Ṛgveda Saṃhitā — Maṇḍala 7
Tradição Védica (Ṛṣis)
मण्डल ७ अग्निꣳ नरो दीधितिभिर् अरण्योर् हस्तच्युती जनयन्त प्रशस्तम् । दूरेदृशꣳ गृहपतिम् अथर्युम्
तम् अग्निम् अस्ते वसवो न्य् ऋण्वन् सुप्रतिचक्षम् अवसे कुतश् चित् । दक्षाय्यो यो दम आस नित्यः
प्रेद्धो अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ । त्वाꣳ शश्वन्त उप यन्ति वाजाः
प्र ते अग्नयो ऽग्निभ्यो वरꣳ निः सुवीरासः शोशुचन्त द्युमन्तः । यत्रा नरः समासते सुजाताः
दा नो अग्ने धिया रयिꣳ सुवीरꣳ स्वपत्यꣳ सहस्य प्रशस्तम् । न यꣳ यावा तरति यातुमावान्
उप यम् एति युवतिः सुदक्षꣳ दोषा वस्तोर् हविष्मती घृताची । उप स्वैनम् अरमतिर् वसूयुः
विश्वा अग्ने ऽप दहारातीर् येभिस् तपोभिर् अदहो जरूथम् । प्र निस्वरꣳ चातयस्वामीवाम्
आ यस् ते अग्न इधते अनीकꣳ वसिष्ठ शुक्र दीदिवः पावक । उतो न एभिः स्तवथैर् इह स्याः
वि ये ते अग्ने भेजिरे अनीकम् मर्ता नरः पित्र्यासः पुरुत्रा । उतो न एभिः सुमना इह स्याः
इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीर् अभि सन्तु मायाः । ये मे धियम् पनयन्त प्रशस्ताम्
मा शूने अग्ने नि षदाम नृणाम् माशेषसो ऽवीरता परि त्वा । प्रजावतीषु दुर्यासु दुर्य
यम् अश्वी नित्यम् उपयाति यज्ञम् प्रजावन्तꣳ स्वपत्यꣳ क्षयꣳ नः । स्वजन्मना शेषसा वावृधानम्
पाहि नो अग्ने रक्षसो अजुष्टात् पाहि धूर्तेर् अररुषो अघायोः । त्वा युजा पृतनायूꣳर् अभि ष्याम्
सेद् अग्निर् अग्नीꣳर् अत्य् अस्त्व् अन्यान् यत्र वाजी तनयो वीळुपाणिः । सहस्रपाथा अक्षरा समेति
सेद् अग्निर् यो वनुष्यतो निपाति समेद्धारम् अꣳहस उरुष्यात् । सुजातासः परि चरन्ति वीराः
अयꣳ सो अग्निर् आहुतः पुरुत्रा यम् ईशानः सम् इद् इन्धे हविष्मान् । परि यम् एत्य् अध्वरेषु होता
त्वे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या । उभा कृण्वन्तो वहतू मियेधे
इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिम् अच्छ । प्रति न ईꣳ सुरभीणि व्यन्तु
मा नो अग्ने ऽवीरते परा दा दुर्वाससे ऽमतये मा नो अस्यै । मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः
नू मे ब्रह्माण्य् अग्न उच् छशाधि त्वꣳ देव मघवद्भ्यः सुषूदः । रातौ स्यामोभयास आ ते यूयम् पात स्वस्तिभिः सदा नः
त्वम् अग्ने सुहवो रण्वसꣳदृक् सुदीती सूनो सहसो दिदीहि । मा त्वे सचा तनये नित्य आ धङ् मा वीरो अस्मन् नर्यो वि दासीत्
मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्व् अग्निषु प्र वोचः । मा ते अस्मान् दुर्मतयो भृमाच् चिद् देवस्य सूनो सहसो नशन्त
स मर्तो अग्ने स्वनीक रेवान् अमर्त्ये य आजुहोति हव्यम् । स देवता वसुवनिꣳ दधाति यꣳ सूरिर् अर्थी पृच्छमान एति
महो नो अग्ने सुवितस्य विद्वान् रयिꣳ सूरिभ्य आ वहा बृहन्तम् । येन वयꣳ सहसावन् मदेमाविक्षितास आयुषा सुवीराः
नू मे ब्रह्माण्य् अग्न उच् छशाधि त्वꣳ देव मघवद्भ्यः सुषूदः । रातौ स्यामोभयास आ ते यूयम् पात स्वस्तिभिः सदा नः
जुषस्व नः समिधम् अग्ने अद्य शोचा बृहद् यजतꣳ धूमम् ऋण्वन् । उप स्पृश दिव्यꣳ सानु स्तूपैः सꣳ रश्मिभिस् ततनः सूर्यस्य
नराशꣳसस्य महिमानम् एषाम् उप स्तोषाम यजतस्य यज्ञैः । ये सुक्रतवः शुचयो धियꣳधाः स्वदन्ति देवा उभयानि हव्या
ईळेन्यꣳ वो असुरꣳ सुदक्षम् अन्तर् दूतꣳ रोदसी सत्यवाचम् । मनुष्वद् अग्निम् मनुना समिद्धꣳ सम् अध्वराय सदम् इन् महेम
सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिर् अग्नौ । आजुह्वाना घृतपृष्ठम् पृषद्वद् अध्वर्यवो हविषा मर्जयध्वम्
स्वाध्यो३ वि दुरो देवयन्तो ऽशिश्रयू रथयुर् देवताता । पूर्वी शिशुꣳ न मातरा रिहाणे सम् अग्रुवो न समनेष्व् अञ्जन्
उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः । बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेताम्
विप्रा यज्ञेषु मानुषेषु कारू मन्ये वाꣳ जातवेदसा यजध्यै । ऊर्ध्वꣳ नो अध्वरꣳ कृतꣳ हवेषु ता देवेषु वनथो वार्याणि
आ भारती भारतीभिः सजोषा इळा देवैर् मनुष्येभिर् अग्निः । सरस्वती सारस्वतेभिर् अर्वाक् तिस्रो देवीर् बर्हिर् एदꣳ सदन्तु
तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः स्यस्व । यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः
वनस्पते ऽव सृजोप देवान् अग्निर् हविः शमिता सूदयाति । सेद् उ होता सत्यतरो यजाति यथा देवानाꣳ जनिमानि वेद
आ याह्य् अग्ने समिधानो अर्वाङ् इन्द्रेण देवैः सरथꣳ तुरेभिः । बर्हिर् न आस्ताम् अदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम्
अग्निꣳ वो देवम् अग्निभिः सजोषा यजिष्ठꣳ दूतम् अध्वरे कृणुध्वम् । यो मर्त्येषु निध्रुविर् ऋतावा तपुर्मूर्धा घृतान्नः पावकः
प्रोथद् अश्वो न यवसे ऽविष्यन् यदा महः सꣳवरणाद् व्य् अस्थात् । आद् अस्य वातो अनु वाति शोचिर् अध स्म ते व्रजनꣳ कृष्णम् अस्ति
उद् यस्य ते नवजातस्य वृष्णो ऽग्ने चरन्त्य् अजरा इधानाः । अच्छा द्याम् अरुषो धूम एति सꣳ दूतो अग्न ईयसे हि देवान्
वि यस्य ते पृथिव्याम् पाजो अश्रेत् तृषु यद् अन्ना समवृक्त जम्भैः । सेनेव सृष्टा प्रसितिष् ट एति यवꣳ न दस्म जुह्वा विवेक्षि
तम् इद् दोषा तम् उषसि यविष्ठम् अग्निम् अत्यꣳ न मर्जयन्त नरः । निशिशाना अतिथिम् अस्य योनौ दीदाय शोचिर् आहुतस्य वृष्णः
सुसꣳदृक् ते स्वनीक प्रतीकꣳ वि यद् रुक्मो न रोचस उपाके । दिवो न ते तन्यतुर् एति शुष्मश् चित्रो न सूरः प्रति चक्षि भानुम्
यथा वः स्वाहाग्नये दाशेम परीळाभिर् घृतवद्भिश् च हव्यैः । तेभिर् नो अग्ने अमितैर् महोभिः शतम् पूर्भिर् आयसीभिर् नि पाहि
या वा ते सन्ति दाशुषे अधृष्टा गिरो वा याभिर् नृवतीर् उरुष्याः । ताभिर् नः सूनो सहसो नि पाहि स्मत् सूरीञ् जरितॄञ् जातवेदः
निर् यत् पूतेव स्वधितिः शुचिर् गात् स्वया कृपा तन्वा३ रोचमानः । आ यो मात्रोर् उशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः
एता नो अग्ने सौभगा दिदीह्य् अपि क्रतुꣳ सुचेतसꣳ वतेम । विश्वा स्तोतृभ्यो गृणते च सन्तु यूयम् पात स्वस्तिभिः सदा नः
प्र वः शुक्राय भानवे भरध्वꣳ हव्यम् मतिꣳ चाग्नये सुपूतम् । यो दैव्यानि मानुषा जनूꣳष्य् अन्तर् विश्वानि विद्मना जिगाति
स गृत्सो अग्निस् तरुणश् चिद् अस्तु यतो यविष्ठो अजनिष्ट मातुः । सꣳ यो वना युवते शुचिदन् भूरि चिद् अन्ना सम् इद् अत्ति सद्यः
अस्य देवस्य सꣳसद्य् अनीके यम् मर्तासः श्येतꣳ जगृभ्रे । नि यो गृभम् पौरुषेयीम् उवोच दुरोकम् अग्निर् आयवे शुशोच
अयꣳ कविर् अकविषु प्रचेता मर्तेष्व् अग्निर् अमृतो नि धायि । स मा नो अत्र जुहुरः सहस्वः सदा त्वे सुमनसः स्याम
आ यो योनिꣳ देवकृतꣳ ससाद क्रत्वा ह्य् अ१ग्निर् अमृताꣳ अतारीत् । तम् ओषधीश् च वनिनश् च गर्भम् भूमिश् च विश्वधायसम् बिभर्ति
ईशे ह्य् अ१ग्निर् अमृतस्य भूरेर् ईशे रायः सुवीर्यस्य दातोः । मा त्वा वयꣳ सहसावन्न् अवीरा माप्सवः परि षदाम मादुवः
परिषद्यꣳ ह्य् अरणस्य रेक्णो नित्यस्य रायः पतयः स्याम । न शेषो अग्ने अन्यजातम् अस्त्य् अचेतानस्य मा पथो वि दुक्षः
नहि ग्रभायारणः सुशेवो ऽन्योदर्यो मनसा मन्तवा उ । अधा चिद् ओकः पुनर् इत् स एत्य् आ नो वाज्य् अभीषाळ् एतु नव्यः
त्वम् अग्ने वनुष्यतो नि पाहि त्वम् उ नः सहसावन्न् अवद्यात् । सꣳ त्वा ध्वस्मन्वद् अभ्य् एतु पाथः सꣳ रयिः स्पृहयाय्यः सहस्री
एता नो अग्ने सौभगा दिदीह्य् अपि क्रतुꣳ सुचेतसꣳ वतेम । विश्वा स्तोतृभ्यो गृणते च सन्तु यूयम् पात स्वस्तिभिः सदा नः
प्राग्नये तवसे भरध्वꣳ गिरꣳ दिवो अरतये पृथिव्याः । यो विश्वेषाम् अमृतानाम् उपस्थे वैश्वानरो वावृधे जागृवद्भिः
पृष्टो दिवि धाय्य् अग्निः पृथिव्याꣳ नेता सिन्धूनाꣳ वृषभः स्तियानाम् । स मानुषीर् अभि विशो वि भाति वैश्वानरो वावृधानो वरेण
त्वद् भिया विश आयन्न् असिक्नीर् असमना जहतीर् भोजनानि । वैश्वानर पूरवे शोशुचानः पुरो यद् अग्ने दरयन्न् अदीदेः
तव त्रिधातु पृथिवी उत द्यौर् वैश्वानर व्रतम् अग्ने सचन्त । त्वम् भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः
त्वाम् अग्ने हरितो वावशाना गिरः सचन्ते धुनयो घृताचीः । पतिꣳ कृष्टीनाꣳ रथ्यꣳ रयीणाꣳ वैश्वानरम् उषसाꣳ केतुम् अह्नाम्
त्वे असुर्य१ꣳ वसवो न्य् ऋण्वन् क्रतुꣳ हि ते मित्रमहो जुषन्त । त्वꣳ दस्यूꣳर् ओकसो अग्न आज उरु ज्योतिर् जनयन्न् आर्याय
स जायमानः परमे व्योमन् वायुर् न पाथः परि पासि सद्यः । त्वम् भुवना जनयन्न् अभि क्रन्न् अपत्याय जातवेदो दशस्यन्
ताम् अग्ने अस्मे इषम् एरयस्व वैश्वानर द्युमतीꣳ जातवेदः । यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे मर्त्याय
तꣳ नो अग्ने मघवद्भ्यः पुरुक्षुꣳ रयिꣳ नि वाजꣳ श्रुत्यꣳ युवस्व । वैश्वानर महि नः शर्म यच्छ रुद्रेभिर् अग्ने वसुभिः सजोषाः
प्र सम्राजो असुरस्य प्रशस्तिम् पुꣳसः कृष्टीनाम् अनुमाद्यस्य । इन्द्रस्येव प्र तवसस् कृतानि वन्दे दारुꣳ वन्दमानो विवक्मि
कविꣳ केतुꣳ धासिम् भानुम् अद्रेर् हिन्वन्ति शꣳ राज्यꣳ रोदस्योः । पुरꣳदरस्य गीर्भिर् आ विवासे ऽग्नेर् व्रतानि पूर्व्या महानि
न्य् अक्रतून् ग्रथिनो मृध्रवाचः पणीꣳर् अश्रद्धाꣳ अवृधाꣳ अयज्ञान् । प्र-प्र तान् दस्यूꣳर् अग्निर् विवाय पूर्वश् चकारापराꣳ अयज्यून्
यो अपाचीने तमसि मदन्तीः प्राचीश् चकार नृतमः शचीभिः । तम् ईशानꣳ वस्वो अग्निꣳ गृणीषे ऽनानतꣳ दमयन्तम् पृतन्यून्
यो देह्यो३ अनमयद् वधस्नैर् यो अर्यपत्नीर् उषसश् चकार । स निरुध्या नहुषो यह्वो अग्निर् विशश् चक्रे बलिहृतः सहोभिः
यस्य शर्मन्न् उप विश्वे जनास एवैस् तस्थुः सुमतिम् भिक्षमाणाः । वैश्वानरो वरम् आ रोदस्योर् आग्निः ससाद पित्रोर् उपस्थम्
आ देवो ददे बुध्न्या३ वसूनि वैश्वानर उदिता सूर्यस्य । आ समुद्राद् अवराद् आ परस्माद् आग्निर् ददे दिव आ पृथिव्याः
प्र वो देवꣳ चित् सहसानम् अग्निम् अश्वꣳ न वाजिनꣳ हिषे नमोभिः । भवा नो दूतो अध्वरस्य विद्वान् त्मना देवेषु विविदे मितद्रुः
आ याह्य् अग्ने पथ्या३ अनु स्वा मन्द्रो देवानाꣳ सख्यꣳ जुषाणः । आ सानु शुष्मैर् नदयन् पृथिव्या जम्भेभिर् विश्वम् उशधग् वनानि
प्राचीनो यज्ञः सुधितꣳ हि बर्हिः प्रीणीते अग्निर् ईळितो न होता । आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः
सद्यो अध्वरे रथिरꣳ जनन्त मानुषासो विचेतसो य एषाम् । विशाम् अधायि विश्पतिर् दुरोणे३ ऽग्निर् मन्द्रो मधुवचा ऋतावा
असादि वृतो वह्निर् आजगन्वान् अग्निर् ब्रह्मा नृषदने विधर्ता । द्यौश् च यम् पृथिवी वावृधाते आ यꣳ होता यजति विश्ववारम्
एते द्युम्नेभिर् विश्वम् आतिरन्त मन्त्रꣳ ये वारꣳ नर्या अतक्षन् । प्र ये विशस् तिरन्त श्रोषमाणा आ ये मे अस्य दीधयन्न् ऋतस्य
नू त्वाम् अग्न ईमहे वसिष्ठा ईशानꣳ सूनो सहसो वसूनाम् । इषꣳ स्तोतृभ्यो मघवद्भ्य आनड् यूयम् पात स्वस्तिभिः सदा नः
इन्धे राजा सम् अर्यो नमोभिर् यस्य प्रतीकम् आहुतꣳ घृतेन । नरो हव्येभिर् ईळते सबाध आग्निर् अग्र उषसाम् अशोचि
अयम् उ ष्य सुमहाꣳ अवेदि होता मन्द्रो मनुषो यह्वो अग्निः । वि भा अकः ससृजानः पृथिव्याꣳ कृष्णपविर् ओषधीभिर् ववक्षे
कया नो अग्ने वि वसः सुवृक्तिꣳ काम् उ स्वधाम् ऋणवः शस्यमानः । कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः
प्र-प्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः । अभि यः पूरुम् पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच
असन्न् इत् त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः । स्तुतश् चिद् अग्ने शृण्विषे गृणानः स्वयꣳ वर्धस्व तन्वꣳ सुजात
इदꣳ वचः शतसाः सꣳसहस्रम् उद् अग्नये जनिषीष्ट द्विबर्हाः । शꣳ यत् स्तोतृभ्य आपये भवाति द्युमद् अमीवचातनꣳ रक्षोहा
नू त्वाम् अग्न ईमहे वसिष्ठा ईशानꣳ सूनो सहसो वसूनाम् । इषꣳ स्तोतृभ्यो मघवद्भ्य आनड् यूयम् पात स्वस्तिभिः सदा नः
अबोधि जार उषसाम् उपस्थाद् धोता मन्द्रः कवितमः पावकः । दधाति केतुम् उभयस्य जन्तोर् हव्या देवेषु द्रविणꣳ सुकृत्सु
स सुक्रतुर् यो वि दुरः पणीनाम् पुनानो अर्कम् पुरुभोजसꣳ नः । होता मन्द्रो विशाꣳ दमूनास् तिरस् तमो ददृशे राम्याणाम्
अमूरः कविर् अदितिर् विवस्वान् सुसꣳसन् मित्रो अतिथिः शिवो नः । चित्रभानुर् उषसाम् भात्य् अग्रे ऽपाꣳ गर्भः प्रस्व१ आ विवेश
ईळेन्यो वो मनुषो युगेषु समनगा अशुचज् जातवेदाः । सुसꣳदृशा भानुना यो विभाति प्रति गावः समिधानम् बुधन्त
अग्ने याहि दूत्य१म् मा रिषण्यो देवाꣳ अच्छा ब्रह्मकृता गणेन । सरस्वतीम् मरुतो अश्विनापो यक्षि देवान् रत्नधेयाय विश्वान्
त्वाम् अग्ने समिधानो वसिष्ठो जरूथꣳ हन् यक्षि राये पुरꣳधिम् । पुरुणीथा जातवेदो जरस्व यूयम् पात स्वस्तिभिः सदा नः
उषो न जारः पृथु पाजो अश्रेद् दविद्युतद् दीद्यच् छोशुचानः । वृषा हरिः शुचिर् आ भाति भासा धियो हिन्वान उशतीर् अजीगः
स्व१र् ण वस्तोर् उषसाम् अरोचि यज्ञꣳ तन्वाना उशिजो न मन्म । अग्निर् जन्मानि देव आ वि विद्वान् द्रवद् दूतो देवयावा वनिष्ठः
अच्छा गिरो मतयो देवयन्तीर् अग्निꣳ यन्ति द्रविणम् भिक्षमाणाः । सुसꣳदृशꣳ सुप्रतीकꣳ स्वञ्चꣳ हव्यवाहम् अरतिम् मानुषाणाम्
इन्द्रꣳ नो अग्ने वसुभिः सजोषा रुद्रꣳ रुद्रेभिर् आ वहा बृहन्तम् । आदित्येभिर् अदितिꣳ विश्वजन्याम् बृहस्पतिम् ऋक्वभिर् विश्ववारम्
मन्द्रꣳ होतारम् उशिजो यविष्ठम् अग्निꣳ विश ईळते अध्वरेषु । स हि क्षपावाꣳ अभवद् रयीणाम् अतन्द्रो दूतो यजथाय देवान्
महाꣳ अस्य् अध्वरस्य प्रकेतो न ऋते त्वद् अमृता मादयन्ते । आ विश्वेभिः सरथꣳ याहि देवैर् न्य् अग्ने होता प्रथमः सदेह
त्वाम् ईळते अजिरꣳ दूत्याय हविष्मन्तः सदम् इन् मानुषासः । यस्य देवैर् आसदो बर्हिर् अग्ने ऽहान्य् अस्मै सुदिना भवन्ति
त्रिश् चिद् अक्तोः प्र चिकितुर् वसूनि त्वे अन्तर् दाशुषे मर्त्याय । मनुष्वद् अग्न इह यक्षि देवान् भवा नो दूतो अभिशस्तिपावा
अग्निर् ईशे बृहतो अध्वरस्याग्निर् विश्वस्य हविषः कृतस्य । क्रतुꣳ ह्य् अस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम्
आग्ने वह हविरद्याय देवान् इन्द्रज्येष्ठास इह मादयन्ताम् । इमꣳ यज्ञꣳ दिवि देवेषु धेहि यूयम् पात स्वस्तिभिः सदा नः
