Atharvaveda Paippalāda — Kāṇḍa 8
Tradição Védica (Ṛṣis)
सगराय शत्रुहणे स्वाहा ॥शर्णीलाय शत्रुहणे स्वाहा ॥समुद्राय शत्रुहणे स्वाहा ॥सन्धसाय शत्रुहणे स्वाहा ॥इषिराय शत्रुहणे स्वाहा ॥अवस्यवे शत्रुहणे स्वाहा ॥वायवे शत्रुहणे स्वाहा ॥वाताय शत्रुहणे स्वाहा ॥मातरिश्वने शत्रुहणे स्वाहा ॥पवमानाय शत्रुहणे स्वाहा ॥ अनुवाक ४ ॥ काण्ड ८ कथा दिवे असुराय ब्रवाम कथा पित्रे हरये त्वेषनृम्णः । पृश्निं वरुण दक्षिणां ददावान् पुनर्मघ त्वं मनसाचिकित्सीः
न कामेन पुनर्मघो भवामि संपृच्य कं पृश्निम् एताम् उपाजे । केन मत् त्वम् अथर्वन् काव्येन केन जातेनासि जातवेदाः
सत्यम् अहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः । न मे दासो नार्यो महित्वं व्रतं मीमाय यद् अहं धरिष्ये
न त्वद् अन्यः कवितरो न वेधा न धीरतरो वरुण स्वधावः । त्वम् अङ्ग विश्वा जनिमानि वेत्थ स चिन् नु त्वज् जनो मायी बिभाय
त्वं ह्य् अङ्ग वरुण स्वधावो विश्वानि वेत्थ जनिमा शर्धनीते । किम् एना रजसः परो ऽस्ति किम् अवरेणावरम् अमुर
एकम् एना रजसः परो ऽस्ति पर एकेन दुर्दाशं चिद् अन्यत् । तत् ते विद्वान् वरुण प्र ब्रवीम्य् अधोवचसः पणयो भवन्तु नीचैर् दासा उप सर्पन्तु रिप्राः
त्वं ह्य् अङ्ग वरुण प्र ब्रवीषि पुनर्मघेष्व् अवद्यानि भूरि । मो षु पण्य् अभ्य् एतावता भूर् मा त्वा वोचन्न् अराधसं जनासः
मा मा वोचन्न् अराधसं जनासः पुनस् ते पृश्निं जरितर् ददामि । स्तोत्रं मे विश्वम् आ याहि जनेष्व् अन्तर् देवेषु मानुषेषु विप्र
आ ते स्तोत्राणि वर्धनानि यामि देहि तन् मह्यं यद् अदत्तम् अस्ति । युज्यो नः सप्तपदः सखासि समा नौ बन्धुर् वरुणः समा जा
वेद वै तद् यन् नौ समा जा ददामि तुभ्यं यद् अदत्तम् अस्ति । देवो देवाय गृणते वयोधा विप्रो विप्राय स्तुवते सुमेधाः
अजीजनो हि वरुण स्वधावन्न् अथर्वाणं पितरं विश्वदेवम् । तस्मा उर्व् आयुष् कृणुहि प्रशस्तं सखा नो ऽसि परमश् च बन्धुः
वृषा मे रवो नभसा न तन्यतुर् उग्रेण तं वचसा बाध इद् उ ते । अहं तम् अस्य ग्रभिर् अग्रभं रसं ज्योतिषेव तमस उद् एति सूर्यः
यत् ते ऽपोदकं विषं तत् त आत् ताभिर् अग्रभम् । गृह्णामि मध्यम् उत्तमम् उतावमं भियसा नेशद् आद् उ ते
बलेन ते बलं हन्मि तन्वा हन्मि ते तनुम् । विषेण हन्मि ते विषम् अहे मृषीष्ठा मा जीवीः प्रत्यग् अभ्य् एतु त्वा विषम्
असितस्य तैमातस्य बभ्रोर् अपोदकस्य च । सात्रासाहस्य मन्योर् ज्याम् उग्रस्येव धन्वनो वि मुञ्चामि रथाꣳ इव
कैलात पृश्न उपतृण्य बभ्रव् आ मे शृणुतासिता अलीकाः । मा नः सख्युः कामम् अपि ष्ठाद् आश्रावयाद्धो वीर्षे रमध्वम्
आलिकि च विलि पिता यस् ते माता च । विद्म ते विश्वतो बन्धुम् अरस किं करिष्यसि
उरुगूलाया दुहिता जाता दास्य् असिक्न्याः । प्रतङ्कं दद्रुषी नु साहीन् अरसाꣳ अकः
कर्णा श्वाविद् अब्रवीद् गिरेर् अवचरन्तिका । याः काश् चेमाः खनित्रिमास् तासाम् अरसतमं विषम्
ताबुवं न ताबुवं न घेद् असि त्वं ताबुवम् । ताबुवेनारसं विषम्
तस्तुवं न तस्तुवं न घेद् असि त्वं तस्तुवम् । तस्तुवेनारसं विषम्
