां केषाञ्चित् गुणानां ब्रह्मणि समाधानमुक्त्वा तदनन्तरं ‘एष आत्माऽपहतपाप्मा’ इत्यादिना तेषां गुणानामपहतपाप्मत्वादिरूपतया विवृतत्वात् । ननु ‘एतत् सत्यं ब्रह्मपुरम्’ इत्यत्र एतत्पदं दहराकाशपरामर्शि, ‘उभे अस्मिन्द्यावापृथिवी’ इत्यादिप्राचीनवाक्येषु सर्वनाम्नां तत्परामर्शित्वदर्सनात् ; ‘एतत्’ इति नपुंसकलिङ्गस्य सत्यब्रह्मपुरशब्दसामानाधिकरण्यानुरोधेन सङ्गतत्वात्तस्य द्यावापृथिव्यादिपरामर्शित्वे एकवचनानुपत्तेश्च । तस्मात् ‘सत्यं ब्रह्मपुरम्’ इत्यारभ्य श्रुतानां सर्वेषां ब्रह्मलिङ्गानां दहराकाश एव समन्वय इति चेत् ; मैवम् । ‘उभे अस्मिन्’ इत्यादिवाक्येषु प्राधान्येन प्रथमाविभक्त्या निर्दिष्टस्य द्यावापृथिव्यादेरेव ‘प्रजापतिर्वरुणायाश्वमनयत् स स्वां देवतामार्च्छत्’ इत्यत्र प्रजापतेरिव सर्वनाम्ना परामर्ष्तुं युक्तत्वात् । तस्य द्यावापृथिव्यादिपरामर्शित्वेऽपि ‘नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्’ इति व्याकरणानुशिष्टस्य नपुंसकलिङ्गस्यैकवचनस्य चोपपत्तेः , ‘सर्वं तदस्मिन् समाहितम्’ इत्यन्तेन दहराकाशे द्यावापृथिव्यादिसमाधानोपन्यासानन्तरं प्रवृत्ते ‘तञ्चेत् ब्रूयुः अस्मिंश्चेदिदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामा यदैनज्जरा वाऽऽप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति स ब्रूयान्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यते’ इत्याक्षेपतदुत्तरसन्दर्भे श्रुतयोः ‘एतत्’ इति पदयोर्नपुंसकलिङ्गसामानाधिकरण्याभावेन शरीरनाशात्तदाश्रितमूर्तद्रव्यजातस्येव तदवच्छिन्नस्याकाशस्य हानिशङ्कानुदयेन च दहराकाशपरामर्शित्वस्यानुपपन्नतया अस्मदुक्तरीत्या द्यावापृथिव्यादिपरामर्शित्वस्यावश्यवक्तव्यत्वेन तदनन्तरश्रुत ‘एतत्सत्यं ब्रह्मपुरम्’ इति वाक्यगतैतत्पदस्यापि तत्परामर्शित्वस्यैवाङ्गीकर्तव्यत्वाच्च । यत्तु ‘अस्मिन् कामास्समाहिताः’ इति समाधानाधारत्वप्रत्यभिज्ञया दहराकाशस्य ब्रह्मपुरशब्दोदितस्य ब्रह्मणश्चैक्यमवगम्यते इति , तत्तुच्छम् ; प्रकृतपरामर्शकसर्वनामानुसारेण भेदेऽवगम्यमाने समाधानाधारत्वप्रत्यभिज्ञामात्रस्याकिञ्चित्करत्वात्, अन्यथा ‘यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः’ इत्यत्र ‘ब्रह्मपुरे’ इति ‘अस्मिन्’ इति च सप्तमीनिर्दिष्टाधारप्रत्यभिज्ञया ब्रह्मपुरदहरपुण्डरीकयोरप्यैक्यप्रसङ्गात् । तस्माद्युक्तमुक्तं वाक्यशेषगतब्रह्मश्रुतिलिङ्गानां द्यावापृथिव्याद्यवच्छिन्ने , तत्प्रतीके वा ब्रह्मण्यन्वय इति । एवञ्च – उपक्रम एव देहस्य ब्रह्मपुरत्वोक्त्या ब्रह्मोपासनाविधित्साऽवगमाद्दहराकाशो ब्रह्मेत्यवगम्यत इत्येतदपि निरस्तम् ; दहराकाशस्योपास्यत्वेनानिर्दिष्टत्वात् । तदन्तरुपास्यत्वेन निर्दिष्टं यद्द्यावापृथिव्यादि तदुपासनस्य ब्रह्मोपासनरूपतायाः समर्थितत्वाच्च । एवमेतेषां ब्रह्मश्रुतिलिङ्गानां पूर्वपक्षे दहराकाशान्तरुपास्यान्वयेन साङ्गत्यमभिप्रेत्योक्तं भाष्ये ‘न चात्र दहरस्याकाशास्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वञ्च श्रूयते ; तस्मिन् यदन्तरिति परविशेषणत्वेनोपादानात्’ इति । यदि चैतेषां ब्रह्मश्रुतिलिङ्गानां दहराकाश एवान्वयो वक्तव्यः, तदाऽपि नानुपपत्तिः ; उपक्रमगताभ्यस्ताकाशश्रुत्यनुसारेण ब्रह्मात्मश्रुतीनां बृहत्त्वात्तत्त्वयोगेन भूताकाशे वृत्त्युपपत्तेः ; उपास्यस्य भूताकाशस्य ब्रह्मात्मशब्दाभ्यां परब्रह्मरूपतया स्तुत्युपपत्तेश्च । ‘यद्वै तत् ब्रह्मेति इदं वाव तत् योऽयं बहिर्द्धा पुरुषादाकाशः । यो वै स बहिर्द्धा पुरुषादाकाशोऽयं वाव स यो यमन्तःपुरुष आकाशः । यो वै सोऽन्तःपुरुष आकाशोऽयं वाव स योऽयमन्तर्हृदय आकाशः । यो वै सोऽन्तर्हृदय आकाशस्तदेतत् पूर्णमप्रवर्ति पूर्णामप्रवर्तिनीं श्रियं लभते य एवं वेद’(छा.३.१२.७.९) इति श्रुतौ पूर्णत्वादिगुणेन उपास्यस्य भूताकाशस्यैव ‘यद्वै तत् ब्रह्मेतीदं वाव तत्’ इति ब्रह्मरूपतया स्तुतिदर्शनात् । अपहतपाप्मत्वं अपहतो निरस्तः जीवस्य पाप्मा येन यस्मिन्निति वा व्युत्पत्त्या हृदयान्तर्गते भूताकाशेऽप्युपपद्यते ; ‘तद्यत्रैतत् सुप्तस्समस्तस्संप्रसन्नस्स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति तन्न कश्चन पाप्मा स्पृशति’(छा.८.६.३) इति नाडीमार्गेण हृदयावकाशं प्रविष्तस्य जीवस्य पाप्मास्पर्शश्रवणात् । एतावतैव ‘दह्रं विपाप्मं परवेश्मभूतं यत् पुण्डरीकं पुरमध्यसंस्थम्’(महानारा.१०.७) इति दहरपुण्डरीकेऽपि विपाप्मत्वोक्तिदर्शनात् । ‘विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः’(छा.८.१.५) इत्यचेतने भूताकाशे जराद्यप्रसक्तेरुपपद्यते । एतेषामप्रसक्तप्रतिषेधरूपत्वं ब्रह्मान्वयपक्षेऽपि वक्तव्यमेव ; ‘अपहतपाप्मा’ इत्यस्य तस्मिन्पक्षे सर्वपाप्मोदितत्वपरतया पापराहित्योक्त्यैव पापमूलजराद्यभावस्याप्यर्थतस्सिद्धत्वात् , अत्रैव प्रकरणे ‘नैनं सेतुमहोरात्रे र्तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मनोऽतो निवर्तन्ते’(छा.८.४.१) इति पाप्मशब्दस्य जरादिसाधारणतया विवृतत्वेन ‘अपहतपाप्मा’ इत्यनेन जराद्यभावस्य शब्दतोऽपि सिद्धत्वाच्च । ‘सत्यकामस्सत्यसङ्कल्पः’ इति च सति ब्रह्मणि कामनासङ्कल्पराहित्येन घटते; तयोर्निषेधरूपगुणप्रायपाठेन निषेधरूपत्वस्योचितत्त्वात् । अहरहर्गतिश्रवणमपि तस्मिन्हार्दे भूताकाशे सङ्गच्चते ; सुषुप्तौ जीवानां हृदयपुण्डरीकावकाशप्रवेशसत्त्वात् । ब्रह्मलोकशब्दोऽपि ब्रह्मोपलब्धिस्थाने तस्मिन्नुपपद्यते ; लोक्यतेऽस्मिन्निति व्युत्पत्त्या लोकशब्दस्योपलब्धिस्थानपरत्वात् । विधारकत्वं तु स्वरूपेण भूताकाशस्याक्षरब्राह्मणोदितं विशिष्य च हृदयावच्छिन्नरूपेणात्रैव ‘उभे अस्मिन्द्यावापृथिवी’ इत्यादिना प्रतिपादितं तस्मिन्नुपपद्यत इति स्पष्टमेव । देहस्य ब्रह्मपुरत्वेन उपक्रमस्तु देहान्तर्वर्तिहार्दभूताकाशोपास्तिविधित्सायामपि जाह्नवीतीरमृत्तिकोक्तिन्यायेन तस्यैव स्तुत्यर्थतयोपपद्यते । ‘तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो भवति’(छा. ८.४.३) इत्यादिवाक्यशेषोक्तं महाफलमपि वचनबलात् भूताकाशोपासनस्य युज्यते । पूर्वाधिकरणे प्रतीकोपासनस्य वचनबलेन सर्वपापनिर्द्धूननपूर्वकब्रह्मलोकप्राप्तिद्वारकपरममुक्तिफलकत्वस्योक्तत्वात् । तस्मात् भूताकाश एव दहर इति । एवं प्राप्ते राद्धान्तमाह – ‘दहर उत्तरेभ्यः’ – स्दहराकाशः परमात्मा उत्तरेभ्यस्तदीयश्रुतिलिङ्गेभ्यः । न च तेषां दहराकाशानन्वयः शङ्कनीयः ; पूर्वसन्दर्भस्वारस्यानुरोधेनापततस्तदन्वयस्यापरिहार्यत्वात् । तथा हि – उपासकभोगस्थानभोगोपकरणभोग्यजातरूपद्यावापृथिव्यादिसर्वसमाधानोक्त्यनन्तरं प्राक् ब्रह्मपुरशब्देनोक्ते देह एव तस्य सर्वस्य समाधानमुक्तमापाद्य देहे जीर्णे , नष्टे वा, जीर्णे कुसूलादौ भारधारणाक्षमे तदन्तर्निहितं व्रीह्यादिकमिव , नष्टे घटे तदन्तर्निहितं दध्यादिकमिव च तत्किमपि नावतिष्ठेतेत्यन्तेवासिभिराक्षिप्तम् । तत्र दहराकाशे वर्णितं सर्वसमाधानं देह एव वर्णितमिति आपादनस्य द्वेधाऽभिप्रायः सम्भायते – यथा घटाद्यन्तराकाशे निहितस्य दध्यादेर्वस्तुतो घटादिरेव धारकः , आकाशः परमवकाशात्मनोपकरोति, एवमिहापि दहराकाशस्य स्वतःसर्वधारकत्वेऽपि तस्य देहजराप्रध्वंसानुपदभाविजराप्रध्वंसत्वाद्यावद्देहस्य भारधारणानुकूलं बलं तावत्पर्यन्तमेव दहराकाशस्य तद्धारकत्वमिति फलतो देह एव तस्य सर्वस्य धारकः पर्यवस्यति इति वा ; यथा राजानुसार्यैश्वर्यदारिद्र्येण राजभृत्येन पोष्यमाणस्य तद्भृत्यवर्गस्य फलतो राजैव पोषकः पर्यवस्यति इति वा ; यथा राजानुसार्यैश्वर्यदारिद्र्येण राजभृत्येन पोष्यमाणस्य तद्भृत्यवर्गस्य फलतो राजैव पोषकः पर्यवस्यति तद्वदिति वा । तत्र द्वितीयाभिप्रायावलम्बनाक्षेपसमाधानार्थं ‘नास्य जरयैतज्जीर्यति न वधेनास्य हन्यते’(छा.८.१.५) इत्युक्तम् । यद्यपि देहान्तर्गत आकाशो देहस्य जरादौ सति जरादिना न स्पृश्यत इति स्पष्तमेव , न हि कुसुलाद्यन्तर्गत आकाशोऽपि तज्जरादौ सति जरादिना स्पृश्यते, तथाऽपि प्रथमाभिप्रायमूलत्वमेवाक्षेपस्य युक्तमिति परिशेषयित्वा तत्समाधानं वक्तुं मन्दशिष्यानुग्रहाय स्पष्टमप्युक्तम् । प्रथमाभिप्रायावलम्बनाक्षेपसमाधानार्थं ‘एतत्सत्यं ब्रह्मपुरमस्मिन्कामास्समाहिताः’(छा.८.१.५) इत्युक्तम् । तत्र ‘अस्मिन्कामास्समाहिताः’ इत्यनेन येषां कामानां सङ्कल्पजपितृमातृभ्रातृस्वसृस्त्र्यन्नपानगन्धमाल्यगीतवादित्रादिरूपाणां देहे समाधानमुक्तमापाद्याक्षिप्तं ते तत्र न समाहिताः , किन्त्वस्मिन्दहराकाशे, अतः स एव तेषां धारको, न देह इत्याक्षेपमूलोन्मूलनं कृतम् । तत्र कामग्रहणमाक्षेपे देहसमाहितत्वेनापाद्यानूदितानां सर्वेषामुपलक्षणम् । ननु घटाकाशो दध्यादेरिव दहराकाशो द्यावापृथिव्यादेर्न धारक इत्याशंक्योक्तं ‘एतत्सत्यं ब्रह्मपुरम्’ इति । न हि घटाकाश इव दहराकाशोऽयं भूताकाशः , किन्तु ब्रह्म । तत्तु पुरमिव उपासकापेक्षितविविधभोगोपकरणचेतनाचेतनात्मकभोग्यजातपूर्णं तद्धारकमेव यतः तत् सत्यं सकलप्रपञ्चनियामकमिति तस्यार्थः । सत्यपदं हि नित्यानित्यात्मकचेतनाचेतनसकलप्रपञ्चनियन्तृत्वपरं ब्रह्मनामेत्यत्रैव प्रकरणे वर्णितं ‘तस्य हवा एतस्य ब्रह्मणो नाम सत्यमिति , तानि ह वा एतानि त्रीण्यक्षराणि स ति यमिति । तद्यत्सत्तदमृतम्, अथ यत्ति तन्मर्त्यम्, अथ यद्यं तेनोभे यच्छति’(छा.८.२.४५) इति । नियन्तृत्वञ्च धारकत्वव्याप्तं ‘एष सेतुर्विधरण एषां लोकानामसम्भेदाय’(बृ.४.४.२२) इत्यादिश्रुतेः । एवंकृताक्षेपसमाधानसिद्ध्यानुगुण्येन समाधानवाक्यगतयोरेतदितिपदयोर्दहराकाशपरत्वं वक्तव्यमिति तयोर्द्यावापृथिव्यादिपरत्ववर्णनमसमञ्जसमेव । न हि तदानीं कृतस्याक्षेपस्य समाधानं लभ्यते ; माभूद्देहजरादिना द्यावापृथिव्यादेस्तदाश्रितस्य जरादि , तथाऽपि यथा कुसूलादेर्जरादौ सति तदनुविधायिजरादिरहितमपि व्रीह्यादि तत्र नावतिष्ठते, एवमिदमपि नावतिष्ठेतेत्याक्षेपस्य तादवस्थ्यात् । तदनन्तरं द्यावापृथिव्याद्यवच्छिन्नस्य , तत्प्रतीकस्य वा ब्रह्मण उपास्यत्वप्रतिपादनेन वा तस्मिन्ब्रह्मणि वक्ष्यमाणा अपहतपप्मत्वादिगुणाः सन्तीति प्रतिपादनेन वा तत्समाधानालाभाच्च । न चैतत्पदयोर्द्यावापृथिव्यादिपरत्वेऽपि यथाऽऽक्षेपः समाधातुं शक्य स्तथा कश्चित्तत्प्रकारो वर्ण्यतामिति वाच्यम् । दहराकाशाश्रितत्वेनोक्तस्य द्यावापृथिव्यादेर्देहाश्रितत्वमुक्तमित्यापाद्यानुवादे किञ्चिदभिप्रायवतो द्यावापृथिव्यादेर्जराद्यस्पर्शोक्त्या तदवच्छिन्नतत्प्रतीकोपास्यब्रह्मप्रतिपादनेन समाधातुं शक्यस्य कस्यचिदाक्षेपप्रकारस्यैवं समञ्जसस्यानुपलम्भात् । तस्माद्यथा ‘विष्णुरुपांशुयष्टव्यः’ इत्यादिषु विध्यंगीकारे तव्यप्रत्ययस्वारस्ये सत्यपि तेषु विधानेनोपक्रान्तजामितादोषनिर्हरणालाभात्तल्लाभाय वर्तमानापदेशयुक्तेऽप्यन्तरावाक्य एव विधिरङ्गीक्रियते , एवमिहाप्येतत्पदयोर्द्यावापृथिव्यादिपरत्वाङ्गीकारे विभक्त्यैकरूप्यस्वारस्यलाभे सत्यपि तत्परत्वे कृताक्षेपसमाधानालाभात् तल्लाभाय दहराकाशपरत्वमेवाङ्गीकर्तव्यम् । किञ्च ‘अस्मिन्कामाः समाहिताः’ इत्यत्र कामशब्देन सङ्कल्पजाः पित्रादय एव वक्तव्याः ; तेषामाक्षेपवाक्ये कामशब्देनाभिहितत्वात् , अग्रेऽपि ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति’(छा. ८.२.१) इत्यादिना सङ्कल्पजान् पित्रादीनभिधाय तेषामेव ‘त इमे सत्याः कामाः’ इति कामशब्देनाभिधानाभावात्, ‘एष आत्माऽपहतपाप्मा’ इत्यादिवाक्ये आत्मविशेषणत्वेनोक्तिं विना तेषां क्वचिदपि प्राधान्येनोक्त्यभावाच्च । पित्रादयश्च प्राक् ‘यच्चास्येहास्ति’ इति वाक्ये दहराकशाश्रितत्वेनोक्त्याः । अत एव समनन्तरप्रवृत्ताक्षेपवाक्ये ‘सर्वे च कामाः’ इति तेषां समाधानमुक्तमित्यनुवादः । तथा च तत्समाधानाधारत्वप्रत्यभिज्ञया ‘अस्मिन् कामास्समाहिताः’ इत्यत्रत्यस्यापि ‘अस्मिन्’ इति पदस्य दहराकाशपरत्वे सन्दंशन्यायेन मध्यगतयोरेतत्पदयोरपि तत्परत्वमपरिहार्यम् । न च नपुंसकलिङ्गविरोधः ; ‘व्यत्ययो बहुलम्’(पा.सू.३.१.८५) इति लिङ्गव्यत्ययोपपत्तेः । त्वयाऽपि द्यावापृथिव्यादिषु नपुंसकमेकवचनञ्च ‘नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्’(पा.सू.१.२.६९) इति विधिद्वयमपेक्ष्य समर्थनीयम् । तदपेक्षयैकविध्यपेक्षणमेव लघु । किञ्च नपुंसकनिर्वाहार्थं तावदपि नापेक्षणीयम् , नपुंसकलिङ्गं स्त्रीलिङ्गपुंल्लिङ्गानुगतं सामान्यम् , न तु विशेषान्तरमिति शाब्दिकैरङ्गीकृतत्वेन लिङ्गान्तरनिर्दिष्टे नपुंसकलिङ्गानुपपत्तिशङ्काऽनवकाशात् , ‘मुखनासिकावचनोऽनुनासिकः’(पा.सू.१.१.८) ‘द्विगुरेकवचनम्’(पा.सू.२.४.१) इत्यादौ स्त्रीलिङ्गपुंल्लिङ्गविशेषणयोर्नपुंसकलिङ्गदर्शनाच्च । अपि च ‘सुपां सुलुक्’(पा.सू.७.१.३९) इत्यादिसूत्रेण विभक्तेर्लुकि पुंल्लिङ्गेऽप्येतदित्येव रूपं भवति । तस्माद्द्वितीयाक्षेपसमाधाने श्रुत्यैव दहराकाशस्य ब्रह्मरूपतया विवृतत्वात् तावतापि दहराकाशः परमात्मेति सिद्ध्यति । तदनन्तरस्य ‘एष आत्मा’ इत्यादिसन्दर्भस्यान्यपरत्वशङ्कानवकाशात्तद्गतश्रुतिलिङ्गैरपि प्रागुदाहृतैस्तथा सिद्ध्यतीत्यनवद्यम् । स्यादेतत् – ‘दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तसन्वेष्टव्यम्’ इत्यादित्यमण्डलादिवदुपास्याधारत्वेनोपन्यस्ते दहराकाशे वाक्यशेषगतानामुपास्यगुणानामन्वयो न युक्त इति चेत् ; किं कुर्मः ‘उभे अस्मिन्’ इत्यारभ्य ‘एष आत्मा’ इत्यन्तेषु वाक्येषु श्रुतानामिदमेतच्छब्दानां दहराकाशपरत्वात् तेषां तदनन्वयः परिहर्तुं न शक्यत इत्युक्तम् । ननु ‘यावान्वा’ इत्यादिवाक्यं यावानयम् बाह्याकाशोऽस्ति, तावात् सर्वोऽप्यन्तर्हृदय आकाशे दहराकाशे वर्तत इत्येवमर्थतया पृष्टदहराकाशान्तर्वर्त्युपास्यविशेषनिर्धारणपरमस्तु । तत्र द्वितीयाकाशशब्दस्य सप्तम्यन्तत्वाश्रयणेन पृष्टाकांक्षितार्थनिर्धारणार्थत्वे सम्भवति तस्य प्रथमान्तत्वाश्रयणेन तदनाकांक्षितार्थपरत्वकल्पनानौचित्यात् । तथा च तस्यैव दहराकाशान्तरुपास्यतया विहितस्य व्यापकाकाशस्याग्र्तनैरिदमेतच्चब्दैः परामर्शः सम्भवतीति चेत् ; मैवम् ; आकाशस्य दहरपुण्डरीके तदवच्छिन्नतया सूक्ष्मत्वेनावस्थितस्य स्वोपरिव्यापकत्वेनाप्यवस्थानायोगात् , ‘तावनेषोऽन्तर्हृदय आकाशः’ इत्यस्य द्वितीयाकाशशब्दविशेषणतया तदनुरोधेन तस्यापि प्रथमान्तत्वनिश्चयाच्च । न ह्येष इतिशब्दः प्रथमा(न्ता)काशशब्दस्य विशेषणम् ; तत्रायमिति विशेषणस्य सत्त्वेन तत्पौनरुक्त्यापत्तेः । एतेन – यत् केचन दहराकाशो भूताकाशः तदन्तर्वर्त्युपास्यं ब्रह्मेति मन्यमानाः ‘यावान्बा’ इत्यादिसन्दर्भं योजयन्ति – तदपि निरस्तम् । ते खल्वेवमाहुः – शरीरपुण्डरीकयोर्ब्रह्म इति पुरत्ववेश्मत्वोक्त्यैव सरीरान्तर्वर्तिनि पुण्डरीके ब्रह्मोपासना विधित्सितेत्यवद्गमात् ‘तस्मिन्यदन्तस्तदन्वेष्टव्यम्’ इत्येतावतैव हृत्पुण्डरीकस्थदहराकाशगतं ब्रह्मोपास्यमिति निर्धारितम् । अतः ‘किं तदत्र विद्यते’ इति प्रश्नः किंप्रकारं ब्रह्म तत्र वर्तत इति प्रकारमात्रविषयः । तत्प्रकारनिरूपणं ‘यावान्वा’ इत्यादि । यावानयमाकाशस्तावान् सर्वोऽप्यन्वेष्टव्यस्य ब्रह्मणोऽन्तर्हृदये वर्तते द्यावापृथिव्यादिकञ्चास्मिन् समाहितमित्याकाशादिसर्वाश्रयत्वमन्वेष्तव्यस्य ब्रह्मणः प्रकार इति तेनोक्तं भवति । यदि त्वन्यपुरवेश्मनोरन्यावस्थानसम्भवात् ब्रह्मपुरत्वाद्युपक्रममात्रेण ब्रह्मोपासनाविधित्सा नावगम्यते , तदा ‘किन्तदत्र विद्यते’ इति दहराकाशान्तर्वर्त्युपास्यस्वरूपप्रश्नः । तस्योत्तरं ‘अन्तर्हृदय आकासः’ इति ; अन्तर्हृदयशब्दोक्ते दहराकाशे आकाशो ब्रह्म वर्तत इति तस्यार्थः । ‘तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयम्’ इत्यत्रैव प्रकरणे हृदयनिमित्तकत्वेन निरुक्तस्य हृदयशब्दस्य हृदयवर्तिनि दहराकाशे वृत्त्युपपत्तेः , आकाशशब्दस्य ‘तल्लिङ्गात्’ इति न्यायेन ब्रह्मणि वृत्त्युपपत्तेश्च । ‘यावान्वा अयमाकाशस्तावानेषु’ इति तु वाक्यान्तरम् । तेन ब्रह्मनो भूताकाशवद्व्यापकत्वमुच्यते, अग्रेतनवाक्यैर्ब्रह्मणि द्यावापृथिव्यादीनां समाधानमुच्यत इति । अत्राद्यपक्षे ‘एष’ इति ‘आकाश’ इति च पुनरुक्तमिति स्पश्तमेव । ‘किन्तदत्र वर्तते’ इति आश्रयाश्रयिणोः वैयधिकरण्येन निर्देशवतः प्रश्नस्य ‘उभे अस्मिन्’ इत्यादि तादृशमेवोत्तरमिति वक्तुं शक्ये तत्र वर्तमानं ब्रह्म किम्प्रकारमिति प्रश्नस्यार्थः ब्रह्मणोऽन्तर्हृदये आकाशो वर्तत इत्यादि तदुत्तरमिति क्लिष्टकल्पनमपि न युक्तम् । द्वितीयपक्षे दहराकाशे किं वर्तत इति प्रश्नस्याकाशो वर्तत इत्येतावत्युत्तरे वक्तव्ये ‘अन्तर्हृदये’ इति शब्दान्तरेण दहराकाशस्य तत्र प्रतिनिर्देश इति कल्पनं क्लिष्टम् । न च हृदयसब्दो हृदि वर्तमाने सर्वत्र निरुक्तह् ; किन्त्वात्मन्येव । ‘स वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयम्’ इति श्रवणात् । वाक्यभेददोषश्चात्र स्पष्टः । तस्मात् ‘यावान्वा’ इत्यादि दहराकाशस्य भूताकाशवद्व्यापकत्वप्रतिपादनपरमित्येव युक्तम् । न च तदनाकाङ्क्षितार्थप्रतिपादनम् ; तस्यैवाकाङ्क्षितत्वात् । तथा हि ‘तञ्चेत् ब्रूयुः’ इत्याक्षेपावतारो , न तु प्रश्नावतारः । प्रश्ने ‘किन्तदत्र वर्तते’ इत्येतावत एव वक्तव्यत्वेन ‘यदिदमस्मिन् ब्रह्मपुरे’ इत्याद्यनुवादवैयर्थ्यात् , आक्षेप एव देहान्तर्गतं पुण्डरीकमेव तावदत्यल्पं , ततोऽत्यन्तमल्पीयान् तदन्तर्गताकाशः पुण्डरीकस्य दहरत्वोक्त्यैव तदन्तर्गताकाशस्य दहरत्वे सिद्धे सूचीरन्ध्रवदतिसूक्ष्मसुषिररूपत्वद्योतनाय हि पुनस्तस्य दहरत्वोक्तिः । तत्र किं सम्भाव्यते यदन्वेष्तव्यमुपदिश्यत इति तदन्तर्वर्त्यसम्भवस्फोरणार्थतया सार्थकत्वात् । एवमाक्षेपे तदन्तर्वर्तिसम्भावनाय प्रथमं तदुपयोगिवैपुल्यप्रतिपादनमेवाकाङ्क्षितम् । न च तथापि ब्रह्मणि गौणेनाकाशशब्देनैव तस्य भूताकाशवद्व्यापकत्वमवगतमिति तत्प्रतिपादनं नाकाङ्क्षितमिति वाच्यम् । न हि ‘दहरोऽस्मिन्नन्तराकाशः’ इत्युक्तिमात्रेणाकासशब्दोदितं भूताकाशवद्व्यापकं ब्रह्मेति श्रोतृभिरवगतम् ; आकासशब्दरूढ्या झटिति भूताकाशस्यैव प्रतीतेः । किन्तु यथा उपकोसलविद्यायां ‘कं ब्रह्म खं ब्रह्म’(छा.४.१०.५) इत्युपदिष्टे वैषयिकसुखं पञ्चमभूतञ्च ब्रह्मेत्येतन्न विजानामीत्युपकोसलस्य प्रश्नानन्तरं ‘यद्वाव कम्’(छा.४.१०.५) इत्याचार्यवाक्येन क ख शब्दोदितमपरिच्छिन्नसुखात्मकं ब्रह्मेति तेनावगतमेवमिहापि द्वितीयाक्षेपस्याप्यनन्तरं ‘एतत् सत्यं ब्रह्मपुरम्’ इत्याचार्योक्त्या दहराकाशो ब्रह्मेति तैरवगंस्यते । ‘यावान्वा’ इत्यादेः प्रथाक्षेपसमाधानरूपायाः आचार्योक्तेरान्तरस्यापि भूताकाशस्य वक्ष्यमाणमानसपदार्थसमाधानानुकूलं मानसं बाह्यभूताकाशवद्व्यापकत्वमस्तीत्येतत्परत्वेनाप्युपपन्नतया ततोपि तथावगत्यसम्भवात् । दहराकाशे समाधानान्यथानुपपत्त्या वक्ष्यमाणपदार्थानां मानसत्वस्य च्छान्दोग्यभाष्ये समर्थितत्वात् । अथवा श्रीमद्भाष्यरीत्या ततोपि दहराकाशो ब्रह्मेत्यवगतिस्तु । तस्यैवमभिप्रायः – वक्ष्यमाणा द्यावापृथिव्यादयह् पदार्था न केवलम् मानसाः , किन्तु बाह्या अपि सन्ति । उपासकस्य ब्रह्मलोकं प्राप्तस्याशरीरत्वावस्थायां ये सङ्कल्पजास्त एव स्वाप्नवन्मानसाः । सशरीरत्वावस्थायां सङ्कल्पजास्तु जाग्रद्भोगप्रदपदार्थवत् बाह्या इत्यस्यार्थस्य ‘अभावं बादरिः’(ब्र.सू.४.४.१०) इत्यधिकरणे ‘तन्वभावे सन्ध्यवदुपपत्तेः’(ब्र.सू.४.४.१३) ‘भावे जाग्रद्वत्’(ब्र.सू.४.४.१४) इति सूत्राभ्यां व्यवस्थापयिष्यमाणत्वात् । न च द्यावापृथिव्यादिपदानामसङ्कोचेनोपासकप्रेप्सितसर्वविधस्वार्थपरत्वे सम्भवति मानसमात्रपरत्वेन सङ्कोचकल्पनं युक्तम् । एवञ्च बाह्यपदार्थानां मानसवैपुल्यवत्यपि हृदयाकाशे समाधानासम्भवात् ‘यावान्वा’ इत्यादिहृदयावच्छिन्नस्यैव भूताकाशस्य बाह्यभूताकाशवद्व्यापकत्वं व्यावहारिकसूक्ष्मत्वाविरोधि स्वाप्नवन्मानसं प्रदर्शयितुं प्रवृत्तं न भवति , किन्तु तस्य हृदयावच्छिन्नरूपेण सूक्ष्मत्वेऽपि स्वरूपेण व्यापकत्वमस्ति , तथा च हृदयावच्छेदेन तदन्तर्वर्त्यसम्भवेऽपि स्वरूपेण तदन्तर्वर्तिसम्भवेन तदभिप्रायेणैव तस्मिन्यदन्तरित्युक्तमिति प्रदर्शयितुम् । स्वरूपेण व्यापकत्वप्रतिपादनञ्च ‘यावान्वा अयमाकाशः’ इत्युपमाननिर्देशपूर्वकमेतदनन्वयविधयोपमाविधया वा भूताकाशे न सङ्गच्छते । सङ्गच्छते तु ब्रह्मण्युपमाविधया ; यथाऽयं भूताकाशो व्यापकस्तथा यस्यान्तर्वर्त्यन्वेष्टव्यमुक्तं , एष हृदयाकाशो व्यापक एव , सौक्ष्म्यं तु हृदयावच्छेदकृतमुक्तम् , न स्वाभाविकमिति । न च – ब्रह्मण्यपि न सङ्गच्छते , उद्देश्यतावच्छेदकविधेययोरैयापत्तेरिति वाच्यम् । एतद्वाक्यार्थबोधदशायामाकाशशब्दो ब्रह्मणि गौण इत्यनवगतत्वात्तदनन्तरमेतद्वाक्यप्रतिपादितभूताकाशसादृश्यलिङ्गेन भूताकाशे अनुपपन्नेन दहराकाशो ब्रह्मेति निश्चये सति तत्र तस्य गौणतया अवगन्तव्यत्वात् । एवञ्च यथा ‘दहेदयं ग्राममशेषमेव क्षणात् प्रभूतोग्निरिवाणुरग्निः’ इत्युक्तौ परस्परव्यावर्तकविशेषणोपादनेनानन्वयस्य सूक्ष्मावस्थास्याग्नेरशेषग्रामदग्धृत्वायोगेनाभिन्नोपमायाश्चासम्भवादेतद्वाक्यप्रतिपादिताग्निसादृश्यलिङ्गेन तद्व्यतिरिक्तः क्षुद्रपुरुषः कश्चिदिहाणुरग्निरिति निश्चये सति तत्राग्निशब्दस्य गौणवृत्तौ वस्तुतः क्षुद्रपुरुषगतग्रामानिष्टकारित्वाभेदेनाध्यवसितस्य दग्धृत्वस्य निमितत्वेऽपि नोद्देश्यतावच्छेदकविधेयैक्येनासामञ्जस्यम् , एवमिहापि नासामञ्जस्यं किञ्चिदिति । एवञ्चास्मिन् पक्षे भूताकाशोपमेयत्वलिङ्गेन दहराकाशो ब्रह्मेति श्रोतॄणामवगतिसत्त्वेऽपि तस्य गौणाकाशपदविषयत्वलिङ्गेन भूताकाशतुल्यत्वावगमात्तद्वदेव सोऽपि केवलमवकाशात्मनाऽवतिष्ठेत न स्वयं धारकः स्यादिति द्वितीयाक्षेपस्य प्रथमाभिप्रायो वर्णनीयः । नन्वेवं दहराकाशो ब्रह्मेति निर्धारणे ‘दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्तव्यम्’ इति कथमुपपद्यते काऽत्रानुपपत्तिः उपपद्यत एव हि दहराकाशरूपे ब्रह्मणि समाहितत्वेन वक्ष्यमाणद्यावापृथिव्यादिसङ्कल्पजपित्राद्यन्तमुपासकप्रेप्सितभोगस्थानभोगोपकरणभोग्यजातरूपं तत्क्रतुन्यायेनोपासनीयमिति । अथ किं तदाश्रयस्य ब्रह्मणो नास्त्युपासनाविधिः अस्त्येवाक्षिप्तः पृष्ठगतसर्वताविध्याक्षिप्त इव पृष्ठविधिः । न हि ब्रह्मानुपासीनस्तदाश्रितत्वेनान्यदुपासितुं शक्नोति । तर्हि प्राधान्येन ब्रह्मणि समाहितमेवोपास्यं स्यान्न ब्रह्मेति चेत् ब्रह्मापि प्राधान्येनोपास्यमेव ; ‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेषु कामचारो भवति’ इत्युपसंहारगतफलवाक्ये प्राधान्येन ब्रह्मोपासनाया अप्यनुवाददर्शनेनोपक्रमगतस्योपासनाविधेस्तत्रापि तात्पर्यवर्णनौचित्यात् । उक्तञ्च भाष्ये ‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान्’(छा.८.१.६) इति समुच्चयार्थेन चशब्देन आत्मानञ्च कामाधारमाश्रितांश्च कामान्विज्ञेयान् वाक्यशेषो दर्शयति । तस्माद्वाक्योपक्रमेऽपि दहर एवाकाशो हृदयपुण्डरीकाधिष्ठानस्सहान्तस्समाहितैः पृथिव्यादिभिस्सत्यैश्च कामैर्विज्ञेय इति गम्यते’ इति । तस्यायमाशयः – ‘तस्मिन्यदन्तः’ इत्यादेर्दहराकाशरूपब्रह्मान्तस्समाहितद्यावापृथिव्यादिमात्रोपासनाविधायकत्वे उदाहृतवाक्यशेषः कथमुपपादनीयः न ह्यप्राप्तं गुण्युपासनं फलसम्बन्धविधानायानुवदितुं शक्यम् । नापि प्राप्तं गुणोपासनं विधातुं शक्यम् । गुण्यंशे फलसम्बन्धविशिष्टोपासनाविधिः गुणांशे फलसम्बन्धमात्रविधिरिति कल्पने वैरूप्यम् । तस्मादन्यत्रोपसंहारस्योपक्रमाद्दुर्बलत्वेप्यत्रानन्यथासिद्धः उपसंहारस्ततः प्रबलः ; दहराकाशान्वय्यपहतपाप्मत्वाद्यनेकोपास्यगुणभरितत्वाच्च । अतस्तदनुसारेण ‘तदन्वेष्टव्यम्’ इति उपासनाविधिवाक्ये स इत्यध्याहरणीयम् । तथा च तत् दहराकाशान्तर्वर्ति स च दहराकाशश्चान्वेष्टव्यमित्युक्तं भवति । अन्वेष्टव्यमिति च नपुंसकशेषैकवद्भावाभ्यामुपासनाविधायकं कार्यम् । केचित् – तस्मिन्यदन्तरित्यत्र य इत्याध्याहृत्य यो दहराकाशो यच्च तदन्तर्वर्ति तदन्वेष्टव्यमिति तत्पदं नपुंसकशेषैकवद्भावाभ्यामुभयपरं वर्णयन्ति । आचार्यवाचस्पतिमिश्रास्तु उदाहृतभाष्यभाववर्ननसमये प्रकाराण्तरं प्रत्यपादयन् – ‘तदनेन क्रमेण तस्मिन्यदन्तरित्यत्र तच्छब्दोऽनन्तरमप्याकाशमतिलंघ्य हृत्पुण्डरीकं परामृशतीत्युक्तं भवति ; तस्मिन् हृत्पुण्डरीके यदन्तराकाशं तदन्वेष्टव्यमित्यर्थः’ इति । नन्विदमनुपपन्नं तस्मिन्नित्यस्याव्यवहिते दहराकाशे स्थिते व्यवहितपुण्डरीकपरामर्शित्वकल्पनायोगात् । दहराकाशस्य हृत्पुण्डरीकस्थतायाः दहरोस्मिन्नन्तराकास इत्युक्ततया पुनस्तत्कीर्तनवैयर्थ्याच्च । तञ्चेत् ब्रूयुरित्यादिवाक्ये दहरोस्मिन्नन्तराकाश इति स्वयमप्यनूद्य पुनः किन्तदत्र वर्तत इत्याक्षेपस्यानवकाशाच्च । यत्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यं किन्तदत्रेति नपुंसकलिङ्गानां प्राक् पुल्लिङ्गनिर्दिष्टे दहराकाशे अनन्वयाच्च इति चेत् – उच्यते – सर्वनाम्नामव्यवहितपरत्वसम्भवे व्यवहितपरत्वं न कल्पनीयम् । तदसम्भवे तु कल्पनीयमेव । अत एव साकमेधीये ‘एतद्ब्राह्मन एककपालो यद्ब्राह्मण इतरः’ इति वाक्ये श्रुतमेतत्पदं सन्निहितस्य वारुणप्रघासिकैककपालब्राह्मणस्य परामर्शसम्भवात् तस्यैव परामर्शकम् , न तु व्यवहितस्य वैश्वदैविकैकपालब्राह्मणस्येति सप्तमे वर्णितम् । ‘तस्य द्वादशतं दक्षिणा’ इत्यत्र तस्येति पदमव्यवहितेषु माषेषु वृत्त्यसम्भवाद्व्यवहितगोद्रव्ये वर्तत इत्यङ्गीकृतं दसमे । तस्मिन्यदन्तरित्यत्र यत्पदं वक्ष्यमाणद्यावापृथिव्यादिसकलविशेषणविशिष्टदहराकाशपरम् , अन्यथा दहराकाशविशेषणानां मध्ये क्वचित् ‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान्’ इति फलवाक्ये सत्यकामशब्दोदितानां सङ्कल्पजपित्रादीनां विशिष्य ग्रहणादन्यत्र ‘तद्य एवैतावरञ्च ण्यञ्चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो भवति’(छा.८.५.४) इति फलवाक्ये ब्राह्मलौकिकयोररण्यशब्दवाच्यतोरर्णवयोर्विशिष्यग्रहणात्तेषां विशिष्यग्रहणस्येतरपरिसंख्यार्थत्वादितराणि द्यावापृथिव्यादीन्यपहतपाप्मत्वादीनि च केवलं स्तुत्यर्थं वर्णितानि , न तूपास्यकोटिप्रविष्टानीति सङ्कया तेषामुपासना न सिध्येत् । अतस्तावद्विशेषणविशिष्टस्य दहराकाशस्योपासनानुप्रवेशसिद्धये ‘तस्मिन्यदन्तः’ इति पुनः कीर्तनमिति न तद्वैयर्थ्यम् । अत एव ‘किन्तदत्र विद्यते’ इत्यप्युपपद्यते । तस्य दहराकाशे किं विशेष(ण)जातं वर्तत इत्येतत्परत्वात् । नपुंसकानुपपत्तिसङ्का तु प्रागेव दत्तोत्तरा । तस्मादयमपि प्रकारो युक्त एव । एवञ्च यद्यपि दहराकाश उपास्यं ब्रह्मेत्यङ्गीकृत्य वर्णितेऽस्मिन् प्रकारत्रयेऽपि ‘तस्मिन्यदन्तस्तदन्वेष्तव्यम्’ इत्यत्र अध्याहारादिरूपः कियान् क्लेशोऽस्ति , तथापि तदन्तर्वर्त्युपास्यं ब्रह्मेत्यङ्गीकृत्य कैश्चित्प्रदर्शिते प्रकारद्वये शिष्यवचने प्रश्नत्वाङ्गीकारादनुवादवैयर्थ्यमित्यादयो दोषाः , आचार्यवचने ‘एष आकाशः’ इति पदवैयर्थ्यमित्यादयो दोषाः । एवं वाक्यद्वयेप्यचिकित्स्या बहवो दोषाः प्रादुष्ष्युरिति विशेषो विद्वद्भिरनुसन्धेयः । वस्तुतस्तु – दहराकाशः उपास्यं ब्रह्मेत्यस्मिन् पक्षे ‘तस्मिन्यदन्तस्तदन्वेष्टव्यम्’ इत्यत्र नाध्याहारव्यवहितयोजनादिक्लेशोऽपेक्षणीयः । न हीदमुपासनाविधिवाक्यम् , किन्तूपास्ये ब्रह्मणि यत् गुनजातमुपासनीयमस्ति तद्विचाररूपे तदन्वेषणे उपासनाविध्यर्थाक्षिप्ते विधिसरूपं वाक्यम् । ‘तद्वाव विजिज्ञासितव्यम्’ इत्यप्युपासनाफलरूपे तत्साक्षात्कारे विधिसरूपं वाक्यम् । अत एव छान्दोग्यभाष्यम् – ‘तस्मिन्नाकाशाख्ये ब्रह्मणि यदन्तर्मध्ये तद्वाव तदेव विशेषेण जिज्ञासितव्यं ज्ञातुमेष्टव्यं गुर्वाश्रयणाद्युपायैरन्विष्य साक्षात्करणीयमित्यर्थः’ इति । ‘अथ य इहात्मानम्’ इत्यादि फलवाक्यमेव गुणगुणिविशेषयोरुपासनास्वरूपस्यापि विधायकम् । इदन्तु विधिसरूपं वाक्यद्वयं ब्रह्मान्तर्वर्त्युपासनाविधित्सावगमकं तदर्थवादरूपम् । न च विधिना यावदन्वितं तत्सर्वमर्थवादेपि योजनीयमिति नियमः । द्रव्यदेवताविशिष्टयागविध्यर्थवादानां केवलद्रव्यविषयाणां ‘स आत्मनो वपामुदक्खिदत्तामग्नौ प्रागृह्णातत्ततोऽजस्तूपरस्समभवत्’ इत्यादीनां , केवलदेवताविषयाणां ‘अग्निं वा एतस्य शरीरं गच्छति सोमं रसः’ इत्यादीनाञ्च तत्तद्द्रव्यदेवतासम्बन्धिकर्मविधित्सावगत्मकानांबहुलमुपलम्भात् । न च गुनप्रधानतया विध्यन्वितयोः प्रधानविषय एवार्थवाद इति नियमः । द्रव्यप्राधान्यवादिनां कर्ममीमांसकानां देवताविषयार्थावादे, देवताप्राधान्यवदिनां ब्रह्ममीमांसकानां द्रव्यविषयार्थवादे च व्यभिचारात् , इह गुणिनो गुणानाञ्च समप्राधान्येनोपास्यत्वाच्च । तस्माद्वाक्यशेषानुसारेणोपक्रमेऽपि दहराकाशस्योपासनाऽवगम्यत इति । यदुक्तं श्रीमद्भाष्ये , तत् ‘तस्मिन्यदन्तस्तदन्वेष्तव्यम्’ इत्यत्र उपासनाविधिं तस्य विधिसरूपार्थवादत्वेऽपि दहराकाशोपासनाविध्यर्थवादस्य दहराकाशविषयत्वनियमं वाङ्गीकृत्य तद्वाक्यं दहराकाशस्याप्युपासनाविधायकतया, तत्साधारणविचारविधिसरूपार्थवादतया वा योजयितुं सक्यमिति प्रौढिमवलम्ब्योक्तम् । भाष्याभिप्रेततद्योजनाप्रकार एवाध्याहारव्यवहितयोजनादिरूपः प्रदर्शितो व्याख्यातृभिरिति सर्वमनवद्यम् । तस्माद्वाक्यशेषानुसारेणोपक्रमेऽपि दहराकाशस्योपासनाऽवगम्यत इति । यदुक्तं श्रीमद्भाष्ये , तत् ‘तस्मिन्यदन्तस्तदन्वेष्टव्यम्’ इत्यत्र उपासनाविधिं तस्य विधिसरूपार्थवादत्वेऽपि दहराकाशोपासनाविध्यर्थवादस्य दहराकाशविषयत्वनियमं वाङ्गीकृत्य तद्वाक्यं दहराकाशस्याप्युपासनाविधायकतया , तत्साधारणविचारविधिसरूपार्थवादतया वा योजयितुं शक्यमिति प्रौढिमवलम्ब्योक्तम् । भाष्याभिप्रेततद्योजनाप्रकार एवाध्याहारव्यवहितयोजनादिरूपः प्रदर्शितो व्याख्यातृभिरिति सर्वमनवद्यम् । तस्माद्वाक्यशेशगतश्रुतिलिङ्गानां दहराकाशेऽन्वयो न तदन्तर्वर्तिनीति दहराकाश एवोपास्यं ब्रह्म । यत्तु – तस्य भूताकासत्वेऽपि ब्रह्मात्मश्रुतिस्तत्र यौगिकतया स्तावकतया वोपपद्यते ।आकाशसादृस्यापहतपाप्मत्वादयश्च तेन तेन प्रकारेणोपपद्यन्ते इति अत्र ब्रूमः – आकाशसादृश्यप्रतिपादनं तावद्वैपुल्यपर्यवसाय्येव प्रथमाक्षेपस्योत्तरं भवेत् । तात्पर्यवसानं तु भूताकाशविषयतायां नोपपद्यत इति श्रीमद्भाष्योक्तरीत्या समर्थितम् प्राक् । ‘एतत्सत्यं ब्रह्मपुरम्’ इत्येतच्च वस्तुतो दहराकाशस्य ब्रह्मरूपतापरत्व एव द्वितीयाक्षेपस्योत्तरं भवेदित्यपि समर्थितम् । अपहतपाप्मत्वं द्वेधा सम्भवति – ‘दह्रं विपाप्मम्’ इति श्रुताचेतनासाधारणान्यदीयपाप्मस्पर्शविरोधित्वरूपं आदित्यमण्डलान्तर्वर्तिनः परमपुरुषस्य उदितिनाम्नि प्रवृत्तिनिमित्ततया ‘तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदितः’(छा.१.६.७) इति श्रुतसर्वपाप्मराहित्यरूपं वा । अत्र द्वितीयमेव ग्राह्यम् ; ‘नैनं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः’(छा.८.४.१) इत्यत्रैव प्रकरणे श्रवणात् । अत्र हि दहराकाशस्य लोकसिद्धपाप्महेतुसम्भवेऽपि पाप्मनस्तमप्राप्यैव निवर्तन्ते , यतोऽयं पाप्मरहितत्वभावः । न हि रूपरहितत्वभावे वायावग्निसंयोगसहस्रापि घटादाविव रक्तिमादिकमाधातुं शक्नोतीत्ययमर्थ उच्यते । अन्यदीयपाप्मस्पर्शविरोधित्वादेनं पाप्मनो न स्पृशन्ति इत्ययमर्थ उच्यतामिति चेत् ; न । सामान्यतो विशेषतो वा तथा नियमाभावात् । अन्यदीयरोगनिवर्तकानामपि स्वयमुत्कटपापादीनामनिवर्त्यरोगवतां भिषजां , यष्टृदातृगतपाप्मस्पर्शविरोधिनां स्वयं पापमार्जयतां याजकप्रतिग्रहीतॄणाञ्च दर्शनात् । तस्मादपहतपाप्मत्वमपि फलतस्सम्भूततद्धेतुकाया वर्ण्यमानेन पापास्पृश्यत्वेन प्रसक्तप्रतिषेधरूपं न भूताकाशे सम्भवति । न चाप्रसक्तप्रतिषेधतैवास्तु ; सिद्धान्ते विजरत्वादीनां तथात्वाभ्युपगमावश्यम्भावादिति वाच्यम् । ‘अपहतपाप्मा’ इत्यतः पाप्मशब्दलक्ष्याणां पाप्महेतुकजरादीनामभावसिद्धावपि यथा ब्रह्मणि सुकृतहेतुक आनन्दस्तथा दुष्कृतहेतुकं जरादिकमस्त्वित्येवं जरादिप्रसक्तौ तदभावबोधनात् । हार्दे ब्रह्मणि अहरहर्गतिसत्त्वे यद्यपि हृदयावच्छिन्न आकाशेपि सा निवारयितुं न शक्या, तथाऽपि ब्रह्मणि ‘सता सोम्य’(छा.६.८.१) इत्यादिश्रुत्यन्तरप्रसिद्धा भूताकाशे युक्तिकल्पनीयायाश्शीघ्रं बुद्धिमारोहतीति ब्रह्मगतैवात्र ग्रहीतुं युक्ता । ब्रह्मलोकशब्दोऽत्र प्रकरणे क्वचित् सत्यलोकपरो दृष्टः ‘अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके’ इति । क्वचिद्ब्रह्मपरो दृष्टः ‘अपहतपाप्मा ह्येष ब्रह्मलोकः’ इति । तत्र गतिवाक्यस्थब्रह्मलोकशब्दस्य अहरहर्गतिलिङ्गविरोधेन सत्यलोकपरत्वासम्भवे परिशेषात् समानाधिकरणसमासलाभाच्च ब्रह्मपरत्वमेव भवति , न तु ब्रह्मोपलब्धिस्थानहृदयावच्छिन्नभूताकाशपरत्वम् । विधारकत्वमात्रं यद्यपि भूताकाशेऽपि श्रुतमस्ति श्रुत्यन्तरे, तथाप्यत्र विहारकत्वं सकलमर्यादाव्यवस्थापकत्वसहितं श्रुतम् । अयञ्च पारमैश्वर्यरूपो महिमा ब्रह्मण्येव श्रुत्यन्तरेषूपलब्धः ‘एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एषसेतुर्विधरण एषां लोकानामसम्भेदाय’(बृ.४.४.२२) ‘यस्सर्वज्ञस्सर्वविद्यस्यैष महिमा भुवि’(मु.२.२.७) इत्यादिषु । तस्मादेतैर्वाक्यशेषगतैः श्रुतिलिङ्गैर्दहराकाशो ब्रह्मेति निश्चीयते । उपक्रमगता या अभ्यस्ताया अप्येकस्याः श्रुतेर्वाक्यशेषगतबहुश्रुतिलिङ्गानां बलवत्त्वादत्र ब्रह्मश्रुत्याकाशोपमेयत्वलिङ्गादीनामनन्यथासिद्धत्वाच्च । अथोक्तस्सर्वोऽपि सिद्धान्तस्सूत्रारूढः क्रियते – दहराकाशो ब्रह्म , उत्तरेभ्यः पाश्चात्येभ्यो वाक्यशेषगतश्रुतिलिङ्गेभ्यः । तेषामुपसंहारगतत्वेऽपि ‘भूयसां स्यात्सधर्मत्वम्’(जै.सू.१२.२.२२) इति न्यायात् भूयस्त्वेन प्राबल्यं सूचयितुं बहुवचनम् । ननु दहराकाशान्तर्वर्तिद्यावापृथिव्यादिकमुक्तलिङ्गान्वयि, न तु दहराकाश इत्याशङ्कायामपि सूत्रमेवोत्तरम् – दहराकाशो वाक्यशेषगतश्रुतिलिङ्गान्वयी ; प्रथमद्वितीयाक्षेपोत्तरवाक्येभ्यः । यद्यपि प्रथमाक्षेपं प्रति ‘यावान्वा’ इत्यादि ‘समाहितम्’ इत्यन्तमेवोत्तरम् ; द्वितीयाक्षेपं प्रति च ‘नास्य जरयैतत्’ इत्यादि ‘समाहिता’ इत्यन्तमेकमेव उत्तरम् ; तथाऽपि तदन्तर्गतावान्तरवाक्यबाहुल्याभिप्रायं बहुवचनम् । द्वितीयाक्षेपाभिप्रायविषययावदवान्तरवाक्यार्थपर्यालोचने प्रथमद्वितीयाक्षेपोत्तरगतकामसमाधानाधारत्वप्रत्यभिज्ञापकवाक्यद्वयार्थपर्यालोचने च सत्येव हि द्वितीयाक्षेपतदुत्तरगतैतदिदंपदानां द्यावापृथिव्याद्याधारदहराकाशपरत्वनिश्चयात् ‘एष आत्मा’ इत्यग्रे तमेवानुकृष्य प्रवृत्तानां ब्रह्मश्रुतिलिङ्गानां तदन्वयो लभ्यते । ननूदाहृतोत्तरपर्यालोचनेनाक्षेपतदुत्तरगतान्येतदिदंपदानि न द्यावापृथिव्यादिपराणि , किन्तु तदाधारपराणीत्येतावल्लभ्यते । तदाधारस्तु दहराकाशो न भवति , अपि तु तदन्तर्वर्त्यन्वेष्टव्यं ब्रह्म । तथा च तदेवाक्षेपसमाधानगतैस्तैः पदैः परामर्शनीयं वाक्यशेषगतब्रह्मश्रुतिलिङ्गान्वयि इत्याशङ्कायामपि सूत्रमेवोत्तरम् – दहराकाशो द्यावापृहिव्यादिसमाधानाधारः; प्रथमाक्षेपोत्तरेभ्यः । अत्राप्यवान्तरवाक्याभिप्रायं बहुवचनम् । ‘यावान्वा’ इत्यादिवाक्ये द्वितीयाकाशपदस्य प्रथमान्तत्वं दहराकाशपरत्वञ्चावगत्य द्यावापृथिव्यादिवाक्येषु श्रुतस्यानुषक्तस्य च प्रकृतदहराकाशपरामर्शिनः ‘अस्मिन्’ इति पदस्य सद्भावञ्चावगत्य हि दहराकाशस्य द्यावापृथिव्याद्याधारत्वं निश्चेतव्यम् । एवञ्च सूत्रस्य द्वितीयतृतीययोजनयोर्विभक्तधनेषु भ्रातृषु विभक्तपदवदुत्तरावयववाक्येषूत्तरपदमुत्तरपदलोपेन द्रष्टव्यम् । यत्तु – ‘भूताकाशेऽपि वाक्यशेषगतब्रह्मश्रुतिलिङ्गानि योजयितुं शक्यानि । ‘यद्वै तद्ब्रह्मेतीदं वाव तत्’ इत्यादिदर्शनात् । अतस्तान्युपक्रमगताकाशश्रुत्यभ्यासानुसारेण तथैव योजनीयानि ; अन्यथासिद्धेषु भूयस्त्वन्यायाप्रवृत्तेः’ इत्युक्तं तत्रापि सूत्रमेवोत्तरं तत्र श्रीमद्भाष्यदर्शितया रीत्या समर्थितम् । भूताकाशोपमेयत्वलिङ्गं द्वितीयाक्षेपसमाधाननिर्वाहाय वृत्त्यन्तरासहिष्णुर्ब्रह्मश्रुतिश्चेत्युभयमाकाशश्रुत्यपेक्षया उत्तरं श्रेष्ठं वृत्त्यन्तरसहिष्णुत्वेनान्यथासिद्धाया आकाशश्रुतेरन्यथासिद्धत्वेन प्रबलमिति यावत् । अपहतपाप्मत्वादिकं उदः उदितिनाम्नः , तरं प्रवृत्तिनिमित्ततया प्राप्तं इति षष्ठीसमासे उत्तरम् । तरतिधातुः ‘नैनं सेतुमहोरात्रे तरतः’ इति ‘एतं सेतुं तीर्वा’ इति च श्रुतौ दहराकाशप्रकरण एव प्राप्त्यर्थे प्रयुक्तः । एवञ्च श्रेष्ठवाचकयोरुत्तरोत्तरशब्दयोरुन्नामप्रवृत्तिनिमित्तवाचकस्योत्तरशब्दस्य च ‘नपुंसकमनपुंसकेन’(पा.सू.१.२.६९) इत्येकशेषो द्रष्टव्यः ॥१.३.१४॥ अथ गतिश्रवणब्रह्मलोकशब्दयोरन्यथासिद्धत्वशङ्कापरिहारार्थं सूत्रम् –
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गञ्च ॥१५॥ 【भाष्यम्】 पूर्वसूत्रक्रोडीकृतहेतूनां मध्ये प्रजानामहरहर्दहराकाशगतिं दहराकाशे ब्रह्मलोकशब्दञ्च ‘गतिशब्दाभ्याम्’ इत्यनूद्य ‘तथाहि दृष्टम्’ इत्यनेन ‘तदुभयं वाक्यान्तरे ब्रह्मणि दृष्टम्, न भूताकाशे इत्यतस्तदुभयमिह ब्रह्मगतमेव ग्राह्यम् ; वाक्यान्तरप्रसिद्धत्वात् , न भूताकाशगतम्; कल्पनीयत्वेन विलम्बितोपस्थितिकत्वात्’ इति दर्शितम् । ननु ब्रह्मलोकशब्दस्सत्यलोके वाक्यान्तरेषु स्मृतिपुराणादिषु च प्रसिद्धतरः ; प्रसिद्धतरषष्ठीसमासे च शब्दे नरपतिराजकुमारादिशब्द इव न निषास्थपतिन्यायावतारः ; इत्याशङ्कायां निषादस्थपतिन्यायानवतारेप्यहरहर्गतिः समानाधिकरणसमासपरिग्रहे लिङ्गमस्तीति लिङ्गमित्यनेनोक्तम् । ननु नेदं लिङ्गम् , ‘अहरहर्वा एवं वित्स्वर्गं लोकमेति’ इति वदहरहश्श्रवणस्यार्थवादत्वसम्भवात्, इति शङ्कायामहरहर्गमनं सदपि ब्रह्म प्रजा न विन्दन्तीति तदज्ञानोक्तेः ; तदज्ञानस्य ‘तद्यथा हिर्रण्यनिधि निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्दन्ति’(छा.८.३.२) इति ‘अनृतेन हि प्रत्यूढाः’(छा.८.३.२) इति च हेतुदृष्तान्ताभ्यामुपपादनाच्च नेदमर्थवादमात्रं , किन्तु लिङ्गमेवेत्यवधारणार्थेन चकारेण दर्शितम् । दृष्टान्तोऽप्यसिद्धः तत्राहरहःश्रवणस्य ‘एवंवित्’ इत्यनेनान्वयात् । अतोऽपि लिङ्गमेवेत्यपि तेन सूचितम् । सूत्रे दृष्टशब्दः ‘तथा चेतोऽर्पणानिगदात्तथाहि दर्शनम्’(ब्र.सू.१.१.२५) इति स्त्रे दर्शनशब्द इव भावप्रत्ययान्तः , न तु कर्मणि निष्ठान्तः । तथा च दृष्टशब्दस्य गतिशब्दौ प्रति विशेषणतया पुल्लिङ्गेन द्विवचनेन च भाव्यमिति शङ्काया नावकाशः । यत्तु भाष्ये ‘तथाह्यहरहर्जीवानां सुषुप्तावस्थायां ब्रह्मविषयं गमनं दृष्टम्’ इत्यादि गतेर्ब्रह्मणि दर्शनप्रदर्शकं वाक्यं , यच्च ‘तथा ब्रह्मलोकशब्दोऽपि’ इत्यादि ‘दृष्टः श्रुत्यन्तरे’ इत्याध्याहारेण पूरणीयं ‘ननु कमलासनलोकमपि’ इत्यादेस्सौत्रपदावतारिकातः प्राचीनं वाक्यं तत्रोभयत्रापि दृष्टशब्दस्य कर्मणि निष्ठान्ततया गतिशब्दविशेषणत्वेन निवेशनं फलितार्थप्रदर्शनपरम् ; न सौत्रदृष्टपदयोजनापरमिति न विरोधः । अस्तु वा कर्मणि निष्ठान्तः, तथापि न विरोधः विशेष्यस्य पुंल्लिगद्विवचनान्तनिर्दिष्टत्वेऽपि पाणिनीये ‘द्विगुरेकवचनम्’(पा.सू.२.४.१५) इति सूत्रे लिङ्गसामान्यविवक्षया पुंल्लिङ्गविशेषणे नपुंसकलिङ्गवत् , ‘कर्मणो रोमन्थतपोभ्यां वर्तिचरोः’(पा.सू.३.१.१५) इति सूत्रे विशेष्यद्वयगतप्रातिस्विकैकत्वविवक्षया द्विवचनान्तवेषणे एकवचनवच्चात्र विशेषणे नपुंसकस्य एकवचनस्य चोपपत्तेः ।१.३.१५। ननु विधारकत्वं भूताकाशेऽपि श्रुत्यन्तरप्रसिद्धमस्तीत्यधिकाशङ्कायां तस्य हेतुत्वोपपादनार्थं सूत्रम् –
धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥१६॥ 【भाष्यम्】 नात्र भूताकाशसाधारणं विधारकत्वमात्रं श्रूयते , किन्तु विधारणलक्षणः कोऽपि महिमा श्रूयते । लोकानामसम्भेदाय सेतुरिति विशेषणात् ननु तेन विशेषणेन यथा जलमध्ये निबद्धस्सेतुर्जलराशिद्वयस्यासङ्कराय भवति , एवमयमपि लोकबृन्दस्येत्येतावत् प्रतिपाद्यते । इदं भूताकाशसाधारणमेव । यदि हि लोकानामन्तराऽन्तराऽवकाशात्मको भूताकाशो न स्यात्, तदा तेषां सङ्करः स्यादेव , इति शङ्कापाकरणाय त्वर्थे चशब्दः । ‘सेतुर्विधृतिः’ इत्यादिना स्थावरजङ्गमात्मकसर्वलोकव्यवस्थिततत्स्वरूपस्वभावकृत्याद्यसङ्करापादकसर्वनियमनशक्तिमत्त्वरूपपारमेश्वर्याधीनव्इधारकत्वरूओ महिमा प्रतिपाद्यते । कुत एतदवगम्यते इह हि नास्ति सेतुत्वविधारणयोरैश्वर्याधीनत्वविशेषणम् ; इत्याशंक्योक्तं ‘अस्यास्मिन्नुपलब्धेः’ इति । अस्योक्तरूपस्य महिम्नोऽस्मिन् ब्रह्मणि ‘एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय’(बृ.४.४.२२) इति बृहदारण्यके दर्शनादित्यर्थः । अत्र हि सर्वेश्वरादिपदैर्निरतिशयैश्वर्यादिवर्णनं सेतुत्वविशेषितविधारकत्विपयोगितयैव ; ‘एतस्य वाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः......द्यावापृथिव्यौ विधृतौ तिष्ठतः...प्राच्योऽन्या नद्यस्स्यन्दन्ते प्रतीच्योऽन्याः’(बृ.३.८.९) इत्यक्षरब्राह्मणे दर्शनात् । स एवेह बृहदारण्यकोक्तः पारमैश्वर्याधीनेविधारकत्वरूपो महिमाऽत्र प्रतिपाद्यः प्रत्यभिज्ञायते। नन्वस्तु नामैवम् ; तथाऽपि नायं महिमा दहराकाशे वर्ण्यते । ‘अथ य आत्मा स सेतुर्विधृतिः’ इत्यथशब्देन दहराकाशप्रकरणविच्छेदात् , इत्याशङ्कायामपि ‘अस्यास्मिन्नुपलब्धेः’ इत्येवोत्तरम् ; अस्यमहिम्नोऽस्मिन्दहराकाश एवोपलब्धेः प्रकृतपरामर्शिनो यत्पदस्य दहराकाशे प्राक् प्रयुक्तस्यात्मशब्दस्य च विद्यमानतया सेतुत्वादिवर्णनस्य तदन्यविषयत्वयोगेनाथशब्दस्य पूर्वप्रकृतापेक्षार्थत्वकल्पनोपपत्तेः । तदर्थत्वकल्पनस्य च प्राङ्निर्दिष्टा निर्देक्ष्यमाणा गुणाः परस्परापेक्षया समुच्चित्योपास्या इति सूचनार्थत्वेन सफलत्वात् । अन्यथा ‘एतांश्च सत्यान् कामान्’ इत्यस्य गुणान्तरपरिसंख्यार्थत्वशङ्कया सर्वेषामुपास्यत्वासिद्धेः । एवं ‘अस्यास्मिन्नुपलब्धेः’ इति सूत्रखण्डस्य शङ्कान्तरोत्तरत्वेन द्वितीययोजना ‘कथम्’ इत्यादिना ‘निर्दिशति’ इत्यन्तेन विषयवाक्यावतारिकाभाष्येण सूचिता । तत्र ‘अनतिवृत्तप्रकरणम्’ इत्येननात्राथशब्दः प्रकरणविच्छेदको न भवतीति दर्शितम् । तत्र हेतू ‘दहरोऽस्मिन्नन्तराकाश इति हि प्रकृत्यास्मिन्नेव चात्मशब्दं प्रयुज्य’ इति विशेषणाभ्यां दर्शितौ । ‘आकाशौपम्यपूर्वकं तस्मिन् सर्वसमाधानमुक्त्वा अपहतपाप्मत्वादिगुणयोगं चोपदिश्य’ इति विशेषणाभ्यां निर्दिष्टगुणानुवादरूपाभ्यां पूर्वप्रकृतापेक्षार्थस्याथशब्दस्योक्तवक्ष्यमाणगुणानां परस्परापेक्षया समुच्चित्योपास्यत्वसिद्धिः फलमिति दर्शितम् । यद्यपि सूत्रे ‘महिम्नः’ इत्येतावदेवोक्तरूपविधारकत्वोपस्थापने पर्याप्तम् ; ‘यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि’(मु.२.२.७) इत्याथर्वणे पारमेश्वरगुणकलापे केवलस्य महिमशब्दस्य प्रयोगात्, अथापि हेतुविशेषस्फुटीकरणार्थं ‘धृतेः’ इति विशेषितम् । एवमस्य सूत्रद्वयस्य प्रथमसूत्रक्रोडीकृतहेतूनां मध्ये केषाञ्चिदहेतुत्वशङ्कानिराकरणार्थतया प्रथमसूत्रशेषत्वं ‘त एवोत्तरे हेतव इदानीं प्रपञ्च्यन्त’ इति पूर्वसूत्रावतारिकाभाष्येण दर्शितम् ॥१.३.१६॥ स्यादेतत् – भवतु नाम वाक्यशेषगतब्रह्मश्रुतिलिङ्गैर्ब्रह्मेह प्रतिपाद्यमिति , ब्रह्म तु दहराकाशो न भवति , कितु तदन्तर्वर्त्येव ; ‘तस्मिन्यदन्तः’ इत्यादिस्वारस्यात् , पूर्वसूत्रोदाहृतस्य ‘एष सर्वेश्वरः’ इत्यादेरधस्तने ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते सर्वेस्य वशी सर्वस्येशानः’(बृ.४.४.२२) इति वाक्ये ‘यस्यैष महिमा भुवि’ इत्यस्योपरितने ‘दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः’(मु.२.२.७) इति वाक्ये ‘यस्यैष महिमा भुवि’ इत्यस्योपरितने ‘दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः’(मु.२.२.७) इति वाक्ये च ब्रह्मणो हृदयाकाशान्तर्वर्तित्वप्रसिद्धेश्च । ततश्च तदनुसारात् ‘यावान्वा’ इत्यादिवाक्यस्य क्लिष्टयोजना न दोषायेत्याशंक्याह –
प्रसिद्धेश्च ॥१७॥ 【भाष्यम्】 ब्रह्मणो हृदयाकाशान्तर्वर्तित्वप्रसिद्धिवद्धृदयान्तर्वर्तित्वप्रसिद्धिरप्यस्त्येव ‘एष म आत्माऽन्तर्हृदये’(छा.३.१५.३) इत्यादिश्रुत्यन्तरेषु । किञ्चात्रापि वाक्यशेषे हृदयान्तर्वर्तित्वं श्रूयते । ‘स वा एष आत्मा हृदीति तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयम्’(छा.८.३.३) इति नामनिर्ववचनरूपेणार्थवादेन तात्पर्यविषयतया ज्ञाप्यते । एवञ्च ब्रह्मणो हृदयान्तर्वर्तित्वस्य , हृदयाकाशान्तर्वर्तित्वस्य च श्रुत्यन्तरप्रसिद्धितौल्यात् पक्षद्वयेऽपि प्रकृतविषयवाक्यस्य क्वचित्क्वचित् क्लिष्टयोजनावश्यम्भावे च सति ‘सन्दिग्धे तु (षु)वाक्यशेषात्’(जै.सू.१.४.२४) इति न्यायादर्थवादागमिततात्पर्येण वाक्यशेषेण दहराकाशो ब्रह्मेति निर्णीयते । अथापि तदन्तर्वर्ति ब्रह्म स्यात् यद्याकाशशब्दस्य क्वचिदपि ब्रह्मणि प्रसिद्धिर्न स्यात् । अस्ति तस्य तत्र प्रसिद्धिः ‘आकाश इति होवाच’(छा.१.९.१) इत्यादिश्रुत्यन्तरेषु । किञ्च माभूदन्यत्र तत्र तस्य प्रसिद्धिः , इहैवाकाशशब्दोक्तं ब्रह्मेति निर्णेतुं शक्यम् ; तदन्तर्वर्ति ब्रह्मेत्यभ्युपगमे वाक्ययोजनाक्लेशातिशयसद्भावात् । सूत्रे ‘प्रसिद्धेः’ इत्यस्य ब्रह्मणो हृदयान्तर्वर्तित्वप्रसिद्धेरित्येकोऽर्थः । तत्र चकारो वाक्यशेषसमुच्चयार्थः । ब्रह्मण्याकाशशब्दप्रसिद्धेरिति द्वितीयोऽर्थः । तत्र चकारः पूर्वपक्षे वाक्ययोजनाक्लेशातिशयस्य समुच्चयार्थः ॥१.३.१७॥ स्यादेतत् – माभूद्दहरो भूताकाशः , जीवस्तु स्यात्; ‘अथ य एष सम्प्रसादोऽस्माञ्छरीरात् समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाच’(छा.८.२.४) इति वाक्यशेषे जीवपरामर्शात् । सम्प्रसादशब्दस्सुषुप्त्यवस्थावाचकस्तद्वति जीवे वर्तितुं शक्नोति , न ब्रह्मणि । शरीरात् समुत्थानञ्च तदाश्रयस्य जीवस्यैवोपपद्यते । ब्रह्मप्राप्त्या स्वरूपाविर्भावश्च तस्यैवोपपद्यत इत्याशङ्कामुद्भाव्यापहतपाप्मत्वाद्यसम्भवान्मैवमिति परिहरति –
इतरपरामर्शात् स इति चेन्नासम्भवात् ॥१८॥ 【भाष्यम्】 यद्यपि अपहतपाप्मत्वाद्यसम्भवो जीवे स्पष्ट एव ; तथापि तत्सम्भवशङ्कां काञ्चिन्निराकर्तुमुपोद्घातरूपमिदं सूत्रम् ॥१.३.१८॥ तामेव शङ्कामुद्घाट्य निराकरोति –
उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥१९॥ 【भाष्यम्】 जीवस्याप्यपहतपाप्मत्वादिगुणान् दहरवाक्यादुत्तरस्मात् ‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्स विजिज्ञासितव्यस्स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति’(छा.८.६.१) इति प्रजापतिवाक्यादवगच्छामः । न च तदपि ब्रह्मविषयम् ; तदुपरि ‘य एषोऽक्षणि पुरुषो दृश्यत एष आत्मा’(छा.८.६.४) इति ‘य एष स्वप्ने महीयमानश्चरत्येष आत्मा’(छा. ८.१०.१) इति च जागरितस्वप्नसुषुप्त्यवस्थावर्णनेन , ‘एवमेवैष सम्प्रसादोऽस्माच्छरीरासमुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः’(छा.८.१२.३) इति श्रवणेन च तस्य जीवविषयत्वनिश्चयात् । ननु तत्र ‘स्वेन रूपेणाभिनिष्पद्यते’ इति जीवस्योपासनाविशेषरूपसाधनसाध्यापहतपाप्मत्वादिस्वरूपाविर्भाव उच्यते , दहरवाक्ये तु साधनाधीनं पापध्वंसादिमत्त्वरूपमपहतपाप्मत्वादिकं न ग्राह्यम् ; किन्तु पापात्यन्ताभाववत्त्वरूपम् ; ‘नैतं सेतुमहोरात्रे तरतः’(छा.८.४.१) इत्यादिदहरवाक्यशेषे पाप्मनामप्राप्तिवर्णनात् इति चेत् ; तर्हि प्रजापतिवाक्येऽपि ‘अपहतपाप्माविजरो विमृत्युः’ इत्यादिदहरवाक्यस्थपदानामेवावर्तनेन तथैव तदर्थः स्वीकरणीयः । एवं तर्हि प्रजापतिवाक्यं जीवस्य जैवेन रूपेणापहतपाप्मत्वादिकं न प्रतिपादयति ; तत्र तस्य मानान्तरविरुद्धत्वात् , किन्तु यदस्य पारमार्थिकं मुक्तिपाप्यं ब्रह्मस्वरूपं तद्रूपेणेति ब्रह्मण एव ततस्तत्सिद्धिः स्यात् ; न संसारित्वावस्थापन्नस्य जीवशब्दितस्य । ‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः’ इति च जीवस्य मुक्तिकाले पारमार्थिकब्रह्मभावाविर्भावाभिप्रायं स्यात् इति चेत् ; उच्यते – न मुक्तौ जीवस्य सविशेषब्रह्मभावः सम्भवति । निर्विशेषब्रह्मभावाभ्युपगमे तु सत्यकामत्वं सत्यसङ्कल्पत्वञ्च न सम्भवति । निर्विशेषब्रह्मभावं प्राप्तस्य मुक्तस्य च ‘स तत्र पर्येति जक्षन् क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा’(छा.८.१२.३) इत्यादिवाक्यशेषोक्तं फलं न सम्भवति । ‘सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति’(छा.८.७.१) इत्युपक्रमेण तथैवोपसंहारेण च प्रतिपिपादयिषितं सर्वलोककामावाप्तिफलञ्च न सम्भवति । तस्मादत्र ‘य आत्माऽपहतपाप्मा’(छा.८.७.१) इत्यादिना संसारित्वावस्थापन्नो जीव एवानृततिरोहितापहतपाप्मत्वसत्यकामत्वादिमानुच्यते । तस्यैवोक्तरूपजीवोपासनामनुष्ठितवतः ‘परं ज्योतिरुपसम्पद्य’ इत्यादिना ब्रह्मलोकस्थविशेषब्रह्मावाप्तिपूर्वकः सत्यकामत्वादिस्वरूपाविर्भाव उच्यते इत्येव युक्तम् ; ‘मनसैतान् कामान् पश्यन्न्रमते य एते ब्रह्मलोके’(छा.८.१२.५) इति वाक्यशेषात् , पञ्चाग्निविद्यावत् शरीरेन्द्रियविविक्तजीवविषययाऽपि प्राजाप्त्यविद्यया ‘तं वा एते (तं) देवाः आत्मानमुपासते तस्मात्तेषां सर्वे च लोका आप्ताः सर्वे च कामाः’(छा.८.१२.६) इत्युपासनारूपत्वेन श्रुतया ब्रह्मलोकावाप्तिसम्भवाच्च । ननु तथाऽपि दहराकाशे वर्णितमतिरोहितस्वभावमपहतपाप्मत्वादिकं जीवस्य न सम्भवतीति चेत् ; क एवमुपदिदेश तिरोहिअमेव हि तत् तत्रोपदिष्टम् । तथा हि – ‘स यदि पितृलोककामो भवति’(छा.८.२.१) इत्यादिना सङ्कल्पमात्रेण पित्रादिसृष्ट्या जीवस्य सत्यसङ्कल्पत्वं प्रपञ्चेनोपवर्ण्य ‘त इमे सत्याः कामा’(छा.८.३.१) इति त इमे पित्रादयः काम्यमानतया कामशब्दोक्ताः केवलं साङ्कल्पिकत्वेऽपि नोपभोगाक्षमा वितथाः , किन्तु सत्या इत्युक्तम् । तथा च ‘सत्यकामस्सत्यसङ्कल्पः’ इत्यत्र तत्प्रकरणकृतव्याख्यानानुसारेणावितथसङ्कल्पजपित्रादिमत्त्वमेवार्थो ग्राह्यः । तेषाञ्च पित्रादीनां ‘त इमे सत्याः कामाः’ इति परामर्शानन्तरं ‘अनृतापिधानाः’ इति तेषां सत्यानामनृतमपिधानमिति ‘यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते’(छा.८.३.१) इति च इहलोके स्थितौ तिरोहितत्वं स्पष्टमेवोक्तम् । अथ ‘ये चास्य जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दते’(छा.८.३.२) इति ब्रह्मलोकगमनानन्तरं तदाविर्भावश्चोक्तः । एवं सङ्कल्पजपित्रादीनां तिरोहितत्वोक्त्यैव सत्यसङ्कल्पत्वस्य तिरोहितत्वमर्थसिद्धम् । पाप्मजरामरणशोकादीनां तु स्थूलसूक्ष्मदेहधर्माणामभावस्य देहेन्द्रियतादात्म्याध्याससमये तिरोहिततत्वं रजताध्याससमये शुक्तौ रजतत्वाभावस्येव स्पष्टमेव । अतः सत्यकामत्वमात्रस्य तिरोधानमुक्तम् । एतेन – प्रजापतिवाक्ये संसारदशायामविद्यातिरोहितमपहतपाप्मत्वादिकमुक्तं ‘स्वेन रूपेणाभिनिष्पद्यते’ इति मुक्तिदशायां तदाविर्भावश्रवणात् , दहरवाक्ये त्वतिरोहितस्वभावमेव तदुक्तं तिरोधानाश्रवणात् – इति निरस्तम् । दहरवाक्यान्तर्गतेपि ‘य एष सम्प्रसाद’ इति वाक्ये ‘स्वेन रूपेनाभिनिष्पद्यते’ इति श्रवणाच्च । तस्मादपहतपाप्मत्वादिकं जीवे सम्भवत्येव , प्रत्युत ब्रह्मण्येव स्वसङ्कल्पसमुत्थितातीतनिजपित्रादिमत्त्वरूपं सत्यकामत्वं न सम्भवति । किञ्च ‘ब्रह्मपुरे’ इत्युपक्रमोऽपि दहराकाशो जीव इति पक्ष एव स्वारसिकः ; जीवस्यैव सप्तमीनिर्दिष्टाधारं प्रत्याधेयत्वस्य भोक्तृभोगायतनभावरूपसमासान्तर्वर्तिषष्ठ्युक्तासाधारणशरीरसम्बन्धवत्त्वस्य चोपपत्तेः । ब्रह्मणि तु नाधेयत्वं न वा शरीरेण विशेषसम्बन्धवत्त्वम् ; कारणत्वेन सम्बन्धस्य सर्वविकारसाधारण्यात् । असाधारण्येन हि व्यपदेशा भवन्ति ; तद्यथा क्षितिसलिलबीजादिजन्माऽप्यङ्कुरोऽसाधारण्येन शालिबीजेन व्यपदिश्यते ‘शाल्यंकुर’ इति न तु कार्यान्तरसाधारणैः क्षित्यादिभिः । तस्मात् ब्रह्मशब्दस्य रूढिं परित्यज्य बृंहयति देहमन्नपानादिभिरिति जीवे योगस्स्वीकर्तुं युक्तः । तथा भूताकाशोपमेयत्त्वमपि जीवे सम्भवति ; अत्रापि मानसवैपुल्यसद्भावात्, तस्यान्तःकरणावच्छिन्नरूपेणाव्यापकत्वेऽप्यविद्योपहितेन रूपेण सर्वशरीरानुस्यूतेन व्यापकत्वाच्च । वस्तुतस्तु मानसमेव वैपुल्यमिह ‘यावान्वा’ इयादिवाक्यार्थतया ग्राह्यम् ; स्वरूपेण व्यापकत्ववर्णनस्य प्रकृतानुपयोगित्वात् , ‘तस्मिन्यदन्तः’ इत्यत्रान्तश्शब्देन , ‘अन्तरेव समाहिते’(छा.८.१.३) इत्यत्र सावधारणेनान्तश्शब्देन , ‘अस्मिन्श्चेदिदं ब्रह्मपुरे सर्वं समाहितं सर्वे च कामाः’(छा.८.१.४) इत्यत्र देहान्तर्गतहृदयपुण्डरीकान्तर्वर्तिनि दहराकाशे सर्वसमाधानोक्त्य देह एव सर्वसमाधानमुक्तं स्यादित्यनुवादेन च , हृदयान्तःप्रदेशावच्छेदेन दहराकाशवैपुल्यप्रतिपादनस्यैवाकांक्षितत्वात् । एवञ्च द्यावापृथिव्यादयोऽप्यत्र हृदयपुण्डरीकावच्छिन्ने दहराकाशे समाहिता मानसा एव ग्राह्या इति तदाधारत्वं जीवस्य नानुपपन्नम् ; स्वप्नऋष्टानामिवान्येषामपि मानसानां जीव एवाध्यासात् । ‘एतत्सत्यं ब्रह्मपुरम्’ इत्येतदपि देहाख्यं ब्रह्मपुरमनृतम् , इदं तु सत्यं देहबृह्मणत्वात् ब्रह्म सकलकामाधारत्वात् पुर्मिति जीवे सङ्गच्छते । अहरहर्गतिश्रवणमपि जीव एवाविद्यामात्रोपहितरूपे युज्यते ; स्वप्नजागरयोरन्तः करणोपधानेन स्थितस्य तस्य सुषुप्तावन्तःकरणलये सति अविद्यामात्रोपहितमात्ररूपापत्तिसत्वात् । जगद्विधारकत्वश्रवणमपि सत्यसङ्कल्पजवस्तुविधारकत्वाभिप्रायम् , ब्रह्माभेदाभिप्रायं वा ईवे योजयितुं शक्यम् । यद्यप्याकाशशब्दस्य श्रुत्यन्तरे नास्ति जीवे प्रसिद्धिः , तथाऽप्यत्रैव सत्यकामादितद्धर्मसमभिव्याहारात् तद्विषयत्वं कल्प्यते , अन्यथा लोके तस्य ब्रह्मविषयत्वादर्शनात् ब्रह्मधर्मसमभिव्याहृतश्रुत्यन्तरे ब्रह्मविषयत्वकल्पनमपि तस्य न स्यात् । तस्माज्जीव एव दहराकाश इति पूर्वःपक्षः । अत्रोत्तरम् – ‘आविर्भूतस्वरूपस्तु’ इति । दहरवाक्यादुत्तरस्मिन् प्रजापतिवाक्ये जीवस्यापहतपाप्मत्वादिकोक्तेर्दहरो जीव इति शङ्का न कार्या । यतस्तत्राविर्भ्तपरब्रह्मस्वरूप एव जीवोऽपहतपाप्मत्वादिरूपः प्रतिपाद्य इति , तेन ब्रह्मण एवापहतपाप्मत्वादिकमुक्तं भवति । तत्र हि ‘य एषोऽक्षाणि’ इत्यादिषु त्रिष्वपि जागरस्वप्नसुषुप्तिअर्यायेषु ‘एष आत्मा’ इति ‘एतदमृतमभयमेतत् ब्रह्म’ इति च जीवस्य ब्रह्मभावः श्रूयते । तत्र ‘एष आत्मा’ इत्यपहतपाप्मत्वादिधर्मकान्वेष्टव्यात्मरूपत्वं ‘अमृतम्’ इति भूमाख्यनिरतिशयानन्दरूपत्वं ‘अभयम्’ इति रागद्वेषादिकलुषसंसाराख्यमहाभयराहित्यञ्चोक्त्वा ब्रह्मण एव हि तत्प्रसिद्धम् , तत् कथञ्जीवस्योच्यत इति तटस्थशङ्कायां ‘एतत् ब्रह्म’ इति चोक्तम् । तत्र यद्यपि जागराद्यवस्थावत्त्वरूपं जीवलिङ्गं प्रथमश्रुतम् ; तथाऽपि अमृतत्वाभयत्वाभ्यां ब्रह्मलिङ्गाभ्यां ब्रह्मश्रुत्या चैकैकमनुवाद्यं जीवलिङ्गं बह्वनुग्रहन्यायेन , अंगुष्ठाधिकरणन्यायेन चोपमृद्य तत्तदवस्थोपलक्षितस्य जीवस्य ब्रह्मभावो विधीयते । एवञ्च ‘एवमेवैष सम्प्रसादः’ इत्यादि चतुर्थपर्यायवाक्यं जीवस्य शरीरद्वयविवेकावधारणरूपत्वंपदार्थशोधनपूर्वकेण ब्रह्मात्मभावसाक्षात्कारेणावस्थात्रयानुवृत्तत्वेऽप्यनृततिरोहितस्यापहतपाप्मत्वादिधर्मकनिरस्तनिखिलसंसारमहाभयनिरतिशयानन्दरूपब्रह्मात्मभावस्याविर्भावं प्रतिपादयतीत्येव वक्तव्यम् । निर्गुणविद्यायां सविशेषब्रह्मलोकावाप्तिकथनस्यानुपयोगात् मुक्तानां यावत्सर्वमुक्तिं बिम्बेश्वरभावापत्तिरस्तीत्यस्माभिस्सिद्धान्तलेशसंग्रहे समर्थितत्वेनाविर्भूतस्वरूपस्य सत्यकामत्वं सत्यसङ्कल्पत्वञ्चोपपद्यते । तस्य शुद्धचैतन्यभावापत्त्यभ्युपगमेऽप्युपपद्यत एव ; शुद्धचैतन्यस्य जीवेश्वरानुस्यूतचैतन्यसामान्यात्मनाऽवस्थानात् । शुद्धचैतन्यं हि यावत्सर्वमुक्ति जीवेश्वरानुस्यूतचैतन्यसामान्यात्मनाऽवतिष्ठते , न तु तृतीयकोटितया पृथगवतिष्ठते । न हि शुद्धमुखं बिम्बप्रतिबिम्बानुस्यूतमुखसामान्यात्मना विना पृथगवतिष्ठमानं दृश्यते । अत एव साक्षात्कृतब्रह्मणां यावत्सर्वमुक्ति सर्वात्मतापत्तिरस्तीति वामदेवस्य मनुसूर्यादिभावप्रतिपत्तिः श्रूयते । शुकस्य च सर्वभूतमयत्वापत्तिः स्मर्यते । एवञ्च मुक्तस्य सार्वभ्ॐआदिमानुषात्मना , इन्द्रादिलोकपालात्मना , दहरोपासनादिफलानुभवितृपुरुषात्मना च जक्षणादिकं सर्वलोककामावाप्तिमत्त्वं ब्रह्मलोकसाअहितसत्यकामानुभवितृत्वञ्च व्यपदेष्टुं शक्यमिति जक्षणादिश्रवणमप्युपपद्यते । न चैवं मुक्तस्य सर्वात्मतापत्त्या तत्तद्दुःखभोक्तृत्वस्यापि व्यपदेशप्रसङ्गः ; मुक्तस्य निरस्ताविद्यस्य जक्षणादिजन्यसुखवृत्त्यवच्छिन्नस्वप्रकाशानन्दरूपतापत्तिवदाविद्यकदुःखित्वापत्तेरभावात् । अन्यदिह प्रजापतिविद्यायामुपपादनीयं सर्वं ‘ज्योतिर्दर्शनात्’(ब्र.सू.१.३.४०) इत्यधिकरणे चिन्तयिष्यते । यत्तु दहरविद्याप्रकरण एव स्वसङ्कल्पसमुत्थितातीतनिजपित्रादिमत्त्वरूपतयोपवर्णितं सत्यकामत्वं ब्रह्मणि न सम्भवतीत्युक्तं – अत्र ब्रूमः । द्वयमिह सत्यकामत्वं निरूपितम् । एकमुपास्यस्य तदुपासनाविषयतया ‘एष आत्माऽपहतपाप्मा’ इत्यादावुक्तम् । द्वितीयमुपासकस्य तदुपासनाविषयतया ‘एष आत्माऽपहतपाप्मा’ इत्यादावुक्तम् । द्वितीयमुपासकस्य तदुपासनाफलतया ‘स यदि पितृलोककामो भवति’ इत्यादावुक्तम् । तत्र द्वितीयमेव संकुचितं स्वसङ्कल्पसमुत्थितपित्रादिमत्वरूपं , न त्वाद्यमपि ; तत्सङ्कोचकाभावात् । नन्विदमेव तस्यापि सङ्कोचोपपत्तेः । यद्यप्युपास्यस्य सर्वेऽपि कामनाविषयाः सङ्कल्पमात्रसृष्टाः साधारणप्रपञ्चान्तर्गता वियदादयोऽपि सत्याः , न तु वितथा मनोराज्यविजृम्भितप्रातिभासिकवस्तुवद्भोगानुपयुक्ताः , तथाऽप्युपासकस्य सङ्कल्पसमुत्थिताः स्वासाधारणभोगोपयुक्ताः पित्रादय एव सत्या न तु वियदादयोऽपीति तावन्मात्र एव सत्यकामत्वविषयतत्क्रतुन्यायावतार इति । नन्वेतदनुसारेणोपास्यगतं सत्यकामत्वं न सङ्कोचनीयम् ; किन्तु तत्क्रतुन्याय एवेत्यत्र किं विनिगमकमिति चेत् ; उच्यते । सत्यकामत्वसङ्कोचे सत्यसङ्कल्पत्वमपि सङ्कोचनीयम् ; ‘सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति’ इत्यादिनोपासकगतसत्यसङ्कल्पत्वस्यापि सङ्कोचितत्वात् । ततो वरमेकस्यैव तत्क्रतुन्यायस्य गुणद्वयविषयेऽपि सङ्कोचकल्पनम् । किञ्च सर्वेश्वरत्वगुणविशिष्टोपासनायां तत्क्रतुन्यायस्यावश्यकः संकोचः । न च तथोपासनैव नास्ति ; ‘कारणं तु ध्येयः सर्वैश्वर्यसम्पन्नः सर्वेश्वरश्च शंभुराकाशमध्ये’ इत्यथर्वशिखायां श्रवणात् । तस्मात् तत्क्रतुन्यायस्यैव क्वचिद्गुणे क्लृप्तः सङ्कोचोऽन्यत्रापि स्वीकार्यः । एतेनेदमपि निरस्तम् – दहरविद्यायां वर्णितं गुणाष्टकं तिरोहितमेव ग्राह्यं प्रजापतिविद्यायामिवात्रापि ‘स्वेन रूपेणाभिनिष्पद्यते’ इति ब्रह्मज्ञानेन तस्याविर्भाववर्णनात् , विशिष्य सत्यकामत्वतिरोधानवर्णनाच्च , तत्तु जीवस्यैव सम्भवति , न ब्रह्मण इति । यतस्तत्र उपासनाफलस्याविर्भावतिरोभाववर्णनम् , न तूपासनीयस्य । तत्त्वतिरोहितं नित्याविर्भूतमेव ग्राह्यम् ; तिरोधानावचनात् । वस्तुतस्त्विदानीं सङ्कल्पसृज्या अनृततिरोहितास्सात्याः कामा जीवनामतीतवर्तमानपितृपुत्रादयो न सन्त्येव । दहराकाशे इदानीं सतामेव तेषामनृततिरोहितत्वश्रवणं तु दहरोपासनासिद्धानां ब्रह्मलोकप्राप्त्यनन्तरमयत्नलभ्यत्वप्रतिपत्त्यर्थमतिशयोक्तिमात्रम् । ननु च भूतार्थवाद एव किं न स्यात् ‘अत्र ह्येते सत्याः कामाः तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमास्सर्वाः प्रजा अहरहर्च्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः’(छा.८.३.२) इति हिरण्यनिधिदृष्तान्तेनोपपादनस्य तात्पर्यलिङ्गस्य सत्त्वात् , धनलोलुपानां धनान्धानां धनविषयमनोराज्यरूपेण सङ्कल्पेन शुक्रस्य धनगृहे धनं सृज्यत इति भारतरामायणादिवचनप्रामाण्यादङ्गीकर्तव्यत्वेन तद्वत् सर्वेषामपि सङ्कल्पेन दहराकाशे पितृपुत्रादिबान्धवान्नपानगीतवादित्रादिभोग्यसृषिसम्भवाच्चेति चेत् – मैवम् । ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितस्समुत्तिष्ठन्ति’(छा.८.२.१) इत्यादिपूर्वखण्डे ‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेषु कामचारो भवति’(छा.८.१.६) इति तत्पूर्वप्रकृतं दहरोपासनया ब्रह्मलोकगतं स इति परामृश्य तत्सङ्कल्पेन पित्रादिसृष्ट्युक्त्यनन्तरं ‘त इमे सत्याः कामाः’ इति तानेव पित्रादीन् पराम्श्यानृततिरोहितत्वस्योच्यमानतया तेषामिदानीमसत्त्वस्य स्पष्टत्वात् । ‘अनुविद्य व्रजन्ति’ इत्यस्य दहराकाशमुपास्य ब्रहलोकं प्रन्तीत्येतावत्पर्यन्तमर्थं स्वीकृत्य दहरोपासकानामिहैव कालेन सत्याः कामा निष्पद्यन्ते तेषाञ्चानृततिरोहितत्ववचनमपेक्षितमिति तिरोधानवचनश्रद्धया समर्थनेऽपि दहरोपासनारम्भात् पूर्वं सत्यकामत्वाद्यभावात्तद्वत्तया न जीवस्योपास्यत्वसिद्धिः । सिद्धसाध्यधर्मग्रहणसंशये च सिद्धग्रहणं न्याय्यमित्यलं विस्तरेण । यत्तु – जीवस्य देहेनासाधारणसम्बन्धोऽस्तीति तत्र तस्य पुरमिति व्यपदेशो युक्तः , न तु ब्रह्मण – इति तत्तुच्छम् ; ब्रह्मणोऽप्यसाधारणतयोपलब्धिस्थाने तस्मिन् तत्पुरमिति व्यपदेशोपपत्तेः , ब्रह्मप्रातिपदिकार्थस्य प्रधानतया तद्विशेषणभूतषष्ठ्यर्थस्य तदनुसारेण नेतव्यत्वाच्च । यच्चोक्तमन्तश्शब्दादिस्वारस्यानुरोधेन द्यावापृथिव्यादयो मानसा एव ग्राह्या इति तेषां जीव एव समाधानोक्तिर्युक्ता, न ब्रह्मणि; स्वाप्नानामिव मानसानां जीवेऽध्यस्तत्वादिति तदपि तुच्छम् ; उपाधिपरिच्छिन्नस्य जीवस्यापि ब्रह्मणि समाहितत्वेन तत्राध्यस्तानां मानसानां ब्रह्मणि समाधाननिवारणात् , अन्यथा ब्रह्मणः सर्वाधारत्वश्रुतीनां व्याकोपप्रसङ्गात् । वस्तुतस्तु द्यावापृथिव्यादयो मानसा एव ग्राह्या इत्ययुक्तम् ; द्यावापृथिव्यादिश्रुतिसङ्कोचापत्तेः । उपर्यधश्चापारस्य ब्रह्मणोऽन्तरेव सर्वं समाहितमित्यभिप्रायेण ‘यस्यान्तस्स्थानि भूतानि’ इतिवदन्तश्शब्दावधारणयोरुपपत्तेः । ‘अस्मिंश्चेदिदं ब्रह्मपुरे सर्वं समाहितम्’ इति शङ्कावाक्यगतानुवादस्य हृदयावच्छिन्न एव दहराकाशे सर्वसमाधानमुक्तमिति भ्रान्त्या ‘योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एषः’(छा.८.७.४) इतीन्द्रविरोचनयोः प्रश्नस्य प्रजापतिना छायापुरुष उपदिष्ट इति भ्रान्त्येवोपपन्नत्वात् । मानसमात्रग्रहणपक्षेऽपि ‘यदैनं जरा वाऽप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यते’(छा.८.१.४) इति शङ्कांशे भ्रान्तिमूलत्वकल्पनाया आवश्यकत्वात् । न हि स्थूलानामिव मानसानां द्यावापृथिव्यादीनां देहान्तस्समाहितत्वेऽपि जरत्कुसूलान्तर्निहितव्रीह्यादिन्यायेन देहस्य जरादौ सति भ्रंशशङ्काऽवकाशं लभते । एवञ्च सति ‘एतत्सत्यं ब्रह्मपुरमस्मिन्कामास्समाहिताः’ इत्याचार्यवाक्यमप्यन्तेवासिगणभ्रान्तिवारणार्थतयैव व्याख्येयम् । न हि देहरूपसत्यब्रह्मपुरावच्छिन्ने दहराकाशे द्यावापृथिव्यादयस्समाहिताः येनार्थतस्तस्मिन्नवच्छेदक एव समाहितत्वमापद्यते । किन्तु तदवच्छेदमनपेक्ष्य अस्मिन् स्वरूपेण भूताकाशवद्व्यापकतयोक्ते दहराकाश एव समाहिताः – इदन्तु सत्यमवितथं ब्रह्माख्यं पुरं पुरवत्सर्वेषां विभक्ततयाऽवस्थानभूमिरिति । अत एवोक्तमापस्तम्बेन परमात्मानं प्रकृत्य ‘स वै वैभाजनं पुरम्’(आ.ध.१.८.२२.७) इति । तस्मादसङ्कुचितद्यावापृथिव्यादिसर्वाधारत्वातिरोहितासंकुचितगुणाष्टकप्रभृतिहेतुभिर्दहराकाशः ब्रह्म , ,न तु जीव इति सिद्धम् । सूत्रस्य – प्रजापतिविद्यावलम्बनशङ्कायामयमर्थः – उत्तरात् प्रजापतिवाक्यात् जीवस्यापि अपहतपाप्मत्वादिकं सम्भवतीति चेत् – आविर्भूतस्वरूपो जीवस्तत्रापहतपाप्मत्वादिमत्तया प्रतिपाद्यते स त्वपेजीवभवो ब्रह्मैवेति न जीवस्य जैवेन रूपेणापहतपाप्मत्वादिसम्भव इति । दहरविद्याप्रकरणगतसत्यकामत्वावलम्बनशङ्कायामयमर्थः – उत्तरात् ‘त इमे सत्याः कामा अनृतापिधानाः’ इतिसङ्कुचिततिरोहितसत्यकामत्वप्रतिपादनलिङ्गात् दहराकाशो जीव इति चेत् – दहराकाशस्तिरोहितसत्यकामत्वादिस्वरूपो न प्रतिपाद्यते , किं त्वाविर्भूतसत्यकामत्वादिस्वरूप एव ; सत्यकामत्वादितिरोधानं तु तत्क्रतुन्यायेन उपासनाफलं लभमानस्योपासकस्योक्तम् , इति । तुशब्दो ब्रह्मपुरशब्दाद्यवलम्बनशङ्कान्तरव्यावृत्त्यर्थः ॥१.३.१९॥ यदि दहराकाशो न जीवः , तर्हि ‘य एष सम्प्रसाद’ इत्यादौ जीवपरामर्शः किमर्थः स्तत्राह –
अन्यार्थश्च परामर्शः ॥२०॥ 【भाष्यम्】 जीवस्य उपास्यदहराकाशरूपताप्रतिपत्त्यर्थो न जीवपरामर्शः , किन्त्वन्यार्थः । कथम् ‘एवं वित्स्वर्ग लोकमेति’(छा.८.३.३) इति प्रकृतो विद्वान् ‘य एष सम्प्रसाद’(छा.८.३.४) इति परामृश्यते । सोऽथ इदं सरीरं हित्वा ब्रह्मलोकप्राप्त्यनन्तरमस्माच्छरीरात्समुत्थाय क्रमेण शरीरद्वयविविक्तब्रह्मात्मभावसाक्षात्कारप्राप्त्या देहात्मभावं परित्यज्य परंज्योतिरुपसम्पद्य परमेश्वररूपपरब्रह्मभावं प्राप्य स्वेन रूपेण निरतिशयसुखात्मना रूपेणाविर्भवति , यत्परं ज्योतिरुपसम्पत्तव्यमित्युक्तम् , एष आत्माऽपहतपाप्मत्वादिगुणक उपास्यः , एतदेवाभयममृतं ब्रह्म इति दहराकाशपरमेश्वरोपासनस्य क्रममुक्तिफलकत्वप्रतिपत्त्यर्थ इति । अयं छान्दोग्य भाषस्वरससिद्धोऽर्थः । यद्वा ‘य एष सम्प्रसादः’ इति सामान्यतो जीव उच्यते । स जागरे स्थूलदेहाभिमानी सन् बाह्यपदार्थाननुभूय स्वप्ने सूक्ष्मदेहाभिमानी भूत्वा वासनामयपदार्थाननुभूयाथ सुषुप्तावस्थायामुभयशरीराभिमानं परित्यज्य दहराकाशरूपं परं ब्रह्मोपसम्पद्य स्वेन रूपेण विशेषविज्ञानकृतकालुष्यरहितेन चैतन्यात्मनाऽवतिष्ठते , यत् परंज्योतिस्सुषुप्तावुपसम्पत्तव्यम् ; एष आत्माऽपहतपाप्मत्वादिगुणक उपास्यः इति दहराकाशरूपपरमेश्वरस्योपास्यस्य जागरितस्वप्नपरिश्रान्तजीवजातसमाश्रयणीयत्वमहिमप्रतिपत्त्यर्थो जीवपरामर्शः । अयं श्रीमद्भाष्यस्वरससिद्धोऽर्थः । अथवा य एष सम्प्रसादः श्रीमद्भाष्यदर्शितरीत्याऽवस्थात्रयवान् , एष एवापहतपाप्मत्वादिगुणक आत्मा अमृतमभयं ब्रह्म चेति जीवस्यावस्थात्रयविलयेन पारमार्थिकब्रह्मभावोपदेशार्थो जीवपरामर्शः । अयं भामतीस्वरससिद्धोऽर्थः । अस्मिन् पक्षे अस्य वाक्यस्य वक्ष्यमाणायां प्रजापतिविद्यायां शिष्याणां जिज्ञासाजननार्थं तदर्थसङ्क्षेपरूपत्वम् , एवञ्च ‘इति होवाच’(छा. ८. ३. ४) इत्येतत् इति प्रजापतिरुवाचेत्येवमर्थकं , न तु ‘स ब्रूयात्’ इतिवदाचार्यवचनप्रतिपादकमिति द्रष्टव्यम् । सूत्रे चकारेण जीवेत्थम्भावप्रतिपत्त्यर्थोऽपि भवति जीवपरामर्श इति समुच्चीयते । प्रतिपन्ने हि जीवस्येत्थम्भावे क्रममुक्तिफलिकायां जागरावावर्तमानसंसारक्लेशपरिपन्थिन्यामस्यामुपासनायां प्रवृत्तिर्भवेदिति । १.३.२० । एवं वाक्यशेषगतहेत्वाश्रयां जीवाशङ्कां परिहृत्य वाक्योपक्रमगतहेत्वाश्रयां तामुद्भाव्य परिहरति –
अल्पश्रुतेरिति चेत्तदुक्तम् ॥२१॥ 【भाष्यम्】 दहर इत्यल्पपरिमाणश्रुतेराराग्रोपमितो जीवो दहराकाशो भवितुमर्हतीति चेत्तत्र वक्तव्यमुत्तरं प्रागेवोक्तं ‘निचाय्यत्वादेवं व्योमवच्च’(ब्र.सू.१.२.७) इति । श्रुत्या चोक्तं ‘तावनेषाऽन्तर्हृदय आकाश’ इति । शाण्डिल्यविद्यायामणीयस्त्वं नोपक्रमगतम् ; इह दहरत्वमुपक्रमगतमित्यधिकाशङ्का । वाक्यशेषगतबहुश्रुतिलिङ्गविरोधादुपक्रमगतमपि नादरणीयमित्यधिकपरिहारः । इह ब्रह्मलिङ्गानां स्पष्टत्वेऽपि दहराकाशान्तर्वर्त्यन्वयाभासाद्दहराकाशान्वयित्वेनास्पष्टता द्रष्टव्या ॥१.३.२१॥ इति दहराधिकरणम् ॥
अनुकृतेस्तस्य च ॥२२॥ 【भाष्यम्】 आथर्वणिकाः समामनन्ति ‘न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’(मु.२.२.१०) अत्र ‘तत्र’ इति सर्वनाम्ना निर्दिष्टो लौकिकः कश्चित् तेजोधातुः, परं ब्रह्म वेति सप्तम्याः सति , विषये च साधारण्यात् संशये , पूर्वः पक्षः – बलीयसा हि सौरेण लौकिकतेजसा मन्देतेजश्चन्द्रतारकादि अभिभूयमानं दृष्टम् । तद्यस्मिन् सति सर्वमिदं तेजोऽभिभूयते , तत् किञ्चित् सर्वातिशायि लौकिकं तेज इति युक्तम् । न च – तत्रेति सतिसप्तमी माभूत् विषयसप्तम्यस्तु , तथा सति सूर्याद्यप्रकाश्यत्वं ब्रह्मणि सम्भवतीति वाच्यम् । तं विषयं सूर्यो न भासयतीति णिजर्थाध्याहारापत्तेः । न च तथाऽपि सूर्यदीपातेजोऽभिभावकघनकुड्यादिवदतेजस्त्वोपपत्तिः ; घनकुड्यादीनां सूर्यदीपाद्यभिभावकत्वाभावात् , घनकुड्याद्यावरणे सति चक्षुस्सन्निकर्षाभावादेव सूर्याद्यग्रहणोपपत्तेः । न चैवमपि सुवर्णरूपतेजोऽभिभावकपार्थिवभागवदतेजस्त्वोपपत्तिः । पीतिमगुरुत्वाश्रयपार्थिवातिरिक्तसुवर्णानङ्गीकारात् , प्रकाशकस्य सतस्तेजोऽभिभावकस्य तेजस्त्वनियमाङ्गीकाराच्च । तथा ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ इति सर्वशब्दोक्तस्य प्रकृतस्य सूर्यादितेजसोऽनुभानरूपात्तदनुकारादपि तत्सजातीयं तेज इति युक्तम् । समानेष्वेव ह्यनुकरणं दृष्टं ‘गच्छन्तमनुगच्छति’ इति यथा । नन्वभिभवलिङ्गं तावदसिद्धम् ; मानान्तरविरोधात् । न हीदानीं भात्येव सूर्यादौ न भातीत्येतदन्वेति । कालान्तरे तस्मिन् तेजसि सति न भास्यतीत्यर्थ इति चेत् , तर्हि विषयसप्तम्येवास्तु । क्वचन णिजर्थस्यान्यत्र भविष्यदर्थस्याध्याहार इति तौल्यात् । यदि व्यत्ययानुशासनाल्लटैव भविष्यदर्थलाभ इति नाध्याहारः , तर्हीहापि विषयसप्तमीबलाद्विषयित्वेन न भातीति सामर्थ्येन णिजर्थलाभ इति नाध्याहारः । एवमनुकारलिङ्गमप्यसिद्धम् ; पूर्वापरविरोधात् । न हि यस्मिन् सति यन्न भाति , तत्तदनुभातीति युक्तम् । न खलु यस्मिन् गच्छति यो न गच्छति , स तमनुगच्छति । उच्यते – अनुभातीत्यत्र तदपेक्षया निकृष्टभानत्वमुच्यते । अतो ‘न भाति’ इत्यत्र न मानान्तरविरोधः ; तेजोन्तराभिभूतस्य सूर्यादेर्नाहाराद्यावृतस्येव सर्वात्मना भानानिषेधात् । ‘अनुभाति’ इत्यत्रापि न पूर्वापरविरोधः ; निकृष्टभानवचनात् । एवमुभयसामञ्जस्यसम्भवे व्यत्ययानुशासनमाश्रित्य भविष्यदर्थलाभ इति वा । विषयोक्तिसामर्थ्यमवलम्ब्य णिजर्थलाभ इति वा क्लेशो नाश्रयणीयः । ननु ‘तस्य भासा सर्वमिदं विभाति’ इत्युक्तं सर्वप्रकाशकत्वं तेजसि न सम्भवति , तेजसश्चक्षुर्विषयमात्रप्रकाशकत्वात् । न च तत्रापि सर्वशब्दः प्रकृतसूर्यादिमात्रपरः ; सूर्यादितेजःप्रकाशे चक्षुर्व्यतिरिक्तभासमानतेजोन्तरानपेक्षणात् । यदि तेजोन्तरादृष्टमपि सर्वप्रकाशकत्वं सूर्यादिप्रकाशकत्वं वा क्वचित्तेजसि कल्प्यते , तर्हि तेजस्साजात्याभावेऽपि सूर्यादीनां ब्रह्मणैवाभिभवस्तदनुकरणञ्च कल्प्यताम् । न च – ब्रह्मपक्षो द्वयं अप्रसिद्धं कल्पनीयम् , तेजःपक्षे त्वेकमेवेति वाच्यम् ; तेजःपक्षे तथाभूतस्य धर्मिणस्तेजसोऽप्यप्रसिद्धस्य कल्पनीयत्वात् । उच्यते – तेजसस्तेजःप्रकाशकत्वं नादृष्टचरम् ; लाघवेन चाक्षुषत्वावच्छिन्ने तेजोऽपेक्षाङ्गीकारात् , दीपे तत्संयुक्तस्यालोके परस्परसंयुक्तानेककिरणात्मके तत्तत्संयुक्तकिरणस्य च तेजसः सद्भावात् , अन्ततस्सर्वत्र तत्तदवयवावयसद्भावाच्च , तद्रहितस्यापि त्रिसरेण्वादेः जालान्तरगतालोके एव भानात् । एवञ्चाभिभवानुकारलिङ्गद्वयबलात् , तेजःप्रकाशकत्वाविरोधाच्च तेजोधातुरेव कश्चिन्मन्त्रप्रतिपाद्य इति निश्चये सति भूतयोनिब्रह्मप्रकरणं नादरणीयम् ; लिङ्गाभ्यां तस्य बाधात् । न च तत्रेत्यादिसर्वनाम्नां प्रकृतपरत्वनिर्बन्धोऽस्ति ; ‘तेन रक्तं रागात्’(पा.सू.४.२.१) इत्यादावप्रकृतपराणामपि तेषां दर्शनात् । ननु ‘तेन रक्तं रागात्’ ‘तस्यापत्यम्’(पा.सू. ४.१.९२) इत्यादिसूत्रोदाहरणेषु ‘माहारजनं’ ‘औपगवः’ इत्यादिषु तद्धितार्थे ‘महारजनेन रक्तम्’ ‘उपगोरपत्यम्’ इत्यादिवाक्यैर्व्याख्यायमाने महारजनादेःप्रकृत्यर्थस्य शब्दतः प्रकृतत्वमस्तीति तस्य ‘तेन’ ‘तस्य’ इत्यादिसर्वनामभिः परामर्शो युक्त इति चेत् । यद्येतावता तृप्तिस्तर्हीहाप्यभिभवादिलिङ्गमालोच्य सूर्याद्यभिभावकं तत उत्कृष्टप्रकाशं तत्प्रकाशकञ्च तेजोऽस्य मन्त्रस्य प्रतिपाद्यमिति व्याख्यायमाने तेजसः शब्दतः प्रकृतत्वमस्तीति सन्तुष्यताम् । तस्मात्तेज एव किञ्चिदुपासनीयं मन्त्रप्रतिपाद्यं न तु ज्ञेयं ब्रह्म । ब्रह्मपक्षे चाचाक्षुषे ब्रह्मणि सूर्यादिप्रकाश्यत्वनिषेधस्याप्रसक्तनिषेधता स्यात् । भारूपे तस्मिन् ‘भान्तम्’ इति शतृप्रत्ययस्य ‘तस्य भासा’ इति षष्ठ्याश्च निर्विषयता स्यात् । प्रपञ्चब्रह्मभानान्यभानाभावेन ‘अनुभाति’ इत्यस्य निर्विषयता स्यात् । ‘गच्छन्तमनुगच्छति’ इत्यादौ गमनभेदे सत्येव ह्यनुशब्दो दृष्टः । न च श्रुतिदृष्टोऽयं व्यपदेशो ‘वह्निं दहन्तमयोऽनुदहति’ इति लौकिकव्यपदेशवदारोपितभेदनिमित्तो व्याख्यातुमुचित इति । अत्र राद्धान्तः – तेजो मन्त्रप्रतिपाद्यमिति पक्षे प्रसिद्धविलक्षणं किञ्चित्तेजस्तावदनुमन्तव्यम् । तत्प्रतिपादनावैयर्थ्याय तदुपासनविधिस्तत्फलञ्चेत्युभयं कल्पनीयम् । ब्रह्मप्रकरणञ्च बाधनीयम् । प्रकृअपरामर्शिन्यः सर्वनामश्रुतयश्चातिलङ्गनीयाः । न च तासामुक्तनिर्वाहो युक्तः । द्विविधाः हि सर्वनामशब्दाः – समभिव्याहृतपराः , व्यवस्थितैकार्थपराः । ते तु तस्मिन्नेव सन्दर्भे पूर्वप्रकृतमपेक्ष्य तदभावे प्रकरिष्यमाणमपेक्ष्योभयाभाव्ऽन्यतः प्रसिद्धिमपेक्ष्य वा भवन्ति । यथा ‘तस्मिन्यदन्तस्तदन्वेष्टव्यम्’(छा.८.१.१) इति ‘स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति’(छा.८.७.१) इति ‘इत्थं प्रच्छन्नपापस्य स एव तव शासिता’ इति । इह ‘तत्र’ इत्यादयो व्यवस्थितैकार्थपराः । नात्र सन्दर्भे तेजः पूर्वप्रकृतमस्ति । नापि प्रकरिष्यमाणम् । न च तथाभूतस्य तेजसोऽन्यतः प्रसिद्धिरस्ति । तस्मादिह सर्वनामश्रुतीनां प्रकृतब्रह्मपरत्वमवर्जनीयमिति तदतिलङ्गनदोषोऽपि स्यादेव । एवमपि तेजो मन्त्रप्रतिपाद्यमिति कथञ्चिदभ्युपगम्येत यदि तस्मिन्नुपासनाशेषत्वेनाभिमते मानान्तरविरोधो न स्यात् । तस्मिन्नपि सति कथं तदभ्युपगमः यदि हि सूर्यादितेजोऽभिभावकं ततोऽधिकप्रकाशं तस्य सर्वस्यापि प्रकाशकतया व्याप्य सर्वदा स्थितं च किञ्चित्तेजस्स्यात् कथं तन्नानुभूयते कथं च सौरचान्द्रादितेजसामभावेऽपि घटादिप्रकाशो न स्यात् न च मणिप्रभान्यायेण सूर्यचन्द्रदीपाद्यनुविधाय्येव तत्तेजः , तदीयत्वारोपाच्च सूर्यादितेजोऽभिभावकमिदमन्यत्तेजस्सूर्यादीनां सहजं निकृष्टं तेजः किञ्चित्प्रकाशमानमपि तत्करम्बितमित्येवं विवेकग्रहवैधुर्यमूलात्तदनुभवामावाभिमानः ; तथा सति दीपनिर्वापणे सति दीपप्रभामण्डलस्येव तस्यापि नाश इत्युपगमापत्तेः । न चेष्टापत्तिः ; प्रतिदीपव्यक्ति तत्तदभिभावकतेजोन्तराभ्युपगमस्य निर्मूलत्वात् । मन्त्रे तत्र तस्य तमिति पदगतैरेकवचनैस्यैव प्रतीतेः । तस्मात् प्रकृतं ब्रह्मैवात्र सर्वनामश्रुतिसार्पितं मन्त्रप्रतिपाद्यम् ; अनुकृतेः – अनुभानादित्यर्थः । एतदुक्तं भवति – त्यदेतत् ‘तमेव भान्तमनुभाति सर्वम्’ इत्यनुभानं तद्ब्रह्मपरिग्रहेऽवकल्पते , न तेजःपरिग्रहे । न ह्यत्र ‘गच्छन्तमनुगच्छति’ इत्यत्र तद्गमनानुकारिगमनान्तरवत्त्वमिव तद्भानानुकारिभानान्तरवत्त्वमुच्यते ; ‘तमेव भान्तम्’ इति तस्यैव भानवत्त्वोक्तिविरोधात् । न हि यत्र क्रियाभेदोऽस्ति तत्र ‘तमेव गच्छन्तमनुगच्छति’ इत्युच्यते । उच्यते तु क्रियाभेदाभावस्थले वह्निमेव दहन्तं तप्तायुःपिण्डोऽप्यनुदहतीति । तथा च भारूपे ब्रह्मण्यध्यस्तानां सूर्यादीनां तत्सत्तयैअ सत्त्ववत् , तत्प्रियतयैव प्रियत्ववच्च तद्भानेनैव भानवत्त्वमित्यपि सङ्गच्छते । यदाहुः – ‘अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम्’ इति । तेजसि तु न सङ्गच्छते ; तेजोधातूनां समत्वेनान्योन्यानपेक्षत्वात् । न हि प्रदीपः प्रदीपान्तरभानेन भानवानुपलभ्यते । किञ्च ‘तस्य भासा सर्वमिदं विभाति’ इत्यत्र सर्वसब्दः सकलप्रपञ्चपरः ; सङ्कोचकारणाभावात् । न च सकलप्रपञ्चभासकत्वं तेजस उपपद्यते ; तस्य चाक्षुषमात्रभासकत्वात् , सर्वप्रपञ्चभासककिञ्चिल्लौकिकतेजोऽभ्युपगमे तमसि कस्याप्यनुपलम्भाभावप्रसङ्गात् । ब्रह्मणि तूपपद्यते ; तस्य स्वाध्यस्तसकलानुभवरूपत्वात् । तस्मात् ब्रह्मण्येव मन्त्रोऽयं व्याख्येयः । तस्मिन् रूपादिमत्त्वभ्रान्त्या प्रसक्तस्य सूर्यादिप्रकाश्यत्वस्य ‘न चक्षुषा पश्यति कञ्चिदेनम्’ इति चाक्षुषत्वस्येव निषेधः सङ्गच्छते । भारूपे तस्मिन् ‘भान्त’ इति व्यपदेशोऽपि प्रकाशान्तरमनपेक्ष्य स्वयं प्रकाशरूपत्वाभिप्रायेण ‘सविता प्रकाशते’ ‘गुरुसन्निधिमात्रेण शिष्ये ज्ञानं प्रकाशते’ इत्यादिव्यपदेशवदुपपद्यते । ‘तस्य भासा’ इति भेदव्यपदेशोऽपि विषयावच्छिन्नरूपाभिप्रायेणोपपद्यते । सूत्रे ‘अनुभानात्’ वक्तव्ये ‘अनुकृतेः’ इति सामान्योक्तिर्ब्रह्माध्यस्तं सूर्यादि ब्रह्मसत्तयैवास्तीतिवत् ब्रह्मस्फुरणेनैव (तेजः) स्फुरतीति युक्तम् ; शुक्त्यध्यस्तरङ्गरजतादीनामधिष्ठानभास्वररूपेणैव भास्वरत्वोपपत्त्या प्रत्यध्यासम्भास्वररूपान्तरस्येवात्रापि प्रतिवस्तु अनुभवव्यक्त्यन्तरस्याकल्पनीयत्वादिति श्रौतावधारणानुग्राहकोपपत्तिसूचनार्थम् । ‘तस्य’ इति मन्त्रगतचतुर्थपादस्य ग्रहणं तदर्थस्य सर्वप्रपञ्चभासकत्वस्य हेत्वन्तरस्य प्रदर्शनार्थम् । पञ्चम्यभावात्तस्येत्यस्य हेत्वन्तरपरत्वस्फुटमिति तत्तात्पर्यस्फुटीकरणाय स्फुटोक्तहेतुना तत्समुच्चयार्थश्चकारः । विषयवाक्ये प्राणाकाशादिपदवत् सर्वनामातिरिक्तस्य ब्रह्मणि प्रयुक्तस्य पदस्याभावात् ‘अत एव प्राणः’(ब्र.सू.१.१.१३) इत्यादाविव पक्षनिर्देशः । हेतुसामर्थ्यात् पक्ष उन्नेय इति तात्पर्यम् ॥१.३.२२॥ स्यादेतत् – ‘न तत्र सूर्यो भाति’ इत्यादिना सूर्यादीनामभिभव उच्यत इत्येव वक्तव्यम् ; ‘कुतोऽयमग्निः’ इति कैमुतिकन्यायात् । येन महता तेजसा सूर्योऽप्यभिभूयते , तेनाग्निरभिभूयते इति किमुवक्तव्यमिति हि कैमुतिकन्यायोपन्यासः शोभते । न तु – यत्र रूपादिहीने ब्रह्मणि द्रष्टव्ये सूर्यो न कारणम् , तत्राग्निर्न कारणमिति किमु वक्तव्यमिति कैमुतिकन्यायः प्रवर्तते । एवमभिभवलिङ्गेन तेजसि निश्चिते तत्रैव ‘तमेव भान्तम्’ इत्येतदपि तत्तेजोऽनुप्रवेशेन सूर्यादीनां तेजस्वित्वमित्येतदाशयं योज्यम् । न च तेजसोः समत्वादनपेक्षा ; श्रुतिबलादेवाङ्गीकारोपपत्तेः । अङ्गीक्रियते हि ज्योतिश्शास्त्रबलात् चन्द्रमण्डलस्य सौरतेजोऽनुप्रवेशादेव तेजस्वित्वमिति । एवञ्च ‘सर्वमिदं विभाति’ इत्येतदपि प्रकृतस्य सूर्यादिप्रकाशस्य सर्वस्य तत्तेजःप्रकाश्यत्वाभिप्रायं योज्यमित्याशङ्क्याह –
