Atharvaveda Śaunakīya — Kāṇḍa 15
Tradição Védica (Atharvan ṛṣis)
व्रात्य आसीदीयमान एव स प्रजापतिं समैरयत्॥१॥ स प्रजापतिः सुवर्णमात्मन्न् अपश्यत्तत्प्राजनयत्॥२॥ तदेकमभवत्तल्ललाममभवत्तन् महदभवत्तज्ज्येष्ठमभवत्तद्ब्रह्माभवत्तत्तपोऽभवत्तत्सत्यमभवत् तेन प्राजायत।। सोऽवर्धत स महान् अभवत्स महादेवोऽभवत्॥४॥ स देवानामीशां पर्यैत्स ईशानोऽभवत्॥५॥ स एकव्रात्योऽभवत्स धनुरादत्त तदेवेन्द्रधनुः ॥६॥ नीलमस्योदरं लोहितं पृष्ठम् ॥७॥ नीलेनैवाप्रियं भ्रातृव्यं प्रोर्णोति लोहितेन द्विषन्तं विध्यतीति ब्रह्मवादिनो वदन्ति।। चादित्येभ्यश्च विश्वेभ्यश्च देवेभ्य आ वृश्चते य एवं बृहतश्च वै स रथन्तरस्य
स उदतिष्ठत्स प्राचीं दिशमनु व्यचलत्। तं बृहच्च रथन्तरं चादित्याश्च विश्वे च देवा अनुव्यचलन् । बृहते च वै स रथन्तराय चादित्येभ्यश् च विश्वेभ्यश् च देवेभ्य आ वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति | बृहतश् च वै स रथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति य एवं वेद । तस्य प्राच्यां दिशि श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । भूतं च भविष्यच्च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश् च यशश् च पुरःसरौ ।। ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥१॥ स उदतिष्ठत्स दक्षिणां दिशमनु व्यचलत्। तं यज्ञायज्ञियं च वामदेव्यं च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् । यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद तस्य दक्षिणायां दिश्युषाः पुंश्चली मन्त्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर् मणिः अमावास्या च पौर्णमासी च परिष्कन्दौ मनो विपथं।। मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः।। कीर्तिश्च यशश्च पुरःसरावैनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥२॥ स उदतिष्ठत्स प्रतीचीं दिशमनु व्यचलत्। तं वैरूपं च वैराजं चापश्च वरुणश्च राजानुव्यचलन् । वैरूपाय च वै स वैराजाय चाद्भ्यश्च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति।। वैरूपस्य च वै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति य एवं वेद । तस्य प्रतीच्यां दिशीरा पुंश्चली हसो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । अहश्च रात्री च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥३॥ स उदतिष्ठत्स उदीचीं दिशमनु व्यचलत्। तं श्यैतं च नौधसं च सप्तर्षयश्च सोमश्च राजानुव्यचलन् । श्यैताय च वै स नौधसाय च सप्तर्षिभ्यश्च सोमाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति।। श्यैतस्य च वै स नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति भवति य एवं वेद । तस्योदीच्यां दिशि विद्युत्पुंश्चली स्तनयित्नुर्मागधो विज्ञानं वासोऽहरुष्णीषं श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥४॥
स संवत्सरमूर्ध्वोऽतिष्ठत्तं देवा अब्रुवन् व्रात्य किं नु तिष्ठसीति ॥१॥ सोऽब्रवीदासन्दीं मे सं भरन्त्विति ॥२॥ तस्मै व्रात्यायासन्दीं समभरन् ॥३॥ तस्या ग्रीष्मश्च वसन्तश्च द्वौ पादावास्तां शरच्च वर्षाश्च द्वौ ॥४॥ बृहच्च रथन्तरं चानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये ॥५॥ ऋचः प्राञ्चस्तन्तवो यजूंषि तिर्यञ्चः ॥६॥ वेद आस्तरणं ब्रह्मोपबर्हणम् ॥७॥ सामासाद उद्गीथोऽपश्रयः ॥८॥ तामासन्दीं व्रात्य आरोहत्॥९॥ तस्य देवजनाः परिष्कन्दा आसन्त्संकल्पाः प्रहाय्या विश्वानि भूतान्युपसदः ॥१०॥ विश्वान्येवास्य भूतान्युपसदो भवन्ति य एवं वेद ॥११॥
तस्मै प्राच्या दिशः । वासन्तौ मासौ गोप्तारावकुर्वन् बृहच्च रथन्तरं चानुष्ठातारौ । वासन्तावेनं मासौ प्राच्या दिशो गोपायतो बृहच्च रथन्तरं चानु तिष्ठतो य एवं वेद।। तस्मै दक्षिणाया दिशः । ग्रैष्मौ मासौ गोप्तारावकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ । ग्रैष्मावेनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद।। तस्मै प्रतीच्या दिशः । वार्षिकौ मासौ गोप्तारावकुर्वन् वैरूपं च वैराजं चानुष्ठातारौ । वार्षिकावेनं मासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवं वेद।। तस्मा उदीच्या दिशः । शारदौ मासौ गोप्तारावकुर्वं छ्यैतं च नौधसं चानुष्ठातारौ । शारदावेनं मासावुदीच्या दिशो गोपायतः श्यैतं च नौधसं चानु तिष्ठतो य एवं वेद।। तस्मै ध्रुवाया दिशः । हैमनौ मासौ गोप्तारावकुर्वन् भूमिं चाग्निं चानुष्ठातारौ । हैमनावेनं मासौ ध्रुवाया दिशो गोपायतो भूमिश्चाग्निश्चानु तिष्ठतो य एवं वेद।। तस्मा ऊर्ध्वाया दिशः । शैशिरौ मासौ गोप्तारावकुर्वन् दिवं चादित्यं चानुष्ठातारौ । शैशिरावेनं मासावूर्ध्वाया दिशो गोपायतो द्यौश्चादित्यश्चानु तिष्ठतो य एवं वेद।।