अरसं ते ऽहे विषम् इयं कृणोत्व् ओषधिः । त्रायमाणा सहमाना सहस्वती सहाता इद् गोर् अश्वात् पुरुषाद् विषम्
यद् आञ्जनं त्रैककुदं जातं हिमवतस् परि । यातूंश् च सर्वान् जम्भया सर्वाश् च यातुधान्यः
उतेवासि परिपाणं यातुजम्भनम् आञ्जन । उतामृतत्वस्येशिष उतासि पितुभोजनम्
परिपाणं पुरुषाणां परिपाणं गवाम् असि । अश्वानाम् अर्वताम् इत् परिपाणाय तस्थिषे
परि मां परि णः प्रियं परि णः पाहि यद् धनम् । अरातिर् इन् नो मा तारीन् मा च नः किं चनाममत्
न तं प्राप्नोति शपथो न कृत्या नाभिशोचनम् । नैनं विष्कन्धम् अश्नुते यस् त्वा बिभर्त्य् आञ्जन
आसन् मन्त्र्याद् दुष्वप्न्यात् क्षेत्रियाच् छपथाद् उत । दुर्हार्दश् चक्षुषो घोरात् तस्मान् नः पाह्य् आञ्जन
त्रयो दासा आञ्जनस्य तक्मा बलास आद् अहिः । वर्षिष्ठः पर्वतानां त्रिककुन् नाम ते पिता
वृत्रस्यासि कनीनिका पर्वतस्यास्य् अक्ष्यौ । देवेभिः सर्वैः प्रोक्तं परिधिर् नाम वा असि
वैदो ह वेद ते नाम गन्धर्वः परिवाचनम् । यत आञ्जन प्रजायसे तत एह्य् अरिष्टतातये
यदि वासि त्रैककुदं यदि यामुनम् उच्यसे । उभे ते भद्रे नाम्नी ताभ्यां नः पाह्य् आञ्जन
यस्याञ्जन प्रसर्पस्य् अङ्गमङ्गं परुष्परुः । तस्माद् यक्ष्मं वि बाधस्व- -उग्रो मध्यमशीर् इव
नैनं घ्नन्ति पर्यायिणो न सन्नाꣳ अव गच्छति । जने स न प्र मीयते यस् त्वा बिभर्त्य् आञ्जन
इदं विद्वान् आञ्जन सत्यं वक्ष्यामि नानृतम् । सनेयम् अश्वं गां वास आत्मानं तव पूरुष
य एकवृषो ऽसि सृजारसो ऽसि
यो द्विवृषो ऽसि (…)
यस् त्रिवृषो ऽसि (…)
यश् चतुर्वृषो ऽसि (…)
यः पञ्चवृषो ऽसि (…)
यः षड्वृषो ऽसि (…)
यः सप्तवृषो ऽसि (…)
यो ऽष्टवृषो ऽसि (…)
यो नववृषो ऽसि (…)
यो दशवृषो ऽसि (…)
यो ऽपोदको ऽसि सृजारसो ऽसि
एका च मे दश च- -अपवक्तार ओषधे । ऋतजात ऋतावरि मधु त्वा मधुला करत्
द्वे च मे विंशतिश् च (…)
तिस्रश् च मे त्रिंशच् च (…)
चतस्रश् च मे चत्वारिंशच् च (…)
पञ्च च मे पञ्चाशच् च (…)
षट् च मे षष्टिश् च (…)
सप्त च मे सप्ततिश् च (…)
अष्ट च मे ऽशीतिश् च (…)
नव च मे नवतिश् च (…)
दश च मे शतं च (…)
शतं च मे सहस्रं च- -अपवक्तार ओषधे । ऋतजात ऋतावरि मधु त्वा मधुला करत्
अनुवाक १ ॥ आ पश्यसि प्रति पश्यसि परा पश्यसि पश्यसि । द्याम् अन्तरिक्षम् आद् भूमिं तत् सर्वं देवि पश्यसि
तिस्रो दिवस् तिस्रः पृथिवीः षट् चेमः प्रदिशो महीः । तयाहं सर्वान् यातून् पश्यानि देव्य् ओषधे
सुपर्णस्य दिव्यस्य तस्य हासि कनीनिका । सा भूमिम् आ रुरोहिथ वह्यं श्रान्ता वधूर् इव
तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत् । तयाहं सर्वं पश्यामि यद् भूतं यच् च भाव्यम्
यथा श्वा चतुरक्षो यथाश्वः श्यावो ऽर्वताम् । यथाग्निर् विश्वतः प्रत्यङ्ङ् एवा त्वम् अस्य् ओषधे
कश्यपस्य चक्षुर् असि शुन्याश् चतुरक्ष्याः । वीध्रे सूर्यम् इव सर्पन्तं मा पिशाचं तिरस् करः
दर्शय मा यातुधानान् दर्शय यातुधान्यः । आपस्पृत इव तिष्ठन्तं दर्शय मा किमीदिनम्
उद् अग्रभं परिपाणं यातुधानात् किमीदिनः । तेनाहं सर्वं पश्यान्य् उत शूद्रम् उतार्यम्
यथा सूर्यश् चन्द्रमाश् च विश्वा भूता विपश्यतः । एवा वि पश्य तान् त्वम् अघायुर् मोप गाद् इह
