Ānandagiri Ṭīkā — Aitareya
Ānandagiri
अहमितीत्यस्येक्षतेति पूर्वेणान्वयः ॥१॥ 【भाष्यम्】 【भाष्यम्】 ईक्षणस्य पूर्वकालीनत्वं वदन्सृष्टिहेतुत्वमाह – एवमिति । अत्रेक्षणपूर्वकसृष्ट्युक्तेः प्रयोजनं स्रष्टुश्चेतनत्वसिद्धिरेवेत्यभिप्रेत्य तथाविधस्य तक्ष्णश्चेतनत्वमुदाहरति – यथेति । नन्वीक्षितुस्तक्षादेर्दार्वाद्युपादानकारणसहितत्वात्प्रासादादिस्रष्टृत्वं युक्तम् । इह त्वात्मा वा इदमेक एवेत्युक्तस्याद्वितीयत्वेनोपादानकारणान्तराभावात्स्रष्टृत्वं न युक्तमिति शङ्कते – नन्विति । न च बहु स्यां प्रजायेय तदाऽऽत्मानं स्वयमकुरुतेति श्रुत्याऽऽत्मन एवोपादानत्वान्नोपादानान्तरापेक्षेति वाच्यम् । वियदादेर्व्यावहारिकत्वेन घटादिवत्परिणामित्वात्तस्य परिणाम्युपादानं वक्तव्यम् । न चाऽऽत्मा तथा भवितुमर्हति । तस्य निरवयवत्वेनापरिणामित्वादिति भावः । तत्र वियदादेः परिणामित्वमङ्गीकृत्य तत्रानाभिव्यक्तनामरूपावस्थं बीजभूतमव्याकृतं तद्धेदं तर्ह्यव्याकृतमासीत्तम आसीत्, मायां तु प्रकृतिं विद्यादित्यादिश्रुतिसिद्धं परिणाम्युपादानमस्तीत्याह – नैष इति । आत्मभूत इत्यनेनानभिव्यक्तनामरूपशब्दिताव्याकृतस्याऽऽत्मन्यध्यस्तत्वेन परिणममानविद्याधिष्ठानत्वेनाऽऽत्मनो विवर्तोपादानत्वंतयोरात्ममात्रत्वेन मृषात्वादात्मनोऽद्वितीयत्वं च न विरुध्यत इति दर्शयति । नामरूपे इति तदाश्रयमव्याकृतमित्यर्थः । इदानीं घटादिष्वपि विवर्ततैव परिणामो नाम विवर्तादन्यो नास्त्येव विवर्त इति परिणाम इति च पर्याय इत्यारम्भणाधिकरणन्यायेन विवर्ततया सिद्धे विकारेऽप्यात्मकृतेः परिणामादिति सूत्रकारेण परिणामशब्दप्रयोगाच्च सिद्धं तत्र च सत एवोपादानत्वम् । माया तु सहायमात्रमित्यभिप्रेत्याऽऽत्मनि चैवं विचित्राश्च हीति सूत्रावष्टम्भेन परिहारान्तरमाह – अथवेति । विज्ञानवानिति । आकाशेन गच्छन्तमिव स्थितमात्मान्तरं स्रक्ष्यामीति ज्ञानवानित्यर्थः । इदं च विशेषणमीक्षणस्य स्रष्टृत्वस्य च शुक्तिरजतादौ विवर्तेऽदर्शानात्कार्यस्य तत्तुल्यत्वेन तदुभयम् न स्यादिति शङ्कानिरासार्थं तन्निरासश्च मायाविनिर्मिते विवर्ते तदुभयदर्शनादिति । निरुपादान इति । स्वव्यतिरिक्तोपादानरहित इत्यर्थः । सर्वशक्तित्वे हेतुमाह – महामाय इति । आत्मान्तरत्वेनेति । आत्मभिन्नत्वेनेत्यर्थः । युक्ततरमिति । इन्द्रो मायाभिः पुरुरुप ईयते मायया ह्यन्यदिव भवति बहु स्यां प्रजायेय वाचाऽऽरम्भणं विकारोऽपागादग्नेरग्नित्वमित्यादिबहुश्रुतिसम्मतत्वादित्यर्थः । एवं च सतीति । सत एवाऽऽत्मनः कार्यकारणरूपेणावस्थानाङ्गीकारान्निर्हेतुकमेव कार्यमुत्पद्यत इति यदृच्छावादिनाम्, असदेव कार्यमुत्पद्यत इति नैयायिकानाम् । उभयमप्यसदिति शून्यवादिनां पक्षः । आदिशब्देन सदेव कार्यमुत्पद्यत इति साङ्ख्यादीनां परिणामपक्ष उक्तः । अत्र पक्षशब्देन तत्तत्पक्षोक्तदोषा लक्ष्यन्ते । तत्रासत्कारणपक्षे दध्याद्यर्थिनां दुग्धाद्यन्वेषणं न स्यादिति दोषः । असत्कार्यपक्षे त्वसतः सत्त्वापत्तिः शशविषाणादेरप्युत्पत्तिप्रसङ्गश्च दोषः । परिणामवादे च तस्य पुर्वमेव कारणे सत्त्वात्कुलालादिकारकव्यापारादिवैयर्थ्यं पूर्वमसत्त्वे कारणस्यैवावस्थान्तरापत्तिलक्षणपरिणामत्वानुपपत्तिः । उत्पत्त्यनन्तरमसत्त्वे ततो व्यवहारसिद्धिरपरोक्षत्वानुपपत्तिश्चेति दोषः । उभयासत्त्वे चोभयपक्षोक्तदोषास्ते विवर्तवादे न प्रसज्जन्त इत्यर्थः । यद्वाऽस्माभिर्विवर्तवादस्याङ्गीकारात्परिणामादिपक्षाङ्गीकारे परपक्षाङ्गीकारलक्षणो दोषो भवेदिति यच्छङ्क्यते तन्न सम्भवतीत्याह – एवं च सतीति । सुनिराकृतश्चेति । विवर्तवादस्यैव परिग्रहेण पक्षान्तरेषु दोषसूचनादद्वितीयात्मनस्तद्विपरीतप्रपञ्चाकारताभिधायिन्या बहु स्यामिति श्रुत्या विवर्तवादस्यैव परिगृहीतत्वेन पक्षान्तराणां श्रुतिबाह्यत्वाच्च ते निराकृता भवन्तीत्यर्थः । लोकानां भौतिकत्वादण्डान्तर्वर्तित्वाच्च भूतसृष्टितत्पञ्चीकरणाण्डासृष्ट्यनन्तरं तत्सृष्टिरिति गुणोपसंहारन्यायमाश्रित्याऽऽह – आकाशादिति । स्वयमेव व्याचष्ट इति । तेषां लोकेष्वप्रसिद्धत्वादित्यर्थः । द्युलोकात्परस्ताद्ये महरादयो लोका यश्च तस्याम्भसो लोकस्याऽऽश्रुयो द्युलोकस्ते सर्वेऽम्भःशब्देनोच्यन्ते । वृष्ट्यम्भसस्तत्र विद्यमानत्वादित्याह – अद इत्यादिना । अन्तरिक्षं मरीचय इत्यस्यार्थमाह – द्युलोकादिति । मरीचिशब्देन सूर्यकिरणसम्बन्धादन्तरिक्षलोकं लक्षयित्वा तस्यैकत्वेऽपि प्रदेशभेदाद्बहुवचनमित्युक्तम् । इदानीं बहूनां मरीचीनां लक्षकत्वात्तत्कृतं बाहुल्यम् गङ्गायां घोष इत्यत्र लक्षकगतस्त्रीत्वमिवेत्याह – मरीचिभिर्वेति । न तु मरीचिशब्देनान्तरिक्षलोकस्वीकारे मरीचिसम्बन्धो निमित्तान्तरमुच्यत इति भ्रमितव्यम् । एतद्भिन्नस्य निमित्तान्तरस्य पूर्वमनुक्तत्वेन विकल्पार्थकवाशब्दायोगात् । आप उच्यन्त इति । अधोलोकवासिभिर्जीवैराप्यमानत्वादाप्नोतेर्धातोरर्थयोगात्ते लोका आप इत्युच्यन्त इत्यन्वयः । ननूक्तानां लोकानां पञ्चभूतसम्बन्धाविशेषाद्भूतान्तरेण पृथिव्यादिनोपरितनलोका लक्ष्यन्तामन्तरिक्षस्य मरीचिव्यतिरिक्तपदार्थान्तरेण मेघादिनाऽपि सम्बन्धात्तेन स लोकः पृथव्यास्ततोऽधोलोकानां च मरणाप्तिव्यतिरिक्तगमनादिक्रियान्तरेणापि योगात्क्रियान्तरेण ते लक्ष्यन्तामिति शङ्कते – यद्यपीति । भूतात्मकत्वमिति । भूतसम्बन्धित्वमित्यर्थः । इदमुपलक्षणं मेघादिपदार्थान्तरसम्बन्धोऽपि वर्तत इत्यपि द्रष्टव्यम् । अम्भआदीनामेव तेषु लोकेषु प्राचुर्यात्तैरेव ते लोका लक्षणीयाः प्राचुर्येण व्यपदेशा भवन्तीति न्यायादिति परिहरति – तथापीति । अब्बाहुल्यादित्युपलक्षणं मरीच्यादीनामपि बाहुल्यादित्यपि द्रष्टव्यम् । अब्नामभिरित्यत्रापि मरीच्यादिनामभिरित्यपि द्रष्टव्यम् । यथाश्रुतेऽबात्मकत्वेनाम्भआदिशब्दलक्षकत्वानुक्तेर्लोकानां शङ्कानुपपत्तेर्मरीच्यादीनामब्नामत्वाभावादप्शब्दस्याप्याप्तिक्रियार्थत्वोक्तेऽब्नामत्वाभावेनाब्नामभिरिति परिहारानुपपत्तेश्चेति । उपरितनलोकाद्वृष्टिद्वारेणाऽऽगतमम्भ एवास्माभिः साक्षादुपलभ्यते न तु भूतान्तरमित्यस्मद्दृष्ट्याऽब्बाहुल्यमुपरितनलोकानामूर्ध्वलोकगामिप्राण्यपेक्षयाऽधोलोकगामिनां प्राणिनां पुराणेषु बाहुल्योक्तेर्बहुभिराप्यन्तेऽधोलोका इत्यधोलोकेषु तत्कर्तृकाप्तेरपि बाहुल्यं पृथिव्यामतिशीघ्रं प्राणिनां मरणात्तस्यापि तत्र बाहुल्यमन्तरिक्षस्य तु मरीचिबाहुल्यं प्रसिद्धमेवेति ज्ञेयम् । अम्भो मरीचीर्मरमाप इत्युच्यन्त इति ।
एतैर्नामभिरुच्यन्त इत्यन्वयः । अत्रात्मा वा इत्युक्तात्मज्ञानेन संसारी मोचयितव्यत्वेन विवक्षितः । असंसारिणो मोक्षानुपपत्तेः ॥२॥ 【भाष्यम्】 【भाष्यम्】 संसारश्च संसरणाधिकरणलोकांस्तदुपाधिभूतं लिङ्गशरीरं तदभिमानिनो देवांस्तदधिष्ठानं स्थूलशरीरं संसाररूपाशनायादीस्तदभिमानिनं तद्भोक्तारमन्तरेण नोपपद्यत इति तस्य सर्वस्य सृष्टिमयमावसथ इत्यन्तेन ग्रन्थेन क्रमेण वक्ष्यन्संसरणाधिष्ठानलोकसृष्टिमुक्त्वा तत्पालयितृदेवतासृष्ट्युक्तिव्याजेन समष्टिस्थूलशरीरस्य समष्टिलिङ्गशरीरस्य तदभिमानिनां देवानां च सृष्टिं वक्तुमारभते – स ईक्षतेति । तद्व्याचष्टे – सर्वप्राणीति । फलस्य तदुपादानस्य तत्साधनस्य चाधिष्ठानभूतानित्यर्थः । अव्ययानामनेकार्थत्वान्नुशब्दस्तुशब्दार्थं वैलक्षण्यं लोकानामाहेत्याह – इमे न्विति । अहमितीत्यस्येक्षतेति पूर्वेणान्वयः । समष्टिलिङ्गशरीरस्य तदभिमानिनां विराडवयवजन्यत्वात्तदर्थं विराट्सृष्टिमाह – एवमीक्षित्वेति । यद्यपि लोकोत्पत्तेः पूर्वमेवाण्डोत्पत्तिरुक्ताऽण्डमुत्पाद्याम्भःप्रभृतींल्लोकानसृजतेति भाष्येण तथाऽपि सैवोत्पत्तिरिहानूद्यते । लोकपालसृष्ट्यर्थमिति न विरोध इति भावः । अद्भ्य एवेत्येवकारार्थमाह – येभ्य इति । कुलालः पृथिव्याः सकाशान्मृत्पिण्डमिवेत्यन्वयः । स्वावयवेति ।
भूतानां परस्परावयवसंयोजनमतिश्लिष्टसंयोगस्तेनेत्यर्थः ॥३॥ 【भाष्यम्】 【भाष्यम्】 विराडुत्पत्तिमुक्त्वा तदवयवेभ्यो लोकपालोत्पत्तिमाह – तं पिण्डमित्यादिना । तपःशब्देनाभिध्यानशब्दितं ज्ञानमुच्यते न कृच्छ्रादीत्यत्र श्रुतिमाह – यस्येति । यस्य तपो ज्ञानमेव न कृच्छ्रादीत्यर्थः । ततो वाचो लोकपालोऽग्निर्वागधिष्ठाता निरवर्ततेत्यन्वयः । यद्यपि वागादिकरणजातमपञ्चीकृतभूतकार्यं न मुखादिगोलककार्यं तथाऽपि मुखाद्याश्रये तदभिव्यक्तेर्मुखाद्वागित्युक्तम् । नासिकाभ्यां प्राण इत्यत्र प्राणशब्देन प्राणवृत्तिसहितं घ्राणेन्द्रियमुच्यते । अधिष्ठानमिति । गोलकमित्यर्थः । त्वग्गोलकम् । लोमेति लोमसहचरितं स्पर्शनेन्द्रियमुच्यते । ओषधिवनस्पतय इत्योषध्याद्यधिदेवता वायुरुच्यते । चित्तं तु चेतो हृदयं हृदयज्ञं चाहृदयज्ञं चेत्यादौ हृदयशब्दस्यान्तःकरणार्थत्वदर्शनान्मनःशब्देनापि तस्यैवाभिधाने पौनरुक्त्यमित्यत आह – हृदयमिति । अन्तःकरणाधिष्ठानं हृदयकमलमुच्यत इत्यर्थः । सर्वप्राणबन्धनस्थानमिति । गुदमूलमित्यर्थः । अपानशव्देन पाय्विन्द्रियलक्षणायां सम्बन्धमाह – अपानेति । ननु शिश्नं निरभिद्यतेति पर्याये शिश्नरेतसोरुत्पत्त्यभिधाने स्त्रीयोन्यादेरुत्पत्तिरनुक्ता स्यादित्याशङ्क्य शिश्नशब्देनोपस्थेन्द्रियस्थानं लक्ष्यते रेत इति तद्विसर्गार्थत्वेन तत्सहितमुपस्थेन्द्रियमप्यशव्देन तल्लक्षितपञ्चभूतोपाधिकः प्रजापतिश्चोच्यत इत्याह – यथेति । यथाऽन्यत्र पर्यायान्तरे स्थानं करणं देवता चेति त्रयमुक्तमेवमिहापि शिश्नादिशब्दैस्त्रयमप्युच्यत इत्यर्थः । रेत इति । इन्द्रियमुच्यत इत्यन्वयः । तल्लक्षणायां सम्बन्धमाह – सह रेतसेति । रेतसा सहितं तत्सम्बद्धमित्यर्थः । सम्बन्धमुपपादयति –
रेतोविसर्गार्थत्वादिति ॥४॥ 【भाष्यम्】 【भाष्यम्】 एवं समष्टीनामिन्द्रियाणां तदभिमानिदेवतानां चोत्पत्तिमुक्त्वाऽथ तासां देवतानां भोगयोग्याल्पव्यष्टिदेहसृष्टिं तेषु देवतानां भोगार्थं व्यष्टिरूपेण प्रवेशं च विवक्षुस्तदुपोद्घातत्वेन क्षुत्पिपासयोः सृष्टिं दर्शयति – ता एता इति । तच्छब्दार्थमाह – अग्न्यादय इति । एतच्छब्दार्थमाह – लोकपालत्वेनेति । अशनायादिसृष्ट्युपयोगित्वेनैतासां स्वरूपाज्ञानपूर्वकं संसारे ब्रह्माण्डरूपे पतितत्वमासक्तत्वं तन्मात्रत्वाभिमानेन यद्बद्धत्वं तदाह – अस्मिन्निति । अर्णवसादृश्यमाह – अविद्येत्यादिना । अविद्यादिप्रभवं दुःखमेव दुष्प्रवेशनगुणेनोदकमिवोदकं यस्मिंस्तीव्ररोगादय एव भयङ्करत्वेन ग्राहा नक्रादयो यस्मिन्स्तत्त्वज्ञानमन्तरेण विनाशाभावादनन्तेऽज्ञानामुत्तरावध्यभावेनापारे विश्रामस्थानाभावेन निरालम्बे । समीचीनविश्रमस्थानाभावेऽपि तदाभासोऽस्तीत्याह – विषयेन्द्रियेति । विषयेन्द्रियसम्बन्धजनितसुखलेशरूपे विश्रामो यस्मिन्पञ्चेन्द्रियाणामर्थेषु विषयेषु शब्दादिषु या तृट् तृष्णा सैव मारुतस्तत्कृतो यो विक्षोभस्तनोत्थितान्यनर्थशतानि विषयसम्पादनादिना क्लेशास्त एवोर्मयो यस्मिन्महारौरवादय एवानेके निरया नरकविशेषास्तद्गतानां गर्भवासतन्निष्क्रमणबाल्यादयो मरणान्ता येऽनेके निरया दुःखजनकत्वात्तद्गतानां च यानि हा हेत्यादीनि कूजितानि स्वल्पध्वनय आक्रोशनानि महाध्वनयस्तदुद्भूतो महारवो यस्मिन् । महापातकाद्यनेकनिरयेति पाठे महापातकजन्या निरया इति द्रष्टव्यम् । संसारार्णवस्यैवम्भूतत्वे तस्य तरणासम्भावान्मोक्षशास्त्रानर्थक्यमित्याशङ्क्याविवेकिनां तथात्वेऽपि विवेकिनां तत्तरणोपायोऽस्तीत्याह – सत्येति । सत्यादयो य आत्मगुणास्त एव पाथेयं पथ्यशनं तेन पूर्णज्ञानमेवोडुपं प्लवो यस्मिन् । सत्सङ्गो गुरुसम्पत्तिः सर्वत्यागः संन्यासस्तावेव मार्गो ज्ञानोडुपप्रवृत्तिहेतुर्यस्मिन्मोक्षे सति पुनः संसारार्णवस्पर्शाभावात्स एव तीरवत्तीरं यस्मिन्नेतस्मिन्प्रत्यक्षसिद्धेऽर्णव इत्यर्थः । अत्र पतनं नामाऽऽत्मस्वरूपाज्ञानेन संसारेऽहमभिमानेन सक्तत्वम् । ननु संसारार्णवपतितत्वं वक्ष्यमाणाशनायादियोग इत्यादिसर्वोऽपि बन्धस्तदभिमानिनो जीवस्य वक्तव्यो न देवतानाम् । न च तासामपि तत्राभिमानोऽस्तीति तदुक्तमिति शङ्कनीयम् । तथाऽपि प्राधान्यतोऽभिमानिनं जीवं विहायाप्राधान्यतोऽभिमानिनीषु तदुक्तेरभिप्रायो वक्तव्य इत्यत आह – तस्मादिति । यस्मात्संसारार्णवपतितत्वं तासां तस्मादित्यर्थः । महारौरवाद्यनेकनिरयगतिरिवेति पाठ उक्तनिरयगतिर्यथा दुःखोपशमाय नालं तथा साऽपि नालमिति पूर्णेणान्वयः । तद्विवक्षाया अपि प्रयोजनमाह – यत एवमिति । एवं विदित्वेति । नालमिति विदित्वेत्यर्थः । आत्मनः सर्वभूतानां चाऽऽत्मा य आत्मा वा इदमित्यादिना जगदुत्पत्त्यादिहेतुत्वेन यः प्रकृतः स परं ब्रह्म वेदितव्यं इत्यन्वयः । नन्वेष पन्था एतत्कर्मैतद्ब्रह्मैतत्सत्यमित्युपक्रम्योक्थमुक्थमिति वा इत्यादिना कर्मसम्बन्धिसगुणब्रह्मात्मज्ञानस्यैवोक्तत्वात्तस्यैव मोक्षसाधनत्वं नोक्तकेवलात्मज्ञानमात्रस्येत्याशङ्क्यैष पन्था इत्यादिना ब्रह्मात्मविज्ञानमेवोक्तं न कर्मसमुच्चितं ज्ञानं तस्योक्तवाक्येन संसारहेतुत्वावगमेन सत्यत्वायोगादित्याह – तस्मादेष पन्था इति । यस्मात्कर्मसहितस्य प्राणविज्ञानस्य संसारफलत्वं तस्मादेष पन्था इत्यनेन यदेतद्ब्रह्मात्मविज्ञानं तदेवोक्तमित्यन्वयः । “तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय” इत्यनेनापि केवलात्मविज्ञानव्यतिरिक्तपथनिषेधादप्युक्तमेव ज्ञानं पन्था इत्याह – नान्य इति । एष पन्था ब्रह्मात्मज्ञानमुपक्रम्य मध्ये प्राणविज्ञानोक्तिस्तु प्राणोपासनया चित्तैकाग्र्ये सति तत्फलाच्च वैराग्ये सत्येष पन्था इत्युपक्रान्तं मुख्यं ज्ञानं वक्तुं शक्यमित्यभिप्रायेणेति भावः । यद्यप्येतद्वाक्यव्याख्यानावसरे कर्ममार्गेऽपि पथिशब्दार्थत्वेनोक्तस्तथाऽपि ज्ञानमार्गोपायत्वेन स उक्तो न प्राधान्येनेति भावः । ननु पिण्डस्याशनायादियोगे देवतानां कथं तद्वत्त्वं येन तासामन्नादनार्थमायतनप्रश्नः स्याद्यस्मिन्प्रतिष्ठिता इत्यनेनेत्यत आह – तस्येति । पितामहमिति । स्वजनकपिण्डजनकमित्यर्थः । अधिष्ठानमिति । शरीरमित्यर्थः । ननु विराड्देह एवाऽऽयतनं वर्तत इत्याशङ्क्य तस्यातिप्रौढत्वात्तमापूर्यं तत्र स्थातुं वयमसमर्था अन्नञ्च तद्देहपर्याप्तं सम्पादयितुमसमर्था अतोऽस्मद्योग्यं व्यष्टिदेहं सृजस्वेत्युक्तवत्य इत्याह – यस्मिन्निति ।
यद्यप्यस्मदादिव्यष्टिदेहं विनाऽपि चरुपुरोडाशादिहविरदनमस्ति तथाऽपि तदपि हविरदनं व्यष्टिदेवतादेहमन्तरा नास्तीति भावः ॥१॥ 【भाष्यम्】 【भाष्यम्】 व्यष्टिदेहसृष्टिमाह – ताभ्य इति । मूर्छयित्वेति । निबिडतया परस्परावयवसंयोजनेन सृष्ट्वेत्यर्थः । न योग्य इति । गोशरीरस्योपरिदन्तानामभावेन दूर्वादिमूलस्योत्खातुमशक्यत्वादित्यर्थः । अश्वमिति । तस्योभयतोदन्तत्वेनोक्तदोषाभावादित्यर्थः । न वै नोऽयमलमिति ।
अश्वस्यापि विवेकज्ञानाभावादयोग्यत्वादित्यर्थः ॥२॥ 【भाष्यम्】 【भाष्यम्】 गवाश्वग्रहणस्य सर्वतिर्यग्देहोपलक्षकत्वमभिप्रेत्योक्तम् – सर्वेति । स्वयोनिभूतमिति । स्वयोनिभूतविराट्पुरुषदेहसजातीयमित्यर्थः । यस्मात्स्वकीयपरितोषद्योतकेन सुकृतं बतेत्यनेन शब्देन पुरुषदेहमुक्तवत्यस्तस्मात्तस्येदानीमपि सुकृतत्वमित्याह – तस्मादिति । स्वयं वेति । ईश्वरेण स्वेनैव कृतं भृत्यादिकृतापेक्षया सुकृतं सुष्ठु कृतमित्यर्थः । पृषोदरादित्वात्स्वयमितिस्थाने सुशब्द इत्यर्थः । एवं व्यष्टिदेहसृष्टिमुक्त्वा तत्र करणानां देवतानां च व्यष्टिरूपेण प्रवेशमाह – ता देवता इति । इष्टत्वे हेतुमाह – सर्वे हीति । आयतनमिति ।
गोलकरूपं स्थानमित्यर्थः । राज्ञोऽनुज्ञां प्रतिलभ्य बलाधिकृतादयः सेनापत्यादयो नगर्यां यथा प्रविशन्ति तद्वदीश्वरस्यानुज्ञां प्रतिलभ्याग्निः प्राविशदित्यन्वयः ॥३॥ 【भाष्यम्】 【भाष्यम्】 यद्यपि वागभिमान्यग्निर्न तु वागेव तथाऽपि तस्य वाचं विना प्रत्यक्षमनुपलब्धेस्तस्या अपि देवतां विना स्वविषयग्रहणसामर्थ्याभावात्तयोरेकलोलीभावेनाभेदोक्तिरित्याह – वागेवेति ।
यद्यपि देवतानामेवेश्वरेण प्रवेशश्चोदितस्तथाऽपि करणैर्विना तासां साक्षाददनादिभोगासम्भवात्तेषामपि प्रवेशोऽर्थाच्चोदित एवेति तेषामपि स उक्तः ॥४॥ 【भाष्यम्】 【भाष्यम्】 अशनायापिपासयोरपि व्यष्टिदेहेऽपि करणाधिष्ठातृदेवतासम्बन्धं वक्तुं तयोः प्रश्नमवतारयति – एवमिति । निरधिष्ठाने सत्याविति कारणीभूते विराड्देहेऽधिष्ठानविशेषो यदि स्यादशनायापिपासयोरग्न्यादीनां मुखादय इव तदा व्यष्टिदेहेऽपि तदेव स्यात्तयोरधिष्ठानं तेषामिव न त्वेतदस्ति । अतो निरधिष्ठाने ते इत्यर्थः । विधत्स्वेत्यनन्तरं यस्मिन्प्रतिष्ठिते अन्नमदावेति शेषः । तत्राधिष्ठानविशेषस्तावद्युवयोः कारणे समष्टिदेहेऽभावादिहापि नास्त्येव कारणपूर्वकत्वात्कार्येऽप्यधिष्ठानस्यादनं तु युवयोर्धर्मरूपत्वाद्धर्मिणमनाश्रित्य धर्मस्य स्वातन्त्र्यायोगाच्चेतनावद्धर्मीभूतदेवतागतमेवान्नादनं युवयोरित्याह – स ईश्वर इति । भावरूपत्वादिति । धर्मरूपत्वादित्यर्थः । धर्मिणोऽप्यचेतनस्य भोक्तृत्वादर्शनाच्चेतनावद्वस्त्वित्युक्तम् । अध्यात्मेति । अध्यात्मदेवता व्यष्टिदेहगतदेवता अधिदेवताः समष्टिविराड्देहगता हविर्भुजोऽग्न्यादयः प्रसिद्धास्तास्वित्यर्थः । वृत्तीति । भोगैकदेशदानेनेत्यर्थः । एतदेव स्पष्टीकरोति । एतासु भागिन्याविति । साक्षाद्देवतासु भागवत्वायोगाद्देवताभागेन भागवत्वमंशवत्वमुक्तमिति व्याचष्टे – यद्देवत्य इति । यद्देवत्यो यद्देवतासम्बन्धी यो भागः स्यात्तस्या देवतायाः सम्बन्धिना तेनैव भागेनेत्यर्थः । हविरादीत्यादिशब्देन तत्तदिन्द्रियविषयोऽपि गृह्यते । करोमीत्यनन्तरमुक्त्वेति शेषः । उक्तमर्थमिदानीन्तनव्यवहारेण दृढीकर्तुं तस्मादित्यादिवाक्यं तद्व्याचष्टे – यस्मादिति ।
यस्मात्सृष्ट्यादावेवं व्यदधात्तस्मादित्यर्थः । हविर्ग्रहणमुपलक्षणमधिदैवतं हविर्गृह्यतेऽध्यात्मदेवतायै शब्दादिविषयो गृह्यत इति योज्यम् । भागिन्यावेवेति । यद्यपि शब्दादिविषयेण हविषा चाग्न्यादिदेवतातृप्तौ तयोर्नाश एव दृश्यते न तु तद्भागेन भागित्वं तथाऽपि तयोः सर्वात्मना नाशे पुनः कालान्तरे ते न स्याताम् । अतः स्वरूपेण स्थितयोरेव तयोः कदाचिदिन्द्रियदेवतानां विषयोन्मुखतया प्रेरकत्वरूपं कार्यौन्मुख्यं कदाचित्तदभावरूपोपशान्तिरित्यभ्युपगन्तव्यम् । तथा च हविषा देवतातृप्तावशनायापिपासयोरपि तृप्तिरुपशान्तिर्दृश्यत इति तद्भागेन भागवत्त्वमुक्तमित्यर्थः । न च चक्षुरादिना रूपादिग्रहणदशायामशनायापिपासायोर्नशान्तिर्दृश्यत इति न सर्वत्र भागवत्त्वं तयोरिति शङ्क्यम् । क्षुत्पिपासार्तस्यान्नपानदर्शनश्रवणादिनाऽन्नपानप्रत्यासत्तिपरितोषेण मनसि तृष्णा शान्तेव भाति । न तु यथापूर्वं बाधत इति चक्षुरादिष्वपि तयोर्भागवत्वमित्युक्तं सायणीयदीपिकायाम् । वस्तुतस्त्वशनायापिपासाशब्देनेन्द्रियाणां स्वस्वविषयगोचरौ तृष्णाकामावुच्येते । अन्नमदामेत्यत्राप्यन्नादनं स्वस्वविषयग्रहणमेव चक्षुरादीन्द्रियदेवतानां मुख्यादनासम्भवात् । तथा च रूपादिविषयग्रहणेन तत्तद्विषयगोचरयोस्तयोः शान्तिरस्तीति सर्वेन्द्रियेष्वपि तयोर्भागवत्त्वं युक्तमिति । न चेन्द्रियदेवतातृप्तिव्यतिरेकेण न तयोः पृथक्तृप्तिर्दृश्यत इति वाच्यम् । इन्द्रियदेवतानां स्वस्वविषयोन्मुखतया प्रेरकत्वरूपकार्यौन्मुख्यनिवृत्तिरूपोपशान्तिरेव पृथक्तयोस्तृप्तिरस्तीत्युक्तत्वात् । यद्यप्यर्णवप्रवेशनमशनायादिमत्त्वं तन्निमित्तमन्नादनमित्यादि सर्वं कार्यकरणसङ्घातपञ्जराध्यक्षस्य जीवस्य भोक्तुरेव नेन्द्रियदेवतानामशनायापिपासादि तथाऽपि तस्य वस्तुतोऽभोक्तृब्रह्मभूतस्य स्वतो भोक्तृत्वायोगादिन्द्रियदेवताद्युपाधिकृतमेव तस्य भोक्तृत्वादिसर्वसंसार इति वक्तुं तेष्वेव तमारोप्य श्रुत्योच्यत इति न दोषः ॥५॥ 【भाष्यम्】 【भाष्यम्】 एवं भोगसाधनसृष्टिमुक्त्वा भोग्यसृष्टिं वक्तुमारभते – स एवमिति । नुशब्दोक्तं वितर्कं स्पष्टीकरोति – लोका इत्यादिना । पूर्ववल्लोकपालप्रार्थनां विना स्वयमेवान्नं स्रष्टुं वितर्कितवानित्युक्तेः प्रयोजनमीश्वरत्वज्ञापनमित्याह – एवं हीति ।
अप इति । पञ्च भूतानीत्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 अभ्यतपदिति । एतेभ्यो भूतेभ्यो मनुष्यादीनामन्नभूता व्रीह्यादयो जायन्तां मार्जारादीनामन्नभूतानि मूषकादीनि जायन्तामिति पर्यालोचनं सङ्कल्पं कृतवानित्यर्थः । मूर्तिशब्देन करचरणादिमतोऽभिधाने व्रीह्यादेरग्रहणं स्यादत आह – घनरूपमिति । कठिनमित्यर्थः । नन्वमूर्तानामपि वायुचन्द्रकिरणादीनां सर्पादीन्प्रत्यन्नत्वमस्तीति तत्सङ्ग्रहार्थमाह – धारणसमर्थं चेति । शरीरधारणसमर्थमित्यर्थः । चरेति । चरं मूषकाद्यचरं व्रीह्यादीत्यर्थः । या वै सा मूर्तिरजायतान्नं वै तदिति पूर्वेणान्वयः । तच्छब्दार्थमाह –
मूर्तिरूपमिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 शब्दादिभोक्तृत्वमिन्द्रियदेवतोपाधिकं न स्वत आत्मन इत्यभिप्रायेण तेषां शब्दादिभोगमुक्त्वेदानीमन्नपानभोक्तृत्वमप्यपानवृत्तिमत्प्राणोपाधिकं न स्वत आत्मन इत्यभिप्रायेण तस्या भोक्तृत्वं परिशेषान्निर्धारयितुमाह – तदेनदिति । सृष्टं तत्पराङ्सदत्यजिघांसदित्यन्वयः । उक्तार्थे दृष्टान्तमाह – यथेति । पराङ्पदं व्युत्पादयति – परागञ्चतीति । मत्वेत्यनन्तरं परागञ्चति तद्वदिति शेषः । अतिगन्तुमैच्छदिति । यद्यपि व्रीह्याद्यचेतनान्नस्य नैवमिच्छा सम्भवति तथाऽपि भोक्तृशरीरान्तर्न प्रविष्टं किन्तु बहिरेव स्थितमित्यत्र तात्पर्यम् । कार्यकारणलक्षणः पिण्डस्तदन्नं वाचाऽजिघृक्षदित्यन्वयः । नन्विदानीमिव प्रथममेवापानेनैवान्नजिघृक्षा तस्य किमिति नाऽऽसीदित्याशङ्क्य तस्येदानीन्तनशरीरापेक्षया प्रथमजत्वात्तदानीं चापानेनान्नादत्वस्यानिश्चयात्तस्य वागादिनाऽन्नजिघृक्षा युक्तेत्याह – प्रथमजत्वादिति । अस्मदाद्यपेक्षयेत्यर्थः । यस्मिन्प्रतिष्ठिता अन्नमदामेत्युपक्रान्तस्य व्यष्टिशरीरस्य समष्टिपिण्डापेक्षया प्रथमजत्वाभावादपश्यन्नजानन्नित्यर्थः । वदनक्रियया प्रथमजस्य पिण्डस्य कारणस्यान्नग्रहणासामर्थ्यं कार्यगतासामर्थ्येन द्रढयति – स प्रथमज इति । अत्र प्रथममन्नपदं गृहीतवान्स्यादित्यत्र कर्मत्वेन सम्बध्यते । तत्कार्यभूतत्वादिति । तदनन्तरभूतत्वादित्यर्थः । इदानीन्तनशरीरस्य पूर्वकालीनव्यष्टिशरीरकार्यत्वाभावादिति । अभिव्याहृत्येति । वाचकशब्देनाभिधायेत्यर्थः । पूर्वजोऽपीत्यस्यनाशक्नोदिति पूर्वेणान्वयः । प्राणेन घ्राणेनाभिप्राण्याऽऽघ्रायेत्यर्थः । अपानेनेति । मुखच्छिद्रेणान्तर्गच्छता वायुनेत्यर्थः । अन्नात्तृत्वमपि श्वसनवृत्तिमतः प्राणस्य धर्मो नाऽऽत्मनः स्वत इत्येतत्तदेनत्सृष्टं पराङित्यादिनोक्तं सन्दर्भस्य प्रयोजनमुपसंहरति – तेन स एष इति । येन कारणेनापानेनान्नमशितवांस्तेनेत्यर्थः । अपानवृत्तिमतः प्राणस्यान्नग्राहकत्वं प्रसिद्ध्या दृढीकर्तुमन्नायुरिति वाक्यं व्याचष्टे – अन्नायुरिति ।
अन्नमदामेत्यादिश्रुत्यन्तरे प्राणस्यान्नायुष्ट्वं प्रसिद्धमित्यर्थः ॥३॥४॥५॥६॥७॥८॥९॥१०॥ 