तस्मै प्राच्या दिशो अन्तर्देशाद्भवमिष्वासमनुष्ठातारमकुर्वन् । भव एनमिष्वासः प्राच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः।। नास्य पशून् न समानान् हिनस्ति य एवं वेद।। तस्मै दक्षिणाया दिशो अन्तर्देशाच्छर्वमिष्वासमनुष्ठातारमकुर्वन् । शर्व एनमिश्वासो दक्षिणाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः।। नास्य पशून् न समानान् हिनस्ति य एवं वेद।। तस्मै प्रतीच्या दिशो अन्तर्देशात्पशुपतिमिष्वासमनुष्ठातारमकुर्वन् । पशुपतिरेनमिष्वासः प्रतीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः।। नास्य पशून् न समानान् हिनस्ति य एवं वेद।। तस्मा उदीच्या दिशो अन्तर्देशादुग्रं देवमिष्वासमनुष्ठातारमकुर्वन् । उग्र एनं देव इष्वास उदीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः।। नास्य पशून् न समानान् हिनस्ति य एवं वेद।। तस्मै ध्रुवाया दिशो अन्तर्देशाद्रुद्रमिष्वासमनुष्ठातारमकुर्वन् । रुद्र एनमिष्वासो ध्रुवाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः।। नास्य पशून् न समानान् हिनस्ति य एवं वेद।। तस्मा ऊर्ध्वाया दिशो अन्तर्देशान् महादेवमिष्वासमनुष्ठातारमकुर्वन् । [१२ महादेव एनमिष्वास ऊर्ध्वाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः।। नास्य पशून् न समानान् हिनस्ति य एवं वेद।। तस्मै सर्वेभ्यो अन्तर्देशेभ्य ईशानमिष्वासमनुष्ठातारमकुर्वन् । ईशान एनमिष्वासः सर्वेभ्यो अन्तर्देशेभ्योऽनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः।। नास्य पशून् न समानान् हिनस्ति य एवं वेद।।
स ध्रुवां दिशमनु व्यचलत्। तं भूमिश्चाग्निश्चौषधयश्च वनस्पतयश्च वानस्पत्याश्च वीरुधश्चानुव्यचलन् । भूमेश्च वै सोऽग्नेश्चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वीरुधां च प्रियं धाम भवति य एवं वेद स ऊर्ध्वां दिशमनु व्यचलत्। तमृतं च सत्यं च सूर्यश्च चन्द्रश्च नक्षत्राणि चानुव्यचलन् । ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणां च प्रियं धाम भवति य एवं वेद स उत्तमां दिशमनु व्यचलत्। तमृचश्च सामानि च यजूंषि च ब्रह्म चानुव्यचलन् । ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश्च प्रियं धाम भवति य एवं वेद ॥३॥ स बृहतीं दिशमनु व्यचलत्। तमितिहासश्च पुराणं च गाथाश्च नाराशंसीश्चानुव्यचलन् । इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद।। स परमां दिशमनु व्यचलत्। तमाहवनीयश्च गार्हपत्यश्च दक्षिणाग्निश्च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन्।। आहवनीयस्य च वै स गार्हपत्यस्य च दक्षिणाग्नेश्च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद सोऽनादिष्टां दिशमनु व्यचलत्। तमृतवश्चार्तवाश्च लोकाश्च लौक्याश्च मासाश्चार्धमासाश्चाहोरात्रे चानुव्यचलन्।। ऋतूनां च वै स आर्तवानां च लोकानां च लौक्यानां च मासानां चार्धमासानां चाहोरात्रयोश्च प्रियं धाम भवति य एवं वेद सोऽनावृत्तां दिशमनु व्यचलत्ततो नावर्त्स्यन्न् अमन्यत । तं दितिश्चादितिश्चेडा चेन्द्राणी चानुव्यचलन् । दितेश्च वै सोऽदितेश्चेडायाश्चेन्द्राण्याश्च प्रियं धाम भवति य एवं वेद स दिशोऽनु व्यचलत्तं विराडनु व्यचलत्सर्वे च देवाः सर्वाश्च देवताः । विराजश्च वै स सर्वेषां च देवानां सर्वासां च देवतानां प्रियं धाम भवति य एवं वेद।। स सर्वान् अन्तर्देशान् अनु व्यचलत्। तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चानुव्यचलन् । प्रजापतेश्च वै स परमेष्ठिनश्च पितुश्च पितामहस्य च प्रियं धाम भवति य एवं वेद।।
स महिमा सद्रुर्भूत्वान्तं पृथिव्या अगच्छत्समुद्रोऽभवत्॥१॥ तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चापश्च श्रद्धा च वर्षं भूत्वानुव्यवर्तयन्त ॥२॥ ऐनमापो गच्छन्त्यैनं श्रद्धा गच्छत्यैनं वर्षं गच्छति य एवं वेद ॥३॥ तं श्रद्धा च यज्ञश्च लोकश्चान्नं चान्नाद्यं च भूत्वाभिपर्यावर्तन्त ॥४॥ ऐनं श्रद्धा गच्छत्यैनं यज्ञो गच्छत्यैनं लोको गच्छत्यैनमन्नं गच्छत्यैनमन्नाद्यं गच्छति य एवं वेद।।
सोऽरज्यत ततो राजन्योऽजायत ॥१॥ स विशः सबन्धून् अन्नमन्नाद्यमभ्युदतिष्ठत्॥२॥ विशां च वै स सबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य एवं वेद ॥३॥
स विशोऽनु व्यचलत्॥१॥ तं सभा च समितिश्च सेना च सुरा चानुव्यचलन् ॥२॥ सभायाश्च वै स समितेश्च सेनायाश्च सुरायाश्च प्रियं धाम भवति य एवं वेद ॥३॥
तद्यस्यैवं विद्वान् व्रात्यो राज्ञोऽतिथिर्गृहान् आगछेत्॥१॥ श्रेयांसमेनमात्मनो मानयेत्तथा क्षत्राय ना वृश्चते तथा राष्ट्राय ना वृश्चते ॥ अतो वै ब्रह्म च क्षत्रं चोदतिष्ठतां ते अब्रूतां कं प्र विशावेति ॥३॥ बृहस्पतिमेव ब्रह्म प्रविशत्विन्द्रं क्षत्रं तथा वा इति ॥४॥ अतो वै बृहस्पतिमेव ब्रह्म प्राविशदिन्द्रं क्षत्रम् ॥५॥ इयं वा उ पृथिवी बृहस्पतिर्द्यौरेवेन्द्रः ॥६॥ अयं वा उ अग्निर्ब्रह्मासावादित्यः क्षत्रम् ॥७॥ ऐनं ब्रह्म गच्छति ब्रह्मवर्चसी भवति ॥८॥ यः पृथिवीं बृहस्पतिमग्निं ब्रह्म वेद ॥९॥ ऐनमिन्द्रियं गच्छतीन्द्रियवान् भवति ॥१०॥ य आदित्यं क्षत्रं दिवमिन्द्रं वेद ॥११॥