अगन्म महा नमसा यविष्ठꣳ यो दीदाय समिद्धः स्वे दुरोणे । चित्रभानुꣳ रोदसी अन्तर् उर्वी स्वाहुतꣳ विश्वतः प्रत्यञ्चम्
स मह्ना विश्वा दुरितानि साह्वान् अग्निः ष्टवे दम आ जातवेदाः । स नो रक्षिषद् दुरिताद् अवद्याद् अस्मान् गृणत उत नो मघोनः
त्वꣳ वरुण उत मित्रो अग्ने त्वाꣳ वर्धन्ति मतिभिर् वसिष्ठाः । त्वे वसु सुषणनानि सन्तु यूयम् पात स्वस्तिभिः सदा नः
प्राग्नये विश्वशुचे धियꣳधे ऽसुरघ्ने मन्म धीतिम् भरध्वम् । भरे हविर् न बर्हिषि प्रीणानो वैश्वानराय यतये मतीनाम्
त्वम् अग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः । त्वꣳ देवाꣳ अभिशस्तेर् अमुञ्चो वैश्वानर जातवेदो महित्वा
जातो यद् अग्ने भुवना व्य् अख्यः पशून् न गोपा इर्यः परिज्मा । वैश्वानर ब्रह्मणे विन्द गातुꣳ यूयम् पात स्वस्तिभिः सदा नः
समिधा जातवेदसे देवाय देवहूतिभिः । हविर्भिः शुक्रशोचिषे नमस्विनो वयꣳ दाशेमाग्नये
वयꣳ ते अग्ने समिधा विधेम वयꣳ दाशेम सुष्टुती यजत्र । वयꣳ घृतेनाध्वरस्य होतर् वयꣳ देव हविषा भद्रशोचे
आ नो देवेभिर् उप देवहूतिम् अग्ने याहि वषट्कृतिꣳ जुषाणः । तुभ्यꣳ देवाय दाशतः स्याम यूयम् पात स्वस्तिभिः सदा नः
उपसद्याय मीळ्हुष आस्ये जुहुता हविः । यो नो नेदिष्ठम् आप्यम्
यः पञ्च चर्षणीर् अभि निषसाद दमे-दमे । कविर् गृहपतिर् युवा
स नो वेदो अमात्यम् अग्नी रक्षतु विश्वतः । उतास्मान् पात्व् अꣳहसः
नवꣳ नु स्तोमम् अग्नये दिवः श्येनाय जीजनम् । वस्वः कुविद् वनाति नः
स्पार्हा यस्य श्रियो दृशे रयिर् वीरवतो यथा । अग्रे यज्ञस्य शोचतः
सेमाꣳ वेतु वषट्कृतिम् अग्निर् जुषत नो गिरः । यजिष्ठो हव्यवाहनः
नि त्वा नक्ष्य विश्पते द्युमन्तꣳ देव धीमहि । सुवीरम् अग्न आहुत
क्षप उस्रश् च दीदिहि स्वग्नयस् त्वया वयम् । सुवीरस् त्वम् अस्मयुः
उप त्वा सातये नरो विप्रासो यन्ति धीतिभिः । उपाक्षरा सहस्रिणी
अग्नी रक्षाꣳसि सेधति शुक्रशोचिर् अमर्त्यः । शुचिः पावक ईड्यः
स नो राधाꣳस्य् आ भरेशानः सहसो यहो । भगश् च दातु वार्यम्
त्वम् अग्ने वीरवद् यशो देवश् च सविता भगः । दितिश् च दाति वार्यम्
अग्ने रक्षा णो अꣳहसः प्रति ष्म देव रीषतः । तपिष्ठैर् अजरो दह
अधा मही न आयस्य् अनाधृष्टो नृपीतये । पूर् भवा शतभुजिः
त्वꣳ नः पाह्य् अꣳहसो दोषावस्तर् अघायतः । दिवा नक्तम् अदाभ्य
एना वो अग्निꣳ नमसोर्जो नपातम् आ हुवे । प्रियꣳ चेतिष्ठम् अरतिꣳ स्वध्वरꣳ विश्वस्य दूतम् अमृतम्
स योजते अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः । सुब्रह्मा यज्ञः सुशमी वसूनाꣳ देवꣳ राधो जनानाम्
उद् अस्य शोचिर् अस्थाद् आजुह्वानस्य मीळ्हुषः । उद् धूमासो अरुषासो दिविस्पृशः सम् अग्निम् इन्धते नरः
तꣳ त्वा दूतꣳ कृण्महे यशस्तमꣳ देवाꣳ आ वीतये वह । विश्वा सूनो सहसो मर्तभोजना रास्व तद् यत् त्वेमहे
त्वम् अग्ने गृहपतिस् त्वꣳ होता नो अध्वरे । त्वम् पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम्
कृधि रत्नꣳ यजमानाय सुक्रतो त्वꣳ हि रत्नधा असि । आ न ऋते शिशीहि विश्वम् ऋत्विजꣳ सुशꣳसो यश् च दक्षते
त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः । यन्तारो ये मघवानो जनानाम् ऊर्वान् दयन्त गोनाम्
येषाम् इळा घृतहस्ता दुरोण आꣳ अपि प्राता निषीदति । ताꣳस् त्रायस्व सहस्य द्रुहो निदो यच्छा नः शर्म दीर्घश्रुत्
स मन्द्रया च जिह्वया वह्निर् आसा विदुष्टरः । अग्ने रयिम् मघवद्भ्यो न आ वह हव्यदातिꣳ च सूदय
ये राधाꣳसि ददत्य् अश्व्या मघा कामेन श्रवसो महः । ताꣳ अꣳहसः पिपृहि पर्तृभिष् ट्वꣳ शतम् पूर्भिर् यविष्ठ्य
देवो वो द्रविणोदाः पूर्णाꣳ विवष्ट्य् आसिचम् । उद् वा सिञ्चध्वम् उप वा पृणध्वम् आद् इद् वो देव ओहते
तꣳ होतारम् अध्वरस्य प्रचेतसꣳ वह्निꣳ देवा अकृण्वत । दधाति रत्नꣳ विधते सुवीर्यम् अग्निर् जनाय दाशुषे
अग्ने भव सुषमिधा समिद्ध उत बर्हिर् उर्विया वि स्तृणीताम्
उत द्वार उशतीर् वि श्रयन्ताम् उत देवाꣳ उशत आ वहेह
अग्ने वीहि हविषा यक्षि देवान् स्वध्वरा कृणुहि जातवेदः
स्वध्वरा करति जातवेदा यक्षद् देवाꣳ अमृतान् पिप्रयच् च
वꣳस्व विश्वा वार्याणि प्रचेतः सत्या भवन्त्व् आशिषो नो अद्य
त्वाम् उ ते दधिरे हव्यवाहꣳ देवासो अग्न ऊर्ज आ नपातम्
ते ते देवाय दाशतः स्याम महो नो रत्ना वि दध इयानः
त्वे ह यत् पितरश् चिन् न इन्द्र विश्वा वामा जरितारो असन्वन् । त्वे गावः सुदुघास् त्वे ह्य् अश्वास् त्वꣳ वसु देवयते वनिष्ठः
राजेव हि जनिभिः क्षेष्य् एवाव द्युभिर् अभि विदुष् कविः सन् । पिशा गिरो मघवन् गोभिर् अश्वैस् त्वायतः शिशीहि राये अस्मान्
इमा उ त्वा पस्पृधानासो अत्र मन्द्रा गिरो देवयन्तीर् उप स्थुः । अर्वाची ते पथ्या राय एतु स्याम ते सुमताव् इन्द्र शर्मन्
धेनुꣳ न त्वा सूयवसे दुदुक्षन्न् उप ब्रह्माणि ससृजे वसिष्ठः । त्वाम् इन् मे गोपतिꣳ विश्व आहा न इन्द्रः सुमतिꣳ गन्त्व् अच्छ
अर्णाꣳसि चित् पप्रथाना सुदास इन्द्रो गाधान्य् अकृणोत् सुपारा । शर्धन्तꣳ शिम्युम् उचथस्य नव्यः शापꣳ सिन्धूनाम् अकृणोद् अशस्तीः
पुरोळा इत् तुर्वशो यक्षुर् आसीद् राये मत्स्यासो निशिता अपीव । श्रुष्टिꣳ चक्रुर् भृगवो द्रुह्यवश् च सखा सखायम् अतरद् विषूचोः
आ पक्थासो भलानसो भनन्तालिनासो विषाणिनः शिवासः । आ यो ऽनयत् सधमा आर्यस्य गव्या तृत्सुभ्यो अजगन् युधा नॄन्
दुराध्यो३ अदितिꣳ स्रेवयन्तो ऽचेतसो वि जगृभ्रे परुष्णीम् । मह्नाविव्यक् पृथिवीम् पत्यमानः पशुष् कविर् अशयच् चायमानः
ईयुर् अर्थꣳ न न्यर्थम् परुष्णीम् आशुश् चनेद् अभिपित्वꣳ जगाम । सुदास इन्द्रः सुतुकाꣳ अमित्रान् अरन्धयन् मानुषे वध्रिवाचः
ईयुर् गावो न यवसाद् अगोपा यथाकृतम् अभि मित्रꣳ चितासः । पृश्निगावः पृश्निनिप्रेषितासः श्रुष्टिꣳ चक्रुर् नियुतो रन्तयश् च
एकꣳ च यो विꣳशतिꣳ च श्रवस्या वैकर्णयोर् जनान् राजा न्य् अस्तः । दस्मो न सद्मन् नि शिशाति बर्हिः शूरः सर्गम् अकृणोद् इन्द्र एषाम्
अध श्रुतꣳ कवषꣳ वृद्धम् अप्स्व् अनु द्रुह्युꣳ नि वृणग् वज्रबाहुः । वृणाना अत्र सख्याय सख्यꣳ त्वायन्तो ये अमदन्न् अनु त्वा
वि सद्यो विश्वा दृꣳहितान्य् एषाम् इन्द्रः पुरः सहसा सप्त दर्दः । व्य् आनवस्य तृत्सवे गयम् भाग् जेष्म पूरुꣳ विदथे मृध्रवाचम्
नि गव्यवो ऽनवो द्रुह्यवश् च षष्टिः शता सुषुपुः षट् सहस्रा । षष्टिर् वीरासो अधि षड् दुवोयु विश्वेद् इन्द्रस्य वीर्या कृतानि
इन्द्रेणैते तृत्सवो वेविषाणा आपो न सृष्टा अधवन्त नीचीः । दुर्मित्रासः प्रकलविन् मिमाना जहुर् विश्वानि भोजना सुदासे
अर्धꣳ वीरस्य शृतपाम् अनिन्द्रम् परा शर्धन्तꣳ नुनुदे अभि क्षाम् । इन्द्रो मन्युम् मन्युम्यो मिमाय भेजे पथो वर्तनिम् पत्यमानः
आध्रेण चित् तद् व् एकꣳ चकार सिꣳह्यꣳ चित् पेत्वेना जघान । अव स्रक्तीर् वेश्यावृश्चद् इन्द्रः प्रायच्छद् विश्वा भोजना सुदासे
शश्वन्तो हि शत्रवो रारधुष् टे भेदस्य चिच् छर्धतो विन्द रन्धिम् । मर्ताꣳ एनः स्तुवतो यः कृणोति तिग्मꣳ तस्मिन् नि जहि वज्रम् इन्द्र
आवद् इन्द्रꣳ यमुना तृत्सवश् च प्रात्र भेदꣳ सर्वताता मुषायत् । अजासश् च शिग्रवो यक्षवश् च बलिꣳ शीर्षाणि जभ्रुर् अश्व्यानि
न त इन्द्र सुमतयो न रायः सꣳचक्षे पूर्वा उषसो न नूत्नाः । देवकꣳ चिन् मान्यमानꣳ जघन्थाव त्मना बृहतः शम्बरम् भेत्
प्र ये गृहाद् अममदुस् त्वाया पराशरः शतयातुर् वसिष्ठः । न ते भोजस्य सख्यम् मृषन्ताधा सूरिभ्यः सुदिना व्य् उच्छान्
द्वे नप्तुर् देववतः शते गोर् द्वा रथा वधूमन्ता सुदासः । अर्हन्न् अग्ने पैजवनस्य दानꣳ होतेव सद्म पर्य् एमि रेभन्
चत्वारो मा पैजवनस्य दानाः स्मद्दिष्टयः कृशनिनो निरेके । ऋज्रासो मा पृथिविष्ठाः सुदासस् तोकꣳ तोकाय श्रवसे वहन्ति
यस्य श्रवो रोदसी अन्तर् उर्वी शीर्ष्णे-शीर्ष्णे विबभाजा विभक्ता । सप्तेद् इन्द्रꣳ न स्रवतो गृणन्ति नि युध्यामधिम् अशिशाद् अभीके
इमꣳ नरो मरुतः सश्चतानु दिवोदासꣳ न पितरꣳ सुदासः । अविष्टना पैजवनस्य केतꣳ दूणाशꣳ क्षत्रम् अजरꣳ दुवोयु
यस् तिग्मशृङ्गो वृषभो न भीम एकः कृष्टीश् च्यावयति प्र विश्वाः । यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः
त्वꣳ ह त्यद् इन्द्र कुत्सम् आवः शुश्रूषमाणस् तन्वा समर्ये । दासꣳ यच् छुष्णꣳ कुयवꣳ न्य् अस्मा अरन्धय आर्जुनेयाय शिक्षन्
त्वꣳ धृष्णो धृषता वीतहव्यम् प्रावो विश्वाभिर् ऊतिभिः सुदासम् । प्र पौरुकुत्सिꣳ त्रसदस्युम् आवः क्षेत्रसाता वृत्रहत्येषु पूरुम्
त्वꣳ नृभिर् नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हꣳसि । त्वꣳ नि दस्युꣳ चुमुरिꣳ धुनिꣳ चास्वापयो दभीतये सुहन्तु
तव च्यौत्नानि वज्रहस्त तानि नव यत् पुरो नवतिꣳ च सद्यः । निवेशने शततमाविवेषीर् अहञ् च वृत्रꣳ नमुचिम् उताहन्
सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे । वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम्
मा ते अस्याꣳ सहसावन् परिष्टाव् अघाय भूम हरिवः परादै । त्रायस्व नो ऽवृकेभिर् वरूथैस् तव प्रियासः सूरिषु स्याम
प्रियास इत् ते मघवन्न् अभिष्टौ नरो मदेम शरणे सखायः । नि तुर्वशꣳ नि याद्वꣳ शिशीह्य् अतिथिग्वाय शꣳस्यꣳ करिष्यन्
सद्यश् चिन् नु ते मघवन्न् अभिष्टौ नरः शꣳसन्त्य् उक्थशास उक्था । ये ते हवेभिर् वि पणीꣳर् अदाशन्न् अस्मान् वृणीष्व युज्याय तस्मै
एते स्तोमा नराꣳ नृतम तुभ्यम् अस्मद्र्यञ्चो ददतो मघानि । तेषाम् इन्द्र वृत्रहत्ये शिवो भूः सखा च शूरो ऽविता च नृणाम्
नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस् तन्वा वावृधस्व । उप नो वाजान् मिमीह्य् उप स्तीन् यूयम् पात स्वस्तिभिः सदा नः
उग्रो जज्ञे वीर्याय स्वधावाञ् चक्रिर् अपो नर्यो यत् करिष्यन् । जग्मिर् युवा नृषदनम् अवोभिस् त्राता न इन्द्र एनसो महश् चित्
हन्ता वृत्रम् इन्द्रः शूशुवानः प्रावीन् नु वीरो जरितारम् ऊती । कर्ता सुदासे अह वा उ लोकꣳ दाता वसु मुहुर् आ दाशुषे भूत्
युध्मो अनर्वा खजकृत् समद्वा शूरः सत्राषाड् जनुषेम् अषाळ्हः । व्य् आस इन्द्रः पृतनाः स्वोजा अधा विश्वꣳ शत्रूयन्तꣳ जघान
उभे चिद् इन्द्र रोदसी महित्वा पप्राथ तविषीभिस् तुविष्मः । नि वज्रम् इन्द्रो हरिवान् मिमिक्षन् सम् अन्धसा मदेषु वा उवोच
वृषा जजान वृषणꣳ रणाय तम् उ चिन् नारी नर्यꣳ ससूव । प्र यः सेनानीर् अध नृभ्यो अस्तीनः सत्वा गवेषणः स धृष्णुः
नू चित् स भ्रेषते जनो न रेषन् मनो यो अस्य घोरम् आविवासात् । यज्ञैर् य इन्द्रे दधते दुवाꣳसि क्षयत् स राय ऋतपा ऋतेजाः
यद् इन्द्र पूर्वो अपराय शिक्षन्न् अयज् ज्यायान् कनीयसो देष्णम् । अमृत इत् पर्य् आसीत दूरम् आ चित्र चित्र्यम् भरा रयिꣳ नः
यस् त इन्द्र प्रियो जनो ददाशद् असन् निरेके अद्रिवः सखा ते । वयꣳ ते अस्याꣳ सुमतौ चनिष्ठाः स्याम वरूथे अघ्नतो नृपीतौ
एष स्तोमो अचिक्रदद् वृषा त उत स्तामुर् मघवन्न् अक्रपिष्ट । रायस् कामो जरितारꣳ त आगन् त्वम् अङ्ग शक्र वस्व आ शको नः
स न इन्द्र त्वयताया इषे धास् त्मना च ये मघवानो जुनन्ति । वस्वी षु ते जरित्रे अस्तु शक्तिर् यूयम् पात स्वस्तिभिः सदा नः
असावि देवꣳ गोऋजीकम् अन्धो न्य् अस्मिन्न् इन्द्रो जनुषेम् उवोच । बोधामसि त्वा हर्यश्व यज्ञैर् बोधा नः स्तोमम् अन्धसो मदेषु
प्र यन्ति यज्ञꣳ विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः । न्य् उ भ्रियन्ते यशसो गृभाद् आ दूरüपब्दो वृषणो नृषाचः
त्वम् इन्द्र स्रवितवा अपस् कः परिष्ठिता अहिना शूर पूर्वीः । त्वद् वावक्रे रथ्यो३ न धेना रेजन्ते विश्वा कृत्रिमाणि भीषा
भीमो विवेषायुधेभिर् एषाम् अपाꣳसि विश्वा नर्याणि विद्वान् । इन्द्रः पुरो जर्हृषाणो वि दूधोद् वि वज्रहस्तो महिना जघान
न यातव इन्द्र जूजुवुर् नो न वन्दना शविष्ठ वेद्याभिः । स शर्धद् अर्यो विषुणस्य जन्तोर् मा शिश्नदेवा अपि गुर् ऋतꣳ नः
अभि क्रत्वेन्द्र भूर् अध ज्मन् न ते विव्यङ् महिमानꣳ रजाꣳसि । स्वेना हि वृत्रꣳ शवसा जघन्थ न शत्रुर् अन्तꣳ विविदद् युधा ते
देवाश् चित् ते असुर्याय पूर्वे ऽनु क्षत्राय ममिरे सहाꣳसि । इन्द्रो मघानि दयते विषह्येन्द्रꣳ वाजस्य जोहुवन्त सातौ
कीरिश् चिद् धि त्वाम् अवसे जुहावेशानम् इन्द्र सौभगस्य भूरेः । अवो बभूथ शतमूते अस्मे अभिक्षत्तुस् त्वावतो वरूता
सखायस् त इन्द्र विश्वह स्याम नमोवृधासो महिना तरुत्र । वन्वन्तु स्मा ते ऽवसा समीके३ ऽभीतिम् अर्यो वनुषाꣳ शवाꣳसि
स न इन्द्र त्वयताया इषे धास् त्मना च ये मघवानो जुनन्ति । वस्वी षु ते जरित्रे अस्तु शक्तिर् यूयम् पात स्वस्तिभिः सदा नः
पिबा सोमम् इन्द्र मन्दतु त्वा यꣳ ते सुषाव हर्यश्वाद्रिः । सोतुर् बाहुभ्याꣳ सुयतो नार्वा
यस् ते मदो युज्यश् चारुर् अस्ति येन वृत्राणि हर्यश्व हꣳसि । स त्वाम् इन्द्र प्रभूवसो ममत्तु
बोधा सु मे मघवन् वाचम् एमाꣳ याꣳ ते वसिष्ठो अर्चति प्रशस्तिम् । इमा ब्रह्म सधमादे जुषस्व
श्रुधी हवꣳ विपिपानस्याद्रेर् बोधा विप्रस्यार्चतो मनीषाम् । कृष्वा दुवाꣳस्य् अन्तमा सचेमा
न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिम् असुर्यस्य विद्वान् । सदा ते नाम स्वयशो विवक्मि
भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वाम् इत् । मारे अस्मन् मघवञ् ज्योक् कः
तुभ्येद् इमा सवना शूर विश्वा तुभ्यम् ब्रह्माणि वर्धना कृणोमि । त्वꣳ नृभिर् हव्यो विश्वधासि
नू चिन् नु ते मन्यमानस्य दस्मोद् अश्नुवन्ति महिमानम् उग्र । न वीर्यम् इन्द्र ते न राधः
ये च पूर्व ऋषयो ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त विप्राः । अस्मे ते सन्तु सख्या शिवानि यूयम् पात स्वस्तिभिः सदा नः
उद् उ ब्रह्माण्य् ऐरत श्रवस्येन्द्रꣳ समर्ये महया वसिष्ठ । आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचाꣳसि
अयामि घोष इन्द्र देवजामिर् इरज्यन्त यच् छुरुधो विवाचि । नहि स्वम् आयुश् चिकिते जनेषु तानीद् अꣳहाꣳस्य् अति पर्ष्य् अस्मान्
युजे रथꣳ गवेषणꣳ हरिभ्याम् उप ब्रह्माणि जुजुषाणम् अस्थुः । वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्य् अप्रती जघन्वान्
