Aparokṣānubhūtiḥ
Śrī Ādi Śaṅkarācārya
श्रीहरिं परमानन्दमुपदेष्टारमीश्वरम् । व्यापकं सर्वलोकानां कारणं तं नमाम्यहम् ॥ १ ॥
अपरोक्षानुभूतिर्वै प्रोच्यते मोक्षसिद्धये । सद्भिरेषा प्रयत्नेन वीक्षणीया मुहुर्मुहुः ॥ २ ॥
स्ववर्णाश्रमधर्मेण तपसा हरितोषणात् । साधनं प्रभवेत्पुंसां वैराग्यादि चतुष्टयम् ॥ ३ ॥
ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु । यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥ ४ ॥
नित्यमात्मस्वरूपं हि दृश्यं तद्विपरीतगम् । एवं यो निश्चयः सम्यग्विवेको वस्तुनः स वै ॥ ५ ॥
सदैव वासनात्यागः शमोऽयमिति शब्दितः । निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते ॥ ६ ॥
विषयेभ्यः परावृत्तिः परमोपरतिर्हि सा । सहनं सर्वदुःखानां तितिक्षा सा शुभा मता ॥ ७ ॥
निगमाचार्यवाक्येषु भक्तिः श्रद्धेति विश्रुता । चित्तैकाग्र्यं तु सल्लक्ष्ये समाधानमिति स्मृतम् ॥ ८ ॥
संसारबन्धनिर्मुक्तिः कथं स्यान्मे दयानिधे । इति या सुदृढा बुद्धिर्वक्तव्या सा मुमुक्षुता ॥ ९ ॥
उक्तसाधनयुक्तेन विचारः पुरुषेण हि । कर्तव्यो ज्ञानसिद्ध्यर्थमात्मनः शुभमिच्छता ॥ १० ॥
नोत्पद्यते विना ज्ञानं विचारेणान्यसाधनैः । यथा पदार्थभानं हि प्रकाशेन विना क्वचित् ॥ ११ ॥
कोऽहं कथमिदं जातं को वै कर्ताऽस्य विद्यते । उपादानं किमस्तीह विचारः सोऽयमीदृशः ॥ १२ ॥
नाहं भूतगणो देहो नाहं चाक्षगणस्तथा । एतद्विलक्षणः कश्चिद्विचारः सोऽयमीदृशः ॥ १३ ॥
अज्ञानप्रभवं सर्वं ज्ञानेन प्रविलीयते । सङ्कल्पो विविधः कर्ता विचारः सोऽयमीदृशः ॥ १४ ॥
एतयोर्यदुपादानमेकं सूक्ष्मं सदव्ययम् । यथैव मृद्घटादीनां विचारः सोऽयमीदृशः ॥ १५ ॥
अहमेकोऽपि सूक्ष्मश्च ज्ञाता साक्षी सदव्ययः । तदहं नात्र सन्देहो विचारः सोऽयमीदृशः ॥ १६ ॥
आत्मा विनिष्कलो ह्येको देहो बहुभिरावृतः । तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १७ ॥
आत्मा नियामकश्चान्तर्देहो बाह्यो नियम्यकः । तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १८ ॥
आत्मा ज्ञानमयः पुण्यो देहो मांसमयोऽशुचिः । तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १९ ॥
आत्मा प्रकाशकः स्वच्छो देहस्तामस उच्यते । तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ २० ॥
आत्मा नित्यो हि सद्रूपो देहोऽनित्यो ह्यसन्मयः । तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ २१ ॥
आत्मनस्तत्प्रकाशत्वं यत्पदार्थावभासनम् । नाग्न्यादिदीप्तिवद्दीप्तिर्भवत्यान्ध्यं यतो निशि ॥ २२ ॥
देहोऽहमित्ययं मूढो मत्वा तिष्ठत्यहो जनः । ममायमित्यपि ज्ञात्वा घटद्रष्टेव सर्वदा ॥ २३ ॥
ब्रह्मैवाहं समः शान्तः सच्चिदानन्दलक्षणः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ २४ ॥
निर्विकारो निराकारो निरवद्योऽहमव्ययः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ २५ ॥
निरामयो निराभासो निर्विकल्पोऽहमाततः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ २६ ॥
