Nyāya Nirṇaya Vyākhyā
Ānandagiri
सत्यं ज्ञानमनर्थसार्थविधुरं ब्रह्म प्रपद्ये सदोम् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 यो लोकं सकलं पुनाति निगमा यं प्राहुरेकान्ततो व्याप्तं येन जगज्जगन्ति सततं यस्मै नमस्कुर्वते । यस्मादाविरभूदशेषममरा यस्य प्रसादार्थिनो
यस्मिन्पर्यवसास्यति स्फुरदिदं तस्मै नमो विष्णवे ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 योऽनुग्रानुग्रतेजा जनयति सकलानालयं यं लभन्ते सर्वे निर्वान्ति येन श्रुतिपथपथिका वौषडातन्वते च । यस्मै यस्मादकस्मात्परिभवचकिता यस्य संरोचयन्ते
चिन्ता यस्मिन्प्रवृत्ता भृशविशदधियः संश्रये तं गिरीशम् ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 भिन्दानमेनांसि दुरासदानि प्रत्यूहवर्गप्रभवानि तानि ।
राजानमाघातपरम्पराणामारादुपासे गिरिजाभिजातम् ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 श्रीमद्व्यासपयोनिधिर्निधिरसौ सत्सूक्तिपङ्किस्फुरन् मुक्तानामनवद्यहृद्यविपुलप्रद्योतिविद्यामणिः । क्षान्तिः शान्तिधृती दयेतिसरितामेकान्तविश्रान्तिभूः
भूयान्नः सततं मुनीन्द्रमकरश्रेणीश्रयः श्रेयसे ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 यद्भाष्याम्बुजजातजातमधुरप्रेयोमधुप्रार्थना- सार्थव्यग्रधियः समग्रमरुतः स्वर्गेऽपि निर्वेदिनः । यस्मिन्मुक्तिपथो मुमुक्षुमुनिभिः सम्प्रार्थितः सम्बभौ
तस्मै भाष्यकृते नमोऽस्तु भगवत्पादाभिधां बिभ्रते ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 यत्पादाम्बुजचञ्चरीकधिषणा निर्वाणमार्गाधिगा पङ्किर्मुक्तनिसर्गदुर्गदुरिता वाचंयमानामियम् । यस्मिन्नित्यमिदं शमादि समभूद्बोधाङ्करो मे यतः
शुद्धानन्दमुनीश्वराय गुरवे तस्मै परस्मै नमः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 मातर्नतोऽस्मि भवतीमथ चार्थये त्वां चेतः सरस्वति परास्य पराञ्चमर्थम् । शारीरके महदनुग्रहसम्प्रसन्न-
मेकाग्रमस्तु वचसा सह सम्यगर्थे ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 श्रद्धाभक्ती पुरोधाय विधायागमभावनाम् ।
श्रीमच्छारीरके भाष्ये करिष्ये न्यायनिर्णयम् ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 नित्याध्ययनविध्युपादापितवेदान्तवचोभिरापाततः प्रतिपन्नं शास्त्रारम्भौपयिकमनुबन्धजातं न्यायतो निर्णेतुं भगवान्बादरायणः सूत्रितवान् ‘अथातो ब्रह्मजिज्ञासा ‘ इति । तत्र प्रमातृत्वादिबन्धस्याध्यासत्वं, धर्ममीमांसया ब्रह्ममीमांसाया गतार्थताभावः, विशिष्टाधिकारिसम्भवः, विषयादिसत्त्वं चेति चत्वारोऽर्थाः सूचिताः । तथाहि - सत्यत्वे बन्धस्य बद्धाबद्धयोर्जीवब्रह्मणोरैक्यानुपपत्तेः, सत्यस्य च ज्ञानादनिवृत्तेः, ज्ञानस्य चाज्ञानमात्रविरोघित्वात् , उत्तरज्ञानस्य च विरोधिगुणतया पूर्वज्ञानादिनिवर्तकत्वात् , विषयप्रयोजनसिद्धिहेतुतया बन्धस्याध्यासता सूचिता । पूर्वसिद्धत्वे वेदान्तविचारस्य विशिष्टाधिकारिणश्चाभावे तं प्रति तत्कर्तव्यतोक्तेरयोगादगतार्थत्वं विशिष्टाधिकारिसम्भवश्च ध्वनितः । त्वमर्थदृष्टबन्धस्यान्यदीयज्ञानादनिवृत्तेः, तदर्थज्ञानमपि तन्निबर्हि त्वमर्थविषयमेवेत्यर्थात्तदैक्यं विषयः सूचितः । मुमुक्षोरथशब्दद्योतितस्य ज्ञानाय विचारविधानात्तत्साध्यज्ञानान्मुक्तिः सूचिता । ब्रह्मज्ञानाय च विचारविधानाद्ब्रह्मणः शक्यप्रतिपाद्यतया वेदान्तैः सम्बन्धोऽपि दर्शितः । तदेतद्भाष्यकृद्यथाक्रमं व्युत्पादयिष्यति । अस्य चाधिकरणस्य प्राथम्यान्नाधिकरणसङ्गातिः । उत्तराधिकरणसङ्गतिस्तु तस्यैवानेनेति नास्योच्यते । विचारविध्यपेक्षितविषयाद्यर्पकश्रुतिभिरस्योत्थानादुत्थाप्योत्थापकत्वं श्रुतिसङ्गतिः । इदं च धर्मजिशासासूत्रवदुपोद्धाततया ‘चिन्तां प्रकृतसिद्ध्यर्थामुपोद्धातं प्रचक्षते ‘ इति न्यायेन शास्त्रेण सम्बध्यते । विचारारम्भोपयोगिनीनामधिकार्यादिश्रुतीनां स्वार्थे समन्वयोक्तेरस्य विशेषतः समन्वयाध्यायसङ्गतिः । स्पष्टब्रह्मलिङ्गानां विषयाद्यर्पकवाक्यानां स्वार्थे समन्वयोक्त्या विशेषतोऽस्याद्यपादेन सम्बन्धः । पूर्वपक्षे विचारानारम्भात्तदधीनज्ञानाभावादुपायान्तरसाध्या मुक्तिः । सिद्धान्ते तु तदारम्भसम्भवात्तदधीनज्ञानसिद्धेस्तेनैव मुक्तिः सिध्यतीति फलभेदः । तच्चेदमधीतिविधिवदन्तर्भूतमेव शास्त्रे तदारम्भकार्यतापरम् । तत्र वेदान्तमीमांसाशास्त्रं विषयस्तदारभ्यमनारभ्यं वेति विषयाद्यसम्भवसम्भवाभ्यां संशयः । प्रामाणिकत्वेन प्रमातृत्वादिबन्धस्य सत्यतया तत्त्वज्ञानानपोह्यत्वात् , बद्धाबद्धयोर्जीवब्रह्मणोरैक्यायोगात् , तदभावे च बन्धाध्वस्तेः बन्धाध्वस्तौ च फलाभावात् , प्राच्या च मीमांसया वेदार्थमात्रोपाधौ प्रवृत्तया गतार्थत्वात् , फलेच्छावतोऽधिकारीणोऽपि तुच्छत्वात् , तद्विशेषणानां चदुर्वचत्वात् , ब्रह्मणः प्रसिद्धत्वे विषयप्रयोजनयोरनुपपत्तेः, अप्रसिद्धत्वे सम्बन्धप्रयोजनयोरसिद्धेः, तस्य च निःसामान्यविशेषत्वात् , असम्भावितविषयादिकमनारभ्यं शास्त्रमिति पूर्वपक्षः । प्रमातृत्वादेर्व्यावहारिकमानसिद्धत्वेऽपि तात्त्विकमानासिद्धतया तथाविधमानजनितबोधबाधाविरोधादुक्तविषयादिप्रतिलम्भात् , धर्ममीमांसायाश्च वेदार्थैकदेशधर्ममात्रोपहिततया ब्रह्मास्पर्शितया तन्मीमांसया गतार्थतानवकाशात् , अध्यक्षाद्यधिगतमिथ्याभावस्य बन्धस्य ज्ञाननिवर्त्यतया तन्निवृत्तिकामस्याधिकारिणः सुलभत्वात् , विशेषणानां च विवेकादीनामतीते वर्तमाने वा जन्मनि कृतसुकृतजनितचित्तप्रसादासादितानामनुमानागमाधीनतया सुवचत्वात् , ब्रह्मणश्च ब्रह्मपदादात्मत्वाच्चा सिद्धावपि विचारं विना मानादसिद्धेः, अनन्यलभ्यतया विषयत्वात् , तदवगतेश्च फलत्वात् , अत्यन्तासिद्ध्यभावाच्च, शक्यप्रतिपाद्यतया सम्बन्धादिसिद्धेरारोपितसामान्यविशेषभावमादाय तदीयविषयत्वस्य प्रतिपाद्यत्वात् उक्तविषयादिमदिदं शास्त्रमारभ्यमिति सिद्धन्तः । तदिदं हृदि निधाय वेदान्तमीमांसाशास्त्रं व्याख्यातुकामो भगवान्भाष्यकारः शास्त्रारम्भार्धमाद्यसूत्रेणार्थतः सूचितं विषयादि वदितुं विरोधिनो बन्धस्याध्यासत्वं लक्षणसम्भावनासद्भावप्रमाणैः सिषाधयिषुरादावध्यासमाक्षिपति — युष्मदस्मत्प्रत्ययगोचरयोः इत्यादिना मिथ्येति भवितुं युक्तम् इत्यन्तेन भाष्येण । अर्थाच्च ‘सुतरामितरेतरभावानुपपत्तिः’ इत्यन्तेनानुपप्लुतं चिन्मात्रमात्मानमनुसन्दधानस्तत्त्वानुस्मरणं मङ्गलाचरणं विघ्नोपशमनाद्यर्थं सम्पादयति । चैत्रे मैत्रोऽयमिति भ्रान्तिरन्यत्रैक्यप्रमित्यपेक्षा संस्कारजन्यत्वात् , तत्प्रमितिश्चैक्यकृतेत्यात्मानात्मनोरैक्याध्यासेऽपि तत्प्रमित्यादेर्वक्तव्यतां मन्वानस्तयोरैक्याभावेऽपि त्रिविधं विरोधं हेतुमाह — युष्मदस्मत्प्रत्ययगोचरयोरिति । न च ‘प्रत्ययोत्तरपदयोश्च’ इति सूत्रे प्रत्यये चोत्तरपदे च परतो युष्मदस्मदोरेकार्थवाचिनोर्मपर्यन्तस्य त्वमावादेशावित्युक्तत्वात्त्वत्पुत्रो मत्पुत्र इतिवत्त्वन्मत्प्रत्ययगोचरयोरिति स्यादिति युक्तम् । ‘त्वमावेकवचने’ इति सूत्रादेकार्थाभिधायिनोर्युष्मदस्मदोर्मपर्यन्तस्य स्थाने त्वमावादेशौ भवत इति व्याख्यानादेकवचन इत्यधिकारादत्र च युष्मदस्मदोरेकार्थवाचित्वस्याविवक्षितत्वात् । युष्मदस्मद्ग्रहणाविरोधादस्मदर्थे साक्षिणि नभोवदौपाधिकं बहुत्वम् । न चैवं यौष्माकीणमित्यादाविव बहुवचनमनुसृत्य विगृह्येत विरोधोक्त्यनुगुणतया यथा तथा विग्रहेऽपि निवारकाभावात् । युष्मदस्मत्पदयोश्चेतनाचेतनार्थत्वादात्मानात्मवैलक्षण्यार्थमिदमस्मत्प्रत्ययगोचरयोरिति वक्तव्येऽपि युष्मद्ग्रहणमत्यन्तभेदोपलक्षणार्थम् । न हि त्वङ्कारवदिदङ्कारस्याहङ्कारप्रतियोगित्वम् , एते वयमिमे वयमित्यादिप्रयोगात् । न च यूयं वयं वयमेव यूयमितिवदौपचारिकत्वम् , तत्र तथात्वाभिमानवत्प्रकृते तदभावात् । मुख्यामुख्ययोरादौ मुख्योपनिपातादस्मदर्थस्य च मुख्यत्वात्प्रथममस्मद्ग्रहणप्रसक्तावपि युष्मदर्थादनात्मनो निष्कृष्य शुद्धस्य चिद्धातोरध्यारोपापवादन्यायेन ग्रहणं द्योतयितुमादौ युष्मद्ग्रहणम् । तत्र युष्मदस्मदिति प्रत्यक्पराक्त्वेनात्मानात्मनोः स्वभावविरोधः सूच्यते । युष्मच्छब्देनाहङ्कारादिरस्मच्छब्देन तत्साक्षी गृह्यते । तयोरेव प्रत्ययपदेन स्फुरणतया तद्वत्त्वेन प्रतीतितो विरोधो द्योत्यते । तत्रानात्मा प्रतीतिव्याप्यत्वात् , आत्मा च प्रतीतित्वात्प्रत्ययस्तयोर्व्यवहारतो विरोधो गोचरशब्दार्थः । युष्मदर्थो हि कौटस्थ्यादिस्वभावात्मतिरस्कारेण सक्रियत्वादिनास्मदर्थोऽपि ब्रह्मास्मीत्यहङ्कारादिविलापेन पूर्णतया व्यवह्रियते । युष्मच्चास्मच्च युष्यदस्मदी ते एव प्रत्ययौ तावेव गोचरौ तयोस्त्रिविधविरोधभाजोरन्यत्रैक्यायोगान्न तत्प्रमितिरित्यर्थः । ऐक्यासंस्कारादतदध्यासेऽपि तादात्म्यसंस्कारादिदं रजतमितिवत्तदध्यासः स्यादित्याशङ्कय, तस्यापि तत्प्रमितिपूर्वकत्वात्तस्याश्च तादात्म्यापेक्षत्वादात्मानात्मनोस्तदभावान्नेति मत्वा तयोस्तादात्म्याभावे हेतुमाह — विषयविषयिणोरिति । ऐक्याभावेऽपि जात्यादौ तादात्म्यादपौनरुक्त्यम् । नित्यानुभवविषयो युष्मदर्थो विषयो, त्वस्मदर्थो नित्यानुभवस्तयोर्दाह्यदाहकवन्मिथो विरुद्धयोर्जातिव्यक्तित्वादेरभावान्न तादात्म्यमित्यर्थः । उक्ताद्धेतोः सिद्धमभेदासम्भवं सदृष्टान्तमाह — तमःप्रकाशवदिति । न खल्वनयोरभेदः । न च तयोर्भावाभावत्वेन तदभावः, तमसोऽपि गुणवत्त्वादिना भावत्वात् । तथात्मानात्मनोरपि मिथो विरुद्धयोर्नाभेदोऽस्तीत्यर्थः । विमतौ नाभिन्नतया प्रमितौ मिथो विरुद्धत्वात्तमःप्रकाशवदिति । विरोधफलमाह — इतरेतरेति । इतरस्येतरभावो नामेतरेतरत्वमैक्यमितरस्मिन्नितरभावस्तादात्म्यं तयोरप्रतीतावुक्तन्यायप्राप्तायां तत्संस्कारासिद्धिः । नन्वात्मानात्मनोरितरेतरभावाभावेऽपि तद्धर्माणां चैतन्यजाड्यादीनामितरेतरत्र भावः स्यात् । दृश्यते हि पुष्पपुटिकादौ पुष्पाभावेऽपि तद्धर्मगन्धानुवृत्तिः । तथा चेतरेतरत्रेतरेतरधर्मप्रमित्या तत्संस्कारात्तदध्यासः सिध्यतीति । नेत्याह — तद्धर्माणामपीति । तयोरात्मानात्मनोर्धर्माश्चैतन्यजाड्यादयः, तेषामितरेतरत्र न भावः, मिथो विरुद्धयोर्धर्मिणोर्धर्माणामितरेतरत्र भावस्यादृष्टत्वात् , तेषां धर्मितादात्म्याच्चोक्तविरोधभाक्त्वात् , धर्मिणमतिक्रम्य च तद्धर्माणामगमनात् । नहि गन्धोऽपि विना धर्मिणं पुष्पपुटिकादौ दृश्यते, सूक्ष्मेण स्वाश्रयेण सहैवोपलम्भादन्यथा गुणत्वव्याघातात् । उत्क्रान्त्यधिकरणे चैतद्वक्ष्यति । तस्मात्तद्धर्माणामपि नेतरेतरत्र सत्त्वप्रमेत्यर्थः । तथाप्यात्मानात्मनोरन्योन्यात्मकताध्यासस्य च किमायातमित्याशङ्क्याह — इत्यत इति । इतिशब्देनाभेदप्रमित्यभावो हेतुरुक्तः । तत्फलमभेदसंस्काराभावोऽतःशब्दार्थः । यदात्मनो मुख्यं प्रत्यक्त्वं प्रतीतित्वमहङ्कारादिविलापनेन ब्रह्मास्मीति व्यवहार्यत्वं चोक्तं तदयुक्तम् , अहमितिप्रतीयमानत्वादहङ्कारवदित्याशङ्क्य संस्काराभावफलमध्यासाभावं वक्तुमधिष्ठानस्वरूपमाह — अस्मत्प्रत्ययगोचर इति । अहंवृत्तिव्यङ्ग्यस्फुरणत्वं तद्वत्त्वं वा हेतुः । आद्ये साधनविकलो दृष्टान्तो, द्वितीये त्वसिद्धिः । अतोऽनुमानायोगादात्मनो युक्तं मुख्यं प्रत्यक्त्वादीत्यर्थः । यदात्मनो विषयित्वं तन्न, अनुभवामीति व्यवहृतत्वादहङ्कारवदित्याशङ्क्याह — विषयिणीति । अनुभवामीति व्यवहृतत्वं तद्वाच्यत्वं, तल्लक्ष्यत्वं वा । नाद्यः, असिद्धेः । नेतरः, हेतुवैकल्यात् । अतो युक्तं विषयित्वमित्यर्थः । अहङ्कारस्य देहं जानामीति विषयित्वेऽपि मनुष्येऽहमित्यभेदाध्यासवदिहापि स्यादित्याशङ्क्याहङ्कारदेहयोर्जाड्यादिना तुल्यत्वादभेदाध्यासेऽपि चित्त्वेनात्मत्वेन वाऽजडेऽनवच्छिन्ने प्रतीचि तद्विपरीताध्यासो न सिध्यतीत्याह — चिदात्मकइति । दीपादेर्विषयित्वेऽपि चिदात्मकत्वाभावादपुनरुक्तिः । अहमिति प्रथाविशेषादात्मवदहङ्कारस्यापि मुख्यप्रत्यक्त्वादियोगादयुक्तं पराक्त्वादीत्याशङ्क्याह — युष्मदिति । अहङ्कारतत्साक्षिणोरहमित्येकरूपप्रथानङ्गीकारादहङ्कारादेः प्रातीतिकप्रत्यक्त्वादिभावेऽपि पराक्त्वाद्येव मुख्यमित्यर्थः । अहङ्कारादेर्बन्धत्वेनानर्थतया हेयत्वं सूचयति — विषयस्येति । तस्मादध्यासो मिथ्येति सम्बन्धः । मा भूदात्मन्यनात्माध्यासः, तद्धर्माणां तु जाड्यादीनां तस्मिन्नध्यासः स्यादित्याशङ्क्याह — तद्धर्माणां चेति । न हि धर्मा धर्मिणमतिक्रमन्ते । नरविषाणादिधीवदात्मनि वैकल्पिकी जाड्यादिधीरित्यर्थः । आत्मनो मुख्यप्रत्यक्त्वादिभाक्त्वादनात्मतद्धर्माध्यासानधिष्ठानत्वेऽपि तद्वैपरीत्यादहङ्कारादेरात्मतद्धर्माध्यासाधिष्ठानत्वं स्यादित्यशङ्क्याह — तद्विपर्ययेणेति । अहङ्कारादौ जडे विषये ततो विपर्ययश्चैतन्यं तेनात्मना विषयिणश्चिदात्मनो योऽध्यासः स मिथ्येत्यन्वयः । नन्वनात्मन्यात्मानध्यासेऽपि तद्धर्माणामनुभवादीनां बुद्ध्यादावध्यासः स्यात् । नभसो ध्वन्यभेदानध्यासेऽपि तद्भेदानां वर्णानां ह्रस्वो दीर्घो वेति ध्वनिविशेषेऽप्यध्यासदर्शनादित्यत आह — तद्धर्माणां चेति । अनुभवादीनां बुद्धिवृत्त्युपाधौ तत्तन्त्रतया भानादुपचारात्तद्धर्मत्वम् । युक्तो वर्णानां ध्वनिभेदेष्वध्यासो जाड्यादिना तुल्यात्वादत्मधर्मत्वाभिमतानामनुभवादीनां चिद्रूपात्ततो भेदाभावान्न जडे बुद्ध्यादावध्यासोऽतुल्यत्वादित्यर्थः । अध्यासो नामान्यस्मिन्नन्यरूपताधीः स मिथ्येत्यविद्यमानतोच्यते । अर्थाध्यसो ज्ञानाध्यासश्चेत्यध्यासयोर्नास्तित्वं वक्तुं द्विरध्यासवचनम् । आक्षेपमुपसंहरति — इतिभवितुमिति । इति युक्तमिति वक्तव्ये भवितुमित्याक्षेपस्य सम्भावनैव मूलं न मानमिति दर्शयितुमुक्तम् । तदेवं मातृत्वादिबन्धस्य वस्तुतया विषयाद्यभावादनारभ्यमिदं शास्त्रमित्याक्षेप्तुर्विवक्षितम् । अध्यासस्य नास्तित्वमयुक्तत्वादभानाद्वेति विकल्प्याद्यमङ्गीकरोति — तथापीति । द्वितीयं प्रत्याह — अयमिति । मनुष्योऽहमिति प्रतीतेरध्यासस्वरूपापलापायोगात् , अस्याश्च देहातिरिक्तात्मवादे प्रमात्वाभावात् , तदनुरूपं कारणं कल्प्यमिति भावः । अपरोक्षमध्यासं द्वेधा विभजन्विशेष्यं निर्दिशति — लोकव्यवहार इति । लोक्यते मनुष्योऽहमिति ज्ञायत इति ज्ञानोपसर्जनोऽर्थाध्यासः, लोकविषयो व्यवहार इत्यर्थोपसर्जनो ज्ञानाध्यासश्चोक्तः । कोऽयमध्यासो यो विषयादिसिद्धिहेतुरित्याशङ्क्य तल्लक्षणमाह — अन्योन्यस्मिन् इत्यादिना धर्मधर्मिणोः इत्यन्तेन । तत्रान्यस्मिन्नन्यावभास इत्युक्ते प्रतिमायां देवतादृष्टिरपि भ्रान्तिः स्यात्ततो विशिनष्टि — अन्योन्यस्मिन्निति । तत्र देवतादृष्टिमात्रमारोप्यं न प्रतिमादृष्टिः ‘ब्रह्मदृष्टिरुत्कर्षात् ‘ इति न्यायात् । पटे तन्तवः स च तन्तुष्विति लोकवादिदृष्ट्या तन्तुपटयोरन्योन्याधारत्वधियोऽध्यासत्वप्राप्तावुक्तम् — अन्योन्यात्मकतामिति । पटः शुक्लः शुक्लः पट इति प्रमाव्यावृत्त्यर्थमितरेतराविवेकेनेति । इत्थम्भावे तृतीया । स्वरूपविवेकतिरस्कारेणाभेदधीरध्यासो नैवं शुक्लपटादिधीरित्यर्थः । स एवायमयमेव स इत्यैक्यप्रमां प्रत्याह — विविक्तियोर्धर्मधर्मिणोरिति । औपाधिकभेदाभासतिरस्कारेण प्रत्यभिज्ञायामैक्यं प्रमीयते विवेक्तयोर्धर्मिणोर्विवेकं तिरस्कृत्यैक्यधीभ्रान्तिरित्यर्थः । प्रत्यभिज्ञानेऽपि कालद्वयवैशिष्ट्यादस्ति विविक्ततेति विविक्तपदस्यातद्व्यावर्तकत्वमाशङ्क्याह — अत्यन्तेति । आत्मनो बुद्ध्यादेश्च स्वच्छत्वादिना साम्यात् , अत्यन्तविवेकासिद्धिमाशङ्क्य जडत्वाजडत्वयोस्तद्धर्मयोरत्यन्तविवेकाद्धर्मिणोरपि तत्सिद्धिरित्याह — अत्यन्तविविक्तयोर्धर्मधर्मिणोरिति । उक्तरूपयोर्धर्मधर्मिणोरन्योन्यस्मिन्नन्योन्यात्मकतारूप इतरेतराविवेकात्मकोऽध्यास इति समुदायार्थः । अन्योन्यधर्मांश्चेति पृथक्कथनमन्धोऽहमित्यादौ धर्माध्यासे प्राधान्यसूचनार्थम् ॥ नन्वितरेतराविवेकार्थं द्वयोः स्वरूपतिरस्कारे कथमन्योन्यस्मिन्निति लक्षणांशसिद्धिः, तत्सिद्धये द्वयोः स्वरूपोपस्थितौ कथमविवेकोपपत्तिरत आह — सत्येति । सत्यमनिदं चैतन्यम् , तस्य संसृष्टरूपेणाध्यस्तत्वेऽपि स्वरूपेणानध्यस्तत्वात् । अनृतमहङ्कारादिः, स्वरूपतोऽप्यध्यस्तत्वात् । तदुभयमिथुनीकरणरूपोऽध्यास इति यावत् । असत्यसर्पस्य सत्यरज्ज्वां तन्मात्रतया निमज्जनवत् , असत्याहङ्कारादेः सत्यचिन्मात्रतया निमञ्जनादेकत्वधीः, सत्यासत्ययोरात्मानात्मनोस्तर्कतो विविच्यमानत्वात् , अन्योन्यस्मिन्निति लक्षणांशश्च सम्भवतीति भावः ॥ किं पुनरध्यासस्य कारणमित्याशङ्क्य निमित्तमात्रमुपादानं वा निमित्तविशेषो वा पृच्छ्यत इति विकल्प्याद्यौ प्रत्याह — मिथ्येति । मिथ्या च तदज्ञानं च तन्निमित्तमुपादानं यस्य सोऽध्यासस्तथा । तत्र मिथ्येत्युक्ते भ्रान्तिज्ञानप्राप्तावज्ञानमित्युक्तम् । तन्मात्रग्रहे ज्ञानाभावशङ्कायां मिथ्येति । तेनानिर्वाच्यत्वेनाभावविलक्षणं ज्ञाननिवर्त्यमनाद्यज्ञानम् । तदुपादानोऽध्यास इत्यर्थः । एतदेवाज्ञानं संस्कारकालकर्मादिरूपेण परिणतमध्यासनिमित्तमिति वक्तुं निमित्तग्रहणम् । निमित्तविशेषप्रश्नं प्रतिवक्ति — नैसर्गिक इति । प्रत्यक्चैतन्यसत्तामात्रानुबन्धी । प्रवाहरूपेणानादिरिति यावत् । न च प्रवाहरूपस्य प्रवाहिव्यतिरेकिणोऽसत्त्वात् , प्रवाहिव्यक्तीनां च सादित्वात्व, कुतो नैसर्गिकत्वमिति वाच्यम् , प्रवाहिव्यक्तीनामन्यतमव्यक्त्या विना पूर्वकालानवस्थानं कार्येष्वनादितेत्यभ्युपगमात् । यद्वा कारणरूपेणास्यानादित्वम् , कार्यात्मना नैमित्तिकत्वमित्युभयमविरुद्धम् । अध्यस्य मिथुनीकृत्येति क्त्वाप्रत्ययः, नाध्यासस्य पूर्वकालत्वमन्यत्वं च लोकव्यवहारादङ्गीकृत्य प्रयुक्तः लोकव्यवहारस्याध्यासतया क्रियान्तरत्वाभावात् । अतो वस्तुतोऽपौर्वापर्येऽपि विशेषणभेदेन कल्पितभेदं, वस्तुतत्प्रतिपत्तिक्रमेण पौर्वापर्यं च । तदालम्बनमनुभवं द्रढयितुमध्यासमभिनयति — अहमिति । तत्राहमिति कार्याध्यासेष्वाद्योऽध्यासः, तस्याध्यासत्वं चिदचिदात्मत्वात् । इदमिति भोक्तुर्भोगसाधनं - कार्यकरणसङ्घातः, ममेदमित्यहङ्कर्त्रा स्वत्वेन तस्य सम्बन्धः, तयोश्चेदं ममेदमिति दृष्टयोरध्यस्तत्वमध्यस्तभोक्तशेषत्वात् , स्वप्नादावध्यस्तराजोपकरणवत् । तदेवं पूर्वभाष्योक्तरीत्या युक्तिशून्योऽपि, अत्यन्तविविक्तयोरित्यादिना लक्षितः, सत्यानृतमिथुनीकरणरूपत्वेन सम्भावितः, विशिष्टकारणप्रसूतः, नैसर्गिकत्वादागन्तुकदोषानपेक्षः, अहमिदमित्यादिप्रकारैनिरूपितप्रतिभासत्वेन प्रत्यक्षत्वात् , ज्ञेयाध्यासो ज्ञानाध्यासश्चाशक्योऽपह्नोतुमित्यसत्यत्वाद्बन्धस्य, विषयादिसम्भवादारभ्यमिदं शास्त्रमित्यभिसन्धिः । शास्त्रारम्भहेतुविषयादिसाधकमध्यासमाक्षेपसमाधिभ्यां सङ्क्षिप्य तमेव लक्षणसम्भावनाप्रमाणैः स्फुटीकर्तुं चोदयति — आहेति । शास्त्रस्य तत्त्वनिर्णयार्थतया वादत्वात् , तत्र गुरुशिष्ययोरधिकारात् , पुरस्थितमिव शिष्यं गृहीत्वा परोक्तिः । इत आरभ्य ‘कथं पुनः प्रत्यगात्मनी ‘ इत्यतः प्रागध्यासलक्षणपरं भाष्यम् , तस्मादाराभ्य ‘तमेतमविद्याख्यम् ‘ इत्यतः प्राक्तनं तत्सम्भावनायाः, एतदादि सर्वलोकप्रत्यक्ष इत्यन्तं तन्निर्णयायेति विभागः । समाधानभाष्येऽध्यासलक्षणनिर्देशेऽपि प्रसिद्धाध्यासलक्षणे निर्णीते प्रागुक्तलक्षणस्य तद्विशेषतया सिद्धिरिति मत्वा प्रसिद्धाध्यासं पृच्छति — कोऽयमिति । किंशब्दस्याक्षेपेऽपि सम्भवादत्र सोऽपि विवक्ष्यते । आत्मन्यध्यस्तोऽनात्मेतिविशेषोक्तेः, असदृशयोश्चाधिष्ठानाधिष्ठेयत्वायोगात् , सम्भावनया विशेषाक्षेपात् , प्रश्नाक्षेपयोर्भिन्नार्थत्वादुपपत्तिरिति भावः । अध्याससाधारणस्वरूपधीहेतुत्वेन लक्षणस्याभ्यर्हितत्वात् , आक्षेपमुपेक्ष्य पृष्टमेवेति मत्वाह — उच्यत इति । अत्र प्रश्नवाक्यस्थाध्यासपदानुषङ्गान्न साकाङ्क्षत्वम् । परत्रेत्युक्ते परस्येत्यार्थिकं, परत्र परावभास इत्येव लक्षणम् , तदुपपादकं स्मृतिरूपत्वम् , तत्साधनार्थं पूर्वदृष्टत्वम् । अध्यासद्वयेऽपि परत्रेति सामान्यतो धीयोग्यमधिष्ठानमुक्तम् । अर्थपक्षेऽवभास्यत इत्यवभासः परश्चासाववभासश्चेति । तथा ज्ञानपक्षेऽवभासनमवभासः परस्यावभासः परावभासः, तावत्युक्ते घटात्परस्य घटस्यावभासः, स चावभासमानोऽध्यासः स्यात्तन्निवृत्तये परत्रेति । न चैवमपि खण्डा गौरित्यादावतिव्याप्तिः, परत्रेत्यारोप्यात्यान्ताभाववतोऽभिधानात् , खण्डगवादीनां तादात्म्यवतां संसर्गशून्यत्वाभावात् । दोषसंस्कारसम्प्रयोगोत्थत्वादित्थमवभासः सम्भवतीति वक्तुं स्मृतिरूप इत्युक्तम् । स्मर्यत इति स्मृतिः - स्मर्यमाणोऽर्थः । ‘भावे ‘ ‘अकर्तरि च कारके संज्ञायाम् ‘ इति सूत्रद्वयमधिकृत्य ‘स्त्रियां क्तिन् ‘ इति सूत्रेण भावे, कर्तृव्यतिरिक्ते च कारके कर्मादौ संज्ञायामसंज्ञायां च क्तिन्विधानात् , अकर्तरि चेति चकारस्य संज्ञाव्यभिचारार्थत्वाङ्गीकारात् । स्मर्यमाणस्य रूपमिव रूपमस्येति स्मृतिरूपो न तु स्मर्यत एव, स्पष्टं पुरोविस्थितत्वेन भानात् । ज्ञानपक्षे स्मरणं स्मृतिः, भावे क्तिन्विधानात् । स्मृते रूपमिव रूपमस्येति स्मृतिरूपो न स्मृतिरेव पूर्वानुभूतस्य तथाऽभानात् , स्मृतिरूपता दोषादित्रयोत्थत्वात् , तादृग्धीविषयत्वाद्वा । अदृष्टरजतस्य रजतभ्रमादृष्टेः, तत्संस्काराभावाच्च संस्कारद्वारा स्मृतिरूपतोपयोगिपूर्वदृष्टत्वम् । तदेवं परत्र परावभास इत्येव लक्षणम् , अन्यदुक्तरीत्या तच्छेषमिति स्थितम् । अध्यासे वादिविप्रतिपत्तेः, उक्तं तल्लक्षणं कथमित्याशङ्क्य आरोप्यदेशादौ विवादेपि लक्षणसंवादान्न्यायतश्च तल्लक्ष्येऽनिर्वाच्यतासिद्धेः, सर्वत्रसिद्धान्तोऽयमिति विवक्षित्वा वादिविवादानुपन्यस्यन् , केषाञ्चिदन्यथाख्यातिवादिनामात्मख्यातिवादिनां चाभिप्रायमाह — तं केचिदिति । अन्यत्र शुक्त्यादावन्यस्य कार्यत्वेन पारतन्त्र्याद्धर्मस्य रजतादेरध्यासस्तादात्म्यधीः । देशान्तरगतं हि रजतादि दोषात्पुरोवर्त्यात्मना भातीत्येवमुक्तमध्यासं केचिदन्यथाख्यातिवादिनो वदन्तीत्येकत्र । अपरत्र त्वन्यत्र बाह्ये शुक्त्यादावन्यस्य ज्ञानस्य धर्मो रजतादिस्तस्याध्यासः, बहिरिव तदभेदेन धीः, इत्यात्मख्यातिवादिनस्तमध्यासमाहुरिति योजना । पक्षद्वयेऽपि परत्र परावभासे संमतिरस्तीति भावः । अख्यातिमतमाह — केचित्विति । वदन्तीत्यनुषज्यते । यत्र शुक्त्यादौ यस्य रजतादेरध्यासो लोके प्रसिद्धस्तयोस्तद्धियोश्च दोषवशाद्विवेकाग्रहे तत्कृतो रजतमिदमित्यादिसंसर्गव्यवहार इत्यख्यातिवादिनः । तैरपि संसर्गव्यवहाराय तद्धीरूपस्यावस्तुग्रहे तदभिन्नविवेकाग्रहायोगात् , तस्य तत्कृतत्वासम्भवात् , अविद्येतरदोषस्य भाति वस्तुन्यभानहेतुतानुपलम्भात् , अतः परत्र परावभासे तेषामप्यस्ति संमतिरिति भावः । केषाञ्चिदन्यथाख्यातिवादिनां माध्यमिकानां च मते दर्शयति — अन्ये त्विति । यत्र शुक्त्यादौ यस्य रजतादेरध्यासः, तस्यैव शुक्त्यादेर्विपरीतधर्मत्वस्य रजतादिरूपत्वस्य, भावान्तरत्वेन शून्यत्वेन वा सत्ताहीनस्य, कल्पनां भासमानतामध्यासं भावान्तराभाववादिनः शून्यवादिनश्चाचक्षते । तथा च तत्रापि परत्र परावभासे संवादोऽस्तीत्यर्थः । मतान्तराण्युपन्यस्य स्वमतानुसारित्वं तेषां निगमयति — सर्वथेति । सर्वेषु पक्षेषु प्रकारविशेषविवादेऽपि पुरोवर्तिनो रजतादित्वेनैव वेद्यतामध्यासो न व्यभिचरतीति युक्तमुक्तलक्षणस्याध्यास्य सर्वतन्त्रसिद्धान्तत्वम् । न च तस्य सत्त्वं, बाध्यत्वात् , अन्यत्र रजतादिसत्त्वस्यामानत्वात् । न च तदसत्त्वं, अपरोक्षत्वात् । नापि विरोधादेकस्य सदसत्त्वं, अतोऽनिर्वाच्यतेति भावः । न केवलं वादिनामेवायमध्यासः संमतोऽपि तु लौकिकानामपीत्याह — तथा चेति । अनुपहितेदमंशे रजतादिसंस्कारसहिताविद्यया रजताद्यध्यासवत् , पू्र्वपूर्वाहङ्कारादिवासितानाद्यविद्यया चिदात्मन्यनुपहिते भवत्यहङ्काराद्यध्यास इति निरुपुाधिकाहङ्काराद्यध्यासे दृष्टान्तमाह — शुक्तिकेति । सम्यग्धीसिद्धाधिष्ठानरूपाभिप्रायेण शुक्तिकाग्रहणं, सम्प्रयुक्तस्य मिथ्यारजतत्वभानधिया वत्करणम् । अनुभवप्रसिद्ध्यर्थो हिशब्दः । बिम्बप्रतिबिम्बयोः प्रतिबिम्बानां च मिथो भेदधीवज्जीवब्रह्मणोर्जीवानां च भेदधियः । सोपाधिकभ्रमस्य दृष्टान्तमाह — एक इति । एकत्वग्रहो वद्ग्रहश्च पूर्ववत् । लक्षणप्रकरणमुपसंहर्तुमितिशब्दः । लक्षितरजताध्यासस्य लोकवादिसिद्धत्वेऽपि नात्मन्यनात्माध्यासः स्यादिति विशेषाक्षेपमुत्थापयति — कथमिति । प्रतीचि पूर्णे स्फुरणत्वेनाननुभाव्ये, पराचां परिच्छिन्नानामनुभाव्यानां बुद्ध्यादीनां तद्धर्माणां च नाध्यासः । मिथो विरुद्धानामधिष्ठानाधिष्ठेयत्वासम्भवादित्यर्थः । विरुद्धानामैक्यतादात्म्यप्रमित्ययोगेऽपि तदध्यासयोग्यतया कल्प्यतामधिष्ठानाधिष्ठेयत्वमित्याशङ्क्याह — सर्वो हीति । आरोप्येण सह तुल्येन्द्रियग्राह्यत्वमधिष्ठानस्य दृष्टमिह तदभावान्नाध्यास इत्यर्थः । तर्हि प्रत्यगात्मन्यध्यासदृष्टेर्विषयत्वमपीष्टमित्याशङ्क्याह — युष्मदिति । प्रत्यक्त्वादात्मत्वाच्चास्याविषयत्वमन्यथेदंप्रत्ययविषयत्वापातात् , अपराद्धान्तापाताच्च । तस्मात्तस्मिन्नध्यासो दृष्टोऽपि श्लिष्टो नेत्यर्थः । अनात्मिविशेषारोपे तद्विशेषान्तरस्याधिष्ठानत्वेऽपि तन्मात्रारोपे चिदात्मैवाधिष्ठानमित्याह — उच्यत इति । विरुद्धयोर्वस्तुतोऽधिष्ठानाधिष्ठेयत्वायोगेऽपि कल्पनया तत्सिद्धिरिति भावः । यत्त्वेकज्ञानाविषयत्वान्नाधिष्ठानाधिष्ठेयतेति तत्राह — न तावदिति । एकस्मिन्विज्ञाने तयोर्भानमात्रमारोपेऽपेक्षते न विषयतया भानं, केवलव्यतिरेकाभावात् आत्मनः स्वप्रकाशत्वादनात्मनस्तद्विषयत्वात् , द्वयोरपि भासतोर्मनुष्योऽहमित्यादिधीवशादन्योन्याध्यासः सिध्यतीत्यर्थः । नियमेनाविषत्वाभावे कुतः स्वप्रकाशत्वं तत्राह — अस्मदिति । अस्मदर्थश्चिदात्मा साक्षितया प्रतीयते प्रतिबिम्ब्यतेऽस्मिन्नित्यस्मत्प्रत्ययोऽहङ्कारस्तत्सम्बन्धाल्लब्धपरिच्छेदः सन्नात्मस्वरूपस्फुरणेन स्फुरन्नपि तद्विषयो निरुच्यते, ततोऽस्य शून्यवदत्यन्ताविषयत्वाभावेऽपि नास्वप्रकाशतेत्यर्थः । अध्यासे सत्यस्मत्प्रत्ययविषयत्वं सति तस्मिन्नध्यास इत्यन्योन्याश्रयत्वमाशङ्क्यानादित्वेन परिहारेऽपि परिहारान्तरमाह — अपरोक्षत्वाच्चेति । अस्मत्प्रत्ययाविषयत्वेऽप्यपरोक्षत्वात् , एकान्तेनाविषयत्वाभावात् , तन्मिन्नहङ्काराध्यास इत्यर्थः । अपरोक्षत्वमपि कैश्चिदात्मनो नेष्टमित्याशङ्क्याह — प्रत्यगात्मेति । अस्यार्थः - अस्ति तावन्ममेदं विदितमिति विशिष्टधीः । न च सा विशेषणदर्शानादृते युक्ता । न च ज्ञानान्तरादस्य स्फुरणं, विमतं नैतद्विषयमेतन्निष्ठसाक्षात्करत्वात् , तादृग्घटसाक्षात्कारवदित्यनुमानात् । न च घटादिज्ञानाश्रयतयात्मसिद्धिः, तस्य तदधीनप्रकाशत्वे वेद्यत्वापातात् , तस्माद्यस्मिन्नात्मनि विशेषणत्वं कल्पितं तस्य संविद्रूपत्वेनैव स्फुरणादपरोक्षत्वं, देवदत्तस्वापकालः, देवदत्तात्मास्तीति व्यवहारहेतुसाक्षात्कारवान् कालत्वात् इतरकालवदित्यनुमानात् । न च स्वापेऽहंवृत्तिः तद्व्याघातात् । न च पुरुषान्तरं तत्साक्षात्कर्तुमलम् । ईश्वरास्तित्वे च साक्षात्कारस्यास्मद्विशेषणमादेयमिति । अपरोक्षाध्यासो नापरोक्षमात्रे क्वचिदपि युक्तः, सम्प्रयुक्ततया पुरःस्थितापरोक्ष्ये तद्दृष्टेरित्याशङ्क्यह — न चेति । तत्र हेतुरप्रत्यक्ष इति साक्षिवेद्यतया सम्प्रयोगमन्तरेणापरोक्षेऽपीति यावत् । न हि नभो द्रव्यत्वे सत्यरूपस्पर्शित्वाद्बाह्येन्द्रियग्राह्यम् । नापि मनसोऽसहायस्य बाह्ये वृत्तिः । तेन प्रसिद्धप्रत्यक्षत्वहीनेऽपि नभस्यविवेकिनस्तलमिन्द्रनीलकटाहकल्पं मलिनतां धूम्रतामन्यच्च पीताद्यध्यस्यन्ति । तथा चाधिष्ठानारोप्ययोरेकेन्द्रियग्राह्यत्वानियतिरिति भावः । दार्ष्टान्तिकं ब्रुवाणः सम्भावनां निगमयति — एवमिति । आत्मानात्मनोश्चिदचित्त्वेन वास्तवाभेदासिद्धौ, सामानाधिकरण्यात्तदभेदधीः, अध्याससम्भावनां गमयतीति भावः । ननु ब्रह्मविद्यापोद्यत्वेन सूत्रितामविद्यां हित्वा किमित्यध्यासो वर्ण्यते तत्राह — तमेतमिति । आक्षिप्तत्वं समाहितत्वं लक्षितत्वं च विशेषणार्थः । अध्यासमित्यनुभवानुसारिण्यनर्थतोक्ता । पण्डिता मन्यन्त इति पृथग्जनागोचरत्वेनैतदविद्यात्वस्य व्युत्पाद्यत्वमुक्तम् । प्रतिपन्नोपाधौ निषेध्यस्याविद्यान्वयव्यतिरेकित्वात् , अविद्यात्वमस्येतिवक्तुमविद्याग्रहणम् , अतो न सूत्रिताविद्योपेक्षिता । तस्या एव वर्ण्यमानत्वादित्यर्थः । न केवलमन्वयादिनाऽस्याविद्यात्वं, विद्यापोद्यत्वेन तद्विरोधित्वाच्चेत्याह — तद्विवेकेनेति । तस्याध्यस्तस्य बुद्ध्यादेर्विवेको विलापनं तेन रूपेणात्मनोऽसाधारणरूपस्येदमित्थमेवेत्यवधारणं विद्या, तेन तद्विरोधित्वादिना सिद्धेऽध्यासस्याविद्यात्वे सैवोच्यत इत्यर्थः । तथापि कारणाविद्यां त्यक्त्वा कार्याविद्योक्तिरयुक्तेत्याशङ्क्याह — तत्रेति । तस्मिन्नध्यासे उक्तरीत्याऽविद्यात्मके सत्याच्छादिकाविद्यायाः स्वापादौ स्वतोऽनर्थत्वदर्शनात्कर्तृत्वाद्यध्यासात्मना तस्या जागरादौ तथात्वात्कार्याविद्या वर्ण्यते । यत्रात्मनि बुद्ध्यादौ यस्य बुद्ध्यादेरात्मनो वाध्यासः तेन बुद्ध्यादिनात्मना वा कृतेनाशनायादिदोषेण चैतन्यगुणेन वात्मानात्मा वा वस्तुतो न स्वल्पेनापि युज्यत इत्यतो विद्यया तन्निवृत्तिरित्यर्थः । लक्षणसम्भावने भेदेनोक्त्वा सद्भावं निर्णेतुमादौ प्रत्यक्षं दर्शयति — तमिति । आक्षेपसमाधिविषयत्वं तदर्थः । लक्ष्यत्वमेतदर्थः । अविद्याख्यमिति सम्भावितोक्तिः पुरस्कृत्येत्यध्यासस्य व्यवहारहेतुतया स्वानुभवसिद्धत्वमुक्तम् । प्रमाणप्रमेयग्रहणं प्रमात्रादेरुपलक्षणम् । अपौरुषेयत्वेन विशेषं मत्वा शास्त्राणां पृथग्ग्रहणम् । मोक्षपराणि विधिनिषेधशून्यानि वस्तुमात्रनिष्ठानीत्यर्थः । त्रिविधव्यवहारस्याध्यासिकत्वे प्रमाणान्तरजिज्ञासया पृच्छति — कथमिति । यद्यपि प्रत्यक्षादिसर्वमविद्योत्थाहङ्कारादिविशिष्टात्माश्रयमिति स्वसाक्षिकं तथापि केन मानान्तरेण तथा स्यात् पुनःशब्दान्मानान्तरविवक्षाधीः । यद्वा प्रमाता प्रमाणानामाश्रयो नाविद्यावाननुपयोगादित्याक्षेपः । अथवा यद्येतानि प्रमाणानि कथमविद्यावद्विषयाणीत्यन्वयः । यद्वा यद्येतान्यविद्यावद्विषयाणि कथं प्रमाणान्यविद्यावदाश्रयत्वे कारणदोषादप्रामाण्यात् ‘यस्य च दुष्टं करणम् ‘ इत्यादिभाष्यादित्याक्षेपः । व्यवहारहेतुमध्यासमनुमानादिना साधयितुमारभते — उच्यत इति । तत्रानुमानं वक्तुं व्यतिरेकव्याप्तिमाह — देहेन्द्रियादिष्विति । सशिरस्कोऽवयवी त्वगिन्द्रियस्यानपेक्षाधारो देहस्तत्र मनुष्यत्वादिजातिमति देहे अहमभिमानः, इन्द्रियेष्वादिशब्दगृहीतदेहावयवेषु च ममाभिमानस्तेन हीनस्य सुप्तस्य प्रमातृत्वानुपपत्तौ सत्यां मानाप्रवृत्तेरध्यासस्तद्धेतुरित्यर्थः । यत्र नाध्यासस्तत्र न व्यवहारः यथा सुषुप्ताविति व्याप्तिः । देवदत्तस्य जागरदिकालः तस्यैवाध्यासाधीनव्यवहारवान् , तस्यैव स्वापादिकालादन्यकालत्वात् व्यतिरेके तस्यैव स्वापादिकालवदिति भावः । इन्द्रियादिषु ममत्वाभावेऽपि देहेऽहम्भावमात्रान्मानप्रवृत्तिमाशङ्क्याह — नहीति । इन्द्रियग्रहणं लिङ्गादेरुपलक्षणम् । प्रत्यक्षादीत्यादिपदप्रयोगात् , व्यवहारस्य व्यवहर्तारं विनाऽयोगात् , अनुपादानस्य व्यवहारस्य च कर्तृसाम्ये तान्यनुपादाय यो व्यबहारः स नेति योजना । यो द्रष्टृत्ववक्तृत्वादिरक्षमक्षम्प्रति नियतो व्यवहारः, यश्च लिङ्गादिनाऽनुमातृत्वादिव्यवहारो नासौ तानि ममत्वेनागृहीत्वा युक्तः । देहाध्यासेऽपि चक्षुराद्यनध्यासेऽन्धादेरदर्शनादित्यर्थः । इन्द्रियाध्यासे तेनैव व्यवहारादलं देहाध्यासेनेत्याशङ्क्याह — न चेति । इन्द्रियाणामधिष्ठानत्वेन देहे गृहीतेऽपि तस्मिन्नहम्भावस्य न प्रवृत्त्युपयोगो देहात्मनोः सम्बन्धान्तरादपि प्रवृत्तेरित्याशङ्क्याह — न चानध्यस्तेति । अस्यार्थः - अध्यासेतरो देहात्मयोगो देहस्यात्मसंयोगो वात्मेच्छयानुविधीयमानत्वं वा तदनुविधानयोग्यत्वं वा तत्कर्मारभ्यत्वं वा । नाद्यः, आत्मसंयुक्तेन परदेहेनापि तत्प्रसङ्गात् । न द्वितीयः, तदभावेऽप्यातुरदेहे मातृत्वादिदर्शनात् । न तृतीयः, स्वापादावपि तत्प्रसङ्गात् , तद्योग्यताया यावद्रव्यभावित्वात् । न च तदा सर्वकर्मलयान्न शरीरमेवेति वाच्यम् , स्वदृष्ट्या तदभावेऽपि परदृष्ट्या तद्भावात्तस्य तस्मिन्मातृत्वादिधीध्रौव्यात् । न चतुर्थः, भृत्यादिदेहैरपि तत्प्रसङ्गात् , तेषां स्वामिकार्यारभ्यत्वात् , अतो देहस्यात्मनि सम्बन्धान्तरासिद्धेरध्यास इति । नन्वात्मा स्वतश्चेतनत्वान्मातृत्वादिशक्तिमानिन्द्रियाद्यवधाने जागरादौ मातृत्वादिकमश्नुते स्वापादौ चक्षुराद्यभावात्तदभावो नाध्यासाभावादतोऽव्यतिरेकिणि व्यतिरेकः सन्दिह्यते तत्राह — न चैतस्मिन्निति । प्रमातृत्वं प्रमां प्रति कर्तृत्वं तच्च कारकान्तराप्रयोज्यस्य तत्प्रयोक्तृत्वम् । न च व्यापारमन्तरेण करणादिप्रयोक्तृत्वम् , न च कूटस्थासङ्गात्मनः स्वतो व्यापारः, न चेच्छातिरेकेण प्रमाकरणप्रयोक्तृत्वम् , न चात्मन्यक्रियेऽगुणे क्रियागुणवद्बुद्ध्याध्यासादृते सा युक्ता, तस्माद्बुद्ध्याद्यभेदाध्यासे तद्धर्माध्यासे चासति स्वतोऽसङ्गस्य मातृत्वायोगादध्यासस्तद्धेतुरित्यर्थः । तर्हि माभूदसङ्गस्यात्मनो मातृत्वं नेत्याह — नचेति । आत्मन्याध्यासिकमातृत्वाभावे सर्वव्यवहारहानिरित्यर्थः । एवं व्यतिरेकिणि व्यतिरेकासन्देहात्तस्यादोषत्वादर्थापत्तेरपि तेनावरोधात्प्रमाणान्तरप्रश्ने समाहितेऽपि कथमाक्षेपसमाधिः, तत्राह — तस्मादिति । प्रमाणस्य सत्त्वादिति यावत् । अयं भावः - मातुरेव मानाश्रयत्वेऽपि तस्याध्यस्तत्वात्तेषामविद्यावदाश्रयत्वम् । न च कारणदोषादप्रामाण्यं, सति प्रमाकरणे पश्चाद्भाविनो दोषस्य दोषत्वात् , अविद्यायास्तत्कारणनिविष्टत्वात् , यस्य च दुष्टं करणमिति चोक्तेरागन्तुकदोषविषयत्वात् , अध्यक्षादीनां च तात्त्विकप्रामाण्याभावस्येष्टत्वात् , व्यवहारे बाधाभावाद्व्यावहारिकप्रामाण्यसिद्धेः । न च तेषामतात्त्विके प्रामाण्ये तदन्तर्गतश्रुतेरपि तथात्वान्नेष्टसिद्धिः, श्रुत्यर्थस्य ब्रह्मणः ‘सत्यं ज्ञानम् ‘ इत्यादिना तात्त्विकत्वदृष्टेस्तस्यास्तात्त्विकप्रामाण्यादिति । नन्वविवेकिव्यवहारस्याध्यासिकत्वेऽपि नाविद्यावद्विषयाण्येव प्रमाणानि, विवेकिनामपि तद्व्यवहारात्तत्राह — पश्वादिभिश्चेति । चशब्दः शङ्काव्यावृत्त्यर्थः यौक्तिकविवेकस्याध्यक्षभ्रान्त्यविरोधित्वात् , विरोधित्वेऽपि तदननुसन्धाने विवेकिनामपि व्यवहारे पश्वादिभिरविशेषात् , तद्व्यवहारोऽप्याध्यासिक एवेत्यर्थः । कथं व्यवहारकाले विवेकिनापि पश्चादिभिरविशेषः, न हि ते निःशेषं पश्वादिव्यवहारमनुवर्तन्ते तत्राह — यथाहीति । सङ्गृहीतोऽर्थो यथा व्यज्यते तथोच्यत इति यावत् । आदिशब्देन शकुन्तादिरुक्तः । शब्दादिभिः श्रोत्रादीनां सम्बन्धे सतीत्यर्थेन्द्रियसंनिकर्षात्मकमध्यक्षमुक्तम् । शब्दादिविज्ञान इति तत्फलम् प्रतिकूलेऽनुकूल इत्यनुमानम् । ते हि शब्दाद्युपलभ्य तज्जातीयस्य प्रातिकूल्यमानुकूल्यं वाऽनुस्मृत्यास्यापि तज्जातीयत्वात्तथात्वमनुमिन्वन्ति । तत्र प्रतिकूलत्वानुमानफलं निवृत्तिः, अनुकूलत्वानुमानफलं प्रवृत्तिरिति विवेकः । उक्तमर्थमुदाहरति — यथेति । पुरुषविशेषं दृष्ट्वा तज्जातीयस्य हन्तृत्वमनुस्मृत्यास्यापि तज्जातीयत्वात्तदनुमाय ततो वैमुख्यं भजन्तीत्यर्थः । प्रत्येकं पश्वादीनामाशयं दर्शयितुं मामित्युक्तम् । पुरुषान्तरं तु द्वष्ट्वा तज्जातीयस्यानुकूल्यमनुस्मृत्य, अस्यापि तज्जातीयत्वात्तदनुमाय तदाभिमुख्यं भजन्तीत्याह — हरितेति । दार्ष्टान्तिकं वदन् व्यवहारलिङ्गेनाध्यासमनुमातुं तस्य पक्षधर्मतामाह — एवमिति । पित्रादित्रितयशिक्षाजन्यपदवाक्याभिज्ञता व्युत्पन्नचित्तता क्रूरदृष्ट्यादिविशिष्टान्पुरुषान्दृष्ट्वा तद्विधानां प्रातिकूल्यं स्मृत्वा तथात्वेनैतेषामपि तदनुमाय पश्वादिवद्विवेकिनोऽपि तेभ्यो विमुखीभवन्ति । तेभ्यो विपरीतान् प्रसन्नदृष्टित्वादिविशिष्टान् पुरुषविशेषानालक्ष्य, तादृशानामानुकूल्यं स्मृत्वा, तथात्वादेषामपि तदनुमाय तेष्वभिमुखी भवन्तीत्यर्थः । पक्षधर्मतां निगमयति — अत इति । अनुभवार्थोऽतःशब्दः । नन्वस्माकं प्रवृत्तिरध्यासादिति न पश्वादयो ब्रुवन्ति, नापि परेषामेतत्प्रत्यक्षं अतो दृष्टान्तस्य साध्यवैकल्यं तत्राह — पश्वादीनां चेति । अधिष्ठानारोप्यज्ञानेऽसति अध्यक्षादिभिः सामानाधिकरण्यविरोधिविवेकाभावात् , अध्यासवत्त्वं तेषां कल्प्यते विनापि मानैर्विवेके तदानर्थक्यमतो विना विवेकं पश्वादिषु व्यवहारदृष्टेः ; तन्मूलाध्याससिद्धिरित्यर्थः । संप्रत्यनुमानमाह — तत्सामान्येति । तैः पश्वादिभिः सामान्यं व्यवहारवत्त्वं तस्य विवेकिषु भानादिति यावत् । अपरोक्षाध्यासस्य व्यवहारपुष्कलकारणत्वात् , तस्याध्यासस्य काल एव कालो यस्य व्यवहारस्य स तत्कालः समानः । पश्वादिभिरिति शेषः विमतो व्यवहारोऽध्यासकृतः, व्यवहारत्वात् , संमतवत् । विमता वाध्यासवन्तः, व्यवहारत्वात् , पश्वादिवदिति प्रयोगः । मानयुक्तिभ्यां विवेकेऽप्यध्यासविरोधिप्रमित्यभावात् , अध्यासवत्त्वमविरुद्धमिति मत्वा व्युत्पत्तिमतामपीत्युक्तम् । न च व्यवहारवत्त्वाद्यप्रयोजकं, आत्मनो मातृत्वादिशक्तिमत्त्वे, शक्तेः सनिमित्तशक्याधीनतया मुक्तानामपि सनिमित्तशक्यापादकत्वात् , तत्रापि मातृत्वादिप्रसक्त्या मुक्त्यभावापातस्य विपक्षे बाधकत्वात् , प्रमातृत्वादिलक्षणशक्याभावे च ग्राहकमानाभावेन शक्तिमत्त्वस्यापि दुर्वचनत्वात् । न च सर्वो व्यवहारो रजताध्यासकृतः, व्यवहारत्वात् , इत्याभासतुल्यता, बाधादेव तस्यानुत्थानात् । मनुष्योऽहमित्यध्यासस्य सर्वानुभवसिद्धतया तदभावादिति भावः । विवेकिनां च लौकिकव्यवहारस्याध्यासिक्त्वेऽपि शास्त्रीयव्यवहारस्य विद्वद्विषयत्वात् , न तत्पूर्वकतेति भागे बाधमाशङ्क्य तस्यापि तत्पूर्वकत्वार्थं देहेतरात्मधीपूर्वकत्वमङ्गीकरोति — शास्त्रीये त्विति । तस्य तद्विषयत्वे कथमध्यासाधीनतेत्याशङ्क्याह — तथापीति । किं तद्वेदान्तवेद्यं तदाह — अशनायादीति । कर्त्रन्वयाधिकारान्वयभोक्त्रन्वया विशेषणैर्व्यावर्त्यन्ते । आमुष्मिकफलकर्मसु देहेतरात्मज्ञानादेव वृत्तौ उक्तात्मज्ञानस्याकिञ्चित्करत्वादित्याह — अनुपयोगादिति । किञ्चोक्तात्मज्ञाने सर्वाभिमानभङ्गात्कर्मस्वप्रवृत्तिरेवेति कुतस्तदपेक्षेत्याह — अधिकारेति । तथापि कथं शास्त्रीयप्रवृत्तेराध्यासिकत्वं, नहि देहातिरिक्तात्मज्ञाने बाधके तदध्यासानुवृत्तिरित्याशङ्क्य, तस्य पारोक्ष्यात् , अपरोक्षाध्यासाविरोधे तत्पूर्विकैव शास्त्रीयप्रवृत्तिरित्याह — प्राक्चेति । यथा यथोक्तान्याध्यक्षादीन्यध्यासं साधयन्ति तथागमोऽपि विधेर्बोद्धारमधिकारिणं ब्राह्मणादिशब्दैरनुवदन् देहात्मनोरन्योन्याध्यासं साधयतीत्याह — तथा हीति । तत्र ‘अष्टवर्षं ब्राह्मणमुपनयीत’ इत्यादिर्वर्णवयोविशेषस्य, ‘ न ह वै स्नात्वा भिक्षेत ‘ इत्यादिराश्रमविशेषस्य, ‘जातपुत्रः कृष्णकेशोऽग्नीनादधीत’ इत्यादिरवस्थाविशेषस्याध्यासः । आदिशब्दात् , ‘ जीवञ्जुहुयात् ‘ इति जीवनस्य, ‘ स्वर्गकामो यजेत ‘ इति कामित्वस्य, ‘ गृहदाहवान्यजेत’ इति निमित्तविशेषस्य महापातकित्वादेश्चाध्यासो गृह्यते । उक्तप्रमाणैः सिद्धेऽप्यध्यसे कस्य युष्मदर्थस्य कस्मिन्नस्मदर्थे वैपरीत्येन वाऽध्यास इति विशेषबुभुत्सायां तदर्थमध्यासलक्षणं परामृशति — अध्यासो नामेति । अध्यासस्यानर्थहेतुतां दर्शयितुं तद्विशेषानुदाहरति — तद्यथेति । प्रसिद्धातिरेकयोरपि पुत्रादिसाकल्यवैकल्ययोरनुभवेनैव मुख्याध्याससिद्धावप्रसिद्धातिरेकाणां कृशत्वादीनां तथा स्यादिति किंवक्तव्यमित्याशयेनाह — पुत्रेति । बाह्याः स्वदेहापेक्षया पुत्रादयः, तद्धर्मा वैकल्यादयः । स्वस्वाम्यनिमित्तमात्मनि स्वदेहे तानारोपयतीत्यर्थः । प्रसिद्धभेदानामपि स्वदेहद्वाराऽत्मनि मुख्याध्यासे सति अप्रसिद्धभेदानां सुतरां तत्र मुख्याध्यासः स्यादित्याह — तथेति । वैकल्यादीनां स्वदेहद्वारात्मन्यध्यासवदिति यावत् । देहश्च तद्धर्माश्च देहतद्धर्मास्तानात्मन्यध्यस्यतीति सम्बन्धः । अत्र चाहङ्कारद्वाराऽऽत्माऽधिष्ठानम् । उक्ताध्यासादप्यन्तरङ्गमध्यासं कथयति — तथेन्द्रियेति । यथा देहं तद्धर्मांश्चात्मन्यध्यस्यति तथेन्द्रियाणि तद्धर्माश्चाध्यस्यतीत्येतत् , देहस्य चक्षुरादिद्वारा साक्षिवेद्यत्ववदिन्द्रियाणामपि लिङ्गादिद्वारा तद्भावात् देहवदिहग्रहणं ; पृथगध्यासनिर्देशाच्च । न चैवं नित्यानुमेयत्वव्याघातः, तेषां लिङ्गादिव्यवधानेन साक्षिवेद्यत्वात् । अधिष्ठानं तु पूर्ववदिति भावः । यथा देहेन्द्रियधर्मानात्मन्यध्यस्यति तथान्तःकरणधर्मानपि कामादीनात्मनि सम्बन्धित्वेनारोपयतीत्याह — तथान्तःकरणेति । धर्माणामेवाध्यासमुक्त्वा देहादिवद्धर्म्यध्यासमाह — एवमिति । बुद्धिविशिष्टे तद्धर्माध्यासवत् , तदध्यासे किमधिष्ठानं तदाह — अशेषेति । स्वस्याहङ्कारस्य प्रचाराः कामादयः तेषां साधिकरणानां साक्षादेव साधके प्रत्यगात्मनि देहादिषु विवेकाद्बहिर्नीतेषु प्रातिलोम्येनान्तरञ्चतीवेति प्रत्यगुच्यते स चात्मा । निरुपचरितस्वरूपत्वात्तस्मिन्नज्ञानवतीत्यर्थः । आत्मन्यनात्मतद्धर्माध्यासे सिद्धे तस्याधिष्ठानत्वनियमे तद्विशेषचैतन्याभानात् जगदान्ध्यमित्याशङ्क्य तस्यापि संसृष्टत्वेनाध्यासमाह — तं चेति । तद्विपर्ययस्तेषामन्तःकरणादीनां विपर्ययश्चेतनत्वम् । तदात्मनेति यावत् । न च तेषामधिष्ठानत्वमेव, तद्विशेषादृष्ट्या व्यवहारविरहात् । अतो द्वयोर्विशेषदृष्टेरन्योन्याध्यासधीः, अध्यासे विशेषदृष्टेरध्यस्यमानताकृतत्वात् । न च द्वयोर्विशेषदृष्टौ नाधिष्ठानत्वं, स्वनिष्ठत्वेन तदभानात् । न चोभयोरध्यासे बाध्यतया शून्यता द्विधाऽध्यस्ता, अनात्मनः सर्वथा बाधेऽपि संसृष्टरूपेणैवाध्यस्तात्मनस्तन्मात्रबाधेऽपि स्वरूपशेषादिति भावः । आत्मनि बुद्ध्याद्यध्यासोक्त्या कर्तृत्वभोक्तृत्वे तस्योक्ते । तेष्वात्माध्यासोक्त्या बुद्ध्यादिषु चैतन्यमुक्तम् । सम्प्रत्यध्यासं सप्रमाणं निगमयति — एवमिति । पूर्वबुद्ध्याद्यध्यासात् , संस्काराद्यध्यासः, ततस्तादृगुत्तरबुद्ध्याद्यध्यास इति प्रवाहात्मना, प्रवाह्युपादानजाड्यात्मना वाऽनादित्वम् । तत्त्वधियं विना सर्वात्मना नाशहानेरानन्त्यम् । उपादानस्य मायाशक्तितया जडस्य प्रत्यक्चैतन्यसत्त्वानुबन्धित्वात् , अधिष्ठानधीबाध्यत्वं सिद्धवत्कृत्योक्तम् — नैसर्गिक इति । मिथ्याधीहेतुत्वेन तदात्म्यमाह — मिथ्येति । कारणाध्यासो हि कार्याध्यासस्य हेतुरित्यध्यासस्य मिथ्याप्रत्ययत्वमित्यर्थः । लक्षणतस्तथारूप्यते न प्रतीयत इति रूपग्रहणम् । अथवा मिथ्याप्रत्ययानांं रूपमनिर्वाच्यत्वं यस्य स तथेत्यनिर्वाच्यत्वं वोच्यते । यद्वा मिथ्याभूताखण्डजडशक्तिस्तन्मात्रत्वेनाध्यासप्रत्ययो रूप्यते । न हि कारणादृते कार्यस्य रूपमस्ति । तस्यानर्थहेतुतामाह — कर्तृत्वेति । प्रमाणं निगमयति — सर्वेति । प्रत्यक्षपदमुक्तप्रमाणोपलक्षणम् । विषयादिसम्भावनाहेतुमध्यासं प्रसाध्य विषयप्रयोजने निर्दिशन् , वेदान्तानामादेयत्वात् , तदीयविचारशास्त्रस्यापि तथात्वमाह — अस्येति । कर्तृत्वादिरनर्थस्तस्य हेतुरुक्तोऽध्यासस्तस्य प्रकर्षेण हानं सोपादानस्य निवृत्तिस्तदर्थमिति यावत् । कुतोऽस्य प्रहाणं तत्राह — आत्मेति । आत्मनस्त्वमर्थस्य तदर्थेन ब्रह्मणा यदेकत्वं वाक्यार्थः, तद्विषया विद्या साक्षात्कारो बुद्धिवृत्तिः, तस्याः प्रतिपत्तिरप्रतिबद्धतया प्राप्तिस्तदर्थमिति यावत् । कुतः पुनरेषा विद्योत्पद्यते तत्राह — सर्व इति । द्विविधवाक्यसङ्ग्रहार्थः सर्वशब्दः । आरम्भो विचारः । विचारितेभ्यो यथोक्तविद्योत्थानमित्यर्थः । वेदान्तेषु प्राणाद्युपास्तीनामपि भानात् , कथमात्मैक्यमेवार्थस्तेषामित्याशङ्क्याह — यथा चेति । शरीरमेव शरीरकं कुत्सितत्वात् , तन्निवासी शारीरको जीवः, तस्य ब्रह्मतावेदिका विचारात्मिका मीमांसा तस्यामिति यावत् । प्रथमवर्णके विचारविधेर्ज्ञानव्यवधानेन विषयो ब्रह्मात्मैक्यं, बन्धध्वस्तिश्च फलं, इत्यध्यासोक्त्या साधितम् । इदानीं पूर्वमीमांसया वेदार्थमात्रोपाधौ प्रवृत्तया गतत्वात् , नैतद्विचारकर्तव्यतेत्याशङ्क्याह — वेदान्तेति । तेषां मीमांसा विचारः, मीमांसाशब्दस्य परमपुरुषार्थहेतुसूक्ष्मार्थनिर्णयार्थविचारवाचित्वात् , तस्याः शास्त्रं सूत्रसन्दर्भः । शास्यते शिष्येभ्योऽनेन प्रतिपाद्यते तत्त्वमिति व्युत्पत्तेः । तच्चेदानीमेव व्याख्यातुमिष्टं ‘ अथातो धर्मजिज्ञासा’ इति वेदार्थैकदेशे धर्मोपाधौ विचारकार्यताप्रतिज्ञानात् चोदनासूत्रे च तस्यैव लक्षणप्रमाणयोः श्रुत्यर्थाभ्यामुपन्यासात् , उत्तरत्रापि तस्यैव विचारितत्वात् , वेदान्तविचारशास्त्रस्येदमादिमं सूत्रम् । आदिमत्वादनेन श्रोतृप्रवृत्तये विषयादि सूच्यते । सूत्रत्वाच्चास्यानेकार्थसूचकत्वम् । उक्तं हि - ‘लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च । सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः ॥ ‘‘अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥‘ इति । तथा च विशिष्टविषयादिमदिदं शास्त्रमारभ्यामिति भावः । वर्णकद्वयेन सूत्रतात्पर्यमुक्त्वा तत्रावतारितसूत्रस्य सामर्थ्यं दर्शयितुं प्रतिपदं व्याख्यास्यन्नथशब्दस्य वृद्धप्रयोगेऽर्थचतुष्टयसाधारणत्वादभीष्टमर्थमाह — तत्रेति । तेषु सूत्रपदेषु मध्ये योऽथशब्दः स आनन्तर्यार्थ इति योजना । लोकेऽथशब्दस्यार्थचतुष्टये निवेशेऽपि तदर्थोऽत्रानन्तर्यमेवार्थान्तरस्य वक्ष्यमाणरीत्याऽत्रायोगादित्यर्थः । नन्वथशब्दोऽधिकारार्थोऽपि लोकवेदयोर्दृष्टः ‘अथैष ज्योतिः', ‘अथ योगानुशासनम् ‘ इति तथेहापीत्याशङ्क्याह — नाधिकारार्थ इति । तत्र हेतुः — ब्रह्मेति । अस्यार्थः - किमयमथशब्दो ब्रह्मज्ञानेच्छायाः किं वा तन्निर्णीतविचारस्य अथवेच्छाविशेषणस्य ज्ञानस्यारम्भार्थः । नाद्यः, तस्या मीमांसाप्रवर्तिकायास्तदप्रवर्त्यत्वादनारभ्यत्वात् , तस्याश्चोत्तरत्र प्रत्यधिकरणमप्रतिपादनात् । न द्वितीयः, अथशब्देनानन्तर्योक्तिद्वारा विशिष्टाधिकार्यसमर्पणे साधनचतुष्टयसम्पन्नानां ब्रह्मधीतद्विचारयोरनर्थित्वाद्विचारानारम्भात् । न च विचारविधिवशादधिकारी कल्प्यः प्रारम्भस्यापि तुल्यत्वात् , अधिकारिणश्च विध्यपेक्षितोपाधित्वात् । न तृतीयः, ब्रह्मज्ञानस्यानन्दसाक्षात्कारत्वेनाधिकार्यत्वेऽप्यप्राधान्यात् , अथशब्दासम्बन्धात् , तस्मान्नारम्भार्थतेति । अस्तु तर्हि मङ्गलार्थत्वं नेत्याह — मङ्गलस्येति । न तावद्ब्रह्मजिज्ञासा कर्तव्येति वाक्यार्थे मङ्गलस्य कर्त्रादिभावेनान्वयः, तस्य तथात्वाप्रसिद्धेः कारकान्तराणां च प्रसिद्धेः । न च ब्रह्मजिज्ञासा मङ्गलमिति सामानाधिकरण्यं, प्रशंसात्वेन सूत्रस्यार्थवादत्वापत्तेः, तन्माङ्गल्यस्य च प्रसिद्धत्वात् । न च तदनूद्य तत्कर्तव्यतापरं सूत्रम् । तस्या मङ्गलत्वे कर्तव्यत्वस्यार्थिकत्वात् , अतो न मङ्गलार्थः । ननु विघ्नोपशान्तये शिष्टाचाररक्षायै च शास्त्रारम्भे मङ्गलमाचरणीयम् । ‘ओङ्कारश्चाथशब्दश्च’ इत्यादिस्मृतेर्मङ्गलार्थश्चाथशब्दस्तत्राह — अर्थान्तरेति । आनन्तर्यमर्थान्तरं तस्मिन्नेव प्रयुक्तोऽथशब्दः श्रवणमात्रेण वीणाध्वनिवन्मङ्गलहेतुस्तत्फलो भवति, अन्यार्थं नीयमानोदकुम्भोपलम्भवत् । उक्तस्मृतिस्तु मङ्गलफलत्वविषयेत्यर्थः । उक्तदृष्टान्तार्थो हिशब्दः । अथैतन्मतमितिवत्प्रकृतादर्थादर्थान्तरार्थोऽथशब्दस्तत्राह — पूर्वेति । यत्किञ्चित्प्रकृतमपेक्ष्य भाविन्यां जिज्ञासायामथप्रयोगेऽनुवादादृष्टार्थत्वयोरन्यतरत्वम् । अवश्यं हि पुमान्किञ्चित्कृत्वा किञ्चित्करोति फलत्वेनावस्थितजिज्ञासाहेतुत्वेन प्रकृतापेक्षया भाविन्यामस्यामथशब्दे प्रकृतापेक्षावशाद्यदस्यार्थान्तरं तदानन्तर्यान्नातिरिच्यते, हेतुफलयोरव्यभिचारेणानन्तर्यस्यैव मुख्यत्वात् , तथा चार्थान्तरं न पृथग्वाच्यम् । अतो हेतुभूतार्थस्याधिकारिविशेषणत्वेन फलपर्यन्तेच्छाविचारादिप्रवृत्तौ प्रतिपत्त्यपेक्षत्वात् , प्रवृत्त्यङ्गशास्त्रीयाधिकारिविशेषणसाधनचतुष्टयपुष्कलहेत्वानन्तर्यार्थोऽथशब्द इति भावः । तस्यानन्तर्यार्थत्वेति कथं ब्रह्मजिज्ञासायाः साधनचतुष्टयादेवानन्तर्यमित्याशङ्क्याह — सति चेति । दृष्टान्ते दार्ष्टान्तिके च नियमेन पूर्ववृत्तमिति सम्बन्धः । ननु धर्मजिज्ञासासूत्रे पूर्ववृत्तस्योक्तत्वान्नात्र वक्तव्यं शिष्यते तत्राह — स्वाध्यायेति । विध्यधीनसाङ्गाध्ययनलब्धस्वाध्यायादानन्तर्यं धर्मब्रह्मजिज्ञासयोः साधारणमतो नात्र पृथक्कथनीयम् । यद्वा समानं नात्यन्तमनपेक्षितं नापि स्वयमेव प्रयोजकमतस्तन्न शास्त्रारम्भे पुष्कलकारणमित्यर्थः । ननु धर्मजिज्ञासायां वेदाध्ययनादेवानन्तर्यम् यथाहुः - ‘तादृशीं तु धर्मजिज्ञासामधिकृत्याथशब्दं प्रयुक्तवानाचार्यः, या वेदाध्ययनमन्तरेण न सम्भवति’ इति । ब्रह्मजिज्ञासायां तु कर्मावबोधादानन्तर्यमथशब्दार्थः । युक्तं हि विचारयोरन्योन्यमुपकार्योपकारकत्वात् , उपकार्यब्रह्मावबोधस्योपकारककर्मावबोधादानन्तर्यम् । अतो धर्मजिज्ञासातो ब्रह्मजिज्ञासाया हेतुभेदोऽस्तीति शङ्कते — नन्विति । विचारयोरुपकार्योपकारकत्वस्यासिद्धेर्मैवमिति समाधत्ते — नेत्यादिना । यद्यपि वेदान्ताध्ययनं ब्रह्मजिज्ञासायां न पुष्कलो हेतुः तथापि तेन विना न सा युक्ता । युक्ता त्वधीतवेदान्तस्य विनापि धर्मजिज्ञासया, तस्यास्तस्यामनुपयोगात् , अतो न ब्रह्मजिज्ञासाया धर्मजिज्ञासानन्तर्यमित्यक्षरार्थः । अयं भावः - प्राच्यां मीमांसायां न्यायसहस्त्रं, तद्गत वाक्यार्थधीः, वाक्यार्थश्चाग्निहोत्रादिकर्मेति त्रयं वृत्तम् । तत्र न तावदस्या न्यायसहस्रानन्तर्यम् , तस्य तत्तदर्थभेदज्ञानोपयोगिनोऽस्यामनुपयोगात् , स्वाध्यायस्यार्थज्ञानोपयोगेऽनपेक्षत्वेन स्वतोमानत्वेन च न्यायद्वयमिहोपयुक्तमपि स्वाध्यायाध्ययनवन्न पुष्कलकारणमिति न तदानन्तर्यमस्या युक्तम् । नापि वाक्यार्थज्ञानादत्रानन्तर्यम् । तद्धि नात्र प्रवर्तकमन्यार्थत्वात् , नापि प्रत्यायकं, धर्मब्रह्मणोरसम्बन्धात् । न च ज्ञाताद्वाक्यार्थादत्रानन्तर्यं, अज्ञानत्वेन व्यवहितफलहेतुकर्मसु फलप्रवृत्तिकालज्ञानानपेक्षेषु ब्रह्मज्ञानफलविचाराधिकारोपाधितया पूर्वक्षणे ज्ञातव्याधिकारिविशेषणत्वायोगात् , तस्मान्न कर्मतज्ज्ञानविचारानन्तर्यमथशब्दार्थ इति । ननु धर्मजिज्ञासाया ब्रह्मजिज्ञासायां सामग्रीत्वाभावेऽप्यानन्तर्योऽक्तिद्वारा तत्क्रमज्ञानार्थोऽथशब्दः ‘हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसः’ इत्यवदानक्रमज्ञानार्थाथशब्दवत् । 'अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः । इष्ट्वा च शक्तितो यज्ञैर्मनो मोेक्षे निवेशयेत् ॥ ‘ इति स्मृतेः । न तु पुष्कलहेतुज्ञानार्थतास्येति तत्राह — यथेति । अनुष्ठेयावदानानां बहुत्वात् , अनुष्ठातुश्चैक्यात् , अयौगपद्यात् , क्रमध्रौव्यात्तन्नियममथशब्दो ब्रूयात् । इह तु विचारयोरनुष्ठातृभेदान्न क्रमो विवक्षितः । यत्राङ्गाङ्गित्वं प्रयाजदर्शादिषु, यत्र चाधिकृताधिकारो गोदोहनादिषु तत्रैव कर्त्रैक्यं, न प्रस्तुतविचारयोस्तथात्वे मानम् । अतोऽत्र कर्तृभेदान्न क्रमविवक्षा । स्मृतिस्त्वविरक्तस्याश्रमक्रमोक्त्या यज्ञाद्यनुष्ठानानन्तरं शुद्धबुद्धेर्मुमुक्षां दर्शयति न ब्रह्मविचारस्य धर्मविचारानन्तर्यम् । तत्र तद्वाचिशब्दाभावाद्ब्रह्मचर्यादेव संन्यासविधानाच्च । तस्मादनेककर्तृकत्वाद्विचारयोर्न क्रमार्थोऽथशब्द इत्यर्थः । नन्वाग्नेयादीनामेकस्वर्गफलानामध्यायानां च द्वादशानामेकधर्मार्थानां क्रमदर्शनादनयोरपि विचारयोरलौकिकसुखफलयोरेकवेदार्थविषययोरपेक्षिते क्रमे तदर्थोऽथशब्दो भविष्यति नेत्याह — फलेति । नोक्तरीत्या क्रमापेक्षेति शेषः । अलौकिकसुखफलत्वे तुल्ये कथं भिन्नफलतेत्याशङ्क्य धर्मजिज्ञासाफलमाह — अभ्युदयेति । ज्ञानेन जिज्ञासा लक्षिता, प्रकृतत्वात् । तस्या धर्मज्ञानानुष्ठानद्वारा देहाद्यवच्छिन्नत्वेनाभितो जातः स्वर्गादिसुखविशेषः फलमित्यर्थः । न केवलं स्वरूपतः फलभेदः किन्तूत्पादनप्रकारभेदादपीत्याह — तच्चेति । वैदिकधीत्वाद्ब्रह्मधीरपि धर्मधीवदभ्युदयफलेत्याशङ्क्याह — निःश्रेयसेति । अभ्युदयफलव्यावृत्तये तुशब्दः । पूर्ववज्ज्ञानशब्दो जिज्ञासामधिकाराल्लक्षयति । उपास्तिवद्धर्मज्ञानवद्वा स्वगतमर्थगतं वा ब्रह्मधीरप्यनुष्ठानमपेक्षतामित्याशङ्क्याह — नचेति । 'ब्रह्मसंस्थोऽमृतत्वमेति’ इति श्रुतेर्ब्रह्मधीरोङ्कारनिष्ठाव्यतिरिक्तानुष्ठानानपेक्षेत्यर्थः । फलभेदमुक्त्वा जिज्ञास्यभेदमाह — भव्यश्चेति । भवत्यसाविति भव्यो भविता, भव्यगेयादिशब्दानां विकल्पेन कर्तरि निपातनात् । उक्तं हि - ‘भव्यादयः शब्दाः कर्तरि निपात्यन्ते’ इति । धर्मस्य भव्यत्वं साध्यैकस्वभावत्वं तदुपपादयति — न ज्ञानेति । तत्काले सत्त्वाभावे तुच्छत्वमाशङ्क्याह — पुरुषेति । असतोऽपि तत्काले क्रियासाध्यत्वादतुच्छतेत्यर्थः । धर्मवद्ब्रह्मणोऽपि वेदार्थतया साध्यत्वमाशङ्क्योक्तम् — इह त्विति । भूतमित्यतीतत्वं व्यावर्तयति — नित्यत्वादिति । कालत्रयासंस्पर्शादशून्यत्वाच्च धर्मवत्कृतिसाध्यत्वमाशङ्क्य कालादिकल्पनासाक्षित्वान्नेत्याह — न पुरुषेति । रूपतो जिज्ञास्यभेदमुक्त्वा मानतोऽप्याह — चोदनेति । वैदिकशब्दमात्रं चोदना, विशेषेण सामान्यलक्षणात् । शक्तितात्पर्याभ्यामर्थज्ञापकत्वे तुल्ये कथं तत्प्रवृत्तिभेदस्तत्राह — या हीति । वैदिको लिङादिर्धर्मे मानं, ‘यजेत’ ‘चोदनालक्षणोऽर्थो धर्मः’ इत्युक्तत्वात् । स स्वविषये धात्वर्थकरणकपुरुषार्थभाव्यार्थभावनारूपे प्रेरयन्नेव पुरुषं बोधयति । ‘यजेत’ इत्यादिर्हि शब्दोंऽशत्रयविशिष्टामर्थभावानां विदधत्तदनवबोधे पुरुषाप्रवृत्तेस्तामपि बोधयतीत्यर्थः । ब्रह्मचोदनापि चोदनात्वादितरवत्प्रवृत्तिनिष्ठेत्याशङ्क्याह — ब्रह्मेति । ब्रह्मणि प्रतीचि स्थितं ‘अयमात्मा ब्रह्म’ इत्यादिवाक्यं त्वम्पदलक्ष्यं पुरुषं केवलमप्रपञ्चं ब्रह्म बोधयत्येव न प्रवर्तयतीत्यत्र हेतुमाह — अवबोधस्येति । ननु ‘आत्मा ज्ञातव्यः’ इत्यादिवाक्यैर्ब्रह्म बोध्यते तेन ब्रह्मबोधे भाव्ये पुरुषं प्रेरयन्तो वेदान्तास्तद्व्यावृत्तां भावनां बोधयन्ति, सत्यादिवाक्यानां ‘भूतं भव्यायोपदिश्यते’ इति न्यायात् , विधिवाक्यैरैक्यात्तत्राह — न पुरुष इति । ज्ञानस्येच्छाप्रयत्नानधीनत्वात् , मानवस्तुतन्त्रत्वात् , अनिच्छतोऽयतमानस्यापि दुर्गन्धादिज्ञानात् न तस्मिन्विधिः । न च त्रिविधेऽपि ज्ञाने विधिः शक्यो निरूपयितुम् । न च चोदना साध्यमेव बोधयति किन्तु भूतादावपि, ‘चोदना हि भूतम्’ इत्याद्युक्त्या तत्प्रवृत्तेः । न च तस्य विधिशेषित्वेनैव धीः, समन्वयसूत्रविरोधादिति भावः । पुंसो बोधे नियोगाभावं दृष्टान्तेन स्पष्टयति — यथेति । आनन्तर्यवाचिनोऽथशब्दस्याक्रमार्थत्वे पुष्कलहेतुज्ञानार्धत्वमेवेत्युपसंहरति — तस्मादिति । अध्ययनादेर्ब्रह्मजिज्ञासायामसामग्रीत्वात् तथाभूतमन्यदेव वाच्यमित्याह — उच्यत इति । शास्त्रीयविधेस्तादृगेवाधिकारनिमित्तमिति मत्वाह — नित्येति । आत्मातिरिक्तं सर्वं कार्यत्वाद्धटवदनित्यं, आत्मैव नित्योऽकृतकभावत्वादिति निश्चयो नित्यानित्यवस्तुविवेकः । वर्तमानदेहस्थितिहेत्वनिषिद्धान्नाद्यतिरिक्तार्थेच्छाविरुद्धा दृढा चेतोवृत्तिरिहामुत्रार्थभोगविरागः लौकिकसर्वबुद्धिव्यापराणां स्वाधिकारानुपयुक्तानामफलत्वज्ञानपूर्वकस्त्यागः शमः । तथारूपबाह्यकरणव्यापारत्यागो दमः । सत्त्वशुद्धौ नित्यानामपि विधित एव त्याग उपरतिः । शीतोष्णादिद्वन्द्वानां स्वाधिकारापेक्षितजीवनविच्छेदकातिरिक्तानां सहिष्णुता तितिक्षा । सर्वास्तिकता श्रद्धा । विधित्सितश्रवणादिविरोधिनिद्रादिनिरोधेन चेतसोऽवस्थानं समाधानम् । एतेषां सम्पत्तिः शमदमादिसम्पत् । आत्मनोऽज्ञानतत्कार्यसम्बन्धो बन्धः । तद्विच्छेदो मोक्षः । तदिच्छावत्त्वं मुमुक्षुत्वम् । एतेषां पूर्वस्य पूर्वस्योत्तरोत्तरहेतुतया भुमुक्षावसानात् , तस्या एव ब्रह्मजिज्ञासाहेतुत्वात् , युक्तममुष्यास्तदानन्तर्यम् । तेषां साक्षात्पारम्पर्याभ्यां तद्धेतुत्वादित्यर्थः । साधनचतुष्टयस्य ब्रह्मविचारादिप्रवृत्तौ दृष्टहेतुत्वमन्वये नान्वाचष्टे — तेष्विति । तत्रैव व्यतिरेकमाह — नेति । कथञ्चित्कुतूहलितया ब्रह्मजिज्ञासायां प्रवृत्तस्यापि फलपर्यन्तज्ञानानुदयाद्वयतिरेकसिद्धिः । अन्वयव्यतिरेकसिद्धमर्थमुपजीव्याथशब्दव्याख्यामुपसंहरति — तस्मादिति । अथशब्दादानन्तर्यमात्रं शक्त्या दृष्टोऽर्थः । साधनचतुष्टयस्य ब्रह्मजिज्ञासादिप्रवृत्तौ दृष्टहेतुत्वेन जिज्ञासासामग्रीत्वं तेन द्योत्योऽर्थ इति भेदः । क्रमप्राप्तमतःशब्दंं व्याकरोति — अतःशब्द इति । अथशब्देन हेतोरुक्तत्वादतःशब्देनायि तस्यैवोक्तौ पुनरुक्तिरित्याशङ्क्य हेतुरूपमर्थमेवाह — यस्मादिति । तस्मादित्युत्तरेण सम्बन्धः । अस्यार्थः - अथशब्देनानन्तर्योक्तिद्वारा पूर्वनिर्वृत्ते ब्रह्मजिज्ञासापुष्कलहेतुचतुष्टये विवक्षितेऽपि तदपवादे शङ्किते तन्निरासेन तद्धेतुत्वमतःशब्देनाथशब्दोक्तहेतुवाचिना व्यवस्थाप्यते । तथाहि - कृतकत्वादेर्ध्वंसादौ व्यभिचारात् ‘अक्षय्यम् ‘ इत्यादिश्रुत्या च विरोधात् अनित्यत्वासाधकत्वात् , अकृतकत्वस्य प्रागभावे व्यभिचारात् नित्यत्वाहेतुत्वात् , भावत्वविशेषणे चाण्वादौ भावात् , आत्ममात्रनित्यत्वासिद्धेः, अपरिच्छिन्नत्वस्य प्रतिदेहं भिन्नेष्वात्मस्वभावात् , विभुत्वविवक्षायामाकाशादिषु भावात् , उक्तदोषान्नित्यानित्यविवेकायोगात् , वैराग्यादेरपि तदभावेऽभावात् , विशिष्टाधिकार्यभावात् , अनारम्भः शास्त्रस्येत्याशङ्क्य तन्निरासेन हेतुचतुष्टयमुपपाद्य तद्धेतुत्वमतःशब्दः साधयति । न हि ध्वंसादौ नित्यत्वं, प्रागभावादावकृतकत्वं, आत्मनो वा परिच्छिन्नत्वम् । ‘यावद्विकारं तु विभागः’ इति न्यायात् । पुण्यस्याक्षय्यफलत्वश्रुतिस्तु वस्तुबलप्रवृत्तानुमानानुगृहीतश्रुतिविरोधेन स्वार्थे मानं अतो विवेकद्वारा वैराग्यादिभावात् , विशिष्टाधिकारिलाभादारभ्यं शास्त्रमिति । आदिशब्दात् ‘अतोऽन्यदार्तम्’ इत्यादिवाक्यं गृह्यते । मुमुक्षुत्वस्य हेत्वन्तरमाह — तथेति । यथा कर्मणामनित्यफलत्वं वेदो दर्शयति तथेति यावत् । परमपुरुषार्थं निरस्तसमस्तदुःखं निरतिशयानन्दमित्यर्थः । अत्राप्यादिशब्देन ‘तरति शोकमात्मवित् ‘ इत्याद्युच्यते । हेतुचतुष्टयस्य ब्रह्मजिज्ञासासामग्रीत्वे स्थिते परिपूर्णो हेतुरवश्यं कार्यमुत्पादयतीति फलितमुपसंहरति — तस्मादिति । अथातःपदे व्याख्याय ब्रह्मजिज्ञासापदस्य वृत्तिकाराभीष्टचतुर्थीसमासनिरासेन षष्ठीसमासमाह — ब्रह्मण इति । अवयवार्थस्येच्छायाः कर्मप्रयोजनयोरैक्यात्कर्मणः स्वरूपसाधकत्वेन प्राधान्यात्कर्मणिषष्ठीसमासः । तादर्थ्यसमासे प्रकृतिविकृतिग्रहणस्य कर्तव्यत्वात् , तथाभूतयूपदार्वादौ तद्दृष्टेः, अश्वघासादौ षष्ठीसमासाङ्गीकारात् । न च धर्माय जिज्ञासेतिवदिहापीति वाच्यं, षष्ठीसमासस्यैव तत्रापीष्टत्वात् । उक्तं हि - ‘सा हि तस्य ज्ञातुमिच्छा’ इति । न चात्र प्रकृतिविकृतित्वं षष्ठीसमासेऽपि ब्रह्मप्राधान्यमार्थिकं तस्मादवयवार्थे षष्ठीसमासोऽयुक्त इति भावः । किं तद्ब्रह्म यत्कर्मत्वेन फलत्वेन च जिज्ञासाया विवक्षितं तदाह — ब्रह्मेति । यतो ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मलक्षणं वक्ष्यत्यतो वृत्तिकारप्रयासो वृथेत्याह — अत एवेति । आदिशब्देन जीवकमलासनशब्दराशीनां ग्रहणम् । वृत्त्यन्तरे शेषे षष्ठी व्याख्याता तत्राह — ब्रह्मण इतीति । जिज्ञासापदस्याकारप्रत्ययान्तत्वेन कृद्योगात् ‘कर्तृकर्मणोः कृति’ इतिसूत्रात्कर्मण्येषा षष्ठी । न च ‘कर्मणि च’ इति सूत्रे षष्ठ्याः समासनिषेधात् ब्रह्मजिज्ञासेति समासासिद्धिः, ‘उभयप्राप्तौ कर्मणि’ इति सूत्राद्या षष्ठी कर्तृकर्मणोरुभयोरपि सामर्थ्यादुपादानप्राप्तौ कर्मण्येवेति नियमिता, तस्या एव समासनिषेधात् । यथाह - ‘उभयप्राप्तौ कर्मणि’ इत्यस्याः षष्ठ्या इदं ग्रहणमिति । प्रकृते नोभयप्राप्तिः, ब्रह्मणः कर्मत्वस्यैवेष्टत्वात् , कर्तृस्थातिशयस्याविवक्षितत्वात् । तस्मात् ‘कर्तृकर्मणोः कृति’ इत्येवात्र षष्ठीति ब्रह्मजिज्ञासेति समाससिद्धिरिति भावः । परपक्षनिषेधमुक्त्वा हेतुमाह — नेत्यादिना । कर्मादिभ्योऽन्यः प्रातिपदिकार्थातिरिक्तः स्वस्वामिसम्बन्धादिः शेषः, तत्र नैषा षष्ठी किन्तु कर्मण्येव, जिज्ञासाया जिज्ञास्यापेक्षत्वात् । ज्ञानं हीच्छायाः प्रतिपत्त्यनुबन्धः, तदभावे जिज्ञासानिरूपणात् । ज्ञानस्य ज्ञेयं ब्रह्म तद्विना ज्ञानायोगात् । अतः प्रतिपत्त्यनुबन्धत्वात् आदौ जिज्ञासा कर्मैवापेक्षते न सम्बन्धमात्रम् । तेनैषा कर्मण्येव षष्ठीत्यर्थः । जिज्ञासाया जिज्ञास्यापेक्षितत्वेऽपि प्रमाणादि जिज्ञास्यमस्तु ब्रह्म तु शेषितया सम्बध्यतामित्याशङ्क्याह — जिज्ञास्यान्तरेति । श्रुतकर्मलाभे नाश्रुतकल्पनेति भावः । प्रमाणादिप्रतिज्ञानां श्रौतत्वमभिप्रेत्य शङ्कते — नन्विति । 'षष्ठी शेषे’ इति सम्बन्धमात्रे तद्विधानेऽपि व्यवहारस्य विशेषनिष्ठत्वात् , सकर्मकक्रियायां कर्मणोऽन्तरङ्गत्वात् , ब्रह्मणा कर्मणा जिज्ञासानिरूपणं सिध्यतीत्यर्थः । एकस्यापि प्रधानस्य श्रौतत्वं न बहूनामपि गुणानामिति समाधत्ते — एवमपीति । प्रत्यक्षं शब्दवाच्यं, प्रथमापेक्षितं वा परोक्षमार्थिकं जघन्यं वा । शेषषष्ठीवादी स्वाभिप्रायमाह — नेत्यादिना । शेषष्ठीपक्षे सामान्येन यत्किञ्चिद्ब्रह्मयोगिमानयुक्त्यादि तत्सर्वं जिज्ञास्यत्वेनोक्तं स्यात् , प्रतिज्ञातव्यं चैतदन्यथा विचार्यत्वायोगात् , अतः सम्बन्धमात्रमेवात्रेष्टम् । सामान्ये विशेषान्तर्भावादित्यर्थः । सिद्धान्ती स्वाभिसन्धिमाह — न, प्रधानेति । मानादीनामपि स्वविचारेषु तुल्यं प्राधान्यं नेत्याह — ब्रह्मेति । तथापि ब्रह्मोपास्यमित्युक्ते मानाद्यजिज्ञासावत्प्रकृतेऽपीत्याशङ्क्याह — तस्मिन्निति । अप्रधानानां मुख्यवृत्त्या शब्दोपादानं प्रधानस्यार्थाक्षेपश्चोचितोक्तिसम्भवो नेति भावः । उक्तमर्थं दृष्टान्तेन स्फुटयति — यथेति । कर्मणि षष्ठीत्यत्र युक्त्यन्तरमाह — श्रुतीति । एतत्सूत्रमूलश्रुतौ ब्रह्मणः कर्मत्वदृष्टेः, सूत्रेऽपि षष्ठ्या तदेव ग्राह्यमिति भावः । कथं कूटस्थस्य ब्रह्मणः श्रुतौ कर्मत्वमुक्तं, तत्राह — यत इति । प्रत्यक्षमिति स्फुटत्वोक्तिः । अविद्याद्वारा तत्कर्मत्वश्रुतिरिति भावः । श्रौतेऽपि कर्मत्वे ब्रह्मणः सौत्रं शेषत्वमेव किं न स्यात्तत्राह — तच्चेति । न हि श्रुतिसूत्रयोर्मूलमूलिनोर्विप्रतिप्रत्तिर्युक्तेति भावः । षष्ठ्यर्थमुपसंहरति — तस्मादिति । जिज्ञासापदस्यावयवार्थमाह — ज्ञातुमिति । ब्रह्मणि ज्ञाते तज्ज्ञानस्याप्तत्वात् , तदिच्छायोगात् , अज्ञातविशेषणाज्ञानात् तज्ज्ञानेच्छासिद्धेर्न जिज्ञासेत्याशङ्क्याह — अवगतीति । ज्ञानावगत्योरैक्यात्कथं भेदकतेत्याशङ्क्य हेतुफलभावेनेत्याह — ज्ञानेनेति । ब्रह्मावगतेरपीष्टानिष्टप्राप्तिहानितद्धेतुत्वाभावात् , नेष्टत्वमित्याशङ्क्योक्तम् — ब्रह्मेति । पुमर्थत्वे तस्या हेतुं हिशब्दसूचितं विशदयति — निःशेषेति । समस्तसंसारबीजमनादिरविद्या तस्याः, तामादित्वेनादाय प्रवृत्तानर्थस्य च तस्यैव संसारस्योक्तावगत्या ध्वस्तेरिति यावत् । सूत्राक्षरव्याख्यामुपसंहरति — तस्मादिति । विशिष्टाधिकारिसत्त्वं तदर्थः । ब्रह्मज्ञातुकामेन ब्रह्म विचारयितव्यम् । इदं शास्त्रं श्रोतव्यमित्यर्थः । बन्धमिथ्यात्वेन सिद्धेऽपि विषयादौ विधान्तरेण तदाक्षिप्य समाधातुं वर्णकान्तरमवतारयन्नादावाक्षिपति — तदिति । प्रागेव जिज्ञासायास्तद्ब्रह्म कुतश्चिज्ज्ञातमज्ञातं वेति विकल्पार्थः । आद्ये शास्त्राप्रतिपाद्यतया नास्य ब्रह्म विषयः, अनन्यलभ्यत्वाभावात् । अतोऽनेनानवगमान्नास्य फलमपि तदवगतिरिति विषयाद्यसिद्धिरित्याह — यदीति । यन्न कदाचिदपि केनचिदाकारेण बुद्धावारोहति तस्य प्रतिपाद्यत्वेऽशक्यप्रतिपाद्यतया न शास्त्रेण सम्बन्धः, अप्रतिपाद्यत्वे तदवगतिर्न फलमपीति सम्बन्धाद्यसिद्ध्या द्वितीयं दूषयति — अथेत्यादिना । ब्रह्मणः सामान्यतो ज्ञातस्य विशेषतो विना विचारमज्ञानाद्विचारयोग्यतेति त्रितयमपि समाधत्ते — उच्यत इति । तत्र प्रसिद्धत्वोक्त्या ब्रह्मणः शक्यप्रतिपाद्यतया सम्बन्धं साधयति — अस्तीति । प्रसिद्धत्वमस्तित्वम् , प्रसिद्धमप्रसिद्धं वेत्यधिकारात् , ब्रह्मणो निरुपाधिकं रूपमाह — नित्येति । कार्यैक्यव्यावृत्त्यै नित्यपदम् । तत्तादात्म्यं व्यासेद्धुम् — शुद्धेति । अखण्डजाड्यस्वाभाव्यं व्यावर्तयति — बुद्धेति । तादृग्जाड्यैक्याभासेनाध्यस्तचैतन्यं व्युदस्यति — मुक्तेति । मोक्षावस्थायामेव नित्यत्वादीत्याशङ्क्याह — स्वभावमिति । भानाभानकृता मुक्तिबन्धयोर्भेदबुद्धिरिति भावः । सोपाधिकं ब्रह्मरूपमाह — सर्वज्ञमिति । ननु न सामान्येनापि लोके ब्रह्म ज्ञातं, तस्योक्तरूपस्याध्यक्षाद्यगम्यत्वात् । नापि श्रुत्या तद्धीः, तद्गतब्रह्मशब्दस्याज्ञातसङ्गतित्वात् , अत एव न पदमात्रादपि तद्धीः, तत्राह — ब्रह्मेति । श्रुतिसूत्रयोर्ब्रह्मशब्दोऽन्यथानुपपन्नो निगमाद्यनुगृहीतो विशिष्टवाक्यार्थान्वयिपदार्थाकाङ्क्षानुगृहीतश्च नियतपदार्थधीहेतुतया विशिष्टेऽपि ब्रह्मणि सम्भावनाहेतुरिति युक्ता तस्य प्रसिद्धिरित्यर्थः । बृंहतिधात्वालोचनायामपि तत्प्रसिद्धिरित्याह — बृंहतेरिति । सङ्कोचकप्रकरणोपपदाभावे वृद्धिकर्मणो बृंहतिधातोर्निरङ्कुशमहत्त्वबोधितत्वात् , अवच्छेदत्रयशून्यत्वसिद्धेर्नित्यपदस्य तत्परत्वात् , दोषभूयिष्ठत्वाद्यभावेन शुद्धत्वात् , अजडत्वेन बुद्धत्वात् , अविद्याद्यपरतन्त्रतया मुक्तत्वात् , कुतश्चिदप्यव्यावृत्तज्ञानशक्तितया सर्वज्ञतादिसिद्धेः, धात्वर्थानुरोधादेवोक्तब्रह्मसिद्धिः, नित्यत्वादिशून्ये निरङ्कुशमहत्त्वायोगात् । तथाच पदशक्तेरेव प्रसिद्धं ब्रह्मेत्यर्थः । तत्पदार्थस्य नित्यत्वादिना प्रसिद्धिमुक्त्वा त्वम्पदार्थात्मनापि प्रसिद्धिमाह — सर्वस्येति । आत्मापि प्रत्यक्षाद्यगोचरत्वात्प्रसिद्धो नेत्याशङ्क्याह — सर्वो हीति । प्रमाणाप्रमाणसाधारणीं प्रतीतिमप्रतीतिनिरासेन स्फोरयति — न नेति । अहमस्मीति न न प्रत्येति किं तु प्रत्येत्येवेति योजना । आत्मनः शून्यस्यैव प्रतीतेर्नास्तित्वप्रसिद्धिरिति शून्यवादमाशङ्क्याह — यदीति । आत्मनः शून्यस्य प्रतीतावहं नास्मीति प्रतीतिः स्यात् , सर्वश्च लोकोऽहमस्मीति प्रत्येति अतस्तदस्तित्वधीरित्यर्थः । आत्मप्रसिद्धावपि कथं ब्रह्मप्रसिद्धिस्तत्राह — आत्मा चेति । चैतन्याविशेषात् ‘अयमात्मा ब्रह्म’ इत्यादिश्रुतेश्च ब्रह्मात्मनोरैक्यमित्यर्थः । प्रसिद्धत्वोक्त्या सम्बन्धादौ सिद्धे तत्पक्षोक्तं दोषं स्मारयति पूर्वपक्षी — यदीति । व्यवहारभूमौ विना विचारमात्मत्वेन ब्रह्म यदि प्रसिद्धमस्ति तर्हि ततो लोकादेव ज्ञातं ब्रह्मेत्यनन्यालभ्यत्वेन शास्त्राविषयत्वात् , तदवगतेश्चाफलत्वात् , पुनरपि प्राप्तमजिज्ञास्यत्वमिति योजना । ‘धर्मं प्रति विप्रतिपन्ना बहुविदः’ इतिन्यायेन परिहरति — नेत्यादिना । आत्मनः अहमिति प्रत्यात्मं प्रसिद्धत्वेऽपि तद्विशेषे विप्रतिपत्तेः, तस्या वस्तुतो ब्रह्मविषयतया सामान्येन सिद्धमपि तद्विशेषतोऽसिद्धेः, तद्धेतोः शास्त्रस्य भवति विषयः । भवति च तदवगतिस्तत्फलम् । सामान्यतः सिद्धत्वाच्च विशेषतः शक्यं प्रतिपादयितुमिति सम्बन्धसिद्धिरिति युक्ता ब्रह्मजिज्ञास्यतेति भावः । विप्रतिपत्तीरेव दर्शयन्नादौ स्थूलदृशां मतमाह — देहेति । देहातिरिक्तं चैतन्यं स्वतन्त्रमस्वतन्त्रं वा नास्ति देहाकारपरिणतभूतचतुष्टयान्तर्भूतमेव तदिति मात्रचो ग्रहणम् । मृतदेहव्यावृत्त्यर्थं चैतन्यविशिष्टमित्युक्तम् । आत्मेत्यहमालम्बनमुच्यते । प्राकृताः शास्त्रासंस्कृतधियो दृष्टमात्रा विकल्पितप्रवृत्तयो जना जन्ममरणमात्रधर्माणः, लोकायतिका भूतचतुष्टयतत्त्ववादिनः । देहस्त्वगिन्द्रियस्यानपेक्षमधिकरणं तत्र मनुष्योऽहमिति बुद्धेरात्मतेत्यर्थः । सत्यपि देहे नेत्रादौ चासति स्वापादौ स्वरूपाद्यज्ञानात् , तेषामिन्द्रियानुविधानात् , चैतन्यदृष्टेस्तेषु चाहम्बुद्धेस्तेषामेवात्मतेति पक्षान्तरमाह — इन्द्रियाणीति । न च तेष्वनेकेषु भोगायोगः, वरगोष्ठीवन्मिथो गुणप्राधान्यात्क्रमेण तद्योगात् । न च नानात्वे प्रत्यभिज्ञानुपपत्तिः । एकदेहाश्रितत्वेनोपपत्तिरिति भावः । स्वप्ने नेत्राद्यभावेऽपि केवले मनसि ज्ञानदृष्टेः, अहन्धियश्च तस्मिन्नवैकल्यात् , इन्द्रियानुविधानस्य च रूपादिधियां तदधर्मत्वेऽपि तत्करणत्वादुपपत्तेः, एकदेहस्थत्वेन प्रत्यभिज्ञायामेकप्रासादस्थानामपि तत्प्रसङ्गान्मन एवात्मेति मतान्तरमाह — मन इति । लोकायतमतभेदानुक्त्वा योगाचारमतमाह — विज्ञानेति । आश्रयं व्यावर्तयितुं मात्रपदम् । सिद्धान्ताद्विशेषार्थं क्षणिकमिति । देहादेर्ज्ञेयत्वाद्धटतुल्यत्वात् , मनसोऽनन्तरबुद्ध्यनतिरेकात् , आश्रयान्तरस्यादृष्टत्वात् , क्षणिकज्ञानेष्वपि सादृश्यात्प्रत्यभिज्ञानात् , बन्धमोक्षयोः सन्तानाश्रयत्वात् , युक्तं योगाचारमतमित्यर्थः । माध्यमिकमतमाह — शून्यमिति । स्वापे धियोऽप्यभावात् , अकस्मात्पुनरहमित्युदयात् , असदालम्बनाऽहन्धीरित्यर्थः । तार्किकादिमतमाह — अस्तीति । शून्यातिरिक्तमस्तित्वम् , अहमस्मीत्यनुभवात् , तदालम्बनस्यात्मत्वात् तस्य प्रत्यभिज्ञयास्थायित्वात् , तस्याश्चाभ्रान्तितया सादृश्यानधीनत्वात् , अविकारस्य क्रियाफलत्वायोगात् , क्रियावेशात्मत्वात्कर्तृत्वस्यैवमात्मत्वाच्च संसारस्यात्मनो युक्तैवंरूपतेत्यर्थः । साङ्ख्यमतमाह — भोक्तेति । करोमि, जानामीति धियोऽहङ्कारानुगमात् , केवलात्मायोगात् , भोगस्य चिदवसानत्वात् , तद्रूपात्मनो युक्ता यथोक्तरूपतेत्यर्थः । त्वमर्थे विवादद्वारा तदर्थे तं सूचयित्वा साक्षादेव तत्र विवादमाह — अस्तीति । देहाद्यतिरिक्ताद्भोक्तुरप्यतिरिक्तत्वं तद्व्यतिरिक्तत्वं, तत्समर्थनार्थं सर्वज्ञ इत्यादिविशेषणम् । स्वपक्षमाह — आत्मेति । स हीश्वरो भोक्तुः स्वरूपम् । बृंहत्यर्थान्वयेन स्वतोऽनवच्छिन्नत्वस्योक्तत्वाच्चैतन्ये भेदायोगात् , ऐक्यश्रुतेश्चेश्वरस्याताटस्थ्यादिति भावः । विप्रतिपत्तीरुपसंहरति — एवमिति । मानयुक्ती विना विवादमात्रान्न पूर्वपक्षतेत्याशङ्क्याह — युक्तीति । अन्त्यपक्षवादिनो युक्तिवाक्याश्रया अन्ये तदाभासाश्रया इत्युत्तराधिकरणेषु व्यक्तीभविष्यति । तथापि यस्य यस्मिन्पक्षे श्रद्धा स तमाश्रित्य स्वार्थं साधयिष्यति किं विचारेणेति तत्राह — तत्रेति । विवादः सप्तम्यर्थः । मिथो विरुद्धधीषु कस्याश्चित्तत्वधीत्वात् , तस्या विचारसाध्यत्वात्तद्धीनस्तत्त्वधीवैधुर्यान्न पुमर्थभागित्यर्थः । किञ्चाविचारे तत्त्वाज्ञानात् , नास्तिकत्वे ‘ये के चात्महनो जनाः’ इति श्रुतेः, श्रुत्यर्थबहिर्मुखोऽनर्थं गच्छेदित्याह — अनर्थं चेयादिति । सूत्रतात्पर्यमुपसंहरति — तस्मादिति । विषयादिसत्त्वं तदर्थः । ब्रह्मजिज्ञासोपन्यासमुखेन विशिष्टा मीमांसा स्तूयत इति सम्बन्धः । विशिष्टज्ञानेच्छोक्तिव्याजेन विचारारम्भपरं सूत्रम् । न हीच्छा ज्ञानं वा साक्षात्कर्तव्यम् । तथा चेष्यमाणज्ञानोपायविचारकार्यतार्थं सूत्रमित्यर्थः । किमुपकरणा सेति तत्राह — तदविरोधीति । तेषां वेदान्तानामविरोधिनस्तर्का मीमांसायां न्याये च वेदप्रामाण्यशुद्ध्याद्युपयोगिनो यस्या उपकरणं सा तथा । मीमांसायास्तर्कत्वेऽपि तर्कान्तराणामुपकरणतेति भावः । किम्प्रयोजना सेत्यत आह — निःश्रेयसेति ।
ब्रह्मज्ञानद्वारेति शेषः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 'यतो वा इमानि’ इत्यादिवाक्यं ब्रह्म न लक्षयति, लक्षयति वेत्येकस्योभयहेतुत्वासम्भवसम्भवाभ्यां सन्देहे, श्रुतेरनुमानानुगुण्यादेकस्योभयहेतुत्वे दृष्टान्ताभावेनाशक्यानुमानत्वात् , एकतरहेतुत्वस्य लक्षणत्वे वस्तुपरिच्छेदात् , लक्ष्यस्याब्रह्मत्वान्न लक्षयतीति प्राप्ते, पुरुषमतिप्रभवत्वेनानुमानस्य सम्भावितदोषस्य अपौरुषेयत्वेनापास्तदोषागमानुग्राहकतर्कत्वात् , अतीन्द्रयेऽर्थे स्वतोऽप्रामाण्यात् , आगमिकोभयहेतुत्वे सुखादिदृष्टान्तेन सम्भावनामात्रहेतुत्वात् , वस्तुतोऽपरिच्छेदाल्लक्ष्यस्य ब्रह्मत्वसिद्धेर्जगन्निमित्तोपादानं सच्चिदानन्दं ब्रह्मेति लक्षयतीति सिद्धान्तमाह — जन्मादीति । पूर्वाधिकरणेनास्योत्थाप्योत्थापकत्वं सङ्गतिरुक्ता । अधीतिविध्युपादापितोपनिषद्वाक्यस्य स्पष्टब्रह्मलिङ्गस्य लक्षणद्वयवति ब्रह्मणि समन्वयोक्तेः श्रुतिशास्त्राध्यायपादसङ्गतयः । पूर्वाधिकरणस्य ब्रह्मलक्षणपरीक्षणात्तत्फलमेव पूर्वोत्तरपक्षयोरत्र फलम् । पदच्छेदः, पदार्थोक्तिः, पदविग्रह इति त्रयं व्याख्याङ्गं दर्शयति — जन्मेति । जन्मस्थितिभङ्गं षष्ठ्योच्यते । तद्गुणसंविज्ञान इत्यत्र, तदा बहुव्रीह्यर्थो गृह्यते तस्य गुणत्वेन संविज्ञानं यत्र समासे स तथा । सर्वस्य विशेषणत्वे समासायोगात्तदर्थैकदेशस्तथा । तेन विशेष्यैकदेशं विशेषणं कृत्वा समास इत्यर्थः । तत्र फलमाह — जन्मस्थितीति । जन्मादिरस्य स्थित्यादेरित्यतद्गुणसंविज्ञाने स्थितिभङ्गमात्रं जन्मादिशब्दार्थः स्यात् । ततश्चोभयकारणत्वलाभान्नोपलक्षणत्वं सिध्येत् । न च स्थितिलयमात्रहेतुत्वं तथा, जन्महेतोरन्यत्वे लक्ष्यस्य परिच्छेदादब्रह्मत्वात् । अतो जन्मनोऽपि विशेष्यान्तर्भावाद्धर्मजातस्य संहतिप्रधानस्य हेतुर्ब्रह्मेत्युपलक्षणसिद्धिरित्यर्थः । तादृग्धर्मजातं गृहीत्वा नपुंसकप्रयोगः । नन्वनादौ संसारे कथमादित्वं जन्मनो गृह्यते तत्राह — जन्मनश्चेति । एतत्सूत्रलक्षितश्रुतौ जन्मादावुच्यते तदपेक्षं सूत्रेऽपि तस्यादित्वमित्यर्थः । श्रुत्यापि कथमुक्तमित्याशङ्क्याह — वस्त्विति । वस्तुनो वृत्तं जनित्वा, स्थित्वा, लीयत इति स्वभावः, जन्मना लब्धात्मकस्य स्थित्यादियोगात् । अतो नानादेः संसारस्यादिर्जन्म किन्तु प्रतिवस्तु तस्यादित्वमिति, तदपेक्षं श्रुतिसूत्रयोस्तदादित्वमित्यर्थः । श्रुतिनिर्देशं विशदयति — श्रुतीति । अनुकूलो जन्मादित्वस्येति शेषः । तत्र हेतुर्यत इति । वस्तुवृत्तं विभजते — वस्त्विति । जन्मादित्वस्यानुगुणं वस्तुवृत्तमिति विवक्षित्वा हेतुमाह — जन्मनेति । इदमः संनिहितवाचित्वात्प्रत्यक्षमात्रपरामर्शित्वमाशङ्क्य प्रतीतिमात्रं संनिधिरिति गृहीत्वा प्रातिपदिकार्थमाह — अस्येति । सर्वस्य जगतो न जन्मास्ति, विजयादेरनादित्वात् , इत्याशङ्क्य वियदधिकरणन्यायेन विभक्त्यर्थमाह — षष्ठीति । जगतो जन्मादेर्वा ब्रह्मासम्बन्धान्न लक्षणतेत्याशङ्क्याह — यत इति । न जगज्जन्मादि वा ब्रह्मलक्षणं किन्तु तत्कारणत्वं तच्चाज्ञाते ब्रह्मणि सम्भावितमित्यर्थः । सूत्रपदान्येवं व्याख्याय पूर्वसूत्राद्ब्रह्मपदानुषङ्गेण तच्छब्दाध्याहारेण च वाक्यार्थमाह — अस्येत्यादिना । प्रधानादिहेतुत्वनिरासेन ब्रह्महेतुत्वं सम्भावयितुं कार्यप्रपञ्चं श्रुतिसिद्धं द्वैराश्येन विशिनष्टि — नामेति । तृतीयेत्थम्भावे । घटादौ स्वनामरूपगर्भविकल्पपूर्वकव्याक्रियादृष्टेः जगतोऽपि तथात्वानुमानादचेनाभावकर्तृकत्वमयुक्तम् । विमतं चेतनभावकर्तृकं, नामरूपात्मकत्वात् , घटादिवदित्यर्थः । तर्हि चेताना भावाश्च जीवभेदा नामरूपे बुद्धावालिख्य जगज्जनयिष्यन्ति किं ब्रह्मणेत्यशङ्क्याह — अनेकेति । न चान्यतरस्यार्थिकत्वादुभयग्रहणानर्थक्यं, ऋत्विगादीनां कर्तृत्वेऽप्यभोक्तृत्वात् , पित्रादीनां च श्राद्धादौ भोक्तृत्वेऽप्यकर्तृत्वात् । तथा च जीवानामपि स्रष्टव्यकोटिनिवेशाज्जगत्कर्तृत्वायोग्यतेत्यर्थः । सेवादिफलवद्व्यवहितफलत्वात् , कर्मफलस्येश्वरप्रदातृकत्वानुमानात् , तदात्मकं जगदीश्वरकर्तृकमित्याह — प्रतिनियतेति । प्रतिनियतानि देशकालनिमित्तानि येषां क्रियाफलानां तदाश्रयो जगत्तस्येति विग्रहः । प्रतिनियतो देशः, स्वर्गफलस्य मेरुपृष्ठम् । ग्रामादेर्भूमण्डलम् । कालोऽपि स्वर्गस्य प्रतिनियतो देहपातादूर्ध्वं, पुत्रफलस्य बाल्यादूर्ध्वम् । निमित्तमपि प्रतिनियतमुत्तरायणमरणादि स्वर्गादेः । ग्रामादेस्तु राजप्रसादादि । न चेदमीदृशं जगदसर्वज्ञो निर्मातुमर्हतीत्यर्थः । विचित्रकार्यत्वाच्च जगतो विशिष्टबुद्धिमत्कर्तृकत्वं प्रासादादिवदनुमेयमित्याह — मनसेति । एतेन कर्तुः सर्वशक्तित्वं सम्भावितम् । कल्पितकारणत्वेन सजातीयप्रधानादेर्विजातीयाच्च कार्याद्ब्रह्मव्यवच्छेदकतया जगद्धेतुत्वे तटस्थलक्षणे स्थिते ब्रह्मणः स्वरूपलक्षणं विवक्षन्विशिनष्टि — सर्वज्ञादिति । अद्वितीयत्वं, सत्यचिदात्मत्वं, स्वतन्त्रतया निरतिशयसुखत्वं, विशेषणाभ्यां विवक्षितम् । नन्वन्येऽपि परिणामादयो विकारा जन्मादीत्यादिग्रहणेन किं न गृह्यन्ते तत्राह — अन्येषामिति । अजातस्यास्थितस्यानष्टस्य च परिणामाद्ययोगात् , तेषां तदधीनत्वात्तद्ग्रहणेनैव ग्रहात् , जन्मस्थितिनाशानामेवात्रोपादानमित्यर्थः । ननु निरुक्तकारस्य ‘जायते, अस्ति, वर्धते, विपरिणमते अपक्षीयते, विनश्यति ‘ इति सूत्रं मूलीकृत्य जन्मादिशब्देन षण्णामपि विकाराणां ग्रहणे नान्तर्भावोक्तिक्लेशस्तत्राह — यास्केति । जन्मादिसूत्रस्य नैरुक्तोक्तिमूलतयानेन तदुक्तविकारग्रहे तद्वाक्यस्य पौरुषेयत्वान्मूलमानापेक्षत्वात् , आगमस्य तन्मूलत्वे सूत्रस्यैव तत्सिद्धौ नैरुक्तोक्तिमूलतानर्थक्यादध्यक्षं तदुक्तिमूलं वाच्यं तच्च महाभूतसर्गादूर्ध्वं सम्भावितं भैतिकविकारगोचरं, ततो यथोक्ताध्यक्षाधीननैरुक्तोक्तिमूलत्वे सूत्रस्य जन्मादिषट्कं जगतो यतः तद्ब्रह्मेत्युक्ते भूतपञ्चकस्य भौतिकविकारहेतुत्वात्तदेव ब्रह्मेति लक्ष्येत । न भूतपञ्चकस्य जन्मादयो मूलकारणाद्ब्रह्मणो गृह्येरन् , एतत्सूत्रमूलभूतनैरुक्तसूत्रस्य तदगोचरत्वात् । तस्मान्मूलकारणं ब्रह्म न लक्षितमित्याशङ्कां निरसितुुं ब्रह्मणः सकाशादुत्पत्तिर्या जगतः श्रुता, यौ च तस्मिन्नेव तस्य स्थितिलयौ श्रृतौ ते जन्मादिशब्देन गृह्यन्ते, तेन तद्विषये ‘यतो वा ‘ इत्यादिवाक्ये बुद्धिस्थे जगज्जन्मादिकारणं ब्रह्म लक्षितं भवतीत्यर्थः । न चैवमपि जन्मैव सूत्र्यतां तन्नान्तरीयकतया स्थितिभङ्गं सेत्स्यतीति युक्तं, जन्ममात्रस्य निमित्तादपि सम्भवात् , त्रिभिरस्योपादानतासूचनादन्यत्र स्थितिलयायोगात् । न च लयाधारत्वादेवोपादानत्वे जन्मस्थितिवचनानर्थक्यं, प्रकृतिविकाराभेदेनाद्वैतसिद्धये त्रयाणामादेयत्वात् । अन्यथा ब्रह्मणो जगदुपादानत्वे तदुत्पत्तिस्थित्योरन्योऽधिष्ठाता, कुम्भोद्भवे कुम्भकारवत् , राजस्थेम्नि राजवच्चेत्याशङ्क्येत तन्मा शङ्कीति त्रयाणां ग्रहणमिति भावः । युक्तिं विना लक्षणस्यातिव्याप्त्यसमाधेरर्थादनेन सापि सूत्रितेति तामुपन्यस्यति — नेत्यादिना । नामरूपाभ्यामित्यादिनोक्तविशेषणचतुष्टयविशिष्टस्येत्याह — यथोक्तेति । सर्वज्ञं सर्वशक्तिसमन्वितमित्युक्तं स्मारयति — यथोक्तविशेषणमिति । उक्तस्य जगतो नोक्तमीश्वरं मुक्त्वान्यस्मादुत्पत्त्यादि सम्भावयितुं शक्यमिति सम्बन्धः । ननु सर्वे विकाराः सुखदुःखमोहसामान्यप्रकृतिकाः, तदन्वितस्वभावात्वात् । ये यदन्वितस्वभावास्ते तत्प्रकृतिकाः यथा मृदन्वितस्वभावाः शरावादयो मृत्प्रकृतिका इत्यनुमानात् , प्रधानाज्जगज्जन्मादि स्यादित्याशङ्क्याह — न प्रधानादिति । तद्ध्यचेतनं जगदनभिज्ञं न तस्योत्पत्त्यादि कर्तुमीष्टे । अन्तर्बहिर्भावेन सुखादीनां पटादीनां चाध्यक्षेण भेदग्रहात् एकार्थज्ञाने चैकस्यैव ज्ञातुः सुखाद्यात्मत्वेन युगपत्तद्ग्रहापाताद्धेत्वसिद्धेर्न प्रधानकारणता रचनानुपपत्त्यधिकरणे चैतद्वक्ष्यतीति भावः । सर्वं कार्यद्रव्यं, स्वपरिमाणादणुतरपरिमाणसंयोगसचिवसमानजातीयानेकद्रव्यारब्धं, कार्यद्रव्यत्वात् , घटवदित्यनुमानात् , अणुभ्यो जगज्जन्मादि सम्भावितमित्याशङ्क्याह — नाणुभ्य इति । दीर्घविस्तीर्णदुकूलारब्धरज्जुद्रव्यस्य ह्रस्वस्यापि कार्यद्रव्यत्वेनानैकान्त्यात् , वैशेषिकाधिकरणे चाणुकारणतानिराकरणात् , न तेभ्यो जगज्जन्मादीत्यर्थः । शून्यवादिनस्तु सर्वं कार्यम् , अभावपूर्वकं योग्यत्वे सत्यदृष्टपूर्वावस्थत्वात् , परकीयात्मवदिति व्यतिरेकिणा शून्यस्य जगद्धेतुतामाहुस्तान्प्रत्याह — नाभावादिति । घटस्य पूर्वावस्था मृदध्यक्षेति हेत्वसिद्धेर्न शून्यस्य जगद्धेतुतेत्यर्थः । केचित्तु हिरण्यगर्भं संसारिणमेव आगमाज्जगद्धेतुमाचक्षते तान्प्रत्युक्तम् — न संसारिणो वेति । आगमस्य वेदविरुद्धत्वे प्रामाण्यायोगान्नासौ जगद्धेतुरित्यर्थः । स्वभाववादं व्युदस्यति — न चेति । उत्पत्त्यादि जगतः सम्भावयितुं न शक्यमिति सम्बन्धः । स्वभावादुत्पद्यत इति स्वयमेव स्वस्य निमित्तमिति वा निमित्तानपेक्षमिति वा विवक्षितम् । नाद्यः, स्वाश्रयत्वात् । न द्वितीयः, भावाभावयोरनिमित्तत्वे यौगपद्यापातात् । स्वतःसिद्धसामर्थ्यानां चार्थानां अन्योन्योपकार्योपकारकत्वस्याध्यक्षत्वादित्यर्थः । उक्तलक्षणव्यतिरेक्यनुमानादेवोक्तयुक्तिसहिताद्ब्रह्मणोऽस्तित्वादिसिद्धेः, शास्त्रयोनित्वाद्यधिकरणवैयर्थ्यमित्यशङ्क्याह — एतदेवेति । युक्तिमदुक्तलक्षणमेव स्वतन्त्रमनुमानं सद्विशिष्टेश्वरनिश्चायकमिति यद्वैशेषिकादिमतं तदयुक्तम् । लक्षणं हि युक्तिमदपि सिद्धस्य ब्रह्मणः सजातीयादिव्यावर्तकं न तु तदीदृशमिति तत्स्वरूपनिश्चायकम् । कार्यलिङ्गकानुमानं च कारणसत्तामात्रे पर्यवस्यत्तदेकत्वादौ तटस्थम् । न च तदैक्यासिद्धौ तदीयं सर्वज्ञत्वादि ज्ञातुं शक्यम् । सोऽयं जगद्धेतौ नानात्वैकत्वस्पर्शी संशयो लाघवादुत्कटैककोटितां नीतो मूलकारणे विशिष्टे ब्रह्मणि सम्भावनेत्युच्यते । सम्भाविते तस्मिन्प्रमाणावकाशात् , उत्तराधिकरणार्थवत्तेति भावः । अथेदं सूत्रमुक्तब्रह्मनिश्चायकं न वा । न चेदप्रामाण्यात्तदुक्तलक्षणेऽपि विश्वासो न स्यात् । आद्ये व्यतिरेकिणो लक्षणस्य सूत्रोक्तकार्यलिङ्गकानुमानवन्नानिश्चायकतेति चोदयति — नन्विति । तदेवेत्येवकारेणागमो वा तदनुगुणयुक्तिर्वा न सूत्रितेत्युच्यते । प्रस्तुतानुमानं तदर्थः । ‘नावेदविन्मनुते’ ‘नैषा तर्केण’ इत्यादिश्रुतेर्वैदिकं ब्रह्मेत्युक्तयुक्त्यनुगृहीतलक्षणाख्यव्यतिरेक्यात्मकागमोक्तिपरं सूत्रमिति परिहरति — नेत्यादिना । कार्यानुमानस्य ‘यतः’ इत्याादिश्रुत्युक्तत्वेऽपि नानुमानात्मना निश्चायकत्वम् । तेन सम्भावनामात्राभिधानादागमात्मना निश्चायकत्वमिति भावः । उत्तरसूत्रेष्वपि तुल्यमागमप्राधान्यमिति वक्तुं सूत्राणामित्युक्तम् । सूत्रेषु कुसुमग्रथनवन्न वाक्यग्रथनं मुख्यमित्याशङ्क्याह — वेदान्तेति । तेषामपौरुषेयत्वेन निर्दोषाणां स्वत एव स्वार्थनिर्णायकत्वात् विचारानर्थक्यमित्याशङ्क्याह — वाक्यार्थेति । वाक्यस्य तदर्थस्य च तात्पर्यनिश्चयार्थं सम्भावनार्थं च विचारणा, तस्याश्चाध्यवसानं तदुभयनिश्चयः, तेन निर्वृत्तो ब्रह्मसाक्षात्कारः, तस्माद्विचारोऽर्थवानित्यर्थः । विचारावधारितशक्तितात्पर्याभ्यां प्रमापकं शब्दं हित्वा शक्तिमात्रेण प्रमापकं प्रमाणान्तरं ब्रह्मणि लाघवादादेयमित्याशङ्क्याह — नेति । ब्रह्मणस्तदगोचरत्वादित्यर्थः । तर्हि शब्दादेव ब्रह्मसिद्धेर्मननविधिर्युक्तिसूत्रणं च कथमित्याशङ्क्याह — सत्स्विति । विमतमभिन्नोपादानाधिष्ठातृकं, कार्यत्वात् , सुखादिवत् । विमतं चेतनप्रकृतिकं, कार्यत्वात् , तद्वदित्याह — अनुमानमपीति । तेषु सत्सु तदपि प्रमाणं भवन्न निवार्यत इति सम्बन्धः । विचारसंस्कृतवेदान्तानां स्वार्थबोधित्वसिद्धौ किं तेनेत्याशङ्क्याह — तदर्थेति । तेषामर्थो जगतोऽभिन्ननिमित्तोपादानत्वं तस्य ग्रहणं स्वीकारस्तस्य दार्ढ्यं तदुपयोगिसम्भावनात्मा निश्चयस्तदर्थमनुमानमित्यर्थः । विमतं भिन्नोपादानाधिष्ठातृकं, कार्यद्रव्यत्वात् , घटवदित्यनुमानबाध इति चेन्नेत्याह — वेदान्तेति । जगतश्चेतनोपादानतानिमित्तत्ववादिवेदविरोधान्न तेऽनुमानम् । मन्मते तदविरोधात्तदर्थे सम्भावनाहेतुरित्यर्थः । जगद्धेतुर्न तर्कगम्यः, वैदिकत्वात् , परिशुद्धवस्तुवदित्याशङ्क्याह — श्रुत्येति । तर्कस्य वस्तुनिश्चयाय श्रुत्यैवेष्टतया साध्यविकलतेत्यर्थः । कासौ श्रुतिरित्युक्ते श्रवणातिरेकेण मननं युक्त्यनुसन्धानं विधदतीं श्रुतिमाह — श्रोतव्य इति । न केवलं श्रौतस्तर्कोऽत्रोपयुज्यते किन्तु प्रतिबन्धनिवर्तकत्वेन लौकिकोऽपीत्यत्र श्रुतिमाह — पण्डित इति । उक्तार्थधीसामर्थ्यं पाण्डित्यम् । अनुक्तेऽपि प्रयोजकशिक्षयोत्प्रेक्षाशक्तिर्मेधावित्वम् । यथा कश्चिद्गन्धारदेशेभ्यः समानीय चौरैररण्ये बद्धचक्षुर्निक्षिप्तो देशिकोपदेशतस्तदुक्तस्य साकल्येन ज्ञाता पण्डितः स्वयमूहापोहक्षमो मेधावी गन्धारानेव प्राप्नोति, एवं ब्रह्मणः सकाशादाच्छिद्य विवेकदृशं निरुध्याविद्यादिभिः संसारारण्ये निहितो जन्तुरतिकारुणिकगुरूपदेशतः स्वस्वभावं प्रतिपद्यत इत्यर्थः । श्रुतितात्पर्यमाह — पुरुषेति । आत्मनः श्रुतेरित्यर्थः । ननु धर्मविदविशेषाद्ब्रह्मापि श्रुत्याद्येवापेक्षते तत्कथं तत्र श्रुतिस्तर्कं सहायीकरोति तत्राह — नेत्यादिना । दृष्टान्ते जिज्ञास्यो धर्मो दार्ष्टान्तिके तादृग्ब्रह्म ग्राह्यम् । श्रुत्यादय इत्यादिशब्देन लिङ्गवाक्यप्रकरणस्थानसमाख्या गृह्यन्ते । तत्र पदान्तरनिरपेक्षः शब्दः श्रुतिः । श्रुतस्यार्थस्यार्थान्तरेणाविनाभावो लिङ्गम् । अन्योन्याकाङ्क्षासन्निधियोग्यतावन्ति पदानि वाक्यम् । वाक्यद्वयसामर्थ्यमारभ्याधीतविषयं प्रकरणम् । क्रमवर्तिनां पदार्थानां क्रमवर्तिभिरर्थैर्यथाक्रमं सम्बन्धः स्थानम् । संज्ञासाम्यं समाख्या । गुणोपसंहारे चैषामुदाहरणानि वक्ष्यन्ते । किं तर्हि जिज्ञास्ये ब्रह्मणि प्रमाणान्तरमिति प्रश्नपूर्वकमाह — किं त्विति । अनुभवो ब्रह्मसाक्षात्कारो विद्वदनुभवः । आदिपदमनुमानादिसङ्ग्रहार्थम् । श्रुत्यादीनामनुमानादीनां च शब्दशक्तितात्पर्यावधृतिद्वारानुभवमुत्पाद्य ब्रह्मणि प्रामाण्यम् , अनुभवस्य साक्षादेव तदविद्याध्वंसित्वेनेति मत्वोक्तम् — यथासम्भवमिति । वेदार्थत्वाद्धर्मवद्ब्रह्मण्यपि नानुभवः सम्भवतीत्याशङ्क्य तदयोग्यत्वमुपाधिरित्याह — अनुभवेति । न हि ज्ञातेऽपि ब्रह्मण्यनुभवं विना नैराकाङ्क्ष्यमतस्तज्ज्ञानस्यानुभवान्तत्वात्तस्मिन्नसावस्तीत्यर्थः । साधनव्याप्तिमाशङ्क्याह — भूतेति । चकारः शङ्कानिरासी । ननु कर्मवाक्यानामनुभवानपेक्षफलवज्ज्ञानजनकत्वात् , ब्रह्मवाक्यानामपि वेदप्रमाणत्वात्तादृग्धीजनकत्वं, नेत्याह — कर्तव्येति । धर्मस्यानुभवायोग्यत्वात् , तदनुष्ठानस्य च शाब्दधीमात्रादेव सिद्धेः, धर्मवाक्यानां युक्तमुपाधीजनकत्वम् । ब्रह्मणि त्वनुभवयोग्ये तद्वाक्यानां नैवमित्यर्थः । धर्मस्यापि ब्रह्मवदनुभवयोग्यत्वं, वेदार्थत्वात् , इत्याशङ्क्याकार्यत्वुपाधिरित्याह — पुरुषेति । चकारोऽत्रापि शङ्कानिरासी । कर्तव्येऽपि तुल्यमसाध्यत्वमित्याशङ्क्य लौकिके वैदिके च कर्मणि साध्यत्वमाह — कर्तुमिति । तत्र लौकिकमुदाहरति — यथेति । तेन सह वैदिकं दृष्टान्तं समुच्चिनोति — तथेति । कर्तुमकर्तुमित्यस्य दृष्टान्तमुक्त्वा कर्तुमन्यथा वा कर्तुमित्यस्य दृष्टान्तमाह — उदित इति । इतोऽपि कर्मणो नानुभवयोग्यतेत्याह — विधीति । 'यजेत’ इत्यादयो विधयो ‘न हन्यात्’ इत्यादयो निषेधाश्च कर्मणि सावकाशाः । तेन साध्यत्वादनुभवयोग्यतेत्यर्थः । तत्रैव हेत्वन्तरमाह — विकल्पेति । उदितानुदितहोमार्थो व्यवस्थितो विकल्पः । ग्रहणाग्रहणार्थस्त्वैच्छिकः । ‘न हिंस्यात्सर्वभूतानि’ इत्युत्सर्गः । ‘अग्नीषोमीयं पशुमालभेत’ इत्यपवादः । ते च कर्मणि सावकाशाः । तथा चाव्यवस्थितं कर्मानुभवायोग्यमित्यर्थः । ब्रह्मण्यपि तुल्यत्वादव्यवस्थितत्वस्योक्तोपाध्यसिद्धिरित्याशङ्क्याह — न त्विति । प्रकारविकल्पवत्प्रकारिविकल्पं निरस्यति — अस्तीति । वस्तुन्यपि विकल्पा दृष्टा वादिनामित्याशङ्क्याह — विकल्पनास्त्विति । सम्यग्ज्ञानाधीनत्वाद्वस्तुनः, तस्य च पुरुषाधीनत्वात् , वस्त्वपि तथेत्याशङ्क्याह — न वस्त्विति । कथं तर्हि तदुत्पत्तिरित्याशङ्क्याह — किं तर्हीति । पुरुषतन्त्रत्वं निषेद्धुमेवकारः । न मानाधीनत्वं निषिध्यते । विकल्पनानां मनःस्पन्दितमात्रत्वेनासम्यग्धीत्वं, सम्यग्धियश्च वस्त्वधीनतेत्यत्र दृष्टान्तमाह — नहीति । आद्यो वाशब्दोऽवधारणे । पुरोवर्तिनि स्थाणावेकस्मिन्नेव स्थाणुरेवेत्यदुष्टकरणस्य धीः, इतरस्य तत्रैव पुरुषो वा स्थाणुर्वेति संशयः । नहि तदुभयमपि सम्यग्ज्ञानम् , एकस्योभयत्वायोगादित्यर्थः । कथं तर्हि विभागधीस्तत्राह — तत्रेति । स्थाणुः सप्तम्यर्थः । उक्तन्यायं सञ्चारयति — एवमिति । दार्ष्टान्तिकमाह — तत्रेति । विकल्पनानां बुद्धिजन्यत्वेनावस्त्वनुसारिणीनामसम्यग्धीत्वे, सम्यग्धियश्च वस्त्वनुसारित्वे पूर्वोक्तन्यायेन स्थिते सतीति यावत् । न पुरुषतन्त्रमित्येवकारार्थः । ततो न धीद्वारा वस्तुनोऽपि तदधीनतेति शेषः । ब्रह्मज्ञानस्य वस्त्वधीनत्वेन सम्यग्धीत्वे हेतुमाह — भूतेति । परमार्थवस्त्ववगाहित्वादित्यर्थः । ब्रह्मणः सिद्धत्वेनासाध्यतया धर्मवैधर्म्यादनुभवयोग्यत्वात्तत्रानुभवापेक्षा युक्त्यनुप्रवेशश्चेत्युक्तम् । इदानीं ब्रह्मणि प्रमाणान्तरप्रवेशे जन्मादिसूत्रमनुमानोपन्यासार्थमित्यनुमतमिति शङ्कते — नन्विति । सिद्धत्वाद्ब्रह्मणो धर्मवैजात्येऽपि मानान्तरगम्यतेत्यनुमानादिविचारं हित्वा वाक्यमात्रविचारोऽयुक्तः, ब्रह्मण्युभयप्रवेशाविशेषात् । अतः सूत्राणां वेदान्तवाक्यग्रथनार्थत्वमसिद्धमित्यर्थः । ब्रह्मणि सम्भावनाहेतुश्रुत्यनुगुणानुमानादिप्रवेशात् , गुणतया तद्विचारस्यापीष्टत्वात् , प्राधान्येन वेदान्तवाक्यग्रथनार्थता सूत्राणामिति समाधत्ते — नेत्यादिना । मानान्तरमपि करणमेव ब्रह्मप्रमिताविति पक्षे प्रत्यक्षमनुमानादि वा तदितिविकल्प्य दूषयति — इन्द्रियेति । ब्रह्मणि करणत्वेन मानान्तराप्रवेशादिति शेषः । ‘पराञ्चि - ‘ इत्यादिश्रुत्या प्रत्यक्षाविषयत्वं ब्रह्मणो विवृणोति — स्वभावत इति । सम्बन्धाग्रहणादित्युक्तं व्यनक्ति — सति हीति । ननु ब्रह्मसम्बद्धमिदं कार्यमिति धिया किं स्यात् , कार्यमेव गृह्यमाणं ब्रह्म ज्ञापयिष्यति, नेत्याह — कार्येति । तन्मात्राद्धेतुमात्रं सिध्यति न सत्यज्ञानादिरूपं ब्रह्म । तत्त्वागमादेव ज्ञेयमित्यर्थः । श्रौतार्थे सामान्यद्वारा सम्भावनाहेतुर्मानान्तरमिति युक्ता सूत्राणां वेदान्तग्रथनार्थतेत्युपसंहरति — तस्मादिति । बहुत्वाद्वेदान्तानामेतदधिकरणविषयबुभुत्सया पृच्छति — किं पुनरिति । जिज्ञास्यं लक्षितं ब्रह्म सप्तम्यर्थः । विशिष्टाधिकारिणो ब्रह्मज्ञातुकामस्य जगत्कारणत्वोपलक्षणानुवादेन ब्रह्मप्रतिपादकं वाक्यं सोपक्रममाह — भृगुरिति । ननु प्रकृष्टप्रकाशश्चन्द्र इति स्वरूपलक्षणादृते यत्र शाखाग्रं स चन्द्र इत्युपलक्षणमात्राच्चन्द्रस्वरूपादृष्टेः, उपलक्षितस्य स्वरूपलक्षणं वाच्यं तत्राह — तस्येति । ब्रह्मणो जगद्धेतुत्वानुवादेन स्वरूपनिर्णायकमानन्दत्वविधायि वाक्यम् । ततः सत्यादिवाक्याच्च स्वप्रकाशानतिशयानन्दलक्षणं ब्रह्मेति निर्णेतुं शक्यमित्यर्थः । तैत्तिरीयश्रुताविव श्रुत्यन्तरे ब्रह्मणो लक्षणद्वयवादीनि वाक्यानि ‘यः सर्वज्ञः सर्ववित् ‘ ‘विज्ञानमानन्दम् ‘ इत्यादीनि सन्ति, तान्यपीहोदाहरणत्वेन द्रष्टव्यानीत्याह — अन्यान्यपीति । एवंजातीयकत्वमेवाह — नित्येति ।
