Ṛgveda Saṃhitā — Maṇḍala 6
Tradição Védica (Ṛṣis)
मण्डल ६ त्वꣳ ह्य् अग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता । त्वꣳ सीꣳ वृषन्न् अकृणोर् दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै
अधा होता न्य् असीदो यजीयान् इळस् पद इषयन्न् ईड्यः सन् । तꣳ त्वा नरः प्रथमꣳ देवयन्तो महो राये चितयन्तो अनु ग्मन्
वृतेव यन्तम् बहुभिर् वसव्यै३स् त्वे रयिꣳ जागृवाꣳसो अनु ग्मन् । रुशन्तम् अग्निꣳ दर्शतम् बृहन्तꣳ वपावन्तꣳ विश्वहा दीदिवाꣳसम्
पदꣳ देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्न् अमृक्तम् । नामानि चिद् दधिरे यज्ञियानि भद्रायाꣳ ते रणयन्त सꣳदृष्टौ
त्वाꣳ वर्धन्ति क्षितयः पृथिव्याꣳ त्वाꣳ राय उभयासो जनानाम् । त्वꣳ त्राता तरणे चेत्यो भूः पिता माता सदम् इन् मानुषाणाम्
सपर्येण्यः स प्रियो विक्ष्व् अ१ग्निर् होता मन्द्रो नि षसादा यजीयान् । तꣳ त्वा वयꣳ दम आ दीदिवाꣳसम् उप ज्ञुबाधो नमसा सदेम
तꣳ त्वा वयꣳ सुध्यो३ नव्यम् अग्ने सुम्नायव ईमहे देवयन्तः । त्वꣳ विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन
विशाꣳ कविꣳ विश्पतिꣳ शश्वतीनाꣳ नितोशनꣳ वृषभꣳ चर्षणीनाम् । प्रेतीषणिम् इषयन्तम् पावकꣳ राजन्तम् अग्निꣳ यजतꣳ रयीणाम्
सो अग्न ईजे शशमे च मर्तो यस् त आनट् समिधा हव्यदातिम् । य आहुतिम् परि वेदा नमोभिर् विश्वेत् स वामा दधते त्वोतः
अस्मा उ ते महि महे विधेम नमोभिर् अग्ने समिधोत हव्यैः । वेदी सूनो सहसो गीर्भिर् उक्थैर् आ ते भद्रायाꣳ सुमतौ यतेम
आ यस् ततन्थ रोदसी वि भासा श्रवोभिश् च श्रवस्य१स् तरुत्रः । बृहद्भिर् वाजैः स्थविरेभिर् अस्मे रेवद्भिर् अग्ने वितरꣳ वि भाहि
नृवद् वसो सदम् इद् धेह्य् अस्मे भूरि तोकाय तनयाय पश्वः । पूर्वीर् इषो बृहतीर् आरे-अघा अस्मे भद्रा सौश्रवसानि सन्तु
पुरूण्य् अग्ने पुरुधा त्वाया वसूनि राजन् वसुता ते अश्याम् । पुरूणि हि त्वे पुरुवार सन्त्य् अग्ने वसु विधते राजनि त्वे
त्वꣳ हि क्षैतवद् यशो ऽग्ने मित्रो न पत्यसे । त्वꣳ विचर्षणे श्रवो वसो पुष्टिꣳ न पुष्यसि
त्वाꣳ हि ष्मा चर्षणयो यज्ञेभिर् गीर्भिर् ईळते । त्वाꣳ वाजी यात्य् अवृको रजस्तूर् विश्वचर्षणिः
सजोषस् त्वा दिवो नरो यज्ञस्य केतुम् इन्धते । यद् ध स्य मानुषो जनः सुम्नायुर् जुह्वे अध्वरे
ऋधद् यस् ते सुदानवे धिया मर्तः शशमते । ऊती ष बृहतो दिवो द्विषो अꣳहो न तरति
समिधा यस् त आहुतिꣳ निशितिम् मर्त्यो नशत् । वयावन्तꣳ स पुष्यति क्षयम् अग्ने शतायुषम्
त्वेषस् ते धूम ऋण्वति दिवि षञ् छुक्र आततः । सूरो न हि द्युता त्वꣳ कृपा पावक रोचसे
अधा हि विक्ष्व् ईड्यो ऽसि प्रियो नो अतिथिः । रण्वः पुरीव जूर्यः सूनुर् न त्रययाय्यः
क्रत्वा हि द्रोणे अज्यसे ऽग्ने वाजी न कृत्व्यः । परिज्मेव स्वधा गयो ऽत्यो न ह्वार्यः शिशुः
त्वꣳ त्या चिद् अच्युताग्ने पशुर् न यवसे । धामा ह यत् ते अजर वना वृश्चन्ति शिक्वसः
वेषि ह्य् अध्वरीयताम् अग्ने होता दमे विशाम् । समृधो विश्पते कृणु जुषस्व हव्यम् अङ्गिरः
अच्छा नो मित्रमहो देव देवान् अग्ने वोचः सुमतिꣳ रोदस्योः । वीहि स्वस्तिꣳ सुक्षितिꣳ दिवो नॄन् द्विषो अꣳहाꣳसि दुरिता तरेम ता तरेम तवावसा तरेम
अग्ने स क्षेषद् ऋतपा ऋतेजा उरु ज्योतिर् नशते देवयुष् टे । यꣳ त्वम् मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तम् अꣳहः
ईजे यज्ञेभिः शशमे शमीभिर् ऋधद्वारायाग्नये ददाश । एवा चन तꣳ यशसाम् अजुष्टिर् नाꣳहो मर्तꣳ नशते न प्रदृप्तिः
सूरो न यस्य दृशतिर् अरेपा भीमा यद् एति शुचतस् त आ धीः । हेषस्वतः शुरुधो नायम् अक्तोः कुत्रा चिद् रण्वो वसतिर् वनेजाः
तिग्मꣳ चिद् एम महि वर्पो अस्य भसद् अश्वो न यमसान आसा । विजेहमानः परशुर् न जिह्वाꣳ द्रविर् न द्रावयति दारु धक्षत्
स इद् अस्तेव प्रति धाद् असिष्यञ् छिशीत तेजो ऽयसो न धाराम् । चित्रध्रजतिर् अरतिर् यो अक्तोर् वेर् न द्रुषद्वा रघुपत्मजꣳहाः
स ईꣳ रेभो न प्रति वस्त उस्राः शोचिषा रारपीति मित्रमहाः । नक्तꣳ य ईम् अरुषो यो दिवा नॄन् अमर्त्यो अरुषो यो दिवा नॄन्
दिवो न यस्य विधतो नवीनोद् वृषा रुक्ष ओषधीषु नूनोत् । घृणा न यो ध्रजसा पत्मना यन्न् आ रोदसी वसुना दꣳ सुपत्नी
धायोभिर् वा यो युज्येभिर् अर्कैर् विद्युन् न दविद्योत् स्वेभिः शुष्मैः । शर्धो वा यो मरुताꣳ ततक्ष ऋभुर् न त्वेषो रभसानो अद्यौत्
यथा होतर् मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि । एवा नो अद्य समना समानान् उशन्न् अग्न उशतो यक्षि देवान्
स नो विभावा चक्षणिर् न वस्तोर् अग्निर् वन्दारु वेद्यश् चनो धात् । विश्वायुर् यो अमृतो मर्त्येषूषर्भुद् भूद् अतिथिर् जातवेदाः
द्यावो न यस्य पनयन्त्य् अभ्वम् भासाꣳसि वस्ते सूर्यो न शुक्रः । वि य इनोत्य् अजरः पावको ऽश्नस्य चिच् छिश्नथत् पूर्व्याणि
वद्मा हि सूनो अस्य् अद्मसद्वा चक्रे अग्निर् जनुषाज्मान्नम् । स त्वꣳ न ऊर्जसन ऊर्जꣳ धा राजेव जेर् अवृके क्षेष्य् अन्तः
नितिक्ति यो वारणम् अन्नम् अत्ति वायुर् न राष्ट्र्य् अत्य् एत्य् अक्तून् । तुर्याम यस् त आदिशाम् अरातीर् अत्यो न ह्रुतः पततः परिह्रुत्
आ सूर्यो न भानुमद्भिर् अर्कैर् अग्ने ततन्थ रोदसी वि भासा । चित्रो नयत् परि तमाꣳस्य् अक्तः शोचिषा पत्मन्न् औशिजो न दीयन्
त्वाꣳ हि मन्द्रतमम् अर्कशोकैर् ववृमहे महि नः श्रोष्य् अग्ने । इन्द्रꣳ न त्वा शवसा देवता वायुम् पृणन्ति राधसा नृतमाः
नू नो अग्ने ऽवृकेभिः स्वस्ति वेषि रायः पथिभिः पर्ष्य् अꣳहः । ता सूरिभ्यो गृणते रासि सुम्नम् मदेम शतहिमाः सुवीराः
हुवे वः सूनुꣳ सहसो युवानम् अद्रोघवाचम् मतिभिर् यविष्ठम् । य इन्वति द्रविणानि प्रचेता विश्ववाराणि पुरुवारो अध्रुक्
त्वे वसूनि पुर्वणीक होतर् दोषा वस्तोर् एरिरे यज्ञियासः । क्षामेव विश्वा भुवनानि यस्मिन् सꣳ सौभगानि दधिरे पावके
त्वꣳ विक्षु प्रदिवः सीद आसु क्रत्वा रथीर् अभवो वार्याणाम् । अत इनोषि विधते चिकित्वो व्य् आनुषग् जातवेदो वसूनि
यो नः सनुत्यो अभिदासद् अग्ने यो अन्तरो मित्रमहो वनुष्यात् । तम् अजरेभिर् वृषभिस् तव स्वैस् तपा तपिष्ठ तपसा तपस्वान्
यस् ते यज्ञेन समिधा य उक्थैर् अर्केभिः सूनो सहसो ददाशत् । स मर्त्येष्व् अमृत प्रचेता राया द्युम्नेन श्रवसा वि भाति
स तत् कृधीषितस् तूयम् अग्ने स्पृधो बाधस्व सहसा सहस्वान् । यच् छस्यसे द्युभिर् अक्तो वचोभिस् तज् जुषस्व जरितुर् घोषि मन्म
अश्याम तꣳ कामम् अग्ने तवोती अश्याम रयिꣳ रयिवः सुवीरम् । अश्याम वाजम् अभि वाजयन्तो ऽश्याम द्युम्नम् अजराजरꣳ ते
प्र नव्यसा सहसः सूनुम् अच्छा यज्ञेन गातुम् अव इच्छमानः । वृश्चद्वनꣳ कृष्णयामꣳ रुशन्तꣳ वीती होतारꣳ दिव्यꣳ जिगाति
स श्वितानस् तन्यतू रोचनस्था अजरेभिर् नानदद्भिर् यविष्ठः । यः पावकः पुरुतमः पुरूणि पृथून्य् अग्निर् अनुयाति भर्वन्
वि ते विष्वग् वातजूतासो अग्ने भामासः शुचे शुचयश् चरन्ति । तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः
ये ते शुक्रासः शुचयः शुचिष्मः क्षाꣳ वपन्ति विषितासो अश्वाः । अध भ्रमस् त उर्विया वि भाति यातयमानो अधि सानु पृश्नेः
अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना । शूरस्येव प्रसितिः क्षातिर् अग्नेर् दुर्वर्तुर् भीमो दयते वनानि
आ भानुना पार्थिवानि ज्रयाꣳसि महस् तोदस्य धृषता ततन्थ । स बाधस्वाप भया सहोभिः स्पृधो वनुष्यन् वनुषो नि जूर्व
स चित्र चित्रꣳ चितयन्तम् अस्मे चित्रक्षत्र चित्रतमꣳ वयोधाम् । चन्द्रꣳ रयिम् पुरुवीरम् बृहन्तꣳ चन्द्र चन्द्राभिर् गृणते युवस्व
मूर्धानꣳ दिवो अरतिम् पृथिव्या वैश्वानरम् ऋत आ जातम् अग्निम् । कविꣳ सम्राजम् अतिथिꣳ जनानाम् आसन्न् आ पात्रꣳ जनयन्त देवाः
नाभिꣳ यज्ञानाꣳ सदनꣳ रयीणाम् महाम् आहावम् अभि सꣳ नवन्त । वैश्वानरꣳ रथ्यम् अध्वराणाꣳ यज्ञस्य केतुꣳ जनयन्त देवाः
त्वद् विप्रो जायते वाज्य् अग्ने त्वद् वीरासो अभिमातिषाहः । वैश्वानर त्वम् अस्मासु धेहि वसूनि राजन् स्पृहयाय्याणि
त्वाꣳ विश्वे अमृत जायमानꣳ शिशुꣳ न देवा अभि सꣳ नवन्ते । तव क्रतुभिर् अमृतत्वम् आयन् वैश्वानर यत् पित्रोर् अदीदेः
वैश्वानर तव तानि व्रतानि महान्य् अग्ने नकिर् आ दधर्ष । यज् जायमानः पित्रोर् उपस्थे ऽविन्दः केतुꣳ वयुनेष्व् अह्नाम्
वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य केतुना । तस्येद् उ विश्वा भुवनाधि मूर्धनि वया इव रुरुहुः सप्त विस्रुहः
वि यो रजाꣳस्य् अमिमीत सुक्रतुर् वैश्वानरो वि दिवो रोचना कविः । परि यो विश्वा भुवनानि पप्रथे ऽदब्धो गोपा अमृतस्य रक्षिता
पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचꣳ विदथा जातवेदसः । वैश्वानराय मतिर् नव्यसी शुचिः सोम इव पवते चारुर् अग्नये
स जायमानः परमे व्योमनि व्रतान्य् अग्निर् व्रतपा अरक्षत । व्य् अ१न्तरिक्षम् अमिमीत सुक्रतुर् वैश्वानरो महिना नाकम् अस्पृशत्
व्य् अस्तभ्नाद् रोदसी मित्रो अद्भुतो ऽन्तर्वावद् अकृणोज् ज्योतिषा तमः । वि चर्मणीव धिषणे अवर्तयद् वैश्वानरो विश्वम् अधत्त वृष्ण्यम्
अपाम् उपस्थे महिषा अगृभ्णत विशो राजानम् उप तस्थुर् ऋग्मियम् । आ दूतो अग्निम् अभरद् विवस्वतो वैश्वानरम् मातरिश्वा परावतः
युगे-युगे विदथ्यꣳ गृणद्भ्यो ऽग्ने रयिꣳ यशसꣳ धेहि नव्यसीम् । पव्येव राजन्न् अघशꣳसम् अजर नीचा नि वृश्च वनिनꣳ न तेजसा
अस्माकम् अग्ने मघवत्सु धारयानामि क्षत्रम् अजरꣳ सुवीर्यम् । वयꣳ जयेम शतिनꣳ सहस्रिणꣳ वैश्वानर वाजम् अग्ने तवोतिभिः
अदब्धेभिस् तव गोपाभिर् इष्टे ऽस्माकम् पाहि त्रिषधस्थ सूरीन् । रक्षा च नो ददुषाꣳ शर्धो अग्ने वैश्वानर प्र च तारीः स्तवानः
अहश् च कृष्णम् अहर् अर्जुनꣳ च वि वर्तेते रजसी वेद्याभिः । वैश्वानरो जायमानो न राजावातिरज् ज्योतिषाग्निस् तमाꣳसि
नाहꣳ तन्तुꣳ न वि जानाम्य् ओतुꣳ न यꣳ वयन्ति समरे ऽतमानाः । कस्य स्वित् पुत्र इह वक्त्वानि परो वदात्य् अवरेण पित्रा
स इत् तन्तुꣳ स वि जानात्य् ओतुꣳ स वक्त्वान्य् ऋतुथा वदाति । य ईꣳ चिकेतद् अमृतस्य गोपा अवश् चरन् परो अन्येन पश्यन्
अयꣳ होता प्रथमः पश्यतेमम् इदꣳ ज्योतिर् अमृतम् मर्त्येषु । अयꣳ स जज्ञे ध्रुव आ निषत्तो ऽमर्त्यस् तन्वा३ वर्धमानः
ध्रुवꣳ ज्योतिर् निहितꣳ दृशये कम् मनो जविष्ठम् पतयत्स्व् अन्तः । विश्वे देवाः समनसः सकेता एकꣳ क्रतुम् अभि वि यन्ति साधु
वि मे कर्णा पतयतो वि चक्षुर् वी३दꣳ ज्योतिर् हृदय आहितꣳ यत् । वि मे मनश् चरति दूरआधीः किꣳ स्विद् वक्ष्यामि किम् उ नू मनिष्ये
विश्वे देवा अनमस्यन् भियानास् त्वाम् अग्ने तमसि तस्थिवाꣳसम् । वैश्वानरो ऽवतूतये नो ऽमर्त्यो ऽवतूतये नः
पुरो वो मन्द्रꣳ दिव्यꣳ सुवृक्तिम् प्रयति यज्ञे अग्निम् अध्वरे दधिध्वम् । पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः
तम् उ द्युमः पुर्वणीक होतर् अग्ने अग्निभिर् मनुष इधानः । स्तोमꣳ यम् अस्मै ममतेव शूषꣳ घृतꣳ न शुचि मतयः पवन्ते
पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः । चित्राभिस् तम् ऊतिभिश् चित्रशोचिर् व्रजस्य साता गोमतो दधाति
आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा । अध बहु चित् तम ऊर्म्यायास् तिरः शोचिषा ददृशे पावकः
नू नश् चित्रम् पुरुवाजाभिर् ऊती अग्ने रयिम् मघवद्भ्यश् च धेहि । ये राधसा श्रवसा चात्य् अन्यान् सुवीर्येभिश् चाभि सन्ति जनान्
इमꣳ यज्ञꣳ चनो धा अग्न उशन् यꣳ त आसानो जुहुते हविष्मान् । भरद्वाजेषु दधिषे सुवृक्तिम् अवीर् वाजस्य गध्यस्य सातौ
वि द्वेषाꣳसीनुहि वर्धयेळाम् मदेम शतहिमाः सुवीराः
यजस्व होतर् इषितो यजीयान् अग्ने बाधो मरुताꣳ न प्रयुक्ति । आ नो मित्रावरुणा नासत्या द्यावा होत्राय पृथिवी ववृत्याः
त्वꣳ होता मन्द्रतमो नो अध्रुग् अन्तर् देवो विदथा मर्त्येषु । पावकया जुह्वा३ वह्निर् आसाग्ने यजस्व तन्व१ꣳ तव स्वाम्
धन्या चिद् धि त्वे धिषणा वष्टि प्र देवाञ् जन्म गृणते यजध्यै । वेपिष्ठो अङ्गिरसाꣳ यद् ध विप्रो मधु च्छन्दो भनति रेभ इष्टौ
अदिद्युतत् स्व् अपाको विभावाग्ने यजस्व रोदसी उरूची । आयुꣳ न यꣳ नमसा रातहव्या अञ्जन्ति सुप्रयसम् पञ्च जनाः
वृञ्जे ह यन् नमसा बर्हिर् अग्नाव् अयामि स्रुग् घृतवती सुवृक्तिः । अम्यक्षि सद्म सदने पृथिव्या अश्रायि यज्ञः सूर्ये न चक्षुः
दशस्या नः पुर्वणीक होतर् देवेभिर् अग्ने अग्निभिर् इधानः । रायः सूनो सहसो वावसाना अति स्रसेम वृजनꣳ नाꣳहः
मध्ये होता दुरोणे बर्हिषो राळ् अग्निस् तोदस्य रोदसी यजध्यै । अयꣳ स सूनुः सहस ऋतावा दूरात् सूर्यो न शोचिषा ततान