आपश् चित् पिप्युः स्तर्यो३ न गावो नक्षन्न् ऋतꣳ जरितारस् त इन्द्र । याहि वायुर् न नियुतो नो अच्छा त्वꣳ हि धीभिर् दयसे वि वाजान्
ते त्वा मदा इन्द्र मादयन्तु शुष्मिणꣳ तुविराधसꣳ जरित्रे । एको देवत्रा दयसे हि मर्तान् अस्मिञ् छूर सवने मादयस्व
एवेद् इन्द्रꣳ वृषणꣳ वज्रबाहुꣳ वसिष्ठासो अभ्य् अर्चन्त्य् अर्कैः । स नः स्तुतो वीरवद् धातु गोमद् यूयम् पात स्वस्तिभिः सदा नः
योनिष् ट इन्द्र सदने अकारि तम् आ नृभिः पुरुहूत प्र याहि । असो यथा नो ऽविता वृधे च ददो वसूनि ममदश् च सोमैः
गृभीतꣳ ते मन इन्द्र द्विबर्हाः सुतः सोमः परिषिक्ता मधूनि । विसृष्टधेना भरते सुवृक्तिर् इयम् इन्द्रꣳ जोहुवती मनीषा
आ नो दिव आ पृथिव्या ऋजीषिन्न् इदम् बर्हिः सोमपेयाय याहि । वहन्तु त्वा हरयो मद्र्यञ्चम् आङ्गूषम् अच्छा तवसम् मदाय
आ नो विश्वाभिर् ऊतिभिः सजोषा ब्रह्म जुषाणो हर्यश्व याहि । वरीवृजत् स्थविरेभिः सुशिप्रास्मे दधद् वृषणꣳ शुष्मम् इन्द्र
एष स्तोमो मह उग्राय वाहे धुरी३वात्यो न वाजयन्न् अधायि । इन्द्र त्वायम् अर्क ईट्टे वसूनाꣳ दिवीव द्याम् अधि नः श्रोमतꣳ धाः
एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीꣳ सुमतिꣳ वेविदाम । इषम् पिन्व मघवद्भ्यः सुवीराꣳ यूयम् पात स्वस्तिभिः सदा नः
आ ते मह इन्द्रोत्य् उग्र समन्यवो यत् समरन्त सेनाः । पताति दिद्युन् नर्यस्य बाह्वोर् मा ते मनो विष्वद्र्य१ग् वि चारीत्
नि दुर्ग इन्द्र श्नथिह्य् अमित्राꣳ अभि ये नो मर्तासो अमन्ति । आरे तꣳ शꣳसꣳ कृणुहि निनित्सोर् आ नो भर सम्भरणꣳ वसूनाम्
शतꣳ ते शिप्रिन्न् ऊतयः सुदासे सहस्रꣳ शꣳसा उत रातिर् अस्तु । जहि वधर् वनुषो मर्त्यस्यास्मे द्युम्नम् अधि रत्नꣳ च धेहि
त्वावतो हीन्द्र क्रत्वे अस्मि त्वावतो ऽवितुः शूर रातौ । विश्वेद् अहानि तविषीव उग्रꣳ ओकः कृणुष्व हरिवो न मर्धीः
कुत्सा एते हर्यश्वाय शूषम् इन्द्रे सहो देवजूतम् इयानाः । सत्रा कृधि सुहना शूर वृत्रा वयꣳ तरुत्राः सनुयाम वाजम्
एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीꣳ सुमतिꣳ वेविदाम । इषम् पिन्व मघवद्भ्यः सुवीराꣳ यूयम् पात स्वस्तिभिः सदा नः
न सोम इन्द्रम् असुतो ममाद नाब्रह्माणो मघवानꣳ सुतासः । तस्मा उक्थꣳ जनये यज् जुजोषन् नृवन् नवीयः शृणवद् यथा नः
उक्थ-उक्थे सोम इन्द्रम् ममाद नीथे-नीथे मघवानꣳ सुतासः । यद् ईꣳ सबाधः पितरꣳ न पुत्राः समानदक्षा अवसे हवन्ते
चकार ता कृणवन् नूनम् अन्या यानि ब्रुवन्ति वेधसः सुतेषु । जनीर् इव पतिर् एकः समानो नि मामृजे पुर इन्द्रः सु सर्वाः
एवा तम् आहुर् उत शृण्व इन्द्र एको विभक्ता तरणिर् मघानाम् । मिथस्तुर ऊतयो यस्य पूर्वीर् अस्मे भद्राणि सश्चत प्रियाणि
एवा वसिष्ठ इन्द्रम् ऊतये नॄन् कृष्टीनाꣳ वृषभꣳ सुते गृणाति । सहस्रिण उप नो माहि वाजान् यूयम् पात स्वस्तिभिः सदा नः
इन्द्रꣳ नरो नेमधिता हवन्ते यत् पार्या युनजते धियस् ताः । शूरो नृषाता शवसश् चकान आ गोमति व्रजे भजा त्वꣳ नः
य इन्द्र शुष्मो मघवन् ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः । त्वꣳ हि दृळ्हा मघवन् विचेता अपा वृधि परिवृतꣳ न राधः
इन्द्रो राजा जगतश् चर्षणीनाम् अधि क्षमि विषुरूपꣳ यद् अस्ति । ततो ददाति दाशुषे वसूनि चोदद् राध उपस्तुतश् चिद् अर्वाक्
नू चिन् न इन्द्रो मघवा सहूती दानो वाजꣳ नि यमते न ऊती । अनूना यस्य दक्षिणा पीपाय वामꣳ नृभ्यो अभिवीता सखिभ्यः
नू इन्द्र राये वरिवस् कृधी न आ ते मनो ववृत्याम मघाय । गोमद् अश्वावद् रथवद् व्यन्तो यूयम् पात स्वस्तिभिः सदा नः
ब्रह्मा ण इन्द्रोप याहि विद्वान् अर्वाञ्चस् ते हरयः सन्तु युक्ताः । विश्वे चिद् धि त्वा विहवन्त मर्ता अस्माकम् इच् छृणुहि विश्वमिन्व
हवꣳ त इन्द्र महिमा व्य् आनड् ब्रह्म यत् पासि शवसिन्न् ऋषीणाम् । आ यद् वज्रꣳ दधिषे हस्त उग्र घोरः सन् क्रत्वा जनिष्ठा अषाळ्हः
तव प्रणीतीन्द्र जोहुवानान् सꣳ यन् नॄन् न रोदसी निनेथ । महे क्षत्राय शवसे हि जज्ञे ऽतूतुजिꣳ चित् तूतुजिर् अशिश्नत्
एभिर् न इन्द्राहभिर् दशस्य दुर्मित्रासो हि क्षितयः पवन्ते । प्रति यच् चष्टे अनृतम् अनेना अव द्विता वरुणो मायी नः सात्
वोचेमेद् इन्द्रम् मघवानम् एनम् महो रायो राधसो यद् ददन् नः । यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः
अयꣳ सोम इन्द्र तुभ्यꣳ सुन्व आ तु प्र याहि हरिवस् तदोकाः । पिबा त्व् अ१स्य सुषुतस्य चारोर् ददो मघानि मघवन्न् इयानः
ब्रह्मन् वीर ब्रह्मकृतिꣳ जुषाणो ऽर्वाचीनो हरिभिर् याहि तूयम् । अस्मिन्न् ऊ षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः
का ते अस्त्य् अरꣳकृतिः सूक्तैः कदा नूनꣳ ते मघवन् दाशेम । विश्वा मतीर् आ ततने त्वायाधा म इन्द्र शृणवो हवेमा
उतो घा ते पुरुष्या३ इद् आसन् येषाम् पूर्वेषाम् अशृणोर् ऋषीणाम् । अधाहꣳ त्वा मघवञ् जोहवीमि त्वꣳ न इन्द्रासि प्रमतिः पितेव
वोचेमेद् इन्द्रम् मघवानम् एनम् महो रायो राधसो यद् ददन् नः । यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः
आ नो देव शवसा याहि शुष्मिन् भवा वृध इन्द्र रायो अस्य । महे नृम्णाय नृपते सुवज्र महि क्षत्राय पौꣳस्याय शूर
हवन्त उ त्वा हव्यꣳ विवाचि तनूषु शूराः सूर्यस्य सातौ । त्वꣳ विश्वेषु सेन्यो जनेषु त्वꣳ वृत्राणि रन्धया सुहन्तु
अहा यद् इन्द्र सुदिना व्युच्छान् दधो यत् केतुम् उपमꣳ समत्सु । न्य् अ१ग्निः सीदद् असुरो न होता हुवानो अत्र सुभगाय देवान्
वयꣳ ते त इन्द्र ये च देव स्तवन्त शूर ददतो मघानि । यच्छा सूरिभ्य उपमꣳ वरूथꣳ स्वाभुवो जरणाम् अश्नवन्त
वोचेमेद् इन्द्रम् मघवानम् एनम् महो रायो राधसो यद् ददन् नः । यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः
प्र व इन्द्राय मादनꣳ हर्यश्वाय गायत । सखायः सोमपाव्ने
शꣳसेद् उक्थꣳ सुदानव उत द्युक्षꣳ यथा नरः । चकृमा सत्यराधसे
त्वꣳ न इन्द्र वाजयुस् त्वꣳ गव्युः शतक्रतो । त्वꣳ हिरण्ययुर् वसो
वयम् इन्द्र त्वायवो ऽभि प्र णोनुमो वृषन् । विद्धी त्व् अ१स्य नो वसो
मा नो निदे च वक्तवे ऽर्यो रन्धीर् अराव्णे । त्वे अपि क्रतुर् मम
त्वꣳ वर्मासि सप्रथः पुरोयोधश् च वृत्रहन् । त्वया प्रति ब्रुवे युजा
महाꣳ उतासि यस्य ते ऽनु स्वधावरी सहः । मम्नाते इन्द्र रोदसी
तꣳ त्वा मरुत्वती परि भुवद् वाणी सयावरी । नक्षमाणा सह द्युभिः
ऊर्ध्वासस् त्वान्व् इन्दवो भुवन् दस्मम् उप द्यवि । सꣳ ते नमन्त कृष्टयः
प्र वो महे महिवृधे भरध्वम् प्रचेतसे प्र सुमतिꣳ कृणुध्वम् । विशः पूर्वीः प्र चरा चर्षणिप्राः
उरुव्यचसे महिने सुवृक्तिम् इन्द्राय ब्रह्म जनयन्त विप्राः । तस्य व्रतानि न मिनन्ति धीराः
इन्द्रꣳ वाणीर् अनुत्तमन्युम् एव सत्रा राजानꣳ दधिरे सहध्यै । हर्यश्वाय बर्हया सम् आपीन्
मो षु त्वा वाघतश् चनारे अस्मन् नि रीरमन् । आरात्ताच् चित् सधमादꣳ न आ गहीह वा सन्न् उप श्रुधि
इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते । इन्द्रे कामꣳ जरितारो वसूयवो रथे न पादम् आ दधुः
रायस्कामो वज्रहस्तꣳ सुदक्षिणम् पुत्रो न पितरꣳ हुवे
इम इन्द्राय सुन्विरे सोमासो दध्याशिरः । ताꣳ आ मदाय वज्रहस्त पीतये हरिभ्याꣳ याह्य् ओक आ
श्रवच् छ्रुत्कर्ण ईयते वसूनाꣳ नू चिन् नो मर्धिषद् गिरः । सद्यश् चिद् यः सहस्राणि शता ददन् नकिर् दित्सन्तम् आ मिनत्
स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नृभिः । यस् ते गभीरा सवनानि वृत्रहन् सुनोत्य् आ च धावति
भवा वरूथम् मघवन् मघोनाꣳ यत् समजासि शर्धतः । वि त्वाहतस्य वेदनम् भजेमह्य् आ दूणाशो भरा गयम्
सुनोता सोमपाव्ने सोमम् इन्द्राय वज्रिणे । पचता पक्तीर् अवसे कृणुध्वम् इत् पृणन्न् इत् पृणते मयः
मा स्रेधत सोमिनो दक्षता महे कृणुध्वꣳ राय आतुजे । तरणिर् इज् जयति क्षेति पुष्यति न देवासः कवत्नवे
नकिः सुदासो रथम् पर्य् आस न रीरमत् । इन्द्रो यस्याविता यस्य मरुतो गमत् स गोमति व्रजे
गमद् वाजꣳ वाजयन्न् इन्द्र मर्त्यो यस्य त्वम् अविता भुवः । अस्माकम् बोध्य् अविता रथानाम् अस्माकꣳ शूर नृणाम्
उद् इन् न्व् अस्य रिच्यते ऽꣳशो धनꣳ न जिग्युषः । य इन्द्रो हरिवान् न दभन्ति तꣳ रिपो दक्षꣳ दधाति सोमिनि
मन्त्रम् अखर्वꣳ सुधितꣳ सुपेशसꣳ दधात यज्ञियेष्व् आ । पूर्वीश् चन प्रसितयस् तरन्ति तꣳ य इन्द्रे कर्मणा भुवत्
कस् तम् इन्द्र त्वावसुम् आ मर्त्यो दधर्षति । श्रद्धा इत् ते मघवन् पार्ये दिवि वाजी वाजꣳ सिषासति
मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु । तव प्रणीती हर्यश्व सूरिभिर् विश्वा तरेम दुरिता
तवेद् इन्द्रावमꣳ वसु त्वम् पुष्यसि मध्यमम् । सत्रा विश्वस्य परमस्य राजसि नकिष् ट्वा गोषु वृण्वते
त्वꣳ विश्वस्य धनदा असि श्रुतो य ईम् भवन्त्य् आजयः । तवायꣳ विश्वः पुरुहूत पार्थिवो ऽवस्युर् नाम भिक्षते
यद् इन्द्र यावतस् त्वम् एतावद् अहम् ईशीय । स्तोतारम् इद् दिधिषेय रदावसो न पापत्वाय रासीय
शिक्षेयम् इन् महयते दिवे-दिवे राय आ कुहचिद्विदे । नहि त्वद् अन्यन् मघवन् न आप्यꣳ वस्यो अस्ति पिता चन
तरणिर् इत् सिषासति वाजम् पुरꣳध्या युजा । आ व इन्द्रम् पुरुहूतꣳ नमे गिरा नेमिꣳ तष्टेव सुद्र्वम्
न दुष्टुती मर्त्यो विन्दते वसु न स्रेधन्तꣳ रयिर् नशत् । सुशक्तिर् इन् मघवन् तुभ्यम् मावते देष्णꣳ यत् पार्ये दिवि
अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः । ईशानम् अस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थुषः
न त्वावाꣳ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे
अभी षतस् तद् आ भरेन्द्र ज्यायः कनीयसः । पुरूवसुर् हि मघवन् सनाद् असि भरे-भरे च हव्यः
परा णुदस्व मघवन्न् अमित्रान् सुवेदा नो वसू कृधि । अस्माकम् बोध्य् अविता महाधने भवा वृधः सखीनाम्
इन्द्र क्रतुꣳ न आ भर पिता पुत्रेभ्यो यथा । शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिर् अशीमहि
मा नो अज्ञाता वृजना दुराध्यो३ माशिवासो अव क्रमुः । त्वया वयम् प्रवतः शश्वतीर् अपो ऽति शूर तरामसि
श्वित्यञ्चो मा दक्षिणतस्कपर्दा धियꣳजिन्वासो अभि हि प्रमन्दुः । उत्तिष्ठन् वोचे परि बर्हिषो नॄन् न मे दूराद् अवितवे वसिष्ठाः
दूराद् इन्द्रम् अनयन्न् आ सुतेन तिरो वैशन्तम् अति पान्तम् उग्रम् । पाशद्युम्नस्य वायतस्य सोमात् सुताद् इन्द्रो ऽवृणीता वसिष्ठान्
एवेन् नु कꣳ सिन्धुम् एभिस् ततारेवेन् नु कम् भेदम् एभिर् जघान । एवेन् नु कꣳ दाशराज्ञे सुदासम् प्रावद् इन्द्रो ब्रह्मणा वो वसिष्ठाः
जुष्टी नरो ब्रह्मणा वः पितॄणाम् अक्षम् अव्ययꣳ न किला रिषाथ । यच् छक्वरीषु बृहता रवेणेन्द्रे शुष्मम् अदधाता वसिष्ठाः
उद् द्याम् इवेत् तृष्णजो नाथितासो ऽदीधयुर् दाशराज्ञे वृतासः । वसिष्ठस्य स्तुवत इन्द्रो अश्रोद् उरुꣳ तृत्सुभ्यो अकृणोद् उ लोकम्
दण्डा इवेद् गोअजनास आसन् परिच्छिन्ना भरता अर्भकासः । अभवच् च पुरएता वसिष्ठ आद् इत् तृत्सूनाꣳ विशो अप्रथन्त
त्रयः कृण्वन्ति भुवनेषु रेतस् तिस्रः प्रजा आर्या ज्योतिरग्राः । त्रयो घर्मास उषसꣳ सचन्ते सर्वाꣳ इत् ताꣳ अनु विदुर् वसिष्ठाः
सूर्यस्येव वक्षथो ज्योतिर् एषाꣳ समुद्रस्येव महिमा गभीरः । वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः
त इन् निण्यꣳ हृदयस्य प्रकेतैः सहस्रवल्शम् अभि सꣳ चरन्ति । यमेन ततम् परिधिꣳ वयन्तो ऽप्सरस उप सेदुर् वसिष्ठाः
विद्युतो ज्योतिः परि सꣳजिहानम् मित्रावरुणा यद् अपश्यताꣳ त्वा । तत् ते जन्मोतैकꣳ वसिष्ठागस्त्यो यत् त्वा विश आजभार
उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन् मनसो ऽधि जातः । द्रप्सꣳ स्कन्नम् ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त
स प्रकेत उभयस्य प्रविद्वान् सहस्रदान उत वा सदानः । यमेन ततम् परिधिꣳ वयिष्यन्न् अप्सरसः परि जज्ञे वसिष्ठः
सत्रे ह जाताव् इषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम् । ततो ह मान उद् इयाय मध्यात् ततो जातम् ऋषिम् आहुर् वसिष्ठम्
उक्थभृतꣳ सामभृतम् बिभर्ति ग्रावाणम् बिभ्रत् प्र वदात्य् अग्रे । उपैनम् आध्वꣳ सुमनस्यमाना आ वो गच्छाति प्रतृदो वसिष्ठः
प्र शुक्रैतु देवी मनीषा अस्मत् सुतष्टो रथो न वाजी
विदुः पृथिव्या दिवो जनित्रꣳ शृण्वन्त्य् आपो अध क्षरन्तीः
आपश् चिद् अस्मै पिन्वन्त पृथ्वीर् वृत्रेषु शूरा मꣳसन्त उग्राः
आ धूर्ष्व् अस्मै दधाताश्वान् इन्द्रो न वज्री हिरण्यबाहुः
अभि प्र स्थाताहेव यज्ञꣳ यातेव पत्मन् त्मना हिनोत
त्मना समत्सु हिनोत यज्ञꣳ दधात केतुꣳ जनाय वीरम्
उद् अस्य शुष्माद् भानुर् नार्त बिभर्ति भारम् पृथिवी न भूम
ह्वयामि देवाꣳ अयातुर् अग्ने साधन्न् ऋतेन धियꣳ दधामि
अभि वो देवीꣳ धियꣳ दधिध्वम् प्र वो देवत्रा वाचꣳ कृणुध्वम्
आ चष्ट आसाम् पाथो नदीनाꣳ वरुण उग्रः सहस्रचक्षाः
राजा राष्ट्रानाम् पेशो नदीनाम् अनुत्तम् अस्मै क्षत्रꣳ विश्वायु
अविष्टो अस्मान् विश्वासु विक्ष्व् अद्युꣳ कृणोत शꣳसꣳ निनित्सोः
व्य् एतु दिद्युद् द्विषाम् अशेवा युयोत विष्वग् रपस् तनूनाम्
अवीन् नो अग्निर् हव्यान् नमोभिः प्रेष्ठो अस्मा अधायि स्तोमः
सजूर् देवेभिर् अपाꣳ नपातꣳ सखायꣳ कृध्वꣳ शिवो नो अस्तु
अब्जाम् उक्थैर् अहिꣳ गृणीषे बुध्ने नदीनाꣳ रजःसु षीदन्
मा नो ऽहिर् बुध्न्यो रिषे धान् मा यज्ञो अस्य स्रिधद् ऋतायोः
उत न एषु नृषु श्रवो धुः प्र राये यन्तु शर्धन्तो अर्यः
तपन्ति शत्रुꣳ स्व१र् ण भूमा महासेनासो अमेभिर् एषाम्
आ यन् नः पत्नीर् गमन्त्य् अच्छा त्वष्टा सुपाणिर् दधातु वीरान्
प्रति नः स्तोमꣳ त्वष्टा जुषेत स्याद् अस्मे अरमतिर् वसूयुः
ता नो रासन् रातिषाचो वसून्य् आ रोदसी वरुणानी शृणोतु । वरूत्रीभिः सुशरणो नो अस्तु त्वष्टा सुदत्रो वि दधातु रायः
तन् नो रायः पर्वतास् तन् न आपस् तद् रातिषाच ओषधीर् उत द्यौः । वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः
अनु तद् उर्वी रोदसी जिहाताम् अनु द्युक्षो वरुण इन्द्रसखा । अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणꣳ धियध्यै
तन् न इन्द्रो वरुणो मित्रो अग्निर् आप ओषधीर् वनिनो जुषन्त । शर्मन् स्याम मरुताम् उपस्थे यूयम् पात स्वस्तिभिः सदा नः