तदेवं सर्वासु शाखासु लक्षणद्वयवादिवेदान्तवाक्यानि जिज्ञास्ये ब्रह्मणि समन्वितानीति तद्धिया मुक्तिरयत्नलभ्येत्यर्थः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 प्रथमसूत्रेण शास्त्रारम्भमुपपाद्य तदारभमाणो जन्मादिसूत्रस्य पातनिकामाह — ब्रह्मेति । जिज्ञासापदस्यावयवार्थत्यागेनान्तर्णीतविचारार्थत्वमुपेत्य ब्रह्मज्ञातुकामेनेदं शास्त्रं ज्ञातव्यमित्युक्तमित्यर्थः । ब्रह्मणो जिज्ञास्यत्वोक्त्यार्थात्प्रमाणादिविचाराणां प्रतिज्ञातव्येऽपि ब्रह्मप्रमाणं ब्रह्मयुक्तिरित्यादिविशिष्टविचाराणां विशेषणवत्यपेक्षत्वादादौ ब्रह्मस्वरूपं वाच्यमित्याह — किंलक्षणमिति । श्रौतस्य ब्रह्मणः श्रौतलक्षणद्वयावेदकं सूत्रं सूत्रकारं पूजयन्नवतारयति — अत इति । वेदानां नित्यत्वात् , तदकर्तृत्वे विश्वकर्तृत्वायोगात् न तेनास्य सर्वज्ञतेत्याशङ्क्य श्रौतप्रतिज्ञयैव सङ्गतिमाह — तदेवेति । वेदानां नित्यत्वेऽपि ब्रह्मणस्तत्कर्तृत्वसम्भवोक्त्या तदेव जगद्धेतुत्वकृतं सर्वज्ञत्वमत्र दृढीक्रियते । तेन हेतुसाधनद्वारा तदीयसाध्यसाधनात् युक्तास्य श्रौत्या प्रतिज्ञया सङ्गतिरिति भावः । ‘अस्य महतः’ इत्यादिवाक्यं ब्रह्मणो वेदकर्तृत्वेन सार्वज्ञ्यं न साधयतीति वेदस्य सापेक्षत्वप्रसङ्गाप्रसङ्गाभ्यां सन्देहे, पाणिन्यादिवदर्थं दृष्ट्वा कर्तृत्वे वेदस्य पौरुषेयत्वेन सापेक्षत्वापातात् न साधयतीति प्राप्ते सिद्धान्तमाह — शास्त्रेति । न केवलं जगद्योनित्वादस्य सार्वज्ञ्यं किन्तु शास्त्रयोनित्वादपीति योजना । अत्र च वेदकर्तृत्वोक्तेः, एतदुक्तमानमेयाङ्गीकारेण शास्त्रप्रवृत्तेः, अस्येत्यादिस्पष्टब्रह्मलिङ्गवाक्यस्य सर्वज्ञे ब्रह्मणि समन्वयोक्तेश्च श्रुत्यादिसङ्गतयः । फलं तु पूर्वपक्षे ब्रह्मणः सर्वज्ञत्वानिर्धारणमुत्तरत्र तन्निर्धारणमिति द्रष्टव्यम् । शास्त्रयोनित्वस्य सर्वज्ञताहेतुत्वं वक्तुं शास्त्रं विशिनष्टि — महत इत्यादिना । चातुर्वर्ण्यचातुराश्रम्यादिमहाविषयत्वान्महदृगादिशास्त्रम् । न केवलं महाविषयत्वेनास्य महत्त्वं किन्त्वनेकाङ्गोपाङ्गोपकरणतयापीत्याह — अनेकेति । पुराणन्यायमीमांसाधर्मशास्त्राणि व्याकरणादिषडङ्गानि च दश विद्यास्थानानि । तैस्तत्तद्द्वारोपकृतस्येति यावत् । एतेन शिष्टसङ्ग्रहादप्रामाण्यशङ्कापि शास्त्रस्यार्थादपास्ता । पुराणादिप्रणेतारो महर्षयस्तथा तथा वेदान्व्याचक्षाणास्तदर्थं चादरेणानुतिष्ठन्तो वेदानादृतवन्तः, तत्कथं तदप्रामाण्यमिति भावः । अबोधित्वास्पष्टबोधित्वयोरभावादपि वेदानां प्रामाण्यमित्यह — प्रदीपवदिति । उक्तमुपजीव्य सर्वज्ञत्वोपयुक्तं विशेषणान्तरमाह — सर्वज्ञेति । तत्सदृशस्येति यावत् । सादृश्यं च सर्वज्ञज्ञानस्य सर्वविषयत्ववदुक्तेरपि शास्त्रीयायास्तथात्वम् । कल्पप्रत्ययोऽचेतनत्वात् । उक्तविशेषणस्य वेदस्य निःश्वसितश्रुत्या विभक्तत्वहेतूपकृतया ब्रह्मकार्यतेत्याह — योनिरिति । व्यतिरेकमुखेनोक्तं व्यक्तीकुर्वाणः सर्वज्ञत्वं प्रतिजानीते — न हीति । महत्त्वादिविशेषणवत्त्वमीदृशत्वम् । तस्य सर्वज्ञादन्यतोऽसम्भवे हेतुं सूचयति — सर्वज्ञेति । तस्यगुणः सर्वाथंज्ञानवत्त्वं तेनान्वितमिदं शास्त्रं, सर्वार्थत्वात् , अतस्तस्योत्पत्तिः सर्वज्ञादेवेत्यर्थः । उक्तमनुमानीकर्तुं व्याप्तिमाह — यदिति । महाविषयत्वाद्वेदस्य ब्रह्मज्ञानेन तुल्यार्थत्वभ्रान्तिनिवृत्त्यर्थं विस्तरार्थमित्युक्तम् । यच्छब्दत्रयस्य स ततोऽपीत्युत्तरेण सम्बन्धः । शास्त्रप्रणेतुराप्तत्वार्थं पुरुषविशेषपदम् । यो यद्वाक्यप्रमाणप्रणेता स तद्विषयादधिकार्थज्ञानवानिति व्याप्तिभूमिमाह — यथेति । ब्रह्मणः शास्त्रकर्तृत्वेऽपि पाणिन्यादिवदसर्वज्ञत्वं शङ्कित्वोक्तम् — ज्ञेयेति । तस्य ज्ञेयैकदेशविषयत्वं तत्कर्तुरसार्वज्ञ्ये हेतुरित्यर्थः । अपिस्तथात्वसम्भावनार्थः । यद्यस्मात्पाणिन्यादेः सम्भवति स तस्मादधिकार्थज्ञानवानिष्टः । शब्दस्य ज्ञानान्न्यूनार्थत्वाद्यथेदं तथान्यदपि मानभूतं शास्त्रं यस्मादभियुक्तादुत्पद्यते स तस्मादधिकज्ञानवानित्यर्थः । उक्तेर्ज्ञानान्न्यूनार्थत्वमिक्षुक्षीरादिमाधुर्यस्यावान्तरवैषम्येऽपि तदाख्यातुं सुशिक्षितोऽपि न शक्ष्यतीति न्यायसिद्धमित्याह — इति प्रसिद्धमिति । व्याप्तिमुक्त्वा विवक्षितमनुमानमाह — किम्विति । शास्त्रस्योक्तविशेषणवतो यस्मान्महतो भूताद्योनेः सम्भवस्तस्य सर्वज्ञत्वाद्यनतिशयमिति किमु वक्तव्यमिति सम्बन्धः । ब्रह्म वेदार्थादधिकार्थज्ञानवत् , तत्कर्तृत्वात् , यो यद्वाक्यप्रमाणकर्ता स तदर्थादधिकार्थज्ञानवान् , यथा पाणिनिः । यद्वा वेदः स्वार्थादधिकार्थज्ञानवज्जन्यः, वाक्यप्रमाणत्वात् , पाणिन्यादिवाक्यवदित्यर्थः । शास्त्रहेतोर्ब्रह्मणः सर्वज्ञता पक्षधर्मताबलादिति वक्तुं शास्त्रस्य ग्रन्थतो महत्त्वमाह — अनेकेति । महाविषयत्वेनोक्तं महत्त्वं व्यनक्ति — देवेति । आदिशब्देन वर्णाश्रमधर्मा गृह्यन्ते । प्रदीपवत्सर्वार्थावद्योतिन इत्युक्तं प्रकृतोपयोगित्वेनार्थतोऽनुवदति — सर्वेति । यथोक्तं शास्त्रं ब्रह्मणो जायते चेत्तस्य पौरुषेयत्वेनानपेक्षत्वप्रामाण्यहानिरित्याशङ्क्याह — अप्रयत्नेनेति । पौरुषेयत्वं पुरुषनिर्वर्त्यत्वमात्रं वा नूतनानुपूर्वीरचनं वा मानान्तरदृष्टार्थोक्तिरचनं वा । नाद्यः, तवापि पदवाक्यादिषु तुल्यत्वात् । द्वितीये नूतनत्वं क्रमान्यत्वमात्रं वा विसदृशक्रमत्वं वा । नाद्यः, त्वयापि प्रतिपुरुषमुपाधिभेदादुपहितक्रमान्यत्वमात्रस्येष्टत्वात् । न द्वितीयः, मयापि क्रमवैसादृश्यस्यानिष्टत्वात् । न तृतीयः, अनङ्गीकारात् । अतो न पौरुषेयतया सापेक्षतेति भावः । अयत्नेन ब्रह्मणो वेदोत्पत्तौ मानमाह — अस्येति । ब्रह्मणोऽनतिशयं महत्त्वं तात्त्विकं च सर्वज्ञतासाधकं, तद्रहिते तदनुपलम्भादिति मत्त्वा महतो भूतस्येति पुनरुक्तम् । यथा दीपादिभासनशक्तेः स्वहेतुवह्निशक्त्यनुमापकत्वं तथा वेदगतसर्वार्थभासनशक्तेरपि स्वाश्रयोपादानस्थसर्वार्थभासनशक्त्यनुमापकतेति समुदायार्थः । शास्त्रं शास्त्रकर्तृत्वे सत्यसर्वज्ञत्वानधिकरणकर्तृकं, कार्यत्वात् , घटवदित्यनुमानाद्वेदस्य सर्वकर्तृकतेत्युक्तम् । इदानीं जगद्धेतुत्वेन लक्षिते ब्रह्मणि मानविशेषचिन्तायै वर्णकान्तरमवतारयति — अथवेति । 'तं त्वौपनिषदम् ‘ इत्यादि ब्रह्मणः शास्त्रैकगम्यत्वम् । समर्थयेन्न वेति कार्यलिङ्गस्य हेतुविशेषावसानानवसानाभ्यां संशये, विमतं सकर्तृकं, कार्यत्वात् , घटवदिति सिद्धे कर्तरि, तदेकत्वानेकत्वसन्देहे लाघवात्तदैक्यम् । स च ज्ञात्वैव सर्वं करोतीति सर्वज्ञः सर्वशक्तिश्चेत्यनुमानमेव विचार्यमिति प्राप्ते प्रत्याह — यथोक्तमिति । नित्यसिद्धस्य ब्रह्मणः शास्त्रं कारणमित्ययुक्तमित्याशङ्क्याह — प्रमाणमिति । अनुमानादपि लाघवानुगृहीताद्ब्रह्मस्वरूपधीसम्भवात् तत्र शास्रमेव मानमित्याशङ्क्याह — शास्त्रादिति । न तावदप्रत्यक्षं ब्रह्म वह्निवद्विशेषतोऽनुमेयं, कार्यमात्रस्य कर्तृमात्रगमकत्वात् । न च लाघवात्तदैक्यधीः, विचित्रप्रासादादेरनेककर्तृकस्यापि दृष्टत्वेनानिर्णयात् । तथा च कर्तुर्न सर्वज्ञत्वाद्यनुमानलभ्यम् । शास्त्रे तु ‘यतः’ इत्येकवचनात्कर्त्रैक्यसिद्धौ सर्वज्ञत्वादिसिद्धेः शास्त्रैकगम्यं ब्रह्मेति भावः । किं तद्ब्रह्मणि प्रमाणं शास्त्रं तदाह — शास्त्रमिति । पूर्वसूत्रे शास्त्रस्योक्तत्वे शास्त्रयोनित्वं पृथङ् न वाच्यमिति शङ्कते — किमर्थमिति । एतत्सूत्रार्थवत्त्वं प्रतिजानीते — उच्यत इति । तत्र शास्त्रस्योक्तत्वेऽपि सूत्रे तद्वाचकाभावाज्जन्मादिलिङ्गकं स्वतन्त्रमनुमानमुक्तमिति शङ्कां निरसितुमिदं सूत्रमिति तदर्थवत्तां समर्थयते — तत्रेति ।
न च तर्हीदं पूर्वशेषतया तदन्तर्गमान्न पृथक्करणीयम् । तच्छेषत्वेऽपि सर्वज्ञत्वे शास्त्रकर्तृत्वहेतुसमर्थनन्यायभेदादधिकरणान्तरत्वसिद्धेरिति ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 सूत्रान्तरमवतारयन्पूर्वसूत्रसङ्गतिमाह — जगदिति । सर्वकारणत्वं ब्रह्मलक्षणं सूत्रयता प्रधनादावतिव्याप्तिनिरासाय तद्बललब्धं सर्वज्ञत्वमर्थादुक्तं तदेवात्र साध्यते, तथा चार्थिकप्रतिज्ञयास्य सङ्गतिरित्यर्थः । तत्र पूर्वपक्षप्रतिक्षेपप्रतिज्ञां व्याचष्टे — तुशब्द इति । तत्पदोपात्तां सिद्धान्तप्रतिज्ञां विभजते — तद्ब्रह्मेति । पूर्वसूत्रयोरुक्तं मेयभूतं ब्रह्म स्मारयितुं विशेषणानि । ननु वेदान्तवाक्यस्य लौकिकवाक्यवत् वाक्यत्वादेव संसृष्टार्थत्वात् , अखण्डैकरसे ब्रह्मणि कथं प्रथाहेतुतेति पृच्छति — कथमिति । अपर्यायानेकशब्दानामखण्डार्थत्वस्य प्रकृष्टप्रकाशादिवाक्ये दृष्टत्वात् , अस्यापि ब्रह्मस्वरूपमात्रबोधनप्रवृत्तस्य तद्धीहेतुता युक्तेति हेतुमादत्ते — समन्वयादिति । हेतुं विवृणोति — सर्वेष्विति । वेदान्तानामैकान्तिकीं ब्रह्मपरतां वक्तुं बहूनि वाक्यान्युदाहरति — सदेवेत्यादिना । सदित्यस्तितामात्रम् । एवेत्यवधारणे । किं तदवध्रियते तदाह — इदमिति । यदिदं व्याकृतं जगत् तदग्रे प्रागुत्पत्तेः व्याकृतरूपत्यागेन सदेवसीत् । 'हे सोम्य प्रियदर्शन' इति पित्रा पुत्रः संबोध्यते । स्थूलं पृथिव्यादीदं बुद्धिबोध्यं प्रागुत्पत्तेर्माभूत् , अन्यत्तु महदादिसूक्ष्ममासीदेवेति नेत्याह — एकमिति । कार्यं सतोऽन्यन्नासीदेवेत्यर्थः । तथापि मृदो घटाकारपरिणामयितृकुलालवज्जगन्निमित्तं सतोऽन्यदासीदित्याशङ्क्याह — अद्वितीयमिति । सतोऽपि चित्त्वं विना प्रधानवन्न हेतुतेत्याशङ्क्य श्रुत्यन्तरमाह — आत्मेति । आप्नोतीत्यात्मा मूलकारणम् । वैशब्देन प्रागवस्था स्मर्यते । इदमित्याद्युक्तार्थम् । तस्य निर्विशेषत्वार्थं श्रुत्यन्तरं पठति — तदेतदिति । तच्छब्देन ‘इन्द्रो मायाभिः’ इति प्रकृतात्मोक्तिः । विधेयं ब्रह्मापेक्ष्य नपुंसकं तदेतदेव यद्ब्रह्म तद्वा किंलक्षणं तत्राह — अपूर्वमिति । नास्य पूर्वं कारणमित्यपूर्वमकार्यमित्यर्थः । नास्यापरं कार्यं वास्तवमस्तीत्यनपरमकारणमित्यर्थः । नास्यान्तरं जात्यन्तरमन्तरालेऽस्तीत्यनन्तरमेकरसमित्यर्थः । तथाविधमन्यदपि तटस्थमस्तीति नेत्याह — अबाह्यमिति । बाह्यमस्मादनात्मभूतं नास्तीत्यद्वितीयमित्यर्थः । तस्यापरोक्षत्वमाह — अयमिति । तत्सिद्ध्यर्थं चित्स्वभावत्वमाह — सर्वेति । ब्रह्मात्मा सर्वमनुभवति चेदनुभाव्यस्य पृथक्त्वान्नाद्वैतमित्याशङ्क्याह — ब्रह्मेति । यत्पुरस्तात्पूर्वस्यां दिश्यब्रह्मेवाविदुषां भाति तत्सर्वमिदममृतं ब्रह्मैव वस्तुत इत्यर्थः । आदिपदेन सत्यज्ञानादिवाक्यानि गृह्यन्ते । नन्वेषां वाक्यानामर्थवादाधिकरणन्यायेन कर्मापेक्षितकर्त्रादिप्रकाशनेन क्रियाविधिशेषतेत्युक्तं तत्राह — न चेति । 'वायुर्वै क्षेपिष्ठा’ इत्यादीनामिव क्रियाविधिशेषत्वेऽपि तेषां न श्रुतहानिरश्रुतकल्पना वेत्याशङ्क्याह — न चेति । युक्तमर्थवादानां स्वार्थे पुमर्थहीनानामध्ययनविधेर्विध्यपेक्षितप्राशस्त्यद्वारा तच्छेषत्वम् । यथाहुः - ‘स्वाध्यायविधिना वेदः पुरुषार्थाय नीयते । तद्वशेनार्थवादानां प्राशस्त्येन प्रमाणता ॥ ‘ इति वेदान्तानां तु कर्मापेक्षितकर्त्राद्यबोधित्वान्न तद्विधिशेषतेत्यर्थः । ननु पर्णताया जुहूद्वारा क्रतुशेषतावदात्मनोऽपि ज्ञानद्वारा कर्मशेषत्वात् , तदर्था वेदान्तास्तद्विधिशेषा भविष्यन्ति, नेत्याह — तदिति । तत्तत्र विद्यादशायां केन करणेन कं विषयं को वा कर्ता पश्येदित्यादिवाक्येनात्मविद्यया क्रियादिनिरासश्रुतेर्नासौ कर्माङ्गम् । ततो धीद्वारा आत्मनस्तद्विध्यशेषत्वात् तदर्थवेदान्तानां न तच्छेषतेत्यर्थः । यत्तु न परिनिष्ठितवस्तुप्रतिपादनं, तस्याध्यक्षादियोग्यत्वादिति तत्राह — न चेति । 'तत्त्वमसि ‘ इति शास्त्रमन्तरेणेति सम्बन्धः । वेदान्तवेद्यस्य सिद्धत्वेऽपि मानान्तरायोग्यत्वात् तत्संवादविसंवादाभावाद्युक्तं तत्रानपेक्षं तत्प्रामाण्यमित्यर्थः । तत्प्रतिपादने च हेयोपादेयरहिते पुरुषार्थाभावादित्यत्रोक्तमनुवदति — यत्त्विति । पुरस्तात्पञ्चम्या वस्तुन इत्यध्याहार्यम् । आनर्थक्यं हेयादिहीनार्थत्वं वा विफलत्वं वा । तत्राद्यमुपेत्य द्वितीयं दूषयति — नेति । यत्तु स्ववाक्यगतोपासनादिपरत्वं वेदान्तानां तत्किं कतिपयानामुत सर्वेषाम् । आद्यमङ्गीकरोति — देवतादीति । आदिशब्देन देवतासुरसङ्ग्रामो गुणजातं फलविशेषश्चोच्यते । तस्य तत्प्रकरणस्थोपास्तिशेषत्वं प्रकरणादिष्टमेवेत्यर्थः । नेतरः, सर्वेषां वेदान्तानां तच्छेषत्वे मानाभावात् । तदर्थस्य च ब्रह्मणस्तच्छेषत्वं ज्ञानात्प्रागूर्ध्वं वा । आद्येऽध्यस्तगुणवतस्तस्य तच्छेषत्वेऽपि न द्वितीय इत्याह — नत्विति । देवतादिप्रतिपादनं दृष्टान्तयितुं तथेत्युक्तम् । तत्र हेतुः — एकत्व इति । ज्ञाते सतीति शेषः, हेयोपादेयशून्यतयेत्यत्र ब्रह्मणो ज्ञातस्याद्वितीयस्येत्यध्याहार्यम् । उपास्योपासकादिभेदबुद्ध्यभावादुपास्तिविध्ययोगान्न ब्रह्मणो ज्ञातस्य तच्छेषतेत्यर्थः । संस्कारात्पुनर्द्वैतज्ञानोदये विध्यादिसर्वमविरुद्धमित्यशङ्क्याह — नहीति । संस्कारोत्थस्याभासत्वाद्विध्यनिमित्तत्वान्न ब्रह्मणस्तच्छेषतेत्यर्थः । वेदान्ताः स्वार्थे न मानं, विधिशून्यवाक्यत्वात् , संमतवदित्यनुमानात् , तेषां विधिशेषतेत्यशङ्क्य स्वार्थे फलराहित्यमुपाधिरित्याह — यद्यपीति । अन्यत्रेति कर्मकाण्डोक्तिः । वेदवाक्यानां ‘सोऽरोदीत्’ इत्यादीनामिति यावत् । तथापि स्वार्थे वैफल्यं तेषां विधिस्पर्शमन्तरेणाप्रामाण्ये हेतुरितिशेषः । साधनव्याप्तिं प्रत्याह — आत्मेति । तद्विषयस्येत्यात्मज्ञानं तच्छब्दार्थः । शास्त्रस्य स्वार्थे फलवत्त्वात्तत्रैवेति शेषः । एतेन न क्कच्चिदपीत्यादि व्याख्यातम् । अर्थवादाधिकरणस्य विषयभेदं वक्ष्यति । न च मन्त्रवद्वेदान्तानां विधिभिर्वाक्यैकवाक्यत्वं, तेषां दृष्टद्वारा क्रतूपकारित्ववदेषां तदयोगात् , एतदुत्थात्मज्ञानस्य कर्माधिकारविरोधित्वादिति द्रष्टव्यम् । ननु वेदान्ता विधिबोधिनः, मानत्वे सति वेदवाक्यत्वात् , संमतवत् । नेत्याह — न चेति । वक्ष्यमाणन्यायेन निषेधवाक्ये व्यभिचारात् , अबाधितानधिगतासन्दिग्धबोधित्वात् , युक्तं विधिस्पर्शं विना स्वार्थे वेदान्तप्रामाण्यमित्यर्थः । विध्यसंस्पर्शिनो वेदवाक्यस्य स्वार्थे प्रामाण्यमन्यत्रादृष्टं, निषेधवाक्येऽपि विप्रतिपत्तेरित्याशङ्क्याह — येनेति । शास्त्रप्रामाण्यस्यानुमानगम्यत्वेनेति यावत् । अपेक्षेत । शास्त्रप्रमाण्यमिति शेषः । न तथा तदनुमानगम्यं स्वारसिकत्वात् । उत्पन्नायां हि प्रमायां शास्त्रस्य तल्लिङ्गेन तज्जनकत्वमनुमेयं, ततस्तदुत्पत्तिरिति स्वीकारे परस्पराश्रयत्वम् । तस्मादनुमानेन ज्ञेयमपि शास्त्रप्रामाण्यं न तद्गम्यत्वेन भवतीति नास्ति दृष्टान्तापेक्षेत्यर्थः । वर्णकार्थमुपसंहरति — तस्मादिति । वेदान्तानां प्रामाण्ये विधितुल्यत्वं तच्छब्दार्थः । लौकिकोक्तीनां मानान्तरायत्तानां सिद्धेऽर्थे प्रामाण्यमुपेत्य वेदान्तेषु विना कार्यार्थतामनपेक्षत्वं वा फलवत्त्वं वा न लभ्यमिति मतं, ब्रह्मात्मनो मानान्तरायोग्यत्वेन तद्धीमात्रात्फललाभेन च परास्तम् । सम्प्रति कार्यान्विते शब्दशक्तिनियमान्न सिद्धं वस्तु शाब्दमिति वदतामुपास्तिविधिनिष्ठान्वेदान्तानिच्छतां मतं निरसितुं वर्णकान्तरमारभ्यते । यद्वा, आरोपितब्रह्मत्वस्य जीवस्योपास्तिपरा वेदान्ता न ब्रह्मात्मत्वे मानमिति पक्षं प्रतिक्षिप्य तेषां वस्तुनि मानत्वेऽपि विधिद्वारेति विशेषमाशङ्क्य वर्णकान्तरम् । तत्र ‘सदेव’ इत्यादिवेदान्ता विधेयधीविषयत्वेन ब्रह्मार्पयन्ति उत साक्षादिति सिद्धे व्युत्पत्त्यभावभावाभ्यां संशये पूर्वपक्षयति — अत्रेति । ब्रह्म कार्यस्पृष्टमेव शास्त्रगम्यं, केवलमपीत्युभयत्र फलभेदः । सप्तम्या ब्रह्मणः शास्त्रप्रमाणकत्वमुक्तम् । तदेव वदन्नुक्तमङ्गीकृत्यानिष्टं प्रसञ्जयति — यद्यपीति । प्रतिपत्तिविधिविषयतया । तद्विषयप्रतिपत्तिविषयतयेति यावत् । वस्तुमात्रनिष्ठत्वे ब्रह्मधियो हानाद्यर्थत्वाभावादानर्थक्यमेवेत्यर्थः । कथं कार्यपरवेदान्तेभ्यो वस्तुधीः, वाक्यभेदादित्याशङ्क्याह — यथेति । 'यूपे पशुं बध्नाति’ इति पशुबन्धनाय विनियुक्ते यूपे तस्यालौकिकत्वात् कोऽसावित्याकाङ्क्षिते ‘खादिरो यूपो भवति । यूपं तक्षति । यूपमष्टाश्रीकरोति' इत्यादिभिस्तक्षणाधिविधिपरैरपि वाक्यैर्विशिष्टसंस्कारसंस्थानं दारु यूप इति गम्यते । ‘यदाहवनीये जुहोति’ इति होमाधारत्वेनोक्ताहवनीयस्यालौकिकत्वात्कोऽसाविति वीक्षायां ‘वसन्ते ब्राह्मणोऽग्नीनादधीत’ इत्यादि तद्विधिपरैरेव वाक्यैः संस्कृतोऽग्निरसाविति भाति । तथा देवतास्वर्गाद्यपि विधिपरेणैव शास्त्रेणोच्यते । तथान्यपरेणापि तेन विध्याक्षेपादुपादानाद्विशिष्टं ब्रह्म सुबोधमित्यर्थः । ननु फलिनो द्रुमाः, भूभागो निधिमानित्यदिषु विनापि विधिं प्रयोगधीदृष्टेः, शास्त्रेणापि विध्यनपेक्षेण ब्रह्मणोऽर्पणमिति शङ्कते — कुत इति । दृष्टान्तेऽपि कार्याध्याहाराद्यभिप्रेत्याह — प्रवृत्तीति । ‘प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसा येनोपदिश्येते तच्छास्रमभिधीयते ॥ ‘ इति न्यायात् , वेदान्तानामपि शास्त्रत्वादन्यतरनियमाद्विधिनिष्ठताध्रौव्यमित्यर्थः । प्रवृत्त्यादिपरस्यैव शास्त्रत्वं, शब्दशक्तिश्च कार्यान्वयिन्येवेत्यत्र वृद्धसंमतिमाह — तथा हीति । 'वेदमधीत्य स्नायात् ‘, इत्यध्ययनस्नानयोरव्यवधानाधिगमात् , अधीत्य स्नानमकृत्वा धर्मं जिज्ञासमानो वेदमिममतिक्रामेत् । अनतिक्रमितव्यश्चासाविति चोदिते भाष्यकृतोक्तम् - ‘अतिक्रमिष्याम इममाम्नायमनतिक्रामन्तो वेदमर्थवन्तं सन्तमनर्थकमवल्पयेम’ इति । कस्तर्हि वेदस्यार्थस्तत्राह — दृष्टो हीति । तस्य वेदस्य कर्मावबोधनं नियोगज्ञानं दृष्टोऽर्थो दृष्टं फलम् । नियोगश्च साध्यत्वात्प्रवृत्त्याद्यपेक्षः । तस्मात्प्रवृत्त्यादिपरं शास्त्रमित्यर्थः । धर्मजिज्ञासासूत्रस्थं भाष्यमुक्त्वा तत्रैव चोदनासूत्रस्थं भाष्यमाह — चोदनेतीति । चोदनासूत्रे हि चोदनेत्यनेन शब्देन क्रियाया नियोगस्य प्रवर्तकमनुष्ठापकं वचनमाहुर्वेदविदः । तेन शास्त्रं प्रवर्तकमित्यर्थः । प्रवृत्त्यादिपरं शास्त्रमित्यत्रैव सूत्रकारं संवादयन्नौत्पत्तिकसूत्रावयवमादत्ते — तस्येति । अध्यक्षाद्यभावान्मानागम्यस्य धर्मस्य कथं धीरिति वीक्षायामुक्तम् - ‘औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् ‘ इति । उत्पत्तिर्भावः शब्दस्य वाचकस्यार्थेन वाच्येन शक्तिसम्बन्धस्तयोर्भावेनावियुक्तो नित्यो न तूत्पन्नयोरुत्तरभावी । तथापि धर्मे किं मानं, चोदनैवेत्याह — तस्येति । अग्निहोत्रादिधर्मस्याध्यक्षाद्यसिद्धस्य । ज्ञायतेऽनेनेति ज्ञानं तन्निमित्तं मानमुपदेश उपदिश्यतेऽनेनेति विधिवाक्यम् । अव्यतिरेकश्च शब्दोत्थस्य ज्ञानस्यार्थे व्यभिचाराभावः । न ह्यपौरुषेयोक्तिजन्यं ज्ञानं जातु विपर्येति । तस्मादन्यतोऽनुपलब्धेऽर्थे धर्माख्ये तदेवोपदेशशब्दितं विधिवाक्यं मानं, ज्ञानान्तरे पुरुषान्तरे वा तस्यानपेक्षत्वात् । बादरायणस्यापि भगवतः संमतमेतदित्याचार्यं पूजयितुं बादरायणोक्तिरित्यक्षरार्थः । तत्र लोके शब्दस्य मानान्तरवेद्यत्वोपहितस्वार्थे शक्तिनियमात् , देवदत्तादिपदे च सङ्केतार्थधीदृष्टेः सर्वशब्दानां तथैवार्थबोधित्वात् , अवेद्ये सङ्केतायोगात् , नास्य वेदार्थतेत्यभावो वेदार्थस्येत्याशङ्क्य कार्यबोधाधीनव्यवहाराकृतशक्तौ मानान्तरानिवेशात् , कार्यान्वितस्वार्थमात्रे शक्तेरवधृतत्वात् , वृद्धव्यवहारान्निश्चितशक्तेर्गवादिशब्दार्थधीदृष्टेः देवदत्तादिपदे दृष्टसङ्केतानुमानायोगात् , प्रसिद्धार्थपदसमभिव्याहाराद्व्युत्पत्त्युपगमादपूर्वकार्यार्थता लिङादेः । शब्दान्तराणां तदन्वितस्वार्थव्युत्पत्तेर्मानान्तरानपेक्षार्थत्वं स्वाभाविकसम्बन्धादपौरुषेयवचसामिति चिन्तितम् । तथा चौत्पत्तिकसूत्रादपि शास्त्रं प्रवृत्त्यादिपरमेवेत्यर्थः । कार्यान्विते पदशक्तिरित्यत्रैव सूत्रं पठति — तद्भूतानामिति । समाम्नायोऽर्थस्य तन्निमित्तत्वादिति सूत्रशेषः । वेदवाक्यानि मानान्तरसापेक्षाणि, तन्निरपेक्षाणि वेति संशये वृद्धव्यवहारे वाक्यात्तदर्थज्ञानेऽपि वेदवाक्यस्य समुदायान्तरत्वादर्थेनाज्ञातसम्बन्धत्वात् , तत्कल्पने सङ्केतापातात् , वेदवाक्यानां साक्षेपत्वादप्रामाण्यमिति प्राप्ते, लोकवेदयोः शब्दार्थाभेदात् , वैदिकवाक्यार्थधियो लोकव्युत्पत्तिमूलत्वात् , कार्यान्विते ज्ञातशक्तीनामेव शब्दानां विशिष्टार्थावच्छेदकानां वाक्यत्वात् , वैदिकवाक्यानां संकेतानपेक्षाणां स्वार्थधीहेतुत्वादपौरुषेयाणां तेषामनपेक्षं प्रामाण्यमिति राद्धान्तितम् । तेषु पदार्थेषु भूतानां वर्तमानानां पदानां कार्येण वाक्यार्थेन तत्प्रतिपत्त्यर्थत्वेन समाम्नायः सम्भूय वाक्यत्वेनोच्चारणम् । एकैकपदस्मृतार्थस्य मिलितार्थस्य वाक्यार्थधीनिमित्तत्वात् , पदार्थप्रतित्त्यवान्तरव्यापाराणि हि पदानि वाक्यार्यं बोधयन्तीति सूत्रार्थः । भूतार्थपरस्य न शास्त्रतेत्यत्रापि सूत्रकारानुमतिमाह — आम्नायस्येति । अभियुक्तोक्त्या फलितमाह — अत इति । इष्टोपायो यागादिर्विषयविशेषः, अनिष्टोपायो हननादिर्द्वितीयो विषयविशेषः । विधिनिषेधकाण्डस्यैवमर्थवत्त्वेऽपि कथमर्थवादादिषु तथेत्याशङ्क्याह — तच्छेषतयेति । तथापि वेदान्तानां किमायातं, तदाह — तत्सामान्यादिति । कर्मशास्त्रेण सामान्यं शास्त्रत्वं, तथैव प्रवर्तकत्वेन निवर्तकत्वेन तच्छेषत्वेन वेत्यर्थः । ननु वेदान्तेषु 'प्रतिष्ठाकामो रात्रिसत्रेण यजेत' इत्यादिवद्विधेयाभावान्नियोज्याभावाच्च विध्ययोगान्न प्रवृत्त्यादिपरत्वं, तत्राह — सतीति । शास्त्रत्वात्तेषामपि विधिपरत्वध्रौव्ये रात्रिसत्रन्यायेन नियोज्यविशेषलाभात् , आत्मधियश्चाग्निहोत्रादिवद्विधेयत्वात् , विधिद्वारा वेदान्तानां प्रवृत्त्यादिपरतेत्यर्थः । उक्तं स्मारयन्ब्रह्मधियो विधेयत्वमाक्षिपति — नन्विति । इहेति काण्डद्वयस्याद्यसूत्रस्य चोक्तिः । भूतशब्दस्यार्थान्तरं निरसितुं विशिनष्टि — नित्येति । धीकर्मणोर्विषयवैषम्येऽपि विधेयत्वे किं जातं तत्राह — तत्रेति । ब्रह्मधियोऽसाध्यफलत्वान्न कर्मवद्विधेयतेत्येतद्दूषयति — नेति । कृतियोग्यभावार्थविषयो नियोगोऽत्र कार्यविधिः, तदपेक्षितस्यैव ब्रह्मणो वेदान्तेषु प्रतिपादनात् , तस्य स्वतोऽसाध्यत्वेऽपि विधेयक्रियाद्वारा साध्यत्वात्कर्मफलवद्धीफलस्यापि नैयोगिकत्वात्फलाद्वैलक्षण्यात् , उभयोर्विधेयता तुल्येत्यर्थः । वेदान्तेषु विध्यश्रवणान्न तच्छेषतया ब्रह्मोक्तिरित्याशङ्क्याह — आत्मेति । 'ब्रह्म वेद’ इत्यत्र रात्रिसत्रवद्विधिः । आदिपादत् ‘ब्रह्मविदाप्नोति’ इत्यादि गृह्यते । तथापि सत्यादिवाक्यानि वाक्यभेदेन विध्यस्पृष्टब्रह्माभिदधीरन्नित्याशङ्क्य वाक्यैक्ययोगे न तद्भेदकल्पनेत्याह — कोऽसाविति । तानेव वेदान्तानाह — नित्य इत्यादिना । क्षणिकबुद्धेर्देहाच्चात्मानं व्यावर्तयितुं नित्यपदम् । ‘पश्यंश्चक्षुः’ इत्यादिश्रुतेश्चक्षुरादिमात्रावच्छिन्नं रूपादिज्ञानवत्त्वं व्यावर्त्य सर्वत्राप्रतिबद्धज्ञानवत्त्वमाह — सर्वज्ञ इति । दिगम्बरेष्टं सर्वज्ञं पराचष्टे — सर्वेति । साङ्ख्यं प्रत्यह — नित्येति । जडविशेषैरैक्यतादात्म्ये व्यासेद्धुम् — नित्यशुद्धेति । अखण्डजाड्यव्यावृत्त्यर्थम् — बुद्धेति । विवर्तहीनाखण्डजडशक्त्यैक्याध्यस्तशबलचैतन्यं निषेद्धुम् — मुक्तेत्यादि । एतानि विशेषणानि तत्तद्वाक्योपलक्षणत्वेनोक्तानि । अपरोक्षत्वमाह — विज्ञानमिति । परमपुरुषार्थत्वमाह — आनन्दमिति । आदिशब्दः सत्यं ज्ञानमित्यादिसङ्ग्रहार्थः । ननूक्तविधिफलं दृष्टमदृष्टं वा । नाद्यः, विध्यानर्थक्या । न चावघातादिवत्तदर्थत्वम् , दृष्टमात्रफलवत्त्वविरोधात्तेषु नियमादृष्टस्येष्टत्वात् । न द्वितीयः मानाभावात् । तत्राह — तदुपासनाच्चेति । प्रत्यग्ब्रह्म तच्छब्दार्थः । शास्त्रं ‘ब्रह्म वेद’ इत्यादि । अन्वयव्यतिरेकासिद्धत्वमदृष्टत्वम् । ब्रह्मणो विध्यनुप्रवेशमुक्त्वा विपक्षं प्रत्याह — कर्तव्येति । ब्रह्मणो विधेयधीविषयत्वाभावे विध्यस्पष्टस्यैवोक्तौ तत्र हानाद्ययोगाल्लौकिकोक्तिवदानर्थक्यमेव वेदान्तानामित्यर्थः । वस्तुमात्रोक्तावपि नानर्थक्यमिति दृष्टान्तेन शङ्कते — नन्विति । वैषम्योक्त्या प्रत्याह — स्यादिति । वाक्योत्थज्ञानादेवाकृतकृत्यत्वे हेत्वन्तरमाह — श्रोतव्य इति । पूवपक्षमुपसंहरति — तस्मादिति । सिद्धेऽर्थे शब्दानामज्ञातशक्तित्वं, वेदान्तानां शास्त्रत्वं, अर्थवत्त्वं, श्रवणादूर्ध्वं मननादिविधिश्च तच्छब्दार्थः । प्रतिपत्तीत्यादि । प्रतिपत्तेर्विधिर्नियोगस्तस्य विषयभूतां प्रतिपत्तिं प्रत्यवच्छेदकत्वेन विषयतयेत्यर्थः । प्राप्तं पक्षमनूद्य सिद्धान्तयति — अत्रेति । परमतनिरासं प्रतिजानीते — नेति । न कर्मवद्विधेया धीरित्युक्तनिषेधे हेतुमाह — कर्मेति । तदेव वक्तुं कर्म भिनत्ति — शारीरमिति । तत्तत्कर्मभेदे देहादेः सर्वस्योपयोगेऽपि क्वचित्कस्यचित्प्राधान्यात्त्रैविध्यम् । तत्र प्रमाणमाह — श्रुतीति । 'अग्निहोत्रं जुहुयात् ‘ ‘ब्रह्मयज्ञेन यक्ष्यमाणः’ ‘सन्ध्यां मनसा ध्यायेत् ‘ इत्याद्या श्रुतिः । ‘शरीरवाङ्भनोभिर्यत्कर्म प्रारभते नरः’ इत्याद्या स्मृतिः । लोकेऽपि तत्प्रसिद्धं मत्वोक्तम् — धर्माख्यमिति । न्यायसिद्धं चैतदित्याह — यद्विषयेति । स्वाध्यायाध्ययनानन्तरं तस्य धर्मजिज्ञासाफलहेतुत्वात्तन्निर्णयार्थं वेदवाक्यानि विचारयितव्यानीति वदता धर्मस्यैव विचारितत्वात्तस्य न्यायसिद्धत्वेऽपि कथमधर्मस्य तद्विषयतेत्याशङ्क्य धर्मशब्दस्योपलक्षणत्वमाह — अधर्मोऽपीति । हिंसादिरित्यादिपदमभक्ष्यभक्षणादिसङ्ग्रहार्थम् । चोदनालक्षणत्वाद्धर्मस्य जिज्ञास्यत्वेऽपि कुतोऽधर्मस्य तथेत्यशङ्क्याह — प्रतिषेधेति । धर्मो हि पुरुषं निःश्रेयसेन संयुनक्तीति तज्जिज्ञासा स्यात् , अधर्मजिज्ञासा तु विफलेत्याशङ्क्याह — परिहारायेति । उक्तं कर्मरूपमनूद्य तत्फलरूपमाह — तयोरिति । सर्वलोकप्रसिद्धत्वेन विद्वन्मात्रसिद्धविद्याफलाद्भेदं सूचयति — प्रत्यक्ष इति । सुखमात्रं विद्याफलं, इदं दुःखमपीति भेदान्तरमाह — सुखेत्यादिना । अकार्यकरणस्य विद्याफलं लभ्यं, कर्मफलं त्वन्यथेति विशेषान्तरमाह — शरीरेति । नित्यसिद्धं विद्याफलमविद्यापिधानमङ्गमात्रापेक्षं, कर्मफलमन्यथेत्यपरं विशेषमाह — विषयेति । अज्ञेष्वपि सत्त्वाच्च कर्मफलं विद्याफलविलक्षणमित्याह — ब्रह्मादिष्विति । तारतम्यभाक्त्वादपि कर्मफलस्य विद्याफलादनतिशयाद्भिन्नतेत्याह — मनुष्यत्वादिति । श्रुतेरुक्तार्थानुसारित्वमनुशब्दार्थः । 'स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः’ इत्याद्या श्रुतिः । फलवैलक्षण्यमुपलक्षणं कृत्वा साधनवैलक्षण्यमाह — ततश्चेति । फले तारतम्यस्य श्रुतत्वादिति यावत् । हेतुवैचित्र्यं विना कार्यवैचित्र्यस्याकस्मिकत्वापत्तेर्मोक्षे विद्यारूपं साधनमेकरूपमिति व्यक्तं विद्याकर्मणोः स्वरूपवैचित्र्यम् । किञ्च विद्यायामेकरूपः साधनचतुष्टयविशिष्टोऽधिकारी, नानारूपस्तु कर्मणीत्यधिकारभेदमाह — धर्मेति । कर्माधिकारितारतम्ये हेत्वन्तरमाह — प्रसिद्धं चेति । आदिपदमपर्युदाससङ्ग्रहार्थम् । न केवलं प्रसिद्धत्वादधिकारितारतम्यं किन्तु दक्षिणोत्तरगतिश्रुतेरपीत्यधिकारितारतम्ये श्रुतार्थापत्तिमाह — तथा चेति । विद्येत्युपासनोक्ता, समाधिरुपास्येऽर्थे मनसः स्थिरीभावः, तयोर्विशेषो नाम प्रकर्षः । समुच्चयानुष्ठायिनामर्चिराद्युपलक्षितं देवयानं पन्थानमुक्त्वा कर्ममात्रनिष्ठानां पथ्यन्तरमाह — केवलैरिति । इष्टम् - ‘अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् । आतिथ्यं वैश्वदेवम् - ‘ इत्येवंविधं कर्म । पूर्तं वापीकूपतडागादिदेवतायतनान्नप्रदानारामादिरूपं स्मार्तं कर्म । दत्तं शरणागतत्राणमहिंसा बहिर्वेदिदानं च । धूमाद्युपलक्षितेन दक्षिणेन पथा चन्द्रलोकं गतेषु सुखैकरूप्यात्तद्धेतोरपि तथात्वादन्यत्रापि तत्तारतम्यासिद्धिरित्याशङ्क्याह — तत्रापीति । सम्पतति येनास्माल्लोकादमुं लोकमिति कर्माशयः सम्पातः । तत्र यावद्भोक्तव्यं स्थित्वा ‘अथैतमेवाध्वानं पुनर्निवर्तन्ते' इतीयत्ताकरणात्सातिशयत्वं सुखतद्धेत्वोर्भातीत्यर्थः । मनुष्यत्वादारभ्योर्ध्वगतेषु सुखतद्धेत्वोरुत्कर्षमुक्त्वा तद्दृष्टान्तेन तस्मादारभ्याधोगतेषु तयोरपकर्षतारतम्यमाह — तथेति । सुखतद्धेतुतदनुष्ठायिनामुत्कर्षापकर्षतारतम्यवद्दुःखतद्धेतुतदनुष्ठायिनामपि तदुभयमस्तीत्याह — तयोर्ध्वेति । मनुष्यत्वादूर्ध्वगतेषु दुःखापकर्षतारतम्यं, तस्मादधोगतेषु च तदुत्कर्षतारतम्यमिति भेदः । कर्मफलं विद्याफलाद्भेत्तुं प्रपञ्चितमुपसंहरति — एवमिति । अविद्यादीत्यादिपदेनास्मितारागद्वेषाभिनिवेशा गृह्यन्ते । सुखदुःखपरिणामद्वारं दर्शयति — शरीरेति । तस्योपादानं तस्मिन्द्विविधोऽभिमानः । तस्यानर्थतया हेयत्वत्माह — संसारेति । अनित्यमित्यपि तदर्थमेव । मेयमुपसंहृत्य मानमुपसंहरति - श्रुतीति । ‘शरीरजैः कर्मदोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥‘ इत्याद्या स्मृतिः । दृष्टहेतुसाम्येऽपि दृष्टं सुखादिवैचित्र्यं तथाभूतमेवालौकिकं हेतु कल्पयितीति न्यायः । श्रुतिमाह — तथा चेति । निपाताववधारणे । श्रुतेस्तात्पर्यमाह — यथेति । नास्याः संसाररूपावेदने तात्पर्य, तदनुवादेन मुक्तिपरत्वादित्याह — अनुवदतीति । विद्याफलमाह — अशरीरमिति । तत्त्वतो विदेहं सन्तमात्मानं वैषयिके सुखदुःखेनैव स्पृशतो वावेत्यवधारणादित्यर्थः । श्रुतितात्पर्यमाह — चोदनेति । तत्र गमकमाह — प्रियेति । गमकत्वमस्य व्यतिरेकेण स्फोरयति — धर्मेति । तत्कार्ये तद्दृष्टेरित्यर्थः । धर्मस्य विचित्रफलत्वाददेहत्वमपि तत्कार्यमेवेति शङ्कते — अशरीरत्वमिति । वस्तुतो देहासम्बन्धोऽशरीरत्वं, तस्य नित्यत्वात्तिरोधायकाज्ञानस्य ज्ञानमात्रापोह्यत्वान्न धर्मकार्यतेत्याह — नेति । तत्र मानमाह — अशरीरमिति । शरीरं स्थूलं वस्तुतो नास्यास्तीति यावत् । तत्र हेतुः — शरीरेष्विति । अनवस्थेष्वनित्येष्ववस्थितम् । नित्यमित्यर्थः । तत्रैव हेत्वन्तरमाह — महान्तमिति । सापेक्षिकत्वं वारयति — विभुमिति । मन्तृमन्तव्यभेदं प्रत्याह — आत्मानमिति । ईदृशमात्मानं मत्वा धीरो भवति । नहि तन्मतिं विना धीरत्वं सम्भवति । स च धीरः शोकोपलक्षितं संसारं नानुभवतीत्यर्थः । सूक्ष्मदेहाभावे मानान्तरमाह — अप्राण इति । क्रियाशक्तिमान्प्राणोऽस्य वस्तुतो नास्तीति तन्निषेधात्तत्प्रधानानि सार्थानि कर्मेन्द्रियाणि निषिद्धानि । तदभिप्रायेण हिशब्दः । ज्ञानशक्तिमन्मनोऽस्य वस्तुतो नेति तन्निषेधात्तत्प्रधानज्ञानेन्द्रियाणि सार्थानि निषिद्धानि । अत एव शुभ्रः । शुद्ध इत्यर्थः । देहद्वयाभावे श्रुत्यन्तरमाह — असङ्गो हीति । ‘स यत्तत्र’ इत्यादौ स्वप्नादिकृतकर्मस्वकर्तात्मेत्युक्तेऽर्थे हेतुरनेनोच्यते । मूर्तं मूर्तान्तरेण युज्यमानं स्पन्दते, आत्मा तु पूर्णत्वादमूर्तो न केनचिद्युज्यते । तेनाकर्तेत्यर्थः । ‘अकायमव्रणम् ‘ इत्यादिसङ्ग्रहार्थमादिपदम् । अशरीरत्वस्य स्वाभाविकत्वे फलितमाह — अत इति । तद्वैलक्षण्ये किं स्यात्तदाह — नित्यमिति । तथापि परिणामित्वाद्विधेयक्रियानुप्रवेशमाशङ्क्यापरिणामिनित्यतां वक्तुं परिणामिनित्यं पृथक्करोति — तत्रेति । प्रकृतं नित्यं सप्तम्यर्थः । परिणामित्वनित्यत्वयोर्विरोधं प्रत्यभिज्ञया प्रत्याह — यस्मिन्निति । तत्र मीमांसकादिसंमतं दृष्टान्तमाह — यथेति । तथान्यदपि विक्रियमाणं प्रत्यभिज्ञातो नित्यं स्यादिति शेषः । साङ्ख्यीयदृष्टान्तमाह — यथा चेति । तन्मते सत्त्वरजस्तमांसि गुणा विक्रियमाणा एव प्रत्यभिज्ञया नित्यास्तथान्यदपि परिणामि नित्यमित्यर्थः । तादृङ्नित्याददेहत्वे मोक्षे विशेषमाह — इदं त्विति । तत्खल्वतात्त्विकं, परिणामस्य कार्त्स्न्यैकदेशाभ्यां भेदाभेदाभ्यां च दुर्वचनत्वात् । मोक्षाख्यमदेहत्वं स्वाभाविकमकल्पितमिति विशेषमाह — पारमार्थिकमिति । तत्र हेतुमाह — कूटस्थेति । तदर्थं सर्वगतत्वेन परिस्पन्दपरिणामराहित्यमाह — व्योमवदिति । फलार्थापि क्रिया तत्र न कल्प्या, तृप्तेः सदातनत्वादित्याह — नित्येति । परिणामाभावे हेत्वन्तरम् — निरवयवमिति । प्रकाशार्था विक्रिया न तत्रेत्याह — स्वयमिति । उक्तविशेषणवशान्न सा कर्मकार्येत्युक्तम् , इदानीं धर्माधर्मयोः सकार्ययोर्ब्रह्मसम्बन्धनिषेधादपि तत्प्राप्तिर्मुक्तिर्न कर्मकार्येत्याह — यत्रेति । कालानवच्छिन्नत्वाच्च मुक्तिरकर्मसाध्येत्याह — कालेति । ब्रह्मणो धर्माद्यनवच्छेदत्वे मानमाह — अन्यत्रेति । धर्मात्तत्फलाच्च सुखात् , अधर्मात्तत्फलाच्च दुःखात् , कृतात्कार्यात् , अकृताच्च कारणात् , भूतादिकालत्रयाच्च पृथग्भूतं तेनानवच्छेद्यं यत्पश्यसि तद्वदेति मृत्युं प्रति नचिकेतसो वचनम् । आदिशब्देन ‘नैनं सेतुम्‘ इत्याद्या श्रुतिर्गृह्यते । पृथग्जिज्ञासाविषयत्वाच्च धर्माद्यस्पृष्टत्वं ब्रह्मणो युक्तमित्याह — तदिति । अतःशब्दपाठे धर्माद्यस्पर्शे कर्मफलवैलक्षण्यं हेतुकृतम् । कर्तव्यधीशेषत्वेन ब्रह्मोपदेशात्तत्प्राप्तेर्मुक्तेर्वैधधीफलत्वमित्याशङ्क्याह — तद्यदीति । अनित्यत्वेऽपि स्वर्गादिवत्पुमर्थतेत्याशङ्क्याह — तत्रेति । तस्मिन्मोक्षे विधेयक्रियासाध्यत्वेनानित्ये सतीत्यर्थः । यथोक्तेति । तयोश्चोदनालक्षणयोरित्यादाविति शेषः । स्वर्गादिदृष्टान्तादित्यर्थः । इष्टापत्तिं प्रत्याह — नित्यश्चेति । ब्रह्माप्तेर्मुक्तेरवैधफलत्वे फलितमाह — अत इति । मुक्तेरवैधफलत्वे हेत्वन्तरमाह — अपिचेति । यो ब्रह्म प्रत्यक्त्वेन साक्षात्करोति स तदेव वेद्यं ब्रह्म भवति, तत्क्रतुन्यायात् । तस्मिन्परात्मनि परं कारणमवरं कार्यं तद्रूपे तदधिष्ठाने प्रत्यक्त्वेन साक्षात्कृते सत्यस्य विदुषोऽनारब्धानि कर्माणि क्षीणानि भवन्ति । ब्रह्मणो रूपमानन्दं विद्वान्भयहेत्वभावान्निर्भयो भवति । श्रुतावितिशब्दः श्लोकसामाप्त्यर्थः । हे जनक, त्वमभयं ब्रह्म प्राप्तोऽसि, तत्साक्षात्कारवत्त्वात् , यदस्मिन्देहे जलसूर्यवत्प्रविष्टं ब्रह्म जीवाख्यं तदाचार्येण बोधितमात्मानमेव सर्वकल्पनातीतमवेद्विदितवत् कथमहं ब्रह्मद्वितीयमस्मीति, तस्मादेव ज्ञानादज्ञानकृतासर्वत्वनिवृत्त्या तद्ब्रह्म पूर्णात्मना स्थितमासीत् । ‘यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः’ इति यः सर्वात्मभावो विद्याव्यङ्ग्यत्वेनोक्तस्तत्रात्मनि तद्धीकाले वा तदात्मैक्यमुपदेशेन पश्यतः शोकाद्युपलक्षितः संसारो नेति श्रूतीनामर्थः । आदिशब्देन ‘ब्रह्मविदाप्नोति’ इत्याद्या गृह्यन्ते । तासां तात्पर्यमाह — ब्रह्मेति । विद्यातत्फलयोरेककालत्वश्रुतेर्वैधज्ञानापूर्वजन्यत्वे मुक्तेस्तदयोगात् , वैधफलस्य कालान्तरभावित्वात् , ब्रह्मधीर्न विधेया । तत्फलं च दृष्टमेवेति भावः । इतश्च मोक्षो वैधो नेत्याह — तथेति । तत्पदलक्ष्यं ब्रह्मैतदात्मत्वेन स्थितमस्मीति पश्यन्नस्मादेव दर्शनादृषिर्वामदेवनामा परं ब्रह्माविद्याध्वस्त्या प्रतिपन्नवान्किलेति । हशब्दो व्यवधानेन सम्बध्यते । स चास्मिन्दर्शने स्थितः सर्वात्मप्रकाशकान्मन्त्रानहमित्यादीन्दृष्टवानिति श्रुत्यर्थः । तस्यास्तात्पर्यमाह — ब्रह्मेति । 