निर्गुणो निष्क्रियो नित्यो नित्यमुक्तोऽहमच्युतः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ २७ ॥
निर्मलो निश्चलोऽनन्तः शुद्धोऽहमजरोऽमरः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ २८ ॥
स्वदेहं शोभनं त्यक्त्वा पुरुषाख्यं च संमतम् । किं मूर्ख शून्यमात्मानं देहातीतं करोषि भोः ॥ २९ ॥
स्वात्मानं शृणु मूर्ख त्वं श्रुत्या युक्त्या च पूरुषम् । देहातीतं सदाकारं सुदुर्दर्शं भवादृशाम् ॥ ३० ॥
अहंशब्देन विख्यात एक एव स्थितः परः । स्थूलस्त्वनेकतां प्राप्तः कथं स्याद्देहकः पुमान् ॥ ३१ ॥
अहं द्रष्टृतया सिद्धो देहो दृश्यतया स्थितः । ममायमित्यनिर्देशात्कथं स्याद्देहकः पुमान् ॥ ३२ ॥
अहं विकारहीनस्तु देहो नित्यं विकारवान् । इति प्रतीयते साक्षात्कथं स्याद्देहकः पुमान् ॥ ३३ ॥
यस्मात्परमिति श्रुत्या तया पुरुषलक्षणम् । विनिर्णीतं विशुद्धेन कथं स्याद्देहकः पुमान् ॥ ३४ ॥
सर्वं पुरुष एवेति सूक्ते पुरुषसंज्ञिते । अप्युच्यते यतः श्रुत्या कथं स्याद्देहकः पुमान् ॥ ३५ ॥
असङ्गः पुरुषः प्रोक्तो बृहदारण्यकेऽपि च । अनन्तमलसंसृष्टः कथं स्याद्देहकः पुमान् ॥ ३६ ॥
तत्रैव च समाख्यातः स्वयंज्योतिर्हि पूरुषः । जडः परप्रकाश्योऽयं कथं स्याद्देहकः पुमान् ॥ ३७ ॥
प्रोक्तोऽपि कर्मकाण्डेन ह्यात्मा देहाद्विलक्षणः । नित्यश्च तत्फलं भुङ्क्ते देहपातादनन्तरम् ॥ ३८ ॥
लिङ्गं चानेकसंयुक्तं चलं दृश्यं विकारि च । अव्यापकमसद्रूपं तत्कथं स्यात्पुमानयम् ॥ ३९ ॥
एवं देहद्वयादन्य आत्मा पुरुष ईश्वरः । सर्वात्मा सर्वरूपश्च सर्वातीतोऽहमव्ययः ॥ ४० ॥
इत्यात्मदेहभानेन प्रपञ्चस्यैव सत्यता । यथोक्ता तर्कशास्त्रेण ततः किं पुरुषार्थता ॥ ४१ ॥
इत्यात्मदेहभेदेन देहात्मत्वं निवारितम् । इदानीं देहभेदस्य ह्यसत्त्वं स्फुटमुच्यते ॥ ४२ ॥
चैतन्यस्यैकरूपत्वाद्भेदो युक्तो न कर्हिचित् । जीवत्वं च मृषा ज्ञेयं रज्ज्वां सर्पग्रहो यथा ॥ ४३ ॥
रज्ज्वज्ञानात्क्षणेनैव यद्वद्रज्जुर्हि सर्पिणी । भाति तद्वच्चितिः साक्षाद्विश्वाकारेण केवला ॥ ४४ ॥
उपादानं प्रपञ्चस्य ब्रह्मणोऽन्यन्न विद्यते । तस्मात्सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत् ॥ ४५ ॥
व्याप्यव्यापकता मिथ्या सर्वमात्मेति शासनात् । इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः ॥ ४६ ॥
श्रुत्या निवारितं नूनं नानात्वं स्वमुखेन हि । कथं भासो भवेदन्यः स्थिते चाद्वयकारणे ॥ ४७ ॥
दोषोऽपि विहितः श्रुत्या मृत्योर्मृत्युं स गच्छति । इह पश्यति नानात्वं मायया वञ्चितो नरः ॥ ४८ ॥
ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः । तस्मादेतानि ब्रह्मैव भवन्तीत्यवधारयेत् ॥ ४९ ॥
ब्रह्मैव सर्वनामानि रूपाणि विविधानि च । कर्माण्यपि समग्राणि बिभर्तीति श्रुतिर्जगौ ॥ ५० ॥
सुवर्णाज्जायमानस्य सुवर्णत्वं च शाश्वतम् । ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत् ॥ ५१ ॥