यो अन्तरिक्षेण पतति भूमिं यश् चोपसर्पति । दिवं यो मन्यते नाथं तं पिशाचं दृशे कुरु
आविष् कृणुष्व रूपाणि मात्मानम् अप गूहथाः । अधा सहस्रचक्षो त्वं प्रति पश्यास्य् आयतः
मोक्षेजांस् तोदांस् तुमलान् पथिष्ठाꣳ उत पार्षतान् । अहीनां सर्वेषां विषम् अरसं कृण्व् ओषधे
अश्वक्रन्दस्य वण्डस्य पृदाकोर् गोनसेर् उत । श्वित्राणां सर्वेषां विषम् अरसं कृण्व् ओषधे
द्यांपातस्य गवकस्य गोधापृष्ठेर् अहेर् उत । असितानाम् एतज् जातम् अरिष्टे ऽरसं कृधि
एतज् जातं स्वजानां तद् बभ्रो अरसं कृधि । सर्वस्य बभ्रोर् भेषज्य् असीह विषदूषणी
त्रायमाणा प्र ब्रवीतु सर्वाङ् राज्ञो अहीनाम् । तिरश्चिराजीन् असितान् अथो उपशयाश् च ये
सहसाहं यातुधानान् सहसा यातुधान्यः । सहो वः सर्वान् सासाह तस्याहं नाम जग्रभ
सहः साकं पैद्वेन- -उग्रेण वचसा मम । अन्धाहींश् च सृजयाश् च शफकांश् च रथव्रयः । सहसा सह उत्पत्य तान् सर्वाꣳ अरसाꣳ अकः
असितस्य विद्रधस्य हरितो यश् च विद्रधः । निमङ्क्षी विद्रधानां यो मृजन्ती ताꣳ अजीजभत्
यः स्वजानां नीलग्रीवो यः स्वजानां हरिर् उत । कल्माषपुच्छम् ओषधे जम्भयास्य् अरुन्धति
मायं मरद् अहिदष्टः पितुर् अस्मा असद् विषम् । इमा ह्य् अस्मा ओषधिम् आ हराम्य् अरुन्धतीम्
एतज् जातं पृदाकूनाम् अरसं जीवले कृधि । इन्द्रस्य भद्रिका वीरुद् असीह विषदूषणी
शतम् अर्वाक् प्र स्यन्दन्ते प्र स्यन्दन्ते शतं परः । शतं वृत्रस्य काण्डानि तेभ्य आपो वि धावथ
अन्तरिक्षे पतयिष्णवो नभसस् परि जज्ञिरे । आपो हिरण्यवर्णास् तास् ते भवन्तु शं हृदे
शं ते सन्तु हृदयाय शं ते हृदय्याभ्यः । शं ते यकक्लोमभ्यः शम् उ ते अन्तष्टेभ्यः
यद् अङ्गैर् अपसिस्मिषे यच् छीर्ष्णा यच् च पृष्टिभिः । आपस् तत् सर्वं निष् करन् तष्टा रिष्टम् इवानसः
सं हृदयेन हृदयम् ओपशेन सम् ओपशः । अद्भिर् मुञ्चापस्मितं पार्ष्णिद्योतः सम् एतु मे
आचरन्तीः पर्वतेभ्यो देवीर् देवेभ्यस् परि । आपो यम् अद्य प्रापन् न स रिष्याति पूरुषः
शं त आपो हैमवतीः शम् उ ते सन्तूत्स्याः । शं ते सनिष्यदा आपः शम् उ ते सन्तु वर्ष्याः
शं त आपो धन्वन्याः शम् उ ते सन्त्व् अनूप्याः । शं ते खनित्रिमा आपः शं याः कुम्भेभिर् आभृताः
अनभ्रयः खनमाना विप्रा गम्भीरे ऽपसः । भिषग्भ्यो भिषक्तरा आपो अच्छा वदामसि
अपाम् अह दिव्यानाम् अपां स्रोतस्यानाम् । अपाम् अह प्रणेजने ऽश्वा भवथ वाजिनः
ता आपः शिवा आपो ऽयक्ष्मंकरणीर् अपः । यथैव तृष्यते मयस् तास् त आद्युत्तभेषजी
ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवम् आ ततान । भूतानां ब्रह्म प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः
ब्रह्मेमे द्यावापृथिवी ब्रह्मेमे सप्त सिन्धवः । ब्रह्मेमे सर्व आदित्या ब्रह्म देवा उपासते
ब्रह्म ब्राह्मणो वदति ब्रह्म रात्री नि विशते । सावित्रं ब्रह्मणो जातं ब्रह्मणाग्निर् वि रोचते
ब्रह्मौषधयो नि तिष्ठन्ति ब्रह्म वर्षन्ति वृष्टयः । ब्रह्मेदं सर्वम् आत्मन्वद् यावत् सूर्यो विपश्यति
ब्रह्म होता ब्रह्म यज्ञो ब्रह्मणा स्वरवो मिताः । अध्वर्युर् ब्रह्मणो जातो ब्रह्मणोत् तिरते हविः
