Sarvavedāntasiddhāntasārasaṅgraha
Śrī Ādi Śaṅkarācārya
Adhyāya 1
गोविन्दं तमहं वन्दे चिदानन्दतनुं गुरुम् ॥ १ ॥ अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् ।
आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ २ ॥ यदालम्बो दरं हन्ति सतां प्रत्यूहसम्भवम् ।
तदालम्बे दयालम्बं लम्बोदरपदाम्बुजम् ॥ ३ ॥ वेदान्तशास्त्रसिद्धान्तसारसङ्ग्रह उच्यते ।
प्रेक्षावतां मुमुक्षूणां सुखबोधोपपत्तये ॥ ४ ॥ अस्य शास्त्रानुसारित्वादनुबन्धचतुष्टयम् ।
यदेव मूलं शास्त्रस्य निर्दिष्टं तदिहोच्यते ॥ ५ ॥ अधिकारी च विषयः सम्बन्धश्च प्रयोजनम् ।
शास्त्रारम्भफलं प्राहुरनुबन्धचतुष्टयम् ॥ ६ ॥ चतुर्भिः साधनैः सम्यक्सम्पन्नो युक्तिदक्षिणः ।
मेधावी पुरुषो विद्वानधिकार्यत्र सम्मतः ॥ ७ ॥ विषयः शुद्धचैतन्यं जीवब्रह्मैक्यलक्षणम् ।
यत्रैव दृश्यते सर्ववेदान्तानां समन्वयः ॥ ८ ॥ एतदैक्यप्रमेयस्य प्रमाणस्यापि च श्रुतेः ।
सम्बन्धः कथ्यते सद्भिर्बोध्यबोधकलक्षणः ॥ ९ ॥ ब्रह्मात्मैकत्वविज्ञानं सन्तः प्राहुः प्रयोजनम् ।
येन निःशेषसंसारबन्धात्सद्यः प्रमुच्यते ॥ १० ॥ प्रयोजनं सम्प्रवृत्तेः कारणं फललक्षणम् ।
प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ॥ ११ ॥ साधनचतुष्टयसम्पत्तिर्यस्यास्ति धीमतः पुंसः ।
तस्यैवैतत्फलसिद्धिर्नान्यस्य किञ्चिदूनस्य ॥ १२ ॥ चत्वारि साधनान्यत्र वदन्ति परमर्षयः ।
मुक्तिर्येषां तु सद्भावे नाभावे सिध्यति ध्रुवम् ॥ १३ ॥ आद्यं नित्यानित्यवस्तुविवेकः साधनं मतम् ।
इहामुत्रार्थफलभोगविरागो द्वितीयकम् ॥ १४ ॥ शमादिषट्कसम्पत्तिस्तृतीयं साधनम् मतम् ।
तुरीयं तु मुमुक्षुत्वं साधनं शास्त्रसम्मतम् ॥ १५ ॥ ब्रह्मैव नित्यमन्यत्तु ह्यनित्यमिति वेदनम् ।
सोऽयं नित्यानित्यवस्तुविवेक इति कथ्यते ॥ १६ ॥ मृदादिकारणं नित्यं त्रिषु कालेषु दर्शनात् ।
घटाद्यनित्यं तत्कार्यं यतस्तन्नाश ईक्ष्यते ॥ १७ ॥ तथैवैतज्जगत्सर्वमनित्यं ब्रह्मकार्यतः ।
तत्कारणं परं ब्रह्म भवेन्नित्यं मृदादिवत् ॥ १८ ॥ सर्गं वक्त्यस्य तस्माद्वा एतस्मादित्यपि श्रुतिः ।
सकाशाद्ब्रह्मणस्तस्मादनित्यत्वे न संशयः ॥ १९ ॥ सर्वस्यानित्यत्वे सावयवत्वेन सर्वतः सिद्धे ।
वैकुण्ठादिषु नित्यत्वमतिर्भ्रम एव मूढबुद्धीनाम् ॥ २० ॥ अनित्यत्वं च नित्यत्वमेवं यच्छ्रुतियुक्तिभिः ।
विवेचनं नित्यानित्यविवेक इति कथ्यते ॥ २१ ॥ ऐहिकामुष्मिकार्थेषु ह्यनित्यत्वेन निश्चयात् ।
नैःस्पृह्यं तुच्छबुद्ध्या यत्तद्वैराग्यमितीर्यते ॥ २२ ॥ नित्यानित्यपदार्थविवेकात्पुरुषस्य जायते सद्यः ।
स्रक्चन्दनवनितादौ सर्वत्रानित्यवस्तुनि विरक्तिः ॥ २३ ॥ काकस्य विष्ठावदसह्यबुद्धि - र्भोग्येषु सा तीव्रविरक्तिरिष्यते । विरक्तितीव्रत्वनिदानमाहु -
र्भोग्येषु दोषेक्षणमेव सन्तः ॥ २४ ॥ प्रदृश्यते वस्तुनि यत्र दोषो न तत्र पुंसोऽस्ति पुनः प्रवृत्तिः । अन्तर्महारोगवतीं विजान -
न्को नाम वेश्यामपि रूपिणीं व्रजेत् ॥ २५ ॥ अत्रापि चान्यत्र च विद्यमान - पदार्थसम्मर्शनमेव कार्यम् । यथाप्रकारार्थगुणाभिमर्शनं
सन्दर्शयत्येव तदीयदोषम् ॥ २६ ॥ कुक्षौ स्वमातुर्मलमूत्रमध्ये स्थितिं तदा विट्क्रिमिदंशनं च । तदीयकौक्षेयकवह्निदाहं
विचार्य को वा विरतिं न याति ॥ २७ ॥ स्वकीयविण्मूत्रविसर्जनं त - च्चोत्तानगत्या शयनं तदा यत् । बालग्रहाद्याहतिभाक्च शैशवं
विचार्य को वा विरतिं न याति ॥ २८ ॥ स्वीयैः परैस्ताडनमज्ञभाव - मत्यन्तचापल्यमसत्क्रियां च । कुमारभावे प्रतिषिद्धवृत्तिं
विचार्य को वा विरतिं न याति ॥ २९ ॥ मदोद्धतिं मान्यतिरस्कृतिं च कामातुरत्वं समयातिलङ्घनम् । तां तां युवत्योदितदुष्टचेष्टां
विचार्य को वा विरतिं न याति ॥ ३० ॥ विरूपतां सर्वजनादवज्ञां सर्वत्र दैन्यं निजबुद्धिहैन्यम् । वृद्धत्वसम्भावितदुर्दशां तां
विचार्य को वा विरतिं न याति ॥ ३१ ॥ पित्तज्वरार्शःक्षयगुल्मशूल - श्लेष्मादिरोगोदिततीव्रदुःखम् । दुर्गन्धमस्वास्थ्यमनूनचिन्तां
विचार्य को वा विरतिं न याति ॥ ३२ ॥ यमावलोकोदितभीतिकम्प - मर्मव्यथोच्छ्वासगतीश्च वेदनाम् । प्राणप्रयाणे परिदृश्यमानां
विचार्य को वा विरतिं न याति ॥ ३३ ॥ अङ्गारनद्यां तपने च कुम्भी - पाकेऽपि वीच्यामसिपत्रकानने । दूतैर्यमस्य क्रियमाणबाधां
विचार्य को वा विरतिं न याति ॥ ३४ ॥ पुण्यक्षये पुण्यकृतो नभःस्थै - र्निपात्यमानान्शिथिलीकृताङ्गान् । नक्षत्ररूपेण दिवश्च्युतांस्ता -
न्विचार्य को वा विरतिं न याति ॥ ३५ ॥ वाय्वर्कवह्नीन्द्रमुखान्सुरेन्द्रा - नीशोग्रभीत्या ग्रथितान्तरङ्गान् । विपक्षलोकैः परिदूयमाना -
न्विचार्य को वा विरतिं न याति ॥ ३६ ॥ श्रुत्या निरुक्तं सुखतारतम्यं ब्रह्मान्तमारभ्य महीमहेशम् । औपाधिकं तत्तु न वास्तवं चे -
दालोच्य को वा विरतिं न याति ॥ ३७ ॥ सालोक्यसामीप्यसरूपतादि - भेदस्तु सत्कर्मविशेषसिद्धः । न कर्मसिद्धस्य तु नित्यतेति
विचार्य को वा विरतिं न याति ॥ ३८ ॥ यत्रास्ति लोके गतितारतम्यं उच्चावचत्वान्वितमत्र तत्कृतम् । यथेह तद्वत्खलु दुःखमस्ती -
त्यालोच्य को वा विरतिं न याति ॥ ३९ ॥ को नाम लोके पुरुषो विवेकी विनश्वरे तुच्छसुखे गृहादौ । कुर्याद्रतिं नित्यमवेक्षमाणो
वृथैव मोहान्म्रियमाणजन्तून् ॥ ४० ॥ सुखं किमस्त्यत्र विचार्यमाणे गृहेऽपि वा योषिति वा पदार्थे । मायातमोऽन्धीकृतचक्षुषो ये
त एव मुह्यन्ति विवेकशून्याः ॥ ४१ ॥ अविचारितरमणीयं सर्वमुदुम्बरफलोपमं भोग्यम् । अज्ञानामुपभोग्यं
न तु तज्ज्ञानां योषिति वा पदार्थे ॥ ४२ ॥ गतेऽपि तोये सुषिरं कुलीरो हातुं ह्यशक्तो म्रियते विमोहात् । यथा तथा गेहसुखानुषक्तो
विनाशमायाति नरो भ्रमेण ॥ ४३ ॥ कोशक्रिमिस्तन्तुभिरात्मदेह - मावेष्ट्य चावेष्ट्य च गुप्तिमिच्छन् । स्वयं विनिर्गन्तुमशक्त एव
संस्ततस्तदन्ते म्रियते च लग्नः ॥ ४४ ॥ यथा तथा पुत्रकलत्रमित्र - स्नेहानुबन्धैर्ग्रथितो गृहस्थः । कदापि वा तान्परिमुच्य गेहा -
द्गन्तुं न शक्तो म्रियते मुधैव ॥ ४५ ॥ कारागृहस्यास्य च को विशेषः प्रदृश्यते साधु विचार्यमाणे । मुक्तेः प्रतीपत्वमिहापि पुंसः
कान्तासुखाभ्युत्थितमोहपाशैः ॥ ४६ ॥ गृहस्पृहा पादनिबद्धशृङ्खला कान्तासुताशा पटुकण्ठपाशः । शीर्षे पतद्भूर्यशनिर्हि साक्षा -
त्प्राणान्तहेतुः प्रबला धनाशा ॥ ४७ ॥ आशापाशशतेन पाशितपदो नोत्थातुमेव क्षमः कामक्रोधमदादिभिः प्रतिभटैः संरक्ष्यमाणोऽनिशम् । संमोहावरणेन गोपनवतः संसारकारागृहा -
न्निर्गन्तुं त्रिविधेषणापरवशः कः शक्नुयाद्रागिषु ॥ ४८ ॥ कामान्धकारेण निरुद्धदृष्टि - र्मुह्यत्यसत्यप्यबलास्वरूपे । न ह्यन्धदृष्टेरसतः सतो वा
सुखत्वदुःखत्वविचारणास्ति ॥ ४९ ॥ श्लेष्मोद्गारि मुखं स्रवन्मलवती नासाश्रुमल्लोचनं स्वेदस्रावि मलाभिपूर्णमभितो दुर्गन्धदुष्टं वपुः । अन्यद्वक्तुमशक्यमेव मनसा मन्तुं क्वचिन्नार्हति
स्त्रीरूपं कथमीदृशं सुमनसां पात्रीभवेन्नेत्रयोः ॥ ५० ॥ दूरादवेक्ष्याग्निशिखां पतङ्गो रम्यत्वबुद्ध्या विनिपत्य नश्यति । यथा तथा नष्टदृगेष सूक्ष्मं
कथं निरीक्षेत विमुक्तिमार्गम् ॥ ५१ ॥ कामेन कान्तां परिगृह्य तद्व - ज्जनोऽप्ययं नश्यति नष्टदृष्टिः । मांसास्थिमज्जामलमूत्रपात्रं
स्त्रियं स्वयं रम्यतयैव पश्यति ॥ ५२ ॥ काम एव यमः साक्षात्कान्ता वैतरणी नदी ।
विवेकिनां मुमुक्षूणां निलयस्तु यमालयः ॥ ५३ ॥ यमालये वापि गृहेऽपि नो नृणां तापत्रयक्लेशनिवृत्तिरस्ति । किञ्चित्समालोक्य तु तद्विरामं
सुखात्मना पश्यति मूढलोकः ॥ ५४ ॥ यमस्य कामस्य च तारतम्यं विचार्यमाणे महदस्ति लोके । हितं करोत्यस्य यमोऽप्रियः स -
न्कामस्त्वनर्थं कुरुते प्रियः सन् ॥ ५५ ॥ यमोऽसतामेव करोत्यनर्थं सतां तु सौख्यं कुरुते हितः सन् । कामः सतामेव गतिं निरुन्ध -