स्वल्पमप्यन्तरं कृत्वा जीवात्मपरमात्मनोः । योऽवतिष्ठति मूढात्मा भयं तस्याभिभाषितम् ॥ ५२ ॥
यत्राज्ञानाद्भवेद्द्वैतमितरस्तत्र पश्यति । आत्मत्वेन यदा सर्वं नेतरस्तत्र चाण्वपि ॥ ५३ ॥
यस्मिन्सर्वाणि भूतानि ह्यात्मत्वेन विजानतः । न वै तस्य भवेन्मोहो न च शोकोऽद्वितीयतः ॥ ५४ ॥
अयमात्मा हि ब्रह्मैव सर्वात्मकतया स्थितः । इति निर्धारितं श्रुत्या बृहदारण्यसंस्थया ॥ ५५ ॥
अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् । असद्रूपो यथा स्वप्न उत्तरक्षणबाधतः ॥ ५६ ॥
स्वप्नो जागरणेऽलीकः स्वप्नेऽपि जागरो न हि । द्वयमेव लये नास्ति लयोऽपि ह्युभयोर्न च ॥ ५७ ॥
त्रयमेवं भवेन्मिथ्या गुणत्रयविनिर्मितम् । अस्य द्रष्टा गुणातीतो नित्यो ह्येकश्चिदात्मकः ॥ ५८ ॥
यद्वन्मृदि घटभ्रान्तिं शुक्तौ वा रजतस्थितिम् । तद्वद्ब्रह्मणि जीवत्वं भ्रान्त्या पश्यति न स्वतः ॥ ५९ ॥
यथा मृदि घटो नाम कनके कुण्डलाभिधा । शुक्तौ हि रजतख्यातिर्जीवशब्दस्तथा परे ॥ ६० ॥
यथैव व्योम्नि नीलत्वं यथा नीरं मरुस्थले । पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि ॥ ६१ ॥
यथैव शून्ये वेतालो गन्धर्वाणां पुरं यथा । यथाकाशे द्विचन्द्रत्वं तद्वत्सत्ये जगत्स्थितिः ॥ ६२ ॥
यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम् । पात्ररूपेण ताम्रं हि ब्रह्माण्डौघैस्तथाऽऽत्मता ॥ ६३ ॥
घटनाम्ना यथा पृथ्वी पटनाम्ना हि तन्तवः । जगन्नाम्ना चिदाभाति ज्ञेयं तत्तदभावतः ॥ ६४ ॥
सर्वोऽपि व्यवहारस्तु ब्रह्मणा क्रियते जनैः । अज्ञानान्न विजानन्ति मृदेव हि घटादिकम् ॥ ६५ ॥
कार्यकारणता नित्यमास्ते घटमृदोर्यथा । तथैव श्रुतियुक्तिभ्यां प्रपञ्चब्रह्मणोरिह ॥ ६६ ॥
गृह्यमाणे घटे यद्वन्मृत्तिकाऽऽभाति वै बलात् । वीक्ष्यमाणे प्रपञ्चेऽपि ब्रह्मैवाभाति भासुरम् ॥ ६७ ॥
सदैवात्मा विशुद्धोऽपि ह्यशुद्धो भाति वै सदा । यथैव द्विविधा रज्जुर्ज्ञानिनोऽज्ञानिनो निशि ॥ ६८ ॥
यथैव मृण्मयः कुंभस्तद्वद्देहोऽपि चिन्मयः । आत्मानात्मविभागोऽयं मुधैव क्रियते बुधैः ॥ ६९ ॥
सर्पत्वेन यथा रज्जू रजतत्वेन शुक्तिका । विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता ॥ ७० ॥
घटत्वेन यथा पृथ्वी पटत्वेनैव तन्तवः । विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता ॥ ७१ ॥
कनकं कुण्डलत्वेन तरङ्गत्वेन वै जलम् । विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता ॥ ७२ ॥
पुरुषत्वेन वै स्थाणुर्जलत्वेन मरीचिका । विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता ॥ ७३ ॥
गृहत्वेनैव काष्ठानि खड्गत्वेनैव लोहता । विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता ॥ ७४ ॥
यथा वृक्षविपर्यासो जलाद्भवति कस्यचित् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७५ ॥
पोतेन गच्छतः पुंसः सर्वं भातीव चञ्चलम् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७६ ॥
पीतत्वं हि यथा शुभ्रे दोषाद्भवति कस्यचित् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७७ ॥