ब्रह्म स्रुचो घृतवतीर् ब्रह्मणा वेदिर् उद्यता । ब्रह्म यज्ञस्य तन्तव ऋत्विजो ये हविष्कृतः
ब्रह्म ऋषभो भद्ररेता ब्रह्म गावो हविष्कृतः । ब्रह्म रथस्य देवस्य यज् जयाति स्वरङ्कृतः
ब्रह्मणा शीरं वहति ब्रह्मणा युज्यते रथः । ब्रह्मणा पुरुषो द्विपान् न व्यथते चरन्
ब्रह्मणो जाता ऋषयो ब्रह्मणो राजन्या उत । ब्रह्मेदं ब्रह्मणो जातं ब्रह्मणो +ऽविष्या अन्नम्
ब्रह्म शूद्रा राजन्यानां ब्रह्मैषाम् उत विक्षदः । ब्रह्मैषां भद्रं सादनं ब्रह्मणैषां सभासदः
ब्रह्म दाशा ब्रह्म दासा ब्रह्मेमे कितवा उत । स्त्रीपुंसौ ब्रह्मणो जातौ स्त्रियो ब्रह्म उत वावन
ब्रह्मोद्वतो निवतो ब्रह्म संवतो वानस्पत्याः पर्वता ब्रह्म वीरुधः । ब्रह्मेदं सर्वम् अन्व् आ ततान- -अन्तरा द्यावापृथिवी उभे
ब्रह्मैवाभूद् उत्तरं जातवेदो रद्वज्रो यातुधानं महालम् । भवाशर्वौ तपुषीं हेतिम् अस्मै मयेषितौ वि सृजतां वधाय
यद् अश्विना ओषधीष्व् आसिक्तं पुष्करस्रजा वीरुधो मधु बिभ्रति । तेनाहम् अस्या मूर्धानम् अभि षिञ्चामि नार्याः
यद् अश्विना पुष्पाद् अधि माक्षिकं मधु संभृतम् । अन्ने लवणे यन् मधु तेना(…)
यद् अश्विना गुल्गुन्या- -आञ्जने मधु संभृतं यद् अस्मिन् मधुघे मधु । (…)
यद् अश्विनाक्ष मधु गोष्व् अश्वेषु यन् मधु । सुरायां सिच्यमानायां कीलाले ऽधि यन् मधु । तेना(…)
यद् अश्विना गोवर्चसं हिरण्यवर्चसं हस्तिवर्चसम् अश्विना । तेनाहम् अस्या मूर्धानम् अभि षिञ्चामि नार्याः
अभि नन्दम् अभि मोदम् अभि दर्पं कृणोमि ते । आ ते भगं वर्तयताम् अश्विना पुष्करस्रजा
दत्सु ते वर्चः सुभगे जिह्वायां ते मधूलकम् । अक्ष्यौ निकरणी तव प्रतीकं मधुमत्तरम्
आ सचस्व तलाशेव वृक्ष इवापतिकः पतिम् । त्वं सम् अग्रभीः पुंसः श्येन इवान्यान् पतत्रिणः
आ हि ते हार्षम् उदकम् अपो भगाभिषेचनीः । यत् ते वर्चो ऽपक्रान्तं मुखस्य प्रतिचक्षणात् । पुनस् तद् अश्विना त्वय्य् आ धत्तां पुष्करस्रजा
अभि त्वा वर्चसासिचं दिव्येन पयसा सह । यथा पतिवत्न्य् असो देवृग्भ्यो मधुमत्तरा
भगं ते मित्रावरुणा भगं देवी सरस्वती । भगं ते अश्विनोभा- -आ धत्तां पुष्करस्रजा
पतिं ते राजा वरुणः पतिं देवो बृहस्पतिः । पतिं त इन्द्रश् चाग्निश् च पतिं धाता दधातु ते
अनुवाक २ ॥ चतस्रस् ते खल स्रक्तीर् अथो मध्यम् अहं खल । धाराश् चतस्र स्तोष्यामि वेदिं मनुष्यवर्धनीम्
ऊर्जस्वन्तम् आ रभध्वं स्फातिमन्तं पुनीतन । इन्द्रो बीजस्याभ्यावोढा भग ऐतु पुरोगवः
भगस्य ह्य् अनड्वाहौ युञ्जाथां राशिवाहनौ । अधा पृथिव्याः कीलालम् इहा वहतम् अश्विना
अभिवृतः परिहितो धान्येन विभुः प्रभुः । भर्ता मनुष्याणां जज्ञे देवानाम् आज्यं खलः
स्रुच आसन् पवनीः सृणीकाः परिधिष्कृतः । कीनाशा आसन् होतारो बीजदा आसीद् धविष्पतिः
इहेन्द्र मुष्टी वि सृजस्व पूर्णाव् इह सौमनसः सम् ऋध्यताम् । हुतादो ये च गन्धर्वास् त इह स्फातिं सम् आ वहान्
अतिपश्यो निचायक इडुकः पक्वम् आ भर । ईशाना गन्धर्वा भुवनस्य सर्व आ वहन्तु खले स्पातिम् इह सूनृतां च
आ पश्चाद् आ पुरस्ताद् ओत्तराद् अधराद् उत । इन्द्रेह वसोर् ईशानः खले स्फातिं सम् आ वह