न्करोत्यनर्थं ह्यसतां नु का कथा ॥ ५६ ॥ विश्वस्य वृद्धिं स्वयमेव काङ्क्ष - न्प्रवर्तकं कामिजनं ससर्ज । तेनैव लोकः परिमुह्यमानः
प्रवर्धते चन्द्रमसेव चाब्धिः ॥ ५७ ॥ कामो नाम महाञ्जगद्भ्रमयिता स्थित्वान्तरङ्गे स्वयं स्त्रीपुंसावितरेतराङ्गकगुणैर्हासैश्च भावैः स्फुटम् । अन्योन्यं परिमोह्य नैजतमसा प्रेमानुबन्धेन तौ
बद्ध्वा भ्रामयति प्रपञ्चरचनां संवर्धयन्ब्रह्महा ॥ ५८ ॥ अतोऽन्तरङ्गस्थितकामवेगा - द्भोग्ये प्रवृत्तिः स्वत एव सिद्धा । सर्वस्य जन्तोर्ध्रुवमन्यथा चे -
दबोधितार्थेषु कथं प्रवृत्तिः ॥ ५९ ॥ तेनैव सर्वजन्तूनां कामना बलवत्तरा ।
जीर्यत्यपि च देहेऽस्मिन्कामना नैव जीर्यते ॥ ६० ॥ अवेक्ष्य विषये दोषं बुद्धियुक्तो विचक्षणः ।
कामपाशेन यो मुक्तः स मुक्तेः पथि गोचरः ॥ ६१ ॥ कामस्य विजयोपायं सूक्ष्मं वक्ष्याम्यहं सताम् ।
सङ्कल्पस्य परित्याग उपायः सुलभो मतः ॥ ६२ ॥ श्रुते दृष्टेऽपि वा भोग्ये यस्मिन्कस्मिंश्च वस्तुनि ।
समीचीनत्वधीत्यागात्कामो नोदेति कर्हिचित् ॥ ६३ ॥ कामस्य बीजं सङ्कल्पः सङ्कल्पादेव जायते ।
बीजे नष्टेऽङ्कुर इव तस्मिन्नष्टे विनश्यति ॥ ६४ ॥ न कोऽपि सम्यक्त्वधिया विनैव भोग्यं नरः कामयितुं समर्थः । यतस्ततः कामजयेच्छुरेतां
सम्यक्त्वबुद्धिं विषये निहन्यात् ॥ ६५ ॥ भोग्ये नरः कामजयेच्छुरेतां सुखत्वबुद्धिं विषये निहन्यात् । यावत्सुखत्वभ्रमधीः पदार्थे
तावन्न जेतुं प्रभवेद्धि कामम् ॥ ६६ ॥ सङ्कल्पानुदये हेतुर्यथाभूतार्थदर्शनम् ।
अनर्थचिन्तनं चाभ्यां नावकाशोऽस्य विद्यते ॥ ६७ ॥ रत्ने यदि शिलाबुद्धिर्जायते वा भयं ततः ।
समीचीनत्वधीर्नैति नोपादेयत्वधीरपि ॥ ६८ ॥ यथार्थदर्शनं वस्तुन्यनर्थस्यापि चिन्तनम् ।
सङ्कल्पस्यापि कामस्य तद्वधोपाय इष्यते ॥ ६९ ॥ धनं भयनिबन्धनं सततदुःखसंवर्धनं प्रचण्डतरकर्दनं स्फुटितबन्धुसंवर्धनम् । विशिष्टगुणबाधनं कृपणधीसमाराधनं
न मुक्तिगतिसाधनं भवति नापि हृच्छोधनम् ॥ ७० ॥ राज्ञो भयं चोरभयं प्रमादा - द्भयं तथा ज्ञातिभयं च वस्तुतः । धनं भयग्रस्तमनर्थमूलं
यतः सतां नैव सुखाय कल्पते ॥ ७१ ॥ आर्जने रक्षणे दाने व्यये वापि च वस्तुतः ।
दुःखमेव सदा नॄणां न धनं सुखसाधनम् ॥ ७२ ॥ सतामपि पदार्थस्य लाभाल्लोभः प्रवर्धते ।
विवेको लुप्यते लोभात्तस्मिंल्लुप्ते विनश्यति ॥ ७३ ॥ दहत्यलाभे निःस्वत्वं लाभे लोभो दहत्यमुम् ।
तस्मात्सन्तापकं वित्तं कस्य सौख्यं प्रयच्छति ॥ ७४ ॥ भोगेन मत्तता जन्तोर्दानेन पुनरुद्भवः ।
वृथैवोभयथा वित्तं नास्त्येव गतिरन्यथा ॥ ७५ ॥ धनेन मदवृद्धिः स्यान्मदेन स्मृतिनाशनम् ।
स्मृतिनाशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ७६ ॥ सुखयति धनमेवेत्यन्तराशापिशाच्या दृढतरमुपगूढो मूढलोको जडात्मा । निवसति तदुपान्ते सन्ततं प्रेक्षमाणो
व्रजति तदपि पश्चात्प्राणमेतस्य हृत्वा ॥ ७७ ॥ सम्पन्नोऽन्धवदेव किञ्चिदपरं नो वीक्षते चक्षुषा सद्भिर्वर्जितमार्ग एव चरति प्रोत्सारितो बालिशैः । तस्मिन्नेव मुहुः स्खलन्प्रतिपदं गत्वान्धकूपे पत -
त्यस्यान्धत्वनिवर्तकौषधमिदं दारिद्र्यमेवाञ्जनम् ॥ ७८ ॥ लोभः क्रोधश्च डम्भश्च मदो मत्सर एव च ।
वर्धते वित्तसम्प्राप्त्या कथं तच्चित्तशोधनम् ॥ ७९ ॥ अलाभाद्द्विगुणं दुःखं वित्तस्य व्ययसम्भवे ।
ततोऽपि त्रिगुणं दुःखं दुर्व्यये विदुषामपि ॥ ८० ॥ नित्याहितेन वित्तेन भयचिन्तानपायिना । चित्तस्वास्थ्यं कुतो जन्तो -
र्गृहस्थेनाहिना यथा ॥ ८१ ॥ कान्तारे विजने वने जनपदे सेतौ निरीतौ च वा चोरैर्वापि तथेतरैर्नरवरैर्युक्तो वियुक्तोऽपि वा । निःस्वः स्वस्थतया सुखेन वसति ह्याद्रीयमाणो जनैः
क्लिश्नात्येव धनी सदाकुलमतिर्भीतश्च पुत्रादपि ॥ ८२ ॥ तस्मादनर्थस्य निदानमर्थः पुमर्थसिद्धिर्न भवत्यनेन । ततो वनान्ते निवसन्ति सन्तः
संन्यस्य सर्वं प्रतिकूलमर्थम् ॥ ८३ ॥ श्रद्धाभक्तिमतीं सतीं गुणवतीं पुत्राञ्श्रुतान्सम्मता - नक्षय्यं वसुधानुभोगविभवैः श्रीसुन्दरं मन्दिरम् । सर्वं नश्वरमित्यवेत्य कवयः श्रुत्युक्तिभिर्युक्तिभिः
संन्यस्यन्त्यपरे तु तत्सुखमिति भ्राम्यन्ति दुःखार्णवे ॥ ८४ ॥ सुखमिति मलराशौ ये रमन्तेऽत्र गेहे क्रिमय इव कलत्रक्षेत्रपुत्रानुषक्त्या । सुरपद इव तेषां नैव मोक्षप्रसङ्ग -
स्त्वपि तु निरयगर्भावासदुःखप्रवाहः ॥ ८५ ॥ येषामाशा निराशा स्या - द्दारापत्यधनादिषु । तेषां सिध्यति नान्येषां
मोक्षाशाभिमुखी गतिः ॥ ८६ ॥ सत्कर्मक्षयपाप्मनां श्रुतिमतां सिद्धात्मनां धीमतां नित्यानित्यपदार्थशोधनमिदं युक्त्या मुहुः कुर्वताम् । तस्मादुत्थमहाविरक्त्यसिमतां मोक्षैककाङ्क्षावतां
धन्यानां सुलभं स्त्रियादिविषयेष्वाशालताच्छेदनम् ॥ ८७ ॥ संसारमृत्योर्बलिनः प्रवेष्टुं द्वाराणि तु त्रीणि महान्ति लोके । कान्ता च जिह्वा कनकं च तानि
रुणद्धि यस्तस्य भयं न मृत्योः ॥ ८८ ॥ मुक्तिश्रीनगरस्य दुर्जयतरं द्वारं यदस्त्यादिमं तस्य द्वे अररे धनं च युवती ताभ्यां पिनद्धं दृढम् । कामाख्यार्गलदारुणा बलवता द्वारं तदेतत्त्रयं
धीरो यस्तु भिनत्ति सोऽर्हति सुखं भोक्तुं विमुक्तिश्रियः ॥ ८९ ॥ आरूढस्य विवेकाश्वं तीव्रवैराग्यखड्गिनः ।
तितिक्षावर्मयुक्तस्य प्रतियोगी न दृश्यते ॥ ९० ॥ विवेकजां तीव्रविरक्तिमेव मुक्तेर्निदानं निगदन्ति सन्तः ।
तस्माद्विवेकी विरतिं मुमुक्षुः सम्पादयेत्तां प्रथमं प्रयत्नात् ॥ ९१ ॥ पुमानजातनिर्वेदो देहबन्धं जिहासितुम् ।
न हि शक्नोति निर्वेदो बन्धभेदो महानसौ ॥ ९२ ॥ वैराग्यरहिता एव यमालय इवालये ।
क्लिश्नन्ति त्रिविधैस्तापैर्मोहिता अपि पण्डिताः ॥ ९३ ॥ शमो दमस्तितिक्षोपरतिः श्रद्धा ततः परम् ।
समाधानमिति प्रोक्तं षडेवैते शमादयः ॥ ९४ ॥ एकवृत्त्यैव मनसः स्वलक्ष्ये नियतस्थितिः ।
शम इत्युच्यते सद्भिः शमलक्षणवेदिभिः ॥ ९५ ॥ उत्तमो मध्यमश्चैव जघन्य इति च त्रिधा ।
निरूपितो विपश्चिद्भिः तत्तल्लक्षणवेदिभिः ॥ ९६ ॥ स्वविकारं परित्यज्य वस्तुमात्रतया स्थितिः ।
मनसः सोत्तमा शान्तिर्ब्रह्मनिर्वाणलक्षणा ॥ ९७ ॥ प्रत्यक्प्रत्ययसन्तानप्रवाहकरणं धियः ।
यदेषा मध्यमा शान्तिः शुद्धसत्त्वैकलक्षणा ॥ ९८ ॥ विषयव्यापृतिं त्यक्त्वा श्रवणैकमनस्थितिः ।
मनसश्चेतरा शान्तिर्मिश्रसत्त्वैकलक्षणा ॥ ९९ ॥ प्राच्योदीच्याङ्गसद्भावे शमः सिध्यति नान्यथा ।
तीव्रा विरक्तिः प्राच्याङ्गमुदीच्याङ्गं दमादयः ॥ १०० ॥ कामः क्रोधश्च लोभश्च मदो मोहश्च मत्सरः ।
न जिताः षडिमे येन तस्य शान्तिर्न सिध्यति ॥ १०१ ॥ शब्दादिविषयेभ्यो यो विषवन्न निवर्तते ।
तीव्रमोक्षेच्छया भिक्षोस्तस्य शान्तिर्न सिध्यति ॥ १०२ ॥ येन नाराधितो देवो यस्य नो गुर्वनुग्रहः ।
न वश्यं हृदयं यस्य तस्य शान्तिर्न सिध्यति ॥ १०३ ॥ मनःप्रसादसिद्ध्यर्थं साधनं श्रूयतां बुधैः ।
मनःप्रसादो यत्सत्त्वे यदभावे न सिध्यति ॥ १०४ ॥ ब्रह्मचर्यमहिंसा च दया भूतेष्ववक्रता ।
विषयेष्वतिवैतृष्ण्यं शौचं दम्भविवर्जनम् ॥ १०५ ॥ सत्यं निर्ममता स्थैर्यमभिमानविसर्जनम् ।
ईश्वरध्यानपरता ब्रह्मविद्भिः सहस्थितिः ॥ १०६ ॥ ज्ञानशास्त्रैकपरता समता सुखदुःखयोः ।
मानानासक्तिरेकान्तशीलता च मुमुक्षुता ॥ १०७ ॥ यस्यैतद्विद्यते सर्वं तस्य चित्तं प्रसीदति ।
न त्वेतद्धर्मशून्यस्य प्रकारान्तरकोटिभिः ॥ १०८ ॥ स्मरणं दर्शनं स्त्रीणां गुणकर्मानुकीर्तनम् ।
समीचीनत्वधीस्तासु प्रीतिः सम्भाषणं मिथः ॥ १०९ ॥ सहवासश्च संसर्गोऽष्टधा मैथुनं विदुः ।
एतद्विलक्षणं ब्रह्मचर्यं चित्तप्रसादकम् ॥ ११० ॥ अहिंसा वाङ्मनःकायैः प्राणिमात्राप्रपीडनम् ।
स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा ॥ १११ ॥ अनुकम्पा दया सैव प्रोक्ता वेदान्तवेदिभिः ।