चक्षुर्भ्यां भ्रमशीलाभ्यां सर्वं भाति भ्रमात्मकम् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७८ ॥
अलातं भ्रमणेनैव वर्तुलं भाति सूर्यवत् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७९ ॥
महत्त्वे सर्ववस्तूनामणुत्वं ह्यतिदूरतः । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८० ॥
सूक्ष्मत्वे सर्ववस्तूनां स्थूलत्वं चोपनेत्रतः । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८१ ॥
काचभूमौ जलत्वं वा जलभूमौ हि काचता । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८२ ॥
यद्वदग्नौ मणित्वं हि मणौ वा वह्निता पुमान् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८३ ॥
अभ्रेषु सत्सु धावत्सु धावन्निव यथा शशी । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८४ ॥
यथैव दिग्विपर्यासो मोहाद्भवति कस्यचित् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८५ ॥
यथा शशी जले भाति चञ्चलत्वेन कस्यचित् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८६ ॥
एवमात्मन्यविद्यातो देहाध्यासो हि जायते । स एवात्मपरिज्ञानाल्लीयते च परात्मनि ॥ ८७ ॥
सर्वमात्मतया ज्ञातं जगत्स्थावरजङ्गमम् । अभावात्सर्वभावानां देहता चात्मनः कुतः ॥ ८८ ॥
आत्मानं सततं जानन्कालं नय महामते । प्रारब्धमखिलं भुञ्जन्नोद्वेगं कर्तुमर्हसि ॥ ८९ ॥
उत्पन्नेऽप्यात्मविज्ञाने प्रारब्धं नैव मुञ्चति । इति यच्छ्रूयते शास्त्रे तन्निराक्रियतेऽधुना ॥ ९० ॥
तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते । देहादीनामसत्यत्वात् यथा स्वप्नः प्रबोधतः ॥ ९१ ॥
कर्म जन्मान्तरीयं यत्प्रारब्धमिति कीर्तितम् । तत्तु जन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित् ॥ ९२ ॥
स्वप्नदेहो यथाध्यस्तस्तथैवायं हि देहकः । अध्यस्तस्य कुतो जन्म जन्माभावे स्थितिः कुतः ॥ ९३ ॥
उपादानं प्रपञ्चस्य मृद्भाण्डस्येव कथ्यते । अज्ञानं चैव वेदान्तैस्तस्मिन्नष्टे क्व विश्वता ॥ ९४ ॥
यथा रज्जुं परित्यज्य सर्पं गृह्णाति वै भ्रमात् । तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः ॥ ९५ ॥
रज्जुरूपे परिज्ञाते सर्पभ्रान्तिर्न तिष्ठति । अधिष्ठाने तथा ज्ञाते प्रपञ्चः शून्यतां व्रजेत् ॥ ९६ ॥
देहस्यापि प्रपञ्चत्वात्प्रारब्धावस्थितिः कुतः । अज्ञानिजनबोधार्थं प्रारब्धं वक्ति वै श्रुतिः ॥ ९७ ॥
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे । बहुत्वं तन्निषेधार्थं श्रुत्या गीतं च यत्स्फुटम् ॥ ९८ ॥
उच्यतेऽज्ञैर्बलाच्चैतत्तदानर्थद्वयागमः । वेदान्तमतहानं च यतो ज्ञानमिति श्रुतिः ॥ ९९ ॥
त्रिपञ्चाङ्गान्यतो वक्ष्ये पूर्वोक्तस्यैव सिद्धये । तैश्च सर्वैः सदा कार्यं निदिध्यासनमेव तु ॥ १०० ॥
नित्याभ्यासादृते प्राप्तिर्न भवेत्सच्चिदात्मनः । तस्माद्ब्रह्म निदिध्यासेज्जिज्ञासुः श्रेयसे चिरम् ॥ १०१ ॥