स्फातिम् इन्द्रः खले बह्वीम् इहोत् प्राण उत् पृणत् । स्फातिं मे विश्वे देवाः स्फातिं सोमो अथो भगः
स्फातिर् मे अस्तु हस्तयोः स्फातिर् यत्र परारभे । शतहस्तेदम् उत् पृण समुद्रस्येव मध्यतः
इह मे भूय आ भर यथाहं कामये तथा । यथेदम् उद् इव स्फायातै त्रय इव हस्तिनः सह
स्वाद्वीं त्वा मित्रावरुणा स्वाद्वीं देवी सरस्वती । स्वाद्वीं त्वा अश्विना सुरे कृणुतां पुष्करस्रजा
याम् असिञ्चन् सौधन्वना विश्वे देवा मरुद्गणाः । याम् अश्विनासिञ्चतां सा सुरा बहु धावतु
स्वादोः स्वादीयसी भव मधोर् मधुतरा भव । यथ र्श्यस्येयम् आरिश्य् एवा त्वं सुभगे भव
अभ्राज् जातं वर्षाज् जातम् अथो जातं दिवस् परि । अथो समुद्राज् जातं तत् सुरादरणं भव
नाडी नामासि जनुषा सा सुरादरणी भव । सखा हि भद्रस् त आसीद् वृक्षः स्वादुविकङ्कतः
असुरस् त्व् और्ध्वनभसश् चकार प्रथमः सुरे । सुरे दासस्य त्वा गृहे शिरश् चान्धश् च चक्रतुः
निष् पुष्पकं कशीकाया निर् धारायाः सुराम् उत । उद् एहि वाजिनीवति किम् अङ्कतिष्व् इच्छसि
इमे ते जन्या आसते गम्भीरा अभिधृष्णवः । सुरे देवि परि प्रेहि मादयन्ती जनंजनम्
यस्या गृह्णन्ति स्थालेन गाम् अश्वं धान्यं वसु । सा सुरा बहु धावतु
आचरन्तीः पर्वतेभ्यः खनमाना अनभ्रयः । यासां समुद्रे संस्थानं यासां नास्ति निवेशनं तास् ते ददतु बुद्बुदम्
उदङ्कोदचेमां सुरां यां हृदा कामयामहे । तां मे भगस् ताम् अश्विना तां म आवाट् सरस्वती
अयं देवो मयूलशः सा सुरादरणं ददत् । संस्रवणात् प्रस्रवणाद् गिरिभ्यस् पर्य् आभृतः । मध्ये शतस्य मष्टिष्को ऽनड्वान् इव मेहतु
समुद्राद् ऊर्मिर् मधुमाꣳ उद् आरद् उपांशुना सम् अमृतत्वम् आनट् । घृतस्य नाम गुह्यं यद् अस्ति जिह्वा देवानाम् अमृतस्य नाभिः
वयं नाम प्र ब्रवामा घृतस्य- -अस्मिन् यज्ञे धारयामा नमोभिः । उप ब्रह्मा शृणवच् छस्यमानं चतुःशृङ्गो ऽवमीद् गौर एतत्
चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याꣳ आ विवेश
त्रिधा हितं पणिभिर् गुह्यमानं गवि देवासो घृतम् अन्व् अविन्दन् । इन्द्र एकं सूर्य एकं जजान वेनाद् एकं स्वधया निष् टतक्षुः
एता अर्षन्ति हृद्यात् समुद्राच् छतव्रजा रिपुणा नावचक्षे । घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम्
सम्यक् स्रवन्ति सरितो न धेना अन्तर् हृदा मनसा पूयमानाः । एते अर्षन्त्य् ऊर्मयो घृतस्य मृगा इव क्षिपणोर् ईषमाणाः
सिन्धोर् इव प्राध्वने शूघनासो वातः प्रमीयः पतयन्ति यह्वाः । घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्न् ऊर्मिभिः पिन्वमानः
अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो अग्निम् । घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः
कन्या इव वहतुम् एतवा उ अञ्ज्य् अञ्जाना अभि चाकशीमि । यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभि तत् पवन्ते
अभ्य् अर्षत सुष्टुतिं गव्यम् आजीम् अस्मासु भद्रा द्रविणानि धत्त । इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत् पवन्ते