अपि च स्मर्यते ॥२३॥ 【भाष्यम्】 ‘न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम’(भ.गी.१५.६) ‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्रौ तत्तेजो विद्धि मामकम्’(भ.गी.१५.१२) इति भगवद्गीतासु स्मर्यते । तथाचोपबृंह्मणानुसारेण ‘न तत्र सूर्यः’ इत्यादेर्ब्रह्मतेजोऽनुप्रवेशेन सूर्यादीनां तेजस्वित्वमित्येवार्थः । अपिशब्देन कठवल्लिष्वयं मन्त्रः परब्रह्मप्रकरणे श्रूयत इत्यतोऽपि परब्रह्मपर इति समुच्चीयते । न च तत्रापि तुल्या शङ्का ‘त्रयाणामेव चैवमुपन्यासः प्रश्नश्च’ इत्यानुमानिकाधिकरणसूत्रे कठवल्लिषु त्रयाणामग्निजीवब्रह्मणामेव प्रतिपादनम् , नान्यस्येति वर्णयिष्यमाणत्वात् । कैमुतिकन्यायोपन्यासस्त्वतिसौक्ष्म्येण दुर्दर्शत्वाभिप्रायेण योज्यः । यत्खलु अतिसूक्ष्मं वस्तु सौरातपेनापि न प्रकाश्यते , तत् दीपः प्रकाशयितुं नेष्ट इति किमु वक्तव्यमित्युक्तिर्युक्तैव । कठवल्लिषु ब्रह्मणो दुर्दर्शत्वमेव प्रकृतं ‘‘तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् । कथं नु तद्विजानीयां किमु भाति विभाति वा’(क. ५.१४) इति । आथर्वणे तु ‘हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छृभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः’(मु.२.२.९) इति पूर्वमन्त्रे ब्रह्म ज्योतिषां ज्योतिरित्युक्तम् ; तत्कथमित्याकाङ्क्षायां ब्रह्मैव सूर्यादीनामपि भासकमित्येतत्प्रदर्शनार्थत्वेनायं मन्त्रः पठ्यते । एवमुभयत्रापि प्रकृतस्य दुर्दर्शत्वस्य ज्योतिषां ज्योतिष्ट्वस्य चोपपादनार्थत्वेन एतन्मन्त्रपाठस्य दृष्टार्थत्वोपपत्तावप्रसिद्धतेजःप्रसिद्धतेजःकल्पनापेक्षोपासनाविध्यर्थत्वेनादृष्टार्थत्वकल्पनमनुचितमेव । इयमपि युक्तिः सौत्रेणा पिशब्देन समुच्चीयते । ननु पूर्वसूत्रे ब्रह्माध्यस्तस्य सूर्यादेर्ब्रह्मभानेनैव भानमनुभानं सूर्यादिविषयस्य अस्मदाद्यनुभवस्य ब्रह्मचैतन्यरूपत्वं पर्यवसितमिति व्याख्यातम् । कथमस्मिन्सूत्रे ‘यदादित्यगतं तेजः’ इति गीतावचनमनुसृत्य जगद्भासकं सूर्यादिगतं तेजो ब्राह्ममेव , न तु सूर्यादेरन्यत्तेजोऽस्तीत्येवं ब्राह्मतेजोनुप्रवेशेन तेजस्वित्वमनुभानमिति व्याख्यायते उच्यते – यदि कस्यचित्तेजसोऽनुप्रवेशेन तेजस्वित्वमनुभानमित्याशङ्क्यते , तदाऽपि पूर्वपक्ष्यभिमतं लौकिकं किञ्चित्सूर्याद्यभिभावकं तेजो मन्त्रप्रतिपाद्यं न सेत्स्यति , किन्तु ‘यदादित्यगतं तेजः’ इति स्मृत्यनुसारेण ब्रह्मैव मन्त्रप्रतिपाद्यं सेत्स्यतीत्युद्घाटयितुं ‘न तद्भासयते सूर्यः’ इति सूत्रितस्मृत्युदाहरणप्रसङ्गाद्भाष्ये ‘यदादित्यगतं तेजः’ इति स्मृतिरप्युदाहृता । वस्तुतस्तु ‘सर्वमिदं विभाति’ इत्यत्र सर्वशब्दसङ्कोचे कारणाभावाद्ब्रह्मणो वाऽन्यस्य वा कस्यचिद्बाह्यतेजोरूपया रभया सर्वमिदं विभातीत्यर्थस्य प्रत्यक्षपराहतत्वात् ब्रह्मणश्चैतन्यप्रभयैव सूर्यादिभासकत्वमर्थो ग्राह्यः । ‘यदादित्यगतं तेजः’ इति स्मृतौ तु सूर्यादितेजसां ब्रह्मशक्त्यधिष्ठितत्वाद्रूपादिव्यञ्जकत्वमिति ब्रह्मशक्त्यधीनत्वमात्रमुच्यते । ‘तापनी पावनी चैव शोषणी च प्रकाशिनी । नैव राजन्रवेः शक्तिः शक्तिर्न्नारायणस्य सा’ इति भारतवचनानुरोधादिति युक्तम् । अत्रानुभानस्य ब्रह्मलिङ्गस्यास्पष्टता स्पष्टैव । ‘परञ्ज्ज्योतिरुपसम्पद्य’(छा.८.३.४) इत्यादिवाक्यार्थविचारप्रसङ्गात् ‘तच्छुभ्रञ्ज्योतिषाञ्ज्योतिः’(मु.२.२.९) इति वाक्योक्तपरज्योतिष्ट्वसाधको ‘न तत्र सूर्यः’ इत्यादिमन्त्रो विचारित इति पूर्वाधिकरणसङ्गतिः ॥१.३.२३ ॥
इत्यनुकृत्यधिकरणम् ॥६॥ 【भाष्यम्】
शब्दादेव प्रमितः ॥२४॥ 【भाष्यम्】 ‘‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति’(क.२.१.१२) इति ‘‘अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाद्य स उ श्वः एतद्वै तत्’((क. उ २.१.१३) इति च कठवल्लीमन्त्रश्रुतः पुरुषो जीवो वा , ब्रह्म वेति अल्पपरिमाणलिङ्गेशानश्रुतिभ्यां प्रथमचरमश्रुताभ्यां संशये – पूर्वःपक्षः – अल्पपरिमाणात् जीवलिङ्गाज्जीवोऽयम् , ईशानशब्दस्य ब्रह्माभिधानश्रुतित्वेऽपि प्राथम्येन जीवलिङ्गस्य प्रबलत्वात् , स्वभावबलादपि प्राथम्यबलस्याधिकत्वात् ; अत एवोपक्रमाधिकरणे विधेः प्राधान्यबलमविगणय्यार्थवादस्य प्राथम्यबलमनुसृतम् । किञ्चात्र ईशानशब्दो न ब्रह्मणोऽभिधानश्रुतिः ; ‘भूतभव्यस्य’ इत्यैश्वर्यप्रतिसंबन्ध्युपादाने रूढ्यनुन्मेषात् , ‘‘पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैर्मयूखैः’(कुमा.सं.१.१६) इति श्लोके सरःप्रतिसम्बन्ध्यग्रोपादानवति सरोरुहशब्दे स्थितेऽपि पद्मशब्दप्रयोगदर्शनात् , अन्यथा ‘‘उत्फुल्लस्थलनलिनीवनादमुष्मादुद्धूतस्सरसिरुहोद्भवः परागः’(क.रा.५.३९) इत्यत्र सरसिरुहशब्दस्येवात्र सरोरुहशब्दस्य रूढ्युन्मेषे पद्मपदस्य पौनरुक्त्यप्रसङ्गात् । तस्मादिह ‘ईशानो भूतभव्यस्य’ इति पदद्वयसमभिव्याहाररूपवाक्यबोध्यं ब्रह्मलिङ्गमात्रम् । तत्तु प्रथमश्रुताज्जीवलिङ्गाद्दुर्बलमिति निर्विवादम् । स्यादेतत् – अल्पपरिमाणं जीवलिङ्गमिह न प्रथमश्रुतम् , किन्तु ‘ईशानो भूतभव्यस्य’ इत्येतत्पूर्वश्रुतेनैतन्मन्त्रश्रुतेन च भूतभव्येशितृत्वेन सन्दष्टं अल्पपरिमाणञ्च , न जीवलिङ्गम् । तद्धि शाण्डिल्यविद्यायान्दहरविद्यायाश्च ब्रह्मणोऽपि हृदयायतनोपाधिकं सम्प्रतिपन्नम् । न च – तत्रोभयत्रापि ‘एष म आत्माऽन्तर्हृदयेऽणीयान्’(छा.३.१४.३) इति, ‘दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः’(छा.८.१.१) इति च स्थाननिर्देशात् तदुपाधिकमल्पपरिमाणमिति युक्तम् , न त्वत्रेति वाच्यम् । अत्रापि ‘‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति’(क.४.१२) इति पूर्वमंत्रे स्थाननिर्देशात् । न च – आत्मशब्दस्य स्वभाववचनत्वे कस्य स्वभाव इत्यज्ञानात् जीववचनत्वे ब्रह्मवचनत्वे च तयोर्मध्याभावादिह नास्ति स्थाननिर्देशः , किन्तु मध्ये उदासीने स्वभावे तिष्ठति उदासीनस्वभावो भवतीत्येव तदर्थ इति वाच्यम् ; ‘‘ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वेदेवा उपासते’(क.५.३) इत्यत्र मन्त्रान्तरे प्राणापानमध्येऽवस्थानस्य , तदुपाधिकवामनत्वस्य च श्रवणेनात्रापि मध्यशब्दस्य प्राणापानमध्येऽवस्थानस्य , तदुपाधिकवामनत्वस्य च श्रवणेनात्रापि मध्यशब्दस्य प्राणापानमध्यपरतया हृदयस्थानलाभात् , आत्मशब्दस्य ‘आत्मा जीवे धृतौ देहे’ इत्यनुशिष्टदेहपरत्वोपपत्तेः , ‘आत्मैव महनीयः’ ‘आत्मा परिचर्यः’(छा. उ.८.८.४) इति विरोचनकृतदेहात्मवादोपदेशे देहविषयात्मशब्ददर्शनाच्च । किञ्च ‘अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः’इत्यत्रत्यमन्त्रान्तरे हृदयोपाधिनिर्देशः स्पष्ट एवास्ति । नन्वंगुष्ठमात्र इति मात्रशब्देनाधिकपरिमाणव्यावृत्तिः क्रियमाणाऽन्तःकरणोपाधिसंपिण्दितरूपे जीवे सम्भवति , न ब्रह्मणीति चेत् ; न । मात्रशब्दो ह्यत्र प्रमाणवाचिप्रत्ययः ‘प्रमाणे द्वयसज्दघ्नञ्मात्रचः’(पा.सू.५.२.३७) इति सूत्रेणानुशिष्टः , न तु ‘क्षीरमात्रं पिब’ इत्यत्रेवोत्तरपदत्वनियतं प्रातिपदिकम् । तथा सति अङ्गुष्ठपरिमाणमात्र इत्यर्थलाभायांगुष्ठशब्दस्याङ्गुष्ठपरिमाण इत्यर्थे लक्षणापत्तेः । ननु ‘अथ सत्यवतः कायात्पाशबन्धवशाङ्गतम् । अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्’ इति जीवोऽङ्गुष्ठमात्रः स्मर्यते । को नेत्याह न हि वयं जीवस्याङ्गुष्ठमात्रत्वं नास्तीति ब्रूमः , किन्तु ब्रह्मण्यपि सम्भवता तेन ब्रह्मलिङ्गं न बाधनीयमिति ब्रूमः । ब्रह्मण्यङ्गुष्ठमात्रत्वसम्भवेऽपि ‘अङ्गुष्ठमात्रं पुरुषम्’ इति स्मार्तशब्दप्रत्यभिज्ञा जीव इव न सम्भवति इति चेत्, माभूत् , ‘अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठञ्च समाश्रितः । ईशस्सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक्’(महानारा १६.३) इति तैत्तिरीये, ‘अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः । हृदा मनीषामनसाऽभिक्लृप्तो य एनं विदुरमृतास्ते भवन्ति’(श्वे.उ. ३.१३) इति श्वेताश्वतरे च ब्रह्मविषयमन्त्रश्रवणेन ब्रह्मणि ततो बलवती प्रथमान्तश्रौतशब्दप्रत्यभिज्ञा जागर्ति । तस्मादंगुष्ठमात्रत्वलिङ्गाज्जीव इति निर्णयो न युक्त इति चेत् ; अत्र ब्रूमः – अंगुष्ठमात्रत्वं न भूतभव्येशितृत्वेन सन्दष्टम् , किन्तु तदेव मन्त्रद्वये पठितमपि ‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति’ इति तत्प्राक्श्रुतेन ‘अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा’ इति तदनन्तरश्रुतेन चाङ्गुष्ठमात्रत्वेन सन्दष्टम् । अङ्गुष्ठमात्रत्वञ्च हृदयायतनोपाधिकं ब्रह्मणि न सम्भवति ; तैत्तिरीये हृदयाग्रवर्त्यतिसूक्ष्मवह्निशिखामध्यस्य ब्रह्मायतनत्वेनोक्ततया तदुपाधिकस्याणीयस्त्वस्यैव प्राप्तेः , तदभिप्रायेणैव शाण्डिल्यविद्यायां तस्य श्यामाकतण्दुलादप्यणीयस्त्वोक्तेः ; दहरविद्यायां पुण्डरीकदहरत्वोक्त्यैव दहरत्वसिद्धावपि पुनर्दहरत्वोक्त्याऽतिसूक्ष्मत्वस्य व्यञ्जनाच्च । तैत्तिरीये ब्रह्मणोऽङ्गुष्ठमात्रत्वश्रवणमंङ्गुष्ठावच्छेदोपाधिकमिति तत्रैव स्पष्टम् । यत्तु श्वेताश्वतरे हृदयावच्छेदोपाधिकांङ्गुष्ठमात्रत्ववर्णनं तत् ब्रह्मणो जीवात्माभिप्रायेणेति युज्यते ; ‘त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वञ्जातो भवसि विश्वतोमुखः’(श्वे.उ.४.३) इत्यादितत्रत्यमन्त्रान्तरेषु जीवात्मना ब्रह्मोपवर्णनदर्शनात् । जीवे हि हृदयावच्छेदोपाधिकमङ्गुष्ठमात्रत्वमञ्जसा सम्भवति – अन्तःकरणसंपिण्डितो जीवः । अन्तःकरणं च प्रायेण हृत्कमलकोशस्थानम् । हृत्कमलकोशस्तु मनुष्याणामङ्गुष्ठमात्र इति , न तु तत्र ब्रह्मण इवाग्रसुषिरवृत्तित्वादिविशेषश्रवणमस्ति । स्पष्टञ्च हृदयावच्छेदोपाधिकोऽङ्गुष्ठमात्रो जीव इति ‘‘अ ङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः’(क.६.१७) इत्यत्रमन्त्रस्योत्तरार्धे ‘‘तं स्वाच्छरीरात् प्रवृहेन्मुञ्जादिवेषीकां धैर्येण । तं विद्याच्छुक्रममृतम्’(क.६.१७) इत्यस्मिन् शरीरविविक्ततया ज्ञातव्यत्वप्रतिपादनेन । स्पष्टञ्चान्येष्वपि मन्त्रेषु ‘प्राणाधिपस्सञ्चरति स्वकर्मभिः अङ्गुष्ठमात्रो रवितुल्यरूपः’(श्वे.उ.५.७.८) इत्यादिषु । प्रत्यभिज्ञापि स्मार्त्येवानुग्राहिका ; स्मृतौ हृदयावच्छेदोपाधिकाङ्गुष्ठमात्रत्ववर्णनात् उत्क्रमणकाले जीवस्सह मनःप्राणेन्द्रियैर्हृदयं प्रविश्य तत एवोत्क्रामतीति श्रुतिप्रसिद्धेः । न च ‘न तत्र सूर्यः’ इति मन्त्रस्य तेजोविषयत्वे इवास्य मन्त्रस्य जीवविषयत्वे प्रकरणविरोधोऽस्ति ; कठवल्लिषु ‘येयं प्रेते’ इति प्रश्नानुसारेण जीवस्यापि वक्तव्यत्वात् । तस्मात् प्रथमश्रुतहृदयावच्छेदोपाधिकाङ्गुष्ठमात्रत्वलिङ्गसमर्पितो जीव एव सङ्कुचितदेहेन्द्रियादिभूतभव्येशितृत्वेन वा , असङ्कुचितभूतभव्येशितृतयोपास्यत्वेन वा ‘तद्योऽहं सोऽसौ योऽसौ सोऽहम्’ इत्यत्रेव तथाभूतेश्वरात्मतयोपास्यत्वेन वा अस्मिन्मन्त्रे प्रतिपाद्यत इति । एवं प्राप्ते सिद्धान्तः – अंगुष्ठप्रमितः परमात्मा ; तदभिधानश्रुतिरूपादीशानशब्दात् । न च यौगिकार्थप्रतिसम्बन्ध्यनुपादान एव रूढ्युन्मेष इति नियमः ; तत्प्रतिसम्बन्ध्युपादानेऽपि रूढशब्दश्रवणप्रयुक्तरूढ्युन्मेषस्यानिवार्यत्वात् । काव्येषु तु व्यंग्यार्थप्रधानेषु यस्य शब्दस्य यौगिकार्थो व्यञ्जनाव्यापारानुकूलस्तं शब्दं यौगिकार्थ एवोपक्षीणं कृत्वा तदीयरूढ्यर्थसमर्पणार्थं क्वचित् क्वचित् पदान्तरमुपाददत इति तत्पदान्तरोपादानं न यौगिकार्थेप्रतिसम्बन्ध्युपादानस्य रूढ्युन्मेषविरोधित्वप्रयुक्तम् ; तदनुपादानेपि ‘‘तव प्रसादात् कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्यां हरस्यापि पिनाकपाणेः धैर्यच्युतिं के मम धन्विनोऽन्ये’(क.मा. ३.१०) इत्यत्र तद्दर्शनात् । अत्र हि कैमुतिकन्यायोपयोगिसारतरायुधत्वव्यञ्जनानुकूले यौगिकार्थ एव पिनाकपाणिशब्दमुपक्षीणं कृत्वा तद्रूढिविषयशिवसमर्पणार्थपदान्तरं प्रयुक्तम् । किञ्च यस्य योगरूढिमतः पदस्य सन्निधौ तदलभ्यस्य कस्यचिदवयवार्थस्य विशेषकं किमपि प्रथममुपादीयते – यथा ‘पद्मानि यस्याग्रसरोरुहाणि’ इति यथा वा ‘लपनं पद्ममेवास्या लावण्यसरसीरुहम्’ इति – तत्पदं तद्विशेषितयौगिकार्थवशीकृतमिति तेनापि हेतुना तत्र रूढ्युन्मेषो न भवतीति वक्तुं शक्यम् । इह तु सङ्कोचकाभावादीशानपदयौगिकार्थतया तल्लब्ध एवार्थो ‘भूतभव्यस्य’ इत्यनेन पश्चादनुवदिष्यत इति नात्र तदनुन्मेषशावकाशः । नन्वीशानश्रुत्यनुरोधे प्रथमश्रुतस्याप्यनुवाद्यस्य तात्पर्यवता विधेयेन विरोधे सत्युपमर्दो युक्त एव ; उक्थ्याग्निष्टोमाधिकरणन्यायात् । तथा हि – ‘उक्थ्याग्निष्टोमसंयोगादस्तुतशस्त्रः स्यात्सति हि संस्थाऽन्यत्वम्’(जै.सू.१०.५.१२) इति दाशमिकाधिकरणे ‘अप्यग्निष्टोमे राजन्यस्य गृह्णीयादप्युक्थ्ये ग्राह्यः’ इति वचनाद्राजन्यनिमित्तेनोक्थ्याग्निष्टोमयोः कर्तव्यः षोडशिग्रहयागाभ्यासः स्तोत्रशस्त्ररहितः स्यात् , तत्सहितो वेति संशये, उक्थ्यस्याग्निष्टोमस्य च सतः षोडशियागाभ्यासविधानात्तदङ्गस्य षोडशिस्तोत्रस्यानुष्ठाने क्रतोरुक्थ्यस्तोत्रान्तत्वरूपस्योक्थ्यत्वस्य अग्निष्टोमस्तोत्रान्तत्वरूपस्याग्निष्टोमत्वस्य चोपमर्दप्रसङ्गात् स्तोत्रशस्त्ररहितः स्यादिति प्रापय्य , षोडशियागाभ्यासविधिना साङ्गस्य तस्य विधानेन तदङ्गभूतयोः स्तोत्रशस्त्रयोरनिवार्यत्वाद्विधेयेन संस्थान्तरेणानुवाद्ययोरुक्थ्याग्निष्टोमसंस्थयोरुपमर्दो न्याय्य इति स्तोत्रशस्त्रसहित एव स्यात् । एवञ्चोक्थ्यसंस्थोऽग्निष्टोमसंस्थो वा यः क्रतुः प्राप्तः स राजन्यस्य न तथा , किन्तु प्राप्तसंस्थोपमर्देन षोडशिसंस्थः कर्तव्य इति । उक्तं च ‘उक्थ्यसंस्थो हि यः प्राप्तस्तथाऽग्निष्टोमसंस्थिकः । राजन्यस्य तथा नासौ किन्तु षोडशिसंस्थिकम्’ इति । एवमिहाप्यन्तःकरणोपाधिपरिकल्पितरूपतया योऽङ्गुष्ठमात्रः प्राप्तो जीवः स न तथा , किन्त्वसंकुचितसकलभूतभविष्यद्वर्तमानवस्तुनियन्तृत्वप्राप्तसकलान्तरवस्थानतया व्यापकः परमात्मैवैत्यर्थो ग्राह्यः । नन्विहांगुष्ठमात्रमनूद्य तस्येशानभावो विधीयते चेत् अस्तु नाम पूर्वरूपोपमर्दः । तदेव कुतोऽवसीयते । नह्यत्र किञ्चिदनुवाद्यं किञ्चिद्विधेयमित्यत्र ज्ञापकमस्तीति चेत् ‘अङ्गुष्ठमात्रः पुरुषोन्तरात्मा’ इत्युत्तरमन्त्रवशादेवमवसीयते । तत्र हि पूर्वार्द्धेन जीवमनूद्य ‘तं स्वाच्छरीरात्प्रवृहेत्’ इति तस्य स्थूलसूक्ष्मदेहद्वयादप्रमादेन बुद्धिबलेन विवेचनं विधाय विवेचितस्य तस्य ‘तं विद्याच्छुक्रममृतम्’ इति शुद्धब्रह्मभावो विधीयते । इहापि स एवार्थः संग्रहेण वर्ण्यते । अत्र ‘अङ्गुष्ठमात्रः पुरुषः’ इति जीवानुवादः । ‘ज्योतिरिवाधूमकः’ इति जडदेहान्तःकरणसंवलितस्य तस्य ततो विवेचनम् । ‘ईशानो भूतभव्यस्य’ इति तस्य ब्रह्मभावविधिरिति । ननु तद्वदत्र शुद्धब्रह्मभावोपदेशो न दृश्यत इति चेत् , न । अत्राल्पपरिमाणत्वोपमर्देन तद्विरोधिव्यापकब्रह्मभावप्रतिपत्तये व्यापकत्वोपलक्षकस्य सर्वनियन्तृत्वस्योपन्यासात् । उक्थ्याग्निष्टोमवाक्ययोरपि ह्यनूदितोक्थ्याग्निष्टोमसंस्थोपमर्दकविधेयषोडशियागसंस्थोपलक्षकं षोडशिग्रहणमेवोपस्यस्तम् ।सूत्रगत एवकारः – कथं ‘अहमिहैवास्मि सदने जानानः’ इत्यल्पपरिमाणत्वेनानुभूयमानस्य व्यापकब्रह्मभावः इत्याशङ्कायां वचनबलादेव , नह्यस्ति वचनस्यातिभार इति परिहारज्ञापनार्थः ॥१.३.२४॥ ननु जीवस्याप्यङ्गुष्ठमात्रत्वेनानुवादो न युक्तः । तस्याराग्रमात्रत्वश्रवणादित्याशंक्याह –
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥२५॥ 【भाष्यम्】 जीवस्य हृद्यवस्थानमपेक्ष्य इदमङ्गुष्ठमात्रत्वमुच्यते । नाडीसञ्चारमपेक्ष्य त्वन्यत्र आराग्रमात्रत्वश्रवणम् । अत एवापरत्रातिसूक्ष्मनाडीसञ्चारमपेक्ष्य वालाग्रायुतभागत्वश्रवणमपि दृश्यते । नाडीहृदयादितत्तदवकाशानुसारिसङ्कोचविकासेनान्तःकरणेनावच्छिन्नो जीवोऽपि हि तथा तथा भवति । ननु हृदयापेक्षमप्यंङ्गुष्ठमात्रत्वमनुपपन्नम् ; हस्तिमशकादीनां हृदयपरिमाणभेदात् । न च तत्तदङ्गुष्ठपरिमाणं ग्राह्यम् ; खरतुरगादीनामङ्गुष्ठाभावादित्याशङ्क्योक्तं ‘मनुष्याधिकारत्वात्’ इति । मनुष्याधिकारं शास्त्रम् , अतो मनुष्यान्प्रति जीवस्य ब्रह्मभाव उपपादनीयः । मनुष्याणाञ्च हृदयं तदङ्गुष्ठमात्रमिति तदवच्छिन्नजीवस्य तथात्वेनानुवादो युज्यत एव । यत्तु भाष्ये ब्रह्मणोऽङ्गुष्ठमात्रत्वोपपादनपरतयाऽस्य सूत्रस्य व्याख्यानम् , तत् अयंमन्त्रः ‘तत्त्वमसि’ वाक्यवज्जीवब्रह्माभेदपरमहावाक्यविधयेव ब्रह्मपरावान्तरवाक्यविधयाऽपि योजयितुं शक्य इति प्रौढिवादमवलम्ब्य , न तु भाष्याभिमतम् । अग्रे ‘यदप्युक्तम्’ इत्यादावङ्गुष्ठमात्र इत्यनेन जीवानुवाद इत्यस्यैवार्थस्यानुमोदनात् । नन्वित्थमङ्गुष्ठमात्रत्वश्रवणं मनुष्यदेहापन्नज्जीवविषयतया सङ्कोचनीयनं चेत् , एवमेव भूतभव्येशानत्वश्रवणमपि देहेन्द्रियादिनियन्तृत्वविषयतया सङ्कोच्य कृत्स्नोऽयं मन्त्रः किमिति जीवपरो नाभ्युपेयते – इत्याशङ्कापरिहारार्थस्तुशब्दः । अनन्यगतिकतया कस्यचित्सङ्कोचः कृत इति तस्यापि सङ्कोचः कर्तुं न युक्तः ; जीवस्याङ्गुष्ठमात्रत्वमुपमृद्य तदभेदेनोपदेश्ये ब्रह्मणि व्यापकतोपलक्षणत्वेन तदसङ्कोचोपपत्तेरिति परिहाराभिप्रायः ॥१.३.२५॥
इति प्रमिताधिकरणम् ॥७॥ 【भाष्यम्】
तदुपर्यपि बादरायणः सम्भवात् ॥२६॥ 【भाष्यम्】 ब्रह्मविद्याधिकारित्वं मनुष्याणां यदीरितम् । तत्प्रसङ्गेन देवानामप्यस्तीति प्रसाध्यते ॥ मनुष्याणामुपरि ये देवास्तेषाञ्च मन्यते । सूत्रकारोऽधिकारित्वं तत्रार्थित्वादिसम्भवात् ॥ दिव्ये सुखे निमग्नानामपि मोक्षार्थिता भवेत् । तस्यापि निर्विशेषत्वात् क्षयसातिशयत्वयोः ॥ तेषां सामर्थ्यमप्यस्ति पटुदेहेन्द्रियादिकम् । मन्त्रार्थवादेतिहासपुराणाद्युपवर्णितम् ॥ तेषामनुपनीतानामधीतिर्नास्ति चेदपि । वेदो जन्मान्तराधीतः स्वयं भायान्महात्मनाम् ॥ श्रुतञ्चेन्द्रस्य विद्यार्थं गुरूपसदनं श्रुतौ । तेषामृषीणाञ्च नृणां मुक्तत्वमपि विद्यया ॥ सूत्रे तदुपरीत्येततन्मनुष्याणामधस्तनात् । व्यावर्तयति पश्वादीन् ब्रह्मविद्याधिकारतः ॥१.३.२६॥
विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥२७॥ 【भाष्यम्】 यद्यवाप्य ब्रह्मविद्यामिन्द्राद्या मुक्तिमाप्नुयुः । यष्टव्यदेवताऽभावात् कर्मलोपो भवेत्तदा ॥ इति चेन्मैवमाम्नायतदन्तेषु स्मृतिष्वपि । अनेकस्येन्द्रवह्न्यादिभावसन्प्राप्तिदर्शनात् ॥ नक्षत्रेष्ट्यर्थवादादिष्विन्द्रादीनामनेकता । यष्टृयष्टव्यभावादिभेदकैर्हि प्रदर्शता ॥ ततश्च मुक्तिं कस्मिंश्चिद्विद्यया समुपेयुषि । तदन्य इन्द्रस्तत्काले यष्टव्यः कर्मणां भवेत् ॥१.३.२७॥ स्यादेतत् – कर्मण्येवं विरोधस्य समाधानं वितन्वतः । इन्द्रादिशब्दे स भवेत् कर्माङ्गमनुषु श्रुते ॥ न ह्येक इन्द्रस्तस्यार्थो नियन्तुं शक्यते तदा । न चानेकत्र तद्वृत्तिर्निमित्तैक्यं विना भवेत् ॥ नैवास्ति डित्थशब्दस्य सङ्केतविषयेष्विव । अर्थेषु तेषु तेष्वेकं निमित्तं तस्य योजकम् ॥ क्रियेतेन्द्रादिशब्दस्य यदि डित्थादिशब्दवत् । प्रत्यर्थव्यक्तिसङ्केतस्तदा सापेक्षता भवेत् ॥ व्यवस्थितश्चार्थ एको मन्त्राणां नैव सम्भवेत् । तत्सम्भवे च तच्छून्ये कल्पे ते स्युर्निरर्थकाः ॥ तस्मादिन्द्रादिशब्दस्य वाच्यो मन्त्रार्थवादयोः । नित्य एकैक एवार्थो न भिन्नः कालभेदतः ॥ यष्टृयष्टव्यभावस्तु न कर्मानधिकारिणाम् । अर्थवादैः प्रशंसार्थं कल्पितो भेदसाधकः ॥ ब्रह्मा विष्णुश्च रुद्रश्च साक्षाद्ब्रह्म च यष्टृताम् । यष्टव्यत्वञ्च तैर्नीतं वाच्यं तत्रैवमेव हि ॥ आत्मासाधारणं द्रव्यमन्यसाधारणं सुरैः । कृतं वास्त्विष्टिभिस्तेषां भेदसिद्धिः कथं ततः ॥ वस्वाद्युपासकानान्तु वस्वादिभवनोक्तयः । भोगसाम्यपराः कल्प्याः तेषां वस्वादिभिस्सहं ॥ अन्यथा खलु वस्वादिसंख्याधिक्यं प्रसज्यते । परश्शतेषु युगपत्प्रेप्सुषूपासनाफलम् ॥ दृष्टा हि विष्णुभावस्य तद्यागफलताश्रुतेः । तद्भोगसाम्यपरता सर्वेषामपि सम्मता ॥ सृष्टिप्रलयवाक्यानामयन्तु विषयो भवेत् । देवानां देहनिकरः सृज्यते ह्रियते च यत् ॥ सर्गादौ भगवान्धाता यथापूर्वमकल्पयत् । इत्येवमादिवाक्यानां लभ्यते चैवमार्जवम् ॥ एवञ्चास्पृष्टदेहादौ तत्तदातमिकवाचके । इन्द्रादिशब्दनिकरे न विरोधः प्रसज्यते ॥ अस्पृष्टमत्स्यरूपादौ परमात्मैकवाचके । विष्णुर्नारायणः कृष्णो विधुरित्यादिके यथा ॥ तथाचेन्द्रादिदेवानामिन्द्रत्वाद्यनपायतः । सह्यं सातिशयत्वं स्यात् कृच्छ्रञ्च प्रलयादिकम् ॥ तस्मान्मुक्तावसाध्यायामर्थित्वं न सुपर्वणाम् । इत्याशङ्काऽपनोदार्थमिदं सूत्रं प्रवर्तते ॥
शब्दं इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् ॥२८॥ 【भाष्यम्】 श्रुतिस्मृतिभ्यां देवानां शब्दप्रभवता यतः । अतोऽत्र नेदृशी शङ्काऽवकाशं प्रतिपद्यते ॥ एवं खल्वत्राशङ्का कृता – वर्तमानेन्द्रस्य विद्यया मुक्तौ यष्टव्येन्द्राभावादग्रे कर्मलोपो माभूदित्येतदर्थं तदानीमिन्द्रान्तरसृष्ट्यभ्युपगमे कर्माङ्गमन्त्रेषु ‘इन्द्रागच्छ हरिव आगच्छ’ ‘आयाहीन्द्र पथिभिरीडितेभिस्सोमं पिब वृत्त्रहन् शूर विद्वान्’ इत्यादिषु श्रुते इंद्रशब्दे विरोधः स्यात् । न हि भूतो भविष्यन्वर्तमानो वा तस्यैक एवेन्द्रो वाच्य इति नियन्तुं शक्यते ; विनिगमनाविरहात् , इन्द्रान्तरे यष्टव्ये तस्य तदवाच्यत्वेनैन्द्र्या गार्हपत्य इव तस्य तत्र विनियोजकश्रुत्यभावेन च लिङ्गविनियोज्यानामैन्द्रमन्त्राणां तत्र विनियोगाभावप्रसङ्गाच्च । न च तावत्स्विद्रेष्विन्द्रशब्दस्य वृत्तिरेकं प्रवृत्तिनिमित्तं विना सम्भवति । प्रवृत्तिनिमित्तञ्चैकं डित्थशब्दस्य तत्सङ्केतविषयेष्विवात्रापि तावत्स्विन्द्रेष्वनुगतं नास्ति । एवमग्न्यादिशब्दानामप्यग्न्याद्यार्थेषु । यदि चैत्रमैत्रादीनां पुत्रेषूत्पन्नेषु तद्व्यवहारार्थं पित्रादिभिरिच्छया डित्थ इति सङ्केत इव तत्तत्कालवृत्तिष्विन्द्रादिषूत्पन्नेषु तद्व्यवहारार्थं काश्यपादिभिः स्वेच्छयेन्द्रोऽग्निर्मित्रो वरुण इत्यादिसङ्केतः क्रियते , तदा वैदिकानामिन्द्रादिशब्दानां तत्तत्कालसङ्केतयितृपुरुषबुद्ध्यधीनसङ्केतापेक्षतत्तत्कालवर्तिभिन्नभिन्नार्थबोधकत्वे तत्सापेक्षत्वलक्षणमप्रामाण्यं स्यात् । व्यवस्थितश्चैकैकोऽर्थो न स्यात् । व्यवस्थितैकैकेन्द्राद्यर्थाभ्युपगमे च तदन्येन्द्रादिमतिकल्पे ‘इन्द्रागच्छ’ इत्यादिमन्त्राणां विनियोगो न स्यात् । तस्मात्तेषामनपायीन्द्रत्वादिप्रवृत्तिनिमित्तो नित्य एकैक एवार्थः स्वीकर्तव्यः । अत्रेयमाशङ्का स्यात् – नक्षत्रेष्ट्यर्थवादेषु ‘इन्द्रो वा अकामयत ज्यैष्ठ्यं देवानामभिजयेयमिति स एतमिन्द्राय ज्येष्ठायै पुरोडाशमेकादशकपालं निरवपत्’ ‘अग्निर्वा अकामयत । अन्नादो देवानां स्यामिति । स एतमग्नये कृत्तिकाभ्यः पुरोडाशमष्टादशकपालं निरवपत्’ इत्यादिष्विन्द्रस्येन्द्रो यष्टा अग्नेरग्निः सोमस्य सोमः सवितुः सवितेत्यादिप्रकारेण यष्टृयष्टव्यभावश्रवणादिन्द्रभेदादिकं तावत्स्वीकर्त्तव्यम् । इन्द्रादीनां स्वस्वोद्देशेन द्रव्यत्यागात्मकयागानुष्ठानानुपपत्तेः स्वस्मै सङ्कल्प्यमानस्य द्रव्यस्य स्वत्वत्यागासम्भवात् । एवमिन्द्रभेदादिकञ्च कल्पमन्वन्तरादिकालभेदेनोपपादनीयम् ; युगपदिन्द्रद्वयाद्यभावात् । तथा च एतत्कल्पादिवर्तीन्द्रः पूर्वकल्पादिस्थितायेन्द्राय तदानीं हविर्निरवपदित्यादिस्तदर्थः पर्यवस्यतीति नेन्द्रादीनां नित्यत्वं युज्यते । तथा मधुविद्यायां ‘तद्यत्प्रथममृतं वेद वसूनामेवैको भूत्वाऽग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति । स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति’ इत्यादिश्रवणात् , उपास्येष्वन्यतमस्य वसुभावादिपरावृत्तिं विना तत्तदुपासकस्य वस्वादिभावप्राप्तौ ‘अष्टौ वसव एकादश रुद्रा द्वादशादित्याः’ इत्यादिश्रुतिप्रसिद्धवस्वादिसंख्याऽतिरेकप्रसङ्गाच्च । उपास्यानां वस्वादीनां यावदधिकारमवस्थाय परावृत्तौ पुनश्च वस्वन्तरादिसृष्टिकाले पूर्वं वस्वाद्युपजीव्यादित्यमण्डलगतरोहितादिरूपात्मकामृतोपासनाकृतोऽपि तेषु तेष्वन्यतमभावं प्राप्नुवन्तीत्येव तदर्थः पर्यवस्यतीति वसुरुद्राद्दित्यमरुत्साध्यगणानामपि नित्यत्वं न युज्यते । एवञ्चान्येषामपि देवानां प्रसिद्धाप्रसिद्धानां नित्यत्वं न युज्यत इति कैमुतिकन्यायेन सिद्ध्यति । अत एव वेदेषु वेदान्तेषु इतिहासपुराणेषु च इन्द्रादीनां सर्वेषामपि देवानां सृष्टिप्रलयौ वर्ण्येते इति । अत्रेदमुत्तरम् – यष्टृयष्टव्यभावस्तु नेन्द्रादिभेदसाधकः । देवैरप्यनुष्ठितानि कर्माणि मनुष्यैरनुष्ठेयानीति किमु वक्तव्यमिति कैमुतिकन्यायेन प्रशंसार्थं कल्पितो हि सर्वत्र ‘देवा वै सत्रमासत’ इत्याद्यर्थवादजाते कर्मानुष्ठातृभावः ; वस्तुतो देवानां कर्माधिकाराभावेन बाधित्वात् । तथा च यष्टव्या इन्द्रादयोऽपि ज्यैष्ठ्यादिफलमेताभिरिष्टिभिः प्राप्नुवन् , अन्यैस्तत्प्राप्त्यर्थमनुष्ठेया एता इति किमु वक्तव्यमित्येवंविधेनापि कैमुतिकन्यायेन प्रशंसार्थं यष्टृयष्टव्यभावोऽपि कल्पित एव स्यात् । श्रूयते हि बृहदारण्यके साक्षाद्ब्रह्मापि ब्रह्मविद्ययैव ब्रह्मभावं प्रापत् , अन्यैर्देवर्षिमनुष्यादिभिर्ब्रह्मभावप्राप्त्यर्थं ब्रह्मविद्याऽवाप्तव्येति किमु वक्तव्यमिति कैमुतिकन्यायेन प्रशंसार्थमर्थवादः ‘तदाहुः यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवत्’ इति । ‘ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्’ इति , तथैव ‘इन्द्रो वा अकामयत’ इत्यादयोऽप्यर्थवादाः स्युः । तथा सति हि यष्टृपरेन्द्रादिपदानां भविष्यदिन्द्रादिभावेषु लक्षणा परिहृता भवति । अवश्यञ्च रोहिणीश्रवणार्द्रानक्षत्रेष्टिविध्यर्थवादेष्वेवमेवोपपादनीयम् । तैर्हि ब्रह्मविष्णुरुद्राः सर्वकल्पानुयायिनः कल्पान्तरे ब्रह्मविष्णुरुद्रान्तराभावेनाभेदेऽपि यष्टृयष्टव्यभावं नीताः । ये तु ब्रह्मविष्णुरुद्रानप्यधिकारिजीवविशेषतया प्रतिकल्पं भिन्नान्मन्यन्ते , तैरप्यभिजिन्नक्षत्रेष्ट्यर्थवादे इत्थमुपपादनीयम् । तेन हि साक्षात्परं ब्रह्मैव यष्टृयष्टव्यभावं नीतम् । अस्तु वेन्द्रादीनां नक्षत्रेष्टिष्वकल्पितो यष्टृयष्टयभावः । स त्विन्द्रादिभेदाभावेऽप्युपपद्यत एव । न हि नक्षत्रेष्टिषु केवला इन्द्रादयो यष्टव्याः , किन्तु ज्येष्टादीनि नक्षत्राण्यपि । तथाचेन्द्रादिभिः स्वस्वासाधारणमेकादशकपालादि द्रव्यं यागे ज्येष्ठानक्षत्रादिसाधारणं कृतमिति निर्वोढुं शक्यत्वान्न तत्र यष्टृयष्टव्यभावेन भेदसिद्धिशङ्कावकाशः । मधुविद्यायामुपासकस्य वस्वादिभावश्रवणं तु वस्वादिपदप्राप्तिपूर्वकं तत्तद्भोगसाम्यपरमुपपद्यते ‘अस्माकं भ्रातॄणां मध्ये त्वमेकः’ इति लौकिकवचनवत् । अन्यथाऽष्टाधिकसंख्येषूपासकेषु युगपदुपासनाफलप्राप्त्यर्थमुपस्थितेषु सर्वेषां वस्वादिभावप्राप्त्या तत्संख्याऽतिरेकः स्यात् । दृष्टञ्च ‘वैष्णवं वामनमालभेत स्पर्धमानः’ इति विधिशेषस्य ‘विष्णुरेव भूत्वेमान् लोकानभिजयति’ इत्यर्थवादस्य जेतृत्वे विष्णुसाम्यमात्रपरत्वम् । इन्द्रादीनां प्रतिकल्पं पूर्वदेहोपसंहारदेहान्तरसृष्टी स्तः पुण्डरीकाक्षस्येव । ‘धर्मसंस्थापनार्थाय सम्भवामि युगे युगे’(भ.गी.४.८) इत्यादिस्मृतिप्रसिद्धौ पूर्वदेहान्तर्द्धानदेहान्तरपरिग्रहाविति स एव देवसृष्टिप्रलयवाक्यानां विषयः । एवञ्च ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्’(महानारा.५.७) इत्यादिश्रुतीनामप्याञ्जस्यं लभ्यते । यथा राष्ट्रक्षोभे या दग्धगृहाः प्रजाः , ता एव पुनर्गृहान्तरनिर्माणेन राजा कल्पयति , एवं याः सूर्याचन्द्रमसद्युपृथिवीप्रभृतयो देवताः प्रलयेनोपसंहृतदेहास्ता एव सर्गादौ पुनर्देहान्तरनिर्माणेन प्रजानां पतिरकल्पयदिति हि तदर्थः प्रतीयते । न चैवमपि देवमनुष्यादिशब्दानामिवेन्द्रादिशब्दानां देहविशिष्टात्मवाचकत्वस्य वक्तव्यत्वादेकस्येन्द्रादेः प्रतिमन्वन्तरं भिन्नानां बहूनां देहानां तत्तन्मात्रानुगतजात्यवच्छिन्नत्वाभावदेकैकदेहविशिष्ट एवेन्द्रादौ पृथक्पृथक्सङ्केतोऽङ्गीकर्तव्य इति पुनरपि शब्दविरोधस्तदवस्थ इति वाच्यम् । इन्द्रादिशब्दानां वज्रायुधादीनीव विग्रहानपि विहाय आत्मवाचकत्वोपपत्तेः । विष्ण्वादिशब्दानां परस्परविलक्षणमत्स्यादिमूर्तीरपहाय व्यूहावतारादिसकलमूर्त्यनुस्यूतपरमात्ममात्रवाचकत्वदर्शनात् । तस्मान्नित्यसंसारिवादिमते संसारित्ववन्नित्यत्वेनानपायिन इन्द्रत्वादेर्विद्ययाऽपासितुमशक्यत्वादिन्द्रचन्द्रादिपदानां सातिशयत्वं सातिशयमुक्तिवादिमते मुक्ताविव संसार एव सोढव्यम् । तथा प्रलयमन्वन्तराद्यखिलमपीति देवानां मुक्तेः साधयितुमशक्यतया तत्साधनसामर्थ्याभावात् , तदुपयोगिश्रवणादिप्रवृत्तिकरार्थित्वासम्भवाच्च न मुक्तिसाधनविद्यार्थेषु श्रवणमनननिदिध्यासनसगुणोपासनेष्वधिकार इति । नेयमाशङ्काऽवकाशं लभते , ‘एत इति वै प्रजापतिर्देवानसृजत , असृग्रमिति मनुष्यान् , इन्दव इति पितॄन्’ ‘स भूरिति व्याहरत् स भूमिमसृजत , स भुव इति व्याहरत् सोऽन्तरिक्षमसृजत’(तै.ब्रा.२.२.४.२) ‘वेदेन रूपे व्याकरोत् सतासती प्रजापतिः’ ‘सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे’ ‘नामरूपञ्च भूतानां कृत्यानाञ्च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनाञ्चकार सः’(मनु.१.२१) इत्यादिश्रुतिस्मृतिगणाभ्यां देवादिकस्य सर्वस्य जगतो वेदशब्दप्रभवत्वावसायात् । ननु वेदवत् ब्रह्मप्रभवस्य जगतः कथं वेदशब्दप्रभवत्वं कथञ्च तावतेन्द्रादिशब्दाविरोधपरिहार इति चेत् ; अत्राहुः – पूर्वस्यामिन्द्रादिव्यक्तौ विनष्टायां जगत्स्रष्टा वैदिकादिन्द्रादिशब्दान्मनसि विपरिवर्तमानात्पूर्वेन्द्राद्याकारैश्वर्यादिकं बुद्धावालिख्य तदाकारैश्वर्ययुक्तामेवापरामिन्द्रादिव्यक्तिं सृजति , यथा कुलालो घटादिशब्दान्मनसि विपरिवर्तमानात् प्राचीनघटाद्याकारमनुसन्धाय तदाकारां घटादिव्यक्तिं सृजतीत्यनेनरूपेण निमित्तकारणभूतवैदिकशब्दप्रभवत्वमिहाभिमतम् । तेन चेन्द्रादिशब्दानां जातिनिमित्तकत्वद्योतनात् साङ्केतिकत्वशङ्कामूलकशब्दविरोधपरिहारो लभ्यते । जातिनिमित्तकेभ्यो हि घटादिशब्देभ्य उक्तरीत्या निमित्तभूतेभ्यस्तत्तदर्थाः प्रभवन्तो दृश्यन्ते । साङ्केतिकास्तु डित्थादिशब्दाः प्रागुत्पन्नैः पित्रादिभिर्व्यवहारार्थं नामधेयापेक्षैः प्रयोज्यमानाः स्वयमेवार्थेभ्यः प्रभवन्ति । जातिनिमित्तकत्वञ्चेन्द्रादिशब्दानां पूर्वापरेन्द्रादिग्रहानुगतैकैकजातिसद्भावान्मनुष्यपशुपक्ष्यादिसब्दन्यायेन , त्रिदिवत्वादिजात्यावच्छिन्नैकैकस्थानाधिपत्यसद्भावान्नरपत्यमात्यादिशब्दन्यायेन चोपपद्यत इति । अत्रेदमाक्षिप्यते – इन्द्रादिशब्दानां उक्तरीत्या गौणमप्यर्थसृष्टिनिमित्तत्वमसिद्धम् ; अर्थसिद्ध्यर्थमपेक्षितस्य तदनुसन्धानस्य प्राक्तनतदनुभवादेव सम्भवेन तद्वाचकशब्दानपेक्षणात् । अत एव कैश्चिदुपकरणैः किञ्चिदर्थनिर्माणं दृष्ट्वा तद्वाचकशब्दानभिज्ञा अपि नानाशिल्पनिपुणास्तैरुपकरणैस्तथाभूतमेव व्यक्त्यन्तरं निर्मिमाणा दृश्यन्ते । शिल्पिनां प्रतिमादिनिर्माणार्थं तदनुसन्धानस्य शास्त्रापेक्षत्वेऽपि परमात्मनो जगत्सृष्ट्यर्थं जगदनुसन्धानस्य तत्सापेक्षत्वमसिद्धम् ; तस्य स्वत एव सर्वज्ञत्वात् । अत एव सास्त्रयोनित्वाधिकरणे तस्य शास्त्रानपेक्षमेव सार्वज्ञ्यं शास्त्रयोनित्वेन साधितम् । आगन्तुकसार्वज्ञ्यश्चतुर्मुखो देवादीनां नामरूपस्रष्टा , न साक्षात् परमात्मा इति चेत् , न । देवादीनां नामरूपस्रष्टा परमात्मैवेति संज्ञामूर्तिक्लृप्त्यधिकरणे निर्णीतत्वात् । अस्तु वा चतुर्मुखोऽपि, तदीयस्यापि सृज्यानुसन्धानस्य वाचकशब्दापेक्षत्वमसिद्धम् ; ‘ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम्’ इति पूर्वकल्पानुष्ठितसत्कर्माधीनस्यापि तत्सार्वज्ञ्यस्य सहजत्वश्रव्णात् । देवादीनां वाचकशब्दप्रभवतायां ‘एत इति वै प्रजापतिर्देवानसृजत’ इत्यादिश्रुत्युदाहरणमप्ययुक्तम् ; ‘एते’ ‘असृग्रम्’ ‘इन्दवः’ इति पदानां देवमनुष्यपितृवाचकत्वाभावात् , कथञ्चिद्योगादिनापि तत्तत्सृष्ट्युपयोगितत्तदाकृतिविशेषोपस्थितिजनकत्वासम्भवाच्च । यत्तु – एतच्छब्दो देवानां करणेष्वनुग्राहकत्वेन सन्निहितानां स्मारकः । असृग्रुधिरं ; तत्प्रधानदेहेरममाणानां मनुष्याणां असृग्रशब्दः । इन्दुमण्डलस्थपितॄणामिन्दुशब्द इति , तदयुक्तम् ; कल्पादौ देवसृष्टेः पूर्वं तत्स्रष्टुः करणेष्वधिष्ठातृत्वेन देवानां सन्निधानासम्भवात् । तत्सम्भवेऽप्येत इत्येकेन सर्वनामशब्देन तत्तद्देवासाधारणाग्निसूर्येन्द्रादिपदजातेनेव तत्तद्देवजातीयव्यक्त्यन्तरसृष्ट्यनुकूलायाः परस्परव्यावृत्तजात्यवच्छिन्नतत्तद्देवोपस्थितेरसम्भवात् । तत्सम्भवेऽपि ‘एते असृग्रमिन्दवस्तिरः पवित्रमाशवः । विश्वान्यभिसौभग’ इत्यस्मिन्मन्त्रे लतारूपसोमदेवत्यबहिष्पवमानस्तोत्रविनियुक्ते ‘छन्दांसि वै सोममाहरंस्तं गन्धर्वो विश्वावसुः पर्यमुष्णात्तेनापः प्राविशत् । तं देवता अन्वैच्छन् । तं विष्णुरप्सु पर्यपश्यत् । स ह्यकाङ्क्षादयं नु नाप्य इति । तं पुरा प्रास्फुरत्तस्मात् पृथगिन्दवोऽसृज्यन्त । स देवताभ्योऽभितस्तिष्ठन्तीभ्यः एते असृग्रमिन्दव इति प्राब्रवीत् । बहिष्पवमानेन वै यज्ञः सृज्यते । यदेते असृग्रमिन्दव इति प्रस्तौति । यज्ञमेव तत्सृष्टं देवेभ्यः प्राहेति । एत इति वै प्रजापतिर्देवानसृजत’ इत्याद्यर्थवादानन्तरश्रुतविनियोगानुरोध्यर्थवादानुसारेण , वेदभाष्यकारादिकृतव्याख्यानानुसारेण च ‘एते इन्दवस्सोमाः, तिरःपवित्रं तिर्यग्भूतं दशापवित्रं प्रति , आशवः शीघ्रगामिनः , विश्वानि सौभगा सर्वाणि सौभाग्यानि अभि उद्दिश्य , असृग्रं असृज्यन्त’ इत्येवमर्थके श्रुतस्यैत इत्यस्येन्दुशब्दोक्तसोमविशेषणतया करणाधिष्टातृदेवपरामर्शित्वासम्भवात् । विनियोगानुसार्यर्थवादविरोधिनः ‘एते इति वै प्रजापतिर्देवानसृजत’ इत्यर्थवादस्य ‘नृमेधश्च परुच्छेपश्च ब्रह्मवाद्यमवदेताम्’ इत्याद्यर्थवादस्य अग्निसृष्टिसामर्थ्याधानवर्णनेन ‘एते असृग्रमिन्दवः’ इति मन्त्रस्तुतौ तात्पर्योपपत्तेः । अस्यार्थवादस्य प्रथमश्रुतत्वेन बलवत्त्वोक्तावतोऽपि प्रथमश्रुतेन ‘एते असृग्रमिन्दव इति बहुभ्यः प्रतिपदं कुर्यात्’ इति बहुयजमानकक्रतुगतबहिष्पवमानस्तोत्रे उदाहृतमन्त्रस्य विनियोगविधेः शेषेण ‘एते इति सर्वानेवैनानृध्यै भूत्या अभिवदति’ इत्यर्थवादेन ‘एते’ इत्यस्य यजमानपरत्वस्य वक्तव्यतया करणाधिष्ठातृदेवपरामर्शित्वस्यानुपपत्तेः , अर्थवादद्वयमध्ये श्रुतस्याप्यस्यैव बलवत्त्वेऽपि ‘यदेत इति तस्माद्यावन्त एवाग्र देवास्तावन्त इदानीम्’ इत्यस्यैव शेषभूतेनानन्तरश्रुतार्थवादेन ‘एते’ इत्यस्यातीतवर्तमानकल्पयोरष्टौ वसव एकादश रुद्रा इत्यादिदवगणसंख्यासाम्यपरतया व्याख्यातत्वेन तत्तदसाधारणजात्यवच्छिन्नकरणाधिष्ठातृदेवपरामर्शित्वोक्तेः कथमप्यवकाशाभावाच्च । एतेन – देवादिसृष्टेर्वैदिकशब्दप्रभवत्वे ‘स भूरिति व्याहरत्’ इत्यादिश्रुतिस्मृत्युदाहरणमपि निरस्तम् ; जगत्स्रष्टुः सहजसार्वज्ञ्याधीनाया देवादिसृष्टेर्वैदिकशब्दाः’ इत्यनेन रूपेण वेदस्तुतिपरत्वस्यैव वक्तव्यत्वात् । पूर्वोत्तरेन्द्राद्यनुगतजात्युपाधिप्रदर्शनेन शब्दविरोधपरिहाराविवक्षायां च तदेव सूत्रे साक्षात्प्रदर्शनीयम् , न तु तदुपपादकत्वेनाभिमतं दुरुपपादं च इन्द्रादीनां वेदशब्दप्रभवत्वम् । तत्र श्रुतिस्मृतिदिदर्शयिषायां च ‘श्रुतिस्मृतिभ्याम्’ इत्येव सूत्रणीयम् , न ‘प्रत्यक्षानुमानाभ्याम्’ इति ; अस्फुटार्थत्वात् , गुरुत्वाच्च । तस्मात् सर्वमिदमसमञ्जसमिव भाति । अत्र ब्रूमः – सृष्टिषु त्रिदशादीनां सरसीरुहभूरपि । कर्तैव कलशादीनां कुलाल इव सृष्टिषु ॥ अत एव तपस्तस्य सृष्टिसामर्थ्यसिद्धये । इतिहासपुराणेषु प्रपञ्चेन प्रदर्शितम् ॥ सृष्ट्वा समादिशत्तस्मै वेदानीश इतीरितम् । ‘यो ब्रह्माणम्’ इति श्रुत्या यत्तस्यायं किलाशयः ॥ शिल्पी यथा शिल्पशास्त्रवचनेभ्यो मरुत्वताम् । विज्ञाय नामरूपाणि निर्माति प्रतिमादिकम् ॥ तथैव त्रिदशादीनां नामरूपाणि सर्वशः । विज्ञाय वेदशब्देभ्यो विश्वं वेधास्सृजत्विति ॥ एवं च लब्धं सार्वज्ञ्यं जातमात्रेण वेदतः । सहजं तेन तत्सृष्टा देवास्स्युर्वेदशब्दजाः ॥ यद्यपीन्द्रस्सहस्राक्ष इत्यादेरेव वैदिकात् । नैते असृग्रमित्यादेश्शब्दादिन्द्रादिसम्भवः ॥ देवसङ्ख्याक्लृप्तिरपि पूर्वकल्पानुवर्तिनी । अष्टौ वसव इत्यादेर्नैतस्मादेत इत्यतः ॥ तथापि महिमाऽन्यस्या वैदिक्याः पदसंहतेः । प्रत्यासत्त्योपचारेण स्तुतयेऽन्यत्र वर्ण्यते ॥ कल्पवृक्षवलक्षांशुलक्ष्मीप्रभवतादिकः । कलशाब्ध्यादिमहिमा लवणाम्बुनिधाविव ॥ समुद्रमथनोद्भूतश्शिवभूषणतात्मकः । कलाधर्म इव व्योम्नि चरिष्णौ चन्द्रमण्डले ॥ सर्गाद्यकालजैकैकविप्रादिव्यक्तिमात्रगम् । मुखबाहूरुपज्जत्वं वर्णेष्वद्यतनेष्विव ॥ एत इत्यादिशब्दानां देवसंख्याद्यवाचिनां । तादर्थ्योक्तिस्तु नेतव्या स्वपित्यादिनिरुक्तिवत् ॥ भाष्यं तु वेदाद्देवादिप्रभवोऽस्ति श्रुतीरितः । इत्येतल्लकतया साऽपि श्रुतिरुदाहृता ॥ पूर्वापरेन्द्रादिगतजातीनामेव सिद्धये । वेदशब्दप्रभवतां देवादीनामसूत्रयत् ॥ नामरूपाण्यनुस्मृत्य सृष्टानां हि घटादिवत् । समानमामरूपत्वं देवादीनां प्रसिद्ध्यति ॥ प्रसिद्ध्यन्ति ततस्तेषां नाम्नां व्यक्तिषु हेतवः । समानाकृत्यभिव्यंग्या वासवत्वादिजातयः ॥ साक्षात्तु जातिवाचित्वं हेतूकर्तुं ब्न शक्यते । असिद्धं तद्धि शंक्येत परासंप्रतिपत्तितः ॥ समाननामरूपत्वं हेतूकर्तुं न शक्यते । तत्रापि हेतुरत्रोक्तस्सोऽप्यग्रे दर्शयिष्यते ॥ इन्द्रादिदेवभावस्य कर्मप्रभवताऽऽत्मकम् । अर्थान्तरमपि क्रोडीकर्तुञ्चेत्थमसूत्रयत् ॥ समाननामाकृतयो बहवस्सन्तु विग्रहाः । देवत्वं त्वनपाय्यस्त्वित्याशङ्का तेन वार्यते ॥ कर्मजत्वेऽपि देवानां यौगपद्येऽपि कर्मणां । अष्टौ वसव इत्यादिसंख्याया न भवेत् क्षतिः ॥ संख्याश्रुतिबलात् कर्मविपाके कल्प्यते क्रमः । यौगपद्यमिवैतस्मिन् प्रलयोत्पातवर्णनात् ॥ यत्प्रत्यक्षानुमानाभ्यामित्यसूत्रयदस्फुटम् । तदप्यर्थान्तरं तेन क्रोडीकर्तुं न तद्वृधा ॥ प्रत्यक्षं प्रतिमास्वेतच्छब्दात् प्रभवतीति यत् । अनुमेयं विरिञ्चेन सृष्टेषु सुमनस्स्विति ॥ अयमत्र परिहारार्थः – यद्यपि संज्ञामूर्तिक्लृप्त्यधिकरणे नामरूपव्याकरणं परमेश्वरकर्तृकमिति निर्णीतम् , तथाऽपि घटादिसृष्टिषु कुलालादिवद्देवादिसृष्टिषु चतुर्मुखोऽपि कर्तैव ; इतिहासपुराणेषु तस्य सृष्टिसामर्थ्यसिद्धये तपश्चरणस्य तल्लब्धसामर्थ्येन देवादिस्रष्टृत्वस्य च वर्णनात् । ‘तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्हवै शरणमहं प्रपद्ये’(श्वे.उ.६.१८) इति श्वेताश्वतरोपनिषन्मन्त्रे श्रूयते । तत्र जगत्सृष्ट्यधिकारितया सृष्टाय प्रथमं वेदोपदेष्टुरित्थमाशयो वर्णनीयः – यथेदानीं शिल्पी शिल्पशास्त्रवचनेभ्यो देवादीनां नामरूपाणि विज्ञाय प्रतिमादिकं निर्माति , एवञ्चतुर्मुखोऽपि वेदादिवचनेभ्यस्तन्नामरूपाणि विज्ञाय देवादिकं सर्वं जगत्सृजतु इति । तस्य परमेश्रवोपदिष्टवेदलब्धं सार्वज्ञ्यं जातमात्रेण लब्धत्वात् सहजसिद्धमिति पौराणिकैर्गीयते । ततश्च वेदलब्धसृष्ट्युपयोगिनामरूपविज्ञानेन तेन सृष्टा देवा वेदशब्दप्रभवा इति युक्तमेव । यद्यपि इन्द्रादिनामानि सहस्राक्षत्वादिरूपप्रतिपादकपदानि च येषु वेदवाक्येषु सन्ति , तेभ्य एवेन्द्रादीनां तत्तन्नामरूपविशिष्टानां प्रभवः , न तु ‘एते असृग्रमिन्दवः’ इत्यादिपदसंहतेः ; यद्यपि (च) ‘अष्टौ वसवः’ इत्यादिश्रुत्यन्तरादेव देवसंख्याक्लृप्तेनात्रत्यादिन्दुविशेषणात् ‘एत’ इति पदात् , तथाप्यन्येषामपि वैदिकपदानां महिमा वैदिकत्वसामान्येन तत्सन्निकृष्टेष्वन्येषूपचारेण स्तुतयेऽर्थवादेषु वर्ण्यते ; काव्येषु यथा कल्पवृक्षप्रभवत्वादिः क्षीरसमुद्रस्य महिमा समुद्रत्वसामान्याल्लवणसमुद्रे वर्ण्यते , समुद्रमथनप्रभवत्वादिः कलाधर्मश्चन्द्रत्वसामान्यात् प्रसिद्धे चन्द्रमण्डले वर्ण्यते , मुखजत्वबाहुजत्वादिः सर्गाद्यकालप्रभवैकव्यक्तिधर्मोऽद्यतनेष्वपि ब्राह्मणक्षत्रियादिषु वर्ण्यते । यत्तु ‘एते असृग्रमिन्दवः’ इति मन्त्राम्नातानामेत इत्यादिपदानामर्थवादेषु देवसंख्यादिवाचित्ववर्णनं तत् ‘स्वपिति’ इत्यादिनिरुक्तिवद्यथाकथञ्चित् तत्तत्पदशक्तिसंपादनेन स्तुत्यर्थमिति नेतव्यम् । श्रूयते हि ‘यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति’(छा.६.८.१) ‘यत्रैतत्पुरुषोऽशिशिषति नाम आप एव तदशितं नयन्ते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्षते अशनाया’(छा.६.८.३) इत्यादि । न हि स्वशब्दप्रातिपदिकाप्युपसृष्टैतिधात्वन्तररूपावयवद्वयघटितःस्वपितिशब्दः ; न वा बुभुक्षायां निपातितोऽशनायाशब्दो गोनायादिशब्दवत् कर्मोपपदान्नयतेरणन्तः ; तथाप्यक्षरसाम्यमात्रेण तत्र यथाऽर्थवादेषु तत्तदर्थवर्णनमेवमिहापि नेतव्यम् । यत्तु भाष्य देवानां वेदशब्दप्रभवतायां ‘एत इति वै प्रजापतिर्देवानसृजत’ इत्यादेरविवक्षितस्वार्थस्यार्थवादस्य प्रमाणतया प्रदर्शनं तदस्मिन्नर्थे श्रुतयः सन्तीति श्रुत्यन्तरोपलक्षकतया , न तु स एवार्थवादस्तत्र प्रमाणमित्याशयेन । अत एव ‘स भूरिति व्याहरत्’ इत्यादीनि श्रुत्यन्तराण्यपि भाष्ये प्रदर्शितानि । यदुक्तम् – शब्दविरोधपरिहारार्थमिन्द्रादिशब्दानामिन्द्रत्वादिजातिवाचित्वे , तत्तत्पदविशेषाधिपत्यरूपोपाधिवाचित्वे वा हेतूकर्त्तव्ये किमर्थं सूत्रे देवानां शब्दप्रभवत्ववर्णनम् इति ; तत्रेदमुत्तरम् – जातिवाचित्वं पूर्वोत्तरेन्द्रादिगतजातिसिद्धिसापेक्षम् , उपाधिवाचित्वं तद्घटकपूर्वोत्तरेन्द्रादिपदगतजातिसिद्धिसापेक्षमिति तासामेव जातीनां सिद्धये देवादीनां तत्तत्पदविशेषाणां च वेदोपवर्णिततत्तन्नामरूपानुसन्धानपूर्वकं प्रजापतिना सृष्टत्वं सूत्रे वर्णितम् । तेन हि पूर्वोत्तरेन्द्रादिषु , तत्पदादिषु च घटादिष्विव नाम्नामाकृतीनाञ्च समानत्वं सिद्ध्यतीति तेषां नाम्नां साक्षादिन्द्रादिषु प्रवृत्तिनिमित्तभूततादृशोपाधिसङ्घटनसमर्थाश्च समानाकृत्यभिव्यङ्ग्या इन्द्रादिगतास्तत्पदविशेषगताश्च जातयः सिद्ध्यन्ति । साक्षाज्जातिवाचित्वस्य हेतूकरणे त्विन्द्रत्वादिजातीनां पूर्वपक्ष्यसम्मतत्वादसिद्धिशङ्का स्यात् । यद्यपि तासां जातीनां साक्षात्साधकं समाननामरूपत्वं सूत्रयितुं शक्यम् , तस्योदाहरिष्यमाणश्रुतिस्मृतिसिद्धत्वात् , तथापि तद्धेतुर्दाढ्र्यार्थं तस्याप्युपपादकं देवानां शब्दप्रभवत्वं सूत्रितम् । सोऽपि हेतु: ‘समाननामरूपत्वात्’(ब्र. सू. १. ३. ३०) इति सूत्रे दर्शयिष्यते । अपिच देवत्वेन्द्रत्वादीनां कर्माधीनत्वरूपमर्थान्तरं गर्भीकर्तुमपि ‘अतः प्रभवात्’ इति सूत्रितम् । अस्मिन्नर्थे ‘अत’ इत्यनेन पूर्वसूत्रप्रकृतकर्मपरामर्शः । प्रभवः प्रादुर्भावः कर्मजन्येष्विन्द्रादिविग्रहेषु देवत्वेन्द्रत्वादिजातिविशेषाणामभिव्यक्तिः । प्रसिद्धं हि देवत्वादीनां कर्माधीनत्वम् । तथा हि – छन्दोगब्राह्मणे तावत् ‘अतिरात्रः पृष्ट्यषडहो महाव्रतं पृष्ट्यषडहस्त्रययस्त्रिंशारंभणोऽतिरात्रः एताभिर्वै देवा देवत्वमगच्छन् देवत्वं गच्छन्ति य एता उपयन्ति’ इति देवत्वस्य कर्माधीनत्वं श्रूयते । बृहदारण्यकोपनिषदि च ‘तद्यथा पेशस्कारी पेशसो मात्रामुपादायान्यं नवतरं कल्याणतरं रूपं कुरुते, एवमेवायमात्मेदं शरीरं निहत्याविद्यागमयित्वाऽन्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां वा भूतानाम्’(बृ. ४. ४. ४) इति कर्मणामैहिकशरीरत्यागानन्तरं पितृगन्धर्वदेवादिरूपप्राप्तिप्रतिपादनेन देवत्वादीनां कर्मविशेषाधीनत्वं ख्याप्यते । इतिहासपुराणेषु चन्द्रादिभावस्य शताश्वमेधादिप्राप्यत्वमुपवर्ण्यते । नहुषचरितपञ्चेन्द्रोपाख्यानादिष्विन्द्रादिभावस्याप्राप्तस्य प्राप्तेः प्राप्तस्य निवृत्तेश्च प्रतिपादनेन तत्तत्कर्माधीनत्वं ज्ञाप्यते । एवं देवत्वादीनां श्रुत्यादिप्रसिद्धकर्माधीनत्वसूत्रणेनेयं शङ्का व्यावर्त्यते सन्तु नामेन्द्रादीनां प्रतिकल्पं नवनवा विग्रहास्समानाकृतयः, तथापि तेषां देवत्वेन्द्रत्वादिकं नित्यमनपाय्यस्तु , इति । इत्थं च तद्व्यावर्तनम् – देवत्वादीनां तावत् कर्माधीनत्वं श्रुतिस्मृतिषु प्रसिद्धं , तत्तु श्रुतिस्मृतिस्वारस्येन तथैवाङ्गीकर्तुं युक्तम् , इन्द्रादिशब्दानामुक्तरीत्या जातिवाचित्वसमर्थनेन शब्दविरोधस्य परिहृततया तत्परिहारार्थमिन्द्रत्वादिनित्यत्वस्यासमर्थनीयत्वेन तदन्यथानयनक्लेशायोगात् इति । देवानां कर्मजत्वेऽपि तत्कर्मानुष्ठातॄणामानन्येऽपि तेषां कर्मणां यौगपद्यसंभवेऽपि न वस्वादिसंख्यानियमभङ्गः प्रसज्यते । यतो वस्वादिसंख्याश्रुतिबलेन तेषां कर्मणां विपाकक्रमः कल्प्यते प्रलयश्रुतिबलेन भिन्नकालजानामपि सर्वप्राणिगतदेहादिवियोजककर्मणां विपाकयौगपद्यवत् , उत्पातश्रुतिबलेन शिथिलिनीशलभाद्युद्गमहेतुतदीयकर्मणां विपाकयौगपद्यवच्च । यत्तु – ‘श्रुतिस्मृतिभ्याम्’ इति स्फुटार्थे लघुनि सूत्रे कर्तव्ये किमर्थं ‘प्रत्यक्षानुमानाभ्याम्’ इति सूत्रितमिति चोद्यम् ; तत्रेदमुत्तरम् – तेनाप्यर्थातरं क्रोडीकर्तुं तथा सूत्रितमिति न तद्वैयर्थम् । अर्थान्तरं च देवादीनां शब्दप्रभवत्वे श्रुतिस्मृत्यनुग्राहकयुक्तिरूपम् । यद्धि शास्त्रावगम्यरूपविशेष वस्त्वन्येन निर्मीयमाणं दृष्ट्वा केनचिद्बुद्धिपूर्वकं निर्मीयते तच्छास्त्रजन्यतन्नामरूपावगत्यैवेति शिल्पशास्त्रज्ञेन निर्मीयमाणेषु प्रतिमादिषु सर्वसंवेद्यमेव तत् । तमेव प्रतिमादिषु गृहीतं नियममवलंब्य सर्गादौ विरिञ्चेन सृष्टेषु देवादिषु अनुमीयते इति । तस्मात् सर्वं समंजसमेव । एवं देवानां ब्रह्मविद्यार्थश्रवणाद्याधिकारमभ्युपगच्छतः सूत्रकारस्य मते इन्द्रादीनामेकैकव्यक्तिताङ्गीकारे तन्मुक्त्यनन्तरं यष्टव्येन्द्राद्यभावात् कर्मणि विरोधः स्यात् । अनेकव्यक्तित्वाङ्गीकारे तेषामिन्द्रादिपदेषु क्रमेणागच्छताममात्यसेनापत्यादिपदेष्वागच्छतामिवानुगतानतिप्रसक्तेन्द्रादिशब्दप्रवृत्तिनिमित्तत्वयोग्यजातिमत्त्वे प्रमाणाभावात्तेषु शक्तिग्रहासम्भवेनेन्द्रादिशब्दे विरोधः स्यादिति शङ्कापरिहारार्थतया ‘विरोधः कर्मणीति चेत्’ इत्यादिसूत्रद्वयस्य भाष्याभिप्रेतयोजना दर्शिता । अथ देवतानां विग्रहाङ्कीकारे कर्मणि , शब्दे च विरोधः स्यादिति शङ्कापरिहारार्थतया सूत्रद्वयस्य योजनां भाष्ये कण्ठतः प्रदर्शितामुपन्यस्यामः । देवतानां विग्रहाभ्युपगमे यागादिकर्मणि सन्निधानेन भाव्यम् ; विग्रहवतोऽङ्गस्य ऋत्विगादिवत् सन्निधाय ऋतूपकारकत्वनियमात् । न च तासां यागादिदेशे सन्निधानमङ्गीकर्तुं शक्यम् ; युगपत् प्रवृत्तानेकयागदेशगमनासम्भवात् , प्रत्यक्षबाधितत्वाच्च ; इत्याद्यसूत्रे शङ्का । देवतानां योगिनामिव युगपदनेकदेहप्राप्तेः श्रुतिस्मृतिषु दर्शनात् , सामर्थ्यविशेषेणास्मदाद्यदृश्यत्वसम्भावाच्च यागदेशे तासां सन्निधानं सम्भवतीति तत्परिहारः । अथवा माभूद्यागदेशे देवतासन्निधानम् । स्वस्थानस्थितामेव देवतामुद्दिश्य युगपद्यजमानाः स्वस्वद्रव्यं त्यक्ष्यन्ति । बहुभिर्नमस्क्रियमाणस्यैकस्य ब्राह्मणस्य स्वस्थानस्थितस्यैवानेककर्तृकनमस्कारकर्मणि युगपदङ्गभावप्रतिपत्तिदर्शनात् तद्वदिहाप्युपपत्तिरिति परिहारः । देवतानां विग्रहवत्त्वे जननमरणावश्यम्भावेन इन्द्रादिजननानन्तरं तत्पित्रादिकृतमिन्द्रादिनाम डित्थादिनामवत्पुरुषबुद्धिप्रभवं भवेदिति तत्पूर्वकवाक्यार्थप्रत्ययस्य पुरुषबुध्यपेक्षितमानान्तरापेक्षत्वापत्त्या वैदिकशब्दे सापेक्षत्वलक्षणाप्रामाण्यापत्तिरूपो विरोध इति द्वितीयसूत्रे शङ्का । इन्द्रादिशब्दानां प्रागुक्तरीत्या वेदोपदर्शितनामरूपानुसन्धानसष्टेन्द्रादिविग्रहरतसमानाकृत्यभिव्यंग्यजातिवाचित्वसमर्थनेन तत्परिहारः । इदमत्र चिन्त्यते – स्यात्कर्मणि विरोधश्चेद्देवानां विग्रहे सति । विग्रहाभावपक्षे वा कथं तत्स्यान्न दूषणम् ॥ न नियमः कथमप्युपकारके क्रतुषु विग्रहवत्यपि सन्निधेः । अवनिदानमुखैरुपकारको न खलु सन्निहितो नृपतिः क्रतौ ॥ अस्ति विग्रहवतोऽङ्गताजुषःसन्निधौ नियम इत्युरीकृतौ । व्यर्थमेव नियमे विशेषणं सर्वमङ्गमयते हि सन्निधिम् ॥ जुहूमदन्त्यादिषु किं न सन्निधिर्व्यपेक्ष्यते विग्रहवर्जितेष्वपि । अतः कथङ्कारमविग्रहाऽपि ते न सन्निधायाङ्गमिहास्तु देवता ॥ विग्रहेण रहिताऽपि देवता नो खलु क्रतुगणेषु केनचित् । इन्द्रमित्रवरुणादिशब्दिता सन्निधिं विदधती समीक्ष्यते ॥ अपि चापरिहार्यस्ते दोषोऽयं विग्रहं प्रतिक्षिपतः । विग्रहवती हि कुर्याद्युगपत्सन्निधिमनेककायबलात् ॥ विग्रहवती च गच्छेदङ्गत्वं देवता न सन्निहिताऽपि । प्रवसन्निव यजमानः कर्ता कालेषु याजमानजपस्य ॥ अविग्रहं क्रियाशब्दव्यतिरिक्तं न वीक्ष्यते । यत्खल्वसन्निधानेऽपि गच्छेत् क्रत्वङ्गतां क्वचित् ॥ यदि पुरुषोच्चार्यत्वाद्यागेष्विन्द्रादिशब्द एवाङ्गम् । न तु तत्तदर्थ इति मतिरनङ्गमर्थस्तदाऽस्तु विग्रहवान् ॥ न हि विग्रहवत्त्वे स्यादर्थोऽप्यङ्गमितीदृशम् । आपादनं क्रियत इत्यवकाशवती स्पृहा ॥ शब्दे विरोधो यदि विग्रहे भवेत् कथं समाधिस्तदभावसम्मतौ । नास्त्यर्थ एवेति यदि प्रपद्यसे दृढीभवेत्तर्हि विरोधदुर्दशा ॥ नित्योऽर्थ इत्युपगमे त्वनित्यास्सन्तु विग्रहाः । शब्दवाच्यबहिर्भूताः क विरोधः प्रसज्यते ॥ इत्यापत्तेरनित्यार्थे विग्रहासम्मतावपि । वक्तव्ये सति पूर्वोक्तविरोधतदवस्थितिः ॥ तस्मादाक्षेपभागस्य सूत्रयोरनयोर्द्वयोः । देवताविग्रहाक्षेपपरता नोपपद्यते ॥ अयमत्र शङ्काऽर्थः । देवताविग्रहाङ्गीकारे तदेव दूषणमुद्भावनीयम् , यत्तदनङ्गीकारे न प्रसरति । कर्मविरोधदूषणं तु तदनङ्गीकारेऽपि प्रसरति । तथा हि – विग्रहवतः क्रऋतूपकारकत्वे सन्निधाननियममवष्टभ्यकर्मणि विरोध आपादितः , उत क्रत्वङ्गत्वे आद्ये स्वस्थान एव स्थित्वा धनदानयज्ञवाटरक्षणादिना क्रतूपकारके राज्ञि व्यभिचारः । द्वितीये विग्रहवत इति विशेषणं व्यर्थम् ; विग्रहरहितस्यापि जुह्वादेः क्रत्वङ्गस्य सन्निधाननियमदर्शनात् । अतो विग्रहरहिताऽपि देवता सन्निधानाभावे कर्माङ्गं न स्यादिति कथं विग्रहाभावपक्षेऽपि कर्मणि विरोधो न स्यात् । न हि विग्रहरहिताऽपि देवतेन्द्रादिशब्दिता क्रतुषु सन्निहिता केनचिद्दृश्यते । अपिच विग्रहानङ्गीकार एवापरिहार्यः कर्मणि विरोध आपतति । न हि विग्रहरहितदेवतायां युगपत् प्रवृत्तेषु यागेषु कायव्यूहेन सन्निधिरिति परिहारः प्रवर्तते । किञ्च विग्रहवत्त्वे देवतायाः प्रवसद्यजमानवदसन्निधानेऽपि क्रत्वङ्गत्वमुपपादयितुं शक्यम् , न तु तद्राहित्ये । न हि विग्रहरहितं प्रवसद्यजमानजप्यमानमन्त्रेभ्यस्तत्तत्क्रियमाणविष्णुक्रमेभ्यश्चान्यदसन्निहितं क्रत्वङ्गं दृश्यते । यद्युच्येत क्रतुविन्द्रादिशब्द एवाङ्गम् ; पुरुषेणोच्चार्यतयाऽनुष्ठातुं शक्यत्वात् तु तदर्थः ; अननुष्ठेयत्वादिति , तदा तदर्थस्य विग्रहवत्त्वं कथं सन्निधानाभावेन प्रत्याख्यातुं शक्यम् अनङ्गत्वेन सन्निधानानपेक्षणात् । न हि विग्रहवत्त्वेऽर्थोऽप्यङ्गं स्यादित्यापादनं सम्भवति ; विशेषाभावात् । शब्दविरोधापादनमपि विग्रहाभावपक्षसाधारणम् । कथम् यदि विग्रहराहित्योक्तिभंग्येन्द्रादिशब्दानामर्थ एव नास्तीत्युक्तं स्यात् , तदेन्द्रादिशब्दघटितवैदिकवाक्यार्थानिष्पत्त्या शब्दविरोधः । अर्थाङ्गीकारेऽपि तस्य नित्यत्वाभ्युपगमे विग्रहवादिनाऽपि नित्यमिन्द्रादिशब्दार्थमङ्गीकृत्य तस्यागमापायिनां भूषणायुधादिवदिन्द्रादिशब्दवाच्यबहिर्भूतानां विग्रहाणां स्वीकर्तुं शक्यत्वात् विरोधो न प्रसज्यत इति दोषापत्तेरनित्य एवार्थे विग्रहाभाववादिनाऽप्यङ्गीकर्तव्ये सतीन्द्रादिशब्दे तत्सम्बन्धस्यानादित्वासम्भवेन पुरुषबुद्धिकल्पितत्वस्य वक्तव्यत्वाच्छब्दविरोधस्तदवस्थः । तस्मादनयोः सूत्रयोराक्षेपभागस्य देवताविग्रहाक्षेपपरता नोपपद्यत इति । अत्र ब्रूमः – असारावित्थमाक्षेपौ पूर्वमीमांसकैः कृतौ । देवताविग्रहद्वेषभरान्धीकृतदृष्टिभिः ॥ तावेवात्रापहसितुं परिहारञ्च तात्त्विकम् । वक्तुं सूत्रपदारूढौ विदधे भाष्यकृन्मुनिः ॥ १.३.२८॥ एवं देवतानां ब्रह्मविद्याऽधिकारममृष्यमाणैः परैरुद्भावितं शब्दविरोधं ‘अतः प्रभवात्’ इति हेतुना परिहत्य तद्धेतूक्तिसामर्थ्यलब्धेन जगत्कारणत्वेन वेदस्यापौरुषेयत्वलक्षणं नित्यत्वं व्यवस्थापयति –
अत एव च नित्यत्वम् ॥२९॥ 【भाष्यम्】 वेदः पौरुषेयो न भवति ; जगत्कारणत्वादीश्वरवत् । न चादृष्टे व्यभिचारः, स्वतन्त्रेण पुरुषेणार्थमुपलभ्य तेन हेतुना विरचितवर्णपदानुपूर्वीविशेषरूपसन्दर्भवत्त्वं पौरुषेयत्वमिति तदभावस्थादृष्टेऽपि सत्त्वात् । एवमानुषङ्गिकवेदापौरुषेयत्वसिद्धिहेतुविशेषलाभोऽपि ‘अतः प्रभवात्’ इति पूर्वसूत्रे हेतुनिर्देशस्य प्रयोजनम् । चकारः स्वतन्त्रकर्त्रस्मारणादिहेत्वन्तरसमुच्चयार्थः । १. ३. २९ ।
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च ॥३०॥ 【भाष्यम्】 किमर्थमिदं सूत्रम् समाहितः खलु ‘शब्द इति चेन्नातः प्रभवात्’(ब्र. सू. १. ३. २८) इति सूत्रे शब्दप्रभवत्वेनेन्द्रादीनां समाननामरूपत्वं प्रदर्ष्य तेषां नाम्नां समानरूपाभिव्यंग्यजातिवाचित्वेन शब्दविरोधः । अथ महाप्रलये निराश्रयाणामिन्द्रत्वादिजातीनामवस्थानायोगेन तत्पूर्वापरकल्पसम्भवेन्द्राद्यनुगतेन्द्रत्वादिजात्यसम्भवादिन्द्रादिशब्दानां व्यक्तिवाचित्वपक्ष इव जातिवाचित्वपक्षेऽप्यैकार्थ्यासम्भवेनानेकत्र सांकेतिकत्वस्य वक्तव्यत्वात् शब्दविरोधस्तदवस्थ इत्यधिकाशङ्कायां महाप्रलयव्यवधानेऽपि पूर्वोत्तरकल्पसम्भवेन्द्रादीनां श्रुतिस्मृतिभ्यां समाननामरूपत्वावश्यम्भावेन तदनुगतानां महाप्रलयावस्थायिनीनामिन्द्रत्वादिजातीनामवश्याङ्गीकर्तव्यत्वात् । सर्वपदार्थानाञ्च शक्त्यात्मना सूक्ष्मरूपेण महाप्रलयेऽप्यवस्थानसत्त्वेन निराश्रयत्वाप्रसक्तेर्जातिवाचित्वं सम्भवतीति प्रदर्शनेन परिहारार्थमिदं सूत्रमिति चेत् ; महाप्रलयाङ्गीकारप्रयुक्ता खल्वियं शङ्का , नेन्द्राद्यनेकत्वविग्रहवत्त्वाङ्गीकारप्रयुक्ता । अत एवेयं गवादिशब्दसाधारणी ; गोत्वादिजातीनामपि महाप्रलये निराश्रयाणामवस्थानायोगशङ्कायास्तुल्यत्वात् । न चेयं शङ्काऽत्र प्रसाध्यमानदेवताऽधिकारविरोधिनी , येनात्र परिहार्या भवेत् । लप्स्यमानपरिहारा चेयं शङ्का ‘सूक्ष्मं तु तदर्हत्वात्’(ब्र. सू. १.४.२) ‘तदधीनत्वादर्थवत्’(ब्र. सू. १. ४. ३) इत्यानुमानिकाधिकरण सूत्राभ्याम् । नन्विदं सूत्रं व्यवहितसूत्रप्रसाधितस्य शब्दविरोधाभावस्य समर्थनार्थं माभूत् अव्यवहित सूत्रप्रसाधिते वेदनित्यत्वे विरोधसमाधानार्थमस्तु । महाप्रलयेऽध्यापकाध्येतृसन्तानविच्छेदाद्वेदस्य नित्यत्वमनुपपन्नमिति विरोधशङ्कासम्भवादिति चेत् ; मैवम् । वेदस्यापौरुषेयत्वलक्षणं हि नित्यत्वं पूर्वसूत्रे प्रसाधितम् , न तु स्वरूपनित्यत्वम् ; आनुपूर्वीविशेषविशिष्टवर्णसमुदायरूपस्य वेदस्य स्वरूपनित्यत्वासम्भवात् , अदृष्टादौ व्यभिचारेण पूर्वसूत्रप्रदर्शितजगत्कारणत्वहेतुकतत्स्वरूपनित्यत्वसिध्यसम्भवाच्च । अवान्तरप्रलयवर्तित्वं नित्यत्वं विवक्षितमिति न व्यभिचार इति चेत् ; तर्हि तस्य महाप्रलयेऽध्ययनाध्यापनसन्तानविच्छेदेऽपि विरोधाभावात् तद्विरोधशङ्का निरालम्बना स्यात् । प्रवाहरूपेण सकलकालवर्तित्वं साध्यम् ; अदृष्टादीनाञ्च महाप्रलयेऽप्यवस्थानान्न व्यभिचारः इति चेत् ; तर्हि तस्य विरोधस्यानेनापि सूत्रेण समाधानं न स्यात् । महाप्रलये वेदाध्ययनाध्यापनसन्तानविच्छेदस्य सिद्धान्तेऽप्यङ्गीकारात् । अत्रोच्यते – वेदनित्यत्वमाक्षिप्य पूर्वसूत्रप्रसाधितम् । समाधातुं सूत्रकृता सूत्रमेतत् प्रवर्तितम् ॥ तथाहि – मन्त्राणां ब्राह्मणानाञ्च पदानामपि तज्जुषाम् । कर्तारस्संहितानाञ्च श्रूयन्ते बहवःश्रुतौ ॥ ईश्वराद्यजुरादीनामुत्पत्तिरपि वर्ण्यते । यज्ञेन वाच इत्याद्या दृश्यन्ते श्रुतयो हि याः ॥ तास्त्ववान्तरकल्पादिविषयत्वेन सङ्गताः । समाननामरूपत्वश्रुतिस्मृतिवचांस्यपि ॥ तन्मात्रविषयत्वेन प्रपद्यन्तेऽर्थशालिताम् ॥ ‘नम ऋषिभ्यो मन्त्रकृद्भ्यस्संहिताकारपदकारसूत्रकारब्राह्मणकाराणाम्’ इत्यादिश्रुतिषु वेदान्तर्गतानां मन्त्राणां ब्राह्मणानां तदन्तर्गतपदानां तत्संहितानाञ्च कर्तारः ऋषयः श्रूयन्ते । ‘छन्दांसि जज्ञिरे तस्मात् यजुस्तस्मादजायत’ ‘अस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः’(बृ. २. ४.१०) इत्यादिश्रुतिषु परमेश्वरश्च वेदानां कर्ता श्रूयते । अतो वेदो नित्य इत्ययुक्तम् । या तु यज्ञेन वाचः पदवीयमायन् तामन्वविन्दन्नृषिषु प्रविष्टाम्’(ऋ. सं. १०. ७१. ३) इति यज्ञादिपुण्येन वेदग्रहणयोग्यतां प्राप्तानामृषिषु स्थिताया एव वेदवाचो लाभ इति श्रुतिः , या च युगान्तेऽन्तर्हितान्वेदान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्वमनुज्ञातास्वयंभुवा’ इति प्रलयेऽन्तर्हितानामेव वेदानां तपस्समाराधितचतुर्मुख प्रसादाल्लाभस्मृतिः सा सर्वाऽप्यवान्तरप्रलयान्तर्हितवेदप्राप्तिविषयत्वेन सङ्गच्छते । अत एवोदाहृतयोः श्रुतिस्मृत्योः ‘ऋषिषु प्रविष्टाम्’ इति ‘सेतिहासान्’ इति च विशेषणम् । अवान्तरप्रलये हि भूर्भुवस्सुवरिति लोकत्रयमात्रव्यापिनि ब्रह्मलोकादिगतेषु ऋषिषु प्रविश्य वेदस्तिष्ठति , न तु महाप्रलये सकलभूतव्यापिनि । अवान्तरप्रलयानन्तरमेव च ब्रह्मलोकादिस्थितानामितिहासानां प्राप्तिः सम्भवति , न तु महाप्रलयानन्तरम् ; महाप्रलये प्राचीनपौरुषेयवाक्यानां निरन्वयविनाशात् । समाननामरूपत्वगमकानि देवादीनां वेदप्रभवत्वविषयाणि साक्षात्समाननामरूपत्वप्रतिपादकानि च यानि श्रुतिस्मृतिवचनानि सन्ति , तान्यप्यवान्तरकल्पादिविषयत्वेनैवार्थवत्तां प्रतिपद्यन्ते । अत एव ‘ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः । शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः’ इति स्मृती ‘शर्वर्यन्ते प्रसूतानाम्’ इति विशेषितम् । शर्वर्यन्तो हि चतुर्मुखरात्रिरूपस्यावान्तरप्रलयस्यावसानम् , न तु तदायुस्समाप्त्यनन्तरभाविनो महाप्रलयस्य । अनेन विशेषणेनेत्थं ज्ञायते – अवान्तरकल्पादिषु सृष्टानामृषीणां वसिष्ठादीनां यानि नामधेयानि तेषां तत्तद्वेदभागदर्शनानि च , तानि तत्तत्कल्पान्तर्गतमन्वन्तरेषु तदुत्तरावान्तरकल्पेषु च सृष्टेभ्यो ददाति , न तु महाकल्पादिषु सृष्टानां नामधेयानि महाकल्पान्तरे सृष्टेभ्यो ददातीति । एवं महाकल्पावान्तरकल्पभेदेन वेकर्तृद्रष्टृविषयोभयविधश्रुतिसामञ्जस्ये सम्भवति नैकानुसारेणान्यनयनक्लेशः समाश्रयणीयः । न च प्रतिकल्पं वेदस्य वर्णपदवाक्यक्रमस्वरान्यत्वे पारायणादिभिः क्कचित्कल्पेऽभिमतफलप्रदो वेदः कल्पान्तरे वाग्वज्रः स्यादिति धर्माधर्मव्यवस्थाविप्लवो दोषः ; इष्टापत्तेः । प्रतिमहाकल्पमन्य एव वेदाः अन्य एव चैषामर्थाः , अन्यान्येव च वैदिकानि पदानि तेषु तेष्वर्थेषु तत्तत्कल्पादिषु पदकारैर्महर्षिभिस्सङ्केतितानीत्यङ्गीकारे दोषाभावात् । एकस्मिन्नपि हि कल्पे हिंसास्तेयपरयोषिदपहारादिकं विषयभेदेन धर्माधर्मोभयरूपतयाऽभ्युपगम्यते । कल्पभेदेन वेदतदुक्तकर्मणां तदुभयरूपत्वस्वीकारे को दोषः किञ्चैकस्य श्राद्धकर्मणः दिने निशायाञ्च कृतस्य , एकस्यैव काम्यकर्मणः शुद्धमासे मलमासे च कृतस्यैकस्यैव गोमधुपर्कस्य कृतादिषु कलौ च कृतस्यैकस्यैव वह्नेः शिशिरे निदाघे च सेवितस्यार्थानर्थहेतुत्वं सम्प्रतिपन्नमिति तद्वत्प्रतिकल्पभिन्नवेदतदुक्तकर्मणां कल्पभेदेनार्थानर्थहेतुतया धर्माधर्मरूपत्वमङ्गीकर्तुं शक्यमेव । तथा च वासिष्ठे वसिष्ठंप्रति भूसुण्डाख्यस्यानेककल्पजीविनो वायसस्य वचनं दर्शितम् – ‘सुरापब्राह्मणं तात निषिद्धसुरशूद्रकम् । स्वैरवृत्तसतीकञ्च कञ्चत्सर्गं स्मराम्यहम् ॥ कलौ कृतयुगाचारं कृते कलियुगस्थितिम् । त्रेतायां द्वापरे चैव विपर्यासं स्मरामि च’ ॥ इति । तस्मादनुपपन्नं वेदस्य नित्यत्वमित्याक्षेपसमाधानार्थमिदं सूत्रम् । समाधानप्रकारस्तु – महाप्रलयानन्तरं जगत्सृष्ट्यावृत्तावपि न वेदनित्यत्वविरोधः ; सृज्यमानस्य सर्वस्य जगतस्तत्पूर्वकल्पजगत्समाननामरूपत्वात् , तत्समानस्वभावज्ञानैश्वर्यादिमत्वाच्च । कुत इदमवगम्यते ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्’(ऋ सं. १०. १९०. ३.) इत्यादिश्रुतिदर्शनात् । ‘यथर्तुष्वृतुलिंगानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ तथाऽभिमानिनोऽतीतास्तुल्यास्ते साम्प्रतैरिह । देवा देवैरतीतैर्हि रूपैर्नामभिरेव च ॥ तेषां ये यानि कर्माणि प्राक्सृष्टयां प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनःपुनः ॥ हिंस्राहिंस्रे मृदुकरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते’ ॥(वि.पु.) इति स्मरणात् , देवर्षिमनुष्यतिर्यक्स्थावरादिभावस्य यज्ञादिफलत्वाच्च । पूर्वस्मिन् कल्पे यैर्महेन्द्रवरुणकुबेरादिदेवभावस्य , वसिष्ठविश्वामित्रादिऋषिभावस्य , ब्रह्मक्षत्रियादिमनुष्यभावस्य वा प्रापकत्वेन वेदविहितानि यज्ञाध्ययनदानतपांसि , उपासनानि वा यथाविधि तत्तद्भावप्राप्तिसङ्कल्पपूर्वकमनुष्ठितानि , त एव महाप्रलयभाविन्यामपि सृष्ट्यावृत्ताविन्द्रादिभावं प्रतिपद्यन्ते । यैर्गवाश्वगजधनधान्यगृहक्षेत्रारामादिप्रापकत्वेन विहितानि , तान्यनुष्ठितानि तत्तद्भाग्यतया तिर्यञ्चस्स्थावराश्च जन्म प्रतिपद्यन्ते । ते चानुष्ठातारस्तस्मिन्कल्पे प्रचरद्भिर्वेदवाक्यैस्तत्कालवर्तिनामिन्द्रादीनां दिव्याविग्रहैश्वर्यमहाभोगादिकं वसिष्ठादीनां दिव्यज्ञानमाहात्म्यादिकञ्च यादृशं वर्णितं प्रत्यक्षादिभिश्च ब्राह्मणक्षत्रियादीनां विशिष्टदेशजातिकुलरूपायुश्श्रुतापत्तवृत्तसुखमेधसां मुक्तिपर्यन्तसकलपुरुषार्थसम्पादनाधिकारवतां वैशिष्ट्यं गावाश्वादीनां दोहनवाहनादिकृततदुपयोगिसंस्थानविशेषादिकञ्च यादृशमवगतं , तादृशमेव प्राप्तव्यतयासङ्कल्पयन्ते नान्यादृशमवगम्यते ; इष्टसाधनविषयत्वादिच्छायाः , तस्मिन् कल्पे प्रचराद्भिर्वेदवाक्यैस्तत्कालवर्ति देवर्षिमनुष्यादिवाचकपदवद्भिस्तत्सजातीयदेवभावादिप्राप्तिसाधनत्वेनैव यज्ञादीनामुपासनानां च विधानाच्च । तथा च तथासङ्कल्पपूर्वकमनुष्ठितानां कर्मणां फलतया भवन्ती देवादिसृष्टिः पूर्वकल्पस्थितदेवादिनामरूपस्वभावप्रभाववैभववती वज्रलेपायते । एतेन – समाननामरूपत्वादिविषयश्रुतिस्मृतिवचनजातमवान्तरकल्पादिविषयमस्त्विति शङ्काऽपि निरस्ता । देवादिभावप्रापककर्मानुष्ठानहेतुसङ्कल्पानुसारेण महाकल्पभेदेऽपि समाननामरूपत्वावश्यम्भावात् । ‘शर्वर्यन्ते’ इति तु महाप्रलयावसानमपि वक्तुं शक्यम् । महाप्रलयो हि परब्रह्मणस्सुषुप्तिकालत्वेनौपचर्यते । उक्तञ्चाचार्यवाचस्पतिना अस्य च सुप्तिर्महाप्रलयः’ इति । नन्वस्तु श्रुतिस्मृतियुक्तिभिर्महाकल्पभेदेनेन्द्रादीनां समाननामरूपत्वम् । तेन वैदिकेन्द्रादिपदसाङ्केतिकत्वशङ्कामूलक एव वेदनित्यत्वविरोधः समाहितो भवति , न तु पुराणादिवत्तत्तत्कल्पादिषु नवनवा वेदाः पुरुषप्रणीताः सन्त्विति शङ्कामूलक इति चेत् । सोऽपि तेन समाहितो भवत्येव । समाननामरूपत्वे पूर्वस्मिन् कल्पे यैर्वेदवाक्यैरिन्द्रादिरूपमवगम्य तद्भावप्राप्तये कैश्चित्कर्माण्यनुष्ठितानि तैरेव तत्कल्पस्थितेन्द्रादिनामरूपाणि स्मृत्वा चतुर्मुखेन महाप्रलयव्यवहितायां पुनस्सृष्ट्यावृत्तौ तत्समानरूपेन्द्रादिभावेन ते सृष्टा इत्यङ्गीकर्तव्यत्वात् , तदानीन्तनपुरुषप्रणीतैर्वेदवाक्यैस्तन्नामरूपानुसन्धानासम्भवात् । तेषां प्राचीनकल्पस्थितवेदसमानार्थत्वस्वीकारेऽपि ते मन्त्रकृत्त्वादिप्रसिद्धिमदृषिप्रणीता इत्यङ्गीकारे तैस्तेषामृषीणां तत:पूर्वं सृज्यानां देवानाञ्च सृष्ट्युपयोगिनो नामरूपज्ञानेश्वर्याद्यनुसन्धानस्यासम्भवात् , ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’ इति (श्वे.६.१८) ब्रह्मसृष्ट्यनन्तरमेव तत्कर्तृकदेवऋषिमनुष्यादिसृष्ट्यर्थनामरूपानुसन्धानोपयोगिवेदप्रदानश्रवणविरोधापत्तेश्च । तेषां ब्रह्मसृष्टेरपि प्राक् परमेश्वरप्रणीतत्वाङ्गीकारे ‘प्रजापतिर्देवानसृजत’ ‘स भूमिमसृजत’ इत्यादिषु लङादिश्रवणाविरोधापत्तेः । पूर्वकल्पवृत्तान्तविषयतया कथञ्चिल्लङादिसमर्थनेऽपि परमेश्वरोपादानकत्वरूपस्य , परमेश्वरकर्तृकत्वरूपस्य वा वियदादिप्रपञ्चसाधारणस्य परमेश्वरप्रभवत्वस्य वेदेऽभ्युपगमेन प्राङ्निरुक्तापौरुषेयत्वरूपतन्नित्यत्वविरोधाप्रसक्तेश्च , ‘अस्य भूतस्य निश्वसितमेतत्’ ‘यजुस्तस्मादजायत’ इत्यादिश्रुतीनां तन्मात्रविषयतयोपपन्नत्वात् ; वेदत्वं समानानुपूर्वीकोच्चारणपूर्वकत्वरहितस्वतन्त्र पुरुषोच्चारणविषयवृत्ति ; वाक्यवृत्तित्वात् , सत्तावदित्याद्यनुमानानामप्रयोजकत्वात् , तत्प्रमाणस्य स्वतस्त्वेन वक्तृवाक्यार्थयथार्थज्ञानादिरूपगुणापेक्षत्वात् । तस्मात्सर्वदैकरूपानुपूर्वी विशिष्टा वेदा महाप्रलयेष्वध्यापकाद्यभावेन खिलीभूता अपि पुनस्सर्गे प्राचीनानुपूर्वी विशिष्टतयोद्धृत्य परमेश्वरेण हिरण्यगर्भाय प्रदीयन्ते । तेषु केचिद्भागाः कैश्चिकैश्चित् प्राचीनपुण्यफलाद्वासिष्ठविश्वामित्रादिऋषिपदं प्राप्तैस्तदानीमध्ययनाभावेऽपि पूर्वकल्पाधीता एवानुसन्धाय शिष्येषु प्रवर्त्यन्ते । कैश्चित्पदविभागं प्रदर्श्य पदाध्ययनसम्प्रदायाः प्रवर्त्यन्ते कैश्चिद्वर्णपदानां संहिताया लक्षणग्रन्थान्निर्माय संहितास्वरूपमसन्दिग्धं क्रियत इति त एव वेदेषु मन्त्रकृतो ब्राह्मणकाराः पदकाराः संहिताकारा इति व्यपदिश्यन्ते । वैदिकपदैर्देवतादिसृष्टिमन्त्रकृदादिऋषिसद्भावश्च प्रवाहानादिरित्यनादिष्वपि वेदेषु ‘स भूमिमसृजत’ इत्यादयो लङादिप्रयोगाः मन्त्रकृदादिनिर्देशाश्च क्रियन्त इत्येव युक्तमिति । सूत्रे महासर्गावृत्तावप्यवान्तरकल्पविध देवर्षिप्रभृतीनां समाननामरूपत्वाच्चशब्दसमुच्चितात् समानस्वभावप्रभावत्वाच्च न तेषां नाम्नां घटादिनामवदनुगतनामरूपाभिव्यंग्यजातिवाचित्वस्य सेनान्यादिनामवदनुगताधिकविशेषरूपोपाधिवाचित्वस्य वाऽवश्यम्भावात् तदनुसारेण पदकारश्रुतिः पदाध्ययनसम्प्रदायप्रवर्तकत्वपरेति ततो वैदिकपदानां साङ्केतिकत्वरूपः शब्दविरोधो न प्रसज्यते इति न तत्कृतो वेदनित्यत्वविरोधः इत्येवमविरोधपदावत्या योजनं कार्यम् । पुनश्च मन्त्रकृदादिश्रवणेनापि नास्ति वेदनित्यत्वविरोधः । महासर्गावृत्तावप्यवान्तरकल्पादिष्विव पूर्वेषामुत्तरेषां च मन्त्रादिकृतां वसिष्ठादीनां समाननामरूपादिमत्त्वेन तत्सृष्टेः प्राक्सिद्धैर्वैदिकशब्दैरेव नामरूपाद्यनुसन्धाय तेषां तेभ्यः प्राक् सृज्यानां देवादीनाञ्च स्रष्टव्यतया मन्त्रकृदादिशब्दानां मन्त्रद्रष्टृपरत्वस्य कल्पनीयत्वादित्येवमर्थकत्वेन ‘अविरोध’ इत्यन्तमावृत्त्या योजनीयम् । पुनश्च ‘यजुस्तस्मादजायत’ इत्यादिश्रवणेनापि न वेदनित्यत्वविरोधः ; वियदादीनामिव वेदानां सृष्ट्यावृत्तावपि समाननामरूपत्वात् । न हि वेदानां प्रतिकल्पं सृष्ट्यवृत्तिवदानुपूर्वीविशेषात्मकरूपभेदो वा , प्रतिपाद्यविशेषात्मकरूपभेदो वा प्रवृत्तिनिमित्तत्वेन रूपभेदाङ्गीकारापादको नामभेदो वाऽभ्युपगम्यते , येन प्रतिकल्पं भिन्ननामरूपा वेदास्तत्र तत्र कल्पे परमेश्वरेण निर्मिता वक्तव्या इति वेदनित्यत्वविरोधः स्यादित्येतदर्थत्वेनाप्यविरोध इत्यन्तमावृत्त्या योजनीयम् । देवर्षिमनुष्यादीनां वेदानाञ्च समाननामरूपत्वे स्यादेवमविरोधः , तदेव कुत इत्याकाङ्क्षायां ‘दर्शनात् स्मृतेश्च’ इति सूत्रशेषः । देवादीनां समाननामरूपत्वे प्राक् प्रदर्शिताः श्रुतिस्मृतियुक्तयः , वेदानां समाननामरूपत्वे ‘वाचा विरूपनित्यया’ ‘अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यतस्सर्वाः प्रवृत्तयः’ इत्यादिश्रुतिस्मृतयः प्रमाणानि । अत्र हि श्रुतौ नित्यत्वं स्मृतावनादिनिधनत्वञ्च न स्वरूपतो विवक्षितम् ; आनुपूर्वीविशेषविशिष्टवाक्यानां तदसम्भवात् । किन्तु वर्णपदवाक्यतदानुपूर्वीतत्प्रतिपाद्यतत्प्रवृत्तिनिमित्तकनामभेदं विना सर्वकल्पेष्वैकरूप्येणाध्ययनाध्यापनसम्प्रदायविषयत्वम् । ‘अनादिनिधना नित्या’ इति स्मृत्युक्तं नित्यत्वं तु ‘अतएव च नित्यत्वम्’(ब. सू. १. ३. २९.) इति सूत्रोक्तमिव स्वतन्त्रपुरुषविश्रान्त्यभावरूपमपौरुषेयत्वमिति विवेकः । अपि च ‘यज्ञेन वाचः पदवीयमायन्’ ‘यज्ञो म आगच्छतु’ ‘उत्तरां देवयज्यामाशास्ते भूयो हविष्करणमाशास्ते’ ‘पुण्यः पुण्येन कर्मणा भवति’ इत्यादिमन्त्रब्राह्मणप्रतिपन्नवेदवैदिककर्मप्राप्त्यर्थयज्ञादसत्कर्मानुष्ठानं तत्प्रेप्सया वक्तव्यम् । अवगतेष्टसाधनविषया च प्रेप्सा भवति कर्मानुष्ठानकाले प्रचरन्त्वेव च वेदवैदिककर्माण्यवगतानि नान्यादृशानीति महाप्रलयव्यवहितपूर्वकल्पानुष्ठितकर्मभिस्तदनन्तरकल्पे प्राप्याणि वेदवैदिककर्माणि पूर्वकल्पप्रवृत्तान्येव भवन्तीत्यतोऽपि वेदानां समाननामरूपत्वसिद्धिः। नामरूपभेदे प्रमाणाभावाच्च । तत्र प्रमाणाभावे हि लाघवात् समाननामरूपत्वमेव सिद्ध्यति । वासिष्ठवचनं तु न वैदिककर्मभेदे प्रमाणम् ; अवान्तरकल्पभेदेन वैदिककर्मवैरूप्यस्य पूर्वपक्षिणाऽप्यनङ्गीकृतत्वात् , महाकल्पभेदेन तद्वैरूप्यस्य काकेनानुभूततया वक्तुमशक्यत्वात् , महाकल्पद्वयजीविनः काकस्याप्यभावात् । तस्मात् वासिष्ठे भूसुण्डाख्यकाकवचनं जगद्वैचित्र्याद्युक्तिमात्रपरमिति नेतव्यम् । एवं महाकल्पादौ प्राथमिकाध्ययनविषयो वेदः पूर्ववेदसमाननामरूपः ; वेदत्वादिदानीन्तनाध्यापनविषयवेदवत् ; विपक्षे नामरूपभेदकल्पनायां गौरवम् ; ‘वाचा विरूपनित्यया’ ‘अनादिनिधना दिव्या’ ‘तान्येवैभ्यो ददात्यजः’ ‘युगान्तेन्तर्हितान् वेदान् सेतिहासान् महर्षयः’ इत्यादिश्रुतिस्मृतिव्याकोपश्च । ‘सेतिहासान्’ इति इतिहासशब्देन ‘त्रयो होद्गीथे कुशला बभूवुः’ । ‘देवासुराः संयत्ता आसन्’ इत्यादीनि वैदिकानि पुरावृत्तानि विवक्षितानि , न तु पौरुषेयप्रबन्धविशेषाः । पुरावृत्तग्रहणं च वेदार्थैस्सह वेदानां लब्धत्वप्रत्यायनार्थम् । अत एव ‘यो वै वेदांश्च प्रहिणोति तस्मै’ इति श्रुतौ चकारेण सृष्ट्युपयोगीन्द्रादिनामरूपपरिज्ञानार्थं सर्गप्रलयाद्यर्थवादार्थप्रधानं संगृहीतमिति विवरणार्थे तदुपबृंहणे ‘ब्रह्माणं विदधे पूर्वं जगत्सृष्ट्यर्थमीश्वरः । तस्मै वेदान् पुराणानि दत्तवानग्रजन्मने’ इति श्लोके पुराणशब्दः प्रयुक्तः । तत्र हि पुराणशब्दो वैदिकार्थवादनिरूपितसर्गप्रलयपर एव वक्तव्यः , न तु पौरुषेयप्रबन्धपरः ; महाकल्पादौ ब्रह्मसृष्ट्यनन्तरं तदीयजगत्सृष्टिसामर्थ्योपयोगिवेदप्रदानसमये पौरुषेयप्रबन्धानामनिष्पत्तेः । एवंविधाः श्रुतिस्मृतियुक्तयो’ दर्शनात् स्मृतेश्च’ इति सूत्रशेषेण संगृहीताः । तत्र ‘श्रुतेः’ इति सूत्रणीये ‘दर्शनात्’ इति गुरुसूत्रकरणं शङ्कान्तरवारणार्थमर्थान्तरमपि क्रोडीकर्तुम् । इत्थमत्र शङ्का समुन्मिषति – मन्त्रकृदादयो मन्त्रद्रष्टारः , न तु मन्त्रादिकर्तार इत्ययुक्तम् । मन्त्रादिद्रष्टृत्वं हि कल्पान्तराधीतमन्त्रादिस्मर्तृत्वमभिमतम् । तन्न सम्भवति ; सर्वव्यवहारोच्छेदिना महाप्रलयेन व्यवधानात् । न च वाच्यम् – ‘‘यदा सुप्तस्स्वप्नं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवति तदैनं वाक् सर्वैर्नामभिस्सहाप्येति चक्षुस्सर्वैरूपैस्सहाप्येति श्रोत्रं सर्वैश्शब्दैः सहाप्येति मनः सर्वैर्ध्यानैः सहाप्येति स यदा प्रतिबुध्यते यथाऽग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’(कौ. ३. ३.) इति श्रुत्यनुसारेण स्वापप्रबोधयोः प्रलयप्रभवसत्त्वेऽपि स्वापव्यवहितं प्रबोधे स्मर्यते , तद्वत् महाप्रलयव्यवहितमपि स्मर्येत – इति । स्वापे मरणस्य काल विप्रकर्षस्य वा वासनोच्छेदकारणस्याभावेन सत्यां वासनायां स्मरणमुपपद्यते , कस्यचित् स्वापेऽप्यन्येषां प्रबोधात् तेभ्यश्च ग्रहणमुपपद्यते ; महाप्रलये सर्वेषां युगपन्मरणं भूयान् कालविप्रकर्षश्चेति कथमतीतकल्पवृत्तान्तानुसन्धान सम्भवेदिति । तत्रेदमुत्तरं सूत्रशेषेण विवक्षितम् । मरणकालविप्रकर्षसत्त्वेऽपि स्मृतेर्दर्शनात् महाप्रलयव्यवधानेऽपि स्मृतिरुपपद्यते । तथाहि – प्राणिनामनेकजन्मान्तरव्यवहितेषु मनुष्यपक्षिसरीसृपादिजन्मसु प्राप्तेषु तत्तज्जात्युचितस्तन्यपानादिप्रवृत्तयो हिंस्राहिंस्रत्वतत्तज्जात्यन्तरविषयविरोधादिस्वभावप्रतिपत्तयश्च दृश्यन्ते । तास्सर्वाअप्यनेकजन्मसहस्रव्यवहिततत्तत्सजातीयजन्मान्तराभ्यस्तस्मृतिं विना न सम्भवन्तीति तत्तज्जातिप्रापककर्माण्येव तत्स्मृतिजनकसंस्कारोद्बोधकानीति स्वीकरणीयम् । एवमेव वसिष्ठविश्वामित्रादिप्रभृतिमन्त्रकृषिजन्मप्रापकाणि ज्ञानकर्माणि पूर्वकल्पेष्वनुष्ठाय महाकल्पादिषु वसिष्ठादिजन्म प्राप्नुवतां तानि कर्माणि कथं तत्तन्मत्रादिविषयसंस्कारोद्बोधकानि न स्युरिति । तस्मात् समञ्जसमिदं सूत्रम् । भाष्यस्याप्यस्मिन्नर्थे योजना सुकरैव । १. ३. ३० ।
मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॥३१॥ 【भाष्यम्】 एवं ब्रह्मविद्यायां देवानामधिकाराङ्गीकुवार्णस्य भगवतो बादरायणस्य मतं प्रदर्शितम् । अथ तमनङ्गीकुर्वाणस्य जैमिनेर्मतं पूर्वपक्षतयोद्भाव्यते । अत्रायं पर्व पक्षः – वसुरुद्रादित्यमरुत्साध्याश्च गणवर्तिनः । रविश्च मधुविद्यायामुपास्या नाधिकारिणः ॥ संवर्गविद्यादिषु च वाय्वाद्या नाधिकारिणः । अग्निहोत्रादिषु तथा यष्टव्यास्सर्वदेवताः ॥ मधुविद्याऽग्निहोत्रादिष्वन्तर्यामी सुपर्वणाम् । भवेदुपास्यो यष्टव्य इत्युक्तिस्तु न युज्यते ॥ तथाऽप्युपास्या वस्वाद्या नान्तर्यामीति गम्यते । उपजीवकतायाश्च तद्भावस्य च वर्णनात् ॥ यष्टव्याश्च महेन्द्राद्या देवा इत्यवसीयते । प्रसिद्धवृत्रहन्तृत्वमुखतो धर्मवर्णनात् ॥ स्वमिष्टवद्भ्यो देवेभ्यस्स्वदेवत्ये महाक्रतौ । तत्तद्भागाः प्रसन्नेन वितीर्णा हरिणेति चेत् ॥ तावता विष्णुदेवत्यस्स एकस्सिद्ध्यति क्रतुः । नानादेवत्यतान्येषां भवेत् तस्यापि सम्प्रति ॥ अर्थवादांश्च निस्सारानवलम्ब्यैतिहासिकान् । न युज्यते कल्पयितुं धर्माधर्मस्थितिच्युतिः ॥ अन्यथा हि श्वेतकेतोश्शापादारभ्य योषिताम् । सम्प्रवृत्तैकवर्तित्वव्यवस्थेति प्रयुज्यते ॥ श्वेतकेतोः कोपालिङ्गात् तद्व्यवस्थित्यनादिता । ज्ञातेति तत्कथा स्वार्थविवक्षारहितेति चेत् ॥ यज्ञाग्रहारोपाख्यानकथाऽप्येवमिति स्मर । तस्या विवक्षितार्थत्वे यतस्स्यात् बह्वसङ्गतम् ॥ तस्मिन् सत्रे यदि तदा दीक्षणीया कृताग्निना । अद्य विष्णोरभागत्वं न चेदग्नेः प्रसज्यते ॥ उपसत्सु कृतश्चेत् स्यात् यागः केनापि वैष्णवः । तदीय एवेदानीं स्यान्न चेत्स्याद्विकल: क्रतुः ॥ सर्वैरुदवसानीयावसानास्सर्व एव चेत् । अनुष्ठितास्तदानीं स्युस्सर्वे स्सर्वेषु भागिनः ॥ कैश्चित् केचिद्यदि कृतास्सर्वेषामपि स क्रतुः । विकलस्स्यात्ततो विष्णोः कुतः प्रीतिः कुतो वरः ॥ तद्देवताविधीनां च वैयर्थ्यं कालभेदतः । अदृष्टचरमन्यत्र प्रसज्येतानिवारितम् ॥ एतेनेन्द्रादयो विष्णुं यजन्ति मनुजास्तु तान् । इत्यपास्तन्तु वैयर्थ्यं तेषां स्याद्धि तदा सदा ॥ एवमेव क्रतुभुजां यज्ञानुष्ठानगोचराः। अर्थवादाश्च विज्ञेया विवक्षारहितार्थकाः ॥ अग्निष्टोमं कथं कुर्यात् सृष्टिसामर्थ्यसिद्धये । त्रिवृत्स्तोमादिसृष्टेः प्राक् प्राक् तत्सृष्टेश्च विश्वसृक् ॥ यष्टॄणां साप्तदश्यञ्च ब्राह्मण्यञ्च विना कथम् । चत्वारस्सत्रमासीरन्नग्नीन्द्रप्रमुखास्सुराः ॥ कथं वैश्वसृजे सत्रे कुर्यादार्त्विज्यमङ्गना । ऋत्विजां खलु पुंल्लिङ्गैर्वेदैः पुंस्त्वं विवक्षितम् ॥ कथञ्चोन्नेतृकर्मैकं कुर्यातामेककर्तृकम् । सर्पौ च कविशङ्काख्यौ सर्पाणामयने कृ(क्र)तौ ॥ तस्माद्विद्याविशेषेभ्यः कर्मभ्यश्च च्युतास्सुराः । च्यवन्ते श्रवणादिभ्यो वैदिकत्वाविशेषतः ॥ देवानां ब्रह्मवित्त्वं यदर्थवादेषु वर्णितम् । पूर्वजन्मानुवृत्तं तत् घटते वामदेववत् ॥ इन्द्रस्य ब्रह्मविद्यार्थं ब्रह्मचर्यस्य वर्णनम् । यष्टृत्ववादवन्नेयं शून्यमर्थविवक्षया ॥ कथं हि ब्रह्मचर्यं स्यात् क्षणमप्यमृतान्धसाम् । सदा क्रतुहविर्भूतमधुमांसादिभोजिनाम् ॥ पद्यैस्समग्रहीष्मेत्थं पद्धतिं पूर्वपक्षिणः । पुनस्स्फुटीकरिष्यामो वाक्यैरनतिविस्तरैः ॥ मधुविद्यायामादित्यव्यपाश्रयवस्वादिपञ्चदेवगणोपजीव्यपञ्चामृतोपासनासु मध्वध्यासेनादित्योपासनायाञ्च वस्वादीनां , संवर्गादिविद्यादिषु वाय्वादीनाम् , अग्निहोत्रेष्टिसोमयागादिषु अग्न्यादिसर्वदेवतानाञ्च नाधिकारः ; अभेदे उपास्योपोसकभावस्य यष्टृयष्टव्यभावस्य चासम्भवात् । न च तेषु वस्वादितत्तद्देवान्तर्यामी परमात्मैवोपास्यो यष्टव्यश्च स्यादिति वाच्यम् । मधुविद्यायां हि ‘तद्यत् प्रथमममृतं तद्वसव उपजीवन्ति’ इत्यादौ वस्वादिशब्दोक्तानां तत्तदमृतोपजीवनं श्रुतम् , न तु तत्तद्भोगमात्रम् । उपजीवनं चाप्राप्तप्राप्त्यर्थं किञ्चिदाश्रयणम् । तत्तु न परमात्मनि सम्भवति । तथा ‘वसूनामेवैको भूत्वा’ इत्युपासकस्य वसूनामन्यतमभावापत्तिः श्रुता । साऽपि परमात्मनि न सम्भवति ; निर्धारणषष्ठीबहुवचनस्यार्थबहुत्वमनपेक्ष्यैकस्मिन्नन्तर्यामिण्यन्वयायोगात् । तस्मादिह वस्वादिशब्दोक्ता गणदेवता एवेत्यवसीयते । यथा ‘स य एतदेवमृतं वेद’(छा. ३.६.३) इत्यत्रोपासकत्वलिङ्गाद्यच्छब्दोक्तो जीवः नान्तर्यामी , ‘न ह वा अस्मा उदेति न निम्रोचति सकृद्दिवाहैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद’ इत्यौपसंहारिकं ब्रह्मप्राप्तिकथनं वस्वादिभावद्वारा क्रममुक्तिपरम् , ब्रह्मोपनिषत्पदं वेदोपनिषदर्थकञ्चेति युज्यते , तथा ऋतुषु यष्टव्या अपि प्रसिद्धा महेन्द्रादय इत्यवसीयते । ‘त्वष्टा हतपुत्रो वीन्द्रं सोममाहरत्’ इत्यादिश्रुतौ प्रसिद्धस्य वृत्रहन्तुरिन्द्रस्यैव , ‘सम्भवदग्नीषोमावभिसमभवत्’ इत्यादिश्रुतौ वृत्रेणाभिभवितुं योग्ययोः प्रसिद्धयोरग्नीषोमयोरेव , ‘अग्निर्वै देवानामवमः’ इत्यादिश्रुताववमत्वादि योग्यानामग्निप्रभृतीनामेव चेष्टिसोमादिषु देवतात्वस्यावगम्यमानस्याप्रत्याख्येयत्वात् । ननु महाभारते – ‘ततस्ते विबुधास्सर्वे ब्रह्मा ते च महर्षयः । वेददृष्टेन विधिना वैष्णवं ऋतुमारभन् ॥ तस्मिन् सत्रे तदा ब्रह्मा स्वयं भागमकल्पयत् । देवा महर्षयश्चैव सर्वे भागमकल्पयन् ॥ ते कार्तयुगधर्माणो भागाः परमसत्कृताः । प्रापुरादित्यवर्णं तं पुरुषं तमसः परम् ॥’ इत्याद्यभिधाय ‘यज्ञैश्वर्येऽपि यक्ष्यन्ति सर्वलोकेषु वै सुराः । कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान् ॥ यो मे यथा कल्पितवान् भागमस्मिन् महाक्रतौ । स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः॥ इति तदनन्तरं विष्णुवचनवर्णनेन पूर्वं वैष्णवानामेव सतां यज्ञभागानां तदीयवरदानेन देवतान्तरसम्बन्धित्वं ज्ञातव्यमित्यवगम्यते । तस्मादिन्द्रादीनां ऋतुषु देवतात्वं प्रतिपादयतामर्थवादानां नासाङ्गत्यमिति चेत् । कि ततः तस्मात् वैष्णवसत्रादन्येषां क्रतूनां तस्याप्यधुनेन्द्रादि नानादेवत्यताङ्गीकृतैवेति कथमिन्द्रादीनां यागाधिकारः स्यात् किञ्चैतादृशानितिहासदृष्टानर्थवादानवलम्ब्य पूर्वमन्यथाप्रवृत्तः धर्म इदानीमन्यथा प्रवृत्त इति धर्ममर्यादाविप्लवाङ्गीकारो न युक्तः ; अन्यथा ह्यधर्ममर्यादाऽप्येवं विप्लुताऽङ्गीक्रियेत । दृश्यते हि भारत एव पूर्वमनावृतानां स्त्रीणां श्वेतकेतुशापप्रभृत्येकपत्नीत्वावरणं प्रवृत्तमित्यादिरधर्मविप्लवार्थवादः। ननु श्वेवकेतूपाख्याने स्त्रीणां पूर्वमनावृतत्वे निर्धनेनोत्सवार्थं क्रियमाणायामाभरणप्रार्थनायामिवापत्नीकेन ब्राह्मणेनापत्यार्थं क्रियमाणायामुद्दालकपत्नीप्रार्थनायां तत्पुत्रस्य श्वेतकेतोः कोपो न स्यात् । कोपश्च तत्रैव वर्णितः ‘मातरं तां तदा दृष्ट्वा नीयमानां बलादिव । तपसा दीप्तवीर्यो हि श्वेतकेतुर्न चक्षमे । संगृह्य मातरं हस्ते श्वेतकेतुरभाषत । दुर्ब्राह्मण विमुञ्च त्वं मातरं मे पतिव्रताम्’ इति । ततस्त्रीणामेकपत्नीत्वनियमस्यानादित्वावगमात् तस्मिन्नुपाख्याने ‘अनावृता हि वर्णानां सर्वेषामङ्गना भुवि । यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः’ इति नारीणां प्रागनावृतत्ववचनं ‘व्युच्चरन्त्याः पतिं नार्याः अद्यप्रभृति पातकम् । भ्रूणहत्याकृतं पापं भविष्यत्यसुखावहम्’ इति तदाप्रभृत्येकपत्नीत्वव्यवस्थापनवचनं च कुन्त्यपत्यार्थं पुरुषान्तरं प्रवर्तयितुकामस्य पाण्डोस्स्वकल्पितार्थविषयं वचनमिव प्ररोचनामात्रपरमित्यवसीयत इति चेत् । यज्ञाग्रहारोपाख्यानवचनजातमप्येवमेवेत्यवधारय , अन्यथा हि तत्र बह्वसमञ्जसमापद्यते । तथा हि – तस्मिन्सत्रे दीक्षणीयायामाग्नावैष्णवः पुरोडाशोऽग्निना नानुष्ठितश्चेदग्नेर्भागो न स्यात् । अनुष्ठितश्चेत् विष्णोरिदानीं भागानुवृत्तिर्न स्यात् । उपसत्सु वैष्णवो यागः केनापि देवेनानुष्ठितश्चेत् तदीय एवेदानीं स्यान्नवैष्णवः ; नानुष्ठितश्चेत् क्रतुर्विकलः स्यात् ; उदवसानीयावसानाः सर्वेऽपि देवर्षिभिरनुष्ठिताश्चेत् सर्वेषु हविष्षु सर्वेऽपि भागिनः स्युः । कैश्चित्केचित्कृताश्चेत्सर्वेषामपि स क्रतुर्विकल इति ततो विष्णोः प्रीतिस्ततो देवानां वरलाभश्च न स्यात् । किञ्च पूर्वं वैष्णवः क्रतुः कालविशेषे नानादेवत्यो जात इत्यभ्युपगमे तस्मिन्नुपदेशातिदेशाभ्यां ‘प्रवृत्तेषु विधिषु श्रुतानां देवतासमर्पकपदानां पूर्वं विष्णुवाचित्वमिदानीं नानादेवतावाचित्वमिति क्वापि अदृष्टचरं विविधार्थवत्त्वं प्रसज्येत । एतेन – ‘इन्द्रादयो देवा विष्णुं यजन्तीति न यष्टृयष्टव्यभावविरोधः मनुजास्त्विन्द्रादीन्यजन्तीति नेन्द्रादीनां यष्टव्यत्वप्रसिद्धिविरोधश्च’ इत्यपास्तम् । तदा हि विधिषु देवतावाचकपदानां नित्यमेव वैयर्थ्यं प्रसज्येत । एवं यज्ञाग्रहारोपाख्यानवदेव देवानां क्रत्वनुष्ठानार्थवादा अप्यविवक्षितार्था द्रष्टव्याः , अन्यथा हि तत्राप्यसाङ्गत्यमापद्येत । तथा हि – छन्दोगब्राह्मणे ‘प्रजापतिरकामयत बहु स्यां प्रजायेयेति स एतमग्निष्टोममपश्यत्तमाहरत्तेनेमाः प्रजा असृजत’ इति प्रजापतेस्सृष्टिसामर्थ्यसिध्यर्थमग्निष्टोमानुष्ठानमुक्त्वा ‘सोऽकामयत यज्ञं सृजेयेति स मुखत एव त्रिवृतमसृजत तं गायत्रीछन्दोऽन्वसृज्यताग्निर्देवता ब्राह्मणो मनुष्या वसन्त ऋतुः’ इत्यादिना यज्ञानुष्ठानार्थं तदपेक्षितानां त्रिवृत्पञ्चदशादिस्तोमनां गायत्रीत्रिष्टुभादिच्छन्दसां ब्राह्मणक्षत्रियादिमनुष्याणां वसन्तग्रीष्मादिऋतूनाञ्च सृष्टिरुक्ता । पुराणेषु तु ‘गायत्रञ्च ऋचश्चैव त्रिवृत्स्तोमं रथन्तरम् । अग्निष्टोमञ्च यज्ञानां निर्ममे प्रथमान्मुखात्’ इत्यादिना स्तोमादिसृष्टितः पृथगग्निष्टोमादियज्ञसृष्टिरप्युक्ता । एवमग्निष्टोमतदङ्गकलापसृष्टेः प्रागेव ‘प्रजापतिरग्निष्टोममाहरत्’ इति कथं घटते तथा ‘देवा व यशस्कामास्सत्रमासत अग्निरिन्द्रो वायुर्मुखः’ इति चतुर्णां देवानां सत्रानुष्ठानमुक्तम् । कथं चत्वार एव ब्राह्मण्यरहितास्सत्रमनुतिष्ठेयुः सप्तदशावराणां ब्राह्मणानामेव हि सत्रानुष्ठानम् । ‘ब्रह्म वै देवानां बृहस्पतिः क्षत्रमिन्द्रः’ इत्यादिश्रवणात् देवेष्वपि ब्राह्मणादिभावोऽस्तीति चेदस्तु नाम । तथाऽपि बृहस्पतेरेव देवेषु ब्राह्मणत्वेन निर्धारितस्य सत्राधिकारः स्यान्न त्वग्न्यादीनाम् । त्वं देवेषु ब्राह्मणोऽस्यहं मनुष्येषु’ इति अग्नेरपि देवेषु ब्राह्मण्यनिर्धारणं श्रूयते इति चेत् , तर्ह्यर्थवादद्वयमप्यविवक्षितार्थमित्येव पर्यवस्येत् ; उभयोरितरव्यवच्छेदेन ब्राह्मण्यनिर्धारणायोगात् । तथापीन्द्रादीनां सत्राधिकारो न स्यादेव । तथा विश्वसृजामयने स्त्रिया आर्त्विज्यं श्रूयते ‘वाक् सुब्रह्मण्य (ण्या)’ इति । तथैव तैत्तिरीयशाखायामपि श्रूयते ‘वागेषां सुब्रह्मण्यासीच्छन्दोयोगान्विजानती’ इति । कथं स्त्रिया आर्त्विज्यम् होतारं वृणीते इत्यादिविधिवाक्यगतैर्हि पुंलिङ्गैः ऋत्विजां पुंस्त्वं विवक्षितम् । तथा सर्पाणामयने चकपिशङ्गयोर्द्वयोरुन्नेतृकर्म श्रूयते ‘चकपिशङ्गावुन्नेतारौ’ इति । कथमेककर्तृकमुन्नेतृकर्म द्वौ कुर्याताम् तस्मादविवक्षितार्थ एव देवानां क्रत्वनुष्ठानार्थवादः । अतो विद्याविशेषेभ्यः कर्मभ्यश्च प्रच्युता देवाः श्रवणादिभ्योऽपि च्यवन्त इत्येव युक्तम् ; वैदिकत्वाविशेषात् । यत्तु कठकौषीतकीशाखादिषु यममहेन्द्रादीनां ब्रह्मविद्योपदेष्टत्वमुक्तम् , तत् वामदेववत्पूर्वजन्मानुवृत्तया ब्रह्मविद्यया घटते । यत्तु छान्दोग्य इन्द्रस्य ब्रह्मविद्यार्थमेकशतवर्षब्रह्मचर्यवर्णनं तत् क्रत्वनुष्ठानवर्णनवदविवक्षितार्थं नेतव्यम् । नन्विह विरोधाभावे किमित्यविवक्षितार्थत्वं कल्प्यते इहापि विरोधस्तुल्य एव । कथं हि देवानां चित्रेष्ट्यादिषु , पशुयागादिषु च हविर्भूतानि मधुमांसानि तत्र तत्र यजमानैः प्रदीयमानानि सदा भुञ्जानानां क्षणमपि ब्रह्मचर्यं सम्भवेत् ब्रह्मचर्यकाले तद्भोजनाभावे च हविर्भोजनेन तृप्तानां देवानां फलप्रदातृत्वमिति नियमस्त्यक्त एव स्यात् । तस्मान्नास्ति देवानां ब्रह्मविद्याऽधिकारः । सूत्रस्य मधुविद्यादिष्वधिकारासम्भवात् वैदिकत्वाविशेषेण ब्रह्मविद्यायामप्यनधिकारं जैमिनिर्मेन इत्येकोऽर्थः । मधुमांसभक्षणशीलेषुब्रह्मचर्यासम्भवात् तेष्वनधिकारं जैमिनिर्मेन इत्यपरोऽर्थः । १. ३. ३१ । एवं विग्रहादिपञ्चकवती देवतां सिद्धान्तिरीत्याऽभ्युपगम्य तस्याः श्रवणादिष्वधिकारो निराकृतः । इदानीं तथाभूतायां देवतायां प्रमाणाभावात् तस्यास्तदधिकारव्यवस्थापनं गगनकुसुमस्य सौरभ्यप्रदानेन तुल्यमित्यभिप्रेत्याह –
ज्योतिषि भावाच्च ॥३२ ॥ 【भाष्यम्】 यागादिविधिसामर्थ्यं आदित्यादिपदसामर्थ्यं मन्त्रार्थवादेतिहासपुराणेषु विग्रहादिपञ्चकवद्देवताकीर्तनञ्च तथाभूतदेवतास्तित्वे प्रमाणत्वेन शङ्कनीयतया सम्भावितम् । तथा हि तत्तद्देवत्ययागविधयः श्रूयन्ते । यागाश्च तत्तद्देवताराधनरूपाः ; ‘यज देवपूजायाम्’ इति स्मरणात् । फलकामिनाञ्च देवताराधनानि राजाराधनवत्फलार्थानीत्याराध्यमानानां देवतानां राज्ञामिव फलदातृत्वमत्रगम्यते । न च फलस्यानीशानानां फलदातृत्वं घटते । नाप्यप्रसन्नाः फलं प्रयच्छन्ति । नापि दीयमानं हविरभुञ्जानाः प्रसीदन्ति । न चैतत्सर्वमचेतनानां विग्रहरहितानामुपपद्यत इति यागविधिसामर्थ्याद्विग्रहो हविर्भोक्तृत्वं प्रसादवत्त्वमैश्वर्यं फलदातृत्वं च देवतानां कल्प्यते । तथा ‘यदाग्नेयोऽष्टाकपालः’ इत्यादिष्वग्न्यादीनां भोज्येन पुरोडाशादिना सम्बन्धो योग्यतया भोक्तृत्वमेव । भोक्तृत्वे च तदुपपादको विग्रहस्तत्साध्यं प्रसादादिकं च लभ्यत इत्येवं द्रव्यदेवतासम्बन्धविधिसामर्थ्यादपि तासां विग्रहादिपञ्चकं कल्प्यते । तथा प्रगीताप्रगीतमन्त्रसाध्यगुणवचनरूपस्तोत्रशस्त्रविधिसामर्थ्यादपि । गुणवचनं हि देवतानां राज्ञामिवाराधनरूपं भवति । तेनाराध्यमानानां देवतानां फलदातृत्वं कल्प्यते । तेन तासां फलैश्वर्यं स्तावकेषु प्रसादो गुणवचनाकर्णनं विग्रहवत्ता चेति सर्वं कल्प्यते । तथा ’यस्य देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्’ इति देवताध्यानविधिसामर्थ्यादपि विग्रहादिकं कल्प्यते । नहि विग्रहरहिता देवता ध्यानगोचरीभवतीति रूपविशेषाकांक्षायां मन्त्रार्थवादादिप्रसिद्धं विग्रहात्मकमेव रूपं ग्राह्यम् । हविःप्रदानसमये हविरुद्देश्यभूतविग्रहवद्देवताध्यानं च दृष्टार्थत्वाय हविःस्वीकरणार्थम् । तच्च भोजनार्थम् । तेन प्रसादस्तेन फलकामनया हविस्त्यक्तवते यजमानाय फलप्रदानञ्चेति सर्वं लभ्यते । तथा आदित्योऽग्निश्चन्द्र इन्द्र इत्यादयः शब्दा विधिमन्त्रार्थवादेतिहासपुराणेषु लोके च प्रसिद्धाः । तेषाञ्च विधिमन्त्रादिष्वेव प्रातिपदिकात् विहितैर्विभक्तितद्धितैर्योगदर्शनात् निखण्ड्वादिषु रविः सूर्यो वह्निर्ज्वलनो विधुश्चन्द्रमा मघवान् मरुत्वानित्यादिपर्यायस्मरणाच्च हुंफडादिवैलक्षण्येनार्थवत्त्वस्य , लोकवेदप्रसिद्धेन्द्राण्यादिशब्देषु ‘पुंयोगादाख्यायाम्’(पा. सू. ४. १. ४८.) इति विहितस्त्रीप्रत्यययोगाद्विग्रहवदर्थवत्त्वस्य च सिद्धौ विग्रहविशेषाकांक्षायां मन्त्रार्थवादादिप्रसिद्धो विग्रहः समानवाक्योपात्तत्वाद्धविर्भोक्तृत्वादिकञ्चेति सर्वं लभ्यते । साक्षाच्च विधिनैरपेक्ष्येण ‘वज्रहस्तः पुरन्दरः’ ‘पिबा सोममिन्द्र मन्दतु त्वा’ ‘तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयति’ ‘इष्टान् भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः’ ‘ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः’ इत्यादिमन्त्रार्थवादेतिहासपुराणैरपि देवतानां विग्रहादिपञ्चकं सिद्ध्यतीति । तत्र पदसामर्थ्यं तावन्नोक्तरूपदेवतास्तित्वे प्रमाणम् ; आदित्योऽग्निश्चन्द्रः विद्युन्नक्षत्राणीत्येवमादिपदानामचेतनगगनपरिदृश्यमानमण्डलादिरूपे प्रसिद्धे ज्योतिषि वृत्तेः । तत्रैव तेषां लोकप्रसिद्धेः , ‘न तत्र सूर्यः’ इत्यादिश्रुतिप्रसिद्धेश्च सद्भावात् ; इन्द्रो मित्रो वरुण इत्यादिपदानामपि ‘ज्येष्ठा नक्षत्रमिन्द्रो देवता’ इत्यादिश्रुत्यनुसारेण नक्षत्ररूपे ज्योतिष्येव वृत्तेः । नक्षत्रेष्टियाज्यानुवाक्यासु क्वचित्क्वचित् इन्द्रो ज्येष्ठामनु नक्षत्रमेति’ इत्यादी ज्येष्ठादिनक्षत्राणामिन्द्रादिदेवतानाञ्च भेदनिर्देशस्य नक्षत्रपदवाच्यलौकिकतेजोविशेषत्वदेवतापदवाच्यालौकिकहविरुद्देश्यत्वात्मकरूपभेदेनोपपत्तेः । सोऽयं गकार इति प्रत्यभिज्ञालम्भितसर्वविषयगकाराभेदानुसारेण ‘द्वावेतौ गकारौ तारेण मन्द्रोऽभिभूतः तारान्मन्द्रोऽन्यः’ इत्यादिभेदप्रत्ययानामौपाधिकरूपभेदविषयत्वस्याङ्गीकृतत्वेन तद्वदिहापि सम्भवात् । अन्येषां च लोकवेदप्रसिद्धदेवतावाचिपदानां ज्योतिर्मण्डलमध्यगते क्वचित्क्वचिन्नक्षत्रे इन्द्रादिपदवत् वर्तनसम्भवात् । इन्द्राण्यादिशब्दानां नक्षत्रवाचितया पुंविशेषयुक्तस्त्रीवाचित्वाभावेऽपि हिमानीयवानीशब्दवत् स्त्रीप्रत्ययान्तत्वसम्भवात् । पृथिव्यापो वायुरन्तरिक्षमोषधयो वनस्पतयः पुष्पाणि फलान्यहोरात्रौ प्राची प्रतीची मनश्चित्तमित्यादिकर्मविशेषविनियुक्तदेवतावाचिपदानां लोकवेदप्रसिद्ध्यनुसारेण प्रसिद्धेषु मृदादिष्वेव वृत्तेश्च । तस्मात् पदसामर्थ्यं न विग्रहादिमद्देवताऽस्तित्वे प्रमाणम् । नापि यागादिविधिसामर्थ्यम् ; यागविधीनां पूजाविषयत्वेन , द्रव्यसम्बन्धविधीनां द्रव्यसम्बन्धित्वेन , स्तोत्रशस्त्रविधीनां स्तुतिविषयत्वेन , ध्यानविधेर्ध्यानविषयत्वेन चादित्यादिज्योतिषि मृदादौ च तात्पर्यात् । तथा हि – पूज्यः फलप्रदातेति नियमो नैव विद्यते । दूरे तस्य फलैश्वर्यप्रीतिभोजनविग्रहाः ॥ पूज्या हि राज्ञश्शिशवः पूज्यास्तत्पादुकादयः । क्रतौ सोमश्शिवेज्यायां पूजोपकरणादयः ॥ तानुद्दिश्य कृता पूजा राजादीनां भवेद्यदि । तदाऽस्तु यज्ञे देवानां पूजा ब्रह्मण एव नः ॥ पितुर्मातुर्गुरोः पत्युरतिथीनां त्रयीविदां । पूजायां गतिरेषैव ह्युपास्या सकलैरपि ॥ इष्ट्योः पार्वणहोमाभ्यां ते एव खलु कर्मणि । यष्टव्ये स्वीकृते तत्र का गतिः कथितेतरा ॥ तुरङ्गमेधे मेध्यस्य तुरङ्गस्य गुणक्रियाः । अङ्गानि च यदिज्यन्ते गतिस्तत्रापि नापरा ॥ छन्दोगानां विवाहेषु या कन्या परिणीयते । सैवेज्यते तदङ्गं च तत्राप्यन्याऽस्ति नो गतिः ॥ श्राद्धेष्वतीताः पितरः तिर्यग्जन्मगता अपि । इज्यन्ते नामगोत्राभ्यां तत्राप्येषा गतिस्समा ॥ चेतनत्वेऽपि देवानां भाविकल्पान्तरे फलम् । ईश्वरेणैव दातव्यं न तु तैर्विलयं गतैः ॥ अथवा कर्मजन्येन संस्कारेणैव केवलम् । न द्रव्यदानप्रीतेन देवेनाखण्डलादिना ॥ आहूतायाप्रदानं च क्षेपं संकल्पितस्य च । तत्प्रीतिमिच्छन् कः कुर्यादाश्रयन् ब्रह्म कर्म वा ॥ यदाग्नेयादिवाक्येषु तद्धितादिसमर्पितः । द्रव्यदैवतसम्बन्धश्शब्दद्वारो विवक्षितः ॥ विधिवद्देवतावाचिशब्दोच्चारणपूर्वकम् । द्रव्यस्य त्यज्यमानत्वं सम्बन्धस्ताभिरस्ति हि ॥ शब्दद्वारक एवात्र सम्बन्धो विधिमर्हति । शक्यं पुंसामनुष्ठातुं शब्दोच्चारणमेव यत् ॥ अत एव हि पर्यायाः पदस्य विधिवर्तिनः । यज्ञेषु न प्रयुज्यन्ते देवतास्मृतिसिद्धये ॥ अग्नये पावकायेति विहिता यत्र देवता । तत्र शब्दौ प्रयुज्यते पर्यायावपि तावुभौ ॥ सोमः क्रतुहविर्भूतस्तस्याभिषवसाधनः । ग्रावा च स्तूयते तद्वदर्हन्तीन्द्रादयः स्तुतिम् ॥ प्रजापतेर्हि न प्रीत्यै तत्परीवादशंसनम् । अन्यत्र स्तोत्रशब्दस्य तादर्थ्ये कस्तवाग्रहः ॥ समुद्रध्यानवद्ध्यानं देवतानां प्रसिध्यति । तासां नाचेतनत्वेन किञ्चिदप्यपराध्यते ॥ श्लोकस्संगृहीतमर्थजातमस्फुटार्थकरंबितं वाक्यैः स्फुटीकुर्मः । पूज्यः फलप्रदातेति नास्ति नियमः ; येन यागेषु पूजनीयानां देवादीनां फलैश्वर्यादिकं सिद्ध्येत् । राज्ञश्शिशवस्तत्पादुकादयश्च राजभृत्यैरुचितोपचारेण पूज्यन्ते । ज्योतिष्टोमे सोमलता पयोऽन्ननिवेदनेन पूज्यते । शिवपूजायां पूजोपकरणनिर्माल्यादयो गन्धपुष्पादिभिः पूज्यन्ते । न हि तेषां फलदातृत्वमस्ति । यद्युच्यते राजकुमारादीनामुपचारो राजादीनामेव पूजा तेषां च फलदातृत्वमस्तीति नास्ति नियमविरोध इति , तदा क्रतुषु देवानामिज्या तत्तद्वर्णाश्रमाचारादिरूपाज्ञाप्रवर्तकस्य परब्रह्मण एव पूजा तस्य फलदातृत्वमस्तीति नास्माकमपि नियमविरोधः । अवश्यञ्च पित्रादिपूजासु दर्शपूर्णमासेष्ट्योर्दर्शपूर्णमासशब्दितकर्मसमुदायदेवत्यत्वेनात एव आग्नेयादिप्रत्येकयागविकारेषु सौर्यादिषु अनतिदेश्यत्वेन च स्वीकृतयोः पार्वणहोमयोरश्वमेधे चाश्वस्य गुणक्रियाङ्गान्युद्दिश्य ‘कृष्णाय स्वाहा श्वेतायस्वाहा यन्मेहसि तस्मै स्वाहा यच्छकृत्करोषि तस्मै स्वाहा दद्भ्यस्स्वाहा हनूभ्यां स्वाहा’ इत्यादिमन्त्रः क्रियमाणेषु होमेषु , सामगानां परिणयनकर्मणि परिणीयमानां कन्यामुद्दिश्य लेखासंधिषु पक्ष्मसु’ इत्यादिमन्त्रैः क्रियमाणेषु होमेषु , तदङ्गविशेषमुद्दिश्य ‘इमं त उपस्थं मधुना संसृजामि’ इत्यादिमन्त्रेण क्रियामाणे होमे , तिर्यग्जन्मगतानपि मृतानुद्दिश्य क्रियमाणेषु श्राद्धेषु कल्पावसानकृतयागादिषु च नान्या गतिरस्ति ; पित्रादीनां पितृशुश्रूषादिविध्युक्तैहिकामुष्मिकफलदानसामर्थ्यासम्भवात् , चेतनत्वेनाभ्युपगतानामपि यागेषु यष्टव्यानामिन्द्रादीनां कल्पान्तरेष्वनुवृत्तिरहितानां भाविकल्पान्तरभोग्यपूर्वकल्पावसानकृतकर्मफलदानसामर्थ्यासम्भवाच्च । तस्मादनन्यगत्या देवानामिज्यायाः परब्रह्मणैव फलं देयमिति वा ब्रह्मवादानभ्युपगमे कर्मजन्यसंस्कारेणैवापूर्वरूपेण फलं देयमिति वाऽऽश्रयणीयम् । द्रव्यदानप्रीतेन इन्द्रादिना फलं देयमिति त्वयुक्तमेव ; कर्मान्वयिदेवतानां चेतनत्वफलैश्वर्यफलदानकालपर्यन्तस्थायित्वनियमाभावात् । किञ्च ‘ऐन्द्रमेकादशकपालं निर्वपेत् मारुतं सप्तकपालं ग्रामकामः’ इति विहितायामिष्ट्यां ‘ऐन्द्रस्यावद्यन् ब्रूयादिन्द्रायानुबृहीत्याश्राव्य ब्रूयान्मरुतो यजेति मारुतस्यावद्यन्यान्मरुद्भ्योऽनुबृहीत्याश्राव्य ब्रूयादिन्द्रं यज’ इत्याहूतदेवतायै द्रव्याप्रदानमनाहूतदेवतायै तत्प्रदानञ्च कर्तव्यतया श्रूयते । ‘यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति स त्रेधा तण्डुलान्विभजेत्’ इत्यादिवाक्यविहितायामभ्युदयेष्टौ द्रव्यसंप्रदानत्वेन सङ्कल्पितदेवतानिरासो द्रव्याणां देवतान्तरोद्देशेन त्यागश्च कर्तव्यतया श्रूयते । तदेतत् यागादीनां देवताप्रीणनेन ततः फलावाप्त्यर्थपक्षे न युज्यते । को हि द्रव्यदानेन कञ्चित्प्रीणयितुमिच्छन् द्रव्यदानार्थं तमाहूय तद्द्रव्यमन्यस्मै दद्यात् कस्मैचिद्द्रव्यं सङ्कल्पितं प्रतिक्षिप्यान्यस्मै तद्द्रव्यञ्च दद्यात् न ह्यप्रीणनीये प्रीणनीयत्वभ्रान्त्या तदाह्वानसङ्कल्पौ ; अग्रे यष्टव्यानामिन्द्रादीनामवश्यं प्रीणनीयत्वात् , तेषामपि तथाऽऽह्वानसङ्कल्पाभ्यां कोपजननायोगात् । अतः कर्मब्रह्मान्यतरानाश्रयेण यष्टॄणां देवताप्रीणनपरतायामीदृशकर्मानुष्ठानायोगादीदृशैः कर्मभिरात्मनो लीलारूपैः प्राप्तं ब्रह्मैव वा , अपूर्वद्वारकं कर्मैव वा विश्वसन्तो यष्टव्य देवताप्रीतिमनादृत्य यथाविधि कर्मानुतिष्ठन्ति । कर्मविधयश्च यष्टव्यदेवताप्रीतिमद्वारीकुर्वन्तः सर्वकर्माराध्यस्य परब्रह्मणः फलदातृत्वे कर्मण एवापूर्वद्वारकस्य फल जनकत्वे वा तात्पर्यवन्तः प्रवृत्ता इत्येवोपपादनीयम् । द्वितीयपक्षे पूज्य: फलप्रदातेति नियमश्च त्यक्तव्यः , पूजैव फलजनिकेत्यभ्युपेयम् । तस्मान्न यागविधिसामर्थ्यं देवतानां विग्रहादिमत्त्वे प्रमाणम् । नापि द्रव्यदेवतासम्बन्धविधिसामर्थ्यम् । ‘यदाग्नेयोऽष्टाकपालः’ ‘अनुमत्यै पुरोडाशम्’ इत्यादिविधिषु तद्धितचतुर्थीसमर्पितः द्रव्याणां देवतासम्बन्धो न भोक्तृभोज्यभावसम्बन्धः ; तस्य पुरुषेणानुष्ठातुमशक्यस्य विध्यगोचरत्वात् । किन्तु यथाविधि तत्तद्देवतावाचिशब्दोच्चारणपूर्वकत्यागविषयत्वरूपः परम्परासम्बन्धः ; शब्दोच्चारणस्यैव पुरुषेणानुष्ठातुं शक्यस्य विध्यर्हत्वात् । अत एव द्रव्यत्यागादिविषये तत्तद्विधिश्रुतदेवतावाचिशब्दोचारण एव विधिपर्यवसानम् , न देवतायाम् , द्रव्यस्य तत्तत्सम्बन्धे वा । अत एवाग्नेयादियागकालेषु अग्न्यादिशब्दपर्याया नोच्चार्यन्ते – अन्यथा उद्देश्यदेवतास्मृतिमात्रार्थत्वे कदाचिदिच्छया पर्याया अपि प्रयुज्येरन् । यद्युच्येत – विध्युपात्तदेवतावाचिशब्दस्य बुद्धिसन्निहितस्य त्यागे कारणाभावात् स एव यागकाले प्रयुज्यते – इति , तथापि ‘अग्नये पावकाय पुरोडाशम्’ इत्यादि विधिविहितयागानुष्ठाने द्वयोरग्निवाचकपदयोः प्रयोगो न स्यात् ; एकेनाप्यर्थस्मृतिसिद्धेः । अतो विधिवाक्यश्रुतयावद्देवतावाचिशब्दोच्चारणविधिबलादेव स नियमो निर्वाह्य इति न देवताविधिसामर्थ्यमपि तासां विग्रहादिमत्त्वे प्रमाणम् । स्तुतिस्त्विन्द्रादीनामचेतनानामपि बहिष्पवमानस्तोत्रे सोमलताया इव , ग्रावस्तुतौ तदभिषवसाधनानां प्राणामिव चोपपद्यते । किञ्च द्वादशाहे ‘प्रजापतिं परिवदन्ति’ इति विधानात् ‘अकुशलो वा अयं प्रजापतिर्यो दंशमशकान् ससृजे यस्तेनान्’ इत्यादीन् प्रजापतिपरिवादान्न तत्प्रीत्यर्थमधीयते । निन्दानां कोपजनकत्वात् , किंत्वदृष्टार्थमित्येवोपपादनीयम् । एवमेवान्यस्यापि स्तुतशस्त्रवचनस्यादृष्टार्थत्वोपपत्तौ प्रीत्यर्थतायामाग्रहो न युक्तः । देवतानां ध्यानमपि बृहत्स्तोत्रादिकालेषु समुद्रादीनामिवाचेतनानामपि घटते । तस्माद्देवतानामचेतनत्वे किमपि न विरुध्यते इति न यागदेवतास्तोत्रशस्त्रदेवताध्यानविधीनां सामर्थ्यं तासां विग्रहादिमत्त्वे प्रमाणम् । नापि मन्त्रार्थवादेतिहासपुराणवचनजातं तत्र प्रमाणम् । ज्योतिष्टोमादिकर्मतदङ्गकलापान्वयिषु मन्त्रेषु तद्विध्यन्वयिष्वर्थवादेषु च देवतानां सर्गप्रलयविग्रहचरित्रादिवर्णनस्यानुष्ठेयार्थस्मृतिद्वारा विधेयस्तुतिद्वारा च ज्योतिष्टोमादौ प्रधाने तदङ्गकलापे च , औपनिषदमन्त्रार्थवादेष्वितिहासपुराणेषु च तद्वर्णनस्य देवतानां सृष्टिप्रलयकर्तरि तपश्चर्यादिभिः तासामुपास्ये तद्वैरिनिग्रहादिना तासां पालके परब्रह्मज्योतिषि , तदुपासनाविशेषेषु च तात्पर्यात् । ज्योतिष्टोमादिकर्मतदङ्गविधिभिः परब्रह्मस्वरूपनिरूपणपरमहावाक्यैस्तदुपासनाविधिभिश्चैकवाक्यतापन्नानां देवताविग्रहादिसमर्पकमन्त्रार्थवादेतिहासपुराणवचनानां प्रतीयमानेऽर्थान्तरे तात्पर्यायोगात् । स्यादेतत् – तेषां विध्याद्येकवाक्यत्वेन देवताविग्रहादी तात्पर्याभावेऽप्यवान्तरपदसंसर्गतः प्रतीयमानः सोऽप्यर्थोऽभ्युपगन्तव्य एव ; प्रतीयमानार्थत्यागे कारणाभावात् , ‘न सुरां पिबेत्’ इत्यत्र पदत्रयस्य पदैकवाक्यत्वात् सुरां पिबेदिति पदद्वयसंसर्गतोऽर्थप्रतीतिरेव नास्तीति तदनभ्युपगमः । मन्त्रादीनां तु सन्निहितविध्यादिभिः वाक्यैकवाक्यतेति तेभ्योऽवान्तरार्थप्रतीतिः सर्वानुभवसिद्धा न प्रत्याख्यातुं शक्या । अत एव जैमिनिनाऽपि ‘अविशिष्टस्तु वाक्यार्थः’(जै. सू. १. २. ३२) ‘अर्थैकत्वादेकं वाक्यम्’(जै , सू. २. १. ४६) इत्यादिसूत्रैर्मन्त्राणां वाक्यार्थवत्त्वं दर्शितम् । तद्विरोधिनश्च तदर्थशास्त्रादयो मन्त्राधिकरणे परिहृताः । अपरिपूर्णेषु मन्त्रवाक्येषु तदर्थप्रतीत्युपपादको चानुषङ्गाध्याहारौ ‘अनुषङ्गो वाक्यसमाप्तिः’(जै. सू. २. १. ४८) ‘व्यवधाना (व्यवाया) नानुषज्यते’(जै. सू. २. १. ४८) इति सूत्राभ्यां दर्शितौ । मन्त्रवाक्यार्थप्रतीतिमुपजीव्यैव च ‘बर्हिर्देवसदनं दामि’ इत्यादिमन्त्राणां लैङ्गिकविनियोगोऽङ्गीकृतः । अर्थवादवाक्यानामर्थवत्त्वविरोधिनश्च शास्त्रदृष्टविरोधादयोऽर्थवादाधिकरणे परिहृताः । तदर्थप्रतीत्युपपादकाश्च तत्कार्यकरत्वादिलक्षणास्तत्सिद्धिपेटिकायां दर्शिताः । अर्थवादवाक्यार्थप्रतीतिमुपजीव्यैव च ज्योतिष्टोमादिफलसमर्पकस्वर्गशब्दस्यालौकिकसुखविषयत्वं रात्रिसत्रस्य प्रतिष्ठाफलत्वं , ज्योतिष्टोमशब्दस्य सोमयागमात्रविषयत्वं चातुर्मास्ये द्वयोः पर्वणोरप्राकृताग्निप्रणयनान्तरविधानस्य मध्यमपर्वविषयत्वं गावामयनिकारम्भकालविधायकवाक्यगतपौर्णमासीशब्दस्य माघपौर्णमासीविषयत्वं द्वादशाहविकारेषु तदीयमध्यमदशरात्रस्य प्रवृत्तिर्गवामयने त्र्यनीकायां स्वस्थानविवृद्धिः दण्डकलितपदावृत्तिरित्याद्यर्थजातं निर्णीतम् । किंबहुना । कृस्नमपि पूर्वतन्त्रं मन्त्रार्थवादलिङ्गान्युपजीव्यैव प्रवृत्तम् । तथापि मन्त्रार्थवादादीनां विध्याद्येकवाक्यतयाऽन्यत्र तात्पर्यवतां देवताविग्रहादिरूपे स्वार्थे तात्पर्याभावान्न तत्र प्रमाण्यमस्तीति चेत् ; न ; तात्पर्यविषय एवार्थे शब्दस्य प्रामाण्यमिति नियमाभावात् । प्रमाणतः प्राप्तिविरोधयोरसतोः पदसमभिव्याहारलभ्यार्थमात्रे तस्य प्रामाण्यात् । अन्यथा ‘एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत’ इति वाक्यात् रेवत्याधारवारवन्तीयसामसाध्याग्निष्टोमस्तोत्रविशिष्टक्रतुविधिपरात् ‘रेवतीर्नस्सधमाद’ इत्यादिऋक्त्रयाधारवारवन्तीयसामरूपमग्निष्टोमस्तोत्रस्य विशेषणं न सिद्ध्येत् । न हि तत् ‘सोमेन यजेत’ इत्यादिविशिष्टविधिषु सोमलतादिविशेषणवल्लोकसिद्धम् । नापि ‘कवतीषु रथन्तरं गायेत्’ इति तत्प्रमापकविध्यन्तरमस्ति । न चास्यैव विशिष्टगोचरस्य विधेर्विशेषणविधावपि तात्पर्यं वक्तुं शक्यम् ; विध्यावृत्तिप्रसङ्गात् । न चाक्षेपाद्विशेषणविधिलाभः । लोकप्रसिद्धे हि विशेषणे विशिष्टविधिवाक्यगतसोमादिपदात्प्रतीते तद्विशिष्टयागादिगोचरो विधिः विशेषणविधिमाक्षिपेत् । न चेह तथा विशेषणस्य लोकतः प्रसिद्धिरस्ति । न चाक्षेपादेव तस्य प्रसिद्धिरप्येष्टव्या । आक्षेपात् विशेषणप्रसिद्धौ सत्यां विशिष्टविधिः , विशिष्टविधिनैव च विशेषणतद्विध्योराक्षेप इति परस्पराश्रयापत्तेः । तस्मात् विशिष्टविधेर्विशेषणस्वरूपे तात्पर्याभावेऽपि तस्मिन्नप्रसिद्धे ‘रेवतीषु वारवन्तीयम्’ इति पदद्वयसमभिव्याहारस्यैव प्रामाण्यमभ्युपगम्य ततस्तत्प्रसिद्धिराश्रयणीया । एवं मन्त्रार्थवादादिभिस्तात्पर्यरहितैरपि देवताविग्रहादिकं प्रसिद्धं न निवार्यते । अन्यार्थप्रवृत्तस्यापि प्रमाणस्य प्रमाणस्वाभाव्येन यावत्स्वविषयपरिच्छेदकत्वावश्यंभावात् ; ‘घटायोन्मीलितं चक्षुः पटं किं न प्रकाशयेत्’ इति न्यायात् । यदि च शब्दस्य तात्पर्यविषय एव प्रामाण्यमिति नियमस्तथाऽपि न दोषः । यागादिविधिभिः ब्रह्मपरवाक्यैरुपासनविधिभिश्च वाक्यैकवाक्यतया तेषु महातात्पर्यवतामपि मंत्रार्थवादादीनां प्रधानविद्द्येकवाक्यतावतां प्रयाजादिवाक्यानामिव स्वखार्थेष्ववान्तरतात्पर्यसंभवात् । प्रयाजादीनामितिकर्तव्यतारूपेण प्रधानविध्याकांक्षितत्वात् तेष्ववान्तरतात्पर्यमस्ति , न देवताविग्रहादौ , अनपेक्षितत्वादिति चेत् ; न । ‘क्लृप्तोपकारसाकांक्षाः प्रथमं प्राकृतैस्सह । संबध्यन्ते समीपस्थं विकाराः प्रोज्झ्य चोदितम्’ इत्युक्तन्यायेन क्लृप्तोपकारप्राकृताङ्गकलापप्राथमिकान्वयनिराकांक्षीकृतप्रधानविध्यनपेक्षिताङ्गसमर्पकाणामप्यामनहोमादिविधानांस्वार्थेष्ववान्तरतात्पर्याभ्युपगमात् । मंत्रार्थवादप्रतिपाद्यनामानपेक्षितत्वमप्यसिद्धम् ; विधीयन्वय्यर्थवादार्थानां यागादिषूपासनासु च परीक्षकप्रवृत्त्युपयोगिस्तुतिद्वारत्वात् । यद्यपि काव्येषु पुरवर्णनादिरूपा सहृदयहृदयोल्लासप्रयोजना , लोके राजादिहृदयावर्जनप्रयोजना , बालानामौषधादिप्रवृत्तिप्रयोजना च स्तुतिरसदर्थावलंबनाऽपि दृश्यते , तथापि परीक्षकाणां यागादिप्रवृत्तिप्रयोजना स्तुतिरसदर्थावलंबना न संभवत्येव । एवं ‘नकिरिन्द्र त्वदुत्तरः’ ‘विश्वस्मादिन्द्र उत्तरः’ इत्यादिमंत्रार्थानामपि स्तुतिद्वारत्वादसदर्थावलंबनता न संभवति । ये तु केवलमनुष्ठेयार्थप्रकाशका मंत्रा न तु स्तावकाः तदर्था अप्यनुष्ठेयार्थप्रकाशनस्यैव निर्वाहार्थमपेक्षिताः । तथा ब्रह्मवाक्यान्वयिसृष्टिप्रलयादिप्रतिपादकमंत्रार्थवादा अप्यध्यारोपापवादादिभिर्ब्रह्मणो निष्प्रपञ्चत्वादिप्रसिद्ध्यर्थमपेक्षिता एव । एवमितिहासपुराणार्था अपि । तस्मान्मंत्रार्थवादेतिहासपुराणैर्देवतानां विग्रहादिकं सिद्ध्ययतीति चेत् ; उच्यते – यदुक्तं प्राप्तिविरोधयोरभावात् मन्त्रार्थवादादिभिरन्यपरैरपि देवतानां विग्रहादिकं सिद्ध्यतीति , तत्र विरोधाभावस्तावदसिद्धः । तथा हि – देवतानां विग्रहं प्रतिपादयतां तेषामचेतनेषु ज्योतिरादिष्वादित्यादिशब्दानां शक्तिग्राहकैस्तदनुसारिभिर्लौकिकवैदिकप्रयोगैश्च विरोधः । ‘असौ योऽवसर्पति नीलग्रीवो विलोहितः उतैनं गोपा अदृशन्नदृशनुदहार्यः उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः’ इत्यादित्यस्य विग्रहं गोपालसलिलाहरणीप्रभृतिपामरजनसाधारण्येन सकलदृश्यं प्रतिपादयतो मन्त्रस्य प्रत्यक्षविरोधः । अस्य च ‘नमस्सूर्यायादित्याय नमो नीलग्रीवाय शितिकण्ठाय’ इति कृच्छ्राङ्गादित्योपस्थानमन्त्रस्य च नीलग्रीवत्वादिविशिष्टमादित्यविग्रहं प्रतिपादयतस्तथाभूतविग्रहं शिवासाधारणं प्रतिपादयद्भिर्मन्त्रार्थवादादिभिर्विरोधः । ‘अर्यम्णे चरुं निर्वपेत्स्वर्गकामोऽसौ वा आदित्योऽर्यमा’ इत्यादिब्राह्मणविहिते काम्येष्टिविशेषे क्रमप्रमाणेन विनियुक्तस्य अर्यमायाति वृषभस्तुविष्मान्दाता वसूनां पुरुहूतो अर्हन् । सहस्राक्षो गोत्रभिद्वज्रबाहुरस्मासु देवो द्रविण ददातु’ इति मन्त्रस्य वज्रहस्तत्वादिविशिष्टं विग्रहं महेन्द्रासाधारणं प्रतिपादयद्भिस्तैर्विरोधः । ‘एतेन वै सर्पा अपमृत्युमजयन्नपमृत्युं जयन्ति य एतदुपयन्ति तस्मात्ते हित्वा जीर्णां त्वचमतिसर्पन्त्यप हि ते मृत्युमजयन्सर्पा वा आदित्या आदित्यानामेवैषां प्रकाशो भवति य एतदुपयन्ति’ इति सर्पाणामयनार्थवादस्यादित्यानां कद्रूसुतरूपत्वं प्रतिपायतस्तेषां पौरुषेयान्विग्रहानदितिप्रभवान् प्रतिपादयद्भिस्तैर्विरोधः । ‘सायं यावानश्च वै देवाः प्रातर्यावानश्चाग्निहोत्रिणो गृहमागच्छन्ति’ ‘अध्वर्यो द्रावय त्वं सोममिन्द्रः पिपासति । उपनूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा’ इत्यादीनां यागदेशागमनं देवतानां प्रतिपादयतां प्रत्यक्षविरोधः ; युगपत्प्रवृत्तानेकयागदेशागमनविरोधश्च । न च कायव्यूहकल्पनेन सर्वत्रागमननिर्वाहः । मातापितृप्रभवत्वनियतानां करचरणाभिलापादिमत्कायानामिच्छामात्रेणाविर्भावकल्पनानुपपत्तेः । ‘कस्य वाह देवा यज्ञमागच्छन्ति कस्य वा न बहूनां यजमानानाम्’ इति ब्राह्मणश्रुतप्रश्नानुपपत्तेश्च । कायव्यूहपरिग्रहे हि सर्वेषामपि यज्ञमागच्छेयुरविरोधात् । ‘यो वै देवताः पूर्वः परिगृह्णाति स एनाश्श्वोभूते यजते’ इति तदुत्तरमपि विरुद्धम् । पश्चाद्देवतापरिग्रहं कृतवतां यज्ञं प्रति देवतानामनागमनेन तन्नैष्फल्यप्रसङ्गात् , एवमपि युगपत्प्रवृत्तानेकयागदेशागमनानिर्वाहाच्च । तथा देवतानां यागीयहविर्भोक्तृत्वं प्रतिपादयतां मन्त्रार्थवादादीनां प्रत्यक्षविरोधः । अग्नौ हुतानि हि द्रव्याणि प्रत्यक्षं भस्मीभवन्ति दृश्यन्ते । पदहोमादिद्रव्याणि च पांस्वादिषु निलीयमानानि दृश्यन्ते । पञ्चशारदीयोक्षहयमेधपरस्वदादयश्च यागीयाः पशवः पर्यग्निकरणान्ते देवतादेशेन त्यक्ता यथापूर्वं जीवन्त एव दृश्यन्ते । श्राद्धेषु विश्वदेवाद्युद्देशेन त्यक्तानि चानाने निमन्त्रितैब्राह्मणैरेव भुज्यमानानि तेषामेव च तृप्तिं जनयन्ति दृश्यन्ते । हविषां सूक्ष्माः रसांशाः देवैर्भुज्यन्त इति मधुकरभुक्तसूक्ष्मरसांशेषु पुष्पेष्विव नास्ति प्रत्यक्षविरोध इति चेत् ; एवमपि हविषां परलोकोत्क्रमणप्रत्यावृत्तिश्रुतिस्मृतिविरोधः । तथा हि – अग्निहोत्राहुती: प्रकृत्य वाजसनेयके श्रूयते ‘ते वा एते आहुती उत्क्रामतः ते अन्तरिक्षमाविशतस्ते अन्तरिक्षं तर्पयतः ते दिवमाविशतः ते दिवं तर्पयतः ते आवर्तेते । ते इममाविशतः ते पुरुषमाविशतः ते स्त्रियमाविशतः ततः पुत्रो जायते’ इति । स्मर्यते च ‘अग्नी प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः’(मैत्रा , ६. ३७) इति । न च ‘दिवं तर्पयत’ इति श्रवणाद्धविषां कस्मिंश्चिदंशे देवैर्भुक्तेऽशान्तरस्य प्रत्यावृत्तिः स्यादिति वाच्यम् । ‘दिवं तर्पयत’ इत्यस्य ‘अन्तरिक्षं तर्पयत’ इत्यस्य चाविशेषेण तत्तल्लोकप्रीतिपरतया विशिष्य अग्निहोत्रदेवताभूताग्निसूर्यप्रजापतितर्पणपरत्वाभावात् । अन्यथा ‘अन्तरिक्षमाविशत’ इत्यस्यायोगात् , अग्निसूर्यप्रजापतीनामन्तरिक्षलाकेवासित्वाभावात् । अपि च हविर्भुञ्जाना देवाः खस्स्थान एव स्थित्व भुञ्जते उत यागदेशमागत्य आये यागदेशागमनं व्यर्थमिति ‘अध्वयों द्रावय त्वम्’ इत्यादिश्रतिविरोधः द्वितीये हविरग्निना देवानां स्थानं प्रति न नेतव्यमिति ‘अतन्द्रो हव्या वहसि हविष्कृतः’ ‘अग्नेस्त्रयो ज्यायांसो भ्रातर आसन्ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त’ इत्यादिश्रतिविरोधः । एवं श्राद्धेषु तर्पणीयाः स्वस्थानस्था भुञ्जत इत्यङ्गीकारे पुराणादिषु तेषां श्राद्धदेशागमनवर्णनविरोधः । उक्तं हि पद्मपुराणे श्रीरामचन्द्रेणापि योगवाप्याङ्गयायां श्राद्धे क्रियमाणे दशरथतत्पितृपितामहास्तं देशमागत्य निमन्त्रितब्राह्मणानां देहेषु स्थिताः सीतया दृष्टा इति । तत्र किमर्थं निमन्त्रितान् ब्राह्मणान् दृष्ट्वैव श्राद्ध देशादपक्रान्ताऽसीति पृष्टवन्तं श्रीरामचन्द्रं प्रति श्रीसीतावचनं ‘शृणु त्वं नाथ यद्दृष्टमाश्चर्यं हि मयेदृशम् । पिता तव मया दृष्टो ब्राह्मणाङ्गेषु राघव । सर्वाभरणसंयुक्तो द्वावन्यौ च तथाविधौ । दृष्ट्वा त्रपाऽन्विता चाहमपक्रान्ता तवान्तिकात्’ इति । श्राद्धदेशमागत्य निमन्त्रितब्राह्मणमुखेनाविष्टमनुष्यमुखेन पिशाचा इव भुञ्जत इत्यङ्गीकारे तु ‘अभून्नो दूतो हविषो जातवेदा अवाड्ढव्यानि सुरभीणि कृत्वा प्रादात् पितृभ्यस्वधया ते अक्षन्’ इत्यादिश्रुतिविरोधः । स्थावरतिर्यङ्मनुष्यादिजन्म प्राप्तानां श्राद्धदेशगमनासम्भवयुक्तिविरोधश्च ; पूर्वजन्मपुत्रादिकृतश्राद्धैः कस्यापि कदापि तृप्तेरदर्शनात् प्रत्यक्षविरोधश्च । भाव्यं हि हव्यकव्योद्देश्यानां तद्भोक्तृत्वे कदाचिदप्यकस्मादेव पूर्वजन्मपुत्रादिकर्तृकश्राद्धदत्तान्नपानविशेषोपयोगजन्यैः प्रीतिविशेषैः । किञ्च देवतानां हविर्भोक्तृत्वाङ्गीकारे ‘नह वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति’ इति श्रुत्यन्तरविरोधश्च । प्रस्तरयागस्वरूपहोमवातनामहोमादिद्रव्येषु कुशकाशदारुशकलवाय्वादिषु मनुष्याद्यनदनीयेषु युक्तिविरोधश्च । तथा स्रुवादिगृहीतैराज्यादिद्रव्यैः द्व्यवदानादिपरिमितैः पुरोडाशादिद्रव्यैश्च , महाविग्रहत्वेन मन्त्रार्थवादादिप्रतिपन्नानां देवतानां तृप्तिं प्रतिपादयतां तेषां युक्तिविरोधः । ‘यस्मै वा अल्पेनाहरन्ति नात्मना तृप्यति नान्यस्मै ददाति यस्मै महता तृप्यत्यात्मना ददात्यन्यस्मै महता पूर्णं होतव्यं तृप्त एवैनमिन्द्रः प्रजया पशुभिस्समद्धर्यति’ इति श्रुतिरपि स्रुवाद्यल्पपात्रप्रविष्टैराज्यादिद्रव्यैस्तृप्त्यसम्भवयुक्तिमनुमोदते । तथा देवानां फलदातृत्वं प्रतिपादयतां कल्पान्तरभोग्यफलदातृत्वासम्भवयुक्तिविरोधः , ‘फलमत उपपत्तेः (ब्र.सू ३.२.३) इत्यधिकरणोक्तन्यायाविरोधश्च । एकैवाग्निहोत्रदेवता दध्ना प्रीतेन्द्रियं प्रयच्छति , पयसा प्रीतापशमित्यादिफलव्यवस्थायां लोकदृष्टविरोधश्च । लोके द्रव्यप्रदानेन प्रीणनीयानां राजादीनां प्रदेयद्रव्यभेदेन व्यवस्थितफलदातृत्वादर्शनात् । एतेन – फलदातृत्वान्यथानुपपत्त्या देवतानां तत्तत्फलैश्वर्यकल्पनमपि निरस्तम् । तस्मादसिद्धो विरोधाभावः । यदुक्तमन्यपरवाक्यैरपि प्रतीयमानं देवताविग्रहादिकं सिद्ध्यति , तात्पर्यविषय एवार्थे शब्दस्य प्रामाण्यमिति नियमाभावादिति , तदसङ्गतम् । तथा नियमाभावे ‘श्वेतो धावति’ इति श्वित्रिकर्तृकवश्वनिर्णेजनपरवाक्यस्य ‘इतः सारमेयो गच्छति’ इत्यर्थान्तरेऽपि प्रतीयमाने प्रामाण्यप्रसङ्गात् । न चेष्टापत्तिः । अविरुद्धेऽपि शब्दस्य तात्पर्याविषयव्यतिरिक्तेऽर्थे पर्वतो वह्निनमानित्यनुमानस्यानुमेयव्यतिरिक्तेऽर्थे पर्वतादाविव शब्दस्य प्रामाण्यव्यवहाराभावस्य सर्वसंप्रतिपन्नत्वात् । व्यवहारानुसारेणैव प्रामाण्यस्याभ्युपगन्तव्यत्वात् । ननु शब्दस्य स्वतन्त्र एवार्थद्वये प्रामाण्यं नास्ति । द्वारद्वारिभावापन्ने तु अस्तीति चेत् ; न । श्लिष्टकाव्येषु विश्वतोमुखेषु सूत्रेषु च वक्तृविवक्षया शब्दतात्पर्यविषये स्वतन्त्रार्थद्वयेऽपि प्रामाण्यस्य संप्रतिपन्नतया विवक्षितविवेकतस्तात्पर्यविषय एवार्थे शब्दस्य प्रामाण्यमिति पर्यवसानेनोक्तव्यवस्थाया निष्प्रमाणकत्वात् । ‘रेवतीषु वारवन्तीयम्’ इत्यत्र तात्पर्याविषयेऽप्यर्थे शब्दस्य प्रामाण्यं दृष्टमिति चेत् न । असिद्धेः ; ‘सोमेन यजेत’ इत्यादिष्विवात्रापि विशिष्टविधिनैव विशेषणविध्याक्षेपाङ्गीकारात् । न चोक्तपरस्पराश्रयप्रसङ्गः ; सोमद्रव्यप्रतीतिवत् विशिष्टविधिगतपदलभ्यां रेवत्याधारवारवन्तीयप्रतीतिमुपजीव्य प्रवृत्तेन विशिष्टविधिना रेवतीषु वारवन्तीयं कुर्यादिति विशेषणविध्याक्षेपसम्भवात् । तत्प्रतीत्यभावे त्वयाऽपि तत्र प्रामाण्यस्याङ्गीकर्तुमशक्यत्वेन तत्प्रतीतेरेवावश्याभ्युपगन्तव्यत्वात् । इयांस्तु विशेषः – सोमलतादिविशेषणं मानान्तरसिद्धं पदात्प्रतीयते , इदन्तु मानान्तरासिद्धमेव पदसमभिव्याहारात् प्रतीयत इति । प्रतीयमानेऽपि विशेषणे तात्पर्याभावात् तत्र विशिष्टविधेः प्रामाण्याभाव उभयत्राप्यविशिष्टः । अयञ्चापरो विशेष: – सोमलतादिद्रव्यस्य लोकसिद्धत्वात् तत्र यागसम्बन्धित्वेनैव विधिः , कल्प्यः । ‘विश्वजित् सर्वपृष्ठोऽतिरात्रो भवति’ इति विश्वजिति षाडहिकपृष्ठगतसर्वताविधौ षाडहिकप्रष्ठानां लोकसिद्धत्वाभावेऽपि द्वादशाहप्रकरणगतविधिसिद्धत्वात्तेष्वपि विश्वजित्सम्बन्धित्वेनैव विधिः कल्प्यः । इह तु विशेषणस्वरूपस्यापि मानान्तरासिद्धत्वात्प्रतीयमानेऽपि तस्मिन् विशिष्टविधेः प्रामाण्याभावाच्च तत्सिद्ध्यर्थं स्वरूपेण स्तोत्रविशेषसम्बन्धित्वेन च विधिद्वयं कल्प्यमिति । तस्मात् तात्पर्याविषयेऽपि शब्दः प्रमाणमित्येतदसङ्गतम् । यदुक्तम् – देवताविग्रहादीनामवान्तरवाक्यार्थत्वात्प्रयाजामनहोमादिष्विव तेष्ववान्तरतात्पर्यमभ्युपगन्तव्यमिति , तदप्यसङ्गतम् । वेदे न्यायेन तात्पर्यं व्यवतिष्ठते , लोके वक्तृविवक्षयेव । अस्ति प्रयाजादीनामवान्तरतात्पर्यसद्भावावगमको न्यायः । तेषां प्रयाजादिविधितात्पर्याभावे हि वैयर्थ्यं स्यात् । तथा सति प्रयाजादीनां निष्प्रमाणकत्वापत्त्या दर्शपूर्णमासाद्यन्वय्यङ्गसमर्पकत्वाभावेन तद्विध्येकवाक्यतयाऽपि सार्थकत्वकल्पनानवकाशात् । न चाध्ययनविधिपरिगृहीतानां तेषां वैयर्थ्यं युक्तमिति । न चेह तथा मन्त्रार्थवादानां देवताविग्रहादिष्ववान्तरतात्पर्यकल्पकोऽस्ति न्यायः । तेषामनुष्ठानकालिकद्रव्यदेवतादिस्वरूपप्रकाशनप्राशस्त्यसमर्पणरूपव्यापारान्तरवतां तद्द्वारेण तत्तद्विध्येकवाक्यतया सार्थकत्वसंभवात् । यदि तु तात्पर्यकल्पकन्यायमनपेक्ष्यैव क्वचित्तात्पर्यवतां वेदवाक्यानां प्रतिपत्तुरिच्छयाऽन्यत्रापि तात्पर्यमभ्युपगम्येत , तदा ‘सदेव सोम्येदमग्र आसीत्’ इत्यादिजगत्कारणवाक्यानामुपक्रमोपसंहारादिबलवन्न्यायवशात्क्वचिदर्थे तात्पर्यवतां तत्तद्वाद्यभ्युपगतब्रह्मविष्णुरुद्रेन्द्रचन्द्रसूर्यानलादिष्वन्येष्वपि बहुषु तात्पर्यं स्यादिति अनेकेश्वरवादो वेदसिद्धः प्रसज्येत । ननु मन्त्रार्थवादानामसदर्थविषयत्वे तात्पर्याप्रतीत्या परीक्षकप्रवृत्त्युपयोगिन्या विधेयस्तुतिबुद्धेर्विहितानुष्ठानस्य चासंभवात्तदुभयद्वारा विध्येकवाक्यत्वं न निर्वहतीति तन्निर्वाहार्थमेव तेषां सदर्थविषयकत्वं कल्पनीयमिति चेत् ; उच्यते – स्तावकवाक्यानां तावत्स्तुतिद्वारकाविध्येकवाक्यत्वनिर्वाहार्थमसदर्थविषयत्वमेव कल्पनीयम् । तथात्व एव स्तुतिपरत्वनिश्चयेन झटिति स्तुतिबुध्युत्पत्तेः । अन्यथा स्वार्थबोधविषयैव वाक्यप्रवृत्तिरिति शङ्कया स्तुतिपरत्वनिश्चयासंभवात् । अत एव स्तुतिपरवाक्यानामसदावलंबनत्वं सिद्धं कृत्वोक्तमभियुक्तैः ‘भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः’ इति । भट्टपादैरप्याशङ्कापरिहाराभ्यां तथैव दर्शितम् ‘अथोच्येत असदर्थान्वाख्याने कुतःस्तुतिनिन्दात्वमिति सुतरां तत्र प्रतीयते काम परार्थे वक्तारो भवन्ति काऽत्र स्तुतिनिन्दा वा । सत्यमेवैतत्’ इति । नन्वसदर्थावलंबनया स्तुत्या परीक्षकाः कथं प्ररोचिताः प्रवर्तन्ते इत्थम् – आरोग्यादिफले कटुतिक्ताद्यौषधसेवने बहुनियमपरिकरे प्रवर्तकस्य पित्रादेः प्रवर्तनीयेष्टतमासत्यानेकफलोक्तीनामिव बहुवित्तव्ययायाससाध्ये कर्मणि प्रवर्तकस्य वेदस्य स्तावकवाक्यानामसदर्थविषयत्वमवगच्छन्तोऽपि प्रवर्तनीयाः परीक्षका यदस्य वास्तवं फलं तल्लंभनार्थमवश्यमिदमनुष्ठापनीयमिति स्तावकवाक्यानामसदर्थावलंबनत्वे हितैषित्वेन प्रवृत्तिप्रतिबन्धकद्वेषालस्यादिभङ्गरूपप्ररोचनार्थमसत्यान्यन्यान्यपि फलान्युपन्यस्य कृत्युद्देश्यताहमिदं कर्मेति पित्रादिवद्वेदः स्तोतीति स्तावकवाक्यानामसदावलंबनत्वेऽप्यबाधितायां कर्मस्तुतौ तात्पर्यं निश्चित्य प्रवर्तकस्य वेदस्य हितैषित्वेनानतिक्रमणीयत्वविश्वासात्स्तुतिद्वारभूतार्थासत्यत्वमदोषं मन्यमानाः प्रवर्तन्ते । एवमेवासदर्थावलंबननिन्दावाक्यश्रवणेन च निवर्तन्ते । एवमसदर्थावलंबनस्तुतिनिन्दावाक्यानां प्रवृत्तिनिवृत्तिपरत्वासमर्थने भारतादिषु , गृध्रगोमायुसंवादादीनामसदुपाख्यानानां का गतिः ते हि तियञ्चोऽपि एवं वञ्चयन्ति ; विशिष्टबुद्धयो मनुष्या वञ्चनप्रवृत्ताश्चेत्कथं कथं न वञ्चयेयुः तस्माद्वञ्चकानिंगिताकारैः सम्पक्संशोध्य तदनुसारेण प्रवर्तनीयं निवर्तनीयं वेत्याद्युपदेशे तात्पर्यवन्तः प्रमाणभूता इत्येव समर्थनीयम् । इयमेव ‘त्रयो होद्गीये कुशला बभूवुः’ इत्यादिवैदिकोपाख्यानानामपि गतिः । न हि तेषां सदर्थविषयत्वमङ्गीकर्तुं शक्यम् ; वेदस्यानित्यसंयोगप्रसङ्गात् । मन्त्राणान्तु अनुष्ठानार्थं प्रकाशनीयेषु द्रव्यदेवतादिषु सद्विषयत्वनियमेऽपि तद्विशेषणेषु च नास्ति सद्विषयत्वनियमः । ‘तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः’ ‘जगृभ्णाते दक्षिणमिन्द्रहस्तम्’ ‘धान्ते धूमो गच्छत्वन्तरिक्षमर्चिः’ ‘पृथिवीं भस्मना प्रीणय स्वाहा’ ‘दिवमग्रेण मा लेखीरन्तरिक्षं मध्येन मा हिंसीः पृथिव्या संभव’ ‘अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यम् अग्नये जुष्टं निर्वपामि’ इत्यादि मन्त्रेषु प्रकाशनीयानां द्रव्यदेवताक्रियाणामिव तद्विशेषणानां सौमनस्यादीनां सत्यत्वाभावात् । ‘अवचनं तेषामितरार्थं प्रयुज्यते’(जै. सू. ९. १. ३७) इति नावमिकाधिकरणे कर्मसमवेतनिर्वापादिविशेषणस्य ‘अश्विनोर्बाहुभ्याम्’ इत्यादेरसमवेतस्याभिधानमदृष्टार्थमिति व्यवस्थापितत्वात् । एवमेव कर्मसमवेतदेवताप्रकाशकेषु मन्त्रेषु विग्रहादिरूपतद्विशेषणाभिधानमसमवेताभिधानं संभवतीति न किञ्चित् हीयते । अवश्यञ्च ‘अग्निस्ते तनुवं मातिधात्’ ‘व्रीहीणां मेध सुमनस्यमानः’ इत्यादिमन्त्रेषु द्रव्यविशेषणदेहेन्द्रियाद्यनुवदनसमवेताभिधानमित्येवाङ्गीकार्यम् । देवताविशेषणदेहेन्द्रियाद्यनुवदने कः सद्विषयत्वाग्रहः तस्मात् पुरोडाशादीनामिवाचेतनानां देवतानामपि देहेन्द्रियादि कल्पनामात्रमित्येव वक्तुं युक्तम् । पुरोडाशादिशब्दानामपूर्वादिष्विव आदित्यादिशब्दानामप्यचेतनेषु ज्योतिरादिषु व्युत्पत्तिग्रहस्याविशिष्टत्वात् । अत एव ‘असौ योऽवसर्पति’ इति मन्त्रः पामरसाधारण्येन सकलदृष्टिगोचरज्योतिर्मंडलमेव नीलग्रीवत्वेन विशेषयति । न हि तत् काल्पनिकत्वमनङ्गीकृत्य निर्वोढुं शक्यम् । तस्माद्देवताविग्रहादिप्रतिपादकमंत्रार्थवादानामपि विग्रहादिकल्पनावति ज्योतिरादावेव तात्पर्यान्न तद्बलादपि देवतानां विग्रहादिसिद्धिः । तस्मात् विग्रहादिरहितत्वेन देवतानां ब्रह्मविद्याधिकारशङ्काऽपि नावकाशवतीति । इत्थं द्वेधा पूर्वपक्षे प्राप्ते सिद्धान्तमाह –
भावं तु बादरायणोऽस्ति हि ॥३३॥ 【भाष्यम्】 यद्यपि मधुविद्यादिष्वधिकारो नास्ति देवानाम् । न निवार्यते तथापि स शुद्धायां ब्रह्मविद्यायाम् ॥ न हि सर्वेषां सर्वेष्वधिकारो राजसूयमुख्येषु । सर्वत्रानधिकारो येनैषां कुहचिदनधिकारात्स्यात् ॥ किंच मध्वादिविद्यासु देवानां नानधिक्रिया । भाष्ये त्वनधिकारोक्तिः कृत्वाचिन्तैव केवलम् ॥ वस्वाद्यास्समुपासीरन्तनात्मानं स्वस्वमात्मना । स्वस्वत्मन उपास्यत्वे को विरोधः प्रसज्यते ॥ कर्मकर्तृविरोधोऽस्ति नोपास्योपासकत्वतः । अहंग्रहोपासनासु स्वस्योपास्यत्वदर्शनात् ॥ उपासनाविशेष्यत्वे स चेदत्रापि नास्ति सः । विशेषणानि ह्यमृते वस्वाद्या वर्णिताः श्रुतौ ॥ तस्यां विशेष्यत्वमपि स्वस्य नैव विरुध्यते । योऽहं सोऽसाविति न किं स्वविशेष्यमुपासनम् ॥ कर्मकर्तृविरोधोक्तिस्तत्राभ्युच्चय एव नः । तत्परत्वेन हि मुहुः पूर्वपक्षाः प्रवर्तिताः ॥ वस्वादीनामपि सतां वस्वादित्वं भवान्तरे । प्रार्थनीयं भवत्येव पुत्रित्वं पुत्रिणां यथा ॥ देवत्वप्रापकं सत्रं देवास्सन्तोऽपि कुर्वते । इत्येवमुक्तिलिंगादप्ययमर्थोऽवसीयते ॥ यद्वा वस्वादिभावस्य तस्मिन्नेव भवे सतः । प्रार्थनीयं भवत्येव दीर्घकालानुवर्तनम् ॥ सिद्धं किञ्चित्फलांशानां तदंशान्तरलिप्सया । रसायनादिसेवासु प्रवृत्तिः खलु दृश्यते ॥ श्लोकानामयं निष्कृष्टोऽर्थः – यदुक्तम् – देवानां मधुविद्यादिष्वनधिकारात् ब्रह्मविद्यायामपि नाधिकार – इति तत्रेदमुच्यते । ब्राह्मणादीनां राजसूयादिष्वनधिकारेऽपि यथा कर्मान्तरेष्वधिकारः , एवमिहापि स्यादिति । मध्वादिविद्यासु देवतानामनधिकारोऽप्यसिद्धः । भाष्ये तदनधिकारोक्तिः कृत्वाचिन्तैवाग्निहोत्राद्यनधिकारेऽपि विद्याधिकारसिध्यर्था । तथाहि – वस्वादीनां मध्वाद्युपासनासु कर्मकर्तृभावस्तावन्न विरुध्यते ; अहंग्रहोपासनासु स्वास्य स्वोपास्यत्वसंप्रतिपत्तेः । यद्युच्येत – तासु स्वात्मत्वेन ब्रह्मोपासनीयमिति खात्मा विशेषणं विशेष्यत्वे परं कर्मकर्तृविरोध इति । तर्ह्यपि स न प्रसज्यते । वस्वादिभोग्यरोहितादिपञ्चरूपात्मकामृतोपासनासु वस्वादीनां विशेषणत्वात् । अथापि स्यात् मध्वाद्यध्यासेनादित्याद्युपासनास्वादित्यादीनां विशेष्यत्वादस्ति तत्र कर्मकर्तृविरोध इति – तत्रापि नास्तीति ब्रूमः । तद्योऽहं सोऽसौ योऽसौ सोऽहम्’ इत्युपासनायां स्वात्मनो विशेष्यत्वस्यापि दर्शनात् । क्व तर्हि कर्मकर्तृविरोध उपास्योपासकतायाम् न क्वापि । कथं ‘स क्रतुं कुर्वीत’ इति वाक्यस्य जीवोपासनापरत्वे कर्मकर्तृविरोधः उक्तः अभ्युच्चयमात्रम् । अन्यथा तदनन्तराधिकरणेषु जीव उपास्य इति पूर्वपक्षो न क्रियेत । कृतश्च पुनः पुनस्तत्र तत्राधिकरणे तथा । तथा प्राप्तवस्वादिभावानां तत्प्रेप्साऽपि न विरुद्धा । इह जन्मनि पुत्रवतां पुनः पुत्रान्तरोत्पादनाक्षमाणां भाविजन्मन्यपि पुत्रवान् भूयासमितीच्छया तदर्थकर्मानुष्ठानदर्शनेन तद्वदिहाप्युपपत्तेः । एताभिर्वै देवा देवत्वमगच्छन् देवत्वं गच्छन्ति य एता उपयन्ति’ इति देवत्वप्राप्त्यर्थतया विहितस्य पञ्चदशरात्रस्य ‘एतद्वै देवानां सत्रं तदद्यापि देवास्सत्रमात्रमासत’ इत्यर्थवादे तस्य देवानुष्ठीयमानत्वोक्तिलिङ्गाच्च । न हि देवानां सतां देवत्वप्रापकसत्रानुष्ठानं भाविजन्मनि देवत्वप्रेप्सां विना घटते । यद्यपि देवत्व प्राप्त्यनन्तरं यागानुष्ठानवर्णनं कल्पितार्थविषयम् , तथापि तत्र स्तुत्यालम्बनभूतो वाक्यार्थो भाविजन्मनि देवत्वप्रेप्सया घटनीयत्वात् कल्पितत्वेऽपि ‘ऊरूं वा एतौ यज्ञस्य यद्वरुणप्रघासास्साकमेधाश्च’ इत्यर्थवादार्थ इव लिङ्गं भवितुमर्हत्येव । अपि च वस्वादीनां तस्मिन्नेव जन्मनि मन्वन्तरावसाने स्वाधिकारनिवृत्तिर्माभूत् मन्वन्तरान्तरेऽपि वसुपदाद्यनुवृत्तिरस्त्विति लिप्सया तदनुष्ठानं घटते । दृष्टं हि देहपोषणनयनपाटवादिमतामेव अग्रे वार्धकेन तदपचयो माभूदिति तदनुवृत्तिलिप्सया वैद्यकोक्तरसायनसेवनम् । तस्मान्मध्वादिविद्यासु भवत्येवाधिकारः , अग्निहोत्रादिषु परं न संभवति ; स्वोपासनावत्स्योद्देशेन द्रव्यत्यागस्यायोगात् । स्वात्मने सङ्कल्प्यमानस्य द्रव्यस्यस्वत्वानिवृत्तेः , त्रैवर्णिकत्वऋषिवंशत्वरहितानां तेषामाधानसाध्यस्य अग्नेरार्षेयस्य वरणस्य चाङ्गस्यासंभवाच्च । एवमग्निहोत्रादिष्वनधिकारेऽपि ब्रह्मविद्याधिकार उपपादित एव । ‘यत्तु – क्रतुहविर्भूतमधुमांसादि सदा भुञ्जानानां ब्रह्मविद्याधिगमार्थं ब्रह्मचर्यानुष्ठानं न संभवतीत्युक्तम् , तदप्ययुक्तम् । कायव्यूहवतां देवानां गुरुकुलवासादिना रूपेण ब्रह्मचर्यं , यज्ञदेशागतेन , स्वपदास्थितेन वा रूपेण हविर्भोक्तृत्वमित्यविरोधात् , ‘भुंजीत विषयान् कैश्चित्कैश्चिदुग्रं तपश्चरेत्’ इति स्मृत्या रूपान्तरेण भोगस्य रूपान्तरानुष्ठीयमानब्रह्मचर्याविरोधित्वावगमात् । एवं कर्मानधिकारप्रयुक्तो , ब्रह्मचर्यासंभवप्रयुक्तश्च ब्रह्मविद्यानधिकारः समाहितः । तत्र ब्रह्मविद्याधिकारस्य भावं भगवान् बादरायणो मन्यत इति सूत्रनिर्दिष्टे साध्ये ‘अस्तिहि’ इति हेतुः कर्माधिकारहेतुसामर्थ्याभावेऽपि अस्ति हि ब्रह्मविद्याधिकारहेतुभूतमर्थित्वसामर्थ्यादिकमिति , मधुमांसादिभोगाविरोधापादकं गुरुकुलवासि रूपान्तरमिति च योजनीयः । यत्तु देवतानां चेतनत्वविग्रहत्वाद्यभावात्तदधिकारचिन्तैव निरालंबनेति पूर्वपक्षान्तरम् , तन्निराकरणपूर्विकायामपि अधिकारव्यवस्थापनायां ‘अस्ति हि’ इत्येव हेतुः । अस्ति हि विग्रहादिमती देवतेति – तदर्थः । तत्रायमाशयः । कथं देवान्निराकुर्यात्कर्ममीमांसकस्वयम् । ज्योतिष्टोमादिभिस्स्वर्गे देवत्वजुष एव हि ॥ कर्मभिस्स्वर्गता देवास्सन्तीन्द्राद्यास्तु नेति चेत् । ननु कर्मभिरेवासन्निन्द्राद्या अपि देवताः ॥ मयिवर्चस्सामगानं त्रैलोक्यैश्वर्यकामिनः । विहितं हि ततोऽन्यत्किमिन्द्रस्येन्द्रत्वमिष्यते ॥ ब्रह्मेन्द्रयक्षराजादीनावर्तयितुमिच्छतः । सुतास इति वर्गस्य गानं विहितमीक्ष्यते ॥ विहितं ब्रह्मसालोक्यसार्ष्टिसायुज्यकामिनः । सहस्रवत्सरं सत्रं वाजपेयस्तमीप्सतः ॥ श्लोकैस्संगृहीतमर्थजातं स्पष्टीकुर्मः । किं विग्रहवंतो देवा एव नेत्युच्यते , उत विशिष्य इन्द्रादयो न संतीति । कर्ममीमांसकेन तावद्देवसामान्यं निराकर्तुं न शक्यते । यतो देवभावं प्राप्तस्यैव स्वर्गः । कथम् स्वर्गो हि नाम सङ्कल्पमात्रोपनतस्रक्चन्दनवनितादिसाधनप्रभवः साधनार्जनदुःखासंभिन्नः स्वदारनियमभ्रंशादिप्रयुक्ताग्रिमनरकदुःखग्रासरहितश्च सुखविशेषः ‘यन्न दुःखेन संभिन्नम्’ इत्यादिश्रवणात् । स चात्रत्यब्राह्मणादिशरीरावच्छिन्नस्य न संभवतीति तद्विगमनान्तरं ‘स्वर्गे लोके यजमानं हि धेहि’ ‘मां नाकस्य पृष्ठे परमे व्योमन्’ इत्यादिमन्त्रार्थवादप्रतिपन्ने लोके ‘अन्यन्नवतरं कल्याणतरं रूपं कुरुते’ इत्यादिश्रुतिप्रतिपन्नदिव्यशरीरं प्राप्तेन लब्धव्य इत्येवोपपादनीयम् । तत्प्राप्तश्च देव एव । एवञ्च देवतासामान्यनिराकरणे ज्योतिष्टोमादीनां निष्फलत्वप्रसङ्गो दोषः । ‘सन्तु नाम कर्मदेवाः , आजानदेवा इन्द्रादयो न संभवन्ति’ इति चेत् – तत्किमिन्द्रादय इन्द्रत्वादिप्रापककल्पान्तरानुष्ठितकर्मविशेषप्रभवा न भवन्ति येन तेषां निराकरणे सुकरं भवेत प्रसिद्धं हि शताश्वमेधादिप्राप्यमिन्द्रादिपदमिति । श्रूयते च छन्दोगानां सामविधिब्राह्मणे ‘मयि वर्च’ इत्येतेन कल्पेन चत्वारि वर्षाणि प्रयुञ्जानास्त्रायाणां लोकानामाधिपत्यं गच्छन्तीति । ‘मयि वर्चः मयि यशः’ इत्यस्यामृचि गीतं साम प्रागुक्तनियमसाहित्येन चत्वारि वर्षाणि जपतस्त्रैलोक्याधिपत्यं भवतीति । तद्धीन्द्रपदमेव । किञ्च तस्मिन्नेव ब्राह्मणे ‘अथ यः कामयेतावर्तयेयमित्येकरात्रं क्षीरसंयुक्तस्तिष्ठेत्सुतासो मधुमत्तमा इति वर्गः एतेषामेकमनेकं वा सर्वाणि प्रयुञ्जानः एकरात्रेण कुटुंबिनमावर्तयति द्विरात्रेण राजोपजीविनं त्रिरात्रेण राजानं चतूरात्रेण ग्रामं पञ्चरात्रेण नगरं षड्त्रेण जनपदं सप्तरात्रेण सुररक्षांसि अष्टरात्रेण पितृपिशाचान्नवरात्रेण यक्षान् दशरात्रेण गंधर्वाप्सरसोऽर्द्धमासेन वैश्रवणं मासेनेन्द्रं चतुर्भिः प्रजापतिं संवत्सरेण यत्किंञ्च जगत् सर्वं हास्य गुणीभवति’ इति ब्रह्मेन्द्रवरुणादिवशीकरणकामस्य ‘सुतासो मधुमत्तमाः’ इत्यस्यामृचि गीतानामष्टानां साम्नां मध्ये एकस्यानेकस्य सर्वेषां वा साम्नां जपश्चतुर्मासादिकालविशेषावच्छिन्नो विहितः । तथा सामगानां पञ्चविंशब्राह्मणे ‘ब्रह्मणस्सलोकतां सार्ष्टितां सायुज्यं गच्छन्ति य एतदुपयन्ति’ इति विश्वसृजामयनस्य ब्रह्मसालोक्यसार्ष्टिसायुज्यफलं चोदितम् । तत्र सालोक्यं तल्लोकावाप्तिः । ब्रह्मणो यावन्ति भोग्यानि गंधमाल्यनृत्यगीतवादित्रादीनि तावता प्राप्तिस्तत्सार्ष्टिः तैर्नृत्यगीतादिभिस्सङ्गीतशास्त्रादिकं सम्यग्जानानस्य ब्रह्मणो यावद्भागस्तावद्भोगप्राप्तिस्सायुज्यमिति भेदः। तथा तस्मिन्नेव ब्राह्मणे ‘वाजपेययाजी वा प्रजापतिमाप्नोति’ इति वाजपेयस्य ब्रह्मप्राप्तिः फलञ्चोदितम् । एवंच यदि ब्रह्मेन्द्रादयो देवास्तत्तल्लोकविशेषेषु विग्रहवन्तो दिव्यभोगयुक्ता न स्युः ; तदानीं तत्तद्दैवभावावाप्त्यभिमतवरप्रार्थनार्थतद्वशकिरणतल्लोकप्राप्तितत्सदृशभोग्यभोगावाप्तिफलार्थत्वेन विहितानां कर्मणां नैफल्यप्रसङ्गः । तस्माद्यथा स्वर्गार्थज्योतिष्टोमादिविधिनिर्वाहाय मन्त्रार्थवादादिषु स्वर्गशब्दार्थप्रतिपादनस्य च सत्यत्वं ज्योतिष्टोमादितः स्वर्गफलावश्यम्भावविरोधिनः ‘को हि तद्वेद यद्यमुष्मिन् लोकेऽस्ति वा न वा’ इति फलसन्देहप्रतिपादनस्यासत्यत्वं च स्वीकर्तव्यम् , तथा तत्तद्देवभावतद्वशीकरणतल्लोकप्राप्त्याद्यर्थकर्मविधिनिर्वाहाय ब्रह्मेन्द्रवरुणादितनुभुवनभोगादिप्रतिपादनस्य सत्यत्वं तद्विरोध्यर्थप्रतिपादनस्यासत्यत्वं च स्वीकर्तव्यम् । तथा ‘यः कामयेत् पिशाचान् गुणीभूतान् पश्येयमिति संवत्सरं चतुर्थे काले भुञ्चानः कपालेन भैक्षं चरन्प्राणशिशुरित्यन्तं सदा सहस्रकृत्वः आवर्तयन् पश्यत्ययाचितमेतेन कल्पेन द्वितीयं प्रयुञ्जानः पितॄन् पश्यति संवत्सरमित्यष्टमे काले भुञ्जानः पाणिभ्यां पात्रार्थं कुर्वाणो वृत्रस्य वा श्वसथादिषमाणा इत्येतयोः पूर्वं सदा सहस्रकृत्वः आवर्तयन् गंधर्वाप्सरसः पश्यति अयाचितमेतेन कल्पेन द्वितीयं प्रयुञ्जानो देवान्पश्यति’ इति देवादिदर्शनार्थसामजपविधिनिर्वाहाय तदीयकायव्यूहप्रतिपादनस्य सत्यत्वं तद्विरोधिनामसत्यत्वं च स्वीकर्तव्यम् । अन्यथा बहुषु युगपद्देवादिदर्शनार्थं सामजपं कुर्वत्सु तावतां तत्फलालाभप्रसङ्गात् । एवञ्चाजानदेवानां प्रसिद्धौ कर्मदेववत् । ज्योतींषि दिवि दृश्यानि यान्ति तद्देहदीप्तिताम् ॥ आमनन्ति हि ऋक्षाणि ज्योतींषि सुकृतामिति । तद्वदेवावगन्तव्यं विवस्वन्मण्डलाद्यपि ॥ रविरादित्य इत्याद्यास्वार्थाधिष्ठानभावतः । शब्दास्तत्र प्रयुज्यन्ते नेत्राद्या गोलकेष्विव ॥ देहप्रभामण्डलस्य दर्शनं देहदर्शनम् । कृत्वा सकलदृश्यत्वं मन्त्रे निगदितं रवेः ॥ यदस्य नीलग्रीवत्वाद्युक्तं मन्त्रेषु केषुचित् । तदन्तर्यामिणो रूपमभिप्रेत्यांबिकापतेः ॥ मन्त्रान्तरे यदस्यैव रूपमैन्द्रं प्रदर्शितम् । द्वादशादित्यमध्ये तदिन्द्रस्यापि क्वचित्स्थितेः ॥ आदित्यत्वं तु सर्पाणामन्यच्चैवंविधं श्रुतम् । आदित्यो यूप इत्यादिन्यायेन स्तावकं परम् ॥ एवं सिद्धे फलविधिबलाच्चेतने देववर्गे । कायव्यूहाश्रयणनिपुणे योगिवद्वश्यभूते ॥ आहूतस्य ऋतुषु युगपन्नाङ्गताऽस्त्वित्ययुक्तिः । प्रातः कर्माद्यनुमतिपरः कस्य वाहेति वादः ॥ त्यक्तस्य हविषो वृद्धिश्श्रूयते देवतेच्छया । पर्याप्ता देवतावृत्तेः प्रत्यावृत्तेश्च सा भवेत् ॥ निर्गत्वरस्य हविषस्सूक्ष्मस्यैव रसस्य वा । सुरभीकृत्य हविषो वोढाऽग्निरिति लिङ्गतः ॥ तत्र दैवततृप्त्यर्थं रसांशो वृद्धिमाप्नुवन् । तेषामास्वादने योग्यं परिणामं प्रपद्यते ॥ यथा प्रत्यावर्तमानो रसांशः प्राप्य पूषणम् । वृष्ट्योयोषधिप्रजारूपं परिणामं प्रपद्यते ॥ श्राद्धेषु दत्तस्यान्नस्य परिणामो मुनीश्वरैः । पित्रादिप्राप्तजात्यर्हः साक्षादेवं च वर्णितः॥ येष्विष्टिसोमेष्वाह्वानं करणीयं सुपर्वणाम् । आगत्य भुञ्जते तेषु वहत्यन्येषु हव्यवाद् ॥ अभून्नो दूत इत्येतदाह वोढारमाहुतेः। विप्रभोज्यं (विभज्यान्नं) च नेतव्यं पितृषु स्थावरादिषु ॥ मानुषाद्यैर्यदन्नाद्यमकस्मादिव लभ्यते । तन्मध्यपाति श्राद्धान्नं भवान्तरसृतार्पितम् ॥ अशनप्रतिषेधस्तु रोहिताद्यमृते परम् । न हि रूपं परीणामं भोजनार्हं प्रपद्यते ॥ द्रव्यत्वात्कुशकाशादि भुक्त्यनर्हमपि स्वयम् । प्रपद्यते परीणामं तदहमिति युज्यते ॥ फलप्रदातृता येषु देवानां न विरुध्यते । द्वारं तेष्वीश्वरप्रीतिः तत्प्रीतिस्सति संभवे ॥ कर्मणैव फलोत्पत्तौ प्रीतिद्वारमितीष्यते । पयसा पशुरित्यादिव्यवस्था तेन युज्यते ॥ एवं सिद्धे पञ्चके देवतायां नास्त्येवास्मिन्विग्रहादौ विरोधः । यस्मिन्कर्मण्यस्ति तत्रैव वाच्या तामुद्दिश्य त्यागमात्रात् फलाप्तिः ॥ सर्वत्रापि त्यागमात्रात्फलेऽपि प्रत्याख्यातुं विग्रहा नैव शक्याः । इंद्रश्चन्द्रस्सूर्य इत्यादिकानां भोग्यं कर्मोपासनानां फलं यैः ॥ श्लोकानामयमर्थः — एवं कर्मदेववदाजानदेवानां सिद्धौ रविमण्डलादीनि ज्योतींषि तत्तत्प्रभामण्डलानि पर्यवस्यन्ति । आमनन्ति हि ‘सुकृतां वा एतानि ज्योतींषि यन्नक्षत्राणि’ इति । तद्बलात्कानिचिन्नक्षत्राणि कर्मदेवानामिव रविचन्द्रग्रहतारकादिज्योतींष्याजानदेवानां प्रभामण्डलान्येव । भवन्ति रविरादित्यश्चन्द्र इन्द्र इत्यादिशब्दास्तु नेत्रादिशब्दा गोलकेष्विव स्वस्ववाच्याधिष्ठानेषु प्रभामण्डलेषु गौणाः । देहप्रभामण्डलदर्शनमेव देहदर्शनं कृत्वा सर्वजनदृश्यत्वमादित्यस्योक्तं ‘असौ योऽवसर्पति’ इति मन्त्रे । तस्मिन्नन्येषु च केचित् मन्त्रेष्वादित्यरूपस्य नीलग्रीवत्वाद्युक्तिः ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषः’ ‘नमो हिरण्यबाहवे हिरण्यपतयेऽम्बिकापतये उमापतये’ इत्यादिमन्त्रान्तरप्रतिपन्नमादित्यान्तर्यामिण शिवस्य रूपमभिप्रेत्य । ‘अर्यमायाति’ इति मन्त्रे त्वादित्यस्येन्द्ररूपत्वोक्तिरिन्द्रस्यापि द्वादशादित्यमध्ये क्वाचिन्निवेशात् । उक्तं हि हरिवंशे — ‘अदित्यां कश्यपाज्जाता आदित्या द्वादशैव हि । इन्द्रो विष्णुर्भगस्त्वष्टा वरुणोंऽशोऽर्यमा रविः । पूषा मित्रश्च वरदो धाता पर्जन्य एव च’ इति । विष्णुपुराणेऽपि — ‘मारीचात्काश्यपाज्जातास्तेऽदित्या दक्षकन्यया । तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि । अर्यमा चैव धाता च त्वष्टा पूषा तथैव च । विवस्वान्सविता चैव मित्रो वरुण एव च । अंशो भगश्चादितिजा आदित्या द्वादश स्मृताः’ इति । महाभारतेऽप्यादिपर्वणि — ‘धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च । भगो विवस्वान्पूषा च सविता दशमस्तथा । एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते’ इति । ‘सर्पा वा आदित्याः’ इत्युक्तिर्यूपादित्योक्तिवत्प्रशंसापरा केवलमादित्यानामेवैषां प्रकाशो भवतीति फलार्थवादार्था । एवं निरस्तनिखिलविरोधेन फलविधीनां सामर्थ्येन सिद्धे विग्रहवति देवतागणे युगपदारब्धेषु क्रतुष्वेककालमाहूतस्य युगपत्सन्निधानमपि नानुपपन्नम् ; तस्य योगिवद्भूतवशितया स्वेच्छावशाद्विषे तदपनेतृगरुडोपासनादिवत्क्रियोत्पादनसामर्थ्यवत्वेन भूतानां परस्परसंयोजनया कायव्यूहनिर्माणनिपुणत्वात् । शरीरविशेषाणां मातापितृप्रभवत्वनियमस्तु देवादिदर्शनतद्वशीकरणरूपेष्टदेवतासंप्रयोगादिफलकस्वाध्यायजपादिविधिविरोधात् अणिमाद्यष्टैश्वर्यादिफलकयोगविधिविरोधाच्च स्वर्गापवर्गार्थयज्ञादिश्रवणादिविधिविरोधात् सुखस्य दुःखसंभिन्नत्वानित्यत्वनियम इव हेयः । उदाहृतो हि प्राक् सामविधिब्राह्मणवर्णितः स्वाध्यायादिष्टदेवतासंप्रयोगः । योगाभ्यासादैश्वर्यप्राप्तिश्च श्वेताश्वतरोपनिषदादिषु वर्णिता ; पातञ्जले च शास्त्रे विभूतिपादे च प्रपञ्चिता । वदन्ति चागमिकाः पिशाचादिहिरण्यगर्भान्तानामष्टगुणषोडशगुणादिचतुष्षष्टिगुणपर्य न्तानैश्वर्यविशेषान् । एवं च यज्ञवाटेषु देवानामदृश्यत्वमप्यैश्वर्यादुपपन्नम् । ‘कस्य वाह देवा यज्ञमागच्छन्ति’ इत्याद्यर्थवादस्तु प्रातरग्निहोत्रानन्तरमेवान्वाधाय देवतापरिग्रहः कर्तव्य इति विधेस्स्तावको न विवक्षितस्वार्थः । एवं हविर्भोजनार्थमाहूतानां यज्ञदेशमागतानां देवतानां हविर्भोक्तृत्वमप्युपपद्यते । तत्र न तावत् हविरुत्क्रमणप्रत्यावृत्तिश्रुतिविरोधः ‘यद्वै देवा हविर्जुषन्ते अल्पमप्येकामाहुतिमपि तत् गिरिमात्रं वर्धयन्ते’ इति त्यक्तस्य हविषो वृद्धिश्रवणेन कश्चिदंशस्तृप्तिपर्याप्तो देवैर्भुज्यते, कश्चिदंशो वृष्टयन्नादिरूपेणावर्तत इति उभयविधश्रुतिनिर्वाहसंभवात् । न च हविर्वृद्धितदंशभोजनतदंशान्तरोत्क्रमणप्रत्यावृत्त्यभ्युपगमे प्रत्यक्षविरोधः । त्यक्ते हविषि ततो निर्गत्वरस्य तदीयसूक्ष्मरसांशस्यैव वृद्धयाद्यभ्युपगमात् ‘अवाढव्यानि सुरभीणि कृत्वा’ इति सुरभीकृतहविरवस्थाऽन्तरनयनलिंगात् । एवञ्च पर्यग्निकरणान्तोत्सृष्टपश्वादीनां सूक्ष्मांशापगमेऽपि मधुकरोपभुक्तरसांशानां पुष्पाणामिव तादवस्थ्यदर्शनमपि नानुपपन्नम् । तत्र च हविषः सूक्ष्मे रसे तत्तद्देवतातृप्तिपर्याप्तां वृद्धिमाप्नुवन् भक्ष्यांशस्तत्तदास्वादनयोग्यरूपेण सूर्यं प्राप्य प्रत्यावर्तमानस्तदितरांशो वृष्टयन्नप्रजारूपेणेव परिणमत इति कुशकाशदारुशकलादीनामनदनीयत्वदोषो न प्रसज्यते । श्राद्धेषु पित्राद्युद्देशेन दत्तस्यान्नस्य पित्रादिप्राप्तजात्युचिताहारतया परिणामः स्मृतिपुराणेषु कण्ठोक्त्या वर्णितः । तथाहि मत्स्यपुराणवचनम् – ‘देवो यदि पिता जातः शुभकर्मनियोगतः । तस्यान्नममृतं भूत्वा देवत्वेऽप्यनुगच्छति ॥ गांधर्वे भोग्यरूपेण पशुत्वे च तृणं भवेत् । श्राद्धान्नं वायुरूपेण नागत्वेऽप्युपतिष्ठति ॥ पानं भवति यक्षत्वे राक्षसत्वे तथाऽऽमिषम् । दानवत्वे तथा मांसं प्रेतत्वे रुधिरोदकम् ॥ मनुष्यत्वेऽन्नपानादि नानाभोगरसो भवेत्’ इति ॥ तथैव देवतोद्देशेन त्यक्तस्यापि हविषस्तदभिमतास्वादनीयद्रव्यतया परिणामो भविष्यति । लिङ्गञ्चत्र दृश्यते ‘एतद्वै दैव्यं मधु यद्घृतम्’ इति । उक्तं च तन्त्रवार्तिके लोकवेदाधिकरणे ‘यच्चैतद्घृतमस्माकं देवानां मध्विदं यदि । रसवीर्यादिभिस्तत्र न शब्दार्थोऽन्यथापतेत्’ इति । येष्विष्टिसोमेषु ‘अग्निमग्र आवह’ ‘इन्द्रागच्छ’ इत्यादिमन्त्रवत्सु देवतानामाह्वानमस्ति ताएव तेष्वागत्य त्यक्तं भुञ्जते तदितरेष्वग्निना नीतं भुञ्जते’ इत्यागमनश्रुतिहविर्नयनश्रुतिरित्युभयमप्युपपद्यते । श्राद्धेषु यद्यप्यतीताः पित्रादय आगच्छन्तीति स्मर्यते, तथापि तेषामधिष्ठातार आजानपितरः सन्ति तत्पितृपितामह प्रपितामहानां वसुरुद्रादित्या वरुणप्रजापत्यग्नयो मासर्तुसंवत्सरा विष्णुब्रह्ममहेश्वराः प्रद्युम्नसङ्कर्षणवासुदेवाः स्कन्द चण्डगणेशाः । ईशसदाशिवशान्ताञ्चाधिष्ठातारः स्मृतिपुराणागमेषु दर्शिताः । अन्ये चाग्निष्वात्ता बर्हिषद आज्यपाः सुकालिन इत्याद्या आजानपितरो वर्णिताः । तेषु च केचित्तत्तदधिकारिभेदव्यवस्थया, तदव्यवस्थया च अन्ये श्राद्धीयेषु होमपिण्डभोजनेषु भोक्तारः । यथा गर्भवृयुद्धेशेन सुहृद्भिर्दत्तं दौहृदं भुक्त्वा तृप्यन्त्यो गर्भवत्यो गर्भानपि पोषयन्ति सुहृद्भ्यश्च प्रत्युपकुर्वन्ति तथा पित्रादितृप्युद्देशेन पुत्रादिभिर्दत्तमन्नं भुक्त्वा तृप्तास्तदधिष्ठात्र्यो देवताः पित्रादीनपि तर्पयन्ति पुत्रादिभ्योऽपि श्राद्धकल्पोक्तफलप्रदानेनोपकुर्वन्ति । ‘वसुरुद्रादितिसुताः पितरश्श्राद्धदेवताः । प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेषु तर्पिताः । एवमेते महात्मानश्श्राद्धे सत्कृत्य पूजिताः । सर्वान्कामान्प्रयच्छन्ति शतशोऽथ सहस्रशः’ इत्यादिवचनदर्शनात् तेषां सर्वेषामागमनं न स्मर्यते । अतीतपितॄणाञ्च स्थावरतिर्यङ्मनुष्यनारकजन्मप्राप्तानामागमनं न संभवतीति तदर्थत्वेन ‘अवाड्ढव्यानि सुरभीणि कृत्वा’ इति श्राद्धीयहविर्नयनश्रवणमपि सङ्गच्छते । मनुष्यादिभिर्विनैव स्वयत्नमाकस्मिकमिव यदाहारादिकं लभ्यते तन्मध्यपाति समर्थयितुं शक्यं भवान्तरसुतादिदत्तं श्राद्धम् ; केवलपुण्येनेव भवान्तरसुतादिकर्तृक श्राद्धसंपादनद्वारकेणापि पुण्येन तल्लाभसम्भवात् । यत्तु ‘न हवै देवा अश्नन्ति न पिबन्ति’ इति देवानामशनादिप्रतिषेधस्स प्रकृतपञ्चामृतमात्रविषयः । ‘तद्यत्प्रथमममृतं तद्वसव उपजीवन्ति’ इत्याद्युक्त्यनन्तरं रोहितरूपादिगुणात्मकान्यमृततानि कथं वस्वादीनामुपजीव्यानि स्वतोऽनदनीयत्वादद्रव्यत्वेन कुशकाशादिवददनीयपरिणामासंभवाच्चेति शंकायां दर्शनमात्रेण तेषां तृप्तिप्रदानीति परिहारार्थत्वेन तदवतारात् । यागीयेषु हविष्षु स्वतोऽनदनीयेष्वदनीयवस्तुतया परिंगतेषु च देवतानां भोक्तृत्वे नास्त्यनुपपत्तिः । हविषा तेषां तृप्तिस्तु हविर्वध्येति प्रागेव दर्शितम् । यद्यप्यैन्द्रमारुतेष्ट्यादिष्वाहूतप्रत्याख्यातानां देवतानां पुनस्तदुद्देशेन त्यक्तैरपि हविर्भिः प्रीतिलोकदृष्टिविरुद्धा , यद्यपि च प्रीतिमतीनामपि देवतानां कल्पान्तरभाविफलप्रदातृत्वं न संभवति, तथापि यत्र प्रीतिः संभवति तत्र फलप्रदायामीश्वरप्रीतौ सा द्वारमिति कल्पनायां न काचिदनुपपत्तिः । ईश्वरस्यापि प्रीतिः कर्मणा , तदाश्रितकारकेण वा फलोत्पत्तौ द्वारमात्रं न तु तयोरीश्वरप्रीतावुपक्षय इति कर्मतत्कारकवैचित्र्यात्फलवैचित्र्यमप्युपपद्यते । एवं फलविधिसामर्थ्याद्देवानां विग्रहस्य तदनुबन्धितया हविर्भोक्तृत्वादेश्च सिद्धौ न कश्चिद्विरोध इति स्वीकर्तव्यमेव तेषां विग्रहादिपञ्चकम् । यत्र तु गुणक्रियावयवादिदेवत्ये कर्मणि तदभ्युपगमे विरोधोऽस्ति, तत्र देवतामुद्दिश्य द्रव्यत्यागमात्रादीश्वरप्रीतिद्वारा कर्मफलमिति कल्प्यते । सर्वत्रापि तथाऽस्त्विति चेदस्तु नाम । न यस्मिन्नधिकरणे देवतानां यज्ञदेशाभिगमनं हविर्भोक्तृत्वमित्यादिकमपि साधनीयम् । विद्याधिकारसमर्थनाय तेषां विग्रहमात्रं साधनीयम् । विग्रहाश्च प्रागुदाहृतफलविधिजातसामर्थ्यात्तत्तद्देवपदप्रापककर्मोपासनाफलभोगोपयोगितया सिद्ध्यन्तो न प्रत्याख्यातुं शक्याः । अन्यत्सिद्ध्यतु मा वा, न नः किश्चिदिह तेन प्रयोजनम् । अत एव भाष्ये कर्मविरोधसमाधानसूत्रांशस्य तथैव द्वितीययोजना दर्शिता । वस्तुविचारणायां तु विग्रहादिपञ्चकमपि स्वीकर्तव्यम् । असति विरोधे मन्त्रार्थवादेतिहासपुराणप्रतीतार्थपरित्यागायोगात् , मानान्तरप्राप्तेरप्यप्रामाण्यहेतोरभावात् । अनुमितेस्तु पर्वतांशे प्रत्यक्षज्ञानतः प्राप्तिरस्तीति न तत्र प्रामाण्यम् । ‘श्वेतो धावति’ इति वाक्याद्वक्तृविवक्षानास्पदस्यार्थस्य प्रतीतिरेव नास्ति । अर्थवादेभ्यः स्तुतिद्वारभूतार्थस्य प्रतीतिरनुभवसिद्धा स्तुत्यर्थमपेक्षिता च । ‘श्वेतो धावति’ इति वाक्याद्वक्तुरविवक्षितेऽर्थे यदि कस्यचित्प्रतीतिस्स्यात् , प्राप्तिविरोधौ च न स्याताम् , तदा तस्य तत्र प्रामाण्यमिष्टमेव । अन्यथा ‘अनधिगतार्थबोधकः प्रमाणम्’ इति लक्षणस्य तत्रातिव्याप्तिप्रसङ्गात् । ‘एतस्यैव रेवतीषु वारवन्तीयम्’ इत्यत्रापि अस्ति रेवत्याधारवारवन्तीयरूपविशेषणप्रतीतिस्तद्घटितवाक्यार्थप्रतीत्यपेक्षिता । नास्ति च प्राप्तिरूपमप्रामाण्यकारणमिति तात्पर्याविषयेऽपि तत्र तस्य प्रामाण्यमनिवार्यम् । तत्कर्तव्यतामात्रस्य विशिष्टविध्याक्षिप्तविशेषणविधितो लाभः । संप्रतिपन्नं च स्वर्गार्थवादस्य तात्पर्याविषयेऽपि स्तुतिद्वारार्थे प्रामाण्यम् । तस्य तत्रावान्तरतात्पर्यमस्तीति चेत् , तद्वदेवार्थवादान्तरस्यापि तत्स्यात् । तदर्थस्यापि स्तुतिद्वारत्वाविशेषात् । स्वर्गार्थवादः फलविध्यपेक्षित इति स्वार्थे तस्यावान्तरतात्पर्यं, नान्यस्येति चेत् ; न । एकवाक्यतायामपि स्तुतिद्वारभूतेऽर्थे क्वचिदवान्तरतात्पर्याभ्युपगमे तद्वदन्यत्रापि प्राप्तिविरोधयोरसतोस्तस्यानिवार्यत्वात् । तथा इहापि देवताह्वानविधिदृष्टार्थत्वाय देवतागमनमपेक्षते । तद्धविषां स्वीकरणं तद्भोजनं तत्तृप्तिं फलकामेन क्रियमाणं देवतानां तृप्तिजननं देवतायाः फलदातृत्वसिद्धय इति तदपेक्षते । फलदातृत्वं फलैश्वर्यं विनाऽनुपपन्नं फलैश्वर्यमपेक्षत इति देवतागमनादीनामपि साक्षात्परंपरया चाह्वानविध्यपेक्षितत्वाच्चेत्यलं प्रसक्तानुप्रसक्त्या । तस्मादुपपन्नो देवतानामर्थित्वसामर्थ्यादिमत्त्वाद्ब्रह्मविद्यार्थश्श्रवणाद्यधिकारः। नन्वियं चिन्ता नास्मदादीनां प्रवृत्तावुपयुक्ता । नापि देवतानाम् ; तेषां स्वकीयविग्रहसत्त्वे तत्प्रयुक्तसामर्थ्यादिमत्त्वे च सिद्धान्तन्यायनिरपेक्षमेवावगतिसद्भावात् । न च देवाः स्वपदनित्यत्वशङ्कया तत्र न प्रवर्तेरन्निति तत्प्रवृत्तावुपयुक्ता ; तेषां जातिस्मरत्वेन प्राचीनब्राह्मणजन्माद्यनुष्ठितसत्कर्मायत्तं स्वपदं न नित्यमिति स्वत एवावगतिसत्त्वात् । न चास्मदादीनामेव देवोपास्यत्वेन ब्रह्मोपासनसिद्धावुपयुक्ता । उपासनाप्रकरणेषु देवोपास्यत्वविशेषणसत्त्वे द्युमूर्द्धत्वादिवदारोपितेनापि तेन रूपेणोपासनोपपत्तेरिति चेत् । उच्यते – देवतानामसिद्धौ मधुविद्यादीनां तत्तद्देवतापदप्राप्तिः फलं न भवेत् , वरुणग्रहनिर्मोकादिवद्बाधितस्य श्रुतत्वेऽपि विधेयक्रियाफलत्वायोगात् । किंत्वन्यदेव फलं कल्प्यं स्यात् । अन्तरादित्यविद्यास्वादित्यदेवताऽन्तर्वर्तित्वेन ब्रह्मोपासनं न सिद्ध्येत् । ज्योतिर्मण्डलाद्यन्तर्वर्तित्वेनैव तदुपासनं सिद्ध्येत् । उपकोसलविद्यायां पञ्चाग्निविद्यायां च अर्चिराद्यभिमानिदेवताविशेषा मार्गपर्वत्वेन चिन्तनीया न स्युः । अर्चिरादीन्यचेतनान्येव तथा चिन्तनीयानि स्युः । तथा ‘तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वातक्षीयस्वेतिभक्षयंत्येवमेनांस्तत्र भक्षयन्ति यथा हवै बहवः पशवो मनुष्यं भुंज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमाने अप्रियं भवति किं बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः’ इत्यादिश्रुतिषु कर्मदेवभावं प्राप्तानामप्राप्तानाञ्च मनुष्याणां यावज्जीवमाजानदेवभृत्यभावोक्त्या वैराग्यं न सिद्ध्येत् । एतादृशस्याभिमतस्य सिद्धिः प्रयोजनं देवतासद्भावप्रसाधनस्य । आदित्यचन्द्रादिपदव्युत्पत्तिग्रहादिभिर्विरोधेऽपि ज्योतिर्मण्डलाद्यतिरिक्ता देवताः सिद्ध्यन्ति ; विधिफलत्वात् , दृष्टसुखादिविरुद्धस्वभावस्वर्गसुखादिवदिति देवताप्रसाधनोपयुक्तन्यायप्रदर्शनस्य तथैव दृष्टविरोधेऽपि श्रवणादिविधिफलत्वात् ब्रह्मात्मैक्यमपि प्रसिद्ध्यतीति प्रदर्शनमपि प्रयोजनम् । मंत्रार्थवादाः प्राप्तिविरोधयोरसतोः प्रतीयमानार्थे प्रामाण्यं न जहतीति देवतातद्विग्रहादिपञ्चकप्रसाधनोपयोगिन्यायप्रतिपादनस्य ‘तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’(छा. ८. १.६) ‘जायस्व म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यते तस्माज्जुगुप्सेत’(छा. ५. १. ८) इत्यादिमन्त्रार्थवादैः श्रवणाधिकारिविशेषणविवेकवैराग्यादिकमपि सिद्ध्यतीति प्रदर्शनमपि प्रयोजनम् । तस्मात्सफलेयं चिन्ता । १. ३. ३३ इति देवताऽधिकरणम् । ८ ।