करणत्रितयेष्वेकरूपतावक्रता मता ॥ ११२ ॥ ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु ।
यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥ ११३ ॥ बाह्यमाभ्यन्तरं चेति द्विविधं शौचमुच्यते ।
मृज्जलाभ्यां कृतं शौचं बाह्यं शारीरकं स्मृतम् ॥ ११४ ॥ अज्ञानदूरीकरणं मानसं शौचमान्तरम् ।
अन्तःशौचे स्थिते सम्यग्बाह्यं नावश्यकं नृणाम् ॥ ११५ ॥ ध्यानपूजादिकं लोके द्रष्टर्येव करोति यः ।
पारमार्थिकधीहीनः स दम्भाचार उच्यते ॥ ११६ ॥ पुंसस्तथानाचरणमदम्भित्वं विदुर्बुधा ः ।
यत्स्वेन दृष्टं सम्यक्च श्रुतं तस्यैव भाषणम् ॥ ११७ ॥ सत्यमित्युच्यते ब्रह्म सत्यमित्यभिभाषणम् ।
देहादिषु स्वकीयत्वदृढबुद्धिविसर्जनम् ॥ ११८ ॥ निर्ममत्वं स्मृतं येन कैवल्यं लभते बुधः ।
गुरुवेदान्तवचनैर्निश्चितार्थे दृढस्थितिः ॥ ११९ ॥ तदेकवृत्त्या तत्स्थैर्यं नैश्चल्यं न तु वर्ष्मणः ।
विद्यैश्वर्यतपोरूपकुलवर्णाश्रमादिभिः ॥ १२० ॥ सञ्जाताहङ्कृतित्यागस्त्वभिमानविसर्जनम् ।
त्रिभिश्च करणैः सम्यग्हित्वा वैषयिकीं क्रियाम् ॥ १२१ ॥ स्वात्मैकचिन्तनं यत्तदीश्वरध्यानमीरितम् ।
छायेव सर्वदा वासो ब्रह्मविद्भिः सह स्थितिः ॥ १२२ ॥ यद्यदुक्तं ज्ञानशास्त्रे श्रवणादिकमेषु यः ।
निरतः कर्मधीहीनः ज्ञाननिष्ठः स एव हि ॥ १२३ ॥ धनकान्ताज्वरादीनां प्राप्तकाले सुखादिभिः ।
विकारहीनतैव स्यात्सुखदुःखसमानता ॥ १२४ ॥ श्रेष्ठं पूज्यं विदित्वा मां मानयन्तु जना भुवि ।
इत्यासक्त्या विहीनत्वं मानानासक्तिरुच्यते ॥ १२५ ॥ सच्चिन्तनस्य सम्बाधो विघ्नोऽयं निर्जने ततः ।
स्थेयमित्येक एवास्ति चेत्सैवैकान्तशीलता ॥ १२६ ॥ संसारबन्धनिर्मुक्तिः कदा झटिति मे भवेत् ।
इति या सुदृढा बुद्धिरीरिता सा मुमुक्षुता ॥ १२७ ॥ ब्रह्मचर्यादिभिर्धर्मैर्बुद्धेर्दोषनिवृत्तये ।
दण्डनं दम इत्याहुर्दमशब्दार्थकोविदाः ॥ १२८ ॥ तत्तद्वृत्तिनिरोधेन बाह्येन्द्रियविनिग्रहः ।
योगिनो दम इत्याहुर्मनसः शान्तिसाधनम् ॥ १२९ ॥ इन्द्रियेष्विन्द्रियार्थेषु प्रवृत्तेषु यदृच्छया ।
अनुधावति तान्येव मनो वायुमिवानलः ॥ १३० ॥ इन्द्रियेषु निरुद्धेषु त्यक्त्वा वेगं मनः स्वयम् ।
सत्त्वभावमुपादत्ते प्रसादस्तेन जायते ॥ १३१ ॥ प्रसन्ने सति चित्तेऽस्य मुक्तिः सिध्यति नान्यथा । मनःप्रसादस्य निदानमेव निरोधनं यत्सकलेन्द्रियाणाम् । बाह्येन्द्रिये साधु निरुध्यमाने
बाह्यार्थभोगो मनसो वियुज्यते ॥ १३२ ॥ तेन स्वदौष्ट्यं परिमुच्य चित्तं शनैः शनैः शान्तिमुपाददाति । चित्तस्य बाह्यार्थविमोक्षमेव
मोक्षं विदुर्मोक्षणलक्षणज्ञाः ॥ १३३ ॥ दमं विना साधु मनःप्रसाद - हेतुं न विद्मः सुकरं मुमुक्षोः । दमेन चित्तं निजदोषजातं
विसृज्य शान्तिं समुपैति शीघ्रम् ॥ १३४ ॥ प्राणायामाद्भवति मनसो निश्चलत्वं प्रसादो यस्याप्यस्य प्रतिनियतदिग्देशकालाद्यवेक्ष्य । सम्यग्दृष्ट्या क्वचिदपि तया नो दमो हन्यते त -
त्कुर्याद्धीमान्दममनलसश्चित्तशान्त्यै प्रयत्नात् ॥ १३५ ॥ सर्वेन्द्रियाणां गतिनिग्रहेण भोग्येषु दोषाद्यवमर्शनेन । ईशप्रसादाच्च गुरोः प्रसादा -
च्छान्तिं समायात्यचिरेण चित्तम् ॥ १३६ ॥ आध्यात्मिकादि यद्दुःखं प्राप्तं प्रारब्धवेगतः ।
अचिन्तया तत्सहनं तितिक्षेति निगद्यते ॥ १३७ ॥ रक्षा तितिक्षासदृशी मुमुक्षो - र्न विद्यतेऽसौ पविना न भिद्यते । यामेव धीराः कवचीव विघ्ना -
न्सर्वांस्तृणीकृत्य जयन्ति मायाम् ॥ १३८ ॥ क्षमावतामेव हि योगसिद्धिः स्वाराज्यलक्ष्मीसुखभोगसिद्धिः । क्षमाविहीना निपतन्ति विघ्नै -
र्वातैर्हताः पर्णचया इव द्रुमात् ॥ १३९ ॥ तितिक्षया तपो दानं यज्ञस्तीर्थं व्रतं श्रुतम् ।
भूतिः स्वर्गोऽपवर्गश्च प्राप्यते तत्तदर्थिभिः ॥ १४० ॥ ब्रह्मचर्यमहिंसा च साधूनामप्यगर्हणम् ।
पराक्षेपादिसहनं तितिक्षोरेव सिध्यति ॥ १४१ ॥ साधनेष्वपि सर्वेषु तितिक्षोत्तमसाधनम् ।
यत्र विघ्नाः पलायन्ते दैविका अपि भौतिकाः ॥ १४२ ॥ तितिक्षोरेव विघ्नेभ्यस्त्वनिवर्तितचेतसः ।
सिध्यन्ति सिद्धयः सर्वा अणिमाद्याः समृद्धयः ॥ १४३ ॥ तस्मान्मुमुक्षोरधिका तितिक्षा सम्पादनीयेप्सितकार्यसिद्ध्यै । तीव्रा मुमुक्षा च महत्युपेक्षा
चोभे तितिक्षासहकारिकारणम् ॥ १४४ ॥ तत्तत्कालसमागतामयततेः शान्त्यै प्रवृत्तो यदि स्यात्तत्तत्परिहारकौषधरतस्तच्चिन्तने तत्परः । तद्भिक्षुः श्रवणादिधर्मरहितो भूत्वा मृतश्चेत्ततः
किं सिद्धं फलमाप्नुयादुभयथा भ्रष्टो भवेत्स्वार्थतः ॥ १४५ ॥ योगमभ्यस्यतो भिक्षोर्योगाच्चलितचेतसः ।
प्राप्य पुण्यकृतांल्लोकानित्यादि प्राह केशवः ॥ १४६ ॥ न तु कृत्वैव संन्यासं तूष्णीमेव मृतस्य हि ।
पुण्यलोकगतिं ब्रूते भगवान्न्यासमात्रतः ॥ १४७ ॥ न च संन्यसनादेव सिद्धिं समधिगच्छति ।
इत्यनुष्ठेयसन्त्यागात्सिद्ध्यभावमुवाच च ॥ १४८ ॥ तस्मात्तितिक्षया सोढ्वा तत्तद्दुःखमुपागतम् ।
कुर्याच्छक्त्यनुरूपेण श्रवणादि शनैः शनैः ॥ १४९ ॥ प्रयोजनं तितिक्षायाः साधितायाः प्रयत्नतः ।
प्राप्तदुःखासहिष्णुत्वे न किञ्चिदपि दृश्यते ॥ १५० ॥ साधनत्वेन दृष्टानां सर्वेषामपि कर्मणाम् ।
विधिना यः परित्यागः स संन्यासः सतां मतः ॥ १५१ ॥ उपरमयति कर्माणीत्युपरतिशब्देन कथ्यते न्यासः ।
न्यासेन हि सर्वेषां श्रुत्या प्रोक्तो विकर्मणां त्यागः ॥ १५२ ॥ कर्मणा साध्यमानस्यानित्यत्वं श्रूयते यतः ।
कर्मणानेन किं नित्यफलेप्सोः परमार्थिनः ॥ १५३ ॥ उत्पाद्यमाप्यं संस्कार्यं विकार्यं परिगण्यते ।
चतुर्विधं कर्मसाध्यं फलं नान्यदितः परम् ॥ १५४ ॥ नैतदन्यतरं ब्रह्म कदा भवितुमर्हति ।
स्वतःसिद्धं सर्वदाप्तं शुद्धं निर्मलमक्रियम् ॥ १५५ ॥ न चास्य कश्चिज्जनितेत्यागमेन निषिध्यते ।
कारणं ब्रह्म तत्तस्माद्ब्रह्म नोत्पाद्यमिष्यते ॥ १५६ ॥ आप्त्राप्ययोस्तु भेदश्चेदाप्त्रा चाप्यमवाप्यते ।
आप्तृस्वरूपमेवैतद्ब्रह्म नाप्यं कदाचन ॥ १५७ ॥ मलिनस्यैव संस्कारो दर्पणादेरिहेष्यते ।
व्योमवन्नित्यशुद्धस्य ब्रह्मणो नैव संस्क्रिया ॥ १५८ ॥ केन दुष्टेन युज्येत वस्तु निर्मलमक्रियम् ।
यद्योगादागतं दोषं संस्कारो विनिवर्तयेत् ॥ १५९ ॥ निर्गुणस्य गुणाधानमपि नैवोपपद्यते ।
केवलो निर्गुणश्चेति नैर्गुण्यं श्रूयते यतः ॥ १६० ॥ सावयवस्य क्षीरादेर्वस्तुनः परिणामिनः ।
येन केन विकारित्वं स्यान्नो निष्कर्मवस्तुनः ॥ १६१ ॥ निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ।
इत्येव वस्तुनस्तत्त्वं श्रुतियुक्तिव्यवस्थितम् ॥ १६२ ॥ तस्मान्न कर्मसाध्यत्वं ब्रह्मणोऽस्ति कुतश्चन ।
कर्मसाध्यं त्वनित्यं हि ब्रह्म नित्यं सनातनम् ॥ १६३ ॥ देहादिः क्षीयते लोको यथैवं कर्मणा चितः ।
तथैवामुष्मिको लोकः सञ्चितः पुण्यकर्मणा ॥ १६४ ॥ कृतकत्वमनित्यत्वे हेतुर्जागर्ति सर्वदा ।
तस्मादनित्ये स्वर्गादौ पण्डितः को नु मुह्यति ॥ १६५ ॥ जगद्धेतोस्तु नित्यत्वं सर्वेषामपि सम्मतम् ।
जगद्धेतुत्वमस्यैव वावदीति श्रुतिर्मुहुः ॥ १६६ ॥ ऐतदात्म्यमिदं सर्वं तत्सत्यमिति च श्रुतिः ।
अस्यैव नित्यतां ब्रूते जगद्धेतोः सतः स्फुटम् ॥ १६७ ॥ न कर्मणा न प्रजया धनेनेति स्वयं श्रुतिः ।
कर्मणो मोक्षहेतुत्वं साक्षादेव निषेधति ॥ १६८ ॥ प्रत्यग्ब्रह्मविचारपूर्वमुभयोरेकत्वबोधाद्विना कैवल्यं पुरुषस्य सिध्यति परब्रह्मात्मतालक्षणम् । न स्नानैरपि कीर्तनैरपि जपैर्नो कृच्छ्रचान्द्रायणै -
र्नो वाप्यध्वरयज्ञदाननिगमैर्नो मन्त्रतन्त्रैरपि ॥ १६९ ॥ ज्ञानादेव तु कैवल्यमिति श्रुत्या निगद्यते ।
ज्ञानस्य मुक्तिहेतुत्वमन्यव्यावृत्तिपूर्वकम् ॥ १७० ॥ विवेकिनो विरक्तस्य ब्रह्मनित्यत्ववेदिनः ।
तद्भावेच्छोरनित्यार्थे तत्सामग्र्ये कुतो रतिः ॥ १७१ ॥ तस्मादनित्ये स्वर्गादौ साधनत्वेन चोदितम् ।