धामन् ते विश्वं भुवनम् अधि श्रितम् अन्तः समुद्रे हृद्य् अन्तर् आयुषि । अपाम् अनीकात् समिथाद् य आभृतस् तम् अश्याम मधुमन्तं त ऊर्मिम्
द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्सम् उप धापयेते । हरिर् अन्यस्यां भवति स्वधावाञ् छुक्रो अन्यस्यां ददृशे सुवर्चाः
दशेमं त्वष्टुर् जनयन्त गर्भम् अतन्द्रासो युवतयो विभृत्रम् । तिग्मानीकं स्वयशसं जनेषु विरोचमानं परि षीं नयन्ति
त्रीणी जानात् प्रति भूषन्त्य् अस्य समुद्र एकं दिव्य् एकम् अप्सु । पूर्वाम् अनु प्र दिशं पार्थिवानाम् ऋतून् प्रशासद् वि दधाव् अनुष्ठु
क इमं वो निण्यम् आ चिकेत वत्सो मातॄर् जनयत स्वधाभिः । बह्वीनां गर्भो अपसाम् उपस्थान् महान् कविर् निश् चरति स्वधावान्
आविष्ट्यो वर्धते चारुर् आसु जिह्मानाम् ऊर्ध्वः स्वयसाम् उपस्थे । उभे त्वष्टुर् बिभ्यतुर् जायमानात् प्रतीची सिंहं प्रति जोषयेते
उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुर् एवैः । स दक्षाणां दक्षपतिर् बभूव- -अञ्जन्ति यं दक्षिणतो हविर्भिः
उद् यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन् । उच् छुक्रम् अत्कम् अजते सिमस्मान् नवा मातृभ्यो वसना जहाति
त्वेषं रूपं कृणुत उत्तरं यत् संपृञ्चानः सदनं गोभिर् अद्भिः । कविर् बुध्नं परि मर्मृज्यते धीः सा देवताता समितिर् बभूव
उरु ते ज्रयः पर्य् एति बुध्नं विरोचमानं महिषस्य धाम । विश्वेभिर् अग्ने स्वयशोभिर् इद्धो ऽदब्धेभिः पायुभिः पाह्य् अस्मान्
धन्वं स्रोतः कृणुते गातुम् ऊर्मिं शुक्रैर् ऊर्मिभिर् अभि नक्षति क्षाम् । विश्वा सनानि जठरेषु धत्ते ऽन्तर् नवासु चरति प्रसूषु
एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसा वि भाहि । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
यो जामदग्न्य इह कौशिको य आत्रेय उत काश्यपो यः । भरद्वाजा गोतमा ये वसिष्ठास् तेभ्यः प्र ब्रूम इह किल्बिषाणि
अगस्त्ययः कण्वाः कुत्साः प्रस्रवणा विरूपा गर्गा मुद्गला यस्काः शूनकाः । संकृतयो ब्राह्मणा ये न द्रुग्धास् तेभ्यः प्र ब्रूम इह किल्बिषाणि
यो नोत्तिष्ठाद् ब्राह्मणे नाधमाने मान्द्येन दृप्त उत धैर्येण । विश्वे देवा उपद्रष्टारो ऽस्य तस्मिन् विषं सं नयान् किल्बिष्यम्
या रोपयः किल्बिषे ब्राह्मणस्य यानि चैनांसि बहुधा दुष्कृतानि । अनुतिष्ठन् प्रोक्त आत्मनि तं नि धत्ते तथा तद् देवा उत वेशयन्ति
नाश्नीयान् न पिबेन् न शयीत न निंसीत जायां नोत पुत्रम् । ब्रह्मकिल्बिषे प्रोक्त उद् एव तिष्ठेत् स ऋतस्य पन्थाः
शतर्चिनो माध्यमा ये महर्षयः क्षुद्रसूक्तानाम् उत या प्रजेह । ऋषीणां यानि जनिमानि विद्मस् तेभ्यः प्र ब्रूम इह किल्बिषाणि
सोदर्याणां पञ्चदशानां शतानां त्रयस्त्रिंशद् उद् अशिष्यन्त देवाः । एकस्मिन् विद्धे सर्वे ऽरुप्यं तद् ब्राह्मणे किल्बिषम् अन्व् अविन्दन्
तस्मै स द्रुह्याद् य इदं नायद् यो नोत्तिष्ठाद् यो न वदाता अस्मिन् । ब्राह्मणस्य किल्बिषे नाथितस्य सोदर्यताम् इच्छतो ब्राह्मणेषु
उत्तिष्ठद् ब्राह्मणाः सं वदध्वं जीतं याचाम पुनर् ऐतु सर्वम् । इन्द्राग्नी विश्वे देवास् ते मे जीतं पुनर् आ वर्तयन्तु