यमो हि नियमस्त्यागो मौनं देशश्च कालतः । आसनं मूलबन्धश्च देहसाम्यं च दृक्स्थितिः ॥ १०२ ॥
प्राणसंयमनं चैव प्रत्याहारश्च धारणा । आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् ॥ १०३ ॥
सर्वं ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः । यमोऽयमिति सम्प्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥ १०४ ॥
सजातीयप्रवाहश्च विजातीयतिरस्कृतिः । नियमो हि परानन्दो नियमात्क्रियते बुधैः ॥ १०५ ॥
त्यागः प्रपञ्चरूपस्य चिदात्मत्वावलोकनात् । त्यागो हि महतां पूज्यः सद्यो मोक्षमयो यतः ॥ १०६ ॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । यन्मौनं योगिभिर्गम्यं तद्भजेत्सर्वदा बुधः ॥ १०७ ॥
वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते । प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः ॥ १०८ ॥
इति वा तद्भवेन्मौनं सतां सहजसंज्ञितम् । गिरां मौनं तु बालानां प्रयुक्तं ब्रह्मवादिभिः ॥ १०९ ॥
आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते । येनेदं सततं व्याप्तं स देशो विजनः स्मृतः ॥ ११० ॥
कलनात् सर्वभूतानां ब्रह्मादीनां निमेषतः । कालशब्देन निर्दिष्टो ह्यखण्डानन्दकोऽद्वयः ॥ १११ ॥
सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् । आसनं तद्विजानीयान्नेतरत्सुखनाशनम् ॥ ११२ ॥
सिद्धं यत्सर्वभूतादि विश्वाधिष्ठानमव्ययम् । यस्मिन्सिद्धाः समाविष्टास्तद्वै सिद्धासनं विदुः ॥ ११३ ॥
यन्मूलं सर्वभूतानां यन्मूलं चित्तबन्धनम् । मूलबन्धः सदा सेव्यो योग्योऽसौ राजयोगिनाम् ॥ ११४ ॥
अङ्गानां समतां विद्यात्समे ब्रह्मणि लीनताम् । नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् ॥ ११५ ॥
दृष्टिं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत् । सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥ ११६ ॥
द्रष्टृदर्शनदृश्यानां विरामो यत्र वा भवेत् । दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी ॥ ११७ ॥
चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् । निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ॥ ११८ ॥
निषेधनं प्रपञ्चस्य रेचकाख्यः समीरणः । ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः ॥ ११९ ॥
ततस्तद्वृत्तिनैश्चल्यं कुंभकः प्राणसंयमः । अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम् ॥ १२० ॥
विषयेष्वात्मतां दृष्ट्वा मनसश्चिति मज्जनम् । प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः ॥ १२१ ॥
यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् । मनसो धारणं चैव धारणा सा परा मता ॥ १२२ ॥
ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः । ध्यानशब्देन विख्याता परमानन्ददायिनी ॥ १२३ ॥
निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः । वृत्तिविस्मरणं सम्यक्समाधिर्ज्ञानसंज्ञकः ॥ १२४ ॥