तद्यस्यैवं विद्वान् व्रात्योऽतिथिर्गृहान् आगछेत्॥१॥ स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्य क्वावात्सीर्व्रात्योदकं व्रात्य तर्पयन्तु व्रात्य यथा ते प्रियं तथास्तु व्रात्य यथा ते वशस्तथास्तु व्रात्य यथा ते निकामस्तथास्त्विति ॥२॥ यदेनमाह व्रात्य क्वावात्सीरिति पथ एव तेन देवयानान् अव रुन्धे ॥३॥ यदेनमाह व्रात्योदकमित्यप एव तेनाव रुन्धे ॥४॥ यदेनमाह व्रात्य तर्पयन्त्विति प्राणमेव तेन वर्षीयांसं कुरुते ॥५॥ यदेनमाह व्रात्य यथा ते प्रियं तथास्त्विति प्रियमेव तेनाव रुन्धे ॥६॥ ऐनं प्रियं गच्छति प्रियः प्रियस्य भवति य एवं वेद ॥७॥ यदेनमाह व्रात्य यथा ते वशस्तथास्त्विति वशमेव तेनाव रुन्धे ॥८॥ ऐनं वशो गच्छति वशी वशिनां भवति य एवं वेद ॥९॥ यदेनमाह व्रात्य यथा ते निकामस्तथास्त्विति निकाममेव तेनाव रुन्धे ॥१०॥ ऐनं निकामो गच्छति निकामे निकामस्य भवति य एवं वेद ॥११॥
तद्यस्यैवं विद्वान् व्रात्य उद्धृतेष्वग्निष्वधिश्रितेऽग्निहोत्रेऽतिथिर्गृहान् आगछेत्॥१॥ स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्याति सृज होष्यामीति ॥२॥ स चातिसृजेज्जुहुयान् न चातिसृजेन् न जुहुयात्॥३॥ स य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥४॥ प्र पितृयाणं पन्थां जानाति प्र देवयानम् ॥५॥ न देवेष्वा वृश्चते हुतमस्य भवति ॥६॥ पर्यस्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥७॥ अथ य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥८॥ न पितृयाणं पन्थां जानाति न देवयानम् ॥९॥ आ देवेषु वृश्चते अहुतमस्य भवति ॥१०॥ नास्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥११॥
तद्यस्यैवं विद्वान् व्रात्य एकां रात्रिमतिथिर्गृहे वसति । ये पृथिव्यां पुण्या लोकास्तान् एव तेनाव रुन्धे ॥१॥ तद्यस्यैवं विद्वान् व्रात्यो द्वितीयां रात्रिमतिथिर्गृहे वसति । येऽन्तरिक्षे पुण्या लोकास्तान् एव तेनाव रुन्धे ॥२॥ तद्यस्यैवं विद्वान् व्रात्यस्तृतीयां रात्रिमतिथिर्गृहे वसति । ये दिवि पुण्या लोकास्तान् एव तेनाव रुन्धे ॥३॥ तद्यस्यैवं विद्वान् व्रात्यश्चतुर्थीं रात्रिमतिथिर्गृहे वसति । ये पुण्यानां पुण्या लोकास्तान् एव तेनाव रुन्धे ॥४॥ तद्यस्यैवं विद्वान् व्रात्योऽपरिमिता रात्रीरतिथिर्गृहे वसति । य एवापरिमिताः पुण्या लोकास्तान् एव तेनाव रुन्धे ॥५॥ अथ यस्याव्रात्यो व्रात्यब्रुवो नामबिभ्रत्यतिथिर्गृहान् आगछेत्॥६॥ कर्षेदेनं न चैनं कर्षेत्॥७॥ अस्यै देवताया उदकं याचामीमां देवतां वासय इमामिमां देवतां परि वेवेष्मी परि वेविष्यात्॥८॥ तस्यामेवास्य तद्देवतायां हुतं भवति य एवं वेद ॥९॥
स यत्प्राचीं दिशमनु व्यचलन् मारुतं शर्धो भूत्वानुव्यचलन् मनोऽन्नादं कृत्वा । मनसान्नादेनान्नमत्ति य एवं वेद ॥१॥ स यद्दक्षिणां दिशमनु व्यचलदिन्द्रो भूत्वानुव्यचलद्बलमन्नादं कृत्वा । [३ बलेनान्नादेनान्नमत्ति य एवं वेद ॥२॥ स यत्प्रतीचीं दिशमनु व्यचलद्वरुणो राजा भूत्वानुव्यचलदपोऽन्नादीः कृत्वा अद्भिरन्नादीभिरन्नमत्ति य एवं वेद ॥३॥ स यदुदीचीं दिशमनु व्यचलत्सोमो राजा भूत्वानुव्यचलत्सप्तर्षिभिर्हुत आहुतिमन्नादीं कृत्वा । आहुत्यान्नाद्यान्नमत्ति य एवं वेद ॥४॥ स यद्ध्रुवां दिशमनु व्यचलद्विष्णुर्भूत्वानुव्यचलद्विराजमन्नादीं कृत्वा विराजान्नाद्यान्नमत्ति य एवं वेद ॥५॥ स यत्पशून् अनु व्यचलद्रुद्रो भूत्वानुव्यचलदोषधीरन्नादीः कृत्वा । ओषधीभिरन्नादीभिरन्नमत्ति य एवं वेद ॥६॥ स यत्पितॄन् अनु व्यचलद्यमो राजा भूत्वानुव्यचलत्स्वधाकारमन्नादं कृत्वा स्वधाकारेणान्नादेनान्नमत्ति य एवं वेद ॥७॥ स यन् मनुष्यान् अनु व्यचलदग्निर्भूत्वानुव्यचलत्स्वाहाकारमन्नादं कृत्वा स्वाहाकारेणान्नादेनान्नमत्ति य एवं वेद ॥८॥ स यदूर्ध्वां दिशमनु व्यचलद्बृहस्पतिर्भूत्वानुव्यचलद्वषट्कारमन्नादं कृत्वा वषट्कारेणान्नादेनान्नमत्ति य एवं वेद ॥९॥ स यद्देवान् अनु व्यचलदीशानो भूत्वानुव्यचलन् मन्युमन्नादं कृत्वा । [१ मन्युनान्नादेनान्नमत्ति य एवं वेद ॥१०॥ स यत्प्रजा अनु व्यचलत्प्रजापतिर्भूत्वानुव्यचलत्प्राणमन्नादं कृत्वा । प्राणेनान्नादेनान्नमत्ति य एवं वेद ॥११॥ स यत्सर्वान् अन्तर्देशान् अनु व्यचलत्परमेष्ठी भूत्वानुव्यचलद्ब्रह्मान्नादं कृत्वा । ब्रह्मणान्नादेनान्नमत्ति य एवं वेद ॥१२॥