स दीर्घम् आयुष् कृणुते स प्रजायै चिकित्सति । यो ब्राह्मणस्य ब्राह्मणो हूतो अन्वेति किल्बिषे
नास्य प्रजां शर्वो हन्ति न रुद्रो हन्ति नाशनिः । यो ब्राह्मणस्य ब्राह्मणः सत्ये वदति किल्बिषे
तं सोमपीथो जुषते नृचक्षा ग्रावभिः सह । यो ब्राह्मणस्यास्तां हृदः सूर्य इवापालुपत् तमः
य उत्थाय किल्बिषे ब्राह्मणस्यान्नसीच्छन्न् अवायति । उभे एनं द्यावापृथिवी सं तपताम् अथैत्व् अगतस्य पन्थाम्
अनुवाक ३ ॥ नव च या नवतिश् चारूढा वक्षणा अनु । इतस् ताः सर्वा नश्यन्तु नुत्ताः पुत्थज्ञो मया
सप्त च याः सप्ततिश् चारूढा वक्षणा अनु । इतस् ताः सर्वा नश्यन्तु नुत्ताः पुत्थज्ञो मया
पञ्च च याः पञ्चाशच् चारूढा वक्षणा अनु । इतस् ताः सर्वा नश्यन्तु नुत्ताः पुत्थज्ञो मया
ऊरुभ्यां ते ऽष्ठीवद्भ्यां पार्ष्णिभ्यां भंससः । स्त्रिया जार इव पुत्थज्ञीं प्र मृणीमसि
अनुसृप्तां गहनेषु ध्रूक्ष्णां पापीं शिमिद्वतीम् । ताम् एतां दस्यूनां दासीं प्र दहातश् चुकाकणि
या स्त्रीणां पुत्रसदनं केवटान् उपसर्पति । ताम् एतां दस्यूनां दासीं प्र दहातश् चुकाकणि
प्र पतातः सुकटनाडि सुषेः कुषीतको यथा । स्रक्वे ते तिप्रं धक्ष्यामि सा नशिष्यसि पुत्थगि
यदास्याः स्रक्वे दहेद् यदा मूर्धानम् अग्निना । अथैषा दस्यूनां दासी पुत्थगि नि लयिष्यते
संवत्सरम् अचरो असुरेभ्यः प्रतङ्किनी । यत्र क्षेत्रस्य दुर्गन्धि तत् त एतन् न्यञ्चनम्
नैतत् तव मातरं स्था न त एतन् न्यञ्चनम् । अस्माकम् एतद् वीरेभ्यो देवैः प्रजननं कृतम्
गिरौ ते ऽश्म पुत्रम् उदकं हिमवत्सु । तत्रोपप्रस्कद्य नृत्य् अजामि यूथेषु पुत्थगि
स त्वं गोभिर् अश्वैः प्रजया प्रतरं भव । यो मा तत्र प्राहैषीर् यत्र जीवन्ति भद्रया
मित्रः पृथिव्योद् अक्रामत् तां पुरं प्र णयामि वः । ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु
वायुर् अन्तरिक्षेणोद् (…)
सूर्यो दिवोद् (…)
चन्द्रमा नक्षत्रैर् उद् (…)
सोम ओषधीभिर् उद् (…)
यज्ञो दक्षिणाभिर् उद् (…)
समुद्रो नदीभिर् उद् (…)
ब्रह्म ब्रह्मचारिभिर् उद् ((…)
इन्द्रो वीर्येणोद् अक्रामत् तां (…)
देवा अमृतेनोद् अक्रामन् तां (…)
प्रजापतिः प्रजाभिर् उद् अक्रामत् तां पुरं प्र णयामि वः । ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु
संयुज्यन्तः प्रकृषन्तो यद् वो देवा उपोचिरे । ताम् एभ्यः सत्याम् आशिषम् इन्द्र खल्वां सम् अर्धय
अनड्वाहः सत्यावानः सीरं कृणोतु मे वचः । यत्राहैतद् धिताय ते तत् पर्जन्यो ऽभि वो वृषत्
दिव्या आपो वः शक्वरीर् अनु वि यन्तु गह्वरे । ऊर्जस्वतीर् घृतवतीः पयस्वतीर् दृशे भवत मा गुहा
उद् एहि वाजिनीवती पूर्णपात्रा त्विषीमती । दुहाना पूषरक्षिता कामम् एषां सम् आ पृण
इयं सीता फलवती शतवल्शा वि रोहतु । इयं सहस्रभोगा अस्या इन्द्र उपावतु
अश्विना फालं कल्पयताम् उपावतु बृहस्पतिः । यथासद् बहुधान्यम् अयक्ष्मं बहुपूरुषम्
यद् वो देवा उपोचिर इह भूयः स्याद् इति । इह ताम् उत्पृणां वयं देवीम् उप ह्वयामहे
इदं म उत् पृणाद् इति स्फातिं म उत् पृणाद् इति । राशिं मे वर्धयाद् इति
स्फातिकारो बहुकारः स्फिरस्फोष्ठायम् अक्षितः । खलो ज्येष्ठो विभुः प्रभुः