【भाष्यम्】 【भाष्यम्】 एवं भोगादिकरणभूतानां लोकानां भोगायतनस्य समष्टिव्यष्टिशरीरस्य भोगोपकरणानां वागादीनां समष्टिशरीरे लोकपालत्वेन व्यष्टिशरीरे करणाधिष्ठातृत्वेन च स्थितानां देवतानां भोगे प्रेरकयोरशनायापिपासयोस्तत्प्रयुक्तस्य करणनिष्ठस्य शब्दादिविषयग्रहणलक्षणस्य भोगस्यापानवृत्तिमत्प्राणनिष्ठस्यान्नपानग्रहणलक्षणस्य च भोगस्याऽऽत्मनः संसारित्वसिद्ध्यर्थं सृष्टिमभिधायेदानीं संसारिणं भोक्तारं दर्शयितुं स्रष्टुरीश्वरस्य विचारं दर्शयितुं स ईक्षतेति वाक्यं तद्व्याचष्टे – स एवमिति । पुरस्य पौराणां पुरवासिनां तत्पालयितॄणां राजनियुक्ताधिकारिणां स्थितिसमां तत्तुल्यामन्ननिमित्तामन्नाधीनां सङ्घातस्थितिं कृत्वेत्यन्वयः । पदार्थानुक्त्वा वाक्यार्थमाह – यदिदमिति । वक्ष्यमाणमिति । वाचाऽभिव्याहृतमित्यादिना वक्ष्यमाणमभिव्याहरणादिकमित्यर्थः । हेतुर्गर्भितमिदं शब्दार्थस्य विशेषणम् । परार्थं सदिति । परार्थत्वात्परमर्थिनं मामृते कथं स्यादित्यस्यैवार्थस्य कथंशब्दसूचितं व्यतिरेकमाह – यदीति । केवलं भोक्तृरहितव्यवहरणादि तयत्तन्न कथञ्चन भवेत्कथञ्चिदपि न भवेदित्यन्वयः । तत्र हेतुः – निरर्थकमिति । अर्थयत इत्यर्थः । पचाद्यजर्थयिता पुरुषस्तद्रहितमित्यर्थः । अर्थयिता हि पुरुषः स्वस्य प्रयोजनसिद्ध्यर्थं वागादिकं प्रेरयति । तदभावे प्रेरकाभावाद्वाग्व्यवहारादिकं न भवेदित्यर्थः । यद्वाऽर्थः प्रयोजनमर्थिनोऽभावे तस्यार्थत्वाभावान्निष्प्रयोजनं सत्तन्न भवेत्प्रयोजनप्रयुक्तत्वात्सर्वप्रवृत्तेरिति । तत्र दृष्टान्तः – बलिस्तुत्यादिवदिति । एतदेव विवृणोति – पौरेति । अत्र यथाशब्दो द्रष्टव्यः । यथा पौरादिभिः प्रयुज्यमानं बलिस्तुत्यादिकं स्वामिनमन्तरेण न भवेत्तद्वदित्यन्वयः । स्वामिनमन्तरेणेति । अस्य व्याख्यानमसत्येवेति । विचारस्य फलमाह – तस्मादिति । परेणार्थादन्येन स्वामिनाऽर्थिना वागादिव्यवहारकृतोपकारभाजाऽधिष्ठात्रा वागादिप्रेरकेण अधिष्ठातृत्वं चायस्कान्तवच्चेतनस्य सन्निधानमात्रमेव साक्षितया न व्यापार इत्याह – कृतेति । कृताकृततोस्तत्फलस्य चेत्यर्थः । फलसाक्षित्वमेव भोक्तृत्वमपीत्याह – भोक्त्रेति । राज्ञेत्यस्येतिपदाध्याहारेणेक्षतेति पूर्वेणान्वयः । एवं वाग्व्यवहरणादकार्यसिद्ध्यर्थं मया प्रवेष्टव्यमित्युक्त्वाऽऽत्मस्वरूपबोधार्थं च मया प्रवेष्टव्यमिति वक्तुं स ईक्षत यदि वाचाऽभिव्याहृतमित्याद्यथ कोऽहमित्यन्तं वाक्यं तत्प्रवेशप्रयोजनकथनार्थत्वेन कथम् न्विदमितिवाक्यतुल्यत्वात्स ईक्षत कतरेणेति वाक्येन व्यवहितमपीहैवाऽऽकृष्य व्याचष्टे – यदि नामेति । संहतस्य वागादिलक्षणस्य कार्यस्य परार्थत्वं परोपकाररूपाभिव्याहरणादिकारित्वं परार्थिनमुपकारभाजमन्तरेण भवेदित्यर्थः । अनेन यदि वाचैव केवलयाऽभिव्याहृतं भवेदित्येवकाराध्याहारेण वाक्यं योजितम् । एवमुत्तरत्रापि यदि प्राणेनैवाभिप्राणितं भवेदित्यादि द्रष्टव्यम् । अभिप्राणितमाघ्रातमभ्यपानितमन्तर्गतं भक्षितमित्यर्थः । उक्तमेव वाक्यार्थं स्पष्टीकरोति यद्यहमित्यादिना । अयं सन्निति । अयमात्माऽस्ति स चैवंरूपश्चेति नाधिगच्छेदित्यर्थः । अप्रवेशे स्वस्याधिगमो न स्यादित्युक्त्वा प्रवेशे तु सोऽस्तीति प्रवेशफलमाह – विपर्यये त्विति । प्रविश्याभिव्याहृताद्युपलम्भे त्वित्यर्थः । वेदनरूपः सञ्चेत्यधिगन्तव्योऽहं स्यामित्यन्वयः । वेदनरूपत्वमुपपादयति – योऽयमिति । योऽयं वागाद्यभिव्याहृतादि वेद स वेदनरूप इत्यधिगन्तव्यः स्यामित्यन्वयः । न च वेदितुः कथं वेदनरूपत्वमिति वाच्यम् । वेदितुरवेदनरूपत्वे तस्य वेदनान्तरकर्मत्वं वाच्यम् । तस्मिन्वेदने वेदितैव कर्ता चैदेकस्मिन्वेदितरि कर्तृत्वं कर्मत्वं च विरुद्धं प्रसज्येत । अन्यो वेदिता कर्ता चेत्तस्याप्यन्यो वेदितेत्यनवस्था स्यादिति वेदितुर्वेदनरूपत्वं सिद्ध्यति । अत एव श्रुत्यन्तरे यो वेदेदं जिघ्राणीति स आत्मेति घ्रातृघ्रेयघ्राणवेदनस्याऽऽत्मत्वमुक्तमिति भावः । तस्य वेदनरूपत्वे प्राणमुक्त्वाऽस्तित्वे प्रमाणमाह – यदर्थमिति । संहतानां वागादीनामभिव्याहृतादि यदर्थं सोऽन्यो वागादिभिरसंहतः संश्चेत्यधिगन्तव्य इति पूर्वेणान्वयः । संहतानामसंहतपरार्थत्वे दृष्टान्तमाह यथेति । एतदुक्तं भवति । वागाद्यभिव्याहृतादि स्वासंहतपरार्थं भवितुमर्हति । संहतत्वात्कुड्यादिवत्प्रासादादिवच्चेति । तद्वदित्यनन्तरं श्रुतिगतं स ईक्षतेति पदं द्रष्टव्यम् । भाष्ये तु स्पष्टतया त्यक्तम् । प्रयोजनद्वयवशात्प्रवेशस्य कर्तव्यत्वे सिद्धे प्रवेशद्वारस्य विचारस्यावसर इतीदानीं स ईक्षत कतरेणेति वाक्यं व्याचष्टे – एवमीक्षित्वेति । अत इति । यतः प्रवेशस्य वागादिव्यवहारसिद्धिर्मत्स्वरूपबोधश्चेति प्रयोजनद्वयसिद्ध्यर्थं कर्तव्यत्वमत इत्यर्थः । अन्तरिति पाठे शरीरस्यान्तः प्रपद्या इत्यन्वयः । कतरेणेति पदं गृहीत्वा तद्व्याख्यातुं मार्गद्वयं दर्शयति – प्रपदं चेति । इदानीं गृहीतं पदं व्याख्याति – अनयोः कतरेणेति ।
प्रपद्या इत्यनन्तरं श्रौतं स ईक्षतेति पदं द्रष्टव्यम् ॥११॥ 【भाष्यम्】 【भाष्यम्】 अनन्तरं स ईक्षत यदि वाचेत्यादिवाक्यं पूर्वमेव व्याख्यातमिति तदुत्तरं स एतमेव सीमानमिति वाक्यं व्याख्यातुं तदपेक्षितमाह – एवमीक्षित्वेति । पर्यालोच्येत्यर्थः । भृत्यस्य प्रवेशमार्गेण स्वामिनः प्रवेशोऽनुचित इत्यनेनैव मार्गेण प्रवेशं निश्चितवानित्याह – न तावदिति । अस्येति । पिण्डस्येत्यर्थः । प्रपद्येयमित्यनन्तरं निश्चित्येति शेषः । एवमपेक्षितमुक्त्वा सा एतमिति वाक्यं व्याचष्टे – इति लोक इवेति । एवमीक्षित्वा मूर्धानं विदार्य प्रपद्येयमिति निश्चित्येमं सङ्घातं प्रापद्यतेत्यन्वयः । ननु नव वै पुरुषे प्राणाः सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौ । नवद्वारे पुरे देहीत्यादिषु द्वारनवकं प्रसिद्धं न तु मूर्धनि द्वारान्तरमित्याशङ्क्य प्रत्यक्षतस्तयोर्ध्वमायन्नमृतत्वमेतीति श्रुतितश्च तस्य द्वारस्य प्रसिद्धेर्नैवमिति वक्तुं सैषेति वाक्यं तद्व्याचष्टे – सेयमिति । प्रत्यक्षतः प्रसिद्धिं सैषेति पदाभ्यां दर्शयति – मूर्ध्नीति । मूर्धनि चिरं विषवृक्षतैलादिवारणकाले तिक्तादितद्रससंवेदनं दृश्यत इति सा द्वाः प्रत्यक्षतः प्रसिद्धेत्यर्थः । न केवलं द्वारः प्रत्यक्षत एव प्रसिद्धिः किन्तु तस्या विदृतिरिति नाम्नाऽपि प्रसिद्धिरित्याह – विदृतिरिति । अनेनेश्वरेण स्वप्रवेशार्थमसाधारणतया विदारितत्वान्न भृत्यस्थानीयचक्षुरादिप्रवेशद्वारैः सह नव वै पुरुष प्राणा इत्यादिपूर्वोक्तश्रुतिषु परिगणितमित्युक्तम् । श्रौतप्रसिद्धिं वक्तुं तदेतन्नान्दनमिति वाक्यं तत्रैतदेव नान्दनं नान्यानीत्युक्तमिति कृत्वा व्याचष्टे – इतराणि त्विति । समृद्धीनीति । सम्यगृद्धिरानन्दो येषु तानीति विग्रहः । हेतुशब्दं भावप्रधानं स्वीकृत्याऽऽनन्दं प्रति हेतुत्वं येषामिति बहुव्रीहिणा हेतूनीति नपुंसकत्वं द्रष्टव्यम् । नन्दत्यनेन द्वारेण गत्वेति अनेन तयोर्ध्वमायन्नमृतत्वमेतीति श्रुतौ पसिद्धिर्दर्शिता । ईश्वरस्यैवं प्रवेशमुक्त्वा तस्य पूर्वोक्तकार्यकारणसङ्घातोपाधिकं संसारमाह तस्येति । एवं पुरं सृष्ट्वा जीवेनाऽऽत्मना प्रविष्टस्य तस्य राज्ञ इव त्रय आवसथाः क्रीडास्थानानीत्यन्वयः । तान्येवाऽऽह – जागरितेति । चक्षुरिति । चक्षुर्गोलकमित्यर्थः । मन इति । मनसोऽधिकरणं कण्ठस्थानमित्यर्थः । कण्ठे स्वप्नं समादिशेदिति श्रुतेः । हृदयाकाश इति । हृदयावच्छिन्नभूताकाश इत्यर्थः । यद्यपि ब्रह्मण्येव सुषुप्तौ जीवो वर्तते सता सोम्य तदा सम्पन्न इति श्रुतेस्तथाऽपि ब्रह्मणोऽपि हृदयावकाशेऽवस्थानात्तत्सम्पन्नोऽपि तत्रैव वर्तत इति तथोक्तम् । अन्यथा हृदयाकाशशब्देनैव दहराधिकरणन्यायेन ब्रह्माभिधाने तस्य त्रयः स्वप्ना इति वक्ष्यमाणस्वप्नतुल्यत्वानुपपत्तिरित्यत एव पक्षान्तरमाह – वक्ष्यमाणा वेति । तानेवाऽऽह – पितृशरीरमिति । नन्वात्मा वा इदमेक एवेत्यद्वितीयत्वेनोक्तस्य कथमावसथयोग इत्याशङ्क्याऽऽवस्थानं मृषात्वान्न पारमार्थिकाद्वितीयत्वायोग इति वक्तुं त्रयः स्वप्ना इत्युक्तं तद्व्याचष्टे – त्रयः स्वप्ना इति । स्वप्नतुल्या इत्यर्थः । जाग्रदित्युपलक्षणं पित्रादिशरीरत्रयं चेत्यपि द्रष्टव्यम् । तेषां स्वप्नतुल्यत्वं नास्तीति शङ्कते – नन्विति । अत्रापि शरिरत्रयमित्युपलक्षितं तत्प्रबोधस्य स्वप्नप्रबोधतुल्यत्वात्स्वप्नत्वमेवेत्याह – नैवमिति । तथा प्रसिद्धिर्नास्तीति शङ्कते – कथमिति । अविवेकिनां तथा प्रसिद्ध्यभावेऽपि विवेकिनां तल्लक्षणज्ञत्वात्तथा प्रसिद्धिरस्तीत्याह – परमार्थेति । वस्तुतत्त्वतिरोधानेनासद्वस्तुप्रतिभासः स्वप्न इति तल्लक्षणम् । जागरितमपि तथाभूतमेव ब्रह्मस्वरूपतिरोधानादविद्यमानजगत्प्रतीतेश्चेत्यर्थः । अन्तरं यन्मनस्तद्द्वितीय आवसथ इत्यन्वयः । अयमावसथ इत्यादिनाऽर्थान्तरं नोच्यते । प्रासादभूमिकावदुपर्यधोभावेन स्थिता एव चक्षुरादयोऽङ्गुल्या निर्दिश्य प्रदर्श्यन्ते बाह्यावसथभ्रान्तिवारणायेत्याह – अयमावसथ इत्युक्तानुकीर्तनमेवेति । नन्वावसथशब्दस्य गृहविशेषवाचिनः कथमक्ष्यादिषु प्रयोग इत्याशङ्क्याऽऽवसथस्थस्येवैषु स्थितस्य दीर्घनिद्रादर्शनात्तेषु सुखं सुप्तस्येव शीघ्रप्रबोधादर्शनाद्गौण्या वृत्त्याऽऽवसथत्वमाह – तेषु ह्ययमिति ।
स्वाभाविक्याऽविद्ययेत्यन्वयः । अनुभवैरित्यनन्तरमित्येत आवसथा उच्यन्त इति शेषः । ननु जागरितादिकं भूतकार्यस्य कार्यकारणसङ्घातस्य धर्मो न त्वात्मनः ॥१२॥ 【भाष्यम्】 【भाष्यम्】 तद्भिन्नस्यापि तस्मिंस्तादात्म्याभिनात्तद्धर्मवत्त्वमिति वक्तुं स जात इति वाक्यं तद्व्याचष्टे – स जात इति । भूतान्येवाऽऽभिमुख्येन तादात्म्येन व्याकरोद्व्यक्तं ज्ञातवानुक्तवांश्च मनुष्योऽहं काणोऽहं सुख्यहमित्यादिप्रकारेणेत्यर्थः ।तथा च श्रुत्यन्तरम् – “अन्न जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इति । ननु व्यतिरिक्तात्मज्ञाने सति कथमुक्ततादात्म्यभ्रम इत्याशङ्क्याऽऽह श्रुतिः – किमिहान्यमिति । इहास्मिञ्शरीरेऽन्यं व्यतिरिक्तमात्मानं वावदिषत्किमिति काक्वा नोक्तवानित्यर्थः । न ज्ञातवानित्यपि द्रष्टव्यम् । इति शब्दो यस्मादित्यर्थे यस्मादेवं तस्मादभिव्यैख्यदित्यध्यारोपप्रकरणसमाप्त्यर्थो वा । इदं वाक्यं भाष्यकारैः स्पष्टत्वादुपेक्षितं लेखकदोषात्पतितं वा । एवमध्यारोपं प्रदर्श्य तस्यापवादार्थं स एतमित्यादिवाक्यं तद्व्याचष्टे – स कदाचिदित्यादिना । यद्वा स जात इत्यादिरपवादस्तस्मिन्पक्ष एवं योजना । भूतानि व्याकरोद्विविच्याकरोत् । किमेषां स्वतः सत्ताऽस्ति नेति विचारितवानित्यर्थः । विचार्य च किमन्यमात्मव्यतिरिक्तं स्वतःसत्ताकं वावदिषद्वदिष्यामि न किञ्चिदप्यात्मव्यतिरिक्तं वक्तुं शक्नोमीति निश्चितवानित्यर्थः । एवं पदार्थशोधनवतो वाक्यार्थज्ञानमाह – स इति । आचार्यवान् पुरुषो वेदेति श्रुतेस्तेन विना स्वतो वाक्यार्थज्ञानं न सम्भवतीत्यभिप्रेत्याऽऽह – परमेति । वेदान्तेति । उपनिषत्काण्डस्य भेरीस्थानत्वं तत्त्वमसीत्यादिवाक्यानां प्रबोधजनकशब्दत्वमिति ज्ञेयम् । पुरि शयानमिति । मूर्धन्यया द्वारा प्रविश्येति शेषः । लुप्तेनेति । तेन सहेत्यर्थः । किं परोक्षतया ज्ञातमिति पृच्छति – कथमिति । तस्य कृतार्थताप्रख्यापकेन वाक्येन तस्यापरोक्षत्वमाह – इदमिति । इती३ इति प्लुतेरर्थमाह – अहो इति ।
विचारणार्था प्लुतिः । पूर्वमिति विचारणार्थे प्लुतेर्विहितत्वात् । प्लुत्या सम्यग्ब्रह्म ज्ञानं न वेति विचार्य सम्यग्ज्ञातमिति निश्चित्याहो इति स्वस्य कृतार्थत्वं प्रख्यापितवानित्यर्थः ॥१३॥ 【भाष्यम्】 【भाष्यम्】 तस्येदन्द्रनामप्रसिद्ध्याऽपि तस्य ज्ञानस्यापरोक्षत्वमिति वक्तुं तस्मादिदन्द्र इति वाक्यं तद्व्याचष्टे – तस्मादिति । तस्मात्सर्वान्तरं ब्रह्मेदं नित्यमेवापरोक्षेण प्रत्यगात्मेत्येवमपश्यदित्यन्वयः । कथमिदन्द्रनामत्वमत आह – इदन्द्रो ह वा इति । नन्विन्द्रो मायाभिरित्यादाविन्द्र इति प्रसिद्धो नत्विदन्द्र इत्यत आह – तमेवमिति । इदन्द्रस्यैव सतः परोक्षत्वार्थमक्षरलोपेनेन्द्र इत्याहुरित्यर्थः । परोक्षोक्तेः प्रयोजनमाह – पूज्येति । पूज्यानां परोक्षतयैव नाम वक्तव्यमित्यत्र प्रमाणमाह – तथा हीति । देवा इति ।
पूज्या इत्यर्थः । अत एवाऽऽचार्या उपाध्याया इत्युक्तामेव प्रीतिं कुर्वन्ति लोके न तु विष्णुमित्रादिनामग्रहण इति भावः । नाम्नः परोक्षत्वं नाम यथार्थनाम्नो रूपान्तरकरणेन स्वरूपाच्छादनमिति ज्ञेयम् ॥१४॥ 