तस्य व्रात्यस्य ॥१॥ सप्त प्राणाः सप्तापानाः सप्त व्यानाः ॥२॥ योऽस्य प्रथमः प्राण ऊर्ध्वो नामायं सो अग्निः ॥३॥ योऽस्य द्वितीयः प्राणः प्रौढो नामासौ स आदित्यः ॥४॥ योऽस्य तृतीयः प्राणोऽभ्यूढो नामासौ स चन्द्रमाः ॥५॥ योऽस्य चतुर्थः प्राणो विभूर्नामायं स पवमानः ॥६॥ योऽस्य पञ्चमः प्राणो योनिर्नाम ता इमा आपः ॥७॥ योऽस्य षष्ठः प्राणः प्रियो नाम त इमे पशवः ॥८॥ योऽस्य सप्तमः प्राणोऽपरिमितो नाम ता इमाः प्रजाः ॥९॥
योऽस्य प्रथमोऽपानः सा पौर्णमासी ॥१॥ योऽस्य द्वितीयोऽपानः साष्टका ॥२॥ योऽस्य तृतीयोऽपानः सामावास्या ॥३॥ योऽस्य चतुर्थोऽपानः सा श्रद्धा ॥४॥ योऽस्य पञ्चमोऽपानः सा दीक्षा ॥५॥ योऽस्य षष्ठोऽपानः स यज्ञः ॥६॥ योऽस्य सप्तमोऽपानस्ता इमा दक्षिणाः ॥७॥
योऽस्य प्रथमो व्यानः सेयं भूमिः ॥१॥ योऽस्य द्वितीयो व्यानस्तदन्तरिक्षम् ॥२॥ योऽस्य तृतीयो व्यानः सा द्यौः ॥३॥ योऽस्य चतुर्थो व्यानस्तानि नक्षत्राणि ॥४॥ योऽस्य पञ्चमो व्यानस्त ऋतवः ॥५॥ योऽस्य षष्ठो व्यानस्त आर्तवाः ॥६॥ योऽस्य सप्तमो व्यानः स संवत्सरः ॥७॥ समानमर्थं परि यन्ति देवाः संवत्सरं वा एतदृतवोऽनुपरियन्ति व्रात्यं च ॥८॥ यदादित्यमभिसंविशन्त्यमावास्यां चैव तत्पौर्णमासीं च ॥९॥ एकं तदेषाममृतत्वमित्याहुतिरेव ॥१०॥
तस्य व्रात्यस्य ॥१॥ यदस्य दक्षिणमक्ष्यसौ स आदित्यो यदस्य सव्यमक्ष्यसौ स चन्द्रमाः ॥२॥ योऽस्य दक्षिणः कर्णोऽयं सो अग्निर्योऽस्य सव्यः कर्णोऽयं स पवमानः ॥३॥ अहोरात्रे नासिके दितिश्चादितिश्च शीर्षकपाले संवत्सरः शिरः ॥४॥ अह्ना प्रत्यङ्व्रात्यो रात्र्या प्राङ्नमो व्रात्याय ॥५॥ * (15,1।1अ) व्रात्य आसीद् ईयमान एव स प्रजापतिं सम् अइरयत् ||1|| * (15,1।2अ) स प्रजापतिः सुवर्णम् आत्मन्न् अपश्यत् तत् प्राजनयत् ||2|| * (15,1।3अ) तद् एकम् अभवत् तल् ललामम् अभवत् तन् महद् अभवत् तज् ज्येष्ठम् अभवत् तद् ब्रह्माभवत् तत् तपो 'भवत् तत् सत्यम् अभवत् तेन प्राजायत ||3|| * (15,1।4अ) सो 'वर्धत स महान् अभवत् स महादेवो 'भवत् ||4|| * (15,1।5अ) स देवानाम् ईशां पर्य् अइत् स ईशानो 'भवत् ||5|| * (15,1।6अ) स एकव्रात्यो 'भवत् स धनुर् आदत्त तद् एवेन्द्रधनुः ||6|| * (15,1।7अ) नीलम् अस्योदरं लोहितं पृष्ठम् ||7|| * (15,1।8अ) नीलेनैवाप्रियं भ्रातृव्यं प्रोर्णोति लोहितेन द्विषन्तं विध्यतीति ब्रह्मवादिनो वदन्ति ||8|| * (15,2।1[2।1]अ) स उद् अतिष्ठत् स प्राचीं दिशम् अनु व्य् अचलत् | * (15,2।1[2।2]ब्) तं बृहच् च रथन्तरं चादित्याश् च विश्वे च देवा अनुव्यचलन् | * (15,2।1[2।3]च्) बृहते च वै स रथन्तराय चादित्येभ्यश् च विश्वेभ्यश् च देवेभ्य आ वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति | * (15,2।1[2।4]द्) बृहतश् च वै स रथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति य एवं वेद | * (15,2।1[2।5]ए) तस्य प्राच्यां दिशि श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासो 'हर् उष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर् मणिः | * (15,2।1[2।6-7]) भूतं च भविष्यच् च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश् च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश् च यशश् च पुरःसरौ | [6-7] * (15,2।1[2।8]ग्) अइनं कीर्तिर् गछत्य् आ यशो गछति य एवं वेद ||1|| * (15,2।2[2।9]अ) स उद् अतिष्ठत् स दक्षिणां दिशम् अनु व्य् अचलत् | * (15,2।2[2।10]ब्) तं यज्ञायज्ञियं च वामदेव्यं च यज्ञश् च यजमानश् च पशवश् चानुव्यचलन् | * (15,2।2[2।11]च्) यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश् चा वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति | * (15,2।2[2।12]द्) यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद | * (15,2।2[2।13]ए) तस्य दक्षिणायां दिश्य् उषाः पुंश्चली मन्त्रो मागधो विज्ञानं वासो 'हर् उष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर् मणिः | * (15,2।2[2।14]) अमावास्या च पौर्णमासी च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश् च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश् च यशश् च पुरःसरौ | * (15,2।2[2।14]ग्) अइनं कीर्तिर् गछत्य् आ यशो गछति य एवं वेद ||2|| * (15,2।3[2।15]अ) स उद् अतिष्ठत् स प्रतीचीं दिशम् अनु व्य् अचलत् | * (15,2।3[2।16]ब्) तं वैरूपं च वैराजं चापश् च वरुणश् च राजानुव्यचलन् | * (15,2।3[2।17]च्) वैरूपाय च वै स वैराजाय चाद्भ्यश् च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति | * (15,2।3[2।18]द्) वैरूपस्य च वै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति य एवं वेद | * (15,2।3[2।19]ए) तस्य प्रतीच्यां दिशीरा पुंश्चली हसो मागधो विज्ञानं वासो 'हर् उष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर् मणिः | * (15,2।3[2।