'लक्षणहेत्वोः क्रियायाः’ इत्यत्र येन लक्ष्यते तल्लक्षणं जनको हेतुस्तौ लक्षणहेतू क्रियाविषयौ चेद्भवतस्तदा क्रियात्मके तस्या लक्षणे तस्या हेतौ चार्थे वर्तमानाद्धातोः परस्य लटः शतृशानचावादेशौ भवत इत्युक्तम् । यथा तिष्ठन्मूत्रयति, शयानो भुङ्क्तेऽधीयानो वसतीति । तथात्रापि प्रतिपत्तिक्रियाहेतौ क्रियायां दर्शने पश्यन्निति शतुर्दर्शनात् , अव्यवहिते च हेतुमति क्रियाया हेतुत्वात् , एष शतृप्रत्ययः सर्वात्मत्वस्य कालान्तरत्वं वारयति । अतोऽस्य न वैधतेत्यर्थः । यद्यपि न स्थितिक्रियासामर्थ्याद्ग्ीतिक्रिया किन्तु यत्नान्तरात् , तथापि तयोर्मध्ये क्रियान्तरं शब्दतो न भातीत्येतावतोदाहरति — यथेति । इतश्च ब्रह्मधीर्न विधेया, तत्फलं च न वैधमित्याह — त्वं हीति । भरद्वाजादयः षड्ऋषयः परविद्याप्रदं पिप्पलादं गुरुं विद्यानिष्क्रयार्थमन्यदनुरूपमपश्यन्तः पादयोः प्रणम्योचिरे । त्वं खल्वस्माकं पिता, ब्रह्मदेहस्याजरामरस्य विद्यया जनयितृत्वात् , इतरौ पितरौ देहमेव जनयतः जनयितृत्वमपि सिद्धस्यैवाविद्यानिरासादित्याह - यस्त्वमस्मानविद्यामहोदधेः परमपुनरावृत्तिरूपं पारं तारयसि प्रापयसि विद्याप्लवेनेति । प्रश्नोपनिषदमुक्त्वा सनत्कुमारनारदसंवादात्मिकां छान्दोग्योपनिषदं पठति — श्रुतं हीति । तत्र ‘तारयतु’ इत्यन्तमुपक्रमस्थं शेषमुपसंहारस्थमिति भेदः । मम भगवत्तुल्येभ्यः श्रुतमेवेदं यत्तरति शोकं मनस्तापमकृतार्थबुद्धिमात्मविदिति । सोऽहमनात्मवित्त्वाच्छोचामि अतस्तं मां शोचन्तं शोकसागरस्य पारमन्तं तारयतु भगवानात्मज्ञानोडुपेनेति नारदेन प्रेरितः सनत्कुमारस्तस्मै वैराग्यादिना निरस्तसमस्तदोषाय योग्याय तमसोऽविद्याख्यस्य पारं परमार्थतत्त्वं दर्शितवानित्यर्थः । आदिशब्देन ‘यो वेद निहितं गुहायाम् ‘ इत्याद्याः श्रुतयो गृहीतास्तासां तात्पर्यमाह — मोक्षेति । विद्याफलमविद्याध्वस्तिः श्रुता न चामानात्तद्ध्वस्तिः तथा चोपास्तेरन्या मानमेव ब्रह्मधीर्न विधेया तत्फलं च मुक्तिर्न वैधीत्यर्थः । श्रुत्यनुसारेणाविद्याध्वस्तिफलत्वाद्ब्रह्मधीस्तत्त्वधीरित्युक्तम् । इदानीं तर्कशास्त्रानुसारेणापि तथैवेत्याह — तथा चेति । दुःखं प्रतिकूलवेदनीयं, बाधा, पीडा, ताप इत्यनेकविधम् । जन्म देहेन्द्रियबुद्धीनां निकायविशिष्टः प्रादुर्भावः । हिंसास्तेयादिरूपा पापिका प्रवृत्तिरधर्मं प्रसूते । दानत्राणादिरूपा प्रवृत्तिर्धर्मं जनयति । तावेतौ धर्माधर्मौ प्रवृत्तिसाध्यौ तच्छब्दौ । रागद्वेषेर्ष्यासूयामानलोभादयो दोषाः । मिथ्याज्ञानमतस्मिंस्तज्ज्ञानं, आत्मा नास्तीत्यादि । तेषां पाठक्रमादुत्तरोत्तरस्यापाये तदनन्तरस्य पूर्वपूर्वस्यापायादपवर्गो निःश्रेयसम् । मिथ्याज्ञानादयो दुःखान्ता धर्मा विच्छेदादृते वर्तमानाः संसारः । तथाच यदा तत्त्वज्ञानान्मिथ्याज्ञानमपैति तदा हेत्वभावे फलाभावाद्दोषापायः, तदपाये च प्रवृत्तिसाध्यधर्माधर्मापायाज्जन्मापायद्वारा दुःखमपगच्छति, ततश्चात्यन्तिकं निःश्रेयसं सिध्यति । तदेवं तत्त्वज्ञानान्मिथ्याज्ञानध्वस्त्या मोक्ष इत्यक्षपादस्यापि विवक्षितमित्यर्थः । ननु भेदधीरेव मिथ्याधीविरुद्धा तत्त्वधीस्तर्कशास्त्रेऽभीष्टा, ‘तत्त्वज्ञानं तु मिथ्याज्ञानविपर्ययेण व्याख्यातम्‘ इत्युपक्रम्य ‘आत्मनि तावदस्तीत्यनात्मन्यात्मेति दुःखेऽनित्येऽत्राणे सभये जुगुप्सिते हातव्ये यथाविषयं वेदितव्यम्‘ इत्यादिन्यायभाष्यदर्शनात् । तत्कथं ब्रह्मात्मैक्यज्ञानान्मिथ्याधीध्वस्तिरित्यत्र न्यायशास्त्रानुगुण्यं, तत्राह — मिथ्येति । भेददृष्टेरज्ञानविलासत्वान्मिथ्याज्ञानाप्रतिपक्षत्वात् , अद्वयब्रह्मात्मधीरेव तन्निवर्तिकेत्यावश्यकमित्यर्थः । अथैक्यज्ञानमपि सम्पदादिरूपत्वाद्भेदधीतुल्यं न मिथ्याधीविरुद्धं, नेत्याह — न चेति । सम्पन्नामाल्पे वस्तुन्यालम्बने सामान्येन केनचिन्महतो वस्तुनः सम्पादनम् । तत्रोदाहरणम् — यथेति । मनस्यनन्तवृत्तिमत्यालम्बनेऽल्पपरिमाणे विश्वेषां देवानामनन्तानां महतामनन्तत्वसामान्येन सम्पादनं तेनानन्तफलाप्तिर्यथा श्रुता, तथा जीवस्यापि चैतन्यसामान्याद्ब्रह्मतासम्पादनममृतफलं विधेयमित्ययुक्तमित्यर्थः । अध्यासपक्षं निषेधति — न चेति । अध्यासः शास्त्रतोऽतस्मिंस्तद्धीः । सम्पदि सम्पाद्यमानस्य प्राधान्येनानुध्यानं, अध्यासे त्वालम्बनस्येति विशेषं मत्वा दृष्टान्तमाह — यथेति । आदिशब्दादाकाशाद्युक्तम् । आदित्यादौ यथा ब्रह्मधीरारोप्यते तथा जीवे तद्धीरारोप्येत्यध्यासरूपमिदमैक्यज्ञानमित्यपि नेत्यर्थः । पक्षान्तरं दूषयति — नापीति । संवर्गविद्यायां श्रुतम् - ‘वायुर्वाव संवर्गो यदा वा अग्निरुद्वायत्युपशाम्यति वायुमेवाप्येेति विलीयते यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति यदाप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येंवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतमथाध्यात्मं प्राणो वाव संवर्गो यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः’ इति । तत्र यथा संहरणक्रियायोगाद्वायोः प्राणस्य च संवर्गत्वं, तथा जीवब्रह्मणोर्बृंहणक्रियायोगादैक्यज्ञानमित्यपि नेत्यर्थः । आदिशब्दात् ‘प्राणो वा उक्थम् ‘ इत्यादि गृहीतम् । मतान्तरं प्रत्याह — नापीति । यथा दर्शपूर्णमासाधिकारे - ‘पत्न्यवेक्षितमाज्यं भवति’ इत्याम्नातमवेक्षणमुपांशुयाजाङ्गभूताज्यसंस्कारो गुणकर्म विधीयते तथा कर्तृत्वेनाङ्गे क्रतावात्मनि द्रष्टव्यादिवाक्येन दृष्टेर्गुणकर्मणो विधानात्कर्माङ्गात्मसंस्काररूपमैक्यज्ञानमित्यपि नेत्यर्थः । आदिशब्देन प्रोक्षणादि गृह्यते । सम्पदध्यासक्रियायोगसंस्काराणां न प्रतिज्ञामात्रादयोगः, अतिप्रसङ्गादित्याशङ्क्य वेदान्तानां स्वार्थे मानान्तरविरोधाद्वा तात्पर्याभावाद्वा सम्पदादिपरतेति विकल्प्य जीवब्रह्मणोर्मानान्तरागोचरत्वात्तद्भेदस्यापि तथात्वात् , भेददृष्टेश्च बिम्बप्रतिबिम्बवदविरोधादाद्यो नेति मत्वा द्वितीयं प्रत्याह — सम्पदादीति । 'सदेव सोम्येदम् ‘ ‘एकमेव‘ इत्युपक्रमात् ‘ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा’ इत्युपसंहारात् ‘तत्त्वमसि’ इत्यभ्यासाद्ब्रह्मात्मनो मानान्तरावेद्यत्वेनापूर्वत्वात् तज्ज्ञानस्य ‘आचार्यवान् ‘ इत्यादिना फलश्रुतेः ‘अनेन जीवेन’ इत्यर्थवादात् ‘अथ येऽन्यथा’ इत्यादिभेददर्शननिन्दनात् , उपपत्तेश्च मृदादिदृष्टान्तस्य दृष्टत्वात् । बृहदारण्यकेऽपि ‘ब्रह्म वा इदम् ‘ इत्युपक्रमात् ‘अयमात्मा ब्रह्म’ इति परामर्शात् ‘पूर्णमदः पूर्णमिदम् ‘ इत्युपसंहारात् ‘स एष नेति नेत्यात्मा’ इत्यभ्यासादप्रपञ्चब्रह्मात्मनोऽपूर्वत्वात् ‘तस्मात्तत्सर्वमभवत् इत्यादि’ फलश्रुतेः ‘स एष इह प्रविष्टोऽथ योऽन्यां देवताम् ‘ इत्याद्यर्थवादाद्दुन्दुभ्यादिदृष्टान्तोपपत्तेः । ऐतरेयके च ‘आत्मा वा इदमेक एव’ इत्युपक्रम्य ‘स एतमेव पुरुषं ब्रह्म ततमपश्यत्’ इति परामृश्य ‘प्रज्ञानं ब्रह्म’ इत्युपसंहारात् । आथर्वणे च ‘कस्मिन् भगवो विज्ञाते सर्वमिदं विज्ञातम् ‘ इत्युपक्रम्य ‘ब्रह्मैवेदम् ‘ इति निगमनात् । तैत्तिरीयके च ‘ब्रह्मविदाप्नोति परम् ‘ ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘यो वेद निहितं गुहायाम् ‘ इत्युपक्रम्य ‘सयश्चायं पुरुषे । यश्चासावादित्ये । स एकः’ इति परामृश्य ‘आनन्दो ब्रह्मेति व्यजानात् ‘ इत्यादिनोपसंहारात् , तस्यैव ब्रह्मात्मनोऽभ्यासात् , तदपूर्वता स्यात् । ‘सोऽश्नुते सर्वान्कामान् ‘ ‘आनन्दं ब्रह्मणो विद्वान्न बिभेति’ इत्यादिना फलाभिलापात् ‘तदात्मानं स्वयमकुरुत’ इत्यर्थवादात् ‘को ह्येवान्यात् ‘ इत्याद्युपपत्तेः । एकत्वे वेदान्तानामेकान्तेन तात्पर्यमवधार्यते । तथा चायुक्ता तेषां स्वार्थे तात्पर्याभावकृता सम्पदादिपरतेति भावः । किञ्च ज्ञानस्याज्ञानध्वस्तिफलत्वश्रुतेर्न सम्पदादिरूपमैक्यज्ञानमित्याह — भिद्यत इति । हृदयमन्तःकरणं तस्य ग्रन्थी रागादिः स तस्मिन्दृष्टे भिद्यते विदीर्यते । सर्वे च संशयाः संसारहेतवश्छिद्यन्ते छिन्ना भवन्तीत्यर्थः । आदिशब्दात् ‘तरति शोकमात्मवित् ‘ इत्यादि गृह्यते । तेषां तात्पर्यमाह — अविद्येति । सम्पदादिज्ञानस्याप्रमात्वादज्ञानानिवर्तकत्वादित्यर्थः । ब्रह्मविद्याया ब्रह्मभावफलश्रुतेरपि न सम्पदादिरूपतेत्याह — ब्रह्मेति । आदिपदं ‘ब्रह्मविदाप्रोति’ इत्यादि ग्रहीतुम् । तेषां तात्पर्यमाह — तद्भावेति । आत्मनो वस्तुतो भिन्नस्याब्रह्मत्वादन्यस्य स्थितस्य नष्टस्य वान्यत्वासिद्धेः सम्पदादिपक्षे तद्भाववाक्यानां न मुख्यार्थतेत्यर्थः । उक्तहेतुभ्यः सिद्धं निगमयति — तस्मादिति । प्रमितित्वं, तमोध्वस्तितद्भावापत्तिफलत्वं च तच्छब्दार्थः । सम्पदादिरूपत्वाभावेऽपि कथमविधेयत्वं तदाह — अत इति । तदतन्त्रत्वे नित्यत्वमाशङ्क्याह — किं तर्हीति । तस्या वस्तुतन्त्रत्वे फलितमाह — एवमिति । एवंभूतस्याद्वयप्रत्यङ्मात्रतया स्थितस्येत्यर्थः । कृतिसाध्यस्यैव नियोगविषयत्वाद्ब्रह्मणस्तज्ज्ञानस्य वा तदसाध्यत्वादित्यर्थः । कथमवैधं ब्रह्म, वैफल्यादकारकत्वाद्वा । नाद्यः, मुक्तिश्रुतेः । नेतरः, कर्मत्वादित्याशङ्क्य विदिक्रियायामुपास्तिक्रियायां वा तस्य कर्मतेति विकल्प्याद्यं दूषयति — न चेति । तद्ब्रह्म विदितात्कार्यादन्यदेवाथो कारणादप्यविदितादध्युपरिष्टादन्यदित्यर्थः । येन प्रमात्रेदं सर्वं वस्तु लोको जानाति तं केन करणेन जानीयात् , करणस्य ज्ञेयविषयत्वाज्ज्ञातर्यप्रवृत्तेः । तन्न ज्ञाता ज्ञेयः किन्तु साक्षीत्यर्थः । द्वितीयं प्रत्याह — तथेति । 'यद्वाचानभ्युदितं येन वागभ्युद्यते’ इत्यविषयत्वमुक्तवा ‘तदेव’ इति मातृत्वादिकल्पनामपोह्यात्मभूतं ब्रह्म महत्तममिति त्वं विद्धि । यदुपाधिविशिष्टं देवतादीदमित्युपासते जना नेदं त्वं ब्रह्म विद्धीत्यर्थः । शास्त्रोत्थशानाविषयत्वे ब्रह्मणि तत्प्रामाण्यप्रतिज्ञाहानिरिति चोदयति — अविषयत्व इति । शास्त्रीयज्ञानाधीनस्फुरणवत्त्वरूपकर्मत्वाभावेऽप्यविद्याध्वस्त्यतिशयवत्त्वाद्ब्रह्मणः शास्त्रीयत्वान्न प्रतिज्ञाहानिरित्याह — नेति । शास्त्रीयधीकृताविद्याध्वस्तिमत्त्वेन तत्कृतस्फुरणवत्त्वमपि घटादिवदित्याशङ्क्य तथैवेदन्धीविषयत्वापत्तेर्मैवमित्याह — नहीति । तर्हीदंप्रत्ययाविषयत्वादविद्याध्वस्तिमत्त्वमपि शून्यवन्नास्तीति नास्य शास्त्रीयतेत्याशङ्क्य अहमादिसाक्षिमात्रत्वेन ब्रह्मास्मीति बुद्धावाविर्भावयदविद्यामपनयति शास्त्रमिति तत्प्रामाण्यमित्याह — किं तर्हीति । तथापि कथमद्वयं ब्रह्म प्रतिपाद्यं वेद्यादिभेदादित्याशङ्क्याह — वेद्येति । तत्र श्रुतीरुदाहरति — तथा चेति । यस्य ब्रह्मामतमविषय इति निश्चयस्तस्य तन्मतं सम्यग्ज्ञातम् । यस्य तु मतं विषयतया ज्ञातं ब्रह्मेति धीर्नासौ तद्वेद, भेदधीमत्त्वादेवमेवेति नियमार्थमुक्तौ विद्वदविद्वत्पक्षावनुवदति — अविज्ञातमिति । विषयत्वेनाज्ञातमेव ब्रह्म सम्यग्जानतां ज्ञातमेव विषयतया यथावदजानतामित्यर्थः । दृष्टेश्चक्षुर्जन्यायाः कर्मभूताया द्रष्टारं स्वभावभूतया नित्यदृष्ट्या व्याप्तारं दृश्यया तया दृष्ट्या न पश्येः, विज्ञातेर्बुद्धिधर्मस्य निश्चयस्य विज्ञातारं साक्षिणं तथैव वेद्यया विज्ञात्या न विजानीया इति श्रुत्यन्तरमाह — न दृष्टेरिति । आदिपदेन ‘अदृश्येऽनात्म्ये’ ‘यत्तदद्रेश्यम्’ इत्यादि गृहीतम् । ननु यद्यैक्यधीः शास्त्रोत्था स्फूर्तिमनुत्पाद्याविद्याबाधया तज्जं ज्ञात्राद्यपि बाधित्वा ब्रह्मात्मन्यमेये स्वाभाविकापरोक्षव्यञ्जनेन निवर्तकतया स्थितेति ब्रह्मणि शास्त्रं प्रमाणन्तर्हि ध्वस्ताविद्यातज्जब्रह्मरूपस्यागन्तुकत्वान्न तदाप्तेर्मुक्तेर्नित्यतेत्याशङ्क्याह — अत इति । शास्त्रोत्थज्ञानादिति यावत् । स्वपक्षे ब्रह्मणः शास्त्रीयत्वं मोक्षस्य नित्यत्वं चोक्त्वा परपक्षे तदनित्यत्वं वक्तुं तस्योत्पाद्यत्वं, विकार्यत्वं प्राप्यत्वं संस्कार्यत्वं वेति विकल्प्य कल्पद्वये कार्यानुप्रवेशमङ्गीकरोति — यस्येति । तथेति मुक्तेर्विकार्यत्वे सत्युत्पाद्यत्ववत्कार्यापेक्षा युक्तेत्यर्थः । तर्हि कार्यानुप्रवेशायान्यतरपरिग्रहः स्यादित्याशङ्क्याह — तयोरिति । तदेव व्यतिरेकेण व्यनक्ति — नहीति । अनित्यत्वनिवृत्तये पूर्वसिद्धस्यैव ब्रह्मणो ग्रामादिवदाप्यतेति तृतीयमाशङ्क्याह — न चेति । ब्रह्म प्रत्यगन्यद्वा । प्रथमं प्रत्याह — स्वात्मेति । द्वितीयेऽपि ब्रह्म सर्वगतं परिच्छिन्नं वा । सर्वगतत्वेऽपि तत्प्राप्तिः संयोगस्तादात्म्यं वा । तत्राद्यं दूषयति — स्वरूपेति । तादात्म्यपक्षस्तु स्थितस्य नष्टस्य वान्यस्यान्यत्वायोगादुपेक्षितः । अविकृतदेशतया परिच्छिन्नत्वेऽपि ब्रह्मणः संयोगाख्या तत्प्राप्तिरनित्यत्वादयुक्ता । तादात्म्यं तूक्तन्यायनिरस्तम् । पक्षान्तरं निराह — नापीति । तदभावं वक्तुं संस्कारद्वैविध्यमाह — संस्कारो हीति । प्रकारप्रकारिप्रसिद्ध्यर्थौ निपातौ । गुणाधानेन मुक्तेर्न संस्कार्यतेत्याह — नेति । दोषनिरासेनापि न तस्याः संस्कार्यतेत्याह — नापीति । आगन्तुकगुणदोषयोरभावेऽपि नैसर्गिकाविद्यादोषात्तन्निवृत्त्या मुक्तेः संस्कार्यतेति शङ्कते — स्वात्मेति । वस्तुतः स्वात्मैव प्रतीत्या धर्मः सन्निति यावत् । स्वाभाविकस्यापि तिरस्कृतस्य क्रियातोऽभिव्यक्तौ दृष्टान्तमाह — यथेति । किमात्मा स्वाश्रयक्रियया दोषापनुत्त्या संस्क्रियते किं वान्याश्रयक्रिययेति विकल्प्याद्यं निरस्यति — नेति । आत्मनोऽसङ्गत्वान्न क्रियाश्रयत्वयोग्यतेत्ययुक्तं, क्रियावत्त्वमिच्छतां तद्योग्यत्वादित्याशङ्क्याह — यदाश्रयेति । आत्मनोऽपि विकारित्वमाशङ्क्याह — यदीति । न केवलमात्मनो विकारित्वे युक्तिविरोधः, अपित्वागमविरोधोऽपीत्याह — अविकार्य इति । ‘निष्कलं निष्क्रियम् ‘ इत्यादिश्रुतिसमुच्चयार्थश्चकारः । ‘न जायते म्रियते वा ‘ इत्यादिश्रुतिस्मृतिसङ्ग्रहार्थमादिपदम् । तच्चेति । आगमबाधनमनिष्टम् । वैदिकानामिति शेषः । आद्यपक्षायोगं निगमयति — तस्मान्नेति । द्वितीयं निराह — अन्येति । क्रियायाः स्वाश्रये तद्युक्ते वातिशयहेतुत्वात् , असङ्गस्यात्मनस्तदाश्रयबुद्ध्याद्यसम्बन्धात् , तन्निष्ठा क्रिया संस्कारमात्मन्याधातुमलमित्यर्थः । नान्याश्रया क्रियान्यं संस्करोतीत्यत्र व्यभिचारं शङ्कते — नन्विति । आदिपदं सन्ध्यावन्दनादिसङ्ग्रहार्थम् । आत्मनो देहाद्यतिरिक्तस्यापि देहादिष्वविद्याध्यासात्तदभिन्नस्यैव तत्क्रियया संस्कार्यत्वान्न व्यभिचार इत्याह — न । देहेति । अविद्यागृहीतस्येति । अविद्यया मनुष्योऽहमिति मिथ्याज्ञानदृष्टस्येत्यर्थः । देहाश्रयक्रियया देहसंहतस्य तदभिन्नस्यात्मनः संस्क्रियमाणत्वमुक्त्वा स्नानाचमनादिक्रियाया देहाश्रयत्वे मानमाह — प्रत्यक्षं हीति । असंहतात्मस्थक्रियया तस्यैव संस्कार्यत्वं किं न स्यादित्याशङ्क्याध्यक्षविरोधमाह — तयेति । कश्चिदित्यनिर्धारितविशेषमामुष्मिकफलोपभोगशक्तमस्तीत्येवं प्रतिपन्नं निर्दिशति । दृष्टान्तेनोक्तं स्पष्टयति — यथेत्यादिना । देहसंहतिफलं तदभिमानिन इत्युक्तं, आरोग्यमपि कस्मादसंहतात्मगं न स्यादित्याशङ्क्यानुभवविरोधादित्याह — अहमिति । संस्कारफलं शुद्ध इत्युक्तम् । आत्मनो यथोक्तबुद्धिमतोऽसंहतत्वमनुभवेन वारयति — स चेति । कथं तर्हि स्नानादीनां कर्तृसंस्कारत्वप्रसिद्धिरित्याशङ्क्य संहतस्यैव कर्तृत्वादित्याह — तेनेति । प्रयतेऽहमिति कर्तृत्वमनुभवितुरपि तुल्यमित्याशङ्क्याह — अहंप्रत्ययेति । अनुभवितुर्नित्यप्रकाशस्य न तद्विषयतेत्यर्थः । न केवलमस्याहन्धीमात्रे कर्तृत्वं किन्तु धीमात्र इत्याह — प्रत्ययिनेति । आत्मनो भोक्तुरेव कर्तृत्वमकर्तुर्भोगाभावादित्याशङ्क्याह — तत्फलं चेति । संहतस्य भोक्तृत्वे मानमाह — तयोरिति । जीवपरयोर्मध्ये जीवो नानारसं कर्मफलं भुङ्क्ते । असंहतस्याभोक्तृत्वे मानम् — अनश्नन्निति । परमात्मा स्वयमभुञ्जान एव पश्यन्वर्तते । संहतस्य भोक्तृत्वे वाक्यान्तरमाह — आत्मेति । आत्मीयं शरीरमात्मा । देहादिसंयुक्तमात्मानमित्यर्थः । यद्वात्मा भोक्तेत्याहुरिति सम्बन्धः । इन्द्रियेत्यादि क्रियाविशेषणम् । निर्गुणत्वान्निर्दोषत्वाच्च ब्रह्मात्मनि द्विधापि संस्कारो नेत्युक्तम् । इदानीं तस्मिन्गुणदोषयोरभावे मानमाह — तथाचेति । मूर्तित्रयात्मना भेदं प्रत्याह — एक इति । यथाहुः - ‘हरिर्ब्रह्मा पिनाकीति बहुधैकोऽपि गीयते ‘ इति अखण्डजाड्यं व्यावर्तयति — देव इति । आदित्यादिवैषम्यमाह — सर्वेति । तर्हि किमिति सर्वेषां न भाति, तत्राह — गूढ इति । तर्हि तत्तद्भूतावच्छिन्नत्वेन परिच्छिन्नत्वं, नेत्याह — सर्वव्यापीति । नभोवत्ताटस्थ्यं वारयति — सर्वभूतेति । सर्वेषु भूतेष्वन्तःस्थितस्य तत्तत्क्रियाकर्तृत्वं शङ्कित्वोक्तम् — कर्मेति । सर्वभूतेष्वित्यादिना भूतानां पृथगुक्तेः सद्वितीयत्वं, तत्राह — सर्वेति । सर्वेषां भूतानामधिवासोऽधिष्ठानम् । न च कल्पितमधिष्ठानादर्थान्तरमित्यर्थः । न परं कर्मणामेवाध्यक्षोऽपि तु तद्वतामपीत्याह — साक्षीति । तत्र चैतन्यस्वाभाव्यं हेतुमाह — चेतेति । केवलो दृश्यवर्जितोऽद्वितीयः । निर्गुणो ज्ञानादिगुणरहितः । चकारो दोषाभावसमुच्चयार्थः । ब्रह्मात्मनि गुणदोषाभावे मन्त्रान्तरमाह — स इति । स प्रकृतः ‘यस्य सर्वाणि भूतानि’ इत्यादावात्मा परितः समन्तादगात्सर्वगतः । शुक्रमित्यादिशब्दाः पुंलिङ्गत्वेन नेयाः ‘स’ इत्युपक्रमात् , ‘कविर्मनीषी’ इत्यादिना च पुंलिङ्गत्वेनोपसंहारात् । शुक्रो दीप्तिमानकायो लिङ्गदेहहीनः । अव्रणोऽक्षतोऽस्नाविरः शिरारहितस्ताभ्यां स्थूलदेहासत्त्वमुक्तम् । शुद्धो रागादिशून्यः । अपापविद्धो धर्माधर्मविधुरः । मन्त्रयोस्तात्पर्यमाह — एताविति । तथापि मोक्षस्य किमायातं, तदाह — ब्रह्मेति । मुक्तिब्रह्मणोरैक्यात्तत्र दोषाद्यभावान्न तस्याः संस्कार्यतेत्युपसंहरति — तस्मादिति । उत्पाद्यादिदृष्टान्तार्थोऽपिशब्दः । मुक्तेरुत्पत्त्यादिचतुष्टयं क्रियानुप्रवेशद्वारं मा भूत्पञ्चमं तु किञ्चिद्भविष्यति नियमाभावात् , नेत्याह — अत इति । उत्पत्त्यादिचतुष्टयमतःशब्दार्थः । तस्या लोकवेदप्रसिद्धत्वादित्यर्थः । मोक्षे क्रियाया अननुप्रवेशे तदर्थप्रवृत्त्यानर्थक्यमित्याशङ्क्य ज्ञानार्थत्वान्मैवमित्याह — तस्मादिति । क्रियानुप्रवेशद्वाराभावस्तच्छब्दार्थः । उपास्तेरपि मोक्षे साक्षात्प्रवेशो नेति वक्तुं गन्धमात्रस्येत्युक्तम् । बाह्यक्रियायास्तत्राप्रवेशे कैमुतिकन्यायार्थोऽपिशब्दः । मोक्षेज्ञानप्रवेशे तस्य क्रियात्वादस्त्येव तत्प्रवेशस्तत्रेति शङ्कते — नन्विति । तस्य मानसव्यापारत्वेऽपि न वैधक्रियात्वम् । ततो जन्यफलादजन्यफलत्वेन विशेषादित्याह — नेति । वैधक्रियात्वम् । वैधक्रिया यत्नेच्छासाध्या ज्ञानं न तथेत्यपरं विशेषमाह — क्रिया हीति । यत्र विषये या वस्त्वनपेक्षा चोद्यते तत्र सा क्रिया हि नामेति योजना । क्रियातद्धर्मप्रसिद्धार्थौ निपातौ । वस्तु चेन्न कारणं किं तर्हि तथा तदाह — पुरुषेति । वस्त्वनपेक्षा पुन्तन्त्रा च क्रियेत्यत्र दृष्टान्तद्वयमाह — यथेति । गृहीतमध्वर्युणेति शेषः । वषट्करिष्यन्निति होतोक्तः । सन्ध्यां तदभिमानिनीं देवतामित्यर्थः । ‘नाम ब्रह्मेत्युपासीत’ इत्यादिग्रहीतुमादिपदम् । एवमादिषु वाक्येषु वस्त्वनपेक्षं पुन्तत्त्रं च ध्यानं विधीयते तथा क्रियान्तरमपीत्यर्थः । ननु मानसत्वाविशेषाविशेषाद्ध्यानमपि ज्ञानमेवेति नास्य क्रियादृष्टान्तत्वम् , तत्राह — ध्यानमिति । ज्ञानस्यापि तुल्यं पुन्त्न्त्रत्वं तदाश्रयत्वात्तत्राह — ज्ञानं त्विति । प्रमाणद्वारा तस्य पुन्तन्त्रत्वमाशङ्क्याह — प्रमाणं चेति । ज्ञानस्यापुन्तन्त्रत्वे फलितमाह — अत इति । तर्हि ज्ञानस्य नित्यत्वं, नेत्याह — केवलेति । विशेषणकृत्यमाह — नेति । एवकारव्यावर्त्यमाह — नापीति । ज्ञानध्यानयोर्मानसक्रियात्वेऽपि गोबलीवर्दवद्भेदं मत्वा वैशेष्यं निगमयति — तस्मादिति । तच्छब्दार्थोऽपुन्तन्त्रत्वम् । ध्यानस्य वस्त्वनपेक्षत्वे दृष्टान्तावुक्त्वा तस्य तद्विरोधित्वे दृष्टान्तावाचष्टे — यथा चेति । सापि धीर्मानसत्वाज्ज्ञानमेवेत्याशङ्क्याह — केवलेति । न ज्ञानमिति तुशब्दार्थः । वस्त्वनधीनत्वं कैवल्यम् । एवकारोऽयोगव्यवच्छेदकः । उक्तबुद्धेरुक्तक्रियात्वनियमे हेत्वन्तरमाह — पुरुषेति । यथैतौ दृष्टान्तौ तथा क्रियान्तरमपीति यथाशब्दो नेयः । ज्ञानमपि योषिदादावग्निधीतुल्यमिति, नेत्याह — या त्विति । तस्यास्तर्हि किं कारणं, तदाह — किं तर्हिति । प्रकृतदृष्टान्तमपेक्ष्य प्रत्यक्षविषयपदम् । तेन युक्तमेव वैषम्यं वैधक्रियाधियोरित्याह — इति ज्ञानमिति । अध्यक्षधियोऽर्थजन्यतया तत्तन्त्रत्वेऽपि शब्दाद्यर्थधियस्तदभावाच्चोदनादिजन्यतेत्याशङ्क्याह — एवमिति । अनुमानादावर्थाजन्यत्वेऽपि लिङ्गादिजन्यत्वान्न चोदनाद्यपेक्षेति भावः । लौकिकधियश्चोदनाद्यनपेक्षत्वेऽपि ब्रह्मधीरलौकिकत्वात्तदपेक्षत इत्याशङ्क्य दार्ष्टान्तिकं निगमयति — तत्रेति । पूर्वोक्तरीत्या सम्यग्ज्ञाने वस्तुमात्रतन्त्रे सतीति यावत् । यथाभूतत्वं सदैकरूप्यम् । वैधक्रियातो वैशेष्योक्त्या ज्ञानस्याविधेयत्वमुक्तम् । तत्र ज्ञाने लिङादिश्रुत्या दृष्टविधेस्तर्कानिरस्यत्वादित्याशङ्क्याह — तद्विषय इति । तदेव ज्ञानं विषयः । तत्र यद्यपि लिङादयः श्रुतास्तथापि स्तुत्यर्थवादतया ‘विष्णुरुपांशु यष्टव्यः’ इत्यादिवदवतिष्ठन्ते । अनियोज्यमपुन्तन्त्रतया नियोगानर्हं नियोज्येन वा हीनं ज्ञानं तद्विषयत्वात्तेषामविधायकत्वादित्यर्थः । कुण्ठीभावे दृष्टान्तमाह — उपलादिष्विति । बिधेयज्ञानस्य कर्मणि ब्रह्मण्यतिशयाजनकत्वाच्च न विधेयतेत्याह — अहेयेति । अनुष्ठेयानुष्ठात्रोरभावाद्विध्यभावे श्रुतेरपि तदपेक्षत्वेनासम्भवाद्विधिशब्दवैयर्थ्यमिति शङ्कते — किमर्थानीति । यो द्रष्टव्यः स आत्मैवेति तत्त्वप्रतिपादकानि तानीत्यशङ्क्याह — विधीति । तेषामर्थवत्त्वं ब्रुवाणः समाधत्ते — स्वाभाविकेति । सङ्गृहीतं विभजते — यो हीति । बाहिर्मुख्यं शब्दादिप्रवणत्वम् । पुमर्थमुद्दिश्य प्रवृत्तेः श्रुत्या किमिति परावर्त्यते, श्रुतेरनर्थकरत्वापातात्तत्राह — न चेति । बाह्योऽर्थः सप्तम्यर्थः । किमिति तर्हि श्रुतिः सर्वानपि पुरुषान्नानुसरति, तत्राह — तमिति । अग्नेर्दाहप्रवृत्तिवदात्मनो विषयप्रवृत्तिरपि निरोद्धुमशक्येत्याशङ्क्याह — कार्येति । आत्मधियोऽनात्मदर्शने सत्यपि सम्भवात्किमिति ततो विमुखीकरणं, तत्राह — प्रत्यगिति । तत्र चेतसः स्रोतस्तदाभिमुख्यं तद्भावेनेति यावत् । सत्यनात्मदर्शने तत्प्रवणस्य चेतसो न प्रत्यगाभिमुख्यमित्यनात्मधीनिरासेन फलभूतात्मदृष्टिस्तावकतया तदाभिमुख्यायान्वयव्यतिरेकसिद्धा एवं श्रवणादयो विधिसरूपैर्वाक्यैरनूद्यन्ते । तेन विधिकार्यलेशलाभाद्विधिच्छायान्येतानि न विधय इत्यर्थः । अस्तु वा मुमुक्षुप्रवृत्तेर्वैधत्वाद्वाक्यभेदेन श्रवणादिविधिः तथापि वस्तुनो विध्ययोग्यत्वान्न तज्ज्ञाने विधिरित्याह — तस्येति । यदिदं ब्रह्मक्षत्रादि तत्सर्वमात्मैवेति बाधायां सामानाधिकरण्याद्द्वैताभावोक्त्यात्मनोऽद्वितीयत्वेन पूर्णत्वोक्तेर्न तत्र हेयत्वमादेयत्वं चेत्याह — इदमिति । अविद्यादशायामात्मनः सद्वितीयतया हेयत्वादिसिद्धिमाशङ्क्याङ्गीकुर्वन्विद्यावस्थायामात्मातिरिक्तक्रियाद्यभावान्न हेयत्वादीत्याह — यत्रेति । न केवलं विद्यावस्थायामेवात्मनि ज्ञात्रादिविभागाभावः किन्त्ववस्थान्तरेऽपीत्याह — विज्ञातारमिति । आत्मनः स्वविषये ज्ञेयत्वाभावेऽपि ब्रह्मणि तद्भावादादेयता तत्र स्यादित्याशङ्क्याह — अयमिति । आदिशब्द आत्मतत्त्ववादिसर्ववाक्यसङ्ग्रहार्थः । प्रतिपत्तिविधिशेषतयैव ब्रह्म शास्त्रीयमित्येतन्निराकृत्य तत्रैवसूचितं पूर्वपक्षमनुवदति — यदपीति । आत्मधियो हानाद्यनुपायत्वं, विफलत्वं वा । तत्राद्यमङ्गीकरोति — तथेति । द्वितीयं दूषयति — अलङ्कारो हीति । ब्रह्मात्मावगतेरुक्तफलत्वे मानं हिशब्दसूचितमाह — तथा चेति । अयं परमात्माहमस्मीत्यपरोक्षतया यदि कश्चित्पुरुषो जानीयात् । आत्मसाक्षात्कारदौर्लभ्यद्योती चेच्छब्दः । स स्वातिरिक्तमात्मनः किं फलमिच्छन्कस्य वा पुत्रादेः फलाय तदलाभेन शरीरं तप्यमानमनु तदुपाधिः सञ्ज्वरेत्तप्येत । निरूपाध्यात्मविदो नान्यदस्ति फलं नाप्यन्यः पुत्रादिरित्याक्षेपः । तत्रैव स्मृतिमाह — एतदिति । गुह्यतमं शास्त्रमेतत्तस्य बुद्धिः अर्थतः विधिशेषत्वेन ब्रह्मणो न शास्त्रगम्यतेत्युक्तमुपसंहरति — तस्मादिति । ज्ञानस्य विधेयत्वाभावस्तथाविधफलत्वं च तच्छब्दार्थः । प्रमाप्रमारूपधीमात्रविषयः प्रतिपत्तिशब्दः । तद्विधिविषयतयेति पूर्ववत् । यूपादिदृष्टान्तेन विधिशेषतया ब्रह्मणः शास्त्रगम्यत्वमुक्तं निरस्य प्रवृत्तिनिवृत्तीत्यादावुक्तमनुभाषते — यदपीति । किं वस्त्वेव नास्ति वेदान्तवेद्यं, तस्याप्रसिद्धत्वात्तदुद्दिश्य प्रतिपादनायोगात् , आहोस्वित्तस्य क्रियाशेषतेति विकल्प्याद्यं दूषयति — तन्नेति । औपनिषदस्य पुरुषस्येत्याद्यनिरासं सूचितं प्रपञ्चयति — योऽसाविति । तस्यापि चैतन्यात्कर्तृत्वेन क्रियाशेषत्वमाशङ्क्यानन्यशेषत्वादिति द्वितीयं निरासमुक्तं विवृणोति — असंसारीति । तत्र पूर्णत्वं हेतुमाह — ब्रह्मेति । कर्तृत्वेनानन्वयेऽपि क्रियायामात्मा कर्मत्वेनान्वेष्यतीत्याशङ्क्याह — उत्पाद्यादीति । विनियोजकमानाभावादपि नान्वयः । तद्धि प्रकरणं, वाक्यं वा । नाद्य इत्याह — स्वप्रकरणस्थ इति । पर्णतावद्वाक्यं विनियोजकमिति । द्वितीयं दूषयति — अनन्येति । आत्मनो जुह्वादिवदव्यभिचरितक्रतुसंबन्धाभावादित्यर्थः । पक्षद्वयनिरासं निगमयति — नासाविति । तस्य न क्रियाशेषत्वमपीति विवक्षितम् । वेदान्तवेद्यवस्तुनो निरासायोगे हेत्वन्तरमाह — स एष इति । यः खल्वात्मा ‘अथात आदेशः’ ‘नेति नेति’ इति विश्वदृश्यनिषेधेनोक्तः स एष पञ्चमेऽपि निरूप्यत इत्यत्र वस्तुन्यात्मशब्दात् , तस्य चात्मत्वादेवानिराकार्यत्वात् , तत्कर्तुरेवात्मत्वात्तत एव तस्योद्दिश्य प्रतिपाद्यत्वमपि सिध्यतीत्यर्थः । औपनिषदत्वं पुरुषस्यामृष्यन्नाशङ्कते — नन्विति । अहन्धीविषयत्वं दूषयन्विशेषणं समर्थयते — नेत्यादिना । संस्कार्यत्वनिरासे ‘साक्षी चेता’ इतिमन्त्रेणात्मनः सर्वसाक्षित्वमुक्तम् । तेनाहन्धीविषयत्वस्य प्रत्युक्तत्वादविरुद्धमौपनिषदत्वमित्यर्थः । तथापि कर्मकाण्डे तर्कशास्त्रे च सिद्धत्वान्न तस्यौपनिषदत्वम् , तत्राह — नहीति । तत्साक्षीति विधिकाण्डागम्यत्वोक्तिः । बौद्धसिद्धान्तेऽनधिगतिमाह — सर्वेति । सर्वेषु नश्यत्सु भूतेषु स्थितो न नश्यतीत्यर्थः । नैयायिकादिमते तदनधिगतिमाह — सम इति । निर्विशेष इत्यर्थः । साङ्ख्यसमयसिद्धत्वं निरस्यति — एक इति । चैतन्यान्तरशून्यत्वमैक्यम् । भर्तृप्रपञ्चादिमते प्रसिद्धिं प्रत्याह — कूटस्थेति । कौटस्थ्ये कथं कारणत्वम् , तत्राह — सर्वस्येति । सर्पाधिष्ठानरज्जोरिव ब्रह्मणोऽपि द्वैताधिष्ठानत्वात्कारणत्वमाविद्यकमिति भावः । अन्यतोऽनधिगतौ फलितमाह — अत इति । ज्ञाते हि बाधो नान्यथेत्यर्थः । विधिकाण्डानधिगतिफलमाह — विधीति । तत्र हेत्वन्तरमाह — आत्मत्वादिति । आत्मा सर्वशेषित्वान्नान्यशेषः स कथं विधिशेषः स्यादित्यर्थः । विधिकाण्डाज्ञातत्वमुक्तं समुच्चेतुं चशब्दः । किं च हेयोपादेयविषयौ विधिनिषेधौ नात्मनि विपरीते स्यातामित्याह — नेति । तस्यापि संसारिणोऽनाशितया हेयत्वमाशङ्क्योक्तम् — सर्वं हीति । निरवधिकनाशासिद्धेरित्यर्थः । संसारस्यैव नाशो न पुरुषस्येति वक्तुं विकारजातमित्युक्तम् । घटादेर्मृदादौ नाशात्कथं पुरुषावधिः सर्वस्य नाशस्तत्राह — पुरुष इति । कल्पितस्यानधिष्ठानत्वात्पुरुषो नित्यसत्स्वभावस्तदधिष्ठानत्वेन विश्वोदयव्यहेतुरित्यर्थः । पुरुषस्य परिणामिनित्यत्वात् , परिणामोदयव्ययाभ्यां हानादाने स्यातामित्याशङ्क्याह — विक्रियेति । सावयवत्वादिस्तद्धेतुः । अशुद्धत्वादित्यागेन शुद्धत्वादेरादेयत्वं शङ्कित्वाह — अत इति । आत्मनि स्वतो धर्मतश्चानन्यथात्वमतःशब्दार्थः । पुरुषावधिर्नाशः सर्वस्येत्यत्र श्रुतिमाह — तस्मादिति । कल्पितस्याकल्पितमधिष्ठानमित्युक्तयुक्तिपरामर्शी तच्छब्दः । यथेन्द्रियादिभ्यो नैवं पुरुषादस्ति किञ्चित्परं सा पुरुषाख्या काष्ठा सूक्ष्मत्वमहत्त्वादेरवधिः सैव परा गतिः परमपुरुषार्थ इत्यर्थः । निरतिशयस्वतन्त्रतया विध्यशेषत्वे श्रुतिरुक्ता । मानान्तरागम्यतया वेदान्तैकवेद्यत्वे श्रुतिमाह — तं त्विति । यस्त्वदुक्तसविशेषब्रह्मणः ‘पृथिव्येव यस्यायतनम् ‘ इत्युपक्रम्योक्तमधिष्ठानं तमौपनिषद्भिरेव ज्ञेयं पुरुषं त्वा त्वां पृच्छामि । हे शाकल्येति याज्ञवल्क्यस्य प्रश्नः । विशेषणाभिप्रायं विवृणोति — औपनिषदत्वेति । औपनिषदत्वेऽनन्यशेषत्वे चात्मनः सिद्धे परस्य प्रतिज्ञा निर्मूलेत्याह — अत इति । तथा हीत्यादौ वेदान्तानामर्थवत्त्वमभियुक्तोक्तिविरुद्धमित्युक्तमनुवदति — यदपीति । तस्यान्यविषयत्वं वदन्प्रकृताविरोधित्वमाह — तद्धर्मेति । 'दृष्टो हि तस्यार्थः फलवदर्थबोधनम् ‘ इति वक्तव्ये धर्मजिज्ञासाप्रक्रमाद्धर्मकर्मणोश्चैक्याद्यदुक्तं कर्माबोधनं तद्विधिनिषेधविवक्षयोक्तम् । यत्तु चोदनासूत्रे चोदनापदव्याख्यानं तदप्रतिकूलं, पदार्थमात्रकथनात् । परीष्टिसूत्रप्रमुखमपि सूत्रजातं पूर्वसूत्राभ्यां तत्तद्भाष्यैश्च सह प्रकमवशात्कर्मकाण्डार्थमेवातो ब्रह्मबोधनमिति वेदैकदेशस्य फलमित्युपनिषदर्थवत्तेत्यर्थः । अर्थवादाधिकरणविरोधं विधान्तरेण निरस्यति — अपि चेति । तत्र खल्वक्रियार्थत्वे सत्यानर्थक्यं भूतोपदेशविशेषस्य वा । तन्मात्रस्य वा । तत्राद्यमुपेत्य द्वितीयं प्रत्याह — आम्नायस्येति । 'वषट्कर्तुः प्रथमभक्षः’ देवदत्तो भुक्त्वा निर्गत इत्यादिभूतोपदेशस्य सम्बन्धयोग्यतावाचिविभक्तियुक्तस्य द्रव्यादिवाचिनः साक्षात्कार्यार्थत्वाभावात्फलवदर्थराहित्यम् । अतोऽविशेषात्कार्योपदेशस्यापि तत्प्रसक्तिरित्यर्थः । उक्तभूतोपदेशेऽपि कर्तव्यादिपदाध्याहारात्कार्यशेषद्रव्याद्यर्थतया फलवदर्थसिद्धिरिति शङ्कते — प्रवृत्तीति । तत्साध्यातिरेकेण भूतमपि द्रव्यादिवस्तु वषट्कर्तुरित्यादिवाक्यमध्याहृतकार्यशेषत्वेनाभिदधाति, भूतभव्यन्यायात् । अतो भूतोपदेशस्यार्थवत्त्वान्नातिप्रसक्तिरित्यर्थः । कार्यान्वितस्वार्थाभिधानेऽपि योग्यान्विताभिधानात्तेनैव कार्यास्पृष्टवस्तूपदेशोऽपि स्यादित्याह — कूटस्थेति । ननु न तादृगस्ति वस्तु, सर्वस्योपदिश्यमानभूतस्य कार्यस्पर्शितया कार्यत्वात् , तत्राह — नहीति । क्रिया कार्यम् । भूतस्य तत्संसर्गस्तादात्म्यं फलफलिभावो वा । नाद्यः, क्रीयाद्वारा हेतुहेतुमद्भावाभ्युपगमात् । द्वितीयेऽपि न तयोरैक्यं फलफलित्वस्य भेदकत्वादित्यर्थः । भूतस्याकार्यत्वेऽपि तद्धेतुत्वात्तच्छेषत्वात्तदुपदेशोऽपि तच्छेष एव, गामानयेत्यादावाद्यव्युत्पत्तेः कार्यान्वितविषयत्वात् , अतो न कूटस्थोपदेशोऽस्तीति चोदयति — अक्रियात्वेऽपीति । कार्यस्याकार्यान्तरात्कार्यपदस्य तदन्वितार्थावाचित्वाद्योग्येतरान्वयस्यैव सर्वपदशक्तिविषयत्वात्पुत्रजन्मादिवाक्ये वाद्यव्युत्पत्तेरकार्यार्थेऽपि दृष्टेर्भूतोक्तेरकार्यार्थत्वात्कूटस्थोक्तिः स्यादित्याह — नैष इति । उक्तरीत्या भूतोक्तेर्न कार्यार्थत्वम् । अस्तु वा तत्सापेक्षत्वाद्द्रव्यादेस्तदुक्तेस्तादर्थ्यं तथापि यत्कार्यनिवर्तनशक्तिमद्भूतं तदुक्तमेव । न च तत्कार्यं, तद्धेतुत्वात् । तस्य कार्यान्वयेऽपि न तदन्वयित्वं वाच्यत्वनिमित्तं, कार्यस्य तदभावेऽपि वाच्यत्वात् । अतो योग्यान्वितद्रव्यादेस्तच्छब्दवाच्यत्ववत्कार्यानन्वितस्यापि वस्तुनो वेदान्तार्थतेत्यर्थः । तथापि कार्यशेषत्वेनैवान्यत्र भूतोक्तेर्न स्वतन्त्रभूतोक्तिरित्याशङ्क्याह — क्रियार्थत्वमिति । भूतोपदेशस्य कार्यशेषत्वं फलवत्त्वायेष्टम् । न च कार्यस्य वाच्यकोटिनिवेशोऽस्तीत्यर्थः । कार्यार्थत्वेन भूतोक्तौ कार्यशेषेऽपि कथं सिद्धे शब्दप्रामाण्यं, तत्राह — न चेति । भूतोपदेशस्य कार्यशेषत्वमात्रेण तदशेषभूतं भूतं नैवानुपदिष्टं, तदुपदेशस्याज्ञातार्थगन्तृत्वेनाध्यक्षादिवन्मानत्वादित्यर्थः । अज्ञातार्थोपदेशित्वेऽपि वेदान्तानामकार्यशेषत्वेन वैफल्यान्न प्रामाण्यं, वाक्यप्रामाण्यस्य फलाधीनत्वादिति शङ्कते — यदीति । भूतं यद्युपदिष्टमुपदिश्यतां नाम तथापि किं तेनोपदिष्टेन तव श्रोतुर्वक्तुर्वा स्यादिति योजना । कार्योपदेशवदज्ञातात्मोपदेशात्मकं वेदान्तवाक्यमनन्यशेषत्वेऽपि फलवत्त्वेन मानमित्याह — उच्यत इति । कार्यशेषोपदेशस्य कार्यफलेन फलवत्त्वात्प्रामाण्येऽपि कथमात्मोपदेशस्य फलवत्त्वेन तथात्वमित्याशङ्क्याह — तदवगत्येति । मिथ्या च तदज्ञानं चेति विग्रहः तस्य भ्रान्तित्वं व्यवच्छिनत्ति — संसारेति । वेदान्तप्रामाण्यं फलवत्त्वेन सदृष्टान्तमुक्तं निगमयति — इत्यविशिष्टमिति । विधिवाक्यस्थद्रव्यादिशब्दानां शुद्धसिद्धार्थतामित्थमापाद्य तथैव ब्रह्म शाब्दमित्युक्तम् । इदानीं निषेधवाक्यवद्वेदान्तानां सिद्धार्थतेत्याह — अपि चेति । कृतेर्भावार्थविषयत्वान्निषेधेषु भावार्थाभावात्कृतिनिवृत्तौ तदविनाभूतं कार्यमपि निवर्तत इति मत्वाह — ब्रह्मण इति निवृत्तिरेव कार्यं तद्धेतुर्वेति कुतो निषेधानामकार्यार्थतेत्याशङ्क्याह — न चेति । प्राप्तक्रियानिवृत्तित्वात्तस्या नोभयार्थत्वम् । विमतं, न कार्यं, तद्धेतुर्वा, निवृत्तित्वात् , घटनिवृत्तिवदित्यर्थः । निवृत्तेरुभयभावाभावेऽपि किमायातं तदुपदेशानां, तदाह — अक्रियेति । अकार्यार्थानमिति यावत् । ननु ‘न हन्तव्यः’ इत्यत्र हननं न कुर्यादिति न वाक्यार्थः किं त्वहननं कुर्यादिति । ततो हननविरोधिनी सङ्कल्पक्रिया हननं न कुर्यामित्येवंरूपा कार्यतया विधीयते, तेन निषेधवाक्यमपि नियोगनिष्ठमेव, नेत्याह — न चेति । स्वभावतः शास्त्रादृते रागादेव प्राप्तो यो हन्तेर्धातोरर्थो हननं तेन नञोऽनुरागः सम्बन्धो यदा तदा भवत्यहननमिति । तत्कार्यमित्युक्ते हननविरोधिनी सङ्कल्पक्रिया, हननप्रवृत्तेर्विधारको यत्नो वा कार्यत्वेन विधीयते विना विधिमप्राप्तत्वात् । तथा च तथाविधक्रियाविधिनिष्ठं निषेधवाक्यमिति कल्पयितुं नैव शक्यमित्यर्थः । क्क तर्हीदं वाक्यं त्वन्मते पर्यवसितं, तदाह — हननेति । औदासीन्यं स्वास्थ्यादप्रच्युतिः स्वतोऽपि स्यादिति प्रसक्तक्रियानिवृत्त्योपलक्ष्यं विशिनष्टि — हननेत्यादिना । तस्मिन्पर्यवसितमस्मन्मते निषेधवाक्यम् । तद्व्यतिरेकेणार्थान्तरं तस्याशक्यं वक्तुमित्यर्थः । तत्र हेतुमाह — नञश्चेति । चकारोऽवधारणे । एष एव च नञः स्वभावो यत्प्रतियोगिनोऽभावबोधनम् । न च तदन्यतद्विरोधिनोरपि तदर्थत्वं, अभावार्थस्यैव तस्य स्वार्थसम्बन्धिन्यर्थान्तरे लाक्षणिकत्वे तत्रापि शक्तिकल्पनायां गौरवात् । ‘नामधात्वर्थयोगी तु नैव नञ् प्रतिषेधकः । वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिनौ ‘ इत्यपि लक्षणयैवार्थान्तरे नञः प्रवृत्तिरुक्तेति भावः । तर्हि नञर्थे हननाभावे नियोगात्तन्निष्ठं वाक्यमित्याशङ्क्याह — अभावेति । भावार्थो दध्यादिर्वा नियोगविषयतया तन्निष्पत्तिहेतुर्नाभावः, तस्यानादित्वात्तद्विषयत्वे नियोगस्याननुष्ठेयत्वापातात् । न चैतत्प्रागभावपालनं कार्यं, स्वास्थ्यादप्रच्युतिरूपौदासीन्यादेव तत्सिद्धेः । नञोऽर्थो दृष्टः सन्नौदासीन्यं पुंसः स्थापयत्यतोऽनुष्ठेयाभावान्न नियोगनिष्ठं वाक्यमित्यर्थः । यद्वा न निषेधवाक्ये प्रकृत्यर्थेन नञः सम्बन्धोऽपि तु प्रत्ययार्थेन, तस्य प्राधान्यात्प्रकृत्यर्थस्यान्योपसर्जनत्वात् । अतो हननस्य यदिष्टोपायत्वं प्रवर्तकं तदेव प्रत्ययेनानूद्य नञा निषिध्यते, ब्रह्महननमिष्टोपायो नेति । तथा चौदासीन्ये पुरुषः स्थास्यति, तदाह — अभावेति । प्रत्ययार्थेन नञः सम्बन्धे कथं प्रकृत्यर्थस्य हननक्रियाया निवृत्तिः, तत्राह — सा चेति । प्रत्ययार्थेष्टोपायतानिषेधे प्रकृत्यर्थः स्वयमेव निवर्तते आपाततो हितोपायत्वबुद्ध्या प्रवृत्तस्व ततोऽधिकतरानर्थहेतुत्वबुद्धौ प्रवृत्त्ययोगादित्यर्थः । निषेधवाक्यानामित्थमर्थमुक्त्वा सिद्धार्थत्वमुपसंहरति — तस्मादिति । भावार्थाभावे कृत्यभावात्तदविनाभूतकार्याभावस्तच्छब्दार्थः । प्रकृत्यर्थस्य हननादेरिष्टोपायत्वं भ्रान्तिप्राप्तं प्रत्ययेनानूद्य नञा तन्निषेधे तस्यानर्थहेतुत्वबोधिनिषेधवाक्यं तन्निवृत्त्युपलक्षितौदासीन्ये पर्यवस्यतीत्यर्थः । ननु ‘नेेक्षेतोद्यन्तमादित्यम् ‘ इत्यादावीक्षणविरुद्धा सङ्कल्पक्रिया नेक्ष इत्येवंलक्षणा विधीयते, तथात्रापि हननविरूद्धा न हन्यामिति सङ्कल्पक्रिया विधीयतां, तत्कथं निषेधवाक्यस्योक्तार्थत्वं, तत्राह — अन्यत्रेति । तत्र हि ‘तस्य ब्रह्मचारिणो व्रतम् ‘ इत्यनुष्ठेयवाचिव्रतशब्दोपक्रमादेकस्मिन्वाक्ये प्रक्रमाधीनत्वादुपसंहारस्याख्यातान्वितेन नञा दृष्टोऽपि निषेधोऽननुष्ठेयत्वादुपेक्ष्यते । धात्वर्थयोगेन च पर्युदासो लक्ष्यते । तथा चेक्षणविरुद्धा क्रिया सामान्येन प्राप्ता, तद्विशेषबुभुत्सायां सर्वक्रियाप्रत्यासन्नः सङ्कल्प इत्यवगतम् । ईक्ष इति तु सङ्कल्पो नाद्रियते, तत्पर्युदासविरोधात् । अतोऽनीक्षणसङ्कल्पलक्षणया तद्विधिपरत्वं युक्तम् । नैवं निषेधेष्वपवादकमस्तीति विरोधिक्रियालक्षणया नानुष्ठाननिष्ठतेत्यर्थः । आदिपदं समस्तपर्युदासविषयसङ्ग्रहार्थम् । हननादावुद्युक्तपरश्वादिपरावर्तनस्य तन्निवृत्तित्वात्तद्भावे हननादिप्रागभावपालनसम्भवादुक्तनिवृत्तेश्च नञर्थधीफलत्वात्तदर्थो हननादिगतेष्टोपायत्वाभाव एवेति द्रष्टव्यम् । ननु निषेधवाक्यवदकार्यार्थत्वेऽपि वेदान्तानामर्थवत्त्वं चेदर्थवादाधिकरणं कथमित्याशङ्क्य क्रियासंनिहितार्थवादादिविषयं तदित्याह — तस्मादिति । उपनिषदामुक्तरीत्यार्थवत्त्वं तच्छब्दार्थः । उपाख्यानशब्दः समान्यार्थः । आदिशब्दस्तद्विशेषार्थः । आम्नायस्य क्रियार्थत्वादितिहेतोस्तद्बलेनाक्रिायर्थानामप्रामाण्यपूर्वपक्षस्य विध्येकवाक्यत्वेन प्रामाण्यसिद्धान्तस्य चोपलक्षणार्थमानर्थक्याभिधानमित्युक्तम् । सर्वेषामेषामुक्तविषयत्वाविशेषादुपनिषदामपि पुरुषार्थानवसायित्वादर्थवादाधिकरणविषयतेत्याशङ्क्य पूर्वपक्षोक्तमनुवनदि — यदपीति । तत्रोक्तं परिहारं स्मारयति — तदिति । उक्तं वैषम्यं शङ्कते — नन्विति । ज्ञानमात्रादूर्ध्वं वा संसारित्वं, तत्त्वसाक्षात्काराद्वा । तत्राद्यमङ्गीकुर्वन्नाह — अत्रेति । द्वितीयं निरस्यति — नेत्यादिना । तत्प्रपञ्चयति — नहीति । शाब्दज्ञानाभ्याससंस्कृतं चेतो ब्रह्मात्मसाक्षात्कारहेतुरिति पक्षं प्रतिक्षेप्तुं वेदेत्यादिपदम् । तत्त्वसाक्षात्कारवतो दुःखानुदये दृष्टान्तमाह — नहीति । तस्यैव सांसारिकसुखानुत्पादे दृष्टान्तमाह — नचेति । तत्त्वविदो देहाद्यभिमानहीनस्य सांसारिकसर्वधर्मास्पर्शे मानमाह — तदुक्तमिति । जीवतोऽशरीरत्वं मम माता वन्ध्येतिवद्विरुद्धमिति शङ्कते — शरीर इति । आत्मनो देहसङ्गतेराविद्यकत्वात्तत्त्वज्ञानेन तद्ध्वस्तेर्जीवतोऽपि युक्तमशरीरत्वमित्याह — नेत्यादिना । तस्याविद्यकत्वमन्वयव्यतिरेकाभ्यां साधयति — न हीति । अशरीरत्वस्य स्वतस्त्वादपि जीवतस्तदविरुद्धमित्याह — नित्यमिति । आत्मनः सशरीरत्वमज्ञानादित्युक्तममृष्यन्नाशङ्कते — तत्कृतेति । न ह्यात्मन इत्यत्र प्रकृतात्मा तच्छब्दार्थः । आत्मनो देहसम्बन्धाद्धर्मादिकर्तृत्वं, स्वतो वा । आद्ये तस्य तद्योगः स्वतोऽन्यतो वा । नाद्यः, तत्कृतधर्मादिनिमित्तं सशरीरत्वमित्युक्तिविरोधात् । न द्वितीयः, तस्याविद्यामनिच्छतो वस्तुत्वोपगमाद्धर्मादिकर्तृकत्वादृते तस्यातन्निमित्तत्वाद्देहे धर्मादिकार्यदृष्टेस्तदसिद्धौ तद्द्वारा धर्मादेरात्मकृतत्वासिद्धेरित्याह — नेत्यादिना । स्यादात्मकृतधर्माद्यपेक्षया तस्य देहयोगे तद्द्वारा तयोरात्मकृतत्वमित्याह — शरीरेति । ननु प्राक्तनकर्मनिमित्तं सम्प्रतितनं शरीरं, तच्च कर्म प्राक्तनदेहयोगाधीनं, सोऽपि प्राचीनकर्मणेति नेतरेतराश्रयत्वम् । न चानवस्था, बीजाङ्कुरवत्कर्मदेहयोगयोरनादित्वात् , तत्राह — अन्धेति । आत्मनि कर्मयोगस्य देहयोगस्य वाऽविद्यमानत्वादित्यर्थः । आत्मनः स्वतो धर्मादिकर्तृतेतिपक्षं प्रत्याह — क्रियेति । कूटस्थानन्तचिद्धातोरक्रियत्वात्तस्य स्वतो धर्माद्यकर्तृत्वान्न तत्कृतकर्मकृतमात्मनः सशरीरत्वमित्यर्थः । स्वगतक्रियाभावेऽपि कारकेषु संनिधिमात्रेणास्य कर्तृतेति दृष्टान्तेन शङ्कते — संनिधीति । वैषम्योक्त्या प्रत्याह — नेति । उपार्जनं स्वीकरणम् । अस्तु प्रस्तुतेऽपि किञ्चिद्धनदानादितुल्यं सम्बन्धनिमित्तमित्याशङ्क्यासङ्गत्वादात्मनो वस्तुतस्तस्यायोगादवस्तुत्वे त्वन्मतहानिरिति मत्वाह — नत्विति । स्वकृतधर्मादिकृतात्मनः सदेहतेत्येतदप्रामाणिकमित्युक्त्वा स्वपक्षे मानमाह — मिथ्येति । ननु ममेतिधीसक्तमधिकारिणं कर्तारं चोद्दिश्य यागादिविधेश्चेतनस्यैव कर्तृत्वम् । यथाहुः - ‘यजमानत्वमप्यात्मा सक्रियत्वात्प्रपद्यते । न परिस्पन्द एकैका क्रिया नः कणभोजिवत् ॥ ‘ इति, तत्राह — एतेनेति । क्रियाधारत्वनिरासेनेत्यर्थः । देहादावात्मधीर्मिथ्येत्यत्र मीमांसकश्चोदयति — अत्रेति । आत्मनः स्वकीये देहादावात्मधी राज्ञो भृत्यादाविव गौणी ततः स्वीयदेहादिनिमित्तं तस्य कर्तृत्वादि वास्तवमित्यर्थः । नात्मनो देहादावात्मधीर्गौणी, तद्व्यापकाभावादित्याह — नेति । प्रसिद्धो वस्तुभेदो यस्य पुंसस्तस्येति यावत् । उक्तमेव व्यनक्ति — यस्येति । तस्यान्यत्रान्यशब्दप्रत्ययौ गौणाविति सम्बन्धः । तत्रोदाहरणम् — यथेति । तत्रैव सिंहशब्दस्तद्धीश्च, नान्यत्रेत्यन्वयव्यतिरेकौ । अन्यः पुरुषादिति शेषः । ततश्च । सिंहादित्येतत् । यः सिंहपुरुषयोरुक्तरीत्या भेदं वेत्ति तस्येति षष्ठी नेया । यथा सिंहः पुमानित्युदाहरणं तथाग्निर्माणवक इत्यादि ग्राह्यमिति यथाशब्दो योज्यः । शब्दधियोरगौणत्वविषयमाह — नेति । न प्रसिद्धो भेदो यस्य तस्य पुंसोऽन्यत्रान्यशब्दप्रत्ययौ न गौणौ चेत्कथं तर्हि तस्यान्यत्रान्यशब्दप्रत्ययावित्याशङ्क्याह — तस्य त्विति । तत्र संशये समारोपितांशगतौ शब्दप्रत्ययावुदाहरति — यथेति । पुरोवर्तिनः स्थाणुत्वेऽपि स्थाणुरयमित्यगृह्यमाणविशेषत्वे हेतुमाह — मन्देति । तत्र पुरुषशब्दप्रत्ययौ पाक्षिकाविति शेषः । वस्तुतः स्थाणुविषयत्वं, न प्रतीतितः । प्रतीतितस्त्वारोपितविषयत्वम् । संशये समारोपितगतौ पाक्षिकौ शब्दप्रत्ययावुदाहृत्य विपर्यये तथाविधौ निश्चितावुदाहरति — यथा वेति । शुक्तिकायामिति वस्तुप्रवृत्त्योक्तम् । संशये विपर्यये च दृष्टहेतुसाधारणधर्मदर्शनादेः समत्वाद्विपर्ययस्यैवोत्पत्तौ को हेतुरित्याशङ्क्याह — अकस्मादिति । दृष्टहेत्वविशेषेऽप्यदृष्टवशादित्यर्थः । दृष्टान्तमिथुनस्य दार्ष्टान्तिकमाह — तद्वदिति । अविवेकिनां देहादावहन्धीशब्दयोर्मिथ्यात्वेऽपि विवेकिनां तत्र तौ गौणावित्याशङ्क्याह — आत्मेति । अविविक्तावविवेकोत्थभ्रान्तिकृताविति यावत् । आत्मीयेऽपि देहादावात्मबुद्धावात्मीयत्वं तिरोहितं सर्पबुद्धाविव रज्जुत्वमिति मत्वा परमतनिरासमुपसंहरति — तस्मादिति । तत्राहन्धियो मिथ्यात्वेऽपि किं सिध्यति, तदाह — तस्मान्मिथ्येति । न केवलं विदुषो जीवतोऽप्यशरीरत्वं यौक्तिकं किन्तु श्रौतं चेत्याह — तथा चेति । ‘अत्र ब्रह्म समश्नुते’ इति पूर्ववाक्ये जीवन्मुक्तिरुक्ता स जीवन्मुक्तो देहस्थोऽपि पूर्ववन्न संसारीत्यत्र दृष्टान्तमाह — तद्यथेति । तत्तत्र जीवन्मुक्तदेहे जीवन्मुक्ते च दृष्टान्तः । यथा लोकेऽहिनिर्ल्वयनी सर्पनिर्मोकस्तदीया देहत्वग्वल्मीकादौ प्रत्यस्ता प्रक्षिप्ता मृता पूर्वमिवाहिनात्मत्वेनानिष्टा वर्तेत तथैवेदं विदुषः शरीरं मुक्तेन प्रागिवात्मत्वेनानिष्टं तिष्ठतीत्यर्थः । सर्पदृष्टान्तस्य दार्ष्टान्तिकमाह — अथेति । तथार्थोऽथशब्दः । यथा प्रत्यस्तया त्वचा मुक्तोऽपि तामहमिति नाहिरभिमन्यते, तथायं जीवन्मुक्तो देहस्थोऽपि न तत्राहन्धियमादधाति । अत एवामृतः । देहाभिमानवतो हि मृतिः । निरुपाधिः सन्प्राणिति जीवतीति प्राणः साक्षीः । स च ब्रह्मैव । तच्च तेजो विज्ञानं ज्योतिरेवेत्यर्थः । तत्रैव श्रुत्यन्तरमाह — सचक्षुरिति । वस्तुतोऽचक्षुरपि बाधितानुवृत्त्या सचक्षुरिवेत्यादि योज्यम् । श्रौतेऽर्ये स्मृतिमपि संवादयति — स्मृतिरपीति । विदुषो जीवन्मुक्तौ प्रमितायां फलितमाह — तस्मान्नेति । प्रमितं जीवन्मुक्तिसत्वं तच्छब्दार्थः । प्रतीतिमात्रशरीरं संसारित्वमनुजानाति — यथेति । ननु ब्रह्मविदामेवास्माकं संसारित्वमबाधितमनुभूयते, नेत्याह — यस्येति । साक्षात्कृतसत्तत्त्वस्य पूर्वमिव संसारित्वायोगाद्युक्ता वस्तुमात्रोक्ते रज्जुस्वरूपोक्तिवदर्थवत्तेत्युपसंहरति — अनवद्यमिति । वेदान्तेषु नास्ति वस्तुमात्रोक्तिः, मननादिविधिशेषत्वेन ब्रह्मोक्तेरित्याशङ्क्योक्तमनुवदति — यत्पुनरिति । श्रुतमात्रस्य मननादियोगो नावगतस्येत्याह — नेत्यादिना । वेदान्तानामेकरसे ब्रह्मणि शक्तितात्पर्यनिश्चयः श्रवणम् । तस्मिन्नेव श्रुत्यनुसारिण्या युक्त्या सम्भावनाधानं मननम् । श्रुते मते च बुद्धेः स्थैर्यं निदिध्यासनम् । तेषामैक्यापरोक्षप्रतीतिव्यञ्जकत्वे तच्छेषत्वान्नावगतमन्यत्र विनियुक्तमित्यर्थः । अवगतस्यान्यत्राविनियोगेऽपि ब्रह्मणो विधिशेषत्वं किं न स्यात् , तत्राह — यदीति । ब्रह्मणि मितेऽमिते वा तद्धियो विध्यसिद्धेरापातदृष्टेः साक्षात्कारार्थं श्रवणादिषु विहितेषु तेभ्यस्तद्भावान्न तस्य विधिशेषतेत्युपसंहरति — तस्मान्नेति । न च वस्तुप्रकरणे श्रवणादिविध्ययोगः, वाक्यभेदोपगमात् । न च ‘तद्विषये लिङादयः’ इत्यादिभाष्यविरोधः, तस्य ज्ञानविधिनिरासार्थत्वात् । अत एवात्र प्रतिपत्तिशब्दः । न चैवं वेदान्तानां श्रवणादिविधिपरत्वं, वाक्यभेदस्योक्तत्वात् । न चान्वयादिसिद्धहेतुभावेषु तेषु न विधिः, अवघातेऽपि तदभावापातात् । नियमादृष्टस्योभयत्र तुल्यत्वात्सर्वापेक्षाधिकरणात्तस्य ज्ञानोत्पत्त्युपयोगादिति भावः । उक्तेऽर्थे सूत्रं संयोजयति — अत इति । विधिशेषत्वेन शास्त्रप्रमाणकत्वासिद्धिरित्यतःशब्दार्थः । वेदान्तानां विध्यनपेक्षसिद्धबोधित्वे शास्त्रारम्भभेदं प्रमाणयति — एवं चेति । विधिशेषत्वेन ब्रह्मार्पणेऽपि शास्त्रं पृथगारभ्येतेत्याशङ्क्याह — प्रतिपत्तीति । नन्वाद्ये काण्डे बाह्यक्रियाविधिरधिगतः, मानसज्ञानविधिविचाराय काण्डान्तरमारभ्यते, नेत्याह — आरभ्यमाणं चेति । देहादिसाध्यकर्मविचारानन्तर्यमथेत्युक्तम् । तस्यैव चित्तशुद्धिद्वारा ज्ञानविधिविचारोपयोगितातःशब्दार्थः । तत्र चातुर्थिकमुदाहरणमाह — अथात इति । तृतीये श्रुत्यादिभिः शेषशेषित्वे सिद्धे सत्यनन्तरं शेषिणैव शेषस्य प्रयुक्तिसम्भवात्को नाम क्रतवे प्रकुरुते को वा पुरुषार्थायेति क्रत्वर्थपुरुषार्थयोर्जिज्ञासा ज्ञातुमिच्छा प्रवृत्तेति चतुर्थादौ प्रतिज्ञासूत्रवदिदमपि ब्रूयात् । न चैवं ब्रवीति । तस्मान्नोक्तविभागधीरित्यर्थः । त्वन्मतेऽपि कथं पृथगारम्भः शास्त्रस्येत्याशङ्क्य मेयफलभेदादित्याह — ब्रह्मेति । स्वातन्त्र्येण ब्रह्मात्मैक्यनिष्ठत्वे वेदान्तानां तदेव तात्त्विकमिति कथं द्वैतालम्बनस्य विधिकाण्डस्याध्यक्षादेश्च मानतेत्याशङ्क्योपसंहरन्परिहरति — तस्मादिति । अद्वैतधियो भेदाधिष्ठानमानविरोधित्वं तच्छब्दार्थः । इतिना ज्ञानं परामृष्टम् । तस्मादित्युक्तं हेतु व्यनक्ति — नहीति । तत्त्वसाक्षात्कारे तदज्ञानध्वस्तौ तदुत्थमात्रादिसर्वभेदध्वस्तेरविद्यावस्थायामेवाशेषो व्यवहार इत्यर्थः । कार्यास्पृष्टे सिद्धे ब्रह्मण्यद्वये सिद्धा वेदान्तमानतेत्युपसंहर्तुमितिशब्दः । न केवलमस्माभिरयमर्थोऽभ्युपगतः किं त्वन्यैरपि ब्रह्मविद्भिरित्याह — अपि चेति । सत्पारमार्थिकमबाधितं ब्रह्माहमित्येवं बोधे जाते पुत्रदेहादेः सक्ताबाधनान्मायामात्रत्वावगमादयमहमेवेति पुत्रादावहमभिमानस्य गौणात्मनो मनुष्योऽहमिति देहादावहमभिमानस्य च मिथ्यात्मनोऽसत्त्वे कार्यं कथं भवेत् । तन्निमित्ताभावाद्विधिविधेयादिव्यवहारो न कथञ्चिदित्यर्थः । यद्यात्मा सद्ब्रह्मैव कस्तर्हि प्रमाता । यद्ययमेव कथं तर्हि ब्रह्मतास्येत्याशङ्क्याह — अन्वेष्टव्येति । ‘य आत्मापहतपाप्मा’ इत्यादिश्रुतिसिद्ध आत्मान्वेष्टव्यः, ‘सोऽन्वेष्टव्यः’ इति श्रुतेः । तद्विज्ञानात्पूर्वमात्मनो मातृत्वं, प्रमातैवान्विष्टः सन्निर्दोषः परमात्मा स्यात् । अतोऽन्वयव्यतिरेकाभ्यामात्मनो मातृत्वमाविद्यकमित्यर्थः । तस्याविद्यकत्वे कथमध्यक्षादीनां श्रुतेश्च मानता, कारणदोषादित्याशङ्क्याह — देहेति ।