【भाष्यम्】 【भाष्यम्】 अस्मिन्नध्याय आत्मैकत्वलोकलोकपालसृष्ट्यशनायापिपासासंयोजनादीनां बहूनामर्थानामुक्तत्वात्सर्वेषामपि विवक्षितत्वशङ्कावारणाय विवक्षितमर्थमाह – अस्मिन्निति । सर्वेष्वपि शरीरेष्वेक एवाऽऽत्मा स एव परमेश्वर इति वक्ष्यमाणोऽर्थ एतच्छब्दार्थः । वाक्यार्थ इति । विवक्षित इति शेषः । कथमयमेवार्थो विवक्षित इत्याशङ्क्य पूर्वसन्दर्भपर्यालोचनयेत्याह – जगदित्यादिना । यद्यपि लोकादिसृष्ट्याऽन्नसृष्ट्या चोत्पत्तिस्थिती एवोक्ते तथाऽऽप्युत्पत्तिस्थित्युक्त्याऽर्थात्प्रलयोऽप्युक्तप्राय इति प्रलयकृदित्युक्तम् । लोकपालादीनामेव भोक्तृत्वोक्त्याऽसंसारीत्युक्तमित्यर्थः । सामान्यतः सर्वं जानातीति सर्वज्ञः । विशेषतः सर्वप्रकारेणापि सर्वं वेत्तीति सर्ववित् । सृष्ट्वेत्यन्तेन जगतस्तत्कार्यत्वात्तद्व्यतिरेकेण नास्तीत्युक्त्वा प्रत्यगात्मनस्तदभेदमाह – स्वात्मेति । न केवलं प्रवेशोक्त्यैव तदभेदः किन्तु तदभेदज्ञानोक्तेश्चेत्याह – प्रविश्य चेति । यस्मात्सर्वशरीरेष्वेकस्यैव प्रवेश उक्तः । यस्माच्च प्रविष्टस्य ब्रह्मतया ज्ञानमुक्तं तस्मात्सर्वशरीरेष्वेक एवाऽऽत्मा स च सर्वज्ञ ईश्वर एव नान्य इत्येष वाक्यार्थो विवक्षित इति पूर्वेणान्वयः । सम आत्मेति विद्यादिति संहितोपनिषद्गतवाक्यशेषोऽप्येतमेवार्थमाहेत्याह – अन्योपीति । सम इति । सर्वभूतेष्वेक इत्यर्थः । स ईक्षतेत्यादिसन्दर्भादयमर्थः प्रतीयत इत्युक्तं पूर्वमिदानीमुपक्रमोपसंहाराभ्यामप्येष एवार्थः प्रतीयत इत्याह – आत्मा वा इति । सदेव सोम्येदमग्र आसीत्तदेतद्ब्रह्मापूर्वमित्यादौ चाद्वितीयत्वमुक्तमित्याह – अन्यत्र चेति । प्रवेशवाक्यादात्मन एकत्वमुक्तं तदयुक्तं तस्यैवासङ्गतार्थत्वादिति शङ्कते – सर्वगतस्येति । अशरीरत्वाद्विदारयितृत्वं सर्वगतत्वात्प्रवेशश्च न सङ्गच्छत इत्यर्थः । किं प्रतीयमानार्थेऽसङ्गतत्वमुत विवक्षितार्थे । आद्ये सर्वस्याप्यसङ्गतार्थत्वेन सर्वस्याप्यप्रामाण्यं स्यात् । न च वेदस्य तद्युक्तमित्यभिप्रेत्याऽऽह – नन्विति । चक्षुरादिकरणैरीक्षणं प्रसिद्धं मृदाद्युपादानवत एव स्त्रष्टृत्वं हस्ताभ्यामेव समुद्धरणसम्मूर्छने इत्यशरीरस्य तदसङ्गतम् । शस्त्रादिना मूर्तेन विदारणं न त्वमूर्ताध्यानान्मुखादिभ्योऽग्न्याद्युत्पत्तौ अस्य दाहादिः स्यात् । मूर्तस्यैवान्येन संयोजनं कर्तुं शक्यं नाशनायादेरमूर्तस्य । अग्न्यादीनां शरीरसृष्टेः पूर्वं प्रार्थनाया अयोगस्तदा गवादिशरीराभावात् । स्वयं चाशरीरत्वादानयनायोगः । तेषामशरीरत्वादमूर्तत्वात्प्रवेशानुपपत्तिः । अन्नस्याचेतनस्य पलायनानुपपत्तिः । वागादीनां हस्तादिवद्वस्त्वादानासामर्थ्यात्तैर्जिघृक्षानुपपत्तिरिति सर्वमसङ्गतार्थमित्यर्थः । तर्हि सर्वमप्रमाणमस्त्विति कश्चिच्छङ्कते – अस्त्विति । विवक्षितार्थेऽपि विषं भुङ्क्ष्व स प्रजापतिरात्मनो वपामुदखिददित्यादीनामिव प्रामाण्यसम्भवेनाप्रामाण्यं न कस्यचिदपि युक्तम् । विवक्षितार्थे च नासङ्गतिरिति द्वितीयं दूषयति – नेति । लोके स्वयमेव द्वारंकृत्वाऽनेकेषु गृहेषु प्रविष्टस्य देवदत्तस्यैकत्वदर्शनात्तद्वदात्मन एकत्वमिति बोधयितुं विदारणप्रवेशने उच्येते । न तु सोऽर्थो विवक्षितः । विवक्षितात्मैकत्वबोधद्वारतयोक्तत्वात्प्राशस्त्यार्थद्वारतयोक्तवपोत्खननादिवदर्थवाद इत्यर्थः । असत एव प्रवेशादेरिहोक्तिरित्यङ्गीकृत्य तस्य गुणार्थवादत्वंवपोत्खननादिवाक्यवदित्युक्त्वाऽग्निर्हिमस्य भेषजमित्यादिवद्भूतार्थवादत्वमङ्गीकृत्याऽह – मायावीति । माययाऽघटितमपि सर्वमुपपद्यतेऽघटितघटकत्वात्तस्या इत्यर्थः । अनेन सृष्ट्यादेरघटितार्थत्वाद्गन्धर्वनगरादिवन्मृषात्वमेवेति स्पष्टीकर्तुमघटितमपो सृष्ट्यादिकं श्रुत्या दर्शितमित्युक्तम् । नन्वात्मावबोधश्चेद्विवक्षितस्तर्हि साक्षादेव स उच्यतां किमनेन वृथा प्रपञ्चनेनेत्यत आह – सुखेति । अवबोधनं प्रतिपादनम् । सुखेन वक्तुः प्रतिपादनार्थं सुखेन श्रोतुः प्रतिपत्त्यर्थं चेत्यर्थः । ननु लोकसृष्ट्यादेर्मानान्तरागोचरत्वेनापूर्वत्वात्तत्परत्वमेवाऽऽख्यायिकाया अस्त्वित्याशङ्क्याऽपूर्वत्वेऽपि तत्प्रतिपत्त्या फलालाभात्फलवत्यज्ञाते श्रुतेस्तात्पर्यनियमात् । अन्यथा रुद्ररोदनादेरप्यपूर्वत्वेन तत्रापि तात्पर्यापत्तेर्न सृष्ट्यादौ तात्पर्यमित्याह – न हीति । आत्मप्रतिपत्तौ तु फलदर्शनात्तत्परत्वमेव युक्तमित्याह – ऐकात्म्येति । सर्वेति । एतावदरे खल्वमृतत्वं तमेवं विद्वानमृत इह भवति विद्वानमृतः समभवदित्यादिषु ज्ञानादमृतत्त्वं प्रसिद्धमित्यर्थः । समं सर्वेषु भूतेष्वित्यनेनैकात्म्यमुक्त्वा समं पश्यन्हि सर्वत्र न हिनस्त्यात्मनाऽऽत्मानमिति ज्ञानादमृतत्वमुक्तमित्याह – स्मृतिषु चेति । यज्ज्ञात्वाऽमृतमश्नुत इत्यादिरादिशब्दार्थः । “सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् । इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः” ॥ इत्यैकात्म्यमुक्त्वा “स चापि जातिस्मरणाप्तबोधस्तत्रैव जन्मन्यपवर्गमाप” इत्यादिविष्णुपुराणमाद्यशब्दार्थः । आत्मैक्यमेवास्त्याध्यायस्यार्थ इत्युक्त्वैतदेव स्थिरीकर्तुमाशङ्कते – नन्विति । जीव ईश्वरो निर्विशेषब्रह्म चेति त्रय आत्मान इत्यर्थः । तत्र जीवोऽहं कर्तेति लोक एष हि द्रष्टा स्प्रष्टा यजेत स्वर्गकाम इत्यादिशास्त्रे च प्रसिद्ध इत्याह – भोक्तेति । एक इति । त्रयाणां मध्य एक इत्यर्थः । यो लोकदेहनिर्माणेन लिङ्गेनावगम्यते सर्वज्ञ ईश्वरः स द्वितीय इत्याह – अनेकेति । अनेकेषां विचित्राणां च प्राणिनां यान्यनेकानि विचित्राणि कर्मफलानि तदुपभोगयोग्यानि यान्यनेकानि विचित्राण्यधिष्ठानानि स्थानविशेषास्तद्वन्तो लोका देहाश्च तेषां निर्माणेन लिङ्गेनेत्यर्थः । इदं विशेषणं कर्तुः सर्वज्ञतार्थम् । यथाशास्त्रप्रदर्शितेनेति । स इमांल्लोकानसृजतेत्यादिशास्त्रप्रदर्शितलिङ्गेनेत्यर्थः। अनुमाने दृष्टान्तमाह – पुरेति । अचेतनं प्रधानं स्वयमेव विचित्रजगदाकारेण परिणमते न तु सर्वज्ञोऽधिष्ठाता कश्चिदिति साङ्ख्याः, तन्निरासायाऽऽह – चेतन इति । चेतनानधिष्ठितस्याचेतनस्य स्वतः प्रवृत्त्यदर्शनादवश्यं सर्वज्ञश्चेतनोऽधिष्ठाताऽङ्गीकार्य इत्यर्थः । तृतीयमाह – यत इति । एकस्यैव रूपभेदेन भेद इत्याशङ्क्याह – एवमिति । अन्योन्येति । अन्योन्यविरुद्धधर्मवत्त्वाद्दहनतुहिनवद्भिन्ना इत्यर्थः । तत्र जीवस्य यत्कर्तृत्वभोक्तृत्वादिना वैलक्षण्यमुक्तं तदसिद्धम् । तस्य मानान्तराविषयत्वेन तद्धर्मवत्तया प्रमातुमशक्यत्वात् । अतो न भेद इत्यभिप्रायेण परिहरति सिद्धान्ती – तत्र जीव एवेति । कथमिति । तस्य ज्ञेयत्वाभावे कर्तृत्वादिधर्मविशिष्टतयाऽपि स ज्ञातुमशक्य इत्यर्थः । अविज्ञाताभिप्रायः प्रश्नप्रकारं मत्वा शङ्कते – नन्विति । आदेष्टा वर्णात्मकशब्दवक्ता । आघोष्टा ध्वन्यात्मकशब्दवक्तेत्यर्थः । पूर्ववाक्ये स एषोऽश्रुतोमतोऽविज्ञात इति विज्ञेयत्वस्य प्रतिषेधात्तस्मिंस्तद्विरुद्धं ज्ञेयत्वमित्याह – ननु विप्रतिषिद्धमिति । यः श्रवणादिकर्तृत्वेन ज्ञायते स एवामतोऽविज्ञातश्चेत्येतद्विप्रतिषिद्धमित्यन्वयः । श्रुत्यन्तरविप्रतिषिद्धं चेत्याह – तथा न मतेरिति । मतेर्मनोवृत्तेर्मन्तारं साक्षिणमित्यर्थः । आदिपदेनामतो मन्ताऽविज्ञातो विज्ञातेत्यादिसङ्ग्रहः । श्रुत्यो प्रामाण्याविशेषाद्विप्रतिषेधानुपपत्तेः प्रत्यक्षेणाविज्ञेयत्वं लिङ्गेन विज्ञेयत्वं चोच्यते । ताभ्यामिति शङ्कते पूर्ववादी – सत्यमिति । आत्मनि युगपज्ज्ञानद्वयायोगाच्छ्रवणादिकाले मननविज्ञानयोरसम्भवाच्छ्रवणादिना मननविज्ञानरूपात्मविषयकमन्यविषयकं वाऽनुमितिज्ञानं न सम्भवतीत्याह सिद्धान्ती – ननु श्रवणादीति । श्रवणक्रिययैव सह वर्तमानत्वाच्छ्रवणक्रियाधारत्वादात्मनि विषये परविषये वा तस्य मननविज्ञानक्रिये न सम्भवत इत्यर्थः । अत्र प्रकरणे मननविज्ञानशब्दाभ्यामनुमितिरुच्यत आत्मनस्तद्विषयत्वस्यैवेह शङ्कावादिनोक्तत्वादिति तर्हि श्रवणमननयोर्युगपदसम्भवेऽन्यविषयमननक्रिययाऽऽत्मा मन्तव्य इत्याशङ्क्य विजातीयक्रियाद्वयवत्सजातीयक्रियाद्वयमपि युगपन्न सम्भवतीत्याह – तथेति । मननादिक्रियास्विति । मननादिक्रियान्तरमपि न सम्भवतीति शेषः। ननु मननादिक्रिया हि लिङ्गम् । न च लिङ्गं करणमतीतलिङ्गेनाप्यनुमितिदर्शनात् । किन्तु लिङ्गज्ञानं करणम् । न च तस्याप्यनुमितिकाले सत्त्वनियमः । पूर्वक्षणसत्त्वमात्रेण करणत्वोपपत्तेरिति तयोर्यौगपद्याभावेऽपि न दोष इति चेत् । न । श्रवणमननादिलिङ्गविज्ञानस्य साक्षिरूपस्य स्वतो विशेषाभावेन श्रवणादिरूपितत्ववशेनैव तस्यानुमापकत्वस्य वक्तव्यत्वेन तत्सत्ताया अपि तत्काले वक्तव्यत्वादिति भावः । ननु तर्हि बाह्यगोचरश्रवणादिक्रियया मन्तुरनुमानं मा भूत् । किन्तु बाह्यगोचरश्रवणादिक्रियैवाऽऽत्मानमपि विषयीकरिष्यतीत्यत आह – श्रवणादिक्रियाश्चेति । स्वविषयगोचरा एव न तु स्वाश्रयगोचरा इत्यर्थः । किञ्च न मतेर्मन्तारं मन्वीथा इत्यात्मनो मन्तव्यत्वनिषेधान्मन्तर्यात्मनि न मननक्रिया सम्भवतीत्याह – न हीति । अन्यत्रेति । आत्मनीत्यर्थः । कुठारादिक्रियाया दारुणोऽन्यत्र व्यापारादर्शनादित्यर्थः । ननु मनसो वशे सर्वमिदं बभूवेति श्रुतेः सर्वस्य मनोविषयत्वादात्मनोऽपि मन्तव्यत्वमेवेति शङ्कते – ननु मनसेति । एवमपि मनसः करणत्वात्क्रियायाश्च कर्तारमन्तराऽनुपपत्तेर्मन्ताऽवश्यमङ्गीकर्तव्य इति वदन्नाह सिद्धान्ती – सत्यमेवमिति । तथाऽपीति । न मन्वीथा इति विशेषश्रुत्या मन्तव्यत्वनिषेधादभ्युपगम्योच्यत इति सूचयत्यपिशब्दः । अस्तु मन्तुरावश्यकत्वं तावता तव किं स्यादिति शङ्कते – यद्येवमिति । एवं सत्यात्मनो मन्तव्यत्वाभावः सिध्यतीत्याह – इदमिति । कुत एतदिति चेत्तत्र वक्तव्यं किमात्मनो मनने स्वयमेव मन्तोतान्यो वेति विकल्पाऽऽद्यं दूषयति – सर्वस्येति । एकत्र कर्तृकर्मभावस्य विरोधान्मन्तुर्मन्तव्यत्वं न सम्भवतीत्यर्थः । द्वितीये स मन्ताऽऽनात्माऽऽत्मा वेति विकल्प्याऽऽद्य आह – न चेति । द्वितीय इत्यनन्तरमनात्मेति शेषः । अनात्मनोऽचेतनस्य मन्तृत्वानुपपत्तेरित्यर्थः । द्वितीयमनुवदति – यदेति । अस्मिन्पक्ष एकस्मिञ्शरीर आत्मद्वयं स्यादित्याह – तदेति । चशब्दौ परस्परसमुच्चयार्थौ । येन चाऽऽत्मनाऽऽत्मा मन्तव्यो यश्चाऽऽत्मा मन्तव्य इत्यन्वयः । तृतीयान्तप्रथमान्तयच्छाब्दाभ्यामुक्तौ द्वावात्मानौ स्यातामित्यर्थः । एतद्दोषपरिहारायैकस्यैवाऽऽत्मन एकांशेन मन्तृत्वमंशान्तरेण मन्तव्यत्वमित्युक्तौ सावयवत्वं स्यादित्याह – एक एवेति । अस्तु को दोष इयाशङ्क्याऽऽत्मभेदे तयोरैकमत्यायोगाद्विरुद्धदिक्क्रियतया शरीरमुन्मथ्येत । सावयवत्वेऽनित्यत्वेन कृतहानादिकं स्यादिति दोषमाह – उभयथेति । भिन्नयोरपि समानस्वभावयोर्दीपयोः कर्तृकर्मभावादर्शनादात्मभेदपक्ष आत्मशकलभेदपक्षे वा तयोः समानस्वभावत्वादभिन्नपक्ष इव कर्तृकर्मभावो न सम्भवतीत्यनुपपत्त्यन्तरमाह – यथेति । किञ्च “पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन् “ इति श्रुत्या करणानां बहिर्विषयत्वनियमस्याऽऽत्मविषयत्वाभावस्य चोक्तत्वात् । यन्मनसा न मनुत इति श्रुतेश्च । मनसो बहिर्विषये मन्तव्य एव व्यापारो नाऽऽत्मनीत्याह – न च मन्तुरिति । न चैवं सति कश्चिद्धीरः प्रत्यगात्मानमैक्षन्मनसैवानुद्रष्टव्यमित्यादीनां का गतिरिति वाच्यम् । मनसो बहिर्विक्षेपाभावेनैकाग्र्ये सत्यात्मा स्वयमेव प्रकाशत इति तदर्थत्वात् । अन्यथा पूर्वोक्तन्यायोपबृंहितामतोऽविज्ञातत इत्यादिबहुश्रुतिव्याकोपः स्यादिति भावः । एवमात्मनः साक्षान्मनसा मन्तव्यत्वपक्ष एकस्मिञ्शरीर आत्मभेदस्तस्य शकलीभावो वा स्यादित्युक्तदोषमनुमितिविषयत्वपक्षेऽप्याह – यदापीति । एवममतोऽविज्ञात इति श्रुत्या न्यायोपबृंहितया सर्वात्मना ज्ञेयत्वाभाव इति स्थितम् । तत्र पूर्ववादी शङ्कते – न प्रत्यक्षेणेति । कथमिति । ज्ञेयत्वप्रतिपादकश्रुतेः श्रोतृत्वादिधर्मवत्त्वप्रतिपादकश्रुतेश्चानुपपत्तिरित्यर्थः । तत्र विद्यादिति श्रुतावितरनिषेधे सति स्वप्रकाशत्वेन स्वतः स्फुरणमेवोच्यते न तु कर्मतया वेद्यत्वमिति परिहारं वक्ष्याम इत्यभिप्रेत्य श्रोतृत्वादिश्रुतौ परिहारमाह – नन्विति । तत्र किं धर्मवत्त्वप्रतिपादनस्य का गतिरिति पृच्छ्यते किं वा श्रोतृत्वादिप्रतिपादनेनाश्रोतृत्वादिकमसिद्धमित्युच्यते वा इति विकल्प्य, नाऽऽद्यः । नित्यमेवधर्माङ्गीकारादित्याह – श्रोतृत्वादीति । न श्रोता न मन्तेत्यादिश्रुतेर्नित्यमेवाश्रोतृत्वादेरपि प्रामाणिकत्वान्न द्वितीयोऽपीत्याह – अश्रोतृत्वादीति । उभयोरविरोधं चोत्तरत्र वक्ष्याम इति भावः । एवं च श्रोता मन्ता न श्रोता न मन्तेति चोभयश्रवणे सति श्रोतृत्वादिधर्मवानेवेत्यन्यतरपरिग्रहवैषम्यं तव न युक्तमित्याह – किमत्रेति । नन्वश्रोतृत्वश्रुतेरन्यपरत्वोपपत्तेर्न वैषम्यमित्याशङ्क्य कालभेदेनोभयोरपि दर्शनादन्यतस्यान्यपरत्वे हेत्वभावाच्छ्रोतैवैत्यङ्गीकारे वैषम्यं स्यादेवेत्याह – यद्यपीति । अश्रोतृत्वादिप्रसिद्धमनात्मन इति पाठे नन्विति वाक्यमपि शङ्कान्तर्गतमेव । श्रोतेत्यादिश्रुत्या श्रोतृत्वादिधर्मवानात्मा ननु तत्कथं स्यादित्यन्वयः । ननु न श्रोतेत्यादिश्रुतेरश्रोतृत्वादिधर्मवत्त्वमात्मन इत्याशङ्क्य लोकेऽप्रसिद्धेर्नैवमिति स एवाऽऽह – अश्रोतृत्वादीति । उभयोरप्यात्मधर्मत्वश्रवणे समानेऽन्यतरस्यानात्मधर्मत्वाभिधानमयुक्तमिति सिद्धान्ती दूषयति – किमत्रेति । ननु लोकप्रसिद्धिबलादनात्मधर्मत्वानिश्चयान्न वैषम्यमित्याशङ्क्य निराकरोति – यद्यपीति । अश्रोतृत्वादेरात्मधर्मत्वेऽपि प्रसिद्धेरविशेषाच्छ्रुत्यनुरोधेनोभयोरप्यात्मधर्मत्वमिति प्रश्नपूर्वकमाह – कथमिति । इतरत्सर्वं समानम् । त्वया हि कादाचित्कज्ञानेन नित्यमेव श्रोतृत्वादिकमङ्गीक्रियते तदयुक्तमित्याह – यदाऽसाविति । न मन्तेत्यनन्तरं न तु नित्यमेव श्रोता मन्ता वेति शेषः । तथाऽन्यत्रापि । द्रष्टृत्वविज्ञातृत्वादावप्येवमेव कादाचित्कत्वमित्यर्थः । श्रोतृत्वादेः पाक्षिकत्वं दृष्टान्तेन स्पष्टीकरोति – यदेति । तदाऽस्येत्यत्र यदैवमिति पदमध्याहृत्य यदैवं व्यवस्था तदाऽस्य पक्ष एव गन्तृत्वमिति वाक्यं योज्यम् । तद्वदिति । तथैव श्रोतृत्वादिकमपि न नित्यमित्यर्थः । अत्रान्तरेऽविदिताभिप्रायः काणादादय उभयमपि कादाचित्कमेवास्त्विति चोदयन्तीत्याह – अत्रेति । ननु सिद्धान्तिनाऽपि श्रोतृत्वाश्रोतृत्वयोरङ्गीकारादस्य सिद्धान्तात्कथं भेद इत्याशङ्क्य तन्मते नित्यसाक्षिणो नित्यमेव श्रोतृत्वं कादाचित्कज्ञानस्य मृषात्वेन तदभावेन च नित्यमेवाश्रोतृत्वम् । अस्मन्मते तु कादाचित्कज्ञानेनैव श्रोतृत्वादिकमिति विशेषमाह – संयोगजत्वमिति । ज्ञानस्य कादाचित्कत्वेऽयौगपद्ये च यथाक्रमं प्रमाणमाह – दर्शयन्ति चेति । युगपदिति । यदि मनो न स्यात्तर्हि चक्षुरादीन्द्रियाणां युगपदेव रूपादिभिः सम्बन्धे युगपदेव सर्वेन्द्रियैः सर्वविषयकज्ञानानि स्युः । सामग्र्याः सत्त्वात् । न च तथाऽस्ति । अतः क्रमेण तत्तदिन्द्रियसंयोग्यणुपरिमाणं मनोऽङ्गीकर्तव्यम् । तथा च युगपत्सर्वेन्द्रियैर्मनःसंयोगाभावात्सामग्र्यभावान्न युगपत्सर्वविषयकं ज्ञानम् । अतो युगपद्रूपादिसर्वविषयकज्ञानानुत्पत्तिलिङ्गेन मनोऽस्तीति वदन्तो युगपत्सर्वज्ञानानुत्पत्तिरित्युक्तवन्त इत्यर्थः । इममर्थं न्याय्यं पश्यन्तीति पूर्वेणान्वयः । काणादादिमते सिद्धान्तिना प्रदर्शिते सति तर्हि काणादादिरीत्या श्रुतिद्वयोपपत्तेरात्मनि श्रोतृत्वादिधर्मवत्त्वसिद्धेश्च तथैवास्त्विति पूर्वपक्षी तटस्थो वा सिद्धान्तिनं प्रति शङ्कते भवत्विति । यद्येवं न्याय्यं स्यादेवमेव भवतु किं तव नष्टमित्यर्थः । आत्मनः कादाचित्कज्ञानेन श्रोतृत्वादिधर्मवत्तस्य श्रुत्यनभिमतत्वान्न तन्न्याय्यमिति सिद्धान्ती तं पक्षं दूषयति – अस्त्वेवमिति । ननु श्रोता मन्तेन्ति श्रुत्या तद्धर्मवत्त्वप्रतिपादनादनभिमतत्वमसिद्धमिति शङ्कते – किं नेति । न श्रोतेत्यादिश्रुत्याऽविशेषतः कालत्रयेऽपि श्रोतृत्वादिधर्मराहित्यप्रतिपादनात्तद्धर्मवत्त्वमनभिमतमेवेत्युत्तरमाह – न, न श्रोतेति । यदासौ श्रोतेत्यादिना श्रोतृत्वादेः पाक्षित्वकस्य त्वयैवोक्तत्वात्काणादपक्षप्रदर्शनवेलायां च कादाचित्वज्ञानेन तदुपपादनात्पाक्षिकश्रोतृत्वादि तदभावविषयतया श्रुतिद्वयस्योपपत्तिं शङ्कते – नन्विति । अपाक्षिकत्वेन श्रोतृत्वतदभावयोः श्रुतिभ्यां स्वरसतः प्रतीतेः पाक्षिकत्वेन तत्सङ्कोचो न युक्त इति स्वाभिप्रायं विवृण्वन्नाह सिद्धान्ती – न नित्यमेवेति । ननु श्रुतेरनित्यत्वे सति तद्घटितं श्रोतृत्वमप्यनित्यमिति सङ्कोच आवश्यकोऽत आह – न हीति । श्रुतेः श्रोतृत्वस्य चानित्यत्ववचनं श्रुतिविरुद्धमित्यर्थः । श्रुतिमत्यादीनां नित्यत्वे युगपत्सर्वं ज्ञानं स्यात्कदाचिदपि कस्यचिदपि ज्ञानस्याभावो न स्यात् । श्रुत्यादिशब्दितानां सर्वेषां ज्ञानानां नित्यत्वात् । न चेष्टापत्तिः । प्रत्यक्षविरोधात् । अतो न हि श्रोतुः श्रुतेरित्यादिश्रुतेरन्यपरत्वं वक्तव्यमिति शङ्कते – एवं तर्हीति । इतिशब्दः शङ्कासमाप्त्यर्थः । परिहरति – नोभयेति । युगपज्ज्ञानोत्पत्तिरज्ञानाभावश्चेत्युभयदोषस्योपपत्तिः सम्भवो नास्तीत्यर्थः । श्रोतृत्वादेर्नित्यत्वे कथमुभयदोषाभाव इत्याशङ्क्याऽऽत्मस्वरूपभूतसाक्षिरूपश्रुत्यादेर्नित्यत्वेऽपि वृत्तिरूपकादाचित्कश्रुत्यादेरप्यभ्युपगमादुक्तदोषाभाव इति परिहरन्नित्यश्रोतृत्वादिकं दर्शयति – आत्मन इति । आत्मनः स्वरूपभूतं यच्छ्रुत्यादि श्रोतृजन्यवृत्तिसाक्षिरूपं तद्वशाद्यच्छ्रोतृत्वादितद्धर्मवत्त्वस्य श्रोता मन्तेत्यादिना श्रुतेरित्यर्थः । अनित्यश्रुत्यादिकं तर्हि कथमित्याशङ्क्य तद्दर्शयति – अनित्यानामिति । तेषामनित्यत्वमाह – मूर्तानामिति । दृष्ट्यादेरनित्यत्वे हेतुमाह – संयोगेति । संयोगजन्यत्वाद्दृष्ट्यादेरनित्यत्वमित्यर्थः । ज्वलनमित्यनन्तरमनित्यमित्यनुषङ्गः । ननु यद्यनित्यं दृष्ट्याद्यभ्युपगम्येत तर्हि तदेवाऽऽत्मनोऽपि धर्मोऽस्तु किं नित्यदृष्ट्यादिनेत्यत आह – न त्विति नित्यत्वादमूर्तत्वममूर्तत्वात्संयोगादिधर्मरहितत्त्वं ततः संयोगजदृष्ट्याद्यसम्भव इत्यत आत्मनो नित्यदृष्ट्याद्यभ्युपगन्तव्यमित्यर्थः । श्रुतितोऽपि नित्यदृष्ट्यादिसिद्धिरित्याह – तथा चेति । नित्यानित्यदृष्टिद्वयाङ्गीकारे गौरवमिति शङ्कते – एवं तर्हीति । श्रुतिप्रामाण्याद्द्वैविध्याङ्गीकारे गौरवं प्रामाणिकमित्याह – एवं ह्येवेति । तथा चेति । चोऽवधारणे । तथैवेत्यर्थः । दृष्टेर्द्रष्टेति । दृष्टिविषयकदृष्टिमानिति तदर्थः । तत्र विषयविषयिभावस्यैकभिन्नसम्भवाद्दृष्टिद्वयं प्रतीयत इति दृष्टिद्वैविध्ये सत्येवेयं श्रुतिरुपपद्यते नान्यथेत्यर्थः । तिमिररोगस्याऽऽगमे नष्टा दृष्टिरपाये च जाता दृष्टिरिति प्रतीतेर्जन्मनाशयोगिन्यनित्या दृष्टिरेका तदीयजन्मनाशसाक्षिभूता द्वितीया दृष्टिरस्तीति लोकेऽपि प्रतीयत इत्याह – लोकेऽपीति । चक्षुर्दृष्टेरित्युपलक्षणमात्मदृष्टेर्नित्यत्वं च प्रसिद्धमित्यपि द्रष्टव्यम् । श्रुतिमत्यादीनामिति । अनित्यत्वं नित्यत्वं च प्रसिद्धमित्यनुषङ्गः । आत्मदृष्ट्यादीनां नित्यत्वे हेत्वन्तरमाह – आत्मदृष्ट्यादीनां चेति । स्वप्ने चक्षुषोऽभावेऽपि सत्त्वान्न सा चक्षुर्जन्येति नित्यैवेत्यर्थः । चक्षुः स्वप्नेऽप्यनुपरतमिति यदि कश्चिद्ब्रूयात्तं प्रत्युक्तम् – उद्धृतचक्षुरिति । तस्य चक्षुःसत्त्वशङ्कैव नास्तीत्यर्थः । अवगतेति । अवगतं निश्चितं बाधिर्यं यस्येत्यर्थः । न च स्वप्नदृष्ट्यादेश्चक्षुराद्यजन्यत्वात्कथं दृष्टिश्रुत्यादिशब्दवाच्यत्वमिति वाच्यम् । रूपादिविषयकापरोक्षज्ञानस्येव दृष्ट्यादिशब्दवाच्यत्वादिति भावः । उक्तमर्थं विपर्यये बाधकोक्त्या द्रढयति – यदीति । न पश्येदिति । दर्शनहेतोश्चक्षुषोऽभावादित्यर्थः । न चेदं दर्शनं स्मृतिरिति वाच्यम् । तथा सति सन्निहितत्त्वेनापरोक्षावभासो न स्यात् । न च तदंशे भ्रम इति वाच्यम् । बाधकाभावात्पूर्वमननुभूतभ्रात्रादिदर्शनं न च स्यादिति भावः । इदमुपलक्षणं सुप्तोत्थितस्य सुखमहमस्वाप्समिति परामर्शहेतुभूतः सुषुप्तिकालीनानुभवोऽपि नित्योऽभ्युपगन्तव्यः । तदानीं सर्वकरणानामभावेनानित्यानुभवाभावादित्यपि द्रष्टव्यम् । न केवलं प्रत्यक्षस्यानुपपत्तिः श्रुतिरप्यनुपपन्ना स्यादित्याह – न हि द्रष्टुरिति । न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यत इत्यादिराद्या चेत्यनेन गृह्यते । तच्चक्षुरिति । चष्ट इति चक्षुर्द्रष्टा साक्षी पुरुष आत्मनि शरीरे वा येन स्वप्ने पश्यति तच्चक्षुः साक्षीत्याद्या चानुपपन्ना स्यादित्यनुषङ्गः । स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यतीत्यादिरादिशब्दार्थः । नन्वात्मदृष्टेर्नित्यत्वे कथं तत्रानित्यत्वप्रतीतिः कथं वाऽस्य लोकस्यानित्यैव सर्वाऽपि दृष्टिरिति निश्चयश्चेत्याशङ्क्य ग्राह्यानित्यदृष्टिगतमनित्यत्वादि सर्वं ग्राहिकायां नित्यदृष्टौ भासते । ग्राह्या यः पिण्डगतवर्तुलत्वादिधर्माणां ग्राहकाग्न्यादौ भानदर्शानादतो लोकस्य तथा प्रतीतिरुपपद्यत इत्याह – नित्येत्यादिना । तद्वदवभासत्वमिति । ग्राह्यवदवभासमानत्वमित्यर्थः । ग्राह्यधर्मस्य ग्राहके भानं दृष्टान्तेन स्पष्टयति – यथा भ्रमणादीति । आदिशब्देन गमनादि गृह्यते । द्वितीयेन धावत्पक्ष्यादि । ध्यायतीवेति । ग्राह्यबुद्धिगतं ध्यानादिकं ग्राहके साक्षिणि भासत इति श्रुत्यर्थः । एवं च यत्पूर्ववादिना युगपदेकज्ञानोत्पत्तिः प्रत्यक्षविरुद्धा स्यादित्युक्तं तत्परिहृतमित्याह – तस्मादिति । तस्मादित्यस्यार्थमाह – आत्मदृष्टेरिति । अनेकनिरूप्यत्वाद्यौगपद्यस्य तदभावरूपत्वादयौगपद्यस्यैकस्यां दृष्टौ तदुभयमपि नास्तीत्यर्थः । नन्वात्मदृष्टेर्नित्यत्वे कथं परीक्षाकुशलानां नैयायिकानां सर्वस्य लोकस्य च भ्रमः स्यादित्याशङ्क्य “न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः । नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ” इत्यादिश्रुतेः स्वबुद्ध्या ज्ञातुमशक्यत्वावगमात्सम्प्रदायपरम्परयैव ज्ञातव्यत्वावगमाच्च तेषां तद्रहितत्वाद्भ्रमो युक्त इत्याह – बाह्यानित्येति । न केवलं ज्ञानभेदकल्पनैव तेषां भ्रमः किन्त्वात्मभेदकल्पनाऽप्येतन्मूलो भ्रम एवेत्याह – जीवेश्वरेति । एतन्निमित्तेति । ज्ञानानित्यत्वतद्भेदकल्पनानिमित्तैव, नित्यानित्यज्ञानवतोर्जीवेश्वरयोर्विचित्रज्ञानवतां च जीवानां परमात्मनश्चैकत्वं न सम्भवतीति युक्त्याभासेन तैर्भेदकल्पनादित्यर्थः । किञ्चाऽत्मनैवायं ज्योतिषाऽऽस्ते । अयमात्मा ब्रह्म सर्वानुभूः प्रज्ञानधन एवेत्यादिश्रुतिभ्य आत्मन एव नित्यदृष्टिरूपत्वादात्मनश्च सर्वाः प्रजा यत्रैकं भवन्तीत्यादिना सर्वकल्पनानां तन्मात्रत्वेन तद्व्यतिरेकेणाभावोक्तेर्निर्विशेषत्वात्तद्रूपाया अपि दृष्टेर्निर्विशेषात्वात्तस्यामस्तीत्याद्याः सर्वाः कल्पना भ्रान्तिनिमित्ता एवेत्याह – तथाऽस्तीति । यावन्तो वाग्भेदा नामविशेषा मनसो भेदा रूपविशेषा यत्राऽऽत्मन्येकं भवन्ति सर्वे वेदा यत्रैकं भवन्ति सर्वाः प्रजा यत्रैकं भवन्तीत्यादिश्रुतेस्तद्विषयायास्तत्स्वरूपाया अत एव नित्याया निर्विशेषाया दृष्टेरस्तीत्यादिकल्पनाऽऽस्तिकानाम् । नास्तीति कल्पना शून्यवादिनाम् । अस्ति नास्तीति कल्पना दिगम्बराणाम् । अन्येषां च यथायथं सावयवत्वादिकल्पना । सा सर्वाऽपि तथा भ्रान्तिनिमित्तैवेति पूर्वेणान्वयः । ननु ते ते तार्किका आत्मनोऽस्तित्वादींस्तर्केण साधयन्ति । अतो न तेषां भ्रान्तिनिमित्तत्वमित्याशङ्क्य श्रुतिविरुद्धत्वादसङ्ग आत्मन्यनुपपत्तेस्तेषां कल्पनानां सत्त्वे मोक्षानुपपत्तेश्च तेषां तार्किकाणां कल्पना न प्रमाणपथमारोहतीत्याह – अस्ति नास्तीति । सुषुप्तौ न जानात्यन्यत्र जानातीति कादाचित्कज्ञानवत्त्वकल्पना वैशेषिकादीनाम् । आत्मा परलोकं प्रति गच्छतीति केषाञ्चित्क्रियावत्त्वकल्पना । इहैव स्थित्वा शरीरान्तरं गृह्णातीत्यन्येषाम् । देहात्मवादे क्षणिकविज्ञानवादे वाऽफलं परलोकस्थायिनोऽभावात् । अन्येषां फलवत् । देहात्मक्षणिकवादिपक्ष एव कर्मतद्वासनानामाश्रयाभावात्परलोके निर्बीजं नित्यात्मवादिनां सबीजं, दुःखमसुखरूपं वैशेषिकादिवादे । यद्वा विज्ञानवादे सोपप्लवचित्तसन्ततिरूपस्य संसारिणो हेयत्वाङ्गीकाराद्दुःखरूपत्वमात्मनः । शरीरमध्य एव वर्तत इति दिगम्बराणां मते मध्यम् । अन्येषाम् तु तद्बहिरप्यस्तीत्यमध्यम् । परोऽहमिति मत्तः परोऽयमहं ततोऽन्य इति प्रत्यक्पराग्भेदादिकल्पना अस्तीत्याद्याः परोऽयमहमन्य इत्यन्ताः कल्पना वाक्प्रत्ययागोचरे वाङ्मनसागोचरे यो विकल्पयितुमिच्छतीत्यन्वयः । आरोढुमित्यत्र खमित्यनुषङ्गः । जले मीनानां खे वयसामित्यन्वयः । वाङ्मनसभेदा आत्मनि न सन्ति तदगोचरश्चाऽऽत्मेत्यत्र क्रमेण श्रुतिद्वयमाह – नेति नेतीति । वाङ्मनसागोचरत्वे श्रुत्यन्तरमाह – को अद्धेति । अद्धा साक्षात्को वेदेति मनोगोचरत्वं क इह प्रावोचदिति वाग्गोचरत्वं च निषेधतीत्यर्थः । वाङ्मनसागोचरत्वे श्रवणमननयोरसम्भवादात्मनो वेदनं न सम्भवतिति शङ्कते – कथमिति । तर्हि माऽस्त्वात्मवेदनमित्याशङ्क्य श्रुतेरनतिशङ्क्यत्वादात्मवेदननिषेधायोगात्तत्रोपायं पृच्छामीत्याह ब्रूहीति । केन प्रकारेण स म आत्मेति विद्यां तं प्रकारं ब्रूहीत्यन्वयः । नेति नेतीत्यादिश्रुत्युदाहरणेनैवेतरनिषेधेनैव तस्य स्वप्रकाशस्य बोध इति वेदनप्रकारस्योक्तत्वात्प्रकारान्तरासम्भवादनेनैव प्रकारेणाविषयतया वेदितव्य इति मत्वा सोपहासमुत्तरमाह – अत्राऽऽख्यायिकामिति । मुग्ध इति । मूढ इत्यर्थः । स्थावरादीति । न त्वं स्थावरादिरूप इत्यर्थः । नन्वितरनिषेधेन तद्भेदज्ञानेऽपि त्वमेवम्भूत इत्यनभिधानेऽहमेवम्भूत इति ज्ञानाभावात्तदर्थं विधिमुखेन बोधनं कार्यमत आह नासीति । अपरोक्षतया प्रतीयमाने वस्तुनि विपर्ययेण गृहीते विपर्ययनिरासमात्रे यत्नः कार्यो न तु स्वरूपबोधे तस्य स्वयमेव प्रतीतेः । तथाऽपि चेन्न बोद्धुं शक्नोति तर्ह्यतिमूढत्वादुपदेशानर्ह एव स इत्यर्थः । अतः प्रकृत आत्मनो नित्यापरोक्षस्याहं मनुष्य इत्यादिनाऽऽरोपितरूपेण प्रतीतेस्तस्य नेति नेति यतो वाचो निवर्तन्त इतीतरनिषेधे कृते स्वप्रकाशस्य स्वयमेव प्रतीतिसम्भवादयमेवोपदेशप्रकारो नान्य इत्युपसंहरति – तस्मादिति । ननु शास्त्रं विनाऽप्यन्यतो विधिमुखेनाऽऽत्मावबोधोऽस्त्वित्यत आह – न ह्यग्नेरिति । शास्त्रैकसमधिगम्यत्वादात्मनो न हेत्वन्तरेण बोधः सम्भवतीत्यर्थः । शास्त्रीयोऽप्यवबोधप्रकारोऽयमेव नान्य इतीतरनिषेधमात्रेणोपरमान्निश्चीयत इत्याह – अत एवेति । इत्यनुशासनमितिपदेनार्थादनुशासनान्तरनिषेधादप्येवमेवेत्याह – तथाऽनन्तरमिति । तत्त्वमसीत्यत्रापि तत्पदार्थसामानाधिकरण्येन त्वम्पदार्थे कर्तृत्वादिनिषेधेनैव तस्य ब्रह्मत्वबोध इत्याह – तत्त्वमसीति । तत्केन कं पश्येदिति दर्शनक्रियाकर्मत्वनिषेधादप्यवेद्यतयैवाऽऽत्मनो ज्ञानमित्याह – यत्र त्वस्येति । एवमाद्यपीति । वेद्यत्वं निषेधतीति शेषः । तस्मादात्मनः कर्तृत्वादिधर्मवत्तया प्रमाणेन ज्ञातुमशक्यत्वात्तद्धर्मवत्त्वप्रत्तीतेरज्ञानमूलत्वेन भ्रमत्वात्संसारित्वेन प्रतीतस्य वस्तुतो ब्रह्ममात्रत्वादनेनैव न्यायेनेश्वरस्यापि सर्वज्ञत्वादिकोपाधिकल्पनस्य भ्रमत्वाद्भेदे मानाभावात्तस्यापि वस्तुतो ब्रह्ममात्रत्वान्न त्रय आत्मानः किन्त्वात्मैक एवाखण्डैकरस इत्यभिप्रेत्यैवम्भूतस्य कथं संसारप्रतीतिरित्याशङ्क्याऽऽत्मनः संसारस्याज्ञानत औपाधिकत्वमुत्तराध्यायसङ्गत्युपयोगितयाऽऽह – यावदयमिति । बाह्यानित्यदृष्टिलक्षणमिति । प्रत्यगात्मनो बाह्यामन्तःकरणवृत्तिं वृत्तिवृत्तिमतोरभेदादन्तःकरणमित्यर्थः । एवमध्यारोपापवादाभ्यामात्मतत्त्वं निरूप्योक्तात्मतत्त्वज्ञाने वैराग्यं हेतुरिति तदर्थं जीवावस्थाः प्रपञ्चयन्नर्थात्तस्य त्रय आवसथा इत्युपक्षिप्तं शरीरत्रयं च प्रपञ्चयितुं पञ्चमाध्यायमवतारयन्भूमिकां करोति – स एवमिति । यावदयमित्यारभ्य वोत्तराध्यायस्य भूमिका । इदानीमध्यायमवतारयति स एवमिति । – इत्येतमर्थमिति । इति जिज्ञासायामवस्थारूपमर्थमित्यर्थः । वैराग्यहेतोरिति । वैराग्यार्थमित्यर्थः । जीवावस्थारूपस्य जन्मत्रयस्यात्यन्तबीभत्सारूपत्वात्तद्विचारे वैराग्यं भवतीति भावः । पुरुषे ह वा अयमित्यत्रेदंशब्दार्थमाह – अयमित्यादिना । यो मूर्धानं विदार्य प्रविश्य स्थितः सोऽयमित्युच्यत इत्यर्थः । यज्ञादीति । अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्तीत्यादिना पञ्चाग्निविद्यायामयमर्थः प्रसिद्धः । अन्नभूत इति । व्रीह्याद्यन्नसंश्लिष्टः पुरुषाग्नौ हुतः पुरुषेण भक्षित इत्यर्थः । तस्मिन्निति । येन पुरुषेण भक्षितस्तस्मिन्नित्यर्थः । पुरुषे ह वा अयं संसार्यादितः प्रथमतः स्त्रीगर्भप्रवेशात्पूर्वं गर्भो भवतीति प्रथमममन्वयः । पुरुषे स्त्रियामिव गर्भो न दृश्यत इत्याशङ्क्य भक्षितस्यान्नस्य रसादिक्रमेण रेतोरूपेण परिणामे सति तत्संश्लिष्टस्यापि तथैव रेतःसंश्लेषेण रेतोभावे सति तेन रूपेण पुरुषस्य शरीरे विद्यमानस्तस्य स गर्भ इत्याह – रसादीति । रसादीत्यादिशब्देन शोणितमांसा गृह्यते । रसादिक्रमेण यदेतत्पुरुषे रेतस्तेनरूपेण गर्भो भवतीत्येतदाहेति पश्चादन्वयः कार्यः । ‘ननु तस्य गर्भत्वमप्रसिद्धमित्याशङ्क्य स्त्रियेव तस्य पुरुषेण भृतत्वाद्गौण्या वृत्या गर्भत्वमिति वक्तुं तदेतदित्यादि बिभर्तीत्यन्तं वाक्यम् । तद्व्याचष्टे – तच्चैतदिति । रसादिलक्षणेभ्य इति । रसादिधातुसमुदायरूपत्वाच्छरीरस्य तेषां तदवयवत्वं चरमधातुत्वाच्छरीरस्य साररूपत्वं चेत्यर्थः । आत्मभूतत्वादिति । आत्माभिमानविषयशरीरभूतत्वादात्मानं गर्भीभूतं बिभर्तीति वक्ष्यमाणानुषङ्गेण वाक्यं पूरणीयम् । उक्तमर्थं श्रुत्यक्षरारूढं करोति – आत्मनीति । अत आत्मानमित्यस्य न पुनरुक्तिदोषः । एवं पितृशरीररूपमावसथं तत्र रेतोरूपेणावस्थां चोक्त्वा मातृदेहरूपावसथं तत्र गर्भरूपेणावस्थां च दर्शयितुं पितृशरीरान्निर्गमनरूपं जन्म दर्शयति – तद्रेत इति । यदेत्युक्तं कालं विशदयति – भार्येति । पञ्चाग्निविद्यायां योषा वाव गौतमाग्निरित्यादिनाऽयमर्थो दर्शित इति वक्तुं योषाग्नावित्युक्तम् । – उपगच्छन्निति । भार्यां सङ्गच्छन्नित्यर्थः । अस्य रेतोरूपेण स्थानान्निर्गमनमित्यन्वयः । रेतो भार्यायां सिञ्चतीत्यत्र वाक्यान्तरं संवादयति – तदेतदिति ।
असावात्मा पुरुषोऽमुमात्मानं स्वीयं रेतोरूपमात्मानमस्मा आत्मने भार्यारूपाय प्रयच्छतीति श्रुत्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 ननु स्त्रीशरीरे प्रविष्टं पुरुषस्य रेतः स्त्रिया उपद्रवकारि स्याच्छारीरलग्नबाणवदित्याशङ्क्योक्तं तत्स्त्रिया इत्यादि तदेतद्व्याचष्टे – तद्रेतो यस्यामिति । पिटका व्रणरूपग्रन्थिविशेषास्तद्वन्न हिनस्तीति व्यतिरेकेण दृष्टान्तः । अक्षरार्थमुक्त्वा पिण्डितार्थमाह – यस्मादिति । अत्र प्रसङ्गात्स्त्रिया सावधानेन गर्भरक्षणं कर्तव्यमिति विधत्ते – सेति । भावयति भावयेदित्यर्थः । पालनोपायमाह –
गर्भविरुद्धेति ॥२॥ 【भाष्यम्】 【भाष्यम्】 तस्याप्यन्तर्वर्तिरक्षणं विधत्ते – सा भावयित्रीति । च शब्दस्य सेत्यत्र सम्बन्धः । साऽपीत्यर्थः । तस्या भावयितव्यत्वे हेतुत्वमाह – न हीति । स्त्रीपुरुषयोः परस्परोपकारकत्वमुक्त्वा तयोः पुत्रसाध्यवक्ष्यमाणपुण्यकर्मप्रतिनिधिरूपप्रत्युपकारसिद्ध्यर्थं पुत्रं प्रत्युपकारकत्वमाह – तमिति । अग्र इत्यत्रैकोऽग्रशब्दो जन्मनः पूर्वकालं वदति । द्वितीयो जननकालम् । अधिशब्दोऽनन्तरकालं वदतीति व्याचष्टे– अग्रे प्राग्जन्मन इत्यादिना । पूर्वमेवेत्यस्य विवरणं जातमात्रमिति । जायमानमित्यर्थः । जातकर्मादिनेति । जन्मनः प्राक्सीमन्तादिना जननकाले सुखनिष्क्रमणार्थमन्त्रजलप्रोक्षणादिनाऽनन्तरं जातकर्मादिनेत्यर्थः । पित्रा जातकर्मादिकं कर्तव्यमित्यभिधाय तत्स्तौति – स पितेति । प्रविशतीत्यादीति । गर्भो भूत्वा स मातरम् । तस्यां पुनर्नवो भूत्वा दशमे मासि जायत इति मन्त्रशेषः । मोक्षप्रकरणे पुत्रोत्पादनस्य विधानात्पुत्रोत्पादनं मोक्षसाधनमित्यभिप्रायेण पृच्छति – तत्किमर्थमिति । न कर्मणा न प्रजया धनेनेत्यादिश्रुतेर्मोक्षप्रकरणे पुत्रोत्पादनोक्तिर्वैराग्यार्थेत्यभिप्रेत्य प्रकृतश्रुत्योत्तरमाह – उच्यत इति । अत्र लोकशब्देन लोकसाधनीभूताः पुत्रपौत्रादयो गृह्यन्ते । तेषां सन्तत्या इत्यर्थः । पुत्रोत्पादनेनैवोक्तानां लोकानं सन्ततत्वं प्रसिद्धमिति वक्तुमेवं सन्तता हीति वाक्यं तद्व्याचष्टे – एवमिति । स्वेन पुत्रोत्पादने विधितः कृते सति स्वपुत्रोऽपि तथा तत्पुत्रोऽपि तथेत्येवं लोकसन्ततिर्भवतीत्यर्थः । पुत्रोत्पादनस्य लोकसन्ततिरेव प्रयोजनमिति वदन्त्या श्रुत्या तस्य मोक्षसाधनत्वं निरस्तमित्याह – न मोक्षायेत्यर्थ इति । एवं प्रसङ्गाद्गर्भधारणादिविधिमुक्त्वा प्रकृतं वैराग्यार्थं द्वितीयं जन्म दर्शयति –
तदस्येति ॥३॥ 【भाष्यम्】 【भाष्यम्】 एवं पितृशरीरेऽत्यन्ताशुचावत्यन्ताशुचिरेतोरूपेणावस्थानं ततोऽपि निर्गमनं ततो मातुरुदरे मलमूत्राक्रान्ते विष्ठाकृमिवदवस्थानं ततो योनिद्वारं निर्गमनं चेत्याद्यत्यन्तकष्टमित्युक्त्वा जन्मानन्तरमपि न स्वातन्त्र्यं किन्तु पितृनियोगात्तत्पारतन्त्र्येण सर्वदा कर्मानुष्ठातव्यमिति वदन्पुत्रेण कर्तव्यं पितुरुपकारं दर्शयति सोऽस्येति वाक्यं तद्व्याचष्टे – अस्येति । पितुर्द्वावात्मानौ देहौ स्वदेहः पुत्रदेहश्चेति । तत्र पुत्रस्योपयोगमाह – सोऽयमिति । पुत्रस्य प्रतिनिधित्वमन्यत्राप्युक्तमित्याह – तथा चेति । सम्प्रत्तिः सम्प्रदानं स्वकर्तव्यस्य पुत्रे स्थापनं यत्रोच्यते सा सम्प्रत्तिविद्येत्यर्थः । यदा तु प्रैष्यन्मन्यते स्वस्य परलोकगमनं निश्चिनोति, अथ पुत्रमाह – त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति । मयाऽध्येतव्यं ब्रह्म वेदस्त्वं त्वयाऽध्येतव्यम्, मया कर्तव्योऽयं यज्ञस्त्वं त्वया कर्तव्यः, मया सम्पाद्यो लोकस्त्वं त्वया सम्पाद्यः, इत्येवं पित्राऽनुशिष्टः सन्पुत्रोऽहं ब्रह्माऽहं यज्ञोऽहं लोक इति प्रतिपद्यते । अहं ब्रह्माध्येष्ये यज्ञान्करिष्ये लोकं सम्पादयिष्यामीति स्वीकरोतीत्युक्तमित्यर्थः । अनेन स्वशरीरतृतीयावस्थोक्ता । किमर्थं पुत्रं प्रतिनिदधाति स्वयमेव करोत्वित्याशङ्क्य स्वस्य मरणात्कर्तुमशक्तेरित्यभिप्रायेणोक्तमथास्यायमिति तद्व्याचष्टे – अथेति । एवकारार्थे मध्ये विलम्बाभावं दर्शयति – तृणजलूकेति । तृणजलूका तृणस्यान्तं गत्वा तृणान्तरमाक्रम्याऽऽत्मानं देहं पूर्वस्मात्तृणादुपसंहरति पूर्वतृणं मुञ्चति । एवमेवायमात्मा देहान्तरं परिगृह्य पूर्वदेहं मुञ्चतीति मध्ये विलम्बभावः श्रुत्यन्तर उक्त इत्यर्थः । कर्मचितं देहान्तरमुपाददानः पुनर्जायत इत्यन्वयः । यद्यपि देवयानपितृयाणमार्गाभ्यां गच्छतां लोकान्तर एव शरीरग्रहणमुक्तमुभयव्यामोहात्तत्सिद्धेरिति सूत्रे । आकाशाच्चन्द्रमसमेष सोमो राजेति श्रुतेः । न तु पूर्वदेहत्यागकाल एव । तथाऽपि सविज्ञानो भवति सविज्ञानमेवान्ववक्रामतीति श्रुतौ वासनामयं भाविशरीरमुत्क्रान्तिकाल एव गृह्णातीत्युक्तत्वात्तदभिप्रायं तृणजलूकानिदर्शनमिति द्रष्टव्यम् । तदस्येति । यन्मृत्वा प्रतिपत्तव्यं तदस्य तृतीयं जन्मेत्यन्वयः । यस्य जन्मद्वयमुक्तं तस्यैव तृतीयं जन्म वक्तव्यम् । औचित्यात् । अन्यथाऽस्य पितुः पूर्वजन्मद्वयस्यानुक्तत्वेनेदमस्य पितुस्तृतीयं जन्मेत्यनन्वयापत्तेरिति शङ्कते – नन्विति । प्रेतस्येति । म्रियमाणस्येत्यर्थः । यत्कुमारं भावयत्यात्मानमेव तद्भावयति सोऽस्यायमात्मेति च पितापुत्रयोरभेदस्योक्तत्वात्पुत्रस्योक्तं जन्मद्वयं पितुरेव तस्यैव च तृतीयं जन्मोच्यते नान्यस्येति न तृतीयत्वविरोध इत्याह – नैष दोष इति । यद्वा पितुर्मरणानन्तरं पुनर्जन्मेत्युक्तेः पुत्रस्याप्येवमेव ज्ञातुं शक्यत इत्यभिप्रायेण पितुरित्युक्तमित्याह – सोऽपि पुत्र इति । यथा पितेत्यनन्तरं ततश्च पुत्रस्यैव तृतीयं जन्मोक्तमिति शेषः । एवं च तदस्य तृतीयं जन्मेति वाक्ये तच्छब्देन तत्प्रकारकत्वमुच्यते । अस्येति पुत्र उच्यते । अस्य पुत्रस्य तत्प्रकारकं तृतीयं जन्मेति वाक्यार्थ इति भावः । ननु पर्यायद्वयोक्तं जन्म यथापुत्रगतमेवैवं तृतीयपर्यायोक्तमपि साक्षात्पुत्रगतमेवोच्यतां किं तयोरेकात्मत्वविवक्षयेत्याद्यपरिहारे दोषमाशङ्क्याह – तदन्यत्रोक्तमिति ।
अयं भावः – पुत्रस्य पितरं प्रत्युपकारप्रदर्शनार्थं तत्प्रतिनिधित्व उक्ते पिता स्वयमेव कर्म करोतु किं प्रतिनिधिनेत्याशङ्कते तत्परिहारार्थं पितुर्मरणाभिघानं प्रसक्तमिति मरणानन्तरं वक्तव्यं तृतीयं जन्म लाघवार्थं तस्मिन्नेवोक्तमिदं जन्मत्रयं सर्वेषां पूर्वेषामप्यस्तीति प्रदर्शयितुं च पुत्रे वक्तव्यमपि तृतीयं जन्म पितुर्युक्तमिति । पूर्वाध्यायेऽध्यारोपप्रकरणोक्तमावसथत्रयं वैराग्यार्थमिह प्रपञ्च्य तस्मिन्नेवाध्याये तस्य संसारस्य निवर्त्यत्वेन तदपवादार्थं यत्तत्त्वज्ञानमुक्तं स एतमेवेत्यादिना तत्सफलं प्रपञ्चयितुं तदुक्तमृषिणेयादिग्रन्थः ॥४॥ 【भाष्यम्】 【भाष्यम्】 तत्र तच्छाब्दार्थमाह – एवमित्यादिना । एतद्वस्त्विति । संसारसमुद्रे पतनं ततस्तत्त्वज्ञानाच्च तन्निवृत्तिरित्येतद्वस्त्वित्यर्थः । आहेति । ब्राह्मणमिति शेषः । भावनेति । आत्मानात्मविवेकभावनेत्यर्थः । वाग्गन्यादीनामिति । उक्तानि जन्मानि शरीरग्रहणरूपाणि तदुपलक्षतः सर्वेऽपि संसारो वागादिकरणतदधिष्ठातृदेवतादिसङ्घातस्य लिङ्गशरीरस्यैव न त्वसङ्गस्य व्यापिनो ममेत्यर्थः । अनेन पदार्थविवेकपूर्वकमात्मज्ञानमुक्तम् । यद्वा सर्वज्ञादात्मनः सकाशादेवैषां जन्मानीत्यन्ववेदम् । एतज्जन्महेतुभूतं मूलकारणमात्मानं ज्ञातवानस्मीत्यर्थः । यद्यपि गर्भे श्रवणादिज्ञानसामग्री नास्ति तथाऽपि पूर्वजन्मकृतश्रवणादिसामग्रीवशादेव प्रतिबन्धनिवृत्तौ सत्यां गर्भेपि ज्ञानोत्पत्तिः सम्भवतीति भावः । इतः पूर्वकालीनं बन्धं दर्शयति – शतमिति । अभेद्यानीति । तत्त्वज्ञानमन्तरा तत्प्रवाहाविच्छेदादित्यर्थः । अधोऽध इति । अधो लोकेष्वेव निकृष्टलोकेष्वेवारक्षन्नित्यर्थः । यद्वाऽध इति श्रौतं पदमथेत्यर्थे व्याचष्टे – अधोऽथेति । अथानन्तरमिदानीमित्यर्थः । मन्त्रद्रष्टुरभिप्रायमाह – अहो इति । इदमाश्चर्यं मम संवृत्तमित्यभिप्रायेण मन्त्रमुक्तवानित्यर्थः । मन्त्रद्रष्टुर्नामनिर्देशपूर्वकं तस्य तात्पर्यं वक्तुं गर्भ एवैतदित्यादि ब्राह्मणम् । तद्व्याचष्टे – गर्भ इत्यादिना ।