आ यस्मिन् त्वे स्व् अपाके यजत्र यक्षद् राजन् सर्वतातेव नु द्यौः । त्रिषधस्थस् ततरुषो न जꣳहो हव्या मघानि मानुषा यजध्यै
तेजिष्ठा यस्यारतिर् वनेराट् तोदो अध्वन् न वृधसानो अद्यौत् । अद्रोघो न द्रविता चेतति त्मन्न् अमर्त्यो ऽवर्त्र ओषधीषु
सास्माकेभिर् एतरी न शूषैर् अग्निः ष्टवे दम आ जातवेदाः । द्र्वन्नो वन्वन् क्रत्वा नार्वोस्रः पितेव जारयायि यज्ञैः
अध स्मास्य पनयन्ति भासो वृथा यत् तक्षद् अनुयाति पृथ्वीम् । सद्यो यः स्यन्द्रो विषितो धवीयान् ऋणो न तायुर् अति धन्वा राट्
स त्वꣳ नो अर्वन् निदाया विश्वेभिर् अग्ने अग्निभिर् इधानः । वेषि रायो वि यासि दुच्छुना मदेम शतहिमाः सुवीराः
त्वद् विश्वा सुभग सौभगान्य् अग्ने वि यन्ति वनिनो न वयाः । श्रुष्टी रयिर् वाजो वृत्रतूर्ये दिवो वृष्टिर् ईड्यो रीतिर् अपाम्
त्वम् भगो न आ हि रत्नम् इषे परिज्मेव क्षयसि दस्मवर्चाः । अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः
स सत्पतिः शवसा हन्ति वृत्रम् अग्ने विप्रो वि पणेर् भर्ति वाजम् । यꣳ त्वम् प्रचेत ऋतजात राया सजोषा नप्त्रापाꣳ हिनोषि
यस् ते सूनो सहसो गीर्भिर् उक्थैर् यज्ञैर् मर्तो निशितिꣳ वेद्यानट् । विश्वꣳ स देव प्रति वारम् अग्ने धत्ते धान्य१म् पत्यते वसव्यैः
ता नृभ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसे धाः । कृणोषि यच् छवसा भूरि पश्वो वयो वृकायारये जसुरये
वद्मा सूनो सहसो नो विहाया अग्ने तोकꣳ तनयꣳ वाजि नो दाः । विश्वाभिर् गीर्भिर् अभि पूर्तिम् अश्याम् मदेम शतहिमाः सुवीराः
अग्ना यो मर्त्यो दुवो धियꣳ जुजोष धीतिभिः । भसन् नु ष प्र पूर्व्य इषꣳ वुरीतावसे
अग्निर् इद् धि प्रचेता अग्निर् वेधस्तम ऋषिः । अग्निꣳ होतारम् ईळते यज्ञेषु मनुषो विशः
नाना ह्य् अ१ग्ने ऽवसे स्पर्धन्ते रायो अर्यः । तूर्वन्तो दस्युम् आयवो व्रतैः सीक्षन्तो अव्रतम्
अग्निर् अप्साम् ऋतीषहꣳ वीरꣳ ददाति सत्पतिम् । यस्य त्रसन्ति शवसः सꣳचक्षि शत्रवो भिया
अग्निर् हि विद्मना निदो देवो मर्तम् उरुष्यति । सहावा यस्यावृतो रयिर् वाजेष्व् अवृतः
अच्छा नो मित्रमहो देव देवान् अग्ने वोचः सुमतिꣳ रोदस्योः । वीहि स्वस्तिꣳ सुक्षितिꣳ दिवो नॄन् द्विषो अꣳहाꣳसि दुरिता तरेम ता तरेम तवावसा तरेम
इमम् ऊ षु वो अतिथिम् उषर्बुधꣳ विश्वासाꣳ विशाम् पतिम् ऋञ्जसे गिरा । वेतीद् दिवो जनुषा कच् चिद् आ शुचिर् ज्योक् चिद् अत्ति गर्भो यद् अच्युतम्
मित्रꣳ न यꣳ सुधितम् भृगवो दधुर् वनस्पताव् ईड्यम् ऊर्ध्वशोचिषम् । स त्वꣳ सुप्रीतो वीतहव्ये अद्भुत प्रशस्तिभिर् महयसे दिवे-दिवे
स त्वꣳ दक्षस्यावृको वृधो भूर् अर्यः परस्यान्तरस्य तरुषः । रायः सूनो सहसो मर्त्येष्व् आ छर्दिर् यच्छ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः
द्युतानꣳ वो अतिथिꣳ स्वर्णरम् अग्निꣳ होतारम् मनुषः स्वध्वरम् । विप्रꣳ न द्युक्षवचसꣳ सुवृक्तिभिर् हव्यवाहम् अरतिꣳ देवम् ऋञ्जसे
पावकया यश् चितयन्त्या कृपा क्षामन् रुरुच उषसो न भानुना । तूर्वन् न यामन्न् एतशस्य नू रण आ यो घृणे न ततृषाणो अजरः
अग्निम्-अग्निꣳ वः समिधा दुवस्यत प्रियम्-प्रियꣳ वो अतिथिꣳ गृणीषणि । उप वो गीर्भिर् अमृतꣳ विवासत देवो देवेषु वनते हि वार्यꣳ देवो देवेषु वनते हि नो दुवः
समिद्धम् अग्निꣳ समिधा गिरा गृणे शुचिम् पावकम् पुरो अध्वरे ध्रुवम् । विप्रꣳ होतारम् पुरुवारम् अद्रुहꣳ कविꣳ सुम्नैर् ईमहे जातवेदसम्
त्वाꣳ दूतम् अग्ने अमृतꣳ युगे-युगे हव्यवाहꣳ दधिरे पायुम् ईड्यम् । देवासश् च मर्तासश् च जागृविꣳ विभुꣳ विश्पतिꣳ नमसा नि षेदिरे
विभूषन्न् अग्न उभयाꣳ अनु व्रता दूतो देवानाꣳ रजसी सम् ईयसे । यत् ते धीतिꣳ सुमतिम् आवृणीमहे ऽध स्मा नस् त्रिवरूथः शिवो भव
तꣳ सुप्रतीकꣳ सुदृशꣳ स्वञ्चम् अविद्वाꣳसो विदुष्टरꣳ सपेम । स यक्षद् विश्वा वयुनानि विद्वान् प्र हव्यम् अग्निर् अमृतेषु वोचत्
तम् अग्ने पास्य् उत तम् पिपर्षि यस् त आनट् कवये शूर धीतिम् । यज्ञस्य वा निशितिꣳ वोदितिꣳ वा तम् इत् पृणक्षि शवसोत राया
त्वम् अग्ने वनुष्यतो नि पाहि त्वम् उ नः सहसावन्न् अवद्यात् । सꣳ त्वा ध्वस्मन्वद् अभ्य् एतु पाथः सꣳ रयिः स्पृहयाय्यः सहस्री
अग्निर् होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः । देवानाम् उत यो मर्त्यानाꣳ यजिष्ठः स प्र यजताम् ऋतावा
अग्ने यद् अद्य विशो अध्वरस्य होतः पावकशोचे वेष् ट्वꣳ हि यज्वा । ऋता यजासि महिना वि यद् भूर् हव्या वह यविष्ठ या ते अद्य
अभि प्रयाꣳसि सुधितानि हि ख्यो नि त्वा दधीत रोदसी यजध्यै । अवा नो मघवन् वाजसाताव् अग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम
अग्ने विश्वेभिः स्वनीक देवैर् ऊर्णावन्तम् प्रथमः सीद योनिम् । कुलायिनꣳ घृतवन्तꣳ सवित्रे यज्ञꣳ नय यजमानाय साधु
इमम् उ त्यम् अथर्ववद् अग्निम् मन्थन्ति वेधसः । यम् अङ्कूयन्तम् आनयन्न् अमूरꣳ श्याव्याभ्यः
जनिष्वा देववीतये सर्वताता स्वस्तये । आ देवान् वक्ष्य् अमृताꣳ ऋतावृधो यज्ञꣳ देवेषु पिस्पृशः
वयम् उ त्वा गृहपते जनानाम् अग्ने अकर्म समिधा बृहन्तम् । अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस् तेजसा सꣳ शिशाधि
त्वम् अग्ने यज्ञानाꣳ होता विश्वेषाꣳ हितः । देवेभिर् मानुषे जने
स नो मन्द्राभिर् अध्वरे जिह्वाभिर् यजा महः । आ देवान् वक्षि यक्षि च
वेत्था हि वेधो अध्वनः पथश् च देवाञ्जसा । अग्ने यज्ञेषु सुक्रतो
त्वाम् ईळे अध द्विता भरतो वाजिभिः शुनम् । ईजे यज्ञेषु यज्ञियम्
त्वम् इमा वार्या पुरु दिवोदासाय सुन्वते । भरद्वाजाय दाशुषे
त्वꣳ दूतो अमर्त्य आ वहा दैव्यꣳ जनम् । शृण्वन् विप्रस्य सुष्टुतिम्
त्वाम् अग्ने स्वाध्यो३ मर्तासो देववीतये । यज्ञेषु देवम् ईळते
तव प्र यक्षि सꣳदृशम् उत क्रतुꣳ सुदानवः । विश्वे जुषन्त कामिनः
त्वꣳ होता मनुर्हितो वह्निर् आसा विदुष्टरः । अग्ने यक्षि दिवो विशः
अग्न आ याहि वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि
तꣳ त्वा समिद्भिर् अङ्गिरो घृतेन वर्धयामसि । बृहच् छोचा यविष्ठ्य
स नः पृथु श्रवाय्यम् अच्छा देव विवाससि । बृहद् अग्ने सुवीर्यम्
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । मूर्ध्नो विश्वस्य वाघतः
तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे अथर्वणः । वृत्रहणम् पुरꣳदरम्
तम् उ त्वा पाथ्यो वृषा सम् ईधे दस्युहन्तमम् । धनꣳजयꣳ रणे-रणे
एह्य् ऊ षु ब्रवाणि ते ऽग्न इत्थेतरा गिरः । एभिर् वर्धास इन्दुभिः
यत्र क्व च ते मनो दक्षꣳ दधस उत्तरम् । तत्रा सदः कृणवसे
नहि ते पूर्तम् अक्षिपद् भुवन् नेमानाꣳ वसो । अथा दुवो वनवसे
आग्निर् अगामि भारतो वृत्रहा पुरुचेतनः । दिवोदासस्य सत्पतिः
स हि विश्वाति पार्थिवा रयिꣳ दाशन् महित्वना । वन्वन्न् अवातो अस्तृतः
स प्रत्नवन् नवीयसाग्ने द्युम्नेन सꣳयता । बृहत् ततन्थ भानुना
प्र वः सखायो अग्नये स्तोमꣳ यज्ञꣳ च धृष्णुया । अर्च गाय च वेधसे
स हि यो मानुषा युगा सीदद् धोता कविक्रतुः । दूतश् च हव्यवाहनः
ता राजाना शुचिव्रतादित्यान् मारुतꣳ गणम् । वसो यक्षीह रोदसी
वस्वी ते अग्ने सꣳदृष्टिर् इषयते मर्त्याय । ऊर्जो नपाद् अमृतस्य
क्रत्वा दा अस्तु श्रेष्ठो ऽद्य त्वा वन्वन् सुरेक्णाः । मर्त आनाश सुवृक्तिम्
ते ते अग्ने त्वोता इषयन्तो विश्वम् आयुः । तरन्तो अर्यो अरातीर् वन्वन्तो अर्यो अरातीः
अग्निस् तिग्मेन शोचिषा यासद् विश्वꣳ न्य् अ१त्रिणम् । अग्निर् नो वनते रयिम्
सुवीरꣳ रयिम् आ भर जातवेदो विचर्षणे । जहि रक्षाꣳसि सुक्रतो
त्वꣳ नः पाह्य् अꣳहसो जातवेदो अघायतः । रक्षा णो ब्रह्मणस् कवे
यो नो अग्ने दुरेव आ मर्तो वधाय दाशति । तस्मान् नः पाह्य् अꣳहसः
त्वꣳ तꣳ देव जिह्वया परि बाधस्व दुष्कृतम् । मर्तो यो नो जिघाꣳसति
भरद्वाजाय सप्रथः शर्म यच्छ सहन्त्य । अग्ने वरेण्यꣳ वसु
अग्निर् वृत्राणि जङ्घनद् द्रविणस्युर् विपन्यया । समिद्धः शुक्र आहुतः
गर्भे मातुः पितुष् पिता विदिद्युतानो अक्षरे । सीदन्न् ऋतस्य योनिम् आ
ब्रह्म प्रजावद् आ भर जातवेदो विचर्षणे । अग्ने यद् दीदयद् दिवि
उप त्वा रण्वसꣳदृशम् प्रयस्वन्तः सहस्कृत । अग्ने ससृज्महे गिरः
उप च्छायाम् इव घृणेर् अगन्म शर्म ते वयम् । अग्ने हिरण्यसꣳदृशः
य उग्र इव शर्यहा तिग्मशृङ्गो न वꣳसगः । अग्ने पुरो रुरोजिथ
आ यꣳ हस्ते न खादिनꣳ शिशुꣳ जातꣳ न बिभ्रति । विशाम् अग्निꣳ स्वध्वरम्
प्र देवꣳ देववीतये भरता वसुवित्तमम् । आ स्वे योनौ नि षीदतु
आ जातꣳ जातवेदसि प्रियꣳ शिशीतातिथिम् । स्योन आ गृहपतिम्
अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः । अरꣳ वहन्ति मन्यवे
अच्छा नो याह्य् आ वहाभि प्रयाꣳसि वीतये । आ देवान् सोमपीतये
उद् अग्ने भारत द्युमद् अजस्रेण दविद्युतत् । शोचा वि भाह्य् अजर
वीती यो देवम् मर्तो दुवस्येद् अग्निम् ईळीताध्वरे हविष्मान् । होतारꣳ सत्ययजꣳ रोदस्योर् उत्तानहस्तो नमसा विवासेत्
आ ते अग्न ऋचा हविर् हृदा तष्टम् भरामसि । ते ते भवन्तूक्षण ऋषभासो वशा उत
अग्निꣳ देवासो अग्रियम् इन्धते वृत्रहन्तमम् । येना वसून्य् आभृता तृळ्हा रक्षाꣳसि वाजिना
पिबा सोमम् अभि यम् उग्र तर्द ऊर्वꣳ गव्यम् महि गृणान इन्द्र । वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रम् अमित्रिया शवोभिः
स ईम् पाहि य ऋजीषी तरुत्रो यः शिप्रवान् वृषभो यो मतीनाम् । यो गोत्रभिद् वज्रभृद् यो हरिष्ठाः स इन्द्र चित्राꣳ अभि तृन्धि वाजान्
एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः । आविः सूर्यꣳ कृणुहि पीपिहीषो जहि शत्रूꣳर् अभि गा इन्द्र तृन्धि
ते त्वा मदा बृहद् इन्द्र स्वधाव इमे पीता उक्षयन्त द्युमन्तम् । महाम् अनूनꣳ तवसꣳ विभूतिम् मत्सरासो जर्हृषन्त प्रसाहम्
येभिः सूर्यम् उषसम् मन्दसानो ऽवासयो ऽप दृळ्हानि दर्द्रत् । महाम् अद्रिम् परि गा इन्द्र सन्तꣳ नुत्था अच्युतꣳ सदसस् परि स्वात्
तव क्रत्वा तव तद् दꣳसनाभिर् आमासु पक्वꣳ शच्या नि दीधः । और्णोर् दुर उस्रियाभ्यो वि दृळ्होद् ऊर्वाद् गा असृजो अङ्गिरस्वान्
पप्राथ क्षाम् महि दꣳसो व्य् उ१र्वीम् उप द्याम् ऋष्वो बृहद् इन्द्र स्तभायः । अधारयो रोदसी देवपुत्रे प्रत्ने मातरा यह्वी ऋतस्य
अध त्वा विश्वे पुर इन्द्र देवा एकꣳ तवसꣳ दधिरे भराय । अदेवो यद् अभ्य् औहिष्ट देवान् स्वर्षाता वृणत इन्द्रम् अत्र
अध द्यौश् चित् ते अप सा नु वज्राद् द्वितानमद् भियसा स्वस्य मन्योः । अहिꣳ यद् इन्द्रो अभ्य् ओहसानꣳ नि चिद् विश्वायुः शयथे जघान
अध त्वष्टा ते मह उग्र वज्रꣳ सहस्रभृष्टिꣳ ववृतच् छताश्रिम् । निकामम् अरमणसꣳ येन नवन्तम् अहिꣳ सम् पिणग् ऋजीषिन्
वर्धान् यꣳ विश्वे मरुतः सजोषाः पचच् छतम् महिषाꣳ इन्द्र तुभ्यम् । पूषा विष्णुस् त्रीणि सराꣳसि धावन् वृत्रहणम् मदिरम् अꣳशुम् अस्मै
आ क्षोदो महि वृतꣳ नदीनाम् परिष्ठितम् असृज ऊर्मिम् अपाम् । तासाम् अनु प्रवत इन्द्र पन्थाम् प्रार्दयो नीचीर् अपसः समुद्रम्
एवा ता विश्वा चकृवाꣳसम् इन्द्रम् महाम् उग्रम् अजुर्यꣳ सहोदाम् । सुवीरꣳ त्वा स्वायुधꣳ सुवज्रम् आ ब्रह्म नव्यम् अवसे ववृत्यात्
स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान् । भरद्वाजे नृवत इन्द्र सूरीन् दिवि च स्मैधि पार्ये न इन्द्र
अया वाजꣳ देवहितꣳ सनेम मदेम शतहिमाः सुवीराः
तम् उ ष्टुहि यो अभिभूत्योजा वन्वन्न् अवातः पुरुहूत इन्द्रः । अषाळ्हम् उग्रꣳ सहमानम् आभिर् गीर्भिर् वर्ध वृषभꣳ चर्षणीनाम्
स युध्मः सत्वा खजकृत् समद्वा तुविम्रक्षो नदनुमाꣳ ऋजीषी । बृहद्रेणुश् च्यवनो मानुषीणाम् एकः कृष्टीनाम् अभवत् सहावा
त्वꣳ ह नु त्यद् अदमायो दस्यूꣳर् एकः कृष्टीर् अवनोर् आर्याय । अस्ति स्विन् नु वीर्य१ꣳ तत् त इन्द्र न स्विद् अस्ति तद् ऋतुथा वि वोचः
सद् इद् धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस् तुरस्य । उग्रम् उग्रस्य तवसस् तवीयो ऽरध्रस्य रध्रतुरो बभूव
तन् नः प्रत्नꣳ सख्यम् अस्तु युष्मे इत्था वदद्भिर् वलम् अङ्गिरोभिः । हन्न् अच्युतच्युद् दस्मेषयन्तम् ऋणोः पुरो वि दुरो अस्य विश्वाः
स हि धीभिर् हव्यो अस्त्य् उग्र ईशानकृन् महति वृत्रतूर्ये । स तोकसाता तनये स वज्री वितन्तसाय्यो अभवत् समत्सु
स मज्मना जनिम मानुषाणाम् अमर्त्येन नाम्नाति प्र सर्स्रे । स द्युम्नेन स शवसोत राया स वीर्येण नृतमः समोकाः
स यो न मुहे न मिथू जनो भूत् सुमन्तुनामा चुमुरिꣳ धुनिꣳ च । वृणक् पिप्रुꣳ शम्बरꣳ शुष्णम् इन्द्रः पुराꣳ च्यौत्नाय शयथाय नू चित्