शꣳ न इन्द्राग्नी भवताम् अवोभिः शꣳ न इन्द्रावरुणा रातहव्या । शम् इन्द्रासोमा सुविताय शꣳ योः शꣳ न इन्द्रापूषणा वाजसातौ
शꣳ नो भगः शम् उ नः शꣳसो अस्तु शꣳ नः पुरꣳधिः शम् उ सन्तु रायः । शꣳ नः सत्यस्य सुयमस्य शꣳसः शꣳ नो अर्यमा पुरुजातो अस्तु
शꣳ नो धाता शम् उ धर्ता नो अस्तु शꣳ न उरूची भवतु स्वधाभिः । शꣳ रोदसी बृहती शꣳ नो अद्रिः शꣳ नो देवानाꣳ सुहवानि सन्तु
शꣳ नो अग्निर् ज्योतिरनीको अस्तु शꣳ नो मित्रावरुणाव् अश्विना शम् । शꣳ नः सुकृताꣳ सुकृतानि सन्तु शꣳ न इषिरो अभि वातु वातः
शꣳ नो द्यावापृथिवी पूर्वहूतौ शम् अन्तरिक्षꣳ दृशये नो अस्तु । शꣳ न ओषधीर् वनिनो भवन्तु शꣳ नो रजसस् पतिर् अस्तु जिष्णुः
शꣳ न इन्द्रो वसुभिर् देवो अस्तु शम् आदित्येभिर् वरुणः सुशꣳसः । शꣳ नो रुद्रो रुद्रेभिर् जलाषः शꣳ नस् त्वष्टा ग्नाभिर् इह शृणोतु
शꣳ नः सोमो भवतु ब्रह्म शꣳ नः शꣳ नो ग्रावाणः शम् उ सन्तु यज्ञाः । शꣳ नः स्वरूणाम् मितयो भवन्तु शꣳ नः प्रस्व१ः शम् व् अस्तु वेदिः
शꣳ नः सूर्य उरुचक्षा उद् एतु शꣳ नश् चतस्रः प्रदिशो भवन्तु । शꣳ नः पर्वता ध्रुवयो भवन्तु शꣳ नः सिन्धवः शम् उ सन्त्व् आपः
शꣳ नो अदितिर् भवतु व्रतेभिः शꣳ नो भवन्तु मरुतः स्वर्काः । शꣳ नो विष्णुः शम् उ पूषा नो अस्तु शꣳ नो भवित्रꣳ शम् व् अस्तु वायुः
शꣳ नो देवः सविता त्रायमाणः शꣳ नो भवन्तूषसो विभातीः । शꣳ नः पर्जन्यो भवतु प्रजाभ्यः शꣳ नः क्षेत्रस्य पतिर् अस्तु शम्भुः
शꣳ नो देवा विश्वदेवा भवन्तु शꣳ सरस्वती सह धीभिर् अस्तु । शम् अभिषाचः शम् उ रातिषाचः शꣳ नो दिव्याः पार्थिवाः शꣳ नो अप्याः
शꣳ नः सत्यस्य पतयो भवन्तु शꣳ नो अर्वन्तः शम् उ सन्तु गावः । शꣳ न ऋभवः सुकृतः सुहस्ताः शꣳ नो भवन्तु पितरो हवेषु
शꣳ नो अज एकपाद् देवो अस्तु शꣳ नो ऽहिर् बुध्न्य१ः शꣳ समुद्रः । शꣳ नो अपाꣳ नपात् पेरुर् अस्तु शꣳ नः पृश्निर् भवतु देवगोपा
आदित्या रुद्रा वसवो जुषन्तेदम् ब्रह्म क्रियमाणꣳ नवीयः । शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः
ये देवानाꣳ यज्ञिया यज्ञियानाम् मनोर् यजत्रा अमृता ऋतज्ञाः । ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः
प्र ब्रह्मैतु सदनाद् ऋतस्य वि रश्मिभिः ससृजे सूर्यो गाः । वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकम् अध्य् एधे अग्निः
इमाꣳ वाम् मित्रावरुणा सुवृक्तिम् इषꣳ न कृण्वे असुरा नवीयः । इनो वाम् अन्यः पदवीर् अदब्धो जनꣳ च मित्रो यतति ब्रुवाणः
आ वातस्य ध्रजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः । महो दिवः सदने जायमानो ऽचिक्रदद् वृषभः सस्मिन्न् ऊधन्
गिरा य एता युनजद् धरी त इन्द्र प्रिया सुरथा शूर धायू । प्र यो मन्युꣳ रिरिक्षतो मिनात्य् आ सुक्रतुम् अर्यमणꣳ ववृत्याम्
यजन्ते अस्य सख्यꣳ वयश् च नमस्विनः स्व ऋतस्य धामन् । वि पृक्षो बाबधे नृभिः स्तवान इदꣳ नमो रुद्राय प्रेष्ठम्
आ यत् साकꣳ यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता । याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा पीप्यानाः
उत त्ये नो मरुतो मन्दसाना धियꣳ तोकꣳ च वाजिनो ऽवन्तु । मा नः परि ख्यद् अक्षरा चरन्त्य् अवीवृधन् युज्यꣳ ते रयिꣳ नः
प्र वो महीम् अरमतिꣳ कृणुध्वम् प्र पूषणꣳ विदथ्य१ꣳ न वीरम् । भगꣳ धियो ऽवितारꣳ नो अस्याः सातौ वाजꣳ रातिषाचम् पुरꣳधिम्
अच्छायꣳ वो मरुतः श्लोक एत्व् अच्छा विष्णुꣳ निषिक्तपाम् अवोभिः । उत प्रजायै गृणते वयो धुर् यूयम् पात स्वस्तिभिः सदा नः
आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः । अभि त्रिपृष्ठैः सवनेषु सोमैर् मदे सुशिप्रा महभिः पृणध्वम्
यूयꣳ ह रत्नम् मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो अमृक्तम् । सꣳ यज्ञेषु स्वधावन्तः पिबध्वꣳ वि नो राधाꣳसि मतिभिर् दयध्वम्
उवोचिथ हि मघवन् देष्णम् महो अर्भस्य वसुनो विभागे । उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या
त्वम् इन्द्र स्वयशा ऋभुक्षा वाजो न साधुर् अस्तम् एष्य् ऋक्वा । वयꣳ नु ते दाश्वाꣳसः स्याम ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः
सनितासि प्रवतो दाशुषे चिद् याभिर् विवेषो हर्यश्व धीभिः । ववन्मा नु ते युज्याभिर् ऊती कदा न इन्द्र राय आ दशस्येः
वासयसीव वेधसस् त्वꣳ नः कदा न इन्द्र वचसो बुबोधः । अस्तꣳ तात्या धिया रयिꣳ सुवीरम् पृक्षो नो अर्वा न्य् उहीत वाजी
अभि यꣳ देवी निरृतिश् चिद् ईशे नक्षन्त इन्द्रꣳ शरदः सुपृक्षः । उप त्रिबन्धुर् जरदष्टिम् एत्य् अस्ववेशꣳ यꣳ कृणवन्त मर्ताः
आ नो राधाꣳसि सवितः स्तवध्या आ रायो यन्तु पर्वतस्य रातौ । सदा नो दिव्यः पायुः सिषक्तु यूयम् पात स्वस्तिभिः सदा नः
उद् उ ष्य देवः सविता ययाम हिरण्ययीम् अमतिꣳ याम् अशिश्रेत् । नूनम् भगो हव्यो मानुषेभिर् वि यो रत्ना पुरूवसुर् दधाति
उद् उ तिष्ठ सवितः श्रुध्य् अ१स्य हिरण्यपाणे प्रभृताव् ऋतस्य । व्य् उ१र्वीम् पृथ्वीम् अमतिꣳ सृजान आ नृभ्यो मर्तभोजनꣳ सुवानः
अपि ष्टुतः सविता देवो अस्तु यम् आ चिद् विश्वे वसवो गृणन्ति । स नः स्तोमान् नमस्य१श् चनो धाद् विश्वेभिः पातु पायुभिर् नि सूरीन्
अभि यꣳ देव्य् अदितिर् गृणाति सवꣳ देवस्य सवितुर् जुषाणा । अभि सम्राजो वरुणो गृणन्त्य् अभि मित्रासो अर्यमा सजोषाः
अभि ये मिथो वनुषः सपन्ते रातिꣳ दिवो रातिषाचः पृथिव्याः । अहिर् बुध्न्य उत नः शृणोतु वरूत्र्य् एकधेनुभिर् नि पातु
अनु तन् नो जास्पतिर् मꣳसीष्ट रत्नꣳ देवस्य सवितुर् इयानः । भगम् उग्रो ऽवसे जोहवीति भगम् अनुग्रो अध याति रत्नम्
शꣳ नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः । जम्भयन्तो ऽहिꣳ वृकꣳ रक्षाꣳसि सनेम्य् अस्मद् युयवन्न् अमीवाः
वाजे-वाजे ऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वꣳ तृप्ता यात पथिभिर् देवयानैः
ऊर्ध्वो अग्निः सुमतिꣳ वस्वो अश्रेत् प्रतीची जूर्णिर् देवतातिम् एति । भेजाते अद्री रथ्येव पन्थाम् ऋतꣳ होता न इषितो यजाति
प्र वावृजे सुप्रया बर्हिर् एषाम् आ विश्पतीव बीरिट इयाते । विशाम् अक्तोर् उषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान्
ज्मया अत्र वसवो रन्त देवा उराव् अन्तरिक्षे मर्जयन्त शुभ्राः । अर्वाक् पथ उरुज्रयः कृणुध्वꣳ श्रोता दूतस्य जग्मुषो नो अस्य
ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थꣳ विश्वे अभि सन्ति देवाः । ताꣳ अध्वर उशतो यक्ष्य् अग्ने श्रुष्टी भगꣳ नासत्या पुरꣳधिम्
आग्ने गिरो दिव आ पृथिव्या मित्रꣳ वह वरुणम् इन्द्रम् अग्निम् । आर्यमणम् अदितिꣳ विष्णुम् एषाꣳ सरस्वती मरुतो मादयन्ताम्
ररे हव्यम् मतिभिर् यज्ञियानाꣳ नक्षत् कामम् मर्त्यानाम् असिन्वन् । धाता रयिम् अविदस्यꣳ सदासाꣳ सक्षीमहि युज्येभिर् नु देवैः
नू रोदसी अभिष्टुते वसिष्ठैर् ऋतावानो वरुणो मित्रो अग्निः । यच्छन्तु चन्द्रा उपमꣳ नो अर्कꣳ यूयम् पात स्वस्तिभिः सदा नः
ओ श्रुष्टिर् विदथ्या३ सम् एतु प्रति स्तोमꣳ दधीमहि तुराणाम् । यद् अद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे
मित्रस् तन् नो वरुणो रोदसी च द्युभक्तम् इन्द्रो अर्यमा ददातु । दिदेष्टु देव्य् अदिती रेक्णो वायुश् च यन् नियुवैते भगश् च
सेद् उग्रो अस्तु मरुतः स शुष्मी यम् मर्त्यम् पृषदश्वा अवाथ । उतेम् अग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति
अयꣳ हि नेता वरुण ऋतस्य मित्रो राजानो अर्यमापो धुः । सुहवा देव्य् अदितिर् अनर्वा ते नो अꣳहो अति पर्षन्न् अरिष्टान्
अस्य देवस्य मीळ्हुषो वया विष्णोर् एषस्य प्रभृथे हविर्भिः । विदे हि रुद्रो रुद्रियम् महित्वꣳ यासिष्टꣳ वर्तिर् अश्विनाव् इरावत्
मात्र पूषन्न् आघृण इरस्यो वरूत्री यद् रातिषाचश् च रासन् । मयोभुवो नो अर्वन्तो नि पान्तु वृष्टिम् परिज्मा वातो ददातु
नू रोदसी अभिष्टुते वसिष्ठैर् ऋतावानो वरुणो मित्रो अग्निः । यच्छन्तु चन्द्रा उपमꣳ नो अर्कꣳ यूयम् पात स्वस्तिभिः सदा नः
प्रातर् अग्निम् प्रातर् इन्द्रꣳ हवामहे प्रातर् मित्रावरुणा प्रातर् अश्विना । प्रातर् भगम् पूषणम् ब्रह्मणस् पतिम् प्रातः सोमम् उत रुद्रꣳ हुवेम
प्रातर्जितम् भगम् उग्रꣳ हुवेम वयम् पुत्रम् अदितेर् यो विधर्ता । आध्रश् चिद् यम् मन्यमानस् तुरश् चिद् राजा चिद् यम् भगम् भक्षीत्य् आह
भग प्रणेतर् भग सत्यराधो भगेमाꣳ धियम् उद् अवा ददन् नः । भग प्र णो जनय गोभिर् अश्वैर् भग प्र नृभिर् नृवन्तः स्याम
उतेदानीम् भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् । उतोदिता मघवन् सूर्यस्य वयꣳ देवानाꣳ सुमतौ स्याम
भग एव भगवाꣳ अस्तु देवास् तेन वयम् भगवन्तः स्याम । तꣳ त्वा भग सर्व इज् जोहवीति स नो भग पुरएता भवेह
सम् अध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । अर्वाचीनꣳ वसुविदम् भगꣳ नो रथम् इवाश्वा वाजिन आ वहन्तु
अश्वावतीर् गोमतीर् न उषासो वीरवतीः सदम् उच्छन्तु भद्राः । घृतꣳ दुहाना विश्वतः प्रपीता यूयम् पात स्वस्तिभिः सदा नः
प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर् नभन्यस्य वेतु । प्र धेनव उदप्रुतो नवन्त युज्याताम् अद्री अध्वरस्य पेशः
सुगस् ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश् च । ये वा सद्मन्न् अरुषा वीरवाहो हुवे देवानाꣳ जनिमानि सत्तः
सम् उ वो यज्ञम् महयन् नमोभिः प्र होता मन्द्रो रिरिच उपाके । यजस्व सु पुर्वणीक देवान् आ यज्ञियाम् अरमतिꣳ ववृत्याः
यदा वीरस्य रेवतो दुरोणे स्योनशीर् अतिथिर् आचिकेतत् । सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यम् इयत्यै
इमꣳ नो अग्ने अध्वरꣳ जुषस्व मरुत्स्व् इन्द्रे यशसꣳ कृधी नः । आ नक्ता बर्हिः सदताम् उषासोशन्ता मित्रावरुणा यजेह
एवाग्निꣳ सहस्य१ꣳ वसिष्ठो रायस्कामो विश्वप्स्न्यस्य स्तौत् । इषꣳ रयिम् पप्रथद् वाजम् अस्मे यूयम् पात स्वस्तिभिः सदा नः
प्र वो यज्ञेषु देवयन्तो अर्चन् द्यावा नमोभिः पृथिवी इषध्यै । येषाम् ब्रह्माण्य् असमानि विप्रा विष्वग् वियन्ति वनिनो न शाखाः
प्र यज्ञ एतु हेत्वो न सप्तिर् उद् यच्छध्वꣳ समनसो घृताचीः । स्तृणीत बर्हिर् अध्वराय साधूर्ध्वा शोचीꣳषि देवयून्य् अस्थुः
आ पुत्रासो न मातरꣳ विभृत्राः सानौ देवासो बर्हिषः सदन्तु । आ विश्वाची विदथ्याम् अनक्त्व् अग्ने मा नो देवताता मृधस् कः
ते सीषपन्त जोषम् आ यजत्रा ऋतस्य धाराः सुदुघा दुहानाः । ज्येष्ठꣳ वो अद्य मह आ वसूनाम् आ गन्तन समनसो यति ष्ठ
एवा नो अग्ने विक्ष्व् आ दशस्य त्वया वयꣳ सहसावन्न् आस्क्राः । राया युजा सधमादो अरिष्टा यूयम् पात स्वस्तिभिः सदा नः
दधिक्राꣳ वः प्रथमम् अश्विनोषसम् अग्निꣳ समिद्धम् भगम् ऊतये हुवे । इन्द्रꣳ विष्णुम् पूषणम् ब्रह्मणस् पतिम् आदित्यान् द्यावापृथिवी अपः स्वः
दधिक्राम् उ नमसा बोधयन्त उदीराणा यज्ञम् उपप्रयन्तः । इळाꣳ देवीम् बर्हिषि सादयन्तो ऽश्विना विप्रा सुहवा हुवेम
दधिक्रावाणम् बुबुधानो अग्निम् उप ब्रुव उषसꣳ सूर्यꣳ गाम् । ब्रध्नम् मꣳश्चतोर् वरुणस्य बभ्रुꣳ ते विश्वास्मद् दुरिता यावयन्तु
दधिक्रावा प्रथमो वाज्य् अर्वाग्रे रथानाम् भवति प्रजानन् । सꣳविदान उषसा सूर्येणादित्येभिर् वसुभिर् अङ्गिरोभिः
आ नो दधिक्राः पथ्याम् अनक्त्व् ऋतस्य पन्थाम् अन्वेतवा उ । शृणोतु नो दैव्यꣳ शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः
आ देवो यातु सविता सुरत्नो ऽन्तरिक्षप्रा वहमानो अश्वैः । हस्ते दधानो नर्या पुरूणि निवेशयञ् च प्रसुवञ् च भूम
उद् अस्य बाहू शिथिरा बृहन्ता हिरण्यया दिवो अन्ताꣳ अनष्टाम् । नूनꣳ सो अस्य महिमा पनिष्ट सूरश् चिद् अस्मा अनु दाद् अपस्याम्
स घा नो देवः सविता सहावा साविषद् वसुपतिर् वसूनि । विश्रयमाणो अमतिम् उरूचीम् मर्तभोजनम् अध रासते नः
इमा गिरः सवितारꣳ सुजिह्वम् पूर्णगभस्तिम् ईळते सुपाणिम् । चित्रꣳ वयो बृहद् अस्मे दधातु यूयम् पात स्वस्तिभिः सदा नः
इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने । अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु नः
स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति । अवन्न् अवन्तीर् उप नो दुरश् चरानमीवो रुद्र जासु नो भव
या ते दिद्युद् अवसृष्टा दिवस् परि क्ष्मया चरति परि सा वृणक्तु नः । सहस्रꣳ ते स्वपिवात भेषजा मा नस् तोकेषु तनयेषु रीरिषः
मा नो वधी रुद्र मा परा दा मा ते भूम प्रसितौ हीळितस्य । आ नो भज बर्हिषि जीवशꣳसे यूयम् पात स्वस्तिभिः सदा नः
आपो यꣳ वः प्रथमꣳ देवयन्त इन्द्रपानम् ऊर्मिम् अकृण्वतेळः । तꣳ वो वयꣳ शुचिम् अरिप्रम् अद्य घृतप्रुषम् मधुमन्तꣳ वनेम
तम् ऊर्मिम् आपो मधुमत्तमꣳ वो ऽपाꣳ नपाद् अवत्व् आशुहेमा । यस्मिन्न् इन्द्रो वसुभिर् मादयाते तम् अश्याम देवयन्तो वो अद्य
शतपवित्राः स्वधया मदन्तीर् देवीर् देवानाम् अपि यन्ति पाथः । ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यꣳ घृतवज् जुहोत
याः सूर्यो रश्मिभिर् आततान याभ्य इन्द्रो अरदद् गातुम् ऊर्मिम् । ते सिन्धवो वरिवो धातना नो यूयम् पात स्वस्तिभिः सदा नः
ऋभुक्षणो वाजा मादयध्वम् अस्मे नरो मघवानः सुतस्य । आ वो ऽर्वाचः क्रतवो न याताꣳ विभ्वो रथꣳ नर्यꣳ वर्तयन्तु
ऋभुर् ऋभुभिर् अभि वः स्याम विभ्वो विभुभिः शवसा शवाꣳसि । वाजो अस्माꣳ अवतु वाजसाताव् इन्द्रेण युजा तरुषेम वृत्रम्
ते चिद् धि पूर्वीर् अभि सन्ति शासा विश्वाꣳ अर्य उपरताति वन्वन् । इन्द्रो विभ्वाꣳ ऋभुक्षा वाजो अर्यः शत्रोर् मिथत्या कृणवन् वि नृम्णम्
नू देवासो वरिवः कर्तना नो भूत नो विश्वे ऽवसे सजोषाः । सम् अस्मे इषꣳ वसवो ददीरन् यूयम् पात स्वस्तिभिः सदा नः
समुद्रज्येष्ठाः सलिलस्य मध्यात् पुनाना यन्त्य् अनिविशमानाः । इन्द्रो या वज्री वृषभो रराद ता आपो देवीर् इह माम् अवन्तु
या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयꣳजाः । समुद्रार्था याः शुचयः पावकास् ता आपो देवीर् इह माम् अवन्तु
यासाꣳ राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ् जनानाम् । मधुश्चुतः शुचयो याः पावकास् ता आपो देवीर् इह माम् अवन्तु