एतत्पूर्वब्राह्मणोक्तमर्थजातमेवं मन्त्रोक्तप्रकारेणोवाचेत्यन्वयः ॥५॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानस्याव्यभिचरितफलत्वज्ञापनाय वामदेवेन ज्ञानफलं प्राप्तमिति वक्तुं स एवं विद्वानिति वाक्यं तद्व्याचष्टे – स वामदेव इति । शरीरस्य पुनरुत्पत्तिशङ्कां वारयति – शरीरोत्पत्तीति । तत्त्वज्ञानेनाविद्यादिनाशादित्यर्थः । परमात्मभूतः सन्निति । ऊर्ध्वशब्दस्योपरितनवाचित्वात्परमात्मवस्तुन एव कदाचिदप्यधोभावरूपनिकर्षाभावेन निरङ्कुशोपरितनभावादूर्ध्वशब्दार्थत्वमित्यर्थः । प्रसिद्धं स्वर्गलोकं वारयति – अमुष्मिन्यथोक्त इति । इन्द्रियागोचरत्वेनामुष्मिन्निति निर्देशः । स्वर्गशब्दस्य निरतिशयसुखसामान्यवाचित्वाद्ब्रह्मानन्दस्यैव तथाविधत्वात्तस्यैव मुख्यं स्वर्गत्वम् । वैषयिकस्य तु स्वर्गत्वमापोक्षिकमित्यर्थः । उक्तस्य स्वर्गस्य ब्रह्मरूपस्य स्वस्माद्भेदमाशङ्क्याऽऽह – स्वस्मिन्निति । आत्मशब्दस्यान्तःकरणाद्यर्थत्वं वारयति – स्वे स्वरूप इति । अमुष्मिन्स्वर्गे मर्त्यदेहादिभावं विहाय स्वात्मभावेनैव स्थित इत्याह – अमृत इति । उक्तस्वर्गलोके सर्वकामावाप्तिरिति भ्रमं वारयति – पूर्वमिति । जीवन्मुक्तिदशायामाप्तकामतया सर्वात्मत्वेनेत्यर्थः । सोदाहरणस्येति ।
उदाहरणं वामदेव इत्यर्थः ॥६॥ 【भाष्यम्】 【भाष्यम्】 पूर्वस्मिन्नध्याये जन्मत्रयनिरूपणेन वैराग्यं निरूपितं ज्ञानोत्पत्त्यर्थम् । न च पदार्थशोधनं विना वैराग्यमात्रेण ज्ञानोत्पत्तिरिति पदार्थशोधनपूर्वकं वाक्यार्थं कथयितुं षष्ठोऽध्याय इत्यभिप्रेत्य पदार्थशोधनेऽधिकारिणं दर्शयन्वाक्यमवतारयति – ब्रह्मविद्येति । वामदेवाद्याचार्येति । आदिशब्देन तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवदित्यादिनोक्ता देवादयो गृह्यन्ते । अधुनेति । पूर्वोक्तरीत्या वैराग्योत्पत्त्यनन्तरमित्यर्थः । आजीवभावादिति । संसारस्य हेतुभूताविद्यातत्कार्येष्वात्मभावसहिताद्व्यावर्तितुं संसारं परित्यक्तुमिच्छन्त इत्यर्थः । विचारप्रकारमेव वाक्यान्वयेन स्पष्टीकर्तुं पृच्छति – कथमिति । नन्वयमात्मेति विशेषतो निश्चये स क इति प्रश्नानुपपत्तिः । तद्विचारेण वा न किञ्चित्प्रयोजनमित्याशङ्क्याऽऽत्मानं विशिनष्टि – यं चेति । उपास्मह उपासितुं प्रवृत्ता इत्यर्थः । वामदेवो यमात्मानमुपास्यामृतोऽभवद्वयमपि तमात्मानमुपासितुं प्रवृत्ताः स क इति प्रश्नार्थ इत्यर्थः । उपासनं नामोप सामीप्येनैक्येन तस्यैव निरुपचरितसामीप्यत्वादैक्येनापरोक्षीकृत्याऽऽसनं तद्रूपेणावस्थानं यत्तदुच्यते । यद्वाऽहं सुखीत्यादिव्यवहारेषु तमेव वयमप्युपास्महे तमेवाऽऽत्मत्वेन स्वीकृत्य स्थिताः । अनात्मनोऽहमिति प्रतीत्यनुपपत्तेः स आत्मा क इति विचारार्थः । न चायमात्मेति निश्चये विचारायोगः । तस्यैव कार्यकरणसङ्कीर्णत्वेन विचारोपपत्तेरिति । ननु भूतानां व्याकरणार्थं यः प्रविष्टः स एवाऽऽत्मेति निर्धारणसम्भवाद्विचारानुपपत्तिरित्याशङ्क्यैवमपि द्वयोः प्रविष्टत्वेन स्मर्यमाणत्वान्न निर्धारणमिति वक्तुं द्वयोः प्रविष्टत्वं स्मृतमित्याह – एवं जिज्ञासेति । अतिक्रान्तेति । अतिक्रान्तौ पूर्वमुक्तौ यौ विशेषौ देहे प्रविष्टौ प्राणात्मानौ तद्विषया श्रुतिजन्यानुभवजन्यसंस्कारजनिता स्मृतिरित्यर्थः । तामेव स्मृतिं स्वरूपतो दर्शयति – तं प्रपदाभ्यामिति । तमिमं पुरुषं शरीरं प्रपदाभ्यां पादाग्राभ्यां ब्रह्मापरब्रह्मरूपः प्राणः प्रविष्ट इत्यर्थः । अन्यस्य प्रवेशे श्रुतिमाह – स एतमिति । श्रुतिभ्यां लब्धमर्थमाह – एतमेवेति । अत्रेति श्रुतिभ्यामित्यध्याहृत्येति श्रुतिभ्यामितरेतरप्रातिकूल्येनेतरेतराभिमुखतयैतमेव पुरुषशरीरं प्रतिपन्ने प्रविष्टे द्वे ब्रह्मणी इति स्मृतिरजायतेत्यन्वयः । न त्वेतमेवेत्यनेनैतमेव पुरुषं ब्रह्म ततममपश्यदिति वाक्यं द्वे ब्रह्मणी इत्यनेन द्वे ब्रह्मणी वेदितव्ये इति वाक्यं च द्वयोः प्रवेशे मानतयोपन्यस्तमिति भ्रमितव्यम् । आद्यवाक्ये द्वयोः प्रवेशाप्रतीतेः । द्वितीये च शब्दब्रह्मपरब्रह्मणोरभिधानेन तयोर्द्वयोः प्रवेशे मानत्वायोगादिति । तथाऽपि तयोर्द्वयोः कथमात्मत्वशङ्केत्यत आह – ते चेति । तयोरन्यतरेण विना शरीरस्थित्यभावात्तयोरात्मत्वशङ्केत्यर्थः । एवं विचारापेक्षितमात्मद्वयस्मृतिमुक्त्वा विचारमाह – तयोरन्यतर इति । आत्मा वा इदमेक एवेत्येकस्यैव ज्ञेयत्वोपक्रमान्न द्वयोरुपास्यत्वमित्यर्थः । कः स आत्मेति । य उपास्य आत्मा स क इत्यन्वयः । पप्रच्छुरिति । कतरः स आत्मेति वाक्येनेति शेषः । एवं विचारे क्रियमाणेऽतिपरिशुद्धान्तःकरणत्वात्तेषां प्रपदाभ्यां प्रपन्ने करणत्वेनानात्मत्वनिश्चयो मूर्ध्ना प्रविष्ट उपलब्धृत्वेनाऽऽत्मत्वनिश्चयश्चाभूदित्याह – पुनरित्यादिना । विशेषेति । विचारणास्पदप्राणात्मद्वयविषयैकस्मिन्करणत्वेनापरस्मिन्नुपलब्धृत्वेन प्रकारेण विशेषरूपा मतिरजायतेत्यर्थः । ननु द्वयोः सत्त्व इयं विशेषमतिः स्यात्तदेव नास्तीति शङ्कते – कथमिति । चक्षुषा पश्यामीत्यादिप्रकारेण द्वयोः प्रतीतेर्नैवमित्याह – द्वे इति । येनोपलभते यश्चोपलभते ते द्वे उपलब्धिकर्तृकरणे वस्तुनी उपलभ्येते इत्यन्वयः । तत्र किं करणमित्यत आह – अनेकेति । चक्षुःश्रोत्राद्यनेकभेदभिन्नेनेत्यर्थः । अनेन यदनेकात्मकचक्षुरादिकरणसंघातात्मकं प्राणस्वरूपं तत्संहतत्वात्परार्थमिति परशेषत्वेन करणमित्युक्तम् । उपलब्धरि त्वनेकात्मकत्वाभावान्न परार्थत्वेन शेषत्वम् । किन्तु शेषित्वमेवेति वक्तुमेक एवेत्युक्तम् । अनेन करणस्य परार्थत्वं परं शेषिणमन्तराऽनुपपन्नं सत्परं व्यतिरिक्तमुपलब्धारं गमयतीति तस्मिन्नपि तत्प्रमाणमित्युक्तम् । इदानीं करणानामेवोपलब्धृत्वं तद्व्यतिरिक्तोपलब्धा नास्तीति वदन्तं नास्तिकं प्रति प्रमाणान्तरमाह – करणान्तरेति । पूर्वं चक्षुषा रूपं दृष्ट्वा पश्चादुद्धृतचक्षुः स्मरति रूपमद्राक्षमिति । तथा योऽहमद्राक्षं स एवेदानीं स्पृशामीति प्रतिसन्दधाति । तदुभयं व्यतिरिक्तोपलब्धुरभावे न स्यात् । अन्यानुभूतेऽन्यस्य स्मृतिसन्धानयोरदर्शनादित्यर्थः । एवमनेकात्मकस्य करणत्वमुक्त्वा तत एव तस्याऽऽत्मत्वं नास्तीत्याह – तत्र न तावदिति । तयोर्मध्य इत्यर्थः । अर्हतीत्यनन्तरं किन्तु परिशेषादुपलब्धाऽऽत्मा भवितुमर्हतीति वक्ष्यमाणान्वयेन वाक्यं पूरणीयम् । एवमर्थमुपवर्ण्य तमर्थं श्रुत्यक्षरारूढं कर्तुं पृच्छति – केन पुनरिति । श्रुत्यारूढं करोति । उच्यत इति । येनेति । तृतीयया करणत्वं चक्षुरादेरुक्तमित्यर्थः । वाक्करणेति । वाग्रूपकरणेनेत्यर्थः । वाचमिति करणं नोच्यते तस्य येनेत्यनेनोक्तत्वात्किन्तु वक्तव्यमुच्यत इत्याह – नामात्मिकामिति । साध्विति ।
गौरितीदं नाम साधुगावीति नामासाध्विति व्याकरोति व्याकरणेन व्यक्तीकरोतीति चार्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 ननु चक्षुरादीनां करणत्वेऽपि प्रपदाभ्यां प्रविष्टस्य प्राणस्य करणत्वे किमायातमित्याशङ्कते – किं पुनस्तदिति । तत्र प्राणस्यैव करणत्वं वक्तुं तावद्धृदयमनःशब्दवाच्यस्य चक्षुरादिभेदभिन्नत्वमाह – उच्यत इति । यदेतद्धृदयमित्यत्र यच्छाब्दार्थमाह – यदुक्तमिति । रेत इति । सारभूतं वीर्यमित्यर्थः । प्रजानां रेतो हृदयमित्यादिषु मनसश्चन्द्रमा इत्यन्तासु श्रुतिषु यदुक्तं हृदयं मनश्चेति तदेवैतत्त्वया पृष्टं करणमित्यर्थः । तदेवैकमेव सच्चक्षुरादिभेदेनानेकधाभूतमिति श्रुतिगतद्वितीयैतच्छब्दार्थमाह – एकमेतदनेकधेति । अत्र येन चक्षुरादिना दर्शनादिक्रियां करोति सङ्घातात्मकः पुरुषः, तच्चक्षुरादिकं प्रजानां रेतो हृदयमित्यादिषु मनसश्चन्द्रमा इत्यन्तासु श्रुतिषु यदुक्तं हृदयं मनश्चेति करणं तदेतत्त्वया पृष्टमेतदेवैकं सदनेकधा भिन्नं चेति श्रुतिगतयेनेतितृतीयान्तयदितिप्रथमान्तयच्छब्दद्वयस्यैतदितिप्रथमान्तैतच्छब्दद्वयस्य चान्वयो दर्शितः । एकस्यैवानेकात्मकत्वं विशदयति – एतेनेत्यादिना । सर्वकरणेति । सर्वाणि करणानि विषयाश्च व्यापारो स्येतिविग्रहः । करणानां विषयाणां च हृदयशब्दवाच्यबुद्धिव्यापारकत्वे श्रुतिमाह – तथा चेति । प्रज्ञया चिदाभासयुक्तया बुद्ध्या वाचं करणं समारुह्य बुद्धेर्वागात्मना परिणामे सति तद्बुद्धिद्वारा स्वयमप्यात्मा वागभिमानी भूत्वाऽनन्तरं वाचोऽपि बुद्धिव्यापाररूपाया नामात्मना वक्तव्यशब्दरूपेण परिणामे सति वाचा वाग्द्वारे सर्वाणि नामान्याप्नोति तत्स्फुरणात्मना स्वयमपिवर्तत इति श्रुत्यर्थः । एवं प्रज्ञया चक्षुरित्यादिष्वप्यर्थो द्रष्टव्यः । अत्र बुद्धेर्वागाद्यात्मना परिणामो वागादेश्च नामात्मना परिणाम उक्त इत्यर्थः । “मनसा ह्येव पश्यती”त्यत्र मनसः साक्षाद्दर्शनादिकरणत्वायोगाच्चक्षुरादिभावमापन्नस्य दर्शनादिकरणत्वमुक्तमिति भावः । एवं हृदयेन हीत्यत्रापि द्रष्टव्यम् । आदिशब्देन हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीति रूपाणां हृदयशब्दितबुद्ध्यात्मकत्वमुक्तं सङ्ग्राह्यम् । एवं हृदयस्य सर्वकरणात्मत्वमुक्त्वेदानीं तस्य प्राणात्मत्वमाह – तदात्मकश्चेति । एवं हृदयमतोद्वारा प्राणस्य सर्वकरणात्मकत्वमुक्त्वा साक्षादेव प्राणस्य तदाह – करणसंहतीति । तव वयं स्मो न शक्ष्यामस्त्वदृते जीवितुम् । इतरे चक्षुरादयः प्राणा इत्येवाऽख्यायन्त इत्यादिप्राणसंवादस्थवचनबलात्करणसम्हतिरूपत्वं करणसमूहरूपत्वं प्राणस्यावगतमित्यर्थः । आदिशब्देन संवर्गविद्यादिगतं “प्राणमेव वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः स यदा प्रतिबुध्यते प्राणादधि पुनर्जायन्ते”इत्यादिवाक्यं ग्राह्यम् । करणस्यानात्मत्वमुक्तमुपसंहरति – तस्मादिति । ब्रह्मेति । ब्रह्मत्वेनोपास्यो ज्ञातव्य आत्मेत्यर्थः । तर्हि कस्तथा ज्ञातव्य इत्यत आह – पारिशेष्यादिति । वक्ष्यमाणा इति । संज्ञानमित्यादिना वक्ष्यमाणा इत्यर्थः । येन वा पश्यतीत्यादि मनश्चैतदित्यन्तं प्राणस्य करणत्वेनानात्मत्वार्थमित्युक्त्वा संज्ञानमित्यादि वश इत्यन्तमन्तःकरणवृत्तिद्वारा तद्व्यतिरिक्तमुपलब्धारं दर्शयितुमाह – तदन्तःकरणेति । निर्विशेषस्य कथं वृत्तिविषयत्वमन्यथा कथं तदुपलब्ध्यर्थता तासां स्यादत आह – बाह्यान्तर्वर्तिविषयेति । तर्हि तासामन्यविषयत्वे ततो बाह्यान्तविषयप्रतीतिरेव स्यान्नाऽऽत्मन इत्यत आह – उपलब्ध्यर्था इति । निर्विशेषत्वेनाविषयत्वेन चैतस्य साक्षादिन्तया ज्ञानासम्भवेऽपि संज्ञानाद्यन्तःकरणवृत्तिसाक्षितयाऽविषयत्वेनैव तस्योपलब्धिः सम्भवतीत्यर्थः । अविषयत्वार्थं प्रज्ञानरूपस्येति विशेषणम् । प्रकृष्टा ज्ञप्तिः स्वप्रकाशचैतन्यं तस्य विषयत्वे स्वप्रकाशत्वव्याहतिरत्यर्थः । ब्रह्मण इति विशेषणं निर्विशेषत्वार्थम् । सविशेषत्वे हि तस्य परिच्छेदेन ब्रह्मत्वं न स्यादित्यर्थः । नन्वसङ्गस्य कथमन्तःकरणवृत्तिसम्बन्धः स्यादत आह – अन्तःकरणोपाधिस्थस्येति । असङ्गस्याप्यन्तःकरणप्रतिबिम्बद्वारा तद्वृत्तिसम्बन्ध इत्यर्थः । चेतनभाव इति । यया वृत्त्या चेतन इत्युच्यते जन्तुः सा वृत्तिः सर्वदा सर्वशरीरव्यापिनी संज्ञानमित्यर्थः । कलादिपरिज्ञानं चतुःषष्ठिकलादिजन्यं लौकिकं ज्ञानमित्यर्थः । प्रज्ञतेति । तात्कालिकप्रतिभेत्यर्थः । ययोत्तम्भनं भवति सा वृत्तिर्धृतिरित्यन्वयः । शरीराद्युत्तम्भकस्य वृत्तिविशेषस्य धृतित्वे लौकिकं व्यवहारं मानमाह – धृत्येति । तत्र स्वातन्त्र्यमिति । मनस ईषा मनीषेति व्युत्पत्तेरित्यर्थः । रुजादिदुःखित्वभाव इति । रोगादिजन्यदुःखित्वप्राप्तिरित्यर्थः । सङ्कल्पनमिति । सामान्येन प्रतिपन्नानां रूपादीनां शुक्लादिरूपेण सम्यक्कल्पनमित्यर्थः । जीवनक्रियेति । जीवनप्रयत्न इत्यर्थः । स्त्रीव्यतिकरेति । स्त्रीसम्पर्क इत्यर्थः । इतिशब्दस्य प्रदर्शनार्थत्वमाह – इत्येवमाद्या इति । एवमाद्या वृत्तयः प्रज्ञानस्य नामधेयानि भवन्तीत्युत्तरेणान्वयः । अत्र प्रज्ञानशब्देन पूर्ववत्प्रज्ञता वृत्तिरूपा नोच्यते । तस्याः संज्ञानादिनामवत्त्वानुपपत्तेः । किन्तु शुद्धचैतन्यमुच्यत इत्याह – प्रज्ञप्तिमात्रस्येति । नन्वन्तःकरणवृत्तीनां शब्दरूपत्वाभावात्कथं प्रज्ञाननामधेयत्वमित्याशङ्क्य नामधेयस्य नामार्थोपलब्धिहेतुत्वात्संज्ञानादिवृत्तीनामपि प्रज्ञानोपलब्धिहेतुत्वात्तेन गुणेन तन्नामधेयत्वमुपचारादुच्यते न मुख्यया वृत्येत्याह – उपलब्धुरुपलब्ध्यर्थत्वादिति । उपलब्धुरुपलब्ध्यर्थत्वं वा कथमित्याशङ्क्य तदुपाधित्वादित्याह – शुद्धेति । यत उपाधिभूता उपलब्ध्यर्था अतो गौण्या वृत्त्या नामधेयानि भवन्तीत्यर्थः । यद्वा श्रुतौ संज्ञानादिशब्दैर्न वृत्तय उच्यन्ते किन्तु संज्ञानादिशब्दा एव लक्षणयाऽभिधीयन्ते गामुच्चारयतीत्यत्रेव । तथा च संज्ञानादिशब्दाः संज्ञानादिवृत्तिविशिष्टप्रज्ञानस्य नामधेयानि सन्ति, तद्द्वारा शुद्धस्यैव प्रज्ञानस्य लक्षणया नामधेयानीत्याह – तदुपाधिजनितेति । वृत्त्युपाधिजनितो गुणो वृत्त्युपहितरूपं तन्नामधेयानि सन्ति सर्वाण्येवैतानि संज्ञानादीनि संज्ञानादिशब्दाः प्रज्ञानस्यैव नामधेयानि भवन्तीत्यन्वयः । प्राणन्नेवेति ।