20]) अहश् च रात्री च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश् च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश् च यशश् च पुरःसरौ | * (15,2।3[2।20]ग्) अइनं कीर्तिर् गछत्य् आ यशो गछति य एवं वेद ||3|| * (15,2।4[2।21]अ) स उद् अतिष्ठत् स उदीचीं दिशम् अनु व्य् अचलत् | * (15,2।4[2।22]ब्) तं श्यैतं च नौधसं च सप्तर्षयश् च सोमश् च राजानुव्यचलन् | * (15,2।4[2।23]च्) श्यैताय च वै स नौधसाय च सप्तर्षिभ्यश् च सोमाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति | * (15,2।4[2।24]द्) श्यैतस्य च वै स नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति य एवं वेद | * (15,2।4[2।25]ए) तस्योदीच्यां दिशि विद्युत् पुंश्चली स्तनयित्नुर् मागधो विज्ञानं वासो 'हर् उष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर् मणिः | * (15,2।4[2।26-27]) श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश् च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश् च यशश् च पुरःसरौ | [26-27] * (15,2।4[2।28]ग्) अइनं कीर्तिर् गछत्य् आ यशो गछति य एवं वेद ||4|| * (15,3।1अ) स संवत्सरम् ऊर्ध्वो 'तिष्ठत् तं देवा अब्रुवन् व्रात्य किं नु तिष्ठसीति ||1|| * (15,3।2अ) सो 'ब्रवीद् आसन्दीं मे सं भरन्त्व् इति ||2|| * (15,3।3अ) तस्मै व्रात्यायासन्दीं सम् अभरन् ||3|| * (15,3।4अ) तस्या ग्रीष्मश् च वसन्तश् च द्वौ पादाव् आस्तां शरच् च वर्षाश् च द्वौ ||4|| * (15,3।5अ) बृहच् च रथन्तरं चानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये ||5|| * (15,3।6अ) ऋचः प्राञ्चस् तन्तवो यजूंषि तिर्यञ्चः ||6|| * (15,3।7अ) वेद आस्तरणं ब्रह्मोपबर्हणम् ||7|| * (15,3।8अ) सामासाद उद्गीथो 'पश्रयः ||8|| * (15,3।9अ) ताम् आसन्दीं व्रात्य आरोहत् ||9|| * (15,3।10अ) तस्य देवजनाः परिष्कन्दा आसन्त् संकल्पाः प्रहाय्या विश्वानि भूतान्य् उपसदः ||10|| * (15,3।11अ) विश्वान्य् एवास्य भूतान्य् उपसदो भवन्ति य एवं वेद ||11|| * (15,4।1[4।1]अ) तस्मै प्राच्या दिशः | * (15,4।1[4।2]ब्) वासन्तौ मासौ गोप्ताराव् अकुर्वन् बृहच् च रथन्तरं चानुष्ठातारौ | * (15,4।1[4।3]च्) वासन्ताव् एनं मासौ प्राच्या दिशो गोपायतो बृहच् च रथन्तरं चानु तिष्ठतो य एवं वेद ||1|| * (15,4।2[4।4]अ) तस्मै दक्षिणाया दिशः | * (15,4।2[4।5]ब्) ग्रैष्मौ मासौ गोप्ताराव् अकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ | * (15,4।2[4।6]च्) ग्रैष्माव् एनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद ||2|| * (15,4।3[4।7]अ) तस्मै प्रतीच्या दिशः | * (15,4।3[4।8]ब्) वार्षिकौ मासौ गोप्ताराव् अकुर्वन् वैरूपं च वैराजं चानुष्ठातारौ | * (15,4।3[4।9]च्) वार्षिकाव् एनं मासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवं वेद ||3|| * (15,4।4[4।10]अ) तस्मा उदीच्या दिशः | * (15,4।4[4।11]ब्) शारदौ मासौ गोप्ताराव् अकुर्वं छ्यैतं च नौधसं चानुष्ठातारौ | * (15,4।4[4।12]च्) शारदाव् एनं मासाव् उदीच्या दिशो गोपायतः श्यैतं च नौधसं चानु तिष्ठतो य एवं वेद ||4|| * (15,4।5[4।13]अ) तस्मै ध्रुवाया दिशः | * (15,4।5[4।14]ब्) हैमनौ मासौ गोप्ताराव् अकुर्वन् भूमिं चाग्निं चानुष्ठातारौ | * (15,4।5[4।15]च्) हैमनाव् एनं मासौ ध्रुवाया दिशो गोपायतो भूमिश् चाग्निश् चानु तिष्ठतो य एवं वेद ||5|| * (15,4।6[4।16]अ) तस्मा ऊर्ध्वाया दिशः | * (15,4।6[4।17]ब्) शैशिरौ मासौ गोप्ताराव् अकुर्वन् दिवं चादित्यं चानुष्ठातारौ | * (15,4।6[4।18]च्) शैशिराव् एनं मासाव् ऊर्ध्वाया दिशो गोपायतो द्यौश् चादित्यश् चानु तिष्ठतो य एवं वेद ||6|| * (15,5।1[5।1]अ) तस्मै प्राच्या दिशो अन्तर्देशाद् भवम् इष्वासम् अनुष्ठातारम् अकुर्वन् | * (15,5।1[5।2-3]ब्) भव एनम् इष्वासः प्राच्या दिशो अन्तर्देशाद् अनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ||1|| [2-3] * (15,5।2[5।4]अ) तस्मै दक्षिणाया दिशो अन्तर्देशाच् छर्वम् इष्वासम् अनुष्ठातारम् अकुर्वन् | * (15,5।2[5।5]ब्) शर्व एनम् इश्वासो दक्षिणाया दिशो अन्तर्देशाद् अनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ||2|| * (15,5।3[5।6]अ) तस्मै प्रतीच्या दिशो अन्तर्देशात् पशुपतिम् इष्वासम् अनुष्ठातारम् अकुर्वन् | * (15,5।3[5।7]ब्) पशुपतिर् एनम् इष्वासः प्रतीच्या दिशो अन्तर्देशाद् अनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ||3|| * (15,5।4[5।8]अ) तस्मा उदीच्या दिशो अन्तर्देशाद् उग्रं देवम् इष्वासम् अनुष्ठातारम् अकुर्वन् | * (15,5।4[5।9]ब्) उग्र एनं देव इष्वास उदीच्या दिशो अन्तर्देशाद् अनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ||4|| * (15,5।5[5।10]अ) तस्मै ध्रुवाया दिशो अन्तर्देशाद् रुद्रम् इष्वासम् अनुष्ठातारम् अकुर्वन् | * (15,5।