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जम् मदन्ति । वैश्वानरो यास्व् अग्निः प्रविष्टस् ता आपो देवीर् इह माम् अवन्तु
आ माम् मित्रावरुणेह रक्षतꣳ कुलाययद् विश्वयन् मा न आ गन् । अजकावꣳ दुर्दृशीकꣳ तिरो दधे मा माम् पद्येन रपसा विदत् त्सरुः
यद् विजामन् परुषि वन्दनम् भुवद् अष्ठीवन्तौ परि कुल्फौ च देहत् । अग्निष् टच् छोचन्न् अप बाधताम् इतो मा माम् पद्येन रपसा विदत् त्सरुः
यच् छल्मलौ भवति यन् नदीषु यद् ओषधीभ्यः परि जायते विषम् । विश्वे देवा निर् इतस् तत् सुवन्तु मा माम् पद्येन रपसा विदत् त्सरुः
याः प्रवतो निवत उद्वत उदन्वतीर् अनुदकाश् च याः । ता अस्मभ्यम् पयसा पिन्वमानाः शिवा देवीर् अशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु
आदित्यानाम् अवसा नूतनेन सक्षीमहि शर्मणा शꣳतमेन । अनागास्त्वे अदितित्वे तुरास इमꣳ यज्ञꣳ दधतु श्रोषमाणाः
आदित्यासो अदितिर् मादयन्ताम् मित्रो अर्यमा वरुणो रजिष्ठाः । अस्माकꣳ सन्तु भुवनस्य गोपाः पिबन्तु सोमम् अवसे नो अद्य
आदित्या विश्वे मरुतश् च विश्वे देवाश् च विश्व ऋभवश् च विश्वे । इन्द्रो अग्निर् अश्विना तुष्टुवाना यूयम् पात स्वस्तिभिः सदा नः
आदित्यासो अदितयः स्याम पूर् देवत्रा वसवो मर्त्यत्रा । सनेम मित्रावरुणा सनन्तो भवेम द्यावापृथिवी भवन्तः
मित्रस् तन् नो वरुणो मामहन्त शर्म तोकाय तनयाय गोपाः । मा वो भुजेमान्यजातम् एनो मा तत् कर्म वसवो यच् चयध्वे
तुरण्यवो ऽङ्गिरसो नक्षन्त रत्नꣳ देवस्य सवितुर् इयानाः । पिता च तन् नो महान् यजत्रो विश्वे देवाः समनसो जुषन्त
प्र द्यावा यज्ञैः पृथिवी नमोभिः सबाध ईळे बृहती यजत्रे । ते चिद् धि पूर्वे कवयो गृणन्तः पुरो मही दधिरे देवपुत्रे
प्र पूर्वजे पितरा नव्यसीभिर् गीर्भिः कृणुध्वꣳ सदने ऋतस्य । आ नो द्यावापृथिवी दैव्येन जनेन यातम् महि वाꣳ वरूथम्
उतो हि वाꣳ रत्नधेयानि सन्ति पुरूणि द्यावापृथिवी सुदासे । अस्मे धत्तꣳ यद् असद् अस्कृधोयु यूयम् पात स्वस्तिभिः सदा नः
वास्तोष् पते प्रति जानीह्य् अस्मान् स्वावेशो अनमीवो भवा नः । यत् त्वेमहे प्रति तन् नो जुषस्व शꣳ नो भव द्विपदे शꣳ चतुष्पदे
वास्तोष् पते प्रतरणो न एधि गयस्फानो गोभिर् अश्वेभिर् इन्दो । अजरासस् ते सख्ये स्याम पितेव पुत्रान् प्रति नो जुषस्व
वास्तोष् पते शग्मया सꣳसदा ते सक्षीमहि रण्वया गातुमत्या । पाहि क्षेम उत योगे वरꣳ नो यूयम् पात स्वस्तिभिः सदा नः
अमीवहा वास्तोष् पते विश्वा रूपाण्य् आविशन् । सखा सुशेव एधि नः
यद् अर्जुन सारमेय दतः पिशङ्ग यच्छसे । वीव भ्राजन्त ऋष्टय उप स्रक्वेषु बप्सतो नि षु स्वप
स्तेनꣳ राय सारमेय तस्करꣳ वा पुनःसर । स्तोतॄन् इन्द्रस्य रायसि किम् अस्मान् दुच्छुनायसे नि षु स्वप
त्वꣳ सूकरस्य दर्दृहि तव दर्दर्तु सूकरः । स्तोतॄन् इन्द्रस्य रायसि किम् अस्मान् दुच्छुनायसे नि षु स्वप
सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः । ससन्तु सर्वे ज्ञातयः सस्त्व् अयम् अभितो जनः
य आस्ते यश् च चरति यश् च पश्यति नो जनः । तेषाꣳ सꣳ हन्मो अक्षाणि यथेदꣳ हर्म्यꣳ तथा
सहस्रशृङ्गो वृषभो यः समुद्राद् उदाचरत् । तेना सहस्येना वयꣳ नि जनान् स्वापयामसि
प्रोष्ठेशया वह्येशया नारीर् यास् तल्पशीवरीः । स्त्रियो याः पुण्यगन्धास् ताः सर्वाः स्वापयामसि
क ईꣳ व्यक्ता नरः सनीळा रुद्रस्य मर्या अध स्वश्वाः
नकिर् ह्य् एषाꣳ जनूꣳषि वेद ते अङ्ग विद्रे मिथो जनित्रम्
अभि स्वपूभिर् मिथो वपन्त वातस्वनसः श्येना अस्पृध्रन्
एतानि धीरो निण्या चिकेत पृश्निर् यद् ऊधो मही जभार
सा विट् सुवीरा मरुद्भिर् अस्तु सनात् सहन्ती पुष्यन्ती नृम्णम्
यामꣳ येष्ठाः शुभा शोभिष्ठाः श्रिया सम्मिश्ला ओजोभिर् उग्राः
उग्रꣳ व ओजः स्थिरा शवाꣳस्य् अधा मरुद्भिर् गणस् तुविष्मान्
शुभ्रो वः शुष्मः क्रुध्मी मनाꣳसि धुनिर् मुनिर् इव शर्धस्य धृष्णोः
सनेम्य् अस्मद् युयोत दिद्युम् मा वो दुर्मतिर् इह प्रणङ् नः
प्रिया वो नाम हुवे तुराणाम् आ यत् तृपन् मरुतो वावशानाः
स्वायुधास इष्मिणः सुनिष्का उत स्वयꣳ तन्व१ः शुम्भमानाः
शुची वो हव्या मरुतः शुचीनाꣳ शुचिꣳ हिनोम्य् अध्वरꣳ शुचिभ्यः । ऋतेन सत्यम् ऋतसाप आयञ् छुचिजन्मानः शुचयः पावकाः
अꣳसेष्व् आ मरुतः खादयो वो वक्षःसु रुक्मा उपशिश्रियाणाः । वि विद्युतो न वृष्टिभी रुचाना अनु स्वधाम् आयुधैर् यच्छमानाः
प्र बुध्न्या व ईरते महाꣳसि प्र नामानि प्रयज्यवस् तिरध्वम् । सहस्रियꣳ दम्यम् भागम् एतꣳ गृहमेधीयम् मरुतो जुषध्वम्
यदि स्तुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन् । मक्षू रायः सुवीर्यस्य दात नू चिद् यम् अन्य आदभद् अरावा
अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः । ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीळिनः पयोधाः
दशस्यन्तो नो मरुतो मृळन्तु वरिवस्यन्तो रोदसी सुमेके । आरे गोहा नृहा वधो वो अस्तु सुम्नेभिर् अस्मे वसवो नमध्वम्
आ वो होता जोहवीति सत्तः सत्राचीꣳ रातिम् मरुतो गृणानः । य ईवतो वृषणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः
इमे तुरम् मरुतो रामयन्तीमे सहः सहस आ नमन्ति । इमे शꣳसꣳ वनुष्यतो नि पान्ति गुरु द्वेषो अररुषे दधन्ति
इमे रध्रꣳ चिन् मरुतो जुनन्ति भृमिꣳ चिद् यथा वसवो जुषन्त । अप बाधध्वꣳ वृषणस् तमाꣳसि धत्त विश्वꣳ तनयꣳ तोकम् अस्मे
मा वो दात्रान् मरुतो निर् अराम मा पश्चाद् दघ्म रथ्यो विभागे । आ नः स्पार्हे भजतना वसव्ये३ यद् ईꣳ सुजातꣳ वृषणो वो अस्ति
सꣳ यद् धनन्त मन्युभिर् जनासः शूरा यह्वीष्व् ओषधीषु विक्षु । अध स्मा नो मरुतो रुद्रियासस् त्रातारो भूत पृतनास्व् अर्यः
भूरि चक्र मरुतः पित्र्याण्य् उक्थानि या वः शस्यन्ते पुरा चित् । मरुद्भिर् उग्रः पृतनासु साळ्हा मरुद्भिर् इत् सनिता वाजम् अर्वा
अस्मे वीरो मरुतः शुष्म्य् अस्तु जनानाꣳ यो असुरो विधर्ता । अपो येन सुक्षितये तरेमाध स्वम् ओको अभि वः स्याम
तन् न इन्द्रो वरुणो मित्रो अग्निर् आप ओषधीर् वनिनो जुषन्त । शर्मन् स्याम मरुताम् उपस्थे यूयम् पात स्वस्तिभिः सदा नः
मध्वो वो नाम मारुतꣳ यजत्राः प्र यज्ञेषु शवसा मदन्ति । ये रेजयन्ति रोदसी चिद् उर्वी पिन्वन्त्य् उत्सꣳ यद् अयासुर् उग्राः
निचेतारो हि मरुतो गृणन्तम् प्रणेतारो यजमानस्य मन्म । अस्माकम् अद्य विदथेषु बर्हिर् आ वीतये सदत पिप्रियाणाः
नैतावद् अन्ये मरुतो यथेमे भ्राजन्ते रुक्मैर् आयुधैस् तनूभिः । आ रोदसी विश्वपिशः पिशानाः समानम् अञ्ज्य् अञ्जते शुभे कम्
ऋधक् सा वो मरुतो दिद्युद् अस्तु यद् व आगः पुरुषता कराम । मा वस् तस्याम् अपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश् चनिष्ठा
कृते चिद् अत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः । प्र णो ऽवत सुमतिभिर् यजत्राः प्र वाजेभिस् तिरत पुष्यसे नः
उत स्तुतासो मरुतो व्यन्तु विश्वेभिर् नामभिर् नरो हवीꣳषि । ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि
आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन् सर्वताता जिगात । ये नस् त्मना शतिनो वर्धयन्ति यूयम् पात स्वस्तिभिः सदा नः
प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस् तुविष्मान् । उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकꣳ निरृतेर् अवꣳशात्
जनूश् चिद् वो मरुतस् त्वेष्येण भीमासस् तुविमन्यवो ऽयासः । प्र ये महोभिर् ओजसोत सन्ति विश्वो वो यामन् भयते स्वर्दृक्
बृहद् वयो मघवद्भ्यो दधात जुजोषन्न् इन् मरुतः सुष्टुतिꣳ नः । गतो नाध्वा वि तिराति जन्तुम् प्र णः स्पार्हाभिर् ऊतिभिस् तिरेत
युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री । युष्मोतः सम्राळ् उत हन्ति वृत्रम् प्र तद् वो अस्तु धूतयो देष्णम्
ताꣳ आ रुद्रस्य मीळ्हुषो विवासे कुविन् नꣳसन्ते मरुतः पुनर् नः । यत् सस्वर्ता जिहीळिरे यद् आविर् अव तद् एन ईमहे तुराणाम्
प्र सा वाचि सुष्टुतिर् मघोनाम् इदꣳ सूक्तम् मरुतो जुषन्त । आराच् चिद् द्वेषो वृषणो युयोत यूयम् पात स्वस्तिभिः सदा नः
यꣳ त्रायध्व इदम्-इदꣳ देवासो यꣳ च नयथ । तस्मा अग्ने वरुण मित्रार्यमन् मरुतः शर्म यच्छत
युष्माकꣳ देवा अवसाहनि प्रिय ईजानस् तरति द्विषः । प्र स क्षयꣳ तिरते वि महीर् इषो यो वो वराय दाशति
नहि वश् चरमꣳ चन वसिष्ठः परिमꣳसते । अस्माकम् अद्य मरुतः सुते सचा विश्वे पिबत कामिनः
नहि व ऊतिः पृतनासु मर्धति यस्मा अराध्वꣳ नरः । अभि व आवर्त् सुमतिर् नवीयसी तूयꣳ यात पिपीषवः
ओ षु घृष्विराधसो यातनान्धाꣳसि पीतये । इमा वो हव्या मरुतो ररे हि कम् मो ष्व् अ१न्यत्र गन्तन
आ च नो बर्हिः सदताविता च नः स्पार्हाणि दातवे वसु । अस्रेधन्तो मरुतः सोम्ये मधौ स्वाहेह मादयाध्वै
सस्वश् चिद् धि तन्व१ः शुम्भमाना आ हꣳसासो नीलपृष्ठा अपप्तन् । विश्वꣳ शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः
यो नो मरुतो अभि दुर्हृणायुस् तिरश् चित्तानि वसवो जिघाꣳसति । द्रुहः पाशान् प्रति स मुचीष्ट तपिष्ठेन हन्मना हन्तना तम्
साꣳतपना इदꣳ हविर् मरुतस् तज् जुजुष्टन । युष्माकोती रिशादसः
गृहमेधास आ गत मरुतो माप भूतन । युष्माकोती सुदानवः
इहेह वः स्वतवसः कवयः सूर्यत्वचः । यज्ञम् मरुत आ वृणे
त्र्यम्बकꣳ यजामहे सुगन्धिम् पुष्टिवर्धनम् । उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात्
यद् अद्य सूर्य ब्रवो ऽनागा उद्यन् मित्राय वरुणाय सत्यम् । वयꣳ देवत्रादिते स्याम तव प्रियासो अर्यमन् गृणन्तः
एष स्य मित्रावरुणा नृचक्षा उभे उद् एति सूर्यो अभि ज्मन् । विश्वस्य स्थातुर् जगतश् च गोपा ऋजु मर्तेषु वृजिना च पश्यन्
अयुक्त सप्त हरितः सधस्थाद् या ईꣳ वहन्ति सूर्यꣳ घृताचीः । धामानि मित्रावरुणा युवाकुः सꣳ यो यूथेव जनिमानि चष्टे
उद् वाम् पृक्षासो मधुमन्तो अस्थुर् आ सूर्यो अरुहच् छुक्रम् अर्णः । यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः
इमे चेतारो अनृतस्य भूरेर् मित्रो अर्यमा वरुणो हि सन्ति । इम ऋतस्य वावृधुर् दुरोणे शग्मासः पुत्रा अदितेर् अदब्धाः
इमे मित्रो वरुणो दूळभासो ऽचेतसꣳ चिच् चितयन्ति दक्षैः । अपि क्रतुꣳ सुचेतसꣳ वतन्तस् तिरश् चिद् अꣳहः सुपथा नयन्ति
इमे दिवो अनिमिषा पृथिव्याश् चिकित्वाꣳसो अचेतसꣳ नयन्ति । प्रव्राजे चिन् नद्यो गाधम् अस्ति पारꣳ नो अस्य विष्पितस्य पर्षन्
यद् गोपावद् अदितिः शर्म भद्रम् मित्रो यच्छन्ति वरुणः सुदासे । तस्मिन्न् आ तोकꣳ तनयꣳ दधाना मा कर्म देवहेळनꣳ तुरासः
अव वेदिꣳ होत्राभिर् यजेत रिपः काश् चिद् वरुणध्रुतः सः । परि द्वेषोभिर् अर्यमा वृणक्तूरुꣳ सुदासे वृषणा उ लोकम्
सस्वश् चिद् धि समृतिस् त्वेष्य् एषाम् अपीच्येन सहसा सहन्ते । युष्मद् भिया वृषणो रेजमाना दक्षस्य चिन् महिना मृळता नः
यो ब्रह्मणे सुमतिम् आयजाते वाजस्य सातौ परमस्य रायः । सीक्षन्त मन्युम् मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु
इयꣳ देव पुरोहितिर् युवभ्याꣳ यज्ञेषु मित्रावरुणाव् अकारि । विश्वानि दुर्गा पिपृतꣳ तिरो नो यूयम् पात स्वस्तिभिः सदा नः
उद् वाꣳ चक्षुर् वरुण सुप्रतीकꣳ देवयोर् एति सूर्यस् ततन्वान् । अभि यो विश्वा भुवनानि चष्टे स मन्युम् मर्त्येष्व् आ चिकेत
प्र वाꣳ स मित्रावरुणाव् ऋतावा विप्रो मन्मानि दीर्घश्रुद् इयर्ति । यस्य ब्रह्माणि सुक्रतू अवाथ आ यत् क्रत्वा न शरदः पृणैथे
प्रोरोर् मित्रावरुणा पृथिव्याः प्र दिव ऋष्वाद् बृहतः सुदानू । स्पशो दधाथे ओषधीषु विक्ष्व् ऋधग् यतो अनिमिषꣳ रक्षमाणा
शꣳसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा । अयन् मासा अयज्वनाम् अवीराः प्र यज्ञमन्मा वृजनꣳ तिराते
अमूरा विश्वा वृषणाव् इमा वाꣳ न यासु चित्रꣳ ददृशे न यक्षम् । द्रुहः सचन्ते अनृता जनानाꣳ न वाꣳ निण्यान्य् अचिते अभूवन्
सम् उ वाꣳ यज्ञम् महयꣳ नमोभिर् हुवे वाम् मित्रावरुणा सबाधः । प्र वाम् मन्मान्य् ऋचसे नवानि कृतानि ब्रह्म जुजुषन्न् इमानि
इयꣳ देव पुरोहितिर् युवभ्याꣳ यज्ञेषु मित्रावरुणाव् अकारि । विश्वानि दुर्गा पिपृतꣳ तिरो नो यूयम् पात स्वस्तिभिः सदा नः
उत् सूर्यो बृहद् अर्चीꣳष्य् अश्रेत् पुरु विश्वा जनिम मानुषाणाम् । समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर् भूत्
स सूर्य प्रति पुरो न उद् गा एभिः स्तोमेभिर् एतशेभिर् एवैः । प्र नो मित्राय वरुणाय वोचो ऽनागसो अर्यम्णे अग्नये च
वि नः सहस्रꣳ शुरुधो रदन्त्व् ऋतावानो वरुणो मित्रो अग्निः । यच्छन्तु चन्द्रा उपमꣳ नो अर्कम् आ नः कामम् पूपुरन्तु स्तवानाः
द्यावाभूमी अदिते त्रासीथाꣳ नो ये वाꣳ जज्ञुः सुजनिमान ऋष्वे । मा हेळे भूम वरुणस्य वायोर् मा मित्रस्य प्रियतमस्य नृणाम्
प्र बाहवा सिसृतꣳ जीवसे न आ नो गव्यूतिम् उक्षतꣳ घृतेन । आ नो जने श्रवयतꣳ युवाना श्रुतम् मे मित्रावरुणा हवेमा
नू मित्रो वरुणो अर्यमा नस् त्मने तोकाय वरिवो दधन्तु । सुगा नो विश्वा सुपथानि सन्तु यूयम् पात स्वस्तिभिः सदा नः
उद् व् एति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम् । चक्षुर् मित्रस्य वरुणस्य देवश् चर्मेव यः समविव्यक् तमाꣳसि
उद् व् एति प्रसवीता जनानाम् महान् केतुर् अर्णवः सूर्यस्य । समानꣳ चक्रम् पर्याविवृत्सन् यद् एतशो वहति धूर्षु युक्तः
विभ्राजमान उषसाम् उपस्थाद् रेभैर् उद् एत्य् अनुमद्यमानः । एष मे देवः सविता चच्छन्द यः समानꣳ न प्रमिनाति धाम
दिवो रुक्म उरुचक्षा उद् एति दूरेअर्थस् तरणिर् भ्राजमानः । नूनꣳ जनाः सूर्येण प्रसूता अयन्न् अर्थानि कृणवन्न् अपाꣳसि
यत्रा चक्रुर् अमृता गातुम् अस्मै श्येनो न दीयन्न् अन्व् एति पाथः । प्रति वाꣳ सूर उदिते विधेम नमोभिर् मित्रावरुणोत हव्यैः
नू मित्रो वरुणो अर्यमा नस् त्मने तोकाय वरिवो दधन्तु । सुगा नो विश्वा सुपथानि सन्तु यूयम् पात स्वस्तिभिः सदा नः
दिवि क्षयन्ता रजसः पृथिव्याम् प्र वाꣳ घृतस्य निर्णिजो ददीरन् । हव्यꣳ नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त
आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातम् अर्वाक् । इळाꣳ नो मित्रावरुणोत वृष्टिम् अव दिव इन्वतꣳ जीरदानू