उदावता त्वक्षसा पन्यसा च वृत्रहत्याय रथम् इन्द्र तिष्ठ । धिष्व वज्रꣳ हस्त आ दक्षिणत्राभि प्र मन्द पुरुदत्र मायाः
अग्निर् न शुष्कꣳ वनम् इन्द्र हेती रक्षो नि धक्ष्य् अशनिर् न भीमा । गम्भीरय ऋष्वया यो रुरोजाध्वानयद् दुरिता दम्भयच् च
आ सहस्रम् पथिभिर् इन्द्र राया तुविद्युम्न तुविवाजेभिर् अर्वाक् । याहि सूनो सहसो यस्य नू चिद् अदेव ईशे पुरुहूत योतोः
प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर् दिवो ररप्शे महिमा पृथिव्याः । नास्य शत्रुर् न प्रतिमानम् अस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः
प्र तत् ते अद्या करणꣳ कृतम् भूत् कुत्सꣳ यद् आयुम् अतिथिग्वम् अस्मै । पुरू सहस्रा नि शिशा अभि क्षाम् उत् तूर्वयाणꣳ धृषता निनेथ
अनु त्वाहिघ्ने अध देव देवा मदन् विश्वे कवितमꣳ कवीनाम् । करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः
अनु द्यावापृथिवी तत् त ओजो ऽमर्त्या जिहत इन्द्र देवाः । कृष्वा कृत्नो अकृतꣳ यत् ते अस्त्य् उक्थꣳ नवीयो जनयस्व यज्ञैः
महाꣳ इन्द्रो नृवद् आ चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः । अस्मद्र्यग् वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर् भूत्
इन्द्रम् एव धिषणा सातये धाद् बृहन्तम् ऋष्वम् अजरꣳ युवानम् । अषाळ्हेन शवसा शूशुवाꣳसꣳ सद्यश् चिद् यो वावृधे असामि
पृथू करस्ना बहुला गभस्ती अस्मद्र्य१क् सम् मिमीहि श्रवाꣳसि । यूथेव पश्वः पशुपा दमूना अस्माꣳ इन्द्राभ्य् आ ववृत्स्वाजौ
तꣳ व इन्द्रꣳ चतिनम् अस्य शाकैर् इह नूनꣳ वाजयन्तो हुवेम । यथा चित् पूर्वे जरितार आसुर् अनेद्या अनवद्या अरिष्टाः
धृतव्रतो धनदाः सोमवृद्धः स हि वामस्य वसुनः पुरुक्षुः । सꣳ जग्मिरे पथ्या३ रायो अस्मिन् समुद्रे न सिन्धवो यादमानाः
शविष्ठꣳ न आ भर शूर शव ओजिष्ठम् ओजो अभिभूत उग्रम् । विश्वा द्युम्ना वृष्ण्या मानुषाणाम् अस्मभ्यꣳ दा हरिवो मादयध्यै
यस् ते मदः पृतनाषाळ् अमृध्र इन्द्र तꣳ न आ भर शूशुवाꣳसम् । येन तोकस्य तनयस्य सातौ मꣳसीमहि जिगीवाꣳसस् त्वोताः
आ नो भर वृषणꣳ शुष्मम् इन्द्र धनस्पृतꣳ शूशुवाꣳसꣳ सुदक्षम् । येन वꣳसाम पृतनासु शत्रून् तवोतिभिर् उत जामीꣳर् अजामीन्
आ ते शुष्मो वृषभ एतु पश्चाद् ओत्तराद् अधराद् आ पुरस्तात् । आ विश्वतो अभि सम् एत्व् अर्वाङ् इन्द्र द्युम्नꣳ स्वर्वद् धेह्य् अस्मे
नृवत् त इन्द्र नृतमाभिर् ऊती वꣳसीमहि वामꣳ श्रोमतेभिः । ईक्षे हि वस्व उभयस्य राजन् धा रत्नम् महि स्थूरम् बृहन्तम्
मरुत्वन्तꣳ वृषभꣳ वावृधानम् अकवारिꣳ दिव्यꣳ शासम् इन्द्रम् । विश्वासाहम् अवसे नूतनायोग्रꣳ सहोदाम् इह तꣳ हुवेम
जनꣳ वज्रिन् महि चिन् मन्यमानम् एभ्यो नृभ्यो रन्धया येष्व् अस्मि । अधा हि त्वा पृथिव्याꣳ शूरसातौ हवामहे तनये गोष्व् अप्सु
वयꣳ त एभिः पुरुहूत सख्यैः शत्रोः-शत्रोर् उत्तर इत् स्याम । घ्नन्तो वृत्राण्य् उभयानि शूर राया मदेम बृहता त्वोताः
द्यौर् न य इन्द्राभि भूमार्यस् तस्थौ रयिः शवसा पृत्सु जनान् । तꣳ नः सहस्रभरम् उर्वरासाꣳ दद्धि सूनो सहसो वृत्रतुरम्
दिवो न तुभ्यम् अन्व् इन्द्र सत्रासुर्यꣳ देवेभिर् धायि विश्वम् । अहिꣳ यद् वृत्रम् अपो वव्रिवाꣳसꣳ हन्न् ऋजीषिन् विष्णुना सचानः
तूर्वन्न् ओजीयान् तवसस् तवीयान् कृतब्रह्मेन्द्रो वृद्धमहाः । राजाभवन् मधुनः सोम्यस्य विश्वासाꣳ यत् पुराꣳ दर्त्नुम् आवत्
शतैर् अपद्रन् पणय इन्द्रात्र दशोणये कवये ऽर्कसातौ । वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत् किꣳ चन प्र
महो द्रुहो अप विश्वायु धायि वज्रस्य यत् पतने पादि शुष्णः । उरु ष सरथꣳ सारथये कर् इन्द्रः कुत्साय सूर्यस्य सातौ
प्र श्येनो न मदिरम् अꣳशुम् अस्मै शिरो दासस्य नमुचेर् मथायन् । प्रावन् नमीꣳ साप्यꣳ ससन्तम् पृणग् राया सम् इषा सꣳ स्वस्ति
वि पिप्रोर् अहिमायस्य दृळ्हाः पुरो वज्रिञ् छवसा न दर्दः । सुदामन् तद् रेक्णो अप्रमृष्यम् ऋजिश्वने दात्रꣳ दाशुषे दाः
स वेतसुꣳ दशमायꣳ दशोणिꣳ तूतुजिम् इन्द्रः स्वभिष्टिसुम्नः । आ तुग्रꣳ शश्वद् इभꣳ द्योतनाय मातुर् न सीम् उप सृजा इयध्यै
स ईꣳ स्पृधो वनते अप्रतीतो बिभ्रद् वज्रꣳ वृत्रहणꣳ गभस्तौ । तिष्ठद् धरी अध्य् अस्तेव गर्ते वचोयुजा वहत इन्द्रम् ऋष्वम्
सनेम ते ऽवसा नव्य इन्द्र प्र पूरवः स्तवन्त एना यज्ञैः । सप्त यत् पुरः शर्म शारदीर् दर्द् धन् दासीः पुरुकुत्साय शिक्षन्
त्वꣳ वृध इन्द्र पूर्व्यो भूर् वरिवस्यन्न् उशने काव्याय । परा नववास्त्वम् अनुदेयम् महे पित्रे ददाथ स्वꣳ नपातम्
त्वꣳ धुनिर् इन्द्र धुनिमतीर् ऋणोर् अपः सीरा न स्रवन्तीः । प्र यत् समुद्रम् अति शूर पर्षि पारया तुर्वशꣳ यदुꣳ स्वस्ति
तव ह त्यद् इन्द्र विश्वम् आजौ सस्तो धुनीचुमुरी या ह सिष्वप् । दीदयद् इत् तुभ्यꣳ सोमेभिः सुन्वन् दभीतिर् इध्मभृतिः पक्थ्य् अ१र्कैः
इमा उ त्वा पुरुतमस्य कारोर् हव्यꣳ वीर हव्या हवन्ते । धियो रथेष्ठाम् अजरꣳ नवीयो रयिर् विभूतिर् ईयते वचस्या
तम् उ स्तुष इन्द्रꣳ यो विदानो गिर्वाहसꣳ गीर्भिर् यज्ञवृद्धम् । यस्य दिवम् अति मह्ना पृथिव्याः पुरुमायस्य रिरिचे महित्वम्
स इत् तमो ऽवयुनꣳ ततन्वत् सूर्येण वयुनवच् चकार । कदा ते मर्ता अमृतस्य धामेयक्षन्तो न मिनन्ति स्वधावः
यस् ता चकार स कुह स्विद् इन्द्रः कम् आ जनꣳ चरति कासु विक्षु । कस् ते यज्ञो मनसे शꣳ वराय को अर्क इन्द्र कतमः स होता
इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत् सखायः । ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि
तम् पृच्छन्तो ऽवरासः पराणि प्रत्ना त इन्द्र श्रुत्यानु येमुः । अर्चामसि वीर ब्रह्मवाहो याद् एव विद्म तात् त्वा महान्तम्
अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानम् अभि तत् सु तिष्ठ । तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता नुदस्व
स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः । त्वꣳ ह्य् आ३पिः प्रदिवि पितॄणाꣳ शश्वद् बभूथ सुहव एष्टौ
प्रोतये वरुणम् मित्रम् इन्द्रम् मरुतः कृष्वावसे नो अद्य । प्र पूषणꣳ विष्णुम् अग्निम् पुरꣳधिꣳ सवितारम् ओषधीः पर्वताꣳश् च
इम उ त्वा पुरुशाक प्रयज्यो जरितारो अभ्य् अर्चन्त्य् अर्कैः । श्रुधी हवम् आ हुवतो हुवानो न त्वावाꣳ अन्यो अमृत त्वद् अस्ति
नू म आ वाचम् उप याहि विद्वान् विश्वेभिः सूनो सहसो यजत्रैः । ये अग्निजिह्वा ऋतसाप आसुर् ये मनुꣳ चक्रुर् उपरꣳ दसाय
स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद् विदानः । ये अश्रमास उरवो वहिष्ठास् तेभिर् न इन्द्राभि वक्षि वाजम्
य एक इद् धव्यश् चर्षणीनाम् इन्द्रꣳ तꣳ गीर्भिर् अभ्य् अर्च आभिः । यः पत्यते वृषभो वृष्ण्यावान् सत्यः सत्वा पुरुमायः सहस्वान्
तम् उ नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः । नक्षद्दाभꣳ ततुरिम् पर्वतेष्ठाम् अद्रोघवाचम् मतिभिः शविष्ठम्
तम् ईमह इन्द्रम् अस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः । यो अस्कृधोयुर् अजरः स्वर्वान् तम् आ भर हरिवो मादयध्यै
तन् नो वि वोचो यदि ते पुरा चिज् जरितार आनशुः सुम्नम् इन्द्र । कस् ते भागः किꣳ वयो दुध्र खिद्वः पुरुहूत पुरूवसो ऽसुरघ्नः
तम् पृच्छन्ती वज्रहस्तꣳ रथेष्ठाम् इन्द्रꣳ वेपी वक्वरी यस्य नू गीः । तुविग्राभꣳ तुविकूर्मिꣳ रभोदाꣳ गातुम् इषे नक्षते तुम्रम् अच्छ
अया ह त्यम् मायया वावृधानम् मनोजुवा स्वतवः पर्वतेन । अच्युता चिद् वीळिता स्वोजो रुजो वि दृळ्हा धृषता विरप्शिन्
तꣳ वो धिया नव्यस्या शविष्ठम् प्रत्नम् प्रत्नवत् परितꣳसयध्यै । स नो वक्षद् अनिमानः सुवह्मेन्द्रो विश्वान्य् अति दुर्गहाणि
आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयो ऽन्तरिक्षा । तपा वृषन् विश्वतः शोचिषा तान् ब्रह्मद्विषे शोचय क्षाम् अपश् च
भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस् त्वेषसꣳदृक् । धिष्व वज्रꣳ दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः
आ सꣳयतम् इन्द्र णः स्वस्तिꣳ शत्रुतूर्याय बृहतीम् अमृध्राम् । यया दासान्य् आर्याणि वृत्रा करो वज्रिन् सुतुका नाहुषाणि
स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिर् आ गहि प्रयज्यो । न या अदेवो वरते न देव आभिर् याहि तूयम् आ मद्र्यद्रिक्
सुत इत् त्वꣳ निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमान उक्थे । यद् वा युक्ताभ्याम् मघवन् हरिभ्याम् बिभ्रद् वज्रम् बाह्वोर् इन्द्र यासि
यद् वा दिवि पार्ये सुष्विम् इन्द्र वृत्रहत्ये ऽवसि शूरसातौ । यद् वा दक्षस्य बिभ्युषो अबिभ्यद् अरन्धयः शर्धत इन्द्र दस्यून्
पाता सुतम् इन्द्रो अस्तु सोमम् प्रणेनीर् उग्रो जरितारम् ऊती । कर्ता वीराय सुष्वय उ लोकꣳ दाता वसु स्तुवते कीरये चित्
गन्तेयान्ति सवना हरिभ्याम् बभ्रिर् वज्रम् पपिः सोमꣳ ददिर् गाः । कर्ता वीरꣳ नर्यꣳ सर्ववीरꣳ श्रोता हवꣳ गृणतः स्तोमवाहाः
अस्मै वयꣳ यद् वावान तद् विविष्म इन्द्राय यो नः प्रदिवो अपस् कः । सुते सोमे स्तुमसि शꣳसद् उक्थेन्द्राय ब्रह्म वर्धनꣳ यथासत्
ब्रह्माणि हि चकृषे वर्धनानि तावत् त इन्द्र मतिभिर् विविष्मः । सुते सोमे सुतपाः शꣳतमानि राण्ड्या क्रियास्म वक्षणानि यज्ञैः
स नो बोधि पुरोळाशꣳ रराणः पिबा तु सोमꣳ गोऋजीकम् इन्द्र । एदम् बर्हिर् यजमानस्य सीदोरुꣳ कृधि त्वायत उ लोकम्
स मन्दस्वा ह्य् अनु जोषम् उग्र प्र त्वा यज्ञास इमे अश्नुवन्तु । प्रेमे हवासः पुरुहूतम् अस्मे आ त्वेयꣳ धीर् अवस इन्द्र यम्याः
तꣳ वः सखायः सꣳ यथा सुतेषु सोमेभिर् ईम् पृणता भोजम् इन्द्रम् । कुवित् तस्मा असति नो भराय न सुष्विम् इन्द्रो ऽवसे मृधाति
एवेद् इन्द्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयद् इन् मघोनः । असद् यथा जरित्र उत सूरिर् इन्द्रो रायो विश्ववारस्य दाता
वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा ऋजीषी । अर्चत्र्यो मघवा नृभ्य उक्थैर् द्युक्षो राजा गिराम् अक्षितोतिः
ततुरिर् वीरो नर्यो विचेताः श्रोता हवꣳ गृणत उर्व्यूतिः । वसुः शꣳसो नराꣳ कारुधाया वाजी स्तुतो विदथे दाति वाजम्
अक्षो न चक्र्योः शूर बृहन् प्र ते मह्ना रिरिचे रोदस्योः । वृक्षस्य नु ते पुरुहूत वया व्य् ऊ३तयो रुरुहुर् इन्द्र पूर्वीः
शचीवतस् ते पुरुशाक शाका गवाम् इव स्रुतयः सꣳचरणीः । वत्सानाꣳ न तन्तयस् त इन्द्र दामन्वन्तो अदामानः सुदामन्
अन्यद् अद्य कर्वरम् अन्यद् उ श्वो ऽसच् च सन् मुहुर् आचक्रिर् इन्द्रः । मित्रो नो अत्र वरुणश् च पूषार्यो वशस्य पर्येतास्ति
वि त्वद् आपो न पर्वतस्य पृष्ठाद् उक्थेभिर् इन्द्रानयन्त यज्ञैः । तꣳ त्वाभिः सुष्टुतिभिर् वाजयन्त आजिꣳ न जग्मुर् गिर्वाहो अश्वाः
न यꣳ जरन्ति शरदो न मासा न द्याव इन्द्रम् अवकर्शयन्ति । वृद्धस्य चिद् वर्धताम् अस्य तनूः स्तोमेभिर् उक्थैश् च शस्यमाना
न वीळवे नमते न स्थिराय न शर्धते दस्युजूताय स्तवान् । अज्रा इन्द्रस्य गिरयश् चिद् ऋष्वा गम्भीरे चिद् भवति गाधम् अस्मै
गम्भीरेण न उरुणामत्रिन् प्रेषो यन्धि सुतपावन् वाजान् । स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्न् अक्तोर् व्युष्टौ परितक्म्यायाम्
सचस्व नायम् अवसे अभीक इतो वा तम् इन्द्र पाहि रिषः । अमा चैनम् अरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः
या त ऊतिर् अवमा या परमा या मध्यमेन्द्र शुष्मिन्न् अस्ति । ताभिर् ऊ षु वृत्रहत्ये ऽवीर् न एभिश् च वाजैर् महान् न उग्र
आभिः स्पृधो मिथतीर् अरिषण्यन्न् अमित्रस्य व्यथया मन्युम् इन्द्र । आभिर् विश्वा अभियुजो विषूचीर् आर्याय विशो ऽव तारीर् दासीः
इन्द्र जामय उत ये ऽजामयो ऽर्वाचीनासो वनुषो युयुज्रे । त्वम् एषाꣳ विथुरा शवाꣳसि जहि वृष्ण्यानि कृणुही पराचः
शूरो वा शूरꣳ वनते शरीरैस् तनूरुचा तरुषि यत् कृण्वैते । तोके वा गोषु तनये यद् अप्सु वि क्रन्दसी उर्वरासु ब्रवैते
नहि त्वा शूरो न तुरो न धृष्णुर् न त्वा योधो मन्यमानो युयोध । इन्द्र नकिष् ट्वा प्रत्य् अस्त्य् एषाꣳ विश्वा जातान्य् अभ्य् असि तानि
स पत्यत उभयोर् नृम्णम् अयोर् यदी वेधसः समिथे हवन्ते । वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते
अध स्मा ते चर्षणयो यद् एजान् इन्द्र त्रातोत भवा वरूता । अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः
अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वम् अनु वृत्रहत्ये । अनु क्षत्रम् अनु सहो यजत्रेन्द्र देवेभिर् अनु ते नृषह्ये