एवञ्चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् । वश्यो यावत्क्षणात्पुंसः प्रयुक्तः सन् भवेत्स्वयम् ॥ १२५ ॥
ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् । तत्स्वरूपं न चैकस्य विषयो मनसो गिराम् ॥ १२६ ॥
समाधौ क्रियमाणे तु विघ्नान्यायान्ति वै बलात् । अनुसन्धानराहित्यमालस्यं भोगलालसम् ॥ १२७ ॥
लयस्तमश्च विक्षेपो रसास्वादश्च शून्यता । एवं यद्विघ्नबाहुल्यं त्याज्यं ब्रह्मविदा शनैः ॥ १२८ ॥
भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता । ब्रह्मवृत्त्या हि पूर्णत्वं तथा पूर्णत्वमभ्यसेत् ॥ १२९ ॥
ये हि वृत्तिं जहत्येनां ब्रह्माख्यां पावनीं पराम् । वृथैव ते तु जीवन्ति पशुभिश्च समा नराः ॥ १३० ॥
ये हि वृत्तिं विजानन्ति ज्ञात्वापि वर्धयन्ति ये । ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये ॥ १३१ ॥
येषां वृत्तिः समावृद्धा परिपक्वा च सा पुनः । ते वै सद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः ॥ १३२ ॥
कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः । तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च ॥ १३३ ॥
निमेषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना । यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः ॥ १३४ ॥
कार्ये कारणताऽऽयाता कारणे न हि कार्यता । कारणत्वं स्वतो गच्छेत्कार्याभावे विचारतः ॥ १३५ ॥
अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरम् । द्रष्टव्यं मृद्घटेनैव दृष्टान्तेन पुनः पुनः ॥ १३६ ॥
अनेनैव प्रकारेण वृत्तिर्ब्रह्मात्मिका भवेत् । उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् ॥ १३७ ॥
कारणं व्यतिरेकेण पुमानादौ विलोकयेत् । अन्वयेन पुनस्तद्धि कार्ये नित्यं प्रपश्यति ॥ १३८ ॥
कार्ये हि कारणं पश्येत्पश्चात्कार्यं विसर्जयेत् । कारणत्वं स्वतो नश्येदवशिष्टं भवेन्मुनिः ॥ १३९ ॥
भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मना । पुमांस्तद्धि भवेच्छीघ्रं ज्ञेयं भ्रमरकीटवत् ॥ १४० ॥
अदृश्यं भावरूपञ्च सर्वमेतत् चिदात्मकम् । सावधानतया नित्यं स्वात्मानं भावयेद्बुधः ॥ १४१ ॥
दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् । विद्वान्नित्यसुखे तिष्ठेद्धिया चिद्रसपूर्णया ॥ १४२ ॥
एभिरङ्गैः समायुक्तो राजयोग उदाहृतः । किञ्चित्पक्वकषायाणां हठयोगेन संयुतः ॥ १४३ ॥
परिपक्वं मनो येषां केवलोऽयं च सिद्धिदः । गुरुदैवतभक्तानां सर्वेषां सुलभो जवात् ॥ १४४ ॥
Usando este texto em trabalho acadêmico? Obter citação formal
ŚRĪ ĀDI ŚAṄKARĀCĀRYA. Aparokṣānubhūtiḥ. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/aparokshanubhuti>. Acesso em: 26/04/2026.
Śrī Ādi Śaṅkarācārya (2026). Aparokṣānubhūtiḥ. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/aparokshanubhuti
Śrī Ādi Śaṅkarācārya. "Aparokṣānubhūtiḥ." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/aparokshanubhuti.