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥३४॥ 【भाष्यम्】 अत्र श्रौतलिङ्गानुगृहीतार्थित्वादिसम्भवात् देवानामिव शूद्राणामप्यधिकारोऽस्ति विद्यास्विति पूर्वपक्षः । अस्ति हि देवाधिकारे ‘तयो यो देवानां प्रत्यबुध्यत’(बृ. १. ४. १०) इत्यादिलिङ्गमिव शूद्राधिकारेऽपि लिङ्गं ‘अह हारे त्वा शूद्र तवैव सह गोभिरस्तु’(छा. ४. २. ३) इति ‘आजहारेमाश्शूद्रानेनैव मुखेन मामालापयिष्यथा’(छा. ४. २. ५) इति च विद्यार्थमुपसन्नं जानश्रुतिं प्रति ‘शूद्र’ इत्यामन्त्रणम् । न चायं शूद्रशब्दो योगेन त्रैवर्णिके वर्तनीयः ; रूढेः प्रबलत्वात् । अन्यथा ‘वर्षासु रथकारोऽग्नीनादधीत’ इत्यत्र रथकारशब्दस्यापि त्रैवर्णिके योगः कल्प्येत । न च रथकारशब्दो विधिवाक्ये श्रुतः शूद्रशब्दोऽर्थवाद इत्यतोऽस्ति कश्चिद्विशेषः ; प्रामाण्ये विद्यर्थवादयोरविशेषात् । अर्थवादस्यापि प्राप्तिविरोधयोरसतोः प्रतीयमानार्थे प्रामाण्यस्य पूर्वाधिकरणे व्यवस्थापितत्वात् तयोरसतोर्विधिवाक्यस्यापि प्रामाण्यासंभवात् । न हि ‘दध्ना जुहोति’ इति विधिवाक्यं , प्राप्तायां होमकर्तव्यतायां ‘कृष्णलं श्रपयेत्’ इति विधिवाक्यं मानान्तरविरुद्धायां विक्लृत्तिफलकक्रियाविशेषरूपश्रपिधातुमुख्यार्थकर्तव्यतायाञ्च प्रामाण्यमश्नुते । न च रथकारशब्दस्य रूढौ बाधकं नास्ति , इह तु शूद्रशब्दस्य रूढावस्ति बाधकं अध्ययनरहितस्य शूद्रस्याविद्वत्त्वमिति वाच्यम् । तस्य हितैषिवचनेन विद्यार्थगुरूपगमनापक्षितस्य विद्यानुष्ठानापेक्षितस्य च विद्वत्वस्य सम्भवात् । न चाध्ययनावाप्तवेदजन्यवेदार्थज्ञानवतैव वैदिककर्माण्यनुष्ठेयानीति नियमः । तथा नियमे मानाभावात् । रथकारस्याधाने निषादस्थपतेरिष्टौ शूद्रमात्रस्य स्ववर्णधर्म त्रैवर्णिकानामप्युपनीतानामध्ययनशौचसंध्योपासनसमिदाधानादिषु स्त्रीणामैष्टिकसौमिकादिपत्नीकर्मसु च वैदिकेष्वनुष्ठेयेषु तदभावाच्च । नन्वध्ययनविधिस्तथा नियमे मानम् । तथाहि – ‘स्वाध्यायोऽध्येतव्यः’ इत्यध्ययनविधेरश्रुतफलकस्यार्थज्ञानं फलत्वेन कल्पनीयम् ; ‘फलवद्व्यवहाराङ्गभूतार्थप्रत्ययाङ्गता । निष्फलत्वेन शब्दस्य योग्यतात्ववधार्यते ॥’ इति न्यायात् , न तु विश्वजिन्न्यायात् स्वर्गः । श्रुतपदान्वयस्वारस्यभञ्जनस्य , गुणकर्मत्वे सम्भवति अश्रुतपदान्वयलेशेनार्थकर्मत्वस्य , दृष्टफलत्वे सम्भवति अदृष्टफलकल्पनस्य चायुक्तत्वात् । स्वर्गस्य फलत्वे ’हिरण्यं धार्यम्’ इत्यत्र हिरण्यनिर्वर्त्येन धारणेनेष्टं भावयेदितिवत्स्वाध्यायनिर्वर्थ्येनाध्ययनेन स्वर्गं भावयेदिति श्रुतोऽध्ययनस्य स्वाध्यायं प्रति गुणभावो भज्यते । अर्थज्ञानफलत्वे तु श्रुतपदान्वयलभ्यस्य तव्यप्रत्ययादध्ययनसंस्कार्यतयाऽवगम्यमानं स्वाध्यायं प्रत्यध्ययने गुणभावस्य न भंगः । अध्ययनेन स्वाध्यायस्यावाप्तिरूपसंस्कारः अवाप्तेन स्वाध्यायेनार्थावबोध इति प्रणाड्या भवति ; अर्थज्ञानरूपे फले स्वाध्यायसंस्कारस्यैव सतोऽध्ययनस्य पर्यवसानात् । तथा स्वर्गफलत्वेऽध्ययनजन्यस्य तस्य स्वरूपं तत्राध्ययनजन्यत्वं च कल्पनीयमिति गौरवमापद्यते । अर्थज्ञानफलत्वे त्वध्ययनावाप्तस्वाध्यायजन्यतया दृष्टेऽर्थज्ञानेऽध्ययनजन्यत्वमात्रं कल्पनीयमिति लाघवं लभ्यते । न च दृष्टफले विधिवैयर्थ्यम् । अध्ययनेनैव स्वाध्यायमवाप्य तद्द्वाराऽर्थज्ञानं भावयेदिति नियमार्थत्वात् । एवं च वर्णविशेषादिग्रहणमंतरेणाविशेषप्रवृत्ता वैदिककर्मविधयः कर्मानुष्ठानार्थमनुष्ठेयार्थज्ञानसम्पन्नानाधिकारिणोऽपेक्षमाणाः स्वत एवाध्ययनलब्धानुष्ठेयार्थज्ञानान् द्विजातीनासाद्य निर्वृण्वन्ति । फलकामत्वाविशेषेऽपि शूद्रस्याधिकारित्वेन संग्रहार्थमनुष्ठेयार्थज्ञानं नाक्षिपन्ति । यथा क्रतुविधयो याजकानपेक्षमाणाः स्ववर्णोचितद्रव्यार्जनोपायवति याजने स्वत एव प्रवृत्तान् ब्राह्मणानासाद्य निर्वृण्वन्ति , न त्वध्ययनवत्वेऽपि क्षत्रियवैश्ययोर्याजकत्वमाक्षिपन्ति । ततश्च याजनाध्यापनप्रतिग्रहैर्ब्राह्मणो धनमार्जयेत्’ इति द्रव्यार्जनोपायनियमविधिबलत् ब्राह्मणानामेवार्त्विज्यमिति नियमवदध्ययननियमविधिबलादध्ययनलब्धानुष्ठेयार्थज्ञानवतामेव वैदिककर्मानुष्ठानमिति नियमस्य लाभात् , तथा नियमे मानाभावस्तावदसिद्धः । यत्तु रथकारादीनामाधानाद्यनुष्ठानेष्वध्ययनलब्धमनुष्ठेयार्थज्ञानं नास्तीत्युक्तं तत्सत्यमेव । तथाऽपि विशिष्य रथकारादीनामाधानादिविधिबलादाप्तवचनैरेवाधानादिकर्तव्यताज्ञानं तत्तदनुष्ठानापेक्षितमन्त्रग्रहणं च तेषामभ्युपगम्यते । अन्यथा तत्तद्विधीनामानर्थक्यप्रसङ्गात् । न चेह तत्प्रसङ्गः , अध्ययनवत्सु त्रैवर्णिकेष्वग्निहोत्रादिविधीनां विद्याविधीनाञ्च सार्थकत्वात् । तस्मात्कर्मस्विव विद्यास्वपि नाधिकार इति चेत् – उच्यते – अर्थज्ञानस्याध्ययनफलत्वे ह्येतदेवं भवेत् , न तु तत् तस्य फलम् , किन्तु स्वाध्यायावाप्तिरेव , तव्यप्रत्ययेन तस्याध्ययनप्राप्यत्वश्रवणात् । सा न पुरुषार्थ इति चेत् – किमर्थज्ञानं पुरुषार्थः पशुपुत्रादिवत् पुरुषार्थोपयोगितया गौणपुरुषार्थत्वं तु स्वाध्यायावाप्तेरपि तुल्यम् । अथार्थज्ञानमन्तरेणानुष्ठानासम् भवात् तस्यानुष्ठानोपयोगितया गौणपुरुषार्थत्वं सामर्थ्यादवगतं न स्वाध्यायावाप्तेरिति चेत् ; न । तां विना जपपारायणाद्ययोगेन तस्यापि तथात्वस्य सामर्थ्यादवगतेः । ननु ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’(छा. १.१.१०) इति श्रुत्या सामर्थ्यतः शीघ्रगामिन्या अर्थज्ञानस्य तथात्वं प्रथममवगतमिति चेत् ; न । तस्याः श्रुतेः प्रकृतोद्गीथविद्याविषयत्वस्य पुरुषार्थाधिकरणे सूत्रकृता वक्ष्यमाणत्वेनार्थज्ञानपरत्वाभावात् । ‘धन्यं यशस्यमायुध्यं पुण्यं स्वर्गापवर्गदम् । धारणं धर्मशास्त्रस्य वेदानां धारणं तथा ॥’ इत्यादिस्मृत्या स्वाध्यायावाप्तेरपि तथात्वस्य शीघ्रमेवावगतेश्च । तत्र धारणस्य फलार्थत्वमुक्तम् , न त्ववाप्तेरिति चेत् ; न । स्वाध्यायस्य धारणमवाप्तिरित्यभेदात् । स्वाधीनोच्चारणक्षमत्वं ह्यवाप्तिः । तच्च पुरुषस्य स्वाध्यायोच्चारणेच्छायामस्खलिततदुच्चारणोपयोगितालुमूर्धादिवर्णस्थानवशित्वसहिताविच्छिन्नस्मृतिसन्तानजनकतदन्तर्गतयावद्वर्णपदवाक्यावलीविषयसंस्कारदार्ढ्यमेव । विधिशक्तिविशेषणगुणनिकया च संपादितं स्वाध्यायस्य धारणमपि तदेव , न वस्त्रभूषणादिवत्तस्य मुख्यं धारणमस्ति । अवश्यं चार्थज्ञानं फलमभ्युपगच्छताऽपि क्वचित् क्वचिदक्षरावाप्तिरपि फलत्वेनाभ्युपगन्तव्या । न खलु हुंफडादीनां स्तोभाक्षराणामर्थोऽस्ति । न वा निषेधवाक्यानामर्थवत्त्वेऽपि तदध्ययनस्यार्थज्ञानं फलमभ्युपगन्तुं शक्यम् । तथा सति निषेधविधयोऽपि निषिद्धानुष्ठानपरिहाराय हिंसानृतपरदारगमनादिकं प्रत्यवायकरमिति ज्ञानवदधिकारिसापेक्षाः स्वतस्सिद्धतद्ज्ञानेषु त्रैवर्णिकेष्वेव पर्यवस्यन्ति , न शूद्राणां तद्ज्ञानमाक्षिपन्तीति त्वदीयकल्पनाप्रसरेण निषेधवाक्याध्ययनविधैरुक्तरूपज्ञानवतां त्रैवर्णिकानामेव निषिद्धानुष्ठानं प्रत्यवायकरमिति नियमपर्यवसायितया शूद्राणां हिंसाऽनृतादिभिः प्रत्यवायाभावप्रसङ्गात् । त्रैवर्णिकानामपि वेदाध्ययने सत्येतानि निषिद्धानि प्रत्यवायकराणीति ज्ञानावश्यम्भावेन तदनुष्ठाने प्रत्यवायो भवेदित्यनिष्ठफलत्वप्रतिसन्धानेन तत्र प्रवृत्त्यभावप्रसङ्गाच्च । अथोच्येत – निषेधवाक्येषु प्रत्यवायफलकं निषिद्धानुष्ठानं न शास्त्रार्थः , किन्तु प्रत्यवायपरिहारफलक तदननुष्ठानमिति तद्विषय एव नियमः – अध्ययनपूर्वकनिषेधवाक्यार्थज्ञानवत एव निषिद्धाननुष्ठानं प्रत्यवायपरिहाराय भवतीति । तथा च निषिद्धानुष्ठानेन प्रत्यवायजनने निषेधवाक्यार्थज्ञानं नापेक्षितमिति शूद्राणां तदनुष्ठाने प्रत्यवायाभावो न प्रसज्येत ; त्रैवर्णिकानां प्रत्यवायपरिहारोपयोगिज्ञानफलकमध्ययनं नानिष्टफलकमिति तेषामध्ययने प्रवृत्त्यभावोऽपि न प्रसज्यते – इति । एवमपि अनधीतवेदानां निषिद्धाननुष्ठानेऽपि प्रत्यवायापरिहारादवश्यंभाविप्रत्यवायस्तदनुष्ठानेनैवास्त्विति प्रतिसन्धानेन शूद्राणां निषिद्धानुष्ठानप्रसङ्गो दुर्वारः । एवं च यद्यपि ब्राह्मणानामश्वमेधादिभागार्थज्ञानं याजनाद्युपयोगि , क्षत्रियवैश्ययोर्बृहस्पतिसवादिभागार्थज्ञानं तदवगमार्थिभ्य उपदेशोपयोगि ‘आपत्कल्पो ब्राह्मणस्य अब्राह्मणाद्विद्योपयोग’ इति स्मरणात् , जैवलिकेकयाजातशत्रुप्रभृतीनां क्षत्रियाणामृषीन् प्रत्यङ्गावबद्धसगुणनिर्गुणब्रह्मविद्योपदेष्टृत्वश्रवणाच्च , सर्वेषामपि तत् मीमांसासाद्ध्यविचारोपयोगि अश्वमेधादिभागविचारस्य मीमांसाशास्त्रे कृतस्य न्यायसाम्येन ब्राह्मणाधनुष्ठेयार्थनिर्णयेष्वप्यपेक्षितत्वात् , अतस्तत्राद्ध्ययनजन्यार्थज्ञानवतैव क्रियमाणं विचारयाजनोपदेशं स्वस्य याज्योपदेश्यानाञ्च फलाय भवतीति नियमः संभवतीति ; तथाऽपि स्तोभादिष्वर्थाभावात् निषेधवाक्येषु विपरीतफलकत्वाच्च तथा कश्चिदर्थज्ञानफलकाध्ययनविधिलभ्यो नियमो वक्तुं न शक्यत इति तत्राक्षरावाप्तिरेव फलत्वेन स्वीकर्तव्या । एवञ्चेत् सर्वत्रापि सैव फलमस्तु व्यापित्वात् । ननु तथाऽप्यर्थज्ञानमपि सम्भवस्थलेषु फलत्वेन स्वीकर्तव्यम् , अन्यथा वेदवाक्यानां तत्र तत्रार्थे तात्पर्यासिद्ध्या तन्निर्वाहार्थलक्षणादिकल्पनोच्छेदप्रसङ्गात् ; अर्थावबोधमुद्दिश्य शब्दोच्चारणेन हि लोकवाक्यानां तात्पर्यमवगम्य तन्निर्वाहार्थं मुख्यार्थासम्भवे लक्षणादिकं कल्प्यते , न तूच्चारणमात्रेण । अत एव ‘गौरश्वः पुरुषो हस्ती’ इति पदानामुच्चारणमात्रेण लक्षणा न कल्प्यते । यदा विशिष्टार्थबोधमुद्दिश्य तेषामुच्चारणमिति तात्पर्यमवगम्यते , तदैव तन्निर्वाहार्थं अयङ्गौः बलीवर्दः , अश्वो वेगवान् , पुरुषो नियतचेष्टः , हस्ती महाबलः , इत्यश्वादिपदानां लक्षणा कल्प्यते । एवञ्च वेदवाक्यानामर्थावबोधमुद्दिश्य उच्चारणाभावे तात्पर्यासिद्ध्या तन्निर्वाहार्थलक्षणागौणवृत्त्यनुषङ्गाध्याहारव्यवहारकल्पनोच्छेदप्रसङ्गादवश्यं वेदेऽप्यर्थावबोधमुद्दिश्य उच्चारणस्य वक्तव्यत्वाद्वेदे च लोक इव तमुद्दिश्य रागप्रयुक्तोच्चारणाभावाविधिप्रयुक्तमेव तदाश्रयणीयम् । विधिश्चाध्ययनाविधेरन्यो न दृश्यत इति तेनैवार्थावबोधमुद्दिश्य गुरुमुखोच्चारणानूच्चारणरूपमध्ययनं विधीयत इति अकामेनापि स्वीकर्तव्यम् । एवं च दृष्टफलेऽप्यर्थावबोधे विधिरन्यतोऽसिद्ध्यतस्तात्पर्यस्य सिद्ध्यर्थः , न तु स्वाध्यायाध्ययनजन्यार्थज्ञानवत एव तदर्थकर्मानुष्ठानेन तत्तद्वाक्योक्तं फलं भवतीति नियमार्य इति निषेधयाक्येष्वप्यर्थज्ञानकामाधिकारे न कश्चिद्दोषः । अत एवाध्ययनविधावपि न दोषः । तदध्ययनजन्यार्थज्ञानवतैव तद्विधेयमध्ययनमनुष्ठेयमिति नियमपर्यवसायी स विधिरित्यङ्गीकारे ह्यात्माश्रयदोषः स्यात् । स्तोभाक्षरेषु परं विशिष्टार्थपराणामृचां तदन्तर्गतपदानां तदन्तर्गतवर्णानाञ्च मध्ये प्रविष्टत्वात्कथमप्यर्थपरतया वर्णयितुमशक्येषु स न सम्भवतीति तेषु जपपारायणस्तोत्रशास्त्राद्यर्थगीतिविरामोपयोगिन्यक्षरावाप्तिरेव फलम् । न चैवं विधिवैरूप्यदोषप्रसङ्गः , यदेव किञ्चन विध्यन्तरोपयोगि स्वाध्यायसंस्काररूपेणाध्ययनेन शक्यं भावयितुं तत्सर्वमनेन भावयेदित्येकधैव वचनभंग्योभयार्थत्वलाभात् । एवञ्च क्रमफलमपि संगृहीतं भवति । क्रमविशेषविशिष्टवर्णपदवाक्यसङ्घातो हि स्वाध्यायशब्दार्थः । अतोऽध्ययनविधिः क्रमविशिष्टतयैव स्वाध्यायस्याध्ययनं विधत्ते । क्रमविशेषस्य चैतत्प्रयोजनं यत्समिदादिविधिवाक्यपाठक्रमेण प्रयाजाद्यनुष्ठानोपयोगी आग्नेयाग्नीषोमीयादिमंत्रपाठक्रमेण तदनुष्ठानोपयोगी च स्मृतिक्रमः काम्येष्टिकांडसमाम्नातानामैन्द्राग्नादीनां याज्यानुवाक्याकाण्डसमाम्नातानां ‘उभावामिद्राग्नी आहुवध्यै’ इत्यादिमंत्राणां च यथासंख्यापाठक्रमेणाङ्गाङ्गिभावः उच्चैस्त्वादिस्वरविधिषु वेदोपक्रमेण ऋगादिपदानामृग्वेदादिषु लक्षणा , बार्हस्पत्ये सप्तदशशरावे चरावातिदेशिकचतुर्मुष्टिनिर्वापासंभवादवश्यंभाविनि संख्यामुष्ट्यन्यतरबाधे च चरमश्रुतमुष्टिबाध इत्यादि । यत्र तु नैतादृशं फलमस्ति , तत्रैव परं क्रमस्य जपयज्ञादिमात्रोपयोग इति । नन्वक्षरावाप्तिवदनुष्ठानकालापेक्षितश्रुतिस्मृतिक्रमोऽपि भवतु नाम फलमध्ययनविधेः , तथाऽप्यर्थज्ञानं फलं भवितुं नार्हति ; अध्ययनात्प्राक्तत्कामनाया असंभवात् । इष्टसाधनगोचरा खलु कामना इष्टसाधनतावच्छेदकप्रकारेण तद्गोचरज्ञानाद्भवति । ज्ञाने इष्टसाधनतावच्छेदकस्तत्तद्वाक्यार्थविशेष एव , न तु वाक्यार्थसामान्यं यःकश्चिदर्थोऽस्तीति । एतावता तज्जिज्ञासाऽनुदयात् । स्वाध्यायान्तर्गतानन्तवाक्यार्थगोचरज्ञानञ्च माणवकस्य स्वतो वा , हितैषिवचनाद्वा न सम्भवतीति चेत् । मैवम् । न वयं माणवकस्याध्ययनारम्भसमये तत्फलभूतार्थज्ञानविषयकामनाऽस्तीति ब्रूमः , किन्तु यथैवार्भकमातुरं भिषज्यद्भिर्हितकारिभिरौषधसेवाफलमारोग्यं जानद्भिरर्भकापेक्षितफलान्तरप्रतिपादनेन सामादिना वाऽनुष्ठाप्यमानस्य औषधसेवनस्य तदीयमेवारोग्यं फलमेवमध्ययनसाध्यं तत्तद्वाक्यार्थज्ञानं माणवकस्य श्रेयस्करमवगच्छद्भिर्हितकारिभिरनुष्ठाप्यमानस्याध्ययनस्य माणवकगतमर्थज्ञानं फलमिति ब्रूमः । अक्षरावाप्त्यादफलपक्षेऽप्येवमेवोपपादनीयम् । न ह्यष्टमे वयसि वर्तमानः सर्वोऽपि माणवकः स्वाध्यायाक्षरावाप्तिः श्रेयसी भवतीति जानानस्तत्कामनयाऽध्ययने प्रवर्तते । न वोपनयनतत्पूर्वकशौचसन्ध्यावन्दनसमिदाधानादिकर्मसु तत्तत्फलकामनया प्रवर्तते । न च तावताऽध्ययनादीनामक्षरावाप्त्यादिकं फलमपि हीयते । बाल्य एव केचन मेधाविनोऽक्षरावाप्त्यादिकामाः संभवन्ति अर्थज्ञानकामस्तु कोऽपि न सम्भवति इति चेत् । न । अर्थज्ञानकर्मानुष्ठानप्रणाडिकया स्वर्गादिफलपर्यवसायिनीमक्षरावाप्तिं कामयमानानभ्युपगच्छतां तेषामेवार्थज्ञानकामनाया अप्युपपादनीयत्वात् । अन्यथा सतोऽपुरुषार्थरूपायां तस्यां कामनोदयासंभवात् । कथं च स्वयंविविधविचित्रार्थप्रतिपादकान्प्रबन्धान्निर्माय तेषामध्येतृषु प्रचयगमनमिच्छन्नर्थज्ञानकामनां निराकुर्यात् । न हि वेदानामिव तेषामध्ययनेष्वक्षरावाप्तिकामाः प्रवर्तेरन् । न वा तदर्थज्ञानकामनायामेवमसम्भवशङ्का निवर्तेरन् । तस्मादिहैवमादयोऽर्थाः प्रतिपाद्याः तेषामवगमस्तस्मै फलाय भवतीति हितैषिवचनात्सामान्यतस्तदर्थान्विशिष्य तेषामवगमस्येष्टोपायताञ्चावगम्य हितैषिवचनविश्वासादेव विशिष्य तदर्थज्ञानं कामयन्त इत्युपपादनीयम् । तदुपपादनं प्रकृतेऽपि न दंडवारितम् । तस्माद्युक्तमध्ययनविधेरर्थज्ञानं फलमिति । उच्यते – तव्यप्रत्ययेन स्वाध्याये भाव्यतया बोध्यमाने तदवाप्तिमतिलंध्यार्थज्ञानस्याप्यध्ययनविधिफलत्वकल्पनं तावत्तात्पर्यसिद्ध्यर्थं न स्वाभिमतप्रयोजनसिद्ध्यर्थम् ; श्रुतफलसाध्यस्यापि वैधफलत्वकल्पनायोगात् । अन्यथा चित्रापुत्रेष्ट्यादिवाक्यश्रुतेषु पशुपुत्रादिफलेषु प्राप्तेष्वपि तैस्संपादनीयस्य स्वभोगस्य कदाचिदप्राप्तिस्स्यादिति तत्प्राप्तिनैयत्यसिद्धये पशुपुत्रादिप्रयुक्तस्य भोगस्यापि चित्रापुत्रेष्ट्यादिविधिफलत्वकल्पनाप्रसङ्गात् , लोकव्युत्पत्तिसिद्धस्य शब्दानामर्थपरत्वस्यौत्सर्गिकस्य क्वचित्क्वचिल्लौकिकवाक्ये वक्तृदोषादपवादेऽप्यपौरुषेये वेदे तदभावान्निरपवादस्य स्वत एव सतस्तस्यार्थज्ञानोद्देश्यकशब्दोच्चारणविधिनिरपेक्षत्वाच्च । शब्दानामर्थपरत्वमात्रं व्युत्पत्तिसिद्धं न त्वग्निहोत्रादिवाक्यं तत्तदर्थविशेषपरमित्यपि । तत्तु तत्तदर्थविशेषमुद्दिश्योच्चारणमपेक्षत इति तदर्थोऽध्ययनविधिस्स्यादिति चेत् , न । अध्ययनविधिनाऽपि तदलाभात् । न ह्यध्ययनविधिः प्रतिवाक्यं तत्तदर्थविशेषज्ञानमुद्दिश्य तत्तद्वाक्योच्चारणविधाने व्याप्रियते । स्वाध्यायाध्ययनेन यद्भावयितुं शक्यं तदनेन भावयेदिति विधाने सत्यग्निहोत्रादिवाक्याध्ययनेन न्यायलभ्यतत्तदर्थविशेषज्ञानमेव भावयितुं शक्यमिति तत्र तत्रार्थविशेषतात्पर्यमर्थतस्सिद्ध्येदिति चेत् , तर्ह्यग्निहोत्रादिवाक्यानामौत्सर्गिकमर्थपरत्वमेव न्यायपर्यालोचनेन तत्तदर्थविशेषतात्पर्यरूपतया पर्यवस्यतीत्येवास्तु , किमुच्चारणविधिना यदि च लोके दृष्टमित्येतावता वेदेऽप्यर्थावबोधमुद्दिश्य उच्चारणमाद्रियेत , तदा स्वतन्त्रवक्तृविवक्षितेतरार्थावबोधमुद्दिश्य श्रोतृभिरुच्चारणे कृतेऽपि तस्य वाक्यस्य तत्र तात्पर्यं न दृष्टं किन्तु स्वतन्त्रवक्तुर्यदर्थावबोधमुद्दिश्योच्चारणं तत्रैव तात्पर्यं दृष्टमिति वेदस्य तात्पर्यसिद्ध्यर्थं पौरुषेयत्वमपि कल्प्येत । वस्तुतस्तु लोकेऽपि नोच्चारणाधीनं तात्पर्यम् ; मौनिना लिखित्वा दत्ते परेणापि लिखितं दृष्ट्वा मनसाऽनुसंहिते श्लोकादावुच्चारणाभावात् । किन्त्वस्माद्वाक्यादेतदर्थप्रतीतिर्भवत्विति वक्तृविवक्षाऽधीनं तदिति तात्पर्यसिद्ध्यर्थमध्ययनविधेरर्थावबोधफलकत्वकल्पनायाः कथंचिदपि नावकाशः । वक्तृविवक्षा त्वपौरुषेये वेदे न संभवतीति लोकव्युत्पत्तिसिद्धमर्थपरत्वं वक्तृविवक्षिते विशेषे पर्यवस्यति , वेदे तु न्यायलभ्ये विशेषे । तदनुसारेण च लक्षणादिकल्पनमित्येवाभ्युपगन्तुं युक्तम् । अत एव वेदस्य तात्पर्यवत्त्वरूपस्वाभिमतप्रयोजनसिद्धिमेव न्याय्यं मत्वा अनेनापि न्यायतोऽध्ययनविधिरर्थावबोधमपि फलत्वेन गृह्णातीति तत्तात्पर्यं निश्चित्य तद्बलेन स्वाध्यायावाप्तेरेव फलताप्रत्यायकस्य तव्यप्रत्ययस्य स्वारस्यमुल्लङ्गितम् । न ह्यध्ययनविधेरुक्तार्थतात्पर्यनिश्चयोऽयमर्थावबोधमुद्दिश्योच्चारणविध्यधीनः ; तथाभूतविध्यन्तराभावात् अस्यैव विधेरपेक्षायामात्माश्रयापत्तेः , किंतु केवलन्यायाधीन एव वक्तव्यः । तस्मात्तात्पर्यसिद्ध्यर्थमध्ययनविधेरर्थावबोधफलकत्वकल्पनमित्येतत् तावदयुक्तम् । क्रमफलसङ्ग्रहार्थं यदनेन शक्यं भावयितुं तद्भावयेदित्यध्ययनविध्यर्थपर्यवसानादध्ययनेन भावयितुं शक्यमर्थज्ञानमपि तद्भाव्यकोटावनुप्रविशेदित्यप्ययुक्तम् ; अनुष्ठानकालापेक्षितस्य समिद्यागादिस्मृतिक्रमस्याध्ययनगृहीतस्वाध्यायपाठक्रमेणाध्ययनविधिफलाक्षरावाप्त्यनुनिष्पादितया स्वत एव संभवतोऽध्ययनविधिफलत्वेन सङ्ग्राह्यत्वाभावात् । तत्संग्रहार्थं मीमांसाशास्त्रपाठकालापेक्षितक्रमफलस्यापि तथैव विधिफलत्वेन संग्राह्यत्वाभावात् , तत्संग्रहार्थं यदनेन भावयितुं शक्यं तत्सर्वमनेन भावयेदित्यध्ययनविध्यर्थाङ्गीकारे अर्थज्ञानवत्ख्यातिलाभादीनां चार्वाकापादितफलादीनामपि तद्भाव्यकोट्यनुप्रवेशप्रसङ्गाच्च । तेषामपि लोकतः , ‘शोभते ह्यस्य मुखं य एवं वेद’ ‘आस्य प्रजायां वाजी जायते’ इत्यादिश्रौतलिङ्गतश्चाध्ययनेन भावयितुं शक्यत्वावगमात् । ‘शोभतेऽस्य मुखं य एवं वेद’ इति हि गर्गत्रिरात्रब्राह्मणज्ञस्य तद्ज्ञानफलानुवादः शिष्यैरुद्वीक्ष्यमाणत्वात्तद्ज्ञस्य मुखं शोभते इति तदुपपादनं कृतमर्थवादाधिकरणे । अनेन ख्यातेरध्ययनावाप्यत्वं लब्धम् । ‘आस्य प्रजायां वाजी जायते’ इति वेदानुमन्त्रणमन्त्रज्ञस्य तद्ज्ञानफलानुवादः कुले सन्तताध्ययनश्रवणात् तद्ज्ञस्य प्रजासु मेधावी वेदविज्जायते स प्रतिग्रहादन्नमाप्नोतीति तदुपपादनं कृतम् । अनेन कैमुतिकन्यायेन साक्षादध्येतुर्धनलाभस्य तदध्ययनावाप्यत्वं लब्धम् । विध्यन्तरापेक्षितं यद्भावयितुं शक्यमिति विशेषितमिति चेत् , धनलाभोऽपि नन्वर्थज्ञानक्रतुविधिभिरपेक्षित एव । ख्यातिरपि धनलंभनद्वारा क्रतुषूपयुज्यते । तस्मादध्ययनविधेस्तव्यप्रत्ययोपात्ताक्षरावाप्तिफलकत्वेनार्थज्ञानपर्यन्तत्वाभावादन्यतो लब्धज्ञानानपश्यन्तः क्रतुविधयो विद्याविधयश्चानुष्ठानापेक्षितं ज्ञानं स्वयमेवाक्षिपन्ति । एवञ्च यद्यपि क्रतुविधयः शूद्रस्य स्वानुष्ठानोपयुक्तं ज्ञानं नाक्षिपन्ति ; ‘तस्माच्छूद्रो यज्ञेऽनवक्लृप्तः’ इति तस्य क्रतुप्रतिषेधात् , तथापि विद्याविधयस्तस्य स्वोपयुक्तं ज्ञानं किमिति नाक्षिपेयुः क्रतुष्विव विद्यासु तस्य प्रतिषेधाभावात् , प्रत्युत विशिष्य तस्य क्रतुप्रतिषेधेन विद्याऽनुमत्यवसायात् । यदि ह्यध्ययनविधिरर्थज्ञानभाव्यकः स्यात्तदाऽध्ययनविधिलब्धज्ञानान्द्विजातीनासाद्य निर्वृताः क्रतुविद्याविधयः शूद्रस्य स्वानुष्ठानोपयोगि ज्ञानं नाक्षिपन्तीति न्यायमूलं यज्ञानवक्लृप्तिवचनं विद्याऽनवक्लृप्तेरप्युपलक्षणं स्यात् । न त्वयमर्थज्ञानभाव्य इत्युक्तम् । अस्तु वाऽयमर्थज्ञानभाव्यः, तथापि शूद्रस्यानिवार्यो विद्याधिकारः ; क्रतुविद्याविधिभिस्त्रैवर्णिकानां स्वशाखेतरशाखाविहिताङ्गगुणोपसंहाराय तत्तच्छाखाऽध्यायिभ्यस्तत्तदङ्गगुणज्ञानस्येव शूद्रस्यापि विद्याविधिभिस्तत्तद्ज्ञानस्य आक्षेप्तुं शक्यत्वात् । अध्ययनविधिना ह्येकस्या एव शाखाया अध्ययनं विधीयते ; प्रतिव्यक्ति घटत्वस्येव प्रतिशाखं स्वाध्यायत्वस्याध्ययनेन परिसमाप्तत्वात् । अध्ययनविधेरर्थज्ञानफलकत्वपक्षे स्वाध्यायाध्ययनेनार्थज्ञानं भावयेदिति स्वाध्यायस्योपादेयकोटिप्रवेशादधीतेन स्वाध्यायेनार्थज्ञानं भावयेदिति तस्य साक्षात् , उपादेयत्वाद्वा तत्संख्याया विवक्षितत्वात् । स्वाध्यायस्योपादेयत्वेऽपि तस्यार्थसिद्धमध्ययनसंस्कार्यत्वमप्यस्तीति तव्यप्रत्ययेन ‘चरुमुपदधाति’ इत्यत्र द्वितीयया चरोरुपधानसंस्कार्यत्वस्येव तस्यानुवादात् । अग्निप्रकरणाम्नातेन ‘चरुमुपदधाति’ इति विधिना चरूपधाने स्थण्डिलाङ्गतया विनियुज्यमाने तस्य साक्षात्स्थलनिर्वर्तकत्वायोगादुपहितेन चरुणा तन्निर्वृत्तिदर्शनाच्चोपधानस्य स्थलाङ्गत्वं चरुसंस्कारद्वारकमित्यर्थसिद्धमेव यथा चरोरुपधानसंस्कार्यत्वं द्वितीययाऽनूद्यते , एवमिहाप्यध्ययनस्य तत्समाप्त्यनन्तरारम्भणीयमीमांसापरिचयोत्तरकालभाविन्यर्थज्ञाने साक्षात्कारणत्वायोगादध्ययनगृहीतस्वाध्यायेन कालान्तरे स्मृतिसमारूढेन द्वारेणार्थज्ञानदर्शनाच्चार्थसिद्धं स्वाध्यायस्याध्ययनसंस्कार्यत्वं तव्यप्रत्ययेनानूद्यत इति उपपत्तेः । संस्कारकर्माध्ययनं स्वाध्यायावाप्तिफलकमिति पक्षे स्वाध्यायस्याध्ययनसंस्कार्यत्वेनोपादेयत्वेऽपि स्वशब्देनात्मीयवाचिना पितृपितामहादिपरम्परागताया एव शाखाया अध्यायशब्दोक्ताया अध्ययनविधानात् सर्वशाखानामध्येतुमशक्यतया सङ्कोचापेक्षासत्त्वेनोद्देश्यस्यापि स्वीयत्वविशेषणसहिष्णुत्वात् । एवञ्च खीयेतरशाखाविहितमङ्गगुणजातं विनैव तदध्ययनं तदध्येतृभ्यो गृहीत्वाऽनुष्ठीयत इति त्रैवर्णिकेषु दृष्टत्वात् शूद्रं प्रति सर्वासामपि शखानां स्वीयेतरत्वात् तदध्ययनाभावेऽपि तदध्येतृभ्योऽधिगत्य विद्यानुष्ठाने न कश्चिद्विरोधः । ननु शूद्रस्य विद्यानुष्ठानापेक्षितं ज्ञानं कार्त्स्न्येनापेक्षणीयं त्रैवर्णिकानां स्वशाखेतरशाखाविहितगुणविषयस्तदेकदेश इत्याक्षेपलाघवात् विद्याविधयस्त्रैवर्णिकानेवाधिकुर्युः, न शूद्रमिति चेत् ; एवं तर्हि यस्य कर्मणो यस्यां शाखायां भूयसामङ्गानां विधानं ‘भूयस्त्वेनोभयश्रुति’(जै. सू. ३. ३. १०) इति न्यायेन प्रधानस्यापि विधानं शाखान्तरे तु किञ्चिदङ्गविधानं तत्र कर्मणि तच्छाखाध्यायिनामेवाधिकारः स्यात् ज्ञानाक्षेपलाघवान्न तु शाखान्तराध्यायिनाम् । यस्य कर्मणस्तदङ्गस्य वा कस्यचिद्यस्यां शाखायां विधानं नास्ति किन्तु शाखान्तर एव साङ्गस्य तस्य विधानं तत्र कर्मणि तच्छाखाध्यायिनामधिकारो न स्यात् । शूद्रवत्तेषां तदनुष्ठानोपयोगिज्ञानस्य कार्त्स्न्येनापेक्षणीयत्वात् । सम्भवन्ति हि गुणफलविधिरूपाणि क्षुद्रकर्माणि शाखाविशेषेषु सर्वथैवानिरूपितानि । तस्मात्त्रैवर्णिकानामपि ज्ञानाक्षेपस्य संप्रतिपन्नत्वात् तद्वत् शूद्रस्यापि विद्यानुष्ठानोपयोगिज्ञानाक्षेपसम्भवात् वेदविद्भ्यो विज्ञाय विद्यानुष्ठानमुपपद्यते । अन्यथाऽध्ययनाभावेन शूद्रस्य विद्याप्रत्याख्याने मैत्रेयीप्रभृतीनां स्त्रीणां ब्रह्मविद्याऽवाप्तौ का गतिः न हि अत्रत्यस्य शूद्रशब्दस्य क्षत्रिय इव मैत्रैय्यादिशब्दानां पुरुषेषु वृत्तिस्सिद्धान्तिनाऽपि कल्पयितुं शक्यते ; ‘अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः मैत्रेयी च कात्यायनी च’(बृ. ४. ५. १) इत्यादिवाक्यान्तरविरोधात् । ननु तथाऽपि निर्गुणविद्योदयार्थं शूद्रस्य वेदान्तग्रहण नोपपद्यते ‘अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः’ इति शूद्रस्य वेदश्रवणादिप्रतिषेधादिति चेत् , न । कूपखननप्रयुक्तं पङ्किलदेहत्वं तल्लब्धजलेनेव वेदार्थविचारप्रयुक्तं वेदश्रवणोदाहरणधारणकृतदुरितं तल्लब्धब्रह्मज्ञानेनापनेष्यत इति धिया तस्य वेदान्तश्रवणेऽपि प्रवृत्युपपत्तेः । ननु शूद्रस्य सगुणविद्यानुष्ठानार्थं वेदान्तार्थविचारार्थं चोपदेष्टा न लभ्यते ‘न शूद्राय मतिं दद्यात्’ इति प्रतिषेधादिति चेत् , न । सगुणविद्यानुष्ठानेन निर्गुणब्रह्मज्ञानेन वा तदुपदेष्टृत्वप्रयुक्तं दुरितमपनेष्यामीति मन्यमानस्य परमकारुणिकस्य सम्भवात् ; स्नेहार्थलोभाधुपाधिनाऽतिक्रान्तनिषेधस्य वोपदेष्टत्वसम्भवात् । अन्यथा सोमविक्रय्यलाभेन त्रैवर्णिकानां यज्ञानुष्ठानस्यापि लोपप्रसङ्गात् । तस्मादस्ति शूद्रस्य सगुणविद्याऽनुष्ठाने निर्गुणविद्यार्थश्रवणमनननिदिध्यासनानुष्ठाने चाधिकार इति । एवं प्राप्ते पूर्वपक्षे – सिद्धान्तमाह – ‘शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि’ । यदुक्तम् – देवानामिव शूद्राणामपि विद्याधिकारे वैदिक लिङ्गमस्तीति, तत्र तावदिदमुच्यते । न जानश्रुतौ शूद्रशब्दो रूढ्यर्थविवक्षया प्रयुक्तः, किन्तु योगार्थविवक्षया प्रयुक्तः । अस्य हि जानश्रुतेः शुगुत्पन्ना । कुतः कारणात् तदनादरश्रवणात् तस्माद्धंसवाक्यादात्मनोऽनादरश्रवणात् । सा रैक्वेण महर्षिणा शूद्रशब्देन सूच्यते । आत्मनः परोक्षज्ञानवत्त्वज्ञापनाय । कथं सा शूद्रशब्देन सूच्यते तदाद्रवणात् तया शुचा हेतुना रैक्वस्यादवणात् – विद्यार्थाभिगमनात् । रैक्वस्याभिगमनं शुचेति चाख्यायिकयैव सूच्यते । एवं हि उपाख्यायते – जानश्रुतिः किल पौत्रायणः श्रद्धया बहुधनानप्रदः सर्वासु दिक्षु ग्रामनगरमार्गारण्यतीर्थादिषु पान्थानामनाथानाञ्च शीतवातवर्षातपबाधनिवारकान्नोदकशयनाच्छादनादिभोग्यजातस्य पूर्णानावसथान्मापयाञ्चक्रे । एवं कर्मपथरसिकं विद्यापथमजानानं कर्मभिः क्षीणदुरितं तं विद्यापथे प्रवर्तयितुकामाः केचन महर्षयः सारासारे विद्याकर्मणी क्षीरनीरे इव स्वयं विवेक्तुं कुशला इति व्यञ्जयितुं हंसरूपमास्थाय निशायां हर्म्ये शयानस्य तस्योपरि पङ्क्तिमाबध्याजग्मुः । तेषामग्रेसरं हंसं सम्बोध्य पृष्ठतः पतन्नेकतमो हंसः साकूतमुवाच – भोभोयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समन्दिवाज्योतिराततं तन्मा प्रसाङ्क्षीस्तत्त्वा मा प्रधाक्षीदिति । एवं भल्लाक्षेत्यनेन विपरीतलक्षणया मन्दलोचनेति सम्भ्रमेण द्विवारं सम्बोध्य जानश्रुतेरन्नदानादिप्रभावजनितं ज्योतिर्द्युलोकपर्यन्तं व्याप्तं वर्तते तत्र त्वं लग्नो माभूरिति तेन तव प्रदग्धता मा भूदित्युक्ते तमग्रगामी हंसः प्रत्युवाच ‘कम्बर एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ’(छा. ४. १. ३) इति । तदिदमग्रगामिनो हंसस्य वाक्यं अरे हंस एनं राजानं कमु कमेव केनैव माहात्म्येन युक्तं एतत्सन्तमेतादृशं सन्तं मनुष्यसामान्यदशामनतिक्रम्य वर्तमानम् , सयुग्वानमुपकरणनयनार्थेन शकटेन सहितं रैक्वमिव एवं सबहुमानमात्थेत्येतदाकर्ण्य तेन पृष्ठगामिना हंसेन कोऽसौ रैक्व इति पुनः पृष्टस्स एव प्रत्युवाच सर्वेषामपि यद्यावत् साधु कर्म तत्सर्वं फलतो रैक्वस्य धर्मेऽन्तर्भवति तथाऽन्योऽपि यः पुरुषधौरेयो रैक्वोपास्यमुपास्ते तस्यापि धर्मे तत्सर्वमन्तर्भवति तथाभूतो रैको मयोक्त इति । तदेतद्धंसवाक्यं तथाभूतस्य रैक्वस्य हि कर्मज्ञानजनितं ज्योतिरसह्यं न त्वस्य वराकस्येति स्वनिन्दागर्भमाकर्ण्य जानश्रुतिः कथमपि निशामतिवाह्य तल्पं त्यजन्नेव क्षत्तारमाहूय सचिह्नं रैक्वमुक्त्वा तदन्वेषणाय प्रेषयित्वा क्वचिद्विविक्ते देशे शकटस्याधस्तात्पामानं कण्डूयमानं रैक्वमुपलभ्य प्रत्यागते तस्मिन् स्वयं रैक्वमुपसद्य गवां षट्शतानि हारमश्वतरीयुक्तं रथञ्चोपहृत्य त्वदुपास्यां देवतामनुशाधीति रैक्वं प्रार्थयामास । रैक्वः स्वयोगमहिमविदितसकलवृत्तान्तो जानश्रुतेर्विद्याविधुरतानिमित्तानादरगर्भहंसवाक्यश्रवणजनितां शुचं तदनन्तरमेव विद्यार्थं स्वोपसर्पणञ्च विदित्वा चिरकालसेवां विना द्रव्यप्रदानेन मां तोषयितुकामस्यास्य यावच्छक्ति प्रदानं विना विद्या प्रतिष्ठिता न भवेदिति मत्वा तदनुजिघृक्षया स्वस्य परोक्षज्ञानवत्तारूपं स्वमहिमानं ‘शूद्र’ इति सम्बुध्या ख्यापयन्नाह ‘अह हारे त्वा शुद्र तवैव सह गोभिरस्तु’(छा. ४. २. ३) इति । अहेति निपातः । हारसहित इत्वा रथः गोभिःसह तवैवास्तु किमनेन अल्पधनेन मम सन्तोषः कलत्रहीनस्य मम एतद्धनरक्षणे वा शक्तिः, तव वा मत्प्रयोजनापर्यवसाय्यल्पधनदानेन ब्रह्मविद्या प्रतिष्ठिता भवेदिति भावः । पुनर्जानश्रुतौ सहस्रं गवां पूर्वानीतं हारादिकं रैक्वस्य परिणयनार्थं स्वकन्यां तत्रत्यं ग्रामञ्चोपहृत्य प्रार्थयमाने विद्याप्रदानार्थमुपहारस्य पर्याप्ततामनुजानन् पुनरपि तदेव ‘शूद्र’ इत्यामन्त्रणं पूर्वोक्तानुकरणमात्रत्वेनावर्तयन् ‘आजहारेमा:शूद्रानेनैव मुखेनालापयिष्यथाः’(छा. ४. २. ५) इति इमां दक्षिणां आजहर्थ ; अनेनैव मुखेन विद्याग्रहणोपायेन मां वाचयिष्यसीत्यर्थः । अस्यामाख्यायिकायां हंसवाक्यानादरश्रवणानन्तरमेव क्षतृप्रेषणव्यग्रत्वप्रतिपादनेन जानश्रुतेः शुगुत्पन्ना सूच्यते । अतस्तदुत्पन्नया शुचा विद्यार्थं स्वाद्रवणं रैक्वेण शूद्रेत्यामन्त्रणेन सूच्यत इति युक्तम् । योगाद्रूढेर्बलीयस्त्वेऽपि बुद्धिसन्निहितार्थविषययोगस्यातथाभूतरूढितः प्रतिपत्तिलाघवेन बलीयस्त्वात् । इह च नैरक्तप्रक्रियया ‘रुदं (जं) द्रावयति’ इत्यर्थे रुद्रशब्दवच्छुचा दुद्राव’ इत्यर्थे शूद्रशब्दस्य निष्पत्तिसंभवात् । उकारस्य दीर्घस्तु नैरुक्त इहाधिकः । केचित् ‘संहितायां यत्र दैर्घ्यं पदे यत्र न विद्यते । उक्तार्थस्य महाधिक्यं श्रुतेस्तत्र विवक्षितम् ॥’ इति वचनमुदाहरन्तः शोकाधिक्यद्योतको दीर्घ इत्याहुः । नन्वेवं सति सूत्रे सूच्यत इत्यस्याख्यायिकया ‘शुगुत्पन्ना सूच्यते’ इति एषैव योजना युक्ता । रैक्वेण ‘शूद्र’ इत्यामन्त्रणेन सा सूच्यत इति योजनान्तरं तु न युक्तम् ; यौगिकेन शूद्रशब्देन शुचः कण्ठोक्त्यैव प्रतिपादनात् । नैष दोषः । हंसवाक्यानादरश्रवणकृतया शुचा विद्यार्थं मामभ्यागतवानसीत्येतावतोऽर्थस्य रैक्वेण चिख्यापयिषितस्यैकदेशप्रतिपादनद्वारा सूचनीयत्वात् । एवञ्च यदि नैरुक्तप्रक्रियया शुचिधातोर्व्युत्पन्नोऽयं शूद्रशब्दः केवलयौगिकः, न तु ‘स्थायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपि’ इत्यादिसूत्रतो रप्रत्यये अनुवर्तमाने ‘शदेरूच’ इत्यौणादिकसूत्रेण निष्पन्नश्चतुर्थवर्णे रूढः । तदा शूद्रशब्देन शुचः कण्ठोक्त्या प्रतिपादनात्कथं तेन सूच्यत इत्युक्तमित्याशङ्कायामपि सूत्रे ‘तदाद्रवणात्’ इत्येवोत्तरम् । ल्यब्लोपे पञ्चमीयम् ; न हि शुचमेव केवलामपेक्ष्य सूच्यत इत्युक्तम् , किन्तु तदाद्रवणमपेक्ष्य, तया ‘शुगस्य तदनादरश्रवणात्’ इति सूत्रभागे प्रकृतया अनादरश्रवणजत्वविशिष्टया शुचा हेतुना यदाद्रवणं रैक्वाभ्यागमनं तदपेक्ष्य । तत्तु सूचनीयमेवेति भावः । एवं सत्याडुपसर्गोऽप्यर्थवान् भवति । शूद्रशब्दप्रविष्टावयवार्थमात्रप्रदर्शनपरत्वे ‘तद्द्वणात्’ इत्येव सूत्रं क्रियेत । केचिदुणादिसूत्रे रक्प्रकरणे ‘शदेरूच’ इति सूत्रपाठमनङ्गीकृत्य तदनंतरपठितात् ‘अमितम्योर्दीर्घश्च’ इति सूत्रादनन्तरं ‘शुचेर्दश्च इति सूत्रान्तरपाठं कल्पयन्तः तेन निष्पादितोऽयं शूद्रशब्दः केवलं शोचितृत्वार्थकः, न तुशुचाद्रवणार्थकः, औणादिकनिर्वाहे संभवति नैरुक्तनिर्वाहायोगात् । पाणिनीयनिर्वाहो मुख्यः, तत औणादिकस्ततो नरुक्तः इति हि मर्यादेति वदन्ति । एवं शुद्धेषु सूत्रकोशेष्वदृष्टं वृत्तिग्रन्थेष्वव्याख्यातं पाठान्तरं कल्पयित्वा तथाव्युत्पादने नास्माकं कश्चिद्दोषः ; ‘तदाद्रवणात्’ इति सूत्रभागस्य तद्व्याख्यानभाष्यस्य च वैदिकशूद्रपदवाच्यार्थप्रतिपादनपरत्वं विहाय केवलं तत्सूत्रार्थप्रतिपादनपरत्वकल्पनोपपत्तेः । किन्तु औणादिकप्रत्ययान्ततायां न शोचितृत्वार्थलाभेनापि जात्यर्थत्वनिराससिद्धिः । औणादिकप्रत्ययान्तानामव्युत्पन्नप्रातिपदिकत्वात् सर्वेषां नाम्नामौणादिकप्रत्ययान्तत्वेन जातिवाचिनः शूद्रशब्दस्यापि तथात्वावश्यंभावात् । अत एवाहुः शब्दविदः – ‘औणादिकप्रत्ययान्तान्यव्युत्पन्नप्रातिपदिकानि’ इति ‘अतः कृकमिकंसकुंभपात्रकुशाकर्णीष्वनव्ययस्य’(पा. सू. ८. ३. ४६) इत्येतत्सूत्रे कमिग्रहणे सत्यपि कमेरौणादिकप्रत्ययान्तस्य कंसपदस्य ग्रहणेन सर्वेषां नाम्नामौणादिकप्रत्ययैः कृदन्तानां कृत्तद्धितसूत्रतः प्रातिपदिकसंज्ञासिद्धिसंभवेऽपि अर्थवत्सूत्रप्रणयनेन च ज्ञापितमिति । यद्यपि ‘तदाद्रवणात्’ इत्यत्र तत्पदस्येव ‘तदनादरश्रवणात्’ इत्यत्र तत्पदस्य ‘अस्य’ इति पदस्य च सूत्रप्रकृतपरामर्शित्वं नास्ति, तथाऽपि ‘अह हारे त्वा शूद्र’ इति वैदिकलिङ्गमवलंब्य प्रत्यवतिष्ठमानस्य पूर्वपक्षिणः तस्यामाख्यायिकायां वर्ण्यमानो जानश्रुतिः तमुद्दिश्य हंस वाक्यञ्च बुद्धिसन्निहितमिति पूर्वपक्षिणं प्रति जानश्रुतौ शूद्रशब्दप्रयोगनिर्वाहार्थं प्रवृत्ते सूत्रे प्रयुक्तयोस्तयोर्बोध्यबुद्धिसन्निहितपरामर्शित्वमस्तीति तयोर्निर्वाहः । एवमप्रतिपन्नरूढितः प्रतिपन्नयोगस्य बलीयस्त्वात् जानश्रुतिर्न जातिशूद्र इत्युपपादितम् । १. ३. ३४ । अत्रैव हेत्वन्तरमाह –
क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥३५॥ 【भाष्यम्】 जानश्रुत्याख्यायिकासमाप्त्यनन्तरमुत्तरत्र जानश्रुतये रैक्वेण उपदिष्टायाः संवर्गविद्याया वाक्यशेषे श्रूयते ‘अथ ह शौनकञ्च कापेयमभिप्रतारिणञ्च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे’(छा., ४. ३. ५) इति । तत्राभिप्रतारी चित्ररथवंश्यः क्षत्रियश्चेति तावद्वक्तव्यं ; कापेयाख्ययाजकयोगात् । कापेययाजक यागो हि च्छन्दोगब्राह्मणे चित्ररथस्य श्रुतः । तत्र हि द्विरात्रप्रकरणे ‘एकाकिनमेवैनमन्नाद्यस्याध्यक्षं करोति’ इति फलार्थवादानन्तरं तदुपपादकमर्थवादान्तरं श्रुतं ‘एतेन वै चित्ररथं कापेया अयाजयन् तमेकाकिनमन्नाद्यस्याध्यक्षमकुर्वन् तस्मात् चैत्ररथी नामैकः क्षत्रपतिरजायत’(ताण्ड्य ब्रा. २०. १२. ५) इति । तेनाभिप्रतारिणः संज्ञाभेदात् चित्ररथत्वासिद्धावपि तद्वंश्यत्वं सिद्ध्यति ; समानान्वयानां समानान्वया याजका भवन्तीति प्रायेण दर्शनात् । चित्ररथवंश्यत्वे सति क्षत्रियत्वमप्युदाहृतच्छन्दोगब्राह्मणवचनबलादेव सिद्ध्यति । एवं चोत्तरत्र ब्राह्मणेन कापेयेन युक्तोऽभिप्रतारी क्षत्रिय इति निश्चिते तत्समभिव्याहारात् ब्राह्मणेन रैक्वेण युक्तो जानश्रुतिरपि क्षत्रियो गम्यते । किञ्च जानश्रुत्याख्यायिकायामेव तस्य क्षत्रियत्वे लिङ्गमस्ति । तत्र हि श्रूयते ‘जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस । स ह सर्वत आवसथान्मापयाञ्चके’(छा.१.१.१) इत्यादि । तत्र यद्यपि दानं शूद्रस्याप्यस्ति ‘दानञ्च दद्यात् शूद्रोऽपि पाकयज्ञैर्यजेत च’ इति स्मरणात् ; शूद्रादिभ्यः पक्वान्नदानञ्च तस्य संभवति ; तथाऽपि ‘बहुदायी’ इत्युक्तं दानपतित्वं सर्वत्रावसथान्निर्मायान्नसत्रप्रवर्तनञ्च बहुधनसाध्यं न तस्य संभवति । ‘शक्तेनापि हि शूद्रेण न कार्यो धनसञ्चयः’ इति तस्य बहुधनसंपादननिषेधात् । ‘यञ्चार्यमाश्रयेत भर्तव्यस्तेन क्षीणोऽपि तेन चोत्तरस्तदर्थोऽस्य निचयस्स्यात् , इति यं द्विजातिं शुश्रूषते तस्य कदाचित् क्षीणतायां तद्भरणं कार्यमिति तन्मात्रोपयुक्तधनसङ्ग्रहणस्यैवानुमतिदर्शनात् । तथा ‘स ह प्रातः संजिहान उवाच’(छा. ४. १. ५) इत्युक्तं क्षत्तृप्रेषणमपि न तस्य संभवति । राज्ञ एव हि क्षत्तृसम्बन्धः ‘वैश्याद्ब्राह्मणकन्यायां क्षत्ता नाम प्रजायते । जीविका वृत्तिरेतस्य राजाऽन्तःपुररक्षणम्’ इति स्मरणात् । तथा रैक्वेदं सहस्रं गवामयं निष्कोऽयमश्वतरीरथः इयं जायाऽयं ग्रामो यस्मिन्नास्से’ इत्युक्तं यत्र ग्रामे रैक्वस्तदानीं वसति तस्य ग्रामस्य तस्मै समर्पणं ‘ते हैते रैक्व पर्णा नाम महावृषेषु यत्रास्माउवास’(छा. ४. २. ४) इति वर्णितम् । महावृषाख्यदेशगतेषु येषु ग्रामेषु रैक्वेणोषितं तेषां सर्वेषामपि ग्रामाणामद्यापि रैक्वपर्णनाम्ना प्रसिद्धानां तस्मै समर्पणञ्च जनपदाधिपत्यसाध्यं शूद्रस्य न संभवति । सर्वमेतत् क्षत्रियस्यैव संभवति । तस्मादपि क्षत्रिय एवायं न शूद्र इति गम्यते । अत्रेदञ्चिन्त्यते – रूढेरस्त्यत्र योगस्य बलीयस्त्वे हि कारणम् । वर्णितं प्रतिपन्नत्वं तत्तावन्नोपपद्यते ॥ हंसवाक्यं श्रुतवतः क्षत्तृप्रेषणकर्मणा । विकारो मानसः कोऽपि गम्यते शुक्त्वसौ कुतः ॥ यथा स्वनिन्दा शोकाय तथा रैक्वप्रशंसनम् । तदुपास्योपासकान्यस्तवनञ्च भवेन्मुदे ॥ स्वस्यापि रैक्वमहिमप्राप्त्युपायप्रदर्शनात् । गुरोश्च तदुपायाप्तौ सचिह्नं तस्य सूचनात् ॥ महात्मनाञ्च शोकाय स्वनिन्दा नैव कल्पते । नतराञ्च कृता पथ्ये प्रवर्तयितुमिच्छता ॥ सर्वप्राणिरुताभिज्ञश्श्राद्धो जानश्रुतिर्यदि । तस्य हंसकृता निन्दा नैव शोकाय कल्पते ॥ स्मरन्ति हि महात्मानो मन्वाद्यास्स्मृतिकारकाः । अवमानात्तपोवृद्धिं सम्मानाच्च तपःक्षयम् ॥ यदि सा देवभाषेति हितैषी हंसरूपधृक् । ऋषिरेव समागादित्यभिज्ञो नतरां तदा ॥ न चास्य निन्दा यद्दिव्यज्योतिर्वैकल्यवर्णनम् । न ह्यसम्भावितगुणाभावोक्त्या कोऽपि निन्द्यते ॥ क्षत्रियः क्षत्रियेणासावग्रतोऽभिप्रतारिणा । समभिव्याहृतत्वादित्येतदप्यसमञ्जसम् ॥ याज्ययाजकभावोऽत्र कापेयाभिप्रतारिणोः । न श्रुतोऽभिप्रतार्येष येन चैत्ररथो भवेत् ॥ नाप्यन्यत्र श्रुतो नापि कल्प्यो न खलु विद्यते । मूलसम्बन्धनियमः कयोश्चित् क्वापि मेलने ॥ सति वा नियमे तस्मिन्याजकत्वं ततः कथं ॥ यौनमौखादिसम्बन्धानपहायान्यगामिनः । प्रसिद्ध एव सम्बन्धो यदि सङ्ग्राह्य इष्यते ॥ एकविद्यत्वमेव स्यान्नतु याजकता तदा । संवर्गविद्या वित्त्वं हि कापेयाभिप्रतारिणोः ॥ प्रसिद्धमत्रैव न तत् श्रुत्यन्तरमपेक्षते । प्रायेण चैकविद्यानां च्छान्दोग्ये मेलनं श्रुतम् ॥ प्राचीनशालशिलकप्रभृतीनां निरीक्ष्यते । अन्योन्यस्माद्विशेषाणां ग्रहणार्थतया हि तत् ॥ निबध्यमानमद्यापि विद्यावत्सूपयुज्यते । विद्याप्रकरणे याज्ययाजकादिसमागमः ॥ वर्ण्यमानः प्रपद्येत किं वा दृष्टप्रयोजनम् । एवञ्चाभिप्रतारी स्यात् कापेयसहपाठतः ॥ अनिर्धारितवर्णत्वात्तद्वत् ब्राह्मण एव नः । तस्माज्जानश्रुतेस्तेन समभिव्याहृतत्वतः ॥ क्षत्रियत्वं न निर्णेतुं कथञ्चिदपि शक्यते । यत्तु दानपतित्वादिलिङ्गं तदपि दुर्बलम् ॥ उपपादयितुं शक्यं सर्वं शूद्रेऽपि तद्यतः । धार्मिकस्य हि शूद्रस्याप्यनुज्ञातं धनार्जनम् ॥ राज्याधिपत्यमप्यस्ति तस्यावेष्टिनयोदितम् । दृष्टञ्च कर्णस्यात्मानं मन्यमानस्य सूतजम् ॥ अङ्गराज्याधिपत्यञ्च दातृत्वञ्चातिमानुषम् । एवञ्च शूद्र एवायं शूद्रेत्यामन्त्रणान्वयात् ॥ राज्याधिपत्यदानादि तस्मिन् सङ्गच्छतेऽखिलम् । न ह्यस्य यागहोमादि किञ्चिदप्यत्र वर्णितम् ॥ न सङ्गच्छेत यच्छूद्रे तस्माच्छूद्रो भवत्वयम् ॥ इति । श्लोकानामयमर्थः – इह शूद्रशब्दे रूढितो योगस्य बलीयस्त्वे कारणं शुचः प्रतिपन्नत्वमुक्तम् । तन्न युज्यते ; तत्प्रतिपत्त्यसिद्धेः । हंसवाक्यश्रवणानन्तरमेव क्षत्तृप्रेषणेन तत्प्रेषणहेतुः कश्चिन्मानसो भावो हंसवाक्यश्रवणादुदित इत्येतावत्प्रतिपत्तुं शक्यते । स भावः शुगिति कुतः प्रतिपत्तव्यम् हंसवाक्यं जानश्रुतिनिन्दात्मकमिति ततस्तस्य शुच एवोदयो युक्त इति चेत् , न । तद्रैक्वस्य तदन्यस्यापि तदुपास्यदेवतोपासकस्य स्तुतिरूपसम्भवतीति ततस्तोषोदयोऽपि युक्त एव । स्वस्यापि रैक्वमहिमप्राप्त्युपायस्तदुपास्यदेवतोपासनमिति प्रदर्शनात्तदुपासनप्रकारोपदेशार्थं प्रार्थनीयः स एव रैक्व इत्यपि ‘सयुग्वानम्’ इति सचिह्नोपन्यासेन सूचनात् । अन्यथा कोऽसौ रैक्व इति पृष्ठगामिनो हंसस्य प्रश्ने भल्लाक्षेण रैक्वमहिममात्रस्य वर्णनीयतया ‘यस्तद्वेद यत्स वेद’ इत्यनेन यत्स रैक्वो वेद तद्रैक्वादन्योऽपि यो वेद तस्यापि धर्मे सकलप्रजानां साधुकर्म फलतोऽन्तर्भवतीति प्रतिपादनस्य , रैक्वचिह्नोपन्यासस्य च वैयर्थ्यप्रसङ्गात् । तस्मात्पृष्ठगामिनं हंसं प्रत्युत्तरं प्रयच्छतैव भल्लाक्षेण जानश्रुतिं प्रति त्वमपि रैक्वोपास्यां देवतामुपास्व , रैक्व इव महामहिमा भविष्यसि , तदुपासनाप्रकारे च स एव रैक्वः उपदेष्टा प्रार्थनीयः तस्य चिह्नं सशकटपर्यटनं , तमन्विष्य ततो विद्यां लब्ध्वा कृतार्थो भवेति व्यंजयितुमेव तदुभयप्रतिपादनमति ततस्तोषोदयो युक्त एव । अत एव जानश्रुतिनाऽपि रैक्वान्वेषणाय क्षत्तृप्रेषणे ‘सयुग्वानम्’ इति युग्वा तच्चिह्नमुपन्यस्तम् । स्वयं तदुपसर्पणानन्तरं ‘अनु म एतां भगवो देवतां शाधि यां देवतानुपास्से’ इति तदुपास्यविद्योपदेशश्च प्रार्थितः । तस्माद्धंसवाक्यश्रवणानन्तरप्रवृत्तेन क्षत्तृप्रेषणकार्येणास्य शोकोदयो निश्चेतुं न शक्यते । तथापि निन्दालक्षणकारणेनैवायमवसीयते इति चेत् ; न । महात्मनां हि येनकेनचिदपि कृता निन्दा शोकाय नावकल्पते । हिते प्रवर्तयितुमिच्छता कृता तु नतराम् । सा खल्वन्येषामपि शोकाय न भवत्येव । तथाहि – जानश्रुतिः ‘श्रद्धादेय’ इति विशेषितत्वात् शास्त्रचोदितेष्वर्थेषु श्रद्धावान् । स यदि सर्वप्राणिरुताभिज्ञ इति कृत्वा लोके येनकेनचित् पुरुषेण कृतां निन्दामवधार्य लौकिकेनैव हंसेन स्वभाषया अनूद्यमानां तामश्रौषीदिति कल्प्यते ; तदा सा निन्दाऽस्य शोकाय नावकल्पते ; यतो विवेकिभिस्वनिन्दनस्यादरणीयत्वमेव मन्वादयस्स्मरन्ति ‘अवमानात्तपोवृद्धिस्सम्मानाच्च तपःक्षयः । अमृतस्येव काङ्क्षेत अवमानस्य सर्वतः’ इति । यदि तु हंसकृतनिन्दावाक्यं गीर्वाणभाषारूपमिति तेन लिङ्गेन प्रागुपन्यस्तेन प्रकृतानुपयुक्तरैक्वोपास्यदेवतोपासकपुरुषान्तरस्तवनरैक्वचिह्नोपन्यासलिङ्गेन च नायं लौकिको हंसः , किन्तु मम हितैषी कश्चिदृषिरेवान्यैरपि ऋषिभिस्सह खयमुक्तिप्रत्युक्तिव्याजेन मां बोधयितुमागत इत्यज्ञासीदिति कल्प्यते , तदा निन्दा कथमपि शोकाय नावकल्पते , किन्तु सम्राजमेव राजानं प्रति ‘कियदस्त्यधुना राज्यं कियदाज्ञाबलं तव । अनेन त्वमुपायेन सार्वभौमो भविष्यसि’ इत्यधिकैश्वर्योपाये प्रवर्तयितुकामेन कृता विद्यमानैश्वर्यनिन्देव हर्षायैव कल्पते । किञ्च नेयं जानश्रुतेनिन्दा यत् भुवमारभ्य द्युलोकपर्यन्तं व्याप्तस्य कालाग्निज्वालाकलापवत् स्पर्शमात्रेण दहमानस्य सूर्येऽप्यसम्भावितस्य ज्योतिषस्तस्मिन्नभाववर्णनम् । सम्भावितगुणवैकल्यवर्णनं हि निन्दा भवति , न तु ‘आकाशमयं खादितुमशक्तः’ इतिवदसम्भावितगुणवैकल्येन कश्चिन्निन्द्यमानो दृश्यते । यदि त्वेवंभूतं ज्योतिस्स्वस्य नासीदिति जानश्रुतेः शोकः कल्प्यते , तदानीं ‘एतत्तस्य मुखात् कियत् , कमलिनीपत्रे कणं पाथसो यन्मुक्तामणिरित्यमंस्त स जडश्शृण्वन्यदस्मादपि । अंगुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैस्तत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तश्शुचा’(भ.्लटशतकम् ) इति श्लोकोक्तरीत्या तस्यातिजडत्वमेव कल्पितं स्यात् । तस्माद्विवेकी जानश्रुतिर्विद्ययाऽपि रैक्वस्य तथाभूतं ज्योतिर्न सम्भाव्यते , स्वस्य तथाभूतज्योतिरभावोऽपि न दोषः , किन्तु रैक्वोपास्यविद्याप्रशंसा) कश्चिदयं कल्पनाविशेष इति जानात्येव । अत एव रैक्वान्वेषणाय क्षत्तारं प्रेषयन् शकटसाहित्यमेव तचिह्नमाह , न तु तथाभूतं ज्योतिः । क्षत्राऽपि पामानं कषमाणस्तपसा , दारिद्र्येण च कृश एव रैक्वो दृष्ट इति वर्णितं , न त्वादित्यवद्दुर्दर्शो दृष्ट इति वर्णितमिति केनापि प्रकारेण जानश्रुतेर्नास्ति शोकावकाशः । एवञ्चेह योगबलीयस्त्वे कारणस्याख्यायिकया शुचः सूचितत्वस्य वर्णनं प्रथमसूत्रकृतं तावदसमञ्जसम् । तथा द्वितीयसूत्रकृतमभिप्रतारिसमभिव्याहृतत्वेन क्षत्रियत्वनिर्धारणमपि । तत्खल्वभिप्रतारिणः क्षत्रियत्वनिर्धारणे , तत् तस्य चैत्ररथित्वनिर्धारणे , तदपि तस्य कापेययाज्यत्वनिर्धारणे सति भवति । तदेव कुतो निर्धार्यते न तावदस्यां श्रुतौ श्रुत्यन्तरे वा श्रुतमस्ति तत् । नापि कल्प्यम् ; कल्पकाभावात् । न च क्वचिन्मिलितयोर्मूलसंबन्धनियमोऽस्ति ; नानादेशागतेषु सत्रानभोक्तृषु व्यभिचारात् । सति वा तन्नियमे याज्ययाजकभाव एव संबन्ध इति कुतः बान्धवरूपस्य यौनसंबन्धस्य , लौकिकव्यवहारकृतस्य संबन्धान्तरस्य वा कल्पनोपपत्तेः । यदि संबन्धस्तयोर्ग्राह्यस्तदा संवर्गविद्यावित्वं संबन्धस्सिध्यति । तद्धि संवर्गविद्यावाक्यशेष एव ब्रह्मचारिसंवादे प्रसिद्धम् । प्रायेण छान्दोग्यगतास्वाख्यायिकासु एकविद्यानामेव मेलनं वर्ण्यते । यथा वैश्वानरविद्यायां प्राचीनशालसत्ययज्ञेन्द्रद्युम्नजनबुडिलारुणीनां , उद्गीथविद्यायां सिलकदाल्भ्यजैवलीनां , अस्यामेव विद्यायां कापेयाभिप्रतारिब्रह्मचारिणाम् । विद्याऽङ्गभूतास्वाख्यायिकास्वेकविद्यानां मेलनकथनमन्योन्यस्माद्विशेषग्रहणार्थं सदद्यापि विद्यावद्भिः परस्परस्मात् संभावितविशेषग्रहणाय मिलित्वा चिन्तनीयम् , न तु विद्योपदेशलाभमात्रेण कृतार्थतया स्थातव्यमिति शिक्षादानेनोपयुज्यते । तासु याज्ययाजकादिसमागमकथनं कथमुपयुज्यते एवञ्चाभिप्रतारी सन्दिग्धवर्णविशेषः कापेयसमभिव्याहाराद्ब्राह्मणस्सिद्ध्यतीति तत्समभिव्याहारात् जानश्रुतेः क्षत्रियत्वनिर्धारणमप्यसमञ्जसमेव । तथा दानपतित्वादिलिंगजातेन तन्निर्धारणमपि शूद्रेऽपि दानपतित्वादिसंभवात् । धर्मानभिज्ञस्य तत्प्रावण्यरहितस्य हि शूद्रस्य पापप्रसक्तिशङ्कया धनार्जनं निषिद्धं मानवे धर्मशास्त्रे ‘शक्तेनापि हि शूद्रेण न कार्यो धनसञ्चयः । शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते’(मनु. १०.१२९) इति । धार्मिकस्य तु शूद्रस्य धर्मार्थं धनार्जनमनुज्ञातं व्यासस्मृतौ शूद्रप्रकरणे ‘राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः । पापीयान्हि धनं लब्ध्वा वशे कुर्याद्गरीयसः’ इति । ग्रामदानायापेक्षितं राज्याधिपत्यमपि शूद्रस्यावेष्टिनये दर्शितम् । तत्र हि ‘राजा स्वाराज्यकामो राजसूयेन यजेत’ इति विहिते राजसूये त्रयाणामपिवर्णानामधिकारोऽस्ति ; राजशब्दस्यार्यावर्तप्रसिद्ध्या राजन्यपालयितृवाचित्वेन क्षत्रियजातिवाचित्वाभावादिति , पूर्वपक्षे राजशब्दस्य राजन्यपालयितृवाचित्वेऽपि कथं त्रयाणां वर्णानामधिकारः ; क्षत्रियस्यैव राज्यपालयितृत्वेन तस्य तस्मिन्नेव पर्यवसानादित्याशंक्य उक्तं वार्तिके ‘तच्च राज्यमविशेषेण चत्वारोऽपि वर्णाः कुर्वाणा दृश्यन्ते तस्मात्सर्वेऽपि राजानः’ इति । सिद्धान्तेऽपि राजशब्दस्य राज्यपालयितृवाचित्वे शूद्रस्यानग्नित्वावेदत्वप्रतिषेधहेतुभिरधिकाराप्रसक्तावपि ब्राह्मणवैश्ययोरधिकारः प्राप्नुयादाजसूये इत्येतदंगीकृत्यैव ‘राज्ञः कर्म राज्यम्’ इत्यस्मिन्नर्थे यत्प्रत्ययविधायकेन पाणिनिस्मरणेनानुगृहीतया दक्षिणापथप्रसिध्या तस्य क्षत्रियजातिवाचित्वं स्थापितम् । महाभारते सूतात्मजमात्मानं मन्यमानस्य कर्णस्याङ्गदेशाधिपत्यं महोदारत्वञ्च वर्णितम् । एवञ्च जानश्रुतेः शूद्रत्वेऽपि राज्याधिपत्येन ग्रामदानक्षत्तृप्रेषणादीनामुपपन्नत्वात् ‘शूद्र’ इत्यामन्त्रणेन प्राप्तं शूद्रत्वं न हातव्यम् । अत एवास्य शूद्रत्वादेव दानादिरूपस्साधारणधर्म एव जानश्रुतेराख्यायिकायां वर्णितः , न तु त्रैवर्णिकासाधारणो यागादिः । तस्माच्छूद्रशब्दरूढिबलीयस्त्वात् शूद्र एवायं भवेदिति । एतेन – अल्प धनमाहृतमिति रुषा क्षत्रियोऽपि सन् ‘अह हारेत्वा शूद्र’ इति शूद्रशब्देनामन्त्रित: – इत्यपि कल्पनं निरस्तम् । पर्याप्तधनाहरणानन्तरमपि ‘आजहारेमाः शूद्र’ इत्यामन्त्रणदर्शनाच्च । अत्र ब्रूमः – भल्लाक्षस्य रैक्वजानश्रुतिविषयादरानादरवचसी दिव्यज्योतिस्तदभावावलम्बनत्वेऽपि वस्तुतो विद्यातद्वैकल्यप्रयुक्ते एव पर्यवस्यतः । अन्यथा ‘गगनमयं खादति , गगनं खादितुं न शक्नोत्ययं वराकः’ इत्युक्तिप्रत्युक्तिवत् हंसाभ्यां कृतयोरुक्तिप्रत्युक्त्योरपार्थकत्वप्रसङ्गात् । विद्या च सम्भावितगुण इति तद्वैकल्येन ‘कम्बरएनम्’ इत्यादि जानश्रुत्यनादरवचनं तन्निन्दा भवतीति तद्वचनं जानश्रुतेरत्यन्तास्तिकस्य एतावन्तं कालमेवं प्रशस्तां विद्यां नाध्यगमं येनैवमत्यन्ताप्तेन पितृस्थानीयेन महर्षिणा वा कृतस्यावमानस्य पात्रमभूवमिति शोकहेतुर्भवत्येव । ‘अमृतस्येव कांक्षेत’ इत्यादिस्मृतिवचनन्त्वसूयालुभिर्निन्दासु क्रियमाणासु विवेकिभिः कोपो न कर्तव्यः ; तस्यैहिकामुष्मिकसकलप्रयोजनविरोधित्वात् , असूयया निन्दन्तस्तु स्वयमेव नंक्ष्यन्तीत्येतत्परम् , न तु वेदवैदिककर्मसु प्रवर्तयितुकामेन पित्रादिना कृते धिग्वचनेऽपि पुनरपि तदेव काङ्क्षेतेत्येतत्परम् ; पुत्रानुशासनादीनामकार्यकरत्वापत्तेः । एवञ्च यद्यपि भल्लाक्षवचनं प्रशस्तविद्यातदुपदेष्टगुरुसद्भावप्रत्यायकतया हर्षहेतुर्भवति , तथापि उक्तरीत्या ततश्शोकोऽपि भवेदिति स एव हेतुकार्याभ्यां सह शूद्रशब्देन सूच्यते महर्षिणा स्वस्य परोक्षज्ञानवत्त्वख्यापनाय , तस्य विद्याधिगमे विशिष्टाधिकारित्वज्ञापनाय च । केवलं विद्याकामाद्धि विद्यावैकल्यकृतेनानुतापेनापि युक्तोऽधिकारी विशेष्यते । तस्माद्युक्तमाख्यायिकया शुचः सूचनेन प्रतिपत्तिलाघवसत्त्वाच्छूद्रशब्दो यौगिक इति । कापेयसन्निधानादभिप्रातारी तद्याज्यश्चैत्ररथश्चेत्येतत्तयोर्मूलसम्बन्धापेक्षानियममवलम्ब्य नोच्यते , किन्त्वविदितपूर्वस्य हस्तिनो निकटे पुरुषे दृश्यमाने तस्मिंश्च राज्ञो हस्तिपकोऽयमिति प्रत्यभिज्ञायमाने सति अयमस्य हस्तिपकस्य शिक्षणीयो हस्ती राजकीयश्चेति बुद्धिरौत्सर्गिकी यथा जायते , एवमिहापि अभिप्रतारिसन्निधाने कापेये श्रूयमाणे तस्मिंश्च श्रुत्यन्तरबलाञ्चित्ररथयाजकत्वेन प्रत्यभिज्ञायमाने कापेययाज्योऽयमभिप्रतारी चित्ररथवंश्यश्चेति बुद्धिर्जायमाना न निवारयितुं शक्यते । सा च बाधकाभावात् प्रमाणमवतिष्ठत इत्यौत्सर्गिकन्यायमवलम्ब्य उच्यते । एवञ्च ब्राह्मणद्वितीयस्याभिप्रतारिणश्चैत्ररथत्वेन क्षत्रियत्वनिश्चये तत्समभिव्याहाराद्ब्राह्मणस्य रैक्वस्य द्वितीयो जानश्रुतिरपि क्षत्रिय इति निर्धारणमपि युक्तमेव । ‘बहुदायी बहुपाक्यः’ इत्येतयोः कथञ्चन रैक्वशूद्रे सम्भवेऽपि क्षत्तृप्रेषणस्य रैक्वाद्ध्युषितग्रामाणां तस्मै दानस्य क्षत्रियधर्मराज्याधिपत्यसाध्यस्य तत्र न सम्भवोऽस्ति । राज्यपालनं हि क्षत्रियस्य वृत्तिः आपद्वृत्तित्वेनाप्येतद्ब्राह्मणस्य भवति न वैश्यशूद्रयोः । ‘ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि । सर्वस्यास्य यथान्यायं कर्त्तव्यं परिरक्षणम् ॥ अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा । जीवेत् क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः’ ‘यो मोहादधमो भूत्वा जीवेदुत्कृष्ट कर्मणा । तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेत्’ इत्यादिस्मरणात् । अवेष्टिनयेत्वतिक्रान्तनिषेधानां चरित्रमुदाहृतम् , तावताऽपि तत्र प्रकृतोपयोगसिद्धेः । त्रयाणामपि वर्णानां राजसूयाधिकारमुपपादयता हि पूर्वपक्षिणा स्वाभिमतं राजशब्दप्रवृत्तिनिमित्तं राज्यपालनं वर्णान्तरेष्वपि दर्शनीयम् । शब्दप्रवृत्तिनिमित्तत्वञ्च धर्म्यवदधर्म्यस्याप्यस्य पाचकत्वयाजकत्वादेरिवोपपद्यते । अत एव तदधिकरणपूर्वपक्षवार्तिके ‘क्षत्रियसंबन्धित्वेन राज्यं विहितं अन्यायेन इतरौ कुर्वाणौ न राजानौ स्याताम्’ इत्याशङ्क्य परिहृतम् – ‘सर्वथा तावद्राज्यकरणात्ताभ्यामपि राजत्वं लब्धम् । तावता च राजसूयचोदनायाः प्रयोजनम् । यौ तु न्यायान्यायौ तयोः पुरुषधर्मत्वान्न कोऽपि क्रतुना गृह्यते’ इति । एतेन – इतिहासपुराणादिप्रसिद्धमप्यक्षत्रियाणां राज्याधिपत्यं व्याख्यातम् । न चेदमपि जानश्रुतेः क्षत्तृप्रेषणादिलिङ्गावगतं राज्याधिपत्यं तादृशमिति वक्तुं शक्यम् ; बाधकाभावे वैदिकलिङ्गावगतस्य क्षत्रियधर्मस्यैवांगीकर्तव्यत्वात् । अन्यथा ‘शूद्र’ इत्यामन्त्रणेन लिंगेनावगतं शूद्रस्य विद्याग्रहणमधर्म्यं वेदेन निबद्धमित्येव वक्तुं शक्यतयाऽस्माभिरपि शूद्रस्य विद्याधिकारे उक्तवैदिकलिंगासिद्धेर्वक्ष्यमाणबाधकानां चानुपन्यसनीयत्वापत्तेः । न च इतिहासपुराणेषु केषाञ्चिद्वर्णितं राज्याधिपत्यं तेष्वेव तेषां म्लेच्छ जातिवाद्युक्त्या बाधकेनाधर्म्यमभ्युपगम्यते यथा , एवमिहापि शूद्रश्रुत्या बाधकेन तदधर्म्यमभ्युपगम्यतामिति वाच्यम् । बहुलिङ्गविरोधेन शूद्रश्रुतेरेवान्यथा नेयत्वात् । तथा हि – क्षत्तृप्रेषणं ग्रामदानञ्च तावद्विरोधिलिङ्गमुपन्यस्तम् । तथा रैक्वस्य जानश्रुतिराज्य एव केषुचिद्ग्रामेषु प्राङ्निवासः विद्यार्थितया समागताय तस्मै विद्यादानं तत्कन्यापरिणयनं चेत्येतदपि विरोधिलिंगम् । ‘नाधार्मिकैश्श्रिते ग्रामे न व्याधिबहुले तथा । न शूद्रराज्ये निवसेन्न पाषण्डजनैर्वृते’ इति शूद्रपालिते राज्ये निवासस्य , ‘न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् । न चास्योपदिशेद्धर्मान्नचास्य व्रतमादिशेत्’ इति शूद्राय मतिदानस्य , ‘न ब्राह्मणक्षत्रिययोरापत्स्वपि हि तिष्ठतोः । कस्मिंश्चिदपि वृत्तान्ते शूद्र भार्योपदिश्यते’ इति शूद्राया धर्मदारत्वेन परिग्रहस्य च निषिद्धत्वात् । तस्मात् क्षत्तृप्रेषणादिलिंगजातेन जानश्रुतेः क्षत्रियत्वसमर्थनमपि समञ्जसमेव । सूत्रे ‘चैत्ररथेन लिङ्गात्’ इति भिन्नविभक्तिनिर्देशतश्चैत्ररथेन समभिव्याहृतत्वादित्यध्याहाराशय उन्नीयते । ‘अभिप्रतारिणा’ इति श्रुत्युपात्तशब्दे निर्देष्टव्ये ‘चैत्ररथेन’ इति निर्देशो नाभिप्रतारिणः कापेययाज्यत्वेन क्षत्रियत्वमवगन्तुं शक्यम् , तद्धि तस्य तेन चित्ररथत्वसिद्धिद्वाराऽवगन्तव्यम् ; श्रुत्यन्तरे चित्ररथस्यैव कापेययाज्यत्वेन निर्दिष्टत्वात् । न च तत्तस्य सिद्ध्यति ; संज्ञाभेदेन चित्ररथाद्भेदप्रतीतेरित्याशङ्कापरिहारार्थः । चित्ररथाद्भेदेऽपि तद्वंश्यत्वसिद्धिद्वारा तेन तस्य क्षत्रियत्वं सिद्ध्यति ‘समानान्वयानां समानान्वयाः याजका भवन्ति’ इति दृष्टत्वादिति परिहाराभिप्रायः । ‘अयमश्वतरीरथः’ इत्युक्तचित्ररथवत्त्वं क्षत्रियत्वे लिङ्गतयोपन्यस्तमिति मन्दानां भ्रान्तिवारणार्थ ‘उत्तरत्र’ इति विशेषणम् । अस्तु तदपि लिङ्गं को दोषः न । तस्य लिङ्गत्वासिद्धेः । शूद्रस्यापि रथसंभवात् शूद्रस्य वेदनिषेधवद्रथनिषेधस्य प्रामाणिकवचनरूढस्यादर्शनात् , तस्य तन्निषेधसत्त्वेऽपि सशकटं पर्यटतो रैक्वस्याश्वतरीरथः प्रियतरो भवेदिति तदर्थं संपाद्यानयनसंभवाच्च । स्वोपभोगार्हमेव परस्मै दातव्यमिति नियमाभावात् , तस्य तल्लिङ्गत्वेऽपि लिङ्गादित्यनेनैव संग्राह्यतया पृथङ्निर्देशायोगाच्च । एवं शूद्रस्य विद्याधिकारे वैदिकलिंगं विघटितम् । १. ३. ३५ । तथाऽप्यर्थित्वादिसद्भावादध्ययनाभावेपि स्त्रीणामिव विद्याग्रहणसम्भवाच्च तदधिकारः स्यादित्याशङ्कानिराकरणार्थं सूत्रम् –
संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ ३६॥ 【भाष्यम्】 ब्रह्मविद्याप्रदेशेषु उपनयनगुरुशुश्रूषादिसंस्काराः परामृश्यन्ते । उपनयनमध्ययनाङ्गात् प्रसिद्धादन्यदस्ति विद्याङ्गं ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’(मु. १. २. १२) इति विहितं गुरूपसदनम् , ‘अधीहि भगवः’(छा. ७. १. १) इति मन्त्रपूर्वकं कुर्वाणस्य विद्यार्थिनश्शिष्यत्वमङ्गीकृत्य गुरुणा क्रियमाणमनुज्ञादानादिना स्वसमीपप्रापणम् , ‘भृगुर्वै वारुणिः । वरुणं पितरमुपससार अधीहि भगवो ब्रह्म’(तै. ३. १. १) इति ‘अधीहि भगव इति होपससाद सनत्कुमारं नारदः’(छा. ७.१.१) इत्यादिषु श्रुतिषु , उपसन्नेभ्यो विद्योपदेशेनार्थात्सिद्धम् ; प्रजापतिविद्यादिषु ‘वसापराणि द्वात्रिशतं वर्षाणि’ इत्याद्यग्रेतनवचनैरपि स्फुटीकृतम् । ‘तं होपनिन्ये’ इत्यादौ क्वचित्कण्ठतश्चोक्तम् । इदं च केनचिन्न क्रियते उपसन्नानामिष्टां विद्यां साकल्येनाजानन्यः स्वस्य गुरुत्वं नाभ्युपगच्छति । अत एव प्राचीनशालादिषु वैश्वानरविद्यार्थमभ्यागतेषूद्दालकः ‘प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्तान्यमभ्यनुशासानि’(छा. ५. ११. ३) इति मन्वानस्सन् ‘अश्वपतिर्वै भगवन्तोऽयं कैकयस्सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छाम’(छा. ५.११. ४) इत्युवाच । यो वा हीनवर्णस्तेनापि ‘शिष्यस्तेऽहं शाधि माम्’ इति प्रार्थनयोपसन्नेषु स्वस्य गुरुत्वाभ्यनुज्ञयैव तन्न क्रियते । अत एव ‘ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे’(छा. ५. ११. ७) इति तेषामृषीणामुपसदनमुक्त्वा अश्वपतिनोपनयनमकृत्वैव विद्योपदिष्टेत्युक्तं तान्हानुपनीयैवैतदुवाच’(छा. ५. ११. ७) इति । अजातशत्रुणा च राज्ञा विधिवदुपसन्नस्य गार्ग्य॑स्य बालाकेरकृत्वैवोपनयनं विद्योपदिष्टेत्युक्तं ‘‘तत इह बालाकिस्समित्पाणिः प्रतिचक्रामोप त्वाऽयानीति तं होवाचाजातशत्रुः प्रतिलोमरूपमेव स्याद्यक्षत्रियो ब्राह्मणमुपनयेदेहि व्येव त्वा ज्ञापयिष्यामि’(क.षी. ४. १९) इति । अन्येन सर्वेणापि कर्त्तव्यमुपनयनम् । न चैतच्छूद्रस्य विधिवद्गुरूपसदनपूर्वकमुपनयनं शिष्यसंस्काररूपं सम्भवति ; ‘न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हति’ इति मानवे धर्मशास्त्रे शूद्रस्य सकलसंस्काराभावाभिलापात् । ननु तत्रैव ‘धर्मेप्सवस्तु धर्मज्ञास्सतां वृत्तिमनुव्रताः । मन्त्रवर्जं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च’ इति तदनन्तरश्लोकेन धार्मिकाणां शूद्राणां मन्त्रवर्जसंस्काराणामभ्यनुज्ञानं कृतम् । न चामन्त्रसंस्कारो न विद्योपयोगीति वाच्यम् ; स्त्रीणां विद्याऽनधिकारप्रसङ्गात् । तासां विवाहसंस्कारस्य समन्त्रकत्वेप्यन्येषां संस्काराणाममन्त्रकतया गुरूपसदनस्याप्यमन्त्रकस्यैवाङ्गीकर्तव्यत्वादिति चेत् ; मैवम् । शूद्राणाममन्त्रकं जातकर्मादिसंस्कारान्तराभ्यनुज्ञानेऽपि ‘शूद्रश्चतुर्थो वर्ण एकजातिः’ इति विशिष्योपनयनसंस्काराभावाभिलापात् । न च वाच्यम् – ‘एकजातिः’ इत्यनेन द्वितीयजन्मरूपोपनयनस्याभावोऽभिलप्यते । गर्भाष्टमादिषु कर्तव्यमध्ययनाङ्गोपनयनमेव च द्वितीयजन्म । तदेवोपक्रम्य तद्वितीयं जन्म’ इति स्मरणात् । तथा च विद्याङ्गोपनयनेन एकजातित्वहान्यभावात् तच्छूद्राणामपि स्यादिति । ‘त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि’(प्र. ६.८) इति वैदिकलिङ्गेन तस्यापि जन्मरूपत्वात् । न च द्विजातीनां जन्मद्वयमेवेति नियमः ; ‘मातर्यग्रेधिजननं द्वितीयं मौञ्जिबन्धनम् । तृतीयं यज्ञदीक्षायां द्विजस्य विधिचोदितम्’ इति मनुना यज्ञदीक्षाया अपि जन्मत्वाभिधानात् । ‘अनृतात्सत्यमुपैमि मानुषादैवमुपैमि’ ‘दक्षिणं पूर्वमाङ्क्ते सव्यं हि पूर्वं मनुष्या आञ्जते’ इत्यादिमन्त्रार्थवादलिङ्गैरग्न्याधानपूर्विकाया यज्ञदीक्षाया मनुष्यतोत्तीर्णदेवजन्मत्वसूचनाच्च । तथा च यथा ‘तत्र यद्ब्रह्मजन्माख्यं मौञ्जीबन्धनचिह्नितम् । तत्रास्य माता सावित्री पितात्वाचार्य उच्यते’ इति द्वितीये जन्मनि मातापितरौ स्मृतौ एवमिहापि ‘त्वं हि नः पिता’ इति पिता श्रुतः । अर्थाच्च ब्रह्मविद्यैव माता भवति या देहद्वयविविक्तनित्यशुद्धनिरतिशयानन्दपरब्रह्मरूपतया प्रकाशमानं विद्वदात्मानं सूते इत्येतदपि जन्मैवेति युक्तम् । तस्मादध्ययनाङ्गोपनयनाभावाद्ध्ययन इव विद्याङ्गोपनयनाभावाद्विद्यायामपि शूद्रस्य नाधिकारः । १. ३. ३६ ।
तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७॥ 【भाष्यम्】 इतश्च न शूद्रस्य विद्याधिकारः । यत्सत्यवचनेन शूद्रत्वाभावे निर्धारिते जाबालं गौतम उपनेतुमनुशासितुश्च प्रववृत्ते ‘नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहरोप त्वा नेष्ये न सत्यादगाः’(छा. ४. ४.५) इति हि गौतमवचनं श्रूयत इति । अत्रेदं चिन्त्यते – अध्ययनाङ्गोपनयनं गौतमेन कृतम् , न विद्याङ्गम् । एवं ह्युपाख्यायते – शैशवे मृतपितृकस्सत्यकामस्स्वां मातरम् ‘अहमाचार्यमुपेत्य ब्रह्मचर्यं चरिष्यामि , किंगोत्रोऽहम्’ इति पृष्ट्वा तया ‘त्वज्जनकपरिचरणं कृत्वैव स्थितास्मि नाहं गोत्रं वेद’ इत्युक्तो गौतममासाद्य ‘ब्रह्मचर्यं भवति विवत्स्याम्युपेयां भवन्तम्’(छा., ४.४. ३) इत्युक्त्वा ‘किंगोत्रस्त्वम्’ , इति तेन पृष्टो ‘नाहं मम गोत्रं वेद , माताऽपि नावेदीन्माता मे जबाला सत्यकामोऽहमित्येतावद्वेद’ इति सत्यमुवाच । अथ गौतमस्सत्यवचनेन ब्राह्मण्यं निाश्चेत्य तमुपनिन्य इति । अस्यामाख्यायिकायामुक्तं गोत्रापरिज्ञानमकृताध्ययनांगोपनयनस्य बालस्य संभवति , न तूपनीतस्याधीतसाङ्गस्वाध्यायस्य ब्रह्मविद्याऽधिजिगमिषया गुरुमुपसीदतः । अध्ययनाङ्गोपनयन एव च गोत्रपरिज्ञानं ब्राह्मण्यनिर्धारणञ्चोपयुज्यते । गोत्रभेदेन ब्राह्मणादिजातिभेदेन च तत्र प्रकारभेदस्मरणात् , विद्यांगोपनयने तदभावात् । ‘नैतदब्राह्मणः’ इति च ब्राह्मण्यनिर्धारणमेव , न तु शूद्रत्वाभावनिर्धारणम् । अब्राह्मणशब्दस्य क्षत्रियवैश्यसाधारणत्वेन शूद्रमात्रपरत्वाभावात् । ‘नञिवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थगतिः’ इति शाब्दिकोक्तन्यायेनात्यन्तसमक्षत्रियवैश्यमात्रपरतया शूद्रास्पर्शित्वाच्च । ननु गौतमेनाध्ययनाङ्गमुपनयनं कृतं चेदध्यापनमग्रे कर्तव्यं स्यात् । ब्रह्मविद्योपदेश एव कृतः ‘उप त्वा नेष्ये न सत्यादगाः’ इति गौतमोक्तिप्रदर्शनानन्तरमेवं खलु श्रूयते । गौतमस्तं सत्यकाममुपनीय स्वकीयाद्गोयूथात् कृशानां दुर्बलानां गवां चत्वारि शतानि पृथक्कृत्य तत्पोषणे तं नियुयुजे । स तु सत्यकामस्तासां गवां सहस्रसंख्यापूरणात् प्राक् न प्रत्यागच्छेयमिति प्रतिज्ञाय तृणोदकबहुलमरण्यं नीत्वा ताः संरक्षन्वर्षगणं प्रोवास । ताः सहस्रं सम्पेदिरे । तदनन्तरमृषभोऽग्निहंसो मद्गुरिति चत्वारो देवतात्मानस्तस्य गुरुशुश्रूषया सन्तुष्टास्तस्मै षोडशकलब्रह्मविद्यामुपदिदिशुः । ततः सह गोभिराचार्यकुलं प्राप्याचार्येण ‘ब्रह्मविदिव वै सोम्य भासि कोऽनु त्वाऽनुशशास’(छा. ४. ९. २) इति पृष्टस्तं वृत्तान्तमुक्त्वा देवैरुपदिष्टमित्यतोऽपि नाहं तृप्यामि स्वकीयादाचार्यादेव लब्धा किल विद्या साधीयसी भवति भगवानेव मह्यं ब्रवीतु’ इति प्रार्थयामास । ततो गौतमस्तस्मै तामेव षोडशकलविद्यामुपदिदेशति । अत्राध्यापनं न तावद्गोसंरक्षणात् प्राकृतमस्ति ‘तमुपनीय कृशानामबलानाञ्च चतुश्शतं गा निराकृत्योवाच’(छा. ४.४.५) इत्युपनयनानन्तरमेव गोसंरक्षणनियोगप्रतिपादनात् । नापि पश्चात् ‘भगवानेवोपदिशतु’ इत्युपसन्नाय ऋषभायुपदिष्टषोडशकलविद्यामात्रमन्यूनानतिरिक्तमुपदिदेशेत्युक्तत्वात् । ‘तस्मै ह तदेवोवाचात्र हि न किञ्चन वीयाय’(छा. ४.९. ३) इति हि श्रूयते । उच्यते – अध्ययनाङ्गमुपनयनं कृतमित्युपक्रमतो निश्चयात्तदनुसारेण ‘उपनीय’ इत्यङ्गोक्त्या प्रधानभूताध्ययननिर्वर्तनमपि शौचाचारादिशिक्षणवदुपलक्षणीयम् । ततस्समावर्तनात् प्राग्गुरुदक्षिणार्थतया महतीं गुरुशुश्रूषां कृत्वा तया शुद्धान्तःकरणो विद्याधिजिगमिषामवाप्य तदर्थमस्मिन् पुनरुपसन्नः काञ्चन ब्रह्मविद्यामप्यधिगच्छत्वित्यभिप्रायेण वा गोसंरक्षणनियोगे कृते तत्संरक्षणसन्तुष्टाभिर्देवताभिस्तस्मै षोडशकलविद्योपदिष्टा । आचार्याद्विद्या लब्धव्येत्युपसन्नाय तस्मै सैव विद्या पुनराचार्येणाप्युपदिष्टेति श्लिष्यत एव । तस्माच्छूद्रत्वाभावनिर्धारणे सत्येव विद्याङ्गोपनयने विद्योपदेशे च प्रवृत्तेरिति हेतुरसिद्धः । ‘नैतदब्राह्मणो विवक्तुमर्हति’ इति निर्धारणमपेक्ष्य कृतस्योपनयनस्य विद्याङ्गत्वाभावान्निर्धारणस्य चावश्यापेक्षितब्राह्मण्यविषयत्वेन शूद्रत्वाभावविषयत्वाभावात् । गोत्रापरिज्ञानेऽपि ह्याचार्यगोत्रमाश्रित्योपनयनं सम्भवति , न तु वर्णविशेषानिर्णये । त्रैवर्णिकानां प्रतिवर्णमुपनयने प्रकारभेदस्योपदेष्टव्यगायत्रीभेदस्य च सत्त्वात् । सिद्धावप्यस्य हेतोर्नानेन शूद्रस्य विद्याऽनधिकारित्वसिद्धिः ; तस्य विद्याऽधिकारित्वेऽपि ‘न शूद्राय मतिं दद्यात्’ इति प्रतिषेधमालोच्य शूद्रत्वाभावनिर्धारणापेक्षोपनयनप्रवृत्त्युपपत्तेः । न हि सन्ततसन्तन्यमानषोडशमहादानेन महाप्रभुणा समाहूता वयं वृत्तिं प्राप्तस्य प्रतिग्रहप्रतिषेधमालोच्य प्रतिग्रहप्रार्थनार्थं किमयमाह्वयतीति शङ्कमानास्तदभिगमने प्रवृत्त्यर्थमाह्वानस्यातादर्थनिर्धारणमपेक्षामह इति एतावता तस्य महादानानधिकारसिद्धिरिति । अत्र ब्रूमः – शूद्रत्वाभावनिर्धारणमपेक्ष्यास्यामाख्यायिकायामभिहिताध्ययनाङ्गोपनयने प्रवृत्तिरपि शूद्रस्य विद्याङ्गोपनयनतत्पूर्वकविद्याग्रहणयोरयोग्यत्वे हेतुर्भवितुमर्हति । स च हेतुरनयाऽप्याख्यायिकया लभ्यत एव । तथा हि – अब्राह्मणशब्दस्तावच्छूद्रस्यापि साधारणः ; ब्राह्मणभिन्नत्वस्य प्रवृत्तिनिमित्तस्यावैकल्यात् । ‘यद्ब्राह्मणश्चाब्राह्मणश्च प्रश्नमेयाताम्’ इत्यादिप्रयोगदर्शनाच्च । नञिवयुक्तन्यायेनापि ब्राह्मणत्वशङ्काप्रसञ्जकतत्सादृश्यरहितेभ्यो लोष्टादिभ्य एव व्यावर्तते , न तद्वद्भ्यश्शूद्रेभ्यः । अत एव महाभाष्ये ‘अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृशं पुरुषमानयति , नासौ लोष्टमानीय कृती भवति’ इत्यब्राह्मणशब्दस्य ब्राह्मणेतरपुरुषमात्रे वृत्तिरुक्ता । तस्य च साधारणशब्दस्यात्र विशिष्य शूद्रे तावत्तात्पर्यमेष्टव्यम् ; ‘न सत्यादगाः’ इति हेतोः शूद्रत्वव्यावर्तने एव सामर्थ्यात् । शूद्रः खलु स्वभावतो मायावीति ‘अनृतञ्चातिवादश्च पैशुन्यमतिलोभता । निकृतिश्चाभिमानश्च जन्मतश्शूद्रमाविशत् । दृष्ट्वा पितामहश्शूद्रमाभिभूतं तु तामसैः । द्विजशुश्रूषणं धर्मं शूद्राणां तु प्रयुक्तवान् । नश्यन्ति तामसा भावाश्शूद्राणां द्विजभक्तितः’ इत्यादिस्मृतिषु प्रसिद्धः । एवञ्च ‘ब्रह्मचर्यं भगवति विवत्स्याम्युपेयां भगवन्तम्’ इत्यध्ययनार्थविद्यार्थोपगमनद्वयसाधारणमुपगमनं कुर्वाणे सत्यकामे शूद्रत्वाभावनिर्धारणमपेक्ष्य या गौतमस्य तदुपनयने प्रवृत्तिः सा शूद्रस्य विद्याङ्गोपनयने विद्याग्रहणे चानधिकारं गमयितुमीष्टे । तस्य तदधिकारसत्त्वे हि शूद्रस्सन्नपि सत्यकामो विद्याङ्गोपनयनेन संस्कृत्य विद्यां ग्राहयितुं योग्य इति शूद्रत्वाभावनिर्धारणमपेक्ष्य समिदाहरणे न नियुज्येत । तस्य तदनधिकारे त्वस्य शूद्रत्वाभावे निश्चिते सति अकृताध्ययनाङ्गोपनयनोऽयं प्रथमं तेन संस्कृत्याध्यापनीयस्ततो विद्याकामश्चेत्क्रमेण तामपि ग्राहयितव्य इत्यालोचयता गौतमेन शूद्रत्वाभावे निश्चिते सत्युपनिनीषुणा समिदाहरणे नियुक्त इति श्लिष्यते । एवं सति ‘किंगोत्रस्त्वमसि’ इति गोत्रप्रश्नोऽपि न तद्गोत्रनिर्दिधारविषया ; शूद्रत्वपर्यन्तसन्देहानुवृत्तिसमये ब्राह्मणजात्युपनयनमात्रोपयुक्तगोत्रप्रश्नस्यानवसरदुस्थत्वात् । किन्तु शूद्रश्चेत् किमप्युपनयनं नार्हतीति मत्वा गोत्रप्रश्ने किमयं वक्ष्यतीति तज्जातिपरीचिक्षिषया । एवमस्य विद्याप्रकरणपठिताख्यायिकासन्दर्भस्य विद्याविध्यपेक्षिताधिकारिविशेषनिर्णयोपयोगित्वे सम्भवति तदनपेक्षितार्थपरतया योजनमपि न युक्तम् ; प्रधानप्रतिपाद्यविध्यपेक्षितार्थसमर्पकत्वे सम्भवति तदङ्गाविद्यास्तुतिद्वारभूताध्ययनाङ्गोपनयनापेक्षितार्थसमर्पकत्वकल्पनस्यायुक्तत्वात् । वर्णविशेषनिर्णयं विनाऽध्ययनाङ्गोपनयनकरणासम्भवे तत्करणान्यथानुपपत्त्या तन्निर्णयोऽपि यथाकथञ्चिज्जात इति कल्प्यताम् , न तु तन्निर्वाहाय गौतमसत्यकामप्रश्नोत्तरसन्दर्भस्य प्रधानविध्यपेक्षितार्थपरत्वं विहायान्यापेक्षितार्थपरत्वकल्पनं युक्तम् । न हि ‘चतुरो मुष्टीन्निर्वपति’ इत्यत्र मुष्टयः स्वपरिच्छेदकसंख्याविशेषापेक्षा इत्येतावता चतुस्संख्या निर्वापान्वयमपहाय मुष्ट्यन्वयमनुभवति । तथासति सप्तदशशरावादिषु प्रधानभूतमुष्ट्यबाधाय संख्याबाधनप्रसङ्गात् । तथाच यथा तत्र संख्यायाः शाब्दे निर्वापान्वये सति पार्ष्ठिकमुष्टयन्वयकल्पनया मुष्टीनामप्याकांक्षा शांतिरेवं गौतमसत्यकामप्रश्नोत्तरसन्दर्भस्य विद्याधिकारिविशेषनिर्णयोपयोगिनः प्रधानभूतविद्याविध्यन्वये सति प्रागेव मया गोत्रविमर्शः कृतोऽस्तीत्येवंरूपसत्यकामवचनार्थपर्यालोचनया ब्राह्मणस्यैवोपनयनार्थं गोत्रविशेषविमर्शप्रसक्तिर्भवति , नान्यस्येत्यर्थापत्त्या वर्णविशेषनिर्णयापेक्षस्य उपनयनस्याप्याकांक्षाशान्तिर्भवति चेत् , सा न निवार्यते । एतेन – शूद्राय मतिदाननिषेधादपि तदभावनिर्धारणे प्रवृत्तिरुपपद्यत इति हेतोरसाधकत्वशङ्कापि निरस्ता । तदभावनिर्धारणस्यासाधारणविद्याविध्यपेक्षिताधिकारिविशेषनिर्णयोपयोगित्वसम्भवे साधारणतदनपेक्षितार्थपरत्वकल्पनायोगात् । शूद्राय मतिदाननिषेधो हि कर्मणि ब्रह्मणि वा श्रुतिभिस्स्मृतिभिरितिहासैः पुराणैर्लौकिकवाक्यैर्वा ‘शूद्राय मतिर्न दातव्या’ इत्येवं साधारणो विद्याविध्यनपेक्षितश्च । तस्मादुपपन्नोऽयं तदभावनिर्धारणे च प्रवृत्तेरिति हेतुः । १. ३. ३७ ।
श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॥३८॥ 【भाष्यम्】 इतश्च न शूद्रस्य विद्याधिकारः । यदस्य वेदश्रवणं वेदाध्ययनञ्चार्थः प्रयोजनं यस्य समीपे वेदोच्चारणस्य तस्यापि प्रतिषेधो भवति ‘पद्यु ह वा एतच्छ्मशानं यच्छूद्रः तस्माच्छूद्रसमीपे नाध्येतव्यम्’ इत्यत्र शूद्रस्य सञ्चारिश्मशानत्ववादः श्मशानवदध्ययने दूरं परिहरणीयत्वप्राप्त्यर्थः । ‘अध्ययनं वर्जयेत्’ इत्यनुवृत्तौ ‘श्मशानं सर्वतश्शम्याप्रसात्’ इत्युक्त्वा ‘श्मशानवच्छूद्रपतितौ’ इति स्मरणात् । वेदोच्चारणे शूद्रस्य सुदूरं परिहरणीयत्वोक्तिश्च मायावी शूद्रो निषेधादप्यबिभ्यच्छद्मना वेदाक्षराणि गृह्णीयात् तदण्वपि मा ग्रहीदिति दृष्टार्थमपि , न तु श्मशानवच्छूद्रजातेस्सामीप्यं दोषावहमिति केवलमदृष्टविरोधपरिहारार्थम् । अत एव शूद्रजातिसामान्येऽपि शूद्रस्त्री सविधोच्चार्यमाणान्यपि वेदाक्षराणि ग्रहीतुं धारयितुं वा न शक्तेति ‘शूद्रायां तु प्रेक्षणप्रतिप्रेक्षणयोरेवानध्यायः’ इति तदनन्तरमुक्तम् । एवञ्च यस्य समीपेऽपि नाध्येतव्यम् , तस्य वेदश्रवणादीनि कैमुतिकन्यायेन निरस्तानि । साक्षाच्च शूद्रस्य वेदश्रवणे तन्मूलकेऽध्ययने तस्यार्थे प्रयोजने धारणे च प्रतिषेधोऽस्ति ; ‘अथ हास्य वेदमुपशृण्वतः’ इत्यादिना शूद्रस्य वेदश्रवणोच्चारणधारणेषु प्रायश्चित्तस्मरणात् । ततश्च शूद्रस्य वेदश्रवणाद्यभावे वेदार्थविचारस्य चाभावः कैमुतिकन्यायसिद्धः। साक्षाच्च तयोरपि प्रतिषेधोऽस्ति ‘कपिलाक्षीरपानेन ब्राह्मणीगमनेन च । वेदाक्षरविचारेण शूद्रश्चण्डालतां व्रजेत् । यो ह्यस्य धर्ममाचष्टे यश्चैवादिशति व्रतं । सोऽसंवृतं नाम तमस्सह तेनैव गच्छति’ इति वेदविचारतदर्थग्रहणयोस्तस्यात्यन्तं दुर्गतिस्मरणात् । एवञ्च वेदार्थज्ञानाभावे वेदविहितानां कर्मणां विद्यानाञ्चानुष्ठानासम्भवोऽपि अर्थसिद्धः । साक्षाच्चात्राधिकारप्रतिषेधोऽस्ति ‘न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हति । नास्याधिकारो धर्मेऽस्ति नाधर्मात्प्रतिषेधनम्’ इति मनुस्मरणात् । शूद्रमुद्दिश्य विशिष्य यन्नित्यवद्विहितं तदकरणे तस्य पातकं नान्यत्र । यस्संस्कारो विशिष्य विहितस्तमेव सोऽर्हति नान्यम् । यो धर्मो विशिष्य विहितस्तत्रैव तस्याधिकारो नान्यत्र । अधर्मोऽपि यो विशिष्य प्रतिषिद्धस्स एव तस्य परिहरणीयो नान्य इत्यर्थः । एवञ्च शूद्रस्य सगुणविद्यासु , निर्गुणविद्यार्थेषु वेदान्तश्रवणादिषु च विशेषविध्यभावेन च तेषां निषेधवचनैः क्रोडीकृतत्वान्न तेषु तस्याधिकारः । एतेन – शूद्रस्य वेदश्रवणाध्ययनधारणार्थावगतीनां प्रतिषिद्धत्वेऽपि कूपखननन्यायमाश्रित्य सगुणविद्यानां श्रवणादीनाञ्चानुष्ठानमस्तु ; सगुणब्रह्मविद्यानां वेदान्तश्रवणजनितनिर्गुणविद्यायाश्च प्रारब्धेतरसकलपापध्वंसकत्वेन वेदश्रवणादिप्रतिषेधोल्लङ्घनकृतपापस्यापि तत एव ध्वंससम्भवादित्यपि – निरस्तम् ; अनधिकारिणाऽनुष्ठितानां वैदिककर्मणां फलपर्यवसायित्वाभावेन कूपखननन्यायानवतारात् । इह विद्याङ्गोपनयनाभावेन , विशेषविहितेतरवैदिककर्माधिकारप्रतिषेधेन च शूद्राणामनधिकारित्वस्य समर्थितत्वात् । कथं तर्हि विदुरधर्मव्याधप्रभृतीनां ब्रह्मज्ञत्वम् पूर्वजन्माधिगतज्ञानाप्रमोषात् । ‘धर्मव्याधादयोऽप्यन्ये पूर्वाभ्यासाज्जुगुप्सिते । वर्णावरत्वे संप्राप्तास्संसिद्धिं श्रमणी यथा’ इति हि स्मरन्ति ब्रह्मज्ञानमपि तेषाम् । हीनजातिषु जननं तु प्रारब्धबलात् । ननु पूर्वजन्मानुष्ठितयज्ञादिकर्मभिः शुद्धान्तःकरणतयोत्पन्नब्रह्मविविदिषाणामपि साधनसंपत्त्यभावेनानुत्पन्नब्रह्मविद्यानां ततःप्रारब्धबलेन शूद्रादिजन्मप्राप्तानां पूर्वसंस्कारानुवृत्त्या विरक्तानामनुवृत्तब्रह्मविविदिषाणां किं ब्रह्मविद्योपायो नास्ति अस्त्येवेतिहासपुराणादिः । ननु ‘श्रोतव्यश्श्रुतिवाक्येभ्यः’ इति ब्रह्मदर्शनार्थं वेदान्तश्रवणनियमविधिना सकलोपायान्तरव्यावर्तनात् कथमितिहासपुराणादेस्तदुपायत्वेन परिग्रहः न । त्रैवर्णिकान् प्रति स नियमविधिरिति तल्लब्धनियमस्यापि तद्विषयत्वात् । एवन्तर्हीतिहासपुराणादिवद्वेदान्तार्थग्रथनरूपो भाषाप्रबन्धः ‘त्वमेव ब्रह्मासि’ इत्यादिलौकिकवाक्यञ्च तदुपायोऽस्तु ; तस्यापि ब्रह्मात्मैक्यज्ञानजननसमर्थत्वात् । न च – अध्यासनिवर्तनक्षमं तदपरोक्षज्ञानं वेदान्तैस्तन्मूलैरितिहासपुराणैर्वा भवति नान्यैरिति – वाच्यम् । विषयस्वाभाव्येन ‘दशमस्त्वमसि’ इत्यादिलौकिकवाक्यैरप्यपरोक्षज्ञानस्य सिद्धान्तिनाऽभ्युपगतत्वात् । तथाऽपि लौकिकवाक्यजमपरोक्षज्ञानमसम्भावनाविपरीतभावनाप्रतिबन्धानाध्यासनिवर्तनक्षमम् , इति चेत् ; न । वेदान्तजापरोक्षज्ञानस्येव तस्यापि मनननिदिध्यासनाभ्यां प्रतिबन्धकनिवर्तनसम्भवात् । यद्वा माभूद्भाषाप्रबन्धो मा च भूल्लौकिकवाक्यम् । मननाख्येनानुमानकलापेनैव प्रतिबन्धनिवृत्त्यर्थमवश्यापेक्षितेन ‘चिन्मात्रं तत्त्वमन्यत् सर्वमारोपितम्’ इति निर्धारणं सम्भवति । तच्च विषयस्वाभाव्यादपरोक्षमिति मननमात्रं निदिध्यासनशिरस्कं शूद्रणां ब्रह्मविद्योपायोऽस्तु । यदि मननं प्रमाणप्रमेयानुपपत्तिनिरासकतर्करूपतया वेदान्तश्रवणस्येतिकर्तव्यतारूपं न स्वतन्त्रम् तर्हि ‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्’ इति वचनादितिहासपुराणमपि तथैव । यदि च तद्वचनमनेकशाखाभिज्ञमहर्षिकृतेतिहासपुराणानुसारिण्येवार्थे वेदस्य तात्पर्यं ग्राह्यमित्येवंपरम् , न स्वातन्त्र्येण ततोऽर्थनिर्णयनिषेधपरम् , तर्हि ‘श्रोतव्यो मन्तव्यः’ इति श्रवणाङ्गत्वेन मननविधिरपि वेदान्तेषु सम्भावितप्रमाणप्रमेयानुपपत्तिशङ्का मननेन निरसनीयेत्येतावन्मात्रपरम् , न तु स्वातन्त्र्येणानुमानाद्ब्रह्मनिर्णयो न भवतीत्येतत्परम् । ‘नैषा तर्केण मतिरापनेया’ इति श्रुतेर्नानुमानगम्यं ब्रह्मेति चेत् – ‘तन्त्वौपनिषदं पुरुषं पृच्छामि’ इति श्रुतेर्नेतिहासपुराणादिगम्यमित्यपि स्यात् । औपनिषदत्वश्रुतिरुपनिषद्विरोधिशब्दान्तरगम्यत्वनिरासपरा चेत् साऽपि श्रुतिस्तद्विरोधितर्कगम्यत्वनिरासपराऽस्तु । अथवा माभूद्भाषाप्रबन्धलौकिकवाक्यानुमानजातं शूद्रस्य ब्रह्मावगत्युपायः । मा च भूत् त्वदुक्तमितिहासपुराणम् । वेदान्तवाक्यजातमेव लिखितपाठादिना गृहीतमविधिना विचारितं तदुपायोऽस्तु ; व्युत्पन्नस्य लिखितपाठादिगृहीतादपि ततोऽर्थप्रत्ययस्यानिवार्यत्वात् । अविहितविचारस्याप्यार्द्रकमरीचादिविषयस्येवासम्भावनानिवर्तनक्षमत्वात् । अविहितविचारस्य च वैदिकाधिकारनिरपेक्षतया तद्वैकल्येन निष्फलत्वाप्रसक्तेः शूद्रस्य वेदग्रहणनिषेधोल्लङ्घने च कूपखननन्यायेन प्रवृत्त्युपपत्तेरिति चेत् । अत्र ब्रूमः । बहूनि मनुष्याणां ब्रह्मविद्योत्पत्तिप्रतिबन्धकानि दुरितानि ‘तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः’ इत्यादिवैदिकलिङ्गावगतानि । तत्र कानिचिद्विविदिषोरपि श्रवणादिसाधनसम्पत्तिविघटनद्वारकाणि , अपराणि श्रवणादिसाधनसम्पत्तावपि बुद्धिसामर्थ्यविघटनद्वारकाणि , इतराणि विद्योदयेऽप्यसम्भावनादिबाहुल्यापादकानि । किं बहुना निरस्तसमस्तासम्भावनादिप्रतिबन्धनिर्विचिकित्सब्रह्मविद्योदयेऽप्यविद्याऽनिवृत्तिकराणि सत्यपि विशेषदर्शने भ्रमानिवृत्तिकरोपाधिसन्निधानकल्पानि कान्यपि सन्ति । तानि सर्वाणि यज्ञदानादिभिस्सन्यासापूर्वेण वेदान्तश्रवणनियमादृष्टेनेतिहासपुराणादिश्रवणनियमादृष्टेन च निवर्तनीयानि । एतानि च प्रतिबन्धकनिवर्तकानि यथाऽधिकारं व्यवतिष्ठन्ते । तथा च ‘श्रावयेच्चतुरो वर्णान् कृत्वा ब्राह्मणमग्रतः’ ‘शूद्रस्सुखमवाप्नुयात्’ इत्यादिवचनैरितिहासपुराणश्रवणपठनाधिकारित्वेनावगतस्य शूद्रस्य तच्छ्रवणनियमसंपाद्यमदृष्टं विना लिखितपाठगृहीतवेदान्तादिभिः कथमप्रतिबद्धब्रह्मावगतिसम्भवः । सन्ति हि पुराणेतिहासश्रवणसामान्ये केचन नियमाः विशिष्य च पुराणभेदेन भारतपर्वादिभेदेन चान्ये नियमाः । तत्रापि ब्रह्मावगत्युपायेषु गीतादिभागेषु ‘शिष्यस्तेऽहं शाधि माम्’ इत्यादिपार्थवचनप्रभृतिलिङ्गावगता गुरूपसदनादिनियमाः । तस्मान्नियमरहितैर्लिखितपाठगृहीतवेदान्तभाषाप्रबन्धलौकिकवाक्यतर्ककलापैरध्यासनिवर्तनक्षमब्रह्मा वगत्यापादनमनधिगतवैदिकमर्यादानामेव शोभते । ननु तथाऽपि शूद्रस्येतिहासपुराणादिनाऽपि नास्ति विद्याधिगमेऽधिकारः । न हि तमुद्दिश्य विशिष्यास्ति विद्याविधानम् । विशेषविहितेतरधर्मास्तु तस्य प्रतिषिद्धा इत्युक्तम् । सत्यम् । ब्रह्मविद्यायां नास्ति विध्यपेक्षा । आनन्दसाक्षात्कारत्वेन तस्याः फलत्वात् बन्धननिवृत्तिरूपमुक्तिसाधनत्वेऽपि प्रमाणवस्तुपरतन्त्रत्वेन विध्यनर्हत्वात् , किन्तु तत्साधने । तत्र च त्रैवर्णिकानां वेदान्तश्रवणरूप इव शूद्राणामितिहासपुराणश्रवणरूपे विशेषतोऽस्त्येव विधिः । ननु ‘द्रष्टव्यश्श्रोतव्यः’ इति वेदान्तश्रवणे ब्रह्मदर्शनफलानुवादवदिह तदनुवादो नास्ति सत्यम् । तथाऽपि यत्र योऽर्थः प्रतिपाद्यते तदवगतिरसति बाधके तत्र फलत्वेन व्यवतिष्ठते । ‘धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्’ इत्यादिवचनैस्तत्तत्प्रतिपाद्यप्रदर्शनमपि तत्तदवगतेः फलत्वसूचनायैव । एवञ्चेतिहासपुराणेषु यस्याधिकारिणो यदर्थावगतिर्यथोपयुज्यते , तथैव सा तस्य फलतया व्यवतिष्ठते । ततश्च यद्यपि तेभ्यश्शुद्धब्रह्मावगतिर्वेदान्तश्रवणनियमवतां त्रैवर्णिकानां तत्र वेदान्ततात्पर्यस्थिरीकरणार्थतया उपयुज्यते , तथाऽपि प्रतिषिद्धवेदश्रवणानां शूद्राणां साक्षान्मुक्तिसाधनतयैवोपयुज्यते । तस्यास्तत्साधनत्वप्रसिद्ध्यर्थं मनननिदिध्यासने अपि शूद्रस्य मुक्तिसाधने ब्रह्मविद्याफलकेतिहासपुराणश्रवणविधिनैवाक्षिप्येते यथाऽध्ययनविधिना स्वफलस्यार्थज्ञानस्य क्रत्वनुष्ठानादिसाधनत्वसिद्ध्यर्थं विचार आक्षिप्यते । तस्माद्युक्तमुक्तं शूद्राणामितिहासपुराणादिकं मुक्तिसाधनब्रह्मविद्योपाय इति । तथापि तत्तल्लोकविशेषावाप्तिफलकसगुणब्रह्मविद्या विधेयत्वाद्विशिष्य शूद्रन् प्रत्यविधानाच्च तेषां न स्यादिति चेत् , मा भूत् । तदंशे यज्ञादिर्मांश इव इतिहासपुराणादिश्रवणमर्थावगतिफलकं पापक्षयफलकमस्तु । अध्ययनविधिरपि ह्यर्थावबोधफलकत्वपक्षे न सर्वत्रार्थावबोधफलकः । किञ्च शूद्रस्य क्वचित्क्वचिदस्त्येवेतिहासपुराणप्रतिपाद्यायां सगुणविद्यायामप्यधिकारः यत्र विशिष्य विधानं लिङ्गं वाऽस्ति यथा प्रणवरहितेन पञ्चाक्षरेण शिवोपासनायां , यथा वा नारदस्य प्राचीने शूद्रजन्मनि यतिभिरुपदिष्टायामच्युतोपासनायाम् । एवं शैवपाशुपतपाञ्चरात्रादिदृष्टेषु सगुणविद्याविशेषेष्वपि शूद्रोचितसंस्कारपूर्वकं विशिष्य विहितेषु तस्याधिकारो द्रष्टव्यः । एवं शूद्रस्य इतिहासपुराणादिमूलकविद्याधिकारसत्त्वेऽपि वेदमूलकसंवर्गविद्याद्यधिकारशङ्कानिवारणार्थं सूत्रे जानश्रुतेः क्षत्रियत्वसमर्थनम् । वेदमूलकाधिकारनिराकरणार्थं ह्येतदधिकरणम् । अत एव वेदश्रवणादिप्रतिषेधः सूत्रकृता हेतूकृतः इत्यलं प्रसक्तानुप्रसक्त्या । सौत्रे श्रवणाध्ययनार्थपदे बहुव्रीहिः । अर्थपदं प्रयोजनपरं । पुनश्च द्वन्द्वः । तदानीं तत्प्रयोजनपरं प्रतिपाद्यपरञ्च । प्रतिपाद्यपरत्वे तदज्ञानस्य तदनुष्ठानस्य च लक्षकमित्येतत्सर्वं प्रागेव वर्णित प्रायम् । चतुर्ष्वपि गुणसूत्रेषु चकारस्तत्र तत्रोद्भावितशङ्कापरिहारद्योतनाय । १. ३.३८ । इत्यपशूद्राधिकरणम् । ९ ।