एवा नः स्पृधः सम् अजा समत्स्व् इन्द्र रारन्धि मिथतीर् अदेवीः । विद्याम वस्तोर् अवसा गृणन्तो भरद्वाजा उत त इन्द्र नूनम्
श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः । सꣳ यद् विशो ऽयन्त शूरसाता उग्रꣳ नो ऽवः पार्ये अहन् दाः
त्वाꣳ वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ । त्वाꣳ वृत्रेष्व् इन्द्र सत्पतिꣳ तरुत्रꣳ त्वाꣳ चष्टे मुष्टिहा गोषु युध्यन्
त्वꣳ कविꣳ चोदयो ऽर्कसातौ त्वꣳ कुत्साय शुष्णꣳ दाशुषे वर्क् । त्वꣳ शिरो अमर्मणः पराहन्न् अतिथिग्वाय शꣳस्यꣳ करिष्यन्
त्वꣳ रथम् प्र भरो योधम् ऋष्वम् आवो युध्यन्तꣳ वृषभꣳ दशद्युम् । त्वꣳ तुग्रꣳ वेतसवे सचाहन् त्वꣳ तुजिꣳ गृणन्तम् इन्द्र तूतोः
त्वꣳ तद् उक्थम् इन्द्र बर्हणा कः प्र यच् छता सहस्रा शूर दर्षि । अव गिरेर् दासꣳ शम्बरꣳ हन् प्रावो दिवोदासꣳ चित्राभिर् ऊती
त्वꣳ श्रद्धाभिर् मन्दसानः सोमैर् दभीतये चुमुरिम् इन्द्र सिष्वप् । त्वꣳ रजिम् पिठीनसे दशस्यन् षष्टिꣳ सहस्रा शच्या सचाहन्
अहꣳ चन तत् सूरिभिर् आनश्याꣳ तव ज्याय इन्द्र सुम्नम् ओजः । त्वया यत् स्तवन्ते सधवीर वीरास् त्रिवरूथेन नहुषा शविष्ठ
वयꣳ ते अस्याम् इन्द्र द्युम्नहूतौ सखायः स्याम महिन प्रेष्ठाः । प्रातर्दनिः क्षत्रश्रीर् अस्तु श्रेष्ठो घने वृत्राणाꣳ सनये धनानाम्
किम् अस्य मदे किम् व् अस्य पीताव् इन्द्रः किम् अस्य सख्ये चकार । रणा वा ये निषदि किꣳ ते अस्य पुरा विविद्रे किम् उ नूतनासः
सद् अस्य मदे सद् व् अस्य पीताव् इन्द्रः सद् अस्य सख्ये चकार । रणा वा ये निषदि सत् ते अस्य पुरा विविद्रे सद् उ नूतनासः
नहि नु ते महिमनः समस्य न मघवन् मघवत्त्वस्य विद्म । न राधसो-राधसो नूतनस्येन्द्र नकिर् ददृश इन्द्रियꣳ ते
एतत् त्यत् त इन्द्रियम् अचेति येनावधीर् वरशिखस्य शेषः । वज्रस्य यत् ते निहतस्य शुष्मात् स्वनाच् चिद् इन्द्र परमो ददार
वधीद् इन्द्रो वरशिखस्य शेषो ऽभ्यावर्तिने चायमानाय शिक्षन् । वृचीवतो यद् धरियूपीयायाꣳ हन् पूर्वे अर्धे भियसापरो दर्त्
त्रिꣳशच्छतꣳ वर्मिण इन्द्र साकꣳ यव्यावत्याम् पुरुहूत श्रवस्या । वृचीवन्तः शरवे पत्यमानाः पात्रा भिन्दाना न्यर्थान्य् आयन्
यस्य गावाव् अरुषा सूयवस्यू अन्तर् ऊ षु चरतो रेरिहाणा । स सृञ्जयाय तुर्वशम् परादाद् वृचीवतो दैववाताय शिक्षन्
द्वयाꣳ अग्ने रथिनो विꣳशतिꣳ गा वधूमतो मघवा मह्यꣳ सम्राट् । अभ्यावर्ती चायमानो ददाति दूणाशेयꣳ दक्षिणा पार्थवानाम्
आ गावो अग्मन्न् उत भद्रम् अक्रन् सीदन्तु गोष्ठे रणयन्त्व् अस्मे । प्रजावतीः पुरुरूपा इह स्युर् इन्द्राय पूर्वीर् उषसो दुहानाः
इन्द्रो यज्वने पृणते च शिक्षत्य् उपेद् ददाति न स्वम् मुषायति । भूयो-भूयो रयिम् इद् अस्य वर्धयन्न् अभिन्ने खिल्ये नि दधाति देवयुम्
न ता नशन्ति न दभाति तस्करो नासाम् आमित्रो व्यथिर् आ दधर्षति । देवाꣳश् च याभिर् यजते ददाति च ज्योग् इत् ताभिः सचते गोपतिः सह
न ता अर्वा रेणुककाटो अश्नुते न सꣳस्कृतत्रम् उप यन्ति ता अभि । उरुगायम् अभयꣳ तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः
गावो भगो गाव इन्द्रो मे अच्छान् गावः सोमस्य प्रथमस्य भक्षः । इमा या गावः स जनास इन्द्र इच्छामीद् धृदा मनसा चिद् इन्द्रम्
यूयꣳ गावो मेदयथा कृशꣳ चिद् अश्रीरꣳ चित् कृणुथा सुप्रतीकम् । भद्रꣳ गृहꣳ कृणुथ भद्रवाचो बृहद् वो वय उच्यते सभासु
प्रजावतीः सूयवसꣳ रिशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः । मा वः स्तेन ईशत माघशꣳसः परि वो हेती रुद्रस्य वृज्याः
उपेदम् उपपर्चनम् आसु गोषूप पृच्यताम् । उप ऋषभस्य रेतस्य् उपेन्द्र तव वीर्ये
इन्द्रꣳ वो नरः सख्याय सेपुर् महो यन्तः सुमतये चकानाः । महो हि दाता वज्रहस्तो अस्ति महाम् उ रण्वम् अवसे यजध्वम्
आ यस्मिन् हस्ते नर्या मिमिक्षुर् आ रथे हिरण्यये रथेष्ठाः । आ रश्मयो गभस्त्योः स्थूरयोर् आध्वन्न् अश्वासो वृषणो युजानाः
श्रिये ते पादा दुव आ मिमिक्षुर् धृष्णुर् वज्री शवसा दक्षिणावान् । वसानो अत्कꣳ सुरभिꣳ दृशे कꣳ स्व१र् ण नृतव् इषिरो बभूथ
स सोम आमिश्लतमः सुतो भूद् यस्मिन् पक्तिः पच्यते सन्ति धानाः । इन्द्रꣳ नरः स्तुवन्तो ब्रह्मकारा उक्था शꣳसन्तो देववाततमाः
न ते अन्तः शवसो धाय्य् अस्य वि तु बाबधे रोदसी महित्वा । आ ता सूरिः पृणति तूतुजानो यूथेवाप्सु समीजमान ऊती
एवेद् इन्द्रः सुहव ऋष्वो अस्तूती अनूती हिरिशिप्रः सत्वा । एवा हि जातो असमात्योजाः पुरू च वृत्रा हनति नि दस्यून्
भूय इद् वावृधे वीर्यायꣳ एको अजुर्यो दयते वसूनि । प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धम् इद् अस्य प्रति रोदसी उभे
अधा मन्ये बृहद् असुर्यम् अस्य यानि दाधार नकिर् आ मिनाति । दिवे-दिवे सूर्यो दर्शतो भूद् वि सद्मान्य् उर्विया सुक्रतुर् धात्
अद्या चिन् नू चित् तद् अपो नदीनाꣳ यद् आभ्यो अरदो गातुम् इन्द्र । नि पर्वता अद्मसदो न सेदुस् त्वया दृळ्हानि सुक्रतो रजाꣳसि
सत्यम् इत् तन् न त्वावाꣳ अन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान् । अहन्न् अहिम् परिशयानम् अर्णो ऽवासृजो अपो अच्छा समुद्रम्
त्वम् अपो वि दुरो विषूचीर् इन्द्र दृळ्हम् अरुजः पर्वतस्य । राजाभवो जगतश् चर्षणीनाꣳ साकꣳ सूर्यꣳ जनयन् द्याम् उषासम्
अभूर् एको रयिपते रयीणाम् आ हस्तयोर् अधिथा इन्द्र कृष्टीः । वि तोके अप्सु तनये च सूरे ऽवोचन्त चर्षणयो विवाचः
त्वद् भियेन्द्र पार्थिवानि विश्वाच्युता चिच् च्यावयन्ते रजाꣳसि । द्यावाक्षामा पर्वतासो वनानि विश्वꣳ दृळ्हम् भयते अज्मन्न् आ ते
त्वꣳ कुत्सेनाभि शुष्णम् इन्द्राशुषꣳ युध्य कुयवꣳ गविष्टौ । दश प्रपित्वे अध सूर्यस्य मुषायश् चक्रम् अविवे रपाꣳसि
त्वꣳ शतान्य् अव शम्बरस्य पुरो जघन्थाप्रतीनि दस्योः । अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गृणते वसूनि
स सत्यसत्वन् महते रणाय रथम् आ तिष्ठ तुविनृम्ण भीमम् । याहि प्रपथिन्न् अवसोप मद्रिक् प्र च श्रुत श्रावय चर्षणिभ्यः
अपूर्व्या पुरुतमान्य् अस्मै महे वीराय तवसे तुराय । विरप्शिने वज्रिणे शꣳतमानि वचाꣳस्य् आसा स्थविराय तक्षम्
स मातरा सूर्येणा कवीनाम् अवासयद् रुजद् अद्रिꣳ गृणानः । स्वाधीभिर् ऋक्वभिर् वावशान उद् उस्रियाणाम् असृजन् निदानम्
स वह्निभिर् ऋक्वभिर् गोषु शश्वन् मितज्ञुभिः पुरुकृत्वा जिगाय । पुरः पुरोहा सखिभिः सखीयन् दृळ्हा रुरोज कविभिः कविः सन्
स नीव्याभिर् जरितारम् अच्छा महो वाजेभिर् महद्भिश् च शुष्मैः । पुरुवीराभिर् वृषभ क्षितीनाम् आ गिर्वणः सुविताय प्र याहि
स सर्गेण शवसा तक्तो अत्यैर् अप इन्द्रो दक्षिणतस् तुराषाट् । इत्था सृजाना अनपावृद् अर्थꣳ दिवे-दिवे विविषुर् अप्रमृष्यम्
य ओजिष्ठ इन्द्र तꣳ सु नो दा मदो वृषन् स्वभिष्टिर् दास्वान् । सौवश्व्यꣳ यो वनवत् स्वश्वो वृत्रा समत्सु सासहद् अमित्रान्
त्वाꣳ ही३न्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ । त्वꣳ विप्रेभिर् वि पणीꣳर् अशायस् त्वोत इत् सनिता वाजम् अर्वा
त्वꣳ ताꣳ इन्द्रोभयाꣳ अमित्रान् दासा वृत्राण्य् आर्या च शूर । वधीर् वनेव सुधितेभिर् अत्कैर् आ पृत्सु दर्षि नृणाꣳ नृतम
स त्वꣳ न इन्द्राकवाभिर् ऊती सखा विश्वायुर् अविता वृधे भूः । स्वर्षाता यद् ध्वयामसि त्वा युध्यन्तो नेमधिता पृत्सु शूर
नूनꣳ न इन्द्रापराय च स्या भवा मृळीक उत नो अभिष्टौ । इत्था गृणन्तो महिनस्य शर्मन् दिवि ष्याम पार्ये गोषतमाः
सꣳ च त्वे जग्मुर् गिर इन्द्र पूर्वीर् वि च त्वद् यन्ति विभ्वो मनीषाः । पुरा नूनꣳ च स्तुतय ऋषीणाम् पस्पृध्र इन्द्रे अध्य् उक्थार्का
पुरुहूतो यः पुरुगूर्त ऋभ्वाꣳ एकः पुरुप्रशस्तो अस्ति यज्ञैः । रथो न महे शवसे युजानो३ ऽस्माभिर् इन्द्रो अनुमाद्यो भूत्
न यꣳ हिꣳसन्ति धीतयो न वाणीर् इन्द्रꣳ नक्षन्तीद् अभि वर्धयन्तीः । यदि स्तोतारः शतꣳ यत् सहस्रꣳ गृणन्ति गिर्वणसꣳ शꣳ तद् अस्मै
अस्मा एतद् दिव्य् अ१र्चेव मासा मिमिक्ष इन्द्रे न्य् अयामि सोमः । जनꣳ न धन्वन्न् अभि सꣳ यद् आपः सत्रा वावृधुर् हवनानि यज्ञैः
अस्मा एतन् मह्य् आङ्गूषम् अस्मा इन्द्राय स्तोत्रम् मतिभिर् अवाचि । असद् यथा महति वृत्रतूर्य इन्द्रो विश्वायुर् अविता वृधश् च
कदा भुवन् रथक्षयाणि ब्रह्म कदा स्तोत्रे सहस्रपोष्यꣳ दाः । कदा स्तोमꣳ वासयो ऽस्य राया कदा धियः करसि वाजरत्नाः
कर्हि स्वित् तद् इन्द्र यन् नृभिर् नॄन् वीरैर् वीरान् नीळयासे जयाजीन् । त्रिधातु गा अधि जयासि गोष्व् इन्द्र द्युम्नꣳ स्वर्वद् धेह्य् अस्मे
कर्हि स्वित् तद् इन्द्र यज् जरित्रे विश्वप्सु ब्रह्म कृणवः शविष्ठ । कदा धियो न नियुतो युवासे कदा गोमघा हवनानि गच्छाः
स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः । पीपिहीषः सुदुघाम् इन्द्र धेनुम् भरद्वाजेषु सुरुचो रुरुच्याः
तम् आ नूनꣳ वृजनम् अन्यथा चिच् छूरो यच् छक्र वि दुरो गृणीषे । मा निर् अरꣳ शुक्रदुघस्य धेनोर् आङ्गिरसान् ब्रह्मणा विप्र जिन्व
सत्रा मदासस् तव विश्वजन्याः सत्रा रायो ऽध ये पार्थिवासः । सत्रा वाजानाम् अभवो विभक्ता यद् देवेषु धारयथा असुर्यम्
अनु प्र येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय । स्यूमगृभे दुधये ऽर्वते च क्रतुꣳ वृञ्जन्त्य् अपि वृत्रहत्ये
तꣳ सध्रीचीर् ऊतयो वृष्ण्यानि पौꣳस्यानि नियुतः सश्चुर् इन्द्रम् । समुद्रꣳ न सिन्धव उक्थशुष्मा उरुव्यचसꣳ गिर आ विशन्ति
स रायस् खाम् उप सृजा गृणानः पुरुश्चन्द्रस्य त्वम् इन्द्र वस्वः । पतिर् बभूथासमो जनानाम् एको विश्वस्य भुवनस्य राजा
स तु श्रुधि श्रुत्या यो दुवोयुर् द्यौर् न भूमाभि रायो अर्यः । असो यथा नः शवसा चकानो युगे-युगे वयसा चेकितानः
अर्वाग् रथꣳ विश्ववारꣳ त उग्रेन्द्र युक्तासो हरयो वहन्तु । कीरिश् चिद् धि त्वा हवते स्वर्वान् ऋधीमहि सधमादस् ते अद्य
प्रो द्रोणे हरयः कर्माग्मन् पुनानास ऋज्यन्तो अभूवन् । इन्द्रो नो अस्य पूर्व्यः पपीयाद् द्युक्षो मदस्य सोम्यस्य राजा
आसस्राणासः शवसानम् अच्छेन्द्रꣳ सुचक्रे रथ्यासो अश्वाः । अभि श्रव ऋज्यन्तो वहेयुर् नू चिन् नु वायोर् अमृतꣳ वि दस्येत्
वरिष्ठो अस्य दक्षिणाम् इयर्तीन्द्रो मघोनाꣳ तुविकूर्मितमः । यया वज्रिवः परियास्य् अꣳहो मघा च धृष्णो दयसे वि सूरीन्
इन्द्रो वाजस्य स्थविरस्य दातेन्द्रो गीर्भिर् वर्धताꣳ वृद्धमहाः । इन्द्रो वृत्रꣳ हनिष्ठो अस्तु सत्वा ता सूरिः पृणति तूतुजानः
अपाद् इत उद् उ नश् चित्रतमो महीम् भर्षद् द्युमतीम् इन्द्रहूतिम् । पन्यसीꣳ धीतिꣳ दैव्यस्य यामञ् जनस्य रातिꣳ वनते सुदानुः
दूराच् चिद् आ वसतो अस्य कर्णा घोषाद् इन्द्रस्य तन्यति ब्रुवाणः । एयम् एनꣳ देवहूतिर् ववृत्यान् मद्र्य१ग् इन्द्रम् इयम् ऋच्यमाना
तꣳ वो धिया परमया पुराजाम् अजरम् इन्द्रम् अभ्य् अनूष्य् अर्कैः । ब्रह्मा च गिरो दधिरे सम् अस्मिन् महाꣳश् च स्तोमो अधि वर्धद् इन्द्रे
वर्धाद् यꣳ यज्ञ उत सोम इन्द्रꣳ वर्धाद् ब्रह्म गिर उक्था च मन्म । वर्धाहैनम् उषसो यामन्न् अक्तोर् वर्धान् मासाः शरदो द्याव इन्द्रम्
एवा जज्ञानꣳ सहसे असामि वावृधानꣳ राधसे च श्रुताय । महाम् उग्रम् अवसे विप्र नूनम् आ विवासेम वृत्रतूर्येषु
मन्द्रस्य कवेर् दिव्यस्य वह्नेर् विप्रमन्मनो वचनस्य मध्वः । अपा नस् तस्य सचनस्य देवेषो युवस्व गृणते गोअग्राः
अयम् उशानः पर्य् अद्रिम् उस्रा ऋतधीतिभिर् ऋतयुग् युजानः । रुजद् अरुग्णꣳ वि वलस्य सानुम् पणीꣳर् वचोभिर् अभि योधद् इन्द्रः
अयꣳ द्योतयद् अद्युतो व्य् अ१क्तून् दोषा वस्तोः शरद इन्दुर् इन्द्र । इमꣳ केतुम् अदधुर् नू चिद् अह्नाꣳ शुचिजन्मन उषसश् चकार
अयꣳ रोचयद् अरुचो रुचानो३ ऽयꣳ वासयद् व्य् ऋ१तेन पूर्वीः । अयम् ईयत ऋतयुग्भिर् अश्वैः स्वर्विदा नाभिना चर्षणिप्राः
नू गृणानो गृणते प्रत्न राजन्न् इषः पिन्व वसुदेयाय पूर्वीः । अप ओषधीर् अविषा वनानि गा अर्वतो नॄन् ऋचसे रिरीहि
इन्द्र पिब तुभ्यꣳ सुतो मदायाव स्य हरी वि मुचा सखाया । उत प्र गाय गण आ निषद्याथा यज्ञाय गृणते वयो धाः
अस्य पिब यस्य जज्ञान इन्द्र मदाय क्रत्वे अपिबो विरप्शिन् । तम् उ ते गावो नर आपो अद्रिर् इन्दुꣳ सम् अह्यन् पीतये सम् अस्मै
समिद्धे अग्नौ सुत इन्द्र सोम आ त्वा वहन्तु हरयो वहिष्ठाः । त्वायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः
आ याहि शश्वद् उशता ययाथेन्द्र महा मनसा सोमपेयम् । उप ब्रह्माणि शृणव इमा नो ऽथा ते यज्ञस् तन्वे३ वयो धात्
यद् इन्द्र दिवि पार्ये यद् ऋधग् यद् वा स्वे सदने यत्र वासि । अतो नो यज्ञम् अवसे नियुत्वान् सजोषाः पाहि गिर्वणो मरुद्भिः