यथा देहातिरिक्तात्मवादे कल्पितापि देहात्मत्वधीर्व्यवहाराङ्गतया मानमिष्यते तथा तत्त्वसाक्षात्कारपर्यन्तं व्यवहाराङ्गत्वाद्व्यवहारे बाधाभावाच्चाध्यक्षाद्यतत्त्वावेदकमपि व्यावहारिकं मानम् । श्रुतेस्तु वर्णदैर्घ्यादिवदात्मधीहेतोस्तात्त्विक्येव मानतेत्यर्थः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 इति चतुःसूत्री समाप्ता । वेदान्ता यथोक्ते ब्रह्मणि प्रमाणं न वेति सिद्धार्थज्ञानात्फलभावाभावाभ्यां सिद्धमर्थं रूपादिहीनं बोधयतो वाक्यस्य सापेक्षत्वानपेक्षत्वाभ्यां वा संशये पूर्वाधिकरणद्वितीयवर्णकेनाक्षेपलक्षणां सङ्गतिं विवक्षन्नुत्तरसूत्रव्यावर्त्यपक्षमाह — कथमिति । 'सदेव’ इत्यादितत्तदाम्नायाधीतसर्वोपनिषदां स्फुटब्रह्मलिङ्गानां ब्रह्मणि समन्वयसाधनादत्र श्रुत्यादिसङ्गतयः । फलं तु पूर्वपक्षे परिशुद्धब्रह्मबुद्ध्यभावात्तदर्थिनामुपनिषत्स्वप्रवृत्तिः । सिद्धान्ते शुद्धब्रह्मबुद्धिसिद्धौ मुमुक्षूणामुपनिषत्सु यत्नाधिक्यमिति विवेक्तव्यम् । कथमित्याक्षेपे हेतुर्यावतेति । ‘वायुर्वै क्षेपिष्ठा देवता’ इत्यादयोऽर्थवादा विध्युद्देशार्थवादयोर्मिथोपेक्षणाद्विध्युद्देशेनैकवाक्यतया धर्मे प्रमाणं न वेति संशये पूर्वपक्षयति — अाम्नायस्येति । सर्वस्य वेदस्य विधिनिषेधार्थवादमन्त्रनामधेयात्मकस्य कार्यतच्छेषार्थताध्रौव्यात् , यानि वाक्यानि कार्यं वा तच्छेषं वा नाचक्षीरन् किन्तु शुद्धं सिद्धमर्थमभिदधीरन् , अतदर्थानां तेषामानर्थक्यं - फलवदभिधेयवैधुर्यमतोऽनित्यमनियतं सापेक्षमेवोच्यते वेदस्य प्रामाण्यमित्युक्तत्वात् यथा श्रुतिगृहीतानामर्थवादानां सन्तमसन्तं वा भूतमर्थं वदतां तदुक्त्यैव नैराकाङ्क्ष्यात्कार्याध्याहारासिद्धेः ‘ स एवैनं भूतिं गमयति’ इति विशिष्टार्थावेदनेनैवावसानात् , ‘वायव्यं श्वेतमालभेत’ इत्यनेनैकवाक्यत्वाभावात् , मुख्यार्थसम्भवे प्राशस्त्यलक्षणायोगात् , आख्यायिकात्मनामपि लोके शब्दानां दर्शनात् तेषां फलवदर्थावबोधानियमात् , अध्ययनविधेरक्षरावाप्त्या दृष्टार्थत्वात् , विध्युद्देशस्यापि विशिष्टार्थविधिना चरितार्थत्वात् , मिथोपेक्षाभावादर्थवादानर्थक्यात् , तत्तुल्यमन्त्रादेरपि तथात्वात् , एषां धर्मप्रमापकत्वात् , एतद्युक्तचोदनानामप्रामाण्यात् , अप्रमाणं सर्वो वेद इति प्राप्ते ‘विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः’ इति सूत्रेण सिद्धान्तमाह — क्रियेति । 'वायव्यं श्वेतमालभेत भूतिकामः’ इत्येवमन्तेन विध्युद्देशेन सह ‘वायुर्वै क्षेपिष्ठा’ इत्याद्यर्थवादानां क्षिप्रदेवतासाध्यं कर्म क्षिप्रमेव फलं दास्यतीति प्राशस्त्यार्थेनैकवाक्यात्वात् तत्र प्रकृतविध्यपेक्षितमर्थंं वदन्तोऽर्थवादादयोऽर्थवन्तः स्युरित्युक्तः, अध्ययनविधेर्दृष्टार्थत्वात् , अक्षरावाप्तेरफलत्वात् , फलवदर्थावसायिताया वेदमात्रस्य वाच्यत्वात् , अर्थवादानां च भूतार्थवेदने फलानवसायात् , आख्यायिकात्मकलौकिकशब्दानामफलत्वस्यानिष्टत्वात् विध्याकाङ्क्षितप्राशस्त्यलक्षणया तदेकवाक्यत्वात् , विधेरेव प्रवृत्तौ प्राधान्येऽपि तदनुग्राहकतया स्तुत्यपेक्षणात् तदेकवाक्यानामर्थवादानां तथैव प्रामाण्यात् मन्त्रादेरपि स्वाध्यायविधिना फलवत्त्वसिद्धेः, विशिष्टार्थबोधिप्रधानवाक्यार्थे प्रामाण्यात् तद्युक्तचोदनानामपि तद्भावात् , युक्तं सर्वस्यैवाम्नायस्य क्रियातच्छेषविषयत्वेन प्रामाण्यम् । तदेवं पूर्वोत्तरपक्षाभ्यां शास्त्रमात्रस्य कार्यपरत्वं प्रमाणलक्षणे स्थितमित्यर्थः तथापि वेदान्तेषु किं जातमित्याशङ्क्य यावतेत्यस्यापेक्षितमाह — अत इति । अर्थमात्रदृष्टेरानर्थक्यं फलवदभिधेयराहित्यं, अक्रियार्थत्वात् । कार्यतच्छेषवाचित्वाभावादित्यर्थः । अध्ययनविधिविरोधादानर्थक्यमयुक्तमित्याशङ्क्याह — कर्त्रिति । फलसङ्ग्रहार्थमादिपदम् । उक्तं हि - ‘क्रत्वर्थकर्तृप्रतिपादनेनोपनिषदां नैराकाङ्क्ष्यम् ‘ इति । कर्मप्रकरणोत्तीर्णोपनिषदां कुतस्तद्विधिशेषतेत्याशङ्क्याह — उपसनादीति । आदिशब्देन श्रवणादयो गृह्यन्ते । ननु वेदान्तानां न क्रियाविधिशेषत्वं, उपक्रमोपसंहारैकरूप्यादिलिङ्गैर्ब्रह्मणि तात्पर्यसिद्धेस्तत्राह — नहीति । मानान्तरयोग्ये ब्रह्मणि वेदान्तानां न तात्पर्यम् । तत्संवादेऽनुवादितया तद्विसंवादे च स्पर्शनधीविरोधिचित्रनिम्नोन्नतचाक्षुषधीवद्विरोधादेव तेषामतद्बोधित्वादित्यर्थः । परिनिष्ठितेऽर्थे वेदान्ताप्रामाण्ये हेत्वन्तरमाह — तदिति । नहि भूतार्थप्रतिपादने क्कचिद्धानमुपादानं वा, तयोः प्रवृत्तिनिवृत्त्यायत्तत्वात् , तयोश्च विधिनिषेधाधीनत्वात् , तयोरपि कर्यविषययोः सिद्धेऽर्थेऽसम्भवात् । अतस्तद्वादस्याफलत्वात्फलाधीनतात्पर्याभावान्न वेदान्ता भूतेऽर्थे मानम् । न च क्रियानपेक्षं भूतं वस्तु फलं तद्धेतुर्वा, सुखदुःखाप्तिहानितद्धेतुत्वादृष्टेरित्यर्थः । मानान्तरसिद्धसिद्धार्थबोधित्वायोगात्तद्बोधस्य चाफलत्वात् । न चेद्वेदान्तास्तत्र प्रमाणं कथं तर्हि तेषामर्थवत्तेत्याशङ्क्यार्थवादाधिकरणसिद्धान्तं स्मारयति — अत एवेति । वेदान्तानां मन्त्रवत्पृथगर्थसम्भवात् किमित्यर्थवादवद्विधिना पदैकवाक्यतेत्याशङ्क्य मन्त्रवदेव तर्हि विधिभिर्वाक्यैकवाक्यता तेषामित्याह — मन्त्राणां चेति । अर्थवादाधिकरणं परिसमाप्य मन्त्रेषु चिन्तावतारिता प्रमाणलक्षणे - ‘इषे त्वा’ इत्यत्र ‘छिनद्मि’ इत्यध्याहारेण शाखाच्छेदप्रतीतेः ‘अग्निर्मूर्धा’ इत्यादौ च तद्धेतुदेवतादिदृष्टेः, ‘इषे त्वा’ इत्यादयो मन्त्राः श्रुत्यादिना क्रतौ विनियुक्तविषयाः । ते किमुच्चारणमात्रेणादृष्टं कुर्वन्तस्तत्रोपकुर्वन्ति आहोस्विद्दृष्टेनैवार्थप्रकाशनेनेति संशये मन्त्राणां दृष्टार्थत्वे स्वाध्यायकालसिद्धतदर्थस्य चिन्तादिना स्मृतिसम्भवात् , तावन्मात्रार्थवतां तेषां नित्यवदाम्नानानर्थक्यात् , मन्त्रैरेवार्थप्रत्यायननियमात् , . अदृष्टकल्पने तदुच्चारणादेव पुरुषव्यापारगोचरात्तन्नियोगविषयात्तत्कल्पनस्य युक्तत्वात् उच्चारणमात्रेणादृष्टं कुर्वन्तोऽमी क्रतावुपकुर्वन्तीति पूर्वपक्षमाह - ‘तदर्थशास्त्रादिति । ‘ ‘इषे त्वेति छिनत्ति’ इत्यध्याहारात् क्रियोक्तिसमर्थो मन्त्रस्तत्रैवैनं मन्त्रम् ‘इषे त्वेति शाखामाच्छिनत्ति’ इति शास्त्रं निबध्नात्यर्थोक्त्या क्रतूपकारे तदर्थशास्त्रानर्थक्यात् । तस्मात्तदुच्चारणमात्रेणैव क्रतावुपकारितास्येत्यर्थः । ‘मन्त्रैरेव देवतादि स्मर्तव्यम् ‘ इति नियमस्य दृष्टार्थाभावात् , अदृष्टार्थकल्पनेऽपि मन्त्रोच्चारणस्य तदर्थस्मारकत्वेन दृष्टार्थत्वात् , अर्थस्मृतेश्च प्रयोगार्थत्वात् , प्रयोगाच्च फलोदयात् , दृष्टे सत्यदृष्टकल्पनायोगात् , तदर्थशास्त्रस्य च परिसङ्ख्यार्थत्वात् , दृष्टेनैवार्थप्रकाशनेन मन्त्राणां क्रतूपकारितेति सिद्धान्तमाह - ‘अविशिष्टस्तु वाक्यार्थः’ इति । लोकवेदयोः शब्दानामर्थाविशेषात् , लोके फलवदुच्चारणदृष्टेः वेदेऽपि मन्त्रोच्चारणस्य तथात्वात् , अप्रकाशिते यज्ञे तदङ्गे च यागासिद्धेः, तदर्थयज्ञादिप्रकाशनेन कर्मण्युपकारो मन्त्राणामित्यर्थः । तदेवं वेदान्तानामपि मन्त्रवत्कर्मतद्धेतुवादित्वेन विधिभिर्वाक्यैकवाक्यतया कर्मसमवायित्वं सिद्धवत्कृत्य मन्त्राधिकरणं प्रवृत्तमिति भाष्यार्थः । कर्मकाण्डीयमन्त्राणां विधिभिर्वाक्यैकवाक्यत्वेऽपि प्रकरणान्तरस्थवेदान्तानां स्वार्थनिष्ठत्वेनैव प्रामाण्यमित्याशङ्क्याह — नेति । विधिनिषेधार्थवादमन्त्रनामधेयाधिकारान्ग्रहीतुं क्वचिदपीत्युक्तम् । अदृष्टापि युक्तिवशादेष्टुं शक्येत्याशङ्क्य न हि परिनिष्ठितेत्यादिनोक्तं मत्वाह — उपपन्ना वेति । 'पूषा प्रपिष्टभागः’ इत्यत्र यागाविनाभूतद्रव्यदेवताबुद्ध्या यागविधिकल्पनावद्वेदान्तानामपि स्वार्थे विधिं परिकल्प्यार्थवत्त्वसम्भवे किं कर्मविधिशेषत्वेनेत्यशङ्क्याह — न चेति । 'दध्ना जुहोति’ इत्यादाविव सिद्धेऽप्यर्थे विधिः स्यादित्याशङ्क्याह — क्रियेति । तत्र भावार्थस्यान्यतो लब्धत्वात् तदनुवादेन विधेः सङ्क्रान्तत्वात् , विना भावार्थं शुद्धस्य सिद्धस्य विध्यविषयतेति भावः । वार्तिककारमतमुपसंहरति — तस्मादिति । तत्रारुचिं सूचयित्वा मतान्तरं निगमयति — अथेत्यादिना । मतद्वयेऽपि संमतमर्थमुपसंहरति — तस्मान्नेति । पूर्वपक्षमनूद्य सिद्धान्तसूत्रमवतारयति — इति प्राप्त इति । सूत्रस्थं नञ्पदं व्याचष्टे — नेति । तत्र सौत्रमेव हेतुमाह — अशब्दं हीति । ‘सदेव’ इत्यत्र सच्छब्दस्य सच्छब्दत्वान्नाशब्दत्वमित्याह — कथमिति । सौत्रं पदमवतार्य व्याकरोति — ईक्षतेरिति । अनुमेयं प्रधानं हित्वा तदनुवादिश्रुतिसिद्धस्य कथं कारणत्वमित्याह — कथमिति । कार्येण कारणमात्रमनुमातुं शक्यं न तद्विशेषः । तत्र श्रुतिरेव मानमिति मत्वाह — एवंहीति । श्रुतोपादानस्य चेतनार्थत्वमाह — तदैक्षतेति । केचिदीक्षितारमीश्वरं सद्वितीयं सङ्गिरन्ते, तान्प्रत्याह — एकमेवेति । तस्योपादानार्थत्वमाह — बहु स्यामिति । ईक्षणफलमाह — तदिति । तदाकाशं वायुं च सृष्ट्वा तेजः सृष्टवदित्यर्थः । श्रुतेरनुमितार्थानुवादित्वव्युदासार्थमर्थमाह — तत्रेत्यादिना । उक्तश्रुतिः सप्तम्यर्थः । छन्दोगश्रुतिवदैतरेयश्रुतिरपि प्रधानवादविरोधिनीत्यह — तथेति । मिषच्चलत् । सत्त्वाक्रान्तमिति यावत् । प्रश्नश्रुतिरपि प्रधानकारणतां वारयतीत्याह — क्वचिच्चेति । 'स प्राणमसृजत प्राणाच्छ्रद्धां खंवायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च’ इत्युक्ताः षोडशकलाः । ‘इक्शितपौ धातुनिर्देशे’ इति स्मरणादीक्षतेरिति श्तिपा धातुस्वरूपकथनान्न तस्य चेतनोपादानत्वसाधनतेत्याशङ्क्याह — ईक्षतेरितीति । विषयिणा विषयस्य लक्षणादित्यर्थः । प्रसिद्धा चेयं लक्षणेत्याह — यजतेरितिवदिति । सप्तमे स्थितम् - ‘इतिकर्तव्यताविधेर्यजतेः पूर्ववत्त्वम् । ‘ इतिकर्तव्यतायाः सौर्यादिषु विकृतिष्वविधानादनितिकर्तव्यताकत्वे प्राप्ते प्रत्युच्यते - यथा लोके शाकादिषु सिद्धेषु वदन्त्योदनं पचेति, तथेह सिद्धवत्कृत्य सामान्येनेतिकर्तव्यताकरणं विहितं तस्याश्च विकृतिष्वविधेः सौर्यादीनां विकृतियागानां दर्शादिप्रकृतिविहितपूर्वेतिकर्तव्यतावत्त्वमिति । तत्र यथा यजतेरिति यागो गृहीतस्तथेहापीक्षतेरितीक्षणमित्यर्थः । ईक्षतेरित्युक्तेरर्थपरत्वे वाक्यान्तराण्यपि प्रधानपक्षप्रतिक्षेपायात्र सूचितानि भवन्तीत्याह — तेनेति । सामान्यतः सर्वज्ञो विशेषतः सर्वविदिति भेदः । ज्ञानमयं ज्ञानात्मकं तपो न त्वायासरूपम् । एतद्ब्रह्म जायमानं हिरण्यगर्भाख्यं कार्यम् । नाम देवदत्तादि । रूपं नीलपीतादि । अन्नं व्रीहियवादि । आदिपदेन ‘ज्ञःकालकालो गुणी सर्वविद्यः स कारणम्‘ इत्यादि गृहीतम् । सिद्धान्तमुपपाद्य परोक्तमनुवदति — यत्त्विति । प्रधाने गुणानां तुल्यतया सत्त्वकार्यस्य ज्ञानस्यैवासम्भवे सर्वज्ञत्वं दूरनिरस्तमित्याह — तन्नेति । औपचारिकं सर्वज्ञत्वमुक्तं स्मारयति — नन्विति । सत्त्वस्य सूक्ष्मरूपेण ज्ञानहेतुत्ववदितरयोरपि तेनात्मना तत्प्रतिबन्धकत्वान्न सर्वज्ञतेत्याह — तदपीति । केवलसत्त्ववृत्तेर्ज्ञानत्वमुपेत्य सत्त्वधर्मेण तेन न सर्वज्ञतेत्युक्तम् । इदानीं न केवला सत्त्ववृत्तिर्ज्ञानं किन्तु तदभिव्यक्तश्चित्प्रकाशः, तथाविधज्ञानवत्त्वं च न प्रधानस्येत्याह — अपिचेति । तर्हि प्रधानमेव चिदात्मना परिणतमवच्छेदकवृत्त्यात्मना विपरिणंस्यते, नेत्याह — न चेति । हेतुरचेतनस्येत्युक्तः । प्रधानस्यासर्वज्ञत्वमुक्तं निगमयति — तस्मादिति । अचेतनस्याज्ञातृत्वं तच्छब्दार्थः । परोक्तं दृष्टान्तं विघटयति — योगिनां त्विति । सत्त्वोत्कर्षोऽपि चेतनस्योपकरोति नाचेतनस्य प्रधानस्य, अन्धस्येवादर्शोत्कर्ष इत्यर्थः । सेश्वरसाङ्ख्यमतमाह — अथेति । यस्य स्वतो नेक्षितृत्वं तस्य कथं तदन्यकृतमपि स्यादित्याशङ्क्याह — यथेति । लाघवेन सिद्धान्तयति — तथेति । सिद्धान्ते परोक्तामनुपपत्तिमनुभाषते — यत्पुनरिति । तस्य मुख्यं सर्वज्ञत्वं प्रतिजानीते — अत्रेति । तत्र परोक्त्यनुपपत्तिं निरसितुं पृच्छति — इदमिति । प्रकृत्यर्थाभावात्प्रत्यार्थाभावाद्वा ब्रह्मणोऽसर्वज्ञतेति प्रश्नमेव प्रकटयति — कथमिति । प्रथमं प्रत्यह — यस्येति । उक्तं व्यतिरेकद्वारा विवृणोति — अनित्यत्वे हीति । द्वितीयं शङ्कते — ज्ञानेति । स्वतो नित्यस्यापि ज्ञानस्य तत्तदर्थावच्छिन्नस्य कार्यत्वात्तत्र स्वातन्त्र्यं प्रत्ययार्थो ब्रह्मणः सिध्यतीत्याह — नेत्यादिना । वैषम्यं शङ्कते — नन्विति । ब्रह्मणोऽपि विषयसम्बन्धे जानातीति स्यादित्याशङ्क्याह — नत्विति । यत्र स्वातन्त्र्यं तत्र क्रियाश्रयत्वमेवाव्यभिचारादिति दूषयति — न । असत्यपीति । प्रकाशतेरकर्मकत्वात्तथाव्यपदेशेऽपि जानातेः सकर्मकत्वात्कर्माभावे तथाव्यपदेशो न स्यादित्यशङ्क्याह — कर्मेति । प्रकृत्यर्थवत्प्रत्ययार्थस्यापि बाधाभावात्सुतरामित्युक्तम् । यथा कुम्भकारस्य व्याचिकीर्षिताकारस्य स्वोपाध्यन्तःकरणपरिणतिरीक्षणं तथा ब्रह्मणोऽप्यविद्यायाः स्वोपाधेरनादिप्रवृत्तसर्गसंस्कारायाः प्रलयहेतुकर्मक्षयोत्थापितसंस्कारादिनिमित्तवशेन सर्गोन्मुखा परिणतिरीक्षणम् । ततोऽन्यस्य मुख्यस्यासम्भवादिदमेव मुख्यम् । तत्र चास्यादिकर्तुरस्ति कर्तृतेति भावः । नन्वपेक्षितं कर्म ब्रह्मणो भिन्नमभिन्नं वा । आद्ये तदद्वैतहानिः, द्वितीये सर्वज्ञत्वासिद्धिरित्याह — किमिति । ‘तन्नामरूपाभ्यामेव’ इत्यादिश्रुतेः सर्वस्य कार्यप्रपञ्चस्य नामरूपात्मकत्वात्तयोश्च ब्रह्मणो भेदाभेदाभ्यां दुर्भणत्वान्नैवमित्याह — तत्त्वेति । प्रागेव तयोः सत्त्वे सर्गासिद्धिमाशङ्क्याह — अव्याकृत इति । तयोस्तथास्वाभाव्ये कुतः सृष्टिरित्याशङ्क्योक्तम् — व्याचिकीर्षिते इति । निरीश्वरवादिनं प्रति ब्रह्मणः सर्वज्ञत्वमुक्त्वा सेश्वरवादिनं प्रत्याह — यत्प्रसादादिति । ‘ततः प्रत्यक्चेतनाधिगमोऽन्तरायाभावश्च’ इति योगसूत्रस्य ‘भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णाति ज्ञानवैरग्यादिना ‘ इति तद्भाष्यस्य च दृष्टेर्योगशास्त्रविद इत्युक्तम् । अपिना सूचितं कैमुतिकं न्यायमाह — किम्विति । तथा च सेश्वरवादे ब्रह्मणः सार्वज्ञ्यमनायासलभ्यमिति शेषः । जीवस्येवेश्वरस्यापि ज्ञानानुगुणहेत्वपेक्षामनुवदति — यदपीति । वस्तुतो नित्यस्य स्वतो हेत्वनपेक्षत्वान्नैवमित्याह — न तदिति । तदेव व्यतिरेकेण साधयति — अपि चेति । अविद्या मिथ्याज्ञानम् । आदिशब्देनास्मितादिरुक्तः । ननु संसारिणोऽपि ज्ञानस्य नित्यत्वात्तत्र हेत्वपेक्षा स्याच्चेदीश्वरस्यापि स्यादभेदादित्याशङ्क्याविद्यं भेदमादाय विशेषमाह — न ज्ञानेति । सोऽपि ज्ञानप्रतिबन्धकारणवानितरवच्चेतनत्वात् । अतस्तस्यापि देहाद्यपेक्षा ज्ञानोत्पत्तिरित्याशङ्क्य कालात्ययापदिष्टत्वमाह — मन्त्रौ चेति । चकारः शङ्कानिरासार्थः । कार्यं शरीरं करणमिन्द्रियजातं, समः समानजातीयोऽभ्यधिको विजातीयो दृश्यत इति नञान्वितं द्वयं मानाभावपरम् । सत्त्वासत्त्वादिनानवगाह्यत्वं परत्वम् । शक्तिर्मूलकारणं माया तस्या विविधत्वमाकाशाद्यशेषाकारत्वम् । ऐतिह्यमात्रसिद्धा सा न प्रामाणिकीति वक्तुं श्रूयत इत्युक्तम् । उक्तमायानुसारित्वं स्वाभाविकत्वं, ज्ञानमेव बलं तेन क्रिया जगतः सर्गाद्या सा च स्वाभाविकीति । अपाणिरपि ग्रहीता, अपादोऽपि जवनो वेगवद्विहरणवान् , अचक्षुरपि पश्यति, अकर्णोऽपि शृणोति । किं बहुना सर्वमपि वेदनयोग्यं कार्यकरणानपेक्षो वेत्ति । पर्यवसितं तस्मिन्वेदितृत्वमतो न तस्यान्यो वेदितास्ति, नित्यस्फुरणत्वाच्च । तं चादिकर्तारं महान्तमाचक्षते ब्रह्मविदः । न च तन्महत्त्वमापेक्षिकमिति पुरुषपदम् । अविद्यादिमतः संसारिणो देहाद्यपेक्षा ज्ञानोत्पत्तिर्नेश्वरस्येत्यत्रापसिद्धान्तं शङ्कते — नन्विति । न केवलमपराद्धान्तादीश्वरादन्यो न संसारी किन्तु श्रुतिविरोधादपीत्यह — नेति । व्यतिरिक्ते संसारिण्यसति विभागोक्तिरयुक्तेति फलितमाह — तत्रेति । स्वाभाविकमौपाधिकं वान्यत्वं नास्तीति विकल्पयति — अत्रेति । तत्राद्यमङ्गीकरोति — सत्यमिति । द्वितीयं प्रत्याह — तथापीति । तत्कृतमन्यत्वं चेष्टमेवेति शेषः । अपरिच्छिन्नस्य परिच्छिन्नोपाधिसम्बन्धे दृष्टान्तमाह — घटेति । विमतौ तत्त्वतो भिन्नौ, अपुनरुक्तशब्दधीगम्यत्वात् , घटादिवदित्याशङ्क्य व्यभिचारमाह — तत्कृतश्चेति । उपाधिसम्बन्धस्तच्छब्दार्थः । हेतुमदाकाशे साध्यं व्यावर्तयति — आकाशेति । तस्य तत्त्वतो भेदाभावेऽपीति यावत् । परापरोस्तात्त्विकभेदाभावे कथं तत्प्रथेत्याशङ्क्याह — तत्कृतेति । पूर्ववत्तच्छब्दः । दृष्टान्तस्थमर्थं दार्ष्टान्तिके योजयति — तथेति । चिदात्मा सप्तम्यर्थः । विशिष्टोपाधियोगादविवेकस्तेन कृतेत्येतत् । व्योमादावनात्मनि भ्रान्तिसम्भवेऽपि कथमात्मनि स्वप्रकाशे स्यादित्याशङ्क्याह — दृश्यते चेति । तत्त्वतोऽतिरिक्तस्यैव सत आत्मन इति योजना । तत्र कारणमाह — मिथ्येति पूर्वभ्रान्तेरेव संस्कारद्वारोत्तरभ्रान्तिकारणत्वमवधारयितुं तन्मात्रग्रहणं न, किन्तु तद्धेतोर्विचारासहत्वं वक्तुम् , अतो हेत्वन्तरमविरुद्धम् । उपाधिद्वारा चिदात्मनि संसारित्वेऽपि प्रकृते किं जातं तदाह — सति चेति । ईश्वरस्यासंसारिणो महाकाशस्थानीयस्य तदनपेक्षमीक्षितृत्वमिति शेषः । प्रधानस्य परोक्तं सर्वज्ञत्वं निरस्य ब्रह्मणस्तदुपपत्तिरुक्ता । सम्प्रति प्रधानस्यैव कारणत्वयोग्यतेत्युक्तमनुवदि — यदपीति । तस्य कारणत्वं शब्दतस्तर्कतो वा । नाद्य इत्याह — तदिति । द्वितीयं निरस्यति —
यथा त्विति ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 शास्त्रार्थं चतुर्भिः सूत्रैः सङ्क्षिप्य वक्ष्यमाणाधिकरणानामपुनरुक्तमर्थं वक्तुं वृत्तं सङ्कीर्तयति — एवमिति । तेषां तत्फलत्वे हेतुः — तात्पर्येणेति । कार्यान्विते ब्रह्मणि तात्पर्यं तेषामित्याशङ्क्याह — अन्तरेणेति । समन्वयसूत्रार्थमनूद्यातीतसूत्रत्रयार्थमनुवदति — ब्रह्म चेति । उक्ते लक्षणे तदतिव्याप्तिशङ्कायां निरासस्य सावकाशत्वाद्ब्रह्मणो जिज्ञास्यस्य लक्षणमपि शास्त्रीयस्योक्तमित्यर्थः । तस्मिन्ब्रह्मणि सिद्धे समन्वये समन्वयाध्यायसमाप्तेरुत्तरसन्दर्भानर्थक्यमित्याह — साङ्ख्यादयस्त्विति । सिद्धेऽर्थे मानत्वविरोधिकार्यानुप्रवेशे प्रत्युक्तेऽपि ब्रह्मण्येव समन्वयो नान्यत्रेत्यनिर्धारणाद्ब्रह्मकारणताविरोधिप्रधानादिवादनिरासायोत्तरसन्दर्भ इत्यर्थः । परिनिष्ठितस्य मानान्तरगम्यत्वे तत्संवादादिना तत्र वेदान्ताप्रामाण्यान्न ततो जगद्धेतुर्ब्रह्म सिध्यतीति चेत्तर्हि केन मानेन तद्धेतुधीरित्याशङ्क्योक्तम् — प्रधानादीनीति । का तर्हि वेदान्तानां गतिः, परार्थानुमानतेत्याह — तत्परतयेति । हेत्वाद्यनुक्तेस्तेषां न परार्थानुमानतेत्याशङ्क्याह — सर्वेष्विति । ‘तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ’ इत्यादिष्वनुमानता भातीत्यर्थः । कार्यलिङ्गकमनुमानं ब्रह्मैव गमयिष्यतीत्याशङ्क्य सुखदुःखमोहात्मकं कार्यं तादृगेव कारणमनुमापयतीत्याह — प्रधानेति । तस्याचेतनस्य स्वार्थाभावात्पुमर्थप्रवृत्तौ पुंसि मानं वाच्यमिति मत्वाह — पुरुषेति । बुद्धौ यः प्रतिबिम्बः, स तादृशबिम्बपूर्वकः, प्रतिबिम्बत्वात् , दर्पणे मुखाभासवदित्यर्थः । सम्बन्धाभावे तादर्थ्यायोगात्तत्रापि मानाकाङ्क्षायां, विमतं चेतनसंयुक्तम् , अचेतनत्वात् , द्रव्यादिवदिति बुद्ध्या संयोगग्रहणम् । मतान्तरमाह — काणादास्त्विति । ‘यतो वा इमानि’ इत्यादिवाक्येभ्यो यच्छब्दोपबन्धेन सिद्धवज्जगद्धेतुपरामर्शात् , यत्कार्यं तद्बुद्धिमत्कर्तृकमिति सामान्यतोदृष्टादीश्वरं कल्पयन्तीत्यर्थः । स्वपरिमाणादल्पपरिमाणारब्धं पटादि दृष्ट्वाद्यमपि कार्यं तथेति समवायित्वेन चतुर्विधानणून्कल्पयन्तीत्याह — अणूंश्चेति । 'असद्वा इदमग्र आसीत् ‘ इत्यादिवाक्याभासाद्दीपादेर्निरन्वयनाशदृष्ट्या पृथिव्यादेरपि तथा नष्टस्यासत एवोत्पत्तिरित्यादियुक्त्याभासाच्चाद्वैतवादे माध्यमिकादयो विरोधिनो भवन्तीत्याह — एवमिति । वादिविप्रतिपत्तीरुक्त्वा तन्निरासायोत्तरग्रन्थमवतारयति — तत्रेति । तत्र वादिषु भिन्नप्रस्थानेषु सत्स्विति यावत् । वाक्याभासेषु युक्त्याभासेषु च प्रतिपत्तिर्येषां ते तथा । उत्तरग्रन्थतात्पर्यमुक्त्वा ‘सदेव’ इत्यादौ सच्छब्दितमीक्षितृ सर्वज्ञं जगदुपादानं प्रधानं ब्रह्मैवेति वादिविवादाज्ज्ञातृत्वज्ञानाभ्यां संशय्यानन्तराधिकरणपूर्वपक्षमाह — तत्रेति । स्थितं समुदायतात्पर्यं सप्तम्यर्थः । सर्वज्ञे जगद्धेतौ समन्वयोक्त्या तच्चैतन्यमाक्षिप्य समर्थ्यत इत्यधिकरणसङ्गतिः । नानाशाखास्थस्फुटब्रह्मलिङ्गवाक्यानां ब्रह्मण्येव समन्वयोक्तेः श्रुत्यादिसङ्गतयः । ‘तत्त्वमसि’ इति तच्छब्दितप्रधानैक्यसम्पत्तिः पूर्वपक्षे । सिद्धान्ते चिदात्मनो ब्रह्मैक्यं फलम् । प्रकर्षेण धीयते सर्वं जगदस्मिन्निति ब्रह्मापि प्रधानं, ततो विशिनष्टि — त्रिगुणमिति । परिणामयोग्यत्वमाह — अचेतनमिति । साङ्ख्यीयमतं श्रुतिविरोधात्त्याज्यमित्याशङ्क्याह — यानीति । जीवाख्यचित्प्रतिबिम्बानां स्वतो विभजननियमेनैकीकरणशक्तयो न प्रधानस्याचेतनस्येत्यन्यदेव सर्वशक्तिमदेष्टव्यमित्याशङ्क्य चित्प्रतिबिम्बानामनुत्पाद्यत्वादुत्पाद्यार्थशक्तिरस्यापि स्यादित्याह — सर्वेति । तथापि कुतोऽस्याचेतनत्वे सर्वज्ञता, तत्राह — एवमिति । यस्य न ज्ञत्वमेव तस्य कुतः सर्वज्ञतेत्याह — कथमिति । प्रधाने ज्ञानकर्तृत्वं सम्भावयितुं ज्ञानस्वरूपमाह — यदिति । ननूक्तज्ञानेन चेतनानामेव योगिनां सर्वज्ञात्वात्तदचेतनं प्रधानं कथं तेन सर्वज्ञमुच्यते, तत्राह — तेनेति । कार्यकरणवन्त इत्यचैतन्यमुक्तम् । तत्रापि चेतनांशस्यैव सर्वज्ञत्वं, सत्त्वस्य सहायतया तदुत्कर्षान्वयव्यतिरेकयोरन्यथासिद्धेरित्याशङ्क्याह — सत्त्वस्येति । केवलव्यतिरेकाभावान्न चेतनांशस्यैव सर्वज्ञतेत्यर्थः । किञ्च तस्य सर्वज्ञत्वं दुर्ज्ञानं, चिन्मात्रस्य ज्ञानकर्तृत्वायोगादित्याह — नेति । कार्यकरणविरहितत्वाच्च नास्य ज्ञानकर्तृतेत्याह — अकार्येति । पूर्णत्वाच्च तथेत्याह — पुरुषस्येति । प्रधानावस्थायां गुणसाम्ये सत्त्वोत्कर्षायोगान्न तस्य ज्ञानकर्तृतेत्याह — त्रिगुणत्वादिति । नच ज्ञानप्रतिबन्धकरजस्तमसोरपि तत्र भावान्न सार्वज्ञ्यं, वस्तुतस्तद्भावेऽपि, माणवकस्याग्नित्ववत्तदुपचारात् , तदाह — उपचर्यत इति । गौणमुख्ययोर्मुख्ये संप्रत्ययान्मुख्यग्रहणमाशङ्क्याह — अवश्यमिति । तत्र हेतुमाह — नहीति । तथात्वे कानुपपत्तिरित्याशङ्क्य तज्ज्ञानं नित्यमनित्यं वेति विकल्पयति — तथाहीति । तत्राद्यं दूषयति — ज्ञानेति । द्वितीयमनूद्य स्वमतसिद्धान्तमाह — अथेत्यादना । अनित्यज्ञानपक्षे ब्रह्मणः सर्वज्ञानशक्तिमत्त्वेनैव सर्वज्ञतेत्यत्र हेत्वन्तरमाह — अपि चेति । तथापि तस्य सर्वविषयं ज्ञानं किमिति नोत्पद्यते, तत्राह — न चेति । आदिपदेन ज्ञेयज्ञात्रादिसङ्ग्रहः । उभयत्राप्यनुपपत्तिसाम्ये कथं पक्षिविशेषपक्षपात इत्याशङ्क्य प्रधानपक्षे विशेषमाह — अपि चेति । एकस्यापि ब्रह्मणः सामग्रीसन्निधानात्कारणत्वमाशङ्क्य तस्यासङ्गत्वादद्वयत्वाच्च नैवमित्याह — नेति । जगदुपादानवादिवेदान्तानां प्रधानपरतेति पूर्वपक्षमनूद्य सूत्रेण सिद्धान्तयति — एवमिति । अनुवादभागं विभजते — यदुक्तमिति । परिहारभागं व्याकर्तुं नञर्थमुक्त्वा प्रश्नद्वारा हेतुमाह — तदसदिति । परमतं निरसितुं प्रकरणमनुसन्दधानो हेतुं व्याचष्टे — सदेवेति । सेति प्रकृतसदात्मोक्तिः । इयमिति सन्निहितेक्षितृत्वनिर्देशः । देवतेत्यलौकिकत्वमुक्तम् । इक्षणमभिनयति — हन्तेति । सूक्ष्मभूतसर्गानन्तरं तावता व्यवहारायोगात्तदपेक्षायामित्यर्थः । सृष्टिवाक्येनोक्तानि तेजोऽबन्नानि निर्दिशति — इमा इति । सूक्ष्मभूतानां व्यवहाराङ्गत्वेनाप्रत्यक्षत्वात्तेषु देवताशब्दः । अनेन पूर्वसृष्ट्यनुभूतेन जीवेन प्राणधृतिहेतुनात्मना सद्रूपेण यथोक्ता देवताः सर्गानन्तरं प्रविश्य नाम रूपं चेति विस्पष्टमासमन्तात्कारवाणीति परा देवतेक्षितवतीत्यर्थः । ननु सा जीवमात्मशब्देनाभिधत्तां, तथापि प्रधानस्य गौणमीक्षितृत्वं किं न स्यात् , तत्राह — तत्रेति । ईक्षणवाक्यं सप्तम्यर्थः । जीवस्य चेतनत्वादचेतनप्रधानस्य तदात्मत्वायोगादित्यर्थः । तस्यापि प्राणात्मना प्रधानकार्यत्वात्तस्य तस्मिन्नात्मशब्दः स्यादित्याशङ्क्य जीवस्वरूपमाह — जीवो हीति । तस्य तदीयचैतन्यस्य च प्रसिद्ध्यर्थौ निपातौ । चेतनत्वे हेतुः — शरीरेति । तत्र जीवशब्दप्रवृत्तौ निमित्तमाह — जीवो हीति । तस्य तदीयचैतन्यस्य च प्रसिद्ध्यर्थौ निपातौ । चेतनत्वे हेतुः — शरीरेति । तत्र जीवशब्दप्रवृत्तौ निमित्तमाह — प्रणानामिति । उक्तचेतनस्य जीवत्वे मानमाह — प्रसिद्धेति । प्राणविषयत्वेनापि लौकिकी प्रसिद्धिः स्यादित्यशङ्क्य ‘जीव प्राणधारणे’ इति धात्वर्थानुरोधादुक्तश्चेतनो जीव इत्याह — निर्वचनाच्चेति । सिद्धे जीवस्य चैतन्ये फलितमाह — स कथमिति । आत्मशब्दार्थं वदन्नसम्भवं साधयति — आत्मा हीति । पूर्ववन्निपातौ । संसार्यसंसारिणोर्विरोधात्त्वन्मतेऽपि ब्रह्मणो जीवे कथमात्मपदं प्रत्युक्तमित्याशङ्क्याह — अथ त्विति । तत्त्वतोऽविरोधाद्दृष्टितो विरोधस्य बिम्बप्रतिबिम्बयोर्व्यभिचाराज्जीवब्रह्मैक्याद्ब्रह्मणो जीवे युक्तमात्मपदमित्यर्थः । प्रधानस्य न कारणतेत्युक्ते सतीक्षितृत्वस्य चेतनकारणत्वहेतोर्व्यभिचारं चोदयति — अत्रेति । उक्तमनूद्य व्यभिचारं स्फोटयति — यदुक्तमिति । हेतुश्रवणं तदा परामृष्टम् । अन्यथापि जगत्कारणस्याचेतनत्वेऽपीत्यर्थः । कथमुपपत्तिर्नहि तत्र मुख्यमीक्षितृत्वं, तत्राह — अचेतनेऽपीति । तदेव दृष्टान्तेन व्याचष्टे — प्रत्यासन्नेति । तथापि कथं प्रधाने 'तदैक्षत' इति व्यपदेशः, तत्राह — तद्वदिति । उपचारे निमित्तम् — प्रत्यासन्नेत्यादि । तथाविधेऽपि प्रधाने सिसृक्षतीति स्यात्कथमैक्षतेति तत्र — चेतनवदिति । विरुद्धमुक्तं दृष्टान्तं व्याकुर्वाणो लौकिकेक्षितृसाम्यान्नियतक्रियाकारित्वादिरित्याह — यथेति । तस्मादिति नियतप्रवृत्तिमत्त्वं हेतूकृतम् । मुख्यगौणयोर्मुख्यग्रहणं न्याय्यमिति सिद्धान्ती शङ्कते — कस्मादिति । गौणेक्षणसन्निधिना समाधत्ते — तत्तेज इति । दर्शनादौपचारिकं सतोऽपीक्षितृत्वमिति सम्बन्धः । सन्निधिफलमाह — तस्मादिति । तच्छब्दार्थं व्याकरोति — उपचारेति । तत्प्राये तत्प्रकरणे । इतिशब्दः शङ्कोपक्रमस्थक्रियापदसम्बन्धी । व्यभिचारशङ्कामनूद्य सूत्रमुत्तरत्वेनावतारयति — एवमिति । हेतुमात्रस्य सूत्रे भानात्पूर्वसूत्रस्थनञमाकृष्य प्रतिजानीते — नेति । तत्र हेतुं सूत्रं व्याचष्टे — स इत्यादिना । साक्षित्वेनाहङ्काराद्यध्यासनिरासयोग्यतां वक्तुं चेतनस्येत्युक्तम् । ऐक्यापारोक्ष्यप्रमितिप्रतिबन्धनिवर्तकं सूचयति — आचार्यवानिति । उक्तप्रमित्या सर्वबन्धननिवृत्त्या देहादिदृष्टेरपि निवृत्तिप्राप्तौ प्रारब्धकर्मणा तद्दृष्ट्यनुवृत्तिमाचष्टे — तस्येति । कथं तर्हि प्रारब्धकर्मनिवृत्तिरित्याशङ्क्य भोगादिति मन्वानो ब्रूते — यावदिति । आरब्धकर्मध्वस्तावपि कथं देहादिधीध्वस्तिरित्याशङ्क्याप्रतिबन्धादित्याह — अथेति । उत्तमपुरुषस्तूभयत्र प्रथमपुरुषे छान्दसत्वात् । साङ्ख्यपक्षेऽपि मोक्षोपदेशोपपत्तिमाशङ्क्याह — यदीति । तदा चेतनं सन्तं मुमुक्षुमचेतनोऽसीति ब्रुवच्छास्त्रं विपरीतवादि भूत्वा पुंसोऽनर्थायेति कृत्वा स्यादप्रमाणमिति योजना । अस्तु शास्त्राप्रामाण्यं, नेत्याह — नत्विति । आत्मनो जडैक्यमपि सत्याद्यैक्यवदनवच्छिन्नतया शास्त्रप्रमेयमित्याशङ्क्याह — यदि चेति । शास्त्रोक्ते विश्वासबुद्ध्यौ हेतुमाह — श्रद्दधानतयेति । अनात्मन्यात्मदृष्टिं नासौ त्यजेदित्यत्र लौकिकं दृष्टान्तमाह — अन्धेति । कश्चित्किल पश्चिमचेता गहनविपिनसमीपसञ्चारिपथि पतितमतिदुःखितं विनष्टदृष्टिद्वयमपि पुरुषापसदमवलोक्य तदन्तिकमुपसृत्य विप्रलब्धुमिच्छति, किमिति भवतातिबहुतरगोगवयादिसञ्चारसङ्कीर्णे दुर्गे मार्गे प्रचुरपरिणततरक्षुरोषणादिपरिवृतकान्तारपरिसरे परिहाय सहायसम्पदमास्यते । स च विवेकपरिचयविधुरो मधुरां गिरमुपश्रुत्य सहर्षं समभाषत । दैवोपहतः पिहितनयनयुगुलो बताहं कयापि विधया पन्थानमेनमासाद्य नानाविधबन्धुनिकरपरिपूरितमतिसविधमपि नगरं जिगमिषुरिहैवासमर्थो बहुतिथमत्यवाहयम् । सम्प्रति तु भवतो दिष्ट्या दृष्टस्य दृष्टिपथमवतीर्णं समासादितमनोरथं शोकसागरादुत्तीर्णमात्मानमालक्ष्य लब्धलक्ष्यो निर्वृतोऽस्मि । स च विप्रलप्सुः शिक्षाविपक्षमुक्षाणमभ्याशदेशनिवासिनमुलपादि चरन्तमाकलय्यास्य तु पुच्छं गृहीत्वा गच्छतु भवान् , एष त्वाभिमतं नगरं नेष्यतीत्याभाष्य तदनुमोदनपुरःसरं पुरुषं पशुमानीय तदीयलाङ्गूलं ग्राहयामास । स च गृहीततदीयवालधिर्विविधा वेदनास्तदाहिता इतस्ततो नीयमानोऽनुभवन्नपि नगरजिगमिषया तदाप्त्यादेष्टुराप्ततादृष्ट्या च स्वयमुपात्तं प्रबलबलीवर्दयूनश्चरममङ्गं परित्यक्तुं नैव धियं दधार । स च भूयो भूयो भूयसीर्यातनाः प्रतिलभ्य प्रेप्सितमप्रतिपद्यैव महति मोहसागरे निपतितः । तेनैव न्यायेनायमपि श्रद्धालुत्वादनात्मनि शास्त्राहितामात्मदृष्टिमत्यजन्ननर्थभागी भवेदित्यर्थः । आत्मा जडादर्थान्तरं, तत्साक्षित्वात् , घटसाक्षिवदित्यतिरिक्तात्मधिया पुरुषार्थभागी स्यादित्याशङ्क्यागमविरोधान्मैवमित्याह — तद्व्यतिरिक्तं चेति । आत्मज्ञानाभावे दोषमाह — तथेति । विहतिर्मुक्तिभाक्त्वाभावः । अनात्मनिष्ठत्वे दोषमाह — अनर्थं चेति । ‘तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः’ इति श्रुतेरित्यर्थः । परमते तन्निष्ठानुपपत्तेः सदात्मत्वोपदेशमिच्छता सतश्चेतनत्वमेष्टव्यमित्युपसंहरति — तस्मादिति । नन्वारोपेणापि शास्त्रे ध्यानोपदेशात्कथं तद्यथाभूतमेवोपदिशतीति नियम्यतेऽत्राह — एवं चेति । कस्यचिदारोपितचोरत्वस्य सत्येन तप्तं परशुं गृह्णतो मोक्षो दृष्टस्तेन दृष्टान्तेन सत्ये ब्रह्मण्यभिसन्धिमतो मोक्षः ‘तद्यथा परशुं तप्तं प्रतिगृह्णाति’ इत्यत्रोक्तः । स च तत्त्वतो वस्तूपदेशे सम्भवतीत्यर्थः । सदात्मत्वोक्तेरारोपितार्थत्वेऽपि सत्याभिसन्धिसिद्धिः, ‘यस्य स्यादद्धा’ इत्यादिध्यानवाक्ये तद्दृष्टेरित्याशङ्क्याह — अन्यथेति । उक्थं प्राणः । महावाक्योत्थं ज्ञानमिदमुच्यते । तस्य सम्पन्मात्रत्वेनानित्यफलत्वे फलितमाह — तत्रेति । मोक्षस्य तद्वादिभिर्नित्यत्वोपगमादित्यर्थः । मोक्षोपदेशस्य परपक्षेऽप्यनुपपत्तिमुक्त्वोपसंहरति — तस्मादिति । दृष्टान्ते गौणत्वमङ्गीकरेति — भृत्येति । इतश्चात्मशब्दस्य दृष्टान्तेन प्रधानविषयतया न गौणतेत्याह — अपि चेति । मुख्यार्थायोगो गुणायोगश्च गौणत्वे हेतुः । तदभावेऽपि तत्कल्पनातिप्रसङ्गिनीति हेत्वन्तरमेव स्फोटयति — क्वचिदिति । अग्न्यादिशब्दानां माणवकादिषु गौणत्वदृष्ट्या दहनादिष्वपि तत्प्रसक्तेरित्याह — सर्वत्रेति । गौणत्वं निरस्य साधारण्यं निरसितुमनुवदति — यत्त्विति । एकत्र मुख्यशब्दस्य तद्योगादन्यत्र वृत्तिसम्भवे तत्रापि शक्तिकल्पने गौरवानैवमित्याह — तन्नेति । क्वचित्त्वगत्यानेकार्थतेत्यर्थः । प्रधानमात्मशब्दस्य मुख्योऽर्थस्तदविवेकादन्यत्र तच्छब्दतेत्याशङ्क्याप्त्यादिनिमित्तस्य चेतने मुख्यत्वात्तत्रैवात्मशब्दस्य मुख्यतेत्याह — तस्मादिति । कथं तर्हि भूतात्मेत्यादिवाक्यमित्याशङ्क्य जीवैक्याध्यासात्पञ्चकोशात्मभूतानामिन्द्रियाणां चात्मशब्दत्वं, परमात्मैक्यारोपात्प्रधानस्य प्रकृतेरित्याह — चेतनत्वेति । आप्त्याद्युपाधेरात्मशब्दस्य चेतने मुख्यत्वे प्रधानेऽपि तथैव तन्मुख्यत्वसिद्धेः साधारण्यमित्याशङ्क्याह — साधारणत्वेऽपीति । परमसूक्ष्मशक्त्यात्मकप्रकृत्यर्थाणिमशब्दात्तज्जाड्यसिद्धेस्तद्विषयत्वमात्मशब्दस्य शक्यं निश्चेतुमित्याशङ्क्य शक्तेरप्यन्तस्थचिदात्मनि निरङ्कुशमणीयस्त्वमित्याह — न चेति । अत्रेति प्रकरणोक्तिः । किञ्चित्प्रकरणमुपपदं वेत्यर्थः । कथं तर्हि चेतनविषयतेत्याशङ्क्य क्रमेण प्रकरणोपपदे दर्शयति — प्रकृतं त्विति । चेतनसन्निधानेऽपि तस्य ‘तत्त्वमसि’ इत्यचेतनप्रधानतादात्म्योक्तेरहेतुः सन्निधिरित्याशङ्क्याह — नहीति । चेतने प्रकरणादिभावे फलितमाह — तस्मादिति । ‘जीवेनात्मना’ ‘स आत्मा’ इति च वाक्यमिहेत्युक्तम् । आत्मशब्दसाधारण्ये दृष्टान्तितं ज्योतिःशब्दं विघटयति — ज्योतिःशब्दोऽपीति । कथं तर्हि ‘वसन्ते वसन्ते ज्योतिषा यजेत ‘ इत्यत्र कालविधौ प्रकृतज्योतिष्टोमे ज्योतिःशब्दः, तत्राह — अर्थवादेति । ‘कतमानि ज्योतीषि’ इत्युक्त्वा ‘एतानि वाव तानि ज्योतींषि य एतस्य स्तोमाः’ इत्यर्थवादेन कल्पितं ज्वलनेन सादृश्यं त्रिवृदादिस्तोमानां फलप्रकाशकत्वम् । ततो ज्योतिष्ट्वेन निरूपितत्रिवृदादिस्तुतिसमुदायत्वाज्ज्योतिष्टोमे ज्योतिःशब्दः । तस्मादेकस्यात्मशब्दस्यानेकसाधारण्ये नेदमुदाहरणमित्यर्थः । आत्मशब्दादिति पूर्वसूत्रोक्तहेतुसाधकतया तच्छेषत्वेन सूत्रं व्याख्यायाधुना स्वतन्त्रहेतुपरतया व्याकरोति — अथवेति । निरस्ता गौणत्वस्य साधारणत्वस्य च शङ्का यस्मात्स तथा तस्य भावस्तत्ता, तयात्मशब्दं व्याख्यायेति सम्बन्धः । सतश्चेतनस्य च तादात्म्यवचनं पूर्वसूत्रोक्तो हेतुः । सदर्थनिष्ठस्य मुक्तिरूपपरानन्दैक्योक्तेश्च चितो न प्रधानैक्यमिति हेत्वन्तरमिहोच्यत इत्याह — तत इति । चेतनाचेतनयोरैक्यायोगादचेतननिष्ठतया चेतनस्य मोक्षोपदेशासिद्धेः । सिद्धमुपसंहरति —
तस्मान्नेति ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 जीवे सत आत्मशब्दान्न तत्प्रधानमित्युक्त्वा विधान्तरेण हेतुं व्याचष्टे — तथेति । यः सदाख्यः स एषोऽणिमाऽणोर्भावो भावभवित्रोरभेदादणुरिति । ऐतदात्म्यमेतदात्मनो भावः । अयमपि प्रयोगो भवितृपरः । सर्वमिदं जगदेतदात्मकमिति यावत् । परमसूक्ष्मं सर्वात्मकं सदेव सत्यं पारमार्थिकं तत्त्वं, ‘मृत्तिकेत्येव सत्यम्’ इति दृष्टान्तस्थावधारणस्यात्रापि सम्बन्धात् । यच्च सत्यं स सर्वस्यात्मा निरुपचरितं रूपम् । हे श्वेतकेतो, त्वं च नासि संसारी, किन्तु तदेव ब्रह्मेत्यक्षरयोजना । तत्रापेक्षितं प्रतीकमादाय विवक्षितमाह — इत्यत्रेति । तथाच चेतनस्यात्मशब्दान्न तस्य प्रधानतेत्यर्थः । यत्पुनरुपचारप्रायपाठादीक्षितृत्वं सतोऽपि गौणत्वमिति, तत्राह — अप्तेजसोस्त्विति । युक्तमीक्षितृत्वस्य गौणत्वमिति सम्बन्धः । तत्र हेतुरितिशब्दः, स च प्रत्येकं सम्बध्यते । यतश्चेतनव्यापारं प्रति विषयत्वेन निर्देशात्तयोरचेतनत्वम् । आदिपदेन प्रवेशनियमनादिसङ्ग्रहः । यतश्च तत्र तत्र प्रयोज्यत्वेनैव तयोरुक्तिः, यस्माच्च सदीक्षितृत्वस्य मुख्यत्वहेत्वात्मशब्दवत्तयोरीक्षितृत्वस्य मुख्यत्वे हेतुर्न दृष्टः, तस्मात्कूलस्य गुणवृत्त्या पिपतिषावद्युक्तमप्तेजसोर्गौणमीक्षितृत्वमित्यर्थः । तर्हि प्रायपाठस्य का गतिरित्याशङ्क्य मुख्यत्वस्यौत्सर्गिकत्वाद्गौणेनातुल्यत्वाद्विशयानुदये प्रायवचनमकिञ्चित्करमित्यभिप्रेत्याप्तेजसोरपि मुख्यमेवेक्षणमाश्रयणीयं न गौणमित्याह — तयोरपीति । कारणेक्षणं कार्ये लक्षणयोच्यते चेत्तत्रापि कथं मुख्यतेत्याशङ्क्याह —
सतस्त्विति ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मशब्दोऽपि प्रधाने गौणः स्यादिति चोदयति — अथेति । गौणे प्रयोगे गुणयोगं दर्शयति — आत्मन इति । स्वर्गार्थस्यापि कर्मणः स्वर्गशब्दानर्हत्ववदात्मार्थमपि प्रधानं नात्मशब्दार्हमित्याशङ्क्याह — यथेति । प्रधानस्य भृत्यवच्चैतन्याभावादात्मार्थप्रवृत्त्ययोगान्नात्मार्थकारितेत्याशङ्क्याह — प्रधानं हीति । भृत्यस्य राज्ञि विवेकाविवेकाभ्यामभ्युदयाद्यहेतुत्वान्न दृष्टान्ततेत्याशङ्क्योपकारित्वमात्रं तुल्यमित्याह — राज्ञ इति । गौणत्वं निरसितुमुक्तात्मशब्दस्य न गौणतेत्यपरितुष्यन्नाह — अथवेति । प्रधानेऽपि शक्तिकल्पने गौरवमाशङ्क्य वृद्धप्रयोगादनेकत्र शक्तिसिद्धेर्नैवमित्याह — भूतात्मेति । प्रधानात्मा चेति परमात्मा चकारार्थः । तत्रात्मशब्दस्यात्मन्येव मुख्या वृत्तिः, प्रधानादौ गौणीत्याशङ्क्य भिन्नजातीययोरेकशब्दप्रयोगे शक्तिद्वयमेव कल्प्यमित्याह — यथेति । आत्मशब्दसाधारण्ये फलितमाह — तत्रेति । शङ्कोत्तरत्वेन सूत्रं पातयति — अत इति । सूत्रमुत्तरम् — हेयत्वेति । तद्व्याख्यातुं हेयत्वोक्तिं प्रतियोगिनीं प्रसञ्जयति — यदीति । ऐक्यमुक्त्वा तन्निराकरणं पङ्कप्रक्षालनमनुसरतीत्याशङ्क्य परोक्तं दृष्टान्तेन प्रत्याह — यथेति । प्रतियोगिप्राप्तिमुक्त्वा तन्निषेधसूत्रार्थमाह — न चेति । तत्र हेतुः — सन्मात्रेति । अनृतजडशक्तिशबले सति ‘तत्सत्यम् ‘ इति सत्यत्वविधानादसत्याकारं, ‘स आत्मा’ इति चिद्रूपत्वविधानाज्जडाकारं च बाधित्वा सत्यैकरसचिदात्माकारा याऽपरोक्षप्रमितिस्तन्निष्ठत्वेनैव छान्दोग्ये षष्ठसमाप्तिदर्शनात्प्रकृतसदात्मत्वाप्रत्याख्यानात् ‘तत्त्वमसि ‘ इत्यमुख्यात्मत्वोक्तिरयुक्तेत्यर्थः । पूर्वात्तरहेत्वोः सम्भूयाप्रमापकत्वे कृतं चकारेणेत्याशङ्क्याह — चशब्द इति । हेयत्वावचनादेव प्रधानस्य निरासे किं प्रतिज्ञाविरोधोक्त्येत्याशङ्क्य हेयत्वोक्तिमुपेत्य चकारार्थं स्फुटयति — सत्यपीति । प्रसङ्गं प्रकटयितुं प्रतिज्ञास्वरूपमाह — कारणेति । हे श्वेतकेतो, तमप्यादेशमादिश्यत इत्यादेशं शास्त्राचार्योक्तिगम्यं वस्त्वप्राक्ष्यः पृष्टवानसि त्वमाचार्यम् । येन श्रुतेन शास्त्रतोऽन्यदश्रुतमपि श्रुतं भवति । येन मतेन तर्कतोऽन्यदमतमपि मतम् । येन विज्ञातेनान्यदविज्ञातमपि विज्ञातम् । न तु श्रोतव्यादि शिष्टमिति पितृवाक्यस्यार्थः । अन्यज्ञानादन्यन्न ज्ञेयमिति पुत्रो ब्रूते — कथं न्विति । नान्यत्वं कार्यस्य कारणादित्याह — यथेति । ज्ञाते मृत्पिण्डे कुतस्तद्विकारधीरित्याशङ्क्याह — वाचेति । यो विकारः स वागालम्बनमुच्यते परं न वस्तुतोऽस्तीत्यर्थः । तत्र हेतुः — नामधेयमिति । नाममात्रं नार्थोऽस्ति चेत्तर्हि घटादिवदसत्यत्वसम्भवात्कारणस्यापि कथं सत्यतेत्याशङ्क्याह — मृत्तिकेति । उक्तदृष्टान्तादाकाशादेरपि मृषात्वात्कारणस्य सन्मात्रस्यैव सत्यत्वात्तज्ज्ञाने ज्ञातव्यशेषो नेति दार्ष्टान्तिकमाह — एवमिति । कार्यस्य कारणमात्रत्वोपगमात्परस्यापि प्रतिज्ञासिद्धिरित्याशङ्क्याह — नचेति । प्रतिज्ञाविरोधफलमाह —