कम्पनात् ॥ ३९॥ 【भाष्यम्】 अवसितः प्रासङ्गिकोऽधिकारविचारः । यथापूर्वं वाक्यार्थविचारः क्रियते । ‘‘यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति’(क. २. ३. २) इति कठवल्लीमन्त्रे मुख्यप्राणो बाह्यवायुश्चोपास्यगुणविशेषविशिष्टावाम्नायेते उत ज्ञेयं ब्रह्म प्रतिपाद्यत इति संशये पूर्वः पक्षः । सर्वमिदं जगद्यदाश्रयं स्पन्दत इति यतः कारणान्निस्सृतञ्चेत्युच्यते स मुख्यप्राणरूपो वायुः ; प्राणशृतिमुख्यत्वानुरोधेन ‘सर्वं जगत्’ इत्यस्य प्राणात्मकवायुविकाररूपसर्ववस्तुपरतोपपत्तेः । एवं सति सर्वशब्दस्य स्वार्थैकदेशे वृत्तिसङ्कोचेऽपि ब्रह्मपरत्वे प्राणशब्दस्येव सर्वधा स्वार्थत्यागाभावात् , ‘निस्सृतम्’ इत्यस्य ‘तच्च सर्वं जगत्प्राणान्निस्सृतम्’ इति भिन्नवाक्यत्वमपहाय ‘प्राणे ततो निस्सृतं सर्वं जगदेजति’ इत्येकवाक्यत्वाङ्गीकारे निस्सृतविशेषणेनैव सर्वशब्दसङ्कोचस्य लम्भनाच्च । ‘सर्वं जगत्’ इत्यस्य सर्वप्राणिपरत्वे ‘प्राणे’ इति सप्तम्याश्च निमित्तार्थकत्वे सर्वस्यापि प्राणिजातस्य चेष्टायाः प्राणस्थित्यधीनत्वेन सङ्कोचकारणानपेक्षणाच्च । उषस्तिवाक्यगतप्राणशब्दे निरपेक्षसर्वजगत्कारणत्वप्रतिपादकावधारणोपबृंहितोपक्रमोपसंहारश्रुतप्रतिपिपादयिषितदेवताशब्दोदितचेतनत्वलिङ्गस्येवात्र मुख्यार्थत्याजकस्य बलवतो बाधकस्याभावाच्च । तथा महद्भयकारणं वज्रशब्दितमुद्यतं यदुच्यते स बाह्यवायुः ; तस्यैव धूमज्योतिस्सलिलसंवलितस्य विद्युत्स्तनयित्नुवृष्ट्यशनिभावेन परिणामितया वज्रशब्दस्य मुख्यार्थाप्रहाणात् ब्रह्मपक्ष इव वज्रसदृशेर्गौणत्वस्याकल्पनीयत्वात् , ‘वायुरेव व्यष्टिः वायुस्समष्टिः अपपुनर्मृत्युञ्जयति य एवं वेद’(बृ. ३.३.२) इति श्रुत्यन्तरदर्शनेन वायुवेदनादमृतत्वसम्भवाच्च । स्यादेतत् – अस्मान्मंत्रात् पूर्वोत्तरौ ‘‘अङ्गुष्ठमात्रः पुरुषः’(क. २. १. १२) ‘‘अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा’(क. २. ३. १७) इति मन्त्रावङ्गुष्ठाधिकरणे ब्रह्मपरौ निर्णीतौ । ‘‘तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिन् लोकाश्रितास्सर्वे तदु नात्येति कश्चन’ । (क. २. १. ८) ‘‘भयादस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः’(क. २. २. ३) इत्यव्यवहितपूर्वोत्तरमन्त्रावसंशयं ब्रह्मपरौ । तत्र चोत्तरस्मिन् मन्त्रे ‘अस्य’ इति सर्वनामशब्द एतन्मन्त्रप्रतिपाद्यं परामृशति । ‘अत्ता चराचरग्रहणात्’(ब्र. सू. १. २. ९) इत्यधिकरणे दर्शितञ्च ब्रह्मप्रकरणमिहानुवर्तते । आनुमानिकाधिकरणे च ‘त्रयाणामेव चैवमुपन्यासः प्रश्नश्च’(ब्र. सू. १.४. ६) इति सूत्रे कठवल्लीष्वग्निजीवब्रह्मणां त्रयाणामेव प्रतिपादनं नान्यस्येति वक्ष्यते । कथमकस्मात् तन्मध्यपातिन्यस्मिन्मन्त्रे मुख्यप्राणबाह्यवायुपरत्वशङ्का एवं पूर्वापरपर्यालोचनेन ब्रह्मपरतया निर्णीतेषु प्रकरणेषु श्रुतस्य प्राणशब्दस्य ब्रह्मणि वृत्तिः प्रतर्दनाधिकरणे समर्थिता । अपि चैतन्मन्त्रपर्यालोचनयाऽपि न पूर्वपक्षे हेतुं पश्यामः । ‘सर्वं जगदेजति’ इत्यस्य स्वशासनातिलङ्घने किमयं करिष्यतीति भयात्कम्पत इत्येवमर्थकत्वात् ‘एजृ कम्पने’ इत्यर्थनिर्देशानुसारेण कम्पसामान्यवाचिनोऽपि धातोः ‘महद्भयं वज्रमुद्यतम्’ ‘भयादस्याग्निस्तपति’ इत्याद्युत्तरवाक्यपर्यालोचनया भयप्रयुक्तकम्पे पर्यवसानात् मुख्यप्राणस्य शासितृत्वाभावेन तत्रास्य लिङ्गस्य कथमप्यन्वयासम्भवात् अनन्यथासिद्धलिङ्गविरोधे च श्रुतेरप्यन्यथा नेयत्वात् । अशनिकारणकलापमध्ये वायोरनुप्रवेशेऽपि वायोरेवाशनित्वाभावेनाशनिवाचिनो वज्रशब्दस्य वायावपि लक्षणाऽवश्यम्भावात् , अमृतत्वसाधनवेदनविषयत्वस्य ब्रह्मणोऽन्यत्रासम्भवात् ; ‘तन्निष्ठस्य मोक्षोपदेशात्’(ब्र.सू. १.१.७) इतीक्षत्यधिकरणसूत्र एव तथा व्यवस्थितेः ‘अपपुनर्मुत्युञ्जयति’ इति वायुविज्ञानादपमृत्युञ्जयस्यैवोक्तत्वेन मृत्युञ्जयरूपामृतत्वप्राप्तेरनुक्तत्वाच्चेति चेत् – उच्यते – यद्यस्मिन् प्रकरणे ब्रह्मैव प्रतिपादनीयं नान्यत् कथं तर्हि ‘तदेव शुक्रं तद्ब्रह्म’ इति मन्त्रात् प्राक् ‘‘ऊर्ध्वमूलोऽवाक्छाख एषोऽश्वत्थस्सनातनः’(क. २.३.१) इति संसारवृक्षकीर्तनम् तन्मूलत्वेन ब्रह्मप्रतिपत्तौ तदङ्गमिति तद्वर्णनं न प्रकरणविरोधि इति चेत् , हन्त तर्हि मुख्यप्राणबाह्यवाय्वोरुक्तरूपेणोपासनमपि निर्विचिकित्सब्रह्मप्रतिपत्तौ प्रतिबन्धकादिनिवर्तकत्वेनाङ्गमिति तद्विधानमपि न प्रकरणविरोधीत्यवेहि । दृष्टं ह्युपकोसलविद्यायां ‘प्राणो ब्रह्म’ इत्युपासनाया अङ्गत्वम् । अवश्श्चायं मन्त्रोऽङ्गसर्पक इत्येव सिद्धान्तिनाऽप्युपपादनीयम् ; ‘‘अन्यत्र धर्मादन्यत्राधर्मात्’(क. १. २. १४) इति निर्विशेषस्य ब्रह्मणः पृष्टस्यैवोत्तरे प्रकरणित्वेन प्रतिपाद्यतयाऽस्य मन्त्रस्यैतत्पूर्वापरमन्त्राणाञ्चार्थस्य सविशेषब्रह्मधर्मस्य निर्विशेषप्रातिपत्त्यङ्गत्वोक्तिं विना सङ्गमयितुमशक्यत्वात् । एवमस्य मन्त्रस्य मुख्यप्राणायुपास्यपरत्वे सत्यनन्तरमन्त्रे श्रुतस्यास्येति पदस्य व्यवहितमन्त्रप्रकृतब्रह्मपरामर्शित्वं न विरुध्यते । यथा ‘ऊर्ध्वमूलः’ इति वाक्यस्य संसारवृक्षपरत्वे सति ‘तदेव शुक्रम्’ इत्यनन्तरमन्त्रश्रुतस्य तत्पदस्य प्रधानत्वेन प्रस्तुतं संसारवृक्षमपहाय तदुपसर्जनमूलपरामर्शित्वम् । ‘एजति’ इति च चेष्टत इत्यर्थपरं , न तु भयात् कम्पत इत्येतत्परम् ; अग्निसूर्येन्द्रादिदेववत् शासितुः परब्रह्मणस्सद्भावमजानानस्य मनुष्यपशुपक्षिसरीसृपस्थावरसहितस्य सर्वस्य जगतस्तच्छासनातिलङ्घनप्रयुक्तभयाभावात् । वज्रशब्दे च न लक्षणा प्रसज्यते ; अशन्याकारपरिणतस्यैव वायोरुपास्यत्वाङ्गीकारात् । यद्यपि वज्रशब्देन वज्रायुधमपि वक्तुं शक्यम् , तथाऽपि वायुविशेषरूपप्राणसमभिव्याहाराद्वायुविकार एवात्र वज्रशब्दार्थो गृह्यते । उपासकस्यामृतत्वफलकीर्तनमपि न विरुध्यते ‘औदुम्बरो यूपो भवति ऊर्ग्वा उदुम्बरः ऊर्जैवास्मा ऊर्जं पशूनाप्नोत्यूर्जोऽवरुध्यै’ इति पश्ववाप्तिफलकसोमापौष्णपश्वङ्गयूपप्रकृत्युदुम्बरताविध्यर्थवाद इव प्रधानफलानुवादोपपत्तेः । तस्मात्संवर्गविद्यायामिवोपास्यौ मुख्यप्राणबाह्यवायू कीर्त्येते । प्राणवज्रश्रुत्यनुसारात् तद्बाधकाभावाच्चेत्येवं प्राप्ते राद्धान्तमाह – ‘कम्पनात् ‘ । ‘शब्दादेव प्रमितः’ इति सूत्रतः शब्दादित्यनुवर्तते मण्डूकप्लुतिन्यायेन । तेन ‘यदिदं किञ्च’ इति मन्त्रे ब्रह्मैव प्राणशब्दात् प्रतीयत इति साध्यं लभ्यते । तत्र हेतुः कम्पनात् – सकलप्राणिजातस्पन्दनादित्यर्थः । यद्यपि तत्स्पन्दयितृत्वं मुख्यप्राणस्याप्यस्ति , तथापि निरपेक्षं तद्ब्रह्मण एव ‘‘न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ (क. २. २. ५) इति ‘प्राणस्य प्राणम्’(बृ. ४. ४. १८) इति च श्रुत्यन्तरात् । निरपेक्ष एव धर्मोऽन्तर्याम्यधिकरणन्यायेन ग्राह्यः । एवञ्चाप्रतिपन्नरूढितः प्रतिपन्नयोगो बलीयानिति पूर्वाधिकरणोक्तन्यायेन निरपेक्षसकलजगत्प्राणनव्यापारहेतुत्ववाचिना प्राणशब्देन ब्रह्मैव प्रतीयत इति साध्यं सिद्ध्यति । ततश्च ‘महद्भयं वज्रमुद्यतम्’ इत्यनेनाप्यभ्युद्यतं वज्रायुधमिव महद्भयं बिभेत्यस्मादिति व्युत्पत्त्या भयकारणमित्यनेन रूपेण ब्रह्मैवोच्यत इति सिद्धौ नोपासनविधानम् , उपासनस्य ब्रह्मप्रतिपत्त्यङ्गत्वनिर्वाहाय दुरितक्षयस्य द्वारत्वञ्च कल्पनीयमिति लाघवम् । सर्वशब्दे च न सङ्कोचशङ्का । प्रकरणञ्चैवमञ्जसा सङ्गच्छते , पूर्वापरमन्त्रसन्निधानञ्च । पूर्वमन्त्रे ‘तस्मिन् लोकाश्रितास्सर्वे’ इति ब्रह्मणः सकलजगदाश्रयत्वमात्रमुक्तम् । अस्मिन्मन्त्रे सकलजगज्जीवनहेतुत्वमुक्तम् । पुनश्चास्मिन्मन्त्रे ब्रह्मणो जगच्छासितुर्महाभयहेतुत्वमुक्तम् । उत्तरमन्त्रे जगच्छासितृत्वं ब्रह्मणोऽवगच्छतामग्न्यादिदेवानां ततो महता भयेन तच्छासने प्रवृत्तिरुक्तेति सर्वसामञ्जस्यात् सकलजगदेजयिता प्राणः परमात्मेति सिद्धम् । १. ३. ३९ । इति कम्पनाधिकरणम् । १० ।
ज्योतिर्दर्शनात् ॥ ४० ॥ 【भाष्यम्】 छान्दोग्ये प्रजापतिविद्यायां श्रूयते ‘एवमेवैष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः’(छा. ८. १२. ३) इति । किमत्रादित्यज्योतिर्विवक्षितमुत परं ब्रह्मेति ज्योतिश्शब्दपरशब्दाभ्यां संशये पूर्वपक्षः – आदित्य इह ज्योतिर्भवितुमर्हति । पूर्वस्मिन्दहरविद्याप्रकरणे ‘शतञ्चैका च हृदयस्य नाड्यस्तासां मूर्द्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति’(छा. ८. ६. ६) इत्युपासकानामूर्ध्वनाड्या शरीरात् समुत्थानस्य ‘स यावत् क्षिप्येन्मनस्तावदादित्यं गच्छति’(छा., ८. ६. ५) इति तदनन्तरमेवादित्यप्राप्तेश्च वर्णितत्वात् । इहापि शरीरात् समुत्थाय परं ज्योतिरुपसम्पद्येति शब्दाभ्यां तदर्थप्रत्यभिज्ञानात् । आदित्यज्योतिषश्च मार्गे प्रथमपर्वभूतार्चिर्ज्योतिरपेक्षया परत्वेन कथञ्चित् परशब्दोपपत्तेः । न च प्रथमश्रुतपरशब्दमुख्यताऽनुरोधेन ज्योतिश्शब्दो नेतुं युक्तः ; अस्माद्विषयवाक्यात् पूर्वस्मिन् ‘यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यन्ते’(छा. ८. १२. २) इत्युपमानवाक्ये ‘परं ज्योतिरुपसम्पद्य’ इत्यस्य प्रकृष्टादित्यतेजःप्राप्तिपरतया दृष्टत्वात् । तस्य ह्ययमर्थः – यथा एतानि वायुरभ्रं विद्युत्स्तनयित्नुरिति पूर्वप्रकृतानि प्रावृषि वर्षादिप्रयोजनानन्तरं स्थूलरूपं विहाय सूक्ष्मरूपेणाकाशे स्थितानि पुनः प्रावृडारम्भे किञ्चिदुच्छ्वसितानि भूत्वा ततस्समुत्थाय ग्रीष्मप्रवृद्धं सौरं तेजस्सहकारि प्राप्य स्वेन पुरोवातादिरूपेणाभिनिष्पद्यन्ते – इति । एवञ्चोपमेयभागेऽपि ‘परं ज्योतिरुपसम्पद्य’ इत्यस्य आदित्यज्योतिःप्राप्तिरेवार्थो वक्तव्यः । अन्यथा दहराधिकरणे दर्शितया रीत्या परं ब्रह्म साक्षात्कृत्येति तदर्थोक्तावुपमानोपमेयवैरूप्यप्रसङ्गात् । न च तस्य परं ब्रह्म प्राप्येत्येवार्थः । साक्षात्कारस्तु ‘अभिनिष्पद्यते’ इत्यनेन उच्यते – इति वाच्यम् । तथा सति ‘अभिनिष्पद्यते’ इति भागे उपमानवैरूप्यप्रसङ्गात् , ब्रह्मसाक्षात्कारानन्तरभाविन्यां ब्रह्मप्राप्तौ क्त्वाप्रत्ययेन तत्पूर्वभावित्वनिर्देशस्यानुपपन्नत्वाच्च । न च ‘मुखं व्यादाय स्वपिति’ इतिवत्तदुपपत्तिः । तत्र व्यादानोत्तरकालानुवृत्तस्वापापेक्षया व्यदानस्य पूर्वभावित्वात् , इह निर्विशेषब्रह्मप्राप्त्यनन्तरं साक्षात्कारानुवृत्त्यभावात् । एतेन – ‘उपसम्पद्य’ ‘अभिनिष्पद्यते’ इति द्वाभ्यामपि शब्दाभ्यां ब्रह्मप्राप्तिरेवोच्यते – इत्यपि निरस्तम् । तथा सत्यभेदेन क्त्वाप्रत्ययबोध्यपौर्वापर्यस्य सुतरामभावात् । किञ्च ‘शरीरात् समुत्थाय’ इत्यस्य शरीराद्विवेकज्ञानमर्थ इति दहराधिकरणोक्तार्थस्वीकारे तत्राप्युपमानभागवैरूप्यं स्यादिति तत्परिहाराय शरीरादूर्ध्वदेशाक्रमणमेव तदर्थो वाच्यः । अतस्तदनुसारेणापि ‘परं ज्योतिरुपसम्पद्य’ इत्यस्य आदित्यप्राप्तिरर्थो ग्राह्यः ; तस्य परशब्दादपि प्रथमश्रुतत्वात् । एवञ्च समुत्थानज्योतिरुपसम्पत्तिश्रुतीनामनुग्रहोऽपि लभ्यते । तस्मादुपमानभागसारूप्यश्रुतित्रयानुग्रहानुरोधेन युक्तं परशब्दस्य कथञ्चिदर्थवर्णनम् । स्यादेतत् – प्रजापतिवाक्यं जीवस्य ब्रह्मभावप्रतिपादनपरं नोपासनाविधिपरमिति दर्शितं दहराधिकरणे । तत्र कः प्रसङ्गस्सगुणविद्याफलप्राप्त्युपायमार्गपर्वभूतादित्यप्राप्तिवर्णनस्य न च प्रकरणात् समुत्थानादिश्रुतयो बलीयस्य इति वाच्यम् । श्रुतीनां स्वार्थपरत्वे निष्फलत्वप्रसङ्गात् । न हि निर्गुणविद्याप्रकरणे तस्यास्त्युपयोगः । नापि पञ्चाग्निविद्यादिगते विस्पष्टेऽर्चिरादिमार्गोपदेशे जाग्रति तदेकदेशपर्वभूतादित्यमात्रकीर्तनमत्रत्यं कयाचन सगुणविद्यथाऽपेक्ष्यते , यस्यामस्य पौष्णयागे पूषानुमन्त्रणमन्त्रस्येव उत्कर्षः स्यात् । तस्मात् ‘आनर्थक्यप्रतिहतानां विपरीतं बलाबलम्’ इति न्यायेन श्रुतित्रयादप्यद्वैतब्रह्मप्रकरणं बलवदिति चेत् ; स्यादेतदेवं यदि प्रजापतिवाक्यं जीवस्य ब्रह्मभावप्रतिपादकं स्यात् । तदेवासिद्धम् ; तस्य सगुणब्रह्मोपासनाविधिपरत्वात् । तथा हि – तत्र ‘य आत्मा’ इत्यादिप्रथमवाक्यं तावत् सगुणब्रह्मपरं , न जीवपरं ‘एष आत्माऽपहतपाप्मा’ इत्यादिदहरवाक्यार्थानुवादरूपत्वात् । अक्षिवाक्यमपि तथा ; उपकोसलविद्योपास्यप्रत्यभिज्ञानात् । एवं च स्वप्नसुषुप्तिवाक्यद्वयमपि तथैव । ननु स्वप्नसुषुप्तिसम्बन्धलिङ्गाज्जीवपरत्वं तयोर्युक्तम् । दहरविद्याप्रकरणे ‘तद्यत्रतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति’(छा. ८. ६. ३) इति जीवपरत्वेन निर्णीतं यत् सुषुप्तिवाक्यं तदेवात्रापि श्रूयत इति तत्प्रत्यभिज्ञानादपि जीवपरत्वं युक्तमिति चेत् । मैवम् । प्रतिपर्यायमुपक्रमे ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि’(छा. ८. ११. ३) इति प्रतिज्ञायोपसंहारे अमृतत्वाभयत्वलिङ्गब्रह्मश्रुतीनां श्रवणेन च बह्वनुग्रहन्यायानुरोधेन जीवलिङ्गयोः कथञ्चिन्नेतव्यत्वात् । अस्ति हि ब्रह्मणोऽपि स्वप्नसम्बन्धः ‘स्वप्ने न शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति’(बृ. ४. ३.११) इति श्रुत्यन्तरप्रसिद्धः । स एवात्र ग्राह्यः । एवञ्च महीयमानत्वलिङ्गमप्याञ्जस्यं लभते । सुषुप्तिवाक्यं तु यत्र यस्मिन्नाधारे समस्तोऽपि जन्तुस्सुषुप्तो भवतीति सुषुप्ताधारब्रह्मपरतया नेतव्यम् । नन्वेवं सति स्वप्नपर्यायोपदेशानन्तरं स्वप्नावस्थजीवस्य भयशोकादिदर्शनादपहतपाप्मत्वादिधर्मकामृताभयब्रह्मभावोऽनुपपन्न इति शङ्का सुषुप्तिपर्यायोपदेशानन्तरं सुषुप्तस्य जीवस्यापि नष्टप्रायत्वादुक्तरूपब्रह्मभावोऽनुपपन्न इति चेन्द्रकृता शङ्का निरवकाशा स्यादिति चेत् ; नैष दोषः । यथाऽक्षिपर्याये छायापुरुष उपदिष्ट इतीन्द्रविरोचनयोर्भ्रान्तिः , यथा च प्रतिबिम्बावेक्षणे विरोचनस्य देह उपदिष्ट इति भ्रान्तिः , तथा स्वप्नसुषप्तिपर्याययोर्जीव उपदिष्ट इतीन्द्रस्य भ्रान्तिरिति कल्पनोपपत्तेः । अत एव ‘एतन्त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्’ इति प्रतिज्ञापूर्वकमुपक्रान्ते चतुर्थपर्याये जीवस्य ब्रह्मभाव उपदिष्ट इति इन्द्रभ्रान्तिवारणायैव ‘तं वा एतं देवा आत्मानमुपासते’(छा.८.१२.६) इति सगुणोपासनं तत्फलञ्च जक्षणक्रीडादिकमुपवर्णितम् । न च जक्षणादिकं दहराधिकरणोक्तरीत्या कथञ्चिन्नेतुं युक्तम् । सुषुप्तिपर्यायोपदेशानन्तरं ‘नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति । नाहमत्र भोग्यं पश्यामि’(छा. ८.११.२) इत्युक्तवतः स्वात्मानं भूतानि चाविजानन्तं सुषुप्तं जीवं विनष्टप्रायमपुरुषार्थं च मन्यमानस्येन्द्रस्य सविशेषफलमनिष्टं मत्वा ‘एवमेवैष मघवन्’ इत्युक्तवता ‘सर्वांश्च लोकनाप्नोति सर्वांश्च कामान्’(छा. ८.१२. ६) इति स्वोक्तफलाभिलाषेणेन्द्रः समागत इत्यवगच्छता च प्रजापतिना सविशेषफलस्यैव वक्तव्यत्वात् सकललोककामावाप्तिफलस्य उपक्रमोपसंहारयोः श्रुतत्वेन तत्र तात्पर्यावगमाच्च । तस्मादत्रादित्य एव ज्योतिः । एवं प्राप्ते राद्धान्तः । ज्योतिरिह परं ब्रह्म ; ब्रह्मणो वक्तव्यत्वेनात्र प्रकरणेऽनुवृत्तिदर्शनात् । इह हि ‘य आत्माऽपहतपाप्मा’(छा. ८. ७. १) इत्यादि ‘यस्तमात्मानमनुविद्य विजानाति’(छा. ८.७. १) इत्यन्तं प्रजापतिवचनं जगति प्रसिद्धमाकर्ण्यान्वेष्टव्यात्मरूपविजिज्ञासयोपसेदिवद्भ्यां द्वात्रिशतं वर्षाणि कृतशुश्रूषणाभ्यामिन्द्रविरोचनाभ्यां प्रजापतिरक्षिवाक्येनात्मानमुपदिश्य च्छायापुरुष आत्मेत्युपदिष्ट इति भ्रान्त्या स्वगृहीतार्थदृढीकरणाय जलादर्शादिप्रतिबिम्बोऽप्यक्षिप्रतिबिम्बाभिन्नात्मैव उत तद्भिन्नोऽनात्मेत्यभिप्रायेण ‘अथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एषः’(छा., ८ , ७. ४) इति ताभ्यां पृष्टे ‘एष उ एवैषु सर्वेष्वन्तेषु परिख्यायते’(छा. ८. ७. ४) इत्यनेन ताभ्यां गृहीतमर्थं मनसि निधाय बिम्बाभिन्नः प्रतिबिंबः प्रत्युपाधि न भिद्यत इति वा स्वोपदिष्टमर्थं मनसि निधाय यश्चक्षुषि द्रष्टा मयोक्तः स सर्वान्तरो जलादिष्वपि न भिद्यत इति चोत्तरं ददौ । तस्यायमभिप्राय: – सुरासुरेन्द्राविन्द्रविरोचनौ स्वात्मन्यध्यारोपितपाण्डित्यमहत्वातिशयौ तथैव जगति प्रसिद्धौ च तद्यदि युवां भ्रान्ताविति ब्रूयां तदा चित्तावसादात्पुनः प्रश्नग्रहणावधारणेषु भग्नोत्साहौ स्याताम् । अतो यथाश्रुतप्रश्नमात्रस्योत्तरमिदानीं वक्तव्यं तेनाक्षिप्रतिबिंबाभिन्नो जलादिप्रतिबिम्बो ह्यात्मेत्यत्र तात्पर्यमिति तत्तात्पर्यभ्रमेण प्रागुत्पन्नः प्रतिबिम्ब आत्मेत्युपदिष्ट इति तयोर्भ्रमो दृढीभवन्नुपायेन केनचिदपनेतव्य इति । तद्भ्रमापनयार्थमेव तदनन्तरं ‘उदशराव आत्मानमवेक्षताम्’ इति तौ नियुज्य द्वात्रिंशद्वर्षब्रह्मचर्यदीर्घीभूतनखरोमादियुक्तच्छायापुरुषदर्शनानन्तरं ‘साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वा पुनरात्मानमुदशरावे पश्यतम्’ इति न्ययोजयत् । तत्रैवं प्रजापतेरभिसंधिः – आगमापाय्यव्यवस्थितदेहानुकारिगुणदोषवत्त्वाद्देह इव तत्प्रतिबिंबोप्यनात्मेति जानीतामिति । एवं सत्यपि तावनिवृत्तभ्रमौ ‘किं पश्यथ’ इति प्रजापतिना पृष्टावपि यथादृष्टं कथयित्वा तूष्णीं बभूवतुः । ततः प्रजापतिभ्रान्तिनिवारणार्थं मया कृतस्य द्विविधप्रतिबिंबदर्शनस्याभिप्रायमिमावप्रक्षीणकल्मषत्वान्नावगच्छतः , प्रत्यक्षं च युवां भ्रान्ताविति वक्तुर्हो न भवतस्तदिदानीमेतदीयहृदयानुरोधेन प्रतिबिंबमेव निर्दिश्य सर्वान्तरं परमात्मानं मनसि निधाय ‘एष आत्मा’ इत्युपदेशनैतयोराकांक्षां निवर्तयिष्यामि ; कालेन कल्मषे प्रक्षीणे मद्वचनसंदर्भस्य सर्वस्याप्यभिप्रायं स्वयमेवावगमिष्यतः , विचिकित्समानौ वा मत्समीपमागमिष्यतः इति मत्वोवाच ‘एष आत्मा एतदमृतमभयमेतद्ब्रह्म’ इति । ततश्चेन्द्रविरोचनयोर्निवृत्ताकांक्षतया प्रतिनिवृत्तयोः प्रजापतिर्भ्रान्तिगृहीतार्थश्रद्धयाऽपि नष्टौ माभूतामिदमपि मम वचनं ‘य आत्मा’ इत्यादिवचनवत्कर्णाकर्णिकया श्रुणुतामित्यभिसंधायोवाच ‘अनुपलभ्यात्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वा असुरा वा ते पराभविष्यन्ति’(छा.८.८.४) इति । तयोर्विरोचनः प्राजापत्यस्य द्विविधदेहच्छायादर्शननियोगस्य देहानुकारित्वाच्छायाया देह आत्मेति सूचने तात्पर्यमलंकृतदेहच्छायां निर्दिश्यैष आत्मेत्युपदेशस्य नीलानीलयोरादर्शे दृश्यमानयोर्वाससोर्यन्नीलं तन्मम महार्हमिति वचनस्य छायानिमित्ते बिंबवाससी वालंकृते देहे तात्पर्यमिति मन्वानो देह एवात्माऽलङ्कारादिभिः परिचरणीय इति निश्चित्य राज्यं प्राप्यासुरेभ्यस्तथैवोपदेष्टुमुपचक्रमे । असुराश्च तदुपदेशं श्रद्दधाना देहपरिचर्यायामेव प्रववृतिरे । इन्द्रस्तु तावत्कल्मषरहिततया देहस्य छाया यथा देहगुणालंकृतत्वादीननुविधत्ते एवं तद्दोषानप्यान्ध्यस्रामच्छेदविनाशादीनिति तत्रात्मलक्षणविरहममृताभयब्रह्मभावानुपपत्तिच्चानुसंदधानोऽक्षिवाक्यस्य प्रतिबिम्बं निर्दिश्य ‘एष आत्मा’ इति वचनस्य च तात्पर्यं जिज्ञासमानो मार्गात्प्रतिनिवृत्य पुनः प्रजापतिमुपससाद । प्रजापतिः ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिंशतं वर्षाणि’(छा. ८. ९. ३) इत्युक्त्वा तावत्कालमुषितवते तस्मै स्थूलशरीरदोषाननुविधायिनं स्वप्नावस्थं जीवमात्मानमुपदिदेश । इन्द्रस्तत्रापि हन्यमानत्वद्राव्यमाणत्वबन्धनमरणाद्यप्रियद्रष्टृत्वरोदितृत्वादिप्रतिभासेन दोषं पश्यनुक्तार्थानुपपत्तिमनुसन्दधानः प्रजापतिं पुनरुपससाद । प्रजापतिः पूर्ववदुक्त्वा तथैव पुनरपि द्वात्रिंशतं वर्षाण्युषितवते तस्मै स्वप्नावस्थादिप्रतिभासप्रयुक्तभयशोकरहितं सुषुप्तावस्थं जीवमात्मानमुपदिदेश । इन्द्रस्तस्मिन्विशेषविज्ञानरहिते विनष्टप्रायत्वेनापुरुषार्थतां मन्यमानः प्रागुक्तार्थानुपपत्त्यनुसंधानेन पुनरपि प्रजापतिमुपससाद । ‘प्रजापतिः एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि पञ्च वर्षाणि’(छा. ८.११. ३) इत्युक्त्वा तावत्कालमुषितवते एकशतवर्षब्रह्मचर्यवासेन सम्यक्प्रक्षीणकल्मषायेन्द्राय पूर्वपर्यायानपि सङ्गमयन्नुपदेष्टुमुपचक्रमे – ‘मघवन्मर्त्यं वा इदं शरीरमाप्तं मृत्युना’(छा. ८. १२. १) इत्यादिना प्रथमपर्याये प्रतिबिम्ब उपदिष्ट इति संजातेन्द्रस्य भ्रान्तिः द्वितीयतृतीयपर्याययोः स्वप्नसुषुप्त्यवस्थोपन्यासलिङ्गेन , प्रथमपर्यायेऽपि ‘अक्ष्णि दृश्यते’ इत्यनेन दर्शनलिङ्गादक्ष्णि सन्निहितोऽनुमीयत इत्यर्थकेन जागरावस्थो जीव उपदिष्ट इत्यवगत्या निवर्तितैव । किन्तु स्वप्नावस्थजीवे भयशोकादिमत्त्वदोषं पश्यत इन्द्रस्य तत्रापि तद्दोषदर्शनं स्यादिति मन्यमानः प्रजापतिः स्वप्नजागरयोर्जीवो भयशोकादिमानिति तद्भ्रान्तिवारणं तावत्करोति – इदं शरीरं स्थूलसूक्ष्मदेहद्वयं मरणधर्मकं मृत्युना रागद्वेषशोकभयाद्यनर्थजातेन आस्कंदितमिति । तेन जीवस्य साक्षात्संबन्धेन संसारदोषवत्त्वं व्यावर्तितम् । ‘तदस्यामृतस्याशरीरस्यात्मनो अधिष्ठानम्’(छा. ८. १२. १) इत्यत्राशरीरस्येति विशेषणेन कर्दमलिप्तस्य वस्त्रस्य कर्दमकायेन कार्ष्ण्यदोषवत्वमिव परसेनाविजितसैन्यस्य राज्ञः विजितदोषवत्वमिव च देहद्वये संसारदोषाश्रये सति तद्वारकपरंपरासम्बन्धेन तत्स्वामित्वेन वा जीवस्यापि प्रसक्तं संसारदोषवत्त्वं व्यावर्तितम् । एवञ्च जीवस्य शरीरेण वस्तुतः कोऽपि संबन्धो नास्तीति तस्य तदीयैर्जरामरणशोकभयादिदोषैस्तद्वत्त्वानुभवो ‘लोहितः स्फटिकः’ इत्यनुभव इवाध्यासरूप इति परिशेषाद्धर्शितं भवति । कथं जीवस्य शरीरसम्बन्धाभावः ‘मम देहः’ ‘मम मनः’ इत्याद्यनुभवदर्शनादित्याशंक्य तस्याध्यासपरिनिष्पन्नं विषयं दर्शयितुमात्मनोऽधिष्ठानमिति शरीरं विशेषितम् । अशरीरस्य सतः सशरीरत्वोक्त्या हि तस्य सशरीरत्वमध्यासनिष्पन्नं लोकानुभवगोचर इति दर्शितं भवति ; अशरीरत्वेन विरोधिना सशरीरत्वोपमर्दावश्यम्भावात् । न च – अंगुष्ठाधिकरणन्यायादिह विधेयेन सशरीरत्वेनैवाशरीरत्वोपमर्दः स्यादिति – वाच्यम् । लोकसिद्धस्य सशरीरत्वस्य विध्यनर्हतया तदनूद्य तदुपमर्देनाशरीरत्वविधाने तात्पर्योन्नयनात् । एवं ‘‘अशरीरं शरीरेषु अनवस्थेष्वस्थितम्’(क. १. २. २१) इति श्रुतेरपि तात्पर्य द्रष्टव्यम् । न च श्रुतिद्वयेऽप्यशरीरमिति शरीरान्यत्वमुच्यत इति वाच्यम् । अस्यां श्रुतावात्मनः शरीराधिष्ठातृत्वस्याशरीरमिति श्रुतावेकस्यात्मनोऽनेकशरीरानुस्यूतत्वस्य च कथनेन तस्य शरीरान्यत्वसिद्धेः । एवं जरामरणभयशोकादयः शरीरद्वयस्य धर्माः ; न जीवस्य , शरीरद्वयसम्बन्धश्च जीवस्याध्यासकृतो न स्वाभाविक इति प्रदर्शनेन जीवस्य साक्षाद्धर्मधर्मिभावसम्बन्धेन , शरीरद्वयद्वारकपरम्परासम्बन्धेन वा स्वस्वामिभावसम्बन्धेन वा जरामरणभयशोकादिमत्त्वं नास्तीति स्वप्नजागरयोस्तस्यामृताभयब्रह्मभावानुपपत्तिर्निरस्ता । अथ सुषुप्तौ तस्य तदनुपपत्तिशङ्कानिरासार्थं सशरीरत्वं संसारदोषनिदानमशरीरत्वं तद्विरोधीति दर्शयति – ‘आर्तो वै सशरीरः प्रियाप्रियाभ्यां , न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति ; अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’(छा. ८. १२. १) इति । अशरीरत्वादेव संसारदोषराहित्यं वायोरभ्रविद्युत्स्तनयित्नूनाञ्चेत्युदाहरणप्रदर्शनरूपेणार्थवादेनाशरीरत्वस्य संसारदोषविरोधित्वं दृढीकरोति ‘अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरित्येतानि’(छा. ८. १२. २) इति । एतेन – सशरीरो भूत्वा स्वात्मनो भूतानाञ्चानुभवेन यत् प्रियं लभते स एव पुरुषार्थस्तद्रहितोपि नष्टप्रायः सुषुप्तजीवस्त्वपुरुषार्थ इतीन्द्रस्य भ्रान्तिस्तस्य प्रियस्याप्रियसंपृक्तस्वभावतया हेयत्वप्रदर्शनेन – निरस्ता । एवञ्च पूर्वं तत्र तत्रामृतशब्देन यद्भूमाख्यं निरतिशयसुखरूपमुक्तं तदेव सकलानर्थाध्यासनिवृत्तावाविर्भूतं परमपुरुषार्थ इत्युक्तं भवति । तस्येदानीमध्यासतिरोहितस्य कथमाविर्भाव इत्याकांक्षायां तत्प्रकारः सदृष्टान्त उच्यते – ‘यथैतान्यमुष्मादाकाशात्’(छा. ८. १२. २) इत्यादिना ‘स उत्तमः पुरुषः’(छा. ८. १२. ३) इत्यन्तेन । अत्र शरीरात्समुत्थानं न शरीरादूर्ध्वमुत्क्रमणम् , किन्तु शरीरादात्मनो विवेकः ; लोकदृष्ट्या सशरीरस्यापि ज्ञानिनो विवेकज्ञानोपनेयं यदशरीरत्वं तस्यैव संसारविरोधितया प्राक् प्रस्तुतत्वात् । नचोपमानवैरूप्यदोषः ; आकाशात्समुत्थानस्यापि ततो विवेकरूपत्वात् ; पुरोवातादिस्थूलरूपं विहाय सौक्ष्म्येणाकाशसाम्यं प्राप्ता हि वाय्वभ्रविद्युत्स्तनयित्नवः स्वर्गादवरोहन्तो जीवा वाय्वभ्रमेघव्रीहियवादिकादिव आकाशाद्विविच्य ग्रहीतुमशक्यतया स्थिताः पुनः प्रावृडारम्भे किश्चिदुछ्वसनेन ततो विविक्ता भवन्ति । किञ्च समुत्थानस्योपमानोपमेययोर्भिन्नभिन्नरूपत्वेऽपि न दोषः । समानधर्मिनिर्देशस्य तत्तद्योग्यमुख्यगौणार्थभेदपर्यवसानेऽपि शब्दैक्यमात्रेणोपमानिर्वाहस्य ‘पङ्कजैरिव कुमारमीक्षणैर्विस्मयेन विकचैर्ववुर्जनाः’ इत्यादिकाव्येषु प्रचुरतरमुपलम्भात् , वेदेऽपि ‘यथा वै श्येनो निपत्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते’ इत्यादौ दर्शनाच्च । न हि निपत्य मत्स्याद्यादानं श्येनपक्षिण उपमानस्येव निपत्य भ्रातृव्यादानं श्येनाख्यस्य यागस्योपमेयस्य मुव्यं सम्भवति । एवञ्च ‘परं ज्योतिरुपसम्पद्य’ इत्यनेन देहद्वयतद्धर्मास्पृष्टशुद्धजीवविषयविवेकज्ञानात्मकत्वंपदार्थपरिशोधनानन्तरभाविजीवस्वरूपभूतपरब्रह्मसाक्षात्कार एवं प्रकरणानुराधेन वक्तव्यः । प्राप्तिवाचकस्यापि शब्दस्य ‘गुरोरयमर्थः प्राप्तः’ इति ज्ञाने प्रयोगदर्शनात् विशिष्य च वेदान्तमूले ब्रह्मज्ञाने तथाभूतस्योपनिषच्छब्दस्य प्रयोगदर्शनात् । ‘स्वेन रूपेणाभिनिष्पद्यते’ इत्युक्त्तस्वरूपाभिनिष्पत्तिस्तु उक्तरूपसाक्षात्कारनिवर्तितसकलानर्थजातस्यापेतजीवभावस्य जीवस्य निरतिशयसुखात्मकपरब्रह्मभावेनावस्थानमिति । नन्वनया रीत्या यदि प्रजापतिवाक्यजातं जीवस्य ब्रह्मभावप्रतिपादकं स्यात्तदा ज्योतिरिह परं ब्रह्म स्यादेव ; न त्वेवम् ; तस्य सगुणब्रह्मोपासनाविधिपरत्वस्य उक्तत्वात् , इति चेत् ; सत्यमुक्तम् । दुरुक्तं तु तत् । तथासति स्वप्नसुषुप्तिपर्याययोर्भयशोकविनष्टकल्पत्वदोषोद्धाटनमनुपपन्नं स्यात् । न चेन्द्रस्य तत्तदवस्थापन्नो जीव उपदिष्ट इति भ्रान्तिः कल्पनीया । तथात्वे तद्भ्रान्तिवारणोपयोगिन एव चतुर्थपर्याये प्रजापतिना उपदेष्टव्यत्वापत्तेः । न तु तदुपदिष्टम् ; किन्तु तस्यैव जीवस्यामृताभयब्रह्मभावानुपपत्तिशङ्कावारणोपयोगिनो मरणशोकभयादीनां देहद्वयधर्मत्वं तस्य देहद्वयसम्बन्धराहित्यं तत्सम्बंधाध्यासाधीनप्रियाप्रियकरंबितत्वेन हेयत्वं स्वरूपसुखस्यैव परमपुरुषार्थत्वञ्च उपदिष्टम् । न च ‘एष उ एव एषु सर्वेष्वन्तेषु परिख्यायते’(छा. ८. ७.४) इति वचनवत्प्रतिबिंबं निर्दिश्य ‘एष आत्मा’ इति वचनवच्च शिष्यभ्रान्तिमनुद्घाट्य किञ्चिदन्यन्मनसि निधाय वचनमिति योजयितुं शक्यम् । शोकभयादीनामात्मधर्मत्वमिति भ्रान्तेः , विषयभोगानामेव पुरुषार्थत्वमिति भ्रान्तेश्च निवर्तनेन जागरस्वप्नसुषुप्तिषु जीवस्यामृताभयब्रह्मभावोपपादनात् । एवमपि कथञ्चिदन्यथा नीयेत यदि पूर्वं भ्रान्तिगृहीतमेवार्थं दृढीकृत्य निवृत्तयोरिन्द्रविरोचनयोः ‘अनुपलभ्यात्मानमननुविद्य व्रजतः’(छा. ८. ८. ४) इति प्रजापतिवचनमिव विरोचनकृतभ्रान्तिगृहीतदेहात्मवादप्रवर्तनोक्त्यनन्तरं ‘अश्रद्दधानमयजमानमाहुरासुरो बतेत्यसुराणां ह्येषोपनिषत्’(छा. ८. ८. ५) इति तन्निन्दावचनमिव इन्द्रस्य विचिकित्सया पुनर्गुरूपसदनवचनमिव चाग्रे किञ्चिदेतदपवादकं श्रूयेत । तस्मात् ‘हेयत्वावचनात्’ इति सूत्रोक्तन्यायेन स्वप्नसुषुप्तिपर्याययोर्जीवस्य ब्रह्मभावप्रतिपादनपरत्वं विफलमित्यक्षिवाक्यस्याप्युपकोसलविद्यावाक्यप्रत्यभिज्ञामविगणय्य तदेकवाक्यतासंरक्षणाय जागरावस्थोपलक्षितस्य जीवस्य ब्रह्मभावप्रतिपादने तात्पर्यमङ्गीकर्तव्यम् । यद्यपि ‘य आत्माऽपहतपाप्मा’ इत्यादिप्रथमवाक्यं दहरविद्योपास्यसगुणब्रह्मपरमेव ; तत्पदेन प्रकृतस्य तस्यानुवादात् , छांदोग्यभाष्ये ‘यस्योपासनाय हृदयपुण्डरीकमभिहितं यस्मिन्कामाः समाहिताः सत्या अनृतापिधानाः यदुपासनसहभावि ब्रह्मचर्यं साधनमुक्तं यदुपासनफलभूतकामप्राप्तये च मूर्धन्यनाड्या गतिरभिहिता’ इति तस्य यत्पदस्य प्रकृतदहरविद्योपास्यपरमेश्वरपरतया व्याख्यातत्वाच्च , तथापि परमेश्ववभावोपलक्षितब्रह्मभाव एव जीवस्य ‘तत्त्वमसि’ वाक्यैरिवाक्षिवाक्यादिभिरुपदिश्यत इति किमनुपपन्नम् नन्वेवं सति प्रजापतिविद्यायां जीवस्यापहतपाप्मत्वादिगुणाष्टकं क्वचिदपि नोच्यत इति आयातम् ; ‘य आत्मा’ इत्यादेः परमेश्वरपरत्वात् ‘एष आत्मेति होवाच’ इत्यस्य गुणवैशिष्ट्यांशमपोह्य प्रकृतपरमेश्वररूपात्मस्वरूपाभेदमात्रबोधनपरत्वात् । एवञ्च कथं ‘उत्तराच्चेदाविर्भूतस्वरूपस्तु’(ब्र. सू. १. ३. १९) इति सूत्रे जीवस्यापि प्रजापतिवाक्यावगतमपहतपाप्मत्वादिगुणाष्टकमस्तीति शङ्का कृता न च वाच्यम् – ‘स्वेन रूपेणाभिनिष्पद्यते’ इत्यत्र जीवस्यापहतपाप्मत्वादिरूपेणाविर्भाव उच्यत इति तदवलंबना शङ्का ; अत एवाविर्भूतस्वरूपस्यापेतजीवभावस्योच्यमानमपहतपाप्मत्वादिकं ब्रह्मण एव न जीवस्येति न तस्य ब्रह्मलिङ्गतानुपपत्तिरिति परिहारोऽपि सङ्गच्छते इति । यतो जीवस्य यत्स्वरूपं प्रागुक्तं तेन रूपेणाविर्भावस्तत्रोच्यते । न च गुणाष्टकं जीवरूपत्वेन प्रागुक्तं , किन्तु निरतिशयानन्दरूपनिरस्तानर्थव्रातशुद्धब्रह्मभाव एव तद्रूपत्वेनोक्तः । किञ्च ‘स्वेन रूपेण’ इत्यत्र स्वशब्द आत्मपरः न त्वात्मीयपर इति ‘सम्पद्याविर्भावस्स्वेन शब्दात्’(ब्र. सू. ४. ४. १) इत्यधिकरणे निर्णेष्यते । न च सत्यकामत्वं सत्यसङ्कल्पत्वञ्च जीवस्य स्वात्मकं रूपम् ; कामशब्दोदितानां कामनाविषयसृज्यपदार्थानां सङ्कल्पशब्दोदितस्य तत्सृष्टिहेतुमायावृत्तिविशेषस्य वस्तुस्वरूपबहिर्भूतत्वादिति चेत् – उच्यते – दहराधिकरणे दहरविद्योपास्यो जीव इति पूर्वपक्षदशायां सा शङ्का कृता । न च तस्यां दशायां ‘य आत्माऽपहतपाप्मा’ इत्यादेः पुरोवादानुसारेण विषयो निर्णेतुं शक्यत इत्यक्षिपर्यायादिवाक्यशेषानुसारेण तस्य जीवो विषय इत्याश्रित्य सा शङ्का कृता । परिहारोऽपि पूर्वपक्ष्याशयमभ्युपगम्य जीवस्य गुणाष्टकमुच्यतां नाम , तथापि तत्तस्य जैवेन रूपेण नोच्यते , किन्तु मुक्तिप्राप्येण ब्राह्मेण रूपेणति न गुणाष्टकस्य ब्रह्मलिङ्गत्वानुपपत्तिरिति वर्णितः । अत एव ‘उत्तराच्चेत्’ इति सूत्रे परिहारभाष्यं ‘स्वेन रूपेणाभिनिष्पद्यते’ इति यदस्य पारमार्थिकं स्वरूपं परं ब्रह्म तद्रूपतयेनं जीवं व्याचष्टे , न जैवेन रूपेण । यत् तत्परं ज्योतिरुपसम्पत्तव्यं श्रुतं तत् परं ब्रह्म । तच्चापहतपाप्मत्वादिधर्मकम् । तदेव च जीवस्य पारमार्थिकं स्वरूपं ‘तत्त्वमसि’ इत्यादिशास्त्रेभ्यः , नेतरदुपाधिकल्पितमिति । वस्तुतस्त्वेवमत्र वक्तुं शक्यम् – दहरविद्यायामसंकुचितमतिरोहितञ्चोपास्यगतं सत्यकामत्वादिकमङ्गीकरणीयम् ; सङ्कोचे तिरोधाने च मानाभावात् । तत्तु जीवस्य कथमपि न सम्भवतीति तत एव दहरविद्योपास्य ईश्वरः । स एव च ‘य आत्मा’ इत्यादिप्रजापतिवाक्येनानुवाद्यः । तद्रूपत्वं च जीवस्य ‘एष आत्मा’ इति वाक्येन ‘तत्त्वमसि’ वाक्येनेव गुणवैशिष्ट्यांशमपोह्यैव प्रतिपाद्यते । ‘स्वेन रूपेणाभिनिष्पद्यते’ इत्यत्र च जीवस्य यत् स्वात्मकं रूपं प्रागुक्तममृताभयब्रह्मभावरूपं तेनाविर्भाव उच्यते , न तु स्वरूपबहिर्भूतेन गुणाष्टकेनेति प्रजापतिविद्यायां न केनापि वाक्येन जीवस्य गुणाष्टकसिद्धिरिति । सूत्रे परिहारांशोऽप्येवमेव योजयितुं शक्यः – ‘स्वेन रूपेणाभिनिष्पद्यते’ इत्यत्र जीव आविर्भूतामृताभयब्रह्मस्वरूप एवोच्यते , न त्वाविर्भूतस्वरूपबहिर्भूतगुणाष्टक इति । तुशब्देन च ‘य आत्मा’ इत्यादिप्रथमवाक्येन ‘एष आत्मा’ इति वाक्येन च जीवस्य गुणाष्टकसिद्धिशङ्का व्यावर्तनीया । परिहारभाष्यमप्येवमेव योजयितुं शक्यम् । तच्चापहतपाप्मत्वादिधर्मकं तद्ब्रह्म दहरविद्योपास्यपरमेश्वररूपमपहतपाप्मत्वादिधर्मकं तदेव च गुणवैशिष्ट्यांशमपोह्य परमेश्वरस्वरूपमात्रमेव जीवस्य पारमार्थिकस्वरूपम् ; ‘तत्त्वमसि’ इत्यादिभागत्यागलक्षणायुक्तस्वरूपमात्राभेदबोधकशास्त्रेभ्यः , नेतरत्सत्यकामत्वादिकमुपाधिकल्पितमिति । एवं सति प्रजापतिविद्यायां दहरविद्योपास्यगुणाष्टकमपरामर्शो न ब्रह्मण्युपासनार्थः ; तस्यामुपासनाविध्यनङ्गीकारात् । न तस्मिन्नवगत्यर्थः ; मुक्त्यर्थतया निरूपणीयायास्तदवगतेः शुद्धब्रह्मविषयत्वाङ्गीकारात् । जीवे मुक्तावाविर्भविष्यत्तया तद्बोधनार्थोऽपि न भवति चेद्वैय्यर्थ्यमेव प्राप्तम् । ‘तत्त्वमसि’ इत्युपदेशस्थले ब्रह्मणो जगदुपादानत्वादिवर्णनस्याध्यारोपापवादन्यायेन निष्प्रपञ्चत्वबोधनार्थतयेवात्र प्रकारान्तरेण सार्थकत्वोपपादनायोगादित्याशङ्कापरिहारार्थत्वेनापि ‘अन्यार्थश्च परामर्शः’(ब्र. सू. १. ३. २०) इति ‘उत्तराच्चेत्’ इति सूत्रानन्तरसूत्रं योजनीयम् । मुक्त्यर्थं ब्रह्मणि गुणवैशिष्ट्यांशमपोह्यावगन्तव्येपि तदीयगुणाष्टकपरामर्शः प्रवृत्तिरुच्युत्पादनार्थः । अस्यां निर्गुणविद्यायां प्रवर्तनीया हि देवादयः प्रायेण भोगासक्ता निरन्तरायं भोगं परमपुरुषार्थं मन्यमानास्तदनुगुणमेव साधनमपेक्षन्ते । अतोऽन्वेष्टव्यस्यात्मनो जरामरणादिराहित्ये सत्यकामसत्यसङ्कल्पत्वे च वर्णिते सति तदन्वेषणादेस्तदनुगुणसाधनत्वभ्रान्त्या तज्जिज्ञासया मामुपैष्यन्ति । तेषां यथावद्रूपसदनेन चिरकालब्रह्मचर्यवासेन च भोगलिप्सापादके कल्मषे प्रक्षीणे तत्त्वमुपदेक्ष्यामि इत्याशयवतः प्रजापतेरयं गुडजिह्वाकान्यायेन ब्राह्मगुणाष्टकपरामर्श इति । एवमेव हि सुषुप्तपर्याये जीवं विषयभोगराहित्येन पुरुषार्थशून्यं मत्वा ‘नाहमत्र भोग्यं पश्यामि’ इत्युक्तवन्तं प्रति प्रजापतिर्गुडजिह्विकान्यायमवलम्ब्यैव विषयभोगात्मकं पुरुषार्थमुपदेक्ष्यन्निव तदुक्तं ‘एवमेवैष मघवन्’ इत्यङ्गीचकार । एवमयं सूत्रभाष्ये योजनाप्रकारो दहराधिकरण एव प्रदर्शनीयोऽप्यस्मिन्नधिकरणे प्रजापतिविद्यायाः सगुणविद्यात्वपूर्वपक्ष निरासेन क्रियमाणनिर्गुणविद्यात्वव्यवस्थापनमपेक्षत इति तत्र न प्रदर्शितः । यद्वा दहरविद्याधिकरणे दर्शिता मुक्तानामपहतपाप्मत्वादिगुणकेश्वरभावापत्तिः प्रजापतिविद्याप्रतिपाद्यत्वेनात्रापि विवक्षितेत्येव योजनीयम् । अस्मिन् पक्षे ‘शरीरात् समुत्थाय’ इत्यनेनैव शरीरविविक्तपरब्रह्मभूतस्वात्मसाक्षात्कार उक्तः । ‘परं ज्योतिः’ इत्यनेन ‘य आत्माऽपहतपाप्मा’ इति प्रकृतोऽपहतपाप्मत्वादिगुणकः परमेश्वर उक्तः । ‘उपसम्पद्य’ इति तद्भावापत्तिरुक्ता । ‘स्वेन रूपेणाभिनिष्पद्यते’ इति सर्वमुक्तौ परमेश्वरभावप्रहाणानन्तरमप्यनुवर्तमाना निरतिशयानन्दरूपशुद्धचैतन्यभावापत्तिरुक्तेति विवेक्तव्यम् । एवञ्च सति ‘तद्विवेकसाक्षात्कारः शरीरात्समुत्थानम् , न तु शरीरापादानकं गमनम्’ इति दहराधिकरणगतभामतीग्रन्थः , ‘परमेव ब्रह्म ज्योतिश्शब्दम् , कस्मात् दर्शनात् , तस्य हीह प्रकरणे वक्तव्यत्वेनानुवृत्तिर्दृश्यते ; य आत्माऽपहतपाप्मेत्यपहतपाप्मत्वादिगुणकस्यात्मनः प्रकरणात्’ इति भाष्यग्रन्थश्च सङ्गच्छते । ‘सम्पद्याविर्भाव’ इत्यधिकरणगतमत्रत्यज्योतिश्शब्दार्थनिर्णयानुवादरूपं ‘आत्मा प्रकरणात्’ इति सूत्रञ्च सङ्गच्छते । ‘सम्पद्याविर्भावः’(ब्र. सू. ४. ४. १) इत्यधिकरणे मुक्तानां शुद्धचैतन्यभावेनैवाविर्भावः , न त्वागन्तुकेन केनचिद्रूपेणेति समर्थनस्य ‘ब्राह्मणे जैमिनिः’(ब्र. सू. ४. ४. ५) इत्यधिकरणे मुक्तानामपहतपाप्मत्वादिपारमेश्वरगुणाष्टकस्य प्राप्तिरस्तीति समर्थनस्य च विरोधपरिहारोऽपि लभ्यते । विषयवाक्ये गुणाष्टकपरामर्शस्यापि परिपूर्णं फलं लभ्यते । न हि प्रवृत्तिरुच्युत्पादनं तस्य परिपूर्णं फलम् ; ‘सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्’ इति फलकीर्तनेन तदुत्पादनात् , फलकीर्तनाभावेऽन्वेष्टव्यगुणकथनमात्रेण तदुत्पादनासम्भवात् , परिपूर्णफलसम्भवे वायुक्षेपिष्ठत्वादिवर्णनवद्व्यर्थप्रायत्वकल्पनाऽयोगात् , इह च ‘परं ज्योतिः’ इत्यनेन प्रक्रान्तं गुणाष्टकविशिष्टं परमेश्वरं परामृश्य जीवस्य तद्भावापत्तिप्रतिपादने गुणाष्टकपरामर्शस्य तादर्थ्येन साफल्यसम्भवान्मुक्तिफलप्रतिपादकवाक्येषु ब्रह्मप्राप्तिप्रतिपादनपरस्य तद्भावापत्तिपरतायाः आनन्दमयाधिकरणे व्यवस्थापितत्वादित्यलं प्रपञ्चेन । एवञ्चात्र ‘आत्मानमुपास्ते’ इति प्रकृतात्मज्ञानस्योपासनारूपत्वश्रवणं श्रवणमननाद्यावृत्त्यभिप्रायम् । जक्षणादिश्रवणं दहराधिकरणदर्शितया रीत्या जक्षणादिलीलाभिनयवत् परमेश्वरभावाभिप्रायं सर्वात्मतापत्त्यभिप्रायं वा । अथवा ‘सोऽश्नुते सर्वान् कामान् सह’ इति श्रुतावानन्दमयाधिकरणदर्शितयारीत्या जक्षणाद्यभिव्यंग्यविषयसुखशीकरनिकरमहासमुद्रायमाणनिरतिशयस्वरूपसुखानुभवाभिप्रायम् ; तत्र सहशब्दवदत्र जक्षणादीनां ‘समिद्भारं वहन्नध्वानं पश्यन्नधीयानो गच्छति’ इत्यत्र वहनादीनामिव यौगपद्यप्रापकयोः शतृशानचोर्जक्षणादिषु श्रवणाज्जक्षदित्यादिशब्दानां तत्तदभिव्यङ्ग्यसुखलक्षकत्वोपपत्तेरशरीरस्य मुख्यजक्षणाद्यसम्भवात् । अशरीरत्वञ्च मुक्तस्य सशरीरत्वनिन्दापूर्वकं शरीरात् समुत्थानस्य प्राग्वर्णनेन ‘जक्षन् क्रीडन् रममाणस्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा’(छा. ८. १२. ३) इत्युक्त्यनन्तरं ‘नोपजनं स्मरन्निदं शरीरम्’(छा. ८. १२. ३) इति शरीरास्मरणोक्त्या हि तस्याध्यस्तत्वं ब्रह्मज्ञानेन तन्निवृत्तिश्चेत्युभयमपि स्फुटीकृतम् । एवं ‘सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति’(छा.८.१२.६) इत्यत्रापि कामशब्दोक्तानां सर्वेषां वैषयिकसुखानामसम्भवद्यौगपद्यानां यौगपद्यस्य ब्रह्मसाक्षाकारतुल्यकालत्वस्य च लडाख्याताभ्यां प्रत्याय्यमानत्वेन साक्षात्क्रियमाणस्य ब्रह्मण एव सकलविषयसुखशीकरनिकरमहांबुधिरूपनिरतिशयसुखरूपत्वे तात्पर्यमुन्नेयम् । तस्माज्ज्योतिरिह ब्रह्म , नादित्यादिज्योतिरिति सिद्धम् । सूत्रे यदि ज्योतिरित्यस्यापहतपाप्मत्वादिगुणकमीश्वररूपं ब्रह्मेत्यर्थः , तदा ‘दर्शनात्’ इति हेतोस्तस्य प्रकरणे वक्तव्यत्वेनानुवृत्तिदर्शनादिति भाष्यदर्शित एवार्थः । एवञ्च ‘प्रकरणात्’ इति स्पष्टे हेतौ वक्तव्ये ‘दर्शनात्’ इत्युक्तिरपि सफला । न केवलं ब्रह्मप्रकृतमित्येतावन्मात्रं , तदीयगुणाष्टकपरामर्शस्य साफल्यार्थं मुक्तौ जीवस्य तद्भावापत्तिरस्तीत्येवं वक्तव्यत्वेन तस्यानुवृत्तिरपि दृश्यते इति । यदि सूत्रे ‘ज्योतिः’ इति निर्विशेषं ब्रह्मोच्यते , तदा ‘दर्शनात्’ इत्यनेन ‘उपसम्पद्य’ इत्युक्तसाक्षात्कारोऽपि हेतूकर्तुं शक्यते । तदैवं हेतोः पर्यवसानम् । यद्युपसम्पद्येत्यनेन प्राप्तिरुच्येत , तदा मार्गपर्वतया प्राप्तव्य आदित्यः कथञ्चिज्ज्योतिः स्यादपीति , न त्वेवम् ; अत्र प्रकरणानुसारेण श्रवणमननादिरूपस्य शरीरात् समुत्थानस्य ब्रह्मभावाविर्भावस्य च मध्ये श्रुतस्योपसम्पद्येत्यस्य श्रवणमननाधीनब्रह्मभावाविर्भावहेतुदर्शनपरत्वावश्यम्भावात् । अतस्तस्य दर्शनस्य विषयभूतं ज्येतिर्ब्रह्मेत्येव युक्तमिति । १. ३. ४० इति ज्योतिर्दर्शनाधिकरणम् । ११
आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१॥ 【भाष्यम्】 ‘आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा’(छा. ८. १. ४) इति छान्दोग्यश्रुत आकाशो भूताकाशः , परं ब्रह्म वेत्याकाशब्रह्मश्रुतिभ्यां संशये प्रथमश्रुतादाकाशशब्दाद्भूताकाश इति पूर्वः पक्षः। ननु प्रथमश्रुतमप्येकं प्रमाणमुपरितनानेकप्रमाणविरोधे बाध्यमिति ज्योतिरधिकरणादिषु क्षुण्णोऽयमर्थः । सन्ति चात्र बहूनि विरोधिप्रमाणानि । ‘नामरूपयोर्निर्वहिता’ इति तावन्नामरूपव्याकर्तृत्वं ब्रह्मलिङ्गमुच्यते । ‘निर्वहिता’ इत्यस्य निरुपसर्गाभावे वोढृत्वपरत्वेऽपि तत्सत्त्वेन कर्तृवाचकत्वात् । ते नामरूपे अन्तरा मध्ये यदिति नामरूपास्पृष्टत्वं तल्लिङ्गान्तरमुच्यते । नामरूपमध्यस्थत्वोक्तेरन्यतरपक्षपाताभावेन तदस्पृष्टत्वपर्यवसायित्वात् । ‘तद्ब्रह्म तदमृतं स आत्मा’ इति च स्पष्टान्येव ब्रह्मप्रमाणानि । कथमेतावन्ति प्रमाणान्यनादृत्य प्रथमश्रुतैकश्रुत्यवलम्बनेन पूर्व पक्षः क्रियते अथापि क्रियेत यदि ब्रह्मण्याकाशशब्दो वर्तयितुमशक्य इति शङ्काबीजं सम्भवेत् । प्रसिद्ध एव ब्रह्मण्याकाशशब्दः ‘आकाश इति होवाच’ इति ‘दहरोऽस्मिन्नन्तराकाशः’(छा., ८. १. १) इति च । उच्यते । ‘वै नाम’ इति निपातद्योतिता प्रसिद्धिरिह आकाशविशेषणमिति ‘आकाशो वै नाम’ इत्यतः प्रसिद्धाकाश इति धर्मिनिर्देशो लभ्यते । अतस्तस्य विशेषणस्याप्रसिद्धाकाशरूपं ब्रह्म व्यावर्त्य पर्यवस्यति । न हि ब्रह्मणो वेदप्रतिपन्नत्वेऽपि क्वचित्क्वचिद्वेदभागे निरूढलक्षणया आकाशशब्दविषयत्वेऽपि भूताकाशवत् स्वरूपेणाकाशशब्दविषयत्वेन वा लोकवेदयोः प्रसिद्धम् । ‘सर्वाणि ह वा इमानि भूतानि’(छा. १. ९. १) इत्यत्र तु वैशब्दद्योतितप्रसिद्धेर्नाकाशे धर्मिण्यन्वयः , किन्तु सर्वजगत्कारणत्वरूपे तद्धर्मे । तस्य धर्मस्य लोके प्रसिद्धिर्नास्तीति केवलं वैदिक्येव ग्राह्या , सा श्रुत्यन्तरप्रसिद्धजगत्कारणत्वरूपब्रह्मलिङ्गान्वयिनि सिद्धान्त एवोपयुज्यते , इह तु प्रसिद्धेधर्मिण्यन्वयः । सा तु सम्भवात् केवलवेदप्रसिद्धब्रह्माकाशरूपव्यावर्त्यसत्त्वाच्च भूताकाशविषयिणी लोकवेदसिद्धैव ग्राह्येति सिद्धान्तविरोधिनी । तस्मादप्रसिद्धाकाशव्यावर्तनैकप्रयोजनकेन प्रसिद्धिविशेषणेन भूताकाशे नियम्यमानेयमाकाशश्रुतिब्रह्मणि नेतुमशक्येति तदनुरोधेनान्यत्सर्वं नेयम् । तत्र नामरूपनिर्वोढत्वमवकाशरूपाधिकरणतया वोढृत्वेन वा स्वगुणभूतवर्णाभिव्यञ्जकध्वन्युत्पादनद्वारा वर्णसमुदायरूपाणां नाम्नां वाय्वादिद्वारा तेजोजलपृथिव्यादिश्रितानामरुणधवलनीलादिरूपाणाञ्च करणत्वेन वा योजनीयम् । गौरकृष्णादिनामभिस्तत्प्रवृत्तिनिमित्तरूपैश्च अस्पष्टत्वेन ‘ते यदन्तरा’ इत्येतत् सङ्गमयितव्यम् । बृहत्त्वेन ब्रह्मशब्दः , आभूतसम्प्लवस्थायित्वेन अमृतशब्दः , आप्नोतीति योगेन आत्मशब्दश्चोपपादनीयः । ब्रह्मानुवृत्तिदर्शनाज्ज्योतिश्शब्दस्येवाकाशानुवृत्तिदर्शनाद्ब्रह्मशब्दादेरपि स्वार्थात् प्रच्यावनोपपत्तेः । अथवा नामरूपास्पृष्टं ब्रह्मामृतात्मशब्दोदितं परं ब्रह्मैवास्तु ; नामरूपनिर्वोढुर्भूताकाशस्य नामरूपास्पृष्टस्य ब्रह्मादिशब्दोदितस्य च पुल्लिङ्गनपुंसकलिङ्गनिर्देशाभ्यां भेदप्रतीतेः । तथा च नामरूपास्पृष्टब्रह्मप्रतिपत्त्यर्थत्वेन नामरूपनिर्वोढुर्भूताकाशस्य पृथक्प्रतिपादनमित्येतावान् पूर्वः पक्षः । राद्धान्तस्तु ‘वै नाम’ इति निपातसमुदायो नाकाशस्य स्वरूपे प्रसिद्धिद्योतकः येन ततोऽप्रसिद्धाकाशव्यावृत्तिर्लभ्येत , किन्त्वाकाशस्य नामरूपनिर्वोढृत्वरूपविधेयवत्त्वेन प्रसिद्धिद्योतकः ; तथैव व्युत्पत्तेः । न हि ‘देवदत्तः खलु विद्वान्’ इत्युक्ते यः प्रसिद्धो देवदत्तस्स विद्वानित्यप्रसिद्धदेवदत्तव्यावृत्तिः प्रतीयते , किन्तु विधेयस्य विद्वत्त्वस्यैव देवदत्ते प्रसिध्युपपादनं प्रतीयते । एवमिहापि विधेयस्य नामरूपनिर्वोढृत्वस्याकाशे प्रसिद्ध्युपपादनं क्रियत इति स्थिते नामरूपशब्दयोरन्योन्यसमभिव्याहृतयोरसङ्कुचिताभिधानाभिधेयमात्रपरत्वेन निर्वोढृशब्दस्य कर्तृपरत्वेन च व्युत्पन्नत्वात् सकलनामरूपव्याकर्तृत्वमाकाशस्य प्रसिद्ध्योपपद्यत इति पर्यवस्यति । तत्तु न लोके प्रसिद्धमिति श्रुत्यन्तरप्रसिद्धावन्विष्यमाणायां ‘नामरूपे व्याकरवाणि’(छा. ६. ३.२) इत्यादिश्रुत्यन्तरे ब्रह्मण एव तत्प्रसिद्धमिति स्फुटमेव । एवञ्च ते इति पदमप्यसङ्कुचितसकलनामरूपपरं ब्रह्मामृतात्मशब्दा अपि स्वारसिकार्थपरा इति चरमश्रुतैरपि बहुभिः श्रुतिलिङ्गैरेकस्याः श्रुतेर्बाधौचित्यादयमाकाशो ब्रह्मैव । यदि च आकाशशब्दनिर्दिष्टस्य प्रसिद्धिद्योतकोऽयं निपातसमुदायःस्यात्तथापि वैदिकशब्दनिर्दिष्टस्योच्यमाना प्रसिद्धिर्वैदिकेष्टिनिमित्ततयोच्यमानाश्वदानवद्वैदिक्येव ग्राह्या । वैदिकी च प्रसिद्धिर्यथा ब्रह्मणो न तथा भूताकाशस्य । अतो ब्रह्मविषयाधिकवैदिकप्रसिद्धेरेवात्र आकाशविशेषणतया तद्बलेनाकाशशब्दस्य भूताकाशे नियमनासिद्धेर्न तदनुरोधेन उत्तरश्रुतिलिङ्गानामन्यथानयनं युक्तमिति तैर्ब्रह्मैवायमाकाशः । वाक्यभेदपूर्वपक्षोऽप्येवमेकवाक्यत्वसम्भवादयुक्तः । यत्तत्पदानां प्रकृताकाशपरामार्शित्वेऽपि नपुंसकलिङ्गत्वं ब्रह्मामृतशब्दापेक्षमुपपन्नम् । न च यत्तत्पदप्रकृतीनां प्रकृतार्थनिवेशेनैकवाक्यतानुगुणत्वे तद्गुणभूतप्रत्ययार्थलिङ्गानुरोधेन वाक्यभेदशङ्काऽप्यवकाशं लभते । ‘गुणे त्वन्याय्यकल्पना’ इति हि न्यायसूत्रे । अर्थान्तरत्वं नामरूपपदापेक्षया । तेन ‘ते यदन्तरा’ इत्यनेनोक्तो नामरूपास्पृष्टत्वहेतुर्लभ्यते । एवं व्याख्यानं विषयवाक्ये रूपशब्दस्य नामप्रवृत्तिनिमित्तधर्मवाचित्वमङ्गीकृत्य । स यदा नामविषयधर्मवाची तदा ‘ते यदन्तरा’ इत्यनेन नामरूपान्यत्वमुक्तं स्यादिति स एव हेतुरन्तरत्वशब्देन विवक्षितः । अर्थान्तरत्वञ्च तस्यादिश्च प्राथमिकत्वेन , तत्पदपरामर्शनीयनामरूपसमर्पकत्वेन वाऽऽदिभूतो नामरूपनिर्वोढृत्वहेतुश्च तयोर्व्यपदेशात् प्रतिपादनादित्यर्थकेन ‘अर्थान्तरत्वादिव्यपदेशात्’ इत्यनेन नामरूपनिर्वोढृत्वादिलिङ्गद्वयग्रहणम् । अर्थान्तरत्वमादिर्यस्य व्यपदेशस्य प्रतिपादकस्य शब्दजातस्य तस्मादित्यर्थकेन तेन ब्रह्मामृतात्मश्रुतित्रयग्रहणम् । अमृतशब्दोऽपि निखण्डुषु ब्रह्मण्यनुशिष्टत्वात् तत्र श्रुतिरेव । आकाशशब्दप्रतिपाद्यस्य यदर्थान्तरत्वं भूताकाशाद्भिन्नत्वं तस्यादेः कारणस्य भेदकधर्मस्य वैदिकप्रसिद्धिरूपस्य व्यपदेशादित्यर्थकन तेन प्रसिद्धिलिङ्गग्रहणम् । यद्यप्युदाहृतश्रुतिलिङ्गानि सर्वाण्यपि भूताकाशाद्भेदकान्येव , तथाऽपि प्रसिद्धेरुद्देश्यविशेषणत्वपक्षे वेदप्रसिद्धाकाश इत्युद्देश्यधर्मिनिर्देशसमय एव भूताकाशात्तं भिनत्तीत्यनेन विशेषेणासाधारणस्तस्य भेदकत्वव्यपदेशः । भेदज्ञापकेऽपि धर्मे कारणत्वोपचारेण भेदकव्यवहारवदन्तरत्वस्यादिः कारणमिति निर्देशः । एवं बह्वर्थक्रोडीकारार्थं विषयवाक्यगतश्रुतिलिङ्गेषु नामरूपान्यत्वस्य प्राथमिकत्वाभावेऽपि ‘अर्थान्तरत्वादिव्यपदेशात्’ इति सूत्रितम् । विषयवाक्ये नामरूपयोर्निर्वोढेत्यत्र ‘सर्वाणि हवा इमानि भूतानि’ इत्यत्रेव सर्वशब्दाभावात् , ‘ते यदनन्तरा’ इत्यादेर्वाक्यान्तरगतत्वप्रतीतेश्चास्पष्टब्रह्मलिङ्गता ॥१.३.४१॥
इत्याकाशाधिकरणम् ॥१२॥ 【भाष्यम्】
सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥ 【भाष्यम्】 बृहदारण्यके जनकयाज्ञवल्क्यसंवादे ‘किंज्योतिरयं पुरुषः’(बृ. ४. ३.१) इति जीवस्य व्यवहारसाधनप्रकाशं पृष्टेनादित्यञ्चन्द्रमसमग्निं वागिन्द्रियमात्मानञ्च पूर्वपूर्वस्मिन्नसत्युत्तरोत्तरं तस्य व्यवहारसाधनप्रकाशमुक्तवता पुनः ‘कतम आत्मा’ इति पृष्टेन याज्ञवल्क्येन ‘योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’(बृ. ४. ३. ७) इत्यारभ्य भूयानात्मविषयः प्रपञ्चः कृतः । स तावत् संसार्यात्मविषयः ; ‘प्राणेषु’ इति प्राणसम्बन्धस्य ‘हृदि’ इति बुध्युपाधिकत्वस्य ‘स समानस्सन्नुभौ लोकावनुसञ्चरति’(बृ. ४. ३.७) इति बुध्यैक्यप्राप्तिपूर्वकलोकद्वयसञ्चारस्य ‘ध्यायतीव लेलायतीव’(बृ. ४. ३.७) इति बुद्धिधर्मेण ध्यानादिना ध्यानादिमत्तया प्रतीयमानत्वस्य ‘स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः संसृज्यते स उत्क्रामम्रियमाणः पाप्मनो विजहाति’(बृ. ४. ३. ८) इति जननमरणभाक्त्वस्य पापफलभोगसाधनसंयोगवियोगस्य चोपक्रमे श्रवणात् , मध्ये स्वप्नसुषुप्तिजागरावस्थानाम् , अमुमुक्षोरुत्क्रमणपुनर्जननयोः , मुमुक्षोस्तदभावस्य च सप्रपञ्चमुपन्यासात् , अन्ते ‘योऽयं विज्ञानमयः प्राणेषु’(बृ. ४. ४. २२) इत्युपक्रान्तप्राणसम्बन्धेनोपसंहाराच्च । ननु स्वप्नावस्थोपन्यासमध्ये ‘स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति , शुक्रमादाय पुनरेति स्थानं हिरण्मयः पुरुष एकहंसः’(बृ. ४. ३. ११) इति श्लोके स्वप्नेन शारीरस्य जीवस्याभिप्रहन्ता विमोहकः परमेश्वरो वर्ण्यते । नेति ब्रूम: , ‘शुक्रमादाय पुनरेति स्थानम्’ इति शुद्धमिन्द्रियगणमादाय पुनर्जागरितस्थानप्राप्त्युपन्यासेन तस्यापि जीवविषयत्वात् । ‘तं नायतं बोधयेदित्याहुः दुर्भिषज्यं हास्मै भवति यमेष न प्रपद्यते’(बृ. ४. ३. १४) इत्यग्रे सुषुप्तस्य भृशं बोधने सम्भ्रान्ततया यमिन्द्रियदेशं अजहात् प्राक्स्वप्नारम्भदशायामपनीतेन्द्रियं प्रतिपद्यमानस्तत्र तदिन्द्रियं न प्रवेशयति ; तस्या बाध्यबाधिर्यादिदोषप्राप्तौ तस्मै देशाय दुःखेन भिषक्कर्म कर्त्तव्यं भवेदिति दोषोपन्यासेन लिङ्गेनेन्द्रियगणमादाय जागरितस्थानप्राप्तेर्जीवधर्मत्वावगमात् , ‘प्राणेन रक्षन्नवरं कुलायं बहिष्कुलायादमृतश्चरित्वा स ईयतेऽमृतो यत्र कामं हिरण्मयः पुरुष एकहंसः’ ‘स्वप्नान्तमुच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि । उतेव स्त्रीभिस्सह मोदमानो जक्षदुतेवापि भयानि पश्यन्’(बृ. ४. ३. १२ , १३) इत्युत्तरश्लोकयोर्जीवविषयत्वेनास्यापि तद्विषयत्वावश्यम्भावाच्च । पूर्वत्र ‘स्वयं विहत्य स्वयं निर्माय स्वेन भासा खेन ज्योतिषा प्रस्वपित्यत्रायं पुरुषःस्वयं ज्योतिर्भवति’(बृ. ४. ३. ९) इति श्रवणाच्च । तत्र हि ‘विहत्य’ इति जाग्रच्छरीरस्यैव निस्सम्बोधतया मृतप्रायतापादनमुच्यते ; अग्रे ‘स्वयं निर्माय’ इति स्वाप्नशरीरनिर्माणश्रवणात् । अत्रोऽत्रापि जीवेन हन्तव्यं शरीरमेव वाच्यमिति छान्दसो दीर्घो द्रष्टव्यः । एवं तर्हि तत्रापि परमेश्वरो वर्ण्यते ; जीवस्य शरीरहनननिर्माणयोः स्वयंशब्दोक्तस्वातन्त्र्यासम्भवादिति चेत् ; न । तयोर्जीवकर्माधीनत्वाभिप्रायेण स्वयमुक्त्युपपत्तेः , स्वपितिप्रक्रियायां ‘किंज्योतिरयं पुरुषः’ इत्युपक्रमे जीवे प्रयुक्तस्य ‘अयं पुरुषः’ इत्यस्य ‘अत्रायं पुरुषः’ इत्यत्र प्रत्यभिज्ञया पूर्वापरलिङ्गशतैश्च तत्परत्वावश्यम्भावात् । ननु ‘कतम आत्मा’ इति प्रश्नो न जीवविषयः ; तस्य प्रत्यक्षसिद्धतया ‘किंज्योतिरयं पुरुषः’ इति पृच्छतः प्रश्नधर्मित्वेनासन्दिग्धतया च तत्र प्रश्नानवतारात् , किन्तु परमात्मविषयः । तदनुसारेण तस्य प्रश्नस्य प्रसञ्जकं ‘आत्मैवास्य ज्योतिः’ इति वचनमप्यस्य प्रकृतस्य जीवस्य परमात्मैव ज्योतिरित्येतत्परम् । एवञ्चोत्तरग्रन्थसन्दर्भे ‘जायमानश्शरीरमभिसम्पद्यमानः’(बृ. ४. ३. ८) इत्यादिजीवलिङ्गजातमप्यर्थान्तर्भावादिना कथञ्चित् परमात्मन्येव योजनीयम् । एवञ्च सति ‘हृद्यन्तर्ज्योतिः’ इत्यारभ्य आदिमध्यावसानेषु ज्योतिश्शब्दोऽपि सङ्गच्छते । स हि ‘अथ यदतः परो दिवो ज्योतिः’(छा. ३. १३. ७) इत्यादिश्रुत्यन्तरेषु परमात्मन्येव प्रसिद्धो न जीव इति चेत् , स्यादप्येवं जीवलिङ्गजातस्यान्यथानयनशङ्का यदि ‘कतम आत्मा’ इति प्रश्नो जीवे नोपपद्येत । उपपद्यते त्वहंप्रत्ययसिद्धेऽपि तस्मिन् देहेन्द्रियप्राणबुद्धिष्वन्यतमस्तदन्यो वेति निर्दिधारयिषया प्रश्नः । एवमेवायं प्रश्नः प्रवृत्त इति चोत्तरपर्यालोचनयाऽवगम्यते । तत्र हि ‘योऽयं विज्ञानमयः’ इति प्रष्टुरपि प्रसिद्धं जीवमनूद्य ‘प्राणेषु’ इतीन्द्रियगणप्राणवायुसमीपवर्तित्वोक्त्या तस्य ततो व्यतिरेको ‘हृद्यन्तः’ इति बुध्यन्तर्गतत्वोक्त्या बुद्धेर्व्यतिरेकः तत एव स्थूलदेहाद्व्यतिरेकश्च बोध्यते । अपि च ‘अत्रायं पुरुषस्स्वयंज्योतिः’ इति वाक्यं ज्योतिस्साध्यव्यवहारफलभाजो जीवस्यैव ज्योतीरूपत्वप्रतिपादनपरमिति स्वयंशब्दबलादवसीयते । ‘स्वयं होता’ ‘स्वयंदोही’ ‘स्वयंदासास्तपस्विनः’ इत्यादिप्रयोगेषु होमफलादिभाजो होतृत्वादिविवक्षायामेव स्वयंशब्दप्रयोगदर्शनात् । एवञ्च तदेकार्थपरं ‘आत्मैवास्य ज्योतिः’ इत्यात्मप्रश्नप्रसञ्जकवाक्यमपि तत्रत्यस्वयंशब्दैकार्थ्यभाजाऽवधारणेनादित्याद्यभावे स्वप्नदशायां जीवः स्वयमेव स्वस्य व्यवहारसाधनमित्यमुमर्थं प्रतिपादयत् ‘कतम आत्मा’ इति प्रश्नमपि जीवविषयं व्यवस्थापयेदेव । ज्योतिश्शब्दस्तु प्रश्नोत्तरयोर्न परमात्मविषयत्वस्य व्यवस्थापकः ; अस्मिन् प्रकरणे तस्यादित्यचन्द्रादिसाधारण्येन व्यवहारसाधनमात्रपरत्वात् । अपि च ‘योऽयं विज्ञानमयः’ इत्यारभ्य यो वर्णयितुं प्रक्रान्त आत्मा यत्र च ‘हृद्यन्तर्ज्योतिः’ इत्यादिप्रदेशेषु ज्योतिशब्दस्स एव सुषुप्युत्क्रान्तिरूपतदीयावस्थानिरूपणे परमेश्वराद्भेदेन व्यपदिश्यते ‘तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमेवमेवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’(बृ. ४. ३.२१) इति ‘तद्यथाऽनस्सुममाहितमुत्सर्जद्यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जन्याति यत्रैतदूर्ध्वोच्छ्वासी भवति’(बृ. ४. ३. ३५) इति च । अतोऽपि हेतोः संसार्यात्मविषयएवायं प्रपञ्चः , न तु परमेश्वरविषयः । एवं स्थिते संशयः – किमयं संदर्भः संसारित्वरूपमात्रान्वाख्यानपरः , उत – संसारिणमनूद्य तस्यासंसारिब्रह्मरूपत्वप्रतिपादनपर इति । तत्र पूर्वः पक्षः – आदिमध्यावसानेषु संसार्यत्रानुवर्ण्यते । तस्मात्तत्पर एवायं संदर्भ इति युज्यते ॥ नन्वस्यासंसारिब्रह्मरूपत्वप्रतिपादका अपि शब्दा उपसंहारे श्रूयन्ते ‘एष सर्वेश्वर एष भूताधिपतिरेष लोकपाल एष सेतुर्विधरणः’(बृ.४. ४. २२) इत्याद्याः । अतोऽङ्गुष्ठाधिकरणन्यायात्संसार्यनुवादेन तस्यासंसारिब्रह्मरूपत्वप्रतिपादनपरः संदर्भ इति युक्तम् । नेति ब्रूमः । ‘अंगुष्ठमात्रः’ इत्यत्र नोपक्रमोपसंहारौ जीवे । अतस्तत्र युक्तं ‘अंगुष्ठमात्रः’ इत्येतावताऽनूदितस्य संसारिणः परब्रह्मस्वरूपत्वप्रतिपादनपरत्वम् , इह तूपक्रममारभ्यासमाप्ति संसारिविषय: सन्दर्भः । अतो नामरूपनिर्वोढृत्वादिबहुप्रमाणबलादाकाशशब्दस्येव संसारिविषयादिमध्यावसानानुवृत्तबहुप्रमाणबलात्क्वचित्कस्याल्पीयसः परमेश्वरधर्मजातस्यान्यथानयनं युक्तम् । एतेन – मध्येऽपि ‘प्राज्ञेनात्मना संपरिष्वक्तः’ इति , ‘अन्वारूढः’ इति च परमेश्वरपरामर्शोऽस्तीति निरस्तम् । तथाऽपि संसारिधर्मवर्णनात्तद्धर्मवर्णनस्याल्पीयस्त्वात् । किञ्च तत्रत्येन परामर्शेन न परमेश्वरस्य प्रकरणप्रतिपाद्यता सिद्ध्यति ; प्रकरणप्रतिपाद्यमयमिति परामृष्टं संसारिणं प्रत्युपसर्जनत्वेन तस्यान्वयात् । नापि तेन प्रकृतस्य संसारिणः परमेश्वराभेदेन प्रतिपाद्यता सिद्ध्यति ; भेदेन व्यपदेशस्याभेदप्रतिपादनविरुद्धत्वात् । तस्मात्तत्र परमेश्वरपरामर्शः ‘ता वा अस्यैता हिता नाम नाड्यः’ इति नाडीपरामर्शवत् ‘एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति’(बृ. ४. ३. ३८) इति प्राणपरामर्शवच्च प्रकृतस्य संसारिणस्तत्तदवस्थाविशेषनिरूपणोपयोगित्वेनेति न तेन परमेश्वरस्य , जीवे तदभेदस्य वा प्रतिपाद्यत्वसिद्धिः। यद्वा ‘प्राज्ञेन’ इत्येतन्न परमेश्वरपरम् , किन्तु सुषुप्तौ मरणकालप्राप्तमूर्छायाञ्च प्रकर्षेणाज्ञ इति जीवपरम् । ततश्च तथाभूतेनात्मना स्वरूपेण संपरिष्वक्त इति अन्वारूढ इति चाभेदेऽपि भेदोपचारः । अतो नात्र परमेश्वरपरामर्शशङ्कावकाशः । नन्वेवं महान्सन्दर्भः संसारिस्वरूपमात्रान्वाख्यानपरः सन्ननर्थकः स्यात् । नानर्थकः ; देहाद्यतिरिक्तधर्माधिकारिसिद्ध्यर्थत्वात् । ननु ‘अनन्वागतं पुण्येन अनन्वागतं पापेन’(बृ.४.३.२२) इति ‘स न साधुना कर्मणा भूयान्नो एवासाधुना कर्मणा कनीयान्’(बृ. ४. ४. २२) इति च प्रतिपाद्यस्यात्मनः पुण्यपापास्पर्श उच्यते । स कथं कर्माधिकारसिद्ध्यर्थः स्यात् नैष दोषः । सुषुप्तौ कर्मफलभोगराहित्याभिप्रायेण तद्वचनात् । ‘स न साधुना’ इत्याद्यपि सुषुप्तिविषयमेव भवति ; ‘य एषोऽन्तर्हृदय आकाशः तस्मिञ्छेते’ इत्युपक्रमात् । सुषुप्तिप्रसङ्गाभावे तु पुण्यपापस्पर्श उच्यत एव ‘पुण्यः पुण्येन कर्मणा भवति पापः पापेन’(बृ. ४. ४. ५) इति । अथवा वैराग्यसिध्यर्थोऽयं ‘उभौ लोकावनुसञ्चरति’ इत्यारभ्य संसारिंगतागतवर्णनप्रधानस्संदर्भः । अत एव ‘प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरैति अस्मै लोकाय कर्मणे’(बृ. ४. ४. ६) इति कर्मफलक्षयिष्णुत्वमपि वर्ण्यते । अथवा पञ्चाग्निविद्यावदुपासनाविशेषविध्यर्थोऽयं ‘तद्यथा राजानमायान्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः पानैरावसथैः प्रतिकल्पान्ते अयमायात्ययमागच्छतीति एवं हैवंविदं सर्वाणि भूतानि प्रतिकल्पान्ते इदं ब्रह्मायाति’(बृ. ४.३. ३७) इति उक्तप्रकारसंसारिस्वरूपवेदनफलश्रवणात् , मानुषानन्दादिक्रमेण तत्प्राप्यब्रह्मलोकभोग्यानन्दप्रशंसादर्शनाच्च । तस्मात्संसारिस्वरूपान्वाख्यानपरोऽयं संदर्भ इति । एवं प्राप्ते सिद्धान्तः – संसारिणो जीवस्यासंसारिपरमेश्वराभेदपरत्वमस्य संदर्भस्य कुतो नाद्रियते किं संसारिणोऽर्थान्तरभूतः परमेश्वरो नास्तीति , उतास्मिन्प्रकरणे सोऽर्थः कुतोऽपि शब्दान्न प्रतीयत इति नाद्यः । अस्ति हि संसारिणोऽर्थान्तरभूतः परमेश्वरः , जन्मादिसूत्रमारभ्य प्रवृत्तानां प्रवर्तिष्यमाणानां चाधिकरणानां विषयवाक्येषु परमेश्वरस्य ततोऽर्थान्तरत्वज्ञापकानां तत्स्रष्टृत्वतदानन्दयितृत्वतन्नियन्तृत्वतत्संहर्तृत्वादीनां स्पष्टमेव प्रतिपादनात् । अस्मिन्नपि प्रकरणे सुषुप्त्युत्क्रान्त्योस्तस्य ततो भेदेन व्यपदेशात् । न हि प्राज्ञशब्दः प्रज्ञाप्रकर्षशालिनि रूढः कथंचिदज्ञे व्याख्यातुमुचितः । न वा मुख्यभेदसम्भवे भेदोपचारकल्पना युक्ता । नापि द्वितीयः । पत्यादिशब्देभ्यः संसारिणः परमेश्वराभेदप्रतीतेः ‘एष सर्वेश्वर एष सर्वभूताधिपतिः’(बृ. ४. ४.२२ ) इत्यादयः शब्दा हि परमेश्वरवाचकाः प्रकृतसंसारिवाचिभिः शब्दैः सामानाधिकरण्येन निर्दिष्टास्तस्य तदभेदं प्रत्याययन्ति । न च उपक्रमोपसंहारपरामर्शैः प्रकरणस्य कार्त्स्न्येन संसारिपरत्वावगमात् तस्मिन्नेव सर्वेश्वरादिशब्दाः कथञ्चिदापेक्षिकैश्वर्यादिपरतया योजनीया इति वाच्यम् ; उपक्रमादिष्वभेदप्रतिपत्त्यर्थतयैव संसारिस्वरूपकीर्तनात् । तथाहि – शुद्धस्य त्वंपदार्थस्य तत्पदार्थत्वसिद्धये । उपक्रमे च मध्ये च त्वंपदार्थोऽत्र शोधितः ॥ उपक्रमे तावद्देहेन्द्रियप्राणबुद्धिव्यतिरेकप्रदर्शनेन , लोकद्वयसञ्चारस्याध्यासिकबुद्ध्यैक्यापत्तिकृतत्वप्रदर्शनेन , ध्यानचलनोपलक्षितानामात्मन्यवभासमानानां ज्ञानक्रियारूपाणां सर्वेषामागन्तुकरूपाणां वह्निगतचतुष्कोणत्वादीनामिवोपाध्यवच्छेदप्राप्तभ्रान्तिकृतत्ववर्णनया वस्तुतोऽसंसारित्वप्रदर्शनेन च त्वंपदार्थः शोधितः । मध्ये सम्प्रसादात् स्वप्नाय धावति स्वप्नाज्जागरिताय ततः पुनः सम्प्रसादायेत्यवस्थानामव्यवस्थितागन्तुकधर्मत्ववर्णनया तासामनात्मधर्मत्वप्रदर्शनेन , साक्षाच्च ‘दृष्ट्वैव पुण्यञ्च पापञ्च’(बृ. ४. ३. १५) इति ‘स यत्तत्र किञ्चित् पश्यत्यनन्वागतस्तेन भवति असङ्गोह्ययं पुरुषः’(बृ. ४. ३. १६) इति च स्वप्नजागरोपनीतभोगेषु साक्षिमात्रत्वप्रदर्शनेन च शोधितः । एवं शोधनेन सर्वस्मात् सांसारिकाद्विरुद्धधर्मान्निष्कृष्टस्य शुद्धस्य तस्य परेणाभेद उपसंहारे ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानस्सर्वस्याधिपतिः’(बृ. ४.४.२२) इत्यादिना ‘एष सेतुर्विधरण एषां लोकानामसम्भेदाय’(बृ. ४. ४. २२) इत्यन्तेन प्रतिपादितः । एतेन – अभ्यासाज्जीवे सांसारिकधर्मवति तात्पर्यमवसीयत इत्यपि शङ्का – निरस्ता ; साभ्यासानामुपक्रमोपसंहारतन्मध्यपरामर्शानामभेदप्रतिपत्तिशेषत्वात् तदनुरोधेन क्वचित् सांसारिकधर्मानुवादस्य ततो निष्कर्षार्थत्वात् । एवञ्च कर्माधिकारसिद्ध्यर्थमिह देहव्यतिरिक्तस्यात्मनो निरूपणमित्यपि शङ्का निरवकाशा ; अकर्त्रभोक्तात्मनिरूपणस्य कर्माधिकारप्रतिकूलत्वात् । क्वचित्क्वचित् ‘साधुकारी साधुर्भवति पापकारी पापो भवति’(बृ. ४. ४. ५) ‘पुण्यः पुण्येन’(बृ. ४. ४. ५) इत्यादिसत्वेपि तस्य पूर्वोत्तरग्रन्थपर्यालोचनया देहाद्यभेदादाध्यासपरिनिष्पन्नविशिष्टात्मधर्मानुवादत्वावसायात् । वैराग्यसिद्धिस्त्वानुषङ्गिकं प्रयोजनं भवत् पञ्चाग्निविद्यायामिवात्रापि न निवार्यते । यत्तु पञ्चाग्निविद्यायामिवात्रापि जीवविषयोपासनाविधिरस्त्वित्युक्तम् , तन्न युक्तम् ; ‘अत ऊर्ध्वं विमोक्षायैव ब्रूहि’(बृ. ४. ३. १४) इति पदे पदे प्रश्नेष्वनुवर्तमानेषु क्षयिष्णुफलकोपासनाविधिपरत्वकल्पनाऽयोगात् । उत्क्रान्तिप्रकरणे ‘एवंविदं सर्वाणि भूतानि प्रतिकल्पन्ते’(बृ. ४. ३. ३७) इति फलमुक्त्वाऽपि ‘प्राप्यान्तं कर्मणस्तस्य’(बृ. ४. ४. ६) इत्यग्रेतनमन्त्रेण तस्य फलस्य क्षयिष्णुत्वप्रतिपादनात् , तस्य मन्त्रस्याम्नानानन्तरं ‘इति नु कामयमानः’(बृ. ४. ४. ६) इति प्रपञ्चेन निरूपितमुत्क्रान्तिपूर्वकपारलौकिकफलप्राप्तिप्रकारममुमुक्ष्वधिकारिकत्वेन हेयं प्रदर्श्य ‘अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति’(बृ. ४. ४. ६) इति मुमुक्षोः पूर्वोक्तफलविपरीतोत्क्रमणपरलोकगमनानपेक्षनित्यसिद्धब्रह्मरूपतापत्तिफलप्रतिपादनाच्च । ‘एवंविदम्’ इति तु कर्मानुष्ठातॄणामुपलक्षणम् ; ‘प्राप्यान्तं कर्मणस्तस्य’ इति मन्त्रपर्यन्तेन ग्रन्थसन्दर्भेण सामान्यतः कर्मफलमात्रस्य कीर्त्यमानत्वात् । अस्तु वा वर्णितोत्क्रान्तिप्रकारविदः फलविशेषप्रतिपादनपरं ‘एवंविदं सर्वाणि भूतानि प्रतिकल्पन्ते’ इति वाक्यम् , न तावताऽत्र प्रकरणपर्यवसानशङ्कावकाशः ; प्रतिपिपादयिषितब्रह्मावाप्तिरूपनिरतिशयफलस्तुत्यर्थक्षयिष्णुसातिशयफलकीर्तनान्तःपातिनस्तस्य प्रासङ्गिकफलविधिरूपत्वात् । ‘स एको ब्रह्मलोक आनन्दः’(बृ. ४. ३. ३३) इत्येतदपि नोपासनफलभूतब्रह्मलोकानन्दप्रशंसापरम् ; किन्तु परब्रह्मानन्दापेक्षयाऽतितुच्छत्वप्रदर्शनेन तत्प्रशंसापरम् ; मानुषानन्दादिक्रमेण ब्रह्मलोकानन्दपर्यन्तमुत्तरोत्तरशतगुणं वैषयिकानन्दमुक्त्वा ‘अथैष एव परम आनन्दः’(बृ. ४. ३. ३३) इति परमब्रह्मानन्दस्यैव निरतिशयोत्कर्षविश्रान्तिभूमित्वेन वर्णितत्वात् । तस्मात् संसारिस्वरूपवर्णनप्रपञ्चोऽयं तस्यासंसारिब्रह्मरूपत्वप्रतिपादनपर इति युक्तम् । निरूपितः सर्वोऽयमर्थः सूत्रारूढः क्रियते – ‘भावं तु बादरायणोऽस्ति हि’(ब्र. सू. १. ३. ३३) इति सूत्रात् अस्तीत्यनुवर्तनीयम् । पूर्वसूत्रतश्च ‘अर्थान्तरत्वादिव्यपदेशात्’ इति । पुनश्च ‘सुषुप्त्युत्क्रान्त्योर्भेदेन’ इति सूत्रपूरणार्थं व्यपदेशादित्यनुवर्तनीयम् । ‘पत्यादिशब्देभ्यः’ इति च तदनन्तरसूत्रम् । एवं स्थिते ‘कतम आत्मा’ इत्यारभ्य प्रवृत्तोऽयमात्मविषयप्रपञ्चः संसार्यात्मविषयः , न परमेश्वरविषय इति साध्ये अर्थान्तरत्वादिव्यपदेशादिति हेतोस्तत्सन्दर्भप्रतिपाद्यस्य परमेश्वरादर्थान्तरत्वमाददते ज्ञाप्यत्वेन गृह्णन्ति ये जायमानत्वादिहेतवः ते अर्थान्तरत्वादयः । ‘उपसर्गे घोः किः’(पा. सू. ३. ३. ९२) इत्याङ्पूर्वादृदाते किप्रत्यये सति आदिपदमादातृवाचि । तेषां ‘स वा अयं पुरुषो जायमानः’ इत्यादिषु व्यपदेशादित्यर्थः । तत्रैव साध्ये ‘सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशात्’ इत्यपि हेत्वन्तरम् । एतत्सन्दर्भप्रतिपाद्यस्य सुषुप्त्युत्क्रान्त्योः परमेश्वराद्भेदेन व्यपदेशादित्यर्थः । यद्यपि परमेश्वरसम्परिष्वक्तत्वतदन्वारूढत्वव्यपदेशो भेदकव्यपदेश एव , स च प्रथमहेतुनैव क्रोडीकर्तुं शक्यः , तथापि परमेश्वरं स्वशब्देनोपादाय ततोऽयं भेदकव्यपदेश इति पृथगुक्तिः। अथ संसारिस्वरूपमात्रान्वाख्यानपरोऽयं सन्दर्भः , न तु तस्य परमेश्वराभेदप्रतिपादनपर इति वादिन पूर्वपक्षिणं प्रति किं परमेश्वर एव नास्तीत्याद्यविकल्पनिरासे , अस्तीति साध्यम् । अस्ति संसारिणोऽर्थान्तरभूतः परमेश्वर इति तस्यार्थः । ततस्तस्यार्थान्तरत्वज्ञापकानां तत्स्रष्टृत्वादिहेतूनां पूर्वोत्तराधिकरणविषयवाक्येषु विशिष्यापदेशात् स्पष्टं प्रतिपादनादिति तस्मिन् साध्ये प्रथमहेतोरर्थः । इहापि तस्य संसारिणो भेदेन व्यपदेशादिति द्वितीयहेतोरर्थः । परमेश्वरस्यास्तित्वेऽपि तदभेदेन प्रतिपादनमिह कुतोऽपि शब्दान्नोपलभ्यत इति द्वितीयकल्पनिरासे ‘पत्यादिशब्देभ्यः’ इति द्वितीयं सूत्रम् । सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशेऽभ्युपगम्यमाने पत्यादिशब्देभ्यः कथमभेदप्रतिपत्तिः व्यावहारिकभेदस्य पारमार्थिकाभेदाविरोधित्वादित्यवेहि । इदमग्रे स्पष्टीभविष्यति । सांसारिकधर्मेभ्यो निष्कृष्टस्य शुद्धस्यापि जीवस्य कथं सर्वेश्वरत्वादिविशिष्टेनाभेदः प्रतिपादनीयः दहराधिकरणोक्तरीत्या मुक्तौ संसारिणः सर्वेश्वरभावापत्तिसत्त्वात् । तदनभ्युपगमे तत्पदार्थशोधनस्यापि प्रकरणान्त उपसंहारात् । इदमप्यग्रे स्पष्टीभविष्यति । अत्राप्यसिद्धब्रह्मलिङ्गानां प्रसिद्धजीवलिङ्गेभ्यो वस्तुगत्या बलवत्त्वेऽपि अतिबहुलजीवलिङ्गाभिभूतत्वादस्पष्टता । १.३.४२ । इति सुषुप्त्युत्क्रान्त्यधिकरणम् । १३ । इति भारद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरिवरसूनोः श्रीमदप्पय्यदीक्षितस्य कृतौ शारीरकन्यायरक्षामणौ प्रथमस्याध्यायस्य तृतीयः पादः ।
आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥१॥ 【भाष्यम्】 एवं पादत्रयेण वेदान्तानां ब्रह्मणि समन्वयः प्रसाधितः । स न सङ्गच्छते । यतः कानिचिद्वेदान्तवाक्यानि प्रधानकारणत्वादिप्रतिपादकान्यपि लक्ष्यन्ते । अत ईक्षत्यधिकरणोक्तं प्रधानस्याशब्दत्वमप्ययुक्तमित्याशङ्कानिरासेन प्रसाधितसमन्वयदृढीकरणमस्य पादस्यार्थः । नन्वेवं सति श्रुतिविगानपरिहारः पादार्थ इत्युक्तं स्यात् । स तु द्वितीयाध्याये वियत्प्राणपादयोः करिष्यते । सत्यम् । तत्र कार्यविषयश्रुतिविगानपरिहारः, अत्र तु जगत्कारणे ब्रह्मणि समन्वयप्रतिष्ठार्थं कारणविषयश्रुतिविगानपरिहार इति भेदः । यद्यपि सोऽप्यत्रैव कर्तुं शक्यः, तथापि कार्ये वेदान्तानां न तात्पर्यमिति गमयितुमिह न कृतः, द्वितीयाध्याये तु तर्कपादे परपक्षाणां विप्रतिषेधादुपेक्ष्यत्वे वर्णिते तर्हि वेदान्तानामपि ब्रह्मसृज्यकार्यतत्क्रमादिविषये विप्रतिषेधोऽस्तीति शङ्कापरिहारस्तत्र वेदान्तानां तात्पर्यमभ्युपेत्य कृतः । ‘‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः । महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः’(क.उ.१-३-१०,११) इत्यत्राव्यक्तपदं प्रधानपरं शरीरपरं वेति स्मार्तक्रमश्रौतपरिशेषाभ्यामुभयोः प्रत्यभिज्ञानात् संशयः । तत्र य एव यन्नामानो यत्क्रमाश्च महदव्यक्तपुरुषाः साङ्ख्यस्मृतिप्रसिद्धाः ते तथैव इह प्रत्यभिज्ञायन्ते । अतो महदादिसकलविकारमूलकारणत्वेन महतः परं पुरुषभोग्यत्वेन पुरुषादवरञ्च यदव्यक्तनामकं स्वतन्त्रं स्मृतिप्रसिद्धं प्रधानं तदेवात्राव्यक्तपदेनोक्तमिति श्रुतिसिद्धमेव प्रधानस्य स्वातन्त्र्येण जगत्प्रकृतित्वं कपिलादिभिर्महर्षिभिः परिगृहीतमिति च ज्ञायते । एवञ्च यद्यपि प्रतिवेदान्तं ब्रह्मावगतिरूपं गतिसामान्यमस्ति , तथापि क्वचित् प्रधानमपि कारणत्वेन समन्वयविषय इति न सर्ववेदान्तानां जगत्कारणे ब्रह्मणि ऐककण्ठ्येन समन्वयः, न प्रधानस्याशब्दत्वं न च ब्रह्मलक्षणस्य शुद्धतेति पूर्वपक्षः । स्यादेतत् । पूर्वत्र ‘‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्’(क.उ.१-३-३,४) इत्यादावात्मशरीरबुध्यादयो रथिरथसारथ्याद्यात्मना रूपिताः । तत्र बुद्ध्यात्मनोर्मध्ये शरीरस्य श्रुतत्वादिहापि तयोर्मध्ये श्रुतमव्यक्तं शरीरं भवितुमर्हति ; स्मार्तक्रमतः श्रौतक्रमस्य बलीयस्त्वात् । न च वाच्यम् – अव्यक्तमिह महत्पुरुषयोर्मध्ये श्रुतम् , न तु बुद्ध्यात्मनोर्मध्ये – इति । पुरुषशब्दस्यात्मवाचित्वान्महच्छब्दस्य हैरण्यगर्भबुद्धिवाचितत्वात् , ‘मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः’ इति तन्नामसु पाठात् , बुद्धिशब्दस्य हिरण्यगर्भबुद्धिसाधारण्येऽपि व्यष्टिसमष्टिभेदेन पृथग्ग्रहणोपपत्तेः । महच्छब्दो महत्तत्त्ववाचीति साङ्ख्यपक्षेऽपि तथैव पृथग्ग्रहणस्योपपादनीयत्वात् । तन्मते बुद्धिशब्दस्य महत्तत्त्वाभिधानत्वाभ्युपगमात् । अपि च ‘आत्मानं रथिनं विद्धि’ इत्यारभ्य ‘‘विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’(क.उ.१-३-९) इत्यन्तेन संयतमनोबुद्ध्याद्युपकरणवता पुरुषेण प्राप्यं विष्णोः परमं पदमुक्त्वा किं तत् परमं पदमित्याकाङ्क्षायामिन्द्रियादिभ्यः परत्वेन तत्प्रतिपादनार्थं तच्छेषत्वेन इन्द्रियादीन्यनुक्रान्तानि । तत्र पूर्वं रथिरथादिकल्पनायां गृहीता एवेन्द्रियादयोऽत्रापि ग्राह्याः ; प्रकृतत्वात् । एवञ्च रथत्वेन रूपितं शरीरं पुरुषपरत्वप्रतिपादकवाक्यस्थेन केनचित्पदेनाभिधानमपेक्षमाणं सत् स्वाभिधेयावरुद्धानीन्द्रियादिपदानि विहाय परिशिष्टमव्यक्तपदमनुधावति । अव्यक्तपदञ्च रथिरथादिरूपकविषयार्थमध्ये कञ्चिदर्थमभिधातुमपेक्षमाणं सत् स्वशब्दोपात्तानीन्द्रियादीनि विहाय परिशिष्टं शरीरमनुधावति । एवमन्योन्याकाङ्क्षालक्षणेन प्रकरणेनापि शरीरमेवाव्यक्तं भवितुमर्हतीति चेत् – उच्यते – स्मार्तक्रमतः श्रौतक्रमस्य बलीयस्त्वं तावदसिद्धम् ; शब्दस्य स्वातन्त्र्येण प्रामाण्यमनभ्युपगच्छतां साङ्ख्यानां मते श्रुतिस्मृत्योरनुमानसिद्धार्थानुवादित्वेन तुल्यत्वात् । श्रौतक्रमोऽप्यसिद्धः ; रूपकवाक्ये रथित्वेन रूपितस्य संसारिणः सारथित्वेन रूपितस्य तदध्यवसायस्य च मध्ये शरीरम् , पुरुषपरत्ववाक्ये साङ्ख्यमते महत्तत्त्वरूपस्य सिद्धान्ते संसार्यात्मस्वरूपस्य च महत आत्मनः , प्राप्यवैष्णवपदरूपस्य पुरुषस्य च मध्ये अव्यक्तमिति भेदात् । सिद्धान्ते ‘महानात्मा’ इत्यस्य प्राग्ग्रथित्वेन रूपिते संसारिणि वृत्तिसम्भवे व्यष्टिसमष्टिभेदेन बुद्धिमहद्भेदकल्पनाक्लेशानौचित्यात् । अव्यक्तपदस्य शरीरपरत्वापादकं प्रकरणमप्यसिद्धम् । प्रधानस्याकांक्षावतः सन्निधावाम्नानं हि प्रकरणम् । तथा च किं तत्परं पदमिति निर्धारणाकांक्षस्य वैष्णवपदस्य सन्निधावाम्नानरूपेण प्रकरणेन इन्द्रियादीनि तदीयपरत्वप्रमिताववधितयोपयोगित्वेन तदङ्गानि भवन्तु नाम । इन्द्रियादयो रथिरथादिकल्पनायां गृहीता एवान्यूनानतिरिक्ता इहापि ग्राह्या इति केन प्रकरणेन सिद्ध्यति न हीन्द्रियादिभिरसंयतैर्जीवः पुनः पुनः संसारमेव प्राप्नुयात्संयतैस्तु मुक्तिमिति प्रदर्शनार्थे रथिरथादिरूपणेऽङ्गभावमासाद्य निराकांक्षा इन्द्रियादयः पुरुषपरत्वप्रतिपादनेऽप्यङ्गभावमपेक्षन्ते । नापि प्रधानं वैष्णवपदं स्वकीयपरत्वप्रतिपादने तेषामवधितयाऽङ्गभावमपेक्षते । तद्धि ‘सा काष्ठा सा परा गतिः’ इति निरतिशयोत्कर्षप्रतिपादनानुसारेण कृत्स्नस्य जगतः परत्वावधितयाङ्गभावमपेक्षते । न च कृत्स्नं जगद्रूपकवाक्ये गृहीतम् । शरीरेन्द्रियतद्विषयमनोबुद्धिभोक्तॄणामेव तत्र ग्रहणात् । अतस्तदाकांक्षानुसारेण साङ्ख्याभिमतपुरुषावरचतुर्विंशतितत्त्वात्मकसकलप्रपञ्चसमर्पकत्वमेवात्र इन्द्रियादिशब्दानां युक्तम् । तत्रेन्द्रियाणि ज्ञानकर्मार्थानि दश । अर्थाः पञ्च तन्मात्राः पञ्चमहाभूतरूपा दश । मनोऽन्तरिन्द्रियम् । बुद्धिरहङ्कारः । महानात्मा महत्तत्त्वम् अव्यक्तं प्रधानमिति सङ्घटते तेषां चतुर्विंशतितत्त्वसमर्पकत्वम् । बुद्धिशब्दाभिधेयमहत्तत्त्वप्रभवत्वादहङ्कारे बुद्धिशब्द उपपन्नः । एतेन – सन्निधानाद्रूपकवाक्यगतान्येवेन्द्रियादीनि ग्राह्याणीति निरस्तम् ; आकांक्षायाः सन्निधानाद्बलीयस्त्वात् । ‘अर्थतो ह्यसमर्थानामानन्तर्येऽप्यसंबन्धः’(जै.सू.४-३-११) इति जैमिनिसूत्रदर्शनात् ‘यस्य येनार्थसम्बन्धो दूरस्थेनापि तेन सः । अर्थतो ह्यसमर्थानामानन्तर्यमकारणम्’ इति वार्तिकोक्तेश्च । एतेनैव रूपकवाक्ये षडर्था रूपकविषयाः इहापि परत्वावधयस्तावन्त इति संख्यासामान्यात्त एव ग्राह्या इत्यपि शङ्का निरस्ता । संख्यासाम्यतोऽप्याकाङ्क्षाया बलीयस्त्वात् । साङ्ख्यानां पञ्चविंशतिस्तत्त्वानि । इह परत्वावधयश्चतुर्विंशतिस्तत्त्वानि पुरुषः पञ्चविंशस्ततः परं तत्त्वान्तरं नास्तीति साङ्ख्याभिमततत्त्वग्रहणेऽपि संख्यासाम्यसंभवाच्च । ननु वैदिकस्याङ्गापेक्षस्यान्यत्र निबद्धमपि वैदिकमेवाङ्गजातं ग्राह्यम् , न त्वनिबद्धमप्यवैदिकमिति पूर्वतन्त्रे निर्णीतत्वादिह परमपदस्य परत्वावधिरूपस्वप्रतियोग्याकांक्षायां मुक्तिसंसारप्राप्तिवर्णनोपयोगिरूपणार्थतया प्राङ्निबद्धमपि तदेवेन्द्रियादिकं ग्राह्यं ‘एका देया षड् देयाश्चतुर्विंशतिर्देयास्सहस्रं देयमपरिमितं देयम्’ इति श्रुतावाधानदक्षिणाकल्पभेदप्रतिपादकेनापरिमितशब्देन रूढ्या समर्पितस्य बहुत्वस्य प्रतियोग्याकांक्षायामाधानदक्षिणाकल्पान्तरत्वेन निबद्धमपि सहस्रमेव हि प्रतियोगित्वेन गृह्यते । तस्मात्क्वचिदङ्गत्वेनानिबद्धमपि साङ्ख्योदितं तत्त्वजातं न ग्राह्यमिति चेत् ; स्यादप्येवं यद्यत्र तदाम्नानं न स्यात् । अस्ति त्वत्रैव साक्षादिन्द्रियाद्याम्नानम् । तथा च यथा सोमस्येतिकर्तव्यताकांक्षायां स्वप्रकरणाम्नातं सोमलताया रसीभावार्थमपेक्षितं तदाकांक्षापूरणसमर्थमभिषवादिसंस्कारजातमस्तीति तदङ्गभूतदीक्षणीयादिषु सन्निहितमपि तदाकांक्षापूरणासमर्थमैष्टिकमङ्गजातं न गृह्यते , एवमिहापि स्ववाक्याम्नातं निरतिशयपरत्वावध्याकांक्षापूरणसमर्थञ्चतुर्विंशतितत्त्वात्मकं कृत्स्नं जगदस्तीति सन्निधिमात्रलब्धमाकांक्षापूरणासमर्थं रूपितमिन्द्रियादिकं न ग्राह्यम् । किञ्च तद्ग्रहणे परिशेषादव्यक्तपदेन शरीरं ग्राह्यमापतितम् ; न तु तद्युज्यते । न ह्यव्यक्तपदस्य साङ्ख्याभिमतप्रधान इव शरीरे रूढिरस्ति । न वा तस्मिन्प्रत्यक्षे ‘न व्यक्तम्’ इति योगस्सम्भवति । ननु चतुर्विंशतितत्त्वग्रहणेऽपि ‘महानात्मा’ इत्यात्मश्रुतिर्न सम्भवति । नैष दोषः । व्यापकत्वाद्यर्थान्तरवृत्तितया तस्य महत्तत्त्वविशेषणत्वात् । अग्रे ‘महतः परमव्यक्तम्’ इति केवलमहच्छब्देनैव प्रतिनिर्देशदर्शनात् । ‘‘यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि’(क.उ. १-३-१३) इत्यग्रेतनमन्त्रे ज्ञानशब्दोदितायां बुद्धावपि विशेषणतयाऽत्मशब्दप्रयोगदर्शनेन ततश्चेतनपरत्वनिर्णयायोगाच्च । तस्मात्तन्त्रसिद्धं स्वतन्त्रं जगत्कारणं प्रधानमिहाव्यक्तपदेनोच्यत इति जगत्कारणे ब्रह्मणि न सर्ववेदान्तवाक्यसमन्वयः; नापि जगत्कारणत्वं ब्रह्मलक्षणमिति । एवं प्राप्ते सिद्धान्तः – परमपदशब्दोक्तस्य परमपुरुषस्य प्राप्यत्वेन प्रतिपादने य एवेन्द्रियादयो रूपकविषयाः संयतत्वगुणेन तत्प्राप्त्युपायतया तदङ्गत्वेन वर्णितास्त एव तस्य परत्वेन प्रतिपादनेऽपि स्वरूपेण तत्प्रमित्युपायतया तदङ्गत्वेन ग्राह्याः ; सन्निहितत्वात् , प्राप्यत्वप्रतिपादने तदङ्गत्वेन क्लृप्तत्वात् , संख्यासाम्याच्च । तन्त्रसिद्धतत्त्वेष्वान्तरालिकभेदेन संख्यासाम्यसत्त्वेऽप्यत्र श्रुतविभाजकोपाधिभिः संख्यासाम्याभावात् ‘दशमन्वन्तराणीह तिष्ठतीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः । बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः । पूर्णं शतसहस्रन्तु तिष्ठन्त्यव्यक्तचिन्तकाः । पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यते’ इति तन्त्रसिद्धवचनान्तरमनुसृत्य इन्द्रियवर्गादीनामेकैकत्वेन परिगणनेऽपि तत्राव्यक्तान्तानां पाञ्चविध्यमिह षाड्विध्यमिति संख्याभेदानपायात् । ननु सोमाङ्गानामिव परत्वावधीनां पठितानां सत्त्वाद्रूपकवाक्यसन्निहितानीन्द्रियादीनि दीक्षणीयादिसन्निहितान्यैष्टिकाङ्गानीव न ग्राह्याणीति चेत् , तर्हि नतरामसन्निहितानि तन्त्रसिद्धतत्त्वानि ग्राह्याणीति क्व साङ्ख्यतत्त्वशङ्कावकाशः नन्विह पठितानामेवेन्द्रियादीनां तन्त्रसिद्धतत्त्वरूपतया पर्यवसानमुच्यत इति चेत् , तदेव प्राचीनरूपकविषयरूपतयाऽस्माभिरुच्यते ; सन्निहितत्वादिहेतुभ्यः । ननु सन्निहितपर्यवसाने परत्वावध्याकाङ्क्षापूरणं न भवति पुरुषावरकृत्स्नप्रपञ्चसङ्ग्रहाभावादिति चेत् , साङ्ख्याभिमततत्त्वपर्यवसानेऽपि तथैव । तन्मात्रादीनामग्रहणादर्थशब्दस्य इन्द्रियपदसमभिव्याहारेणेन्द्रियेभ्यः परत्वलिङ्गेन चेन्द्रियग्राह्यपरत्वात् । इन्द्रियेभ्योऽर्थानां परत्वस्येन्द्रियाणां पुरुषवशीकर्तृताया अर्थोपहाराधीनतया, वशीकृतानामपि तेषां निरतिशयसौन्दर्यवदर्थसन्निधाने क्षोभदर्शनेन च समर्थनीयत्वात् । यद्यप्यनयोर्मन्त्रयोर्नेन्द्रियादिभ्योऽर्थादीनामुत्तरोत्तरपरत्वे तात्पर्यम् , किन्तु इन्द्रियादिभ्यस्सर्वेभ्यः पुरुषस्य परत्व एव तात्पर्यमिति ‘आध्यानाय प्रयोजनाभावात्’(ब्र.सू.३-३-१४) इत्यधिकरणे निर्णेष्यते ; तथाऽपि तात्पर्यविषयस्य तस्यैव प्रमितावुपायत्वेनोच्यमानमिन्द्रियादिभ्योऽर्थादीनां परत्वमर्थादिशब्दानां यस्य यस्यार्थस्य ग्रहणे सम्भवति तं तमर्थमादाय सम्भवदेव ग्राह्यम् । अर्थवादतात्पर्यविषयप्राशस्त्यप्रमित्युपायोऽपि तत्तदवान्तरवाक्यार्थः स्वतस्सम्भवन्नेवार्थवादस्थपदानां तदुचितार्थग्रहणेन गृह्यते । तदर्थान्येव ह्यर्थवादाधिकरणगुणसूत्राणि तत्सिद्ध्यादीनि च । स्वतस्सम्भवदर्थाभावे चार्थवादान्तरकृतसंस्तवानुसारेण बुद्धिस(म्भ)वादयोग्योऽर्थस्तेषां तदुचितार्थग्रहणेन गृह्यते । यथा ‘तस्माद्द्वाभ्यामेति’ इत्यर्थवादस्यार्थवादान्तरकृतोरुसंस्तवानुसार्यर्थो द्वाभ्यामिति पदस्य मध्यमपर्वद्वयरूपार्थग्रहणेन गृह्यते । ‘मध्यमयोर्वा गत्यर्थवादात्’(जै.सू. ७-३-२५) इति सूत्रेण तथा निर्णयात् । सर्वधाऽप्यसम्भव एवासदर्थावलम्बनत्वं प्राशस्त्यस्य रुद्ररोदनाद्यर्थवादेषु । इहेन्द्रियेभ्यः परत्वमिन्द्रियग्राह्याणामुक्तरीत्या सम्भवति, अर्थवादान्तरकृतग्रहातिग्रहसंस्तवमनुसरति च । नन्वस्तु नाम अर्थपदं इन्द्रियग्राह्यपरम् । साक्षाद्भोग्यानामिन्द्रियग्राह्याणां पुरुषावरत्वोक्तौ तत्साधनत्वेन परम्परया पुरुषार्थपर्यवसायिनां तन्मात्रादीनां तत्कैमुतिकन्यायेन सिद्ध्यतीति चेत् ; एवमेव सन्निहितग्रहणेऽपि कण्ठोक्त्या, कैमुतिकन्यायेन च कृत्स्नस्य जगतः पुरुषावरत्वं सिद्ध्यतीति व्यर्थः सन्निहितपरित्यागस्तान्त्रिकतत्त्वपरिग्रहश्च । अवश्यञ्च कठवल्लीष्वेव उत्तरत्राम्नातयोः ‘‘इन्द्रियेभ्यः परं मनः मनसः सत्त्वमुत्तमम् । सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् । अव्यक्तात्तु परः पुरुषो व्यापको लिङ्ग एव च । यद् ज्ञात्वा मुच्यते जन्तुरमृतत्वञ्च गच्छति’(क.उ.२-३-७.८) इति मन्त्रयोः कृत्स्नस्य जगतः पुरुषावरत्वसिद्ध्यर्थं कैमुतिकन्यायः समाश्रयणीयः ; तत्रार्थानामपाठात् । स इहाप्यस्तु । तस्मादिहेन्द्रियादिशब्दानां सन्निहितपरित्यागे कारणाभावात् प्राग्दर्शितपरिशेषलब्धया शरीराव्यक्तपदयोरितरेतराकाङ्क्षया शरीरपरमव्यक्तपदं न तु साङ्ख्याभिमतस्वतन्त्रप्रधानपरमिति सिद्धम् । सूत्रे ‘एकेषाम्’ इत्यनेन सर्वशाखागतकारणवाक्यानामीक्षत्यधिकरण इव प्रधानपरत्वं नाशंक्यत इति दर्शितम् । अपिशब्देन एकेषां कठानां शाखायामपि ब्रह्मकारणत्वप्रतिपादनं वाक्यान्तरैः क्रियमाणं नाक्षिप्यत इति दर्शितम् । तेन ब्रह्मलक्षणस्य नासम्भवः शंक्यते । नापि प्रतिवेदान्तं ब्रह्मकारणत्वावगतिसद्भावरूपं गतिसामान्यमाक्षिप्यते , किन्तु ब्रह्मकारणत्वमभ्युपगम्यैव ‘महतः परमव्यक्तम्’ इत्यत्र साङ्ख्यप्रक्रियाप्रत्यभिज्ञानात् तत्प्रक्रियानुसारेण प्रधानमपि क्वचित्कल्पे स्वतन्त्रकारणमभ्युपगन्तव्यमिति ब्रह्मलक्षणस्यातिव्याप्तिमात्रमाशंक्यत इति सूचितं भवति । यद्यपि उदाहृतमंत्रावष्टम्भेन शङ्का साङ्ख्यप्रक्रियाप्रसिद्धमहदादिकमपि तथैवाभ्युपगन्तव्यमिति प्रधानादिसकलतत्त्वसाधारणम् (णा), तथापि प्रधानस्वीकरणमुखेन ब्रह्मलक्षणाक्षेपेण प्रकृतसङ्गतिरित्यभिप्रेत्य विशिष्य प्रधानस्यानुमानिकशब्देन ग्रहणम् । स्वेन रूपेण रथित्वादिना उपमेयमात्मादिकं रूपवत्कुर्वन्तीति रूपकाणि उपमेयात्मादिसामानाधिकरण्येन निर्दिष्टानि रथिरथसारथिप्रग्रहाश्वगोचररूपाण्युपमानानि । रूपवच्छब्दात् ‘तत्करोति’ इति णिचि ‘णाविष्ठवत्प्रातिपदिकस्य’ इति इष्ठवद्भावान्मतुपो लुकि टेश्च लोपे रूपीत्यतः धातोः कर्तरि ण्वुलि ‘णेरनिटि’ इति णिलोपे च सति रूपवत्कुर्वन्तीत्यर्थे रूपकशब्दनिष्पत्तिः । रूपकात्मना विन्यस्ता आत्मशरीरादयस्तेषां मध्ये शरीराख्यं यद्रूपकविन्यस्तं तस्याव्यक्तपदेन गृहीतेरिति सिद्धान्तहेत्वर्थः । ननु बहुषु रूपकविन्यस्तेषु विद्यमानेषु कुतश्शरीरस्यैवाव्यक्तपदेन ग्रहणमित्याशङ्कावारणाय परिशेषप्रदर्शनार्थोऽपि हेतुसाधकहेतुः ‘शरीररूपकविन्यस्तगृहीतेः’ इत्यनेनैव सङ्गृहीतः । तत्र हेतौ शरीरे अधिकरणे ये रूपकात्मना विन्यस्ता इन्द्रियमनोबुद्ध्यात्मानः तेषां प्रातिस्विकैरिन्द्रियादिशब्दैर्ग्रहणादित्येकोऽर्थः । शरीररूपकस्य रथस्य ये विन्यः विशेषेण नेतारः विषयेष्वाकर्षका इन्द्रियाश्वास्तेषामस्तानि अस्यते गम्यते येष्विति गमनाधिकरणानि ‘विषयांस्तेषु गोचरान्’ इति मार्गात्मना रूपितानि तेषां रूपकवाक्ये विषयशब्दोक्तानामिहार्थशब्देन ग्रहणादित्यपरोऽर्थः । अत्र द्वितीयेऽर्थे विन्यस्तेत्यत्रास्तशब्दः ‘क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः’(पा.सू.३-४-७६) इति सूत्रेण ‘अस गतिदीप्त्यादानेषु’ इति धातोरिह गत्यर्थादधिकरणार्थप्रत्ययान्तः । भूताधिकारविहितोऽयं प्रत्ययः इन्द्रियाश्वानां विषयमार्गेषु सञ्चारस्यातीतस्यापि सत्त्वात्तद्विषयतयोपपन्नः । इडागमाभावस्तु ‘स्तोश्चुना श्चुः’(पा.सू. ८-४-४०) इत्यादिषु नुमागमाद्यकरणेन ‘अनित्यमागमशासनम्’ इति ज्ञापितत्वादुपपन्नः । अस्तशब्दात्प्राचीनो विनीशब्दो विपूर्वान्नयतेः क्विबन्तः ‘शरीररूपकविनि’ इति च षष्ठीबहुवचनान्तं भिन्नं पदं ‘तृतीया तत्कृतार्थेन गुणवचनेन’(पा.सू.२-१-३०) इति सूत्रे तत्कृतपदमिव ‘सुपां सुलुक्’(पा.सू.७-१-३९) इत्यादिसूत्रेण लुप्तविभक्तिकम् । अधिकरणार्थक्तयोगे ‘अधिकरणवाचिनश्च’(पा.सू.२-३-६८) इति विहितायाष्षष्ठ्याः ‘अधिकरणवाचिना च’(पा.सू. २-२-१३) इति समासनिषेधात् । एवमर्थद्वयपरिग्रहेण शरीरातिरिक्तानां सर्वेषां प्रतिस्विकशब्दैर्गृहीतत्वाच्छरीरमेवाव्यक्तपदेन ग्राह्यमिति परिशेषो लभ्यते । एवं सिद्धान्तहेतूपपादनार्थमन्ययोरपि द्वयोरर्थयोर्गर्भीकरणायैव ‘गृहीतेः’ इत्युक्तम् । ननु पुरुषपरत्ववाक्ये रूपकवाक्यनिर्दिष्टा एवेन्द्रियादयो ग्राह्या इति यदि सिद्धं स्यातदा शरीरातिरिक्तानां स्वस्वशब्दैर्गृहीततया परिशेषादव्यक्तशब्देन शरीरं ग्राह्यं सिध्येत् , तदेव कुत इत्याशङ्कायां सन्निहितत्वादिहेतुभ्य इत्येतदपि अनेनैव हेतुवाक्येनार्थत्रयपरेण लभ्यते । तत्र ‘रूपकविन्यस्त’ इतीन्द्रियादीनां प्राङ्निर्दिष्टत्वप्रदर्शनेन सन्निहितत्वं लभ्यते । तेषां प्राङ्निर्दिष्टत्वमात्रमनुक्त्वा विशिष्य रूपकविन्यस्तत्वोक्त्या रथसंयतैरिन्द्रियादिभिः परमपदमिति तेषां प्राप्त्युपायतया पुरुषशेषत्वक्लृप्तिर्लभ्यते परिशेषप्रदर्शनेन तु संख्यासाम्यम् । एवमनन्तरातीतग्रन्थपर्यालोचनायां नास्ति तन्त्रसिद्धतत्त्वग्रहणप्रत्याशेत्युक्तम् । तथैवोत्तरग्रन्थपर्यालोचनायामपीति युक्त्यन्तरसमुच्चयार्थो ‘दर्शयति च’ इति सूत्रशेषः । तथा हि – शरीरेन्द्रियमनोबुद्धिविषयभोगसंयुक्तस्य संसारिणः शरीरादीनां रथादिरूपकत्वकल्पनया संसारमोक्षगतिनिरूपणेन यस्य परमपदशब्दितस्य परब्रह्मणो मोक्षे प्राप्यत्वमुक्तं यस्य च निरतिशयपरत्वं वर्णितं तथाभूतब्रह्मभावावगतिं संसारिणस्तद्भावप्राप्तौ साक्षादुपायमभिप्रेत्य तदुपायमग्रे दर्शयति यथा ‘सा परा गतिः’ इत्येतदनन्तरम् ‘‘एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः’(क.उ.१-३-१२) इति मन्त्रेण तावत्तस्य परमपुरुषस्य परब्रह्मणः सर्वभूतेषु गूढतयाऽवस्थानमुक्त्वाऽत्यन्तदुरधिगमत्वमुक्तं तत्संसारिणस्तदेव परं ब्रह्म तात्त्विकं स्वरूपं न भोक्तृत्वादिविशिष्टं संसारदशायां प्रकाशमानं रूपमिति विवक्षयैव । तथा सत्येव कथं भोक्तृत्वादिविशिष्टस्यातथाभूतब्रह्मभाव इति विचिकित्सया तदधिगमस्य दौर्लभ्योपपत्तेः जीववज्जीवादन्यद्ब्रह्मापि भूतेषु गूढं वर्तत इति विवक्षायां हृदयकमलसंस्थानादिवत् तस्मिन्नपि वेदोक्तिविश्वासात् सुखेनाधिगमसम्भवात् । एवं दुरधिगमत्वोक्त्यनन्तरं तदधिगमोपायं दर्शयति ‘‘यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेद् ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत् तद्यच्छेच्छान्त आत्मनि’(क.उ. १-३-१३) इति । अत्र वागुपलक्षितसकलबाह्येन्द्रियव्यवहारस्य विषयविकल्पाभिमुखस्य मनसो विषयप्रवणाया बुद्धेरिन्द्रियमनोबुद्धियोगाद्भोक्तृत्वमापन्नस्य जीवस्य च क्रमात् पूर्वपूर्वप्रविलापनेन जीवस्य तात्त्विके रूपे प्रकरणिनि परब्रह्मणि प्रतिष्ठापनमुच्यते । एवमभ्यस्यतः क्रमेण ब्रह्मभावावगतिः स्थिरीभवतीति । एवमिदमद्वैतप्रकरणमिति कृत्स्नकठवल्लीपर्यालोचनयाऽपि ‘त्रयाणामेव’ इति सूत्रे व्यक्तीभविष्यति । एवञ्च देहेन्द्रियमनोबुद्धीनां रथत्वादिकल्पनं पुरुषावरत्ववर्णनञ्च न केवलं परमपदप्राप्तौ , तस्य परत्वप्रमितौ चोपायतया , किन्त्वात्मनो देहेन्द्रियमनोबुद्धिव्यतिरेकदार्ढ्यार्थतयाऽपि । अन्यथा देहेन्द्रियादिधर्मैर्विरुद्धधर्मवत्तया भासमाने संसारिणि ब्रह्मभावावगतिदार्ढ्यासम्भवात् । अतः पुरुषपरत्ववाक्ये मनोबुद्धीन्द्रियाणामिव देहस्यापि व्यतिरेकप्रतिपत्त्यर्थमस्ति ग्रहणाकांक्षेति ततोऽप्यव्यक्तपदं शरीरपरमवसीयते । एवञ्च सति न्यायसाम्यात् ‘इन्द्रियेभ्यः परं मनः’ इत्यग्रेतनवाक्येऽप्यव्यक्तपदं शरीरपरमेव । तत्रापि ह्यत्रोक्त एवार्थो दार्ढ्यार्थं पुनरनुवर्णितः । अर्थाः परं तत्र न कीर्तिताः । आत्मनो देहादिव्यतिरेकवदर्थव्यतिरेकस्यास्पष्टत्वाभावेन कण्ठोक्त्या ततः परत्वप्रतिपादनस्यात्यन्तोपयोगित्वाभावात् । एवं पूर्वापरपर्यालोचनया साङ्ख्यानभिमताद्वैतप्रकरणे नास्ति तत्तन्त्रसिद्धतत्त्वग्रहणप्रत्याशावकाश इति । ‘दर्शयति च’ इति चकारो दर्शयतीत्यनेन युक्त्यन्तरं समुच्चीयते, न तु प्राचीनहेतुसाधकहेतुरुच्यते इति ज्ञापनार्थः । सन्निहितेन्द्रियादिग्रहणे पुरुषावरकृत्स्नप्रपञ्चसंग्रहो नास्तीत्यादिशङ्कानिरासार्थो वा । ।१-४-१। ननु तथाऽप्यव्यक्तं प्रधानमित्येव युक्तम् । तत्र ह्यव्यक्तपदस्य रूढिरस्ति , न व्यक्तमिति योगोऽप्यस्ति न तु शरीर इत्याशङ्कायामाह –
सूक्ष्मं तु तदर्हत्वात् ॥२॥ 【भाष्यम्】 साङ्ख्यानां पारिभाषिकी रूढिर्न वेदार्थनिर्णयोपयोगिनी । लौकिकी त्वव्यक्तपदस्य न प्रधानेऽस्ति । योगस्तु स्यात् । स त्वन्यस्यापि सूक्ष्ममात्रस्य साधारणः । तथाऽपि शरीरं स्थूलमेव इति चेत् ; सत्यम् । सूक्ष्मं त्विह कारणात्मना शरीरं विवक्ष्यते । तस्य कारणं ह्यव्याकृतं सूक्ष्मम् । तदात्मना शरीरमपि सूक्ष्मम् । यद्यपि सर्वं जगदव्याकृतात्मना सूक्ष्ममेव ‘तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत’ इति (बृ.उ.१-४-७) सर्वस्य जगतः प्रागव्याकृतभावश्रवणात् , तथाऽप्यत्र ग्राह्याणामिन्द्रियादीनां शब्दान्तरैर्गृहीतत्वात् परिशिष्टं शरीरमेकमिति तदेव कारणवाचिना उपचाराद्गृह्यते । स्यादेतत् – अव्याकृतमपि नाव्यक्तशब्दार्हम् । तद्धि मायाऽविद्याक्षराकाशादिशब्दैः श्रुतिषु प्रसिद्धमज्ञानमिति भवद्भिरिष्यते । तत्र च ‘न जानामि नावेदिषम्’ इत्यादिप्रत्यक्षं प्रमाणमुपन्यस्यते । कथं तत्सूक्ष्ममस्पष्टम् अस्पष्टवचनो ह्यव्यक्तशब्दः , न त्वनिर्वाच्यवचनः ; तथा लोकप्रसिध्यभावात्तान्त्रिकपरिभाषायाश्चानादिशब्दार्थनिर्णयानुपयोगित्वस्योक्तत्वात् , अनिर्वाच्यवचनत्वे च शरीरस्याप्यनिर्वाच्यत्वेनाभ्युपगततया तत्र साक्षादव्यक्तशब्दस्य वृत्त्युपपत्तौ प्रागवस्थितोपचारसमाश्रयणक्लेशायोगादित्याशंक्योक्तं सूत्रे ‘तदर्हत्वात्’ इति । कारणस्यास्पष्टस्याव्यक्तशब्दार्हत्वादित्यर्थः । अयमाशयः – यथा स्थूलमिदं शरीरं स्फुटतरबाह्येन्द्रियप्रत्यक्षसिद्धमनेकार्थक्रियाकार्यातिस्पष्टं नैवमज्ञानम् । अत एव ‘न जानामि’ इत्यादिप्रत्यक्षं क्लृप्तज्ञानाभावविषयमस्त्विति कदर्थयन्तस्तदद्याप्यपलपितुं प्रयतन्ते । ततश्च यथैव ‘अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः’ इति भाष्योक्तरीत्या सर्वेषां प्रत्यग्रूपतया प्रकाशमानमपि परं ब्रह्माविद्यादोषाद्यथावत् स्फुटतरमप्रकाशमानमद्यापि अनात्मस्वात्मप्रतिपत्तिमद्भिश्चोरैर्मुष्यमाणमस्पष्टमव्यक्तशब्दार्हम् , अत एव ‘तदव्यक्तमाह हि’(ब्र.सू.३-२-२३) इति सूत्रयिष्यते एवमिदमपीति ।१-४-२। ननु यदि सर्वविकारप्रकृतिभूतमव्याकृतमिति किञ्चिदभ्युपगम्यते हन्त भोः स एव प्रधानकारणवादः प्राप्तः । साङ्ख्यैरपि हि तदेव प्रधानमिति व्यपदिश्यत इत्याशंक्याह – तदधीनत्वादर्थवत् ।३। अस्मदङ्गीकृतमव्याकृतं जगत्कारणस्य परमेश्वरस्य शक्तिरूपतया तदधीनमिति तदङ्गीकारेण न स्वतन्त्रप्रधानकारणवादाभ्युपगमप्रसञ्जनावकाशः । ननु यदि परमेश्वर एव जगत्कारणं कृतमव्याकृतेन तदधीनेनेत्याशंक्योक्तं सूत्रे ‘अर्थवत्’ इति । अर्थवत् सफलमव्याकृतम् । न हि शक्तिरूपेण तेन विना निर्विकारचैतन्यरूपस्य परमेश्वरस्य जगदुपादानत्वं जगत्स्रष्टृत्वं वा सम्भवति । तदेतत् प्रकृत्यधिकरणे स्थापयिष्यमाणस्य ब्रह्मणः उभयविधकारणत्वस्य निर्वाहकमिह प्रसङ्गात् सूत्रितम् । तत्रैव व्यक्तीकरिष्यामः । ननु यदव्यक्तं शरीरं कथं तद्भोक्तृभोगायतनतया तच्छेषभूतं ततः परं स्यादिति शङ्कायामप्येतदेवोत्तरं ‘तदधीनत्वादर्थवत्’ इति । यथा खल्विन्द्रियाणां पुरुषवशीकर्तृत्वस्यार्थाधीनत्वादर्थानामिन्द्रियेभ्यः परत्वम् , जीवभावेन भोक्तृत्वस्याव्यक्ताधीनत्वात् तस्य तावत्ततः परत्वं युक्तम् । तद्रूपतोपचारात्तु शरीरस्य तदौपचारिकम् । इदमेव श्रुतावव्यक्तपदप्रयोगेण शरीरस्य कारणावस्थात्मतोपचाराश्रयस्य फलं यत्तदीयमेव भोक्तृतः परत्वं शरीरे परिकल्प्य तद्द्वारा पुरुषपरत्वं वर्णनीयमिति । ननु कैश्चिदाचार्यैः व्यक्तं शरीरं कथमव्यक्तशब्देनोच्यत इति शङ्कायां स्थूलशरीरं तेन नोच्यते, किन्तु लोकद्वयसञ्चारानुयायि स्थूलशरीरारम्भकभूतसूक्ष्मरूपं सूक्ष्मशरीरमित्येतत्परतया ‘सूक्ष्मं तु’ इति सूत्रं व्याख्यातम् । ‘तदधीनत्व’सूत्रञ्च संसारित्वस्य तदधीनत्वाल्लोकद्वयाननुयायिस्थूलशरीराधीनत्वाभावात्तस्यैव संसारितः परत्वमुपपद्यत इत्येतत्परतया व्याख्यातम् । युक्तं च तत् ; ‘सूक्ष्मं प्रमाणतश्च तथोपलब्धेः’(ब्र.सू. ४-२-९) इत्यग्रेतनसूत्रेण नाडीनिष्क्रमणादिहेतुभ्यः सौक्ष्म्यावगत्या देहान्निष्क्रामत्सूक्ष्मशरीरं पार्श्वस्थैर्नोपलभ्यत इति समर्थितत्वेनातीन्द्रिये तस्मिन्नव्यक्तशब्दस्य निर्विशङ्कवृत्तिसम्भवात् । ‘तदापीतेः संसारव्यपदेशात्’(ब्र.सू. ४-२-८) इति सूत्रेण तस्याऽऽसंसारमोक्षानुवृत्तिरुक्ता ; संसारित्वं तदधीनमित्यस्यापि निर्विशङ्कत्वात् । न च रूपकवाक्ये शरीरद्वयस्यापि प्रकृतत्वाविशेषे कथमिह सूक्ष्मशरीरमेव ग्राह्यमिति शङ्क्यम् । तत्रापि सूक्ष्मशरीरस्यैव रथत्वेन रूपणात् । रथेन परलोकप्राप्तेरपि वक्तव्यत्वात् । एवं युक्तं तद्व्याख्यानं किमिति भाष्यकृद्भिरुपेक्षितम् व्याख्येयसूत्राभ्यामेव तत्प्रत्याख्यातमित्युपेक्षितम् । यद्यतीन्द्रियं सूक्ष्मशरीरमिह ‘सूक्ष्मं तु’ इत्यनेन गृहीतं स्यात् तदा कस्यामाशङ्कायां ‘तदर्हत्वात्’ इति सूत्रशेषः कर्तव्यो भवेत् यदि च परलोकाननुवृत्तस्थूलशरीराधीनं न भवति संसारित्वमिति स्थूलशरीरमिह त्यज्येत , तदा सूक्ष्मशरीरमपि किमिति न त्यक्तव्यम् तदपि महाप्रलये नानुवर्तते ; सर्वस्यापि तदानीमव्याकृतशेषत्वात् ; पुनः सर्गादौ भूतेन्द्रियसृष्टिवर्णनाच्च । यत्तु स्थूलशरीरं न प्रकृतमित्युक्तं तद्विपरीतम् । पुरुषार्थसिद्ध्यर्थमिच्छापूर्वकप्रवृत्तौ हि रथादिगमनसाधारणपरिकररूपणं युज्यते , न तु स्थूलदेहवियोगात्संपिण्डितकरणग्रामस्यातिवाहिकैः क्रियमाणे नयने । इच्छापूर्वप्रवृत्तौ चेन्द्रियाश्वैराकृष्यमाणतया स्फुटतरमुपलभ्यमानस्य चेष्टाभोगेन्द्रियाश्रयतया शरीरशब्दमुख्यार्थस्य स्थूलशरीरस्यैव रथत्वरूपणमुचितम् । परलोकानुयायित्वात्सूक्ष्मशरीरं रथत्वेन रूपितमिति कल्पनाप्रसक्तौ च प्रलयेऽप्यनुयायित्वादव्याकृतशरीरं तथा रूपितमित्येव कल्पना स्यात् । अस्तु वा सूक्ष्मशरीरस्यापि रूपकानुप्रवेशः । स्थूलशरीरमवश्यं रूपकानुप्रविष्टतया पुरुषपरत्वपरवाक्येऽप्यन्वयमाकांक्षमाणं न परित्यागमर्हतीत्यलं विस्तरेण ।१-४-३। एवं पूर्वापरग्रन्थपर्यालोचनया वाक्यन्यायविचारणायां नास्त्यत्र साङ्ख्यतन्त्रसिद्धतत्त्वग्रहणशङ्कावकाश इति समर्थितम् । ये त्वत्र क्रमिकमहदव्यक्तपुरुषश्रवणमात्रसन्तुष्टाः श्रद्धाजडा मन्यन्ते इदमेव वाक्यं साङ्ख्यमतस्य मूलं भवितुमर्हति ; न ह्यवेदमूलमत्यन्ताप्ततमाः कपिलादयो महर्षयः प्रणयेयुरिति तान्प्रत्याह –
ज्ञेयत्वावचनाच्च ॥४॥ 【भाष्यम्】 यदीदमेव वाक्यं साङ्ख्यमतस्य मूलमभविष्यत् , तदा ‘गुणपुरुषान्तरज्ञानात् कैवल्यम्’ इति वदतां साङ्ख्यानामभिमतं प्रधानस्य मुमुक्षुज्ञेयत्वमप्यत्रावक्ष्यत् । तदत्र नोच्यते । विभूतिविशेषप्राप्तये प्रधानस्योपास्यत्वं तस्य स्वतन्त्रकारणत्वमित्यादि च तेषामभिमतमत्र नोच्यते । अतो नैतन्मूलकं साङ्ख्यतन्त्रमिति श्रद्धेयम् । न हि यन्मूलमेव शास्त्रं प्रणयन्ति तत्र तच्छास्त्रवर्णितं निक्तमिति युज्यते ॥१-४-४॥ नन्वसिद्धं ज्ञेयत्वावचनम् ; ‘‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते’(क.उ. १-३-१५) इत्युत्तरमन्त्र एव हि तस्य ज्ञेयत्वं वदतीत्याशङ्कामुद्भाव्य परिहरति –
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥५॥ 【भाष्यम्】 शब्दादिहीनत्वोक्त्या महतः परत्वोक्त्या च प्रधानमिह निर्दिष्टमिति न भ्रमितव्यम् । प्राज्ञः परमात्मा हि निचाय्यत्वेन निर्दिष्ट इति ‘एष सर्वेषु भूतेषु’ इत्यादितस्तत्प्रकरणात् प्राग्दर्शितादवगम्यते । शब्दादिहीनत्वमक्षरवाक्ययोः परमात्मनोऽपि प्रसिद्धम् । महतश्चात्मनो भोक्तुः परत्वं तस्य प्रसिद्धम् ।१-४-५॥ ननु अस्तु नाम परमात्मनः प्रकरणं , तथापि यथा ‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्’ इति मन्त्रे जीवस्य गतिवर्णनमेवमशब्दमिति प्रधानस्यापि मुमुक्षुज्ञेयत्ववर्णनं स्यादित्याशङ्क्याह –
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥६॥ 【भाष्यम्】 त्रयाणामेव पदार्थानामग्निजीवपरमात्मनां कठवल्लीषूपन्यासो दृश्यते तद्विषय एव प्रश्नः । तत्र तावत् ‘‘स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्धधानाय मह्यम्’(क.उ. १-१-१३) इत्यग्निविषयः प्रश्नः । ‘‘येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः’(क.उ. १-१-२०) इति जीवविषयः । ‘‘अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’(क.उ. १-२-१४) इति परमात्मविषयः । प्रतिवचनमपि ‘‘लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा’(क.उ. १-१-१५) इत्यग्निविषयम् । ‘‘हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । यथा च मरणं प्राप्यात्मा भवति गौतम । योनिमन्ये प्रपद्यन्ते’(क.उ. २-२-६) इत्यादि जीवविषयम् । ‘‘न जायते म्रियते वा विपश्चित्’(क.उ. १-२-१८) इत्यादि बहुप्रपञ्चं परमात्मविषयम् । एवञ्च मृतजीववृत्तान्तविषयप्रश्नसत्त्वात्तद्गतिवर्णनं युक्तम्, न तु प्रधानस्य मुमुक्षुज्ञेयत्ववर्णनम् , अपृष्टत्वात् । ननु त्रयाणामेवोपन्यास इत्यसिद्धम् ; परमात्मप्राप्तौ तदवगतौ च उपाययोरपि ‘‘विज्ञानसारथिर्यस्तु’(क.उ. १-३-९) ‘‘यच्छेद्वाङ्मनसी प्राज्ञः’(क.उ. १-३-१३) ‘‘नाविरतो दुश्चरितान्नाशान्तः’(क.उ. १-२-२४) इत्यादिषूपन्यासो दृश्यते । एवं प्रधानस्य ज्ञेयत्वोपन्यासोऽपि स्यात् । न स्यात् संदर्भविरोधात् । एवं श्रूयते – वाजश्रवसो महर्षिः सर्ववेदसदक्षिणेन यज्ञेनेष्ट्वा जरद्गवीः दक्षिणाः प्रयच्छन् बालेन नचिकेतसा पुत्रेणानर्हदक्षिणादाननिमित्तक्रतुवैकल्यात्पितुरनिष्टमाशङ्कमानेन तदनिष्टं स्वात्मप्रदापनेनापि क्रतुसंपत्तिं कारयित्वा निवारणीयमिति मन्यमानेन ‘तात कस्मै मां दास्यसि’ इति पुनः पुनः पृष्टो बहुवारप्रश्ननिर्बन्धसंजातकोपस्सन् ‘मृत्यवे त्वा ददामि’ इत्युवाच । नचिकेताः किं मयोक्तमित्यनुशयानं पितरं प्रति ‘पूर्वं पितामहाद्या यथा, मृषावादं विना स्थिता यथा चापरे साधवोऽद्यापि तिष्ठन्ति तान्वीक्ष्य तथा वर्तितव्यम् । मर्त्यस्सस्यवदल्पेनैव कालेन जीर्यति जीर्णश्च मृत्वा सस्यमिव पुनर्जायते । एवमनित्ये जीवलोके किं मृषाकरणेन, पालय सत्यम्, प्रेषय मां मृत्यवे’ इत्युक्त्वा तथैव पित्रा प्रेषितः प्रवसतो मृत्योर्द्वारि तिस्रो रात्रीरनश्नन्नुवास । प्रवासादागतो मृत्युरनश्नतैवं ब्राह्मणेन द्वारि स्थितमिति भीतस्तं प्रसाद्य तस्मै त्रीन्वरान्ददौ । नचिकेताः प्रथमेन वरेण पितृप्रसादं , द्वितीयेनाग्निविद्यां, तृतीयेन मरणानन्तरदेहातिरिक्तात्मानुवृत्त्यस्तित्वनास्तित्वसन्देहनिवर्तिकामात्मविद्यां वव्रे । यद्यपि नचिकेता देहातिरिक्तात्मास्तित्वे विश्वासवानेव , अन्यथा पितुः क्रतुकैवल्यस्य मृषावादस्य च परिहारार्थं महतः प्रयत्नस्य ‘‘सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः’(क.उ. १-१-६) इति वचनस्य स्वर्गफलकाग्निविद्यावरणस्य चानुपपत्तेः ; तथाऽपि हितैषिवचनादिलब्धस्यास्यैव विश्वासस्य दृढीकरणाय विशेषान्तरज्ञानाय च प्रश्न उपपद्यते । इदानीमपि हि पारलौकिककर्मानुष्ठाननिष्ठा एव किमवलम्बनेन देहात्मवादः , कथञ्च तन्निरसनमिति जिज्ञासमाना दृश्यन्ते । तत्प्रकारावगत्यर्थं वेदाध्ययनानन्तरं वैदिककर्मानुष्ठानवद्भिः पठितव्येषु शास्त्रेषु देहात्मवादतन्निराकरणनिबन्धनञ्च दृश्यते । मृत्युस्तु – अस्य प्रश्नस्योत्तरं यथावदात्मरूपविवेचनेनोच्यमानं परब्रह्मोपदेशः पर्यवस्येत् । वस्तुतः प्रत्यग्ब्रह्मणोरैक्यात् । तदुपदेशश्च उपदिश्यमानार्थस्यातिगहनतया विषयासक्त्यन्तरायेण पारं प्राप्तुमप्रभवते मध्ये पतिष्णवे न कर्तव्य इति प्रथमं शिष्यः परीक्षणीयः । विशिष्य च नचिकेता देहातिरिक्तात्मास्तित्वविचिकित्सया पृच्छन् किमविद्वदधिकारिकर्मानुष्ठानार्थं पारलौकिककर्मफलभोक्तृजीवस्वरूपज्ञानार्थीति तावन्मात्रं बोधनीयः किं वा मोक्षार्थञ्जीवस्वरूपभूतब्रह्मविद्यार्थीति तावत्पर्यन्तं बोधनीय इत्यपि परीक्षणीय इति मत्वा ‘‘देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः । अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मासृजैनम्’(क.उ. १-१-२१) इत्युवाच । नचिकेताश्च ‘‘देवैरत्रापि विचिकित्सितं किल त्वञ्च मृत्यो यन्न सुविज्ञेयमात्थ । वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित्’(क.उ. १-१-२२) इति प्रत्युवाच । अनेन प्रतिवचनेन दुरधिगमो विषय इति मध्ये न विस्रक्ष्यत्ययमिति मृत्युर्निश्चित्य मुमुक्षुर्वा बुभुक्षुर्वाऽयमिति विवेचनार्थं मुमुक्षास्थैर्यावगत्यर्थञ्च प्रलोभयन्नुवाच ‘‘शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यमश्वान् । भूमेर्महदायतनं वृणीष्व स्वयञ्च जीव शरदो यावदिच्छसि’(क.उ. १-१-२३) इत्यारभ्य ‘‘इमा रामास्सरथास्सतूर्या न हीदृशा लम्भनीया मनुष्यैः । आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं माऽनुप्राक्षीः’(क.उ. १-१-२५) इत्यन्तम् । यमेनैवं प्रलोभ्यमानोऽपि नचिकेतास्तु ‘‘श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणाञ्जरयन्ति तेजः । अपि सर्वञ्जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते’(क.उ. १-१-२६) इति मृत्युना दित्सितान् स्त्र्यादिविषयान् श्वस्थायित्वेऽपि सन्धिग्धत्वेन सर्वेन्द्रियतेजःक्षपयितृत्वेन च निन्दित्वा तेन दित्सिताञ्चिरकालजीविकामपि ब्रह्मादिकीटान्तसकलप्राणिवर्तिनः सर्वस्यापि जीवितस्याल्पकालत्वेन निन्दित्वा ‘‘यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत्’(क.उ. १-१-२९) इति प्राचीनप्रश्नमेव मृत्युना ‘मरणं मानुप्राक्षीः’ इति हेयतया उपन्यस्तमपि स्थिरीचकार । यदैवमतितरां तैस्तैः कामैः प्रलोभ्यमानोऽपि न चचाल नचिकेताः , तदा मृत्युर्निःश्रेयसमभ्युदयञ्चेति पुरुषानुबन्धि फलद्वयं श्रेयःप्रेयःशब्दाभ्यां प्रविभज्य तदुभयं विविच्य धीरः श्रेयो वृणीते, मन्दस्तु प्रेय इत्याद्युक्त्या नचिकेतसो वरं प्रशस्य ‘‘विद्याभीप्सिनं नचिकेतसं मन्ये’(क.उ. १-२-४) इति कर्मफललिप्सया कर्मानुष्ठानोपयोगिभोक्त्रात्मज्ञानार्थी न भवति नचिकेताः , किन्तु मुमुक्षया ब्रह्मविद्यार्थी ; देहातिरिक्तात्मप्रश्नोऽयं मुमुक्षुज्ञेयतदीयतात्त्विकरूपविषय एवेति निश्चित्य ‘‘न त्वा कामा बहवोऽलोलुपन्त’(क.उ. १-२-४) इति विविधैः प्रलोभनैरच्छिन्नतयाऽवगतं तस्य मुमुक्षायास्स्थैर्यञ्चोद्घाट्य ‘‘अविद्यायामन्तरे वर्तमानास्स्वयंधीराः पण्डितम्मन्यमानाः । दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः । न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनःपुनर्वशमापद्यते मे’(क.उ. १-२-५,६) इति देहात्मैक्याध्यासरूपाविद्यामूलकमेव केचिद्देहात्मवादमवलम्ब्य गतानुगतिकाः परिभ्रमन्ति । तथाभूतपण्डितम्मन्यवचनश्रवणाज्जडचित्तस्य परलोकानुभाव्यफलसद्भावो न प्रतिभाति । तादृशो नास्तिकः पुनःपुनः मत्कार्यमाणयातनाविषयो भवतीति देहात्मवादनिराकरणेन तृतीयप्रश्नस्य यथाश्रुतस्योत्तरमुक्त्वा मुमुक्षवेऽस्मै आत्मयाथात्म्यजिज्ञासवे यथावदात्मस्वरूपं ब्रह्मात्मकमुपदेष्टव्यमिति देहातिरिक्तत्वेन प्रदर्शितस्यात्मनः ‘‘श्रवणायापि बहुभिर्यो न लभ्यः’(क.उ. १-२-७) इत्यादिनाऽत्यन्तदुरवगाहत्वमुक्त्वा उवाच ‘‘तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’(क.उ. १-२-१२) इति । अत्र बुद्धिगुहायां प्रतिबिम्बभावेनाहितं गूढमनुप्रविष्टं गहनं प्राप्तं बुध्युपाधिकविषयज्ञानसहस्रजटिलतया प्रच्छन्नतात्त्विकनिर्विशेषरूपं गह्वरेष्ठमाध्यासिकानन्तरागद्वेषसुखदुःखाद्यनर्थसङ्कटे स्थितं पुराणं एवमनादिकालप्रवृत्ताध्यासिकरूपम्, अत एव तात्त्विकरूपेण दुर्दर्शं तं संसारिणम् अध्यात्मयोगाधिगमेन ‘‘यच्छेद्वाङ्मनसी’(क.उ. १-३-१३) इत्यादिवक्ष्यमाणेन देवं मत्वा परदेवतारूपं परं ब्रह्म निश्चित्य हर्षशोकौ जहातीति जीवस्य ब्रह्मरूपत्वं तथात्वावगतेर्मोक्षफलञ्चोपदिदेश । तदनन्तरम् ‘‘एतच्छ्रुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य’(क.उ. १-२-१३) इत्यादिना मयाऽत्यन्तं संक्षिप्योक्तमेतदेवाचार्यमुखाच्छ्रुत्वा श्रद्धया सम्यक्परिगृह्य प्रवृह्य देहादिभ्यो निष्कृष्य धर्मादनपेतं देहात्मवदधर्मत्वरहितं सूक्ष्ममेतं देहादिभ्यो निष्कृष्टमात्मानं स्वस्वरूपतया प्राप्य मोदते इत्युक्त्वा विशिष्यात्मविषये शुश्रूषाञ्चोत्पादयामास । एवमुत्पादितशुश्रूषो नचिकेताः प्रत्यगात्मनोऽसंसारिब्रह्मात्मकं स्वरूपं विविच्य ज्ञातुं पप्रच्छ ‘अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्’ इति । अत्र धर्माधर्मशब्दाभ्यां तत्फलं लक्ष्यते ; तथा च धर्माधर्मफलाच्च परिदृश्यमानादस्मात्कार्यकारणप्रपञ्चाच्च भूतभविष्यदात्मकादनित्याच्चान्यद्वस्तु प्रत्यगात्मनस्स्वरूपभूतं पश्यसि ; तथाभूतं वस्तु पश्यन्खलु त्वं ‘‘जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्’(क.उ. १-२-१०) इति मन्त्रेण कर्मफललक्षणं निधिमनित्यं जानामि अनित्यैर्द्रव्यसाध्यैः कर्मभिर्नित्यं तन्न प्राप्यमिति कर्मभिर्न प्राप्यं नित्यञ्च तदवोचः । ‘‘श्रवणायापि बहुभिर्यो न लभ्यश्श्रुण्वन्तोऽपि बहवो यन्न विद्युः’(क.उ. १-२-७) इति ‘‘नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ’(क.उ. १-२-९) इत्यन्तेन ‘शृण्वन्तोऽपि न विद्युः’ इति मनुष्येण सतोक्तं ज्ञातुमशक्यमित्यनन्येन मनुष्यादिभावं हित्वा तद्रूपतां प्राप्तेनाचार्येण प्रोक्ते तस्मिन्पुनः संसारगतिर्नास्तीति तद्विषया मतिस्तर्केणापि प्राप्तुमशक्येति चानीदृशं परिदृश्यमानकार्यकारणात्मकप्रपञ्चविलक्षणमवोचः । ‘तं दुर्दर्शम्’ इति मन्त्रेण प्रत्यगात्मस्वरूपभूतं चावोचः तत्तथाभूतं वस्तु वदेति प्रश्नार्थः । आचार्येण ‘श्रवणायापि’ इत्यारभ्यात्मविषये वर्णितस्य सर्वस्याप्यनुवादः स्वस्योपदेशयोग्यत्वप्रकटनेन सम्यगस्मै उपदेष्टव्यमिति स्वस्मिन्मृत्योः प्रीत्युत्पादनाय । अग्निविद्याप्राप्त्यनन्तरं नचिकेतसा कृतं तदनुवादमाकर्ण्य प्रीतो मुत्युः नचिकेतसे वरान्तरमपि ददाविति प्रागुक्तं ‘‘स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः । तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः । तवैव नाम्ना भविताऽयमग्निस्सृङ्काञ्चेमामनेकरूपां गृहाण’(क.उ. १-१-१५,१६) इति । स्रंकां रत्नमालाम् । ‘‘त्वादृङ्नो भूयान्नचिकेतः प्रष्टा’(क.उ. १-२-९) इति पुनरपि नचिकेतस्तुल्यशिष्यान्तरलाभप्रार्थनया योग्यशिष्यप्रियो मृत्युरित्यवसितम् । एवं पृष्टो मृत्युः ‘‘तत्ते पदं संग्रहेण ब्रवीमि’(क.उ. १-२-१५) इति पृष्टं मुक्तप्राप्यं प्रत्यगात्मनोऽसंसारिस्वरूपं वक्तव्यत्वेन प्रतिज्ञाय पुनरपि तस्य देहातिरिक्तत्वं ‘‘न जायते म्रियते वा विपश्चित्’(क.उ. १-२-१८) इत्यादिमन्त्राभ्यां स्थिरीकृत्य ‘‘अणोरणीयान्’(क.उ.१-२-२०) इति मन्त्रेण परिदृश्यमानशरीरान्तर्वर्तिगुहानिहितं जीवं महिमानमीशं कर्मनिमित्तवृद्धिक्षयरहिततया नित्यमेव महान्तं परमेश्ववरं यः पश्यति , स वीतशोको भवतीति ‘‘तं दुर्दर्शम्’(क.उ. १-२-१२) इति मन्त्रोक्तमर्थमनुवदन्दुर्दर्शस्य केनोपायेन दर्शनमित्याकांक्षायाम् ‘अक्रतुः’ इत्यनेन निष्कामत्वं ‘धातुप्रसादात्’ इत्यनेन शरीरधारणकारणमनःप्रभृतीनां प्रसादं च तदुपायमप्युपदिदेश । मध्येऽपि ‘‘यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति’(क.उ. २-१-१०) इत्यादिप्रदेशेषु प्रत्यग्ब्रह्मैक्यं स्फुटीचकार । न च वाच्यम् – इह देहे विद्यमानस्यामुत्रादित्यमण्डले ब्रह्मलोकस्थाने वा विद्यमानस्य परमेश्वरस्यैव नानात्वं निषिध्यते , न तु देहे विद्यमानस्य जीवस्यादित्यमण्डलादौ सतः परमेश्वरस्य भेदो निषिध्यते – इति । स्थानभेदेन परमेश्वरभेदप्रसक्त्यभावात् । अंगुष्ठमन्त्रेण जीवब्रह्मैक्यप्रतिपादनानन्तरं विरुद्धधर्मवतोस्तयोः कथमैक्यं सम्भवतीत्याशङ्कायां ‘‘यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यन् तानेवानुविधावति’(क.उ. २-१-१४) इति मन्त्रेण जीवे ब्रह्मणि च पृथग्व्यवस्थिता धर्मा अभेदविरोधिनः सन्तीति पश्यतस्तथैव पृथग्धर्मवत्तया संसार एवानुवर्तत इति दोषमुक्त्वा ‘‘यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम’(क.उ.२-१-१५) इति मन्त्रेण शुद्धयोरेवैक्यमिति तयोरैक्यमुपपादयामास । अन्ते च ‘‘अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः । तं स्वाच्छरीरात् प्रवृहेन्मुञ्जादिवेषीकां धैर्येण । तं विद्याच्छुक्रममृतम्’(क.उ.२-३-१७) इति मन्त्रेण ‘अङ्गुष्ठमात्र’ इत्यादिनाऽनूदितं जीवं शरीरान्निष्कृष्य शुक्रं स्थूलसूक्ष्मशरीरद्वयान्निष्कर्षेण शुद्धं विरुद्धधर्मरहितं तममृतं ब्रह्म विद्यादिति प्रत्यग्ब्रह्मैक्यं सोपपादनमुपसञ्जहार । ‘येयं प्रेते’ इति जीवस्य देहातिरिक्तत्वप्रश्नेन ब्रह्मविद्योपक्रमोऽप्यैक्योपपादनार्थं शुद्धत्वसम्पादनायेत्युपनिषदा दर्शितम् । इत्थं नचिकेतःप्रश्नोपक्रमा मृत्युनचिकेतस्संवादरूपेयमुपनिषदासमाप्तेः प्रत्यग्ब्रह्मैक्यपरैव लक्ष्यते । एवमद्वैतप्रकरणेऽस्मिन् कः स्वतन्त्रस्य प्रधानस्य ज्ञेयत्ववर्णनशङ्कावकाशः यदीदं प्रकरणं भिन्नात्मविषयमिति शङ्कास्पदं स्यात्, तदा जीवेश्वरभेदज्ञानमिव प्रधानपुरुषभेदज्ञानमपि मोक्षसाधनमिति तदर्थं प्रधानस्य ज्ञेयत्वम् ‘अशब्दम्’ इति मन्त्रेण वर्ण्यत इति शंक्येतापि, न त्विदं शङ्कास्पदम् ; प्रश्नच्छायया प्रतिवचनसन्दर्भेण च प्रकरणस्याभेदपरतायाः प्रतिष्ठितत्वात् । तथा हि ‘येयं प्रेते’ इति प्रश्नस्तावत् प्रश्नवाक्यस्य ‘मरणं माऽनुप्राक्षीः’ इति प्रश्नप्रतिषेधस्य ‘न साम्पराये’ इति प्रश्नोत्तरस्य च पर्यालोचनया जीवविषय इति निर्विचिकित्समवगम्यते । ‘अन्यत्र धर्मात्’ इति प्रश्नस्तु प्रश्नवाक्यस्य ब्रह्मनिरूपणपरतदुत्तरसन्दर्भस्य च पर्यालोचनया ब्रह्मविषय इति । न चायं जीवविषयप्रश्नादन्यः स्वतन्त्र इति शक्यं वक्तुम् ; वरत्रयोपक्रमविरोधात् । ‘वरन्तवेहाद्य ददामि भूयः’ इतिवत् पुनरत्र वरदानान्तराश्रवणाच्च । किन्तु विशेषजिज्ञासया जीवविषय एव प्रश्नः पुनरनुकृष्ट इति वक्तव्यः । ततश्च ब्रह्मविषयत्वेनावधार्यमाणप्रश्नस्य जीवो विषय इति सिद्धौ प्रश्नसामर्थ्यादेव जीवब्रह्माभेदतात्पर्यं सिद्ध्यति । एवं प्रश्नसामर्थ्येन जीवब्रह्माभेदतात्पर्याविष्करणं वेदच्छायानुकारिणि धर्मशास्त्रेऽपि याज्ञवल्कीये दृश्यते । तत्र हि प्रायश्चित्तकाण्डे ‘क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता’ इति परमेश्वरज्ञानस्य सकलपापप्रायश्चित्तत्वोपदेशप्रसङ्गात् सकलजगत्स्रष्टृत्वादिरूपं परमेश्वरस्य महिमानमुपवर्ण्य ततः कर्मविपाकप्रतुष्टूषया ‘यद्येवं स कथं ब्रह्म पापयोनिषु जायते’ इति प्रश्नोऽवतारितः । तत्र ‘कथं पापयोनिषु जायते’ इत्युक्त्या जीवविषयत्वेनावगम्यमानस्य प्रश्नस्य स इति प्रकृतपरमेश्वरवाचिना सर्वनाम्ना प्राग्वर्णितनिरतिशयस्वातन्त्र्यरूपतदीयमहिमपरामर्शिना ‘यद्येवम्’ इति वचनेन ब्रह्मविषयतामानीयाभेदतात्पर्यमाविष्कृतमिति विशेषः । एवमत्रोपक्रमगतवरत्रयप्रदानरूपाख्यायिकाकल्पनं ब्रह्मविषयप्रश्नस्य प्राचीनजीवविषयप्रश्नानन्यत्वापादनेन जीवब्रह्माभेदतात्पर्यप्रत्यायनार्थतायामेव दृष्टार्थं भवति । इत्थमेव हि विद्यासन्निधिपठितानामाख्यायिकानां विद्याप्रतिपत्त्यर्थत्वं पारिप्लवाधिकरणे वक्ष्यमाणमुपपादनीयम् । एवं तावत् प्रश्नच्छायया जीवब्रह्माभेदपरं प्रकरणमिति सिद्धम् । प्रतिवचनसन्दर्भगतोपक्रमोपसंहारमध्यपरामर्शैस्तस्य तत्परत्वं दर्शितमधस्तात् । ननु प्रतिवचनमध्ये जीवब्रह्मभेदप्रत्यायकोऽपि ‘ऋतं पिबन्तौ’ इति मन्त्र आम्नातः सत्यम् । स तु रथसारथ्यादिकल्पनया प्राप्तव्यत्वेन वक्ष्यमाणस्य ब्रह्मणः तदनन्तरम् ‘अत्र ब्रह्म समश्नुते’ इति अत्रैव प्राप्तव्यत्वेन विशेषणात् तन्निर्वाहाय प्राप्यस्य प्राप्तृसन्निकर्षापेक्षायां प्राप्तुर्जीवस्य प्राप्तव्यपारमार्थिकरूपत्वेन शरीरगुहायामेवं नित्यसन्निहितं तस्यासंसारिस्वरूपमिति प्रदर्शयितुं स मन्त्र इति व्यवस्थापितं गुहाऽधिकरणे । प्राप्तृप्राप्तव्यभेदस्तु कल्पितप्राप्तृरूपापेक्षः । मोक्षशास्त्रेषु तद्व्यपदेशश्च ताद्रूप्यप्राप्तिपरः, न तु ग्रामादिप्राप्तिवद्भेदसापेक्ष इति व्यवस्थापितमानन्दमयाधिकरणे । अतः प्राप्तृप्राप्तव्यभावव्यपदेशादपि न जीवब्रह्मभेदसिद्धिप्रत्याशा । तस्मादद्वितीयब्रह्मपरप्रश्नप्रतिवचनसन्दर्भाविरोधादद्वितीयब्रह्मप्राप्त्युपायोपन्यास इव प्रधानस्य ज्ञेयत्वेन उपन्यासो न सङ्गच्छते । सूत्रस्यायमर्थः – त्रयाणामग्निजीवपरमात्मनामेव एवं वक्तव्यत्वेन , ज्ञेयत्वेन च उपन्यासः । तेषां त्रयाणामेव च प्रश्नः । अतो जीवस्य मुक्तिप्राप्यपारमार्थिकरूपतया परमात्मनि पृष्टे ‘तत्ते पदं संग्रहेण ब्रवीमि’ इति परमात्मनो वक्तव्यत्वेन प्रतिज्ञया तदनुबन्धित्वेन तत्प्राप्त्युपायो बहुधा परमात्मनो दुरधिगमत्वोक्त्या तदवगत्युपायश्च यथाऽर्थात्प्रतिज्ञातो भवति ब्रह्मविचारप्रतिज्ञयेव साधनादिविचारः , न तथा स्वतन्त्रस्य साङ्ख्याभिमतस्य प्रधानस्य ज्ञेयत्वमर्थात्प्रतिज्ञातं भवतीति ‘अशब्दम्’ इति मन्त्रस्य तत्परत्वकल्पनमयुक्तमिति । ‘त्रयाणामेव’ इत्येवकारः प्रधानव्यावृत्त्यर्थः । चकारः परमात्मानुबन्धतत्प्राप्तितदवगत्युपायसमुच्चयार्थः । द्वितीयश्चकारः प्रतिवचनसन्दर्भवत्प्रश्नोऽपि पर्यालोच्यमानः शङ्कितपूर्वपक्षनिराससमर्थस्वतन्त्रो हेतुः , न तु त्रयाणामेवोपन्यास इति हेतोः साधको हेतुरिति ज्ञापनाय हेतुद्वयसमुच्चयार्थः ।१-४-६। साङ्ख्याभिमतमहत्तत्त्वपरप्रत्यभिज्ञामात्रमवलम्ब्याव्यक्तं प्रध6नमि13 मन्दशङ्कायां ‘ज्ञेयत्वावचनात्’ इत्युक्तम् । तामेव च प्रत्यभिज्ञामालम्ब्य ‘महतः परं ध्रुवम्’ इत्यत्र ज्ञेयत्ववचनमप्यस्तीति शङ्कायां सविशेषं प्रदर्श्य तन्नास्तीति उपपादितम् । इदानीं यां प्रत्यभिज्ञामवलम्ब्यैव शङ्काद्वयं प्रसक्तं साऽपि असिद्धेत्याह – महद्वच्च ।७। उभयत्रापि महच्छब्दः साङ्ख्याभिमततत्त्वविशेषपर इति तावदयुक्तम् ; ‘‘महान्तं विभुमात्मानम्’(क.उ.२-१-४) इत्यादिवैदिकप्रसिद्धिविरोधेन तस्य तत्र साङ्ख्यकल्पिताया रूढेस्त्याज्यत्वात् । तद्वदेवाव्यक्तपदस्य प्रधाने रूढिरपि त्याज्या ; वैदिकेन प्रकरणादिना तस्य शरीरपरत्वावधारणात् , ‘महतः परं प्रधानं निचाय्यम्’ इत्येतदपि त्याज्यम् ; प्रकरणस्याद्वैतपरत्वावसायादिति सूत्रार्थः । चकारेण ‘अव्यक्तात् पुरुषः परः’ इति श्रुतपुरुषवच्चेति समुच्चीयते । तस्यापि हि पुरुषशब्दस्य मोक्षार्थं प्रधानविविक्तत्वेन ज्ञेय इति साङ्ख्याभिमते पुरुषे वृत्तिस्त्याज्या ; तस्य प्रकरणेन मोक्षार्थं प्रत्यगभिन्नत्वेन ज्ञातव्ये निर्विशेषे परमात्मनि वृत्तेराश्रयणीयत्वात् । तस्मादव्यक्तशब्दश्शरीरपरो न प्रधानपर इति सिद्धम् ।१-४-७। इत्यानुमानिकाधिकरणम् ।१।
चमसवदविशेषात् ॥८॥ 【भाष्यम्】 श्वेताश्वतरशाखिनस्समामनन्ति – ‘अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजास्सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’(श्वे.उ. ४.५) इति । अयं मन्त्रः किं साङ्ख्याभिमतस्वतन्त्रमूलप्रकृतिपरः, उत तेजोऽबन्नलक्षणावान्तरप्रकृतिपर इति संशये – पूर्वपक्षः – न जायत इत्यजेति मूलप्रकृतौ युज्यते, न त्ववान्तरप्रकृतौ । न च च्छागावाचकस्याजाशब्दस्यावान्तरप्रकृतौ गौणी वृत्तिः स्यादिति वाच्यम् । मुख्ययोगवृत्तिसम्भवे जघन्यवृत्त्ययोगात् । ‘एकाम्’ इत्यपि मूलप्रकृतौ युज्यते, न तु तेजोऽबन्नेषु बहुषु । लोहितशुक्लकृष्णशब्दैस्तु कुसुम्भसलिलान्धकारगतरञ्जकत्वप्रसन्नत्वावारकत्वगुणयोगाद्रजस्सत्त्वतमोगुणात्मिका मूलप्रकृतिर्लक्षयितुं शक्यते । गुणवाचिनां लोहितादिशब्दानां तेजोऽबन्नेषु द्रव्येष्वपि लक्षणैव हि गतिः । ‘सृजमानाम्’ इत्युच्यमानं स्वातन्त्र्येण सृष्टिकर्तृत्वं तु साङ्ख्याभिमतायां मूलप्रकृतावेव युज्यते । उत्तरार्द्धार्थोऽपि तस्यामेव सङ्गच्छते । ‘एकोऽनुशेते, अन्यो जहाति’ इत्यात्मभेदेन साङ्ख्यमतप्रत्यभिज्ञानात् ; औपनिषदैरैकात्म्यस्याभ्युपगतत्वात् । न ह्यत्र पूर्वाधिकरण इवाद्वैतप्रकरणतामापाद्य वा स्वतन्त्रकारणत्वं नोच्यत इति वा न साङ्ख्यमतप्रत्यभिज्ञेति वक्तुं शक्यते । एतेन – अस्य मन्त्रस्य मूलप्रकृतिरर्थश्चेदौपनिषदाभिमता परमेश्वराधीनाऽर्थोऽस्तु न तु साङ्ख्याभिमता स्वतन्त्रेत्यपि शङ्का – निरस्ता ; आत्मभेदाभिधानेन स्वातन्त्र्याभिधानेन च साङ्ख्यमतप्रत्यभिज्ञानात् । तस्याम् ‘एकाम्’ इत्यस्यायोगाच्च , बन्धमुक्तिव्यवस्थार्थं प्रतिजीवमविद्याभेदाभ्युपगमावश्यम्भावात् , ‘जहाति’ इति त्यागोक्त्ययोगाच्च ; मुक्तिदशायां तस्या निरवशेषोच्छेदाभ्युपगमात् , अनुवर्तमानत्व एव त्यागोक्तिसाङ्गत्यात् । तस्मात् साङ्ख्याभिमतस्वतन्त्रमूलप्रकृतिरेवास्य मन्त्रस्यार्थ इति एवं प्राप्ते – राद्धान्तः – अस्य मन्त्रस्य स्वरसतस्तावदेतावानर्थः प्रतीयते – काञ्चिच्छागां त्रिवर्णां सरूपबहुबर्करामेकश्छागः प्रीयमाणोऽनुवर्तते, अन्यस्तामुपभुक्तां त्यजति – इति । लोके सम्भवन्नप्ययमर्थो वेदे विशिष्य चाध्यात्मप्रकरणे न निबन्धमर्हतीत्याध्यात्मिके क्वचिदर्थे योजनं कार्यम् । स्वमनीषिकया च तत्कर्तुं न शक्यते ; विशेषहेत्वभावाच्चमसवत् । यथा हि ‘अर्वाग्बिलश्चमस ऊर्ध्वबुध्नः’(बृ.उ.२-२-३) इति मन्त्रे प्रसिद्धस्य चमसस्योर्ध्वबिलस्य तिर्यग्बुध्नस्य ग्रहणासम्भवे सति ‘अनाकाशे कोऽयं गलितहरिणःशीतकिरणः’ इत्यादिव्यतिरेकानुप्राणितातिशयोक्त्युदाहरणकाव्यवचने प्रसिद्धचन्द्रग्रहणासम्भवे सति कविविवक्षया मुखे चन्द्रत्वकल्पना क्रियत इतिवदमुष्मिंश्चमसत्वकल्पना क्रियत इति निश्चेतुं न शक्यते ; गिरिगुहागृहविशेषादीनां बहूनामर्वाग्बिलत्वोर्ध्वबुध्नत्वसम्भवात् । नन्वत्र साङ्ख्याभिमतस्वतन्त्रप्रकृतिग्रहणे विशेषहेतुरुक्तः । को विशेषहेतुः न तावत्स्रष्टृत्वम् ; अन्येन प्रेर्यमाणस्यापि स्रष्टृत्वानपायात् । न ह्याधोरणेन प्रेर्यमाणो गजो गच्छन्न गच्छति । नाप्यात्मभेदः । न हि सोऽत्र प्रतिपाद्यते , किन्तु प्रसिद्धन्तमनूद्य बन्धमोक्षव्यवस्थितिः । अनूद्यमानश्च लोकप्रसिद्धो भेदः ‘त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी त्वं जीर्णो दण्डेन वञ्चसि त्वञ्जातो भवसि विश्वतोमुखः’(श्वे.उ.४-३) ‘एको देवस्सर्वभूतेषु गूढः’(श्वे.उ.६-११) इति पूर्वापरमन्त्रानुरोधेन काल्पनिकोऽङ्गीकर्तुं युक्तः । एतेनैक्यमपि व्याख्यातम् । तस्याप्यनूद्यमानस्य ‘‘यो योनिमधितिष्ठत्येकः’(क.उ.४-११) इत्यत्रत्यमन्त्रान्तरानुसारेण एकजातीयतारूपत्वसम्भवात् , ‘चैत्रमैत्रावौषधं सेवमानौ स्थितौ तयोश्चैत्रस्तदद्यापि सेवते मैत्रस्तत् जहाति’ इति व्यवहारदर्शनात्, ऐक्यस्य तेजोऽबन्नसङ्घातैक्यरूपत्वसम्भवाच्च । साङ्ख्याभिमतप्रकृतावपि हि गुणत्रयसङ्घाताभिप्रायेणैवैक्यमुपपादनीयम् ।(१-४-८) नन्वेवमिहान्यथासिद्ध्युपन्यासेन साङ्ख्यतन्त्रप्रत्यभिज्ञाऽनादरे केन तर्हि विशेषावगतिरस्तु न खलु ‘अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति इदन्तच्छिरः’ इति चमसमन्त्र इवात्र व्याख्यानरूपो वाक्यशेषोऽस्ति । तदभावे च साङ्ख्यस्मृतिप्रत्यभिज्ञादर एव युक्त इति शङ्कायामाह –
ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥९॥ 【भाष्यम्】 परमेश्वराधीना तेजःप्रमुखा तेजोऽबन्नलक्षणा जरायुजाण्डजस्वेदजोद्भिज्जचतुर्विधभूतग्रामप्रकृतिरियमजा प्रतिपत्तव्या । न तु गुणत्रयसङ्घातलक्षणा साङ्ख्यतन्त्रसिद्धा स्वतन्त्रा प्रकृतिः । तथा हि एके शाखिनस्ताण्डिनः तेजोऽबन्नानां परमेश्वरादुत्पत्तिमाम्नाय तेषां रोहितादिरूपाण्यामनन्ति ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्रं तदपां यत्कृष्णं तदन्नस्य’ इति । तान्येवेह तेजोऽबन्नानि रोहितादिशब्दसामान्यात्प्रत्यभिज्ञायन्ते । श्रुत्यन्तरप्रत्यभिज्ञैव च ग्राह्या; सर्वशाखाप्रत्ययं ब्रह्मेति स्थितेः, न तु स्मृतिप्रत्यभिज्ञा; बहिरङ्गत्वात् । एवञ्च रोहितादिशब्दानामपि सामञ्जस्यं भवति; गुणवत्सु गुणवाचकशब्दानां लक्षणायाः लोके वेदे च निरूढत्वात् रञ्जकत्वादिभिः सत्त्वादिषु लक्षणाया विप्रकृष्टत्वात् । (१.४.९) स्यादेतत् – तेजोऽबन्नात्मिकायां प्रकृतावजाशब्दस्य रूढिनिर्वाहिका नास्ति छागत्वजातिः । नापि योगनिर्वाहको जन्माभावः । न च तस्यां छागजातिकल्पनया गौणी वृत्तिस्स्यादिति वाच्यम्; प्रयोजनाभावेन कल्पनानुपपत्तेः । न हि शरीरादिषु रथत्वादिकल्पनप्रयोजनवदिह प्रकृतौ छागजातिकल्पनस्य किञ्चित्प्रयोजनमस्ति । ‘चमसवत्स्यात्’ इति चेत् , न । तस्यापि ‘चमु भक्षणे’ इति धातोर्निष्पन्नस्य भक्षणसाधने शिरसि योगवृत्त्युपपत्तेः । किञ्च चराचरात्मकसकलप्रपञ्चकारणभूतायाः सर्वेषां चेतनानां बहुविधपुरुषार्थोपयोगिन्यास्तेजोऽबन्नात्मिकायाः प्रकृतेः कतिपयप्रजोत्पादककतिपयचेतनाकाङ्क्षितात्यल्पप्रयोजनोपयोगिच्छागत्वकल्पनमप्ययुक्तम् । कल्पनायां विवक्षितसाधर्म्यसत्त्वे यथाकथञ्चिद्वैधर्म्यं न दोषाय । अन्यथा शरीरादीनामपि रथत्वादिकल्पनानुपपत्तेः इति चेत् ; सत्यम् । तथापि तत्र रूपकानङ्गीकारे रूप्यरूपकवाचिपदद्वयश्रवणं व्यर्थं स्यादिति तत्परिहाराय यथाकथञ्चित्सम्भावितसाधर्म्यमवलम्ब्य रूपकनिर्वाहः क्रियते । न चेह तथा रूप्यरूपकवाचिपदद्वयश्रवणमस्ति, केवलस्त्वजाशब्दो योगेन मूलप्रकृतौ वर्तयितुं शक्यः । योगाच्च मुख्यवृत्तिरूपाद्गौणी वृत्तिर्जघन्या । क्लृप्तश्चात्रैव मन्त्रे ‘अजो ह्येको’ ‘अजोऽन्य’ इति अजाशब्दयोर्योगः । तयोरपि गौणत्वकल्पनायामत्यन्तमेव प्रकृतिसम्बन्धविमुक्तस्य परब्रह्मस्वरूपतां प्राप्तस्य पुनश्छागासंसर्गयोग्यात्यन्ताविवेकप्राणिप्रथमोदाहरणच्छागत्वपरिकल्पनमयुक्तम् । ‘अजोऽन्य’ इत्यस्य औपनिषदाभिमतमुक्तपरत्वे च ‘जहाति’ इत्येतदयुक्तमित्याशङ्कायामाह –
कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥१०॥ 【भाष्यम्】 कल्पनोपदेशोऽयमजामन्त्रः । तत्र ‘अजाम्’ इति तेजोऽबन्नात्मिकायां प्रकृतौ छागत्वकल्पना । ‘प्रजा’ इति तत्कार्येषु छागापत्यकल्पना । मुक्तौ विद्यया तदुच्छेदे मुच्यमानकर्तृकत्यागत्वकल्पना, मुक्तसंसारिणोरजत्वकल्पना च । कुतः कल्पनोपदेश इति अवसीयते ‘द्वा सुपर्णा’(श्वे.४.६) इत्यग्रिममन्त्रे प्राग्दृष्टान्ततयोपात्ते चमसमन्त्रे च कल्पनोपदेशात् । ‘द्वा सुपर्णा’ इति मन्त्रे हि शरीरे वृक्षत्वकल्पना तदाश्रितयोर्जीवान्तःकरणयोः पक्षित्वकल्पना, कर्मफले वृक्षफलत्वकल्पना च दृश्यते । ‘अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् । तस्यासते ऋषयस्सप्त तीरे वागष्टमी ब्रह्मणा संविदाना’(बृ.२.२.३) इति चमसमन्त्रे च कण्ठादुपरिभागरूपे शिरसि चमसत्वकल्पना, तद्गते मुखविवरे बिलत्वकल्पना, तदूर्ध्वभागे मूर्द्धावयवे घटचमसपादपादिस्थूलमूलभागरूपबुध्नत्वकल्पना, तस्मिन्विसृमरतया स्थितेषु प्राणादिवायुषु यशस्त्वकल्पना, तस्मिन् परितस्थितेषु श्रोत्रादिष्विन्द्रियेषु ऋषित्वकल्पना च दृश्यते । न च – चमसादिशब्दानां शिरःप्रभृतिषु यथासम्भवं कथञ्चिद्योगो रूढिश्च कल्प्यतामिति – वाच्यम् । अग्रे ‘इमावेव गौतमभरद्वाजौ’ इत्यादिना श्रोत्रचक्षुर्घ्राणयुगलरसनानां सप्तानां गौतमभरद्वाजविश्वामित्रजमदग्निवसिष्ठकाश्यपात्रिरूपत्वेन वर्णयिष्यमाणतया ‘तस्यासते ऋषयस्सप्त तीरे’ इत्यत्र श्रोत्रादिषु ऋषित्वकल्पनानिश्चये सति ततः प्रागपि कल्पनोपदेश इति निश्चयात् , बिलबुध्नशब्दयोराकारसाम्येन मुखविवरे मूर्द्धनि च यशश्शब्दस्य विवरणक्रियासाम्येन प्राणवायुषु च गौणत्वं विना योगरूढ्योरसम्भवाच्च । तत्र ‘द्वा सुपर्णा’ इति मन्त्रे लोके सम्भवन्त्या रीत्या प्रतिपत्तिसौकर्यं विना न प्रयोजनान्तरमस्ति । तत्प्रयोजनमिहापि च समानम् । चमसमन्त्रे तु लोकविलक्षणया रीत्या विस्मयनीयया कौतुकमुत्पाद्य प्रतिपत्तिसौकर्यं प्रयोजनमिति विशेषः । प्रसिद्धो हि चमस ऊर्ध्वबिलस्तिर्यग्बुध्नश्च । तस्मिंश्च सोमरसो निधीयते, न तु यशः । सोमरसपूरितश्च तद्बिलस्य जलपूर्णस्य कूपस्येव तीरस्थानीयात्परितो वर्तमानादूर्ध्वभागाद्बहिरेव सप्तहोतृका ब्राह्मणा ऋत्विजा सह यां काञ्चन संविदं कुर्वाणाश्चासते, न तु तीरस्थानीये चमसावयवे । अनयोश्च मन्त्रयोर्विषयविषयिसामानाधिकरण्यं विनैव कल्पनादर्शनादजामन्त्रेऽपि तथैव युक्तम् । काव्येष्वपि विषयविषयिसामानाधिकरण्यं विना कल्पनादर्शनाच्च तच्छायापन्नत्वादप्ययं कल्पनोपदेशः । न हि रूपकोदापरणेष्विवातिशयोक्त्युदाहरणेषु तत्सामानाधिकरण्यमस्ति, यथा –‘वापी कापि स्फुरति गगने तत्परं सूक्ष्मपद्या सोपानालीमधिगतवती काञ्चनीमैन्द्रनीली। तस्यां शैलौ सुकृतिसुगमौ चन्दनच्छन्नदेशौ तत्रत्यानां सुलभममृतं सन्निधानात्सुधांशोः॥’ इति । यत्तूक्तं योगवृत्तिसम्भवे गौणीवृत्तिर्न कल्पनीयेति तद्विपरीतम् । प्रथमप्रतीतरूढिपूर्वकगौणीवृत्तिस्वीकारसम्भवे रूढिपरित्यागेन योगपरिग्रहायोगात् । अत एव ‘प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातॄणां प्र यजमानस्य’ इति प्रैषे उद्गातृशब्दस्य बहुवचनान्तस्य बहुषु वृत्तौ वक्तव्यायां सुब्रह्मण्यसाधारणं योगं परित्यज्यान्तरङ्गप्रत्यासत्त्या सदःप्रवेशवत्सु त्रिषु रूढिपूर्विका लक्षणाऽङ्गीकृता । मुक्तस्य छागत्वकल्पनं बहूपकारिण्याः प्रकृतेश्छागत्वकल्पनं च विरुद्धम्, इति चेत्; नास्त्ययं विरोधो मध्वादिवत् । आदित्यस्य हि त्रयीमयस्य देदीप्यमानदिव्यज्योतिर्मण्डलस्य मधुत्वं कल्प्यते । तद्वत् प्रहीणजातिकल्पनायां नास्ति विरोधः । छागः पुनश्छागया संसर्गयोग्यः मुक्तः प्रकृत्या न संसर्गयोग्य इत्ययमपि न विरोधः । रथः प्रापणीयदेशपर्यन्तं नीतस्तत्प्राप्त्युपायो भवति शरीरं तु न तथा; ‘अत्र ब्रह्म समश्नुते’(बृ.४.४.७) इति श्रुतेः, ब्रह्मलोकादिस्थानस्थितस्य परब्रह्मणो मुक्तप्राप्यत्वाङ्गीकारेऽपि ज्ञानसाधनतया मुक्त्युपायस्य वशीकृतेन्द्रियमनोबुद्ध्याश्रयस्य शरीरस्य तावत्पर्यन्तं नयनाभावादिति विशेषे सत्यपि यथाकथञ्चित् प्राप्त्युपायत्वमात्रेण शरीरस्य रथत्वकल्पनादर्शनात् । सूत्रे ‘कल्पनोपदेशात्’ इति प्रथमान्तं पदं ‘सुपां सुलुक्पूर्वसवर्णांच्छेयाडाड्यायाजालः’(पा.सू.७.१.३९) इति सूत्रविहितेन प्रथमाविभक्तेः आदादेशेन लब्धरूपम् । कल्पनोपदेशोऽयमजामन्त्र इति तेन प्रतिज्ञा लभ्यते । तेनैव पञ्चम्यन्ततया पुनर्विवक्षितेन तत्र हेतुरुच्यते । स्वयमेव स्वस्मिन् हेतुर्भवितुं नार्हतीति सामर्थ्यादन्यस्मिन् कल्पनोपदेशे हेतूकर्तव्ये सन्निहितत्वात् ‘द्वा सुपर्णा’ इत्यग्रिमकल्पनोपदेशः प्राग्दृष्टान्तीकृततया बुद्धिस्थत्वात् ‘अर्वाग्बिलः’ इति कल्पनोपदेशश्च हेतुर्लभ्यते । चकारः काव्येषु कल्पनादर्शनरूपहेत्वन्तरसमुच्चयार्थः । ‘मध्वादि’ इत्यादिशब्दो रथादिरूपकपरिग्रहार्थः । तस्मादजामन्त्रस्तेजोऽबन्नरूपावान्तरप्रकृतिपरः, न तु साङ्ख्याभिमतस्वतन्त्रप्रधानपर इति सिद्धम् । स्यादेतत् – स्वतन्त्रप्रकृतिपरो न भवतीति युक्तमेव, अवान्तरप्रकृतिपर इति न युक्तम् । यतोऽस्य मन्त्रस्य परमेश्वराधीनमूलप्रकृतिपरत्वमेव ‘ज्ञाज्ञौ द्वावजावीशानीशावजा ह्येका भोक्तृभोगार्थयुक्ता’(श्वे.१.९) ‘क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः’(श्वे.१.१०) ‘छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति । तस्मान्मायी सृजते विश्वमेतदस्मिंश्चान्यो मायया सन्निरुद्धः। मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्। तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत्’(श्वे.४.९,१०) ‘स विश्वंकृद्विश्वविदात्मयोनिः ज्ञःकालकालो गुणी सर्वविद्यः। प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः’(श्वे.६.१६) इत्यादिपूर्वापरमन्त्रसन्दर्भपर्यालोचनया स्पष्टमेव प्रतीयते । शाखान्तरोक्तरोहितादिशब्दप्रत्यभिज्ञानानुरोधादपि पूर्वापरमन्त्रानुरोध एव युक्ततरः । सत्यम् । पूर्वापरमन्त्रपर्यालोचनायां मूलप्रकृतिपर एवायं मन्त्रः । तत्पर्यालोचनायां च नास्ति पूर्वपक्षावकाशः । तैत्तिरीयशाखायामपि अजामन्त्रस्य जगत्स्रष्टृपरमेश्वरप्रकरणपठितत्वात् स्फुटतरपूर्वापरमन्त्रनियमितपरमेश्वराधीनप्रकृतितात्पर्यकैतन्मन्त्रसरूपत्वाच्च नास्ति पूर्वपक्षावकाशः । तथाऽपि न्यायव्युत्पादनाय प्रकरणं करेण पिधाय कृत्वाचिन्तारूपेण न्यायबलादवान्तरप्रकृतिपरत्वनिर्णयार्थमिदमधिकरणम् । अत एव भाष्ये प्रकरणानुसारेणास्य मन्त्रस्य मूलप्रकृतिपरत्वपक्षमपि प्रदर्श्य कृत्वाचिन्तोद्घाटनं कृतमिति सर्वमनवद्यम् । १.४.१० इति चमसाधिकरणम् ।२।
न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥११॥ 【भाष्यम्】 बृहदारण्यके श्रूयते – ‘यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम्’(बृ.४.४.१७) इति । अयं मन्त्रः साङ्ख्याभिमतानि पञ्चविंशतितत्त्वानि ‘पञ्च पञ्चजना’ इति प्रतिपादयति, उत वाक्यशेषगतान् प्राणादीनीति सन्देहे पूर्वपक्षः – पञ्चशब्दद्वयेन पञ्चविंशतिसङ्ख्यानिष्पत्तेः तया सङ्ख्यया सङ्ख्येयाकाङ्क्षिण्या साङ्ख्यतन्त्रसिद्धान्येव तत्त्वान्युपसङ्ग्राह्याणि । तावन्त्येव हि तत्त्वानि साङ्ख्यैः परिगण्यन्ते । स्यादेतत् – कथमत्र पञ्चविंशतिसङ्ख्यानिष्पत्तिः । यदि ‘पञ्चपञ्च’ इति पञ्चकद्वयमुच्यते तदाऽवयवद्वारेण समुदायलक्षणाश्रयणेऽपि दशसङ्ख्यैव निष्पद्यते ‘पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुः’ इत्यत्र यथा द्वादशसङ्ख्या । यदि तु वीप्सा, तदाऽपि पञ्चसङ्ख्यानि पञ्चकानि ग्राह्याणीत्यत्र गमकाभावात् पञ्चविंशतिसङ्ख्या न निष्पद्यत एव । यथा ‘दश दशैकैकञ्चमसमनुप्रसर्पन्ति’ इत्यत्रानुप्रसर्पणीयानां चमसानां दशसङ्ख्यत्वादनुप्रसर्पकाणां पुरुषाणां शतसङ्ख्या निष्पद्यते । एवं ‘यस्मिन् पञ्च पञ्चजना’ इत्यत्राधिकरणानि यदि पञ्च स्युस्तदा प्रत्यधिकरणमाधेया जनाः पञ्चसङ्ख्यावीप्सया लभ्यन्त इति तेषां पञ्चविंशतिसङ्ख्या निष्पद्येत, न त्वत्राधिकरणपञ्चकश्रवणमस्ति । ननु पञ्चसङ्ख्यतया प्रतिपन्नेष्वर्थेषु पुनः पञ्चसङ्ख्याऽन्तरविशेषणोपादानात् पञ्चविंशतिसङ्ख्या लभ्यत इति चेत्; किं प्रथमं पञ्चसङ्ख्यया विशेषिता एवार्थाः पुनरपि पञ्चसङ्ख्यया विशेष्यन्ते, उत तद्विशेषणीभूता पञ्चसङ्ख्या न तावत् पञ्चसङ्ख्या । विशेष्यं विहाय विशेषणयोरन्वयासम्भवात् । नापि तद्विशेषिताः; आकाङ्क्षाऽभावात् । रक्तपटन्यायेन उत्थापिताकाङ्क्षा स्यात् इति चेत् ; न । श्रुतविशेषणसजातीये तद्विरोधिनि चाकाङ्क्षोत्थापनासम्भवात् । न हि ‘रक्तो रक्तः पटो भवति’ इत्यत्र ‘मृण्मयो हिरण्मयो घटो भवति’ इत्यत्र वा भवत्याकाङ्क्षा । ननु ‘पञ्च पञ्चपूल्य’ इत्यत्र पञ्चविंशतिपूलाः प्रतीयन्ते । नेति ब्रूमः । तत्र समस्ता पञ्चसङ्ख्यैव पूलानां विशेषणं व्यस्ता तु तत्समाहाराणाम् । न चात्र तथा समाहारार्थः समासोऽस्ति ‘पञ्चजन्य’ इति स्त्रीलिङ्गनिर्देशाभावादिति चेत् ; उच्यते – अनेकावान्तरनिर्देशे सति महासङ्ख्यालाभो यथा ‘पञ्च सप्त च वर्षाणि’ इत्यत्रावयवद्वारेण समुदायलक्षणया, यथा ‘दश दशैकैकम्’ इत्यत्र वीप्सया तथैव तस्मिन्सत्येकया सङ्ख्यया विशेषितानामर्थानां, सङ्ख्याया एव वा सजातीयेन विजातीयेन वा सङ्ख्यान्तरेण विशेषणात्संवर्धनेन महासङ्ख्यालाभोऽपि वैदिकेषु लौकिकेषु च प्रयोगेषु प्रसिद्धो नापह्नोतुं शक्यते । दृश्यन्ते हि ‘वयसो वयसः सप्तदशसप्तदशानि ददाति’ ‘पञ्च पञ्चाशतस्त्रिवृतः संवत्सरा’ इत्यादयः प्रयोगाः । प्रथमान्वितविशेषणसजातीयस्य तद्विरोधिनो वा यत्रैतेषूदाहरणेष्विव विवक्षितमहासङ्ख्यालाभार्थत्वेन पौनरुक्त्यस्य विरोधस्य वा परिहारो न सम्भवति तत्रैव तदनाकाङ्क्षा विशेषणयोरन्वयोऽपि साक्षादेव न सम्भवति । विशिष्टान्वयिनो विशेषणस्य विशेष्यान्वयानुपपत्तौ विशेषणे सङ्क्रमस्तु ‘दध्ना जुहोति’ इत्यादौ सुप्रसिद्ध एव । यदि च एवमप्यपरितोषः, तदा ‘पञ्च पञ्चपूल्य’ इतिवदिहापि समाहारविवक्षाऽस्तु । तद्विवक्षायामपि स्त्रीलिङ्गाभावस्तु छान्दसत्वेनोपपादनीयः । ‘ऊकालोऽज्झ्रस्वदीर्घप्लुतः’(पा.सू.१.२.२७) इत्यत्र ‘स नपुंसकम्’(पा.सू.२.४.१७) इति नपुंसकलिङ्गाभाववच्छन्दोवद्भावेन । तस्मादिह प्रतिपन्नया पञ्चविंशतिसङ्ख्ययोपसङ्ग्रहात् ‘पञ्च पञ्चजनाः’ इत्येतत्साङ्ख्याभिमतानि तत्त्वानि प्रतिपादयतीति युक्तम् । एतेन - ‘पञ्च पञ्चजनाः’ इत्येतत्कथं साङ्ख्यतत्त्वानि प्रतिपादयेत्, न हि तेषु पञ्चशः पञ्चशः साधारणो धर्मोऽस्ति, येन पञ्चविंशतेरन्तराले पञ्च पञ्च सङ्ख्या निविशेरन् । एकैकधर्मावच्छेदनिबन्धनो हि महासङ्ख्यायामवान्तरसङ्ख्यानिवेशः यथा ‘त्रयस्त्रिंशद्देवता’ इति महासङ्ख्यायामष्टौ वसव इत्याद्यवान्तरसङ्ख्यानिवेश इति – निरस्तम् ; ‘पञ्च सप्त च वर्षाणि’ ‘पञ्च पञ्चाशतस्त्रिवृतः संवत्सरा’ इत्यादिषु विनाऽप्येकैकमवच्छेदकं विवक्षितमहासङ्ख्यालाभोपायतामात्रेण यत्किञ्चिदवान्तरसङ्ख्यानिवेशदर्शनात् । न हि द्वादशवार्षिक्यामनावृष्टौ पञ्चसु सप्तसु च वर्षेषु , विश्वसृजामयने पञ्चाशदुत्तरद्विशतसङ्ख्यानां त्रिवृतां संवत्सराणां मध्ये पञ्चाशति पञ्चाशति संवत्सरेषु चैकैको धर्मोऽस्ति । इह तु भूतानि तन्मात्राणि ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि अवशिष्टानि प्रकृतिपुरुषमहदहङ्कारमनांसि च पञ्च पञ्चेति पञ्चशः पञ्चशस्साधारणधर्मोऽपि लभ्यते । ननु यदि ‘पञ्च पञ्चजना’ इत्येतावदेव साङ्ख्यतन्त्रसिद्धानि सर्वाणि तत्त्वानि प्रतिपादयेत्तर्ह्यात्माकाशाभ्यां सङ्ख्याऽतिरेकः स्यात् । न स्यात् । सेश्वरसाङ्ख्यपक्षेऽधिकरणत्वेन निर्दिष्टस्यात्मन ईश्वरत्वसम्भवात् । पक्षान्तरेऽपि तस्य ‘स्वे महिम्नि प्रतिष्ठित’ इतिवदाधेयत्वेनापि निर्देशसम्भवात् । आकाशशब्दोक्तस्य भूताकाशस्य प्रधानस्य वा स्वेतरसकलवस्त्वाधारतया विशिष्टत्वादादरेण पुनः कीर्तनसम्भवात् । ‘ग्रामीणाः सर्वेऽपि त्वां द्रष्टुमागताः, साक्षाद्वसिष्ठकल्पश्चैत्रोऽपि समागतः’ इति यथा । यद्वा गुणसङ्घातरूपायां प्रकृतौ सत्त्वादिगुणानां प्रत्येकपरिगणनया विनैवात्मानं भूताकाशञ्च पञ्चविंशतिसङ्ख्या सम्पादनीया । नन्वेवं कथञ्चिल्लब्धयाऽपि पञ्चविंशतिसङ्ख्यया साङ्ख्यतत्त्वोपसङ्ग्रहः पक्षद्वयेऽपि क्लिष्ट एव । कस्ततोऽप्यक्लिष्टः ‘पञ्च पञ्चजना’ इत्यस्यार्थो वर्णनीयः न हि पञ्चजनशब्दस्य मनुष्यरूढिं परिगृह्य पञ्च मनुष्या यस्मिन् प्रतिष्ठिता इत्यर्थो वर्णयितुं शक्यते ; आत्मनस्तावता कस्यचिदतिशयस्यालाभेन वाक्यस्य निस्तात्पर्यत्वप्रसङ्गात् । अतोऽध्यात्मप्रकरणे छागाया अनन्वयादजामन्त्रस्याजाशब्दरूढिविषयादन्यस्मिन्निवास्यापि मन्त्रस्य पञ्चजनशब्दरूढिविषयादन्यस्मिन्नर्थे पर्यवसाने वक्तव्ये तद्वदिह शाखान्तरान्वेषणेन पूर्वापरपर्यालोचनया वा लभ्यस्य कस्यचिदर्थस्याभावात् ‘पञ्चपञ्च’ इत्यस्य पञ्चविंशतिसङ्ख्यापरतां जनशब्दस्य जायमानाजायमानेषु छत्रिन्यायेन लक्षणां चाङ्गीकृत्य साङ्ख्यतन्त्रतत्त्वान्येव ग्राह्याणि । ननु वाक्यशेषे ‘प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुः’(बृ.उ. ४-४-१८) इति प्राणादयः पञ्च वर्ण्यन्ते । ते पञ्चजनशब्दलक्ष्या भवितुमर्हन्ति ; तद्वाच्यपुरुषसम्बन्धित्वात्, ‘ते वा एते पञ्च ब्रह्मपुरुषाः’(छा.उ.३-१३-६) इति पुरुषशब्दस्य तत्र प्रयोगदर्शनाच्च । यद्वा वाक्यशेषदर्शनादाज्यशब्दस्यान्यत्र रूढस्यापि स्तोत्रविशेषेष्विव प्राणादिषु पञ्चजनशब्दस्य शक्तिरस्तु । एवं वाक्यशेषाम्नातप्राणादिपरत्वकल्पनायां न कोऽपि क्लेश इति चेत् ; उच्यते । ‘यस्मिन् पञ्च पञ्चजनाः’ इत्येतदनन्तरमुत्तरस्मिन् मन्त्रे माध्यन्दिनानां प्राणादयः पञ्च पठिताः सन्ति, न तु काण्वानाम् । ते हि ‘प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः । ते निचिक्युर्ब्रह्म पुराणमग्र्यम्’(बृ.उ.४.४.१८) इत्यन्नं विनैव पठन्ति । न च तेषां ‘यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्’(बृ.उ ४-४-१६) इति पूर्वमन्त्रपठितेन ज्योतिषा पञ्चसंख्यानिर्वाहः ; काण्वानामपि पूर्वमन्त्रपाठसत्त्वेन तेषां ज्योतिषा षट्संख्याप्रसङ्गात् । न हि समाने ज्योतिराम्नाने तत्केषाञ्चिद्गृह्यते केषाञ्चिन्नेति वैषम्यं सम्भवति । तथाऽपि केषांचिदन्नेन संख्यापूरणं केषांचिज्ज्योतिषेति विरोधोऽपरिहार्यः । न च विकल्पितः ; वस्तुनि तदयोगात् । न चेदमुपासनम् । तस्मादिह गत्यन्तराभावात् पञ्चविंशतिसंख्यया उक्तप्रकारेण निष्पादितया साङ्ख्यतत्त्वोपसंग्रह एव कार्यः इति । एवं प्राप्ते राद्धान्तः – उक्तप्रकारेण निष्पादितया पञ्चविंशतिसंख्यया तावतां संख्येयानामुपसंग्रहादपि न साङ्ख्यतन्त्रसिद्धानां तत्त्वानां श्रुतिमूलप्रत्याशा कर्तव्या । नानाभावादतिरेकाच्च । नानाभावः पञ्चशः पञ्चशः क्रोडीकारकैकधर्माभावेन सर्वेषां पृथग्भावः । अतिरेक आत्माकाशाभ्यां संख्याऽतिरेकः । तदुभयमपि पूर्वपक्षिणा यद्यपि क्लेशेन समाहितम् , तथापि पञ्चविंशतिसंख्यानिर्वाहार्थं नैवं साङ्ख्यतत्त्वान्युपसंगृह्य क्लेशः समाश्रयणीयः ; ‘इन्द्रियेभ्यः परा ह्यर्थाः’ इति शाखान्तरे पुरुषावरत्वेन वर्णितैरिन्द्रियादिभिरपि तन्निर्वाहसम्भवात् । तत्र हि ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि भूतानि तन्मात्राणि ततोऽवशिष्टानि मनोबुद्धिभोक्तृस्थूलसूक्ष्मशरीराणि च पञ्चपञ्चेत्यक्लेशेनैव पञ्चशः पञ्चशो विभागार्हाः पञ्चविंशतिरर्था वर्णिताः । तेषामिहोपसंग्रहे च नास्त्यतिरेकशङ्का । तेभ्यः परस्य पुरुषस्येहात्मशब्देन निर्देशः , तेष्वगृहीतस्याव्याकृतस्याकाशशब्देनेत्युपपत्तेः , तत्राव्यक्तशब्दस्याजहल्लक्षणया स्थूलसूक्ष्मशरीरद्वयमात्रपरत्वोपपत्तेश्च । एवमन्तरङ्गशाखान्तरदृष्टसंख्योपसंग्रह एव युक्तः , न तु बहिरङ्गाप्रामाणिकस्मृतिदृष्टतत्त्वोपसंग्रहः । एवं च संख्येयानामात्मनि प्रतिष्ठितत्ववर्णनमपि सङ्गच्छते । न हि साङ्ख्यतत्त्वानामात्मनि प्रतिष्ठितत्वमस्ति ; प्रधानस्य स्वतन्त्रत्वादन्येषां प्रधानाश्रितत्वात् । अपि च देवाः पितरो गन्धर्वा दैत्या दानवा राक्षसा भूताः प्रेताः पिशाचाश्चत्वारो वर्णाः स्वर्ण्यम्बष्ठोग्रनिषाददौष्यन्तपारशवाष्पडनुलोमाः सूतमागधायोगवक्षत्तृवैदेहकचण्डालाः षट् प्रतिलोमाश्चेति पञ्चविंशतिर्जनाः संख्येया इत्यपि निर्वाहः सम्भवति । एवं च जनशब्दोऽपि सङ्गच्छते । तिर्यक्स्थावरातिरिक्तेषु वागिन्द्रियपाटववत्सु देवादिमनुष्यपर्यन्तेष्वेव हि जनशब्दः प्रयुज्यते । अपि चात्र ‘पञ्च पञ्च’ इति पञ्चविंशतिसंख्येति कुतो निर्धार्यते येन तदुपसंग्राह्याणि साङ्ख्यतत्त्वानीति शक्येतापि । तस्य पञ्चकद्वयपरतया दशसंख्याऽस्तु । तत्संख्येयाः ‘ते वा एते पंञ्चान्ये पञ्चान्ये दश सन्त’(छा.उ.४-३-८) इति संवर्गविद्यायामुक्तानि वायौ लयवन्त्यग्निसूर्यचन्द्रांभांसि वायुना सह पञ्च, लयवन्ति वाक्चक्षुः श्रोत्रमनांसि प्राणेन सह पञ्चेत्येवं दश पदार्थास्सन्तु । अथवा तस्य वीप्साऽर्थतया प्रतिपुरुषं पञ्चात्मनाऽवस्थिताः प्राणवृत्तयस्तत्संख्येयाः सन्तु ‘‘न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ’(क.उ २-५-५) इति श्रुत्यन्तरे प्राणापानशब्दोपलक्षितानां सर्वपुरुषसम्बन्धिनीनां सर्वासां प्राणवृत्तीनां ब्रह्माश्रितत्वश्रवणात् । यद्वा एकस्य पञ्चशब्दस्य जनसंख्यापरतयाऽन्यस्यैकैकजनगतपञ्चात्मकत्वपरतया च शिरःपक्षाद्यवयवैः प्रत्येकं पञ्चात्मनो ये पञ्चसंख्या जना अन्नमयादयस्ते संख्येयाः सन्तु । तेषां पञ्चानां सर्वप्रतिष्ठारूपपुच्छब्रह्माश्रितत्वादेकैकस्मिन्नप्यन्नमयादौ पाशवदवयवगतबहुत्वोपचारसम्भवात् । साङ्ख्यतत्त्वग्रहणेऽपि अहङ्कारादीनामान्तर्गणिकभेदसत्त्वेनाहङ्कारत्वादिगतैक्योपचारकल्पनावश्यम्भावात् । आनन्दमयपुच्छस्य ब्रह्माश्रितत्वाभावेन पञ्चात्मकत्वविशिष्टानां ब्रह्माश्रितत्वासम्भवेऽपि चित्रगुन्यायेन तदुपलक्षितानां तत्सम्भवात् । एवं च ‘चमसवदविशेषात्’ इति प्रागुक्तस्यैव न्यायस्य विषयेऽस्मिन्मन्त्रे कः साङ्ख्यतत्त्वग्रहणप्रत्याशावकाशः एतदभिप्रायेणैवोक्तं भाष्ये ‘कथं च संख्यामात्रश्रवणे सति अश्रुतानां पञ्चविंशतेस्तत्त्वानामुपसंग्रहः प्रतीयेत जनशब्दस्य तत्त्वेष्वरूढत्वादर्थान्तरोपसंग्रहेऽपि संख्योपपत्तेः’ इति । तत्र कथं तत्त्वानामुपसंग्रहः शाखान्तरोक्तानामिन्द्रियादीनां जनिमतां देवादिप्रतिलोमान्तानां जनशब्दविषयत्वेन प्रसिद्धानां वा संख्येयत्वेऽपि पञ्चविंशतिसंख्योपपत्तेः । कथं च पञ्चविंशतेरुपसंग्रहः ‘पञ्च पञ्च’ इत्यस्य पञ्चकद्वयपरतया वाय्वादिप्राणादिविषयदशसंख्योपपत्तेः । तस्य वीप्सार्थतया प्रतिपुरुषं पञ्चधा विभक्तप्राणादिवृत्तिविषयपंचसंख्योपपत्तेश्चेति तस्याभिप्रायो द्रष्टव्यः । अङ्गीकृत्य ‘पञ्च पञ्च’ इत्यस्य संख्यापरत्वं तल्लब्धसंख्यया संख्येयोपसंग्रहं चेदं सर्वमुक्तम् । वस्तुतस्तदेवासिद्धम् । तथा हि – पञ्चजनशब्दस्तावदन्तानुदात्तस्वरेण भाषिकाख्यशतपथब्राह्मणस्वरविधायकग्रन्थविहितेन ‘पञ्चानां त्वा पञ्चजनानां यंत्राय धर्त्राय गृह्णामि’ इति श्रुत्यन्तरप्रयोगदर्शनेन च समस्तोऽवसीयते । समासश्च न समाहारद्विगुः सम्भवति । गत्यन्तरे छान्दसरूपकल्पनाऽयोगात् , किन्तु पञ्चभिर्भूतैर्जन्मवन्त इति व्यधिकरणतत्पुरुषो वा पञ्च च ते जनाश्चेति समानाधिकरणतत्पुरुषो वा वक्तव्यः । तत्राद्यपक्षे समस्तपञ्चशब्दस्य जनान्वयिसंख्यापरत्वशङ्कैव नास्ति । द्वितीयपक्षेऽपि तथैव ‘दिक्संख्ये संज्ञायाम्’(पा.सू.२-१-५०) इति सूत्रेण प्रत्यस्तमितावयवार्थायां संज्ञायामेव सप्तर्षिशब्दवत्तस्य समासस्य विधानात् । न हि सप्तर्षय इति संज्ञासमासे सप्तशब्दस्य संख्यासमर्पणे तात्पर्यमस्ति, किन्तु व्युत्पत्तावुपलक्षणमात्रं संख्या गोशब्दव्युत्पत्तौ गमनमिव । अत एव यथा ‘गौस्तिष्ठति’ इत्यत्र न व्याघातः ‘गौर्गच्छति’ इत्यत्र न पुनरुक्तिः, एवमिहापि ‘सप्त सप्तर्षयः’ इत्यत्र न पुनरुक्तिः , वसिष्ठ एकस्मिन् सप्तर्षिशब्दप्रयोगे च न व्याघातः । एवं च यथा ‘सप्त सप्तर्षयोऽमलाः’ इति विष्णुपुराणप्रयोगे बहुवचनेन बहुत्वेऽवगतेऽपि समस्तसप्तशब्दस्य सप्तसंख्यापरत्वाभावात् ते कतीत्याकाङ्क्षायां पुनस्सप्तशब्दप्रयोगः एवमिहापि समस्तपंचशब्दस्य पञ्चसंख्यापरत्वाभावात् ते कतीत्याकाङ्क्षायां पुनः पञ्चशब्द इत्यसमस्तमेकमेव पञ्चपदं संख्यापरमिति युक्तम् । सूत्रस्यायमर्थः - पञ्च पञ्चेतिशब्दाभ्यां संख्यापराभ्यां तावत्संख्येयोपसंग्रहादपि न साङ्ख्यतत्त्वग्रहणसिद्धिः ; साङ्ख्यतत्त्वानां परस्परं पृथग्भावात् पञ्चशः पञ्चशः क्रोडीकारकधर्मरहितत्वात्, आत्माकाशाभ्यां संख्याऽतिरेकात् । चकारः स्वतन्त्रहेतुद्वयसमुच्चयार्थः । अपि चात्मनि प्रतिष्ठितत्वोक्त्या इह संख्येयानामपि स्वतन्त्रेभ्यः साङ्ख्यतत्त्वेभ्यः पृथग्भावादपि न साङ्ख्यतत्त्वग्रहणसिद्धिः । किञ्च ‘पञ्च पञ्च’ इति पञ्चकद्वयग्रहणेन वीप्साया वा नानाविधसंख्यान्तरसम्भवान्न साङ्ख्यतत्त्वग्रहणसिद्धिरित्यपि हेतुद्वयं ‘नानाभावात्’ इत्यनेन विवक्षितम् । अपिशब्देन पञ्चजनशब्दस्य संज्ञासमासरूपत्वात् पञ्चशब्दद्वयलब्धसंख्यासंख्येयोपसंग्रहो वस्तुतो नास्तीत्यपि सूचितम् ॥१-४-११॥ स्यादेतत् – उक्तरीत्या पञ्चजनशब्दस्य व्यधिकरणतत्पुरुषाङ्गीकारे पञ्चभूतप्रभवशरीरयुक्ताः पञ्चजनशब्दरूढिविषयत्वेन प्रसिद्धा मनुष्या इह ग्राह्याः स्युः । ते च चातुर्वर्ण्यानुलोमरूपान्तरप्रभवभेदेन पञ्चविधा इति पञ्चेत्यपि विशेषणं तेषु योजयितुं शक्यम् । समानाधिकरणसमासे तु ‘सप्तर्षय’ इतिवत् पञ्चजनाः नाम केचन वक्तव्याः स्युः । किमत्र तत्त्वमित्याकाङ्क्षायामाह –
प्राणादयो वाक्यशेषात् ॥१२॥ 【भाष्यम्】 वाक्यशेषे तावत् प्राणादयः पञ्चाम्नायन्ते । तेषु च मनुष्यसम्बन्धिषु पञ्चजनशब्दो लक्षणया वर्तयितुं शक्यते । वाक्यशेषानुसारेण वाऽऽज्यादिशब्दवत् तस्य शक्त्यन्तरं कल्पयितुं शक्यते । एवं वाक्यशेषे सन्निहितेषु प्राणादिषु ग्रहीतुं योग्येषु न युक्तं स्वबुद्ध्युपस्थापनीयानां मनुष्याणां ग्रहणम् ॥१-४-१२॥ ननु प्राणादयो नात्र ग्रहणयोग्याः । काण्वपाठे पञ्चानामनाम्नानादित्याशङ्कायामाह -
ज्योतिषैकेषामसत्यन्ने ॥१३॥ 【भाष्यम्】 काण्वानामसत्यन्ने पूर्वमन्त्रपठितेन ज्योतिषा संख्यापूरणमस्तु । न ह्यनाम्नातान्नानां पञ्चसंख्यापूरणार्थं ज्योतिर्ग्रहणे सति आम्नातान्नानामपि तद्ग्रहणेन भाव्यमिति राजाज्ञा , येन तेषां षट् पञ्चजनाः स्युः । आकाङ्क्षासद्भावासद्भावाभ्यां हि ग्रहणाग्रहणे युज्येते । विरोधस्तु विकल्पेन समाधेयः । न च वस्तुनि विकल्पायोगः । न ह्यत्र ब्रह्माश्रिताः पञ्च पञ्चजनाः प्रतिपिपादयिषितानि वस्तूनि, किन्त्वद्वितीयं निर्विशेषं प्रत्यगभिन्नं ब्रह्मैकमेवात्र प्रतिपिपादयिषितम् । पञ्चजनास्तु कल्पितास्तत्प्रतिपत्त्युपायाः । न ह्यकल्पितार्थप्रतिपत्त्युपायेषु कल्पितेष्वैकरूप्यनियमोऽस्ति; नानाप्रकारेण भिन्नव्याकरणनिष्पाद्यैः कल्पितशब्दैरुपायैरकल्पितसिद्धशब्दप्रतिपत्तिदर्शनात् । अत्र च मन्त्रे पञ्चजनाः केवलप्रतिपत्त्युपायाः, न तु ज्ञेयवस्त्वन्तर्गता इत्येतत् सुषुप्त्युत्क्रान्त्यधिकरणविषयवाक्यभूतनिष्प्रपञ्चप्रत्यगभिन्नब्रह्मप्रकरणमध्यपातेन ‘मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन । मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति’(बृ.उ.४-४-१९) इत्यादिमन्त्रान्तरसन्निधानेन च स्पष्टम् । उत्तरार्द्धेनापि स्पष्टम् । तत्र हि ‘तमेव’ इत्येवकारेण तत्र प्रतिष्ठितान्वेद्यकोटेर्बहिर्भाव्य तमेव निष्प्रपंचमात्मानममृतं ब्रह्म मन्ये न चाहं तमात्मानं ततोऽन्यः सन्वेद्मि, किन्तु विद्वान् सन् अहमप्यमृत एव अमृतशब्दोक्तं ब्रह्मैव , अज्ञानमात्रेण तु प्राक् मर्त्य आसमिति मन्त्रद्रष्टुरुक्तिः प्रतिपाद्यते । एवमेव विवृतं वार्तिकेऽपि ‘कार्यकारणयोस्तत्त्वं यस्मादात्मैव निर्द्वयम् । मन्य आत्मानमेवातः कार्यकारणवज्जगत् । प्रध्वस्तभेदहेतुत्वात्कारणादेरसम्भवात् । अमृतोऽमृतमित्याह विद्वानिति श्रुतिस्स्वयम्’ इति । केचित्तु निष्प्रपञ्चप्रत्यगभिन्नब्रह्मसाक्षात्कारोपायत्वेन उपासनाऽत्र विवक्षितेत्याहुः । तदा सुतरां विकल्पो युज्यते । अत्रेदमालोचनीयम् – ‘प्राणादयो वाक्यशेषात्’ इति सूत्रं तावदयुक्तम् । सन्दिग्धे हि वाक्यशेषान्निर्णयः । न चात्र सन्देहोऽस्ति ; पञ्चजनशब्दरूढ्या प्रथमं मनुष्याणामेव तदर्थतया निश्चयात् । न च पञ्च मनुष्या यस्मिन् प्रतिष्ठिता इत्यर्थपरिग्रहे वाक्यस्य निस्तात्पर्यत्वप्रसङ्गादर्थान्तराकांक्षायामाकांक्षितार्थसमर्पको वाक्यशेषः स्यादिति वाच्यम् । पञ्चशब्दस्य व्यक्तिसंख्यापरत्वं विहाय ब्राह्मणत्वाद्यन्तरप्रभवत्वान्तक्रोडीकारकधर्मोपाधिकसंख्यापरत्वपरिग्रहोपपत्तेः । अपि च नात्र वाक्यशेषन्यायावतरणम् । एकार्थप्रतिपादकत्वे हि स न्यायः । अत एव ‘सन्दिग्धे तु [षु] वाक्यशेषात्’(जै.सू १-४-२४ ) इति पूर्वतन्त्रसूत्रात् कथं वाक्यशेषस्य सन्दिग्धार्थनिर्णायकत्वमित्याकांक्षायाम् ‘अर्थाद्वा कल्पनैकदेशत्वात्’(जै.सू. १-४-२५) इत्युत्तरसूत्रगतमेकदेशत्वादित्यंशमस्यापि सूत्रस्य शेषं कृत्वा एकोऽर्थो दिश्यते – प्रतिपाद्यते याभ्यां विध्यर्थवादाभ्यां तत्त्वादेकार्थप्रतिपादकत्वादिति व्याख्यातम् । वार्तिकेऽपि ‘विधिस्तुत्योस्सदावृत्तिस्समानविषयेष्यते । तस्मादेकत्र सन्दिग्धमितरेणावधार्यते’ इति विध्यर्थवादयोरेकार्थप्रतिपादकत्वमनयोः क्वचित् सन्दिग्धस्यान्येन निर्णये हेतुत्वेनोक्तम् । न चात्र पञ्चजनमन्त्रस्य प्राणमन्त्रस्य चैकार्थप्रतिपादकत्वमस्ति । एकः पञ्चजनाकाशाधारत्वेन उपायेन ब्रह्मप्रतिपत्तिपरः, अन्यस्तु प्राणादीनां प्राणनव्यापारादिसामर्थ्यं यदधीनं तं प्रत्यगात्मानं ये विदुः ते ब्रह्म निरचैषुरिति महावाक्यार्थनिश्चयस्य त्वंपदार्थावगत्यधीनत्वप्रतिपादनपर इति भिन्नप्रस्थानत्वात् । एवं च ‘ज्योतिषैकेषाम्’ इति सूत्रमप्यनुपपन्नम् ; पूर्वमन्त्रस्यापि कालापरिच्छिन्नं ज्योतिषामादित्यादीनां ज्योतिरमृतं ब्रह्म आयुष्यगुणविशिष्टं देवा उपासत इति पुराकल्पप्रदर्शनमुखेन आयुष्कामस्तद्गुणविशिष्टं ब्रह्मोपासीतेति निर्गुणप्रकरणेऽप्यस्मिन् प्रासङ्गिकोपासनाविधिपरत्वात् । अपि च सर्वशाखाप्रत्ययन्यायान्माध्यन्दिनशाखापठितान्नोपसंहारेणैव काण्वशाखायां पञ्चसंख्यापूरणसम्भवादप्यनुपपन्नम् । पञ्चसंख्यापूरणार्थं ज्योतिरपेक्षायामपि ‘ज्योतिर्भिः’ इति सूत्रं प्रणेतव्यम् ; पूर्वमन्त्रे बहुवचननिर्दिष्टानामेव ज्योतिषामिह पञ्चजनमध्ये ग्राह्यत्वात् द्वितीयानिर्दिष्टस्य ब्रह्मतया तस्य तदाश्रितमध्ये परिगणनायोगात् । अपि च साङ्ख्यतत्त्वेषु पञ्चशः पञ्चशः क्रोडीकारकैकधर्माभावात्तत्परिग्रहो न युज्यत इति ‘नानाभावात्’ इति सूत्रभागेन दूषितवता सूत्रकृता प्राणादिषु ज्योतिःपञ्चमेष्वन्नपञ्चमेषु च पृथक् पृथक् क्रोडीकारकमेकैकधर्मं दृष्ट्वेदं सूत्रद्वयं प्रणीतमित्युपपादनीयम् । तमपि धर्मं न पश्यामः । न हि महासंख्यायां विभज्यावान्तरसंख्यानिवेशन एव क्रोडीकारकधर्मापेक्षा, न तु संख्यानिवेशनमात्र इति विशेषे प्रमाणमस्ति । तस्मादसमञ्जसमेवेदं सूत्रद्वयं प्रतिभाति । अत्र ब्रूमः – ‘पञ्च पञ्चजनाः’ इत्यत्र मनुष्यपरिग्रहे पञ्चजनशब्दस्वारस्यं लभ्यते । पञ्चसंख्या तु पुरुषबुद्ध्युपस्थापनीयेन ब्राह्मणत्वाद्युपाधिना निर्वहणीया । प्राणादिपरिग्रहे मन्त्रान्तरश्रुतेन प्राणत्वाद्युपाधिना पञ्चसंख्यानिर्वाहात्पञ्चशब्दस्वारस्यं लभ्यते । पञ्चजनशब्दस्तु प्राणादिषु लक्षणया शक्त्यन्तरकल्पनेन वा नेतव्यः । किमत्र युक्तमिति विवक्षायां प्रथमश्रुतपञ्चशब्दस्वारस्यमनुरुध्य पञ्चजनशब्दस्य प्राणादिषु वृत्त्यन्तरकल्पनं युक्तमित्यभिप्रेत्य भगवता सूत्रितं ‘प्राणादयो वाक्यशेषात्’ इति । एवमेव हि जैमिनिनाऽपि सप्तदशशरावे चरौ ‘चतुरो मुष्टीन्निर्वपति’ इत्यस्य प्राप्तौ संख्यामुष्ट्यन्यतरबाधे चावश्यंभाविनि प्रथमश्रुतसंख्याबाधपरिहाराय मुष्टिबाधोऽङ्गीकृतः । यद्यदि पञ्चजनवाक्यस्य प्राणवाक्यं विधेरर्थवाद इव शेषो न भवति, तथापि अपरिमितवाक्यस्य सहस्रवाक्यमिवाकांक्षितमर्थं सन्निधानमात्रेण समर्पयत् शेष इव भवतीति ‘वाक्यशेषात्’ इत्युक्तम् । श्रुतावपि हि पर्यग्निकरणान्तोत्सृष्टस्य पात्नीवतपशोस्तदनन्तरं क्रियमाणः पत्नीवद्देवत्य आज्ययागः संस्थाप्यमानश्शेष इव भवतीत्येतावतोक्तं ‘पर्यग्निकृतं पत्नीवतमुत्सृजत्याज्येन शेषं संस्थापयति’ इति । एतेन – ज्योतिषा संख्यापूरणानुपपत्तिरपि – परिहृता । ‘ज्योतिषां ज्योतिः’ इत्यस्य पञ्चजनवाक्यशेषत्वाभावेऽपि अपरिमिताधिकरणन्यायात्सन्निधानमात्रेणाकांक्षितार्थसमर्पकत्वसम्भवात् । यत्तु माध्यंदिनशाखात उपसंहृतेऽन्ने सति ज्योतिषा संख्यापूरणं नापेक्षितमिति तत्तथैव । कृत्वाचिन्तया तु सूत्रं प्रणीतम् । कृत्वाचिन्तेत्येतदपि ‘असत्यन्न’ इत्यनेनैव दर्शितम् । यदि शाखान्तरादुपसंहृतमन्नं न स्यात्तदानीं ज्योतिषा संख्यापूरणं कार्यमित्येतदर्थ एव हि ‘असत्यन्न’ इति सूत्रशेषः , न तु तस्य प्रयोजनान्तरमस्ति । यदि हि शाखान्तरादन्नोपसंहारं सूत्रकारो नान्वमंस्यत ‘असत्यन्न’ इति सूत्रशेषं नावक्ष्यत्; काण्वशाखायामन्नाभावस्य स्पष्टत्वात् । शाखान्तरादन्नोपसंहाराभावप्रतिपादनार्थत्वे ‘अन्नाभावात्’ इत्येवावक्ष्यत् , न तु ‘असत्यन्न’ इति ‘ज्योतिषा’ इत्येकवचनं तु ‘ज्योतिः’ इति मन्त्रे बहुवचननिर्दिष्टानां ज्योतिषां ज्योतिष्ट्वेन एकीकृत्य परिग्रहणं सूचयितुम् । अन्यथा हि पञ्चजनानां संख्याऽतिरेकः स्यात् । प्राणादीनामन्नपञ्चमानां क्रोडीकारकं ब्रह्माधीनस्वव्यापारत्वेन उत्तरमंत्राम्नातत्वम् । ज्योतिःपञ्चमानां ब्रह्माधीनस्वव्यापारत्वेन सन्निहितमन्त्राम्नातत्वम् । संख्यानिवेशनार्थमेतदनपेक्षायामपि ‘प्राणादय’ इति सूत्रगतेन तद्गुणसंविज्ञानबहुव्रीहिणा तेषां वाच्यत्वस्य, लक्ष्यत्वस्य वा सिद्ध्यर्थमवश्यं तेष्वनुगतमेकं रूपमेतदन्यद्वा वक्तव्यमेव । कृत्वाचिन्ता किमर्थेति चेत् न्यायव्युत्पादनार्थम् । यथा शर्करांजनवाक्ये द्रवद्रव्यमाकांक्षितं वाक्यशेषाद्गृह्यते , यथा वा अपरिमितवाक्ये स्ववाक्यशेषाभावेऽपि अन्यार्थप्रवृत्तात्सन्निहितात्सहस्रवाक्यादाकांक्षितं बहुत्वप्रतियोगि गृह्यते , एवमेकस्मादन्यार्थप्रवृत्तात्सन्निहितवाक्यादाकांक्षितस्य सर्वस्यालाभे तथाभूतादनेकस्माद्वा कुतश्चित्किंचिदित्यनेन प्रकारेण तद्ग्राह्यमिति न्यायो ह्यनेन सूत्रेण व्युत्पादितो भवति ।१-४-१३। इति नसंख्योपसंग्रहाधिकरणम् ।३।