अहेळमान उप याहि यज्ञꣳ तुभ्यम् पवन्त इन्दवः सुतासः । गावो न वज्रिन् स्वम् ओको अच्छेन्द्रा गहि प्रथमो यज्ञियानाम्
या ते काकुत् सुकृता या वरिष्ठा यया शश्वत् पिबसि मध्व ऊर्मिम् । तया पाहि प्र ते अध्वर्युर् अस्थात् सꣳ ते वज्रो वर्तताम् इन्द्र गव्युः
एष द्रप्सो वृषभो विश्वरूप इन्द्राय वृष्णे सम् अकारि सोमः । एतम् पिब हरिवः स्थातर् उग्र यस्येशिषे प्रदिवि यस् ते अन्नम्
सुतः सोमो असुताद् इन्द्र वस्यान् अयꣳ श्रेयाञ् चिकितुषे रणाय । एतꣳ तितिर्व उप याहि यज्ञꣳ तेन विश्वास् तविषीर् आ पृणस्व
ह्वयामसि त्वेन्द्र याह्य् अर्वाङ् अरꣳ ते सोमस् तन्वे भवाति । शतक्रतो मादयस्वा सुतेषु प्रास्माꣳ अव पृतनासु प्र विक्षु
प्रत्य् अस्मै पिपीषते विश्वानि विदुषे भर । अरꣳगमाय जग्मये ऽपश्चाद्दघ्वने नरे
एम् एनम् प्रत्येतन सोमेभिः सोमपातमम् । अमत्रेभिर् ऋजीषिणम् इन्द्रꣳ सुतेभिर् इन्दुभिः
यदी सुतेभिर् इन्दुभिः सोमेभिः प्रतिभूषथ । वेदा विश्वस्य मेधिरो धृषत् तꣳ-तम् इद् एषते
अस्मा-अस्मा इद् अन्धसो ऽध्वर्यो प्र भरा सुतम् । कुवित् समस्य जेन्यस्य शर्धतो ऽभिशस्तेर् अवस्परत्
यस्य त्यच् छम्बरम् मदे दिवोदासाय रन्धयः । अयꣳ स सोम इन्द्र ते सुतः पिब
यस्य तीव्रसुतम् मदम् मध्यम् अन्तꣳ च रक्षसे । अयꣳ स सोम इन्द्र ते सुतः पिब
यस्य गा अन्तर् अश्मनो मदे दृळ्हा अवासृजः । अयꣳ स सोम इन्द्र ते सुतः पिब
यस्य मन्दानो अन्धसो माघोनꣳ दधिषे शवः । अयꣳ स सोम इन्द्र ते सुतः पिब
यो रयिवो रयिꣳतमो यो द्युम्नैर् द्युम्नवत्तमः । सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः
यः शग्मस् तुविशग्म ते रायो दामा मतीनाम् । सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः
येन वृद्धो न शवसा तुरो न स्वाभिर् ऊतिभिः । सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः
त्यम् उ वो अप्रहणꣳ गृणीषे शवसस् पतिम् । इन्द्रꣳ विश्वासाहꣳ नरम् मꣳहिष्ठꣳ विश्वचर्षणिम्
यꣳ वर्धयन्तीद् गिरः पतिꣳ तुरस्य राधसः । तम् इन् न्व् अस्य रोदसी देवी शुष्मꣳ सपर्यतः
तद् व उक्थस्य बर्हणेन्द्रायोपस्तृणीषणि । विपो न यस्योतयो वि यद् रोहन्ति सक्षितः
अविदद् दक्षम् मित्रो नवीयान् पपानो देवेभ्यो वस्यो अचैत् । ससवान् स्तौलाभिर् धौतरीभिर् उरुष्या पायुर् अभवत् सखिभ्यः
ऋतस्य पथि वेधा अपायि श्रिये मनाꣳसि देवासो अक्रन् । दधानो नाम महो वचोभिर् वपुर् दृशये वेन्यो व्य् आवः
द्युमत्तमꣳ दक्षꣳ धेह्य् अस्मे सेधा जनानाम् पूर्वीर् अरातीः । वर्षीयो वयः कृणुहि शचीभिर् धनस्य साताव् अस्माꣳ अविड्ढि
इन्द्र तुभ्यम् इन् मघवन्न् अभूम वयꣳ दात्रे हरिवो मा वि वेनः । नकिर् आपिर् ददृशे मर्त्यत्रा किम् अङ्ग रध्रचोदनꣳ त्वाहुः
मा जस्वने वृषभ नो ररीथा मा ते रेवतः सख्ये रिषाम । पूर्वीष् ट इन्द्र निष्षिधो जनेषु जह्य् असुष्वीन् प्र वृहापृणतः
उद् अभ्राणीव स्तनयन्न् इयर्तीन्द्रो राधाꣳस्य् अश्व्यानि गव्या । त्वम् असि प्रदिवः कारुधाया मा त्वादामान आ दभन् मघोनः
अध्वर्यो वीर प्र महे सुतानाम् इन्द्राय भर स ह्य् अस्य राजा । यः पूर्व्याभिर् उत नूतनाभिर् गीर्भिर् वावृधे गृणताम् ऋषीणाम्
अस्य मदे पुरु वर्पाꣳसि विद्वान् इन्द्रो वृत्राण्य् अप्रती जघान । तम् उ प्र होषि मधुमन्तम् अस्मै सोमꣳ वीराय शिप्रिणे पिबध्यै
पाता सुतम् इन्द्रो अस्तु सोमꣳ हन्ता वृत्रꣳ वज्रेण मन्दसानः । गन्ता यज्ञम् परावतश् चिद् अच्छा वसुर् धीनाम् अविता कारुधायाः
इदꣳ त्यत् पात्रम् इन्द्रपानम् इन्द्रस्य प्रियम् अमृतम् अपायि । मत्सद् यथा सौमनसाय देवꣳ व्य् अ१स्मद् द्वेषो युयवद् व्य् अꣳहः
एना मन्दानो जहि शूर शत्रूञ् जामिम् अजामिम् मघवन्न् अमित्रान् । अभिषेणाꣳ अभ्य् आ३देदिशानान् पराच इन्द्र प्र मृणा जही च
आसु ष्मा णो मघवन्न् इन्द्र पृत्स्व् अ१स्मभ्यम् महि वरिवः सुगꣳ कः । अपाꣳ तोकस्य तनयस्य जेष इन्द्र सूरीन् कृणुहि स्मा नो अर्धम्
आ त्वा हरयो वृषणो युजाना वृषरथासो वृषरश्मयो ऽत्याः । अस्मत्राञ्चो वृषणो वज्रवाहो वृष्णे मदाय सुयुजो वहन्तु
आ ते वृषन् वृषणो द्रोणम् अस्थुर् घृतप्रुषो नोर्मयो मदन्तः । इन्द्र प्र तुभ्यꣳ वृषभिः सुतानाꣳ वृष्णे भरन्ति वृषभाय सोमम्
वृषासि दिवो वृषभः पृथिव्या वृषा सिन्धूनाꣳ वृषभः स्तियानाम् । वृष्णे त इन्दुर् वृषभ पीपाय स्वादू रसो मधुपेयो वराय
अयꣳ देवः सहसा जायमान इन्द्रेण युजा पणिम् अस्तभायत् । अयꣳ स्वस्य पितुर् आयुधानीन्दुर् अमुष्णाद् अशिवस्य मायाः
अयम् अकृणोद् उषसः सुपत्नीर् अयꣳ सूर्ये अदधाज् ज्योतिर् अन्तः । अयꣳ त्रिधातु दिवि रोचनेषु त्रितेषु विन्दद् अमृतꣳ निगूळ्हम्
अयꣳ द्यावापृथिवी वि ष्कभायद् अयꣳ रथम् अयुनक् सप्तरश्मिम् । अयꣳ गोषु शच्या पक्वम् अन्तः सोमो दाधार दशयन्त्रम् उत्सम्
य आनयत् परावतः सुनीती तुर्वशꣳ यदुम् । इन्द्रः स नो युवा सखा
अविप्रे चिद् वयो दधद् अनाशुना चिद् अर्वता । इन्द्रो जेता हितꣳ धनम्
महीर् अस्य प्रणीतयः पूर्वीर् उत प्रशस्तयः । नास्य क्षीयन्त ऊतयः
सखायो ब्रह्मवाहसे ऽर्चत प्र च गायत । स हि नः प्रमतिर् मही
त्वम् एकस्य वृत्रहन्न् अविता द्वयोर् असि । उतेदृशे यथा वयम्
नयसीद् व् अति द्विषः कृणोष्य् उक्थशꣳसिनः । नृभिः सुवीर उच्यसे
ब्रह्माणम् ब्रह्मवाहसꣳ गीर्भिः सखायम् ऋग्मियम् । गाꣳ न दोहसे हुवे
यस्य विश्वानि हस्तयोर् ऊचुर् वसूनि नि द्विता । वीरस्य पृतनाषहः
वि दृळ्हानि चिद् अद्रिवो जनानाꣳ शचीपते । वृह माया अनानत
तम् उ त्वा सत्य सोमपा इन्द्र वाजानाम् पते । अहूमहि श्रवस्यवः
तम् उ त्वा यः पुरासिथ यो वा नूनꣳ हिते धने । हव्यः स श्रुधी हवम्
धीभिर् अर्वद्भिर् अर्वतो वाजाꣳ इन्द्र श्रवाय्यान् । त्वया जेष्म हितꣳ धनम्
अभूर् उ वीर गिर्वणो महाꣳ इन्द्र धने हिते । भरे वितन्तसाय्यः
या त ऊतिर् अमित्रहन् मक्षूजवस्तमासति । तया नो हिनुही रथम्
स रथेन रथीतमो ऽस्माकेनाभियुग्वना । जेषि जिष्णो हितꣳ धनम्
य एक इत् तम् उ ष्टुहि कृष्टीनाꣳ विचर्षणिः । पतिर् जज्ञे वृषक्रतुः
यो गृणताम् इद् आसिथापिर् ऊती शिवः सखा । स त्वꣳ न इन्द्र मृळय
धिष्व वज्रꣳ गभस्त्यो रक्षोहत्याय वज्रिवः । सासहीष्ठा अभि स्पृधः
प्रत्नꣳ रयीणाꣳ युजꣳ सखायꣳ कीरिचोदनम् । ब्रह्मवाहस्तमꣳ हुवे
स हि विश्वानि पार्थिवाꣳ एको वसूनि पत्यते । गिर्वणस्तमो अध्रिगुः
स नो नियुद्भिर् आ पृण कामꣳ वाजेभिर् अश्विभिः । गोमद्भिर् गोपते धृषत्
तद् वो गाय सुते सचा पुरुहूताय सत्वने । शꣳ यद् गवे न शाकिने
न घा वसुर् नि यमते दानꣳ वाजस्य गोमतः । यत् सीम् उप श्रवद् गिरः
कुवित्सस्य प्र हि व्रजꣳ गोमन्तꣳ दस्युहा गमत् । शचीभिर् अप नो वरत्
इमा उ त्वा शतक्रतो ऽभि प्र णोनुवुर् गिरः । इन्द्र वत्सꣳ न मातरः
दूणाशꣳ सख्यꣳ तव गौर् असि वीर गव्यते । अश्वो अश्वायते भव
स मन्दस्वा ह्य् अन्धसो राधसे तन्वा महे । न स्तोतारꣳ निदे करः
इमा उ त्वा सुते-सुते नक्षन्ते गिर्वणो गिरः । वत्सꣳ गावो न धेनवः
पुरूतमम् पुरूणाꣳ स्तोतॄणाꣳ विवाचि । वाजेभिर् वाजयताम्
अस्माकम् इन्द्र भूतु ते स्तोमो वाहिष्ठो अन्तमः । अस्मान् राये महे हिनु
अधि बृबुः पणीनाꣳ वर्षिष्ठे मूर्धन्न् अस्थात् । उरुः कक्षो न गाङ्ग्यः
यस्य वायोर् इव द्रवद् भद्रा रातिः सहस्रिणी । सद्यो दानाय मꣳहते
तत् सु नो विश्वे अर्य आ सदा गृणन्ति कारवः । बृबुꣳ सहस्रदातमꣳ सूरिꣳ सहस्रसातमम्
त्वाम् इद् धि हवामहे साता वाजस्य कारवः । त्वाꣳ वृत्रेष्व् इन्द्र सत्पतिꣳ नरस् त्वाꣳ काष्ठास्व् अर्वतः
स त्वꣳ नश् चित्र वज्रहस्त धृष्णुया महः स्तवानो अद्रिवः । गाम् अश्वꣳ रथ्यम् इन्द्र सꣳ किर सत्रा वाजꣳ न जिग्युषे
यः सत्राहा विचर्षणिर् इन्द्रꣳ तꣳ हूमहे वयम् । सहस्रमुष्क तुविनृम्ण सत्पते भवा समत्सु नो वृधे
बाधसे जनान् वृषभेव मन्युना घृषौ मीळ्ह ऋचीषम । अस्माकम् बोध्य् अविता महाधने तनूष्व् अप्सु सूर्ये
इन्द्र ज्येष्ठꣳ न आ भरꣳ ओजिष्ठम् पपुरि श्रवः । येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः
त्वाम् उग्रम् अवसे चर्षणीसहꣳ राजन् देवेषु हूमहे । विश्वा सु नो विथुरा पिब्दना वसो ऽमित्रान् सुषहान् कृधि
यद् इन्द्र नाहुषीष्व् आꣳ ओजो नृम्णꣳ च कृष्टिषु । यद् वा पञ्च क्षितीनाꣳ द्युम्नम् आ भर सत्रा विश्वानि पौꣳस्या
यद् वा तृक्षौ मघवन् द्रुह्याव् आ जने यत् पूरौ कच् च वृष्ण्यम् । अस्मभ्यꣳ तद् रिरीहि सꣳ नृषाह्ये ऽमित्रान् पृत्सु तुर्वणे
इन्द्र त्रिधातु शरणꣳ त्रिवरूथꣳ स्वस्तिमत् । छर्दिर् यच्छ मघवद्भ्यश् च मह्यꣳ च यावया दिद्युम् एभ्यः
ये गव्यता मनसा शत्रुम् आदभुर् अभिप्रघ्नन्ति धृष्णुया । अध स्मा नो मघवन्न् इन्द्र गिर्वणस् तनूपा अन्तमो भव
अध स्मा नो वृधे भवेन्द्र नायम् अवा युधि । यद् अन्तरिक्षे पतयन्ति पर्णिनो दिद्यवस् तिग्ममूर्धानः
यत्र शूरासस् तन्वो वितन्वते प्रिया शर्म पितॄणाम् । अध स्मा यच्छ तन्वे३ तने च छर्दिर् अचित्तꣳ यावय द्वेषः
यद् इन्द्र सर्गे अर्वतश् चोदयासे महाधने । असमने अध्वनि वृजिने पथि श्येनाꣳ इव श्रवस्यतः
सिन्धूꣳर् इव प्रवण आशुया यतो यदि क्लोशम् अनु ष्वणि । आ ये वयो न वर्वृतत्य् आमिषि गृभीता बाह्वोर् गवि
स्वादुष् किलायम् मधुमाꣳ उतायꣳ तीव्रः किलायꣳ रसवाꣳ उतायम् । उतो न्व् अ१स्य पपिवाꣳसम् इन्द्रꣳ न कश् चन सहत आहवेषु
अयꣳ स्वादुर् इह मदिष्ठ आस यस्येन्द्रो वृत्रहत्ये ममाद । पुरूणि यश् च्यौत्ना शम्बरस्य वि नवतिꣳ नव च देह्यो३ हन्
अयम् मे पीत उद् इयर्ति वाचम् अयम् मनीषाम् उशतीम् अजीगः । अयꣳ षळ् उर्वीर् अमिमीत धीरो न याभ्यो भुवनꣳ कच् चनारे
अयꣳ स यो वरिमाणम् पृथिव्या वर्ष्माणꣳ दिवो अकृणोद् अयꣳ सः । अयम् पीयूषꣳ तिसृषु प्रवत्सु सोमो दाधारोर्व् अ१न्तरिक्षम्
अयꣳ विदच् चित्रदृशीकम् अर्णः शुक्रसद्मनाम् उषसाम् अनीके । अयम् महान् महता स्कम्भनेनोद् द्याम् अस्तभ्नाद् वृषभो मरुत्वान्
धृषत् पिब कलशे सोमम् इन्द्र वृत्रहा शूर समरे वसूनाम् । माध्यꣳदिने सवन आ वृषस्व रयिस्थानो रयिम् अस्मासु धेहि
इन्द्र प्र णः पुरएतेव पश्य प्र नो नय प्रतरꣳ वस्यो अच्छ । भवा सुपारो अतिपारयो नो भवा सुनीतिर् उत वामनीतिः
उरुꣳ नो लोकम् अनु नेषि विद्वान् स्वर्वज् ज्योतिर् अभयꣳ स्वस्ति । ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहन्ता
वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्न् अश्वयोर् आ । इषम् आ वक्षीषाꣳ वर्षिष्ठाम् मा नस् तारीन् मघवन् रायो अर्यः
इन्द्र मृळ मह्यꣳ जीवातुम् इच्छ चोदय धियम् अयसो न धाराम् । यत् किꣳ चाहꣳ त्वायुर् इदꣳ वदामि तज् जुषस्व कृधि मा देववन्तम्
त्रातारम् इन्द्रम् अवितारम् इन्द्रꣳ हवे-हवे सुहवꣳ शूरम् इन्द्रम् । ह्वयामि शक्रम् पुरुहूतम् इन्द्रꣳ स्वस्ति नो मघवा धात्व् इन्द्रः
इन्द्रः सुत्रामा स्ववाꣳ अवोभिः सुमृळीको भवतु विश्ववेदाः । बाधताꣳ द्वेषो अभयꣳ कृणोतु सुवीर्यस्य पतयः स्याम
तस्य वयꣳ सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । स सुत्रामा स्ववाꣳ इन्द्रो अस्मे आराच् चिद् द्वेषः सनुतर् युयोतु
अव त्वे इन्द्र प्रवतो नोर्मिर् गिरो ब्रह्माणि नियुतो धवन्ते । उरू न राधः सवना पुरूण्य् अपो गा वज्रिन् युवसे सम् इन्दून्
क ईꣳ स्तवत् कः पृणात् को यजाते यद् उग्रम् इन् मघवा विश्वहावेत् । पादाव् इव प्रहरन्न् अन्यम्-अन्यꣳ कृणोति पूर्वम् अपरꣳ शचीभिः
शृण्वे वीर उग्रम्-उग्रꣳ दमायन्न् अन्यम्-अन्यम् अतिनेनीयमानः । एधमानद्विळ् उभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान्
परा पूर्वेषाꣳ सख्या वृणक्ति वितर्तुराणो अपरेभिर् एति । अनानुभूतीर् अवधून्वानः पूर्वीर् इन्द्रः शरदस् तर्तरीति
रूपꣳ-रूपम् प्रतिरूपो बभूव तद् अस्य रूपम् प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्य् अस्य हरयः शता दश
युजानो हरिता रथे भूरि त्वष्टेह राजति । को विश्वाहा द्विषतः पक्ष आसत उतासीनेषु सूरिषु
अगव्यूति क्षेत्रम् आगन्म देवा उर्वी सती भूमिर् अꣳहूरणाभूत् । बृहस्पते प्र चिकित्सा गविष्टाव् इत्था सते जरित्र इन्द्र पन्थाम्
दिवे-दिवे सदृशीर् अन्यम् अर्धꣳ कृष्णा असेधद् अप सद्मनो जाः । अहन् दासा वृषभो वस्नयन्तोदव्रजे वर्चिनꣳ शम्बरꣳ च
प्रस्तोक इन् नु राधसस् त इन्द्र दश कोशयीर् दश वाजिनो ऽदात् । दिवोदासाद् अतिथिग्वस्य राधः शाम्बरꣳ वसु प्रत्य् अग्रभीष्म
दशाश्वान् दश कोशान् दश वस्त्राधिभोजना । दशो हिरण्यपिण्डान् दिवोदासाद् असानिषम्