नित्यं नैमित्तिकं चापि सर्वं कर्म ससाधनम् ॥ १७२ ॥ मुमुक्षुणा परित्याज्यं ब्रह्मभावमभीप्सुना ।
मुमुक्षोरपि कर्मास्तु श्रवणं चापि साधनम् ॥ १७३ ॥ हस्तवद्द्वयमेतस्य स्वकार्यं साधयिष्यति ।
यथा विजृम्भते दीपो ऋजूकरणकर्मणा ॥ १७४ ॥ तथा श्रवणजो बोधः पुंसो विहितकर्मणा ।
अतः सापेक्षितं ज्ञानमथवापि समुच्चयम् ॥ १७५ ॥ मोक्षस्य साधनमिति वदन्ति ब्रह्मवादिनः । मुमुक्षोर्युज्यते त्यागः कथं विहितकर्मणः ॥ । १७६ ॥ इति शङ्का न कर्तव्या मूढवत्पण्डितोत्तमैः ।
कर्मणः फलमन्यत्तु श्रवणस्य फलं पृथक् ॥ १७७ ॥ वैलक्षण्यं च सामग्र्योश्चोभयत्राधिकारिणोः ।
कामी कर्मण्यधिकृतो निष्कामी श्रवणे मतः ॥ १७८ ॥ अर्थी समर्थ इत्यादि लक्षणं कर्मिणो मतम् ।
परीक्ष्य लोकानित्यादि लक्षणं मोक्षकाङ्क्षिणः ॥ १७९ ॥ मोक्षाधिकारी संन्यासी गृहस्थः किल कर्मणि ।
कर्मणः साधनं भार्यास्रुक्स्रुवादिपरिग्रहः ॥ १८० ॥ नैवान्यसाधनापेक्षा शुश्रूषोस्तु गुरुं विना ।
उपर्युपर्यहङ्कारो वर्धते कर्मणा भृशम् ॥ १८१ ॥ अहङ्कारस्य विच्छित्तिः श्रवणेन प्रतिक्षणम् ।
प्रवर्तकं कर्मशास्त्रं ज्ञानशास्त्रं निवर्तकम् ॥ १८२ ॥ इत्यादिवैपरीत्यं तत्साधने चाधिकारिणोः ।
द्वयोः परस्परापेक्षा विद्यते न कदाचन ॥ १८३ ॥ सामग्र्योश्चोभयोस्तद्वदुभयत्राधिकारिणोः ।
ऊर्ध्वं नयति विज्ञानमधः प्रापयति क्रिया ॥ १८४ ॥ कथमन्योन्यसापेक्षा कथं वापि समुच्चयः ।
यथाग्नेस्तृणकूटस्य तेजसस्तिमिरस्य च ॥ १८५ ॥ सहयोगो न घटते तथैव ज्ञानकर्मणोः । किमूपकुर्याज्ज्ञानस्य कर्मस्वप्रतियोगिनः ।
यस्य संनिधिमात्रेण स्वयं न स्फूर्तिमृच्छति ॥ १८६ ॥ कोटीन्धनाद्रिज्वलितोऽपि वह्निरर्कस्य नार्हत्युपकर्तुमीषत् ।
यथा तथा कर्मसहस्रकोटिर्ज्ञानस्य किं नु स्वयमेव लीयते ॥ १८७ ॥ एककर्त्राश्रयौ हस्तौ कर्मण्यधिकृतावुभौ ।
सहयोगस्तयोर्युक्तो न तथा ज्ञानकर्मणोः ॥ १८८ ॥ कर्त्रा कर्तुमकर्तुं वाप्यन्यथा कर्म शक्यते ।
न तथा वस्तुनो ज्ञानं कर्तृतन्त्रं कदाचन ॥ १८९ ॥ यथा वस्तु तथा ज्ञानं प्रमाणेन विजायते ।
नापेक्षते च यत्किञ्चित्कर्म वा युक्तिकौशलम् ॥ १९० ॥ ज्ञानस्य वस्तुतन्त्रत्वे संशयाद्युदयः कथम् ।
अतो न वास्तवं ज्ञानमिति नो शङ्क्यतां बुधैः ॥ १९१ ॥ प्रमाणासौष्ठववृतं संशयादि न वास्तवम् ।
श्रुतिप्रमाणसुष्ठुत्वे ज्ञानं भवति वास्तवम् ॥ १९२ ॥ वस्तु तावत्परं ब्रह्म नित्यं सत्यं ध्रुवं विभु ।
श्रुतिप्रमाणे तज्ज्ञानं स्यादेव निरपेक्षकम् ॥ १९३ ॥ रूपज्ञानं यथा सम्यग्दृष्टौ सत्यां भवेत्तथा ।
श्रुतिप्रमाणे सत्येव ज्ञानं भवति वास्तवम् ॥ १९४ ॥ न कर्म यत्किञ्चिदपेक्षते हि रूपोपलब्धौ पुरुषस्य चक्षुः ।
ज्ञानं तथैव श्रवणादिजन्यं वस्तुप्रकाशे निरपेक्षमेव ॥ १९५ ॥ कर्तृतन्त्रं भवेत्कर्म कर्मतन्त्रं शुभाशुभम् ।
प्रमाणतन्त्रं विज्ञानं मायातन्त्रमिदं जगत् ॥ १९६ ॥ विद्यां चाविद्यां चेति सहोक्तिरियमुपकृता सद्भिः ।
सत्कर्मोपासनयोर्न त्वात्मज्ञानकर्मणोः क्वापि ॥ १९७ ॥ नित्यानित्यपदार्थबोधरहितो यश्चोभयत्र स्रगा - द्यर्थानामनुभूतिलग्नहृदयो निर्विण्णबुद्धिर्जनः । तस्यैवास्य जडस्य कर्म विहितं श्रुत्या विरज्याभितो
मोक्षेच्छोर्न विधीयते तु परमानन्दार्थिनो धीमतः ॥ १९८ ॥ मोक्षेच्छया यदहरेव विरज्यतेऽसौ न्यासस्तदैव विहितो विदुषो मुमुक्षोः । श्रुत्या तयैव परया च ततः सुधीभिः
प्रामाणिकोऽयमिति चेतसि निश्चितव्यः ॥ १९९ ॥ स्वापरोक्षस्य वेदादेः साधनत्वं निषेधति ।
नाहं वेदैर्न तपसेत्यादिना भगवानपि ॥ २०० ॥ प्रवृत्तिश्च निवृत्तिश्च द्वे एते श्रुतिगोचरे ।
प्रवृत्त्या बध्यते जन्तुर्निवृत्त्या तु विमुच्यते ॥ २०१ ॥ यन्न स्वबन्धोऽभिमतो मूढस्यापि क्वचित्ततः ।
निवृत्तिः कर्मसंन्यासः कर्तव्यो मोक्षकाङ्क्षिभिः ॥ २०२ ॥ न ज्ञानकर्मणोर्यस्मात्सहयोगस्तु युज्यते ।
तस्मात्त्याज्यं प्रयत्नेन कर्म ज्ञानेच्छुना ध्रुवम् ॥ २०३ ॥ इष्टसाधनताबुद्ध्या गृहीतस्यापि वस्तुनः ।
विज्ञाय फल्गुतां पश्चात्कः पुनस्तत्प्रतीक्षते ॥ २०४ ॥ उपरतिशब्दार्थो ह्युपरमणं पूर्वदृष्टवृत्तिभ्यः ।
सोऽयं मुख्यो गौणश्चेति च वृत्त्या द्विरूपतां धत्ते ॥ २०५ ॥ वृत्तेर्दृश्यपरित्यागो मुख्यार्थ इति कथ्यते ।
गौणार्थः कर्मसंन्यासः श्रुतेरङ्गतया मतः ॥ २०६ ॥ पुंसः प्रधानसिद्ध्यर्थमङ्गस्याश्रयणं ध्रुवम् ।
कर्तव्यमङ्गहीनं चेत्प्रधानं नैव सिध्यति ॥ २०७ ॥ संन्यसेत्सुविरक्तः सन्निहामुत्रार्थतः सुखात् ।
अविरक्तस्य संन्यासो निष्फलोऽयाज्ययागवत् ॥ २०८ ॥ संन्यस्य तु यतिः कुर्यान्न पूर्वविषयस्मृतिम् ।
तां तां तत्स्मरणे तस्य जुगुप्सा जायते यतः ॥ २०९ ॥ गुरुवेदान्तवाक्येषु बुद्धिर्या निश्चयात्मिका ।
सत्यमित्येव सा श्रद्धा निदानं मुक्तिसिद्धये ॥ २१० ॥ श्रद्धावतामेव सतां पुमर्थः समीरितः सिध्यति नेतरेषाम् । उक्तं सुसूक्ष्मं परमार्थतत्त्वं
श्रद्धत्स्व सोम्येति च वक्ति वेदः ॥ २११ ॥ श्रद्धाविहीनस्य तु न प्रवृत्तिः प्रवृत्तिशून्यस्य न साध्यसिद्धिः । अश्रद्धयैवाभिहताश्च सर्वे
मज्जन्ति संसारमहासमुद्रे ॥ २१२ ॥ दैवे च वेदे च गुरौ च मन्त्रे तीर्थे महात्मन्यपि भेषजे च । श्रद्धा भवत्यस्य यथा यथान्त -
स्तथा तथा सिद्धिरुदेति पुंसाम् ॥ २१३ ॥ अस्तीत्येवोपलब्धव्यं वस्तुसद्भावनिश्चयात् ।
सद्भावनिश्चयस्तस्य श्रद्धया शास्त्रसिद्धया ॥ २१४ ॥ तस्माच्छ्रद्धा सुसम्पाद्या गुरुवेदान्तवाक्ययोः ।
मुमुक्षोः श्रद्दधानस्य फलं सिध्यति नान्यथा ॥ २१५ ॥ यथार्थवादिता पुंसां श्रद्धाजननकारणम् ।
वेदस्येश्वरवाक्यत्वाद्यथार्थत्वे न संशयः ॥ २१६ ॥ मुक्तस्येश्वररूपत्वाद्गुरोर्वागपि तादृशी ।
तस्मात्तद्वाक्ययोः श्रद्धा सतां सिध्यति धीमताम् ॥ २१७ ॥ श्रुत्युक्तार्थावगाहाय विदुषा ज्ञेयवस्तुनि ।
चित्तस्य सम्यगाधानं समाधानमितीर्यते ॥ २१८ ॥ चित्तस्य साध्यैकपरत्वमेव पुमर्थसिद्धेर्नियमेन कारणम् । नैवान्यथा सिध्यति साध्यमीष -
न्मनःप्रमादे विफलः प्रयत्नः ॥ २१९ ॥ चित्तं च दृष्टिं करणं तथान्य - देकत्र बघ्नाति हि लक्ष्यभेत्ता । किञ्चित्प्रमादे सति लक्ष्यभेत्तु -
र्बाणप्रयोगो विफलो यथा तथा ॥ २२० ॥ सिद्धेश्चित्तसमाधानमसाधारणकारणम् ।
यतस्ततो मुमुक्षूणां भवितव्यं सदामुना ॥ २२१ ॥ अत्यन्ततीव्रवैराग्यं फललिप्सा महत्तरा ।
तदेतदुभयं विद्यात्समाधानस्य कारणम् ॥ २२२ ॥ बहिरङ्गं श्रुतिः प्राह ब्रह्मचर्यादि मुक्तये ।
शमादिषट्कमेवैतदन्तरङ्गं विदुर्बुधाः ॥ २२३ ॥ अन्तरङ्गं हि बलवद्बहिरङ्गाद्यतस्ततः ।
शमादिषट्कं जिज्ञासोरवश्यं भाव्यमान्तरम् ॥ २२४ ॥ अन्तरङ्गविहीनस्य कृतश्रवणकोटयः ।
न फलन्ति यथा योद्धुरधीरस्यास्त्रसम्पदः ॥ २२५ ॥ ब्रह्मात्मैकत्वविज्ञानाद्यद्विद्वान्मोक्तुमिच्छति ।
संसारपाशबन्धं तन्मुमुक्षुत्वं निगद्यते ॥ २२६ ॥ साधनानां तु सर्वेषां मुमुक्षा मूलकारणम् ।
अनिच्छोरप्रवृत्तस्य क्व श्रुतिः क्व नु तत्फलम् ॥ २२७ ॥ तीव्रमध्यममन्दातिमन्दभेदाश्चतुर्विधाः ।
मुमुक्षा तत्प्रकारोऽपि कीर्त्यते श्रूयतां बुधैः ॥ २२८ ॥ तापैस्त्रिभिर्नित्यमनेकरूपैः सन्तप्यमानः क्षुभितान्तरात्मा ।
परिग्रहं सर्वमनर्थबुद्ध्या जहाति सा तीव्रतरा मुमुक्षा ॥ २२९ ॥ तापत्रयं तीव्रमवेक्ष्य वस्तु दृष्ट्वा कलत्रं तनयान्विहातुम् । मध्ये द्वयोर्लोडनमात्मनो य -
त्सैषा मता माध्यमिकी मुमुक्षा ॥ २३० ॥ मोक्षस्य कालोऽस्ति किमद्य मे त्वरा भुक्त्वैव भोगान्कृतसर्वकार्यः । मुक्त्यै यतिष्येऽहमथेति बुद्धि -
रेषैव मन्दा कथिता मुमुक्षा ॥ २३१ ॥ मार्गे प्रयातुर्मणिलाभवन्मे लभेत मोक्षो यदि तर्हि धन्यः । इत्याशया मूढधियां मतिर्या
सैषातिमन्दाभिमता मुमुक्षा ॥ २३२ ॥ जन्मानेकसहस्रेषु तपसाराधितेश्वरः ।