मित्रस् तन् नो वरुणो देवो अर्यः प्र साधिष्ठेभिः पथिभिर् नयन्तु । ब्रवद् यथा न आद् अरिः सुदास इषा मदेम सह देवगोपाः
यो वाꣳ गर्तम् मनसा तक्षद् एतम् ऊर्ध्वाꣳ धीतिꣳ कृणवद् धारयच् च । उक्षेथाम् मित्रावरुणा घृतेन ता राजाना सुक्षितीस् तर्पयेथाम्
एष स्तोमो वरुण मित्र तुभ्यꣳ सोमः शुक्रो न वायवे ऽयामि । अविष्टꣳ धियो जिगृतम् पुरꣳधीर् यूयम् पात स्वस्तिभिः सदा नः
प्रति वाꣳ सूर उदिते सूक्तैर् मित्रꣳ हुवे वरुणम् पूतदक्षम् । ययोर् असुर्य१म् अक्षितꣳ ज्येष्ठꣳ विश्वस्य यामन्न् आचिता जिगत्नु
ता हि देवानाम् असुरा ताव् अर्या ता नः क्षितीः करतम् ऊर्जयन्तीः । अश्याम मित्रावरुणा वयꣳ वाꣳ द्यावा च यत्र पीपयन्न् अहा च
ता भूरिपाशाव् अनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय । ऋतस्य मित्रावरुणा पथा वाम् अपो न नावा दुरिता तरेम
आ नो मित्रावरुणा हव्यजुष्टिꣳ घृतैर् गव्यूतिम् उक्षतम् इळाभिः । प्रति वाम् अत्र वरम् आ जनाय पृणीतम् उद्नो दिव्यस्य चारोः
एष स्तोमो वरुण मित्र तुभ्यꣳ सोमः शुक्रो न वायवे ऽयामि । अविष्टꣳ धियो जिगृतम् पुरꣳधीर् यूयम् पात स्वस्तिभिः सदा नः
प्र मित्रयोर् वरुणयोः स्तोमो न एतु शूष्यः । नमस्वान् तुविजातयोः
या धारयन्त देवाः सुदक्षा दक्षपितरा । असुर्याय प्रमहसा
ता नः स्तिपा तनूपा वरुण जरितॄणाम् । मित्र साधयतꣳ धियः
यद् अद्य सूर उदिते ऽनागा मित्रो अर्यमा । सुवाति सविता भगः
सुप्रावीर् अस्तु स क्षयः प्र नु यामन् सुदानवः । ये नो अꣳहो ऽतिपिप्रति
उत स्वराजो अदितिर् अदब्धस्य व्रतस्य ये । महो राजान ईशते
प्रति वाꣳ सूर उदिते मित्रꣳ गृणीषे वरुणम् । अर्यमणꣳ रिशादसम्
राया हिरण्यया मतिर् इयम् अवृकाय शवसे । इयꣳ विप्रा मेधसातये
ते स्याम देव वरुण ते मित्र सूरिभिः सह । इषꣳ स्वश् च धीमहि
बहवः सूरचक्षसो ऽग्निजिह्वा ऋतावृधः । त्रीणि ये येमुर् विदथानि धीतिभिर् विश्वानि परिभूतिभिः
वि ये दधुः शरदम् मासम् आद् अहर् यज्ञम् अक्तुꣳ चाद् ऋचम् । अनाप्यꣳ वरुणो मित्रो अर्यमा क्षत्रꣳ राजान आशत
तद् वो अद्य मनामहे सूक्तैः सूर उदिते । यद् ओहते वरुणो मित्रो अर्यमा यूयम् ऋतस्य रथ्यः
ऋतावान ऋतजाता ऋतावृधो घोरासो अनृतद्विषः । तेषाꣳ वः सुम्ने सुच्छर्दिष्टमे नरः स्याम ये च सूरयः
उद् उ त्यद् दर्शतꣳ वपुर् दिव एति प्रतिह्वरे । यद् ईम् आशुर् वहति देव एतशो विश्वस्मै चक्षसे अरम्
शीर्ष्णः-शीर्ष्णो जगतस् तस्थुषस् पतिꣳ समया विश्वम् आ रजः । सप्त स्वसारः सुविताय सूर्यꣳ वहन्ति हरितो रथे
तच् चक्षुर् देवहितꣳ शुक्रम् उच्चरत् । पश्येम शरदः शतꣳ जीवेम शरदः शतम्
काव्येभिर् अदाभ्या यातꣳ वरुण द्युमत् । मित्रश् च सोमपीतये
दिवो धामभिर् वरुण मित्रश् चा यातम् अद्रुहा । पिबतꣳ सोमम् आतुजी
आ यातम् मित्रावरुणा जुषाणाव् आहुतिꣳ नरा । पातꣳ सोमम् ऋतावृधा
प्रति वाꣳ रथꣳ नृपती जरध्यै हविष्मता मनसा यज्ञियेन । यो वाꣳ दूतो न धिष्ण्याव् अजीगर् अच्छा सूनुर् न पितरा विवक्मि
अशोच्य् अग्निः समिधानो अस्मे उपो अदृश्रन् तमसश् चिद् अन्ताः । अचेति केतुर् उषसः पुरस्ताच् छ्रिये दिवो दुहितुर् जायमानः
अभि वाꣳ नूनम् अश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान् । पूर्वीभिर् यातम् पथ्याभिर् अर्वाक् स्वर्विदा वसुमता रथेन
अवोर् वाꣳ नूनम् अश्विना युवाकुर् हुवे यद् वाꣳ सुते माध्वी वसूयुः । आ वाꣳ वहन्तु स्थविरासो अश्वाः पिबाथो अस्मे सुषुता मधूनि
प्राचीम् उ देवाश्विना धियम् मे ऽमृध्राꣳ सातये कृतꣳ वसूयुम् । विश्वा अविष्टꣳ वाज आ पुरꣳधीस् ता नः शक्तꣳ शचीपती शचीभिः
अविष्टꣳ धीष्व् अश्विना न आसु प्रजावद् रेतो अह्रयꣳ नो अस्तु । आ वाꣳ तोके तनये तूतुजानाः सुरत्नासो देववीतिꣳ गमेम
एष स्य वाम् पूर्वगत्वेव सख्ये निधिर् हितो माध्वी रातो अस्मे । अहेळता मनसा यातम् अर्वाग् अश्नन्ता हव्यम् मानुषीषु विक्षु
एकस्मिन् योगे भुरणा समाने परि वाꣳ सप्त स्रवतो रथो गात् । न वायन्ति सुभ्वो देवयुक्ता ये वाꣳ धूर्षु तरणयो वहन्ति
असश्चता मघवद्भ्यो हि भूतꣳ ये राया मघदेयꣳ जुनन्ति । प्र ये बन्धुꣳ सूनृताभिस् तिरन्ते गव्या पृञ्चन्तो अश्व्या मघानि
नू मे हवम् आ शृणुतꣳ युवाना यासिष्टꣳ वर्तिर् अश्विनाव् इरावत् । धत्तꣳ रत्नानि जरतꣳ च सूरीन् यूयम् पात स्वस्तिभिः सदा नः
आ शुभ्रा यातम् अश्विना स्वश्वा गिरो दस्रा जुजुषाणा युवाकोः । हव्यानि च प्रतिभृता वीतꣳ नः
प्र वाम् अन्धाꣳसि मद्यान्य् अस्थुर् अरꣳ गन्तꣳ हविषो वीतये मे । तिरो अर्यो हवनानि श्रुतꣳ नः
प्र वाꣳ रथो मनोजवा इयर्ति तिरो रजाꣳस्य् अश्विना शतोतिः । अस्मभ्यꣳ सूर्यावसू इयानः
अयꣳ ह यद् वाꣳ देवया उ अद्रिर् ऊर्ध्वो विवक्ति सोमसुद् युवभ्याम् । आ वल्गू विप्रो ववृतीत हव्यैः
चित्रꣳ ह यद् वाम् भोजनꣳ न्व् अस्ति न्य् अत्रये महिष्वन्तꣳ युयोतम् । यो वाम् ओमानꣳ दधते प्रियः सन्
उत त्यद् वाꣳ जुरते अश्विना भूच् च्यवानाय प्रतीत्यꣳ हविर्दे । अधि यद् वर्प इतऊति धत्थः
उत त्यम् भुज्युम् अश्विना सखायो मध्ये जहुर् दुरेवासः समुद्रे । निर् ईम् पर्षद् अरावा यो युवाकुः
वृकाय चिज् जसमानाय शक्तम् उत श्रुतꣳ शयवे हूयमाना । याव् अघ्न्याम् अपिन्वतम् अपो न स्तर्यꣳ चिच् छक्त्य् अश्विना शचीभिः
एष स्य कारुर् जरते सूक्तैर् अग्रे बुधान उषसाꣳ सुमन्मा । इषा तꣳ वर्धद् अघ्न्या पयोभिर् यूयम् पात स्वस्तिभिः सदा नः
आ वाꣳ रथो रोदसी बद्बधानो हिरण्ययो वृषभिर् यात्व् अश्वैः । घृतवर्तनिः पविभी रुचान इषाꣳ वोळ्हा नृपतिर् वाजिनीवान्
स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसा यातु युक्तः । विशो येन गच्छथो देवयन्तीः कुत्रा चिद् यामम् अश्विना दधाना
स्वश्वा यशसा यातम् अर्वाग् दस्रा निधिम् मधुमन्तम् पिबाथः । वि वाꣳ रथो वध्वा३ यादमानो ऽन्तान् दिवो बाधते वर्तनिभ्याम्
युवोः श्रियम् परि योषावृणीत सूरो दुहिता परितक्म्यायाम् । यद् देवयन्तम् अवथः शचीभिः परि घ्रꣳसम् ओमना वाꣳ वयो गात्
यो ह स्य वाꣳ रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः । तेन नः शꣳ योर् उषसो व्युष्टौ न्य् अश्विना वहतꣳ यज्ञे अस्मिन्
नरा गौरेव विद्युतꣳ तृषाणास्माकम् अद्य सवनोप यातम् । पुरुत्रा हि वाम् मतिभिर् हवन्ते मा वाम् अन्ये नि यमन् देवयन्तः
युवम् भुज्युम् अवविद्धꣳ समुद्र उद् ऊहथुर् अर्णसो अस्रिधानैः । पतत्रिभिर् अश्रमैर् अव्यथिभिर् दꣳसनाभिर् अश्विना पारयन्ता
नू मे हवम् आ शृणुतꣳ युवाना यासिष्टꣳ वर्तिर् अश्विनाव् इरावत् । धत्तꣳ रत्नानि जरतꣳ च सूरीन् यूयम् पात स्वस्तिभिः सदा नः
आ विश्ववाराश्विना गतꣳ नः प्र तत् स्थानम् अवाचि वाम् पृथिव्याम् । अश्वो न वाजी शुनपृष्ठो अस्थाद् आ यत् सेदथुर् ध्रुवसे न योनिम्
सिषक्ति सा वाꣳ सुमतिश् चनिष्ठातापि घर्मो मनुषो दुरोणे । यो वाꣳ समुद्रान् सरितः पिपर्त्य् एतग्वा चिन् न सुयुजा युजानः
यानि स्थानान्य् अश्विना दधाथे दिवो यह्वीष्व् ओषधीषु विक्षु । नि पर्वतस्य मूर्धनि सदन्तेषꣳ जनाय दाशुषे वहन्ता
चनिष्टꣳ देवा ओषधीष्व् अप्सु यद् योग्या अश्नवैथे ऋषीणाम् । पुरूणि रत्ना दधतौ न्य् अ१स्मे अनु पूर्वाणि चख्यथुर् युगानि
शुश्रुवाꣳसा चिद् अश्विना पुरूण्य् अभि ब्रह्माणि चक्षाथे ऋषीणाम् । प्रति प्र यातꣳ वरम् आ जनायास्मे वाम् अस्तु सुमतिश् चनिष्ठा
यो वाꣳ यज्ञो नासत्या हविष्मान् कृतब्रह्मा समर्यो३ भवाति । उप प्र यातꣳ वरम् आ वसिष्ठम् इमा ब्रह्माण्य् ऋच्यन्ते युवभ्याम्
इयम् मनीषा इयम् अश्विना गीर् इमाꣳ सुवृक्तिꣳ वृषणा जुषेथाम् । इमा ब्रह्माणि युवयून्य् अग्मन् यूयम् पात स्वस्तिभिः सदा नः
अप स्वसुर् उषसो नग् जिहीते रिणक्ति कृष्णीर् अरुषाय पन्थाम् । अश्वामघा गोमघा वाꣳ हुवेम दिवा नक्तꣳ शरुम् अस्मद् युयोतम्
उपायातꣳ दाशुषे मर्त्याय रथेन वामम् अश्विना वहन्ता । युयुतम् अस्मद् अनिराम् अमीवाꣳ दिवा नक्तम् माध्वी त्रासीथाꣳ नः
आ वाꣳ रथम् अवमस्याꣳ व्युष्टौ सुम्नायवो वृषणो वर्तयन्तु । स्यूमगभस्तिम् ऋतयुग्भिर् अश्वैर् आश्विना वसुमन्तꣳ वहेथाम्
यो वाꣳ रथो नृपती अस्ति वोळ्हा त्रिवन्धुरो वसुमाꣳ उस्रयामा । आ न एना नासत्योप यातम् अभि यद् वाꣳ विश्वप्स्न्यो जिगाति
युवꣳ च्यवानꣳ जरसो ऽमुमुक्तꣳ नि पेदव ऊहथुर् आशुम् अश्वम् । निर् अꣳहसस् तमसः स्पर्तम् अत्रिꣳ नि जाहुषꣳ शिथिरे धातम् अन्तः
इयम् मनीषा इयम् अश्विना गीर् इमाꣳ सुवृक्तिꣳ वृषणा जुषेथाम् । इमा ब्रह्माणि युवयून्य् अग्मन् यूयम् पात स्वस्तिभिः सदा नः
आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् । अभि वाꣳ विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा शुभाना
आ नो देवेभिर् उप यातम् अर्वाक् सजोषसा नासत्या रथेन । युवोर् हि नः सख्या पित्र्याणि समानो बन्धुर् उत तस्य वित्तम्
उद् उ स्तोमासो अश्विनोर् अबुध्रञ् जामि ब्रह्माण्य् उषसश् च देवीः । आविवासन् रोदसी धिष्ण्येमे अच्छा विप्रो नासत्या विवक्ति
वि चेद् उच्छन्त्य् अश्विना उषासः प्र वाम् ब्रह्माणि कारवो भरन्ते । ऊर्ध्वम् भानुꣳ सविता देवो अश्रेद् बृहद् अग्नयः समिधा जरन्ते
आ पश्चातान् नासत्या पुरस्ताद् आश्विना यातम् अधराद् उदक्तात् । आ विश्वतः पाञ्चजन्येन राया यूयम् पात स्वस्तिभिः सदा नः
अतारिष्म तमसस् पारम् अस्य प्रति स्तोमꣳ देवयन्तो दधानाः । पुरुदꣳसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः
न्य् उ प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च । अश्नीतम् मध्वो अश्विना उपाक आ वाꣳ वोचे विदथेषु प्रयस्वान्
अहेम यज्ञम् पथाम् उराणा इमाꣳ सुवृक्तिꣳ वृषणा जुषेथाम् । श्रुष्टीवेव प्रेषितो वाम् अबोधि प्रति स्तोमैर् जरमाणो वसिष्ठः
उप त्या वह्नी गमतो विशꣳ नो रक्षोहणा सम्भृता वीळुपाणी । सम् अन्धाꣳस्य् अग्मत मत्सराणि मा नो मर्धिष्टम् आ गतꣳ शिवेन
आ पश्चातान् नासत्या पुरस्ताद् आश्विना यातम् अधराद् उदक्तात् । आ विश्वतः पाञ्चजन्येन राया यूयम् पात स्वस्तिभिः सदा नः
इमा उ वाꣳ दिविष्टय उस्रा हवन्ते अश्विना । अयꣳ वाम् अह्वे ऽवसे शचीवसू विशꣳ-विशꣳ हि गच्छथः
युवꣳ चित्रꣳ ददथुर् भोजनꣳ नरा चोदेथाꣳ सूनृतावते । अर्वाग् रथꣳ समनसा नि यच्छतम् पिबतꣳ सोम्यम् मधु
आ यातम् उप भूषतम् मध्वः पिबतम् अश्विना । दुग्धम् पयो वृषणा जेन्यावसू मा नो मर्धिष्टम् आ गतम्
अश्वासो ये वाम् उप दाशुषो गृहꣳ युवाꣳ दीयन्ति बिभ्रतः । मक्षूयुभिर् नरा हयेभिर् अश्विना देवा यातम् अस्मयू
अधा ह यन्तो अश्विना पृक्षः सचन्त सूरयः । ता यꣳसतो मघवद्भ्यो ध्रुवꣳ यशश् छर्दिर् अस्मभ्यꣳ नासत्या
प्र ये ययुर् अवृकासो रथा इव नृपातारो जनानाम् । उत स्वेन शवसा शूशुवुर् नर उत क्षियन्ति सुक्षितिम्
व्य् उ१षा आवो दिविजा ऋतेनाविष्कृण्वाना महिमानम् आगात् । अप द्रुहस् तम आवर् अजुष्टम् अङ्गिरस्तमा पथ्या अजीगः
महे नो अद्य सुविताय बोध्य् उषो महे सौभगाय प्र यन्धि । चित्रꣳ रयिꣳ यशसꣳ धेह्य् अस्मे देवि मर्तेषु मानुषि श्रवस्युम्
एते त्ये भानवो दर्शतायाश् चित्रा उषसो अमृतास आगुः । जनयन्तो दैव्यानि व्रतान्य् आपृणन्तो अन्तरिक्षा व्य् अस्थुः
एषा स्या युजाना पराकात् पञ्च क्षितीः परि सद्यो जिगाति । अभिपश्यन्ती वयुना जनानाꣳ दिवो दुहिता भुवनस्य पत्नी
वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनाम् । ऋषिष्टुता जरयन्ती मघोन्य् उषा उच्छति वह्निभिर् गृणाना
प्रति द्युतानाम् अरुषासो अश्वाश् चित्रा अदृश्रन्न् उषसꣳ वहन्तः । याति शुभ्रा विश्वपिशा रथेन दधाति रत्नꣳ विधते जनाय
सत्या सत्येभिर् महती महद्भिर् देवी देवेभिर् यजता यजत्रैः । रुजद् दृळ्हानि ददद् उस्रियाणाम् प्रति गाव उषसꣳ वावशन्त
नू नो गोमद् वीरवद् धेहि रत्नम् उषो अश्वावत् पुरुभोजो अस्मे । मा नो बर्हिः पुरुषता निदे कर् यूयम् पात स्वस्तिभिः सदा नः
उद् उ ज्योतिर् अमृतꣳ विश्वजन्यꣳ विश्वानरः सविता देवो अश्रेत् । क्रत्वा देवानाम् अजनिष्ट चक्षुर् आविर् अकर् भुवनꣳ विश्वम् उषाः
प्र मे पन्था देवयाना अदृश्रन्न् अमर्धन्तो वसुभिर् इष्कृतासः । अभूद् उ केतुर् उषसः पुरस्तात् प्रतीच्य् आगाद् अधि हर्म्येभ्यः
तानीद् अहानि बहुलान्य् आसन् या प्राचीनम् उदिता सूर्यस्य । यतः परि जार इवाचरन्त्य् उषो ददृक्षे न पुनर् यतीव
त इद् देवानाꣳ सधमाद आसन्न् ऋतावानः कवयः पूर्व्यासः । गूळ्हꣳ ज्योतिः पितरो अन्व् अविन्दन् सत्यमन्त्रा अजनयन्न् उषासम्
समान ऊर्वे अधि सꣳगतासः सꣳ जानते न यतन्ते मिथस् ते । ते देवानाꣳ न मिनन्ति व्रतान्य् अमर्धन्तो वसुभिर् यादमानाः
प्रति त्वा स्तोमैर् ईळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवाꣳसः । गवाꣳ नेत्री वाजपत्नी न उच्छोषः सुजाते प्रथमा जरस्व
एषा नेत्री राधसः सूनृतानाम् उषा उच्छन्ती रिभ्यते वसिष्ठैः । दीर्घश्रुतꣳ रयिम् अस्मे दधाना यूयम् पात स्वस्तिभिः सदा नः
उपो रुरुचे युवतिर् न योषा विश्वꣳ जीवम् प्रसुवन्ती चरायै । अभूद् अग्निः समिधे मानुषाणाम् अकर् ज्योतिर् बाधमाना तमाꣳसि
विश्वम् प्रतीची सप्रथा उद् अस्थाद् रुशद् वासो बिभ्रती शुक्रम् अश्वैत् । हिरण्यवर्णा सुदृशीकसꣳदृग् गवाम् माता नेत्र्य् अह्नाम् अरोचि
देवानाꣳ चक्षुः सुभगा वहन्ती श्वेतꣳ नयन्ती सुदृशीकम् अश्वम् । उषा अदर्शि रश्मिभिर् व्यक्ता चित्रामघा विश्वम् अनु प्रभूता
अन्तिवामा दूरे अमित्रम् उच्छोर्वीꣳ गव्यूतिम् अभयꣳ कृधी नः । यावय द्वेष आ भरा वसूनि चोदय राधो गृणते मघोनि
अस्मे श्रेष्ठेभिर् भानुभिर् वि भाह्य् उषो देवि प्रतिरन्ती न आयुः । इषꣳ च नो दधती विश्ववारे गोमद् अश्वावद् रथवच् च राधः
याꣳ त्वा दिवो दुहितर् वर्धयन्त्य् उषः सुजाते मतिभिर् वसिष्ठाः । सास्मासु धा रयिम् ऋष्वम् बृहन्तꣳ यूयम् पात स्वस्तिभिः सदा नः
प्रति केतवः प्रथमा अदृश्रन्न् ऊर्ध्वा अस्या अञ्जयो वि श्रयन्ते । उषो अर्वाचा बृहता रथेन ज्योतिष्मता वामम् अस्मभ्यꣳ वक्षि
प्रति षीम् अग्निर् जरते समिद्धः प्रति विप्रासो मतिभिर् गृणन्तः । उषा याति ज्योतिषा बाधमाना विश्वा तमाꣳसि दुरिताप देवी
एता उ त्याः प्रत्य् अदृश्रन् पुरस्ताज् ज्योतिर् यच्छन्तीर् उषसो विभातीः । अजीजनन् सूर्यꣳ यज्ञम् अग्निम् अपाचीनꣳ तमो अगाद् अजुष्टम्