5[5।11]ब्) रुद्र एनम् इष्वासो ध्रुवाया दिशो अन्तर्देशाद् अनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ||5|| * (15,5।6[5।12]अ) तस्मा ऊर्ध्वाया दिशो अन्तर्देशान् महादेवम् इष्वासम् अनुष्ठातारम् अकुर्वन् | * (15,5।6[5।13]ब्) महादेव एनम् इष्वास ऊर्ध्वाया दिशो अन्तर्देशाद् अनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ||6|| * (15,5।7[5।14]अ) तस्मै सर्वेभ्यो अन्तर्देशेभ्य ईशानम् इष्वासम् अनुष्ठातारम् अकुर्वन् | * (15,5।7[5।15-16]ब्) ईशान एनम् इष्वासः सर्वेभ्यो अन्तर्देशेभ्यो 'नुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ||7|| [15-16] * (15,6।1[6।1]अ) स ध्रुवां दिशम् अनु व्य् अचलत् | * (15,6।1[6।2]ब्) तं भूमिश् चाग्निश् चौषधयश् च वनस्पतयश् च वानस्पत्याश् च वीरुधश् चानुव्यचलन् | * (15,6।1[6।3]च्) भूमेश् च वै सो 'ग्नेश् चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वीरुधां च प्रियं धाम भवति य एवं वेद ||1|| * (15,6।2[6।4]अ) स ऊर्ध्वां दिशम् अनु व्य् अचलत् | * (15,6।2[6।5]ब्) तम् ऋतं च सत्यं च सूर्यश् च चन्द्रश् च नक्षत्राणि चानुव्यचलन् | * (15,6।2[6।6]च्) ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणां च प्रियं धाम भवति य एवं वेद ||2|| * (15,6।3[6।7]अ) स उत्तमां दिशम् अनु व्य् अचलत् | * (15,6।3[6।8]ब्) तम् ऋचश् च सामानि च यजूंषि च ब्रह्म चानुव्यचलन् | * (15,6।3[6।9]च्) ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश् च प्रियं धाम भवति य एवं वेद ||3|| * (15,6।4[6।10]अ) स बृहतीं दिशम् अनु व्य् अचलत् | * (15,6।4[6।11]ब्) तम् इतिहासश् च पुराणं च गाथाश् च नाराशंसीश् चानुव्यचलन् | * (15,6।4[6।12]च्) इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद ||4|| * (15,6।5[6।13]अ) स परमां दिशम् अनु व्य् अचलत् | * (15,6।5[6।14]ब्) तम् आहवनीयश् च गार्हपत्यश् च दक्षिणाग्निश् च यज्ञश् च यजमानश् च पशवश् चानुव्यचलन् | * (15,6।5[6।15]च्) आहवनीयस्य च वै स गार्हपत्यस्य च दक्षिणाग्नेश् च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद ||5|| * (15,6।6[6।16]अ) सो 'नादिष्टां दिशम् अनु व्य् अचलत् | * (15,6।6[6।17]ब्) तम् ऋतवश् चार्तवाश् च लोकाश् च लौक्याश् च मासाश् चार्धमासाश् चाहोरात्रे चानुव्यचलन् | * (15,6।6[6।18]च्) ऋतूनां च वै स आर्तवानां च लोकानां च लौक्यानां च मासानां चार्धमासानां चाहोरात्रयोश् च प्रियं धाम भवति य एवं वेद ||6|| * (15,6।7[6।19]अ) सो 'नावृत्तां दिशम् अनु व्य् अचलत् ततो नावर्त्स्यन्न् अमन्यत | * (15,6।7[6।20]ब्) तं दितिश् चादितिश् चेढा चेन्द्राणी चानुव्यचलन् | * (15,6।7[6।21]च्) दितेश् च वै सो 'दितेश् चेढायाश् चेन्द्राण्याश् च प्रियं धाम भवति य एवं वेद ||7|| * (15,6।8[6।22]अ) स दिशो 'नु व्य् अचलत् तं विराढ् अनु व्य् अचलत् सर्वे च देवाः सर्वाश् च देवताः | * (15,6।8[6।23]ब्) विराजश् च वै स सर्वेषां च देवानां सर्वासां च देवतानां प्रियं धाम भवति य एवं वेद ||8|| * (15,6।9[6।24]अ) स सर्वान् अन्तर्देशान् अनु व्य् अचलत् | * (15,6।9[6।25]ब्) तं प्रजापतिश् च परमेष्ठी च पिता च पितामहश् चानुव्यचलन् | * (15,6।9[6।26]च्) प्रजापतेश् च वै स परमेष्ठिनश् च पितुश् च पितामहस्य च प्रियं धाम भवति य एवं वेद ||9|| * (15,7।1अ) स महिमा सद्रुर् भूत्वान्तं पृथिव्या अगछत् समुद्रो 'भवत् ||1|| * (15,7।2अ) तं प्रजापतिश् च परमेष्ठी च पिता च पितामहश् चापश् च श्रद्धा च वर्षं भूत्वानुव्यवर्तयन्त ||2|| * (15,7।3अ) अइनम् आपो गछन्त्य् अइनं श्रद्धा गछत्य् अइनं वर्षं गछति य एवं वेद ||3|| * (15,7।4अ) तं श्रद्धा च यज्ञश् च लोकश् चान्नं चान्नाद्यं च भूत्वाभिपर्यावर्तन्त ||4|| * (15,7।5अ) अइनं श्रद्धा गछत्य् अइनं यज्ञो गछत्य् अइनं लोको गछत्य् अइनम् अन्नं गछत्य् अइनम् अन्नाद्यं गछति य एवं वेद ||5|| * (15,8।1अ) सो 'रज्यत ततो राजन्यो 'जायत ||1|| * (15,8।2अ) स विशः सबन्धून् अन्नम् अन्नाद्यम् अभ्युदतिष्ठत् ||2|| * (15,8।3अ) विशां च वै स सबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य एवं वेद ||3|| * (15,9।1अ) स विशो 'नु व्य् अचलत् ||1|| * (15,9।2अ) तं सभा च समितिश् च सेना च सुरा चानुव्यचलन् ||2|| * (15,9।3अ) सभायाश् च वै स समितेश् च सेनायाश् च सुरायाश् च प्रियं धाम भवति य एवं वेद ||3|| * (15,10।1अ) तद् यस्यैवं विद्वान् व्रात्यो राज्ञो 'तिथिर् गृहान् आगछेत् ||1|| * (15,10।2अ) श्रेयांसम् एनम् आत्मनो मानयेत् तथा क्षत्राय ना वृश्चते तथा राष्ट्राय ना वृश्चते ||2|| * (15,10।3अ) अतो वै ब्रह्म च क्षत्रं चोद् अतिष्ठतां ते अब्रूतां कं प्र विशावेति ||3|| * (15,10।