तस्मिन् धान्यं न्य् उप्यते यवो व्रीहिर् अथो तिलः । तस्य गृह्णीत यत् कृतं परिक्षाय चतुःशतम्
शर्कारिवन् मयारवच् चक्रीवत् किं च यद् वृषे । तद् वै स्फातिर् उपायती सर्वम् एवाति रिच्यते
महाञ्जने परा जहि सहस्रापोषम् अर्दय । बह्वी न ओषधे भव समुद्रस्येव संस्रवः
आज्याद् अजः सम् अभवद् देशेभ्य ओदना इमे । तान् अपश्यद् बृहस्पतिः स वै पञ्चौदनो ऽभवत्
चतुर्धैतां सम् अभर ओदनांस् त्वं बृहस्पते । अज आज्याज् जातः स एषां पञ्चमो ऽभवत्
धूमेन दिवम् आप्नोत्य् अन्तरिक्षम् उतोष्मणा । दिश आप्नोति चक्षुषा अजः पञ्चौदनः सवः
या ते माता यस् ते पिता भ्रातरो ये च ते स्वाः । अजं पञ्चौदनं पक्त्वा सर्वे तम् उप जीवत
ये ते पूर्वे परागता अपरे पितरश् च ये । तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती
ये सर्वदा ददति ये वा पचन्त्य् ओदनम् । ते वै यमस्य राज्याद् उत्तरे लोक आसते
नातिरात्र आप्नोति नैनम् आप्नोत्य् उक्थ्यः । नाग्निष्टोम आप्नोत्य् अजं पञ्चौदनं सवम्
दशरात्रेण संमितो द्वादशाहेन कल्पते । दीर्घसत्त्रेण संमितो ऽजः पञ्चौदनः सवः
तेषां बर्हिष्यं सर्वं यन् नष्टं यच् च म्रियते । यच् च स्तेनो ऽपाजति येषां पञ्चौदनः सवः
या पूर्वपतिं वित्त्वा- -अथान्यं विन्दते ऽपरम् । पञ्चौदनं च ताव् अजं पचतो न वि योषतः
समानलोको भवति पुनर्भुवापरः पतिः । अजं पञ्चौदनं दक्षिणाज्योतिषं ददत्
सूर्यो मा वर्चसोक्षतु- -उक्षताम् अश्विनोभा । आदित्य ऊर्ध्व उच्चरन् स उ मा वर्चसोक्षतु
वर्चसा मां पितुर् अग्निर् वर्चसा मा बृहस्पतिः । सुरायाः सिच्यमानायाः कीलालवर्चसेन मा । तेन माम् अश्विनोभा उक्षतां पुष्करस्रजा
वर्चस्वन् मे मुखम् अस्तु रोचमानं विषासहि । तन् मा हिरण्यवर्चसं कृणोमि पश्यतां प्रियम्
मधोर् अहं मधुतरो मधुघान् मधुमत्तरः । माम् अनु प्र विशतु वर्च ऋषभो वाशिताम् इव
इदम् आञ्जनम् आनजे वर्चस्यम् आ कनिक्रदम् । यथा कनिक्रदच् चराणि वर्चसा च भगेन च
वर्चसाग्निम् आ दधति वर्चसोद् एति सूर्यः । यावद् वर्चो गोहिरण्यस्य तावन् मे वर्चो भूयात्
यावत् त्वं देव सूर्य उद्यन्न् अभि विपश्यसि । तावन् मा वर्चसाभि वि पश्य
पूर्णो भगस्याहं भूत्वा- -अरुक्षं वर्चसो रथम् । स मा वहतु सर्वदा- -आयुष्मन्तं सुवर्चसम्
भगेनाहं परिहितो वर्चसा द्रविणेन च । यथा चराणि सर्वदा रोचमानं विभावसु
एवा मा भग आगमद् एवा मा वर्च आगमत् । एवा मा तेज आगमद् एवा मा यश आगमत्
हिरण्ययेन चक्रेण भगस्यापिहितो गृहः । तं व्य् उब्जामि ब्रह्मणा तस्य मे दत्तम् अश्विना दत्तं मे पुष्करस्रजा
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ṚṢIS). Atharvaveda Paippalāda — Kāṇḍa 8. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-8>. Acesso em: 26/04/2026.
Tradição Védica (Ṛṣis) (2026). Atharvaveda Paippalāda — Kāṇḍa 8. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-8
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 8." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/atharvaveda-paippalada-kanda-8.