दश रथान् प्रष्टिमतः शतꣳ गा अथर्वभ्यः । अश्वथः पायवे ऽदात्
महि राधो विश्वजन्यꣳ दधानान् भरद्वाजान् सार्ञ्जयो अभ्य् अयष्ट
वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः । गोभिः सꣳनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि
दिवस् पृथिव्याः पर्य् ओज उद्भृतꣳ वनस्पतिभ्यः पर्य् आभृतꣳ सहः । अपाम् ओज्मानम् परि गोभिर् आवृतम् इन्द्रस्य वज्रꣳ हविषा रथꣳ यज
इन्द्रस्य वज्रो मरुताम् अनीकम् मित्रस्य गर्भो वरुणस्य नाभिः । सेमाꣳ नो हव्यदातिꣳ जुषाणो देव रथ प्रति हव्या गृभाय
उप श्वासय पृथिवीम् उत द्याम् पुरुत्रा ते मनुताꣳ विष्ठितꣳ जगत् । स दुन्दुभे सजूर् इन्द्रेण देवैर् दूराद् दवीयो अप सेध शत्रून्
आ क्रन्दय बलम् ओजो न आ धा निः ष्टनिहि दुरिता बाधमानः । अप प्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिर् असि वीळयस्व
आमूर् अज प्रत्यावर्तयेमाः केतुमद् दुन्दुभिर् वावदीति । सम् अश्वपर्णाश् चरन्ति नो नरो ऽस्माकम् इन्द्र रथिनो जयन्तु
यज्ञा-यज्ञा वो अग्नये गिरा-गिरा च दक्षसे । प्र-प्र वयम् अमृतꣳ जातवेदसम् प्रियम् मित्रꣳ न शꣳसिषम्
ऊर्जो नपातꣳ स हिनायम् अस्मयुर् दाशेम हव्यदातये । भुवद् वाजेष्व् अविता भुवद् वृध उत त्राता तनूनाम्
वृषा ह्य् अग्ने अजरो महान् विभास्य् अर्चिषा । अजस्रेण शोचिषा शोशुचच् छुचे सुदीतिभिः सु दीदिहि
महो देवान् यजसि यक्ष्य् आनुषक् तव क्रत्वोत दꣳसना । अर्वाचः सीꣳ कृणुह्य् अग्ने ऽवसे रास्व वाजोत वꣳस्व
यम् आपो अद्रयो वना गर्भम् ऋतस्य पिप्रति । सहसा यो मथितो जायते नृभिः पृथिव्या अधि सानवि
आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि । तिरस् तमो ददृश ऊर्म्यास्व् आ श्यावास्व् अरुषो वृषा श्यावा अरुषो वृषा
बृहद्भिर् अग्ने अर्चिभिः शुक्रेण देव शोचिषा । भरद्वाजे समिधानो यविष्ठ्य रेवन् नः शुक्र दीदिहि द्युमत् पावक दीदिहि
विश्वासाꣳ गृहपतिर् विशाम् असि त्वम् अग्ने मानुषीणाम् । शतम् पूर्भिर् यविष्ठ पाह्य् अꣳहसः समेद्धारꣳ शतꣳ हिमाः स्तोतृभ्यो ये च ददति
त्वꣳ नश् चित्र ऊत्या वसो राधाꣳसि चोदय । अस्य रायस् त्वम् अग्ने रथीर् असि विदा गाधꣳ तुचे तु नः
पर्षि तोकꣳ तनयम् पर्तृभिष् ट्वम् अदब्धैर् अप्रयुत्वभिः । अग्ने हेळाꣳसि दैव्या युयोधि नो ऽदेवानि ह्वराꣳसि च
आ सखायः सबर्दुघाꣳ धेनुम् अजध्वम् उप नव्यसा वचः । सृजध्वम् अनपस्फुराम्
या शर्धाय मारुताय स्वभानवे श्रवो ऽमृत्यु धुक्षत । या मृळीके मरुताꣳ तुराणाꣳ या सुम्नैर् एवयावरी
भरद्वाजायाव धुक्षत द्विता । धेनुꣳ च विश्वदोहसम् इषꣳ च विश्वभोजसम्
तꣳ व इन्द्रꣳ न सुक्रतुꣳ वरुणम् इव मायिनम् । अर्यमणꣳ न मन्द्रꣳ सृप्रभोजसꣳ विष्णुꣳ न स्तुष आदिशे
त्वेषꣳ शर्धो न मारुतꣳ तुविष्वण्य् अनर्वाणम् पूषणꣳ सꣳ यथा शता । सꣳ सहस्रा कारिषच् चर्षणिभ्य आꣳ आविर् गूळ्हा वसू करत् सुवेदा नो वसू करत्
आ मा पूषन्न् उप द्रव शꣳसिषꣳ नु ते अपिकर्ण आघृणे । अघा अर्यो अरातयः
मा काकम्बीरम् उद् वृहो वनस्पतिम् अशस्तीर् वि हि नीनशः । मोत सूरो अह एवा चन ग्रीवा आदधते वेः
दृतेर् इव ते ऽवृकम् अस्तु सख्यम् । अच्छिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः
परो हि मर्त्यैर् असि समो देवैर् उत श्रिया । अभि ख्यः पूषन् पृतनासु नस् त्वम् अवा नूनꣳ यथा पुरा
वामी वामस्य धूतयः प्रणीतिर् अस्तु सूनृता । देवस्य वा मरुतो मर्त्यस्य वेजानस्य प्रयज्यवः
सद्यश् चिद् यस्य चर्कृतिः परि द्याꣳ देवो नैति सूर्यः । त्वेषꣳ शवो दधिरे नाम यज्ञियम् मरुतो वृत्रहꣳ शवो ज्येष्ठꣳ वृत्रहꣳ शवः
सकृद् ध द्यौर् अजायत सकृद् भूमिर् अजायत । पृश्न्या दुग्धꣳ सकृत् पयस् तद् अन्यो नानु जायते
स्तुषे जनꣳ सुव्रतꣳ नव्यसीभिर् गीर्भिर् मित्रावरुणा सुम्नयन्ता । त आ गमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणो मित्रो अग्निः
विशो-विश ईड्यम् अध्वरेष्व् अदृप्तक्रतुम् अरतिꣳ युवत्योः । दिवः शिशुꣳ सहसः सूनुम् अग्निꣳ यज्ञस्य केतुम् अरुषꣳ यजध्यै
अरुषस्य दुहितरा विरूपे स्तृभिर् अन्या पिपिशे सूरो अन्या । मिथस्तुरा विचरन्ती पावके मन्म श्रुतꣳ नक्षत ऋच्यमाने
प्र वायुम् अच्छा बृहती मनीषा बृहद्रयिꣳ विश्ववारꣳ रथप्राम् । द्युतद्यामा नियुतः पत्यमानः कविः कविम् इयक्षसि प्रयज्यो
स मे वपुश् छदयद् अश्विनोर् यो रथो विरुक्मान् मनसा युजानः । येन नरा नासत्येषयध्यै वर्तिर् याथस् तनयाय त्मने च
पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतम् अप्यानि । सत्यश्रुतः कवयो यस्य गीर्भिर् जगतः स्थातर् जगद् आ कृणुध्वम्
पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियꣳ धात् । ग्नाभिर् अच्छिद्रꣳ शरणꣳ सजोषा दुराधर्षꣳ गृणते शर्म यꣳसत्
पथस्-पथः परिपतिꣳ वचस्या कामेन कृतो अभ्य् आनळ् अर्कम् । स नो रासच् छुरुधश् चन्द्राग्रा धियꣳ-धियꣳ सीषधाति प्र पूषा
प्रथमभाजꣳ यशसꣳ वयोधाꣳ सुपाणिꣳ देवꣳ सुगभस्तिम् ऋभ्वम् । होता यक्षद् यजतम् पस्त्यानाम् अग्निस् त्वष्टारꣳ सुहवꣳ विभावा
भुवनस्य पितरꣳ गीर्भिर् आभी रुद्रꣳ दिवा वर्धया रुद्रम् अक्तौ । बृहन्तम् ऋष्वम् अजरꣳ सुषुम्नम् ऋधग् घुवेम कविनेषितासः
आ युवानः कवयो यज्ञियासो मरुतो गन्त गृणतो वरस्याम् । अचित्रꣳ चिद् धि जिन्वथा वृधन्त इत्था नक्षन्तो नरो अङ्गिरस्वत्
प्र वीराय प्र तवसे तुरायाजा यूथेव पशुरक्षिर् अस्तम् । स पिस्पृशति तन्वि श्रुतस्य स्तृभिर् न नाकꣳ वचनस्य विपः
यो रजाꣳसि विममे पार्थिवानि त्रिश् चिद् विष्णुर् मनवे बाधिताय । तस्य ते शर्मन्न् उपदद्यमाने राया मदेम तन्वा३ तना च
तन् नो ऽहिर् बुध्न्यो अद्भिर् अर्कैस् तत् पर्वतस् तत् सविता चनो धात् । तद् ओषधीभिर् अभि रातिषाचो भगः पुरꣳधिर् जिन्वतु प्र राये
नु नो रयिꣳ रथ्यꣳ चर्षणिप्राम् पुरुवीरम् मह ऋतस्य गोपाम् । क्षयꣳ दाताजरꣳ येन जनान् स्पृधो अदेवीर् अभि च क्रमाम विश आदेवीर् अभ्य् अ१श्नवाम
हुवे वो देवीम् अदितिꣳ नमोभिर् मृळीकाय वरुणम् मित्रम् अग्निम् । अभिक्षदाम् अर्यमणꣳ सुशेवꣳ त्रातॄन् देवान् सवितारम् भगꣳ च
सुज्योतिषः सूर्य दक्षपितॄन् अनागास्त्वे सुमहो वीहि देवान् । द्विजन्मानो य ऋतसापः सत्याः स्वर्वन्तो यजता अग्निजिह्वाः
उत द्यावापृथिवी क्षत्रम् उरु बृहद् रोदसी शरणꣳ सुषुम्ने । महस् करथो वरिवो यथा नो ऽस्मे क्षयाय धिषणे अनेहः
आ नो रुद्रस्य सूनवो नमन्ताम् अद्या हूतासो वसवो ऽधृष्टाः । यद् ईम् अर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान्
मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा । श्रुत्वा हवम् मरुतो यद् ध याथ भूमा रेजन्ते अध्वनि प्रविक्ते
अभि त्यꣳ वीरꣳ गिर्वणसम् अर्चेन्द्रम् ब्रह्मणा जरितर् नवेन । श्रवद् इद् धवम् उप च स्तवानो रासद् वाजाꣳ उप महो गृणानः
ओमानम् आपो मानुषीर् अमृक्तꣳ धात तोकाय तनयाय शꣳ योः । यूयꣳ हि ष्ठा भिषजो मातृतमा विश्वस्य स्थातुर् जगतो जनित्रीः
आ नो देवः सविता त्रायमाणो हिरण्यपाणिर् यजतो जगम्यात् । यो दत्रवाꣳ उषसो न प्रतीकꣳ व्यूर्णुते दाशुषे वार्याणि
उत त्वꣳ सूनो सहसो नो अद्या देवाꣳ अस्मिन्न् अध्वरे ववृत्याः । स्याम् अहꣳ ते सदम् इद् रातौ तव स्याम् अग्ने ऽवसा सुवीरः
उत त्या मे हवम् आ जग्म्यातꣳ नासत्या धीभिर् युवम् अङ्ग विप्रा । अत्रिꣳ न महस् तमसो ऽमुमुक्तꣳ तूर्वतꣳ नरा दुरिताद् अभीके
ते नो रायो द्युमतो वाजवतो दातारो भूत नृवतः पुरुक्षोः । दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मृळता च देवाः
ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर् मृळन्तु वायुः । ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यताम् इषꣳ नः
उत स्य देवः सविता भगो नो ऽपाꣳ नपाद् अवतु दानु पप्रिः । त्वष्टा देवेभिर् जनिभिः सजोषा द्यौर् देवेभिः पृथिवी समुद्रैः
उत नो ऽहिर् बुध्न्यः शृणोत्व् अज एकपात् पृथिवी समुद्रः । विश्वे देवा ऋतावृधो हुवानाः स्तुता मन्त्राः कविशस्ता अवन्तु
एवा नपातो मम तस्य धीभिर् भरद्वाजा अभ्य् अर्चन्त्य् अर्कैः । ग्ना हुतासो वसवो ऽधृष्टा विश्वे स्तुतासो भूता यजत्राः
उद् उ त्यच् चक्षुर् महि मित्रयोर् आꣳ एति प्रियꣳ वरुणयोर् अदब्धम् । ऋतस्य शुचि दर्शतम् अनीकꣳ रुक्मो न दिव उदिता व्य् अद्यौत्
वेद यस् त्रीणि विदथान्य् एषाꣳ देवानाꣳ जन्म सनुतर् आ च विप्रः । ऋजु मर्तेषु वृजिना च पश्यन्न् अभि चष्टे सूरो अर्य एवान्
स्तुष उ वो मह ऋतस्य गोपान् अदितिम् मित्रꣳ वरुणꣳ सुजातान् । अर्यमणम् भगम् अदब्धधीतीन् अच्छा वोचे सधन्यः पावकान्
रिशादसः सत्पतीꣳर् अदब्धान् महो राज्ञः सुवसनस्य दातॄन् । यूनः सुक्षत्रान् क्षयतो दिवो नॄन् आदित्यान् याम्य् अदितिꣳ दुवोयु
द्यौ३ष् पितः पृथिवि मातर् अध्रुग् अग्ने भ्रातर् वसवो मृळता नः । विश्व आदित्या अदिते सजोषा अस्मभ्यꣳ शर्म बहुलꣳ वि यन्त
मा नो वृकाय वृक्ये समस्मा अघायते रीरधता यजत्राः । यूयꣳ हि ष्ठा रथ्यो नस् तनूनाꣳ यूयꣳ दक्षस्य वचसो बभूव
मा व एनो अन्यकृतम् भुजेम मा तत् कर्म वसवो यच् चयध्वे । विश्वस्य हि क्षयथ विश्वदेवाः स्वयꣳ रिपुस् तन्वꣳ रीरिषीष्ट
नम इद् उग्रꣳ नम आ विवासे नमो दाधार पृथिवीम् उत द्याम् । नमो देवेभ्यो नम ईश एषाꣳ कृतꣳ चिद् एनो नमसा विवासे
ऋतस्य वो रथ्यः पूतदक्षान् ऋतस्य पस्त्यसदो अदब्धान् । ताꣳ आ नमोभिर् उरुचक्षसो नॄन् विश्वान् व आ नमे महो यजत्राः
ते हि श्रेष्ठवर्चसस् त उ नस् तिरो विश्वानि दुरिता नयन्ति । सुक्षत्रासो वरुणो मित्रो अग्निर् ऋतधीतयो वक्मराजसत्याः
ते न इन्द्रः पृथिवी क्षाम वर्धन् पूषा भगो अदितिः पञ्च जनाः । सुशर्माणः स्ववसः सुनीथा भवन्तु नः सुत्रात्रासः सुगोपाः
नू सद्मानꣳ दिव्यꣳ नꣳशि देवा भारद्वाजः सुमतिꣳ याति होता । आसानेभिर् यजमानो मियेधैर् देवानाꣳ जन्म वसूयुर् ववन्द
अप त्यꣳ वृजिनꣳ रिपुꣳ स्तेनम् अग्ने दुराध्यम् । दविष्ठम् अस्य सत्पते कृधी सुगम्
ग्रावाणः सोम नो हि कꣳ सखित्वनाय वावशुः । जही न्य् अ१त्रिणम् पणिꣳ वृको हि षः
यूयꣳ हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः । कर्ता नो अध्वन्न् आ सुगꣳ गोपा अमा
अपि पन्थाम् अगन्महि स्वस्तिगाम् अनेहसम् । येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु
न तद् दिवा न पृथिव्यानु मन्ये न यज्ञेन नोत शमीभिर् आभिः । उब्जन्तु तꣳ सुभ्व१ः पर्वतासो नि हीयताम् अतियाजस्य यष्टा
अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणꣳ निनित्सात् । तपूꣳषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषम् अभि तꣳ शोचतु द्यौः
किम् अङ्ग त्वा ब्रह्मणः सोम गोपाꣳ किम् अङ्ग त्वाहुर् अभिशस्तिपाꣳ नः । किम् अङ्ग नः पश्यसि निद्यमानान् ब्रह्मद्विषे तपुषिꣳ हेतिम् अस्य
अवन्तु माम् उषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः । अवन्तु मा पर्वतासो ध्रुवासो ऽवन्तु मा पितरो देवहूतौ
विश्वदानीꣳ सुमनसः स्याम पश्येम नु सूर्यम् उच्चरन्तम् । तथा करद् वसुपतिर् वसूनाꣳ देवाꣳ ओहानो ऽवसागमिष्ठः
इन्द्रो नेदिष्ठम् अवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना । पर्जन्यो न ओषधीभिर् मयोभुर् अग्निः सुशꣳसः सुहवः पितेव
विश्वे देवास आ गत शृणुता म इमꣳ हवम् । एदम् बर्हिर् नि षीदत
यो वो देवा घृतस्नुना हव्येन प्रतिभूषति । तꣳ विश्व उप गच्छथ
उप नः सूनवो गिरः शृण्वन्त्व् अमृतस्य ये । सुमृळीका भवन्तु नः
विश्वे देवा ऋतावृध ऋतुभिर् हवनश्रुतः । जुषन्ताꣳ युज्यम् पयः
स्तोत्रम् इन्द्रो मरुद्गणस् त्वष्टृमान् मित्रो अर्यमा । इमा हव्या जुषन्त नः
इमꣳ नो अग्ने अध्वरꣳ होतर् वयुनशो यज । चिकित्वान् दैव्यꣳ जनम्
विश्वे देवाः शृणुतेमꣳ हवम् मे ये अन्तरिक्षे य उप द्यवि ष्ठ । ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वम्
विश्वे देवा मम शृण्वन्तु यज्ञिया उभे रोदसी अपाꣳ नपाच् च मन्म । मा वो वचाꣳसि परिचक्ष्याणि वोचꣳ सुम्नेष्व् इद् वो अन्तमा मदेम
ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपाꣳ सधस्थे । ते अस्मभ्यम् इषये विश्वम् आयुः क्षप उस्रा वरिवस्यन्तु देवाः
अग्नीपर्जन्याव् अवतꣳ धियम् मे ऽस्मिन् हवे सुहवा सुष्टुतिꣳ नः । इळाम् अन्यो जनयद् गर्भम् अन्यः प्रजावतीर् इष आ धत्तम् अस्मे
स्तीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे । अस्मिन् नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम्
वयम् उ त्वा पथस् पते रथꣳ न वाजसातये । धिये पूषन्न् अयुज्महि
अभि नो नर्यꣳ वसु वीरम् प्रयतदक्षिणम् । वामꣳ गृहपतिꣳ नय