प्राणनक्रियां कुर्वन्प्राणो नाम भवतीत्यनेन प्राणवृत्त्युपाधिकमात्मनः प्राणनामवत्त्वमुक्तम् । यद्यपि संज्ञानादिनाम्नां तत्र नोपाधिकत्वमुक्तं तथाऽपि तुल्यन्यायतयैतेषामप्यौपाधिकत्वमुक्तप्रायमिति भावः । एतदुक्तं भवति । संज्ञानादिशब्दाः प्रकाशात्मकवस्तुवाचिनः । न च साक्षादन्तःकरणवृत्तीनां जडानां प्रकाशात्मकत्वं सम्भवतीति प्रकाशात्मकवस्तुन्यध्यासादेव तासां प्रकाशात्मकत्वमिति कल्पयन्तोऽधिष्ठानभूतमतिरिक्तं प्रकाशं गमयन्तः पर्यवसानगत्या प्रकाशात्मनः प्रज्ञानस्यैव नामधेयानीति । अत्र संज्ञानादीनामनित्यत्वेन जडानां वृत्तीनां प्रकाशात्मकवस्तुवाचकसंज्ञानादिनामत्वानुपपत्तेस्तद्व्यतिरिक्तः कश्चित्प्रकाशारूपोऽस्तीत्युक्तम् । तथा संज्ञानादिशब्दवाच्यत्वोक्त्या तत्प्रज्ञानं विज्ञानं प्रज्ञानमित्यत्रेव प्रज्ञतारूपा वृत्तिर्न भवतीत्युक्तम् । तस्याः संज्ञादिवाच्यत्वानुपपत्तेः । तथा संज्ञानादीनि सर्वाण्येकस्य प्रज्ञानस्य नामानीत्युक्त्या च तत्प्रज्ञानमेकं सर्ववृत्त्यनुगतमित्युक्तं तदनेकत्वे तद्वृत्तिगतानां प्रज्ञानानां तत्तन्नामकत्वेन सर्वनामकत्वानुपपत्तेः । प्रज्ञानस्येत्येकवचनानुपपत्तेश्च । अतो येन वा पश्यतीत्यादिना नामधेयानि भवन्तीत्यन्तेन सर्वकरणतद्वृत्तिव्यतिरिक्तः स्वप्रकाशात्मकः सर्वसाक्षी सर्ववृत्त्यनुगत एक आत्मा शोधितः ॥२॥ 【भाष्यम्】 【भाष्यम्】 एवं शोधितस्याऽऽत्मनः प्रतिशरीरं नानात्वं वारयितुमेष ब्रह्मेत्यादिवाक्यं तद्व्याचष्टे – स एष इत्यादिना । एष इत्यस्यार्थमाह – प्रज्ञानरूप आत्मेति । प्रज्ञानं ब्रह्मेति मुख्यब्रह्मताया वक्ष्यमाणत्वादिह मूर्धद्वाराऽनुप्रविष्टं समष्टिलिङ्गशरीराभिमानी हिरण्यगर्भः प्राणः प्रज्ञात्मादिशब्दैस्तत्र तत्रोक्तमपरं ब्रह्मोच्यत इत्याह – अपरमित्यादिना । सर्वशारीरेत्यनेन समष्टिस्थूलशरीरमुच्यते । अन्तःकरणोपाधिष्वित्यनेनापि समष्टिलिङ्गशरीरमुक्तम् । आद्याभ्यां प्राणप्रज्ञात्मशब्दाभ्यां क्रियाशक्तिज्ञानशक्तिमत्त्वमुक्तम् । द्वितीयाभ्यां तु तत्र तत्र तथा निर्दिष्ट इत्युच्यत इत्यपौनरुक्त्यम् । ननूक्तप्रज्ञानात्मैवापरं ब्रह्मेत्यत्र किं प्रमाणमित्याशङ्क्य प्रवेशवाक्यं प्रमाणमिति वक्तुमेष इन्द्र इति वाक्यं व्याचष्टे – एष इति । गुणादिति । इदमदर्शमिति श्रुत्युक्तगुणयोगादित्यर्थः । प्रवेशवाक्ये प्रविष्टस्येन्द्रत्वाभिधानाद्धिरण्यगर्भस्यापीन्द्रत्वोक्तौ प्रविष्टप्रत्यभिज्ञानात्प्रवेष्टुरेव प्रविष्टसर्वरूपत्वादभेदः सिध्यतीति भावः न तु पारमैश्वर्यगुणयोगात्प्रज्ञानात्मेन्द्रः परमेश्वर इत्यर्थो ग्राह्यः । प्रज्ञानात्मनः परमेश्वराभेदस्य प्रज्ञानं ब्रह्मेत्यनेन वक्ष्यमाणत्वात्परमेश्वरत्वगुणवत्त्वप्रतिपादनस्य च प्रकरणविरोधात् । न च हिरण्यगर्भाद्यात्मवन्मायाविशिष्टपरमेश्वरात्मत्वमनेनोच्यत इति वाच्यम् । तथा सति भाष्योक्तगुणादितिहेत्वनन्वयादेष ब्रह्मैष इन्द्र एष प्रजापतिरिति पूर्वोत्तरपर्यायेष्विव गुणयोगाभावेऽप्युपपत्तेश्चेति । अस्य व्याख्यानस्य क्लिष्टत्वं मनसि निधायार्थान्तरमाह – देवराजो वेति । प्रजापतेर्हिरण्यगर्भाद्भेदमाह – यः प्रथमज इति । स लिङ्गशरीराभिमान्ययं तु स्थूलशरीराभिमानीति भेद इत्यर्थः । तत्राद्भ्य एव पुरुषं समुद्धृत्यामूर्छयन्मुखं निरभिद्यतेत्यादि वाक्यं प्रमाणमाह – यत इति । देवग्रहणं मनुष्यादीनामुपलक्षणम् । तथा च सर्वे जीवात्मान एष एवेत्यर्थः । एवमेष ब्रह्मेत्यादिवाक्येष्वैक्ये सामानाधिकरण्यं गृहीत्वा सर्वभूतस्थस्याऽऽत्मन एकत्वमुक्त्वा सजातीयभेदं निराकृत्य तदुपाधीनां भूतभौतिकानामपि बाधायां सामानाधिकरण्यमाश्रित्याऽऽत्मव्यतिरेकेणाभावं तस्य विजातीयभेदनिराकरणार्थं वक्तुमिमानि चेत्यादिवाक्यं तद्व्याचष्टे – इमानि चेति । एतान्यन्नान्नादत्वेन पूर्वमुक्तानीति वक्तुं विशिनष्टि – अन्नेति । सर्पादीनां न केवलं क्षुद्रमिश्रत्वं किन्तु सर्पान्तरादीन्प्रति बीजत्वं चेत्याह – कारणानि चेति । द्वैराश्येनेति । स्थावरजङ्गमभेदेन निर्दिश्यमानानीत्यर्थः । स्वेदजा(न्ता)नि जङ्गमान्युद्भिज्जानि स्थावराणीत्याह – उच्यन्त इति । जङ्गममित्यस्य व्याख्या यच्चलतीति । स्थावराणामपि वाय्वादिना चलनमस्तीत्याशङ्क्याऽऽह – पद्भ्यामिति । स्थावरमचलमित्यनन्तरं सर्वं तदेष एवेति शेषः । तत्सर्वमेष एवेत्यत्र हेतुं वक्तुं सर्वं तत्प्रज्ञानेत्रमित्यादि प्रतिष्ठेत्यन्तं वाक्यं तद्व्याचष्टे – सर्वमित्यादिना । नीयतेऽनेनेति । अनेन प्रज्ञानेन सत्तां नीयते सत्तां प्राप्यते । सत्तावत्क्रियत इत्यर्थः । यद्वा स्वस्वव्यापारेषु प्रवर्त्यत इति वा । नन्वेम्भूतं ब्रह्मैवेत्युपनिषत्सु प्रसिद्धं न तु प्रज्ञानमित्याशङ्क्य वस्तुतः प्रज्ञानस्यैव तत्र तत्र ब्रह्मशब्देनाभिधानान्न दोष इत्युक्तं प्रज्ञानं ब्रह्मैवेति । यद्वा कोऽयमात्मेत्यारभ्यैते सर्वे देवा इत्यन्तं त्वम्पदार्थशोधनार्थमिमानि चेत्यादि प्रतिष्ठेत्यन्तं तत्पदार्थशोधनार्थम् । तत्र पक्षे प्रकृष्टं ज्ञानं प्रज्ञानमिति तत्पदार्थो ब्रह्मैवोच्यते । पञ्चभूतादि स्थावरान्तं सर्वं तत्प्रज्ञानेत्रं ब्रह्मनेत्रमित्यर्थः । प्रज्ञासत्तयैव सर्वस्यापि सत्तावत्त्वं साधयितुं प्रज्ञाने प्रतिष्ठितमित्युक्तम् । तद्व्याचष्टे – प्रज्ञाने ब्रह्मणीति । न केवलं प्रज्ञासत्तयैव सत्त्वं सर्वस्य किन्तु प्रवृत्तिरपि तदधीनैवेत्याह – प्रज्ञानेत्र इति । पूर्ववदिति । नीयते प्रवर्त्यतेऽनेनेति व्युत्पत्तेर्नेत्रं प्रवर्तकमित्यर्थः । लोक इति । सर्वं जगदित्यर्थः । यद्वा पूर्वं नेत्रशब्देन सर्वस्य सत्ताव्यापारहेतुत्वमुक्तमिदानीं सर्वस्य स्फुरणहेतुरप्ययमेवेत्युच्यत इत्याह – प्रज्ञा चक्षुर्वेति । चक्षुरिति स्फुरणमित्यर्थः । जगत इव प्रज्ञानस्यापि स्फुरणप्रतिष्ठयोरन्याधीनत्वमाशङ्क्य तस्य स्वप्रकाशत्वात्स्वमहिमप्रतिष्ठितत्वेनाऽऽश्रयान्तराभावाच्च नैवमित्याह – प्रज्ञाप्रतिष्ठेति । यद्वा सर्वस्य जगतः सत्तास्फूर्त्योः प्रज्ञानाधीनत्वादुत्पत्त्यादिष्वप्यवस्थासु प्रज्ञाने प्रतिष्ठितत्वेन तदुपादानत्वाच्च वाचाऽऽरम्भणन्यायेन प्रज्ञानव्यतिरेकेणाभावात्प्रज्ञानमेव सर्पादे रज्ज्वादिरिव पर्यवसानभूमिरित्याह – प्रज्ञाप्रतिष्ठेति । प्रतिष्ठां ध्रुवं पर्यवसानभूमिः परिशिष्टं वस्त्वित्यर्थः । एवं च प्रज्ञानस्य प्रत्यगात्मनो निर्विशेषत्वादिकं सिद्धमित्याह – तस्मादिति । प्रज्ञानस्यैव परिशिष्टत्वेन परमार्थसत्यत्वादित्यर्थः । ब्रह्मशब्दार्थमाह – प्रत्यस्तमितेति । अस्मिन्पक्षे ब्रह्मशब्देन प्रत्यगात्मनो निर्विशेषत्वादिकमेव सामानाधिकरण्येन समर्थ्यते । ब्रह्मशब्दस्यापि निर्विशेषत्वादिकमेवार्थः । ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते । बृंहतेर्धातोरर्थानुगमादिति शारीरकभाष्य उक्तत्वान्न तु प्रत्यग्ब्रह्मणोरैक्यमनेन वाक्येनोच्यते । आत्मा वा इदमेक एवाग्र आसीदित्यात्माद्वितीयत्वेनैवोपक्रमाद्ब्रह्मपदार्थानुपक्रमाच्च । एवं चाऽऽत्मैव स्वाविद्यया संसरति स्वविद्यया मुच्यत इत्ययं पक्षोऽत्र स्फुटीकृत इति द्रष्टव्यम् । यदा त्विमानि च पञ्च महाभूतानीत्यारभ्य तत्पदार्थशोधनार्थत्वेन व्याख्यायते तदा तत्पदार्थशोधनानन्तरं वाक्यार्थकथनार्थं प्रज्ञानं ब्रह्मेति वाक्यमिति व्याख्येयम् । अत्र च पक्षेऽत्रत्यप्रज्ञानशब्देन प्रज्ञानस्य नामधेयानीत्यत्रत्येन च प्रत्यगात्मोच्यते । अत्र ब्रह्मशब्देन च जगत्कारणत्वोपलक्षितं चैतन्यमुक्तमिति द्रष्टव्यम् । तस्मादिति चोभयोर्निर्विशेषचिद्रूपत्वाविशेषादित्यर्थः । ननु प्रज्ञानस्य ब्रह्मत्वोपदेशे किं सिध्यतीत्याशङ्क्य तस्य निर्विशेषत्वादिकं सिध्यतीति फलितार्थकथनपरत्वेन व्याख्येयं प्रत्यस्तमितेति । अन्यत्सामान्यम् । – उपाधिविशेषमिति । उपाधिकृतकर्तृत्वभोक्तृत्वदुःखित्वादिविशेषमित्यर्थः । तस्य पुरुषार्थत्वमाह शान्तमिति । परितृप्तं परमानन्दरूपमित्यर्थः । निर्विशेषत्वे भानमाह – नेतीति । सर्वेति । यतो वाचो निवर्तन्ते । आनन्दं ब्रह्मणो विद्वानिति श्रुतिर्निर्विशेषानन्दत्वे मानमित्यर्थः । नन्वेवम्भूतस्य प्रज्ञानस्य कथं सर्वज्ञादिस्तम्बान्तनानाविधभेद इत्याशङ्क्य नानाविधोपाधिसम्बन्धादित्याह – तदत्यन्तेत्यादिना । विशुद्धोपाधिसम्बन्धाविशेषेऽप्यन्तर्यामिहिरण्यगर्भप्रजापतीनां सर्वज्ञाद्भेदमाह – सर्वसाधारणेति । व्याकृते सर्वजगत्कारणसमष्टिबुद्धावात्मत्वाभिमान एव लक्षणमुपाधिर्यस्य तदित्यर्थः । अन्तरण्डेति । अण्डोपाधिकं विराट् तदन्तर्भूतप्रथमशरीरोपाधिकः प्रजापतिरित्यर्थः । तदुद्भूतेति । तस्मादण्डादुद्भूता इमेऽग्न्यादीनामुपाधयः समष्टिवागादयस्तदुपाधिमत्प्रज्ञानमग्न्यादिदेवतासंज्ञं भवतीत्यर्थः । आदिशब्देन व्यष्टिवागाद्यभिमानिनो गृह्यन्तेऽसुरादयश्च । व्यष्टिमनुष्यादिशरीरोपाधिषु मनुष्यादिसंज्ञं भवतीत्याह – तथेति । अपीत्यनन्तरं तत्तत्संज्ञं भवतीति शेषः । उपसंहरति – ब्रह्मादीति । अत्रैवमिति शेषः । एवं ब्रह्मादिस्तम्बेति योज्यम् । ननु साङ्ख्यादिभिर्जीवानामेव नानात्वमुच्यते । अन्यैश्च जीवेश्वरनानात्वं जगत्कारणं चान्यथाऽन्यथाऽप्याहुस्तत्कथमेकस्यैव ब्रह्मणो नानारूपत्वमत आह – तदेवैकमिति । अस्मिन्नर्थे प्रमाणमाह – एतमेक इति ।
एवं तावत्कोऽयमात्मेत्यारभ्य प्रज्ञानं ब्रह्मेत्यन्तेन विचारपुरःसरमात्मतत्त्वं निर्धारितम् । आत्मा करणसङ्घातात्मकप्राणव्यतिरिक्तः संज्ञानादिसर्वान्तःकरणवृत्त्यतिरिक्तस्तदनुगतः स्वप्रकाशः सर्वशरीरेष्वेकः सर्वप्रपञ्चाधिष्ठानभूतोऽद्वितीयः प्रज्ञानं ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभाव इति । इदानीमेवम्भूतब्रह्मात्मविदः फलं वक्तुं स एतेनेत्यादि श्रुतिवाक्यम् ॥३॥ 【भाष्यम्】 【भाष्यम्】 तत्रैतच्छब्देनैकवचनान्तेन प्रकृतानामपि कोऽयमात्मेत्येवं विचारयतां बहूनां परामर्शायोग्यत्वादिदानीन्तनस्य विदुषश्च स इति भूतवाचिना परामर्शायोग्यत्वात्पूर्वाध्यायोक्तो वामदेवः परामृश्यत इत्याह – स वामदेव इति । ब्रह्मविदः फलमित्यस्य वाक्यस्य तात्पर्याद्वामदेवादिपुरुषविशेषे तात्पर्याभावाद्यः कश्चन ग्राह्य इत्याह – अन्यो वेति । एवमिति । कोऽयमात्मेत्युक्तप्रकारेणैतं प्रज्ञानरूपं यथोक्तं ब्रह्म प्रज्ञानेनाऽऽत्मना वेदेत्यर्थः । एतेनैवेत्येतच्छब्दोक्तं प्रकृतत्वं व्यक्तीकरोति – येनैवेति ।
येनैव प्रज्ञेनाऽऽत्मना ब्रह्म विद्वांसः पूर्वेऽमृता अभूवंस्तेनैतेनैव प्रज्ञेनाऽऽत्मना यथोक्तं ब्रह्म वेद वामदेवोऽन्यो वा सोऽमृतोऽभवत् । तथाऽयमपीदानीन्तनोऽपि विद्वानेतेनैव प्रज्ञेनाऽऽत्मनाऽस्माल्लोकादुत्क्रम्यामृतः समभवदित्यन्वयः । अत्रोत्क्रमणं पक्षिणो नीडादिवोर्ध्वगमनं न सम्भवति किन्तु देहात्मभावत्यागेन प्रज्ञानात्मभाव एवेत्यभिप्रैत्य प्रज्ञानात्मनोत्क्रम्येत्युक्तम् । प्रज्ञानात्मना विद्वानिति वाऽऽन्वयः । उक्तमात्मतत्त्वमङ्गीकारवाचिनोङ्कारेण न स्वानुभवप्रकटनेन दृढीकुर्वन् “ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥” इति स्मृतेरोङ्कारेण ब्रह्मात्मानुसन्धानलक्षणं मङ्गलं कर्तुमोमित्युक्तमिति ॥४॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानकृतावैतरेयोपनिषद्भाष्यटीकायां तृतीयोऽध्यायः प्रथमः अध्यायः प्रथमः खण्डः द्वितीयः खण्डः तृतीयः खण्डः द्वितीयः अध्यायः चतुर्थः खण्डः तृतीयः अध्यायः पञ्चमः खण्डः
Usando este texto em trabalho acadêmico? Obter citação formal
ĀNANDAGIRI. Ānandagiri Ṭīkā — Aitareya. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/anandagiri-tika-aitareya>. Acesso em: 26/04/2026.
Ānandagiri (2026). Ānandagiri Ṭīkā — Aitareya. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/anandagiri-tika-aitareya
Ānandagiri. "Ānandagiri Ṭīkā — Aitareya." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/anandagiri-tika-aitareya.