अचेति दिवो दुहिता मघोनी विश्वे पश्यन्त्य् उषसꣳ विभातीम् । आस्थाद् रथꣳ स्वधया युज्यमानम् आ यम् अश्वासः सुयुजो वहन्ति
प्रति त्वाद्य सुमनसो बुधन्तास्माकासो मघवानो वयꣳ च । तिल्विलायध्वम् उषसो विभातीर् यूयम् पात स्वस्तिभिः सदा नः
व्य् उ१षा आवः पथ्या३ जनानाम् पञ्च क्षितीर् मानुषीर् बोधयन्ती । सुसꣳदृग्भिर् उक्षभिर् भानुम् अश्रेद् वि सूर्यो रोदसी चक्षसावः
व्य् अञ्जते दिवो अन्तेष्व् अक्तून् विशो न युक्ता उषसो यतन्ते । सꣳ ते गावस् तम आ वर्तयन्ति ज्योतिर् यच्छन्ति सवितेव बाहू
अभूद् उषा इन्द्रतमा मघोन्य् अजीजनत् सुविताय श्रवाꣳसि । वि दिवो देवी दुहिता दधात्य् अङ्गिरस्तमा सुकृते वसूनि
तावद् उषो राधो अस्मभ्यꣳ रास्व यावत् स्तोतृभ्यो अरदो गृणाना । याꣳ त्वा जज्ञुर् वृषभस्या रवेण वि दृळ्हस्य दुरो अद्रेर् और्णोः
देवꣳ-देवꣳ राधसे चोदयन्त्य् अस्मद्र्यक् सूनृता ईरयन्ती । व्युच्छन्ती नः सनये धियो धा यूयम् पात स्वस्तिभिः सदा नः
प्रति स्तोमेभिर् उषसꣳ वसिष्ठा गीर्भिर् विप्रासः प्रथमा अबुध्रन् । विवर्तयन्तीꣳ रजसी समन्ते आविष्कृण्वतीम् भुवनानि विश्वा
एषा स्या नव्यम् आयुर् दधाना गूढ्वी तमो ज्योतिषोषा अबोधि । अग्र एति युवतिर् अह्रयाणा प्राचिकितत् सूर्यꣳ यज्ञम् अग्निम्
अश्वावतीर् गोमतीर् न उषासो वीरवतीः सदम् उच्छन्तु भद्राः । घृतꣳ दुहाना विश्वतः प्रपीता यूयम् पात स्वस्तिभिः सदा नः
प्रत्य् उ अदर्श्य् आयत्य् उ१च्छन्ती दुहिता दिवः । अपो महि व्ययति चक्षसे तमो ज्योतिष् कृणोति सूनरी
उद् उस्रियाः सृजते सूर्यः सचाꣳ उद्यन् नक्षत्रम् अर्चिवत् । तवेद् उषो व्युषि सूर्यस्य च सम् भक्तेन गमेमहि
प्रति त्वा दुहितर् दिव उषो जीरा अभुत्स्महि । या वहसि पुरु स्पार्हꣳ वनन्वति रत्नꣳ न दाशुषे मयः
उच्छन्ती या कृणोषि मꣳहना महि प्रख्यै देवि स्वर् दृशे । तस्यास् ते रत्नभाज ईमहे वयꣳ स्याम मातुर् न सूनवः
तच् चित्रꣳ राध आ भरोषो यद् दीर्घश्रुत्तमम् । यत् ते दिवो दुहितर् मर्तभोजनꣳ तद् रास्व भुनजामहै
श्रवः सूरिभ्यो अमृतꣳ वसुत्वनꣳ वाजाꣳ अस्मभ्यꣳ गोमतः । चोदयित्री मघोनः सूनृतावत्य् उषा उच्छद् अप स्रिधः
इन्द्रावरुणा युवम् अध्वराय नो विशे जनाय महि शर्म यच्छतम् । दीर्घप्रयज्युम् अति यो वनुष्यति वयꣳ जयेम पृतनासु दूढ्यः
सम्राळ् अन्यः स्वराळ् अन्य उच्यते वाम् महान्ताव् इन्द्रावरुणा महावसू । विश्वे देवासः परमे व्योमनि सꣳ वाम् ओजो वृषणा सम् बलꣳ दधुः
अन्व् अपाꣳ खान्य् अतृन्तम् ओजसा सूर्यम् ऐरयतꣳ दिवि प्रभुम् । इन्द्रावरुणा मदे अस्य मायिनो ऽपिन्वतम् अपितः पिन्वतꣳ धियः
युवाम् इद् युत्सु पृतनासु वह्नयो युवाꣳ क्षेमस्य प्रसवे मितज्ञवः । ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे
इन्द्रावरुणा यद् इमानि चक्रथुर् विश्वा जातानि भुवनस्य मज्मना । क्षेमेण मित्रो वरुणꣳ दुवस्यति मरुद्भिर् उग्रः शुभम् अन्य ईयते
महे शुल्काय वरुणस्य नु त्विष ओजो मिमाते ध्रुवम् अस्य यत् स्वम् । अजामिम् अन्यः श्नथयन्तम् आतिरद् दभ्रेभिर् अन्यः प्र वृणोति भूयसः
न तम् अꣳहो न दुरितानि मर्त्यम् इन्द्रावरुणा न तपः कुतश् चन । यस्य देवा गच्छथो वीथो अध्वरꣳ न तम् मर्तस्य नशते परिह्वृतिः
अर्वाङ् नरा दैव्येनावसा गतꣳ शृणुतꣳ हवꣳ यदि मे जुजोषथः । युवोर् हि सख्यम् उत वा यद् आप्यम् मार्डीकम् इन्द्रावरुणा नि यच्छतम्
अस्माकम् इन्द्रावरुणा भरे-भरे पुरोयोधा भवतꣳ कृष्ट्योजसा । यद् वाꣳ हवन्त उभये अध स्पृधि नरस् तोकस्य तनयस्य सातिषु
अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नꣳ यच्छन्तु महि शर्म सप्रथः । अवध्रꣳ ज्योतिर् अदितेर् ऋतावृधो देवस्य श्लोकꣳ सवितुर् मनामहे
युवाꣳ नरा पश्यमानास आप्यम् प्राचा गव्यन्तः पृथुपर्शवो ययुः । दासा च वृत्रा हतम् आर्याणि च सुदासम् इन्द्रावरुणावसावतम्
यत्रा नरः समयन्ते कृतध्वजो यस्मिन्न् आजा भवति किꣳ चन प्रियम् । यत्रा भयन्ते भुवना स्वर्दृशस् तत्रा न इन्द्रावरुणाधि वोचतम्
सम् भूम्या अन्ता ध्वसिरा अदृक्षतेन्द्रावरुणा दिवि घोष आरुहत् । अस्थुर् जनानाम् उप माम् अरातयो ऽर्वाग् अवसा हवनश्रुता गतम्
इन्द्रावरुणा वधनाभिर् अप्रति भेदꣳ वन्वन्ता प्र सुदासम् आवतम् । ब्रह्माण्य् एषाꣳ शृणुतꣳ हवीमनि सत्या तृत्सूनाम् अभवत् पुरोहितिः
इन्द्रावरुणाव् अभ्य् आ तपन्ति माघान्य् अर्यो वनुषाम् अरातयः । युवꣳ हि वस्व उभयस्य राजथो ऽध स्मा नो ऽवतम् पार्ये दिवि
युवाꣳ हवन्त उभयास आजिष्व् इन्द्रꣳ च वस्वो वरुणꣳ च सातये । यत्र राजभिर् दशभिर् निबाधितम् प्र सुदासम् आवतꣳ तृत्सुभिः सह
दश राजानः समिता अयज्यवः सुदासम् इन्द्रावरुणा न युयुधुः । सत्या नृणाम् अद्मसदाम् उपस्तुतिर् देवा एषाम् अभवन् देवहूतिषु
दाशराज्ञे परियत्ताय विश्वतः सुदास इन्द्रावरुणाव् अशिक्षतम् । श्वित्यञ्चो यत्र नमसा कपर्दिनो धिया धीवन्तो असपन्त तृत्सवः
वृत्राण्य् अन्यः समिथेषु जिघ्नते व्रतान्य् अन्यो अभि रक्षते सदा । हवामहे वाꣳ वृषणा सुवृक्तिभिर् अस्मे इन्द्रावरुणा शर्म यच्छतम्
अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नꣳ यच्छन्तु महि शर्म सप्रथः । अवध्रꣳ ज्योतिर् अदितेर् ऋतावृधो देवस्य श्लोकꣳ सवितुर् मनामहे
आ वाꣳ राजानाव् अध्वरे ववृत्याꣳ हव्येभिर् इन्द्रावरुणा नमोभिः । प्र वाꣳ घृताची बाह्वोर् दधाना परि त्मना विषुरूपा जिगाति
युवो राष्ट्रम् बृहद् इन्वति द्यौर् यौ सेतृभिर् अरज्जुभिः सिनीथः । परि नो हेळो वरुणस्य वृज्या उरुꣳ न इन्द्रः कृणवद् उ लोकम्
कृतꣳ नो यज्ञꣳ विदथेषु चारुꣳ कृतम् ब्रह्माणि सूरिषु प्रशस्ता । उपो रयिर् देवजूतो न एतु प्र णः स्पार्हाभिर् ऊतिभिस् तिरेतम्
अस्मे इन्द्रावरुणा विश्ववारꣳ रयिꣳ धत्तꣳ वसुमन्तम् पुरुक्षुम् । प्र य आदित्यो अनृता मिनात्य् अमिता शूरो दयते वसूनि
इयम् इन्द्रꣳ वरुणम् अष्ट मे गीः प्रावत् तोके तनये तूतुजाना । सुरत्नासो देववीतिꣳ गमेम यूयम् पात स्वस्तिभिः सदा नः
पुनीषे वाम् अरक्षसम् मनीषाꣳ सोमम् इन्द्राय वरुणाय जुह्वत् । घृतप्रतीकाम् उषसꣳ न देवीꣳ ता नो यामन्न् उरुष्यताम् अभीके
स्पर्धन्ते वा उ देवहूये अत्र येषु ध्वजेषु दिद्यवः पतन्ति । युवꣳ ताꣳ इन्द्रावरुणाव् अमित्रान् हतम् पराचः शर्वा विषूचः
आपश् चिद् धि स्वयशसः सदःसु देवीर् इन्द्रꣳ वरुणꣳ देवता धुः । कृष्टीर् अन्यो धारयति प्रविक्ता वृत्राण्य् अन्यो अप्रतीनि हन्ति
स सुक्रतुर् ऋतचिद् अस्तु होता य आदित्य शवसा वाꣳ नमस्वान् । आववर्तद् अवसे वाꣳ हविष्मान् असद् इत् स सुविताय प्रयस्वान्
इयम् इन्द्रꣳ वरुणम् अष्ट मे गीः प्रावत् तोके तनये तूतुजाना । सुरत्नासो देववीतिꣳ गमेम यूयम् पात स्वस्तिभिः सदा नः
धीरा त्व् अस्य महिना जनूꣳषि वि यस् तस्तम्भ रोदसी चिद् उर्वी । प्र नाकम् ऋष्वꣳ नुनुदे बृहन्तꣳ द्विता नक्षत्रम् पप्रथच् च भूम
उत स्वया तन्वा३ सꣳ वदे तत् कदा न्व् अ१न्तर् वरुणे भुवानि । किम् मे हव्यम् अहृणानो जुषेत कदा मृळीकꣳ सुमना अभि ख्यम्
पृच्छे तद् एनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम् । समानम् इन् मे कवयश् चिद् आहुर् अयꣳ ह तुभ्यꣳ वरुणो हृणीते
किम् आग आस वरुण ज्येष्ठꣳ यत् स्तोतारꣳ जिघाꣳससि सखायम् । प्र तन् मे वोचो दूळभ स्वधावो ऽव त्वानेना नमसा तुर इयाम्
अव द्रुग्धानि पित्र्या सृजा नो ऽव या वयꣳ चकृमा तनूभिः । अव राजन् पशुतृपꣳ न तायुꣳ सृजा वत्सꣳ न दाम्नो वसिष्ठम्
न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर् विभीदको अचित्तिः । अस्ति ज्यायान् कनीयस उपारे स्वप्नश् चनेद् अनृतस्य प्रयोता
अरꣳ दासो न मीळ्हुषे कराण्य् अहꣳ देवाय भूर्णये ऽनागाः । अचेतयद् अचितो देवो अर्यो गृत्सꣳ राये कवितरो जुनाति
अयꣳ सु तुभ्यꣳ वरुण स्वधावो हृदि स्तोम उपश्रितश् चिद् अस्तु । शꣳ नः क्षेमे शम् उ योगे नो अस्तु यूयम् पात स्वस्तिभिः सदा नः
रदत् पथो वरुणः सूर्याय प्रार्णाꣳसि समुद्रिया नदीनाम् । सर्गो न सृष्टो अर्वतीर् ऋतायञ् चकार महीर् अवनीर् अहभ्यः
आत्मा ते वातो रज आ नवीनोत् पशुर् न भूर्णिर् यवसे ससवान् । अन्तर् मही बृहती रोदसीमे विश्वा ते धाम वरुण प्रियाणि
परि स्पशो वरुणस्य स्मदिष्टा उभे पश्यन्ति रोदसी सुमेके । ऋतावानः कवयो यज्ञधीराः प्रचेतसो य इषयन्त मन्म
उवाच मे वरुणो मेधिराय त्रिः सप्त नामाघ्न्या बिभर्ति । विद्वान् पदस्य गुह्या न वोचद् युगाय विप्र उपराय शिक्षन्
तिस्रो द्यावो निहिता अन्तर् अस्मिन् तिस्रो भूमीर् उपराः षड्विधानाः । गृत्सो राजा वरुणश् चक्र एतꣳ दिवि प्रेङ्खꣳ हिरण्ययꣳ शुभे कम्
अव सिन्धुꣳ वरुणो द्यौर् इव स्थाद् द्रप्सो न श्वेतो मृगस् तुविष्मान् । गम्भीरशꣳसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा
यो मृळयाति चक्रुषे चिद् आगो वयꣳ स्याम वरुणे अनागाः । अनु व्रतान्य् अदितेर् ऋधन्तो यूयम् पात स्वस्तिभिः सदा नः
प्र शुन्ध्युवꣳ वरुणाय प्रेष्ठाम् मतिꣳ वसिष्ठ मीळ्हुषे भरस्व । य ईम् अर्वाञ्चꣳ करते यजत्रꣳ सहस्रामघꣳ वृषणम् बृहन्तम्
अधा न्व् अस्य सꣳदृशꣳ जगन्वान् अग्नेर् अनीकꣳ वरुणस्य मꣳसि । स्व१र् यद् अश्मन्न् अधिपा उ अन्धो ऽभि मा वपुर् दृशये निनीयात्
आ यद् रुहाव वरुणश् च नावम् प्र यत् समुद्रम् ईरयाव मध्यम् । अधि यद् अपाꣳ स्नुभिश् चराव प्र प्रेङ्ख ईङ्खयावहै शुभे कम्
वसिष्ठꣳ ह वरुणो नाव्य् आधाद् ऋषिꣳ चकार स्वपा महोभिः । स्तोतारꣳ विप्रः सुदिनत्वे अह्नाꣳ यान् नु द्यावस् ततनन् याद् उषासः
क्व१ त्यानि नौ सख्या बभूवुः सचावहे यद् अवृकम् पुरा चित् । बृहन्तम् मानꣳ वरुण स्वधावः सहस्रद्वारꣳ जगमा गृहꣳ ते
य आपिर् नित्यो वरुण प्रियः सन् त्वाम् आगाꣳसि कृणवत् सखा ते । मा त एनस्वन्तो यक्षिन् भुजेम यन्धि ष्मा विप्रः स्तुवते वरूथम्
ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्य् अ१स्मत् पाशꣳ वरुणो मुमोचत् । अवो वन्वाना अदितेर् उपस्थाद् यूयम् पात स्वस्तिभिः सदा नः
मो षु वरुण मृन्मयꣳ गृहꣳ राजन्न् अहꣳ गमम् । मृळा सुक्षत्र मृळय
यद् एमि प्रस्फुरन्न् इव दृतिर् न ध्मातो अद्रिवः । मृळा सुक्षत्र मृळय
क्रत्वः समह दीनता प्रतीपꣳ जगमा शुचे । मृळा सुक्षत्र मृळय
अपाम् मध्ये तस्थिवाꣳसꣳ तृष्णाविदज् जरितारम् । मृळा सुक्षत्र मृळय
यत् किꣳ चेदꣳ वरुण दैव्ये जने ऽभिद्रोहम् मनुष्या३श् चरामसि । अचित्ती यत् तव धर्मा युयोपिम मा नस् तस्माद् एनसो देव रीरिषः
प्र वीरया शुचयो दद्रिरे वाम् अध्वर्युभिर् मधुमन्तः सुतासः । वह वायो नियुतो याह्य् अच्छा पिबा सुतस्यान्धसो मदाय
ईशानाय प्रहुतिꣳ यस् त आनट् छुचिꣳ सोमꣳ शुचिपास् तुभ्यꣳ वायो । कृणोषि तम् मर्त्येषु प्रशस्तꣳ जातो-जातो जायते वाज्य् अस्य
राये नु यꣳ जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् । अध वायुꣳ नियुतः सश्चत स्वा उत श्वेतꣳ वसुधितिꣳ निरेके
उच्छन्न् उषसः सुदिना अरिप्रा उरु ज्योतिर् विविदुर् दीध्यानाः । गव्यꣳ चिद् ऊर्वम् उशिजो वि वव्रुस् तेषाम् अनु प्रदिवः सस्रुर् आपः
ते सत्येन मनसा दीध्यानाः स्वेन युक्तासः क्रतुना वहन्ति । इन्द्रवायू वीरवाहꣳ रथꣳ वाम् ईशानयोर् अभि पृक्षः सचन्ते
ईशानासो ये दधते स्वर् णो गोभिर् अश्वेभिर् वसुभिर् हिरण्यैः । इन्द्रवायू सूरयो विश्वम् आयुर् अर्वद्भिर् वीरैः पृतनासु सह्युः
अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर् वसिष्ठाः । वाजयन्तः स्व् अवसे हुवेम यूयम् पात स्वस्तिभिः सदा नः
कुविद् अङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् । ते वायवे मनवे बाधितायावासयन्न् उषसꣳ सूर्येण
उशन्ता दूता न दभाय गोपा मासश् च पाथः शरदश् च पूर्वीः । इन्द्रवायू सुष्टुतिर् वाम् इयाना मार्डीकम् ईट्टे सुवितꣳ च नव्यम्
पीवोअन्नाꣳ रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुताम् अभिश्रीः । ते वायवे समनसो वि तस्थुर् विश्वेन् नरः स्वपत्यानि चक्रुः
यावत् तरस् तन्वो३ यावद् ओजो यावन् नरश् चक्षसा दीध्यानाः । शुचिꣳ सोमꣳ शुचिपा पातम् अस्मे इन्द्रवायू सदतम् बर्हिर् एदम्
नियुवाना नियुतः स्पार्हवीरा इन्द्रवायू सरथꣳ यातम् अर्वाक् । इदꣳ हि वाम् प्रभृतम् मध्वो अग्रम् अध प्रीणाना वि मुमुक्तम् अस्मे
या वाꣳ शतꣳ नियुतो याः सहस्रम् इन्द्रवायू विश्ववाराः सचन्ते । आभिर् यातꣳ सुविदत्राभिर् अर्वाक् पातꣳ नरा प्रतिभृतस्य मध्वः
अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर् वसिष्ठाः । वाजयन्तः स्व् अवसे हुवेम यूयम् पात स्वस्तिभिः सदा नः
आ वायो भूष शुचिपा उप नः सहस्रꣳ ते नियुतो विश्ववार । उपो ते अन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम्
प्र सोता जीरो अध्वरेष्व् अस्थात् सोमम् इन्द्राय वायवे पिबध्यै । प्र यद् वाम् मध्वो अग्रियम् भरन्त्य् अध्वर्यवो देवयन्तः शचीभिः
प्र याभिर् यासि दाश्वाꣳसम् अच्छा नियुद्भिर् वायव् इष्टये दुरोणे । नि नो रयिꣳ सुभोजसꣳ युवस्व नि वीरꣳ गव्यम् अश्व्यꣳ च राधः
ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः । घ्नन्तो वृत्राणि सूरिभिः ष्याम सासह्वाꣳसो युधा नृभिर् अमित्रान्
आ नो नियुद्भिः शतिनीभिर् अध्वरꣳ सहस्रिणीभिर् उप याहि यज्ञम् । वायो अस्मिन् सवने मादयस्व यूयम् पात स्वस्तिभिः सदा नः
शुचिꣳ नु स्तोमꣳ नवजातम् अद्येन्द्राग्नी वृत्रहणा जुषेथाम् । उभा हि वाꣳ सुहवा जोहवीमि ता वाजꣳ सद्य उशते धेष्ठा
ता सानसी शवसाना हि भूतꣳ साकꣳवृधा शवसा शूशुवाꣳसा । क्षयन्तौ रायो यवसस्य भूरेः पृङ्क्तꣳ वाजस्य स्थविरस्य घृष्वेः
उपो ह यद् विदथꣳ वाजिनो गुर् धीभिर् विप्राः प्रमतिम् इच्छमानाः । अर्वन्तो न काष्ठाꣳ नक्षमाणा इन्द्राग्नी जोहुवतो नरस् ते
गीर्भिर् विप्रः प्रमतिम् इच्छमान ईट्टे रयिꣳ यशसम् पूर्वभाजम् । इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस् तिरतꣳ देष्णैः
सꣳ यन् मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते । अदेवयुꣳ विदथे देवयुभिः सत्रा हतꣳ सोमसुता जनेन
इमाम् उ षु सोमसुतिम् उप न एन्द्राग्नी सौमनसाय यातम् । नू चिद् धि परिमम्नाथे अस्मान् आ वाꣳ शश्वद्भिर् ववृतीय वाजैः