4अ) बृहस्पतिम् एव ब्रह्म प्रविशत्व् इन्द्रं क्षत्रं तथा वा इति ||4|| * (15,10।5अ) अतो वै बृहस्पतिम् एव ब्रह्म प्राविशद् इन्द्रं क्षत्रम् ||5|| * (15,10।6अ) इयं वा उ पृथिवी बृहस्पतिर् द्यौर् एवेन्द्रः ||6|| * (15,10।7अ) अयं वा उ अग्निर् ब्रह्मासाव् आदित्यः क्षत्रम् ||7|| * (15,10।8अ) अइनं ब्रह्म गछति ब्रह्मवर्चसी भवति ||8|| * (15,10।9अ) यः पृथिवीं बृहस्पतिम् अग्निं ब्रह्म वेद ||9|| * (15,10।10अ) अइनम् इन्द्रियं गछतीन्द्रियवान् भवति ||10|| * (15,10।11अ) य आदित्यं क्षत्रं दिवम् इन्द्रं वेद ||11|| * (15,11।1अ) तद् यस्यैवं विद्वान् व्रात्यो 'तिथिर् गृहान् आगछेत् ||1|| * (15,11।2अ) स्वयम् एनम् अभ्युदेत्य ब्रूयाद् व्रात्य क्वावात्सीर् व्रात्योदकं व्रात्य तर्पयन्तु व्रात्य यथा ते प्रियं तथास्तु व्रात्य यथा ते वशस् तथास्तु व्रात्य यथा ते निकामस् तथास्त्व् इति ||2|| * (15,11।3अ) यद् एनम् आह व्रात्य क्वावात्सीर् इति पथ एव तेन देवयानान् अव रुन्धे ||3|| * (15,11।4अ) यद् एनम् आह व्रात्योदकम् इत्य् अप एव तेनाव रुन्धे ||4|| * (15,11।5अ) यद् एनम् आह व्रात्य तर्पयन्त्व् इति प्राणम् एव तेन वर्षीयांसं कुरुते ||5|| * (15,11।6अ) यद् एनम् आह व्रात्य यथा ते प्रियं तथास्त्व् इति प्रियम् एव तेनाव रुन्धे ||6|| * (15,11।7अ) अइनं प्रियं गछति प्रियः प्रियस्य भवति य एवं वेद ||7|| * (15,11।8अ) यद् एनम् आह व्रात्य यथा ते वशस् तथास्त्व् इति वशम् एव तेनाव रुन्धे ||8|| * (15,11।9अ) अइनं वशो गछति वशी वशिनां भवति य एवं वेद ||9|| * (15,11।10अ) यद् एनम् आह व्रात्य यथा ते निकामस् तथास्त्व् इति निकामम् एव तेनाव रुन्धे ||10|| * (15,11।11अ) अइनं निकामो गछति निकामे निकामस्य भवति य एवं वेद ||11|| * (15,12।1अ) तद् यस्यैवं विद्वान् व्रात्य उद्धृतेष्व् अग्निष्व् अधिश्रिते 'ग्निहोत्रे 'तिथिर् गृहान् आगछेत् ||1|| * (15,12।2अ) स्वयम् एनम् अभ्युदेत्य ब्रूयाद् व्रात्याति सृज होष्यामीति ||2|| * (15,12।3अ) स चातिसृजेज् जुहुयान् न चातिसृजेन् न जुहुयात् ||3|| * (15,12।4अ) स य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ||4|| * (15,12।5अ) प्र पितृयाणं पन्थां जानाति प्र देवयानम् ||5|| * (15,12।6अ) न देवेष्व् आ वृश्चते हुतम् अस्य भवति ||6|| * (15,12।7अ) पर्य् अस्यास्मिंल् लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ||7|| * (15,12।8अ) अथ य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ||8|| * (15,12।9अ) न पितृयाणं पन्थां जानाति न देवयानम् ||9|| * (15,12।10अ) आ देवेषु वृश्चते अहुतम् अस्य भवति ||10|| * (15,12।11अ) नास्यास्मिंल् लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ||11|| * (15,13।1[13।1]अ) तद् यस्यैवं विद्वान् व्रात्य एकां रात्रिम् अतिथिर् गृहे वसति | * (15,13।1[13।2]ब्) ये पृथिव्यां पुण्या लोकास् तान् एव तेनाव रुन्धे ||1|| * (15,13।2[13।3]अ) तद् यस्यैवं विद्वान् व्रात्यो द्वितीयां रात्रिम् अतिथिर् गृहे वसति | * (15,13।2[13।4]ब्) ये 'न्तरिक्षे पुण्या लोकास् तान् एव तेनाव रुन्धे ||2|| * (15,13।3[13।5]अ) तद् यस्यैवं विद्वान् व्रात्यस् तृतीयां रात्रिम् अतिथिर् गृहे वसति | * (15,13।3[13।6]ब्) ये दिवि पुण्या लोकास् तान् एव तेनाव रुन्धे ||3|| * (15,13।4[13।7]अ) तद् यस्यैवं विद्वान् व्रात्यश् चतुर्थीं रात्रिम् अतिथिर् गृहे वसति | * (15,13।4[13।8]ब्) ये पुण्यानां पुण्या लोकास् तान् एव तेनाव रुन्धे ||4|| * (15,13।5[13।9]अ) तद् यस्यैवं विद्वान् व्रात्यो 'परिमिता रात्रीर् अतिथिर् गृहे वसति | * (15,13।5[13।10]ब्) य एवापरिमिताः पुण्या लोकास् तान् एव तेनाव रुन्धे ||5|| * (15,13।6[13।11]अ) अथ यस्याव्रात्यो व्रात्यब्रुवो नामबिभ्रत्य् अतिथिर् गृहान् आगछेत् ||6|| * (15,13।7[13।12]अ) कर्षेद् एनं न चैनं कर्षेत् ||7|| * (15,13।8[13।13]अ) अस्यै देवताया उदकं याचामीमां देवतां वासय इमाम् इमां देवतां परि वेवेष्मीत्य् एनं परि वेविष्यात् ||8|| * (15,13।9[13।14]अ) तस्याम् एवास्य तद् देवतायां हुतं भवति य एवं वेद ||9|| * (15,14।1[14।1]अ) स यत् प्राचीं दिशम् अनु व्यचलन् मारुतं शर्धो भूत्वानुव्यचलन् मनो 'न्नादं कृत्वा | * (15,14।1[14।2]ब्) मनसान्नादेनान्नम् अत्ति य एवं वेद ||1|| * (15,14।2[14।3]अ) स यद् दक्षिणां दिशम् अनु व्यचलद् इन्द्रो भूत्वानुव्यचलद् बलम् अन्नादं कृत्वा | * (15,14।2[14।4]ब्) बलेनान्नादेनान्नम् अत्ति य एवं वेद ||2|| * (15,14।3[14।5]अ) स यत् प्रतीचीं दिशम् अनु व्यचलद् वरुणो राजा भूत्वानुव्यचलद् अपो 'न्नादीः कृत्वा | * (15,14।3[14।6]ब्) अद्भिर् अन्नादीभिर् अन्नम् अत्ति य एवं वेद ||3|| * (15,14।