तेन निःशेषनिर्धूतहृदयस्थितकल्मषः ॥ २३३ ॥ शास्त्रविद्गुणदोषज्ञो भोग्यमात्रे विनिस्पृहः ।
नित्यानित्यपदार्थज्ञो मुक्तिकामो दृढव्रतः ॥ २३४ ॥ निष्टप्तमग्निना पात्रमुद्वास्य त्वरया यथा ।
जहाति गेहं तद्वच्च तीव्रमोक्षेच्छया द्विजः ॥ २३५ ॥ स एव सद्यस्तरति संसृतिं गुर्वनुग्रहात् ।
यस्तु तीव्रमुमुक्षुः स्यात्स जीवन्नेव मुच्यते ॥ २३६ ॥ जन्मान्तरे मध्यमस्तु तदन्यस्तु युगान्तरे ।
चतुर्थः कल्पकोट्यां वा नैव बन्धाद्विमुच्यते ॥ २३७ ॥ नृजन्म जन्तोरतिदुर्लभं विदु - स्ततोऽपि पुंस्त्वं च ततो विवेकः । लब्ध्वा तदेतत्त्रितयं महात्मा
यतेत मुक्त्यै सहसा विरक्तः ॥ २३८ ॥ पुत्रमित्रकलत्रादिसुखं जन्मनि जन्मनि ।
मर्त्यत्वं पुरुषत्वं च विवेकश्च न लभ्यते ॥ २३९ ॥ लब्ध्वा सुदुर्लभतरं नरजन्म जन्तु - स्तत्रापि पौरुषमतः सदसद्विवेकम् । सम्प्राप्य चैहिकसुखाभिरतो यदि स्या -
द्धिक्तस्य जन्म कुमतेः पुरुषाधमस्य ॥ २४० ॥ खादते मोदते नित्यं शुनकः सूकरः खरः ।
तेषामेषां विशेषः को वृत्तिर्येषां तु तैः समा ॥ २४१ ॥ यावन्नाश्रयते रोगो यावन्नाक्रमते जरा ।
यावन्न धीर्विपर्येति यावन्मृत्युं न पश्यति ॥ २४२ ॥ तावदेव नरः स्वस्थः सारग्रहणतत्परः ।
विवेकी प्रयतेताशु भवबन्धविमुक्तये ॥ २४३ ॥ देवर्षिपितृमर्त्यर्णबन्धमुक्तास्तु कोटिशः ।
भवबन्धविमुक्तस्तु यः कश्चिद्ब्रह्मवित्तमः ॥ २४४ ॥ अन्तर्बन्धेन बद्धस्य किं बहिर्बन्धमोचनैः ।
तदन्तर्बन्धमुक्त्यर्थं क्रियतां कृतिभिः कृतिः ॥ २४५ ॥ कृतिपर्यवसानैव मता तीव्रमुमुक्षुता ।
अन्या तु रञ्जनामात्रा यत्र नो दृश्यते कृतिः ॥ २४६ ॥ गेहादिसर्वमपहाय लघुत्वबुद्ध्या सौख्येच्छया स्वपतिनानलमाविविक्षोः । कान्ताजनस्य नियता सुदृढा त्वरा या
सैषा फलान्तगमने करणं मुमुक्षोः ॥ २४७ ॥ नित्यानित्यविवेकश्च देहक्षणिकतामतिः ।
मृत्योर्भीतिश्च तापश्च मुमुक्षावृद्धिकारणम् ॥ २४८ ॥ शिरो विवेकस्त्वत्यन्तं वैराग्यं वपुरुच्यते ।
शमादयः षडङ्गानि मोक्षेच्छा प्राण इष्यते ॥ २४९ ॥ ईदृशाङ्गसमायुक्तो जिज्ञासुर्युक्तिकोविदः ।
शूरो मृत्युं निहन्त्येव सम्यग्ज्ञानासिना ध्रुवम् ॥ २५० ॥ उक्तसाधनसम्पन्नो जिज्ञासुर्यतिरात्मनः ।
जिज्ञासायै गुरुं गच्छेत्समित्पाणिर्नयोज्ज्वलः ॥ २५१ ॥ श्रोत्रियो ब्रह्मनिष्ठो यः प्रशान्तः समदर्शनः ।
निर्ममो निरहङ्कारो निर्द्वन्द्वो निष्परिग्रहः ॥ २५२ ॥ अनपेक्षः शुचिर्दक्षः करुणामृतसागरः । एवंलक्षणसम्पन्नः स गुरुर्ब्रह्मवित्तमः ।
उपासाद्यः प्रयत्नेन जिझासोः स्वार्थसिद्धये ॥ २५३ ॥ जन्मानेकशतैः सदादरयुजा भक्त्या समाराधितो भक्तैर्वैदिकलक्षणेन विधिना सन्तुष्ट ईशः स्वयम् । साक्षाच्छ्रीगुरुरूपमेत्य कृपया दृग्गोचरः सन्प्रभुः
तत्त्वं साधु विबोध्य तारयति तान्संसारदुःखार्णवात् ॥ २५४ ॥ अविद्याहृदयग्रन्थिविमोक्षोऽपि भवेद्यतः ।
तमेव गुरुरित्याहुर्गुरुशब्दार्थवेदिनः ॥ २५५ ॥ शिव एव गुरुः साक्षात् गुरुरेव शिवः स्वयम् ।
उभयोरन्तरं किञ्चिन्न द्रष्टव्यं मुमुक्षुभिः ॥ २५६ ॥ बन्धमुक्तं ब्रह्मनिष्ठं कृतकृत्यं भजेद्गुरुम् ।
यस्य प्रसादात्संसारसागरो गोष्पदायते ॥ २५७ ॥ शुश्रूषया सदा भक्त्या प्रणामैर्विनयोक्तिभिः ।
प्रसन्नं गुरुमासाद्य प्रष्टव्यं ज्ञेयमात्मनः ॥ २५८ ॥ भगवन्करुणासिन्धो भवसिन्धोर्भवांस्तरिः ।
यमाश्रित्याश्रमेणैव परं पारं गता बुधाः ॥ २५९ ॥ जन्मान्तरकृतानन्तपुण्यकर्मफलोदयः ।
अद्य संनिहितो यस्मात्त्वत्कृपापात्रमस्म्यहम् ॥ २६० ॥ सम्प्रीतिमक्ष्णोर्वदनप्रसाद - मानन्दमन्तःकरणस्य सद्यः । विलोकनं ब्रह्मविदस्तनोति
छिनत्ति मोहं सुगतिं व्यनक्ति ॥ २६१ ॥ हुताशनानां शशिनामिनाना - मप्यर्बुदं वापि न यन्निहन्तुम् । शक्नोति यद्ध्वान्तमनन्तमान्तरं
हन्त्यात्मवेत्ता सकृदीक्षणेन ॥ २६२ ॥ दुष्पारे भवसागरे जनिमृतव्याध्यादिदुःखोत्कटे घोरे पुत्रकलत्रमित्रबहुलग्राहाकरे भीकरे । कर्मोत्तुङ्गतरङ्गभङ्गनिकरैराकृष्यमाणो मुहुः
यातायातगतिभ्रमेण शरणं किञ्चिन्न पश्याम्यहम् ॥ २६३ ॥ केन वा पुण्यशेषेण तव पादाम्बुजद्वयम् ।
दृष्टवानस्मि मामार्तं मृत्योस्त्राहि दयादृशा ॥ २६४ ॥ वदन्तमेवं तं शिष्यं दृष्ट्यैव दयया गुरुः ।
दद्यादभयमेतस्मै मा भैष्टेति मुहुर्मुहुः ॥ २६५ ॥ विद्वन्मृत्युभयं जहीहि भवतो नास्त्येव मृत्युः क्वचि - न्नित्यस्य द्वयवर्जितस्य परमानन्दात्मनो ब्रह्मणः । भ्रान्त्या किञ्चिदवेक्ष्य भीतमनसा मिथ्या त्वया कथ्यते
मां त्राहीति हि सुप्तवत्प्रलपनं शून्यात्मकं ते मृषा ॥ २६६ ॥ निद्रागाढतमोवृतः किल जनः स्वप्ने भुजङ्गादिना ग्रस्तं स्वं समवेक्ष्य यत्प्रलपति त्रासाद्धतोऽस्मीत्यलम् । आप्तेन प्रतिबोधितः करतलेनाताड्य पृष्टः स्वयं
किञ्चिन्नेति वदत्यमुष्य वचनं स्यात्तत्किमर्थं वद ॥ २६७ ॥ रज्जोस्तु तत्त्वमनवेक्ष्य गृहीतसर्प - भावः पुमानयमहिर्वसतीति मोहात् । आक्रोशति प्रतिबिभेति च कम्पते त -
न्मिथ्यैव नात्र भुजगोऽस्ति विचार्यमाणे ॥ २६८ ॥ तद्वत्त्वयाप्यात्मन उक्तमेत - ज्जन्माप्ययव्याधिजरादिदुःखम् । मृषैव सर्वं भ्रमकल्पितं ते
सम्यग्विचार्यात्मनि मुञ्च भीतिम् ॥ २६९ ॥ भवाननात्मनो धर्मानात्मन्यारोप्य शोचति ।
तदज्ञानकृतं सर्वं भयं त्यक्त्वा सुखी भव ॥ २७० ॥ शिष्यः - श्रीमद्भिरुक्तं सकलं मृषेति दृष्टान्त एव ह्युपपद्यते तत् । दार्ष्टान्तिके नैव भवादिदुःखं
प्रत्यक्षतः सर्वजनप्रसिद्धम् ॥ २७१ ॥ प्रत्यक्षेणानुभूतार्थः कथं मिथ्यात्वमर्हति ।
चक्षुषो विषयं कुम्भं कथं मिथ्या करोम्यहम् ॥ २७२ ॥ विद्यमानस्य मिथ्यात्वं कथं नु घटते प्रभो ।
प्रत्यक्षं खलु सर्वेषां प्रमाणं प्रस्फुटार्थकम् ॥ २७३ ॥ मर्त्यस्य मम जन्मादिदुःखभाजोऽल्पजीविनः ।
ब्रह्मत्वमपि नित्यत्वं परमानन्दता कथम् ॥ २७४ ॥ क आत्मा कस्त्वनात्मा च किमु लक्षणमेतयोः ।
आत्मन्यनात्मधर्माणामारोपः क्रियते कथम् ॥ २७५ ॥ किमज्ञानं तदुत्पन्नभयत्यागोऽपि वा कथम् ।
किमु ज्ञानं तदुत्पन्नसुखप्राप्तिश्च वा कथम् ॥ २७६ ॥ सर्वमेतद्यथापूर्वं करामलकवत्स्फुटम् ।
प्रतिपादय मे स्वामिन् श्रीगुरो करुणानिधे ॥ २७७ ॥ श्रीगुरुः - धन्यः कृतार्थस्त्वमहो विवेकः शिवप्रसादस्तव विद्यते महान् । विसृज्य तु प्राकृतलोकमार्गं
ब्रह्मावगन्तुं यतसे यतस्त्वम् ॥ २७८ ॥ शिवप्रसादेन विना न सिद्धिः शिवप्रसादेन विना न बुद्धिः । शिवप्रसादेन विना न युक्तिः
शिवप्रसादेन विना न मुक्तिः ॥ २७९ ॥ यस्य प्रसादेन विमुक्तसङ्गाः शुकादयः संसृतिबन्धमुक्ताः । तस्य प्रसादो बहुजन्मलभ्यो
भक्त्यैकगम्यो भवमुक्तिहेतुः ॥ २८० ॥ विवेको जन्तूनां प्रभवति जनिष्वेव बहुषु प्रसादादेवैशाद्बहुसुकृतपाकोदयवशात् । यतस्तस्मादेव त्वमपि परमार्थावगमने
कृतारम्भः पुंसामिदमिह विवेकस्य तु फलम् ॥ २८१ ॥ मर्त्यत्वसिद्धेरपि पुंस्त्वसिद्धे - र्विप्रत्वसिद्धेश्च विवेकसिद्धेः । वदन्ति मुख्यं फलमेव मोक्षं
व्यर्थं समस्तं यदि चेन्न मोक्षः ॥ २८२ ॥ प्रश्नः समीचीनतरस्तवायं यदात्मतत्त्वावगमे प्रवृत्तिः । ततस्तवैतत्सकलं समूलं
निवेदयिष्यामि मुदा शृणुष्व ॥ २८३ ॥ मर्त्यत्वं त्वयि कल्पितं भ्रमवशात्तेनैव जन्मादयः तत्सम्भावितमेव दुःखमपि ते नो वस्तुतस्तन्मृषा । निद्रामोहवशादुपागतसुखं दुःखं च किं नु त्वया
सत्यत्वेन विलोकितं क्वचिदपि ब्रूहि प्रबोधागमे ॥ २८४ ॥ नाशेषलोकैरनुभूयमानः प्रत्यक्षतोऽयं सकलप्रपञ्चः । कथं मृषा स्यादिति शङ्कनीयं
विचारशून्येन विमुह्यता त्वया ॥ २८५ ॥ दिवान्धदृष्टेस्तु दिवान्धकारः प्रत्यक्षसिद्धोऽपि स किं यथार्थः । तद्वद्भ्रमेणावगतः पदार्थो
भ्रान्तस्य सत्यः सुमतेर्मृषैव ॥ २८६ ॥ घटोऽयमित्यत्र घटाभिधानः प्रत्यक्षतः कश्चिदुदेति दृष्टेः । विचार्यमाणे स तु नास्ति तत्र