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥१४॥ 【भाष्यम्】 एवं त्रिभिरधिकरणैः किञ्चित्किञ्चिद्वेदवाक्यमवलम्ब्य प्रधानकारणवादिनां प्रत्यवस्थानं निराकृतम् । इह तु प्रायःकारणवाक्यानां मिथो विलक्षणकारणसमर्पकाणामन्योन्यविरोधादप्रामाण्यप्रसङ्गे तानि स्मृतिन्यायप्रसिद्धे प्रधाने लाक्षणिकानीति कल्पनं युक्तमिति तेषां प्रत्यवस्थानं निराक्रियते । तथा हि – तैत्तिरीये तावदसत्पूर्विका सृष्टिराम्नायते ‘असद्वा इदमग्र आसीत् ततो वै सदजायत’(तै.उ. २-७-१) इति । बृहदारण्यकेऽपि ‘असदेवेदमग्र आसीत् तत्सदासीत्’ इति । छान्दोग्ये त्वसत्कारणपक्षप्रतिक्षेपेण सत्पूर्विका सृष्टिः प्रतिज्ञायते – ‘तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतस्सज्जायत इति । कुतस्तु खलु सोम्य एवं स्यादिति होवाच । कथमसतस्सज्जायतेति सत्त्वेव सोम्येदमग्र आसीत्’(छा.उ.६-२.१-२) इति । बृहदारण्यक एव क्वचित्स्वयंकर्तृका जगद्व्याक्रिया निगद्यते ‘तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत’(बृ.उ.१-४-७) इति । एवमनेकधा विप्रतिपत्तेः उदितानुदितहोमवद्वस्तुनि विकल्पायोगात्कारणवस्तुसदसत्त्वविप्रतिपत्तेश्च तत्प्रतिपत्त्युपायवियदादिकार्यतत्क्रमादिविषयविप्रतिपत्तिवददोषत्वस्य वक्तुमशक्यत्वात् मिथो व्याहतार्थैर्वेदान्तैर्न जगत्कारणं ब्रह्मेत्यवधारयितुं शक्यम् । शक्यं तु साङ्ख्यस्मृत्या तदुपपादितन्यायैश्च प्रधानं जगत्कारणमित्यवधारयितुम् । अतः कारणवाक्यानां प्रामाण्यं रिरक्षिषता स्मृतिन्यायसमर्पिते प्रधान एव तेषामपि पर्यवसानं वाच्यम् । ईक्षणादयोऽपि कथंचिद्गौणवृत्त्या तत्रैव नेतव्या इति पूर्वः पक्षः । स्यादेतत् – तैत्तिरीये यज्ज्ञानान्निरतिशयानन्दावाप्तिः तत्सत्यज्ञानादिलक्षणं ब्रह्म प्रस्तुत्यान्नमयादिकोशपरम्परया सर्वान्तरं तत्प्रत्यग्रूपं निर्धार्य ‘असन्नेव’(तै.उ.२-६.१) इति मन्त्रेण तस्य सत्त्वासत्त्ववेदनयोर्वेदितुः साधुत्वासाधुत्वप्राप्तिरूपगुणदोषाभिधानेनासद्वादं निराकृत्य ‘सोऽकामयत’(तै.उ.२-६.१) इत्यादिना तस्यैव कामनापूर्वकं सकलप्रपञ्चस्रष्टृत्वमुक्त्वा ‘तत्सत्यमित्याचक्षे’(तै.उ.२-६.१) इति चोपसंहृत्य ‘तदप्येष श्लोको भवति’(तै.उ.२-६.१) इति तस्मिन्नेवार्थे श्लोकोऽयमवतारितः ‘असद्वा इदमग्र आसीत्’(तै.उ.२-७.१) इति । कथमयमसत्कारणपरः स्यात् कथं चासतः ‘आसीत्’ इत्यस्तित्वमुच्येत । तस्मान्नामरूपव्याकरणात् प्राक् सदपि ब्रह्मासदिवेत्युपचारादसदित्युक्तम् । एषैव असदेवेदमग्र आसीत् इत्यत्रापि योजना स्यात् । असच्छब्दस्य ब्रह्मपरतायाः क्वचिद्दृष्टत्वादिहापि तत्सदासीत् इत्यग्रे वचनाच्च । शून्यत्वे हि किं ‘सदासीत्’ इति परामृश्येत । छान्दोग्येऽपि असद्वादोऽनुदितहोम इव न श्रुत्यन्तरप्राप्तो निराकृतः येन तैत्तिरीयबृहदारण्यकश्रुत्योरसत्कारणपरत्वं वाच्यं स्यात् । किन्तु सर्वश्रुतिपरिगृहीतसत्कारणपक्षदार्ढ्याय मन्दमतिपरिकल्पित एवानूद्य निराकृतः । ‘तद्धेदं तर्ह्यव्याकृतमासीत्’ इत्यत्रापि न निरध्यक्षस्य जगतो व्याकरणं कथ्यते ; अग्रे ‘स एष इह प्रविष्ट आनखाग्रेभ्यः’(बृ.उ. १-४-७) इत्यध्यक्षस्य व्याकृतकार्यानुप्रवेशश्रवणात् । किञ्च ‘व्याक्रियत’ इत्ययं लकारः कर्मणि वा स्यात्कर्मकर्तरि वा । कर्मणि चेद्गम्यते ग्राम इत्यत्रेवाक्षेपतः कर्तृलाभः स्पष्टः । कर्मकर्तरि चेदपि तथैव । कर्त्रा क्रियमाणमेव यत्कर्म स्वगुणैः सुकरं भवति तत्सौकर्यमपेक्ष्य कर्तृत्वेन विवक्ष्यमाणं हि कर्मकर्तेत्युच्यते । यथाऽऽहुः ‘क्रियमाणं तु यत् कर्म स्वयमेव प्रसिद्ध्यति । सुकरैः सुगुणैर्युक्तं कर्मकर्तेति तद्विदुः’ इति । एवं च यथा करणस्य , अधिकरणस्य वा गुणसौष्ठवेन कर्तृत्वविवक्षया ‘साध्वसिश्च्छनत्ति’ ‘साधु स्थाली पचति’ इति कर्तृत्वव्यवहारेऽपि वस्तुतः कर्तृव्यापारविषयत्वं न हीयते , एवमिहापि । इयांस्तु विशेषः – कर्मणः कर्तृत्वविवक्षायां ‘कर्मवत् कर्मणा तुल्यक्रियः’(पा.सू. ३-१-८७) इति सूत्रेण कर्मवत् कार्यविधानात् ‘लूयते केदारः स्वयमेव’ इत्यादिप्रयोगेषु यगात्मनेपदादयः । करणाधिकरणयोः कर्तृत्वविवक्षायां तथा विशेषविधानाभावात् कर्तरि विहिताः श्नम्शबादयः प्रत्ययाः । तस्मात् कारणवाक्यानामविरोधेन सद्रूपे ब्रह्मणि कारणे तात्पर्यस्य निर्धारयितुं शक्यत्वान्न प्रधानपरत्वं कल्पनीयम् । कथं चानन्दमयाधिकरणादृश्यत्वाधिकरणादिषु बहुभिर्न्यायैः प्रधानाद्व्यवच्छिद्य ब्रह्मपरत्वेन निर्णीतानां तैत्तिरीयच्छान्दोग्यमुण्डकोपनिषदादिगतकारणवाक्यानां पुनरिह प्रधानपरत्वमिति शङ्कोन्मज्जनं लभेत तस्मान्नायं पूर्वपक्षो युक्त इति चेत् – अत्र ब्रूमः – तैत्तिरीये यत् कारणं ब्रह्म प्रतिपादितं तत् प्राक् ‘असद्वा’ इति श्लोकावतरणात् सदसदिति वा न निर्धारयितुं शक्यम् । ‘असन्नेव स भवति’ इति श्लोकस्य असद्ब्रह्मेति वेद चेत् स्वभाविकासद्रूपतापत्तिरूपां सकलसांसारिकदुःखरहितां मुक्तिं प्राप्तो भवति । ब्रह्मणः कल्पितसद्रूपत्ववेदने तु स्वयमपि सद्रूपतानुवृत्त्या सकलसांसारिकदुःखस्वभाजनं भवेदित्येवमभिप्रायवर्णनोपपत्तेः । ‘सोश्नुते सर्वान् कामान्’(तै.उ.२-१-१) इति मुक्तौ सर्वकामावाप्तिवचनस्य मुक्तः सम्प्राप्तसकलकाम इव निर्दुःखो भवतीत्येतदर्थलक्षकत्वोपपत्तेः निरतिशयब्रह्मानन्दप्राप्तिपरत्वपक्षेऽपि तस्य तत्र लक्षणाऽवश्यम्भावात् । उपक्रमे वाक्यशेषे च श्रुतस्य सत्यशब्दस्य ‘सत्यकामः सत्यसङ्कल्पः’(छा.उ.८-१-५) ‘यच्चिकेत सत्यमित्तन्न मेघम्’ इत्यादिप्रयोगदर्शनादमोघमसद्रूपं ब्रह्म यस्मात् सद्रूपं जगदवश्यञ्जायत इत्येकमपि तात्पर्यवर्णनोपपत्तेः । सिद्धान्ते चेतनब्रह्मणः काल्पनिकाचेतनप्रपञ्चस्येवासद्रूपाद्ब्रह्मणः काल्पनिकसद्रूपप्रपंचस्य जननोपपत्तेश्च कार्यप्रपञ्चपरशब्दानां काल्पनिकपरत्ववत् कारणब्रह्मपरशब्दानामसत्परत्वोपपत्तेश्च । सिद्धान्तेऽपि वैदिकशब्दानां सदर्थपरत्वनियमाभावात् । तस्मात् ‘पञ्च पञ्चजना’ इत्यस्येव तैत्तिरीयगतकारणवाक्यस्यानेकधाऽर्थवर्णनसम्भवादनिर्णयप्रसङ्गे वाक्यशेषादर्थनिर्णयो युक्तः । एवम् ‘असद्वा इदमग्र आसीत्’ इति वाक्यशेषानुसारेणास्यासत्कारपरत्वे सति ‘असदेवेदम्’ इति बृहदारण्यकवाक्यमप्यसत्कारणपरमेवावतिष्ठते । न चोभयत्रापि ‘आसीत्’ इति अस्तित्वोक्त्या सत्येवासच्छब्दयोर्लक्षणा स्वीकर्तव्येति शंक्यम् । ‘तद्धैक आहुरसदेवेदमग्र आसीत्’ इति छान्दोग्ये निराकरणीयासत्कारणपक्षानुवादे अत्यन्तासत्येव ‘आसीत्’ इति प्रयोगदर्शनात् । एवं च उदाहृतं छान्दोग्यवाक्यमपि श्रुत्यन्तरप्रतिपादितासत्कारणपक्षनिराकरणपरमेवावतिष्ठते । यत्तु ‘व्याक्रियत’ इत्यत्र ‘स एष इह प्रविष्ट आनखाग्रेभ्यः’ इत्यग्रे कर्तृश्रवणमस्तीत्युक्तम् ; तन्न । तत्र ‘स यत् पूर्वोऽस्मात् सर्वस्मात् सर्वान् पाप्मन औषत्’(बृ.उ,१-४-१) इति प्राक् प्रकृतस्य जीवस्य व्याकृतशरीरानुप्रवेशस्यैव प्रतिपाद्यमानतया जगत्कर्तुरप्रतिपादनात् । यदप्याक्षेपतः कर्तृलाभोऽस्ति ‘लूयते केदारः स्वयमेव’ इत्यादाविवेत्युक्तं तदपि न युक्तम् । ‘भिद्यते कुसूलेन’ इत्यादिषु व्यभिचारेण कर्मकर्तृविवक्षायां कर्त्रन्तराक्षेपनियमाभावात् । अत एव महाभाष्ये कर्मणः कर्तृत्वरूपस्वातन्त्र्यविवक्षास्थले ‘किं सतस्स्वातन्त्र्यस्य विवक्षा उत विवक्षामात्रम्’ इति पक्षं परिगृह्य तत्र ‘भिद्यते कुसूलेन’ इत्युदाहृत्य तत्रापि कुसूलातिरेकेण भेदने कर्तारो वातातपवर्षकालाः सन्तीत्याशंक्य ‘यस्य खलु निवाते निरभिवर्षे अचिरकालकृतः कुसूलः स्वयमेव भिद्यते तस्य नान्यः कर्ताऽस्ति अन्यदतः कुसूलात्’ इति परिहृतम् । पुनश्च यत्र तर्हि ‘लूयते केदारः स्वयमेव’ इत्यत्र कर्त्रन्तरमस्ति तत्र केदारे लवनं प्रति सतस्स्वातन्त्र्यस्य विवक्षा न सम्भवतीत्याशंक्य ‘अत्रापि याऽसौ सुकरता नाम तस्या नान्यः कर्ताऽस्ति अन्यदतः केदारात्’ इति परिहृतम् । एवं कर्मकक्तृप्रयोगेषु कर्त्रन्तराभावे कृत्स्नस्वातन्त्र्यविवक्षा, तत्सद्भावे सौकर्यांशमात्रस्वातन्त्र्यविवक्षेति द्वैविध्यं वर्णयता भगवता पतञ्जलिना कर्त्राक्षेपनियमो नास्तीति स्पष्टमेव दर्शितम् । एवञ्च सति द्वैविध्ये ‘व्याक्रियत’ इत्यत्र कृत्स्नस्वातन्त्र्यविवक्षैव न्याय्या, अन्यथा कर्त्राक्षेपगौरवप्रसङ्गात् । अत एव कृत्स्नस्वातन्त्र्ययुक्ते कर्मकर्तर्येवायं लकारः न तु कर्मणि ; तथात्वेऽपि कर्त्राक्षेपगौरवप्रसङ्गात् । तस्मात् तत्कारणवाक्यस्वारस्यपर्यालोचनायामवश्यमस्त्येव विरोध इति तत्परिहारेण प्रामाण्यसंरक्षाणार्थं तेषां स्मृतिन्यायसिद्धे प्रधाने पर्यवसानं कल्पयितुं युक्तम् । आनन्दमयाधिकरणादिषु तन्निराकृतम् , इति चेत् ; सत्यमानन्दमयाधिकरणे ‘कामाच्च नानुमानापेक्षा’(ब्र.सू.१-१-१८) इति निराकृतम् । ‘सोऽकामयत’ इति श्रुतः कामः प्रधान इव ब्रह्मण्यनुपपन्नः । स हि ‘कामस्सङ्कल्पो विचिकित्सा’(बृ.उ.१-५-३) इत्यादिश्रुतावन्तःकरणधर्मत्वेन प्रतिपन्नः । न च ब्रह्मणोऽन्तःकरणमस्ति । एतेन – ईक्षत्यधिकरणे वर्णितमीक्षणमपि – व्याख्यातम् । तदपि खलु ‘ह्रीर्द्धीर्भीरित्येतत्सर्वं मन एव’(बृ.उ.१-५-३) इत्यन्तःकरणधर्मत्वेन श्रुतम् । ब्रह्मणस्स्वरूपज्ञानेन सर्वज्ञत्वं सम्भवति इति चेत् ; सत्यं ‘यस्सर्वज्ञस्सर्ववित्’ इति श्रुतं सर्वज्ञत्वं सम्भवति , न तु ‘तदैक्षत’ इति सर्गाद्यकालोत्पन्नत्वेनेदानीमतीतत्वेन च श्रुतमनित्यमीक्षणम् । किञ्चेच्छामात्रे अनित्यज्ञानमात्रे च शरीरस्यापि कारणत्वावगमात् सर्गाद्यकाले भूतसृष्टेः प्रागशरीरस्य ब्रह्मणः कामेक्षणे सुतरां न सम्भवतः । गौणे तु प्रधानेऽपि सम्भवतः । एतेन – कारणवाक्यगतात्मब्रह्मादिशब्दास्तत्त्वमसीत्याद्यभेदव्यपदेशाश्च व्याख्याताः । किञ्च पञ्चजनशब्दस्य प्राणादिष्विवात्मादिशब्दानां प्रधाने वृत्तिः कल्प्यत इत्यपि वक्तुं शक्यम् । ‘तस्य तावदेव चिरम्’(छा.उ.६ – १४ - २) इति मोक्षोपदेशस्तु न जीवजगत्कारणाभेदनिष्ठस्य, किन्तु केवलं जगत्कारणनिष्ठस्येति प्रधानेऽपि सङ्गच्छते । मोक्षाय प्रधानमपि हि साङ्ख्यमते ज्ञेयम् । अत एवानुमानिकाधिकरणे ‘ज्ञेयत्वावचनाच्च’(ब्र.सू.१-४-४) इति सूत्रितम् । ‘स्वमपीतो भवति’ इत्यत्र स्वशब्दः स्वीयपरोऽस्तु । भिन्नेऽप्यप्ययः प्रसिद्धो ‘यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति’(श.ब्रा.१०-३-३-६) इत्यत्र । मुण्डके जगत्कारणमक्षरं प्रधानं अक्षरात्परः पुरुषो जीव इत्येवं प्रकारेण सर्वाणि कारणवाक्यानि यथाकथंचिद्गौणलक्षणाध्याहारानुषङ्गवाक्यभेदव्यवधारणकल्पनादिभिः स्मृतिन्यायप्राप्ते प्रधान एव नेतव्यानि । तत्तत्कारणवाक्यस्वारस्यलभ्यार्थपरिग्रहे तेषां परस्परविलक्षणकारणसमर्पकत्वादप्रामाण्यमेव प्रसज्यते । वरं चाध्ययनविधिपरिगृहीतानां वैदिकशब्दानामतिक्लेशाश्रयणेनापि ‘सृण्येवजर्भरि’ इत्यादिमंत्राणामिव प्रामाण्यसंरक्षणमित्येवं सर्वाक्षेपेण पूर्वपक्षे प्राप्ते – राद्धान्तः – श्वेताश्वतरादिषु प्रदर्शितानि बहूनि कारणवाक्यानि प्रधानपुरुषातिरिक्तं तयोर्नियामकं सर्वज्ञं सर्वेश्वरं सर्वेषां प्रत्यग्रूपं जगत्कारणं प्रतिपादयन्ति । यत्राप्यानन्दवल्यामसत्कारणवाद इव दृश्यते , साऽपि तथैव सर्वज्ञं सर्वेश्वरं सर्वान्तरं सर्वेषां प्रत्यग्रूपं कारणं प्रतिपादयत्येव । तथैव हि छान्दोग्यश्रुतिरपि चेतनं प्रत्यगभिन्नं कारणं प्रतिपादयति यत्रासत्कारणवादनिराकरणमतिस्फुटं श्रूयते । एवं च परमेश्वरकारणत्वप्रतिपादकानां कारणवाक्यानां बाहुल्ये सति बहूनामेकविषयाणां परस्परविरोधेनार्थानिर्णयप्राप्तौ प्रमाणान्तरानुसारेण सर्वेषां शब्दानां लाक्षणिकत्वादिकल्पनाद्वरं स्वान्तर्वर्तिबहुशब्दानुसारेण कतिपयशब्दलक्षणाकल्पनं लाघवादिति प्रधाने सर्वेषां कारणवाक्यानां क्लेशेन नयनं परित्यज्य क्वाचित्कस्यासच्छब्दस्य ब्रह्मलक्षणाश्रयणं कामेक्षणशब्दयोश्च श्रुतिबलाच्छरीरानपेक्षोत्पत्तिकमायावृत्त्युपाधिप्राप्तानित्यभावस्वरूपज्ञानात्मकसङ्कल्पविशेषपरत्वकल्पनम् । एवं च जीवजगत्कारणाभेदस्वाप्ययादिश्रुतयोऽपि न क्लेशेन नेतव्याः । एवं बृहदारण्यकेऽप्यसच्छब्दस्य गतिर्द्रष्टव्या । प्रायेण व्याकृतवस्तुविषयः खलु सच्छब्दः प्रसिद्धः । ब्रह्म तु प्राग्जगदुत्पत्तेर्व्याकरणाभावापेक्षया सदेवासदित्युपचर्यत इति । ‘व्याक्रियत’ इति कर्मणि लकारो न तु कर्मकर्तरि । ‘अव्याकृतमासीत्’ इति कर्मण्येव निष्ठांतस्य प्राक्प्रयोगात्, एकविषययोः ‘प्रागव्याकृतम् , पश्चाद्व्याक्रियत’ इति प्रयोगयोः ‘प्रागच्छिन्नं वनमिदानीमच्छिद्यत’ इति प्रयोगयोरिवैकार्थ्यपरत्वावश्यंभावात् । न चाव्याकृतमित्यपि कर्मकर्तरि प्रयोग इति शङ्कनीयम् । तदानीमनेनाव्याकृतमिति तृतीयाप्रयोगप्रसङ्गादिदमिति प्रथमाऽनुपपत्तेः । कर्मणः कर्तृत्वविवक्षायां हि धातोरकर्मकत्वाद्भावे निष्ठेति कर्तुरनभिहितत्वात् तृतीययैव भाव्यम् । न च ‘कर्मवत्कर्मणा तुल्यक्रियः’(पा.सू.३-१-८७) इति सूत्रेण कर्मकर्तुः कर्मवद्भावातिदेशान्निष्ठया कर्तुरभिहितत्वेन प्रथमा स्यात् यथा ‘लूयते केदारस्स्वयमेव’ इत्यत्र कर्तुरभिहितत्वेन केदार इति प्रथमेति वाच्यम् । ‘लिङ्याशिष्यङ्’(पा.सू.३-१-८६) इति पूर्वसूत्रे द्विलकारको निर्देश इत्येकस्य लकारस्यानुवृत्त्या लान्तस्य यः कर्मणा तुल्यक्रियः कर्ता तस्यैव कर्मवद्भावविधानात्कृत्यक्तखलर्थेषु कर्मकर्तुः कर्मवद्भावाभावात् । तस्मात् कर्मण्येवायं लकार इत्यनिवार्यः कर्त्राक्षेपः । सूत्रे कारणत्व इति सप्तमी नेति प्रतिषेधः । पुनश्च कारणत्वेनेति तृतीया । चस्त्वर्थः । तथा चायमर्थः – आकाशादिषु कार्येषु क्रमादिविषये विगाने सत्यपि न ब्रह्मणः कारणत्वे अस्ति विगानम् । कुतः यथाव्यपदिष्टोक्तेः ; यथाभूतो ह्येकस्मिन् वेदान्ते सर्वज्ञः सर्वेश्वरः सर्वात्मकोऽद्वितीयः कारणत्वेन व्यपदिष्टः तथाभूतस्यैव वेदान्तान्तरेष्वपि कारणत्वेनोक्तेः । तथा च बहुशब्दानुसारेण क्वाचित्कस्यासच्छब्दस्य व्याकृतप्रपञ्चात्मनाऽनभिव्यक्ते ब्रह्मणि लक्षणा न्याय्या । न हि तत्र कारणमेव नास्तीति प्रतिक्षिप्यते , किन्तु कारणमभ्युपेत्य तत्रासच्छब्दः प्रयुज्यते । तथापि व्याक्रियतेत्यत्र कारणान्तरप्रतिक्षेपोऽस्तीति शङ्कानिवारणार्थश्चकारः । तन्निराकरणप्रकारो दर्शित एव ॥१-४-१४॥ एवं प्रकरणान्तरगतबहुकारणवाक्यानुसारेण ब्रह्मकारणवादविरोधी क्वाचित्कः शब्दो लक्षणादिना नेतव्य इत्युक्तम् । इदानीं पूर्वापरवाक्यानुसारेणापि तथा नेतव्य इत्याह –
समाकर्षात् ॥१५॥ 【भाष्यम्】 आनन्दवल्यामुपक्रमे वाक्यशेषे च श्रूयमाणः सत्यशब्दस्त्रिकालाबाध्यरूपपरमार्थवाची ; तत्रैव तस्य शब्दस्य व्युत्पन्नत्वात् । अमोघे तत्प्रयोगस्तु लाक्षणिकः । प्रायः शुक्तिरजतादेर्बाध्यस्य कार्यकरत्वादर्शनेनामोघत्वस्याबाध्यसम्बन्धित्वावगमात् लक्षणया तत्र प्रयोगनिर्वाहे शक्त्यन्तरस्याकल्पनीयत्वात् । ‘असन्नेव’ इति मन्त्रोऽप्युपक्रमोपसंहारानुरोधाच्छन्दोगश्रुतावसद्वादनिराकरणस्य क्लृप्तत्वेन तदनुरोधाच्चासद्वादनिराकरणपरः । एवञ्च सद्रूपं ब्रह्म प्रकृत्य तस्मात् प्रत्यग्रूपादाकाशाद्युत्पत्तिमुक्त्वा तस्य सर्वान्तरत्वमुपपाद्य तस्यासत्यत्वपक्षञ्च निराकृत्य सकलजगत्स्रष्टृत्वञ्चोक्त्वा ‘तत्सत्यमित्याचक्षते’ इति चोपसंहृत्य ‘तदप्येष श्लोको भवति’ इति अनया तस्मिन्नर्थे श्लोकोऽयमित्यवतारिकया तदेव सद्रूपं कारणं ब्रह्मानुकृष्य पठ्यमानोऽयं ‘असद्वा इदमग्र आसीत्’ इति श्लोकः कथमसत्कारणपरः स्यात् । अतः सत्समाकर्षानुरोधादसच्छब्दः सत्येवानभिव्यक्त्यभिप्रायो लाक्षणिकः कल्पनीयः । ‘असदेवेदम्’ इति श्रुतावपि ‘तत्सदासीत्’ इति सद्भावविधाने तत्पदेनासच्छब्दोक्तस्यैव समाकर्षादत्यन्तासतश्च ‘नासतो दृष्टत्वात्’ इति न्यायेन सद्रूपतापत्त्ययोगादसच्छब्दः पूर्ववल्लाक्षणिकः कल्पनीयः । ‘तद्धेदं तर्ह्यव्याकृतमासीत्’ इत्याद्यनन्तरं ‘स एष इह प्रविष्ट’ इति वाक्ये तच्छब्देन व्यवहितप्रकृतपुरुषस्येवैतच्छब्देनाव्यवहितप्रकृताव्याकृतस्यापि समाकर्षादव्याकृतरूपतया प्रविष्टपुरुषाभिधानसामर्थ्यादव्याकृतशब्दोऽनभिव्यक्तब्रह्मपर इति तत्र न चेतनस्य कर्तुः प्रतिक्षेपः । तस्मात् ‘नामरूपाभ्यां व्याक्रियत’ इत्यत्र स्वेनेत्येव कर्तृवाचिपदमध्याहार्यम् ; ‘तदात्मानं स्वयमकुरुत’ इत्यनेनैकार्थ्यात् । तस्मात् सिद्धं सर्वेषां कारणवाक्यानामविरोधेन ब्रह्मपरत्वम् ॥१-४-१५॥ इति कारणत्वाधिकरणम् ।४।
जगद्वाचित्वात् ॥१६॥ 【भाष्यम्】 कौषीतकिब्राह्मणे अजातशत्रुर्नाम काशीराजः स्वसमीपमागत्य ‘‘ब्रह्म ते ब्रवाणि’(कौ. ब्रा.४-१) इत्युक्तवन्तं बालाकिं गार्ग्यं ‘‘सहस्रन्दद्म एतस्यां वाचि जनको जनक इति वै जना धावन्ति’(कौ. ब्रा.४-१) इति प्रशस्य बालाकिना ‘‘य एवैष आदित्ये पुरुषस्तमेवाहमुपासे’(कौ. ब्रा.४-३) इत्यादिभिर्वाक्यैर्ब्रह्मत्वेनोपदिष्टानादित्यचन्द्रविद्युत्स्तनयित्न्वाकाशवाय्वग्न्यादिगतान् पुरुषानब्रह्मत्वेन तत्तत्पुरुषोक्त्यनन्तरमेव प्रत्याख्याय ततस्तूष्णींभूते तस्मिन्किमेतावदेव तत्र परिज्ञानमिति पृष्ट्वा तेनैतावदेवेत्यभिहिते ‘‘मृषा वै किल मा संवदिष्ठाः ब्रह्म ते ब्रवाणि’(कौ. ब्रा.४-१९) इत्युक्त्या तमपोद्य ‘‘यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्यः’(कौ. ब्रा.४-१९) इति स्वयमुपदिदेश इति श्रूयते । अत्र यो वेदितव्य उपदिष्टः उपसंहारे च ‘सर्वान्पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद’ इति यद्वेदनस्य फलं वर्णितं स किं जीवः , उत मुख्यप्राणरूपो हिरण्यगर्भः , अथवा परं ब्रह्मेति ‘यस्य वै तत्कर्म’ इत्यत्र कर्मशब्दरूढियोगाभ्यां संशये जीव इति तावत्प्राप्तम् । ब्रह्मणि पारिस्पन्दरूपस्य, यज्ञादिरूपस्य वा कर्मणः सम्बन्धाभावात् जीवे यज्ञादिसम्बन्धसत्त्वात् । न च ब्रह्मण्यपि तदाराधनरूपेण यज्ञादिना सम्बन्धोऽस्तीति वाच्यम् ; पुण्यापुण्यसाधारणकर्ममात्रस्य तदाराधनत्वाभावात् । न च क्रियत इति व्युत्पत्त्या यस्यैतत्कृत्स्नं जगत्कार्यमिति यस्य वै तत्कर्मेत्यस्यार्थो ग्राह्यः । तथा सति ‘एतेषां पुरुषाणां कर्ता’ इति पृथङ्निर्देशवैयर्थ्यात् । जीवपक्षे एतेषामादित्यमण्डलाद्यधिकारिणां भोगोपकरणभूतानां पुरुषाणां यः कर्ता एतत्कर्तृभावे द्वारभूतं पुण्यापुण्यलक्षणं च कर्म यस्यास्ति स वेदितव्य इत्युपपत्तेः योगाद्रूढेः प्रबलत्वाच्च । कर्मशब्दस्य परिस्पन्द एव रूढिः , तत्साध्यत्वात्तु पुण्यापुण्यरूपे कर्मणि लक्षणा इति चेत् , न । परिस्पन्दासाध्येष्वपि दर्शनस्पर्शनश्रवणादिसाध्यपुण्यपापेषु कर्मशब्दप्रयोगदर्शनात् । तत्रापि यथाकथञ्चित्परम्परया परिस्पन्दसाध्यत्वाश्रयणेन लक्षणेत्यङ्गीकारेऽपि योगाद्रूढिपूर्वलक्षणायाः प्रबलत्वात् , जीवस्यापि तत्प्रेर्यदेहाश्रयपरिस्पन्देनासाधारणसम्बन्धसत्त्वाच्च । अग्रेऽपि जीवलिङ्गदर्शनाच्च । तत्र ह्यजातशतृणा वेदितव्यतयोपन्यस्तस्य पुरुषाणाङ्कर्तुर्वेदनायोपेतं बालाकीं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषं प्राणादिसंबोधनैरामन्त्र्य आमन्त्रणशब्दाश्रवणात्प्राणादीनामभोक्तृत्वं प्रतिबोध्य यष्टिघातेनोत्थापनात्प्राणादिव्यतिरिक्तं जीवं भोक्तारं प्रत्यबोधयदिति श्रूयते ‘‘तं ह पाणावभिपद्य प्रवव्राज तौ ह सुप्तं पुरुषमीयतुस्तं हाजातशत्रुरामन्त्रयाञ्चके बृहन्पाण्डरवासस्सोमराजन्निति सह तूष्णीमेव शिश्ये । तत उ हैनं यष्ट्या व्याचिक्षेप । स तत एव समुत्तस्थौ’(कौ. ब्रा.४-१९) इति । नन्विदं जीवसङ्कीर्तनं जीवस्य वेदितव्यपुरुषरूपत्वप्रतिपत्त्यर्थं न भवति , किन्तु जीवस्य सुषुप्तिप्रबोधयोरधिकरणापादानतया ब्रह्मप्रतिपत्त्यर्थम् । यष्टिघातेन जीवे प्रबोधिते ‘क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्व वा एतदभूत्कुत एतदगात्’ इत्यजातशत्रोः प्रश्नस्य बालाकिना तस्मिन्नविज्ञाते पृष्टेऽर्थे ‘यदा सुप्तस्स्वप्नं कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति’ इति अजातशत्रुणैव कृतस्य स्वपृष्टार्थविवरणस्य च दर्शनादिति चेत् ; मैवम् । न हि सुषुप्तिस्थानतया ब्रह्म तत्र प्रतिपाद्यते , किन्तु नाड्य एव । ‘‘हिता नाम हृदयस्य नाड्यः’(कौ. ब्रा.४-१९) इति नाडीः प्रक्रम्य ‘तासु तदा भवति’ इत्युक्त्वा हि कदेत्याकांक्षायां ‘यदा सुप्तः स्वप्नं कञ्चन पश्यति’ इत्युक्तम् । ‘अथास्मिन्प्राण एवैकधा भवति’ इत्यनेन तु ब्रह्मणि जीव एकधा भवतीति नोच्यते , प्राणशब्दोऽपि न ब्रह्मपरः , किन्तु नाडीस्थे जीवे कारणग्राम एकीभवतीत्युच्यते । ‘तदैनं वाक्सर्वैर्नामभिस्सहाप्येति, चक्षुस्सर्वै रूपैस्सहाप्येति,श्रोत्रं सर्वैश्शब्दैस्सहप्येति मनस्सर्वैर्ध्यानैस्सहाप्येति’ इत्यग्रे तद्विवरणदर्शनात् । प्राणशब्दोऽपि प्राणभृत्त्वनिबन्धनो जीवपरः ; ‘स यदा प्रतिबुध्यते’ इति प्राणशब्दनिर्दिष्टस्य प्रबोधोपन्यासात् ; ब्रह्मणः सुप्तिप्रबोधयोरसम्भवात् । ननु नाड्यस्सुप्तिस्थानतया नोच्यन्ते , किन्तु स्वप्नस्थानतया ‘क्वैष तद्बालाके पुरुषोऽशयिष्ट’ इति स्वप्नस्थानस्य ‘क्व वा एतदभूत्’ इति सुषुप्तिस्थानस्य च प्राक्पृष्टत्वात् । अन्यथा प्रथमप्रश्नस्यैव सुषुप्तिस्थानाविषयत्वे यत्र प्रसुप्तस्तत्रैव यावत्प्रबोधमभूदित्यस्यार्थसिद्धतया द्वितीयप्रश्नवैफल्यप्रसङ्गात् साफल्यसम्भवे च तदङ्गीकारायोगात् तत्र ‘तासु तदा भवति’ इति स्वप्नस्थानप्रश्नस्य प्रतिवचनं ‘यदा सुप्तः’ इत्यादि ‘एकधा भवति’ इत्यन्तं सुप्तिस्थानप्रश्नस्य । युक्तं ह्यनन्तरश्रुतप्रतिषेधप्रसक्तस्वप्नविषयत्वं पूर्ववाक्यस्य । युक्तं च ‘न पश्यति’ ‘एकधा भवति’ इत्यनयोस्समानकर्तृकत्वम् । अन्यथा ‘एकधा भवति’ इत्यत्र करणग्राम इत्यध्याहारः कार्यः , अथशब्दश्च तदार्थं नेतव्यः । ‘यदा सुप्तस्स्वप्नं न कञ्चन पश्यति’ इत्यस्य ‘तासु तदा भवति’ इत्यनेनान्वये हि सुषुप्तिप्राप्त्यनन्तरं कारणग्रामप्यय इत्यर्थः स्यात् । न च सोऽर्थो युक्तः ; सुषुप्तेः सर्वेन्द्रियोपरतिलक्षत्वेनानयोः पौर्वापर्यायोगात् । तस्मात्प्राणशब्दो जीवस्य सुषुप्तिस्थानं वदन् जीवातिरिक्तं वेदितव्यं पुरुषं परामृशतीत्येव वक्तव्यम् । ‘स यदा प्रबुध्यते’ इति तच्चब्दस्तु य एकधा भवति तं सुषुप्तं जीवं परामृशति, न तु यत्रैकधा भवति तं वेदितव्यं पुरुषमतो न किञ्चिदवद्यमिति चेत् – उच्यते – ‘क्वैष एतद्बालाके पुरुषोऽशयिश्ट’ इति प्रश्न उत्थापितस्य सुषुप्तिस्थानविषयः । ‘क्व वा एतत्’ इति प्रश्नस्तदुत्थापनात् पूर्वमुपरतव्यापारस्य तदनन्तरं व्याप्रियमाणतयाऽनुभूयमानस्य तदीयकरणग्रामस्य सुषुप्तिकालिकाधिकरणविषयः । ‘कुत एतदागात्’ इति प्रश्नस्तस्यैव करणग्रामस्योद्गमनापादानविषयः । एवञ्च ‘तासु तदा भवति यदा सुप्तस्स्वप्नं न कञ्चन पश्यति’ प्रथमप्रश्नस्य प्रतिवचनम् । ‘अथास्मिन् प्राण एव एकधा भवति’ इति द्वितीयप्रश्नस्य । ‘तदैनं वाक्’ इत्यादि तद्विवरणम् । ‘स यदा प्रतिबुध्यते यथाऽग्नेर्विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’ इति तृतीयप्रश्नस्य प्रतिवचनमिति सङ्गच्छते । अन्यथा प्रश्नत्रयस्यापि जीवसुषुप्त्यधिकरणतद्भवनाधिकरणतदुद्गमनापादानविषयत्वे तान्येव प्रतिवचनेषु वक्तव्यानि स्युः । न च प्रतिवचनेषु कुतश्चिदपादानाज्जीवस्योद्गमनप्रतिपादकं किञ्चिदस्ति, किन्त्वेतस्मादात्मनः प्राणा इति जीवादिन्द्रियोद्गमनविषयमेव प्रतिवचनं दृश्यते । न च - ‘अथास्मिन् प्राण एवैकधा भवति’ इत्यस्य जीवः प्राणशब्दिते ब्रह्मण्येकधा भवतीत्यर्थाङ्गीकारे ‘एतस्मादात्मनः’ इत्यस्य प्रकृतब्रह्मपरामर्शितया प्राणशब्दस्य जीवपरतया चैतदेव जीवोद्गमनापादनप्रश्नप्रतिवचनं स्यादिति – वाच्यम् । ‘एतस्मात्’ इत्यनेन ‘यदा सुप्तस्स्वप्नं न कञ्चन पश्यति’ इति प्राधान्येन प्रकृतस्य सुषुप्तस्य परामर्शसम्भवे सप्तमीनिर्दिष्टस्योपसर्जनस्य परामर्शायोगात् । ‘कुत एतदागात्’ इति प्रश्नस्य यष्टिघातोत्थापितजीवमात्रोद्गमनापादानविषयत्वाङ्गीकारे आत्मनः प्राणशब्दितानां बहूनामुद्गमनप्रतिपादनस्य तत्प्रतिवचनत्वायोगाच्च , ‘स यदा प्रबुध्यते’ इति तत्प्रबोधस्य प्राणोद्गमनकालोपलक्षणतयोपात्तत्वेन प्राणानां ततोऽन्यत्वप्रतीतेश्च, ‘‘तद्यथा क्षुरः क्षुरधानेऽवहितस्स्यात् विश्वम्भरो वा विश्वम्भरकुलाये एवमेवैष प्राज्ञ आत्मेदं शरीरमात्मानमनुप्रविष्टः आ लोमभ्य आनखेभ्यः’(कौ. ब्रा.४-२०) इति समनन्तरवाक्ये ‘शरीरमात्मानम्’ इति निर्देशेन शरीरात्माभिमानित्वेन ज्ञापितस्य जीवस्य प्रकृतप्राणाद्युद्गमनापादानपरामर्शिना ‘एष प्राज्ञ आत्मा’ इत्येतच्छब्देन परामर्शाच्च ‘‘तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाश्श्रेष्ठिनं भुञ्जन्ति एवमेवैष प्राज्ञ आत्मा एतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एतमात्मानं भुञ्जन्ति’(कौ. ब्रा. ४-२०) इति तदनन्तरवाक्येऽप्यालोकदानादिना भोगोपकारकैः प्राक् ‘एतेषां पुरुषाणाम्’ इति प्रकृतैः आदित्यादिपुरुषैर्हेतुभिर्विषयभोक्तृत्वेन लिङ्गेन ज्ञापितस्य जीवस्य पूर्ववत् प्रकृतपरामर्शिनैतच्छब्देन निर्देशाच्च । एवं कर्मसम्बन्धयष्टिघातोत्थानशरीरात्माभिमानभोक्तृत्वलिङ्गैर्जीव एव वेदितव्यः पुरुषोऽस्मिन् प्रकरणे प्रतिपाद्यत इति निश्चये सति ‘अथास्मिन् प्राण एवैकधा भवति’ इति वाक्ये कर्त्रध्याहारोऽथशब्दास्वारस्यञ्च न दोषः । किञ्च न कर्त्तव्योऽत्र कर्त्रध्याहरः । ‘क्व वा एतदभूत्’ इति प्रश्नवाक्ये एतच्छब्देन निर्दिष्टस्य करणमण्डलस्य कर्तृस्तत्प्रतिवचनेऽपि क्व चैत्र इति प्रश्नस्य कांच्यामिति प्रतिवचने चैत्रस्येव स्वयमेवान्वयात् । नाप्यथशब्दस्तदाऽर्थमस्माभिर्नेतव्यः ‘तदैनं वाक्’ इत्यादिविवरणवाक्यस्थतदाशब्दानुसारेण स्वयमेव तदाऽर्थे पर्यवसानात् । बृहदारण्यके बालाक्यजातशत्रुसंवादरूपे समानप्रकरण एव ‘तानि यदा गृह्णात्यथ हैतत् पुरुषस्स्वपिति नाम’(बृ.उ.२-१-१७) इति स्वापकरणग्रामोपरमयोर्विपरीतपौर्वापर्यश्रवणेन परस्परविरोधपरिहारायोभयत्राप्यथशब्दस्तदार्थपर इत्यवश्यं वक्तव्यत्वाच्च । ‘यदा सुप्त’ इत्यादेः ‘एकधा भवति’ इत्यन्तस्य सुषुप्तजीवाधारप्रश्नप्रतिवचनरूपत्वेऽपि यदाशब्दप्रतिनिर्देशतयाऽथशब्दस्य तदार्थपर्यवसायित्वावश्यम्भावाच्च । तस्यानन्तर्यार्थत्वेऽपि सुषुप्तेरेकधाभावस्य च पौर्वापर्याभावेन ‘तासु तदा भवति’ इत्येतदनन्तरं तस्य योजनीयतया व्यवहितयोजनाक्लेशसत्त्वाच्च । नन्वेवमपि ‘तदैनं वाक्’ इत्यादिना प्रतिपाद्यमानः सुषुप्तौ विषयैः सह करणग्रामस्य लयो न जीवे सम्भवति , प्रबोधे तैः सह तदुत्पत्तिश्च न जीवात् सम्भवतीति चेत् ; न । सुषुप्तौ वागादीनामुपरतव्यापाराणां जीवेऽवस्थानस्य प्रबोधे जीवान्निर्गत्य स्वस्वायतनप्राप्तेश्च सम्भवात् । तावत्येवार्थे ‘तदैनं वाक्’ इत्यादेस्तात्पर्यात् । प्रत्यक्षादिविरोधेन विषयैः सहेन्द्रियाणां सुषुप्तौ लयस्य प्रबोधे पुनरुत्पत्तेश्च तदर्थत्वाङ्गीकारायोगात् । प्रत्यक्षविरुद्धोऽप्यर्थो यथाश्रुति ग्राह्य इति चेत् , तर्हि प्रकरणस्य जीवविषयत्वस्वारस्यानुरोधेन सुषुप्तौ जीवे सविषयाणामिन्द्रियाणां लयः प्रबोधे जीवात् तेषां पुनरुत्पत्तिरित्येवाङ्गीक्रियताम् । प्रत्यक्षविरोधस्याकिञ्चित्करत्वेनासम्भवाभावात् । यदि च ‘यदा सुषुप्त’ इत्याद्येकधा भवतीत्यन्तं सुषुप्तजीवाधारप्रश्नप्रतिवचनं ‘तदैनं वाक्’ इत्यादि सुषुप्तजीवाधारे विषयेन्द्रियाणां लयस्य ततस्तेषां पुनरुत्पत्तेश्च प्रतिपादकमित्येव वक्तव्यम् । कौषीतकिब्राह्मण एव पूर्वस्यामिन्द्रप्रतर्दनाख्यायिकायां प्राणशब्देन ब्रह्मोपक्रम्य ‘‘तस्यैषैव दृष्टिरेतद्विज्ञानम्’(कौ. ब्रा.३-३) इति तज्ज्ञप्तिप्रकारं प्रतिज्ञाय ‘‘यत्रैतत्पुरुषः सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवति’(कौ. ब्रा.३-३) इति सुषुप्तजीवाधारत्वेन ‘तदैनं वाक् सर्वैर्नामभिस्सहाप्येति’ इत्यादिना वागादिलयोद्गमापादानत्वेन च प्रतिपादनादस्यापि तदैकार्थ्यस्य वक्तव्यत्वादिति निर्बन्धः , तथाऽपि सुषुप्तजीवाधारो वेदितव्यः पुरुषो भवन् समष्टिप्राणात्मा हिरण्यगर्भ एव स्यात् , न तु ततोऽतिरिक्तं परं ब्रह्म । प्राणशब्दात् प्राणात्मना परिस्पन्दरूपस्य तदभिमानिजीवात्मना पुण्यापुण्यरूपस्य च कर्मणस्तत्र सम्भवात् । बृहदारण्यकश्रुतौ ‘आत्मैवेदमग्र आसीत्पुरुषविधः’(बृ.उ.१-४-१) इत्युपक्रम्य देवमनुष्यादिसकलमिथुनस्रष्टृत्वेनोक्तस्य तस्यादित्यादिपुरुषकर्तृत्वस्यापि सम्भवात् । तत्रैव तदनन्तरं यथा क्षुरो नापितोपकरणभूतस्तत्कोशे भवत्यवहितः, यथा वा पचनादिना विश्वं बिभ्रदग्निररण्यादौ तन्नीड इति दृष्टान्तोपन्याससहितस्य नखपर्यन्तकृत्स्नशरीरानुप्रवेशस्य हिरण्यगर्भे प्रतिपादितस्यात्रापि वाक्यशेषे दर्शनाच्च । स्यादेतत् – वेदितव्यः पुरुषो जीवः प्राणात्मा हिरण्यगर्भो वेति पक्षद्वयमप्ययुक्तम् ; वेदितव्यपुरुषकार्यत्वेन श्रुतानां बालाक्युपदिष्टपुरुषाणां मध्ये ‘य एव एष शारीरः पुरुषस्तमेवाहमुपासे’ इति सामान्यतो जीवमात्रस्यापि परिगणितत्वेन तत्कारणस्य वेदितव्यपुरुषस्य तदन्यत्वप्रतीतेः । प्राणनामभिरामन्त्रणेऽपि सुषुप्तस्योत्थानाभावेन प्राणान्यत्वप्रतीतेश्चेति चेत् ; उच्यते – ‘य एवैष शारीरः पुरुषः’ इति पर्यायः स्थूलशरीराभिमानिजाग्रदवस्थपुरुषविषयः ‘य एवैष प्राज्ञ आत्मा येनैतत्सुषुप्तस्स्वप्न्यया चरति तमेवाहमुपासे’ इति तदन्तरपर्यायस्य स्वप्नावस्थजीवविषयत्वदर्शनात् । एवं च शोकभीत्यादिकलुषितौ जाग्रत्स्वप्नदृशौ प्रत्याख्याय सुषुप्त्यवस्थः पुरुषो वेदितव्य उपदिष्टो भविष्यति । अत एव उपदिष्टवेदितव्यपुरुषप्रदिदर्शयिषया सुषुप्तपुरुषगमनमग्रे वर्ण्यते । ‘यदा सुप्तः स्वप्नं न कञ्चन पश्यति’ इत्यनेन दीर्घस्वप्नं जाग्रत्प्रपञ्चमवान्तरस्वप्नं स्वप्नप्रपञ्चं वा न कञ्चन पश्यतीति शोकभीत्यादिकारणप्रपञ्चदर्शनाभावेन सुषुप्तस्य वेदितव्यत्वमुपपाद्यते । यदपि प्रश्नप्रतिवचनाभ्यां सुषुप्तस्य नाडीस्थत्ववर्णनम् , तदपि पाप्मास्पृष्टतया तन्मूलकशोकभीत्यादिराहित्यप्रदर्शनेन वेदितव्यत्वोपपादनार्थम् । ‘तद्यत्रैतत्सुप्तः समस्तः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति तं न कञ्चन पाप्मा स्पृशति’(छा.उ.८-६-३) इति छान्दोग्ये हि सौषुप्तिकनाडीरुपगतस्य पाप्मास्पर्शः श्रूयते । पुनः प्रश्नप्रतिवचनाभ्यां करणग्रामस्य जीवे वृत्तिविलयप्रतिपादनमपि सकलसांसारिकानर्थसम्पादकस्य करणग्रामस्य विलयेन सुषुप्तः शुद्ध इति तस्य वेदितव्यत्वोपपादनार्थमेव । पुनरन्याभ्यां प्रश्नप्रतिवचनाभ्यां करणग्रामस्य पुनरुद्गमनप्रतिपादनं तु जाग्रतस्स्वप्नदृशश्चेन्द्रियव्यापारैः कलुषितत्वेनावेदितव्यत्वस्थिरीकरणार्थमिति सर्वं सङ्गच्छते । यत्तु प्राणनामभिरामन्त्रणेऽप्यनुत्थानेन प्राणान्यत्वप्रदर्शनं, तेन सुप्तपुरुषसम्बन्धिव्यष्टिप्राणान्यत्वमात्रं सिद्ध्यति, न तु समष्टिप्राणाभिमानिदेवतारूपहिरण्यगर्भान्यत्वमपि । ननु प्रसिद्धानि प्राणादिनामानि विहायाप्रसिद्धैः बृहन्नित्यादिनामभिरामन्त्रणं देवताऽन्यत्वसिद्ध्यर्थं स्यादिति चेत् , तर्हि तेन चन्द्रदेवतान्यत्वमेव सिद्ध्येत् । अस्मिन्नेव प्रकरणे ‘य एवैष चन्द्रमसि पुरुषस्तमेवाहमुपासे’ इति चन्द्रपर्याये ‘‘मामैतस्मिन् संवादयिष्ठा बृहन्पाण्डरवासास्सोमो राजा अन्नस्यात्मेति वा अहमुपासे’(कौ. ब्रा.४-१९) इति तेषां नाम्नां चन्द्रविषयत्वश्रवणात् पाण्डरैरंशुभिश्च्छादितत्वेन तत्र पाण्डरवासस्त्वोपचारस्य सम्भवात् । वस्तुतस्तु सुषुप्तपुरुषं गत्वा कैश्चिन्नामभिर्द्विरामन्त्रणेऽप्यनुत्थानप्रदर्शनं सुषुप्तजीवस्य तन्नामविषयान्यत्वज्ञापनेनैव सप्रयोजनं वाच्यम् । तत्र च चन्द्रतादात्म्यस्याप्रसक्तत्वात्तदन्यत्वं न ज्ञापनीयम् । सुषुप्तिदशायामुपरतव्यापारेभ्यः शरीरेन्द्रियेभ्योऽन्यत्वं सुज्ञानमिति तस्यामपि दशायामनुपरतव्यापारात् प्राणादन्यत्वमेव ज्ञापनीयम् । तदा हि तत्प्रयोजनवत्तरं भवति । सम्भवति च बृहदादिशब्दानां श्रुत्यन्तरप्रसिद्ध्यनुरोधेन प्राणे वृत्तिः । प्राणः खलु बृहन्महान् ‘प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च’ इति प्राणविद्यायां श्रैष्ठ्यश्रवणात् ‘स एषोऽसपत्न’ इति सप्तान्नब्राह्मणे तस्यासपत्नत्वश्रवणाच्च । पाण्डरवासाश्च प्राणः । पाण्डरवर्णाः खल्वापोऽस्यः वासः । प्राणविद्यायां ‘किं मे वासः’(बृ.उ.६-१-१४) इति प्राणप्रश्ने ‘आपो वासः’ इत्युत्तरश्रवणात् , सप्तान्नब्राह्मणे ‘अथैतस्य प्राणस्य आपश्शरीरं ज्योतीरूपमसौ चन्द्रः’(बृ.उ.१-५-१३) इत्यप्शरीरत्वोक्त्या तद्वासस्त्वोपचारसम्भवाच्च । अत एव चन्द्ररूपत्वादेवायं सोमराजश्च । यदि च ‘बृहन् पाण्डरवासाः’ इत्यादिचन्द्रपर्यायवाक्यानुसारेणात्रापि चन्द्रनामान्येतानि तदापि सप्तान्नब्राह्मणोक्तरीत्या चन्द्ररूपे प्राण एवैतेषां पर्यवसानं वाच्यम् ; सप्रयोजनत्वायेति सर्वधा हिरण्यगर्भामन्त्रणस्यात्र न प्रसक्तिः । किं चामन्त्रणेऽप्यनुत्थानेन हिरण्यगर्भान्यत्वं सिद्ध्यदपि यष्टिघातोत्थाप्यस्य सुषुप्तजीवस्यैव सिद्ध्येत् , न तु सुषुप्तौ तदाधारतया प्रतिपाद्यस्य प्राणस्य । किन्तु तन्नामभिरामन्त्रणेऽपि तदनुत्थानेन चेतनस्य जीवस्य तदन्यत्वसिद्धौ तदुपपादकतया तस्याचेतनत्वमपि सिद्ध्येदित्यलमतिप्रपञ्चेन । स्यादेतत् – जीवो, हिरण्यगर्भो वा वेदितव्यपुरुष इति पूर्वपक्षे यद्यपि वेदितव्यपुरुषस्य जीवान्यत्वं हिरण्यगर्भान्यत्वं च न प्रतिपन्नमिति बाधकं नास्ति ; तथाऽपि ब्रह्मोपक्रमः सकलपापप्रदाहपूर्वकानन्याधीनत्वरूपस्वाराज्यात्मकमोक्षफलोपसंहारश्चेति बाधकद्वयं जागर्तीति चेत् ; उच्यते । येन बालाकिना ‘ब्रह्म ते ब्रवाणि’ इति प्रतिज्ञातं न तेन ब्रह्मोक्तम् , अन्यदन्यदेवोक्तम् । येनाजातशत्रुणा वेदितव्यः पुरुष उपदिष्टः न तेन ब्रह्माभिधानं प्रतिज्ञातम् । अतो न ब्रह्मपरमजातशत्रुवाक्यम् । ननु ब्रह्मोपक्रमाद्बालाकिवाक्यादेव तदपि वाक्यं ब्रह्मपरं स्यादुपकोसलविद्यायामग्निवाक्यादिवाचार्यवाक्यम् । न । वैषम्यात् । तत्र हि वक्तृभेदेऽप्येकवाक्यतापादकमग्निवाक्यमस्ति ‘आचार्यस्तु ते गतिं वक्ता’ इति ; न त्वत्र तथाभूतं वाक्यमस्ति । तर्हि किं बालाकिवचसि ब्रह्मापक्रमेः सर्वथा निरर्थकः निरर्थक एव ; भ्रान्तवाक्यत्वात् । किमर्थं श्रुतौ भ्रान्तवाक्योपन्यासः असद्वादवत् पूर्वपक्षनिराकरणार्थम् । तद्वादस्य निराकरणं न दृश्यत इति चेत् , दृश्यत एव वाक्यच्छायाविमर्शचतुरैः । ब्रह्म ते ब्रवाणि इति प्रतिज्ञातवता बालाकिना उपदिष्टान् पुरुषान् तत्तत्स्वरूपोपन्यासेन निराकृत्य ततः परं ब्रह्मत्वेन वक्तव्यपुरुषाभावात् तूष्णींभूते तस्मिन् पुण्यपापकर्मसम्बन्धिनमेव पुरुषं मोक्षाय वेदितव्यमुपन्यस्यन्नजातशत्रुस्तदतिरेकेण मुमुक्षुभिर्ज्ञातव्यं ब्रह्म नाम किञ्चिन्नास्तीति मन्यत इत्येव हि स्पष्टतरं प्रतीयते । यथा ‘रसवादिनं ब्रवाणि’ इति प्रतिज्ञातवतोदाहृतान् पुरुषान् विप्रलम्भकत्वादितत्तत्स्वरूपोपन्यासेन प्रत्याख्याय ततः परमुदाहरणीयपुरुषाभावात्तूष्णींभूते तस्मिन् राजानमेव धनार्थिभिरुपसर्पणीयमुपन्यस्यन्नुत्तरवादी रसवादी नाम कोऽपि नास्तीत्येव मन्यत इति प्रतीयते । एतेन – इदं निरस्तम् – गार्ग्यस्य भ्रान्तत्वेऽपि ब्रह्मोपक्रमो न भ्रान्तः ; ‘ब्रह्म ते ब्रवाणि’ इति प्रतिज्ञामात्रे प्राज्ञा गोसहस्रस्य दत्तत्वात् । अतो वक्तुं प्रतिज्ञातं ब्रह्म यथावद्वक्तुमजानन्तं गार्ग्यं प्रति राज्ञा यथावत्तदुपदिष्टमित्येव गार्ग्यराजवाक्ययोरेकवाक्यत्वमुपपादयितुं युक्तम् । अन्यथा ‘ब्रह्म ब्रवाणि’ इति प्रतिज्ञायाब्रह्माणि ब्रह्मत्वेन वदन्तं गार्ग्यं मृषावादीत्यपोह्य स्वयं राजा जीवं प्राणं वा वदति चेत् स्वयमप्यसम्बन्धप्रलापी स्यात् । जीवं प्राणं वा ब्रह्मत्वेन वदति चेत् तद्वदेव मृषावादी स्यात् । ततश्च यथा केनचिन्मणितत्त्वज्ञानाभिमानिना काचं प्रदर्श्य ‘मणिरेष’ इत्युक्ते ‘काचोऽयं न मणिः’ इति तं प्रत्याख्याय ततः आत्मनो विशेषं जिज्ञापयिषताऽन्येन वस्तुतो मणिरेव प्रदर्शनीयः ; एवं राज्ञाऽपि ब्रह्मोपदेष्टव्यम् । अतो गार्ग्यवचनगतब्रह्मोपक्रमसामर्थ्यादेव राजवाक्यस्य ब्रह्मपरत्वमवसीयत – इति । न हि राज्ञा गोसहस्रं दत्तम् , किन्तु ‘सहस्रं दद्मः’ इत्युक्तम् । तत्तु असम्भावितमेव ब्रह्मनाम किञ्चिद्वक्तुमयमारभत इति मन्यमानस्य राज्ञः परिहासवाक्यमित्यपि सङ्गच्छते ; ‘जनको जनक इति वै जना धावन्ति’ इति परिहासवाक्यसमभिव्याहारात् । तथाऽपि ‘दद्मः’ इति प्रतिश्रुतं ‘दत्तमेव स्यात्’ इति चेत् ; न । ‘अदत्तन्तु भयक्रोधशोकमोहरुजाऽन्वितैः । तथोत्कोचपरीहासव्यत्यासफलयोगतः’ इति परिहासेन दत्तस्यापि प्रत्याहरणार्हत्वेनादत्तेषु परिगणनात् । ब्रह्मान्यस्याभिधानेऽपि न राज्ञोऽसम्बन्धप्रलापित्वमापतति । मोक्षार्थं वेदितव्यं ब्रह्म नाम किञ्चिन्नास्ति , किन्तु मुमुक्षूणामुपदिष्टः पुरुष एव वेदितव्य इति साङ्गत्यात् , रसवादिवचनप्रत्याख्यातृवचनस्यापि तदन्यविषयस्यैवमेव साङ्गत्यदर्शनात् । मणिप्रवक्तृदृष्टान्तस्त्वत्र न प्रवर्तते । न हि ‘काचो मणिर्न भवति किन्त्वयं मणिः’ इति प्रतिवक्तृवचने मणिशब्दवदिह राजवचने ब्रह्मशब्दोऽस्ति ‘आदित्यादिपुरुषा ब्रह्माणि न भवन्ति किन्त्विदं ब्रह्म’ इति । यदि च गार्ग्यवचनागतोपक्रमानुसारेण राजवचनमप्यवश्यं ब्रहपरं वक्तव्यम् , तदप्युपपद्यत एव । आदित्यादिपुरुषा ब्रह्म न भवन्ति , किन्तु तेषां कर्ता पुण्यापुण्यवान्जीवः प्राणो वा ब्रह्मेति राजवचनाभिप्रायवर्णनोपपत्तेः । अस्ति हि जीवे ब्रह्मशब्दस्सिद्धान्तिनोऽपि सम्मतः ‘इदं ब्रह्मायाति इदमागच्छति’(बृ.उ.४-३-३७) इति श्रुतौ । अस्ति च प्राणात्मनि हिरण्यगर्भे ‘कतम एको देव इति प्राण इति स ब्रह्म त्यदित्याचक्षते’(बृ.उ.३-९-९) इति श्रुतौ । एवञ्च सर्वपापाहतिपूर्वकस्वाराज्यफलप्रतिपादकस्योपसंहारस्यापि जीवे, प्राणे वा नानुपपत्तिः । तस्माद्बालाक्यजातशत्रुसंवादरूपस्यास्य प्रकरणस्य जीवः प्राणो वा ब्रह्म , न तदतिरिक्तं ब्रह्मास्तीत्यस्मिन्नर्थे पर्यवसितत्वात् सर्वेषां वेदान्तानां वियदादिसर्वजगत्स्रष्टृत्वोपलक्षिते निर्विशेषे ब्रह्मणि समन्वय इत्येतदयुक्तम् । ब्रह्मलक्षणं चायुक्तम् ; तदुपलक्षणीयस्य निर्विशेषस्य ब्रह्मण एवास्मिन् प्रकरणे प्रतिक्षेपप्रतीतेरिति । एवं प्राप्ते सिद्धान्तमाह – ‘जगद्वाचित्वात्’ इह वेदितव्यः पुरुषो जीवसामान्यात् तद्व्यतिरिक्ताद्धिरयगर्भाच्चातिरिक्तं परं ब्रह्म ; ‘यस्य वैतत्कर्म’ इति वाक्ये एतच्छब्दस्य कर्मशब्दस्य च जगद्वाचित्वात् । एतदुक्तं भवति – अत्रैतच्छब्दः प्रत्यक्षादिसन्निधापितसकलजगद्वाची ; विशिष्य कस्यचित्पुरुषसम्बन्धनिर्देशाकांक्षस्य नपुंसकैकवचनान्तनिर्देशार्हस्य प्रकृतस्याभावेन तस्य संकुचितवृत्तिकल्पकाभावात् । तथा कर्मशब्दोऽपि कार्यत्वाकारेण सकलजगद्वाची ; चलनादृष्टरूढ्योरन्यतरपरिग्रहे नियामकाभावेन क्रियते इति कर्मेति योगस्य समाश्रयणीयत्वात् , रूढिद्वयस्य परस्परपराहतौ लब्धोन्मेषस्य योगस्य प्रबलत्वात् । न च चलन एव रूढिस्तत्साध्यत्वाददृष्टे लक्षणेति शक्यं वक्तुम् ; मानसपुण्यपापरूपस्यादृष्टस्य चलनसाध्यत्वाभावेनादृष्टसामान्ये कर्मशब्दस्य रूढ्यन्तरस्वीकारावश्यम्भावात् । अपि च कर्मशब्दस्य चलनाष्टान्यतरपरत्वे ‘यस्य कर्म स वेदितव्य’ इत्येतावदेव वक्तव्यं स्यात् । प्रत्यक्षादिसन्निधापितवाची एतच्चब्दोऽवधारणार्थो वाशब्दश्चानर्थकः स्यात् । तस्य कार्यपरतायां ‘एतेषां पुरुषाणां कर्ता’ इति वाक्यमेव व्यर्थं स्यात् इति चेत् , न । बालाकिना ब्रह्मत्वेन कीर्तितानां पुरुषाणामब्रह्मत्वख्यापनेन तस्य सप्रयोजनत्वात् । तथा च वाक्यद्वयस्याप्येवमर्थः सम्पद्यते । य एतेषां पुरुषाणां जगदेकदेशभूतानां कर्त्ता किमनेन विशेषेण यस्य वा प्रत्यक्षादिसन्निधापितं कृत्स्नमेव जगत्कार्यमिति । एवञ्च वाशब्द एकदेशावच्छिन्नकर्तृत्वव्यावृत्त्यर्थो भवति । तस्मादेतत्कर्मपदयोर्जगद्वाचित्वेन तल्लब्धात् सप्राणसजीवसकलजगदीक्षापूर्वकस्रष्टृत्वरूपात् तत्कर्तृत्वलिङ्गात् प्राणजीवातिरिक्तं परं ब्रह्म वेदितव्यः पुरुष इति सिद्धम् ॥१-४-१६॥ ननु जीवमुख्यप्राणातिरिक्तब्रह्मलिङ्गवज्जीवमुख्यप्राणलिङ्गमप्यत्र दृश्यते इत्याशङ्कामुद्भाव्य परिहरति – जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् ।१७। तद्व्याख्यातमिति ‘नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्’(ब्र.सू.१-१-३१) इति प्रतर्दनाधिकरणे परिहृतमित्यर्थः । एतदुक्तं भवति – यथा ‘तद्यथा श्रेष्ठी’ इत्यादिवाक्ये प्रधानपुरुषस्य स्वैर्भृत्यैरिवादित्यादिपुरुषैरालोकदानादिनोपकारकैरात्मनो भोक्तृत्वं प्रधानपुरुषं प्रति भृत्यानामिवादित्यादिपुरुषाणामात्मानं प्रति स्वोचितैरुपकारैः पालयितृत्वञ्च वर्ण्यमानं जीवलिङ्गमस्ति , यथा वा ‘तद्यथा क्षुर’ इत्यादिवाक्ये बृहदारण्यकप्रतिपन्नं मुख्यप्राणात्महिरण्यगर्भलिङ्गमस्ति , एवं वेदितव्यपुरुषोपदेशवाक्य एवासंकुचितप्रत्यक्षादिसिद्धसकलकार्यकर्तृत्वं तदतिरिक्तब्रह्मलिङ्गम् । तद्धि सजीवसहिरण्यगर्भसर्वजगत्कर्तृत्वरूपम् ; ‘यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः’(मु.उ.२-१-१) ‘इदं सर्वमसृजत यदिदं किञ्च’(तै.उ. २ - ६.१) ‘यस्सर्वज्ञस्सर्ववित्’(मु.उ.१-१-९) ‘हिरण्यगर्भं पश्यत जायमानम्’(श्वे.उ.४-१२) इत्यादिश्रुत्यन्तरेऽपि जीवमुख्यप्राणयोरपि कार्यत्वप्रसिद्धिसत्त्वात् । एवं च जीवमुख्यप्राणलिङ्गयोरप्यनुरोधे ब्रह्मजीवमुख्यप्राणानां त्रिविधमुपासनं विवक्षितमत्र वक्तव्यमिति वाक्यभेदः प्रसज्येत । न चात्र वाक्यभेदो न्याय्य इति वर्णितं प्रतर्दनाधिकरणे । ननु तत्रोपक्रमोपसंहाराभ्यां ब्रह्मविषयत्वं वाक्यस्यावगतमिति वाक्यभेदः परिहरणीयः , न त्वत्रेति चेत् । अत्रापि परिहरणीय एव ; ‘ब्रह्म ते ब्रवाणि’ इत्युपक्रमेण ‘सर्वान्पाप्मनोऽपहत्य’ इत्याद्युपसंहारेण च वाक्यस्य ब्रह्मविषयत्वावगमात् । वेदितव्यपुरुषोपदेशवाक्यस्य गार्ग्यप्रतिज्ञातब्रह्मान्यविषयत्वावगमे हि रसवादिकथनप्रत्याख्यातृवचनदृष्टान्तः क्रमते । इह जगत्कर्तृत्वलिङ्गेन तस्य ब्रह्मविषयत्वावगमान्मणितत्त्ववक्तृवचनदृष्टान्त एव प्रवर्तते । एतेन – ब्रह्मोपक्रमोऽपि जीवमुख्यप्राणान्यतरविषयः ; तयोरपि क्वाचित्कब्रह्मशब्दप्रयोगदर्शनात् ; उपसंहारोऽपि तद्वेदनफलप्रतिपादनपर इति शङ्काऽपि - निरस्ता । श्रुत्यन्तरेषु जीवमुख्यप्राणातिरिक्ते परब्रह्मण्येव ब्रह्मशब्दस्य तद्वेदनादेव परमपुरुषार्थलाभस्य च प्रसिद्धतरत्वाच्च । ‘सहस्रं दद्म’ इत्यपि परिहासवाक्यत्वेन न योजनीयं , किन्तु ब्रह्मवचनप्रविज्ञापूजनार्थत्वेनैव योजनीयम् । परिहासवाक्यत्वेन योजनेऽपि बालाकिरयं ब्रह्मतत्त्वं वक्तुं न प्रभवतीत्येव परिहासाभिप्रायो वर्णनीयः , न तु जीवातिरिक्तं ब्रह्मनामकं किञ्चिन्नास्तीत्येवमभिप्रायः ; स्वयमेव सकलजीवव्यावृत्तासङ्कुचितसर्वजगत्कर्तृत्वरूपतल्लिङ्गवर्णनात् । एवञ्चैकस्मिन्वाक्ये ब्रह्माब्रह्मलिङ्गेषु सन्निविष्टेष्वब्रह्मलिङ्गानि ब्रह्मणि योजनीयानि , न तु ब्रह्मलिङ्गान्यब्रह्मणीति प्रतर्दनाधिकरणे दर्शितन्यायेनैव जीवमुख्यप्राणलिङ्गानि अभेदाभिप्रायेण ब्रह्मणि योजनीयानि । नन्वेवं प्रतर्दनाधिकरणेन गतार्थमिदमधिकरणम् । नेति ब्रूमः । ‘यस्य वैतत्कर्म’ इत्यस्य ब्रह्मलिङ्गपरत्वोपपादकन्यायव्युत्पत्त्यर्थत्वादस्याधिकरणस्य तदधीनत्वाच्चोपक्रमोपसंहारयोर्ब्रह्मविषयतात्मकार्थलाभस्य । ननु तथाऽपि पूर्वाधिकरणन्यायेनैव निर्णेतुं शक्यमिदं वाक्यं नैतदधिकरणव्युत्पाद्यं कर्मशब्दस्य जगद्वाचित्वोपपादकं न्यायमपेक्षते । पूर्वाधिकरणे हि ब्रह्मकारणत्वप्रतिपादकबहुवाक्यानुरोधेन तद्विरोधिनामसत्कारणत्वादिप्रतिपादककतिपयवाक्यानां नयनं कृतम् , ततः कथमिह सकलजीवातिरिक्ततत्सृष्टिस्थितिसंहारतन्नियमनादिस्वतन्त्रानादिसिद्धपरब्रह्मप्रतिपादकबहुवाक्यानुरोधेनास्यैकस्य वाक्यस्य पूर्वपक्षे वर्णितं जीवमुख्यप्राणातिरिक्तपरब्रह्मनिराकरणपरत्वं तयोरन्यतरस्य वेदितव्यपरत्वं च प्रत्याख्याय परब्रह्मपरतया नयनं कर्तुमशक्यम् सत्यम् । न्यायव्युत्पादनार्थं कृत्वाचिन्तयेदमधिकरणम् । तदेतदनन्तरसूत्रे स्फुटीकरिष्यामः ॥१-४-१७॥ जीवमुख्यप्राणातिरिक्तपरब्रह्मपरमिदं बालाक्यजातशत्रुसंवादरूपं प्रकरणमित्येतत् हेत्वन्तरेणापि द्रढयति –
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥१८॥ 【भाष्यम्】 अन्यार्थं जीवमुख्यप्राणाभ्यामन्यद्ब्रह्म तदर्थमेवेदं प्रकरणं , न तु तन्निराकरणार्थमिति जैमिनिराचार्यो मन्यते । कुतः , प्रश्नव्याख्यानाभ्याम् । प्रश्नस्तावदजातशत्रोर्ब्रह्मत्वेन बालाकिनोपदिशष्टेष्वादित्यादिपुरुषेषु प्रत्याख्यातेषु ततःपरमविज्ञानात्तूष्णीं भूते च बालाकौ बालाकिं प्रति ‘एतावन्नु बालाके’ इति । ‘एतावद्धि’ इति बालाकेः प्रतिवचनानन्तरं ‘मृषा वै किल मा संवदिष्ठा ब्रह्म ते ब्रवाणि’ इत्यजातशत्रोर्वचनं मृषात्वव्याख्यानम् । एताभ्यां प्रश्नव्याख्यानाभ्यां ब्रह्मप्रतिपादनार्थमेवेदं प्रकरणं , न तु तस्य निराकरणार्थमित्यवसीयते । यदि हि तन्निराकरणार्थं स्यात्तदा ब्रह्मनाम किञ्चिन्नास्तीत्यभिमन्यमानस्तन्निराकरणप्रवृत्तो राजा बालाकेर्वक्तव्यपुरुषांतरसद्भावेऽपि तत्प्रतिज्ञाया मृषात्वं प्रतिज्ञाकालमारभ्य मन्येतैवेति ‘एतावन्नु’ इति प्रश्नपूर्वकं ‘एतावदेव’ इत्युत्तरमपेक्ष्य तन्मृषात्वं न व्याचक्षीत । ब्रह्मप्रतिपादनार्थत्वे तु ब्रह्मास्तीत्यवगच्छन्राजा किमयं गार्ग्यः स्थूलारुन्धतीन्यायेनाब्रह्माणि ब्रह्मत्वेनोपादिक्षत् , किं वा भ्रान्त्येति निश्चेतुमशक्नुवन्नुदाहृतप्रश्नप्रतिवचनेन गार्ग्यस्य भ्रान्तत्वं निश्चित्य तत्प्रतिज्ञाया मृषात्वं व्याचष्ट इति युज्यते । अपि च एवमेके शाखिनो वाजसनेयिनोऽस्मिन् बालाक्यजातशत्रुसंवादेऽस्मिन्नेव स्थले प्रश्नव्याख्यानाभ्यां प्रकरणमिदं ब्रह्मप्रतिपादनार्थं , न तु तन्निराकरणार्थमिति स्पष्टयन्ति । ‘सहोवाचाजातशत्रुरेतावन्नु.... इति एतावद्धीति । नैतावता विदितं भवति’(बृ.उ.२-१-१४) इति । अत्र हि आदित्यपुरुषादिवेदनमात्रेण ब्रह्म विदितं न भवतीति व्याचक्षाणो राजा वेदितव्यमन्यद्ब्रह्मास्तीति मन्यत इति स्पष्टमेव प्रतीयते । ननूदाहृतप्रश्नव्याख्यानबलाद्ब्रह्मप्रतिपादनार्थं प्रकरणमित्यवसयितां नाम । प्रतिपिपादयिषितं ब्रह्म जीवमुख्यप्राणयोरन्यतरद्भविष्यति । तयोरपि ब्रह्मशब्दप्रयोगस्योदाहृतत्वादिति द्वितीयपूर्वपक्षेऽप्येतदेवोत्तरम् ‘अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके’ इति । इह जीवमुख्यप्राणप्रसञ्जनमन्यार्थं , ब्रह्मप्रतिपत्त्यर्थं , न तु प्राधान्येन जीवस्य , मुख्यप्राणस्य वा प्रतिपादनार्थमिति जैमिनिर्मन्यत इति । कुतः ‘क्वैष एतद्बालाके’ इत्यादिना ‘प्राण एवैकधा भवति’ इत्यन्तेन ग्रन्थेन वर्णिताभ्यां प्रश्नव्याख्यानाभ्याम् । ‘क्वैष एतद्बालाके’ इति प्रश्नस्तावज्जीवो वेदितव्य इति प्रतिपादनार्थं न भवति । तथा सति तत्स्वरूपस्यैव प्रष्टव्यतया तदाधारप्रश्नायोगात् । न च तस्य नाड्याधारत्ववर्णनेन पापास्पृष्टतया तन्मूलशोकभीत्यादिराहित्यप्रदर्शनेन वेदितव्यत्वोपपादनार्थमाधारप्रश्न इति वाच्यम् । तथा सति ‘तासु तदा भवति’ इति नाडीस्थत्ववत्पापास्पर्शस्यापि बालाकिं प्रति वर्णनीयत्वापत्तेः । न च सौषुप्तिकनाडीः प्रविष्टस्य पापास्पर्शश्छान्दोग्ये श्रुतः प्रसिद्ध इति तदवर्णनमिति वाच्यम् । ‘क्वैष एतत्’ इति प्रश्नानन्तरं ‘तदुह बालाकिर्न विजज्ञौ’ इत्युक्तत्वेन सुषुप्तौ नाडीप्रवेशमेवाजानतो बालाकेस्तत्प्रवेशकृतपापास्पर्शप्रसिद्ध्यभावात् । तस्माज्जीवाधारो वेदितव्यः पुरुष इति प्रतिपादनार्थ एव स प्रश्नः । ‘प्राण एवैकधा भवति’ इत्येतदेव च तस्योत्तरं , न तु ‘तासु तदा भवति’ इत्येतत् ; नाडीनां वेदितव्यपुरुषत्वाभावात् । तत्तु ‘ताभिः प्रत्यवसृप्य पुरीतति शेते’(बृ.उ.२-१-१९) इति श्रुत्यन्तरानुसारेण हृदयावच्छिन्नब्रह्मप्राप्तये मार्गोपदेशपरं नेतव्यम् । एवञ्च द्वितीयप्रश्नः करणग्रामाधिकरणविषय इति न युक्तम् ; अग्रे तदुत्तरादर्शनात् । ‘जीवाधिकरणविषय इत्यपि न युक्तम् ; प्रथमप्रश्नेन पुनरुक्तिप्रसङ्गात्’ इति चेत् ; न । तयोरेकः कस्मिन्नधिकरणे शयितोऽभूदिति जीवाधिकरणधर्मिविशेषविषयः , अपरस्तु जीवः किमन्यः सन्नन्यस्मिन् शयितोऽभूदुतानन्यः सन्नात्मनीत्यधिकरणगतान्यत्वानन्यत्वरूपविशेषणवैशिष्ट्यविषय इति भेदोपपत्तेः । अत एव प्रश्नद्वयस्यापि व्याख्यानार्थं ‘प्राण एवैकधा भवति’ इत्युक्तम् । अत्र हि ‘प्राणे’ इत्यधिकरणभूतधर्मिविशेषप्रश्नस्य प्रतिवचनम् ‘एकधा भवति’ इति धर्मविशेषवैशिष्ट्यप्रश्नस्य । एकधा भवति एकीभवतीत्यर्थः ; ‘स्वमपीतो भवति’ इति हि श्रुत्यन्तरम् । ‘तदैनं वाक्’ इत्यत्र ‘एतस्मादात्मनः प्राणः’ इत्यत्र च एतत्पदं प्राणपरामर्शि । प्राणस्य सप्तम्यन्तनिर्दिष्टत्वेऽपि प्रतिपिपादयिषितत्वेन प्राधान्यात् ‘तप्ते पयसि दध्यानयसि सा वैश्वदेव्यामिक्षा’ इत्यत्र सप्तम्यन्तनिर्दिष्टस्यापि पयस एव व्याप्यकर्मत्वेन प्रधानस्य सर्वनाम्ना परामर्शदर्शनात् । अत्र च वाक्यद्वये प्राणानां वृत्तिलयोद्गममात्रं न प्रतिपाद्यते ; विषयैः सह लयोद्गमप्रतिपादनात् । न हि सुषुप्तौ विषयाणां व्यापारविलयः प्रबोधे तदुद्भवश्चानुभवानुरोधी । श्रुतौ भारनिवेशे तु यथाश्रुति इन्द्रियाणां तद्विषयभूतस्य नामरूपात्मकस्य कृत्स्नप्रपञ्चस्य लयः स्वीकर्तुं युक्तः । एवं जीवैकीभावाधिकरणस्य प्राणस्य सुषुप्तौ सेन्द्रियसकलप्रपञ्चलयाधिकरणतया, प्रबोधे तदुद्गमापादानतया, प्रतिपादनं तस्य गार्ग्योपदिष्टेभ्य आदित्यादिपुरुषेभ्योऽन्यत्वं दृढीकर्तुम् । तत एव – जीवो , मुख्यप्राणो वा वेदितव्यः पुरुष इति पूर्वपक्षोऽपि निरस्तो भवति । न हि यतः कुतश्चिज्जीवाद्धिरण्यगर्भाद्वा सर्वे लोकास्सर्वे देवाश्चोद्भवन्तीति युज्यते । यदि च देवशब्द इन्द्रियाधिष्ठातृदेवपरः , तदाऽपि हिरण्यगर्भव्यावृत्तिरस्त्येव ; ‘बुद्धिरध्यात्मं बोद्धव्यमधिभूतं ब्रह्म तत्राधिदैवतम्’ इति तस्यान्तरिन्द्रियाधिष्टातृत्वोक्तेः । ‘स यदा प्रबुध्यते यथाऽग्नेर्विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः प्राणा’ इत्यादिनैव ‘कुत एतदागात्’ इति प्रश्नस्य प्रतिवचनमप्यर्थाल्लब्धम् । तथा हि ‘कुत एतदागात्’ इति प्रश्नो न जीवागमनापादनविषयः ; यत्र धर्मिणि शयितोऽभूत् तत आगादिति स्वयमेव ज्ञातुं शक्यत्वात् , किन्तु किमन्यस्मादागत उतात्मन्येव भेदकोपाधिविलयादेकीभूय स्थितः पुनः प्रबोधसमये भेदकोपाध्युद्भवात्ततो भेदेनागत इत्यपादानस्यान्यत्वानन्यत्वधर्मविशेषवैशिष्ट्यविषयः । यद्यप्यधिकरणान्यत्वानन्यत्वविषयस्य प्राचीनप्रश्नस्य प्रतिवचनं यद्धर्मविषयं वक्ष्यते तद्धर्मविशिष्टादयमागादित्येतदपि निश्चेतुं शक्यम् , तथाप्यनन्यत्वपक्षस्य प्रतिवचने वक्तव्यत्वेन विवक्षितत्वात् , तस्य चालौकिकत्वेनासम्भावनीयत्वात् तद्दृढीकरणार्थमधिकरणत्वदशायामिवापादानत्वदशायामप्यनन्यत्वं वक्तव्यमिति तद्विषयः प्रश्नो घटते । तत्प्रतिवचनलाभार्थं सुषुप्तौ यदा प्रबुध्यते , तदानीमात्मनः सुषुप्तभूतादेतस्मात् प्राणशब्दोक्तादिन्द्रियादयो विप्रतिष्ठन्त इति व्याख्येयम् । एवञ्चोदाहृतप्रश्नपर्यालोचनया , तत्प्रतिवचनपर्यालोचनया च प्रकरणमिदमन्यार्थं , न तु जीवो हिरण्यगर्भो वा वेदितव्यः पुरुष इति प्रतिपादनार्थमिति सिद्धम् । अपि चैवमेके शाखिनो वाजसनेयिनोऽस्मिन्प्रकरणे प्रकरणमिदमन्यार्थमिति स्पष्टयन्ति । तत्र हि ‘यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः क्वैष तदाऽभूत्कुत एतदागात्’(बृ.उ.२-१-१६) इति प्रश्नद्वयं श्रूयते । तदनन्तरं च ‘यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिञ्च्छेते’(बृ.उ.२-१-१७) इति प्रथमप्रश्नस्य प्रतिवचनम् । द्वितीयप्रश्नस्य प्रतिवचनं तु ‘एवमेवास्मादात्मनस्सर्वे प्राणास्सर्वे लोकास्सर्वे देवास्सर्वाणि भूतानि व्युच्चरन्ति’(बृ.उ.२-१-१०) इत्यग्रिमवाक्ये । अत्र ‘क्वैष तदाऽभूत्’ इति प्रश्ने करणग्रामाधिकरणविषयत्वशङ्काया नास्त्यवकाशः ; ‘य एष विज्ञानमयः पुरुषः’(बृ.उ.२-१-१६) इति प्राङ्निर्देशात् । तदधिकरणविषयस्य प्रतिवचनस्य च नास्ति मुख्यप्राणविषयत्वशङ्कावकाशः ; आकाशशब्देनाधिकरणनिर्देशात् । अस्याकाशशब्दस्य एतत्स्थाने कौषीतकिब्राह्मणपठितस्य प्राणशब्दस्य चैकार्थ्यस्य वक्तव्यतया तयोर्ब्रह्मविषयत्वावश्यम्भावात् । ब्रह्मण्येव तयोश्श्रुत्यन्तरेषु निरूढिदर्शनात् आनन्दवल्यां ‘को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’(तै.उ.२-७.१) इत्याकाशशब्दनिर्दिष्टस्य चापरिच्छिन्नानन्दस्य ब्रह्मण उत्तरोत्तरशतगुणमात्रपरिच्छिन्नानन्दशालिषु परिगणितान्मुख्यप्राणरूपात् हिरण्यगर्भाद्भिन्नत्वावगमात् । तस्मात्प्रकरणमिदं जीवमुख्यप्राणातिरिक्तब्रह्मविषयमिति तत्रैव तयोर्लिङ्गं सार्वात्म्याभिप्रायेण योजनीयम् । ननु वाजसनेयिशाखायां ‘नैतावता विदितं भवति’ इति राजवाक्येन गार्ग्योपक्रान्तब्रह्मविषयमेवाग्रेतनं सुषुप्तपुरुषोत्थापनोपक्रमं कृत्स्नं राजवाक्यमित्यवगतम् । तच्च ब्रह्म जीवो न भवतीति सुषुप्तजीवाधिकरणप्रश्नेनावगतम् । तदधिकरणं ब्रह्म मुख्यप्राणो न भवतीति प्रतिवचनगताकाशशब्देन सर्वभूतलोकदेवोद्गमापादानत्वप्रतिपादनेन चावगतम् । अतस्तदेकार्थं कौषीतकिब्राह्मणवाक्यमपि जीवमुख्यप्राणातिरिक्तविषयमिति निश्चेतुं शक्यमेव । किमर्थमिदमधिकरणमिति चेत् ; उक्तमेवोत्तरं कृत्वाचिन्तयेदमधिकरणं प्रवृत्तमिति । तदेव उत्तरमत्रापि द्रष्टव्यम् । ‘अपि चैवमेक’ इत्यस्याः कृत्वाचिन्ताया उद्घाटनं कृतम् । प्राचीनसूत्रदर्शितायास्तु कृत्वाचिन्ताया ‘वाक्यान्वयात्’ इत्यग्रिमसूत्रमस्मिन्नप्यधिकरणे प्रविष्टं मत्वा तेन बहूनां वेदान्तवाक्यानां जीववर्गात्तद्विशेषाद्धिरण्यगर्भाच्च भिन्ने ब्रह्मणि समन्वितत्वादपि प्रकरणमिदमन्यार्थमित्येवंपरेणोद्घाटनं कृतमित्यनुसन्धेयम् । यत्तु भाष्ये प्राणनिराकरणस्यापि सुषुप्तपुरुषोत्थापनेन प्राणादिव्यतिरिक्तोपदेशोऽभ्युच्चय इत्युक्तं , तद्धिरण्यगर्भनिराकरणार्थं न भवति , किन्तु प्रतर्दनाधिकरणपूर्वपक्षन्यायेन मन्दशङ्कनीयः प्राणवायुरेवात्र वेदितव्यः पुरुषोऽस्तु तत्र परिस्पन्दरूपस्य कर्मणस्सदा सत्त्वादिति सर्वमनवद्यम् ॥१-४-१८॥
इति जगद्वाचित्वाधिकरणम् ॥५॥ 【भाष्यम्】
वाक्यान्वयात् ॥१९॥ 【भाष्यम्】 बृहदारण्यके मैत्रेयीब्राह्मणे याज्ञवल्क्यः स्वयं प्रविव्रजिषया मैत्रेयीकात्यायन्योः स्वभार्ययोर्वित्तस्य विभागं चिकीर्षन्वित्तेन किममृतत्वं प्राप्तुं शक्यमिति मैत्रेय्या पृष्टो ‘यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशाऽस्ति वित्तेन’(बृ.उ.२-४-२) इत्युक्त्वा ‘येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहि’(बृ.उ.२-४-३) इति तया पुनरमृतत्वसाधनं पृष्टो ‘न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति’(बृ.उ.२-४-५) इत्यादिभिः ‘न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियम्भवति’(बृ.उ.२-४-५) इत्यन्तैः वाक्यैः पतिजायापुत्रवित्तपशुब्रह्मक्षत्रलोकदेववेदभूतप्रभृति सर्वं यस्य भोगार्थतयैव प्रियं भवति, तत्पत्यादिसर्वभोक्तारमात्मानमुपक्रम्य ‘आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’(बृ.उ.२-४-५) इत्यमृतत्वसाधनमात्मदर्शनं दर्शनसाधनानि श्रवणादीनि चोपदिश्य ‘आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्’(बृ.उ.२-४-५) इत्यात्मविज्ञानेन सर्वविज्ञानं प्रतिजज्ञे । तत्र यद्दर्शनममृतत्वसाधनमुपदिदेश सोऽयमात्मा किं जीव उत परमात्मेति जीवब्रह्मलिङ्गाभ्यां संशये – पूर्वपक्षः – जीव एवायमात्मा । उपक्रमे पतिजायादिप्रियत्वलिङ्गात् , मध्ये ‘विज्ञानमय एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविश्यति’(बृ.उ.२-४-१२) इत्युत्पत्तिविनाशलिङ्गात् , अन्ते ‘विज्ञातारमरे केन विजानीयात्’(बृ.उ.२-४-१४) इति विज्ञातृत्वलिङ्गाच्च । तद्विज्ञानेन सर्वविज्ञानप्रतिज्ञानं तु भोग्यजातस्य भोक्तृशेषत्वादौपचारिकं योजनीयम् । युक्तं ह्युपक्रमोपसंहारपरामर्शानुसारेण पूर्वाधिकरणविषयवाक्ये जीवलिङ्गस्य ब्रह्मणीवात्र ब्रह्मलिङ्गस्य जीवे योजनम् । स्यादेतत् – उपक्रमादीनां जीवनिष्ठत्वे भवेदेवं , तदेवासिद्धम् । तथाहि – उपक्रमे ‘न वा अरे पत्युः कामाय’ इत्यादिकम् आत्मैव द्रष्टव्य इति वक्ष्यमाणार्थस्योपपादकतया वर्ण्यते । न च – जीवात्मनः कामाय पत्यादयः प्रिया भवन्तीति वचनं प्रियं पत्यादिकं परित्यज्य तद्वियुक्तं केवलं जीवात्मस्वरूपमन्वेष्टव्यमित्यत्रोपपादकं भवति । प्रियमेव ह्यन्वेष्टव्यं , न प्रियवियुक्तं स्वरूपं । परमात्मनः कामायेष्टनिर्वृत्तये पत्यादयः प्रिया भवन्तीति वचनं तु पत्यादिकं परित्यज्य परमात्मैव द्रष्टव्य इत्यत्र भवत्युपपादकम् । परमात्मा खलु ‘एष ह्येवानन्दयाति’ इति श्रुतः पतिजायादीनां कादाचित्कं प्रियत्वमापादयति । तस्मात् स एव निरतिशयानन्दरूपोऽन्वेष्टव्य इति । एवञ्च पतिजायादिवाक्यानामित्थमर्थो ग्राह्यः – न हि पतिजायापुत्रवित्तादयो मदिष्टनिर्वृत्तये अहमस्य प्रियः स्यामिति स्वसङ्कल्पतः प्रिया भवन्ती , किन्तु परमात्मनः तत्तज्जीवप्रियप्रतिलम्भनरूपेष्टनिर्वृत्तये अहमस्य प्रियः स्यामिति स्वसङ्कल्पतः प्रिया भवन्तीति । परमात्मा हि तत्तत्कर्मानुसारेण जीवात्मनः प्रियमनुभावयितुमिच्छन् प्रतिनियतदेशकालपरिमाणं तत्तद्वस्तुषु प्रियत्वमापादयति । एवमुपक्रमगतोपपादकसहितस्य द्रष्टव्यवाक्यस्य परमात्मपरत्वे सति मध्ये जीवोत्पत्तिविनाशसङ्कीर्तनं मुण्डके ‘तथाऽक्षराद्विविधास्सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति’(मु.उ.२-१-१) इति तदुत्पत्तिलयसङ्कीर्तनमिव प्रकृतब्रह्मभावप्रतिपत्त्यर्थतया , तत्स्तुत्यर्थतया वा सम्भवदन्वयं न प्रकरणस्य जीवपरतामापादयति । ‘विज्ञातारम्’ इति श्रुतं विज्ञानकर्तृत्वं तु ब्रह्मण्यपि प्रसिद्धमेव ‘तदैक्षत’ ‘स ईक्षांचक्रे’ ‘यस्सर्वज्ञः’ इत्यादिश्रुतिष्विति ; चेत् – उच्यते – परमात्मनः पुण्यापुण्यकर्मण इव पतिजायादिषु कदाचित्प्रियत्वापादनेनानन्दरूपत्वं कदाचिदप्रियत्वापादनेन दुःखरूपत्वमिव न सिद्ध्यति । नतरां निरतिशयानन्दत्वम् । नतरां पत्यादिकं परित्यज्य द्रष्टव्यत्वम् । तस्मात्पतिजायादिवाक्यानां परमात्मविषयत्ववर्णनं परमात्मैव द्रष्टव्य इत्यस्योपपादकम् । तेषां जीवात्मविषयत्ववर्णनमपि जीवात्मैव द्रष्टव्य इत्यस्योपपादकं न भवतीत्युक्तम् , इति चेत् , सत्यमुक्तम् । विमृश्य तु नोक्तम् । तेषां जीवात्मविषयत्ववर्णने तस्य पतिजायाद्यपेक्षयाऽतिशयितपुरुषार्थत्वालाभे हि पतिजायादिकं परित्यज्य तस्यैवान्वेष्टव्यत्वे तदुपपादकं न भवेत् , तत्तु लभ्यत एव । तथा हि – सर्वेषामपि स्वात्मा प्रियः , पतिजायादयोऽपि प्रिया इत्यनुभवसाक्षिकमेतत् । तत्र पतिजायादीनां स्वात्मव्यतिरिक्तानां सर्वेषां प्रियत्वं पतित्वादिप्रयुक्तं न भवति , किन्तु स्वात्मप्रयुक्तमिति अस्मिन्नर्थे तेषां स्वेष्टसंपादकत्वदशायामिव स्वानिष्टसंपादकत्वदशायां प्रियत्वादर्शनेन सर्वसम्प्रतिपत्तियोग्ये वर्ण्यमाने स्वात्मनः पतिजायादीन्प्रति इष्टसंपादकत्वदशायामनिष्टसंपादकत्वदशायाञ्चाविशेषेण प्रियस्य कथं पतिजायाद्यपेक्षयाऽतिशयितपुरुषार्थत्वं न लभ्यते । तस्मादात्मानात्मनोर्लोकप्रसिद्ध्यनुसारिमुख्यगौणपुरुषार्थत्वरूपं तत्त्वमालोच्य गौणं परित्यज्य मुख्यमेव समाश्रयेदित्ययमर्थः पतिजायादिवाक्यसहितेन द्रष्टव्यवाक्येन वर्ण्यते इत्येव युक्तम् । उक्तञ्च सुरेश्वराचार्यैः ‘दृष्ट्वाऽनुभवतस्तत्त्वमात्मानात्मपदार्थयोः । उपादित्सा जिहासा च तत्कृतैवानुपाल्यताम्’ इति । ‘स्वत एवाप्रियोऽनात्मा ह्यात्मप्रीत्यर्थसाधनात् । जायादिः स्यात्प्रियो भवत्या बन्धक्याः कामुको यथा । निर्हेतुका स्वतः प्रीतिरात्मन्येव यतस्ततः । भाक्तं प्रियं परित्यज्य मुख्यं प्रियमुपाश्रयेत्’ इति च । एवञ्च ‘न वा अरे पत्युः कामाय’ इत्यादिवाक्येषु प्रसिद्धिद्योतको वैशब्दोऽपि सङ्गच्छते । प्रसिद्धं ह्येतल्लोके यत्पत्यादयो जायादीनां पत्यादिप्रयोजनाय प्रिया न भवन्ति, किन्तु जायादीनामेव प्रयोजनायेति । पतिजायादिवाक्यानां परमात्मविषयत्वे तु स न सङ्गच्छेत । न हि परमात्मेच्छाधीनं पतिजायादीनां कादाचित्कं प्रियत्वमित्येतल्लोकप्रसिद्धम् । ‘श्रुतिप्रसिद्धं तत्’ इति चेत् ; न । अनधीतिनीमविज्ञातश्रुत्यर्थां केवलममृतत्वार्थिना पत्या सह चिरसंवासेन तच्चरणपरिचरणबाहुल्यलब्धयाऽन्तःकरणशुद्ध्या च स्वयमप्यमृतत्वार्थिनीं मैत्रेयीं प्रत्यमृतत्वोपायमुपदिदिक्षुणा पत्या तदधिकारिविशेषणवैराग्यदृढीकरणाय तद्बुध्युपारूढाया लोकप्रसिद्धेरेव तेन द्योतनीयत्वात् । पतिजायादिवाक्येषु पतिवाक्यप्राथम्येन मैत्रेयीं प्रति तद्बुध्युपारूढमर्थं प्रथमं प्रदर्श्य तद्दृष्टान्तेन तत्सम्मतियोग्यान्येवार्थान्तराण्यपि पतिरवर्णयदिति प्रतीतेश्च । तस्मादुपक्रमस्य परमात्मविषयत्ववर्णनं तावदयुक्तम् । यत्तूत्पत्तिविनाशवाक्यं प्रकृतद्रष्टव्यात्मविषयं न भवति; किन्तु तत्सृज्यात्मविषयमिति ; तदपि न युक्तम् । षष्ठे मैत्रेयीब्राह्मणे ‘स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय’(बृ.उ.४-५-१३) इत्यादिना प्रकृतस्य द्रष्टव्यात्मन एव ‘अयमात्मा’ इति परामृष्टस्योत्पत्तिविनाशवर्णनात्, ‘एवं वा अरे इदं महद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः’(बृ.उ.२-४-१२) इत्यादौ चतुर्थे मैत्रेयीब्राह्मणे ‘अयमात्मा’ इति शब्दाभावेऽपि प्रकृतपरामर्शिन इदंशब्दस्य सत्त्वाच्च । मुण्डकवाक्यदृष्टान्तोपन्यासस्तु विषमः ; तत्र ‘तथाऽक्षरात्’ इति विशेषणेन सृज्यात्मना प्रकृताक्षरब्रह्मोपादानकत्वप्रतिपादनात् । यत्तु विज्ञातृत्वं ब्रह्मणोऽपि प्रसिद्धमित्युक्तं , तदपि न युक्तम् ; विजानामीत्यनुभवसिद्धस्य मनोवृत्तिविशेषरूपं विज्ञानं प्रति कर्तृत्वस्य मुख्यस्य जीव इव ब्रह्मण्यसम्भवात् । तस्मान्मैत्रेयीब्राह्मणेन प्रतिपाद्यमान आत्मा जीव एवेति जगत्कारणत्वोपलक्षितो मुमुक्षुभिर्विज्ञेयः परमात्मा , तत्रैव वेदान्तानां समन्वय इत्येतन्न युक्तमिति । एवं प्राप्ते पूर्वपक्षे राद्धान्तः – परमात्मैवायम् ; वाक्यान्वयात् । वाक्यं हीदं मैत्रेयीब्राह्मणरूपं विमृश्यमानं परमात्मन्येवान्वितावयवं लक्ष्यते । तथा हि – ‘अमृतत्वस्य तु नाशाऽस्ति वित्तेन’ इति याज्ञवल्क्यवचनेन वित्तसाध्यैः कर्मभिरमृतत्वं न प्राप्यत इति निश्चित्य वित्तमनादृत्यामृतत्वप्राप्त्युपायोपदेशमाशंसमानायै मैत्रेय्यै तत्प्राप्त्यर्थं विज्ञेयमात्मानमुपदिदेश याज्ञवल्क्यः । तद्विज्ञानमेवामृतत्वसाधनमित्युपसञ्जहार च षष्ठे मैत्रेयीब्राह्मणान्ते ‘एतावदरे खल्वमृतत्वम्’ इति । जीवात्मविज्ञानात्तु नामृतत्वप्राप्तिः ; ‘नान्यः पन्थाः’ इति श्रुतेः । अहंप्रत्ययरूपे जीवात्मविज्ञाने सर्वदा अनुवर्तमानेऽपि अमृतत्वप्राप्त्यदर्शनाच्च जीवस्य यदलोकसिद्धं तात्त्विकं रूपम् , तद्विज्ञानममृतत्वसाधनमित्यस्य सिद्धान्तेऽप्यङ्गीक्रियमाणत्वात् । तथा मध्येऽपि ब्रह्मलिङ्गानि वर्णयामास । तत्र एकविज्ञानेन सर्वविज्ञानं तावदेकं लिङ्गम् । न चैतदौपचारिकं नेतुं युक्तम् ; अग्रे भेददर्शननिन्दया सार्वात्म्यप्रतिपादनेन दुन्दुभ्यादिदृष्टान्तैश्च तदुपपादनाच्च । तत्र ‘ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद’(बृ.उ.२-४-६) इत्यादिभिः ‘सर्वं तं परादाद्योऽन्यत्रात्मनस्सर्वं वेद’(बृ.उ.२-४-६) इत्यन्तैर्वाक्यैर्ब्रह्मक्षत्रलोकदेववेदभूतादिकस्य सर्वस्य ब्रह्मान्यत्वदर्शननिन्दा कृता । ब्रह्म ब्राह्मणजातिः ‘ब्राह्मणोऽहम्’ इत्यभिमानविषयभूता तं पराकुर्यात् पुरुषार्थात् प्रच्यावयेद्यस्तां ब्राह्मणजातिमात्मनो भिन्नां वेदेति प्रथमवाक्यार्थः । एवं क्षत्रादिवाक्यानामप्यर्थो द्रष्टव्यः । सर्वेष्वेतेषु वाक्येषु सार्वविभक्तिकस्त्रल्प्रत्ययः ‘समं समाधानमन्यत्राभिनिवेशात्’ ‘अन्यत्र भीष्माद्गाङ्गेयात्’ इत्यादिप्रयोग इव प्रथमार्थो द्रष्टव्यः । ‘इदं ब्रह्म इदं क्षत्रमिमे लोकाः इमे वेदा इमानि भूतानीदं सर्वं यदयमात्मा’(बृ.उ.२-४-६) इति सार्वात्म्यं दर्शितम् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञां तदुपपादनार्थां भेददर्शननिन्दापूर्विकां सार्वात्म्यप्रतिज्ञाञ्चोपपादयितुं दुन्दुभ्यादिदृष्टान्ता दर्शिताः । ‘स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दान् शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः’(बृ.उ.२-४-७) इति दुन्दुभिदृष्टान्तः चिद्रूपात्मस्फुरणं विना स्फुरणशून्यं जगच्चिदात्मनो न व्यतिरिच्यत इति प्रतिज्ञापेक्षिते ‘यत् यस्य स्फुरणं विना न स्फुरति, तत्ततो न व्यतिरिच्यते’ इति नियमे दृष्टान्तोऽयम् । तत्र ‘दुन्दुभेर्हन्यमानस्य’ इत्यनेन हन्यमानदुन्दुभिप्रभवशब्दसामान्यं लक्ष्यते । ‘दुन्दुभेस्तु’ इत्यनेनापि तदेव लक्ष्यते । दुन्दुभ्याघातः – संग्रामभूमिषु वीररसाद्यनुकूलः दुन्दुभिध्वनिविशेषः । ततश्चायमर्थः – यथा दुन्दुभिशब्दसामान्यविशेषभूतान् शब्दान् दुन्दुभिशब्दसामान्याद्बाह्यत्वेन ततो निष्कृष्य न कश्चिदपि ग्रहीतुं शक्नुयात् ; किन्तु दुन्दुभिशब्दसामान्यग्रहणेनैव तद्विशेषशब्दो गृहीतो भवति ; दुन्दुभ्याघातसंज्ञकस्य शब्दविशेषस्य ग्रहणेन वा तदवान्तरविशेषशब्दो गृहीतो भवति ; दुन्दुभिशब्द इत्येव हि तद्विशेषो गृह्यते , दुन्दुभ्याघातशब्दसामान्याच्च तथा तद्विशेषा न भिद्यन्ते , एवं चिद्रूपादात्मनः प्रपञ्च इत्याशयः । शंखवीणादृष्टान्तावप्येवमेव योजनीयौ । यद्यपि दृष्टान्तानामर्थान्तरं वर्णयितुं शक्यम् ; तथा हि – यथा दुन्दुभौ हन्यमाने ततो बहिर्निस्सरतश्शब्दान्न कश्चिदपि निरोद्धुं शक्नुयात् ; किन्तु दुन्दुभेर्निरोधेन , तदाहन्तृपुरुषनिरोधेन वा दुन्दुभिशब्दो निरुद्धो भवति – इत्यादि , तथाऽपि नैतादृगर्थान्तरं प्रकृतोपयोगि । सार्वात्म्यं हि प्रकृतं दृष्टान्तेनोपपादनीयम् , न त्वन्यत् । तत्तु नैतादृशार्थेनोपपादितं भवति । प्रकृतानुपयोग्यर्थान्तरं त्वितोऽपि समञ्जसमुन्नेतुं शक्यम् – दुन्दुभौ हन्यमाने बाह्यान्दुन्दुभिशब्दव्यतिरिक्तान्मानुषादिशब्दान्दुन्दुभिशब्दाभिभूतान्ग्रहीतुं न शक्नुयात् ; दुन्दुभेस्तदाहन्तृपुरुषस्य वा निरोधेन मानुषादिशब्दो गृहीतो भवति – इति । यद्वा हन्यमानदुन्दुभिमनादृत्य तद्दर्शनमनपेक्ष्य बाह्यान्पिहितकर्णत्वेन कर्णपुटमप्रविष्टतया कर्णपुटाद्बहिरेव वर्तमानान्दुन्दुभिशब्दान्ग्रहीतुं न शक्नुयात् । कर्णपुटस्य पिहितत्वेन तत्प्रत्यक्षासम्भवात् हन्यमानान्दुन्दुभिरूपकारणलिङ्गादर्शनेनानुमानानवताराच्च । किन्तु प्रागुक्तहन्यमानत्वविशेषितस्य दुन्दुभेर्वा तदाहननव्यापृतस्य पुरुषस्य वा कारणलिङ्गस्य ग्रहणेनानुमानावतारे सति दुन्दुभिशब्दो गृहीतो भवतीति । अत्र हि पक्षद्वयेऽपि प्रथमपक्ष इव बाह्यशब्दः सप्रयोजनः । बहिर्निस्सरत इत्यर्थवर्णने तु निष्प्रयोजनः ; दुन्दुभिशब्दो ततो बहिर्निस्सरणस्य स्वाभाविकत्वेन व्यावर्त्याभावात् । शब्दान्वयी ग्रहणशब्दश्च ज्ञानपरः सन्युक्तार्थः । निरोधार्थवर्णने त्वयुक्तार्थः । न हि ग्रहणशब्दस्य ज्ञानवदुपादानवच्च निरोधार्थः प्रसिद्धः , न वा चोरादाविव शब्दे निरोधोऽन्वेति । दुन्दुभिर्यथा नाहन्येत तथा तन्निरोधेन वा पुरुषो यथा तं नाहन्यात्तथा पुरुषनिरोधेन वा शब्दस्योत्पत्तिप्रतिबन्धमात्रं हि भवति , न तु द्रव्यविषयत्वेन प्रसिद्धो निरोधः । प्रथमपक्षे ‘दुन्दुभेः’ इति शब्दस्य दुन्दुभिप्रभवशब्दे लक्षणा तु ग्रहणान्वयानुरोधाद्भवन्ती न दोषाय । शब्दस्य ह्युपादानं न सम्भवतीति ज्ञानमेवात्र ग्रहणं वाच्यम् । दुन्दुभिज्ञाने च तदीयशब्दविशेषाणां स्फुरणं न भवति, किन्तु दुन्दुभिशब्दसामान्यज्ञान एव । उक्तञ्च वार्तिके ‘दुन्दुभिध्वनिरित्येतत्कुतो लब्धं विशेषणम् । दुन्दुभेर्ग्रहणेनेति लब्धमेतद्विशेषणम् । दुन्दुभेस्तु रवा एत इत्येवं ग्रहणे सति । गृहीतास्तद्विशेषास्स्युस्तेषां तादात्म्यकारणात्’ इति । दुन्दुभ्याघातशब्दस्तु यद्यपि कर्मोपपदप्रत्ययान्तो दुन्दुभ्याहन्तृवाची, तथाऽपि घञन्तो दुन्दुभिध्वनिशेषवाच्यप्यस्तीति तद्ग्रहणं युज्यते । तदप्युक्तं वार्तिके ‘भेर्याघातग्रहाद्वाऽपि तद्विशेषग्रहो भवेत् । वीरादिरससंयुक्तो दुन्दुभ्याघात उच्यते’ इति । तस्मात् ‘चमसवदविशेषात्’(ब्र.सू.१-४-८) इति न्यायेनानेकधा योजयितुं शक्यं दृष्टान्तवाक्यस्य प्रकृतसार्वात्म्योपपादकदार्ष्टान्तिकानुगुण एवार्थो ग्राह्यः । ननु शङ्काग्रन्थदर्शितोऽप्यर्थः किञ्चिद्दार्ष्टान्तिकमध्याहृत्य तद्दृष्टान्ततया वर्णयितुं शक्यः, दुन्दुभ्याहननव्यापारानुवृत्तौ दुन्दुभिशब्द इव इन्द्रियव्यापारानुवृत्तौ बाह्यार्थप्रत्ययो निरोद्धुं न शक्य इति । ततश्चात्मदर्शनार्थिना तद्विरोधिबाह्यार्थप्रत्यय इन्द्रियनिरोधेन तद्विजृम्भणहेतुमनोनिरोधेन वा निरोद्धव्यम् इति प्रकृतोपयोगश्च सम्भवति इति चेत् ; मैवम् । श्रुतसार्वात्म्योपपादनार्थतयैव यथाकथञ्चन दृष्टान्तनयनसम्भवे दृष्टान्तस्वारस्यानुरोधेन दार्ष्टान्तिकान्तराध्याहारायोगात् । श्रुत एव ह्यवकाविधौ स्तावकत्वेन ‘आपो वै शान्ताः’ इत्यर्थवादः यथाकथञ्चिन्नीयते, न तु तत्स्वारस्यानुरोधेनापां विधिरध्याह्रियते । यदि च दृष्टान्तस्वारस्यमनुरोद्धव्यम् , तदाऽप्यनन्तरदर्शितार्थद्वयमध्य एव कश्चिदर्थो ग्राह्यः , न तु शङ्काग्रन्थदर्शितोऽर्थः, तयोः प्राक्प्रस्तुतमननादिविधानोपयोगवर्णनसम्भवात् । तथा हि – प्राक् ‘आत्मा द्रष्टव्यः’ इत्युपदिश्य तद्दर्शनसाधनश्रवणादीन्युपदिष्टानि । अत्रेयमाशङ्का भवति – पतिजायादिप्रियसंसूचितस्य जीवस्येदं द्रष्टव्यत्वमुपदिश्यते न चैतदुपपद्यते ; अहंप्रत्ययेन नित्यमेव तस्य दृश्यमानत्वात् । अथोच्येत – अहंप्रत्यये प्रकाशमानात्कर्तृत्वभोक्तृत्वादिविशिष्टाद्रूपादन्यदस्ति निरतिशयानन्दरूपं ब्रह्मात्मकं जीवस्य रूपं तदभिप्रायेणामृतत्वार्थिना द्रष्टव्यत्वमुपदिश्यते – इति । तदाऽपि ‘मन्तव्यो निदिध्यासितव्यः’ इति न वक्तव्यम् ; मनसा नित्यमहमिति गृह्यमाणे जीवे तदगृहीतसूक्ष्मरूपसद्भावे तद्वेदान्तेभ्यः श्रुतवता पुरुषेण तेनैव मनसा पुनरवहितेन तस्य ग्राह्यत्वोपपत्तेः । चक्षुषा गृह्यमाणे तारकादौ तद्गते सूक्ष्मे विशेषे केनचित्कथिते तद्ग्रहणाय तदेव हि चक्षुः पुनः सावधानं व्यापार्यते – इति । तत्रेदमुत्तरम् – यथा दुन्दुभिशब्दे प्रतिबन्धे सति मानुषादिशब्दो ग्रहीतुं न शक्यत इति तद्ग्रहणाय दुन्दुभिशब्दस्य निरोधकमपेक्ष्यते , एवमिहाप्यसम्भावनादिप्रतिबन्धे सति जीवस्य ब्रह्मात्मकं रूपं ग्रहीतुं न शक्यत इति तन्निवर्तकमननादिकमपेक्ष्यत इति । यद्वा यथा कर्णस्य पिधानादिदोषेण दुन्दुभिशब्दग्रहणासामर्थ्ये सति तद्ग्रहणाय दुन्दुभ्याहननादिलिङ्गमपेक्ष्यते, एवमिहापि ‘‘पराञ्चि खानि व्यतृणत्स्वयम्भूः’(क.उ.२-१-१) ‘‘यन्मनसा न मनुते’(कौ. ३-५) इत्यादिश्रुतेर्मनसः स्वत एव ब्रह्मदर्शनासामर्थ्ये सति तद्दर्शनाय उपायान्तरमन्वेषणीयमिति । वस्तुतस्तु ‘इदं सर्वं यदयमात्मा’ इति सार्वात्म्याभिधानानन्तरमुच्यमानो दृष्टान्तस्तदुपपादनार्थतयैव योजयितुं युक्त इति प्राग्दर्शित एव दृष्टान्तवचनस्यार्थ इति तत्त्वम् । एवमुपपत्त्युपबृंहितं सर्वविज्ञानप्रतिज्ञानं तावदेकं ब्रह्मलिङ्गम् । तदुपपादकं सार्वात्म्यमपरम् । तथा ‘स यथाऽऽर्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदस्सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदश्श्लोकास्सूत्राण्यनुव्याख्यानानि व्याख्यानानि इष्टं हुतमाशितं पायितमयञ्च लोकः परश्च लोकस्सर्वाणि च भूतान्यस्यैव तानि सर्वाणि निश्वसितानि’(बृ.उ.४-५-११) इति वर्णितं नामरूपात्मकसकलप्रपञ्चकारणत्वं ‘स यथा सर्वासामपां समुद्र एकायनमेवं सर्वेषां स्पर्शानां त्वगेकायनम्’(बृ.उ.४-५-१२) इत्यादिना ‘सर्वेषां वेदानां वागेकायनम्’(बृ.उ.४-५-१२) इत्यन्तेन प्रतिपादितं ज्ञानेन्द्रियकर्मेन्द्रियविषयरूपसकलप्रपञ्चलयाधारत्वं च ब्रह्मलिङ्गम् । ननु ‘सर्वासामपाम्’ इत्यादिना सदृष्टान्तमिन्द्रियाणां स्वस्वविषयायतनमात्रत्वमुच्यते, न तु ब्रह्मणः प्रपञ्चलयाधारत्वमिति । उच्यते । ‘यथा सर्वासामापाम्’ इत्यादिदृष्टान्तवचनेन समुद्रस्य नद्यादिसकलसलिललयाधारत्वमुच्यते ; ‘यथा नद्यस्स्यन्दमानास्समुद्रेऽस्तङ्गच्छन्ति नामरूपे विहाय’(मु.उ.३-२-८) ‘यथेमा नद्यस्स्यन्दमानास्समुद्रायणास्समुद्रं प्राप्यास्तङ्गच्छन्ति भिद्येते चासां नामरूपे समुद्र इत्येवं प्रोच्यते’(प्र.उ.६-५) इत्यादिश्रुत्यन्तरेषु तथैव समुद्रसलिलदृष्टान्तवर्णनदर्शनात् । ततश्च तदनुसारेण दार्ष्टान्तिकवचनेन त्वगादिशब्दैस्त्वगिन्द्रियादिग्राह्याणि स्पर्शरसगन्धरूपशब्दसङ्कल्पनीयादिसामान्यानि लक्षणीयानि । तथा च यथा नद्यादिसलिलानि समुद्रे विलीय समुद्रात्मतां प्राप्नुवन्ति एवं महाप्रलये मृदुकर्कशादयस्स्पर्शविशेषा मधुराम्लादयो रसविशेषा गन्धादिविशेषाश्च स्पर्शादिसामान्येषु विलीनास्सन्तस्तत्तत्सामान्यात्मतां प्राप्नुवन्तीत्यर्थः । एवञ्च क्रमेण परमकारणे ‘अस्य महतो भूतस्य’ इत्यादिना प्राग्वर्णिते विलीयन्त इति तात्पर्यम् ; महाप्रलये भूतलयस्य परमकारणपर्यन्ततया श्रुत्यन्तरेषु पुराणेषु च प्रतिपन्नत्वात्, ब्रह्मविद्यानिमित्तात्यन्तिकप्रलयवर्णनपरे ‘यथा सैन्धवघनः’ इत्यादिवाक्ये ‘एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति’ इति वर्णितस्य भूतलयस्य ‘यत्र त्वस्य सर्वमात्मैवाभूत्’ इति परमकारणपर्यन्तत्वेन विवरणाच्च । एवञ्च त्वगादिशब्दानां स्पर्शादिसामान्येषु लक्षणा न दोषाय ; त्वगिन्द्रियादीनां स्पर्शादिलयाधारत्वस्य बाधितत्वाच्च । तस्मादुपक्रमोपसंहारपरामर्शैः परमात्मैवात्र द्रष्टव्य आत्मा ॥१-४-१९॥ स्यादेतत् – जीवविषया अप्युपक्रमोपसंहारपरामर्शा उदाहृताः । कस्तेषान्निर्वाहः ननु सुषुप्त्युत्क्रान्त्यधिकरणादिदर्शितो निर्वाहः स्यात् । तत्र ह्युक्तमेकस्मिन्वाक्ये ब्रह्माब्रह्मलिङ्गेषु करम्बितेषु प्रसिद्धजीवानुवादेनाप्रसिद्धब्रह्मात्मत्वविधानमङ्गीकर्तव्यमिति । सत्यमुक्तम् । दुरुक्तं तु तत् ; अत्यन्ताभेदे भेदसापेक्षस्योद्देश्यविधेयभावस्यायोगादित्याशङ्कायामेकदेशिमतेन तावत्परिहारमाह –