तस्मादिति ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 यथा कश्चिदरुन्धतीं दर्शयितुं निकटस्थां स्थूलां तारामियं सेति दर्शयत्येवं दुर्ज्ञेयत्वादात्मतत्त्वस्यादौ प्रधानात्मत्ववचनात्तदेव सच्छब्दमिति शङ्कते — कुतश्चेति । प्रधानं न सच्छब्दवाच्यमित्यत्र चित्प्रतिबिम्बानां चिदात्मनि बिम्बे लयादिति व्यधिकरणो हेतुरित्याशङ्क्य प्रकरणानुसन्न्धानपूर्वकं सूत्रं व्याचष्टे — तदेवेति । यत्र सुप्तौ पुंसः स्वपितीत्येतन्नाम भवति तदा पुरुषः सता सम्पन्नस्तेनैकीभूत इति योजना । प्रकरणेनैक्यप्रमितेः सच्छब्दलक्ष्यस्यैव चिद्बिम्बत्वान्न व्यधिकरणतेति सतश्चित्त्वं सूचयति — स्वमिति । तत्र लौकिकप्रसिद्धिमाह — तस्मादिति । तच्छब्दार्थं स्फुटयति — स्वं हीति । उक्तश्रुतेस्तात्पर्यमाह — एषेति । नामनिरुक्तिश्रुत्यक्षराणि व्याचष्टे — स्वशब्देनेति । कथं भिन्नविषया गतिरात्मानमेव विषयीकुर्यादित्याशङ्क्योपसर्गाल्लयधीरित्याह — अपिपूर्वस्येति । प्रसिद्धिमेव प्रकटयति — प्रभवेति । एतेर्धातोर्गत्यर्थस्यापूर्वस्य लयार्थत्वेऽपि कथमनाद्यनन्तस्य लयः स्यादित्याशङ्क्य तदीयलयस्यौपाधिकत्वं वक्तुं जागरितमनुवदति — मन इति । बुद्धिपरिणामा एवोपाधयस्तैरस्यार्थविशेषयोगाच्चक्षुरादीन्द्रियैस्तानेव स्थूलानर्थान्पश्यञ्जीवस्तद्विशेषेण स्थूलदेहेनैक्यारोपमापन्नो जागर्तीति व्यवह्रियत इत्यर्थः । स्वप्नमुपन्यस्यति — तद्वासनेति । जाग्रद्वासनाभिर्विचित्राभिर्विशिष्टो मनोमात्रोपाधिर्जीवः स्वप्नानुच्चावचान्वासनामात्रदेहाननुभवन् ‘एवमेव खलु सोम्यैतन्मनः’ इति मनःशब्दवाच्य इति मनोद्वारा लक्ष्यो भवतीत्यर्थः । तथापि कुतोऽस्य लयोक्तिरित्याशङ्क्याह — स इति । स्थूलं सूक्ष्मं चोपाधिद्वयं, तत्कृतो विशेषो गन्तृत्वद्रष्टृत्वादिः । स्वपितिनामनिरुक्तेरर्थवादत्वान्न श्रुतार्थतेत्याशङ्क्य तद्याथार्थ्यार्थं दृष्टान्तद्वयमाह — यथेत्यादिना । तस्य हृदयशब्दस्यैतदेव निरुक्तं निर्वचनम् । ‘अशनापिपासे मे सोम्य विजानीहि’ इत्युपक्रम्याशितस्यान्नस्य द्रवीकरणेन नयनाज्जरणादापोऽशनायाः । छान्दसमेकवचनम् । एवमशनायाशब्दस्याप्सु प्रवृत्तौ मूलं दर्शयति - ‘आप एव तदशितं नयन्ते’ इति श्रुतिः । द्रावकोदकपाननयनात्तस्य शोषणादुदन्यं तेजः । आकारश्छान्दसः । एवमुदन्यशब्दस्य तेजसि प्रवृत्तौ निमित्तं ‘तेज एव तत्पीतं नयते’ इति श्रुतिर्दर्शयतीति योजना । दृष्टान्तयोरर्थं दार्ष्टान्तिके योजयति — एवमिति । प्रधानस्य व्यापित्वादव्यापिजीवलयस्थानत्वयोगादुक्तहेतोरन्यथासिद्धिमाशङ्क्य चितोऽचित्त्वापत्तिरयुक्तेत्याह — नचेति । स्वशब्दस्यात्मीयेऽपि शक्तत्वात्प्रधाने प्रवृत्तेरन्यथासिद्धितादवस्थ्यमाशङ्क्योक्तं स्फोरयति — यदीति । स्वशब्दस्यात्मा मुख्योऽर्थस्तत्सम्बन्धादात्मीयो लक्ष्य इति तद्ग्रहस्यानौचित्यमेवमपीत्युक्तम् । मृदात्मनो घटस्य मृद्येव लयादात्मीये जलादावदृष्टेरित्यर्थः । स्वपितिनामनिरुक्तिश्रुत्यनुग्राहकत्वेन बृहदारण्यकश्रुतिं पठति — श्रुत्यन्तरं चेति । तस्य तात्पर्यमाह — सुषुप्तेति । हेतोरन्यथासिद्ध्यभावे फलितमाह —
अत इति ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 तत्रैव प्रश्नपूर्वकं हेत्वन्तरमाह — कुतश्चेति । श्रुतिप्रामाण्यैक्यात्प्रत्युपनिषदमभ्यासेन चेतनकारणतावगतिरेकरूपेत्ययुक्तमनेकरूपत्वप्रसङ्गादित्याशङ्क्य कारणविषयत्वात्तर्कजन्यधीवदतुल्यत्वप्रसक्तिं वक्ति — यदीति । वस्तुतश्चिदचिदात्मकमन्यदित्युक्तं विरुद्धार्थत्वात्तर्हि त्यागो वेदान्तानामित्याशङ्क्य तेषामेकार्थतया नयनादत्यागमाह — तत इति । अस्तु तर्हि तेष्वपि कारणावगतेरनेकरूपत्वं, नेत्याह — नत्विति । तर्हि जडाजडार्थवचसोः सालम्बनत्वाय द्व्यात्मके ब्रह्मण्येव गतिसामान्यमित्याशङ्क्य चिदेकरसे तस्याः सामान्यमाह — समानेति । विस्फुलिङ्गप्रसङ्गार्थं ज्वलत इत्युक्तम् । विप्रतिष्ठेरन्नानागतित्वेन दिशो दशापि प्रसृताः स्युरित्यर्थः । प्राणाश्चक्षुरादयो यथायतनं यथागोलकं विप्रतिष्ठन्ते । विविधमुद्गच्छन्तीति यावत् । प्राणेभ्योऽनन्तरमादित्यादयस्तदनुग्राहका देवतास्ताभ्योऽनन्तरं लोक्यन्त इति लोका विषया भवन्तीत्यर्थः । अनुक्तानामपि वेदान्तानामुक्तैः सहास्मिन्नर्थे तात्पर्यं सूचयति — आत्मन इति । जडाजडात्मकाखण्डरूपमात्मशब्दमिति कुतो विवक्षितधीरित्याशङ्क्य जडस्य स्वरूपाभासत्वादखण्डाजडचैतन्यमेवात्मेत्याह — आत्मेति । स्वतःप्रामाण्यादेकस्यापि वाक्यस्य स्वार्थधीहेतुत्वात्तत्रानुग्राहकवाक्यान्तरोक्तिरनर्थिकेत्याशङ्क्याह — महच्चेति । एकार्थत्वोक्त्या ज्ञानदार्ढ्याय वाक्यान्तरमित्यर्थः । वेदान्तानां चेतनकारणे तुल्यगतित्वे दृष्टान्तमाह — चक्षुरादीनामिति । सर्वेषां चक्षू रूपमेव ग्राहयति न रसादि कस्यचिदिति रूपे चक्षुषो गतिसामान्यं दृष्टम् । रसनादीनामपि रसादिषु । तथा वेदान्तानामपि चेतनकारणत्वे तुल्यगतित्वमित्यर्थः । सूत्रार्थं निगमयति —
अत इति ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 उपक्रमोपसंहारयोर्ब्रह्मण्येकवाक्यत्वं तात्पर्यलिङ्गमुक्त्वाभ्यासं लिङ्गान्तरं वक्तुं सूत्रान्तरं निक्षिपति — कुतश्चेति । श्वेताश्वतरे तु सर्वज्ञो जगद्धेतुरिति साक्षादुक्तम् । अतः सर्वोपनिषदां तदेकवाक्यत्वधीरित्याह — श्रुतत्वाच्चेति । तद्व्याचष्टे — स्वशब्देनेति । सर्वज्ञस्य वाचकेन शब्देनेति यावत् । सर्वश्चासौ ज्ञश्चेति । सर्वबाधशङ्कां वारयति — ईश्वर इति । वक्ष्यमाणमन्त्रस्थसशब्दार्थमाह — सर्वज्ञमिति । ‘ज्ञः कालकालो गुणी सर्वविद्यः’ इति प्रकृत्य ‘स कारणम्’ इति परामर्शाज्जगद्धेतोः सर्वज्ञतेत्यर्थः । तस्य सर्वेश्वरत्वमाह — करणेति । तेषामधिपाः स्वामिनो जीवास्तेषामधिपः परमेश्वरः । तस्य सर्वहेतुत्वार्थं विशेषणम् — न चेति । जीवान्प्रतीश्वरत्वं हिरण्यगर्भादेरपीत्याशङ्क्य नियन्त्रन्तरं निरस्यति — न चेति । महाप्रमेयमुपसंहरति — तस्मादिति ।
अन्यदित्युक्तार्थः ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 श्रुत्या स्फुटार्थतया ब्रह्मकारणत्वं वाच्यं, तथा सत्यन्यासां तदैकार्थ्यनिर्णयादित्युत्तरसूत्राकाङ्क्षामाह — कुतश्चेति । ‘तदैक्षत’ इत्यत्रेक्षणमात्रं कारणस्य श्रुतं न सर्वज्ञत्वं, तस्य सर्वार्थत्वादार्थिकी तद्धीः । वेदान्तानामविशेषेण निर्विशेषे ब्रह्मणि समन्वये सिद्धे क्वचित्तस्य हिरण्मयवाक्यादावपवादः, क्वचिदानन्दमयवाक्यादौ तदाभासे तदसत्त्वमुच्यत इत्यध्यायशेषारम्भे स्थिते निर्गुणविषयमेव तावदधिकरणं प्रस्तैति — आनन्दमय इति । तस्य वृत्तिकारमतेन विषयमाह — तैत्तिरीयक इति । अन्नरसविकारो देहोऽन्नमयः, प्राणोपाधिरात्मा प्राणविकारः प्राणमयः, मनोमयस्तदुपाधिरात्मा तद्विकारः, विज्ञानमयो विज्ञानोपाधिरात्मा विज्ञानविकारः । यद्वा भृगुवल्ल्युक्ताधिदैविकान्नादीन्प्रत्याध्यात्मिकान्नादिकोशा विकारास्तदेतच्चतुष्टयं ‘स वा एषः’ इत्यादिना क्रमेणोक्त्वानन्दमय उक्तः ‘तस्मादन्योऽन्तर आत्मा विज्ञानमयः’ इति सूत्रितादित्येतत्तस्यैव स्मृत्यर्थो वैशब्दः । एतस्मात् ‘तस्य श्रद्धैव शिरः’ इत्यादिना व्याख्यातात् । ततोऽन्यत्वं मनोमयस्यापीत्यत उक्तम् — अन्तर इति । तस्मादानन्दमयशब्दे मयटो विकारप्राचुर्यसाधारण्याद्विचारबीजं संशयमाह — तत्रेति । ईक्षत्यधिकरणे मुख्यसम्भवे गौणस्यानवकाशत्वाद्विषयानुदये प्रायपाठस्याकिञ्चित्करत्वादमुख्येक्षणप्रवाहपातेऽपि जगत्कारणे मुख्यं तदित्युक्तम् । इह तु मयटो विकारप्राचुर्ययोर्मुख्यत्वे सति विषयोदये प्राचुर्यार्थात्प्रायदृष्टेर्व्यावर्तकत्वात्पूर्वाधिकरणसिद्धान्ताभावेन पूर्वपक्षोन्मेषात्प्रत्युदाहरणात्मिकां सङ्गतिं विवक्षन्नाकाङ्क्षाद्वारा पूर्वपक्षयति — किमिति । श्रुत्यादिसङ्गतिचतुष्टयं फलं च वक्ष्यते । मयटः साधारण्येऽपि विशेषग्रहे हेतुर्नास्तीति — कस्मादिति । विकारप्रायपाठं हेतुमाह — अन्नेति । प्रायपाठेऽपि प्रकरणाल्लिङ्गं बलवदित्याह — अथापीति । सावयवत्वशारीरत्वलिङ्गाभ्यां मयट्श्रुत्या चानुगृहीतं प्रकरणमेव प्रबलमित्याह — न स्यादिति । सावयवत्वस्यान्यथासिद्धिं प्रत्याह — मुख्यश्चेदिति । तस्य निष्कलत्वश्रुत्या निरंशत्वादित्यर्थः । आनन्दमयेऽपि कुतः सावयवत्वं, तत्राह — इह त्विति । लिङ्गान्तरं विभजते — शारीरत्वं चेति । व्यवहितान्वयेनाभीष्टार्थदृष्टौ व्याचष्टे — तस्येति । शारीरत्वेऽपि परमात्मत्वं किं न स्यात् , तत्राह — न चेति । प्रियादिस्पर्शित्वे च संसारित्वमित्यर्थः । का तर्हि सर्वान्तरत्वस्य गतिरित्याशङ्क्य चतुष्कोशान्तरत्वमेव न सर्वान्तरत्वमित्याह — तस्मादिति । उक्तं प्रकारणादि तच्छब्दार्थः । आनन्दमये संसारिण्युपास्तिद्वारा दुःखरहितप्रियादियुक्तस्वरूपावस्थानं फलं वक्तुमितिशब्दः । पूर्वपक्षमनूद्य सिद्धान्तयति — एवमिति । सौत्रीं प्रतिज्ञां विभजते — पर एवेति । प्रकरणादिना तस्य संसारित्वे प्रतिज्ञानुपपत्तिरित्याह — कुत इति । हेतुमादाय व्याकरोति — अभ्यासादिति । आनन्दशब्दाभ्यासे कथमानन्दमयस्य ब्रह्मतेत्याशङ्क्य ब्रह्मणि प्रयुक्तपूर्वस्य तस्य प्रकरणादानन्दमये प्रयोगाज्ज्योतिष्टोमाधिकारे ज्योतिःशब्दाभ्यासवदानन्दमयाधिकारे तत्पदाभ्यासस्य तद्विषयत्वादित्याह — आनन्दमयमिति । रसः सारः । अन्नमयादिकोशचतुष्टयान्तरत्वादानन्दमयोऽयम् । लब्ध्वा ध्याता । पूर्णश्चेदानन्दः सर्वसाक्षी सर्वप्रेरको न स्यात्तदा प्राणादेरचेतनस्य चेष्टा न युक्तेत्याह — को हीति । सर्वानन्दयितृत्वादपि परानन्दत्वमस्येत्याह — एष हीति । 'युवा स्यात्’ इत्यादिना सार्वभौममारभ्य ब्रह्मान्तमुत्तरोत्तरमुत्कुष्टानन्दस्य ब्रह्मणि समाप्तिफला मीमांसा ‘सैषा’ इत्युक्ता । मयडन्तस्याभ्यासमाह — एतमिति । उपसङ्क्रमणं प्राप्तिर्ब्रह्मणः स्वरूपमिति शेषः । गतिसामान्यार्थं ब्रह्मण्यानन्दशब्दस्यान्यत्रापि प्रयुक्तत्वमाह — श्रुत्यन्तरे चेति । तथापि कथमानन्दमयस्य ब्रह्मत्वमित्याशङ्क्य हेत्वर्थमुपसंहरति — एवमिति । अभ्यासात्तस्य चाधिकारादानन्दमयार्थत्वादिति शेषः । लिङ्गात्तस्य ब्रह्मत्वमुक्त्वा तदब्रह्मत्वहेतुं प्रायपाठमनुवदति — यत्त्विति । लिङ्गबाध्यः सन्निधिरित्याह — नासाविति । तस्य चतुष्कोशान्तरत्वमेव न सर्वान्तरत्वमित्युक्तमाशङ्क्य तात्पार्यमाह — मुख्यमिति । किमिति तर्हि प्रथममन्नमयादिचतुष्टयमादिष्टं, तत्राह — लोकेति । कथं तर्हि देहे मनुष्योऽहमित्यात्मत्वधीरित्याशङ्क्याविवेकादित्याह — अत्यन्तेति । अन्नमयात्प्राणमयस्य ततो मनोमयस्य तस्मादपि विज्ञानमयस्य ततश्चानन्दमयस्यान्तरत्वे दृष्टान्तः — मूषेति । तर्हि प्राणमयादेरेवान्यतमस्यात्मत्वसम्भवे किमानन्दमयेनेत्याशङ्क्याह — पूर्वेणेति । अनात्मत्वेन साम्ये तत्तज्ज्ञापनमकिञ्चित्करमित्याशङ्क्य लोकबुद्धिमनुवदन्ननुसरदित्युक्तं स्मारयति — प्रतिपत्तीति । आनन्दमयादन्यस्यान्तरस्यानुक्तेरस्य निरङ्कुशमान्तरत्वमित्याह — सर्वेति । अमुख्यप्रवाहपातेऽपि मुख्यत्वे दृष्टान्तमाह — यथेति । इहापीति । अमुख्यप्रवाहे पतितस्यापीति यावत् । लिङ्गेन सन्निधिबाधेऽपि सावयवत्वलिङ्गानुगृहीतः स बलवानित्याशङ्क्योक्तमनुवदति — यत्त्विति । तस्य विज्ञानमयकोशोपाध्यधीनत्वेनान्यथासिद्धेर्न सन्निधिसहायतेत्याह — अतीतेति । लिङ्गान्तरं सन्निधिसहायत्वेनोक्तमनुवदति — शारीरत्वमिति । लिङ्गयोरन्यथासिद्धत्वे लिङ्गेन केवलसन्निधिबाधे फलितमाह —
तस्मादिति ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 वृत्तमनूद्योत्तरसन्दर्भमाक्षिपति — जन्मादीति । ब्रह्मजिज्ञासां प्रतिज्ञायेति वक्तव्यम् । तेषामेतदर्थप्रतिपादनोपयुक्तन्यायग्रथनार्थमुत्तरः सन्दर्भोऽर्थवानित्याशङ्क्याह — न्यायेति । अनुक्तवाक्यानां तत्परत्वं वक्तुमुत्तरो ग्रन्थ इत्याशङ्क्याह — गतीति । अनुक्तसमन्वयाभावान्नोत्तरस्योत्थानमित्याह — अत इति । उत्तरसूत्राणामगतार्थत्वं वक्तुमारभते — उच्यत इति । तदर्थं वेदान्तेषु भासमानमर्थं सङ्क्षिपति — द्विरूपं हीति । तत्र सोपाधिकविषयं वाक्यमुदाहरति — यत्रेति । यस्यां खल्वविद्यावस्थायामाभासभूतं द्वैतं सदिव भाति तत्रेतरः सन्नितरं पश्यतीति दृष्ट्यादिगोचरमुपाधिमद्वस्तु वदतीत्यर्थः । निरूपाधिकविषयं वाक्यं पठति — यत्र त्विति । यस्यां विद्यावस्थायामस्य विदुषः सर्वं कर्त्राद्यात्मातिरेकेणासदेवासीत्तत्र केन करणेन कं विषयं को वा कर्ता पश्येदित्याक्षेपादव्यवहार्यमनौपाधिकं तत्त्वमित्यर्थः । निरुपाधिके श्रुत्यन्तरमाह — यत्रेति । यस्मिन्भूम्नि स्थितो विद्वानन्यद्रष्टव्यं चक्षुषा न पश्यति, अन्यच्च श्रोतव्यं श्रोत्रेण न शृणोति, न चान्यन्मन्तव्यं ज्ञातव्यं वा मनसा बुद्ध्या वा मनुते जानाति वा, स भूमा दृष्ट्याद्यगोचरो निरतिशयमहत्त्वसम्पन्नः परमात्मेत्यर्थः । तत्रैवावान्तरवाक्ये सोपाधिकमपि स्वरूपमुक्तमित्याह — अथेति । निरुपाधिकभूमोक्त्यनन्तरं सोपाधिकमपि रूपमुच्यते । यस्मिन्परिच्छिन्ने वस्तुनि निष्ठो योऽविद्वानन्यद्द्रष्टव्यादि चक्षुरादिनाऽनुसन्धत्ते तदल्पं परिच्छिन्नमुपहितमित्यर्थः । भूम्नोऽल्पस्य च विशेषान्तरमाह — यो वा इति । अथेति द्योतितो विशेषो वाक्येन प्रकटितः । सोपाधिकेऽन्तर्यामिणि श्रुत्यन्तरमाह — सर्वाणीति । सर्वज्ञो हीश्वरो नामरूपादिकं विश्वं निर्माय तत्र प्रविश्याभिवदनादि कुर्वन्योऽवतिष्ठते तं विद्वानिहैवामृतो भवतीत्यर्थः । निरुपाधिके श्रुत्यन्तरमाह — निष्कलमिति । निष्कलं निरंशं, निरंशत्वादेव सर्वक्रियाशून्यं निष्क्रियं, तस्मादेव शान्तमपरिणामि, रागादिरहितं निरवद्यं धर्माधर्माद्यसंम्बद्धं निरञ्जनम् । नभसोऽस्य विशेषमाह — अमृतस्येति । यथा मृद्दारुमयः सेतुर्नदीकुल्यादिपरकूलप्राप्तेरुपायस्तथा संसारसागरस्य परं पारं परम्ब्रह्म तद्भावस्यामृतस्य वाक्योत्थबुद्ध्यभिव्यक्तं तदेव साधनं सेतुवदवस्थितम् । तस्योपशान्तत्वे दृष्टान्तमाह — दग्धेति । यथा दग्धेन्धनोऽग्निः शाम्यति तथाऽज्ञानं तदुत्थं च दग्ध्वा स्थितं प्रशान्तं प्रसन्नं विद्यादित्यर्थः । इतिभ्यां विश्वं दृश्यमादाय नञ्भ्यां तन्निषेधादपि श्रुत्यन्तरं निरुपाधिकार्थमाह — नेतीति । द्रव्यगुणादिसर्वद्वैतनिषेधादपि वाक्यं तथेत्याह — अस्थूलमिति । रूपद्वये श्रुत्यन्तरमाह — न्यूनमिति । निष्प्रपञ्चस्थानं न्यूनं परिच्छिन्नं, ततोऽन्यं निष्प्रपञ्चं मुक्तोपसृप्यं त्रिधापरिच्छित्तिशून्यं सच्चिदानन्दात्मकमित्यर्थः । उक्तवाक्यानामुपलक्षणत्वं विवक्षित्वोक्तम् — एवमिति । ननु ब्रह्मणो न द्वैविध्यं, युगपदेकस्य तद्विरोधात् , तत्राह — विद्येति । अद्वैतमेववास्तवं चेदुपास्योपासकादिभेदस्यावस्तुत्वादुपास्तिविध्यानर्थक्यमित्याशङ्क्याह — तत्रेति । उपास्तीनामपि मुक्त्यर्थत्वाद्विद्यावद्वस्तुगामितेत्याशङ्क्य साक्षान्न मोक्षार्थतेत्याह — तत्रेति । अभ्युदयार्थानि प्रतीकोपासनानि । क्रममुक्त्यर्थानि दहराद्युपासनानि । कर्मसमृद्ध्यर्थान्युद्गीथादिध्यानानि । यद्यपि विधेयत्वादेतानि कर्मकाण्डे युक्तानि तथापि मानसत्वेन विद्यासाम्यादिहोक्तानीत्यर्थः । उपास्यैक्यात्तत्प्राप्तेरुपास्तिफलत्वादुपास्तितत्फलभेदासिद्धिमाशङ्क्याह — तेषामिति । परस्य गुणभेदादुपास्तिभेदाच्च भेदेऽपि स्वरूपाभेदादुपास्त्यादिभेदायोगतादवस्थ्यमाशङ्क्य स्वरूपाभेदेऽप्युपहितभेदमाह — एक इति । उपास्तिप्रचयसंस्कारादुपास्यतद्गुणप्राप्तिरित्यत्र श्रुत्यन्तरमाह — यथेति । क्रतुः सङ्कल्पो ध्यानम् । ध्यानसंस्कारप्रचयाद्ध्येयात्मतां ध्याता देहपाते प्रतिपद्यते किंवा तदापि पूर्ववद्ध्यातृत्वमेवेति संशये संस्कारप्रकर्षाद्देवतात्मत्वमेवाप्नोतीति निर्णेतुमाह — स्मृतेश्चेति । सर्वत्रात्मैक्यात्तस्य कौटस्थ्यात्तस्यैवोपास्यत्वात्कुतस्तत्तारतम्यश्रुतिरित्याशङ्क्य नीहाराद्यावरणभेदादादित्यवद्विद्यातारतम्यादात्मा वस्तुतो निरतिशयोऽपि सातिशयो भातीत्याह — यद्यपीति । यथोक्तस्याप्यात्मनः स्थावरादारभ्य ब्रह्मान्तेषु प्राणिषूत्तरोत्तरमाविष्टस्य बुद्ध्युपाधिशुद्ध्युत्कर्षतारतम्यात्प्रज्ञाधीनैश्वर्यशक्तिविशेषैस्तारतम्यम् । तस्योक्तोपाधिकस्य प्रकृतस्मात्मनो यो ध्याता स्वरूपमाविस्तरामतिशयेन प्रकटमुपास्तिवशाद्बुध्यते सोऽश्नुते ह्याविर्भूयेत्यैतरेयके श्रुतम् । तथा चोपास्यतारतम्यं श्रौतमौपाधिकं युक्तमित्यर्थः । उपास्येश्वरतारतम्यं भगवद्गीतास्वपि सिद्धमित्याह — स्मृताविति । श्रुतिस्मृतितात्पर्यमाह — यत्रेति । न केवलं द्वैविद्यं ब्रह्मणः श्रुतिस्मृत्योरेव सिद्धं किन्तु सूत्रकृतोऽपि मतमित्याह — एवमिति । श्रुतिस्मृत्योरिव प्रकृतेऽपि शास्त्रे द्वैरूप्यं ब्रह्मणो भाति । तत्र सोपाधिकब्रह्मविषयमन्तस्तद्धर्माधिकरणमुदाहरति — आदित्येति । उक्तन्यायं तुल्यदेशेषु प्रसारयति — एवमिति । सोपाधिकोपदेशवन्निरुपाधिकोपदेशं दर्शयति — एवमित्यादिना । आत्मज्ञानं निर्णेतव्यमिति सम्बन्धः । निर्णेयप्रसङ्गमाह — परेति । अन्नमयाद्युपाधिद्वारोक्तस्य कथं परविषयत्वं, तत्राह — उपाधीति । निर्णयक्रममाह — वाक्येति । उक्तार्थमधिकरणं क्वास्तीत्याशङ्क्योक्तम् — यथेति । अस्मिन्नेवाधिकरणे यथा निरुपाधिकं ब्रह्मैवोच्यते यथा द्युभ्वाद्यायतनमित्यादिष्वपीत्यर्थः । श्रुतिस्मृतिसूत्रेषु दृष्टं ब्रह्मद्वैरूप्यं शिष्ट्वाऽनन्तरसन्दर्भारम्भं सम्भावयति — एवमिति । अपेक्षितोपाधिसम्बन्धमुपास्यत्वेन, निरस्तोपाधिसम्बन्धं च ज्ञेयत्वेनति सम्बन्धः । तस्याद्याप्यविवेकात्कुत्रोपाधिरिष्टः कुत्र वा नेति निरूपयितुमुत्तरग्रन्थ इत्यर्थः । सिद्धवदुक्तगतिसामान्यस्यापि साधनायेत्युत्तरस्योपयोगान्तरमाह — यच्चेति । वाक्यान्तराणि । व्याक्यातातिरिक्तानीति यावत् । मयट्शब्दश्रुतिः सन्निध्यनुग्राहिकेत्युक्तमनूद्य निरस्यति — विकारेति । तत्रानुवादं व्याख्याति — अत्राहेति । अभ्यासादिना तस्य परत्वे स्थिते कुतश्चोद्यमित्याह — कस्मादिति । बलवत्या श्रुत्योत्तरमाह — विकारेति । यथा ‘विकारे च प्रकृतिशब्दः’ इत्यत्र शालिविकारं भुङ्क्ते मुद्गविकारेणेत्यस्मिन्नर्थे शालीन्भुङ्क्ते मुद्गैरिति प्रकृतिशब्दो विकारे प्रयुक्तः, तथा विकारशब्दोऽपि प्रकृतौ स्यादित्याशङ्क्य व्याचष्टे — प्रकृतीति । कः पुनरत्र विकारशब्द इत्युक्ते ‘मयड्वा - ‘ इति सूत्रान्मयट्शब्दस्य विकारवाचित्वान्नानन्दमयस्य मुख्यात्मतेत्याह — आनन्देति । श्रुतेर्विकारार्थत्वे तद्युक्तः सन्निधिः संसारिणमेव गोचरयतीत्याह — तस्मादिति । मयटो विकारार्थत्वानियमान्न श्रुत्यनुग्रहः सन्निधेरित्याह — नेति । तदेव स्फुटयति — तत्प्रकृतेति । प्राचुर्येण प्रस्तुतं प्रकृतं, तदुच्यतेऽस्मिन्निति प्रकृतवचनमन्नादि । तदिति प्रथमासमर्थाद्यथोक्तेऽभिधेये मयट्प्रत्ययो भवतीति प्रचुरतायुक्तेऽपि वस्तुनि विकारवन्मयट्स्मरणान्न विकारार्थता नियतेत्यर्थः । प्राचुर्यार्थत्वं मयटो दृष्टान्तेन स्पष्टयति — यथेति । आनन्दमयशब्दस्यानन्दप्राचुर्यार्थत्वे तद्विपरीतदुःखस्यापि लेशतो ब्रह्मणि प्राप्तिरित्याशङ्क्याह — आनन्देति । ब्रह्मानन्दस्य मनुष्यत्वावधिषु पूर्वस्थानेषु सुखाल्पत्वापेक्षं प्राचुर्यं न स्वगतदुःखलेशापेक्षम् । अतो ब्रह्मण्यानन्दैकरस्यं युक्तमित्यर्थः । श्रुतेर्न सन्निधिसहायतेत्युपसंहरति —
तस्मादिति ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 सूत्रस्थं चकारं व्याकरोति — इतश्चेति । अवशिष्टं व्याकुर्वन्नितःशब्दार्थं स्फुटयति — यस्मादिति । ब्रह्मणो नात्रानन्दहेतुत्वं भातीत्याशङ्क्याह — आनन्दयतीत्यर्थ इति । ब्रह्मणो लौकिकानन्दहेतुत्वेऽपि कथं प्राचुर्यार्थता मयटः स्यादित्याशङ्क्याह — यो हीति । तदेव तद्दृष्टान्तेन स्फोरयति — यथेति । प्राचुर्यार्थत्वे मयटः स्थिते फलितमाह —
तस्मादिति ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 चशब्दार्थमाह — इतश्चेति । तदेव हेत्वन्तरमाह — यस्मादिति । तस्मादिति व्यवहितेन सम्बन्धः । यन्निर्धारितं तदेवेह गीयत इति योजना । प्रकरणाविच्छेदार्थं तदनुसन्धत्ते — यस्मादिति । भूतयोनेरेव सर्वप्रत्यक्तमत्वेन सर्वान्तरत्वमाह — यच्चेति । तस्यैव ज्ञेयत्वेन प्रकृतत्वमाह — यस्येति । तदेवात्रोच्यमानमिति कुतो गम्यते, तत्राह — मन्त्रेति । अविरोधादिति । एकार्थत्वे सत्युपायोपेयत्वयोगादित्यर्थः । तयोरनेकार्थत्वे दोषमाह — अन्यथेति । अन्नमयादीनामनात्मत्वेऽप्यविरोधवदिहापि स्यादित्याशङ्क्याह — नचेति । ब्रह्मणस्तदान्तरत्वं पुच्छश्रुतिहतमिति भावः । किञ्च भृगुवल्ल्यां पञ्चमपर्यायेणोपसंहारात्तस्य ब्रह्मार्थत्ववदत्रापि तस्य स्थानात्तदर्थतेत्याह — एतन्निष्ठेति । प्रकरणादिसिद्धमर्थमुपसंहरति —
तस्मादिति ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वसूत्रस्थं चकारमाकृष्य सूत्रस्य हेत्वन्तरपरत्वमाह — इतश्चेति । जीवस्य प्रतिपाद्यत्वाप्राप्त्या किं निषेध्यमित्यशङ्क्यानन्दमयशब्दवाच्यतेत्याह — नेति । तस्यापि वैषयिकविविधानन्दभाक्त्वात्तच्छब्दत्वं किं न स्यादित्याह — कस्मादिति । हेतुमादाय व्याकर्तुं भूमिकां करोति — अनुपपत्तिरिति । आलोचनं तपो नायासमयम् । असत्वेवं कानुपपत्तिः, तत्राह —
तत्रेति ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 जीवस्यानन्दमयत्वनिषेधे हेत्वन्तरमाह — भेदेति । चकारार्थं प्रतिज्ञाय प्रकटयन्भेदव्यपदेशं विशदयति — इतश्चेत्यादिना । स इत्यानन्दमयपरामर्श इति वक्तुमानन्दमयाधिकार इत्युक्तम् । श्रुतेरर्थमाह — जीवेति । कयानुपपत्त्या भेदोक्तिः, तत्राह — नहीति । लब्धैव लब्धव्यो नचेत् तर्हि श्रुतिस्मृत्योरनुपपत्तिरिति शङ्कते — कथमिति । का तयोरनुपपत्तिः, तत्राह — यावतेति । किमेकत्र वस्तुतो न लब्धृलब्धव्यत्वं किंवा कल्पनयापि । तत्राद्यमङ्गीकरोति — बाढमिति । श्रुत्याद्युपपत्तये द्वितीयं प्रत्याह — तथापीति । अप्रच्युतात्मभावोऽखण्डैकरस्यम् । लौकिको लोकादनपेतोऽप्रामाणिकः । तस्य फलवत्त्वमाह — तेनेति । अन्वेषणं विचारारम्भमात्रं, तत्फलाप्तिर्लाभः, श्रवणं शक्तितात्पर्यधीरिति भेदः । द्रष्टृद्रष्टव्यत्वादिसङ्ग्रहार्थमादिपदम् जीवत्वेनानन्दमयस्य जीवस्याविद्ययापि जीवाद्भेदाभावान्न भेदव्यपदेशः स्यादिति भावः । किमिति कल्पितभेदेन लब्धृलब्धव्यत्वाद्युच्यते, श्रुत्यादिवशाद्वास्तावो भेदोऽस्त्वित्याशङ्क्याह — प्रतिषिध्यत इति । जीवश्चेन्नेश्वरादन्यस्तर्हि सोऽपि ततोऽन्यो नेति तस्यापि कल्पितत्वमित्याशङ्क्याह — परमेश्वरस्त्विति । कल्पितस्याधिष्ठानादृते सत्त्वाद्ययोगाद्भेदेनासत्त्वेऽपि ततोऽन्यदेवाधिष्ठानं, सत्तास्फूर्त्योः स्वातन्त्र्यादिति मत्वा दृष्टान्तमाह — यथेति । सूत्रारूढः स्वतोऽपि मिथ्या, जीवे भेदमात्रं तथा, न स्वरूपमित्यपरितोषादुक्तम् — यथा वेति । तथापि सूत्रद्वयसामर्थ्यात्पारमार्थिकं भेदमाशङ्क्याह — ईदृशं चेति ।
अन्यथा श्रुतिसूत्रविरोध इति भावः ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 नन्वौपचारिकस्य कामयितृत्वस्य प्रधानेऽपि सम्भवात्तदेवानन्दमयत्वेन कारणत्वेन वापेक्ष्यतां, न परमात्मेत्याशङ्क्याह — कामाच्चेति । तद्व्याख्याति — आनन्देति । ईक्षत्यधिकरणे प्रधानस्य निरस्तत्वादिहापि तन्निरासे पुनरुक्तिरित्याशङ्क्याह — ईक्षतेरिति । प्रासङ्गिकनिरासस्य प्रकृतोपयोगमाह —
गतीति ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 आनन्दमयस्य प्रधानजीवयोरन्यतरत्वाभावे हेत्वन्तरं कामयितृत्वस्यागौणत्वं सूचयन्नाह — अस्मिन्निति । चशब्दार्थमाह — इतश्चेति । अस्मिन्नित्यादि व्याकुर्वन्नितःशब्दार्थं स्पष्टयति — यस्मादिति । प्रधानपक्षेऽपि तद्योगः स्यादित्याशङ्क्याह — तदात्मनेति । स्वतो भिन्नयोस्तादात्म्यसम्बन्धं व्यावर्तयति — तद्भावेति । उक्तार्थं पदमनूद्य क्रियापदापेक्षितं पूरयति — तद्योगमिति । यस्यामैक्यज्ञानावस्थायां विद्वानेतस्मिन्ब्रह्मणि पञ्चीकृतभूतपञ्चकेन, तत्कार्येण च समष्टिस्थूलदेहेन विराजा दृश्यशब्दितेनैक्यतादात्म्यशून्ये, स्वसम्बन्धितयाध्यस्तेन्द्रयजातेनापञ्चीकृतभूतकार्येणात्म्येन तादात्म्यादिहीने, निकृष्योच्यन्त इति निरुक्तानि भूतसूक्ष्माणि तैश्चाभेदवर्जिते, निःशेषलयस्थानं निलयनमिति मूलप्रकृतेरुक्तेस्तत्तादात्म्यादिरहिते, प्रकर्षेण स्थितिं पुनरावृत्तिरहितां लभते । अभयं यथा स्यादित्युक्तं व्यनक्ति — अथेति । ज्ञाने फलमुक्त्वा ज्ञानाभावे दोषमाह — यदा हीति । भेदस्यानादित्वात्तत्कारणाधीनदोषोक्तिरयुक्तेत्याशङ्क्याह — एतदिति । ‘अभयं प्रतिष्ठाम् ‘ इत्युक्त्वा पुनः ‘अभयं गतो भवति’ इत्युक्ते पुनरुक्तिरित्याशङ्क्याह — यदा त्विति । शास्त्रस्यान्यथासिद्धिं प्रत्याह — तच्चेति । वृत्तिकृतां मतमुपसंहरति — तस्मादिति । परस्य ज्ञेयत्वे कैवल्यं फलतीति मत्वाह — इति स्थितमिति । अत्र चानन्दमये परस्मिन्नात्मनि स्पष्टब्रह्मलिङ्गानां तैत्तिरीयकश्रुतीनां समन्वयादस्ति सङ्गतिचतुष्टयमिति स्वमतसङ्ग्रहार्थं स्वयूथ्यमतं दूषयति — इदं त्विति । इहेति परस्य व्याख्योक्तिः । पर्यायचतुष्टये मयटो विकारार्थत्वात्पञ्चमे पर्याये तादर्थ्यमिति प्रकरणं दर्शयति — स वा इति । ‘मयड्वा - ‘ इति सूत्रान्मयट्शब्दो विकारे श्रुतिरिति वक्तुं विकारार्थे मयडित्युक्तम् । विकारप्रकरणं प्रकटयितुं प्रवाहपदम् । प्रियाद्यवयवत्वस्य विकारार्थे लिङ्गत्वात्प्राचुर्यार्थत्वे च हेत्वभावान्मयटो न तदर्थतेत्याह — आनन्देति । एकस्यैव मयटोऽर्थद्वयं नेत्यत्र दृष्टान्तमाह — अर्धेति । श्रुतिलिङ्गप्रकरणविरोधेन प्राचुर्यार्थत्वे मयटो दृष्टान्तोऽपि नास्तीत्याह — कथमिति । विकारार्थत्वे निश्चिते तद्वाक्यस्य न ब्रह्मार्थतेत्याह — ब्रह्मेति । कथंशब्दस्य प्रश्नार्थतामुपेत्य प्रकरणेन शङ्कते — मान्त्रेति । न प्रकरणमात्रं नियामकमतिप्रसक्तेरित्याह — अन्नेति । तेषामब्रह्मत्वं लिङ्गादिति शङ्कते — अत्रेति । आनन्दमयादपि पुच्छं ब्रह्मान्यदान्तरमुक्तमित्याशङ्क्याह — आनन्देति । ब्रह्मण्यान्तरत्वमश्रुतं, पुच्छत्वं तु श्रुतमित्यर्थः । तस्मादान्तरस्यानुक्तौ प्राकरणिकमर्थमाह — तेनेति । तस्याब्रह्मत्वे दोषमाह — अन्यथेति । किमानन्दमयादान्तरत्वेनान्यस्यानुक्तेस्तस्य ब्रह्मत्वं, किंवान्यस्यैवानुक्तेरिति विकल्पयति — अत्रेति । तत्रानन्दमयादान्तरस्याश्रुतिमुपेत्य ब्रह्मत्वं प्रत्याह — यद्यपीति । अन्यस्य पुच्छब्रह्मणोऽभिधानादिति हेतुं ब्रुवन्द्वितीयं निराह — यत इति । इष्टार्थदृष्टौ व्यक्तं हर्षमात्रं प्रियम् । इष्टस्मृतौ हर्षो मोदः । स चाभ्यासात्प्रकृष्टः प्रमोदः । सुखमात्रमानन्दः । मन्त्रवर्णोक्तं ब्रह्म, पुच्छवाक्ये ब्रह्मशब्दात्प्रत्यभिज्ञातम् । ब्रह्मत्वे त्वानन्दमयस्य ब्रह्मशब्दस्यान्यत्र वृत्तिः, आनन्दमयशब्दस्य ब्रह्मण्यप्रयुक्तस्य तस्मिन्प्रयुक्तिश्चेत्ययुक्तं स्यादिति श्रुतितात्पर्यमाह — तत्रेति । आनन्दमयस्याब्रह्मत्वे तदुक्तिवैयर्थ्यमाशङ्क्यान्नमयादिवत्पुच्छब्रह्मज्ञापनार्था तदुक्तिरित्याह — तदिति । यदुक्तमानन्दमयस्याब्रह्मत्वे प्रकृतहानमप्रकृतप्रक्रिया चेति, तत्राह — तत्रेति । पुच्छब्रह्मवाक्यस्य स्वप्रधानब्रह्मार्थत्वे सतीति यावत् । पुच्छश्रुतिविरोधान्न तस्य स्वप्रधानार्थतेति शङ्कते — नन्विति । पुच्छशब्दस्यात्रावयवार्थत्वाभावे प्रकरणविरोधमाह — अन्नेति । पुच्छश्रुतेरवयवार्थत्वे फलितमाह — तत्रेति । स्वप्रधानब्रह्माधिकाराद्ब्रह्मशब्दात्तथैव तत्प्रत्यभिज्ञाने पुच्छशब्दविरोधे सत्येकस्मिन्वाक्ये प्रथमचरमश्रुतशब्दयोराद्यस्यानुपसञ्जातविरोधिनो बलीयस्त्वात्पुच्छत्वेन गुणत्वबाधया स्वप्रधानब्रह्मधीरित्याह — प्रकृतत्वादिति । अन्यथापि प्रकृतत्वं स्यादित्याह — नन्विति । किं प्रकृतं ब्रह्मानन्दमयवाक्ये पुच्छवाक्ये चोच्यते, किंवैकत्रेति विकल्पयति — अत्रेति । प्रथमं प्रत्याह — तथेति । अवयवावयवित्वस्य कल्पितत्वेऽप्यन्नमयादिष्विवैकत्र गुणप्रधानत्वायोगात् । यदि द्वितीयः, तत्राह — अन्यतरेति । अन्यतरस्मिन्वाक्ये ब्रह्मोक्तिस्वीकारे सतीत्यर्थः । वाक्यशेषादपि पुच्छवाक्य एवोच्यते स्वप्रधानं ब्रह्मेत्याह — अपिचेति । श्लोकस्यानन्दमयार्थत्वमाशङ्क्य तात्पर्यमाह — अस्मिंश्चेति । प्रतिष्ठेत्यत्रैवेति सम्बन्धः । आनन्दमयस्यैव ब्रह्मणो भावाभावधियोर्गुणदोषोक्तिरित्याशङ्क्याह — न चेति । पुच्छवाक्ये ब्रह्मशब्देन स्वप्रधानोक्तौ पुच्छशब्दस्य का गतिरिति पृच्छति — कथमिति । तस्य ब्रह्मणि वृत्तिमात्रं वान्विष्यते किं मुख्या वा वृत्तिः । आद्ये, पूर्वोक्तपृथिव्यादिपुच्छेष्वाधारत्वदृष्ट्या ब्रह्मण्यपि सर्वाधारे लक्षणया पुच्छपदमित्याह — नेति । न द्वितीयः, प्रतिष्ठाशब्दविरोधादित्याह — प्रतिष्ठेति । पुच्छत्वेऽपि परायणत्वं वारयति — एकेति । नीडत्वमाश्रितापेक्षं, तदाह — लौकिकस्येति । पूर्वस्योत्तरेण निर्णयान्नावयवार्थतेति फलितमाह — अनेनेति । उक्तेऽर्थे बृहदारण्यकं संवादयति — एतस्येति । ननु वृत्तिकारैरपि तैत्तिरीयकवाक्यं ब्रह्मण्येव समन्वितमिष्टं, तत्र किमुदाहरणभेदेनेत्याशङ्क्याह — अपिचेति । नन्विह सविशेषमेव ब्रह्मेष्टं, वाक्यशेषे रागादिमतोर्वाङ्भनसयोरगोचरो ब्रह्म, शुद्धधियोस्तु गोचर इत्यभ्युपगमादित्याशङ्क्य सविशेषस्य मृषात्वादप्राप्तनिषेधापाताच्च मैवमित्याह — निर्विशेषं त्विति । अतोऽभीष्टनिर्विशेषब्रह्मसिद्धये पुच्छवाक्यमेवोदाहर्तव्यमिति भावः । मयटो विकारार्थत्वोक्त्या प्राचुर्यार्थत्वं निरस्यता पुच्छवाक्ये स्वप्रधानब्रह्मोक्तिरुक्ता । सम्प्रति प्राचुर्यार्थत्वे दोषान्तरमाह — अपिचेति । स्वप्रकृत्यर्थप्रतियोग्यल्पतामत्रैवानपेक्ष्य स्थानान्तरस्थतत्सजातीयाल्पत्वापेक्षामात्रेण मयटोऽप्रयोगादित्यर्थः । अतिमधुरे रुच्यर्थं रसान्तरानुवेधवदानन्दे प्रीत्युत्कर्षार्थमीषद्दुःखानुषक्तिरिष्टेत्याशङ्क्याह — तथाचेति । प्राचुर्यार्थताभावान्मयटो नानन्दमयो ब्रह्मेत्यत्रैव हेत्वन्तरमाह — प्रतिशरीरं चेति । प्रतिदेहं सातिशयत्वेन भिन्नादानन्दमयाद्ब्रह्म सर्वानुगतमन्यदेवेत्यर्थः । यत्त्वभ्यासात् ‘आनन्दमयो ब्रह्म’ इति तत्र किमानन्दमयशब्दस्याभ्यासः किं वानन्दशब्दस्येति विकल्प्याद्येऽसिद्धिमाह — न चेति । आनन्दमयं प्रकृत्य ब्रह्मणि प्रयुक्तपूर्वानन्दशब्दस्याभ्यासो हेतुरिति द्वितीयं निरस्यति — यदिचेति । आनन्दमयस्य ब्रह्मत्वे प्रातिपदिकमात्राभ्यासोऽपि प्रकृतानन्दमयार्थः । ततस्तस्य ब्रह्मताधीरित्यन्योन्याश्रयतेति भावः । आनन्दपदाभ्यासस्तर्हि किंविषयः, पुच्छवाक्योक्तब्रह्मविषयः, इत्याह — तस्मादिति । आनन्दाभ्यासस्यानन्दमयार्थत्वायोगस्तच्छब्दार्थः । मयडन्तस्याप्यभ्यासात्कथं तदभ्याससिद्धिः, तत्राह — यस्त्विति । उपसङ्क्रमितव्यानां विवेकेन त्याज्यानामित्यर्थः । अन्नमयादावुपसङ्क्रमस्य विद्वत्फलाप्त्यर्थत्वादानन्दमयस्याब्रह्मत्वे ब्रह्माप्तेरनुक्तेः प्रक्रमभङ्ग इति शङ्कते — नन्विति । किमिहोपसङ्क्रमणं प्राप्तिः, अतिक्रमो वा । आद्ये, अवयविप्राप्त्याऽवयवप्राप्तेरार्थिकत्वात्पुच्छब्रह्माप्तिरुक्तैव । द्वितीये, न ह्यतिक्रमस्य परतीराप्तिवत्कोशातिक्रमस्य ब्रह्माप्तित्वात्तत्प्राप्तिरर्थादुक्तेत्याह — नैष इति । ब्रह्माप्तेर्मन्त्रेण वक्ष्यमाणत्वाच्च तदनुक्तिरसिद्धेत्याह — तदपीति । यत्तु ‘सोऽकामयत’ इत्याद्यानन्दमयार्थं सत्तद्ब्रह्मत्ववोधीति, तत्राह — या त्विति । ‘रसो वै सः’ इत्यादेरुत्तरस्यानन्दमयार्थमुक्तं प्रत्याह — तदपेक्षत्वादिति । ‘सोऽकामयत’ इत्यादि ब्रह्मण्ययुक्तं, नपुंसके पुंलिङ्गायोगादिति शङ्कते — नन्विति । प्रक्रमेण समाधत्ते — नायमिति । यत्तु भृगुवल्ल्यां पञ्चमपर्यायस्य ब्रह्मार्थत्वादिहापि तादर्थ्यं स्थानादिति, तत्राह — या त्विति । इह मयटो विकारार्थस्य प्रियशिरस्त्वादेश्च श्रुतेरान्दमयस्याब्रह्मतेति शेषः । ब्रह्मणो निर्विशेषस्य नानन्दमयतेत्युपसंहरति — तस्मादिति । इष्टदृष्टेः तल्लाभात् , तत्स्मृतेश्चाभिव्यक्ताः मुखविशेषाः तन्मात्रं च प्रियादिशब्दार्थ इत्युक्तम् । सत्त्वोपसर्जनात्तमसस्तदुपसर्जनाद्रजसो द्वयोरुपसर्जनात्सत्त्वात्केवलाच्चाभिव्यक्तं सुखं तत्तच्छब्दवाच्यमित्याचार्याः । तेन विषयसम्बन्धं सत्त्वादिसम्बन्धं वा विशेषमीषन्मात्रमप्यनाश्रित्य ब्रह्मणः स्वतो न प्रियशिरस्त्वादि युक्तम् । तस्मादानन्दमयस्य सविशेषत्वात्प्रतिपाद्या ब्रह्मणोऽन्यतेत्यर्थः । इहापि सविशेषमेव प्रतिपाद्यमित्याशङ्क्योक्तं स्मारयति — नचेति । परमतनिरासमुपसंहरति — तस्मादिति । स्वमते सूत्राणामननुगुणत्वमाशङ्क्य तानि योजयितुमुपक्रमते — सूत्राणीति । व्याख्यामेवाख्यातुं विषयमुक्त्वा पुच्छब्रह्मशब्दाभ्यां संशयमाह — ब्रह्मेति । स्वप्रधानत्वेनेति । संशये सतीति शेषः । पूर्वाधिकरणे मुख्येक्षणाद्ब्रह्मनिर्णये गौणः प्रायपाठो बाधितः । इह त्वाधारमात्रत्वेऽवयवमात्रत्वे च पुच्छशब्दस्य लाक्षणिकत्वसाम्येऽवयवप्रायदृष्टेरवयवार्थतेति सङ्गत्या पूर्वपक्षयति — पुच्छेति । तैत्तिरीयोपनिषदः स्पष्टब्रह्मलिङ्गाया निर्गुणब्रह्मान्वयोक्तेः श्रुत्यादिसङ्गतयः । परपक्षे पूर्वोत्तरपक्षयोरुपास्तिरेव फलम् । इह पूर्वपक्षे तथा सिद्धान्ते प्रमितिः । पूर्वपक्षमनूद्य सिद्धान्तयति — इति प्राप्त इति । स्वयूथ्यव्याख्यां व्यावृत्य स्वाभिमतां व्याख्यामाह — आनन्दमय इति । आनन्दमयशब्देन पञ्चमपर्यायस्थपुच्छवाक्यस्थं ब्रह्मपदमुपलक्ष्य तेन स्वप्रधानमेव ब्रह्मोच्यत इति प्रतिज्ञायां हेतुं व्याख्याति — असन्नेवेति । पूर्वपक्षबीजमनुभाष्यं दूषयति — विकारेति । वाचकत्वाभावादभिप्रेत इत्युक्तम् । परिहारभागमवतार्य व्याकरोति — अत्रेत्यादिना । ब्रह्माधिकरणमिति वाच्ये पूर्वत्रावयवप्रधानप्रयोगात्तस्य बुद्धिस्थत्वात्तेनाप्यधिकरणलक्षणात्पुच्छोक्तिरिति तात्पर्यमाह — अवयवेति । तदेव प्रपञ्चयति — अन्नेति । तत्र गमकमाह — यदिति । इतश्च पुच्छवाक्ये पुच्छशब्देनावयवो नोच्यते किन्त्वाधारो लक्ष्यत इत्याह — तद्धेत्विति । तद्व्याचष्टे — सर्वस्येति । तथापि कस्मादानन्दमयावयवत्वं ब्रह्मणो नेष्यते, तत्राह — नचेति । इतश्चानन्दमयः परमात्मा, यतः ‘सत्यम् ‘ इत्यादिमन्त्रवर्णेन यद्ब्रह्मोक्तं तदेवानन्दमयशब्देन विशिष्टद्वारा लक्ष्यमाणजीवचैतन्यस्य स्वरूपमिति पुच्छवाक्येन ‘तत्त्वमसि’ इतिवद्गीयते, ‘ब्रह्मविदाप्नोति’ इति ब्रह्मविदस्तत्प्राप्त्यभिधानेन ब्रह्मात्मनोरैक्योपक्रमात् । ‘स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ‘ इत्यैक्योपसंहारात् । मध्येऽपि विशिष्टद्वारा स्वरूपैक्ये तात्पर्यस्य युक्तत्वादित्याह — मान्त्रवर्णिकमिति । इतश्च पुच्छवाक्यस्थं ब्रह्मैव स्वप्रधानं प्रतिपाद्यं, इतरस्त्वानन्दमयो न प्रतिपाद्यः, वैषयिकप्रियादिमत्त्वेन तत्र मुख्यस्रष्टृत्वाद्यनुपपत्तेरित्याह — नेतर इति । इतश्च नानन्दमयोऽत्र प्रतिपाद्यते, ब्रह्मानन्दप्रतिबिम्बितं रसशब्दितं लब्ध्वायमानन्दमयः स्वयमानन्दी भवतीति ब्रह्मणो भेदेन तस्योक्तेर्ब्रह्मत्वायोगादित्याह — भेेदेनेति । ननु भृगुवल्ल्यामानन्दस्य ब्रह्मत्वादानन्दमयस्यापि ब्रह्मत्वं पञ्चमपर्यायस्थत्वादनुमीयते, तत्राह — कामाच्चेति । काम्यत इति काम आनन्दः । तस्य ब्रह्मत्वदृष्टेर्नानुमानेनानन्दमयस्यापि ब्रह्मत्वमपेक्षितव्यम् । विकारार्थमयङ्विरोधादित्यर्थः । इतोऽपि नानन्दमयोऽत्र प्रतिपाद्यते, पुच्छवाक्योक्ते ब्रह्मणि प्रतिबुद्धस्यानन्दमयस्य ‘यदा हि’ इत्यादिना तत्प्राप्तिमोक्षाभिधानात् । तस्मादानन्दमयशब्दवाच्यस्याप्रतिपाद्यत्वात्तल्लक्ष्यस्य ब्रह्मणोऽव्यतिरेकात्पुच्छवाक्यस्थं ब्रह्मैवात्र स्वप्रधानं प्रतिपाद्यमिति तत्प्रमित्या कैवल्यं फलतीत्याह — अस्मिन्निति । तदेतदाह —
अपराण्यपीति ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 समन्वयस्य सविशेषपरत्वमपोद्योत्सर्गः स्थापितः । अधुनापवादार्थत्वेनाधिकरणमवतारयति — अन्तरिति । छान्दोग्यस्थं वाक्यमुदाहरति — इदमिति । ऋक्सामयोः पृथिव्यग्न्याद्यात्मत्वोक्त्यनन्तरमुपास्तिप्रस्तावार्थोऽथशब्दः । ‘य एष’ इति शास्त्रप्रसिद्धिः, सन्निधिश्चोक्ता । तस्योपास्त्यर्थमाधिदैविकं स्थानमाह — अन्तरिति । आदित्यमण्डलस्य मध्ये स्थित इति यावत् । ध्यानार्थमेव रूपविशेषमाह — हिरण्मय इति । ज्योतिर्मय इत्यर्थः । स्थानकृतं परिच्छेदं व्यवच्छिनत्ति — पुरुष इति । तत्रावहितधियामनुभवं प्रमाणयति — दृश्यत इति । तर्हि पुरुषत्वात्पूर्णस्य कथमुपास्तिः, तत्राह — हिरण्येति । तद्वज्ज्योतिर्मयान्येवास्य श्मश्रूणि केशाश्चेति तथोक्तः । किं बहुना, आप्रणखात् प्रणखो नखाग्रं तेन सह सर्व एव सुवर्णो ज्योतिर्मयः । चक्षुषोर्विशेषमाह — तस्येति । कपेर्मर्कटस्यासः पृष्ठभागोऽत्यन्ततेजस्वी तत्तुल्यं पुण्डरीकं यथात्यन्तदीप्तिमत्तथास्य देवस्याक्षिणी प्रकृष्टदीप्तिमती । ध्यानार्थमेव नाम करोति — तस्येति । कथं तस्योदितिनामत्वं, तदाह — स इति । उदित उद्गतः । सकार्यसर्वपापास्पृष्ट इत्यर्थः । ध्यानफलमुदेतीति । आदिशब्दात् ‘तस्यर्च्क साम च गेष्णौ’ इत्याद्युक्तमधिदैवतं, देवतामधिकृत्योपास्तिवाक्यमित्यर्थः । आधिदैवध्यानोक्त्यनन्तरमात्मानं देहमधिकृत्यापि तदुक्तिरित्याह — अथेति । ऋक्सामयोर्वाक्प्राणाद्यात्मत्वोक्त्यानन्तर्यमथेत्युक्तम् । आदिशब्दात् ‘सैवर्क् तत्साम’ इत्याद्युक्तम् । स्थानद्वयस्थं पुरुषं विषयीकृत्य रूपत्त्वश्रुत्या सर्वपापास्पर्शश्रुत्या च संशयमाह — तत्रेति । कश्चिदित्यादित्यक्षेत्रज्ञ उक्तः । पूर्वसूत्रे ब्रह्मपदमानन्दमयपदमानन्दपदार्थाभ्यासश्चेति मुख्यत्रयार्थबहुप्रमाणवशान्निर्विशेषनिर्णयवद्रूपवत्त्वादिबहुप्रमाणात्संसारी हिरण्मयः पुरुष इति सङ्गत्या पूर्वपक्षमाकाङ्क्षापूर्वकमाह — किं तावदिति । स्फुटब्रह्मलिङ्गोक्तश्रुते सगुणे ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वोत्तरपक्षयोरपरस्य परस्य चोपास्तिरेव फलम् । सर्वैरुपास्यत्वाय पर एव कस्मान्नेति पृष्ट्वा हेतुमाह — कुत इति । चाक्षुषे पुरुषे यथोक्तं रूपं न श्रुतमित्याशङ्क्याह — अक्षीति । परस्यैव स्थानभेदाद्रूपवत्त्वमुपदेशातिदेशाभ्यामिति चेत् , नेत्याह — नचेति । परापरिग्रहे हेत्वन्तरमाह — आधारेति । अनन्तशक्तित्वात्तस्याप्याधारश्रुतिरित्याशङ्क्याह — नहीति । परस्यानाधारत्वे स्वमहिमप्रतिष्ठत्वं हेतुः । तत्र मानं ‘स भगवः’ इति । तत्रैव हेत्वन्तरं सर्वव्यापित्वम् । तत्रापि मानमाह — आकाशवदिति । ईश्वराग्रहे हेत्वन्तरमाह — ऐश्वर्येति । ‘स एषः’ इत्याधिदैविकपुरुषोक्तिः । अमुष्मादादित्यादूर्ध्वगा ये लोकास्तेषामीशिता, ये च देवानां कामा भोगास्तेषां चेत्यर्थः । ‘स एषः’ इत्याध्यात्मिकपुरुषोक्तिः । एतस्माच्चक्षुषः सकाशादर्वाग्गता ये लोकास्तेषामीशिता, ये च मनुष्याणां कामा भोगास्तेषां चेत्येतस्य मर्यादावदैश्वर्यमुक्तमित्यर्थः । परस्यापि ध्यानार्थं तादृगैश्वर्यं स्यात् , नेत्याह — न चेति । ‘एष सर्वेश्वरः' इत्यविशेषश्रुतेरिति सम्बन्धः । कथमेतस्य सर्वेश्वरत्वं, यतो भूतानां नियन्ता यमोऽस्ति, नेत्याह — एष इति । कथं परो भूतानामधिष्ठाय पालयिता, पालयितुरिन्द्रादेः सत्त्वात् , तत्राह — एष भूतेति । तथापि ब्रह्मा मर्यादास्थापकोऽस्ति कुतोऽस्य सर्वेश्वरत्वं, तत्राह — एष इति । यथा मृद्दारुमयः सेतुर्जलव्यूहस्य क्षेत्रसम्पदामसम्भेदाय धारयिता तथैषोऽपि सर्वेषां वर्णादीनामसङ्कराय धारयिता स्यादित्यर्थः । मर्यादाधाररूपश्रुतेरादित्यक्षेत्रज्ञ एवात्रोपास्य इत्युपसंहरति — तस्मादिति । तस्य कर्मानधिकारात्सर्वपाप्मविगमः । सर्वात्मत्वमुपासनायै स्तुत्यर्थमनूद्यत इति भावः । पूर्वपक्षमनूद्य सूत्रमवतार्य प्रतिज्ञां व्याकरोति — एवमित्यादिना । प्रथमश्रुतरूपवत्त्वादिना चरमश्रुतसर्वपाप्मविगमादेर्नेयत्वान्न परस्य प्राप्तिरित्याह — कुत इति । फलवत्पाप्मविगमादिलिङ्गस्य चरमस्यापि तच्छून्यत्वेनाविवक्षिताल्लिङ्गादाद्यादपि बलीयस्त्वात्तद्वशेनेतरन्नेयमित्याह — तद्धर्मेति । इहेति स्थानद्वयस्थपुरुषोक्तिः । आदित्यक्षेत्रज्ञस्यापि कर्मानधिकारात्पाप्मास्पर्शो युक्तः, ‘न ह वै देवान्पापम् ‘ इति श्रुतेरित्याशङ्क्याह — सर्वेति । देवादिषु पश्वादिवत्कर्मानधिकारेऽपि प्राचिभवे सञ्चितपापयोगात्तदल्पत्वात् ‘न ह वै देवान् ‘ इत्युक्तेर्न जीवः सर्वपापास्पृष्टः । प्रदेशान्तरे च तस्य परस्मिन्नेव श्रुतेरत्रापि तद्दृष्ट्या तत्प्रत्यभिज्ञानात्तस्यैवोपास्यतेति भावः । सार्वात्म्यमपि श्रुतं न संसारिणि युक्तमित्याह — तथेति । तत्र तच्छब्दैश्चाक्षुषनरोक्तिः । ऋगादिविधेयापेक्षया विलक्षणलिङ्गोक्तिः । उक्थं शस्त्रविशेषः । तत्साहचर्यात्तत्साम स्तोत्रं, उक्थादन्यच्छस्त्रमृगुच्यते । ब्रह्म त्रयोवेदाः ऋगाद्यात्मना चाक्षुषस्य संसारित्वेऽपि स्तुतिरुपास्त्यर्थमित्याशङ्क्य मुख्यसम्भवे नामुख्यकल्पनेत्याह — सा चेति । तत्रैव हेत्वन्तरमाह — पृथिवीति । ऋगधिदैवतं पृथिव्यन्तरिक्षद्युनक्षत्रादित्यगतशुक्लभारूपा । साम चाग्निवाय्वादित्यचन्द्रादित्यगतपरकृष्णाख्यातिकृष्णरूपं ‘इयमेवर्गग्निः साम’ इत्यादिनोक्तम् । अध्यात्मं च वाक्चक्षुःश्रोत्राक्षिगतशुक्लभालक्षणा तावदृगुक्ता । साम च प्राणच्छायात्ममनोऽक्षिस्थकृष्णभारूपं ‘वागेवर्क्प्राणः साम’ इत्यादिनोक्तम् । एवमुभयत्रोक्तरूपे ऋक्सामे क्रमेणोक्त्वा पुरुषस्योक्तप्रकारर्क्चाभिहितप्रकारं साम चेत्येते द्वे गेष्णौ पादपर्वणी इति देवतायामुक्त्वात्मन्यपि तयोर्ऋक्सामयोरतिदेशेन गेष्णत्वमुक्तमित्यर्थः । तदपि संसारिविषयं किं न स्यात् , नेत्याह — तच्चेति । तत्रैव हेत्वन्तरमाह — तद्य इति । व्यवहारभूमिस्तच्छब्दार्थः । धनसनयो धनस्य लब्धारः । विभूतिमन्त इत्यर्थः । राजादीनामपि श्रीमतां गीयमानत्वदृष्टेरन्यथासिद्धिमाशङ्क्याह — तच्चेति । उक्तेऽर्थे स्मृतिमनुकूलयति — यद्यदिति । धनादिसमृद्धिमत्त्वं विभूतिमत्त्वम् । कान्तिमत्त्वं श्रीमत्त्वम् । बलवत्त्वमौर्जित्यम् । ईश्वरपक्षे हेत्वन्तरमाह — लोकेति । निरङ्कुशमनन्याधीनम् । सर्वपाप्मविरहादिना तस्यैवोपास्यतेत्युक्त्वा परोक्तमनुवदति — यत्त्विति । रूपवत्त्वं नावश्यं संसारिलिङ्गमित्याह — अत्रेति । मायामयस्यापि रूपस्य हिरण्यश्मश्रुत्वादिनियमे हेतुमाह — इच्छेति । तथाविधरूपोपयोगमाह — साधकेति । तस्येच्छापि मायामयीति मत्वाह — मायेति । यथादृष्टि देहादिवैशिष्ट्यमीश्वरस्य तात्त्विकमित्याशङ्क्याह — सर्वेति । अरूपश्रुतिविरुद्धं रूपवत्त्वमित्युक्तमाशङ्क्य विषयभेदमाह — अपिचेति । तात्त्विकमैश्वरं रूपमाश्रित्याशब्दादिशास्त्रे कथं तस्य रूपादिमत्त्वोक्तिः, तत्राह — सर्वेति । निर्विशेषमेव ब्रह्मात्र प्रतिपाद्यं तज्ज्ञानादेव मुक्तिरित्याशङ्क्योपास्तिवाक्यत्वात्सविशेषोक्तिरित्याह — तथेति । स्वमहिमप्रतिष्ठस्याधारायोगादत्र चाधारश्रुतेरीश्वरादर्थान्तरतेत्युक्तमनुवदति — यदपीति । आधारानपेक्षस्यापि फलवशात्तदुक्तेर्नानीश्वरतेत्याह — अत्रेति । किमित्युपासनायै तदुक्तिः, साक्षादेव किं न स्यात् , तत्राह — सर्वगतत्वादिति । मर्यादावदैश्वर्यमीश्वरस्य नेत्युक्तं प्रत्याह — ऐश्वर्येति । एकस्यैवेश्वरस्य स्थानभेदावच्छेदादैश्वर्यमर्यादाकरणं पृथगनुध्यानार्थं न परिच्छेदप्राप्त्यर्थमित्यर्थः । परोक्तलिङ्गानामन्यथात्वे फलितमाह —