मृदस्ति तद्भावविलक्षणा सा ॥ २८७ ॥ प्रादेशमात्रः परिदृश्यतेऽर्कः शास्त्रेण सन्दर्शितलक्षयोजनः । मानान्तरेण क्वचिदेति बाधां
प्रत्यक्षमप्यत्र हि न व्यवस्था ॥ २८८ ॥ तस्मात्त्वयीदं भ्रमतः प्रतीतं मृषैव नो सत्यमवेहि साक्षात् । ब्रह्म त्वमेवासि सुखस्वरुपं
त्वत्तो न भिन्नं विचिनुष्व बुद्धौ ॥ २८९ ॥ लोकान्तरे वात्र गुहान्तरे वा तीर्थान्तरे कर्मपरम्परान्तरे । शास्त्रान्तरे नास्त्यनुपश्यतामिह
स्वयं परं ब्रह्म विचार्यमाणे ॥ २९० ॥ तत्त्वमात्मस्थमज्ञात्वा मूढः शास्त्रेषु पश्यति ।
गोपः कक्षगतं छागं यथा कूपेषु दुर्मतिः ॥ २९१ ॥ स्वमात्मानं परं मत्वा परमात्मानमन्यथा ।
विमृग्यते पुनः स्वात्मा बहिः कोशेषु पण्डितैः ॥ २९२ ॥ विस्मृत्य वस्तुनस्तत्त्वमध्यारोप्य च वस्तुनि ।
अवस्तुतां च तद्धर्मान्मुधा शोचति नान्यथा ॥ २९३ ॥ आत्मानात्मविवेकं ते वक्ष्यामि शृणु सादरम् ।
यस्य श्रवणमात्रेण मुच्यतेऽनात्मबन्धनात् ॥ २९४ ॥ इत्युक्त्वाभिमुखीकृत्य शिष्यं करुणया गुरुः ।
अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्चयन् ॥ २९५ ॥ सम्यक्प्राबोधयत्तत्त्वं शास्त्रदृष्टेन वर्त्मना ।
सर्वेषामुपकाराय तत्प्रकारोऽत्र दर्श्यते ॥ २९६ ॥ वस्तुन्यवस्त्वारोपो यः सोऽध्यारोप इतीर्यते ।
असर्पभूते रज्ज्वादौ सर्पत्वारोपणं यथा ॥ २९७ ॥ वस्तु तावत्परं ब्रह्म सत्यज्ञानादिलक्षणम् ।
इदमारोपितं यत्र भाति खे नीलतादिवत् ॥ २९८ ॥ तत्कारणं यदज्ञानं सकार्यं सद्विलक्षणम् ।
अवस्त्वित्युच्यते सद्भिर्यस्य बाधा प्रदृश्यते ॥ २९९ ॥ अवस्तु तत्प्रमाणैर्यद्बाध्यते शुक्तिरौप्यवत् ।
न बाध्यते यत्तद्वस्तु त्रिषु कालेषु शुक्तिवत् ॥ ३०० ॥ शुक्तेर्बाधा न खल्वस्ति रजतस्य यथा तथा ।
अवस्तुसंज्ञितं यत्तज्जगदध्यासकारणम् ॥ ३०१ ॥ सदसद्भ्यामनिर्वाच्यमज्ञानं त्रिगुणात्मकम् ।
वस्तुतत्त्वावबोधैकबाध्यं तद्भावलक्षणम् ॥ ३०२ ॥ मिथ्यासम्बन्धतस्तत्र ब्रह्मण्याश्रित्य तिष्ठति ।
मणौ शक्तिर्यथा तद्वन्नैतदाश्रयदूषकम् ॥ ३०३ ॥ सद्भावे लिङ्गमेतस्य कार्यमेतच्चराचरम् ।
मानं श्रुतिः स्मृतिश्चाज्ञोऽहमित्यनुभवोऽपि च ॥ ३०४ ॥ अज्ञानं प्रकृतिः शक्तिरविद्येति निगद्यते ।
तदेतत्सन्न भवति नासद्वा शुक्तिरौप्यवत् ॥ ३०५ ॥ सतो भिन्नमभिन्नं वा न दीपस्य प्रभा यथा ।
न सावयवमन्यद्वा बीजस्याङ्कुरवत्क्वचित् ॥ ३०६ ॥ अत एतदनिर्वाच्यमित्येव कवयो विदुः ।
समष्टिव्यष्टिरूपेण द्विधाज्ञानं निगद्यते ॥ ३०७ ॥ नानात्वेन प्रतीतानामज्ञानानामभेदतः ।
एकत्वेन समष्टिः स्याद्भूरुहाणां वनं यथा ॥ ३०८ ॥ इयं समष्टिरुत्कृष्टा सत्त्वांशोत्कर्षतः पुरा ।
मायेति कथ्यते तज्ज्ञैः शुद्धसत्त्वैकलक्षणा ॥ ३०९ ॥ मायोपहितचैतन्यं साभासं सत्त्वबृंहितम् ।
सर्वज्ञत्वादिगुणकं सृष्टिस्थित्यन्तकारणम् ॥ ३१० ॥ अव्याकृतं तदव्यक्तमीश इत्यपि गीयते ।
सर्वशक्तिगुणोपेतः सर्वज्ञानावभासकः ॥ ३११ ॥ स्वतन्त्रः सत्यसङ्कल्पः सत्यकामः स ईश्वरः ।
तस्यैतस्य महाविष्णोर्महाशक्तेर्महीयसः ॥ ३१२ ॥ सर्वज्ञत्वेश्वरत्वादिकारणत्वान्मनीषिणः ।
कारणं वपुरित्याहुः समष्टिं सत्त्वबृंहितम् ॥ ३१३ ॥ आनन्दप्रचुरत्वेन साधकत्वेन कोशवत् ।
सैषानन्दमयः कोश इतीशस्य निगद्यते ॥ ३१४ ॥ सर्वोपरमहेतुत्वात्सुषुप्तिस्थानमिष्यते ।
प्राकृतः प्रलयो यत्र श्राव्यते श्रुतिभिर्मुहुः ॥ ३१५ ॥ अज्ञानं व्यष्ट्यभिप्रायादनेकत्वेन भिद्यते ।
अज्ञानवृत्तयो नाना तत्तद्गुणविलक्षणाः ॥ ३१६ ॥ वनस्य व्यष्ट्यभिप्रायाद्भूरुहा इत्यनेकता ।
यथा तथैवाज्ञानस्य व्यष्टितः स्यादनेकता ॥ ३१७ ॥ व्यष्टिर्मलिनसत्वैषा रजसा तमसा युता ।
ततो निकृष्टा भवति योपाधिः प्रत्यगात्मनः ॥ ३१८ ॥ चैतन्यं व्यष्ट्यवच्छिन्नं प्रत्यगात्मेति गीयते ।
साभासं व्यष्ट्युपहितं सत्तादात्म्येन तद्गुणैः ॥ ३१९ ॥ अभिभूतः स एवात्मा जीव इत्यभिधीयते ।
किञ्चिज्ज्ञत्वानीश्वरत्वसंसारित्वादिधर्मवान् ॥ ३२० ॥ अस्य व्यष्टिरहङ्कारकारणत्वेन कारणम् ।
वपुस्तत्राभिमान्यात्मा प्राज्ञ इत्युच्यते बुधैः ॥ ३२१ ॥ प्राज्ञत्वमस्यैकाज्ञानभासकत्वेन सम्मतम् ।
व्यष्टेर्निकृष्टत्वेनास्य नानेकाज्ञानभासकम् ॥ ३२२ ॥ स्वरूपाच्छादकत्वेनाप्यानन्दप्रचुरत्वतः ।
कारणं वपुरानन्दमयः कोश इतीर्यते ॥ ३२३ ॥ अस्यावस्था सुषुप्तिः स्याद्यत्रानन्दः प्रकृष्यते ।
एषोऽहं सुखमस्वाप्सं न तु किञ्चिदवेदिषम् ॥ ३२४ ॥ इत्यानन्दसमुत्कर्षः प्रबुद्धेषु प्रदृश्यते ।
समष्टेरपि च व्यष्टेरुभयोर्वनवृक्षवत् ॥ ३२५ ॥ अभेद एव नो भेदो जात्येकत्वेन वस्तुतः ।
अभेद एव ज्ञातव्यस्तथेशप्राज्ञयोरपि ॥ ३२६ ॥ सत्युपाध्योरभिन्नत्वे क्व भेदस्तद्विशिष्टयोः ।
एकीभावे तरङ्गाब्ध्योः को भेदः प्रतिबिम्बयोः ॥ ३२७ ॥ अज्ञानतदवच्छिन्नाभासयोरुभयोरपि ।
आधारं शुद्धचैतन्यं यत्तत्तुर्यमितीर्यते ॥ ३२८ ॥ एतदेवाविविक्तं सदुपाधिभ्यां च तद्गुणैः ।
महावाक्यस्य वाच्यार्थो विविक्तं लक्ष्य इष्यते ॥ ३२९ ॥ अनन्तशक्तिसम्पन्नो मायोपाधिक ईश्वरः ।
ईक्षामात्रेण सृजति विश्वमेतच्चराचरम् ॥ ३३० ॥ अद्वितीयस्वमात्रोऽसौ निरुपादान ईश्वरः ।
स्वयमेव कथं सर्वं सृजतीति न शङ्क्यताम् ॥ ३३१ ॥ निमित्तमप्युपादानं स्वयमेव भवन्प्रभुः ।
चराचरात्मकं विश्वं सृजत्यवति लुम्पति ॥ ३३२ ॥ स्वप्राधान्येन जगतो निमित्तमपि कारणम् ।
उपादानं ततोपाधिप्राधान्येन भवत्ययम् ॥ ३३३ ॥ यथालूता निमित्तं च स्वप्रधानतया भवेत् ।
स्वशरीरप्रधानत्वेनोपादानं तथेश्वरः ॥ ३३४ ॥ तमःप्रधानप्रकृतिविशिष्टात्परमात्मनः ।
अभूत्सकाशादाकाशमाकाशाद्वायुरुच्यते ॥ ३३५ ॥ वायोरग्निस्तथैवाग्नेरापोऽद्भ्यः पृथिवी क्रमात् ।
शक्तेस्तमःप्रधानत्वं तत्कार्ये जाड्यदर्शनात् ॥ ३३६ ॥ आरम्भन्ते कार्यगुणान्ये कारणगुणा हि ते ।
एतानि सूक्ष्मभूतानि भूतमात्रा अपि क्रमात् ॥ ३३७ ॥ एतेभ्यः सूक्ष्मभूतेभ्यः सूक्ष्मदेहा भवन्त्यपि ।
स्थूलान्यपि च भूतानि चान्योन्यांशविमेलनात् ॥ ३३८ ॥ अपञ्चीकृतभूतेभ्यो जातं सप्तदशाङ्गकम् ।
संसारकारणं लिङ्गमात्मनो भोगसाधनम् ॥ ३३९ ॥ श्रोत्रादिपञ्चकं चैव वागादीनां च पञ्चकम् ।
प्राणादिपञ्चकं बुद्धिमनसी लिङ्गमुच्यते ॥ ३४० ॥ श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च जातानि ।
आकाशादीनां सत्त्वांशेभ्यो धीन्द्रियाण्यनुक्रमतः ॥ ३४१ ॥ आकाशादिगताः पञ्च सात्त्विकांशाः परस्परम् ।
मिलित्वैवान्तःकरणमभवत्सर्वकारणम् ॥ ३४२ ॥ प्रकाशकत्वादेतेषां सात्त्विकांशत्वमिष्यते ।
प्रकाशकत्वं सत्त्वस्य स्वच्छत्वेन यतस्ततः ॥ ३४३ ॥ तदन्तःकरणं वृत्तिभेदेन स्याच्चतुर्विधम् ।
मनो बुद्धिरहङ्कारश्चित्तं चेति तदुच्यते ॥ ३४४ ॥ सङ्कल्पान्मन इत्याहुर्बुद्धिरर्थस्य निश्चयात् ।
अभिमानादहङ्कारश्चित्तमर्थस्य चिन्तनात् ॥ ३४५ ॥ मनस्यपि च बुद्धौ च चित्ताहङ्कारयोः क्रमात् ।
अन्तर्भावोऽत्र बोद्धव्यो लिङ्गलक्षणसिद्धये ॥ ३४६ ॥ चिन्तनं च मनोधर्मः सङ्कल्पादिर्यथा तथा ।
अन्तर्भावो मनस्येव सम्यक्चित्तस्य सिध्यति ॥ ३४७ ॥ देहादावहमित्येव भावो दृढतरो धियः ।
दृश्यतेऽहङ्कृतेस्तस्मादन्तर्भावोऽत्र युज्यते ॥ ३४८ ॥ तस्मादेव तु बुद्धेः कर्तृत्वं तदितरस्य करणत्वम् ।
सिध्यत्यात्मन उभयाद्विद्यात्संसारकारणं मोहात् ॥ ३४९ ॥ विज्ञानमयकोशः स्यात् बुद्धिर्ज्ञानेन्द्रियैः सह ।
विज्ञानप्रचुरत्वेनाप्याच्छादकतयात्मनः ॥ ३५० ॥ विज्ञानमयकोशोऽयमिति विद्वद्भिरुच्यते ।
अयं महानहङ्कारवृत्तिमान्कर्तृलक्षणः ॥ ३५१ ॥ अहं ममेत्येव सदाभिमानं देहेन्द्रियादौ कुरुते गृहादौ । जीवाभिमानः पुरुषोऽयमेव
कर्ता च भोक्ता च सुखी च दुःखी ॥ ३५२ ॥ स्ववासनाप्रेरित एव नित्यं करोति कर्मोभयलक्षणं च । भुङ्क्ते तदुत्पन्नफलं विशिष्टं