अदित्सन्तꣳ चिद् आघृणे पूषन् दानाय चोदय । पणेश् चिद् वि म्रदा मनः
वि पथो वाजसातये चिनुहि वि मृधो जहि । साधन्ताम् उग्र नो धियः
परि तृन्धि पणीनाम् आरया हृदया कवे । अथेम् अस्मभ्यꣳ रन्धय
वि पूषन्न् आरया तुद पणेर् इच्छ हृदि प्रियम् । अथेम् अस्मभ्यꣳ रन्धय
आ रिख किकिरा कृणु पणीनाꣳ हृदया कवे । अथेम् अस्मभ्यꣳ रन्धय
याम् पूषन् ब्रह्मचोदनीम् आराम् बिभर्ष्य् आघृणे । तया समस्य हृदयम् आ रिख किकिरा कृणु
या ते अष्ट्रा गोओपशाघृणे पशुसाधनी । तस्यास् ते सुम्नम् ईमहे
उत नो गोषणिꣳ धियम् अश्वसाꣳ वाजसाम् उत । नृवत् कृणुहि वीतये
सम् पूषन् विदुषा नय यो अञ्जसानुशासति । य एवेदम् इति ब्रवत्
सम् उ पूष्णा गमेमहि यो गृहाꣳ अभिशासति । इम एवेति च ब्रवत्
पूष्णश् चक्रꣳ न रिष्यति न कोशो ऽव पद्यते । नो अस्य व्यथते पविः
यो अस्मै हविषाविधन् न तम् पूषापि मृष्यते । प्रथमो विन्दते वसु
पूषा गा अन्व् एतु नः पूषा रक्षत्व् अर्वतः । पूषा वाजꣳ सनोतु नः
पूषन्न् अनु प्र गा इहि यजमानस्य सुन्वतः । अस्माकꣳ स्तुवताम् उत
माकिर् नेशन् माकीꣳ रिषन् माकीꣳ सꣳ शारि केवटे । अथारिष्टाभिर् आ गहि
शृण्वन्तम् पूषणꣳ वयम् इर्यम् अनष्टवेदसम् । ईशानꣳ राय ईमहे
पूषन् तव व्रते वयꣳ न रिष्येम कदा चन । स्तोतारस् त इह स्मसि
परि पूषा परस्ताद् धस्तꣳ दधातु दक्षिणम् । पुनर् नो नष्टम् आजतु
एहि वाꣳ विमुचो नपाद् आघृणे सꣳ सचावहै । रथीर् ऋतस्य नो भव
रथीतमꣳ कपर्दिनम् ईशानꣳ राधसो महः । रायः सखायम् ईमहे
रायो धारास्य् आघृणे वसो राशिर् अजाश्व । धीवतो-धीवतः सखा
पूषणꣳ न्व् अ१जाश्वम् उप स्तोषाम वाजिनम् । स्वसुर् यो जार उच्यते
मातुर् दिधिषुम् अब्रवꣳ स्वसुर् जारः शृणोतु नः । भ्रातेन्द्रस्य सखा मम
आजासः पूषणꣳ रथे निशृम्भास् ते जनश्रियम् । देवꣳ वहन्तु बिभ्रतः
य एनम् आदिदेशति करम्भाद् इति पूषणम् । न तेन देव आदिशे
उत घा स रथीतमः सख्या सत्पतिर् युजा । इन्द्रो वृत्राणि जिघ्नते
उतादः परुषे गवि सूरश् चक्रꣳ हिरण्ययम् । न्य् ऐरयद् रथीतमः
यद् अद्य त्वा पुरुष्टुत ब्रवाम दस्र मन्तुमः । तत् सु नो मन्म साधय
इमꣳ च नो गवेषणꣳ सातये सीषधो गणम् । आरात् पूषन्न् असि श्रुतः
आ ते स्वस्तिम् ईमह आरेअघाम् उपावसुम् । अद्या च सर्वतातये श्वश् च सर्वतातये
इन्द्रा नु पूषणा वयꣳ सख्याय स्वस्तये । हुवेम वाजसातये
सोमम् अन्य उपासदत् पातवे चम्वोः सुतम् । करम्भम् अन्य इच्छति
अजा अन्यस्य वह्नयो हरी अन्यस्य सम्भृता । ताभ्याꣳ वृत्राणि जिघ्नते
यद् इन्द्रो अनयद् रितो महीर् अपो वृषन्तमः । तत्र पूषाभवत् सचा
ताम् पूष्णः सुमतिꣳ वयꣳ वृक्षस्य प्र वयाम् इव । इन्द्रस्य चा रभामहे
उत् पूषणꣳ युवामहे ऽभीशूꣳर् इव सारथिः । मह्या इन्द्रꣳ स्वस्तये
शुक्रꣳ ते अन्यद् यजतꣳ ते अन्यद् विषुरूपे अहनी द्यौर् इवासि । विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्न् इह रातिर् अस्तु
अजाश्वः पशुपा वाजपस्त्यो धियꣳजिन्वो भुवने विश्वे अर्पितः । अष्ट्राम् पूषा शिथिराम् उद्वरीवृजत् सꣳचक्षाणो भुवना देव ईयते
यास् ते पूषन् नावो अन्तः समुद्रे हिरण्ययीर् अन्तरिक्षे चरन्ति । ताभिर् यासि दूत्याꣳ सूर्यस्य कामेन कृत श्रव इच्छमानः
पूषा सुबन्धुर् दिव आ पृथिव्या इळस् पतिर् मघवा दस्मवर्चाः । यꣳ देवासो अददुः सूर्यायै कामेन कृतꣳ तवसꣳ स्वञ्चम्
प्र नु वोचा सुतेषु वाꣳ वीर्या३ यानि चक्रथुः । हतासो वाम् पितरो देवशत्रव इन्द्राग्नी जीवथो युवम्
बळ् इत्था महिमा वाम् इन्द्राग्नी पनिष्ठ आ । समानो वाꣳ जनिता भ्रातरा युवꣳ यमाव् इहेहमातरा
ओकिवाꣳसा सुते सचाꣳ अश्वा सप्ती इवादने । इन्द्रा न्व् अ१ग्नी अवसेह वज्रिणा वयꣳ देवा हवामहे
य इन्द्राग्नी सुतेषु वाꣳ स्तवत् तेष्व् ऋतावृधा । जोषवाकꣳ वदतः पज्रहोषिणा न देवा भसथश् चन
इन्द्राग्नी को अस्य वाꣳ देवौ मर्तश् चिकेतति । विषूचो अश्वान् युयुजान ईयत एकः समान आ रथे
इन्द्राग्नी अपाद् इयम् पूर्वागात् पद्वतीभ्यः । हित्वी शिरो जिह्वया वावदच् चरत् त्रिꣳशत् पदा न्य् अक्रमीत्
इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः । मा नो अस्मिन् महाधने परा वर्क्तꣳ गविष्टिषु
इन्द्राग्नी तपन्ति माघा अर्यो अरातयः । अप द्वेषाꣳस्य् आ कृतꣳ युयुतꣳ सूर्याद् अधि
इन्द्राग्नी युवोर् अपि वसु दिव्यानि पार्थिवा । आ न इह प्र यच्छतꣳ रयिꣳ विश्वायुपोषसम्
इन्द्राग्नी उक्थवाहसा स्तोमेभिर् हवनश्रुता । विश्वाभिर् गीर्भिर् आ गतम् अस्य सोमस्य पीतये
श्नथद् वृत्रम् उत सनोति वाजम् इन्द्रा यो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता
ता योधिष्टम् अभि गा इन्द्र नूनम् अपः स्वर् उषसो अग्न ऊळ्हाः । दिशः स्वर् उषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान्
आ वृत्रहणा वृत्रहभिः शुष्मैर् इन्द्र यातꣳ नमोभिर् अग्ने अर्वाक् । युवꣳ राधोभिर् अकवेभिर् इन्द्राग्ने अस्मे भवतम् उत्तमेभिः
ता हुवे ययोर् इदम् पप्ने विश्वम् पुरा कृतम् । इन्द्राग्नी न मर्धतः
उग्रा विघनिना मृध इन्द्राग्नी हवामहे । ता नो मृळात ईदृशे
हतो वृत्राण्य् आर्या हतो दासानि सत्पती । हतो विश्वा अप द्विषः
इन्द्राग्नी युवाम् इमे३ ऽभि स्तोमा अनूषत । पिबतꣳ शम्भुवा सुतम्
या वाꣳ सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । इन्द्राग्नी ताभिर् आ गतम्
ताभिर् आ गच्छतꣳ नरोपेदꣳ सवनꣳ सुतम् । इन्द्राग्नी सोमपीतये
तम् ईळिष्व यो अर्चिषा वना विश्वा परिष्वजत् । कृष्णा कृणोति जिह्वया
य इद्ध आविवासति सुम्नम् इन्द्रस्य मर्त्यः । द्युम्नाय सुतरा अपः
ता नो वाजवतीर् इष आशून् पिपृतम् अर्वतः । इन्द्रम् अग्निꣳ च वोळ्हवे
उभा वाम् इन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै । उभा दाताराव् इषाꣳ रयीणाम् उभा वाजस्य सातये हुवे वाम्
आ नो गव्येभिर् अश्व्यैर् वसव्यै३र् उप गच्छतम् । सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे
इन्द्राग्नी शृणुतꣳ हवꣳ यजमानस्य सुन्वतः । वीतꣳ हव्यान्य् आ गतम् पिबतꣳ सोम्यम् मधु
इयम् अददाद् रभसम् ऋणच्युतꣳ दिवोदासꣳ वध्र्यश्वाय दाशुषे । या शश्वन्तम् आचखादावसम् पणिꣳ ता ते दात्राणि तविषा सरस्वति
इयꣳ शुष्मेभिर् बिसखा इवारुजत् सानु गिरीणाꣳ तविषेभिर् ऊर्मिभिः । पारावतघ्नीम् अवसे सुवृक्तिभिः सरस्वतीम् आ विवासेम धीतिभिः
सरस्वति देवनिदो नि बर्हय प्रजाꣳ विश्वस्य बृसयस्य मायिनः । उत क्षितिभ्यो ऽवनीर् अविन्दो विषम् एभ्यो अस्रवो वाजिनीवति
प्र णो देवी सरस्वती वाजेभिर् वाजिनीवती । धीनाम् अवित्र्य् अवतु
यस् त्वा देवि सरस्वत्य् उपब्रूते धने हिते । इन्द्रꣳ न वृत्रतूर्ये
त्वꣳ देवि सरस्वत्य् अवा वाजेषु वाजिनि । रदा पूषेव नः सनिम्
उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः । वृत्रघ्नी वष्टि सुष्टुतिम्
यस्या अनन्तो अह्रुतस् त्वेषश् चरिष्णुर् अर्णवः । अमश् चरति रोरुवत्
सा नो विश्वा अति द्विषः स्वसॄर् अन्या ऋतावरी । अतन्न् अहेव सूर्यः
उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा । सरस्वती स्तोम्या भूत्
आपप्रुषी पार्थिवान्य् उरु रजो अन्तरिक्षम् । सरस्वती निदस् पातु
त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती । वाजे-वाजे हव्या भूत्
प्र या महिम्ना महिनासु चेकिते द्युम्नेभिर् अन्या अपसाम् अपस्तमा । रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती
सरस्वत्य् अभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् । जुषस्व नः सख्या वेश्या च मा त्वत् क्षेत्राण्य् अरणानि गन्म
स्तुषे नरा दिवो अस्य प्रसन्ताश्विना हुवे जरमाणो अर्कैः । या सद्य उस्रा व्युषि ज्मो अन्तान् युयूषतः पर्य् उरू वराꣳसि
ता यज्ञम् आ शुचिभिश् चक्रमाणा रथस्य भानुꣳ रुरुचू रजोभिः । पुरू वराꣳस्य् अमिता मिमानापो धन्वान्य् अति याथो अज्रान्
ता ह त्यद् वर्तिर् यद् अरध्रम् उग्रेत्था धिय ऊहथुः शश्वद् अश्वैः । मनोजवेभिर् इषिरैः शयध्यै परि व्यथिर् दाशुषो मर्त्यस्य
ता नव्यसो जरमाणस्य मन्मोप भूषतो युयुजानसप्ती । शुभम् पृक्षम् इषम् ऊर्जꣳ वहन्ता होता यक्षत् प्रत्नो अध्रुग् युवाना
ता वल्गू दस्रा पुरुशाकतमा प्रत्ना नव्यसा वचसा विवासे । या शꣳसते स्तुवते शम्भविष्ठा बभूवतुर् गृणते चित्रराती
ता भुज्युꣳ विभिर् अद्भ्यः समुद्रात् तुग्रस्य सूनुम् ऊहथू रजोभिः । अरेणुभिर् योजनेभिर् भुजन्ता पतत्रिभिर् अर्णसो निर् उपस्थात्
वि जयुषा रथ्या यातम् अद्रिꣳ श्रुतꣳ हवꣳ वृषणा वध्रिमत्याः । दशस्यन्ता शयवे पिप्यथुर् गाम् इति च्यवाना सुमतिम् भुरण्यू
यद् रोदसी प्रदिवो अस्ति भूमा हेळो देवानाम् उत मर्त्यत्रा । तद् आदित्या वसवो रुद्रियासो रक्षोयुजे तपुर् अघꣳ दधात
य ईꣳ राजानाव् ऋतुथा विदधद् रजसो मित्रो वरुणश् चिकेतत् । गम्भीराय रक्षसे हेतिम् अस्य द्रोघाय चिद् वचस आनवाय
अन्तरैश् चक्रैस् तनयाय वर्तिर् द्युमता यातꣳ नृवता रथेन । सनुत्येन त्यजसा मर्त्यस्य वनुष्यताम् अपि शीर्षा ववृक्तम्
आ परमाभिर् उत मध्यमाभिर् नियुद्भिर् यातम् अवमाभिर् अर्वाक् । दृळ्हस्य चिद् गोमतो वि व्रजस्य दुरो वर्तꣳ गृणते चित्रराती
क्व१ त्या वल्गू पुरुहूताद्य दूतो न स्तोमो ऽविदन् नमस्वान् । आ यो अर्वाङ् नासत्या ववर्त प्रेष्ठा ह्य् असथो अस्य मन्मन्
अरम् मे गन्तꣳ हवनायास्मै गृणाना यथा पिबाथो अन्धः । परि ह त्यद् वर्तिर् याथो रिषो न यत् परो नान्तरस् तुतुर्यात्
अकारि वाम् अन्धसो वरीमन्न् अस्तारि बर्हिः सुप्रायणतमम् । उत्तानहस्तो युवयुर् ववन्दा वाꣳ नक्षन्तो अद्रय आञ्जन्
ऊर्ध्वो वाम् अग्निर् अध्वरेष्व् अस्थात् प्र रातिर् एति जूर्णिनी घृताची । प्र होता गूर्तमना उराणो ऽयुक्त यो नासत्या हवीमन्
अधि श्रिये दुहिता सूर्यस्य रथꣳ तस्थौ पुरुभुजा शतोतिम् । प्र मायाभिर् मायिना भूतम् अत्र नरा नृतू जनिमन् यज्ञियानाम्
युवꣳ श्रीभिर् दर्शताभिर् आभिः शुभे पुष्टिम् ऊहथुः सूर्यायाः । प्र वाꣳ वयो वपुषे ऽनु पप्तन् नक्षद् वाणी सुष्टुता धिष्ण्या वाम्
आ वाꣳ वयो ऽश्वासो वहिष्ठा अभि प्रयो नासत्या वहन्तु । प्र वाꣳ रथो मनोजवा असर्जीषः पृक्ष इषिधो अनु पूर्वीः
पुरु हि वाम् पुरुभुजा देष्णꣳ धेनुꣳ न इषम् पिन्वतम् असक्राम् । स्तुतश् च वाम् माध्वी सुष्टुतिश् च रसाश् च ये वाम् अनु रातिम् अग्मन्
उत म ऋज्रे पुरयस्य रघ्वी सुमीळ्हे शतम् पेरुके च पक्वा । शाण्डो दाद् धिरणिनः स्मद्दिष्टीन् दश वशासो अभिषाच ऋष्वान्
सꣳ वाꣳ शता नासत्या सहस्राश्वानाम् पुरुपन्था गिरे दात् । भरद्वाजाय वीर नू गिरे दाद् धता रक्षाꣳसि पुरुदꣳससा स्युः
आ वाꣳ सुम्ने वरिमन् सूरिभिः ष्याम्
उद् उ श्रिय उषसो रोचमाना अस्थुर् अपाꣳ नोर्मयो रुशन्तः । कृणोति विश्वा सुपथा सुगान्य् अभूद् उ वस्वी दक्षिणा मघोनी
भद्रा ददृक्ष उर्विया वि भास्य् उत् ते शोचिर् भानवो द्याम् अपप्तन् । आविर् वक्षः कृणुषे शुम्भमानोषो देवि रोचमाना महोभिः
वहन्ति सीम् अरुणासो रुशन्तो गावः सुभगाम् उर्विया प्रथानाम् । अपेजते शूरो अस्तेव शत्रून् बाधते तमो अजिरो न वोळ्हा
सुगोत ते सुपथा पर्वतेष्व् अवाते अपस् तरसि स्वभानो । सा न आ वह पृथुयामन्न् ऋष्वे रयिꣳ दिवो दुहितर् इषयध्यै
सा वह योक्षभिर् अवातोषो वरꣳ वहसि जोषम् अनु । त्वꣳ दिवो दुहितर् या ह देवी पूर्वहूतौ मꣳहना दर्शता भूः
उत् ते वयश् चिद् वसतेर् अपप्तन् नरश् च ये पितुभाजो व्युष्टौ । अमा सते वहसि भूरि वामम् उषो देवि दाशुषे मर्त्याय
एषा स्या नो दुहिता दिवोजाः क्षितीर् उच्छन्ती मानुषीर् अजीगः । या भानुना रुशता राम्यास्व् अज्ञायि तिरस् तमसश् चिद् अक्तून्
वि तद् ययुर् अरुणयुग्भिर् अश्वैश् चित्रम् भान्त्य् उषसश् चन्द्ररथाः । अग्रꣳ यज्ञस्य बृहतो नयन्तीर् वि ता बाधन्ते तम ऊर्म्यायाः
श्रवो वाजम् इषम् ऊर्जꣳ वहन्तीर् नि दाशुष उषसो मर्त्याय । मघोनीर् वीरवत् पत्यमाना अवो धात विधते रत्नम् अद्य
इदा हि वो विधते रत्नम् अस्तीदा वीराय दाशुष उषासः । इदा विप्राय जरते यद् उक्था नि ष्म मावते वहथा पुरा चित्
इदा हि त उषो अद्रिसानो गोत्रा गवाम् अङ्गिरसो गृणन्ति । व्य् अ१र्केण बिभिदुर् ब्रह्मणा च सत्या नृणाम् अभवद् देवहूतिः
उच्छा दिवो दुहितः प्रत्नवन् नो भरद्वाजवद् विधते मघोनि । सुवीरꣳ रयिꣳ गृणते रिरीह्य् उरुगायम् अधि धेहि श्रवो नः
वपुर् नु तच् चिकितुषे चिद् अस्तु समानꣳ नाम धेनु पत्यमानम् । मर्तेष्व् अन्यद् दोहसे पीपाय सकृच् छुक्रꣳ दुदुहे पृश्निर् ऊधः
ये अग्नयो न शोशुचन्न् इधाना द्विर् यत् त्रिर् मरुतो वावृधन्त । अरेणवो हिरण्ययास एषाꣳ साकꣳ नृम्णैः पौꣳस्येभिश् च भूवन्
रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा याꣳश् चो नु दाधृविर् भरध्यै । विदे हि माता महो मही षा सेत् पृश्निः सुभ्वे३ गर्भम् आधात्
न य ईषन्ते जनुषो ऽया न्व् अ१न्तः सन्तो ऽवद्यानि पुनानाः । निर् यद् दुह्रे शुचयो ऽनु जोषम् अनु श्रिया तन्वम् उक्षमाणाः
मक्षू न येषु दोहसे चिद् अया आ नाम धृष्णु मारुतꣳ दधानाः । न ये स्तौना अयासो मह्ना नू चित् सुदानुर् अव यासद् उग्रान्
त इद् उग्राः शवसा धृष्णुषेणा उभे युजन्त रोदसी सुमेके । अध स्मैषु रोदसी स्वशोचिर् आमवत्सु तस्थौ न रोकः
अनेनो वो मरुतो यामो अस्त्व् अनश्वश् चिद् यम् अजत्य् अरथीः । अनवसो अनभीशू रजस्तूर् वि रोदसी पथ्या याति साधन्
नास्य वर्ता न तरुता न्व् अस्ति मरुतो यम् अवथ वाजसातौ । तोके वा गोषु तनये यम् अप्सु स व्रजꣳ दर्ता पार्ये अध द्योः
प्र चित्रम् अर्कꣳ गृणते तुराय मारुताय स्वतवसे भरध्वम् । ये सहाꣳसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः
त्विषीमन्तो अध्वरस्येव दिद्युत् तृषुच्यवसो जुह्वो३ नाग्नेः । अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः
तꣳ वृधन्तम् मारुतम् भ्राजदृष्टिꣳ रुद्रस्य सूनुꣳ हवसा विवासे । दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन्
विश्वेषाꣳ वः सताꣳ ज्येष्ठतमा गीर्भिर् मित्रावरुणा वावृधध्यै । सꣳ या रश्मेव यमतुर् यमिष्ठा द्वा जनाꣳ असमा बाहुभिः स्वैः
इयम् मद् वाम् प्र स्तृणीते मनीषोप प्रिया नमसा बर्हिर् अच्छ । यन्तꣳ नो मित्रावरुणाव् अधृष्टꣳ छर्दिर् यद् वाꣳ वरूथ्यꣳ सुदानू
आ यातम् मित्रावरुणा सुशस्त्य् उप प्रिया नमसा हूयमाना । सꣳ याव् अप्नःस्थो अपसेव जनाञ् छ्रुधीयतश् चिद् यतथो महित्वा
अश्वा न या वाजिना पूतबन्धू ऋता यद् गर्भम् अदितिर् भरध्यै । प्र या महि महान्ता जायमाना घोरा मर्ताय रिपवे नि दीधः
विश्वे यद् वाम् मꣳहना मन्दमानाः क्षत्रꣳ देवासो अदधुः सजोषाः । परि यद् भूथो रोदसी चिद् उर्वी सन्ति स्पशो अदब्धासो अमूराः
ता हि क्षत्रꣳ धारयेथे अनु द्यून् दृꣳहेथे सानुम् उपमाद् इव द्योः । दृळ्हो नक्षत्र उत विश्वदेवो भूमिम् आतान् द्याꣳ धासिनायोः
ता विग्रꣳ धैथे जठरम् पृणध्या आ यत् सद्म सभृतयः पृणन्ति । न मृष्यन्ते युवतयो ऽवाता वि यत् पयो विश्वजिन्वा भरन्ते
ता जिह्वया सदम् एदꣳ सुमेधा आ यद् वाꣳ सत्यो अरतिर् ऋते भूत् । तद् वाम् महित्वꣳ घृतान्नाव् अस्तु युवꣳ दाशुषे वि चयिष्टम् अꣳहः
प्र यद् वाम् मित्रावरुणा स्पूर्धन् प्रिया धाम युवधिता मिनन्ति । न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो न पुत्राः
वि यद् वाचꣳ कीस्तासो भरन्ते शꣳसन्ति के चिन् निविदो मनानाः । आद् वाम् ब्रवाम सत्यान्य् उक्था नकिर् देवेभिर् यतथो महित्वा
अवोर् इत्था वाꣳ छर्दिषो अभिष्टौ युवोर् मित्रावरुणाव् अस्कृधोयु । अनु यद् गावः स्फुरान् ऋजिप्यꣳ धृष्णुꣳ यद् रणे वृषणꣳ युनजन्
श्रुष्टी वाꣳ यज्ञ उद्यतः सजोषा मनुष्वद् वृक्तबर्हिषो यजध्यै । आ य इन्द्रावरुणाव् इषे अद्य महे सुम्नाय मह आववर्तत्
ता हि श्रेष्ठा देवताता तुजा शूराणाꣳ शविष्ठा ता हि भूतम् । मघोनाम् मꣳहिष्ठा तुविशुष्म ऋतेन वृत्रतुरा सर्वसेना
ता गृणीहि नमस्येभिः शूषैः सुम्नेभिर् इन्द्रावरुणा चकाना । वज्रेणान्यः शवसा हन्ति वृत्रꣳ सिषक्त्य् अन्यो वृजनेषु विप्रः
ग्नाश् च यन् नरश् च वावृधन्त विश्वे देवासो नराꣳ स्वगूर्ताः । प्रैभ्य इन्द्रावरुणा महित्वा द्यौश् च पृथिवि भूतम् उर्वी
स इत् सुदानुः स्ववाꣳ ऋतावेन्द्रा यो वाꣳ वरुण दाशति त्मन् । इषा स द्विषस् तरेद् दास्वान् वꣳसद् रयिꣳ रयिवतश् च जनान्
यꣳ युवꣳ दाश्वध्वराय देवा रयिꣳ धत्थो वसुमन्तम् पुरुक्षुम् । अस्मे स इन्द्रावरुणाव् अपि ष्यात् प्र यो भनक्ति वनुषाम् अशस्तीः
उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः ष्यात् । येषाꣳ शुष्मः पृतनासु साह्वान् प्र सद्यो द्युम्ना तिरते ततुरिः
नू न इन्द्रावरुणा गृणाना पृङ्क्तꣳ रयिꣳ सौश्रवसाय देवा । इत्था गृणन्तो महिनस्य शर्धो ऽपो न नावा दुरिता तरेम
प्र सम्राजे बृहते मन्म नु प्रियम् अर्च देवाय वरुणाय सप्रथः । अयꣳ य उर्वी महिना महिव्रतः क्रत्वा विभात्य् अजरो न शोचिषा
इन्द्रावरुणा सुतपाव् इमꣳ सुतꣳ सोमम् पिबतम् मद्यꣳ धृतव्रता । युवो रथो अध्वरꣳ देववीतये प्रति स्वसरम् उप याति पीतये
इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् । इदꣳ वाम् अन्धः परिषिक्तम् अस्मे आसद्यास्मिन् बर्हिषि मादयेथाम्
सꣳ वाꣳ कर्मणा सम् इषा हिनोमीन्द्राविष्णू अपसस् पारे अस्य । जुषेथाꣳ यज्ञꣳ द्रविणꣳ च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता
या विश्वासाꣳ जनितारा मतीनाम् इन्द्राविष्णू कलशा सोमधाना । प्र वाꣳ गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः
इन्द्राविष्णू मदपती मदानाम् आ सोमꣳ यातꣳ द्रविणो दधाना । सꣳ वाम् अञ्जन्त्व् अक्तुभिर् मतीनाꣳ सꣳ स्तोमासः शस्यमानास उक्थैः
आ वाम् अश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु । जुषेथाꣳ विश्वा हवना मतीनाम् उप ब्रह्माणि शृणुतꣳ गिरो मे
इन्द्राविष्णू तत् पनयाय्यꣳ वाꣳ सोमस्य मद उरु चक्रमाथे । अकृणुतम् अन्तरिक्षꣳ वरीयो ऽप्रथतꣳ जीवसे नो रजाꣳसि
इन्द्राविष्णू हविषा वावृधानाग्राद्वाना नमसा रातहव्या । घृतासुती द्रविणꣳ धत्तम् अस्मे समुद्रः स्थः कलशः सोमधानः
इन्द्राविष्णू पिबतम् मध्वो अस्य सोमस्य दस्रा जठरम् पृणेथाम् । आ वाम् अन्धाꣳसि मदिराण्य् अग्मन्न् उप ब्रह्माणि शृणुतꣳ हवम् मे
उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । इन्द्रश् च विष्णो यद् अपस्पृधेथाꣳ त्रेधा सहस्रꣳ वि तद् ऐरयेथाम्
घृतवती भुवनानाम् अभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा
असश्चन्ती भूरिधारे पयस्वती घृतꣳ दुहाते सुकृते शुचिव्रते । राजन्ती अस्य भुवनस्य रोदसी अस्मे रेतः सिञ्चतꣳ यन् मनुर्हितम्
यो वाम् ऋजवे क्रमणाय रोदसी मर्तो ददाश धिषणे स साधति । प्र प्रजाभिर् जायते धर्मणस् परि युवोः सिक्ता विषुरूपाणि सव्रता
घृतेन द्यावापृथिवी अभीवृते घृतश्रिया घृतपृचा घृतावृधा । उर्वी पृथ्वी होतृवूर्ये पुरोहिते ते इद् विप्रा ईळते सुम्नम् इष्टये
मधु नो द्यावापृथिवी मिमिक्षताम् मधुश्चुता मधुदुघे मधुव्रते । दधाने यज्ञꣳ द्रविणꣳ च देवता महि श्रवो वाजम् अस्मे सुवीर्यम्
ऊर्जꣳ नो द्यौश् च पृथिवी च पिन्वताम् पिता माता विश्वविदा सुदꣳससा । सꣳरराणे रोदसी विश्वशम्भुवा सनिꣳ वाजꣳ रयिम् अस्मे सम् इन्वताम्
उद् उ ष्य देवः सविता हिरण्यया बाहू अयꣳस्त सवनाय सुक्रतुः । घृतेन पाणी अभि प्रुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि
देवस्य वयꣳ सवितुः सवीमनि श्रेष्ठे स्याम वसुनश् च दावने । यो विश्वस्य द्विपदो यश् चतुष्पदो निवेशने प्रसवे चासि भूमनः
अदब्धेभिः सवितः पायुभिष् ट्वꣳ शिवेभिर् अद्य परि पाहि नो गयम् । हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो अघशꣳस ईशत
उद् उ ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषम् अस्थात् । अयोहनुर् यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरि वामम्
उद् ऊ अयाꣳ उपवक्तेव बाहू हिरण्यया सविता सुप्रतीका । दिवो रोहाꣳस्य् अरुहत् पृथिव्या अरीरमत् पतयत् कच् चिद् अभ्वम्
वामम् अद्य सवितर् वामम् उ श्वो दिवे-दिवे वामम् अस्मभ्यꣳ सावीः । वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम
इन्द्रासोमा महि तद् वाम् महित्वꣳ युवम् महानि प्रथमानि चक्रथुः । युवꣳ सूर्यꣳ विविदथुर् युवꣳ स्व१र् विश्वा तमाꣳस्य् अहतꣳ निदश् च
इन्द्रासोमा वासयथ उषासम् उत् सूर्यꣳ नयथो ज्योतिषा सह । उप द्याꣳ स्कम्भथुः स्कम्भनेनाप्रथतम् पृथिवीम् मातरꣳ वि
इन्द्रासोमाव् अहिम् अपः परिष्ठाꣳ हथो वृत्रम् अनु वाꣳ द्यौर् अमन्यत । प्रार्णाꣳस्य् ऐरयतꣳ नदीनाम् आ समुद्राणि पप्रथुः पुरूणि
इन्द्रासोमा पक्वम् आमास्व् अन्तर् नि गवाम् इद् दधथुर् वक्षणासु । जगृभथुर् अनपिनद्धम् आसु रुशच् चित्रासु जगतीष्व् अन्तः
इन्द्रासोमा युवम् अङ्ग तरुत्रम् अपत्यसाचꣳ श्रुत्यꣳ रराथे । युवꣳ शुष्मꣳ नर्यꣳ चर्षणिभ्यः सꣳ विव्यथुः पृतनाषाहम् उग्रा
यो अद्रिभित् प्रथमजा ऋतावा बृहस्पतिर् आङ्गिरसो हविष्मान् । द्विबर्हज्मा प्राघर्मसत् पिता न आ रोदसी वृषभो रोरवीति
जनाय चिद् य ईवत उ लोकम् बृहस्पतिर् देवहूतौ चकार । घ्नन् वृत्राणि वि पुरो दर्दरीति जयञ् छत्रूꣳर् अमित्रान् पृत्सु साहन्
बृहस्पतिः सम् अजयद् वसूनि महो व्रजान् गोमतो देव एषः । अपः सिषासन् स्व१र् अप्रतीतो बृहस्पतिर् हन्त्य् अमित्रम् अर्कैः
सोमारुद्रा धारयेथाम् असुर्य१म् प्र वाम् इष्टयो ऽरम् अश्नुवन्तु । दमे-दमे सप्त रत्ना दधाना शꣳ नो भूतꣳ द्विपदे शꣳ चतुष्पदे
सोमारुद्रा वि वृहतꣳ विषूचीम् अमीवा या नो गयम् आविवेश । आरे बाधेथाꣳ निरृतिम् पराचैर् अस्मे भद्रा सौश्रवसानि सन्तु
सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि धत्तम् । अव स्यतम् मुञ्चतꣳ यन् नो अस्ति तनूषु बद्धꣳ कृतम् एनो अस्मत्
तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राव् इह सु मृळतꣳ नः । प्र नो मुञ्चतꣳ वरुणस्य पाशाद् गोपायतꣳ नः सुमनस्यमाना
जीमूतस्येव भवति प्रतीकꣳ यद् वर्मी याति समदाम् उपस्थे । अनाविद्धया तन्वा जय त्वꣳ स त्वा वर्मणो महिमा पिपर्तु
धन्वना गा धन्वनाजिꣳ जयेम धन्वना तीव्राः समदो जयेम । धनुः शत्रोर् अपकामꣳ कृणोति धन्वना सर्वाः प्रदिशो जयेम
वक्ष्यन्तीवेद् आ गनीगन्ति कर्णम् प्रियꣳ सखायम् परिषस्वजाना । योषेव शिङ्क्ते वितताधि धन्वञ् ज्या इयꣳ समने पारयन्ती
ते आचरन्ती समनेव योषा मातेव पुत्रम् बिभृताम् उपस्थे । अप शत्रून् विध्यताꣳ सꣳविदाने आर्त्नी इमे विष्फुरन्ती अमित्रान्
बह्वीनाम् पिता बहुर् अस्य पुत्रश् चिश्चा कृणोति समनावगत्य । इषुधिः सङ्काः पृतनाश् च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः
रथे तिष्ठन् नयति वाजिनः पुरो यत्र-यत्र कामयते सुषारथिः । अभीशूनाम् महिमानम् पनायत मनः पश्चाद् अनु यच्छन्ति रश्मयः
तीव्रान् घोषान् कृण्वते वृषपाणयो ऽश्वा रथेभिः सह वाजयन्तः । अवक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति शत्रूꣳर् अनपव्ययन्तः
रथवाहनꣳ हविर् अस्य नाम यत्रायुधꣳ निहितम् अस्य वर्म । तत्रा रथम् उप शग्मꣳ सदेम विश्वाहा वयꣳ सुमनस्यमानाः
स्वादुषꣳसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः । चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः
ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा । पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो अघशꣳस ईशत
सुपर्णꣳ वस्ते मृगो अस्या दन्तो गोभिः सꣳनद्धा पतति प्रसूता । यत्रा नरः सꣳ च वि च द्रवन्ति तत्रास्मभ्यम् इषवः शर्म यꣳसन्
ऋजीते परि वृङ्धि नो ऽश्मा भवतु नस् तनूः । सोमो अधि ब्रवीतु नो ऽदितिः शर्म यच्छतु
आ जङ्घन्ति सान्व् एषाꣳ जघनाꣳ उप जिघ्नते । अश्वाजनि प्रचेतसो ऽश्वान् समत्सु चोदय
अहिर् इव भोगैः पर्य् एति बाहुꣳ ज्याया हेतिम् परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमाꣳसम् परि पातु विश्वतः
आलाक्ता या रुरुशीर्ष्ण्य् अथो यस्या अयो मुखम् । इदम् पर्जन्यरेतस इष्वै देव्यै बृहन् नमः
अवसृष्टा परा पत शरव्ये ब्रह्मसꣳशिते । गच्छामित्रान् प्र पद्यस्व मामीषाꣳ कꣳ चनोच् छिषः
यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव । तत्रा नो ब्रह्मणस् पतिर् अदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु
मर्माणि ते वर्मणा छादयामि सोमस् त्वा राजामृतेनानु वस्ताम् । उरोर् वरीयो वरुणस् ते कृणोतु जयन्तꣳ त्वानु देवा मदन्तु
यो नः स्वो अरणो यश् च निष्ट्यो जिघाꣳसति । देवास् तꣳ सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम्
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ṚṢIS). Ṛgveda Saṃhitā — Maṇḍala 6. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/rgveda-mandala-6>. Acesso em: 26/04/2026.
Tradição Védica (Ṛṣis) (2026). Ṛgveda Saṃhitā — Maṇḍala 6. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/rgveda-mandala-6
Tradição Védica (Ṛṣis). "Ṛgveda Saṃhitā — Maṇḍala 6." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/rgveda-mandala-6.