प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥२०॥ 【भाष्यम्】 ‘यथा सुदीप्तात्पावकाद्विस्फुलिङ्गास्सहस्रशः प्रभवंते सरूपाः’(मु.उ.२-१-१) इत्यादिश्रुतेः परमात्मकार्यभूता जीवाः परमात्मनो नात्यन्तभिन्नाः , किन्तु वह्निकार्यभूता विस्फुलिङ्गा वह्नेरिव ततो भिन्नाभिन्नास्ते । तथाऽपि परमात्मनि द्रष्टव्यत्वेनोपदेष्टव्ये यदादिमध्यावसानेषु जीवात्मत्ववर्णनेन परमात्मनस्तदभेदप्रदर्शनम् , तत्प्रतिज्ञासिद्धेर्लिङ्गम् । सर्वविज्ञानप्रतिज्ञा ह्यभेदांशेनोपपादनीया , न तु भेदांशेनेत्याश्मरथ्य आचार्यो मन्यते ॥१-४-२०॥ अथैकदेश्यन्तरमतेन परिहारान्तरमाह –
उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॥२१॥ 【भाष्यम्】 औडुलोमिस्त्वाचार्यो मन्यते – संसारदशायां परमात्मनो भिन्न एव जीवः स्वभाविकानां कर्तृत्वभोक्तृत्वादिधर्माणामाश्रयस्तत्तद्धर्मप्रवृत्तिनिमित्तकानां नाम्नाञ्च विषयभूतः स मुक्तिकाले स्वकीयं नामरूपजातं विहाय परमात्मनैक्यं प्राप्नोति ‘यथा नद्यस्स्यन्दमानास्समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरुपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्’(मु.उ.३-२-८) इति श्रवणात् । तथा च मुक्तिकाले देहेन्द्रियसंघातादुत्क्रामिष्यतो जीवस्य परमात्मैक्यं भविष्यतीति भविष्यदैक्यमपेक्ष्य भेदकालेऽप्यभेदवर्णनमिति । एतदेव मतं पाञ्चरात्रिका अप्यास्थिषत ‘आमुक्तेर्भेद एव स्याज्जीवस्य च परस्य च । मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः’ इति ॥१-४-२१॥ अथास्मिन्मतद्वयेऽप्यपरितुष्यन्नाचार्यस्स्वाभिमतं मतमाह –
अवस्थितेरिति काशकृत्स्नः ॥२२॥ 【भाष्यम्】 रज्जोरेव भुजङ्गरूपेणेव व्याधकुलसंप्रवृद्धस्य राजपुत्रस्यैव व्याधभावेनेव च परमात्मन एव जीवभावेनावस्थितेरादिमध्यावसानेषु जीववर्णनमिदं परमात्मप्रदर्शनमेव भवति । स्थूलदर्शिलोकप्रतीतिसौकर्यार्थं जीवरूपेणोपक्रम्य मध्यावसानयोरपि जीवरूपप्रदर्शनमिति काशकृत्स्न आचार्यो मन्यते । न खलु जीवस्य तेजःप्रभृतिवदनन्योपाधिकं कार्यत्वमुपपद्यते ; विनाशित्वप्रसङ्गात् । नन्विष्टापत्तिः ; अत्रैव ‘तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्ति’(बृ.उ.४-५-१३) इत्युक्तत्वादिति चेत् ; मैवम् । तदनन्तरम् ‘अत्रैव मा भगवन्मोहान्तमापीपदत् न वा अहमिदं विजानामि’(बृ.उ.४-५-१४) इति वाक्येन कथमुपक्रान्तामृतफलभाक्त्वेन विवक्षितस्यात्मनो विनाशित्वं , कथञ्च विज्ञानैकस्वभावत्वेनोक्तस्य तस्य संज्ञाऽभाव इत्यभिप्रायवत्या मैत्रेय्या शङ्किते याज्ञवल्क्येन ‘न वा अरे अहं मोहं ब्रवीमि’(बृ.उ.४-५-१४) इत्यारभ्य तस्य विनाशसंज्ञाऽभाववचनयोरभिप्रायान्तरस्य स्वयमेव वर्णितत्वात् । तत्र ‘अविनाशी वा अरेऽयमात्मा अनुच्छित्तिधर्मा’(बृ.उ.४-५-१४) इति विनाशवचनस्याभिप्रायो वर्णितः । ‘अविनाशी’ इति विनाशकारणशून्यत्वलक्षणं विनाशायोग्यत्वमुच्यते । विपूर्वान्नशेर्णिजन्तात्पचाद्यचि ‘णेरनिटि’ इति णिलोपे सति विनाशशब्दो विनाशकारणवाची । एवमविनाशिशब्दस्य विनाशकारणवद्व्यतिरिक्तपरत्वं बृहदारण्यक एव जनकयाज्ञवल्क्यसंवादेऽपि दृश्यते ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते अविनाशित्वात्’(बृ.उ.४-३-२३) इति । ‘अनुच्छित्तिधर्मा’ इत्यत्र धर्मशब्दः स्वभाववचनः , ‘धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः’ इति, ‘सहजं निजमाजानं धर्मः सर्गो निसर्गवत्’ इति च तस्य स्वभाववाचित्वस्मरणात् । उच्छित्तिर्विनाशो धर्मः स्वभावो यस्य सोयमुच्छित्तिधर्मा, स न भवतीत्यनुच्छित्तिधर्मा – स्वाभाविकविनाशरहित इत्यर्थः । अनेन औपाधिकविनाशोऽस्य व्यपदेष्टुं शक्योऽस्तीति तदभिप्रायं प्राग्विनाशवचनमित्युक्तं भवति । माध्यन्दिनपाठे तु ‘अनुच्छित्तिधर्मा’ इत्येतदनन्तरमुपाधिरपि विशिष्य दर्शितः ‘मात्राऽसंसर्गस्त्वस्य भवति’ इति । मात्रा – देहेन्द्रियादयः संसारदशायां जीवोपाधित्वेन स्थितास्तासां ब्रह्मविद्यया समूलं नाशान्मुक्तिकाले ताभिरसंसर्गोऽस्य भवतीत्यर्थः । तथा च देहेन्द्रियादिनाशोपाधिकोऽस्य नाशव्यपदेश इति भावः । ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति’(बृ.उ.४-५-१५) इत्यादिना ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् तत्केन कं जिघ्रेत्’(बृ.उ.४-५-१५) इत्यादिना च संसारदशायामेवापारमार्थिकभेदप्रतिभासवत्यां कर्तृकरणकर्मक्रियादिभेदसद्भाववद्रूपगन्धरसादिविशेषविज्ञानमस्ति , मुक्तिदशायां तु सर्वस्य भेदप्रपञ्चस्य विद्यया प्रविलयेन कर्तृकरणकर्मक्रियादिभेदाभावात् तद्विशेषविज्ञानं नास्तीत्युक्त्या संज्ञाऽभाववचनं विशेषविज्ञानाभावपरमिति तदभिप्रायो वर्णितः । एतेन – आश्मरथ्याभिमतं जीवस्य परमात्मनो भिन्नाभिन्नत्वमपि – निरस्तम् । ‘यत्र हि द्वैतमिव’ इतीवकारेण द्वैतस्यापारमार्थिकत्वद्योतकेन सर्वथैव भेदस्य निषिद्धत्वात् , ‘तत्केन कं पश्येत्’ इत्यादिभिर्भिन्नवस्तुदर्शनस्य निषिद्धत्वाच्च । ये तु ब्रह्मनियम्यत्वरहितस्य स्वतन्त्रस्य द्वैतस्य , तद्दर्शनस्य च निषेध एभिर्वाक्यैः क्रियते ; ब्रह्मनियम्यस्य द्वैतस्य श्रुतिविहितत्वेन तस्य तद्दर्शनस्य च निषेधायोगादिति वदन्तो व्याचक्षते – ‘यस्यामवस्थायां द्वैतं ब्रह्मात्मकं स्वतन्त्रमिव भाति, तदानीं स्वतन्त्र इतरः स्वतन्त्रवस्तुदर्शनसाधनेन चक्षुरादिना स्वतन्त्रवस्त्वन्तरमनुभवति । यदा तु सर्वं ब्रह्मात्मकं प्रकाशते , तदा कश्चेतनः केन करणेन कं स्वतन्त्रमर्थमनुभवेत्’ इत्यर्थः । मुक्तः सर्वं ब्रह्मात्मकत्वेनानुभवतीति मुक्तिदशायामब्रह्मात्मकत्वेन भासमानं वस्तु तद्दर्शनसाधनं तद्द्रष्टा च नास्तीति तात्पर्यम् – इति । तेषां व्याख्यानमेतावदध्याहारक्लेश एव निराकुर्यात् । अपि च षष्ठे जनकयाज्ञवल्क्यसंवादे स्वप्नावस्थायां जीवस्य स्वयंज्योतिष्ट्वे सुषुप्त्यवस्थायां तस्य बाह्यान्तरवेदनराहित्ये चोक्ते कथं ज्योतिःस्वरूपस्य वेदनराहित्यमिति शङ्कायां विषयाभावान्न तु द्रष्टृस्वरूपाया दृष्टेर्विपरिलोपादित्येतत्प्रतिपादनार्थं प्रवृत्तेषु ‘यदद्वैतं न पश्यति पश्यन्वैतं न पश्यति । न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते अविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्’(बृ.उ.४-३-२३) इत्यादिवाक्येषु श्रुतं द्वैतं तावत्स्वातन्त्र्येण विशेषयितुं न शक्यते ; सुषुप्तौ स्वतन्त्रस्येव परतन्त्रस्यापि द्वैतस्य प्रतीत्यभावात् । ततश्च तेषु श्रुतं द्वितीयमपि तेन विशेषयितुं न शक्यते ; द्वैतमात्रप्रतीत्यभावस्य द्वैतविशेषाभावेनोपपादयितुमशक्यत्वात् । एवं च तदनन्तरश्रुतेः ‘यत्र वान्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽन्यज्जिघ्रेदन्योऽन्यद्रसयेदन्योन्यद्वदेदन्योऽन्यच्छृणुयादन्योऽन्यन्मन्वीतान्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात्’ इति वाक्ये अन्यदपि स्वातन्त्र्येण विशेषयितुं न शक्यते ; सुषुप्तौ यस्य विषयस्य व्यतिरेकात्प्रतीत्यभाव उक्तस्तस्यैव स्वप्नजागारयोरन्वयात्प्रतीतेर्वक्तुमुपक्रान्तत्वात् । ननु स्वप्नजागरयोस्सुषुप्तौ च विषयप्रतीतितदभावौ करणव्यापारसत्त्वासत्त्वाभ्यां सूपपादौ , किमर्थं विषयसत्त्वासत्त्वप्रदर्शनमिति चेत् , श्रुतिमुपालभस्व , या सुषुप्तौ करणव्यापाराणामिव दृश्यावघ्रेयरसनीयश्रोतव्यमन्तव्यस्प्रष्टव्यज्ञातव्यविषयाणामप्यभावं मन्यमाना विषयाभावेनाप्युपपादयितुं शक्यस्तत्प्रतीत्यभाव इत्यभिप्रेत्य ‘यद्वै तन्न पश्यति’ इत्यादिष्वष्टस्वपि वाक्येषु द्रष्टुरन्यत्वेन विभक्तं यद्द्रष्टोपलभेत तथाभूतं तस्य द्वितीयमेव नास्तीत्युद्घुष्यति । ततश्च सुषुप्त्यवस्थाविषयेषूदाहृतवाक्येषु स्वातन्त्र्यविशेषणाभावे व्यवस्थिते मुक्त्यवस्थाविषयेष्वपि वाक्येषु तद्विशेषणं विवक्षितुमयुक्तम् ; उभयेषामपि वाक्यानामेकप्रकारेण प्रवृत्तत्वात् । किञ्च तद्विशेषणविवक्षायामपि नार्थसङ्गतिर्लभ्यते ; मुक्तिदशायामपि ब्रह्मण एवाब्रह्मात्मकस्य तद्दर्शनस्य च सत्त्वेन तयोर्निषेधायोग्यत्वात् । तस्मात् ‘यत्र हि द्वैतम्’ इत्यादिवाक्यानां सर्वात्मना द्वैतनिषेध एव तात्पर्यमिति युक्तम् । ननु नैतद्युक्तम् ; श्रुतिविहितस्य द्वैतस्य स्वरूपेण निषेधायोगादिति चेत् ; न । द्वैतस्य श्रुतिविहितत्वासिद्धेः , केवलं प्रत्यक्षादिना सिद्धस्य तत्र तत्र प्रयोजनान्तरोद्देशेन श्रुत्याऽनूद्यमानत्वात् । तस्मात् ‘यत्र हि द्वैतम्’ इत्यादिवाक्यविरोधाज्जीवस्य परमात्मना न युक्तो भेदाभेदः । किञ्चायं भेदाभेदो मुक्तिदशायामपीष्यते ; उत तदानीं केवलाभेदः आद्ये ‘यत्र त्वस्य सर्वमात्मैवाभूत्’(बृ.उ.४-५-१५) इत्यवधारणेन ‘ब्रह्म वेद ब्रह्मैव भवति’(मु.उ.२-२-९) इति सावधारणश्रुत्यन्तरेण च विरोधः । द्वितीये स्वविरोध्यभेदज्ञाननिवर्त्यस्य; स्वाश्रयगताभेदकालरूपमुक्तिकालानुवृत्तात्यन्ताभावप्रतियोगिनश्च संसारदशायां प्रतीतस्य भेदस्य मिथ्यात्वमेवापततीत्येषा दिक् । एवं संसारदशायां जीवपरयोः केवलं भेदः , मुक्तौ केवलमभेद इति पक्षोऽप्ययुक्तः ; पतिजायादिप्रियसंसूचितस्य जीवात्मन एव द्रष्टव्यत्वोक्तिपूर्वकं तद्विज्ञानेन सर्वविज्ञानस्य सर्वकारणत्वस्य च ब्रह्मलिङ्गस्य वर्णनेन संसारदशायामप्यभेदप्रतीतेः । भविष्यन्तमभेदमपेक्ष्य भेदकालेऽप्यभेदव्यपदेश इति तु न युक्तम् ; ‘तत्त्वमसि’(छा.उ.६-१४-३) ‘अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद यथापशुरेवं स देवानाम्’(बृ.उ.१-४-१०) ‘त्वं स्त्री त्वं पुमानसि’(श्वे ४-३) इत्यादिश्रुत्यन्तरानुसारेणास्या अपि श्रुतेः संसारदशासाधारणाभेदविषयत्वौचित्यात् । किञ्च मुक्तौ भेदस्य निवृत्तिः किं जीवब्रह्माभेदज्ञानेनेष्यते, उत जीवज्ञानेन , अथवा ब्रह्मज्ञानेन आद्ये प्रागपि सत्त्वमभेदस्याकामेनापि स्वीकरणीयम् ; भविष्यदभेदस्यापरोक्षज्ञानविषयत्वायोगात् । ततश्च पूर्वोक्तप्रकारेण मिथ्यात्वमप्यङ्गीकरणीयम् । द्वितीये किं कर्तृत्वादिविशिष्टजीवज्ञानाद्भेदनिवृत्तिः , उत अकर्त्रभोक्तृजीवज्ञानात् आद्ये सांसारिकादहंप्रत्ययादपि भेदनिवृत्तिप्रसङ्गः । द्वितीये कर्तृत्वादिराहित्यस्य प्रागपि सत्त्वमङ्गीकरणीयमिति कर्तृत्वादेर्भेदकस्य, तत्प्रयुक्तभेदस्य च मिथ्यात्वमेव पर्यवस्यति । तृतीये पतिजायादिप्रियसंसूचितस्य जीवस्य द्रष्टव्यत्वोक्तिविरोधः । एवमन्यदपि सार्वदिकभेदाभेदपक्षे कालभेदव्यवस्थितभेदाभेदपक्षे च दूषणं द्वितीयाध्याये प्रपञ्चयिष्यते । नदीसमुद्रयोरपि पूर्वं भिन्नयोः पश्चादभेदो नास्तीति दर्शयिष्यते । तस्मात् काशकृत्स्नीयस्सार्वदिकात्यन्ताभेदपक्ष एव सकलश्रुतिस्मृतिन्यायानुगुण्यात् सूत्रकारस्याभिमतः । न चात्यन्ताभेदपक्षे भेदापेक्ष उद्देश्यविधेयभावो न स्यादिति वाच्यम् । भेदो हि न वाक्यार्थतयाऽपेक्ष्यते , नापि वाक्यार्थज्ञानकारणतया, किन्तु यस्य वाक्यस्यार्थः संसर्गो भेदनियतस्तत्र तद्व्यापकतया परमवतिष्ठते । यत्र तु प्रमेयत्वे प्रमेयत्वं , प्रमेयत्वं प्रमेयत्ववदिति प्रमेयत्वस्य स्वेन सहाभेदेऽप्याधाराधेयभावो विशेषणविशेष्यभावो वा संसर्गो वाक्यार्थः , न तत्र कथञ्चिदपि भेदापेक्षा । एवञ्च तत्त्वमस्यादिवाक्येषु जीवब्रह्मणोरभेद एव वाक्यार्थः , न तु ‘दण्डी देवदत्तः’ इत्यादाविव पदार्थद्वयसंसर्गः, एकपदार्थविशिष्टोऽपरपदार्थो वा वाक्यार्थः , ‘तत्त्वंपदार्थौ निर्णीतौ वाक्यार्थश्चिन्त्यतेऽधुना । तादात्म्यमत्र वाक्यार्थस्तयोरेव पदार्थयोः । संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः’ इत्याचार्यवचनादित्यत्र को भेदापेक्षाशङ्काऽवकाशः । यदि तु अपर्यायशब्दानामेकप्रातिपदिकार्थनिष्ठत्वं वेदान्तानामखण्डार्थत्वमिति लक्षणानुसारेण जीवब्रह्मणोर्नोद्देश्यविधेयभावः ; किन्तु प्रातिपदिकार्थस्वरूपमात्रं महावाक्यानामर्थ इतीष्यते, तदा सुतरां न भेदापेक्षाशङ्काऽवकाशः । केचित्तु ‘अवस्थितेरिति काशकृत्स्नः’(ब्र.सू.१-४-२२) इति सूत्रस्थस्यावस्थितेरिति पदस्य ‘य आत्मनि तिष्ठन्’ इत्यादिश्रुत्युक्तायां जीवात्मनि परमात्मनः स्थितौ स्वारस्यं मन्यमानाः परिदृश्यमाने शरीरे जीवात्मन इव जीवात्मनि परमात्मन आत्मतयाऽवस्थितेः जीवशब्देन परमात्माभिधानमुपपन्नमिति सूत्रार्थं वर्णयन्ति । अत्र विपरीतमपि वक्तुं शक्यम् – अस्मिन्नर्थे ‘अवस्थितेः’ इति पदस्य स्वारस्यं नास्तीति । तदा हि ‘स्थितेः’ इत्येव सूत्रणीयं ‘य आत्मनि तिष्ठन्’ इति मूलश्रुत्यनुरोधाल्लाघवाच्च ‘स्थानादिव्यपदेशात्’ इति अवोपसर्गाभावाच्च । तस्मादिहावोपसर्गसत्त्वात्ततोन्य एव कश्चिदर्थो विवक्षितः परमात्मन एव जीवात्मभावेनावस्थानादित्येवंरूपः ‘सर्वं तं परादात्’ ‘इदं सर्वं यदयमात्मा’ ‘यत्र हि द्वैतमिव भवति’ ‘यत्र त्वस्य सर्वमात्मैवाभूत्’ इति स्वप्रकरण एव भेददर्शननिन्दाद्युपलम्भादिति अयमेव पारमार्थिकोऽस्य सूत्रस्यार्थः । यदि ह्यस्मिन् प्रकरणे श्रूयमाणान्युदाहृतानि वाक्यान्यद्वैतप्रवणानन्यांश्च श्रुतिस्मृतिप्रवादानविगणय्य जीवपरयोर्भेद एव पक्षपाती सूत्रकारोऽभविष्यत्तदा अस्मिन्प्रकरणे जीवशब्दैर्ब्रह्माभिधानं सिद्धं कृत्वा तदुपपादनार्थमित्थं यत्नं नाकरिष्यत् । शक्यते हि तयोर्भेदस्याभिमतत्वे तैर्जीवाभिधानमङ्गीकृत्य प्रकरणं सङ्गमयितुम् । तथा हि – यस्मात्पतिजायादयः पतिजायादिप्रयोजनाय प्रिया न भवन्ति , किन्तु स्वप्रयोजनायैव तस्माद्यस्य स्वप्रयोजनस्य पतिजायादिविषयो रागः प्रतिकूलस्तस्यामृतस्य सिद्ध्यर्थं पतिजायादिभ्यो विरज्य परमात्मैव द्रष्टव्य इत्युपक्रमस्तावत्सङ्गमयितुं शक्यः । अस्मिन्पक्षे द्रष्टव्यवाक्यगतात्मशब्दस्य प्रकृतात्मपरत्वं नास्तीति तत्स्वरसहानिमात्रमस्ति । तत्तु जीवब्रह्मणोर्भेदे निश्चिते पतिजायादिवाक्यस्य लिङ्गाज्जीवपरत्वे द्रष्टव्यवाक्यस्य ‘नान्यः पंथाः’ इति श्रुतेः परमात्मपरत्वे चावश्यवक्तव्ये सति ‘स्याच्चैकस्य ब्रह्मशब्दवत्’ इति न्यायेनापि तत्सोढव्यमिति वक्तुं शक्यम् । एतावदद्वैतश्रुतिस्मृतिजालमहाप्रासादनिगरणप्रवृत्तस्य किमेकात्मशब्दस्वरसनिगरणमशक्यम् । एवं मध्ये सैन्धवघनदृष्टान्तमारभ्य जीवोत्पत्तिविनाशवचनं तद्विनाशवचनाभिप्रायवर्णनञ्च परमात्मप्रमित्यर्थतया सङ्गमयितुं शक्यम् । तत्र ‘अयमात्मा’ इति शब्दस्य ‘इदं महद्भूतम्’ इति इदंशब्दस्य च व्यवहितप्रकृतजीवपरामर्शित्वं ‘महद्भूतम्’ इत्यादेश्च मुक्तिभाक्त्वेन जीवस्य पारमार्थिकत्वात् ‘नित्यस्सर्वगतस्स्थाणुः’ इति श्रवणाच्च तद्विषयत्वं वक्तुं शक्यम् । एवं जीवे, परमात्मनि च प्राक् प्रस्तुतेऽङ्गीकृते ‘येनेदं सर्वं विजानाति तं केन विजानीयात्’ इत्युपसंहारवाक्यं ‘येन’ इति तृतीयान्तस्य परामर्शनीयं परमात्मानं विजानातेः कर्तारं जीवञ्चासाद्य समञ्जसं भवति । जीवस्य ब्रह्माभेदेन प्रस्तुतत्वाङ्गीकारे तु ‘येन’ इति तृतीया प्रथमार्थे योजनीयेति क्लेशस्स्यात् । ‘ग्राहकादिजगत्सर्वं येन कूटस्थसाक्षिणा । लोकस्सर्वो विजानाति जानीयात् केन तं वद’ इति वार्तिकोक्तप्रकारेण वा ब्रह्माभिन्नतया प्रस्तुत एव जीवो निष्कृष्य साक्षिरूपतया ‘येन’ इति परामृश्यते । अन्तःकरणादिविशिष्टरूपेण तु विजानतेः कर्ता भवतीति क्लेशेन योजनीयम् । ‘विज्ञातारम्’ इत्येतत्तु परमात्मन्यपि योजयितुं शक्यम् ; बहुप्रयोगदर्सनात् । एवमादौ मध्ये च जीवरामर्शस्य जीवविषयत्वमङ्गीकृत्यैव भेदपक्षे तदुपपादनस्य कर्तुं शक्यत्वेऽपि तस्य ब्रह्मविषयत्वं सिद्धं कृत्वा यत्तदुपपादनाय यत्नमस्थितवान् सूत्रकारः तेन ज्ञायते जीवपरयोरभेद एवास्य सिद्धान्तः । ‘येनेदं सर्वं विजानाति’ इत्यस्य योजनाक्लेशोऽपि अद्वैतप्रस्तावानुरोधार्थत्वान्न दोषायेत्याशय इति । ननु मोक्षधर्मे जनकयाज्ञवल्क्यसंवादे ‘पश्यन्तथैवापश्यञ्च पश्यत्यन्यस्तथाऽनघ । षड्विंशः पञ्चविंशञ्च चतुर्विशञ्च पश्यति’ इति चतुर्विंशपञ्चविंशतत्त्वरूपयोर्जडचेतनतया परस्परविलक्षणयोः प्रकृतिपुरुषयोर्द्रष्टारं परमात्मानमुपक्रम्य ‘यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विज । तदा स केवलीभूतष्षड्विंशमनुपश्यति’ इति प्रकृतिपुरुषविवेकज्ञानानन्तरं जीवविलक्षणपरमात्मज्ञानमुक्त्वा ‘अन्यश्च राजन् स परस्तथाऽन्यः पञ्चविंशकः । तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः’ इति परमात्मनो जीवस्थत्वनिबन्धन ऐक्यव्यवहार इति प्रदर्श्य ‘तेनैतं नाभिजानन्ति पञ्चविंशकमच्युतम्’ इति जीवस्थत्वादेव हेतोर्जीवस्य परमात्मनश्चाच्युतशब्दवाच्यस्य स्वरूपैक्यं साधवो न पश्यन्तीत्युपन्यस्य ‘जन्ममृत्युभयाद्भीतास्साङ्ख्या योगाश्च काश्यप । षड्विंशमनुपश्यन्ति शुचयस्तत्परायणाः । यदा सार्वार्थसिद्धत्वान्न पुनर्जन्म विन्दति’ इति प्राज्ञानां पञ्चविंशविलक्षणषड्विंशदर्शनं तद्वतस्ततोऽपवर्गञ्चोपदिश्य ‘एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ । अर्थश्चोक्तो यथातत्त्वं यथाश्रुतिनिदर्शनात्’ इति प्रकृतिपुरुषपरमात्मानः परस्परवैलक्षण्येन निरूपिता इत्युपसंहृतम् । एवं सूत्रकारेणैव प्रबन्धान्तरे तत्स्थत्वनिबन्धन एकत्वव्यवहार इति समर्थिते कथमवस्थितेरिति सूत्रस्य स एवार्थो न स्यात् । कथञ्चास्य सूर्यप्रसादादवाप्तयजुर्वेदेन शतपथब्राह्मणप्रवर्तकेनात्रापि जनकयाज्ञवल्क्यसंवादे ‘यथार्षेणेह विधिना चरतावमतेन ह । मयाऽऽदित्यादवाप्तानि यजूंषि मिथिलाऽधिप । कर्तुं शतपथं वेदमपूर्वं काङ्क्षितञ्च मे’ इत्यादिवचनैस्स्वयमेव तमर्थं वर्णितवता च याज्ञवल्क्येन प्रतिपाद्यमानः ‘तत्स्थत्वादनुपश्यन्ति’ इत्ययमर्थः शतपथान्तर्गतस्य याज्ञवल्क्यवक्तृकस्य च मैत्रेयीब्राह्मणस्य तात्पर्यगोचरो न स्यादिति चेत् - उच्यते – जनकयाज्ञवल्क्यसंवादोऽयं प्रकृतिविविक्तजीवयाथात्म्यनिरूपणे पर्यवसितः , न तु तदुभयातिरिक्तपरमात्मस्वरूपनिरूपणेऽपि तात्पर्यवान् । तथा हि – उपक्रमे तावत् ‘किमव्यक्तं परं ब्रह्म तस्मात्तु परतस्तु किम्’ इत्यव्यक्तशब्दिताया ‘मम योनिर्महद्ब्रह्म’ इति प्रसिद्धायाश्चतुर्विंशतत्त्वरूपायाः प्रकृतेस्ततः परस्य पञ्चविंशतत्त्वरूपस्य च प्रश्नवत्ततः परमात्मनः प्रश्नो न दृश्यते । उत्तरवाक्यसन्दर्भे च प्रकृतिकार्यदेहद्वयतादात्म्याध्यासेन तत्सम्पिण्डितरूपस्य पुरुषस्यैव ‘अन्यस्स पुरुषोऽव्यक्तादध्रुवाद्ध्रुवसंज्ञकः । यथा मुञ्ज इषीकायास्तथैवैतद्विजायते’ इति मुञ्जेषीकान्यायेन तद्विविक्ततया ग्राह्यत्वमुपदिश्यते । तदनन्तरं च ‘अन्यं तु मशकं विद्यादन्यं चोदुम्बरं तथा । न चोदुम्बरसंयोगे मशकस्तत्र लिप्यते’ इत्यादिना उदुम्बरजलोखासलिलानां दोषसंयोगेन तेषु स्थितानां मशकमत्स्यानलकमलानामिव जीवोपाधेर्देहद्वयस्य दोषसंयोगेन तत्स्थस्य पुरुषस्य लेपाभावः प्रतिपाद्यते । पुनश्च ‘अव्यक्तस्थं परं ब्रह्म यत्तत्पृष्टस्तेऽहं (यत्पृष्टोऽहं) नराधिप । परं गुह्यमिमं प्रश्नं श्रुणुष्वावहितो नृप’ इत्युपक्रम्य तत्र च गन्धर्वराजस्य विश्वावसोर्याज्ञवल्क्यस्य चास्मिन् विषये प्राक् प्रवृत्तां प्रश्नोत्तरपरम्परामुपक्षिप्य तन्मध्ये प्रकृतिपुरुषयोर्विश्वाविश्वज्ञाज्ञविद्याऽविद्यादिरूपेण बहुशो वैलक्षण्यं प्रतिपाद्य ‘द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना । अथास्य जन्मनिधने न भवेतां पुनः पुनः’ इति तयोः परस्परविलक्षणतया दर्शनं मुक्तिफलकं विधाय कथं तद्दर्शनं मुक्तिफलकं ‘ब्रह्म वेद ब्रह्मैव भवति’ इत्यादिना श्रुतिषु ब्रह्मसाक्षात्कारस्य मुक्तिफलकत्वप्रसिद्धेरित्याकांक्षायां ‘यदा तु पश्यतेऽन्यं तमहन्यहनि केवलम् । तदा स केवलीभूतं षड्विंशमनुपश्यति’ इति श्लोकेन प्रकृतिविविक्तमत एव तद्धर्मकर्तृत्वादिरहिततया केवलं जीवं दिने दिनेऽनुसन्दधानस्तमेव केवलीभूतं षड्विंशं परं ब्रह्म पश्यति , न तु तद्व्यतिरिक्तब्रह्मसाक्षात्कारापेक्षाऽस्तीत्युपदिश्य कथं जीवः कर्तृत्वादिरहितः केवलः ; तस्य स्वाभाविककर्तृत्वादिमत्तया तान्त्रिकैरपि कैश्चिदङ्गीकृतत्वात् इत्याशङ्कानिरासार्थम् ‘अन्यच्च शश्वदव्यक्तं तथाऽन्यः पञ्चविंशकः । तत्स्थं समनुपश्यन्ति तमेक इति साधवः’ इति श्लोकेन वस्तुतः कर्तृत्वादिमदन्तःकरणरूपापन्नादव्यक्तादन्य एव जीवः, स तु तत्स्थत्वोपाधिना जपाकुसुमसन्निधानोपाधिना स्फटिको लोहितात्मनेव कर्त्रात्मना लोके भासत इति तमेव लोकानुभवं श्रद्धधानाः केचन साधवो लोकानुभवप्रवणबुद्धयस्तं जीवं कर्तृत्वादिमदव्यक्ताभिन्नं पश्यन्तीत्युक्त्वा ‘तेनैतन्नाभिजानन्ति पञ्चविंशकमच्युतम् । जन्ममृत्युभयाद्योगास्साङ्ख्याश्च परमर्षयः’ इति श्लोकेन साङ्ख्या योगाश्च परमर्षयस्त्वव्यक्तपुरुषयोः परस्परभिन्नत्वहेतुना पञ्चविंशं पुरुषमच्युतं वस्तुतः परमात्मभूतमेतं नाभिजानन्ति , कर्तृत्वादिमदव्यक्तात्मना न पश्यन्तीत्युपदिश्यते । ततश्च कथं जीवस्य लोकानुभवसिद्धकर्तृत्वादिराहित्यं कथञ्च तदसिद्धपरमात्मरूपत्वमित्यभिप्रायवता विश्वावसुना ‘पञ्चविंशे यदेतच्च प्रोक्तं ब्राह्मणसत्तम । तदहं न तथा वेद्मि तद्भवान्वक्तुमर्हति’ इत्यारभ्य पञ्चविंशस्यैव स्वरूपे पृष्टे सति तत्रोत्तरं याज्ञवल्क्येन ‘पश्यं तथैवापश्यञ्च’ इत्यारभ्योपदिष्टम् । तत्कथं पञ्चविंशविलक्षणपरमात्मप्रतिपादनपरं स्यात् तस्मात् प्रकृतिं तदुपहितं पुरुषञ्च निष्कृष्टसाक्षिरूपतया ततोऽन्यो वस्तुतस्तत्स्वरूपभूत एव षड्विंशः पश्यतीत्यर्थो ग्राह्यः । पुनश्च जीवस्य कर्तृत्वादिमत्त्वभ्रान्तिवारणायैव ‘पञ्चविंशोऽभिमन्येत नान्योऽस्ति परमो मम । न चतुर्विंशको ग्राह्यो मनुजैर्ज्ञानदर्शिभिः’ इति श्लोकेनाध्यासिकं कर्तृत्वादिमच्चतुर्विंशतादात्म्यं स्वस्य स्वाभाविकं मन्यमानस्सन् मम परमः कर्तृत्वादिसकलसांसारिकधर्मनिर्वाहकतयोत्कृष्टो मदन्यो नास्तीत्यभिमन्यते पञ्चविंशः ; वस्तुतो न तथा ; ज्ञानदर्शिभिर्मनुजैस्तु स्वात्मा चतुर्विंशैक्येन न ग्राह्य इत्युक्त्वा ‘स निमज्जति कालास्ये यदेकत्वेन बुध्यते । उन्मज्जति च कालास्यान्ममत्वेनाभिसंवृतः’ इति श्लोकेन चतुर्विंशे स्वात्मैकत्वबुद्धेः संसारदोषावहत्वं तत्र स्वव्यतिरिक्ततया स्वात्मीयत्वबुद्धेर्मुक्तिहेतुत्वञ्चोपदिश्य तदनन्तरं पठितो ‘यदा तु मन्यतेऽन्योऽहम्’ इति श्लोकः प्राक् पठितेन ‘यदा तु मन्यतेऽन्योऽहम्’ इति श्लोकेन समानार्थो ग्राह्यः । ‘अन्यच्च राजन् स परः’ इति श्लोकस्तु ‘अन्यच्च शश्वदव्यक्तम्’ इति श्लोकेन समानार्थः । तत्र परशब्दः परमात्मपर इति न भ्रमितव्यं ‘महतः परमव्यक्तम्’ इति श्रुत्यन्तरे जीवात्परत्वेनाव्यक्तस्य प्रतिपादनात् , इहापि ‘नान्योऽस्ति परमो मम’ इति परमशब्दस्याव्यक्ते प्रयोगाच्च । ‘तेनैतं नाभिजानन्ति’ इति श्लोकोऽपि तेनैव प्राक् पठितेन समानार्थः । ‘एवमप्रतिबुद्धश्च’ इत्युपसंहारश्लोके बुध्यमानश्चतुर्विंशैक्याभिमानी संसारे निमग्नः ; बुद्धः चतुर्विंशातिरिक्तं परमात्मस्वरूपं पञ्चविंशमवगच्छन् संसारादुन्मग्नः ; ‘निस्सन्दिग्धं प्रबुद्धस्त्वं बुद्ध्यमानश्चराचर’ इति पूर्वं याज्ञवल्क्यं प्रति विश्वावसुवचनदर्शनात् । तस्मात् ‘अन्यश्च स परो राजन्’ इति श्लोकस्य पूर्वापरपरामर्शविकलैरुत्प्रेक्षितोऽर्थोऽग्राह्य इत्यवस्थितिसूत्रस्य जनकयाज्ञवल्क्यसंवादस्वारस्यादपि यथोक्त एवार्थः । तदेवं मैत्रेयीब्राह्मणस्य जीवपरामर्शिनोपि ब्रह्मपर्यवसन्नत्वान्नास्ति प्रतिज्ञातसमन्वयविरोध इति सिद्धम् ॥१-४-२२॥
इति वाक्यान्वयाधिकरणम् ॥६॥ 【भाष्यम्】
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥२३॥ 【भाष्यम्】 जन्मादिसूत्रे जगन्निमित्तोपादानरूपोभयविधकारणत्वं लक्षणत्वेनोक्त्वा तदुपलक्षिते निष्प्रपञ्चे ब्रह्मणि वेदान्तानां समन्वयः प्रसाधितः । इदानीं ब्रह्मणो निमित्तत्वमेव न तु उपादानत्वम् । उपादानं तु जगतः साङ्ख्याभिमतं प्रधानमभ्युपगन्तव्यम् । ततश्च नोक्तरूपं ब्रह्मणो लक्षणं युक्तं , न वा तदुपलक्षिते निष्प्रपञ्चे ब्रह्मणि वेदान्तानां समन्वयो युक्तः इत्याक्षिप्य समाधीयते । तथा हि – ईक्षापूर्वकस्रष्टृत्वश्रवणात् निमित्तत्वं तावदभ्युपगन्तव्यम् । लोके घटपटादिषु निमित्तानां कुलालकुविन्दादीनां तदुपादानत्वं न दृष्टम् , क्वचिदपि चेतनानां द्रव्योपादानत्वं न दृष्टम् , तद्वदिहापि भवितुमर्हति । ननु कुलालादीनां घटाद्युपादानत्वग्राहकप्रमाणाभावात् तत्र तथा भवतु नाम । इह तु जगन्निमित्तस्यैव सतः परब्रह्मणस्तदुपादानत्वमप्यावेदयन्ति सर्वविज्ञानप्रतिज्ञादयः । तथा हि – छान्दोग्ये तावत् ‘स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’(छा.उ.६-१-१) इत्येकेन ब्रह्मणा विज्ञातेन सर्वमन्यदविज्ञातमपि विज्ञातं भवतीति प्रतिज्ञायते । ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् । यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम् । यथा सोम्यैकेन नखकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात्’(छा.उ.६-१-४) इति तत्र दृष्टान्ता अप्युपादीयन्ते । एवं बृहदारण्यकेऽपि ‘आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम्’(बृ.उ.४-५-६) इति सर्वविज्ञानप्रतिज्ञा ‘स यथा दुन्दुभेर्हन्यमानस्य’(बृ.उ.४-५-८) इत्यादिदृष्टान्तवर्णनं च दृश्यते । मुण्डकेऽपि ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’(मु.उ.१-१-३) इति तत्प्रतिज्ञा ‘यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम्’(मु.उ.१-१-७) इति दृष्टान्तोपन्यासश्च दृश्यते । तथा ‘तदैक्षत बहु स्यां प्रजायेय’ इति ईक्षितुरेव बहुभवनाभिधानात् । ‘सर्वाणि ह वा इमानि भूतानि आकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति’(छा.उ.१-९-१) इत्युत्पादकस्य सतः प्रलयाधारत्वस्यापि प्रतिपादनात् ‘तदात्मानं स्वयमकुरुत’(तै.उ.२-७) इति कर्तुः सतः कर्मत्वस्यापि वर्णनात् ‘सच्च त्यच्चाभवत्’ इति ब्रह्मण एव विकारात्मना परिणामोपदेशात् ‘यद्भूतयोनिं परिपश्यन्ति धीराः’(मु.उ.१-१-६) इति ब्रह्मणि उपादानवाचकयोनिशब्दश्रवणाच्च ब्रह्म उपादानमित्यवसीयते । एवं सत्यपि निमित्तस्यैव उपादानत्वग्राहकप्रमाणे , लोके तन्न दृष्टमिति निमित्तोपादानयोर्भेद एव दृष्टः इति च तत्परित्यागे , लोके कतिपयकार्यकर्तुः कार्यान्तराकर्तृत्वदर्शनात् ‘इदं सर्वमसृजत’ इत्यादिश्रुतिप्रतिपन्नं ब्रह्मणः सर्वकर्तृत्वमपि परित्यज्येत । ततः श्रुतिप्रतिपन्नत्वाविशेषात् अलोकदृष्टं सर्वकर्तृत्वमिव ब्रह्मणः सर्वोपादानत्वमपि अङ्गीकरणीयम् – इति चेत् – उच्यते – छान्दोग्ये तावत् सर्वविज्ञानप्रतिज्ञा सह दृष्टान्तवचनैर्गौणी । ब्रह्मज्ञानेन वियदादेः सर्वस्य मृत्पिण्डलोहमणिनखनिकृन्तनज्ञानैर्घटशरावकटकमकुटखनित्रकुद्दालादीनां च तज्ज्ञानानन्तरमपि संशयविषयत्वेनानुभूयमानानां मुख्यवृत्त्या ज्ञातत्वासम्भवात् । प्रतिज्ञावाक्ये ‘अश्रुतममतमविज्ञातम्’ इति ब्रह्मश्रवणादिषु सत्स्वपि अश्रुतत्वाद्युपन्यासेन दृष्टान्तवाक्येषु घटकटककुद्दालादिवत् मृल्लोहायःकार्यविशेषतया घटाद्यनुपादानानां मृत्पिण्डलोहमणिनखनिकृन्तनानां ज्ञानेन घटादीनां ज्ञातत्वोपन्यासेन च तदमुख्यत्वस्य श्रुत्यैव स्फुटीकरणाच्च । तस्मात् अन्यविषयज्ञानैर्यत् फलं प्राप्तव्यं तत् सर्वं निरतिशयानन्दरूपब्रह्मज्ञानेन प्राप्यते इति फलतस्तज्ज्ञानेन अज्ञातान्यपि ज्ञातानि भवन्तीति गौणं तेषां ज्ञातत्वं प्रतिज्ञायते ; यथा ‘अस्य ग्रामस्य प्रधानभूते चैत्रे दृष्टे सर्वेऽपि दृष्टा भवन्ति’ इति अदृष्टानामेव फलतो दृष्टत्वं व्यवह्रियते । दृष्टान्तवचनैश्च मृल्लोहादिज्ञानैरज्ञाता अपि घटादयो मृद्रूपत्वादिसादृश्येन ज्ञातप्रायाः इति गौणमेव ज्ञातत्वं दृष्टान्ततया उपन्यस्यते । यथा ‘एतेन गवादयोऽपि व्याख्याताः’ इति ज्योतिष्टोमव्याख्यानेन अव्याख्यातानामपि गवादीनां तद्विकृतितया तत्सदृशानां व्याख्यातत्वं व्यवह्रियते । एतेन – मुण्डकबृहदारण्यकयोरपि सर्वविज्ञानप्रतिज्ञा – व्याख्याता । दुन्दुभ्यूर्णनाभिदृष्टान्ता न सर्वविज्ञानोपपादकाः ; एकेन दुन्दुभिशब्दसामान्यज्ञानादिना यावत्तद्विशेषादीनामगृह्यमाणत्वात् । नापि निमित्तोपादानैक्योपपादकाः ; शब्दसामान्यस्य शब्दविशेषान् प्रत्यनुपादानत्वादनिमित्तत्वाच्च । ऊर्णनाभिदेहः तन्तुषूपादानं जीवो निमित्त इति तत्र निमित्तोपादानभेदात् । केशलोमस्वपि जडोपादानकेषु चेतनस्य निमित्तमात्रत्वात्, पृथिव्याश्चौषधीः प्रति निमित्तोपादानभावाभावात् । बहुभवनसङ्कल्पोऽपि न निमित्तोपादानैक्ये प्रमाणम् । तेजःप्रभृतीनां नियामकरूपे ‘बहु स्याम्’ इति सङ्कल्प्य नियामकबहुभावस्य नियम्यबहुभावसापेक्षत्वेन तदर्थं नियम्यतेजःप्रभृतिसृष्टेरुपपत्तेः । एतेन – ‘तदात्मानं स्वयमकुरुत’ इत्यपि व्याख्यातम् ; ‘तदात्मानं सृजाम्यहम्’ इत्यादिवदुपपत्तेः । न ह्यत्र आत्मानं वियदादिरूपेण अकुरुत इति श्रूयते । लयाधारत्वमनुपादानेऽपि सम्भवति । ‘भूतले घटो ध्वस्तः’ इत्यादिव्यवहारात् । ‘यथोर्णनाभिः सृजते गृह्णते च’ इति सृष्टिनिमित्ते तन्तुलयप्रतिपादनाच्च । ‘तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत्’ इति जगत्सृष्टितदनुप्रवेशानन्तरभावितया श्रूयमाणं सदादिभवनं ब्रह्मणो विकारात्मना परिणाम इति वक्तुमयुक्तम् ; तस्य जगदुत्पत्तिरूपत्वेन जगत्सृष्ट्याद्यनन्तरभावित्वानुपपत्तेः । योनिशब्दस्तु नोपादाने नियतः । ‘योनिष्ट इंद्र निषदे अकारि’ इति स्थानेऽपि तत्प्रयोगदर्शनात् । योनिः स्थानं ते निषदे तवोपवेशाय अकारि इति हि मन्त्रस्यार्थः । स्थानवचनश्च योनिशब्दो ब्रह्मण्युपपन्नः ; तस्य अनुपादनत्वेऽपि सर्वभूताधारत्वात् । एतेन ‘सर्वं खल्विदं ब्रह्म’ ‘इदं सर्वं यदयमात्मा’ इत्यादिश्रुतयोऽपि – व्याख्याताः । सार्वात्म्यश्रुतीनां ‘सर्वं समाप्नोषि ततोऽसि सर्वः’ इति तद्व्याख्यानरूपस्मृत्यनुसारेण सर्वाधारतया सर्वानुस्यूते ब्रह्मणि तात्पर्यात् । अत एव ‘इदं सर्वं यदयमात्मा’ इत्यतः प्राचीने सर्वं तं परादात् योऽन्यत्रात्मनस्सर्वं वेद’ इति त्रल्प्रत्ययस्सप्तम्यर्थ एव ग्राह्यः । दुन्दुभ्यादिदृष्टान्तास्तु यथाकामं योजयितुं शक्याः ; न पूर्वाधिकरणोक्तरीत्या सार्वात्म्योपपादकत्वेन योजनीयाः । यदि सार्वात्म्यं प्राक् प्रास्तोष्यत तदा ते तदुपपादकत्वेनैवायोजयिष्यन्त । न तु सार्वात्म्यं प्रकृतं , किन्तु सर्वाधारत्वमेव इत्युक्तम् । तत्तु ‘आत्मन आकशस्सम्भूतः’ ‘तस्मादेतद्ब्रह्म नाम रूपमन्नञ्च जायते’ इत्यादिश्रुतिगतपञ्चमीबलात् ब्रह्म जगदुपादानं सिद्ध्येदिति ; तन्न । कारणसामान्ये पञ्चमीविधानात् । ननु ‘जनिकर्तुः प्रकृतिः’(पा.सू. १-४-३०) इत्युपादानकारणस्यैवापादानसंज्ञा स्मर्यते, न कारणमात्रस्य । मैवम् । ‘पुत्रात् प्रमोदो जायते’ इत्यपि व्यवहारदर्शनेन सूत्रे प्रकृतिग्रहणस्य कारणसामान्यपरत्वात् ‘प्रकृतिः कारणं हेतुः’ इत्येव वृत्तिकारादिभिर्व्याख्यातत्वाच्च । तस्माल्लोके द्रव्येषु कर्तुरुपादानत्वादृष्टेः तद्भिन्नस्यैव च उपादानत्वदृष्टेः श्रुतिष्वपि ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’(श्वे.उ.४-१०) इत्यादिश्रुतिषु उपादानान्तरप्रतिपादनात् ‘कूटस्थमचलं ध्रुवम्’ इति ब्रह्मणो निर्विकारत्वश्रवणाच्च साङ्ख्याभिमतं प्रधानम् उपादानम्, ब्रह्म तु निमित्तमात्रम् इति युक्तम् । अतो निमित्तोपादानरूपोभयविधजगत्कारणत्वं ब्रह्मणो लक्षणमिति तदुपलक्षिते ब्रह्मण्यद्वितीये वेदान्तानां समन्वयः इति च न युक्तम् इति पूर्वपक्षः । सिद्धान्तस्तु – प्रकृतिश्च उपादानकारणञ्च ब्रह्माभ्युपगन्तव्यं , न केवलं निमित्तकारणमेव । कुतः प्रतिज्ञादृष्टान्तानुपरोधात् । एवं हि सर्वविज्ञानप्रतिज्ञायाः मृत्पिण्डादिदृष्टान्तस्य च अनुपरोधो भवति । अन्यथा तावुपरुध्येयाताम् । न च तौ गौणाविति वक्तुं युक्तम् । ब्रह्मज्ञानेन प्रपञ्चस्य ज्ञातत्वमनुपपन्नमित्याशयवतः श्वेतकेतोः ‘कथं नु भगवः स आदेशः’ इति प्रश्नेन तदुपपादनार्थं प्रवृत्तेन पितुरुत्तरवाक्येन च प्रतिपिपादयिषितस्य एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानस्य तदुपपादयतो दृष्टान्तस्य च गौणत्वायोगात् । न च ब्रह्मज्ञानेन प्रपञ्चस्य मृत्पिण्डज्ञानेन घटादीनां च ज्ञातत्वस्य अननुभवादिपराहतत्वात् गौणत्वमेवावश्यमभ्युपगन्तव्यमिति वाच्यम् । मृत्सुवर्णकालायसानां पिण्डमणिनखनिकृन्तनाद्यात्मकानेकरूपशालिनामुपादानानां तत्तत्कार्येषु तादात्म्यं येन मृत्सुवर्णकालायसरूपेण ‘मृत् घटः’ ‘सुवर्णं कुण्डलं’ ‘कालायसं खनित्रम्’ इत्यादिलौकिकप्रतीतिष्ववभासते तेन कार्यानुविद्धेन रूपेण तत्तदुपादानविषयं ज्ञानं तेन रूपेण तत्तत्कार्यविषयमपि भवति । न ह्युपादानभूतमृदादिव्यतिरिक्तानि ‘मृत् घटः’ इत्यादिप्रतीतिष्ववभासमानानि मृदादीनि , येन तस्य ज्ञानस्य तानि विषया न स्युः । एवं सच्चिदानन्दरूपस्य ब्रह्मणः प्रपञ्चे तादात्म्यं सदात्मना ‘सन् घटः’ इत्यादिप्रतीतिष्ववभासते इति सदात्मना ब्रह्मज्ञानं सदात्मना प्रपञ्चविषयमपि भवति । ब्रह्मज्ञाने प्रतीयमानस्य ब्रह्मरूपस्यैव सतः ‘सन् घटः’ इत्यादिप्रतीतिष्ववभाससम्भवे तदतिरिक्तसत्ताजात्यादिकल्पनाऽयोगात् इत्यभिप्रायवर्णनेन उभयोरपि मुख्यत्वोपपादनसम्भवात् । अत एव श्वेतुकेतुं प्रति जगत्कारणत्वेनोपदिश्यमाने ब्रह्मणि सच्छब्द एव प्रयुक्तः , न तु ब्रह्मादिशब्दः , सद्रूपेण ब्रह्मज्ञानमाश्रित्य हि कृतप्रतिज्ञानिर्वाहः कार्य इति । ‘आत्मनो वा अरे दर्शनेन’(बृ.उ.२-४-५) इत्यादिबृहदारण्यकश्रुतौ तु छान्दोग्यगतस्य सर्वविज्ञानप्रतिज्ञाविषयगोचरस्य जगत्कारणे प्रयुक्तस्य सच्छब्दस्य मैत्रेयीब्राह्मणप्रतिपाद्ये आत्मनि उपसंहारो दर्शितः । तत्र षष्ठाध्यायश्रुतः खलुशब्दः चतुर्थाध्यायश्रुतो वैशब्दश्च प्रसिद्ध्यर्थः । तथा च यस्य दर्शनादिना सर्वं विज्ञातं भवतीति श्रुत्यन्तरे प्रसिद्धं स सच्छब्दवाच्यः एतत्प्रतिपाद्य आत्मेति तस्यार्थः । मुण्डके यज्ज्ञानेन सर्वविज्ञानं श्रुत्यन्तरे प्रसिद्धं तत्किं सच्छब्दवाच्यं जगत्कारणं वस्त्विति प्रश्ने ‘यत्तदद्रेश्यम्’(मु.उ.१-१-६) इत्यादिना विशिष्य तत्स्वरूपं निरूपितमिति सर्वं समञ्जसम् । स्यादेतत् – मृत्पिण्डादीनां घटशरावाद्युपादानत्वे सर्वमेतदुपपद्यते – तदेवानुपपन्नम् । पिण्डादीनामपि घटादिवत् मृदादिकार्यविशेषत्वात् , घटादिषु पिण्डाद्याकारानुवृत्त्यभावाच्च । यदि तु यदीयपूर्वाकारोपमर्देन आकारान्तरमुपजायते तदुपादानमित्येव नियममाश्रित्य मृत्पिण्डादीनां घटाद्युपादानत्वं समर्थ्येत तदा ब्रह्मणः प्रपञ्चोपादनत्वं न स्यात् । तदीयेषु सच्चिदानन्दाकारेषु कस्याप्याकारस्य उपमर्दाभावात् । ननु मृत्पिण्डादीनां घटादिवत् मृत्कार्यान्तरत्वेऽपि मृत्त्वाकारेण तज्ज्ञानं तदाकारेण उपादानज्ञानमिव घटादिसर्वमृद्विकारविषयं स्यात् इति चेत् ; न । वैषम्यात् । यस्या मृदो यावन्तो विकाराः तेषु सर्वेषु सैव मृत् केनचित् केनचिदंशेनानुवर्तत इति तज्ज्ञानेन सर्वे तद्विकारा ज्ञाता भवन्तीत्युपपद्यतां नाम । कार्यविशेषेऽनुवर्तमाना मृत्तु कार्यविशेषान्तराद्व्यावृत्तेति तज्ज्ञानात् कथमन्ये विकाराः ज्ञाताः स्युः तस्मात् दृष्टान्तभागे मृत्पिण्डादिज्ञानेन घटादीनां ज्ञातत्वं गौणं वाच्यमिति तदनुसारेण सर्वविज्ञानमपि सह तदनुवादकश्रुत्यन्तरैः गौणमेव स्यात् इति चेत् – उच्यते – कार्योत्पत्तौ क्वचिदुपादानगतस्य कस्यचिदाकारस्य तिरोधानं भवति क्वचिदुपमर्दो भवति इति द्वैविध्यं लोके दृश्यते । तद्यथा – प्राकारगृहपटलाद्युपादानानामिष्टिकातृणविशेषादीनां चतुरश्रत्वतनुदीर्घत्वाद्याकारतिरोधानमात्रं भवति , न कस्याप्याकारस्योपमर्दः । ऋषभतरुणीमहापादपाद्युपादानां तर्णककुमारिकांकुरादीनां ककुदकुचोन्नतिफलपुष्पादिरहितस्वल्पपरिमाणाद्याकारस्योपमर्दो भवति , न तु कस्याप्याकारस्य स्थितस्य तिरोधानम् । न चेष्टकादय उपादानानि प्रकारादयस्तदुपादेयद्रव्याणि इत्यत्र विवादः कार्यः । पूर्वतन्त्रे ‘अग्निधर्मः प्रतीष्टकं सङ्घातात् पौर्णमासीवत्’ इति नावमिकाधिकरणे ‘हिरण्यशकलैरग्निं प्रोक्षति’ इति विहितमग्निप्रोक्षणं प्रतीष्टकं कर्त्तव्यं ‘चतुर्होत्रा पौर्णमासीमभिमृशेत्’ इति विहितमभिमर्शनमिव प्रतिपुरोडाशं , संहतानामिष्टकानामेवाग्निशब्देन उक्तत्वात् , इष्टकासङ्घातव्यतिरेकेण अग्न्याख्यस्य एकद्रव्यस्य अभावात् , तत्सत्त्वे पटस्यैकदेशे कृष्यमाणे कृत्स्नपटाकर्षणवत् एकेष्टकाकर्षणे कृत्स्नस्थण्डिलाकर्षणप्रसङ्गात् , इति पूर्वपक्षं कृत्वा ‘एकमिदं स्थण्डिलम्’ इत्येकबुद्धिविषयत्वादनेकतन्त्वारब्धपटवदनेकेष्टकारब्धमग्न्याख्यं स्थण्डिलमेकं द्रव्यमभ्युपगन्तव्यम् । तथा सत्येव ‘इष्टकाभिरग्निञ्चिनुते’ इति श्रुतिरप्युपपद्यते । अन्यथा ‘इष्टकाभिश्चिनुते’ इत्येवं श्रुतिः स्यात् । आकर्षणं तु वृक्षादिष्वनैकान्तिकम् । वृक्षे हि या शाखा आकृष्यते सैवायाति । तस्मादग्न्युद्देशेन सकृदेव प्रोक्षणमिति सिद्धान्तितत्वात् । पाणिनीयेऽपि ‘तदर्थं विकृतेः प्रकृतौ’(पा.सू.५-१-१२) इति सूत्रेण विकृत्यर्थायां प्रकृतावभिधेयायां विकृतिवाचिनः प्रातिपदिकात् प्रत्ययविधाने ‘प्राकारीया इष्टका’ इत्युदाहृतत्वात् । तत्रैवाधिकारे ‘छदिरुपधिबलेर्ढञ्’(पा.सू.५-१-१३) इति सूत्रेण छदिश्शब्दाद्गृहपटलार्थकात् तदर्थायां प्रकृतावभिधेयायां ढञ्प्रत्ययविधाने ‘छदिषेयाणि तृणानि’ इत्युदाहृतत्वात् । तत्रैवाधिकारे ‘ऋषभोपानहोर्ञ्यः’(पा.सू.५-१-१४) इति सूत्रेण ऋषभार्थायां प्रकृतावभिधेयायां ञ्यप्रत्ययविधाने ‘आर्षभ्यो वत्सः’ इत्युदाहृतत्वाच्च । एवञ्च घटाद्युत्पत्तौ मृदाद्यात्मनाऽनुवृत्तेषु मृत्पिण्डादिषु सतां पिण्डत्वमणित्वनखनिकृन्तनत्वाकाराणामुपमर्देऽपि तेषां घटाद्युपादानत्वं वत्सादीनामृषभाद्युपादानत्ववदुपपद्यते । ननु ऋषभाद्यवस्थोत्पत्तौ वत्सादीनां नोपमर्दः किन्त्ववयवोपचयादिगुणान्तरम् । अतो यत्र पूर्वाकारोपमर्दोऽस्ति तस्योपादानत्वे नेदमुदाहरणम् । तथाभूतस्य नोपादानत्वमिष्यते । अत एव महाभाष्ये ‘छदिरुपधिबलेर्ढञ्’ ‘ऋषभोपानहोर्ञ्यः’ इति सूत्रयोः ‘तदर्थं विकृतेः प्रकृतौ’ इति सूत्रात् प्रकृतिविकृतिग्रहणानुवृत्तौ बल्यृषभयोस्तण्डुलवत्सविकारत्वाभावात् तयोर्न सिद्ध्यतीति शङ्कामुद्भाव्य ‘कं पुनर्भवान् विकारं मत्वाऽऽह बल्यृषभयोर्न सिद्ध्यतीति’ इति शङ्कितुराशयं पृष्ट्वा ‘यदि तावत् य एव प्रकृत्युपमर्देन भवति स विकारः’ इति तस्याशयमुद्भाव्य ‘वैभीतको यूपः खादिरञ्चषालम्’ इति न सिद्ध्यतीति तत्पक्षे दूषणमुक्त्वा ‘अथ मतमेतत् तदेव गुणांतरयुक्तं विकार इति’ इति स्वाभिमतं पक्षं प्रदर्श्य ‘बल्यृषभयोरपि सिद्धं भवति , गुणान्तरयुक्ता हि तण्डुला बालेयाः गुणान्तरयुक्तश्च वत्स आर्षभ्यः’ इति समाहितं इति चेत् – उच्यते – विभीतकवत्सादीनामष्टाश्रितत्वावयवोपचयादिगुणांतरप्रादुर्भावे तद्विरुद्धस्य वृत्ताकारत्वाल्पपरिमाणादेर्गुणस्योपमर्दः प्रत्यक्षेणानुभूयमानो नास्तीत्यपलपितुं न शक्यते । अतस्तत्रोपमर्दाभावाभ्युपगमः कुण्डलं विनाश्य कटकनिर्माणे इव सर्वात्मना पूर्वाकारस्योपमर्दो नास्तीत्यभिप्रायेण । यत्र सर्वात्मनोपमर्दस्तत्राप्युपादानत्वमिष्यत एव ‘कुण्डलमेव कटकं कृतम्’ इत्यादिप्रत्यभिज्ञानसत्त्वात् । किन्तु तदेवोपादानं न त्वल्पोपमर्देन गुणांतराविर्भाववत् इत्येतत् परं शङ्कितुरभिमतं नेष्यते । तदेव च ‘य एव प्रकृत्युपमर्देन भवति स विकारः’ इत्यनूद्य निराक्रियते । अत एव तत्र ‘य एव’ इत्येवकारः उपमर्दनीये प्रकृतिपदप्रयोगश्च । तस्मात् मृत्पिण्डादीनां घटाद्युपादानत्वात् तज्ज्ञानेन घटादीनां ज्ञातत्वं मुख्यमिति तद्वद्ब्रह्मज्ञानेन सर्वविज्ञानप्रतिज्ञानमपि मुख्यमेव । इयांस्तु विशेषः – मृत्पिण्डादीनां घटादिभावापत्तौ पिण्डत्वाद्याकारस्योपमर्दः ; ब्रह्मणः प्रपञ्चभावापत्तौ तु आनन्दत्वाद्याकारस्य तिरोधानम् इति । एवं मृत्पिण्डादिज्ञानेन घटादीनां ब्रह्मज्ञानेन प्रपञ्चस्य च ज्ञातत्वस्य मुख्यतायामेव कृत्स्नोऽयं श्रुतिसन्दर्भः समञ्जसो भवति । एवं ह्युपाख्यायते – उद्दालको महर्षिः स्वपुत्रं श्वेतकेतुं स्वनियोगात् द्वादशवर्षाणि गुरुकुले स्थित्वा सर्वान् वेदानधीत्य प्रतिनिवृत्तं वैदुष्यगर्वेण स्तब्धं सर्वानवधीरयन्तं अविनीतोऽयमप्राप्तब्रह्मविद्य इति निश्चित्य तं विनतं ब्रह्मविविदुषुञ्च कर्तुं ‘यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’(छा.उ.६-१-२,३) इति पृष्ट्वा ‘कथन्नु भगवः स आदेशः’(छा.उ.६-१-३) इत्येकविज्ञानेन सर्वविज्ञानं कथमुपपद्यत इत्याशयवता तेन पुनः पृष्टो मृत्पिण्डादिदृष्टान्तैस्तदुपपादयामासेति । यद्यत्र सर्वविज्ञानप्रतिज्ञानं प्राधान्याभिप्रायं गौणं स्यात् , तदा प्रधानज्ञानेन सर्वमन्यदप्रधानमविदितमपि फलतो विदितप्रायं भवतीत्यस्यार्थस्य लोकसिद्धत्वादेकविज्ञानेन सर्वविज्ञानस्यानुपपत्तिमपश्यतः ‘कथन्नु भगवः स आदेशः’ इति प्रश्नो न स्यात् । ननु ‘तमादेशम्’ इत्यत्रादेशशब्दः आदिश्यते प्रशिष्यते अनेनेति व्युत्पत्त्या प्रशास्तृपरः । तथा च प्रशास्तृत्वेन प्राधान्यप्रत्यायकेन तद्विज्ञानतः सर्वविज्ञानं भाक्तमिति ख्याप्यते । अतस्तदनुसारेण ‘कथं नु भगवस्स आदेशः’ इति प्रश्नस्तथाभूतवस्तुविशेषनिर्दिधारयिषया , न तु तद्विज्ञानेन सर्वविज्ञानमनुपपन्नमित्याशयेन इति कल्पनीयमिति चेत् । मैवम् – आदेशशब्दस्य आदिश्यते उपदिश्यते इति कर्मणि व्युत्पन्नस्य आचार्योपदेशावगन्तव्यत्वपरत्वात् । तत्प्रतिपादनं हि यद्विज्ञानात् सर्वविज्ञानं पिता प्रतिजानीते तमर्थमहमेवाधीतवेदालोचनेन ज्ञास्यामीति स्वयमन्यनिरपेक्षविद्वत्त्वाभिमानिनः श्वेतकेतोर्भ्रान्तिस्सम्भावितेति तद्वारणेन प्रकृतोपयुक्तम् । अत एव ‘तमादेशमप्राक्ष्यः’ इत्येव पिता प्रपच्छ न त्वज्ञासीरिति । अग्रे च वक्ष्यति ‘आचार्यवान् पुरुषो वेद’ इति । एवञ्च आदेशशब्दस्य कर्तरि करणत्वोपचारमाश्रित्य करणव्युत्पत्त्या प्रशास्तृपरत्वक्लेशाश्रयणमपि परिहृतं भवति । यदि च सर्वविज्ञानप्रतिज्ञाविषयवस्तुनिर्दिधारयिषया प्रश्नः स्यात् ; तदा ‘ को नु भगवः’ इत्येव प्रश्नशरीरं स्यात् , न तु ‘कथं नु भगवः’ इति । प्रश्नोत्तरे च तत्स्वरूपनिर्धारणमेव कार्यं स्यात् न तु सर्वविज्ञानप्रतिज्ञोपपादनम् । तस्मात् कथमन्येन श्रुतेन मतेन विज्ञातेन च ततोऽन्यदश्रुतममतमविज्ञातञ्च सदेव श्रुतं मतं विज्ञातञ्च स्यात् इत्यभिप्रायेण प्रश्नः , उत्तरे ‘एवं सोम्य स आदेशो भवति’ इत्यन्ते मृत्पिण्डादिदृष्टान्तैस्तदुपपादनम् इत्येव युज्यते । अत एव तदनन्तरं ‘न वै नूनं भगवन्तस्ते एतदवेदिषुर्यद्येतदवेदिष्यन् कथं मे नावक्ष्यन्’(छा.उ.६-१-७) इति ‘भगवांस्त्वेव मे तद्ब्रवीतु’ इति तत्स्वरूपप्रश्नः, ‘सदेव सोम्येदमग्र आसीत्’(छा.उ.६-२-१) इत्याद्युत्तरे तन्निरूपणञ्च दृश्यते । तस्मात् सर्वविज्ञानप्रतिज्ञानं तावत् मुख्यम् । एवं दृष्टान्तवचनेषु मृत्पिण्डादिभिर्ज्ञातैर्घटादीनां ज्ञातत्ववर्णनमपि मुख्यमेव , मुख्यसर्वविज्ञानप्रतिज्ञोपपादकत्वात् । ‘एते दृष्टान्ता अप्यनुपपन्नाः ; मृत्पिण्डादिभिर्ज्ञातैस्तद्व्यतिरिक्तानां घटादीनां ज्ञातत्वासम्भवात्’ इत्युपादानोपदेयभेददृष्ट्या शङ्कायां ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं’ ‘लोहमित्येव सत्यम्’ ‘कृष्णायसमित्येव सत्यम्’ इति वचनैस्तेषामप्युपपादनदर्शनाच्च । तत्र दृष्टान्तोपपादकवचनानामयमर्थः – योऽयं मृदादिव्यतिरिक्त इव अवभासमानो घटशरावादिरूपो विकारः स सर्वोऽपि वाचाऽऽरम्भणम् आरभ्यत इत्यारम्भणं , वाचाया आरम्भणमिति षष्ठीसमासः । पुंल्लिङ्गविशेषणत्वेऽपि लिङ्गसामान्यविवक्षया नपुंसकनिर्देशः, ‘द्विगुरेकवचनम्’ इतिवत् । वाचा केवलमारभ्यते इत्यर्थः । ननु मृदादिभिरारम्भणीयो विकारः कथं वाचारम्भण इत्याशङ्कायां वाचारम्भणमित्यस्य आशयं स्फोरयति ‘नामधेयम्’ इति । नामधेयमात्रं विकारः न त्वर्थतोऽस्तीत्यर्थः । लोकेऽपि ह्यर्थासत्त्वविवक्षायां नाममात्रमेतदित्युच्यते । यद्यपि श्रुतौ मात्रपदं नास्ति , तथाऽपि नामधेयवाच्यस्य विकारस्य नामधेयत्वोक्त्या तदर्थो लभ्यते । ननु किं असन्नेव विकारो भासते इत्याशङ्क्याह ‘मृत्तिकेत्येव सत्यम्’ इत्यादि । मृदादिरेव सत्यः तद्व्यतिरिक्ततयाऽवभासमानो घटशरावादिनामधेयविशेषगोचरः तत्तदर्थक्रियाविशेषकारी विकारस्तु असत्योऽपि रज्जुसर्पवदनिर्वचनीयो मायामयोऽवभासते इत्यर्थः । मृत्पिण्डलोहमणिनखनिकृन्तनशब्दैरुपात्तानामुपादानानां मृत्तिकालोहकृष्णायसशब्दैः प्रत्यवमर्शस्तु तेषु पिण्डाद्यवस्थाया अप्यसत्यत्वज्ञापनाय । अत्रायं भावः – नैयायिकादिप्रक्रियया मृदादिव्यतिरिक्तं तदारभ्यं घटशरावादि यदि द्रव्यान्तरं सत्यं स्यात् तदा कारणगुणप्रक्रमेण तस्य गुरुत्वान्तराधिकरणतया गुरुत्वद्वैगुण्यमुपलभ्येत । अपि च महति कनकसूत्रे कालायसश्रृङ्खले वा लोहकारैः सङ्ग्रथ्यमाने तत्रान्तरान्तरा खण्डसूत्राणि खण्डश्रृङ्खलानि च जायन्ते इत्यभ्युपगन्तव्यम् । अन्यथा किञ्चिद्ग्रथनानन्तरमुपरिसूत्रश्रृङ्खलग्रथने परित्यक्ते सति ग्रथितभागे सूत्रश्रृङ्खलव्यवहारो न स्यात् । महासूत्रश्रृङ्खलग्रथनानन्तरं खंडिते तस्मिन्खण्डेषु सूत्रश्रृङ्खलव्यवहारश्च न स्यात् । एवञ्च यत्रोपर्युपरिखण्डसूत्रश्रृङ्खलग्रथनक्रमेण महासूत्रश्रृङ्खलग्रथनसमाप्तिः तत्र यदि खण्डसूत्रश्रृङ्खलवृन्दारब्धं महासूत्रश्रृङ्खलमभ्युपगम्येत तदा सूत्रश्रृङ्खलनिर्माणार्थं यावत् सुवर्णकालायसं लोहकारहस्ते दत्तं तावत उपादानस्य गुरुत्वं तदारब्धखण्डसूत्रश्रृङ्खलानां प्रत्येकगुरुत्वानि तदारब्धमहासूत्रश्रृङ्खलगुरुत्वञ्च इत्यतिमहत्तरं गुरुत्वमुपलभ्येत । तस्मात् मृत्पिण्डखण्डसूत्रश्रृङ्खलव्यतिरिक्तं घटशरावमहासूत्रशृङ्खलरूपं द्रव्यान्तरं तत्त्वतो नास्तीति, तथैव मृत्पिण्डखण्डसूत्रशृङ्खलाद्यपि मृल्लोहकृष्णायसादिव्यतिरिक्तं द्रव्यान्तरं नास्तीत्युपगन्तव्यम् । एवं सति मृल्लोहकालायसाद्यपि तत्तदुपादानव्यतिरिक्तं सत्यं न स्यादिति चेत् , कः सन्देहः कथं तर्हि ‘मृत्तिकेत्येव सत्यम्’ इत्याद्युक्तमिति चेत् , उच्यते । नेमानि वाक्यानि मृदादिसत्यत्त्वविधित्सया प्रवृत्तानि ; ‘षड्विंशतिरित्येव ब्रूयात्’ इतिवदेवकारोपहतविधिशक्तिकत्वात् । किन्तु तद्विकारसत्यत्वनिषिषेधयिषया । ततश्च यथा षड्विंशतिपदग्रहणे तात्पर्याभावात् षड्विंशतिपदस्थाने तूपरगोमृगयोरश्वस्य च वङ्क्रीणां समस्यसंख्यावाचिपदनिवेशनस्य न्यायप्राप्तस्य न प्रतिक्षेपः, एवं ‘मृत्तिकेत्येव सत्यं’ ‘लोहमित्येव सत्यम्’ ‘कृष्णायसमित्येव सत्यम्’ इति वाक्यानां विकारसत्यत्वनिषेधे एव तात्पर्यवतां मृदादिसत्यत्वविधाने तात्पर्याभावात् घटशरावादिन्यायप्राप्तस्य मृदादीनामसत्यत्वस्य न प्रतिक्षेपः । प्रत्युत मृत्तिकादिशब्दानामितिशब्दशिरस्कत्वेन मृदादीनामसत्यत्वमेव सूच्यते ; ‘मनो ब्रह्मेत्युपासीत’ इत्यादिवाक्येषु मनःप्रभृतीनां ब्रह्मभावस्येव । एवञ्च दृष्टान्तेषु उपादानातिरिक्तविकारसत्यत्वाभावप्रतिपादनस्य दार्ष्टान्तिकेऽपि तथात्वमिति प्रत्यायनार्थत्वात् तदनुरोधेन ‘येनाश्रुतं श्रुतं भवत्यमतमतमविज्ञातं विज्ञातम्’ इति वाक्येषु अश्रुतश्रुतादिपदानां ‘योऽयं स्थाणुरयं पुमान्’ इत्यादिव्यवहारेषु स्थाणुपुरुषादीनामिव बाधायां सामानाधिकरण्यं , न तु तत्त्वमस्यादिवाक्येष्विव अभेदे । अतो येन श्रुतेन मतेन विज्ञातेन च लोकदृष्ट्या अतदात्मकमपि तदात्मकमेव भवतीति दृष्टान्तैः ‘येनाश्रुतम्’ इत्यादिवाक्यान्युपपादितानि भवन्ति । युक्तश्च उक्थ्याग्निष्टोमाधिकरणन्यायेन विधेयश्रुतमतविज्ञातसद्रूपोपादानब्रह्मात्मकत्वविरुद्धस्य अश्रुतामताविज्ञातरूपस्य भूतभौतिकप्रपञ्चस्योपमर्दः । तस्मात् प्रतिज्ञादृष्टान्तयोर्मुख्यतया तदनुपरोधात् ब्रह्म प्रकृतिश्चेति युक्तम् । चकारेण निमित्तञ्चेति समुच्चीयते । तदपि प्रतिज्ञादृष्टान्तानुपरोधादेव । उपादानातिरिक्तकर्तृसद्भावे हि तद्विज्ञानेन सकलविज्ञानासम्भवात् पुनरपि प्रतिज्ञोपरोधे च तदानुगुण्येन वर्णनीयस्य दृष्टान्तस्याप्युपरोधः स्यात् । तस्मात् प्रतिज्ञादृष्टान्तानुपरोधान्निमित्तमुपादानञ्च ब्रह्म । यत्तु दुन्दुभ्यादिदृष्टान्तजातं सर्वविज्ञानप्रतिज्ञोपपादकं न भवतीत्युक्तं तत् तथैव । किन्तु सर्वविज्ञानप्रतिज्ञोपपादकतया ‘इदं सर्वं यदयमात्मा’ इति वर्णितस्य सार्वात्म्यस्य उपपादनद्वारा तदुपपादकं , न तु साक्षात् । तथैव पूर्वाधिकरणे व्याख्यातम् । ततश्च ‘इदं सर्वं यदयमात्मा’ इत्यादिश्रुतयः ‘सर्वं समाप्नोषि’ इत्यादिस्मृत्यनुसारेण सर्वगतत्वपरा इति शङ्काप्यनवकाशा । तासां दृष्टान्तदार्ष्टान्तिकसामञ्जस्यानुरोधेन सार्वात्म्यपरत्वावश्यम्भावात् । तदनुसारेण ‘सर्वं समाप्नोषि’ इति समुपसर्गानुसारेण च स्मृतेरेव सार्वात्म्यपरत्वात् । ऊर्णनाभेर्जडांशेन उपादानत्वं चेतनांशेन निमित्तत्वमिति भेदे सत्यपि कार्यकरणसम्पिण्डितचेतनविशेषरूपस्य तस्य आध्यासिकाविशिष्टरूपेणैक्यमाश्रित्य स्रष्टृत्वलयाधारत्वाभ्यामेकस्यैव निमित्तोपादानभावः सर्वविज्ञानप्रतिज्ञामनूदितामुपपादयितुं ‘यथोर्णनाभिः’ इति मन्त्रे दर्शितः । तत्र द्वितीयतृतीयदृष्टान्तौ उपादानत्वमात्रविषयौ ब्रह्मज्ञानेन कृत्स्नस्य कार्यवर्गस्य ज्ञातत्वोपपादकौ । ननु दृष्टान्तवाक्ये मृल्लोहकृष्णायसपृथिव्यादीनां तत्तद्विकारोपादानत्वं वर्ण्यते, कथं दृष्टान्तबलाद्ब्रह्मणस्सर्वोपादानत्वसिद्धिः उच्यते । घटादिषु कुलालादीनां कर्तृत्वेऽपि ब्रह्मणोऽपि कर्तृत्ववत् मृदादीनामुपादानत्वेऽपि ब्रह्मणोऽप्युपादानत्वं प्रमाणबलादुपपद्यते । तस्माद्यथाऽर्हं प्रतिज्ञादृष्टान्तबलान्निमित्तमुपादानञ्च ब्रह्म ॥१-४-२३ ॥
अभिध्योपदेशाच्च ॥२४॥ 【भाष्यम्】 ‘तदैक्षत बहु स्यां प्रजायेय’(छा.उ.६-२-३) इति बहुभवनसङ्कल्पोपदेशादप्येवम् । न च नियन्तृस्वरूपैर्बहुभवनरूपविषयसङ्कल्पो , न तु तेजःप्रभृतिरूपैः इति वाच्यम् । सर्वज्ञस्य सर्वगतस्य च एकस्य ब्रह्मणः स्रष्टृत्ववन्नियन्तृत्वस्यापि सम्भवेन नियन्तृत्वसिद्ध्यर्थं नियन्तृरूपबहुत्वस्यानपेक्षिततया ‘तत्तेजोऽसृजत’(छा.उ.६-२-३) इत्यादिना सृज्यत्वेनानन्तरवक्ष्यमाणतेजःप्रभृत्यात्मना बहुभवनसङ्कल्पोपदेशात् प्राक् ‘एकमेवाद्वितीयम्’(छा.उ.६-२-१) इति श्रवणादपि निमित्तमुपादानञ्च ब्रह्म, निमित्तस्योपादनस्य वा ब्रह्मणोऽन्यस्य सद्भावे सृष्टेः प्रागेकत्वावधारणायोगात् इति युक्त्यन्तरसमुच्चयार्थः सूत्रे चकारः ॥१-४-२४॥
साक्षाच्चोभयाम्नानात् ॥२५॥ 【भाष्यम्】 न केवलं प्रतिज्ञादृष्टान्तबलादभिध्योपदेशाच्च अर्थान्निमित्तमुपादानञ्च ब्रह्म , किन्तु साक्षादेव तस्य निमित्तत्वोपादानत्वाम्नानादपि । तथा हि – निमित्तत्वं तावदीक्षापूर्वकस्रष्टृत्वरूपं ‘तदैक्षत’ ‘तत्तेजोऽसृजत’(छा.उ.६-२-३) इत्यादिश्रुतिषु स्पष्टमाम्नातम् । उपादानत्वम् ‘आत्मन आकाशः सम्भूतः’(तै.उ. २-१) ‘यतो वा इमानि भूतानि जायन्ते’(तै.उ. ३-१) इत्यादिश्रुतिषु पञ्चमीविभक्त्याऽऽम्नातम् । ‘जनिकर्तुः प्रकृतिः’(पा.सू.१-४-३०) इति सूत्रेण प्रकृतिशब्दगोचरतया प्रसिद्धस्योपादानस्य अपादानसंज्ञाविधानात् । न च तत्र कारणमात्रपरः प्रकृतिशब्द इति युक्तम् । तथात्वे तस्य वैयर्थ्यप्रसङ्गात् । ‘ध्रुवमपायेऽपादानम्’(पा.सू.१-४-२४) इति सूत्रात् अवधिपरस्य ध्रुवपदस्य अनुवर्तमानतया तेनैव जायमानं प्रत्यवधिभूतस्य कारणमात्रस्य लाभात् । नन्वसति प्रकृतिग्रहणे प्रत्यासत्तेरुपादानकारणस्यैव ग्रहणं स्यान्न तु बहिरङ्गस्य निमित्तकारणस्य , अतः कारणमात्रसंग्रहार्थं प्रकृतिग्रहणम् इति न्यासकृता उक्तमिति चेत् ; सत्यमुक्तम् । दुरुक्तं तु तत् । अनुवर्तमानं ध्रुवपदं हि जायमानावधिभूतं कारणसामान्यं प्रत्याययति । कारणसामान्यप्रत्यायकपदे सति च बहिरङ्गकारणसंग्रहार्थं सूत्रकृता यत्नान्तरं कृतं न दृश्यते , यथा ‘हेतौ’(पा.सू.४-३-२३) इति तृतीयाविधायके सूत्रे । अथापि यद्यत्र तत्संग्रहार्थं यत्नान्तरमकारिष्यत, तदा तत्साधारणमेव पदं प्रायोक्ष्यत । इह तु तद्व्यावर्तकं ‘मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम्’(श्वे.उ.४-१०) ‘प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्’(ब्र.सू.१-४-२३) इत्यादिवेदवैदिकव्यवहारेषु ‘तदर्थं विकृतेः प्रकृतौ’(पा.सू.५-१-१२) इति पाणिनीये उपादाने एव प्रसिद्धं प्रकृतिपदं प्रयुक्तम् । ततश्च कारणसामान्यप्रत्यायकं ध्रुवपदमप्यविगणय्य अभ्यर्हितत्वादुपादाने निपतन्ती मतिः कथमुपादानमात्रासाधारणेन प्रकृतिपदेन ततो व्यावर्त्य कारणसामान्ये स्थापनीया । सा हि मतिस्तेन तथैव दृढीकृता स्यात् । यदि च कारणसामान्यपरं प्रकृतिपदं , तदा ‘कारके’(पा.सू.१-४-२३) इत्यधिकारसूत्रमनन्वितं स्यात् । तत्र हि कारकशब्दः कारणसामान्यपरः सप्तमी च निर्धारणार्था इति व्याख्यातम् । तथा च प्रकृतिशब्दस्य कारणसामान्यार्थकत्वे कारकाणां मध्ये या प्रकृतिः तत्रापादानसंज्ञाविधानस्य कारणानां मध्ये यत् कारणं तत्रापादानसंज्ञेत्यर्थस्स्यात् । न चैतद्युज्यते । निर्धारणप्रतियोगितावच्छेदकावच्छिन्नस्यैव निर्धारणविषयत्वानुपपत्तेः । ननु कारकं क्रियां निर्वर्तयदाश्रितव्यापारं , कारणं तु हेत्वपरपर्यायं फलसाधनत्वयोग्यमात्रम् इति भेदोऽस्ति, ‘द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् । अनाश्रिते तु व्यापारं निमित्तं हेतुरुच्यते’ इति वचनादिति चेत् ; एतदपि न युज्यते ; विवक्षितक्रियानिर्वर्तनव्यापाराणां मध्ये अविवक्षितक्रियानिर्वर्तनव्यापारस्य तद्विरुद्धस्य निर्धारणायोगात् । सामान्यधर्माक्रान्तानां मध्ये कस्यचिद्विशेषस्यैव निर्द्धारणीयत्वात् । न च ‘जनिकर्तुः प्रकृतिः’ इति सूत्रे कारकाधिकारो मा भूदिति वाच्यम् । ‘प्राग्रीश्वरान्निपाताः’(पा.सू.१-४-५६) इत्येतत्पर्यन्तं तदधिकारसत्त्वात् , अन्यथा ‘अकथितञ्च’(पा.सू.१-४-५१) इति सूत्रतः ‘माणवकं पन्थानं पृच्छति’ इत्यत्रेव ‘माणवकस्य पितरं पन्थानं पृच्छति’ इत्यत्रापि माणवकस्य प्रश्नक्रियायामकारकत्वेऽपि अकथितत्वाविशेषेण कर्मसंज्ञाप्रसङ्गात् । अपि च यद्येतत्सूत्रं कारणसामान्यरूपे हेतौ पञ्चमीविधायकं स्यात् , तदा ‘हेतुमनुष्यभ्योऽन्यतरस्यां रूप्यः’(पा.सू.४-३-८१) इति सूत्रे अस्मादेव ज्ञापकाद्धेतुपञ्चमीसिद्धिरिति न्यासोक्तमसमञ्जसं स्यात् । तथा हि – ‘तत आगतः’(पा.सू. ४-३-७४) इत्यधिकारे पठितस्य तस्य सूत्रस्य हेतुवाचिभ्यो मनुष्यवाचिभ्यश्च शब्देभ्योऽन्यतरस्यां रूप्यप्रत्ययो भवतीत्यर्थः । तत्र समादागतं समरूप्यम् इति वृत्तिकृता उदाहरणं लिखितम् । तस्य न्यासकृता ‘समाद्धेतोरागतम्’ इत्यर्थमुक्त्वा ‘केन पुनरिह पञ्चमी’ इति पञ्चम्यसम्भवशङ्कामुद्भाव्य ‘अस्मादेव ज्ञापकात्’ इति परिहृतम् । तत्रायं शङ्काऽर्थः । यदि समशब्दोक्तस्य च आगतशब्दोक्तस्य च हेतुहेतुमद्भावसम्बन्धविवक्षा तदानीमस्येदम्भावे षष्ठ्यां प्राप्तायां तदपवादत्वेन ‘हेतौ’(पा.सू.२-३-२३) इति सूत्रे विहितया तृतीययैव भाव्यं , न तु पञ्चम्येति । परिहाराभिप्रायस्त्वयम् । ‘तत आगतः’ इति प्रकृतस्य पञ्चम्यन्तार्थस्य अस्मिन् सूत्रे हेतोरिति विशेषणेन हेतुहेतुमद्भावविवक्षायां पञ्चम्यपि भवतीति ज्ञाप्यते इति । एवं न्यासकृता हेतौ पञ्चमीसद्भावे ज्ञापकान्वेषणं न कर्त्तव्यं स्यात् यदि ‘जनिकर्तुः प्रकृतिः’ इति सूत्रमेव आहत्य पञ्चमीविधायकं स्यात् । ननु विवक्षितक्रियानिर्वर्तनव्यापारे निमित्तोपादानसाधारणे कारणमात्रे ‘जनिकर्तुः’ इति सूत्रेण पञ्चमीविधानम् , अविवक्षिततद्व्यापारे तस्मिन् पञ्चमीलाभार्थं ज्ञापकान्वेषणमिति चेत् ; न । हेतुमनुष्यसूत्रे लिखितस्य ‘समाज्जातम्’ इत्यर्थे पर्यवसितस्य ‘समादागतम्’ इत्युदाहरणस्यापि विवक्षितव्यापारहेतुविषयत्वसम्भवे तस्य अविवक्षितव्यापारहेतुविषयत्वमङ्गीकृत्य तत्र पञ्चमीलाभार्थं ज्ञापकान्वेषणस्य व्यर्थत्वात् । न च हेतुमनुष्यसूत्रगतहेतुशब्दोऽनाश्रितव्यापारविषयः; ‘अनाश्रिते तु व्यापारे निमित्तं हेतुरिष्यते’ इति वचनादिति वाच्यम् । तथाऽपि वृत्तिकृता जनिकर्तृसूत्रे प्रकृतिशब्दस्य हेतुपदेन व्याख्याततया तत एव अविवक्षितव्यापारे हेतौ पञ्चमी सिद्धेति तत्र ज्ञापकान्वेषणवैयर्थ्यस्य तादवस्थ्यात् । किञ्च प्रकृतिपदस्य कारणसामान्यपरत्वे ध्रुवानुवृत्तिमङ्गीकृत्य तत्र ‘जनिकर्तुः’ इत्यस्यान्वयो नाभ्युपगन्तव्यः । जायमानावधित्वस्य कारणत्वरूपतया कारणवाचिना प्रकृतिपदेन सह प्रयोगानुपपत्तेः । किन्तु तदनुवृत्तिं परित्यज्य प्रकृतिपदेनैवान्वयोऽभ्युपगन्तव्यः । तथैव चान्वयो दर्शितो वृत्तिकृता ‘जन्यर्थस्य जन्मनः कर्त्ता जायमानः , तस्य या प्रकृतिः कारणं हेतुः’ इति । तत्र ‘जनिकर्तुः’ इति व्यर्थम् , अर्थात् सिद्धेः । जायमानस्यैव हि कारणं भवति । अत एव ‘हेतौ’ इति सूत्रे ‘जनिकर्तुः’ इति न विशेषितम् । ननु प्रकृतिरुपादानमिति पक्षेऽपि तुल्योऽयं दोषः । तत्रापि हि ध्रुवपदं नानुवर्तनीयम् । ततो विवक्षितव्यापारकारणलाभाश्रयणे कारकाधिकारेण पौनरुक्त्यात् , अविवक्षितव्यापारकारणलाभाश्रयणे कारकाधिकारेण विरोधात् । अतस्तत्रापि पक्षे प्रकृत्यैव जनिकर्तुरन्वय इति समानो वैयर्थ्यदोषः , जायमानस्यैव ह्युपादानं भवतीति । यथा वैयर्थ्यदोषो न प्रसरति तथा उपपादयामः । प्रकृतिशब्दः स्वभावविषययैव शक्त्या उपादाने प्रयुज्यते । क्लृप्तशक्त्या प्रयोगनिर्वाहे शक्त्यन्तरकल्पनाऽनुपपत्तेः । निर्वहति च क्लृप्तशक्त्यैव तत्र प्रयोगः । कार्याभिन्नस्योपादानस्य तत्स्वभावरूपत्वात् । अत एव ‘मृत्स्वभावो घटः मृत्स्वरूपो घटः’ इति व्यवह्रियते । यद्यप्युपादाने स्वभावशक्त्या प्रकृतिपदप्रयोगे ‘कार्यस्य प्रकृतिरूपं कारणम्’ इति एतावत् प्रयोक्तव्यम् । तथाऽपि लोके वेदे च निरूढ्या प्रकृतिपदमात्रस्य तत्र प्रयोगः । दृष्टो हि न्यायशास्त्रव्यवहारे कार्यं प्रति समवायिनि कारणे समवायिपदमात्रस्य प्रयोगः । पाणिनिना तु प्रकृतिरित्येतावति सूत्रे विवक्षितार्थः स्पष्टो न भवतीति जायमानस्य स्वभावरूपं यत् कारकं तस्यापादानसंज्ञा विधीयते इत्यर्थस्पष्टीकरणाय ‘जनिकर्तुः’ इति विशेषितम् । न च वाच्यम् – ‘तदर्थं विकृतेः प्रकृतौ’ इति सूत्रे विनैव ‘जनिकर्तुः’ इति विशेषणमुपादानपरं प्रकृतिपदं प्रयुक्तमिति । तत्र विकृतिपदसन्निधानेन प्रकृतिपदस्य उपादाने व्यवस्थितिलाभात् । तदर्थमेव हि तत्र विकृतिपदमिति प्रयोजनमुक्तं वृत्त्यादिग्रन्थेषु ‘अक्रियमाणे विकृतिग्रहणे या काचित् प्रकृतिर्गृह्येत नोपादानकारणमेव’ इत्यादिना । तस्मादभ्यर्हितस्योपादानस्यैव ग्रहणं मा भूदिति कारणसामान्यग्रहणाय प्रकृतिपदमिति न्यासोक्तमयुक्तम् । ननु महाभाष्ये जनिकर्तृसूत्रस्य प्रत्याख्यानमुपक्रम्य ‘गोलोमाविलोमभ्यः दूर्वा जायन्ते’ इति तत्रोदाहरणं प्रदर्श्य ‘अपक्रामन्ति तास्तेभ्यः’ इत्युक्त्या ‘ध्रुवमपायेऽपादानम्’(पा.सू.१-४-२४) इति सूत्रत एव अत्रापादानसंज्ञा सिद्ध्येदिति तत् सूत्रं प्रत्याख्याय यतो यदपक्रामति तत् पुनस्तत्र न दृश्यते, इह तु लोमसु अस्ति दूर्वादर्शनमिति कथं ततोऽपक्रमणमुच्यत इत्यभिप्रायेण ‘यद्यपक्रामन्ति किं नात्यन्तायापक्रामन्ति’ इति शङ्कित्वा ‘सन्ततत्वात्’ इति परिहृतम् । कैयटेन च ‘यथा बिलाद्दीर्घभोगो भोगी निष्क्रामन्नप्यविच्छेदात् तत्रोपलभ्यते एवं दूर्वा अपि’ इति परिहाराभिप्रायो दर्शितः । एवञ्च गोलोमादीनां दूर्वादीन् प्रत्यवधित्वमङ्गीकृत्य सूत्रप्रत्याख्यानात् ‘गोलोमाविलोमभ्यो दूर्वा जायन्ते’ ‘श्रुङ्गाच्छरो जायते’ इत्याद्युदाहरणं निमित्तविषयमेवेत्यवसीयते । उपादानस्य कार्यात्मतां प्रतिपद्यमानस्य कार्यविश्लेषावधित्वायोगात् । सम्भवति च शृङ्गगोलोमादीनां शरदूर्वाद्युपादानभूतो य एकदेशः तत्संसृष्टमेकदेशान्तरं शरदूर्वादिनिमित्तं , माषांकुरोपादानेन तुषान्तरवस्थितमाषभागेन संसृष्टो माषांकुरनिमित्तभूतस्तुषभाग इव । स एवापरिणतशृङ्गाद्येकदेशः ‘शृङ्गात्’ इत्यादिपञ्चम्यन्तेन उच्यते इति युक्तं कल्पयितुमिति चेत् – उच्यते – इदं लोमादीनां दूर्वाद्यवधित्वमभ्युपगम्य सूत्रप्रत्याख्यानं लोकदृष्ट्यैव, न तु तान्त्रिकमर्यादयेति व्याचक्षाणेन कैयटेन लोकदृष्टिप्रदर्शने अस्य सूत्रस्य सर्वकारणाविषयत्वं तान्त्रिकमर्यादाप्रदर्शने विशिष्योपादानविषयत्वञ्चाविष्कृतम् – ‘अपक्रामन्ति ता इति प्रसिध्याश्रयणेनैतदुच्यते । लोके हि यद्यस्माज्जायते तत् तस्मान्निर्गच्छतीत्युच्यते । तर्काश्रयास्तु प्रक्रिया भिद्यन्ते । वैशेषिकदर्शने परमाण्वादिसमवेतं कारणेभ्योऽपृथग्देशं कार्यमुत्पद्यत इति नास्ति कार्यस्यापक्रमः’ इति । अत्र हि जायमानं कार्यं यस्मात् कारणात् निर्गच्छतीति लोकदृष्टिरस्ति तदेवास्य सूत्रस्य विषयः , न तु दण्डचक्रादिसाधारणं सर्वं कारणमिति लोकदृष्टिप्रदर्शकवाक्येनाविष्कृतम् । वैशेषिकमर्यादाप्रदर्शकवाक्येन तु नास्ति कार्यस्यापक्रम इत्यत्र परमाण्वादिसमवेतस्य कार्यस्योदाहरणेन विशिष्योपादानविषयत्वमाविष्कृतम् । तेन शरांकुराद्यधस्थिताच्छृङ्गगोलोमबीजाद्येकदेशात् शरांकुरादिकं निर्गच्छतीति लोकदृष्टिरस्ति तस्याप्युपादानत्वमेवाभिमतमिति तस्याशय उन्नीयते । युक्तञ्चैतत् । अस्ति हि यः कार्त्स्न्येन कार्यात्मतामापद्यते तस्येव यस्य एकदेशः कार्यात्मतामापद्यते तस्याप्युपादानत्वव्यवहारः । अत एव एकस्य मृत्पिण्डस्य एकदेशानां घटशरावाद्यनेककायात्मतापत्तौ तस्यैव घटशरावादिकं प्रत्युपादानत्वं सिद्धं कृत्वा तद्विज्ञानेन घटशरावादिसर्वतत्कार्यविज्ञानमुदापहारश्रुतिः । सूत्रकारश्च ‘कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा’(ब्र.सू.२-१-२६) इति सूत्रे ब्रह्मण एकदेशस्य जगद्रूपतापत्त्यङ्गीकारे निरवयवत्वश्रुतिव्याकोपमेव दूषणमुवाच , न तु ब्रह्मण उपादानत्वश्रुतिव्याकोपम् । भाष्यकारश्च ‘योनिश्च हि गीयते’(ब्र.सू. १-४-२७) इति सूत्रे योनिशब्दस्य उपादानवाचकत्वं समर्थयमानः ‘स्त्रीयोनेरपि अस्त्येवावयवद्वारेण गर्भं प्रत्युपादानत्वम्’ इति ब्रुवन्नेकदेशस्य कार्यात्मतापत्तौ एकदेशिन उपादानत्वमनुमेने । लोकश्च दीर्घैस्तन्तुभिरारब्धे खण्डपटे पटाकारबहिर्भूतस्य तन्तूनामेकदेशस्य सद्भावेऽपि तन्तून् पटोपादानत्वेन व्यवहरन्ति, न तु तेषां पटानुप्रविष्टानेकदेशानेव तदुपादानत्वेन मन्यमानास्तत्र तन्तूनामुपादानत्वं प्रतिक्षिपन्ति । वैदिकतान्त्रिकलौकिकव्यवहारानुसारेण च निमित्तोपादानव्यवस्थाऽङ्गीकरणीया । तथा च शृङ्गगोलोमादीनां शरदूर्वाद्यात्मतानापन्नैकदेशसद्भावेऽपि कृत्स्नश्रृङ्गगोलोमाद्यवयव्येव उपादानम् । अतः ‘श्रुङ्गाच्छरो जायते’ इत्युदाहरणं जनिकर्तृसूत्रञ्च उपादानविषयमेवेति युक्तम् । यत्तु न्यासकृतोक्तं ‘पुत्रात् प्रमोदो जायते’ इत्यत्र पञ्चमीनिर्वाहाय तस्य कारणसामान्यविषयत्वं वक्तव्यमिति तदप्यसङ्गतम् । तेन ‘हेतुमनुष्येभ्य’ इति सूत्रे हेतुपञ्चम्यां ज्ञापकस्य उपन्यस्ततया तत एव तन्निर्वाहात् । ननु तर्हीहापि ‘यतो वा इमानि भूतानि’ इत्यादौ ज्ञापकलब्धा हेतुपञ्चम्यस्तु । न च वाच्यं – ज्ञापकेन विध्युन्नयनाल्लब्ध्विव प्रत्यक्षसूत्रविहितोपादानपञ्चमीग्रहणम् – इति । पाणिनिव्याकरणे ज्ञापकेन सिद्धस्य व्याकरणान्तरेषु प्रत्यक्षविधिविहितत्वसम्भवात् । पाणिनीयस्यैव वेदार्थनिर्णयोपजीव्यत्वाभावादिति चेत् । स्यादेतदेवं यदि पाणिनीये हेतुपञ्चम्यां ज्ञापकं किञ्चिदुपलभ्येत । तदुपलंभे हि तत्र प्रत्यक्षविधिरपि व्याकरणान्तरे सम्भावनीयो भवेत् , न चैतदुपलभ्यते । ‘हेतुमनुष्येभ्य’ इति सूत्रे हेतुग्रहणस्य ‘विभाषा गुणेऽस्त्रियाम्’(पा.सू.२-३-२५) इति सूत्रविहितगुणविषयपञ्चमीमादाय चरितार्थत्वात् ‘जाड्यादागतं जाड्यरूप्यम्’ इति तदुदाहरणसम्भवात् । न चैवमपि ‘समादागतं समरूप्यम्’ इति वृत्तिकारदर्शितस्योदाहरणस्यानिर्वाहः । तत्र उपादानपञ्चमीति तन्निर्वाहोपपत्तेः । न च सूत्रे हेतुग्रहणाद्धेतुपञ्चम्यैव भाव्यमिति नियमः । वृत्तिकृतैव ‘हेतुमनुष्येभ्य’ इति बहुवचनं स्वरूपनिरासार्थमित्युक्तत्वात् । मनुष्यग्रहणस्य ‘देवदत्तादागतं देवदत्तरूप्यम्’ इति मनुष्यविशेषविषयस्य उदाहरणस्य दर्शितत्वाच्च । हेतुग्रहणस्यापि हेतुविशेषोपादानविषयमुदाहरणं दर्शितमित्युपपत्तेः । एतेन – जनिधातोर्डप्रत्ययविधायके ‘पञ्चम्यामजातौ’(पा.सू.३-२-९८) इति सूत्रे पञ्चम्यन्तस्योपपदस्याजातित्वविशेषणं जातिशब्देभ्यो हेतौ पञ्चम्यस्तीत्यत्र ज्ञापकमित्यपि शङ्का – निरस्ता । ‘जनिकर्तुः प्रकृतिः’ इति सूत्रतस्तेभ्य उपादानपञ्चमीसद्भावेन जातिशब्दपर्युदासस्य तद्विषयत्वोपपत्तेः , हेतुपञ्चम्यभावे ‘पुत्रात् प्रमोदो जायते’ इत्यत्र कथं निर्वाहः निमित्तकारणे पुत्रे उपादानत्वारोपात् पञ्चमी भविष्यति ‘रामो जामदग्न्यः’ ‘व्यासः’ पाराशर्यः’ इत्यत्र समनन्तरापत्ये गोत्ररूपाध्यारोपाद्यञ्प्रत्ययवत्’ ‘पर्वतो वह्निमान् धूमवत्त्वात्’ इत्यादौ कथं पञ्चमीनिर्वाहः हेतुपञ्चमीसद्भावे वा कथं निर्वाहः न हि धूमवत्त्वं वह्नेः कारणम् । ज्ञापकं तदिति चेत् ; न हि ज्ञापकहेतौ पञ्चमीविधानमस्ति । तस्मात् ‘तदशिष्यं संज्ञाप्रमाणत्वात्’(पा.सू. १-२-५३) ‘लुब्योगाप्रख्यानात्’(पा.सू.१-२-५४) इति सूत्रकारप्रयोगाद् ज्ञापकादेव ज्ञापकहेतौ पञ्चमी । कारकहेतौ तु तृतीयैव न पञ्चमी । उक्तञ्च भामत्यां ‘पञ्चमी न कारणमात्रे स्मर्यते , अपि तु प्रकृतौ इति । अस्तु वा हेतुपञ्चमीसद्भावः । तथाप्युपपदविभक्तितः कारकविभक्तेर्बलीयस्त्वात् ‘यतो वा इमानि’ इत्यादौ उपादानविषयैव पञ्चमी ग्राह्या । न च ‘ध्रुवमपाये’ इति सूत्रादिहापादानसंज्ञा भवितुमर्हति । सर्वगतस्य ब्रह्मणः विश्लेषावधित्वासम्भवात् । तस्मादिह जनिकर्तृसूत्रत एवापादानसंज्ञा वक्तव्या । तच्चोपादानमात्रविषयमित्युक्तम् । यदि च न्यासोक्तरीत्या कारणसामान्यविषयं स्यात् , तदाऽप्यत्रोपादानविषयैव पञ्चमी सिद्ध्यति । उपादानस्य प्रत्यासन्नतया निमित्तोपादानसाधारणशक्तिकस्यापि शब्दस्य उपादाने पर्यवसानमौत्सर्गिकमिति न्यासकृतैवोक्तत्वात् । यदि च उपादानप्रत्यासत्तिन्यायोऽपि नाद्रियेत , तदा विनिगमनाविरहात् ‘यतो वा इमानि भूतानि जायन्ते’ ‘आकाशादेव समुत्पद्यन्ते’ ‘तस्मादेतद्ब्रह्म नाम रूपमन्नञ्च जायते’ इत्यादिश्रुतिषु आनन्त्यसर्वविज्ञानप्रतिज्ञाद्यनुरोधाच्च उभयविधकारणत्वपरा पञ्चमी , न तु निमित्तमात्रपरेत्यलं प्रपञ्चेन । यत्तु भाष्ये ‘साक्षाच्चोभयाम्नानात्’ इति सूत्रस्य ब्रह्मैव कारणमुपादाय ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति’ इति प्रभवप्रलयोभयाम्नानादित्यर्थं दर्शयित्वा ‘यद्धि यस्मात् प्रभवति यस्मिंश्च लीयते तत्तस्य उपादानं प्रसिद्धं यथा व्रीहियवादीनां पृथिवी’ इति उपादानत्वमात्रे हेतुपरतया व्याख्यानं तत्पूर्वव्याख्यानं सिद्धं कृत्वा पञ्चमीविभक्तेरुपादानविषयत्वावश्यम्भावे हेत्वन्तरप्रदर्शनार्थमित्यवधेयम् । तत्र ब्रह्मणोऽनुपादानत्वेऽप्युपादानस्य ब्रह्माधीनत्वाद्ब्रह्मण उपादानत्वोपचार इत्यपि शङ्का मा भूदित्येवमर्थं ‘साक्षात्’ इति सौत्रपदेन ‘आकाशादेव’ इत्यवधारणलब्ध उपादानान्तरव्यवच्छेदो दर्शितः ॥(१-४-२९)
आत्मकृतेः परिणामात् ॥२६॥ 【भाष्यम्】 ‘सोऽकामयत बहु स्यां प्रजायेय’(तै.उ. २-६) इति बहुभवनसङ्कल्पवत्त्वेन प्रकृतस्य ब्रह्मणः ‘तदात्मानं स्वयमकुरुत’(तै.उ. २-७) इति अनन्तरवाक्ये ‘आत्मानम्’ इत्यात्मन एव सृष्टिकर्मत्वस्य ‘स्वयम्’ इति स्वस्यैव सृष्टिकर्तृत्वस्य च वर्णनात् ब्रह्मण एव प्रपञ्चात्मना परिणामेन प्रपञ्चात्मना कर्मत्वं स्वरूपेण कर्तृत्वमिति एकस्य कर्मकर्तृभावे विरोधाभावादुभयविधकारणं ब्रह्म । यत्तु ‘तदात्मानं सृजाम्यहम्’ इत्यादिवदेतदुपपद्यत इत्युक्तम् ; तन्न । तत्रापि कर्मकर्तृभावश्रवणाविशेषात् । इयांस्तु विशेषः – तत्रावतारशरीररूपेण स्वात्मनस्स्वेन सृष्टिरुच्यते ‘यदा यदा हि धर्मस्य’ इति धर्मसंस्थापनार्थत्वोक्तेः , इह प्रपञ्चरूपेण प्रपञ्चसृष्टिः प्रकरणात् – इति । भाष्ये ‘परिणामात्’ इति सूत्रभागो विरोधाभावप्रदर्शनार्थमेतत्सूत्रशेषतया व्याख्याय पुनः पृथक्सूत्रतया व्याख्यातः ‘सच्च त्यच्चाभवत्’ इति श्रुतौ मूर्तामूर्तात्मकप्रपञ्चरूपेण परिणामादप्युपादानं ब्रह्मेति । ‘प्रपञ्चसृष्टितत्प्रवेशोत्तरभाविनस्सदादिभवनस्य सदाद्यात्मना परिणामरूपत्वमनुपपन्नम् ; सृष्टस्य पुनः सृष्ट्यसम्भवात्’ इति चेत् ; मैवम् । ‘बहु स्याम्’ इति बहुभवनसङ्कल्पश्रवणानन्तरं श्रुतस्य सदादिभवनस्य ब्रह्मणस्सदाद्यात्मना परिणामरूपत्वावश्यम्भावात् । तस्य प्रवेशोत्तरभावित्वश्रवणं तु प्रवेशस्य नित्यसिद्धत्वज्ञापनाय । अन्यथा प्रवेशस्य ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इति सृष्ट्युत्तरभावित्वश्रवणात् स आगन्तुक इति शङ्का स्यात् । न च तस्यागन्तुकत्वं युक्तम् । सर्वगतस्य ब्रह्मणस्सदा प्रपञ्चानुस्यूतत्वात् तद्व्यतिरेकेण प्रवेशान्तराभावात् । सृष्ट्युत्तरत्वेन श्रुतस्य तस्य पुनस्सृष्टिपूर्वभावित्वश्रवणे तु सृष्टेः प्रागपि सूक्ष्मेण कारणात्मना स्थिते प्रपञ्चेऽनुस्यूतस्यैव ब्रह्मणस्सृष्टस्थूलरूपावच्छेदमात्रं ‘तत्सृष्ट्वा’ इत्यादिनोच्यते, न तु प्राक् तत्रासतस्तस्य स्वरूपेण शरीरावच्छिन्नेन रूपेण वा तत्र प्रवेश उच्यत इति ज्ञापितं भवति । किञ्च ‘इदं सर्वमसृजत’ इत्यादिना घटादिवत् स्रष्टुः पृथग्भूतं जगत्सृष्टमुक्तमिति प्रतीयते । न च तथोक्तिर्युक्ता , बहुभवनसङ्कल्पविरोधात् । अतस्तटस्थजगत्सृष्टिरुक्तेति शङ्कानिवर्तनाय ‘सच्च त्यच्चाभवत्’ इत्यनेन प्रागुक्ता सृष्टिस्सदाद्यात्मना परिणामरूपतया विवृतेति सर्वं समञ्जसम् ॥१-४-२६॥
योनिश्च हि गीयते ॥२७॥ 【भाष्यम्】 ‘कर्तारमीशं पुरुषं ब्रह्मयोनिम्’(मु.उ.३-१-३) इत्यादिश्रुतिषु ‘योनिः’ इत्यपि ब्रह्म गीयते । योनिशब्दश्च उपादानविषयः प्रसिद्धो लोके । यद्यपि स्थानवचनोऽप्ययमस्ति ; तथाऽपि पूर्वापरप्रतिज्ञादृष्टान्ताद्यनुरोधादिहोपादानवचन एव ग्राह्यः । चकारान्निमित्तञ्चेति समुच्चीयते । तत्र हेतुः ‘कर्तारमीशं’ ‘यस्सर्वज्ञस्सर्ववित्’ इत्यादिविशेषणमित्यनुक्तसिद्धम् । ननु ब्रह्मण उपादानतया सदादिपरिणामाङ्गीकारे मायारूपोपादानान्तरश्रुतेर्ब्रह्मणो निर्विकारत्वश्रुतेश्च विरोधः स्यादित्याशङ्कायामप्येतदेवोत्तरं योनिश्च हि गीयते’ इति । ‘प्रकृतिश्च’ इति सूत्रात् प्रकृतिपदं मण्डूकप्लुत्याऽनुवर्तते । ततश्चायमर्थः – न केवलं ब्रह्मैव जगदुपादानं , किन्तु ‘यो योनिं योनिमधितिष्ठत्येकः’(श्वे उ ४-११) इत्यादिश्रुतिषु योनिशब्देनोक्ता मायाऽप्युपादानमित्याम्नायते ‘मायां तु प्रकृतिं विद्यात्’ इत्यादिश्रुतिषु । ‘सन् घटः’ इत्यादिप्रतीतिषु प्रपञ्चे ब्रह्मसत्ताया इव ‘जडो घटः’ इत्यादिप्रतीतिषु मायाजाड्यस्याप्यनुगतिदर्शनादुभयोरप्युपादानत्वं युक्तम् । यत्तु ‘कालस्स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम्’(श्वे.उ.१-२) इति श्वेताश्वतरमन्त्रे कालस्वभावनियतियदृच्छाभूतपुरुषयोनीनां जगत्कारणत्वनिरासश्रवणं तत्कालादीनामन्यतमादेव जगदुत्पत्तिसम्भवे ब्रह्म कारणमित्येतन्मा भूदिति शङ्काऽपनोदनाय तन्मात्रकरणत्वनिरासपरं , न तु योनिशब्दोक्ताया मायायास्सर्वधा कारणत्वनिरासपरम् । ‘मायां तु प्रकृतिं विद्यात्’ इति श्वेताश्वतर एव तस्या उपादानत्वाभ्युपगमात् योनिशब्दप्रयोगेण च तस्या उपादानत्वप्रतीतेः । अत एव नास्ति निर्विकारत्वश्रुतिविरोधोऽपि । मायिकविकाराणां तात्त्विकनिर्विकारत्वाप्रतिक्षेपकत्वस्य गाधिवृत्तान्तलवणोपाख्यानादिषु लोके च प्रसिद्धतरत्वात् । तस्मात् सिद्धं ब्रह्म जगतो निमित्तमुपादानं चेति युक्तं ब्रह्मणो लक्षणम् ॥१-४-२७॥ इति प्रकृत्यधिकरणम् ।७।
एतेन सर्वे व्याख्याता व्याख्याताः ॥२८॥ 【भाष्यम्】 स्पष्टोऽर्थः ।१-४-२८। इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरीन्द्रवरसूनोः चतुरधिकशतप्रबन्धनिर्माणचणस्य श्रीमदप्पय्यदीक्षितस्य कृतौ शारीरकन्यायरक्षामणौ प्रथमस्याध्यायस्य चतुर्थः पादः । अध्यायश्च समाप्तः ओम् तत्सत् उद्घाट्य योगकलया हृदयाब्जकोशं धन्यैश्चिरादपि यथारुचि गृह्यमाणः । यः प्रस्फुरत्यविरतं परिपूर्णरूपः
Usando este texto em trabalho acadêmico? Obter citação formal
APPAYYA DĪKṢITA. Nyāya Rakṣāmaṇi — Parte 4 de 7. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/nyaya-rakshamani>. Acesso em: 26/04/2026.
Appayya Dīkṣita (2026). Nyāya Rakṣāmaṇi — Parte 4 de 7. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/nyaya-rakshamani
Appayya Dīkṣita. "Nyāya Rakṣāmaṇi — Parte 4 de 7." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/nyaya-rakshamani.