तस्मादिति ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 उपास्योद्देशेनोपास्तिविधेर्विधेयक्रियाकर्मणोर्व्री्ह्यादिवदन्यतः सिद्धिर्वाच्येत्याशङ्क्याह — भेदेति । आदित्यक्षेत्रज्ञादन्तर्यामिणः । श्रुत्यन्तरे भेदोक्तेस्ततोऽन्य ईश्वरः सिद्ध इत्यक्षरार्थमाह — अस्तीति । आदित्यमण्डले स्थितरश्मिपुञ्जस्यापि स्यादित्यत उक्तम् — आदित्यादिति । तज्जीवं व्युदस्यति — यमिति । तस्य देहित्वे जीवत्वमदेहित्वे न नियन्तृतेत्याशङ्क्याह — यस्येति । इतश्चादित्यजीवादन्योऽसावित्याह — य इति । तस्य ताटस्थ्यं वारयति — एष इति । श्रुत्यन्तरस्याप्यनीश्वरविषयत्वमाशङ्क्याह — तत्रेति । तथापि प्रत्यभिज्ञापकाभावान्नेह तदुपास्तिरित्याशङ्क्याह — स एवेति । आदित्यान्तःस्थत्वश्रुतिसाम्यात्प्रत्यभिज्ञया पर एवोद्गीथे ध्येयत्वेनोपदिश्यत इत्युपसंहरति —
तस्मादिति ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वत्राव्यभिचारिलिङ्गेन रूपवत्त्वाद्यन्यथा नीतम् । इह तु लिङ्गान्न श्रुतिरन्यथयितव्येति प्राप्ते प्रत्याह — आकाश इति । छान्दोग्यवाक्यमेवोदाहरति — इदमिति । 'हन्ताहमेतद्भगवत्तो वेदानि’ इत्युपसन्नः शालावत्यः ‘विद्धि’ इति जैवलिनोक्ते पृच्छति — अस्येति । सर्वस्यैव प्रपञ्चस्य प्रतिष्ठाप्रश्ने प्रवाहणस्योत्तरमाह — आकाश इति । कथं भूताकाशः सर्वजगत्प्रतिष्ठा, तत्राह — सर्वाणीति । उपनिषदां तदभिज्ञानां च प्रसिद्धमेतदिति द्योतकौ निपातौ । निमित्तमात्रत्वं निराकर्तुं विशिनष्टि — आकाशमिति । भूताकाशव्यावृत्तये हेत्वन्तरमाह — आकाशो हीति । तत्रैव हेत्वन्तरं सूचयति — आकाश इति । विचारबीजं संशयमाह — तत्रेति । अनतिप्रसङ्गार्थं प्रश्नद्वारा निमित्तमाह — कुत इति । क्वचिदित्युक्तं स्पष्टयति — यत्रेति । असाधारणगुणश्रुतेराकाशशब्दस्य ब्रह्मार्थत्वे दृष्टान्तः — यथेति । असाधारणेनानन्देनान्यत्रासम्भावितेन सामानाधिकरण्यादाकाशो ब्रह्मेत्यर्थः । वाक्यशेषादाकाशस्य ब्रह्मत्वे दृष्टान्तमाह — आकाश इति । निपातावाकाशस्य नामरूपोपलक्षितसर्वप्रपञ्चनिर्वाहकत्वप्रसिद्ध्यर्थौ । ते नामरूपे यदन्तरा यस्मादन्ये यस्य वा मध्ये स्तः, तन्नामरूपास्पृष्टं ब्रह्मेति वाक्यशेषादत्राकाशो ब्रह्मेत्यर्थः । ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते’ इत्यादिवाक्यसङ्ग्रहार्थमादिपदम् । यथैवमादावाकाशो ब्रह्म तथात्रापीति योजना । रूढिनिरूढिभ्यां संशयमुपसंहरति — अत इति । विमृश्य पूर्वपक्षयति — किं पुनरिति । स्फुटब्रह्मलिङ्गोक्तश्रुतेरुद्गीथे सम्पाद्योपास्ये ब्रह्मणि समन्वयोक्तेः सङ्गतयः । पूर्वपक्षे भूताकाशदृष्ट्योद्गीथोपास्तिः, सिद्धान्ते ब्रह्मदृष्ट्येति फलम् । वैदिकप्रयोगस्य तादृक्प्रयोगाद्ब्रह्मार्थत्वे सिद्धे कुतो भूताकाशार्थतेति शङ्कित्वा हेतुमाह — कुत इति । प्रथमश्रुताकाशश्रुत्या भूतार्थे रूढ्या चरमश्रुतब्रह्मलिङ्गबाधान्न श्रुत्यन्तरेण ब्रह्मार्थतेत्यर्थः । ब्रह्मण्यपि साधारणत्वान्नाकाशश्रुतिर्ब्रह्मलिङ्गबाधिकेत्याशङ्क्याह — नचेति । एकस्यापि गोशब्दस्यानेकार्थत्वमगत्याऽभीष्टं, ब्रह्मणि त्वाकाशशब्दो गौणत्वेनापि गच्छतीत्याह — तस्मादिति । गौणत्वार्थं गुणयोगमाह — विभुत्वेति । गुणवृत्तेरपि शब्दवृत्तित्वात्तया किं न ब्रह्म गृह्यते, तत्राह — नचेति । ननु नेह मुख्यं सम्भवति तत्र सर्वकारणत्वायोगादतो मुख्यगौणयोर्मुख्ये संप्रत्ययन्यायस्यानवकाशत्वं, तत्राह — सम्भवतीति । तदेव साधयितुं शङ्कयति — नन्विति । आकाशस्य प्रथमश्रुतत्वेनासञ्जातविरोधित्वात्तद्बुद्धौ तदेकवाक्यस्थमुपस्थितं सर्वमुपजातविरोधित्वात्तदानुगुण्येन नेयमित्याह — नेति । तत्रैव तैत्तिरीयकश्रुतिसंवादमाह — विज्ञायते हीति । तथापि कथं वाक्यशेषो भूताकाशे स्यात् , तत्राह — ज्यायस्त्वेति । भूताकाशेऽपि शेषोपपत्तौ फलितमाह — तस्मादिति । भूताकाशदृष्ट्योद्गीथोपास्तिरिति प्राप्तमनूद्य सिद्धान्तयति — एवमिति । रूढ्या प्रयोगबाहुल्याच्च सिद्धभूताकाशत्यागे न हेतुरिति शङ्कित्वा हेतुमादाय व्याचष्टे — कुत इति । ननु वादिनः सर्वयोनित्वं ब्रह्मणो नेच्छन्ति तत्राह — परस्माद्धीति । तस्यान्यथासिद्धिं स्मारयति — नन्विति । उक्तमुपेत्य प्रत्याह — सत्यमिति । तत्र तत्र तेजःप्रभृतिषु वाय्वादेरपि कारणत्वादवधारणासिद्धिः, मूलकारणापेक्षायां ब्रह्मण्येव तद्युक्तम् । सर्वाणीति भूतविशेषणं च भूताकाशपक्षे वाय्वादौ सङ्कुचितं स्यात्तस्मान्नान्यथासिद्धिरित्यर्थः । सर्वभूतोत्पादकत्ववत्तल्लयाधारत्वमपि ब्रह्मलिङ्गमित्याह — तथेति । ब्रह्मणो लिङ्गद्वयमाह — आकाशो हीति । भूताकाशस्यापि ज्यायस्त्वादि सापेक्षमुक्तमित्याशङ्क्याह — ज्यायस्त्वमिति । नैरपेक्ष्यधिया तरपो वचनम् । न केवलं युक्त्यास्य परायणत्वं, श्रुतेरपीत्याह — श्रुतिरिति । रातेर्धनस्य दातुर्यजमानस्येति । रातिरितिपाठे बन्धुरित्यर्थः । आकाशो ब्रह्मेत्यत्र लिङ्गान्तरमाह — अपिचेति । शालावत्यो दाल्भ्यो जैवलिरित्युद्गीथविद्याकुशलानां किं परायणमुद्गीथस्येति विचारे स्वर्गलोक एवेति दाल्भ्योक्तं निरस्यायं लोक इति शालावत्योक्तौ ‘अन्तवद्वै किल ते शालावत्य साम’ इति पृथिवीलोकस्यान्तवत्त्वात्प्रतिष्ठितत्वं निन्दित्वा जैवलिना साम प्रतिष्ठारूपमनन्तमेव विवक्षता गृहीतमाकाशं नान्तवद्युक्तम् , अतो ब्रह्मैवाकाशमित्यर्थः । नन्वनन्तमाकाशमिह नोपसंह्रियते किन्तूद्गीथः, तत्कथमानन्त्यादाकाशो ब्रह्म, तत्राह — तं चेति । 'स एषः’ इत्याकाशात्मत्वोक्तिः । देशतोऽनन्तत्वं परत्वम् । गुणत उत्कृष्टत्वं वरीयस्त्वम् । कालतो वस्तुतश्चापरिच्छिन्नत्वमानन्त्यम् । परेभ्यः स्वरादिभ्योऽतिशयेन श्रैष्ठ्यं वा परोवरीयस्त्वम् । तथापि कथमाकाशो ब्रह्म तत्राह — तच्चेति । नाब्रह्मणस्त्रिधानन्त्यं, तेनोपक्रमोपसंहारप्रतिपाद्यतात्पर्यवदानन्त्यमाकाशस्य ब्रह्मत्वबोधीत्यर्थः । श्रुतिबाधो लिङ्गान्न दृष्ट इत्युक्तमनुवदति — यदिति । ‘त्यजेदेकं कुलस्यार्थे’ इतिन्यायाद्भूयसीनां ब्रह्मलिङ्गश्रूतीनामनुग्रहायाकाशश्रुतेरेकस्या बाध इत्याह — अत्रेति । किञ्चाकाशशब्दस्य ब्रह्मणि प्रयोगप्राचुर्यादत्यन्ताभ्यासेन गौणादपि तस्मादाद्या धीः स्यादित्याह — दर्शितश्चेति । नाकाशशब्दस्यैव ब्रह्मणि बहुकृत्वः प्रयोगः, तत्पर्यायाणां चेत्याह — तथेति । व्योमन्व्योम्नि, परमे प्रकृष्टे, अक्षरे कूटस्थे ब्रह्मणि, ऋगुपलक्षिताः सर्वे वेदा ज्ञापकाः सन्ति, यस्मिन्नक्षरे विश्वे देवा अधि निषेदुरधिष्ठिताः, स्वरूपत्वेन प्रविष्टा इत्यर्थः । भार्गवी भृगुणा प्राप्ता । वारुणी वरुणेनोक्ता । सैषा विद्या ‘आन्दो ब्रह्मेति व्यजानात्’ इति प्रकृता परस्मिन्ब्रह्मणि व्योम्नि स्थितेत्यर्थः । ओङ्कारस्य प्रतीकत्वेन वाचकत्वेन लक्षकत्वेन वा ब्रह्मत्वमुक्तम् — ओमिति । कं सुखं तस्यार्थेन्द्रिययोगजत्वं वारयितुम् — खमिति । तस्य भूताकाशत्वं व्यासेद्धुम् — पुराणमित्युक्तम्। किञ्च तत्रैव प्रथमानुगुण्येनोत्तरं नीयते, यत्र तन्नेतुं शक्यं, यत्र त्वशक्यं तत्रोत्तरानुगुण्येनेतरन्नेयमित्याह — वाक्येति । तत्र दृष्टान्तः — अग्निरिति । आकाशश्रुतेर्गौणत्वे फलितमुपसंहरति —
तस्मादिति ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 आकाशवाक्योक्तमनन्तरवाक्येऽतिदिशति — अत एवेति । तत्रोदाहरणम् — उद्गीथ इति । ‘परोवरीयांसमुद्गीथमुपास्ते’ इत्युक्तत्वात् । ‘अथातः शौव उद्गीथः’ इति च वक्ष्यमाणत्वादुद्गीथाधिकारे प्रासङ्गिकं प्रस्तावध्यानमिति वक्तुमुद्गीथ इत्युक्तम् । कश्चिदृषिश्चाक्रायणो नाम धनार्थं राज्ञो यज्ञं गत्वा ज्ञानवैभवं स्वस्य प्रकटयन्प्रस्तोतारमुवाच, हे प्रस्तोतः, या देवता प्रस्तावं भक्तिविशेषमन्वायत्ता तां चेदविद्वान्मम विदुषः सन्निधौ प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति । स भीतः सन्पप्रच्छ — कतमा इत्यादिना । प्रतिवचनम् — प्राण इति । मुख्यप्राणं व्यावर्तयति — सर्वाणीति । प्राणमभिलक्ष्य लयकाले संविशन्ति, जन्मकाले तमेवाभिलक्ष्योज्जिहत उद्गच्छन्ति, सैषा परा देवता प्रस्तावं भक्तिविशेषमनुगतेत्यर्थः । अतिदेशकृतमर्थमाह — तत्रेति । आकाशशब्दस्योभयत्र प्रयुक्तेः संशयेऽपि प्राणशब्दस्य नैवमिति कुतः संशयादिः, तत्राह — प्राणेति । मनःशब्दलक्ष्यं तत्साक्षिचैतन्यं प्राणे परस्मिन्नैक्येन स्थितमित्यर्थः । ये प्राणस्य पञ्चवृत्तेर्वायुविकारस्य प्राणं सत्तास्फूर्तिदमात्मानं विदुस्ते ब्रह्म जानन्तीत्याह — प्राणस्येति । अमृतः प्राणो ब्रह्मैवेत्यादिसङ्ग्रहार्थमादिपदम् । तथापि कुतः संशयः, तत्राह — वाय्विति । हेतुमुक्त्वा फलमाह — अत इति । इहेति प्रस्ताववाक्योक्तिः । अनन्तार्थपरोपक्रमोपसंहाराभ्यामाकाशस्य ब्रह्मत्वेऽप्यत्र ब्रह्मासाधारणधर्मोपक्रमाद्यदृष्टेर्न ब्रह्मतेति धिया विमृश्य पूर्वपक्षयति — किमिति । प्रस्तावश्रुतेः स्पष्टब्रह्मलिङ्गतया ब्रह्मणि प्रस्तावेऽध्यस्य ध्येये समन्वयोक्तेः सङ्गतयः । पूर्वपक्षे प्राणदृष्ट्या प्रस्तावोपास्तिः सिद्धान्ते ब्रह्मदृष्ट्येति फलम् । वैदिकप्राणशब्दस्य तादृक्प्रयुक्तिसिद्धे ब्रह्मणि वाचकत्वमाशङ्क्याह — तत्रेति । तात्पर्यरहितलौकिकवैदिकप्रयोगत्यागात्तात्पर्यवदनेकलिङ्गात्पूर्वन्यायेन ब्रह्म ग्राह्यमिति शङ्कते — नन्विति । ज्यायस्त्वादि लिङ्गमत्र नास्तीत्याशङ्क्याह — इहेति । अन्यथासिद्धेर्न श्रुतिबाधकतेत्यह — नेति । तदेवं वैदिकं दर्शनमाह — एवं हीति । तर्हि तस्यामवस्थायामिति यावत् । वाक् अनुक्तकर्मेन्द्रियोपलक्षणम् । चक्षुःश्रोत्रे तादृग्बुद्धीन्द्रियाणाम् । बुद्धिरपि मनसा लक्ष्यते । प्राणस्यापि स्वापे बुद्ध्यादिवल्लयान्न लयस्थानतेत्याशङ्क्याह — प्रत्यक्षं चेति । ननु भूतानामुत्पत्त्यादिवाक्याशेषे श्रुतं भूतशब्दश्च प्राणिसमूहस्य महाभूतानां च वाचको नेन्द्रियमात्रस्य, तन्न प्राणे वाक्यशेषः सिद्धः तत्राह — इन्द्रियेति । भूतेष्विन्द्रियाणि सूक्ष्मत्वाद्भोक्तृसामीप्याच्च साराणि, अतस्तेषां लयोदयोक्त्येतरेषामपि तत्सिद्धेः शेषघटनेत्यर्थः । अब्रह्मसाहचर्याच्च प्राणो न ब्रह्मेत्याह — अपिचेति । उद्गात्रा कतमा सा देवतोद्गीथमन्वायत्तेति पृष्टश्चाक्रायणः प्रत्युवाच, आदित्य इति । प्रतिहर्त्रा च कतमा सा देवता प्रतिहारमन्वायत्तेति पृष्टोऽन्नमित्युवाचेत्यादिना भक्तिदेवते कार्यकरणवत्यावादित्यान्ने उक्ते । तयोरब्रह्मणोः सन्निधानात्प्राणस्यापि भक्तिदेवतात्वादब्रह्मतेत्यर्थः । सन्निध्यनुगृहीतप्रथमश्रुतप्राणश्रुत्या वायुविकारसिद्धौ तद्दृष्ट्या प्रस्तावोपास्तिरित्युपसंहर्तुमितिशब्दः । पूर्वपक्षमनूद्य सिद्धान्तयति — एवमिति । ज्यायस्त्वादिवन्नात्र लिङ्गं भातीत्यशङ्क्याह — प्राणस्येति । ब्रह्मलिङ्गं स्फोरयितुं श्रुतेरर्थमाह — प्राणेति । वाक्यशेषस्यान्यथासिद्धिं स्मारयति — नन्विति । स्वापाद्युक्तेः संवर्गविद्याधिकारात्प्रकृतोक्तेश्चोद्गीथसम्बन्धान्नानयोरेकवाक्यतेत्याह — अत्रेति । किञ्च वाक्यशेषस्थो भूतशब्दो योगाद्विकारजातं ब्रूयात् , रूढ्या वा महाभूतानि । आद्ये, प्रकृतवाक्यस्य न स्वापादिवाक्येन तुल्यार्थतेत्याह — स्वापेति । प्रकृतश्रुतेर्विकारमात्रलयाद्यर्थत्वे सर्वशब्दश्रुतिमनुकूलयति — सर्वाणीति । तथाच प्राणार्थत्वेऽपि स्वापोक्तेर्नास्यास्तादर्थ्यम् । नहि विकारमात्रसंवेशनादि परस्मादन्यत्र लभ्यमित्यर्थः । कल्पान्तरं प्रत्याह — यदेति । प्राणस्य भौतिकत्वान्न महाभूतयोनितेत्यर्थः । भूतशब्देन विकारजातग्रहेऽपि न मुख्यप्राणप्रत्युक्तिरिति शङ्कते — नन्विति । प्राणशब्दलक्ष्ये चिदात्मनि जीवैक्यापत्तौ भेदकवाद्युपाधीनां जडं प्राणमुद्दिश्य लयः स्यादित्याह — तदेति । जीवनैकतया प्राप्यत्वलिङ्गादशेषविकारलयस्थानत्वलिङ्गाच्च न मुख्यप्राणार्थत्वं तस्यापीत्याह — तत्रेति । सन्निधेरधिकाशङ्कामुक्तामनुभाषते — यदिति । लिङ्गेन बाध्यः सन्निधिरित्याह — तदिति । एकवाक्यत्वं वाक्यशेषस्तद्बलं तद्गतं लिङ्गं तेन ब्रह्मता प्राणस्य स्थिता, स्ववाक्यस्थलिङ्गस्य वाक्यान्तरस्थसन्निधेर्बलीयस्त्वात् , अतो नास्याब्रह्मतेत्यर्थः । सन्निधेरब्रह्मताभावेऽपि प्राणस्य श्रुतेरब्रह्मतेत्याशङ्क्याह — यदीति । जगत्प्रकृतित्वावधारणोपबृंहितं प्रतिपिपादयिषितं देवताशब्दितं चेतनत्वं प्राणश्रुतिं बाधित्वा ब्रह्म लक्षयतीत्याह — तदिति । प्राणशब्देन कारणब्रह्मलक्षणात्तद्दृष्ट्या प्रस्तावोपास्तिमुपसंहरति — तस्मादिति । वृत्तिकृतामुदाहरणमाह — अत्रेति । सर्वत्र सन्दिग्धं वाक्यमुदाहृत्य निर्णीयते, इदं त्वसन्देहान्नैवमिति दूषयति — तदिति । शब्दभेदं विवृणोति — यथेति । प्राणस्य पञ्चधा वृत्तिहेतुस्तत्साक्षी तस्य प्राण इत्युच्यते । राहोः शिर इतिवद्व्यपदेशमाशङ्क्य घटो घटस्येत्यदृष्टेर्नैवमित्याह — नहीति । प्रकरणं प्रपञ्चयति — यस्येति । तदेव दृष्टान्तेन स्पष्टयति — यथेति । प्राणः परमात्मा बन्धमाश्रयः स्वरूपं यस्येति विग्रहः । वाक्ययोर्निश्चितार्थत्वे फलितमाह — अत इति । त्वदुदाहरणेऽपि वाक्यशेषविरोधात्तुल्यमसन्दिग्धत्वमित्याशङ्क्याह —
प्रस्तावेति ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 आकाशवायुवाक्ययोर्ब्रह्यार्थत्वोक्त्या तेजोवाक्यस्यापि तदर्थत्वमाह — ज्योतिरिति । छान्दोग्यवाक्यं पठति — इदमिति । गायत्र्युपाधिब्रह्मोपास्त्यनन्तरमुपास्त्यन्तरोक्त्यर्थोऽथशब्दः । अतो दिवो द्युलोकात्परः परस्ताद्यज्ज्योतिर्दीप्यते तदिदमिति जाठरे ज्योतिष्यध्यस्यते । कुत्र तद्दीप्यते, तत्राह — लोकेष्विति । तेऽपि क्व सन्ति, तत्राह — विश्वत इति । विश्वस्मात्प्राणिवर्गादुपरिष्टादित्यर्थः । तेषां प्रसिद्धलोकप्रवेशमाशङ्क्याह — सर्वत इति । सर्वस्माद्भूरादिलोकादुपरीत्यर्थः । उत्तमा न विद्यन्ते येभ्यस्तेऽनुत्तमास्तेषु । तथापि कथं तेषामुत्कर्षः, तत्राह — उत्तमेष्विति । इदंशब्दार्थं स्फुटयति — यदीति । ज्योतिःशब्दस्य लोके तेजसि रूढेः, श्रुतौ चात्मनि निरूढेर्विचारबीजं संशयमाह — तत्रेति । आकाशादिशब्दस्यार्थान्तरे रूढस्यापि ब्रह्मार्थत्वसिद्धेस्तेनैतद्गतमित्यसंशयान्न पृथगारभ्यमित्याशङ्क्याह — अर्थान्तरेति । स्ववाक्ये ज्योतिषो ब्रह्मलिङ्गाभावादुक्तन्यायानवतारादगतार्थतेत्यर्थः । वाक्यशेषस्थब्रह्मलिङ्गात्प्राणादिशब्दस्य गौणतोक्ता । प्रकृते ब्रह्मलिङ्गादृष्टेस्तेजोलिङ्गस्यैव दृष्टेरौत्सर्गिकमुख्यसंप्रत्ययस्य नापवाद इत्याकाङ्क्षाद्वारा पूर्वपक्षयति — किं तावदिति । कौक्षेये ज्योतिष्यारोप्योपास्ये परस्मिन्ब्रह्मण्युक्तश्रुतेः समन्वयोक्तेः श्रुत्यादिसङ्गतयः । स्ववाक्ये स्पष्टब्रह्मलिङ्गाभावेऽपि ब्रह्मप्रत्यभिज्ञापकलिङ्गस्यैव तथात्वात्पादसङ्गतिः । फलं पूर्वपक्षे कौक्षेये ज्योतिष्यादित्यादिदृष्ट्योपास्तिः, सिद्धान्ते ब्रह्मदृष्ट्येति । ज्योतिःशब्दस्य प्रकाशवाचित्वाच्चित्प्रकाशं हित्वा किमिति लौकिकप्रकाशार्थतेति शङ्कते — कुत इति । तमोविरोधिनि ज्योतिःशब्दस्य रूढेस्तेजसस्तथात्वात्तदेवात्र ज्योतिरित्याह — प्रसिद्धेरिति । तामेव स्फोरयति — तम इति । अज्ञानतमोविरोधि ब्रह्मापि तर्हि ज्योतिरिति, तत्राह — चक्षुरिति । अर्थावरकत्वेन निरोधकत्वेक्त्या भावत्वमपि द्योतितम् । रूपित्वेनापि तद्वक्तुं विशिनष्टि — शार्वरादिकमिति । एवमपि कुतो ज्योतिर्निश्चितमित्याशङ्क्य प्रतिपक्षनिर्णयादित्याह — तस्या इति । ज्योतिःश्रुत्या तेजो ज्योतिरित्युक्त्वा तत्रैव लिङ्गमाह — तथेति । ब्रह्मण्यपि युक्ता दीप्तिरित्यन्यथासिद्धिं वारयति — नहीति । रूपादिमतः सावयवस्यैव दीप्तियोगादित्यर्थः । कार्ये ज्योतिषि लिङ्गान्तरमाह — द्युमर्यादत्वेति । अन्यथासिद्धिं निरस्यति — नहीति । असिद्धिं प्रत्याह — कार्यस्येति । ज्योतिषो द्युमर्यादत्वश्रुतिरेव कीदृशी, तत्राह — पर इति । ब्रह्मवत्कार्यस्यापि मर्यादायोगादनर्थकं ब्राह्मणमित्याक्षिपति — नन्विति । चोदकैकदेशी परिहरति — अस्त्विति । त्रिवृत्कृतं तेजो दिवोऽर्वागपि गम्यते तथापीतरत्ततः परस्ताद्भविष्यति, वेदस्यादुष्टत्वेनानर्थक्यायोगादित्यर्थः । त्रिवृत्कृतस्यैवार्थक्रियावत्त्वादफलेऽन्यस्मिन्न वाक्यप्रामाण्यमित्याक्षेप्ता ब्रूते — नेति । पूर्ववादिदेशीयः शङ्कते — इदमेवेति । निष्फलस्योपास्यतापि नेत्याक्षेप्ताह — नेति । अत्रिवृत्कृतं तेजोऽङ्गीकृत्याफलत्वमुक्त्वा तदेव नेत्याह — तासामिति । देवतानां तेजोऽबन्नानामेकैकां देवतां द्विधा द्विधा विभज्य पुनरेकैकं भागं तथा कृत्वा तदितरयोर्निक्षिप्य त्रिगुणरज्जुवत्रिवृतं करवाणीत्यविशेषोक्तेर्नात्रिवृत्कृतं तेजोऽस्तीत्यर्थः । तदस्तित्वेऽपि यच्छब्दोपबन्धात्सिद्धवत्परामर्शादन्यतस्तस्य द्युमर्यादत्वं वाच्यं, तन्नास्तीत्याह — न चेति । पूर्वपक्षैकदेशिनि परेण परास्ते परमपूर्ववाद्याह — अस्त्विति । तत्राक्षेप्ता स्वोक्तं स्मारयति — नन्विति । पूर्ववाद्याह — नेति । तर्हि ब्रह्मण एव ध्यानार्थो देशविशेषः स्यात् , नेत्याह — नत्विति । अप्रदेशस्य प्रदेशकल्पनागौरवादयुक्तेत्यर्थः । इतश्च कार्यमेव ज्योतिरत्रोपास्यमित्याह — सर्वत इति । ब्रह्मण्यवच्छेदकल्पनयाधारबहुत्वयोगेऽपि कार्ये ज्योतिषि स्वतस्तत्सिद्धिरित्यतिशयमाह — तारामिति । उपास्यज्योतिषो ब्रह्मत्वाभावे हेत्वन्तरमाह — इदमिति । अध्यासेऽपि ज्योतिर्ब्रह्मास्तु, नेत्याह — सारूप्येति । तत्र मानमाह — यथेति । एकत्वसाम्याद्भूरित्यस्मिन्नक्षरे प्रजापतेः शिरोदृष्टिरुक्ता तथात्रापि सारूप्यं वाच्यम् , अन्यथाध्यासासिद्धेरित्यर्थः । कौक्षेयमपि ज्योतिश्चैतन्यमेवेत्यनध्यासात्तादात्म्योक्तिरेषेत्याशङ्क्याह — कौक्षेयस्येति । शब्दस्पर्शवत्त्वाभ्यामपि तदब्रह्मेत्याह — तस्येति । एषा दृष्टिर्यदेतदुष्णिमानं स्पर्शेन विजानाति । एषा श्रुतिर्यत्कर्णावपिधाय निनदमिव श्रृणोतीति शेषः । दृष्टश्रुतिलिङ्गत्वान्न ज्योतिषोऽपि तदुच्यते तच्चाविवक्षितमित्याशङ्क्योपास्यत्वश्रुतेर्नैवमित्याह — तदेतदिति । तदब्रह्मत्वे हेत्वन्तरमाह — चक्षुष्य इति । चक्षुष्यो दर्शनीयः । श्रुतो विश्रुतः । ब्रह्मोपास्तिफलमपि किं न स्यात् , तत्राह — महते हीति । मुक्तिफला ब्रह्मोपास्तिर्नाल्पफला युक्तेत्यर्थः । बहून्यब्रह्मलिङ्गनि स्ववाक्यस्थान्युक्त्वा ब्रह्मलिङ्गं किमपि तत्र नास्तीत्याह — नचेति । ज्योतिषो ब्रह्मलिङ्गमपि किञ्चिदन्यन्नास्तीति सम्बन्धः । ननु पूर्ववाक्ये ‘त्रिपादस्यामृतं दिवि’ इत्युक्तं ब्रह्मैवात्र द्युसम्बन्धात्प्रत्यभिज्ञायते तत्र यच्छब्दपरामृष्टे ज्योतिःशब्दो वर्तते, नेत्याह — नचेति । सर्वात्मत्वभूतादिपादत्वाभ्यां तदेतद्ब्रह्मेति वाक्याच्चोक्तमेव पूर्ववाक्ये ब्रह्मेत्याशङ्क्याह — अथापीति । सप्तमीपञ्चमीभ्यामुक्तिभेदान्न तत्प्रत्यभिज्ञेति साधयति — तत्रेति । ब्रह्मलिङ्गाभावात्तेजोलिङ्गभावात्तदेव कौक्षेयज्योतिष्यारोप्योपास्यमित्युपसंहरति — तस्मादिति । प्राकृतं प्रकृतेर्जातं, कार्यमित्यर्थः । पूर्वपक्षानुवादेन सूत्रमवतार्य प्रतिज्ञार्थमाह — एवमिति । निश्चितब्रह्मलिङ्गं विना नास्य ब्रह्मतेति शङ्कित्वा हेतुमाह — कुत इति । ‘रमणीयचरणाः’ इत्यादौ चरणशब्दस्य चारित्रार्थत्वादत्रापि तथेत्यसाङ्गत्यमाशङ्क्याह — पादेति । पादवाचिपदमस्मिन्वाक्ये न दृष्टमिति चेत् , तत्राह — पूर्वस्मिन्निति । ‘गायत्री वा इदं सर्वं भूतम् ‘ इत्यादिना भूतपृथिवीशरीरहृदयवाक्प्राणैः षड्विधा चतुष्पदा गायत्रीत्युक्तम् । एतदनुगतब्रह्मणस्तावान्महिमा विभूतिर्यावानयं प्रपञ्चः । वस्तुतस्त्वयं पुरुषस्ततो ज्यायान्महत्तरः । तदेव स्फुटयति — पादोऽस्येति । सर्वाणि भूतान्यस्य ब्रह्मण एकः पादः । अस्यैव त्रिपादमृतं दिवि द्योतनवति स्वात्मनि स्थितम् । यथा कार्षापणश्चतुर्धा विभक्तः पादादेकस्मात्पादत्रयीकृतो महान् , एवं पुरुषो वास्तवोऽवास्तवात्प्रपञ्चान्महानित्यर्थः । पूर्वं ब्रह्मोक्तावपि कथमुक्तहेतुना ज्योतिषो ब्रह्मतेत्याशङ्क्याह — तत्रेति । लिङ्गोपस्थापिताद्ब्रह्मणः श्रुत्युपस्थापिततेजसो बलीयस्त्वेऽपि यच्छब्दार्थे ज्योतिषि सन्निधापकमानापेक्षायां त्रिपाद्ब्रह्मणो ध्याने विनियोगाकाङ्क्षस्यानन्तरवाक्ये श्रुत्योक्तेर्विजातीयमानाकाङ्क्षश्रुत्युक्ततेजोऽभिधानाल्लिङ्गोपनीतातिसन्निहितसजातीयश्रुतिसिद्धैकवाक्यताकाङ्क्षब्रह्मोक्तिर्यच्छब्दस्य युक्ता । तस्माद्यच्छब्दार्थे प्रयुक्तो ज्योतिःशब्दो ब्रह्मार्थ इति भावः । यच्छब्दस्य ब्रह्मार्थत्वं हित्वा तेजोवाचित्वे बुद्धिगौरवमुक्त्वा दोषान्तरमाह — तदिति । पूर्ववाक्यस्थे ब्रह्मणि द्युसम्बन्धाज्ज्योतिर्वाक्येऽपि प्रत्यभिज्ञाते यच्छब्दार्थे तत्समानाधिकृतज्योतिःशब्दप्रवृत्तिरित्युक्तम् । सम्प्रति ‘सर्वं खल्विदं ब्रह्म’ इत्युत्तरवाक्येऽपि ब्रह्मानुवृत्तेर्मध्यस्थमपि ज्योतिर्वाक्यं तत्परमेवेति सन्दंशन्यायमाह — नेति । प्रकरणलिङ्गश्रुतिसिद्धमर्थमुपसंहरति — तस्मादिति । श्रुतिलिङ्गाभ्यामुक्तमनुवदति — यत्त्विति । मानत्रयान्मानद्वयं दुर्बलमिति दूषयति — नायमिति । प्रकरणं श्रुतिलिङ्गयोरुपलक्षणम् । ब्रह्मणो व्यवच्छिद्य तेजःसमर्पकत्वं विशेषकत्वं तदभावोऽविशेषकत्वम् । ब्रह्मणि यथोक्तशब्दानुपपत्तौ कथं तयोरविशेषकत्वं, तत्राह — दीप्यमानेति । कार्यवाचिशब्दाभ्यां कारणलक्षणे सर्वैरपि शब्दैर्ब्रह्मणो लक्षणा स्यादित्याशङ्क्य सूर्यादिज्योतिषो विशेषयोगे मानमाह — येनेति । येन तेजसा चैतन्यज्योतिषेद्धो दीप्तः सूर्यः सर्वमपि जगत्तपति प्रकाशयति तज्ज्योतिरात्मानं बृहन्तमनतिशयमहत्त्ववन्तमवेदविन्न मनुत इति योजना । कार्ये रूढिमुपेत्य कारणे लाक्षणिको ज्योतिःशब्द इत्युक्तम् । इदानीं कारणेऽपि ब्रह्मणि मुख्य एवेत्याह — यद्वेति । शान्ते सूर्यादौ तिमिरावृते जगति वाचैव ज्योतिषायं कार्यकरणात्मा पुरषो व्यवहारमासनादिकं करोतीत्यर्थः । मनोभासकत्वाज्ज्योतिस्तच्चाज्यं जुषतां सेवतां तेन वाक्येन चक्षुर्द्वारा विषयीकृतेनादुष्टतया दृष्टेन यज्ञमिमं केनापि हेतुना विच्छिन्नमप्राप्तानुष्ठानंं सन्दधात्वक्षतं कुर्यादित्यर्थः । एकस्य शब्दस्य कथमनेकार्थतेत्याशङ्क्य निमित्तभेदेनानेकत्र वृत्तेः । शक्त्यैक्यान्मैवमित्याह — तस्मादिति । भासकत्वमेकं निमित्तीकृत्यानेकत्र ज्योतिःशब्देऽपि कथमसौ ब्रह्मणि स्यादित्याशङ्क्याह — तथेति । तस्य सर्वजगद्भासकत्वे मानमाह — तमेवेति । पूर्वार्धे विषयसप्तम्या परामृष्टस्तच्छब्दार्थः । गच्छन्तमनुगच्छतीत्युक्ते स्वगतगतिवदनुभानेऽपि स्वगतभानमाशङ्क्याह — तस्येति । न केवलं भासकत्वाद्ब्रह्मणि ज्योतिःशब्दः, तस्मिन्प्रयुक्तत्वाच्चेत्याह — तदिति । यस्मादर्वागेव संवत्सरोऽहोभिः परिवर्तते तं परमात्मानमिन्द्रादयो देवा ज्योतिषामादित्यादीनां ज्योतिर्भासकं जगतो जीवनं कूटस्थमिति च ध्यायन्तीत्यर्थः । ‘अत्रायं पुरुषः स्वयञ्ज्योतिः’ इत्यादिवाक्यमादिशब्दार्थः । ‘ज्योतिषामपि तज्ज्योति’ इत्यादिस्मृतिसङ्ग्रहार्थश्चकारः । ज्योतिःश्रुतेर्दीप्तिलिङ्गस्य चान्यथासिद्धत्वेऽपि द्युमर्यादत्वमनन्यथासिद्धमित्याशङ्क्याह — यदपीति । प्रमित्यर्थत्वेन, उपास्त्यर्थत्वेन वा मर्यादावत्त्वं नोपपद्यते । तत्राद्यमङ्गीकरोति — अत्रेति । द्वितीयं प्रत्याह — सर्वेति । योषितोऽग्नित्ववद्ब्रह्मणोऽपि द्युमर्यादावत्त्वमारोप्योपास्तिरविरुद्धेत्यर्थः । अप्रदेशस्य प्रदेशकल्पने गौरवमुक्तं स्मारयति — नन्विति । स्वतो वा तत्कल्पनानुपपत्तिः, उपाधितो वा । तत्राद्यमुपेत्यान्त्यं प्रत्याह — नायमिति । न चेदमपूर्वं कल्प्यते, तादृक्कल्पनानामन्यत्रापि दृष्टेरित्याह — तथेति । ब्रह्मणि कथमाधारबहुत्वं, तत्राह — एतेनेति । द्युमर्यादत्ववदाध्यानार्थत्वेनेत्यर्थः । अत्राध्यासस्य सारूप्यकृतत्वादब्रह्मण्यध्यस्यमानमपि ज्योतिरब्रह्मेत्युक्तमनुभाषते — यदपीति । आरोपस्य सारूप्याधीनत्वं व्यभिचारयति — तदपीति । उपास्तिस्थानत्वमत्र प्रतीकत्वमारोप्य । ज्योतिषो दृष्टत्वादिश्रुतेर्ब्रह्मणस्तदयोगादब्रह्मतेत्याशङ्क्याह — दृष्टं चेति । जाठरज्योतिषो दृष्टत्वादिकृतं तत्रोपास्यब्रह्मणो दृष्टत्वादीत्यर्थः । लिङ्गान्तरमनूद्य प्रत्याह — यदपीति । वाजिनामग्निरहस्यगतां ‘तं यथा यथा’ इत्यादिश्रुतिमाश्रित्यानुपपत्तिं स्फोरयति — न हीति । ब्रह्मधियो मुक्तिफलत्वात्तदैकरूप्यादल्पफलत्वं न तदुपास्तेरित्याशङ्क्याह — यत्रेति । ब्रह्मविषयत्वात्प्रस्तुतोपास्तेरपि मुक्तिफलतेत्याशङ्क्याह — यत्र त्विति । ‘स वा एष महानज आत्मा’ इत्युक्तः जीवात्मनाऽन्नादः, वसु धनं कर्मफलं तद्दाता पररूपेणेत्युक्त्वा यः कश्चिदुक्तगुणमात्मानमुपास्ते स धनं लभते दीप्ताग्निश्च भवतीत्याह — अन्नाद इति । आदिपदेन ‘परोवरीय एव हास्यास्मिंल्लोके जीवनम् ‘ इत्यादि गृहीतम् । यदुक्तं, न स्ववाक्ये ज्योतिषो ब्रह्मलिङ्गमिति, तत्राह — यद्यपीति । उक्तेऽर्थे सूत्रानुगुण्यमाह — तदुक्तमिति । प्रकरणेन श्रुतिरबाध्येत्याह — कथमिति । न प्रकरणादेव श्रुतिर्बाध्या, प्रकरणलिङ्गानुगृहीतप्रथमश्रुतयच्छब्दश्रुत्येत्याह — नेत्यादिना । द्युसम्बन्धादिति । प्रधानस्य द्युसम्बन्धस्य प्रातिपदिकार्थस्यैक्येन प्रत्यभिज्ञानात्तद्विशेषणस्य मर्यादाधारविभक्त्यर्थस्यान्यत्वमात्रेण नान्यतेत्यर्थः । यच्छब्देन परामृष्टे सतीति सम्बन्धः । स्वसामर्थ्येन सर्वनाम्नः सन्निहितपरामर्शित्ववशेनेत्यर्थः । अर्थाद्यच्छब्दसामानाधिकरण्यबलादित्यर्थः । मानमुक्त्वा मेयमुपसंहरति —
तस्मादिति ॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्ववाक्यस्य छन्दोविषयत्वान्न ब्रह्म प्रकृतमित्युक्तमनूद्य निराकरोति — छन्दोभिधानादिति । तत्रानुवादभागं व्याख्याय चोद्यस्य समाधियोग्यतामाह — अथेत्यादिना । पूर्ववाक्ये छन्दसोऽन्यस्य वाभिधानेऽपि ब्रह्मोक्तमेवेत्येकदेशी शङ्कते — कथमिति । मन्त्रस्य ब्राह्मणोक्तार्थत्वाद्ब्राह्मणे गायत्रीकथनान्मन्त्रेऽपि न ब्रह्म प्रकाश्यत इति सौत्रं हेतुं साधयन्पूर्ववाद्याह — नैतदिति । ‘गायत्री वा इदं सर्वं भूतं यदिदं किञ्च’ इति सर्वात्मिकां गायत्रीमुक्त्वा ‘वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च’ इति तस्याः सर्वभूतमय्या वागात्मत्वमाख्याय ‘या वै सा गायत्रीयं वाव सा येयं पृथिवी या वै सा पृथिवीयं वाव सा यदिदं शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता यद्वै शरीरमिदं तद्धृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिताः’ इति पृथिव्या भूताधारत्वात्सर्वभूतमयगायत्रीत्वं शरीरहृदययोर्भूतात्मकप्राणाश्रयत्वादिति प्रकृतां गायत्रीं भूतादिप्रकारैरुक्त्वा सैषा षडक्षरैः पादैश्चतुष्पदा सती छन्दोरूपा गायत्री वाग्भूतपृथिवीशरीरप्राणहृदयभेदैः षट्प्रकारेत्युपसंहृत्य तस्यां श्रुतो मन्त्रो न शक्तो ब्रह्म वक्तुमिति हेतुसिद्धिरित्यर्थः । मन्त्रानन्तरं ‘यद्वै तद्ब्रह्म’ इति ब्रह्मशब्दान्मन्त्रेऽपि ब्रह्मोक्तमित्याशङ्क्याह — योऽपीति । न प्रकरणाद्ब्रह्मशब्दस्य छन्दोवाचित्वं, तस्य सर्वोपनिषदि परमात्मार्थत्वप्रसिद्धेरित्याशङ्क्य वेदविषये प्रयोगात्तदेकदेशगायत्र्यामपि तस्योपपत्तिरित्याह — य इति । यः कश्चिद्ध्यातैतां प्रकृतां ब्रह्मोपनिषदं वेदरहस्यं मधुविद्यारूपं वेद तस्मै विदुषे नोदेति नास्तमेति सविता सदैवाहर्भवत्यतो विद्वानुदयास्तमयापरिच्छेद्यं नित्यं ब्रह्मैव भवतीति ब्रह्मपदं वेदे प्रयुक्तमित्यर्थः । मन्त्रब्राह्मणयोरैकार्थ्याद्ब्रह्मशब्दस्य प्रकृतच्छन्दोगामित्वाद्भूताद्यध्यासेन ध्येयगायत्रीछन्दोवाचित्वे मन्त्रस्य स्थिते फलितमाह — तस्मादिति । सिद्धान्तभागेनार्थमुक्त्वा हेतुमादाय व्याचष्टे — नेत्यादिना । गायत्रीशब्दस्य मुख्यार्थसिद्ध्यर्थं गायत्रीमात्रमेव गृह्यतामित्याशङ्क्याह — नहीति । नभसो घटावच्छिन्नस्यानवच्छिन्नत्वायोगवद्ब्रह्मणो गायत्रीविशिष्टस्य न सर्वत्वमित्याशङ्क्य गायत्र्युपलक्षितब्रह्मणः सर्वत्वमित्याह — तस्मादिति । गायत्रीशब्देन छन्दोमात्रोक्तौ सर्वभूतादिरूपत्वस्यासदारोपत्वापाताद्ब्रह्मोक्तौ कार्यकारणयोस्तादात्म्ये सदारोपात्तच्छब्देन तदनुगतं ब्रह्मोपलक्ष्य तदुपास्तिर्विधेयेत्यर्थः । कार्यकारणयोरभेदोक्तिरन्यत्रापि दृष्टेत्याह — यथेति । त्वन्मतेऽपि कार्यकारणयोरत्यन्तभेदादसदारोपापत्तिरित्याशङ्क्याह — कार्यं चेति । ‘सर्वं खलु’ इत्यत्र कार्यमात्रवाचिसर्वशब्देन कारणब्रह्मणो लक्ष्यत्वेऽपि कार्यैकदेशार्थगायत्रीशब्देन कुतो लक्ष्यतेत्याशङ्क्य ‘तथाहि दर्शनम्’ इत्यस्यार्थमाह — तथेति । एतमेव परमात्मानमृग्वेदिनो महति कस्मिंश्चिदुक्थाख्ये शस्त्रे तदनुगतमुपासते । अध्वर्यवो यजुर्वेदिनोऽग्नौ क्रतौ तदनुश्रितमेतमनुसन्दधते । सामवेदिनो महाव्रते क्रतावेतमनुसन्दधतीत्यैतरेयके दृष्टमित्यर्थः । हेतुमुपेत्य तस्यासाधकत्वमुपसंहरति — तस्मादिति । तथापि ज्योतिर्वाक्ये किं जातमित्याशङ्क्य प्रकृतपरामर्शियच्छब्दमाश्रित्याह — तदेवेति । परामर्शफलमाह — उपासनान्तरेति । गायत्रीपदं ब्रह्मणि लाक्षणिकमित्युक्तवा तस्य गौणत्वं ब्रुवाणः सिद्धान्तभागं विधान्तरेण व्याकरोति — अपर इति । साक्षाद्विकारानवच्छेदेनेत्यर्थः । तथा गायत्रीवच्चतुष्पात्त्वसाम्येन ब्रह्मणि येन गायत्रीशब्देन चेतः समर्प्यते तेन ब्रह्मण एव निगदान्न पूर्वं छन्दः प्रकृतमित्यर्थः । सङ्ख्यासाम्यं साधयति — यथेति । तस्याश्चतुष्पात्त्वं व्यनक्ति — षडिति । स्थावरजङ्गमानि सर्वाणि भूतान्यस्यैकः पादः । दिवि द्योतनवति चिदात्मनि, प्रसिद्धायां वा दिवि त्रयः पादा अस्येति ब्रह्मणश्चतुष्पात्त्वमाह — तथेति । चतुष्पात्त्वसाम्याद्ब्रह्मणि गायत्रीपदप्रयोगेऽतिप्रसक्तिमाशङ्क्य श्रौतप्रयोगान्नियतार्थत्वे दृष्टान्तमाह — तथेति । तदेवोदाहरति — तद्यथेति । संवर्गविद्यायामधिदैवमग्निसूर्यचन्द्राम्भांसि वायौ लीयन्ते, अध्यात्मं प्राणे वाक्चक्षुःश्रौत्रमनांसीत्युक्तम् । ते वायुना सह पञ्चाध्यायात्मिकेभ्योऽन्य एते प्राणेन सहाधिदैविकेभ्योऽन्ये पञ्च ते सर्वे दश सन्तस्तत्कृतं कृतायोपलक्षितं द्यूतं भवति । अत्र हि चतुरङ्कायद्यूतगचतुरङ्कवच्चत्वारः पदार्थाः सन्ति । त्र्यङ्कायवत्त्रयः । द्व्यङ्कायवद्वौ । एकाङ्कायवदेकश्च द्यूते च चतुरङ्कायः कृतसंज्ञकः । स च दशात्मकः, चतुर्ष्वङ्केषु त्रयाणां त्रिषु द्वयोस्तयोरेकस्य चान्तर्भावात् , वायुप्रभृतयोऽपि दश, तस्मात्तेऽपि कृतमित्युपक्रम्याह — सैषेति । विधेयाभिप्रायः स्त्रीलिङ्गनिर्देशः । दशसङ्ख्यात्वाद्विराडन्नं, ‘दशाक्षरा विराडन्नं विराड् ‘ इति श्रुतेः । कृतत्वाच्च सान्नादिनी । कृते खल्वन्नभूता दशसङ्ख्यान्तर्भवत्यतस्तामत्तीवेत्यन्नादिनी विराडित्युच्यते । तथा चान्नादत्वेनापि गुणेन वाय्वादीनामुपास्यता । तत्र यथा सङ्ख्यासाम्याद्विराट्शब्दो वाय्वादिषु तथा गायत्रीशब्दोऽपि चतुष्पात्त्वसाम्याद्ब्रह्मणीत्यर्थः । तथाहीत्यादि व्याख्यायास्य पूर्वस्माद्विशेषमाह — अस्मिन्निति । अभिहितं तात्पर्यगम्यमिति यावत् । न छन्दोभिधानं न तत्र तात्पर्यमित्यर्थः । यद्यपि पूर्वं विकारस्थं ब्रह्म गायत्रीपदाल्लक्षणया तात्पर्यतोऽभिहितं तथापि गौणप्रयोगे वाक्यस्थो गुणस्तात्पर्याल्लभ्यते । लक्षणायां तु वाच्यसम्बन्धादर्थान्तरे तात्पर्यमिति भेदः । लाक्षणिकत्वं गौणत्वं वा कतरत्तर्हीष्टं, तदाह —
सर्वथेति ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 श्रुत्यादिष्वाद्यैकमानादुत्तरानेकमानं बलवद्धि संवादस्य तात्पर्यहेतुत्वादिति न्यायेनापि गायत्रीशब्दं ब्रह्मेत्याह — भूतादीति । चशब्दमेवंशब्दं च व्याकरोति — इतश्चेति । तदेव स्फुटयति — यत इति । व्यपदिशति । ‘गायत्री वा’ इत्यादिश्रुतिरिति शेषः । भूतादीन्येवोच्यन्ते न तेषां पादत्वमित्याशङ्क्याह — भूतेति । पादैः षडक्षरैश्चतुष्पात्त्वेऽप्यनन्तरोक्तभूतादीनां पादत्वं ‘सैषा’ इत्यादिशास्त्रादित्यर्थः । तत्रान्यार्थत्वेनोक्तावपि वाक्प्राणावुपेत्य षड्विधत्वम् । भूतादिपादत्वस्यान्यथासिद्धिं प्रत्याह — नहीति । चकारसूचितं युक्त्यन्तरमाह — अपिचेति । छन्दोङ्गीकारे कथमृचोऽसङ्गतिः, तत्राह — अनयेति । उत्तरार्धेन पूर्वार्धविवरणेनोच्यमानसार्वात्म्यस्य सर्वकारणे ब्रह्मण्युपपत्तेरिति स्वारस्यमेव दर्शयन्नुक्तेऽर्थे हिशब्दसूचितं हेतुमाह — पादोऽस्येति । ब्रह्माधिकारोत्पत्तेरपि तत्परत्वमृचो वाच्यमित्याह — पुरुषेति । ब्रह्मविषयस्मृत्यर्थस्यात्र प्रत्यभिज्ञानाच्च तथेत्याह — स्मृतिश्चेति । यत्तु मन्त्रानन्तरभाविब्रह्मशब्दस्य छन्दोविषयत्वं तद्दूषयति — यदिति । एवं सति पूर्ववाक्ये ब्रह्मोपगमे सतीत्यर्थः । इतोऽपि पूर्वं ब्रह्मोक्तमित्याह — पञ्चेति । गायत्र्याख्यब्रह्मणो हार्दस्योपास्त्यङ्गत्वेन द्वारपालादिगुणविध्यर्थं ‘तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः’ इत्यादिवाक्यम् । तत्र च ‘ते वा एते पञ्च ब्रह्मपुरुषाः’ इति प्राच्यादिहृदयच्छिद्रेषु हार्दब्रह्मसम्बन्धाद्ब्रह्मपुरुषश्रुतिः । अतोऽप्यस्ति पूर्वं ब्रह्मोक्तमित्यर्थः । गायत्रीवाक्यस्य छन्दोमात्रार्थत्वाभावे फलितमाह — तस्मादिति ।
परामृश्यते यच्छब्देनेति शेषः ॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 द्युसम्बन्धात्प्रत्यभिज्ञेत्यत्रानुपपत्तिमुद्भाव्य दूषयति — उपदेशेति । अनुवादं विभजते — यदपीत । तस्य पूर्व वाक्यस्थस्य चतुष्पदो ब्रह्मण इति यावत् । चोद्यस्य समूलतया समाधियोग्यतामाह — तदिति । तत्र समाधिसत्त्वं ब्रुवाणः सूत्रावयवं पातयति — अत्रेति । उपदेशभेदो दोषो नेति नञर्थमुक्त्वा हेतुमाह — नायमिति । हेतुं व्याकरोति — उभयस्मिन्निति । यदाधारत्वं दिवो मुख्यं तदा कथञ्चिन्मर्यादा वाच्येति । दृष्टान्तमाह — यथेति । श्येनो वृक्षाग्रे स्थितोऽपि परतोऽस्त्येव, अग्रलग्नभागातिरिक्तोपरिभागस्थस्य तस्यैवाग्रात्परतोऽवस्थानात् , अतो वृक्षाग्रस्य श्येनं प्रत्याधारत्वे मुख्ये तस्मात्परतः श्येन इत्यत्र श्येनशब्दोऽग्रलग्नावयवादूर्ध्वावयवावच्छिन्नावयविलक्षक इत्यर्थः । ब्रह्मणः श्येनवदवयवाभावादाधारेऽमुख्ये मर्यादा भूताकाशापेक्षयेति दार्ष्टान्तिकमाह — एवमिति । दिवि द्योतनवति स्वे महिम्नि हार्दे वा नभसीत्यर्थः । दिवो भूताकाशाद्बाह्यादबाह्याद्वा तस्मादित्यर्थः । यदानौपाधिकं ब्रह्माकाशास्पृष्टं गृहीत्वा पञ्चम्येव मुख्या तदा सामीप्यं सप्तमी लक्षयतीत्याह — अपर इति । भूतादिपादत्वलिङ्गात् , ‘तावानस्य’ इति मन्त्रलिङ्गात् , ‘यद्वै तद्ब्रह्म’ इतिवाक्याद्गायत्रीशब्दस्य ब्रह्मार्थत्वादुपदेशभेदेऽप्यर्थैक्यादप्रत्यभिज्ञाऽयोगाद्युक्तास्य प्रत्यभिज्ञेत्यवान्तरप्रकृतमुपसंहरति — तस्मादिति । प्रत्यभिज्ञातस्य यच्छब्दपरामर्शे तदेव ज्योतिरिति परमप्रकृतमुपसंहरति —
अत इति ॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 अनन्यथासिद्धतात्पर्यवद्ब्रह्मलिङ्गादुक्तवाक्यानां ब्रह्मपरत्वेऽपि प्रातर्दने वाक्ये पदार्थानामनेकेषामनेकलिङ्गृदृष्ट्या कस्यानुसारात्किं नेयमित्याकाङ्क्षायामाह — प्राण इति । विषयं वक्तुमुपक्रममनुक्रामति — अस्तीति । प्रतर्दनस्य राज्ञो लोकप्रसिद्ध्यर्थौ निपातौ । दिवोदासस्यापत्यं दैवोदासिस्तत्प्रियं प्रेमास्पदं, धाम गृहं, तद्गतौ हेतुर्युद्धेनेति । तत्करणेन पुरुषकारप्रदर्शनेन चेत्यर्थः । आम्नातेति । 'तं हेन्द्र उवाच प्रतर्दन वरं ते ददानीति स होवाच प्रतर्दनस्त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे’ इत्याद्याख्यायिकाश्रुतेरित्यर्थः । मुख्यप्राणव्यावृत्त्यर्थम् — प्रज्ञात्मेति । निर्विशेषं चिन्मात्रं व्यावर्तयति — तं मामिति । देवतासम्भावनायै वाक्यमुक्त्वा प्राणसम्भावनार्तमाह — तथेति । देहधारणं न वागादिकृतमित्युक्त्यनन्तरमित्यथशब्दार्थः । प्राणस्य तत्कार्यं प्रसिद्धमिति खल्वित्युक्तम् । जीवं सम्भावयितुमाह — तथेति । परमात्मानं सम्भावयति — अन्ते चेति । आदिपदेन ‘स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् ‘ इत्याद्युक्तम् । विषयमुक्त्वानेकलिङ्गदृष्ट्या संश्यमाह — तत्रेति । गातार्थत्वेन तमाक्षिपति — नन्विति । ब्रह्मलिङ्गात्प्राणशब्दस्य ब्रह्मणि वृत्तिरुक्ता । प्रकृते कथमित्याशङ्क्याह — इहापीति । ‘एष लोकाधिपतिः’ इत्यादिसङ्ग्रहायादिपदम् । अनेकेषु लिङ्गेषु दृष्टेषु कतमल्लिङ्गं, लिङ्गाभासं वा कतमदिति संशयं निरसितुमधिकरणमित्याह — अनेकेति । तदेव विवृणोति — नेत्यादिना । 'न गन्धं विजिज्ञासीत घ्रातारं विद्यात् ‘ इत्यादिपदेनोक्तम् । अनेकलिङ्गानि दर्शयित्वा तत्कार्यमाह — अत इति । पूर्वत्र प्रकृतत्रिपाद्ब्रह्मपरामर्शियच्छब्दसमानाधिकरणा ज्योतिःश्रूतिस्तदर्थेत्युक्तम् । इह न तथाविधमसाधारणं किञ्चिदस्ति प्राणस्य ब्रह्मत्वे मानमिति प्रसिद्ध्यनतिक्रमात्प्राणो वायुरेवेत्याह — तत्रेति । स्फुटब्रह्मलिङ्गनां कौषीतकिश्रुतीनां ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः पूर्वपक्षे प्राणदेवताजीवानामन्यतमोपास्तिः फलं, सिद्धान्ते ब्रह्मोपास्तिः । मुख्यप्राणपक्षमनूद्य सूत्रमादाय प्रतिज्ञां विभजते — इति प्राप्त इति । लिङ्गान्तरेषु सत्सु कुतोऽस्य ब्रह्मार्थतेत्याह — कुत इति । तेषां वक्ष्यमाणान्यथासिद्धिं मत्वा हेतुमाह — तथेति । ब्रह्मप्रतिपादनपरत्वेनैव पदानामन्वयदृष्टेरित्यर्थः । हेत्वर्थं प्रपञ्चयति — तथाहीति । तत्रादावुपक्रमे पदानां ब्रह्मण्यन्वयमाह — उपक्रम इति । यं त्वं मनुष्यायातिशयेन हितं मन्यसे तं वरमभिलपितं मह्यं त्वमेव वृणीष्व प्रयच्छेति प्रतर्दनेनोक्ते ‘मामेव’ इत्यादिना प्राणस्योच्यमानस्य न युक्ता वायुविकारतेत्याह — तस्मा इति । उपास्तेरचिन्त्यशक्तित्वात्प्राणोपास्तिरेव मोक्षहेतुरलं ब्रह्मधियेत्याशङ्क्याह — नहीति । एवकारार्थमाह — नान्य इति । आदिशब्देन ‘तमेवं विद्वान् ‘ इत्याद्या श्रुतिरुक्ता । उपक्रमवन्मध्येऽपि पदानां ब्रह्मण्यन्वयमाह — तथेति । स यः कश्चिदधिकृतो मां ब्रह्मरूपं साक्षादनुभवति तस्य विदुषो लोको मोक्षो महतापि पातकेन न मीयते न हिंस्यते न प्रतिबद्ध्यते, ज्ञानमाहात्म्येन सर्वस्यापि पापस्य दग्धत्वादित्याह — स य इति । केनचन कर्मणेत्युक्तं स्पष्टयति — नेत्यादिना । ‘न मातृवधेन न पितृवधेन’ इत्यादि वक्तुमादिपदम् । श्रुतस्य सर्वपापदाहस्यान्यथासिद्धिं प्रत्याह — ब्रह्मेति । ‘एवं न हास्य’ इत्यादिश्रुतिसङ्ग्रहार्थमेवमाद्यास्वित्युक्तम् । इतश्च ब्रह्मैव प्राणशब्दमित्याह — ब्रह्मेति । अन्ययोगव्यावृत्तिमाह — नहीति । प्रक्रमादिवदुपसंहारेऽपि पदानां ब्रह्मार्थत्वमाह — तथेति । आनन्दस्य दुःखाभावत्वान्मुख्येऽपि प्राणे योगाददेहस्य जरामरणयोरभावादजरत्वादेरपि तत्रोपपत्तेर्नोपसंहारस्य ब्रह्मार्थतेत्याशङ्क्याह — आनन्दत्वादीनीति । प्राणशब्दं ब्रह्मेत्यत्र लिङ्गान्तराण्याह — स नेत्यादिना । धर्माद्यस्पृष्टत्वं, तत्कारयितृत्वं, तदीशितृत्वं, च सर्वमुक्तम् । उक्तलिङ्गफलमाह —
तस्मादिति ॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 देवतापक्षमुत्थाप्य प्रत्याह — नेत्यादिना । चोद्यतात्पर्यमाह — यदुक्तमिति । तत्र नञर्थमाह — नेति । उक्तहेतुषु सत्सु निषेधासिद्धिरित्याह — कस्मादिति । हेतुमादाय व्याचष्टे — वक्तुरिति । अहङ्कारवादेनेति क्रियापदेन सम्बध्यते । कथमितिसूचितानुपपत्तिं स्फुटयति — नहीति । ‘अवाक्यनादरः’ इत्यादिश्रुतिरादिशब्दार्थः । ब्रह्मणो वक्तृत्वाभावादत्र वक्त्रा स्वस्यैव ज्ञेयत्वोक्तेरिन्द्रोपास्तिपरं वाक्यमित्यत्रैव हेत्वन्तरमाह — तथेति । त्रीणि शीर्षाणि शिरांसि यस्य स त्रिशीर्षा विश्वरूपः स च त्वाष्ट्रस्त्वष्टुरपत्यं तमहनं हतवानस्मि । रौति यथार्थं शब्दयतीति रुत् वेदान्तवाक्यं तत्र मुखं येषां ते रुन्मुखास्ततोऽन्ये चारुन्मुखास्तान्वेदान्तबहिर्मुखानित्यर्थः । शालावृका वन्यश्वानः । बह्वीः सन्ध्या अतिक्रम्य दिवि प्रह्रादिनमतृणमित्यादिरादिशब्दार्थः । तथापि प्राणशब्दान्नेन्द्रस्योपास्यतेत्याशङ्क्याह — प्राणत्वं चेति । बलवत्त्वाद्बलशब्दोपचारेऽपि कथं प्राणशब्दत्वमस्येत्याशङ्क्याह — प्राण इति । बलवत्त्वमेवेन्द्रस्य कथं, तत्राह — बलस्येति । प्रसिद्धिं लौकिकत्वेन प्रकटयति — येति । तथापि प्रज्ञात्मत्वविरोधादनुपास्यता, नेत्याह — प्रज्ञेति । कथमप्रतिहतज्ञानत्वं, लोकवेदप्रसिद्धेरित्याह — अप्रतिहतेति । तथापि हिततममपुरुषार्थहेतुत्वाद्युक्तिविरोधे कुतोऽस्योपास्यता, तत्राह — निश्चिते चेति । शक्त्यतिशयादुक्तपुमर्थहेतुत्वं, कर्मानधिकाराद्भ्रूणहत्याद्यपरामृष्टत्वं, लोकपालत्वाल्लोकाधिपत्यं, स्वर्गस्यानन्दत्वादानन्दत्वम् , अमृतत्वाजरत्वे चाभूतसम्प्लवं स्थितेरिति भावः । आक्षेपमुपसंहरति — तस्मादिति । तमनूद्य समाधिमवतारयति — इत्याक्षिप्येति । तस्यार्थमाह — अध्यात्मेति । अस्मिन्नध्याये । यत्र ‘मामेव विजानीहि’ इत्यादि श्रूयते तत्रेति यावत् । बाहुल्यमेवाह — यावद्धीति । तस्यार्थमाह — प्राणस्येति । एवकारार्थमाह — नेति । तथेति । आयुष्प्रदानोपसंहारयोः स्वातन्त्र्यवदित्यर्थः । अस्तित्वे प्राणस्थितौ प्रणानामिन्द्रियाणां स्थितिरिति ‘अथातो निःश्रेयसादानम्’ इत्याद्यर्थतो गृहीत्वा तदर्थमाह — अस्तित्वे चेति । इन्द्रियाणां प्राणाश्रयत्ववदिति तथार्थः । इत्यध्यात्ममेव प्राणस्य देहधारयितृत्वमाहेति शेषः । ततश्च देवता न प्राणा इत्याह — नेति । इति च प्रत्यगात्मन एव वक्तृत्वमुक्तमिति शेषः । देवातात्मनोऽपि वक्तृत्वात् ‘न वाच्यम्’ इत्याद्यविरुद्धमित्याशङ्क्याह — उपक्रम्येति । तत्र च प्रज्ञामात्राणां भूतमात्राणां च नानात्वं नेत्यत्र दृष्टान्तः — यथेति । यथा लोके प्रसिद्धस्य रथस्यारेषु मध्यवर्तिशलाकासु चक्रोपान्तनेमिरर्पितश्चक्रपिण्डिकायां च नाभावराः । तथा भूतान्येव पृथिव्यादीनि शब्दादयश्च विषया मीयन्त इति मात्राः प्रज्ञामात्रासु स्वविषयज्ञानेष्विन्द्रियेषु चार्पिताः, तदधीनत्वात्तद्व्यवहारस्य । ताश्च प्रज्ञामात्राः प्राणे परस्मिन्नर्पिताः । सच प्राणः परमात्मा, तल्लिङ्गादित्याह — स इति । वाक्यतात्पर्यमाह — विषयेति । स प्राणो ममात्मेत्यात्मशब्दसामानाधिकरण्याच्च प्राणशब्दस्य न देवतार्थतेत्याह — स म इति । तर्हि प्रत्यगात्मनि समन्वयो न ब्रह्मणि, तत्राह — अयमिति । सूत्रार्थमुपसंहरति —