सुखं च दुःखं च परत्र चात्र ॥ ३५३ ॥ नानायोनिसहस्रेषु जायमानो मुहुर्मुहुः ।
म्रियमाणो भ्रमत्येष जीवः संसारमण्डले ॥ ३५४ ॥ मनो मनोमयः कोशो भवेज्ज्ञानेन्द्रियैः सह ।
प्राचुर्यं मनसो यत्र दृश्यतेऽसौ मनोमयः ॥ ३५५ ॥ चिन्ताविषादहर्षाद्याः कामाद्या अस्य वृत्तयः । मनुते मनसैवैष फलं कामयते बहिः ।
यतते कुरुते भुङ्क्ते तन्मनः सर्वकारणम् ॥ ३५६ ॥ मनो ह्यमुष्य प्रवणस्य हेतु - रन्तर्बहिश्चार्थमनेन वेत्ति । शृणोति जिघ्रत्यमुनैव चेक्षते
वक्ति स्पृशत्यत्ति करोति सर्वम् ॥ ३५७ ॥ बन्धश्च मोक्षो मनसैव पुंसा - मर्थोऽप्यनर्थोऽप्यमुनैव सिध्यति । शुद्धेन मोक्षो मलिनेन बन्धो
विवेकतोऽर्थोऽप्यविवेकतोऽन्यः ॥ ३५८ ॥ रजस्तमोभ्यां मलिनं त्वशुद्ध - मज्ञानजं सत्त्वगुणेन रिक्तम् । मनस्तमोदोषसमन्वितत्वा - ज्जडत्वमोहालसताप्रमादैः । तिरस्कृतं सन्न तु वेत्ति वास्तवं
पदार्थतत्त्वं ह्युपलभ्यमानम् ॥ ३५९ ॥ रजोदोषैर्युक्तं यदि भवति विक्षेपकगुणैः प्रतीपैः कामाद्यैरनिशमभिभूतं व्यथयति । कथञ्चित्सूक्ष्मार्थावगतिमदपि भ्राम्यति भृशं
मनो दीपो यद्वत्प्रबलमरुता ध्वस्तमहिमा ॥ ३६० ॥ ततो मुमुक्षुर्भवबन्धमुक्त्यै रजस्तमोभ्यां च तदीयकार्यैः । वियोज्य चित्तं परिशुद्धसत्त्वं
प्रियं प्रयत्नेन सदैव कुर्यात् ॥ ३६१ ॥ गर्भावासजनिप्रणाशनजराव्याध्यादिषु प्राणिनां यद्दुःखं परिदृश्यते च नरके तच्चिन्तयित्वा मुहुः । दोषानेव विलोक्य सर्वविषयेष्वाशां विमुच्याभित -
श्चित्तग्रन्थिविमोचनाय सुमतिः सत्त्वं समालम्बनात् ॥ ३६२ ॥ यमेषु निरतो यस्तु नियमेषु च यत्नतः ।
विवेकिनस्तस्य चित्तं प्रसादमधिगच्छति ॥ ३६३ ॥ आसुरीं सम्पदं त्यक्त्वा भजेद्यो दैवसम्पदम् ।
मोक्षैककाङ्क्षया नित्यं तस्य चित्तं प्रसीदति ॥ ३६४ ॥ परद्रव्यपरद्रोहपरनिन्दापरस्त्रियः ।
नालम्बते मनो यस्य तस्य चित्तं प्रसीदति ॥ ३६५ ॥ आत्मवत्सर्वभूतेषु यः समत्वेन पश्यति ।
सुखं दुःखं विवेकेन तस्य चित्तं प्रसीदति ॥ ३६६ ॥ अत्यन्तं श्रद्धया भक्त्या गुरुमीश्वरमात्मनि ।
यो भजत्यनिशं क्षान्तस्तस्य चित्तं प्रसीदति ॥ ३६७ ॥ शिष्टान्नमीशार्चनमार्यसेवां तीर्थाटनं स्वाश्रमधर्मनिष्ठाम् । यमानुषक्तिं नियमानुवृत्तिं
चित्तप्रसादाय वदन्ति तज्ज्ञाः ॥ ३६८ ॥ कट्वाम्ललवणात्युष्णतीक्ष्णरूक्षविधायिनाम् ।
पूतिपर्युषितादीनां त्यागः सत्त्वाय कल्पते ॥ ३६९ ॥ श्रुत्या सत्त्वपुराणानां सेवया सत्त्ववस्तुनः ।
अनुवृत्त्या च साधूनां सत्त्ववृत्तिः प्रजायते ॥ ३७० ॥ यस्य चित्तं निर्विषयं हृदयं यस्य शीतलम् ।
तस्य मित्रं जगत्सर्वं तस्य मुक्तिः करस्थिता ॥ ३७१ ॥ हितपरिमितभोजी नित्यमेकान्तसेवी सकृदुचितहितोक्तिः स्वल्पनिद्राविहारः । अनुनियमनशीलो यो भजत्युक्तकाले
स लभत इह शीघ्रं साधु चित्तप्रसादम् ॥ ३७२ ॥ चित्तप्रसादेन विनावगन्तुं बन्धं न शक्नोति परात्मतत्त्वम् । तत्त्वावगत्या तु विना विमुक्ति -
र्न सिध्यति ब्रह्मसहस्रकोटिषु ॥ ३७३ ॥ मनोऽप्रसादः पुरुषस्य बन्धो मनःप्रसादो भवबन्धमुक्तिः । मनःप्रसादाधिगमाय तस्मा -
न्मनोनिरासं विदधीत विद्वान् ॥ ३७४ ॥ पञ्चानामेव भूतानां रजोंशेभ्योऽभवन् क्रमात् ।
वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्यनु ॥ ३७५ ॥ समस्तेभ्यो रजोंशेभ्यो व्योमादीनां क्रियात्मकाः ।
प्राणादयः समुत्पन्नाः पञ्चाप्यान्तरवायवः ॥ ३७६ ॥ प्राणः प्राग्गमनेन स्यादपानोऽवाग्गमनेन च ।
व्यानस्तु विष्वग्गमनादुत्क्रान्त्योदान इष्यते ॥ ३७७ ॥ अशितान्नरसादीनां समीकरणधर्मतः ।
समान इत्यभिप्रेतो वायुर्यस्तेषु पञ्चमः ॥ ३७८ ॥ क्रियैव दिश्यते प्रायः प्राणकर्मेन्द्रियेष्वलम् ।
ततस्तेषां रजोंऽशेभ्यो जनिरङ्गीकृता बुधैः ॥ ३७९ ॥ राजसीं तु क्रियाशक्तिं तमःशक्तिं जडात्मिकाम् ।
प्रकाशरूपिणीं सत्त्वशक्तिं प्राहुर्महर्षयः ॥ ३८० ॥ एते प्राणादयः पञ्च पञ्चकर्मेन्द्रियैः सह ।
भवेत्प्राणमयः कोशः स्थूलो येनैव चेष्टते ॥ ३८१ ॥ यद्यन्निष्पाद्यते कर्म पुण्यं वा पापमेव वा ।
वागादिभिश्च वपुषा तत्प्राणमयकर्तृकम् ॥ ३८२ ॥ वायुनोच्चालितो वृक्षो नानारूपेण चेष्टते ।
तस्मिन्विनिश्चले सोऽपि निश्चलः स्याद्यथा तथा ॥ ३८३ ॥ प्राणकर्मेन्द्रियैर्देहः प्रेर्यमाणः प्रवर्तते ।
नानाक्रियासु सर्वत्र विहिताविहितादिषु ॥ ३८४ ॥ कोशत्रयं मिलित्वैतद्वपुः स्यात्सूक्ष्ममात्मनः ।
अतिसूक्ष्मतया लीनस्यात्मनो गमकत्वतः ॥ ३८५ ॥ लिङ्गमित्युच्यते स्थूलापेक्षया सूक्ष्ममिष्यते ।
सर्वं लिङ्गवपुर्जातमेकधीविषयत्वतः ॥ ३८६ ॥ समष्टिः स्यात्तरुगणः सामान्येन वनं यथा ।
एतत्समष्ट्युपहितं चैतन्यं सफलं जगुः ॥ ३८७ ॥ हिरण्यगर्भः सूत्रात्मा प्राण इत्यपि पण्डिताः ।
हिरण्मये बुद्धिगर्भे प्रचकास्ति हिरण्यवत् ॥ ३८८ ॥ हिरण्यगर्भ इत्यस्य व्यपदेशस्ततो मतः । समस्तलिङ्गदेहेषु सूत्रवन्मणिपङ्क्तिषु ।
व्याप्य स्थितत्वात्सूत्रात्मा प्राणनात्प्राण उच्यते ॥ ३८९ ॥ नैकधीविषयत्वेन लिङ्गं व्यष्टिर्भवत्यथ ।
यदेतद्व्यष्ट्युपहितं चिदाभाससमन्वितम् ॥ ३९० ॥ चैतन्यं तैजस इति निगदन्ति मनीषिणः ।
तेजोमयान्तःकरणोपाधित्वेनैष तैजसः ॥ ३९१ ॥ स्थूलात्सूक्ष्मतया व्यष्टिरस्य सूक्ष्मवपुर्मतम् ।
अस्य जागरसंस्कारमयत्वाद्वपुरुच्यते ॥ ३९२ ॥ स्वप्ने जागरकालीनवासनापरिकल्पितान् ।
तैजसो विषयान्भुङ्क्ते सूक्ष्मार्थान्सूक्ष्मवृत्तिभिः ॥ ३९३ ॥ समष्टेरपि च व्यष्टेः सामान्येनैव पूर्ववत् ।
अभेद एव ज्ञातव्यो जात्येकत्वे कुतो भिदा ॥ ३९४ ॥ द्वयोरुपाध्योरेकत्वे तयोरप्यभिमानिनोः ।
सूत्रात्मनस्तैजसस्याप्यभेदः पूर्ववन्मतः ॥ ३९५ ॥ एवं सूक्ष्मप्रपञ्चस्य प्रकारः शास्त्रसम्मतः ।
अथ स्थूलप्रपञ्चस्य प्रकारः कथ्यते शृणु ॥ ३९६ ॥ तान्येव सूक्ष्मभूतानि व्योमादीनि परस्परम् ।
पञ्चीकृतानि स्थूलानि भवन्ति शृणु तत्क्रमम् ॥ ३९७ ॥ खादीनां भूतमेकैकं सममेव द्विधा द्विधा ।
विभज्य भागं तत्राद्यं त्यक्त्वा भागं द्वितीयकम् ॥ ३९८ ॥ चतुर्धा सुविभज्याथ तमेकैकं विनिक्षिपेत् ।
चतुर्णां प्रथमे भागे क्रमेण स्वार्धमन्तरा ॥ ३९९ ॥ ततो व्योमादिभूतानां भागाः पञ्च भवन्ति ते ।
स्वस्वार्धभागेनान्येभ्यः प्राप्तं भागचतुष्टयम् ॥ ४०० ॥ संयोज्य स्थूलतां यान्ति व्योमादीनि यथाक्रमम् ।
अमुष्य पञ्चीकरणस्याप्रामाण्यं न शङ्क्यताम् ॥ ४०१ ॥ उपलक्षणमस्यापि तत्त्रिवृत्करणश्रुतिः ।
पञ्चानामपि भूतानां श्रूयतेऽन्यत्र सम्भवः ॥ ४०२ ॥ ततः प्रामाणिकं पञ्चीकरणं मन्यतां बुधैः ।
प्रत्यक्षादिविरोधः स्यादन्यथा क्रियते यदि ॥ ४०३ ॥ आकाशवाय्वोर्धर्मस्तु वह्न्यादावुपलभ्यते ।
यथा तथाकाशवाय्वोर्नाग्न्यादेर्धर्म ईक्ष्यते ॥ ४०४ ॥ अतोऽप्रामाणिकमिति न किञ्चिदपि चिन्त्यताम् ।
खांशव्याप्तिश्च खव्याप्तिर्विद्यते पावकादिषु ॥ ४०५ ॥ तेनोपलभ्यते शब्दः कारणस्यातिरेकतः ।
तथा नभस्वतो धर्मोऽप्यग्न्यादावुपलभ्यते ॥ ४०६ ॥ न तथा विद्यते व्याप्तिर्वह्न्यादेः खनभस्वतोः ।
सूक्ष्मत्वादंशकव्याप्तेस्तद्धर्मो नोपलभ्यते ॥ ४०७ ॥ कारणस्यानुरूपेण कार्यं सर्वत्र दृश्यते ।
तस्मात्प्रामाण्यमेष्टव्यं बुधैः पञ्चीकृतेरपि ॥ ४०८ ॥ अनेनोद्भूतगुणकं भूतं वक्ष्येऽवधारय ।
शब्दैकगुणमाकाशं शब्दस्पर्शगुणोऽनिलः ॥ ४०९ ॥ तेजः शब्दस्पर्शरूपैर्गुणवत्कारणं क्रमात् ।
आपश्चतुर्गुणः शब्दस्पर्शरूपरसैः क्रमात् ॥ ४१० ॥ एतैश्चतुर्भिर्गन्धेन सह पञ्चगुणा मही ।
आकाशांशतया श्रोत्रं शब्दं गृह्णाति तद्गुणम् ॥ ४११ ॥ त्वङ्मारुतांशकतया स्पर्शं गृह्णाति तद्गुणम् ।
तेजोंशकतया चक्षू रूपं गृह्णाति तद्गुणम् ॥ ४१२ ॥ अबंशकतया जिह्वा रसं गृह्णाति तद्गुणम् ।
भूम्यंशकतया घ्राणं गन्धं गृह्णाति तद्गुणम् ॥ ४१३ ॥ करोति खांशकतया वाक्शब्दोच्चारणक्रियाम् ।