सो अग्न एना नमसा समिद्धो ऽच्छा मित्रꣳ वरुणम् इन्द्रꣳ वोचेः । यत् सीम् आगश् चकृमा तत् सु मृळ तद् अर्यमादितिः शिश्रथन्तु
एता अग्न आशुषाणास इष्टीर् युवोः सचाभ्य् अश्याम वाजान् । मेन्द्रो नो विष्णुर् मरुतः परि ख्यन् यूयम् पात स्वस्तिभिः सदा नः
इयꣳ वाम् अस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः । अभ्राद् वृष्टिर् इवाजनि
शृणुतꣳ जरितुर् हवम् इन्द्राग्नी वनतꣳ गिरः । ईशाना पिप्यतꣳ धियः
मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये । मा नो रीरधतꣳ निदे
इन्द्रे अग्ना नमो बृहत् सुवृक्तिम् एरयामहे । धिया धेना अवस्यवः
ता हि शश्वन्त ईळत इत्था विप्रास ऊतये । सबाधो वाजसातये
ता वाꣳ गीर्भिर् विपन्यवः प्रयस्वन्तो हवामहे । मेधसाता सनिष्यवः
इन्द्राग्नी अवसा गतम् अस्मभ्यꣳ चर्षणीसहा । मा नो दुःशꣳस ईशत
मा कस्य नो अररुषो धूर्तिः प्रणङ् मर्त्यस्य । इन्द्राग्नी शर्म यच्छतम्
गोमद् धिरण्यवद् वसु यद् वाम् अश्वावद् ईमहे । इन्द्राग्नी तद् वनेमहि
यत् सोम आ सुते नर इन्द्राग्नी अजोहवुः । सप्तीवन्ता सपर्यवः
उक्थेभिर् वृत्रहन्तमा या मन्दाना चिद् आ गिरा । आङ्गूषैर् आविवासतः
ताव् इद् दुःशꣳसम् मर्त्यꣳ दुर्विद्वाꣳसꣳ रक्षस्विनम् । आभोगꣳ हन्मना हतम् उदधिꣳ हन्मना हतम्
प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणम् आयसी पूः । प्रबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुर् अन्याः
एकाचेतत् सरस्वती नदीनाꣳ शुचिर् यती गिरिभ्य आ समुद्रात् । रायश् चेतन्ती भुवनस्य भूरेर् घृतम् पयो दुदुहे नाहुषाय
स वावृधे नर्यो योषणासु वृषा शिशुर् वृषभो यज्ञियासु । स वाजिनम् मघवद्भ्यो दधाति वि सातये तन्वम् मामृजीत
उत स्या नः सरस्वती जुषाणोप श्रवत् सुभगा यज्णे अस्मिन् । मितज्ञुभिर् नमस्यैर् इयाना राया युजा चिद् उत्तरा सखिभ्यः
इमा जुह्वाना युष्मद् आ नमोभिः प्रति स्तोमꣳ सरस्वति जुषस्व । तव शर्मन् प्रियतमे दधाना उप स्थेयाम शरणꣳ न वृक्षम्
अयम् उ ते सरस्वति वसिष्ठो द्वाराव् ऋतस्य सुभगे व्य् आवः । वर्ध शुभ्रे स्तुवते रासि वाजान् यूयम् पात स्वस्तिभिः सदा नः
बृहद् उ गायिषे वचो ऽसुर्या नदीनाम् । सरस्वतीम् इन् महया सुवृक्तिभिः स्तोमैर् वसिष्ठ रोदसी
उभे यत् ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः । सा नो बोध्य् अवित्री मरुत्सखा चोद राधो मघोनाम्
भद्रम् इद् भद्रा कृणवत् सरस्वत्य् अकवारी चेतति वाजिनीवती । गृणाना जमदग्निवत् स्तुवाना च वसिष्ठवत्
जनीयन्तो न्व् अग्रवः पुत्रीयन्तः सुदानवः । सरस्वन्तꣳ हवामहे
ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः । तेभिर् नो ऽविता भव
पीपिवाꣳसꣳ सरस्वतः स्तनꣳ यो विश्वदर्शतः । भक्षीमहि प्रजाम् इषम्
यज्ञे दिवो नृषदने पृथिव्या नरो यत्र देवयवो मदन्ति । इन्द्राय यत्र सवनानि सुन्वे गमन् मदाय प्रथमꣳ वयश् च
आ दैव्या वृणीमहे ऽवाꣳसि बृहस्पतिर् नो मह आ सखायः । यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव
तम् उ ज्येष्ठꣳ नमसा हविर्भिः सुशेवम् ब्रह्मणस् पतिꣳ गृणीषे । इन्द्रꣳ श्लोको महि दैव्यः सिषक्तु यो ब्रह्मणो देवकृतस्य राजा
स आ नो योनिꣳ सदतु प्रेष्ठो बृहस्पतिर् विश्ववारो यो अस्ति । कामो रायः सुवीर्यस्य तꣳ दात् पर्षन् नो अति सश्चतो अरिष्टान्
तम् आ नो अर्कम् अमृताय जुष्टम् इमे धासुर् अमृतासः पुराजाः । शुचिक्रन्दꣳ यजतम् पस्त्यानाम् बृहस्पतिम् अनर्वाणꣳ हुवेम
तꣳ शग्मासो अरुषासो अश्वा बृहस्पतिꣳ सहवाहो वहन्ति । सहश् चिद् यस्य नीलवत् सधस्थꣳ नभो न रूपम् अरुषꣳ वसानाः
स हि शुचिः शतपत्रः स शुन्ध्युर् हिरण्यवाशीर् इषिरः स्वर्षाः । बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिꣳ करिष्ठः
देवी देवस्य रोदसी जनित्री बृहस्पतिꣳ वावृधतुर् महित्वा । दक्षाय्याय दक्षता सखायः करद् ब्रह्मणे सुतरा सुगाधा
इयꣳ वाम् ब्रह्मणस् पते सुवृक्तिर् ब्रह्मेन्द्राय वज्रिणे अकारि । अविष्टꣳ धियो जिगृतम् पुरꣳधीर् जजस्तम् अर्यो वनुषाम् अरातीः
बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । धत्तꣳ रयिꣳ स्तुवते कीरये चिद् यूयम् पात स्वस्तिभिः सदा नः
अध्वर्यवो ऽरुणꣳ दुग्धम् अꣳशुꣳ जुहोतन वृषभाय क्षितीनाम् । गौराद् वेदीयाꣳ अवपानम् इन्द्रो विश्वाहेद् याति सुतसोमम् इच्छन्
यद् दधिषे प्रदिवि चार्व् अन्नꣳ दिवे-दिवे पीतिम् इद् अस्य वक्षि । उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि सोमान्
जज्ञानः सोमꣳ सहसे पपाथ प्र ते माता महिमानम् उवाच । एन्द्र पप्राथोर्व् अ१न्तरिक्षꣳ युधा देवेभ्यो वरिवश् चकर्थ
यद् योधया महतो मन्यमानान् साक्षाम तान् बाहुभिः शाशदानान् । यद् वा नृभिर् वृत इन्द्राभियुध्यास् तꣳ त्वयाजिꣳ सौश्रवसꣳ जयेम
प्रेन्द्रस्य वोचम् प्रथमा कृतानि प्र नूतना मघवा या चकार । यदेद् अदेवीर् असहिष्ट माया अथाभवत् केवलः सोमो अस्य
तवेदꣳ विश्वम् अभितः पशव्य१ꣳ यत् पश्यसि चक्षसा सूर्यस्य । गवाम् असि गोपतिर् एक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः
बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । धत्तꣳ रयिꣳ स्तुवते कीरये चिद् यूयम् पात स्वस्तिभिः सदा नः
परो मात्रया तन्वा वृधान न ते महित्वम् अन्व् अश्नुवन्ति । उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वम् परमस्य वित्से
न ते विष्णो जायमानो न जातो देव महिम्नः परम् अन्तम् आप । उद् अस्तभ्ना नाकम् ऋष्वम् बृहन्तꣳ दाधर्थ प्राचीꣳ ककुभम् पृथिव्याः
इरावती धेनुमती हि भूतꣳ सूयवसिनी मनुषे दशस्या । व्य् अस्तभ्ना रोदसी विष्णव् एते दाधर्थ पृथिवीम् अभितो मयूखैः
उरुꣳ यज्ञाय चक्रथुर् उ लोकꣳ जनयन्ता सूर्यम् उषासम् अग्निम् । दासस्य चिद् वृषशिप्रस्य माया जघ्नथुर् नरा पृतनाज्येषु
इन्द्राविष्णू दृꣳहिताः शम्बरस्य नव पुरो नवतिꣳ च श्नथिष्टम् । शतꣳ वर्चिनः सहस्रꣳ च साकꣳ हथो अप्रत्य् असुरस्य वीरान्
इयम् मनीषा बृहती बृहन्तोरुक्रमा तवसा वर्धयन्ती । ररे वाꣳ स्तोमꣳ विदथेषु विष्णो पिन्वतम् इषो वृजनेष्व् इन्द्र
वषट् ते विष्णव् आस आ कृणोमि तन् मे जुषस्व शिपिविष्ट हव्यम् । वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः सदा नः
नू मर्तो दयते सनिष्यन् यो विष्णव उरुगायाय दाशत् । प्र यः सत्राचा मनसा यजात एतावन्तꣳ नर्यम् आविवासात्
त्वꣳ विष्णो सुमतिꣳ विश्वजन्याम् अप्रयुताम् एवयावो मतिꣳ दाः । पर्चो यथा नः सुवितस्य भूरेर् अश्वावतः पुरुश्चन्द्रस्य रायः
त्रिर् देवः पृथिवीम् एष एताꣳ वि चक्रमे शतर्चसम् महित्वा । प्र विष्णुर् अस्तु तवसस् तवीयान् त्वेषꣳ ह्य् अस्य स्थविरस्य नाम
वि चक्रमे पृथिवीम् एष एताꣳ क्षेत्राय विष्णुर् मनुषे दशस्यन् । ध्रुवासो अस्य कीरयो जनास उरुक्षितिꣳ सुजनिमा चकार
प्र तत् ते अद्य शिपिविष्ट नामार्यः शꣳसामि वयुनानि विद्वान् । तꣳ त्वा गृणामि तवसम् अतव्यान् क्षयन्तम् अस्य रजसः पराके
किम् इत् ते विष्णो परिचक्ष्यम् भूत् प्र यद् ववक्षे शिपिविष्टो अस्मि । मा वर्पो अस्मद् अप गूह एतद् यद् अन्यरूपः समिथे बभूथ
वषट् ते विष्णव् आस आ कृणोमि तन् मे जुषस्व शिपिविष्ट हव्यम् । वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः सदा नः
तिस्रो वाचः प्र वद ज्योतिरग्रा या एतद् दुह्रे मधुदोघम् ऊधः । स वत्सꣳ कृण्वन् गर्भम् ओषधीनाꣳ सद्यो जातो वृषभो रोरवीति
यो वर्धन ओषधीनाꣳ यो अपाꣳ यो विश्वस्य जगतो देव ईशे । स त्रिधातु शरणꣳ शर्म यꣳसत् त्रिवर्तु ज्योतिः स्वभिष्ट्य् अ१स्मे
स्तरीर् उ त्वद् भवति सूत उ त्वद् यथावशꣳ तन्वꣳ चक्र एषः । पितुः पयः प्रति गृभ्णाति माता तेन पिता वर्धते तेन पुत्रः
यस्मिन् विश्वानि भुवनानि तस्थुस् तिस्रो द्यावस् त्रेधा सस्रुर् आपः । त्रयः कोशास उपसेचनासो मध्वः श्चोतन्त्य् अभितो विरप्शम्
इदꣳ वचः पर्जन्याय स्वराजे हृदो अस्त्व् अन्तरꣳ तज् जुजोषत् । मयोभुवो वृष्टयः सन्त्व् अस्मे सुपिप्पला ओषधीर् देवगोपाः
स रेतोधा वृषभः शश्वतीनाꣳ तस्मिन्न् आत्मा जगतस् तस्थुषश् च । तन् म ऋतम् पातु शतशारदाय यूयम् पात स्वस्तिभिः सदा नः
पर्जन्याय प्र गायत दिवस् पुत्राय मीळ्हुषे । स नो यवसम् इच्छतु
यो गर्भम् ओषधीनाꣳ गवाꣳ कृणोत्य् अर्वताम् । पर्जन्यः पुरुषीणाम्
तस्मा इद् आस्ये हविर् जुहोता मधुमत्तमम् । इळाꣳ नः सꣳयतꣳ करत्
सꣳवत्सरꣳ शशयाना ब्राह्मणा व्रतचारिणः । वाचम् पर्जन्यजिन्विताम् प्र मण्डूका अवादिषुः
दिव्या आपो अभि यद् एनम् आयन् दृतिꣳ न शुष्कꣳ सरसी शयानम् । गवाम् अह न मायुर् वत्सिनीनाम् मण्डूकानाꣳ वग्नुर् अत्रा सम् एति
यद् ईम् एनाꣳ उशतो अभ्य् अवर्षीत् तृष्यावतः प्रावृष्य् आगतायाम् । अख्खलीकृत्या पितरꣳ न पुत्रो अन्यो अन्यम् उप वदन्तम् एति
अन्यो अन्यम् अनु गृभ्णात्य् एनोर् अपाम् प्रसर्गे यद् अमन्दिषाताम् । मण्डूको यद् अभिवृष्टः कनिष्कन् पृश्निः सम्पृङ्क्ते हरितेन वाचम्
यद् एषाम् अन्यो अन्यस्य वाचꣳ शाक्तस्येव वदति शिक्षमाणः । सर्वꣳ तद् एषाꣳ समृधेव पर्व यत् सुवाचो वदथनाध्य् अप्सु
गोमायुर् एको अजमायुर् एकः पृश्निर् एको हरित एक एषाम् । समानꣳ नाम बिभ्रतो विरूपाः पुरुत्रा वाचम् पिपिशुर् वदन्तः
ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णम् अभितो वदन्तः । सꣳवत्सरस्य तद् अहः परि ष्ठ यन् मण्डूकाः प्रावृषीणम् बभूव
ब्राह्मणासः सोमिनो वाचम् अक्रत ब्रह्म कृण्वन्तः परिवत्सरीणम् । अध्वर्यवो घर्मिणः सिष्विदाना आविर् भवन्ति गुह्या न के चित्
देवहितिꣳ जुगुपुर् द्वादशस्य ऋतुꣳ नरो न प्र मिनन्त्य् एते । सꣳवत्सरे प्रावृष्य् आगतायाꣳ तप्ता घर्मा अश्नुवते विसर्गम्
गोमायुर् अदाद् अजमायुर् अदात् पृश्निर् अदाद् धरितो नो वसूनि । गवाम् मण्डूका ददतः शतानि सहस्रसावे प्र तिरन्त आयुः
इन्द्रासोमा तपतꣳ रक्ष उब्जतꣳ न्य् अर्पयतꣳ वृषणा तमोवृधः । परा शृणीतम् अचितो न्य् ओषतꣳ हतꣳ नुदेथाꣳ नि शिशीतम् अत्रिणः
इन्द्रासोमा सम् अघशꣳसम् अभ्य् अ१घꣳ तपुर् ययस्तु चरुर् अग्निवाꣳ इव । ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तम् अनवायꣳ किमीदिने
इन्द्रासोमा दुष्कृतो वव्रे अन्तर् अनारम्भणे तमसि प्र विध्यतम् । यथा नातः पुनर् एकश् चनोदयत् तद् वाम् अस्तु सहसे मन्युमच् छवः
इन्द्रासोमा वर्तयतꣳ दिवो वधꣳ सम् पृथिव्या अघशꣳसाय तर्हणम् । उत् तक्षतꣳ स्वर्य१म् पर्वतेभ्यो येन रक्षो वावृधानꣳ निजूर्वथः
इन्द्रासोमा वर्तयतꣳ दिवस् पर्य् अग्नितप्तेभिर् युवम् अश्महन्मभिः । तपुर्वधेभिर् अजरेभिर् अत्रिणो नि पर्शाने विध्यतꣳ यन्तु निस्वरम्
इन्द्रासोमा परि वाम् भूतु विश्वत इयम् मतिः कक्ष्याश्वेव वाजिना । याꣳ वाꣳ होत्राम् परिहिनोमि मेधयेमा ब्रह्माणि नृपतीव जिन्वतम्
प्रति स्मरेथाꣳ तुजयद्भिर् एवैर् हतꣳ द्रुहो रक्षसो भङ्गुरावतः । इन्द्रासोमा दुष्कृते मा सुगम् भूद् यो नः कदा चिद् अभिदासति द्रुहा
यो मा पाकेन मनसा चरन्तम् अभिचष्टे अनृतेभिर् वचोभिः । आप इव काशिना सꣳगृभीता असन्न् अस्त्व् आसत इन्द्र वक्ता
ये पाकशꣳसꣳ विहरन्त एवैर् ये वा भद्रꣳ दूषयन्ति स्वधाभिः । अहये वा तान् प्रददातु सोम आ वा दधातु निरृतेर् उपस्थे
यो नो रसꣳ दिप्सति पित्वो अग्ने यो अश्वानाꣳ यो गवाꣳ यस् तनूनाम् । रिपुः स्तेनः स्तेयकृद् दभ्रम् एतु नि ष हीयताꣳ तन्वा३ तना च
परः सो अस्तु तन्वा३ तना च तिस्रः पृथिवीर् अधो अस्तु विश्वाः । प्रति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश् च नक्तम्
सुविज्ञानꣳ चिकितुषे जनाय सच् चासच् च वचसी पस्पृधाते । तयोर् यत् सत्यꣳ यतरद् ऋजीयस् तद् इत् सोमो ऽवति हन्त्य् आसत्
न वा उ सोमो वृजिनꣳ हिनोति न क्षत्रियम् मिथुया धारयन्तम् । हन्ति रक्षो हन्त्य् आसद् वदन्तम् उभाव् इन्द्रस्य प्रसितौ शयाते
यदि वाहम् अनृतदेव आस मोघꣳ वा देवाꣳ अप्यूहे अग्ने । किम् अस्मभ्यꣳ जातवेदो हृणीषे द्रोघवाचस् ते निरृथꣳ सचन्ताम्
अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस् ततप पूरुषस्य । अधा स वीरैर् दशभिर् वि यूया यो मा मोघꣳ यातुधानेत्य् आह
यो मायातुꣳ यातुधानेत्य् आह यो वा रक्षाः शुचिर् अस्मीत्य् आह । इन्द्रस् तꣳ हन्तु महता वधेन विश्वस्य जन्तोर् अधमस् पदीष्ट
प्र या जिगाति खर्गलेव नक्तम् अप द्रुहा तन्व१ꣳ गूहमाना । वव्राꣳ अनन्ताꣳ अव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः
वि तिष्ठध्वम् मरुतो विक्ष्व् इ१च्छत गृभायत रक्षसः सम् पिनष्टन । वयो ये भूत्वी पतयन्ति नक्तभिर् ये वा रिपो दधिरे देवे अध्वरे
प्र वर्तय दिवो अश्मानम् इन्द्र सोमशितम् मघवन् सꣳ शिशाधि । प्राक्ताद् अपाक्ताद् अधराद् उदक्ताद् अभि जहि रक्षसः पर्वतेन
एत उ त्ये पतयन्ति श्वयातव इन्द्रꣳ दिप्सन्ति दिप्सवो ऽदाभ्यम् । शिशीते शक्रः पिशुनेभ्यो वधꣳ नूनꣳ सृजद् अशनिꣳ यातुमद्भ्यः
इन्द्रो यातूनाम् अभवत् पराशरो हविर्मथीनाम् अभ्य् आ३विवासताम् । अभीद् उ शक्रः परशुर् यथा वनम् पात्रेव भिन्दन् सत एति रक्षसः
उलूकयातुꣳ शुशुलूकयातुꣳ जहि श्वयातुम् उत कोकयातुम् । सुपर्णयातुम् उत गृध्रयातुꣳ दृषदेव प्र मृण रक्ष इन्द्र
मा नो रक्षो अभि नड् यातुमावताम् अपोच्छतु मिथुना या किमीदिना । पृथिवी नः पार्थिवात् पात्व् अꣳहसो ऽन्तरिक्षꣳ दिव्यात् पात्व् अस्मान्
इन्द्र जहि पुमाꣳसꣳ यातुधानम् उत स्त्रियम् मायया शाशदानाम् । विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन् सूर्यम् उच्चरन्तम्
प्रति चक्ष्व वि चक्ष्वेन्द्रश् च सोम जागृतम् । रक्षोभ्यो वधम् अस्यतम् अशनिꣳ यातुमद्भ्यः
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ṚṢIS). Ṛgveda Saṃhitā — Maṇḍala 7. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/rgveda-mandala-7>. Acesso em: 26/04/2026.
Tradição Védica (Ṛṣis) (2026). Ṛgveda Saṃhitā — Maṇḍala 7. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/rgveda-mandala-7
Tradição Védica (Ṛṣis). "Ṛgveda Saṃhitā — Maṇḍala 7." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/rgveda-mandala-7.