4[14।7]अ) स यद् उदीचीं दिशम् अनु व्यचलत् सोमो राजा भूत्वानुव्यचलत् सप्तर्षिभिर् हुत आहुतिम् अन्नादीं कृत्वा | * (15,14।4[14।8]ब्) आहुत्यान्नाद्यान्नम् अत्ति य एवं वेद ||4|| * (15,14।5[14।9]अ) स यद् ध्रुवां दिशम् अनु व्यचलद् विष्णुर् भूत्वानुव्यचलद् विराजम् अन्नादीं कृत्वा | * (15,14।5[14।10]ब्) विराजान्नाद्यान्नम् अत्ति य एवं वेद ||5|| * (15,14।6[14।11]अ) स यत् पशून् अनु व्यचलद् रुद्रो भूत्वानुव्यचलद् ओषधीर् अन्नादीः कृत्वा | * (15,14।6[14।12]ब्) ओषधीभिर् अन्नादीभिर् अन्नम् अत्ति य एवं वेद ||6|| * (15,14।7[14।13]अ) स यत् पितॄन् अनु व्यचलद् यमो राजा भूत्वानुव्यचलत् स्वधाकारम् अन्नादं कृत्वा | * (15,14।7[14।14]ब्) स्वधाकारेणान्नादेनान्नम् अत्ति य एवं वेद ||7|| * (15,14।8[14।15]अ) स यन् मनुष्यान् अनु व्यचलद् अग्निर् भूत्वानुव्यचलत् स्वाहाकारम् अन्नादं कृत्वा | * (15,14।8[14।16]ब्) स्वाहाकारेणान्नादेनान्नम् अत्ति य एवं वेद ||8|| * (15,14।9[14।17]अ) स यद् ऊर्ध्वां दिशम् अनु व्यचलद् बृहस्पतिर् भूत्वानुव्यचलद् वषट्कारम् अन्नादं कृत्वा | * (15,14।9[14।18]ब्) वषट्कारेणान्नादेनान्नम् अत्ति य एवं वेद ||9|| * (15,14।10[14।19]अ) स यद् देवान् अनु व्यचलद् ईशानो भूत्वानुव्यचलन् मन्युम् अन्नादं कृत्वा | * (15,14।10[14।20]ब्) मन्युनान्नादेनान्नम् अत्ति य एवं वेद ||10|| * (15,14।11[14।21]अ) स यत् प्रजा अनु व्यचलत् प्रजापतिर् भूत्वानुव्यचलत् प्राणम् अन्नादं कृत्वा | * (15,14।11[14।22]ब्) प्राणेनान्नादेनान्नम् अत्ति य एवं वेद ||11|| * (15,14।12[14।23]अ) स यत् सर्वान् अन्तर्देशान् अनु व्यचलत् परमेष्ठी भूत्वानुव्यचलद् ब्रह्मान्नादं कृत्वा | * (15,14।12[14।24]ब्) ब्रह्मणान्नादेनान्नम् अत्ति य एवं वेद ||12|| * (15,15।1अ) तस्य व्रात्यस्य ||1|| * (15,15।2अ) सप्त प्राणाः सप्तापानाः सप्त व्यानाः ||2|| * (15,15।3अ) यो 'स्य प्रथमः प्राण ऊर्ध्वो नामायं सो अग्निः ||3|| * (15,15।4अ) यो 'स्य द्वितीयः प्राणः प्रौडो नामासौ स आदित्यः ||4|| * (15,15।5अ) यो 'स्य तृतीयः प्राणो 'भ्यूडो नामासौ स चन्द्रमाः ||5|| * (15,15।6अ) यो 'स्य चतुर्थः प्राणो विभूर् नामायं स पवमानः ||6|| * (15,15।7अ) यो 'स्य पञ्चमः प्राणो योनिर् नाम ता इमा आपः ||7|| * (15,15।8अ) यो 'स्य षष्ठः प्राणः प्रियो नाम त इमे पशवः ||8|| * (15,15।9अ) यो 'स्य सप्तमः प्राणो 'परिमितो नाम ता इमाः प्रजाः ||9|| * (15,16।1अ) यो 'स्य प्रथमो 'पानः सा पौर्णमासी ||1|| * (15,16।2अ) यो 'स्य द्वितीयो 'पानः साष्टका ||2|| * (15,16।3अ) यो 'स्य तृतीयो 'पानः सामावास्या ||3|| * (15,16।4अ) यो 'स्य चतुर्थो 'पानः सा श्रद्धा ||4|| * (15,16।5अ) यो 'स्य पञ्चमो 'पानः सा दीक्षा ||5|| * (15,16।6अ) यो 'स्य षष्ठो 'पानः स यज्ञः ||6|| * (15,16।7अ) यो 'स्य सप्तमो 'पानस् ता इमा दक्षिणाः ||7|| * (15,17।1अ) यो 'स्य प्रथमो व्यानः सेयं भूमिः ||1|| * (15,17।2अ) यो 'स्य द्वितीयो व्यानस् तद् अन्तरिक्षम् ||2|| * (15,17।3अ) यो 'स्य तृतीयो व्यानः सा द्यौः ||3|| * (15,17।4अ) यो 'स्य चतुर्थो व्यानस् तानि नक्षत्राणि ||4|| * (15,17।5अ) यो 'स्य पञ्चमो व्यानस् त ऋतवः ||5|| * (15,17।6अ) यो 'स्य षष्ठो व्यानस् त आर्तवाः ||6|| * (15,17।7अ) यो 'स्य सप्तमो व्यानः स संवत्सरः ||7|| * (15,17।8अ) समानम् अर्थं परि यन्ति देवाः संवत्सरं वा एतद् ऋतवो 'नुपरियन्ति व्रात्यं च ||8|| * (15,17।9अ) यद् आदित्यम् अभिसंविशन्त्य् अमावास्यां चैव तत् पौर्णमासीं च ||9|| * (15,17।10अ) एकं तद् एषाम् अमृतत्वम् इत्य् आहुतिर् एव ||10|| * (15,18।1अ) तस्य व्रात्यस्य ||1|| * (15,18।2अ) यद् अस्य दक्षिणम् अक्ष्य् असौ स आदित्यो यद् अस्य सव्यम् अक्ष्य् असौ स चन्द्रमाः ||2|| * (15,18।3अ) यो 'स्य दक्षिणः कर्णो 'यं सो अग्निर् यो 'स्य सव्यः कर्णो 'यं स पवमानः ||3|| * (15,18।4अ) अहोरात्रे नासिके दितिश् चादितिश् च शीर्षकपाले संवत्सरः शिरः ||4|| * (15,18।5अ) अह्ना प्रत्यङ् व्रात्यो रात्र्या प्राङ् नमो व्रात्याय ||5||
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ATHARVAN ṚṢIS). Atharvaveda Śaunakīya — Kāṇḍa 15. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/atharvaveda-shaunakiya-kanda-15>. Acesso em: 26/04/2026.
Tradição Védica (Atharvan ṛṣis) (2026). Atharvaveda Śaunakīya — Kāṇḍa 15. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/atharvaveda-shaunakiya-kanda-15
Tradição Védica (Atharvan ṛṣis). "Atharvaveda Śaunakīya — Kāṇḍa 15." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/atharvaveda-shaunakiya-kanda-15.