वाय्वंशकतया पादौ गमनादिक्रियापरौ ॥ ४१४ ॥ तेजोंशकतया पाणी वह्न्याद्यर्चनतत्परौ ।
जलांशकतयोपस्थो रेतोमूत्रविसर्गकृत् ॥ ४१५ ॥ भूम्यंशकतया पायुः कठिनं मलमुत्सृजेत् ।
श्रोत्रस्य दैवतं दिक्स्यात्त्वचो वायुर्दृशो रविः ॥ ४१६ ॥ जिह्वाया वरुणो दैवं घ्राणस्य त्वश्विनावुभौ ।
वाचोऽग्निर्हस्तयोरिन्द्रः पादयोस्तु त्रिविक्रमः ॥ ४१७ ॥ पायोर्मृत्युरुपस्थस्य त्वधिदैवं प्रजापतिः ।
मनसो दैवतं चन्द्रो बुद्धेर्दैवं बृहस्पतिः ॥ ४१८ ॥ रुद्रस्त्वहङ्कृतेर्दैवं क्षेत्रज्ञश्चित्तदैवतम् ।
दिगाद्या देवताः सर्वाः खादिसत्त्वांशसम्भवाः ॥ ४१९ ॥ संमिता इन्द्रियस्थानेष्विन्द्रियाणां समन्ततः ।
निगृह्णन्त्यनुगृह्णन्ति प्राणिकर्मानुरूपतः ॥ ४२० ॥ शरीरकरणग्रामा प्राणाहमधिदेवताः ।
पञ्चैते हेतवः प्रोक्ता निष्पत्तौ सर्वकर्मणाम् ॥ ४२१ ॥ कर्मानुरूपेण गुणोदयो भवे - द्गुणानुरूपेण मनःप्रवृत्तिः । मनोनुवृत्तैरुभयात्मकेन्द्रियै -
र्निवर्त्यते पुण्यमपुण्यमत्र ॥ ४२२ ॥ करोति विज्ञानमयोऽभिमानं कर्ताहमेवेति तदात्मना स्थितः । आत्मा तु साक्षी न करोति किञ्चि -
न्न कारयत्येव तटस्थवत्सदा ॥ ४२३ ॥ द्रष्टा श्रोता वक्ता कर्ता भोक्ता भवत्यहङ्कारः ।
स्वयमेतद्विकृतीनां साक्षी निर्लेप एवात्मा ॥ ४२४ ॥ आत्मनः साक्षिमात्रत्वं न कर्तृत्वं न भोक्तृता ।
रविवत्प्राणिभिर्लोके क्रियमाणेषु कर्मसु ॥ ४२५ ॥ न ह्यर्कः कुरुते कर्म न कारयति जन्तवः ।
स्वस्वभावानुरोधेन वर्तन्ते स्वस्वकर्मसु ॥ ४२६ ॥ तथैव प्रत्यगात्मापि रविवन्निष्क्रियात्मना ।
उदासीनतयैवास्ते देहादीनां प्रवृत्तिषु ॥ ४२७ ॥ अज्ञात्वैवं परं तत्त्वं मायामोहितचेतसः ।
स्वात्मन्यारोपयन्त्येतत्कर्तृत्वाद्यन्यगोचरम् ॥ ४२८ ॥ आत्मस्वरूपमविचार्य विमूढबुद्धि - रारोपयत्यखिलमेतदनात्मकार्यम् । स्वात्मन्यसङ्गचितिनिष्क्रिय एव चन्द्रे
दूरस्थमेघकृतधावनवद्भ्रमेण ॥ ४२९ ॥ आत्मानात्मविवेकं स्फुटतरमग्रे निवेदयिष्यामः ।
इममाकर्णय विद्वन् जगदुत्पत्तिप्रकारमावृत्त्या ॥ ४३० ॥ पञ्चीकृतेभ्यः खादिभ्यो भूतेभ्यस्त्वीक्षयेशितुः ।
समुत्पन्नमिदं स्थूलं ब्रह्माण्डं सचराचरम् ॥ ४३१ ॥ व्रीह्याद्योषधयः सर्वा वायुतेजोम्बुभूमयः ।
सर्वेषामप्यभूदन्नं चतुर्विधशरीरिणाम् ॥ ४३२ ॥ केचिन्मारुतभोजनाः खलु परे चन्द्रार्कतेजोशनाः केचित्तोयकणाशिनोऽपरिमिताः केचित्तु मृद्भक्षकाः । केचित्पर्णशिलातृणादनपराः केचित्तु मांसाशिनः
केचिद्व्रीहियवान्नभोजनपरा जीवन्त्यमी जन्तवः ॥ ४३३ ॥ जरायुजाण्डजस्वेदजोद्भिज्जाद्याश्चतुर्विधाः ।
स्वस्वकर्मानुरूपेण जातास्तिष्ठन्ति जन्तवः ॥ ४३४ ॥ यत्र जाता जरायुभ्यस्ते नराद्या जरायुजाः ।
अण्डजास्ते स्युरण्डेभ्यो जाता ये विहगादयः ॥ ४३५ ॥ स्वेदाज्जाताः स्वेदजास्ते यूका लूक्षादयोऽपि च ।
भूमिमुद्भिद्य ये जाता उद्भिज्जास्ते द्रुमादयः ॥ ४३६ ॥ इदं स्थूलवपुर्जातं भौतिकं च चतुर्विधम् ।
सामान्येन समष्टिः स्यादेकधीविषयत्वतः ॥ ४३७ ॥ एतत्समष्ट्यवच्छिन्नं चैतन्यं फलसंयुतम् ।
प्राहुर्वैश्वानर इति विराडिति च वैदिकाः ॥ ४३८ ॥ वैश्वानरो विश्वनरेष्वात्मत्वेनाभिमानतः ।
विराट् स्याद्विविधत्वेन स्वयमेव विराजनात् ॥ ४३९ ॥ चतुर्विधं भूतजातं तत्तज्जातिविशेषतः ।
नैकधीविषयत्वेन पूर्ववद्व्यष्टिरिष्यते ॥ ४४० ॥ साभासं व्यष्ट्युपहितं तत्तादात्म्यमुपागतम् ।
चैतन्यं विश्व इत्याहुर्वेदान्तनयकोविदाः ॥ ४४१ ॥ विश्वोऽस्मिन्स्थूलदेहेऽत्र स्वाभिमानेन तिष्ठति ।
यतस्ततो विश्व इति नाम्ना सार्थो भवत्ययम् ॥ ४४२ ॥ व्यष्टिरेषास्य विश्वस्य भवति स्थूलविग्रहः ।
उच्यतेऽन्नविकारित्वात्कोशोऽन्नमय इत्ययम् ॥ ४४३ ॥ देहोऽयं पितृभुक्तान्नविकाराच्छुक्लशोणितात् ।
जातः प्रवर्धतेऽन्नेन तदभावे विनश्यति ॥ ४४४ ॥ तस्मादन्नविकारित्वेनायमन्नमयो मतः ।
आच्छादकत्वादेतस्याप्यसेः कोशवदात्मनः ॥ ४४५ ॥ आत्मनः स्थूलभोगाना - मेतदायतनं विदुः । शब्दादिविषयान्भुङ्क्ते
स्थूलान्स्थूलात्मनि स्थितः ॥ ४४६ ॥ बहिरात्मा ततः स्थूलभोगायतनमुच्यते । इन्द्रियैरुपनीतानां शब्दादीनामयं स्वयम् ।
देहेन्द्रियमनोयुक्तो भोक्तेत्याहुर्मनीषिणः ॥ ४४७ ॥ एकादशद्वारवतीह देहे सौधे महाराज इवाक्षवर्गैः । संसेव्यमानो विषयोपभोगा -
नुपाधिसंस्थो बुभुजेऽयमात्मा ॥ ४४८ ॥ ज्ञानेन्द्रियाणि निजदैवतचोदितानि कर्मेन्द्रियाण्यपि तथा मनआदिकानि । स्वस्वप्रयोजनविधौ नियतानि सन्ति
यत्नेन किङ्करजना इव तं भजन्ते ॥ ४४९ ॥ यत्रोपभुङ्क्ते विषयान्स्थूलानेष महामतिः ।
अहं ममेति सैषास्यावस्था जाग्रदितीर्यते ॥ ४५० ॥ एतत्समष्टिव्यष्ट्योश्चोभयोरप्यभिमानिनोः ।
तद्विश्ववैश्वानरयोरभेदः पूर्ववन्मतः ॥ ४५१ ॥ स्थूलसूक्ष्मकारणाख्याः प्रपञ्चा ये निरूपिताः ।
ते सर्वेऽपि मिलित्वैकः प्रपञ्चोऽपि महान्भवेत् ॥ ४५२ ॥ महाप्रपञ्चावच्छिन्नं विश्वप्राज्ञादिलक्षणम् ।
विराडादीशपर्यन्तं चैतन्यं चैकमेव तत् ॥ ४५३ ॥ यदनाद्यन्तमव्यक्तं चैतन्यमजमक्षरम् ।
महाप्रपञ्चेन सहाविविक्तं सदयोऽग्निवत् ॥ ४५४ ॥ तत्सर्वं खल्विदं ब्रह्मेत्यस्य वाक्यस्य पण्डितैः ।
वाच्यार्थ इति निर्णीतं विविक्तं लक्ष्य इत्यपि ॥ ४५५ ॥ स्थूलाद्यज्ञानपर्यन्तं कार्यकारणलक्षणम् ।
दृश्यं सर्वमनात्मेति विजानीहि विचक्षण ॥ ४५६ ॥ अन्तःकरणतद्वृत्तिद्रष्टृ नित्यमविक्रियम् ।
चैतन्यं यत्तदात्मेति बुद्ध्या बुध्यस्व सूक्ष्मया ॥ ४५७ ॥ एष प्रत्यक्स्वप्रकाशो निरंशो - ऽसङ्गः शुद्धः सर्वदैकस्वभावः । नित्याखण्डानन्दरूपो निरीहः
साक्षी चेता केवलो निर्गुणश्च ॥ ४५८ ॥ नैव प्रत्यग्जायते वर्धते नो किञ्चिन्नापक्षीयते नैव नाशम् । आत्मा नित्यः शाश्वतोऽयं पुराणो
नासौ हन्यो हन्यमाने शरीरे ॥ ४५९ ॥ जन्मास्तित्वविवृद्धयः परिणतिश्चापक्षतिर्नाशनं दृश्यस्यैव भवन्ति षड्विकृतयो नानाविधा व्याधयः । स्थूलत्वादि च नीलताद्यपि मितिर्वर्णाश्रमादिप्रथा
दृश्यन्ते वपुषो न चात्मन इमे तद्विक्रियासाक्षिणः ॥ ४६० ॥ अस्मिन्नात्मन्यनात्मत्वमनात्मन्यात्मतां पुनः ।
विपरीततयाध्यस्य संसरन्ति विमोहतः ॥ ४६१ ॥ भ्रान्त्या मनुष्योऽहमहं द्विजोऽहं तज्ज्ञोऽहमज्ञोऽहमतीव पापी । भ्रष्टोऽस्मि शिष्टोऽस्मि सुखी च दुःखी -
त्येवं विमुह्यात्मनि कल्पयन्ति ॥ ४६२ ॥ अनात्मनो जन्मजरामृतिक्षुधा - तृष्णासुखक्लेशभयादिधर्मान् । विपर्ययेण ह्यतथाविधेऽस्मि -
न्नारोपयन्त्यात्मनि बुद्धिदोषात् ॥ ४६३ ॥ भ्रान्त्या यत्र यदध्यासस्तत्कृतेन गुणेन वा ।
दोषेणाप्यणुमात्रेण स न सम्बध्यते क्वचित् ॥ ४६४ ॥ किं मरुन्मृगतृष्णाम्बुपूरेणार्द्रत्वमृच्छति ।
दृष्टिसंस्थितपीतेन शङ्खः पीतायते किमु ॥ ४६५ ॥ बालकल्पितनैल्येन व्योम किं मलिनायते । शिष्यः -
प्रत्यगात्मन्यविषयेऽनात्माध्यासः कथं प्रभो ॥ ४६६ ॥ पुरो दृष्टे हि विषयेऽध्यस्यन्ति विषयान्तरम् ।
तद्दृष्टं शुक्तिरज्ज्वादौ सादृश्याद्यनुबन्धतः ॥ ४६७ ॥ परत्र पूर्वदृष्टस्यावभासः स्मृतिलक्षणः ।
अध्यासः स कथं स्वामिन् भवेदात्मन्यगोचरे ॥ ५६८ ॥ नानुभूतः कदाप्यात्माननुभूतस्य वस्तुनः ।
Usando este texto em trabalho acadêmico? Obter citação formal
ŚRĪ ĀDI ŚAṄKARĀCĀRYA. Sarvavedāntasiddhāntasārasaṅgraha. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/sarvavedanta-siddhanta>. Acesso em: 26/04/2026.
Śrī Ādi Śaṅkarācārya (2026). Sarvavedāntasiddhāntasārasaṅgraha. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/sarvavedanta-siddhanta
Śrī Ādi Śaṅkarācārya. "Sarvavedāntasiddhāntasārasaṅgraha." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/sarvavedanta-siddhanta.