तस्मादिति ॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 अनन्यथासिद्धलिङ्गैः श्रुतितात्पर्याच्च प्राणस्य ब्रह्मत्वे देवतालिङ्गानां गतिर्वाच्येति पृच्छति — कथमिति । सूत्रमुत्तरम् । तद्व्याख्याति — इन्द्र इति । कथं तस्य गुर्वाद्यभावे ज्ञानं तत्राह — आर्षेणेति । तस्य तर्हि प्रतिभात्वेनामानत्वं, नेत्याह — यथेति । श्रवणाद्यभावे कुतो ब्रह्मास्मीतिधीः, तद्विधिविरोधात् , तत्राह — यथेति । जन्मान्तरीयश्रवणादेराधुनिकधीरविरुद्धेति भावः । अध्ययनाभावे कथं यथाशास्त्रमैक्यधीरित्याशङ्क्य देवताधिकरणन्यायेनाह — तदिति । इन्द्रश्चेद्ब्रह्मात्मना स्वात्मानमुपदिशति, कथं त्वाष्ट्रवधादिना स्तुतिः, तत्राह — यदिति । नेयं विज्ञेयस्तुतिः, अपितु विज्ञानस्तुतिरित्याह — अत्रेति । तत्र गमकमाह — यदिति । तत्र क्रूरकर्मणि निमित्ते सतीत्यर्थः । कथमत्र ज्ञानस्तुतिः, तत्राह — एतदिति । तस्मान्महाभागधेयं ज्ञानमिति शेषः । त्वदीयज्ञानस्यैवंरूपत्वेऽपि किमधिकृतस्य स्यात् , तदाह — स य इति । ननु स्तूयमानज्ञानस्य ज्ञेयाकाङ्क्षायामिन्द्र एव सम्बध्यते, नेत्याह — विज्ञेयं त्विति । अध्यात्मबाहुल्यात्पराचीनदेवतोक्त्ययोगात् , प्राणोऽस्मीत्यादि ब्रह्मार्थमेवेत्युपसंहरति —
तस्मादिति ॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 प्रकारान्तरेण ब्रह्मपरत्वमाक्षिप्य समाधत्ते — जीवेति । ‘प्राणोऽस्मि’ इत्यादि देवतापरं नेत्युक्तमङ्गीकरोति — यद्यपीति । तर्हि ब्रह्मपक्ष एवायं परिशिष्यते, नेत्याह — तथापीति । पूर्वोत्तरपक्षयोरनुपपत्तिरयुक्तेत्याह — कुत इति । देवतापक्षस्यातिफल्गुतया निरासेऽपि पक्षान्तरसद्भावान्मैवमित्याह — जीवेति । तत्राद्यं व्यनक्ति — जीवस्येति । वक्तुरेवात्र वेद्यता भाति न किञ्चिज्जीवलिङ्गमित्याशङ्क्याह — अत्रेति । द्वितीयं विवृणोति — तथेति । वक्तृत्वाद्युपदेशानन्तर्यमथशब्दार्थः । देहोत्थापनमपि जीवलिङ्गं किं न स्यात् , तत्राह — शरीरेति । वागादयः सर्वे प्रत्येकं श्रेष्ठत्वमात्मनो मन्यमानास्तन्निर्दिधारयिषया प्रजापतिमुपजग्मुः । स च तानुवाच, यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरमिव भवति स वः श्रेष्ठ इति । तस्मिन्नेवमुक्तवति क्रमेण वागादिषूत्क्रान्तेष्वपि मूकादिभावेन शरीरं स्वस्थमस्थात् । मुख्यस्य प्राणस्योच्चिक्रमिषायां सर्वेषां व्याकुलत्वाप्ताौ तान्प्रति प्राणो व्याहृतवान् , मा मोहमापद्यथ यतोऽहमेवैतत्करोमि । किं तत् , पञ्चधा प्राणादिभेदेनात्मानं विभज्यैतद्बाणं वाति गच्छतीति वानं तदेव बाणमस्थिरं शरीरमवष्टभ्य विधारयामीत्युक्तेर्न देहधारणमन्यस्येत्यर्थः । क्वचिदिममित्युक्तेर्न देहधारणमिष्टमित्याशङ्क्याह — ये त्विति । कथमुपहिते जीवात्मन्यचेतने च प्राणे प्रज्ञात्मत्वं, तत्राह — प्रज्ञेति । द्विवचनसहभावोत्क्रमणश्रवणादपि न ब्रह्म ग्राह्यमित्याह — जीवेति । अभेदनिर्देशमाह — यो वा इति । भेदनिर्देशमाह — सहेति । ब्रह्मपक्षेऽप्यभेदोपपत्तिमाशङ्क्याङ्गीकृत्य भेदानुपपत्तिमाह — ब्रह्मेति । अमृतत्वादीन्यपि यथायोग्यं नेयानीत्युपसंहरति — तस्मादिति । इहेति प्रकृतसन्दर्भोक्तिः । अन्यतर इत्युपक्रममात्रम् , उभाविति तत्त्वम् । ब्रह्म त्वानन्दादिश्रुतेरावश्यकम् । न ब्रह्मेति तन्मात्रव्यावृत्तिः । तथाच जीवमुख्यप्राणब्रह्मणां यथायथमुपास्तिरिष्टा । नच ‘प्राणोऽस्मि’ इत्युपक्रमात् ‘स एष प्राण एव’ इत्युपसंहाराच्च वाक्यैक्यावगतेरेकार्थत्वं, वाक्यार्थावगमस्य पदार्थावगमजन्यत्वेनोपजीव्याद्दौर्बल्यात् । नचैवं सर्वत्र वाक्यार्थभङ्गः, गुणप्रधानभूतपदार्थधियो वाक्यार्थैक्याविरोधित्वात् । अत्र तु पदार्थानां स्वातन्त्र्यं नैकवाक्यतेति भावः । परिहारमवतार्य व्याचष्टे — नैतदिति । अस्तूपास्तित्रैविध्यं, नेत्याह — नचेति । अर्थभेदे वाक्यभेदात्कथं सिद्धवदेकवाक्यत्वोक्तिः, तत्राह — उपक्रमेति । तदेव स्फुटवति — मामेवेति । वाक्यैक्येऽपि किमित्यर्थभेदो न स्यात् , तत्राह — तत्रेति । पदार्थधियो वाक्यार्थधीहेतुत्वेऽपि वाक्यार्थबोधस्योद्देश्यत्वेन प्राधान्यात्पदानां पदार्थबोधे फले पर्यवसानाभावात्तस्य नान्तरीयकत्वात्प्रधानीभूतवाक्यार्थस्योपक्रमोपसंहारैकरूप्यावगतस्य युक्तमैक्यमिति भावः । उपासनात्रैविध्यनिरासाय ब्रह्मलिङ्गं जीवादिविषयं नेयमित्याशङ्क्याह — नचेति । पञ्च शब्दादयः पञ्च पृथिव्यादयश्च दश भूतमात्राः । पञ्च बुद्धीन्द्रियाणि पञ्च बुद्धय इति दश प्रज्ञामात्राः । यद्वा ज्ञानेन्द्रियार्थाः पञ्च कर्मेन्द्रियार्थोश्च पञ्चेति दश भूतमात्राः, द्विविधानीन्द्रियाणि प्रज्ञामात्रा दशेति भावः । प्राणशब्दस्य ब्रह्मण्यवृत्तेस्त्रैविध्यं तवापि स्यादित्याशङ्क्याह — आश्रितत्वाच्चेति । तत्र ब्रह्मलिङ्गाद्ब्रह्मणि वृत्तिराश्रिता प्रकृते कथमित्याशङ्क्याह — इहापीति । प्राणस्य ब्रह्मत्वे मुख्यप्राणलिङ्गं विरुध्येतेत्याशङ्क्याह — यत्त्विति । प्राणव्यापारस्य परमात्मायत्तत्वे मानमाह — नेति । कारणस्य कार्याकारेण स्थितस्य तद्धर्मेणापि सम्बन्धात्कार्यस्य व्यावृत्तस्य कार्यान्तरेष्वपि स्थितकारणधर्मेणासम्बन्धात्प्राणादिलिङ्गानि ब्रह्मणि युज्यन्ते, न तल्लिङ्गानि तत्रेति भावः । जीवलिङ्गमपि ब्रह्मविरोधीत्यनुवादपूर्वकमाह — यदपीति । कथं तर्हि ब्रह्मण एव सतो जीवस्य संसारित्वं, तत्राह — बुद्ध्यादीति । जीवो ब्रह्मैव चेन्न तस्य वक्तृत्वं, तस्य ब्रह्मत्वविरोधित्वात् , तत्राह — तस्येति । ‘वक्तारं विद्यात्’ इति न विधिः, वक्तृत्वस्याध्यक्षत्वात् । किन्तु तदुद्देशेनाप्रसिद्धं ब्रह्मत्वं विधित्सितमित्यर्थः । प्रत्यगात्माभिमुख्योऽर्थो लिङादिरिति समन्वयसूत्रेऽपि दर्शितमित्याशयेनाह — प्रत्यगिति । तत्र तलवकारश्रुतिमाह — यद्वाचेति । येन चैतन्येन वागभ्युद्यते प्रेर्यते वदनसामर्थ्यमापाद्यते तदेव वागादेरगम्यं ब्रह्मेत्यर्थः । तस्य तात्पर्यमाह — वचनादीति । द्विवचनसहभावोत्क्रमणश्रवणं सिद्धान्ते दुर्योजमित्युक्तमनूद्य दूषयति — यदित्यादिना । उपाधिभेदात्तद्विशिष्टस्य भिन्नतेति विशिनष्टि — प्रत्यगिति । अभेदस्तर्हि कथं, तत्राह — उपाधीति । उपहितद्वारोपलक्षितस्येत्यर्थः । स्वमते सूत्रावयवं व्याख्याय वृत्तिकारमते व्याकरोति — अथवेति । तत्र नञर्थमाह — नेति । ब्रह्मवाक्यत्वे जीवप्रणयोरध्येयत्वात्तल्लिङ्गविरोधोऽस्त्येवेत्याह — कथमिति । हेतुमुक्तवा व्याख्याति — उपासेति । स्वतन्त्राणां त्रयाणामुपास्तौ वाक्यभेदः, न त्वेकस्यैव ब्रह्मणस्तद्धर्मेणेत्यर्थः । उक्तमेव विभजते — तत्रेति । ‘प्राणो हि भूतानामायुः’ इति श्रुत्यन्तरेणाह — आयुरिति । तस्यायुष्ट्वं जीवनस्य तदधीनत्वात् । प्राणस्यैव देहाद्युत्थापकत्वं तस्मादित्युच्यते । उत्थापयति देहादीत्युक्थं प्राणः । सहवासः सहोत्क्रान्तिश्चेत्युक्त्यानन्तर्यमथशब्दार्थः । अस्या जीवाख्यप्रज्ञायाः सम्बन्धीनि भूत्वा सर्वाणि भूतानि तद्दृश्यत्वेन कल्पितानि वस्तुतो यथैकं भवन्ति तथा तद्वस्तु व्याख्यास्याम इत्युपक्रम्योक्तम् — ‘वागेव’ इत्यादि । बुद्धेः साभासायाः स्वरूपतो जातत्वेऽपि विषयित्वमिन्द्रियसाध्यम् । तत्र कर्मेन्द्रियेषु मध्ये वागेवास्याः प्रज्ञाया देहार्धमेकमङ्गमदूदुहद्रेचितवती पूरयामास । नामरूपात्मा प्रपञ्चो विषयस्तत्र नामप्रपञ्चे वाग्द्वारा प्रविष्टा धीस्तं प्रति विषयित्वमाप्नोतीत्यर्थः । तस्याः प्रज्ञायाः पुनर्नाम किल परस्तादपरभागे चक्षुरादिना प्रतिविहिता समुत्थापिता भूतमात्रा रूपादिरूपा चक्षुरादिना रूपाद्यर्पणेन बुद्धेरपरभागरूपं रूपप्रपञ्चं प्रति विषयित्वं निर्वर्त्यत इत्याह — तस्या इति । बुद्ध्युपहितचैतन्यद्वारा स्वरूपे द्रष्टृत्वाध्यासमाह — प्रज्ञयेति । तया द्वारा चिदात्मा वाचं करणं प्रति कर्तेत्यध्यासमनुभूय वाचा करणेन सर्वाणि नामानि वक्तव्यत्वेनाप्नोति, चक्षुषा सर्वाणि रूपाणि पश्यतीत्येवं द्रष्ट्टत्वमनुभवतीत्यर्थः । सर्वभूतविषयित्वमात्मनि विशिष्टद्रष्ट्टत्वादिकरत्वं च बुद्धेर्धर्म इत्युक्तम् । सर्वाधारत्वानन्दत्वादि ब्रह्मधर्म इत्याह — ता वा एता इति । उक्ता भूतमात्राः प्रज्ञाशब्दितेन्द्रियाणि । तदुत्थज्ञानानि चाधिकृत्य प्रवर्तन्ते । प्रज्ञामात्राश्चोक्ता भूतशब्दितानि पृथिव्यादीनि शब्दादीनि चाधिकृत्य भवन्ति । ग्राह्यग्राहकयोर्मिथः सापेक्षकत्वं साधयति — यदिति । तदेव स्पष्टयति — नहीति । अन्योन्यापेक्षमप्येतद्विषयविषयिद्वयं न द्वैतपक्षवन्नाना वस्तुतो भिन्नं किन्त्वेकस्मिन्नेवारोपितमित्याह — नो इति । तद्यथेत्यादि व्याख्यातम् । नोपासात्रैविध्यादित्यस्यार्थमुपसंहरति — तस्मादिति । अन्यधर्मेणान्यस्योपासनं कथमित्याशङ्क्याश्रितत्वादित्याह — अन्यत्रापीति । तत्रोपक्रमे ब्रह्मणः श्रुतत्वाद्युक्ता मनोमयत्वादिविशिष्टस्योपास्तिः, इह कथमित्याशङ्क्य तद्योगादित्याह — इहापीति । उपास्तेस्तर्हि कथं त्रैविध्यं, तत्राह — प्राणेति । वाक्यभेदस्तु ब्रह्मण एकस्यैवोपासात्रैविध्योक्त्या प्रयुक्तः । किमत्रोपासात्रयविशिष्टं ब्रह्म विधेयमुत ब्रह्मविशिष्टमुपासात्रयं किं वा तदनुवादेन तदाश्रित्योपासात्रयम् । नाद्यः, ब्रह्मणः सिद्धत्वाद्विध्यनर्हत्वात् । न द्वितीयः, वाक्यान्तरेभ्यो ब्रह्मणो ज्ञातत्वात् । न तृतीयः, ब्रह्मानुवादेनोपास्तिविधावेकविशेष्यावशीकारादुपास्तीनां मिथोसम्बन्धात्प्रत्युपास्तिविध्यावृत्त्या वाक्यभेदादित्येकीयव्याख्यामुपेक्ष्य स्वपक्षमुपसंहरति — तस्मादिति ।
प्राकरणिकत्वेऽपि ब्रह्मणोऽवान्तरवाक्यभेदेन श्रवणादिवद्विविदिषार्थं यज्ञादिवच्चोपास्तित्रयं विधेयं, विधेयत्रयधर्मवद्ब्रह्मोपास्तिश्चैकेति कुतो वाक्यभेद इत्येके । तन्न । अन्तस्तद्धर्माधिकरणेन गतत्वात् । तत्र हि सार्वात्म्यसर्वदुरितविरहाभ्यां सर्वकारणे ब्रह्मणि सिद्धे रूपवत्त्वादिकार्यधर्मा नीतास्तयात्रापि प्रागुक्तन्यायेन प्राणादिधर्माणां ब्रह्मणि सम्भवान्न पृथग्विचारावसरः । तस्माज्जीवप्राणब्रह्माणि सहोपास्यानि ब्रह्मैव वा प्रतिपाद्यमिति पदार्थवाक्यार्थयोर्बलाबलज्ञानेन सन्दिह्य दिवो दिवीत्यत्र प्रधानप्रकृत्यर्थाभेदेन गुणभूतप्रत्ययार्थभेदनयनवदत्रापि स्वतन्त्रप्राणादिपदार्थभेददृष्टौ तदपेक्षत्वेन गुणभूतवाक्यार्थदृष्टेरन्यथानयनात्पदार्थबुद्धेर्वाक्यार्थबुद्ध्योपजीव्यत्वेन स्वातत्र्याद्वाक्यैक्यं भङ्क्त्वा त्रीणि सहोपास्यानीति प्रापय्य पदानां वाक्यार्थबोधोद्देशेन प्रवृत्तत्वात्पदार्थबोधस्य नान्तरीयकत्वाद्वाक्यार्थबोधप्राधान्यादुपक्रमोपसंहारैकरूप्यसिद्धप्रधानवाक्यार्थभङ्गायोगात् , प्राणादिलिङ्गानां च ब्रह्मणि नीतत्वात् , अनन्यथासिद्धब्रह्मलिङ्गाद्ब्रह्मैवात्र प्रतिपाद्यमिति सिद्धान्तयितव्यम् । सर्वथापि प्रातर्दनं वाक्यं ब्रह्मणि ज्ञेये समन्वितमिति ॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】
इति श्रिमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानविरचिते शारीरकभाष्यनिर्णये प्रथमाध्यायस्य प्रथमः पादः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति प्रथमस्याध्यायस्य स्पष्टब्रह्मलिङ्गश्रुतिसमन्वयाख्यः प्रथमः पादः ॥ पूर्वोपजीवनेनोत्तरोत्थानाद्धेतुहेतुमत्त्वं सम्बन्धं वक्तुं वृत्तमनुवदति — प्रथम इति । कारणत्वमात्रं नात्रोपयुक्तं, व्यापित्वादेरपि सिद्धवद्धेतुतयोपादानात् , अतस्तदनुक्तौ कथं सङ्गतिरित्याशङ्क्याह — तस्येति । उक्तमुपजीव्योत्तरप्रवृत्तौ कथं पादभेद इत्याशङ्क्याह — अर्थान्तरेति । उत्तरपादद्वयस्यानधिगतमर्थमाह — पुनरिति । पूर्वं भूताकाशादिषु रूढाकाशादिशब्दानां ब्रह्मपरत्वे तल्लिङ्गादितिहेतूक्त्या स्पष्टब्रह्मलिङ्गानि नीतानि । अथास्पष्टब्रह्मलिङ्गवाक्यान्यर्थान्तरार्थतया शङ्क्यमानानि ब्रह्मणि नीयन्ते । तत्र द्वितीयतृतीयपादयोरवान्तरभेदस्तु प्रायशः सविशेषनिर्विशेषार्थतया रूढियोगबहुलतया वेति भावः । पूर्वं जीवलिङ्गबाधया ब्रह्मपरत्ववन्मनोमयादिवाक्येऽपि तद्बाधेन तत्परत्वमाह — सर्वत्रेति । छान्दोग्यवाक्यमुदाहरति — इदमिति । सर्वं जगद्ब्रह्मैवेत्यत्र हेतुमाह — तज्जेति । तस्माज्जायत इति तज्जं, तस्मिंल्लीयत इति तल्लं, तस्मिन्ननिति चेष्टत इति तदनं, तज्जं च तल्लं च तदनं च तदिति तञ्जलान् । अवयवलोपश्छान्दसः । इति हेतौ । यस्मादेवं जगत्तस्माद्ब्रह्मैव सर्वं जगदित्यर्थः । अतो धियो रागादिविषयाभावादुपासीत स शान्तः स्यादित्याह — शान्त इति । गुणं विधाय गुणिविधित्सया पुम्प्रयत्नस्य साफल्यमाह — अथेति । पुरुषोऽधिकृतः क्रतुमयः सङ्कल्पप्रधानः । तत्र हेतुर्यथेति । ज्ञानं कर्म वा यथास्मिन्देहे स्थितः सङ्कल्पयते तथा तदनुसारेण फलं परत्र लभते सोऽधिकृतः क्रतुं ध्यानं कुर्वीत । किं ध्यायेदित्याकाङ्क्षायामाह — मनोमय इति । विभक्तिव्यत्ययेन मनोमयं प्राणशरीरं ध्यायेदित्यर्थः । आदिशब्दाद्भारूपः सत्यसङ्कल्प इत्यादि गृहीतम् । मनोमयत्वादीनां प्रकृतब्रह्मानपेक्षत्वसापेक्षत्वाभ्यां सन्देहमाह — तत्रेति । एकवाक्यस्थब्रह्माब्रह्मलिङ्गयोर्ब्रह्मलिङ्गवशादब्रह्मलिङ्गं नीतम् । इह ब्रह्माब्रह्मप्रकरणलिङ्गसंनिपाते किं युक्तमिति पृच्छति — किमिति । ‘सर्वम्’ इत्यादिश्रुतेः सविशेषार्थाया ध्येये ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पर्वपक्षे जीवस्य, सिद्धान्ते परस्योपास्तिः फलम् । रात्रिसत्रन्यायेनोपास्त्या वाक्यशेषस्थो जीवः सम्बध्यत इति पूर्वपक्षयति — शारीर इति । विश्वजिन्न्यायेन सर्वाभीष्टं ब्रह्मैव मनोमयादौ विशेष्याकाङ्क्षायामुपास्तिसम्बन्धीत्याह — कुत इति । विशेष्याकाङ्क्षायामपि जीव एव लिङ्गबलीयस्तया सम्बध्यत इत्याह — तस्येति । तदन्यथासिद्धिं प्रत्याह — नेति । आदिपदेन ‘अवागमनाः’ इत्याद्या श्रुतिरुक्ता । श्रुत्या शङ्कते — नन्विति । न लिङ्गं श्रुत्या बाध्यमित्याह — नैष इति । किं पूर्ववाक्ये ब्रह्मोपास्तिर्विहितेत्युच्यते किं वा प्रकृतं ब्रह्मैवोत्तरत्र सम्बद्धमिति । नाद्य इत्याह — नेदमिति । शमविधिपरत्वे हेतुः — यदिति । ‘उपासीत’ इत्युपास्तिविधौ श्रुते कथं गुणविधिः, तत्राह — एतदिति । सर्वस्यैकात्मत्वेऽपि कथं शमविधिः, तत्राह — नचेति । तर्हि शमो ध्यानमित्युभयं विधीयतां, नेत्याह — नचेति । वाक्यभेदापत्तेरिति भावः । ‘दध्ना जुहोति’ इति होमानुवादेन गुणविधिवदिहापि शमविधौ वाक्यान्तरसिद्धोपास्तिरनूद्यत इत्याशङ्क्याह — उपासनं त्विति । क्रतुरेव तत्र विधीयते नोपास्तिरित्याशङ्क्योक्तम् — क्रतुरिति । द्वितीयं प्रत्याह — तस्य चेति । ब्रह्मैव मनोमयादिशब्दमित्याशङ्क्य मनआदियोगस्य जीवलिङ्गत्वान्नेत्याह — जीवेति । तस्योपास्यत्वे वाक्यशेषस्थं सर्वकर्मत्वादि कथमित्याशङ्क्य क्रमेणेत्याह — सर्वेति । जीवपक्षे लिङ्गद्वयमाह — एष इति । जीवे ज्यायस्त्वायोगं शङ्कते — नन्विति । किं ज्यायस्त्वमणीयस्त्वं चोभयं सत्यमन्यतरद्वेति विकल्पयति — अत्रेति । आद्यं दूषयति — न तावदिति । द्वितीयं निराह — अन्यतरेति । तच्चाराग्रमात्रस्य जीवस्य युक्तमिति तस्यैवोपास्यतेत्यर्थः । श्रुत्या ज्यायस्त्वस्यात्यन्तबाधे श्रुतिबाधमाशङ्क्याह — ज्यायस्त्वं त्विति । जीवपक्षे कथमन्ते ब्रह्मपदं, तत्राह — निश्चिते चेति । जीवेऽपि देहादिबृंहणाज्ज्यायस्त्वन्यायाद्वा ब्रह्मतेत्यर्थः । ‘एतमितः प्रेत्याभिसम्भवितास्मि’ इति कर्मकर्तृव्यपदेशात् , ‘अन्तरात्मन्पुरुषः’ इति च तुल्याधिकारे भेदोक्तेर्न जीवस्योपास्यतेत्याशङ्क्य साधनफलावस्थापेक्षया कर्मकर्तृत्वस्यान्यस्य च ‘स्वे महिम्नि’ इतिवदुपचाराज्जीवस्यैवोपास्यतेत्युपसंहरति — तस्मादिति । पूर्वपक्षमनूद्य सिद्धान्तयन्सूत्राद्बहिरेव प्रतिजानीते — एवमिति । मनोमयादिशब्दा ध्येये जीवे भान्ति । न ब्रह्म तथेत्याह — कुत इति । सूत्रमादाय व्याचष्टे — सर्वत्रेति । रात्रिसत्रन्यायस्य लघुत्वेऽपि जीवगामित्वेनाफलत्वाद्विश्वजिन्न्यायस्य गुरोरपि ब्रह्मगामित्वेन फलवतः श्रुतितात्पर्यगमकस्य बलीयस्त्वाद्ब्रह्मैवात्रोपास्यमितिभावः । किञ्च मनोमयत्वादिलिङ्गं बाधित्वा ब्रह्मश्रुत्या ब्रह्मैवोपास्यमित्याह — इह चेति । किञ्चाफललिङ्गोपनीतं जीवं हित्वा फलवत्प्रकरणप्राप्तं ब्रह्म ग्राह्यमित्याह — एवमिति । प्राणः शरीरमस्येति समासगतसर्वनाम्ना संनिहितार्थेन प्रकृतं ब्रह्म हित्वा जीवमप्रकृतमिच्छतः प्रकृतहानिरप्रकृतप्रक्रिया चेत्यर्थः । आगतो राजपुरुषस्तं भोजयेदितिवदन्यशेषस्य ब्रह्मणः सर्वनामादिना न परामर्शः स्यादित्याशङ्कते — नन्विति । ‘तस्मिन्सीद’ इत्यादौ सदनस्येवोपसर्जनस्यापि परामर्शमाह — अत्रेति । जीवस्यापि लिङ्गादस्ति संनिधिरित्याशङ्क्य तस्योपास्तिधियो विशेषणवैयर्थ्यादविवक्षितं लिङ्गमित्याह — जीवस्त्विति । तथापि मनोमयादिशब्दात्तदुक्तिः, नेत्याह — नचेति ।
तस्य तदवाचित्वादित्यर्थः । वैषम्यं जीवब्रह्मणोरिति शेषः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 इतश्च ब्रह्मैवात्रोपास्यमित्याह — विवक्षितेति । ननु शास्त्रयोनित्वेऽपीश्वरस्य रचनायामस्वातन्त्र्यादपौरुषेयत्वं वेदस्योक्तम् । तत्र वक्तुरभावादित्थं विवक्षितपदं कथं विगृह्यते, तत्राह — यद्यपीति । विवक्षितस्योपादानादुपास्तावुपादानस्य विवक्षाफलस्य सत्यसङ्कल्पादिगुणेषु दृष्टेर्विवक्षितत्वमुपचर्य विग्रह इत्यर्थः । उक्तोपचारस्यालौकिकत्वं प्रत्याह — लोकेऽपीति । विवक्षितत्वोपादेयत्वयोरन्योन्याश्रयत्वमाशङ्क्याह — उपादानेति । परिग्रहपरित्यागावुपादानानुपादाने । प्रसङ्गागतमुक्त्वा सूत्रं व्याचष्टे — तदिहेति । तच्छब्दो यथोक्तसमासोपपत्तिपरामर्शी । प्रकृतं प्रकरणमिहेत्युक्तम् । ब्रह्मण्येव सत्यसङ्कल्पत्वं साधयति — सत्येति । श्रुतिरपि युक्तिवदिहास्तीत्याह — परमात्मेति । आकाशात्मत्वं वक्तुं तन्निरुक्तिं करोति — आकाशेति । कथं जडाजडयोः साम्यं, तदाह — सर्वेति । ज्यायस्त्वं सर्वगतत्वसाधकमित्याह — ज्यायानिति । आकाशात्मत्वस्य निरुक्त्यन्तरमाशङ्क्याङ्गीकरोति — यदेति । सर्वात्मत्वमत एवेत्युक्तम् । आदिपदं सर्वकामादिसङ्ग्रहार्थम् । उक्तामुपपत्तिमुपसंहरति — एवमिति । इहेति प्रकरणोक्तिः । तेन तदेवोपास्यमिति शेषः । ध्येयस्यापि मनोमयत्वादेर्ब्रह्मणि नोपपत्तिरित्याशङ्क्याह — यत्त्विति । तस्यापि ब्रह्मण्युपपत्तिमाह — तदपीति । कथं जीवगामिनो ब्रह्मणि सिद्धिः, तत्राह — सर्वेति । जीवस्यैवासाधारणं मनोमयत्वादीत्युपेत्य ब्रह्मण्युपपत्तिमुक्त्वा तस्य साधारण्ये मानमाह — तथाचेति । जीर्णः स्थविरो भूत्वा यो दण्डेन वञ्चति गच्छति सोऽपि त्वमेव । सर्वतः सर्वासु दिक्षु श्रुतयः श्रोत्राण्यस्यैवेति सर्वतःश्रुतिमत् । ब्रह्मणि मनोमयत्वादि वदतः श्रुत्यन्तरविरोधमाशङ्क्याह — अप्राणो हीति । सूत्रार्थमुपसंहरति —
अत इति ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मणि जीवगतं मनोमयत्वादीष्टं चेद्ब्रह्मगतमपि सत्यसङ्कल्पत्वाद्यभेदाज्जीवेऽस्तु, नेत्याह — अनुपपत्तेस्त्विति । सूत्रं व्याख्यातुं सङ्गतिमाह — पूर्वेणेति । आरोप्यरूपेण विषयस्यैव रूपित्वं न विपरीतं, नहि रज्ज्वा रूपेण सर्पो रूपवानित्यर्थः । अवधारणमेव स्फोरयन्नेत्यादि विभजते — ब्रह्मेति । सर्वात्मत्वादिरुक्तो न्यायः । अनुपपत्तेरिति व्याचष्टे — यदिति । वागेव वाकः सोऽस्यास्तीति वाकी न वाक्यवाकी । वागादिसर्वेन्द्रियरहित इत्यर्थः । आप्तकामत्वान्न कुत्रचिदादरोऽस्तीत्यनादरः । शारीरत्वमीश्वरेऽपि व्यापिनि स्यादिति शङ्कते — नन्विति । अयोगव्यवच्छेदमङ्गीकृत्यान्ययोगव्यवच्छेदाभावान्नेत्याह — सत्यमिति । अन्ययोगाव्यवच्छेदे हेतुः — ज्यायानिति । जीवे वा कथं विशिष्टं शारीरत्वं, तत्राह —
जीवस्त्विति ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 जीवस्य मनोमयत्वादिगुणत्वाभावे हेत्वन्तरम् — कर्मेति । पूर्वसूत्रान्नेत्याद्याकृष्य चशब्दार्थमाह — इतश्चेति । प्राप्यप्रापकत्वेन कर्मकर्तृव्यपदेशं विशदयति — एतमिति । वाक्यं व्याकरोति — एतमित्यादिना । प्रापकत्वेन व्यपदिशतीति सम्बन्धः । मामहं जानामीतिवद्व्यपदेशमाशङ्क्याह — नचेति । कर्मकर्तृव्यपदेशे सूत्राभिप्रेतं प्रकारान्तरमाह — उपास्येति । उक्तव्यपदेशफलमाह —
तस्मादिति ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 तत्रैव हेत्वन्तरमाह — शब्देति । सूत्रे हेत्वन्तरद्योतकाभावमाशङ्क्य पूर्वसूत्रस्थं चशब्दमाकृष्य व्याकरोति — इतश्चेति । समानप्रकरणत्वमेकविद्याविषयत्वम् । अन्तरात्मन्निति छान्दसो विभक्तिलोपः । शब्दभेदफलमाह —
तस्मादिति ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मान्तःस्थितस्यान्यस्यायोगे ‘स्वे महिम्नि’ इतिवदुपचारादेव शब्दभेदः स्यादित्युक्तमाशङ्क्याह — स्मृतेश्चेति । हृदि स्थितस्य शारीराद्भेदः स्मृत्योच्यते । ततो मनोमयत्वादिविशिष्टो हृदि स्थितोऽन्यः शारीरादिति नोपचारशङ्केति व्याचष्टे — स्मृतिश्चेति । ‘तमेव शरणं गच्छ’ इत्यादिवाक्यमादिशब्दार्थः । ईक्षत्यधिकरणे निरस्तमपि चोद्यं प्रसङ्गादुद्भावयति — अत्रेति । श्रुतिस्मृतिभ्यां भेदवादः सप्तम्यर्थः । ननु नान्यत्वं साध्यते किन्त्वन्यस्य मनोमयत्वादि निषिध्यते, तत्राह — य इति । विवक्षितगुणवत्त्वेन जीवस्य ध्येयत्वनिषेधानुपपत्त्या तदन्यत्वधीरित्यर्थः । परस्यांशो विकारो वा जीवो नामेत्याशङ्क्य श्रुतिस्मृतिविरोधान्नैवमित्याह — श्रुतिरिति । नच भेदाभेदाभ्यां श्रुतिस्मृत्यविरोधः, तदयोगादिति । किं वस्तुतोऽन्यो जीवो नास्ति, किं वोपाधितोऽपीति विकल्पयति — अत्रेति । आद्यमङ्गीकरोति — सत्यमिति । द्वितीयं दूषयति — पर इति । अपरिच्छिन्नस्योपाधिना परिच्छिन्नत्वदृष्टिं दृष्टान्तेन स्पष्टयति — यथेति । श्रुतौ स्मृतौ च कर्मकर्तृत्वादिव्यवहारात्पारमार्थिक एव भेद इत्याशङ्क्याह — तदिति । अबाधाद्भेदव्यवहारस्य तात्त्विकत्वमाशङ्क्य प्रागूर्ध्वं वा बोधादबाध इति विकल्प्याद्यमनुजानाति — प्रागिति । द्वितीयं प्रत्याह —
गृहीते त्विति ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 जैवं लिङ्गद्वयं निरस्यति — अर्भकेति । अर्भकमोको यस्य सोऽर्भकौकास्तस्य भावस्तत्त्वं तस्मादिति यावत् । अर्भकशब्दस्य शिशुविषयत्वनिषेधार्थमल्पमिति पर्यायत्वोक्तिः । ओकःशब्दस्याप्रसिद्धार्थतां व्यवच्छिनत्ति — नीडमिति । वाक्यार्थं वदन्नाशङ्कां विवृणोति — एष इति । तत्र लिङ्गयोः सम्भावनार्थं विशिनष्टि — आराग्रेति । परत्र तदसम्भावनार्थम् — सर्वगत इति । तस्यानुपेक्षणीयत्वमाह — तदिति । परिहारभागमवतारयति — अत्रेति । अणीयस्त्वमुपेत्य ज्यायस्त्वं वा बाध्यं, तदपि वा कथञ्चिदनुगन्तव्यम् । नाद्यः, श्रुतस्य बाधायोगादित्याह — नायमिति । द्वितीयं प्रत्याह — न तावदिति । त्वयापि ज्यायस्त्वमुपेत्याणीयस्त्वं बाध्यते, तदपि वा कथञ्चिदनुगम्यते । नाद्यः, श्रुतबाधायोगसाम्यात् । न द्वितीयः, ज्यायसोऽणीयस्त्वस्य सर्वथैवायुक्तत्वात् , तत्राह — सर्वेति । अपरिच्छिन्नस्य परिच्छिन्नदेशोक्तौ दृष्टान्तमाह — समस्तेति । तत्र पुरवासापेक्षया व्यपदेशेऽपि कथमिहेति पृच्छति — कयेति । सूत्रावयवमुत्तरमवतार्य व्याचष्टे — निचाय्यत्वादिति । सर्वगतस्य कथमेकदेशे द्रष्टव्यत्वं, तत्राह — यथेति । तत्र शास्त्रप्रमाण्यात्तथास्तु, प्रस्तुते कथं, तत्राह — तत्रेति । बुद्धिविज्ञानमित्यन्तःकरणस्य प्रमाणजा वृत्तिरुक्ता । सर्वगतस्य कुतो हृदय एव मानग्राह्यत्वं, तत्राह — सर्वेति । अपरिच्छिन्नस्य परिच्छिन्नायतनत्वादिव्यपदेशं सौत्रोदाहरणेन साधयति — व्योमवदिति । ब्रह्मापि हृदयापेक्षया द्विधोक्तिभागिति शेषः । दार्ष्टान्तिकमुपसंहरति — तदेवमिति । हृदयायतनस्यातात्त्विकत्वे चोद्यान्तरमपि निरस्तमित्याह — तत्रेति ।
नहि परोपाधिपरिच्छेदादनित्यात्वादि युक्तं, व्योम्नोऽदृष्टेरिति भावः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 हार्दत्वे ब्रह्मणोऽनिष्ठप्रसङ्गाज्जीवस्यैव हार्दस्योपास्यतेति शङ्कित्वा समाधत्ते — सम्भोगेति । चोद्यं प्रपञ्चपयति — व्योमवदिति । सर्वबुद्धिसम्बन्धेऽपि नभोवदभोगमाशङ्क्योक्तम् — चिदिति । तथापि भोगहेतुसम्बद्धस्यैव भोगो नेतरस्येत्याशङ्क्याह — एकत्वाच्चेति । तत्प्रपञ्चयति — नहीति । अनिष्टप्रसङ्गं निगमयति — तस्मादिति । उत्तरमादत्ते — नेति । यत्तु बुद्धिस्थत्वे सति चैतन्याद्ब्रह्मणो भोक्तृत्वं जीववदिति, तत्राह — न तावदिति । हेतुं विवृणोति — विशेषो हीति । धर्माधर्मवत्त्वस्यैव भोगप्रयोजकत्वादप्रयोजको हेतुरित्यर्थः । उक्तवैशेष्यफलमाह — एतस्मादिति । साधनव्याप्तिमाशङ्क्य ‘अन्यत्र धर्मात्’ इत्यादिश्रुतिविरोधान्मैवमित्याह — यदि चेति । किञ्च जीवा विभवो बहवश्चेति स्थितावेकस्मिन्देहदेशे सर्वसंनिध्यविशेषात्तुल्यो भोगः स्यान्न चेन्नैकस्यापि । स्वकर्मार्जिते देहे भोगो नान्यत्रेति चेद्द्वयमपि तथैवाभिदधीमहीत्याह — सर्वेति । ब्रह्मणो भोक्त्रभिन्नत्वाद्भोक्तृतेत्युक्तमनुभाषते — यदपीति । तत्र प्रतिज्ञैवायुक्तेत्याह — अत्रेति । तदयुक्तिं वक्तुं पृच्छति — इदमिति । किमेकत्वमज्ञातं ज्ञातं वा । आद्ये हेत्वसिद्धिः । द्वितीये तद्धीर्मदुक्तेः शास्त्राद्वेति प्रश्नमेव प्रकटयति — कथमिति । अन्त्यमादत्ते — तत्त्वमिति । शास्त्रानुसरणे तदतिक्रमणमयुक्तमित्याह — यथेति । नहि कुक्कुटादेरेकदेशो भोगाय पच्यत एकदेशस्तु प्रसवाय कल्प्यते, विरोधादित्याह — नेति । ऐक्यं बोधयदपि शास्त्रं न संसारं वारयति । तत्कथमर्धजरतीयप्रसक्तिरित्याशङ्क्याह — शास्त्रं चेति । संसारिणो ब्रह्मणैक्यबोधनायोगाज्जीवस्य संसारित्वनिरासद्वारा शास्त्रमैक्यं बोधयति, अशोधितपदार्थस्य वाक्यार्थज्ञानाभावादित्यर्थः । त्वदुक्तेरैक्यं ज्ञातं न शास्त्रादिति द्वितीयमुत्थापयति — अथेति । तत्र वास्तवे भोक्तृत्वे साध्ये साध्यवैकल्यं, अवास्तवे सिद्धसाध्यतेति मत्वाह — तदेति । तदेव दृष्टान्तेनाह — नहीति । तत्र सूत्रभागमवतार्य योजयति — तदाहेति । तयोर्विशेषेऽपि कथं ब्रह्मणि वस्तुतो भोगाभावः, तत्राह — नचेति । हेतुद्वयनिरासमुपसंहरति — तस्मान्नेति ।
मनोमयत्वादिविशिष्टस्यैवेश्वरस्य ध्यानार्थं हार्दत्वेऽपि निर्दोषत्वात्तस्मिन्नेव शाण्डिल्यविद्यावेद्ये ‘सर्वम्’ इत्यादिवाक्यं समन्वितमित्यर्थः ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 ईश्वरस्याभोक्तृत्वे नात्तृत्वमपीत्याशङ्क्याह — अत्तेति । उदाहरति — कठेति । यस्य परस्यात्मनो ब्रह्म च क्षत्रं चोभे जाती प्रसिद्धान्नवदोदनौ भवतः, यस्य मृत्युः सर्वमारकः सन्नुपसेचनमोदनमिश्रघृतवत्तिष्ठति, यत्र सोऽत्ता कारणात्मा वर्तते, तं निर्विशेषमात्मानं ‘नाविरतो दुश्चरितात्’ इतिमन्त्रोक्तोपायवान्यथा वेदेत्थमन्यस्तद्रहितो न वेदेत्यर्थः । अत्तुरत्राश्रवणान्न सूत्रानुसारितेत्याशङ्क्याह — अत्रेति । सिद्धेऽत्तरि विचारमूलं संशयमाह — तत्रेति । विशेषानवधारणोत्थः संशयस्त्रिष्वेव कथं नियम्यते, तत्राह — त्रयाणामिति । ‘स त्वमग्निम्’ इत्यादिरग्नेः, ‘येयं प्रेते विचिकित्सा’ इत्यादिर्जीवस्य, ‘अन्यत्र धर्मात्’ इत्यादिर्ब्रह्मणः प्रश्नः । प्रतिवचनमपि ‘लोकादिमग्निम्’ इत्याद्यग्नेः, ‘हन्त त इदम् ‘ इत्यादीतरयोरेवं त्रयाणामेव तयोरिहोपलब्धेस्त्रिष्त्रेव संशयः, विशेषानुपलब्धेरित्यर्थः । पठितकठश्रुतेर्निर्विशेषब्रह्मणि समन्वयोक्त्या श्रुत्यादिसङ्गतिं गृहीत्वा पूर्वपक्षयति — किं तावदिति । पूर्वपक्षेऽग्नेर्जीवस्य वोपास्तिः, सिद्धान्ते निर्विशेषवस्तुधीरिति फलम् । विशेषेऽनवधृते कुतोऽवधृतिरित्याह — कुत इति । 'अग्निरन्नादोऽन्नपतिः’ इति श्रुतेः, अग्नेरन्नादत्वप्रसिद्धेश्च विशेषधीरित्याह — अग्निरिति । अग्न्यधिकारमतिक्रम्याध्यात्माधिकारे तदुक्त्ययोगात् , ओदनशब्दस्य च भोग्यत्वगुणाद्ब्रह्मक्षत्रवृत्तेर्भोक्तृगमकत्वात् , अग्नेश्च संहर्तृत्वेऽपि भोक्तृत्वाभावान्नाग्न्युपास्तिरिहेत्यपरितोषादाह — जीवो वेति । ओदनशब्देन कर्मफलोक्तेर्मृत्युशब्दस्य तदनुगुणत्वात् ‘न जायते’ इत्यादेश्च जीवे योगात्तदुपास्तिरत्रेति भावः । ओदनशब्देन ब्रह्मक्षत्त्रवृत्तिना जगल्लक्षणात्तत्संहर्तृत्वस्य परस्मिन्प्रसिद्धेस्तद्धीरेवात्रेष्टेत्याशङ्क्याह — नेति । श्रुतिलक्षणाविषये श्रुतेर्न्याय्यत्वादोदनशब्दस्य भोग्यार्थत्वात् , ब्रह्मक्षत्रयोश्च भोग्यत्वात् , भोक्तृत्वस्य परस्मिन्वारितत्वान्न तत्परतेत्यर्थः । पूर्वपक्षमनूद्य सिद्धन्तयति — एवमिति । साधिते जीवपक्षे परस्मिन्को हेतुरिति पृच्छति — कुत इति । हेतुमुक्त्वा व्याचष्टे — चरेति । तदत्तृत्वस्यान्यथासिद्धिं निराह — तादृशस्येति । हेतोः पक्षधर्मतामाह — परमेति । ब्रह्मक्षत्त्रयोरेव मृत्यूपसेचनयोरत्र दृष्टेरसिद्धो हेतुरिति शङ्कते — नन्विति । ओदनशब्देन ब्रह्मक्षत्त्रवृत्तिना मृत्यूपसेचनसंनिधानादोदनस्थं नाश्यत्वमाश्रित्य ब्रह्मक्षत्त्रशब्दाभ्यां जगल्लक्ष्यते, तेन तन्नाशकत्वलिङ्गाद्ब्रह्मात्र भातीत्याह — नैष इति । निषेधश्रुत्या परस्य नात्तृतेत्युक्तमनूद्य तस्य गतिमाह — यत्त्विति । तयोरित्यादिना कर्मफलभोगस्य पूर्वोक्तं संनिहितत्वम् । अविशेषेण विकारसंहारस्यापि किमित्येतन्न निषेधकं, सर्ववेदान्तविरोधादित्याह — नेत्यादिना । लैङ्गिकमर्थमुपसंहरति —
तस्मादिति ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 परमात्मैवात्तेत्यत्र मानान्तरमाह — प्रकरणाच्चेति । सूत्रं व्याचष्टे — इतश्चेति । प्रकृतत्वमप्रयोजकमित्याशङ्क्योक्तम् — प्रकृतेति । न्याय्यम् । अप्रकृतग्रहादिति शेषः । इतश्च परमात्मैवात्तेत्याह — क इति ।
‘यस्य’ इत्यादि वाक्यं ज्ञेये परमात्मनि मायाद्वारा सर्वसंहर्तर्यन्वितमित्यर्थः ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वोदाहृतान्तरमन्त्रार्थनिर्णयार्थमाह — गुहामिति । सङ्गतिं वदन्विषयमाह — कठेति । ऋतं सत्यमावश्यकं कर्मफलं पिबन्तौ भुञ्जानौ, सुकृतस्य लोके सम्यगर्जितस्यादृष्टस्य कार्ये देहे वर्तमानौ, परस्य ब्रह्मणोऽर्धं स्थानमर्हतीति परार्धं हृदयं तस्मिन्परमे श्रेष्ठे या गुहा नभोलक्षणा तां प्रविश्य स्थितौ, छायातपवन्मिथो विरुद्धौ, तौ च ब्रह्मविदः कर्मिणश्च वदन्ति । त्रिर्नाचिकेतोऽग्निश्चितौ यैस्ते त्रिणाचिकेताः, तेऽपि वदन्तीत्यर्थः । बुद्ध्यवच्छिन्नस्य जीवस्य परस्य च प्रकृतत्वादृतपानकर्तृत्वस्य जीवेन सह बुद्धेरिव परस्यापि छत्रिन्यायेन लाक्षणिकत्वाविशेषाच्च संशयमाह — तत्रेति । वाक्यभेदशङ्कां परिहरन्पूर्वपक्षे फलमाह — यदीति । प्रकृतं प्रतिपाद्यं कुतो जीवस्तथेति, तत्राह — तदपीति । जीवतत्त्वं तदर्थः । प्रकरणं सप्तम्यर्थः । मनुष्ये प्रेते मृते सति येयं विचिकित्सा संशयः परलोकभोक्तास्तीत्येके नास्तीति चान्ये त्वयोपदिष्टोऽहमेतत्तत्त्वं ज्ञातुमिच्छामीत्यर्थः । वराणां पितुः सौमनस्यमग्निविद्यात्मविद्येत्येतेषामिति निर्धारणे षष्ठी । सिद्धन्तेऽपि वाक्यभेदं वारयन्फलमाह — अथेत्यादिना । जीवविलक्षणस्य ब्रह्मणोऽप्रकृतत्वात्कथं प्रतिपाद्यतेत्याशङ्क्याह — तदपीति । परमात्मस्वरूपं तदित्युक्तम् — अन्यत्रेति । अन्यदिति यावत् । कृताकृतात्कारणात्कार्याच्चेत्यर्थः । चकाराभ्यां भवतो ग्रहणम् । उभयोर्भोक्तृत्वायोगेन संशयमाक्षिपति — अत्रेति । प्रकृतत्वात्तदुपपत्तौ तदसम्भावना नास्तीत्याह — कस्मादिति । पक्षयोरसम्भावनां वक्तुमृतपानशब्दार्थमाह — ऋतेति । तत्कर्त्रोर्देहयोगदृष्टेरिति हेतुमाह — सुकृतस्येति । तथापि कथं पक्षयोरनुपपत्तिरित्याशङ्क्य पूर्वपक्षानुपपत्तिमाह — तच्चेतनस्येति । अस्तु जीवस्यैव चेतनात्वादृतपानं मा वाऽचेतनाया बुद्धेर्भूत्तथापि का क्षतिः, तत्राह — पिबन्ताविति । जीवस्यैव पातृत्वं न बुद्धेरिति स्थिते फलितमाह — अत इति । द्वयोरुक्तं पानायोगं हेतूकृत्य सिद्धान्तयोगमाह — अत एवेति । बुद्धेरचैतन्यात्पानायोगेऽपि परस्य चैतन्यात्तद्योगमाशङ्क्याह — चेतनेऽपीति । संशयायोगादधिकरणाक्षेपमनूद्य परिहरति — अत्रेति । किं पक्षद्वयं कथञ्चिदपि नोपपद्यते किंवा कथञ्चिद्योगेऽपि सम्यक्पक्षान्तरमस्ति । नाद्य इत्याह — नैष इति । सिद्धान्तोपपत्तिं विधान्तरेणाह — यद्वेति । तथापि कथं पिबन्ताविति द्विवचनं, तत्राह — पाययन्निति । प्रधानकर्तरि प्रयोगो गुणकर्तरि कथमित्याशङ्क्याह — पाचयितरीति । यः कारयति स करोत्येवेति न्यायादित्यर्थः । पूर्वपक्षेऽपि द्विवचनोपपत्तिमाह — बुद्धीति । सम्भवति द्विवचनमिति शेषः । कर्तरि यो व्यपदेशः स कथं करणे स्यात् , तत्राह — एधांसीति । कथञ्चिदुपपत्तिं पक्षयोरुक्त्वा द्वितीयं निराह — नचेति । पक्षद्वयं सम्भाव्याधिकरणारम्भमुपसंहरति — तस्मादिति । ब्रह्मक्षत्त्रशब्दस्य संनिहितमृत्युपदादनित्यवस्तुपरत्ववदिहापि पिबच्छब्दस्य संनिहितगुहाप्रवेशादिना बुद्धिक्षेत्रज्ञपरतेति विमृश्य पूर्वपक्षयति — किं तावदिति । ऋतमिति श्रुतेनिर्विशेषे ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । परस्यापि प्रकृतत्वाज्जीवाद्द्वितीयत्वं किं न स्यादित्याह — कुत इति । सूत्रावयवेनोत्तरम् — गुहामिति । हेतुमेव स्फुटयति — यदीति । जीवाद्द्वितीयं ब्रह्मैव गुहां प्रविष्टं ‘यो वेद निहितं गुहायाम् ‘ इति श्रुतेरित्याशङ्क्याह — नचेति । इतश्च न ब्रह्म गुहां प्रविष्टमित्याह — सुकृतस्येति । ब्रह्मणोऽपि सुकृतलोकवर्तित्वमाशङ्क्याह — परमात्मेति । पूर्वपक्षे हेत्वन्तरमाह — छायेति । बु्द्धेर्द्वितीयजीवज्ञानार्थं वाक्यमित्युपसंहरति — तस्मादिति । सिद्धान्तसूत्रमादायात्मानाविति प्रतिज्ञां व्याकरोति — एवमिति । इहेति प्रकृतमन्त्रोक्तिः । पूर्णतया प्रवेशानर्हं ब्रह्म कुतोऽद्वितीयं जीवस्येत्याह — कस्मादिति । हीत्युक्तं हेतुमाह — आत्मानौ हीति । चेतनत्वेन समन्वयाज्जीवे पातरि सिद्धे द्वितीयत्वेन परस्यादानं युक्तमित्यर्थः । तत्र किं नियामकमित्याशङ्क्य तद्दर्शनादिति व्याचष्टे — सङ्ख्येति । लौकिकीं दृष्टिमेव दृष्टान्तेनाह — अस्येति । एकस्य चेतनत्वे द्वितीयस्यापि तद्धीः, तदेवासिद्धमित्याशङ्क्याह — तदिति । तत्तत्रेत्थं लौकिकदर्शने सतीति यावत् । इहेति वाक्योक्तिः । सम्प्रतिपन्नां जातिमुपजीव्य निर्विशेषान्तरग्रहे बुद्धिलाघवाद्विजातीयग्रहे तद्गौरवात्परमात्मैव द्वितीयो जीवस्येति सूचयति — समानेति । कारकत्वेन बुद्धेरपि जीवसाम्यमाशङ्क्य तस्य बहिरङ्ग्त्वाच्चेतनस्य स्वभावत्वेनान्तरङ्गत्वान्मैवमित्याह — चेतन इति । बहिरङ्गमपि कारकत्वमेव ग्राह्यं, गुहाहितत्वलिङ्गादिति शङ्कते — नन्विति । तत्रापि तद्दर्शनादित्युत्तरमाह — गुहेति । तदेव स्फुटयति — गुहेत्यादिना । परस्मिन्गुहाहितत्वोक्तेस्तात्पर्यं वक्तुमसकृदित्युक्तम् । गुहायां बुद्धावाहितं निक्षिप्तं गह्वरे बहुविधानर्थसङ्कटे देहे स्थितं पुराणं चिरन्तनं परं विदित्वा हर्षादि जहातीति सम्बन्धः । परमे बाह्याकाशापेक्षया प्रकृष्टे व्योमन्यन्तःकरणावच्छिन्ने भूताकाशे निहितं परं यो वेद सोऽश्नुते सर्वान्कामानिति सम्बन्धः । अन्विच्छ विचार्य निर्धारयेत्यर्थः । प्रवेशवाक्यसङ्ग्रहार्थमादिपदम् । यत्तु सर्वगतस्य ब्रह्मणो न विशिष्टदेशतेति, तत्राह — सर्वेति । यत्तु परस्य न सुकृतलोकवर्तितेति, तत्राह — सुकृतेति । यदपि छायातपाविति चेतनाचेतनोक्तिरिति, तत्राह — छायेति । तद्वैलक्षण्ये तद्वतोरपि तत्सिद्धिरिति हेतुं साधयति — अविद्येति । प्रथमश्रुतचेतनत्ववशाच्चरमश्रुतं गुहाप्रवेशादि नेयमित्युपसंहरति —
तस्मादिति ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 परमात्मासाधारणलिङ्गपरं सूत्रं व्याचष्टे — विशेषणं चेति । न बुद्धिजीवयोरित्येवकारार्थः । जीवविशेषणं विशदयति — आत्मानमिति । रथित्वकल्पनाफलं सूच्यते — संसारेति । परस्य विशेषणमाह — स इति । जीवः सर्वनामार्थः । अध्वनः संसारमार्गस्य । पारमेव विशिनष्टि — तदिति । व्यापनशीलस्य ब्रह्मणः स्वरूपं तदित्यर्थः । परमं कार्यकारणातीतं पदं तदेव ज्ञेयं नान्यदित्यर्थः । किञ्चोत्तरवाक्यवत्पूर्वमपि जीवेश्वरयोरेव विशेषणादृतपानवाक्ये जीवद्वितीयत्वमीशस्यैवेत्याह — तथेति । दुर्दर्शं सूक्ष्मत्वाद्दुर्ज्ञानं तत एव गूढमनुप्रविष्टं गहनतां गतमीश्वरं, अध्यात्मयोगः प्रत्यगात्मन्येव चित्तसमाधानं तत्सहकृताद्वाक्यादधिगमो ब्रह्मात्मैक्यव्यञ्जकचित्तवृत्तिविशेषस्तेनाहमेवेति निश्चित्य धीरो विद्वान्हर्षाद्युपलक्षितं संसारं त्यजतीत्यर्थः । चकारसूचितमर्थमाह — प्रकरणं चेति । नच पृष्टत्वाविशेषाज्जीवस्यापीदं प्रकरणं, तस्य ब्रह्मत्वेन प्रतिपाद्यत्वादविरोधादिति भावः । जीवद्वितीयत्वं परस्यैवेत्यत्र हेत्वन्तरमाह — ब्रह्मेति । ब्रह्मपक्षे हेतुबाहुल्यात् ‘ऋतं पिबन्तौ’ इत्यत्र जीवानुवादेन तदतिरिक्तो वाक्यार्थान्वयितदर्थशोधनाय परात्मा प्रतिपाद्यत इत्युपसंहरति — तस्मदिति । उक्तन्यायमन्यत्र सञ्चारयति — एष इति । ‘द्वा सुपर्णा’ इत्यादौ सर्वत्र द्विवचनस्याकारश्छान्दसः । द्वौ सुपर्णाविव सहैव युज्येते नियम्यनियामकत्वेनेति सयुजौ, सखायौ चेतनत्वेन समानस्वभावौ, समानं नियम्यत्वेन तुल्यं वृक्षं छेदनयोग्यं शरीरं, परिषस्वजाते समाश्रितावित्यर्थः । पक्षिणौ कौचिदत्र प्रतीयेते न जीवेशौ ततो नेदमुदाहरणं, तत्राह — तत्रेति । तदनेन ‘गुहां प्रविष्टौ’ इति व्याख्यातम् । आत्मानौ हीति व्याचष्टे — तयोरिति । तद्दर्शनादित्युभयोर्लिङ्गदर्शनादिति व्याख्येयम् । विशेषणाच्चेति व्याकरोति — अनन्तरे चेति । आत्मेश्वरयोस्तुल्यो वृक्षो देहस्तस्मिञ्जीवो मनुष्योऽहमित्यभिनिवेशवाननीशयाऽविद्यया मुह्यमानस्तत्त्वमजानन्ननिशं शोचति संसारमनुभवति । जुष्टं ध्यानादिना सेवितं यदा तत्प्रकर्षदशायामन्यं बिम्बभूतमीशशब्दलक्ष्यं प्रत्यक्त्वेन पश्यति तदास्यैवात्मत्वेन दृष्टस्य महिमानं स्वरूपं प्राप्नोति । ततश्च वीतशोको विगतसंसारो भवति, तत्र हेतुरितिशब्देनोक्तः, बन्धहेत्वविद्यादेर्ज्ञानाग्निना दग्धत्वादित्यर्थः । नचात्र जीवोक्तौ ‘अनश्नन् ‘ इत्ययोगात् , बुद्धिग्रहे च ‘अभिचाकशीति ‘ इत्यसम्भवात्पूर्वपक्षासिद्धिः, करणे कर्तृत्वोपचारादभिचाकशीतीति बुद्धावपि सिद्धत्वात् , जीवे चैतन्यमात्रादनशनसम्भवात् , मुख्ये कर्तृत्वे सम्भवति कर्तृत्वोपचारो नेति सिद्धान्ताभिप्रायः । कृत्वाचिन्तया ‘द्वा सुपर्णो ‘ इत्यादेरेतदधिकरणोदाहरणत्वमुक्त्वा कृत्वाचिन्तामुद्धाटयति — अपर इति । अन्यथा सिद्धान्ताननुगुणत्वेनेति यावत् । सत्त्वमिति बुद्धिरुक्ता । सिद्धान्तार्थ व्याचष्टे ब्राह्मणमिति शङ्कते — सत्वेति । प्रसिद्ध्या प्रत्याह — तन्नेति । ब्राह्मणविरोधाच्च न तदन्यथा व्याख्येयमित्याह — तत्रैवेति । प्रकृतं ब्राह्मणं सप्तम्यर्थः । सत्त्वव्याख्यानानन्तर्यमथशब्दार्थः । सत्त्वस्य करणत्वात्क्षेत्रज्ञस्य कर्तृत्वान्न तयोरैक्यमित्यर्थः । तावेतौ करणत्वेन कर्तृत्वेन च भिन्नावित्यर्थः । सिद्धान्ताभजनेऽपि पूर्वपक्षमृगेषा भजेतेत्याशङ्क्याह — नापीति । द्वितीयस्य ब्रह्मरूपेणैव प्रतिपादनादिति हेतुमाह — न हीति । अत्रेति मन्त्रब्राह्मणोक्तिः । नचायं वाक्यार्थो न युक्तः, श्रुतिस्मृतिसिद्धत्वादित्याह — तत्त्वमिति । इतश्च जीवस्य ब्रह्मत्वदृष्टिरत्रेष्टेत्याह — तावतेति । मन्त्रव्याख्यामात्रेण विद्योपसंहारदर्शनं जीवस्य ब्रह्मत्वोपदेशे घटते न सत्त्वक्षेत्रज्ञविवेकमात्रेण, भेदधियो मिथ्याधीत्वादित्यर्थः । अविद्याध्वस्तिफलोक्तिरपि ब्रह्मात्मताज्ञानमिह गमयतीत्याह — न हेति । जीवस्य ब्रह्मत्वोक्तिपरमिदं वाक्यमित्यत्र शङ्कते — कथमिति । बुद्धेर्भोक्तृत्वोक्तावतात्पर्यान्न तत्रोपपत्तिरन्वेष्येत्याह — उच्यत इति । क्व तर्हि श्रुतेस्तात्पर्यं, तत्राह — किं तर्हीति । इतिपदं प्रवृत्तेतिपूर्वेण सम्बध्यते । का तर्हि बुद्धेर्भोक्तृत्वधियो गतिः, तत्राह — तदर्थमिति । जीवस्य ब्रह्मत्वसिद्ध्यर्थमिति यावत् । चैतन्यच्छायापन्ना धीः सुखादिना परिणमते, तत्र पुरुषोऽपि भोक्तृत्वमिवानुभवति न तत्त्वत इति वक्तुमध्यारोपयतीत्युक्तम् । कुत्रत्यं भोक्तृत्वं बुद्धावारोप्यते तत्राह — इदं हीति । नहि भ्रान्तेरभ्रान्तिपूर्वकत्वं दण्डस्याप्सु वक्रतावदित्युक्तम् — परमार्थतस्त्विति । सत्त्वस्य वस्तुतो भोक्तृत्वाभावे हेत्वन्तरम् — अविद्येति । मिथ्याभोक्तृत्वे मानमाह — तथाचेति । यत्र यस्यामविद्यावस्थायाम् । वैशब्दो निश्चयार्थः । अन्यदिवाभासभूतं नानात्वं दृष्टं स्यात् , तत्र आविद्यकबुद्ध्यादिसम्बन्धादन्यो भूत्वाऽन्यच्चक्षुषा पश्येदन्यच्च श्रोत्रेण शृणुयादित्यर्थः । उक्तवाक्यतात्पर्यमाह — स्वप्नेति । वस्तुतो भोक्तृत्वाभावे श्रुतिमाह — यत्र त्विति । यस्यां विद्यावस्थायामस्य विदुषः सर्वं पूर्णं ब्रह्मैवाभूत्तत्राविद्याक्षये भेदभ्रमाभावादारब्धकर्मणा कार्यकरणव्यापारेऽपि स्वगतव्यापारानभिमानात्केन करणेन कः कर्ता पश्येदित्याक्षेपः । अनेनापि वाक्येन श्रुत्युक्तमर्थमाह — विवेकिन इति ।
एवं जीवस्य भोक्तृत्वादेर्मिथ्यात्वात्तदपोहेन तस्य ब्रह्मतामाह पैङ्गिब्राह्मणमिति । पूर्वोत्तरपक्षाननुगुणत्वादनुदाहरणत्वेऽपि कृत्वाचिन्तया ‘द्वा सुपर्णा’ इत्यादीहोदाहृतम् । तच्चाप्रपञ्चे पत्यग्ब्रह्मण्यन्वितम् । ‘ऋतं पिबन्तौ ‘ इति तु जीवद्वितीये परस्मिन्निति स्थितम् ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 धर्मविशिष्टतया विलक्षणग्रहे बुद्धिरेव स्वतो विलक्षणा ग्राह्येति मन्वानो हेत्वन्तरं पृच्छति — कुतश्चेति । ‘पिबन्तौ’ इति द्वित्वश्रुत्या चेतनत्वेन तुल्यजीवपरदृष्ट्यनुसाराच्चरमश्रुता गुहाप्रवेशादयो नीताः । तर्हि ‘दृश्यते’ इति प्रत्यक्षत्वोक्त्या छायात्मगत्यनुरोधादमृतत्वादयः स्तुत्या कथञ्चिन्नेया इत्याशङ्क्याह — अन्तर इति । उपकोसलविद्यावाक्यमुदाहरति — य इति । छायां निरसितुं विशिनष्टि — एतदिति । क्रियापदेनेतिपदं सम्बध्यते । स्थानस्य ब्रह्मानुरूप्यमाह — तदिति । वर्त्मनी पक्ष्मस्थाने । ‘एतं संयद्वाम’ इत्यादि ग्रहीतुमादिपदम् । दर्शनस्य लौकिकत्वशास्त्रीयत्वाभ्यां संशयमाह — तत्रेति । तदुक्तिसम्भावनार्थं विशिनष्टि — अक्षीति । देवतां सम्भावयितुम् — इन्द्रियस्येति । आत्मशब्दात्पक्षद्वयमाह — अथेत्यादिना । प्रथमश्रुतवशाच्चरमश्रुतं नेयमिति पूर्वन्यायेन विमृश्य पूर्वपक्षमाह — किमिति । उक्तश्रुतेः सविशेषे ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे छायात्मोपास्तिः, ब्रह्मोपास्तिः सिद्धान्ते फलम् । अमृतत्वादेरयोगान्न छायात्मेति शङ्कते — कुत इति । ‘मनो ब्रह्म’ इत्यादिवदितिशब्दशिरस्कत्वेन वाक्यस्याविवक्षितार्थत्वं मत्वाह — तस्येति । तथापि कथं छायात्मनि वामनीत्वादिकमित्याशङ्क्य चाक्षुषत्वस्यान्यत्रायोगादुपक्रमदृष्ट्या तदपि स्तुत्या नेयमित्याह — य इति । प्रसिद्धवदुपदेशश्चाक्षुषत्वोक्तिरेव । चकारः शङ्कानिरासी । सम्भावनामात्रेण पक्षान्तरमाह — विज्ञानेति । तस्य सर्वदेहसाधारण्यात्कुतोऽक्षिस्थानत्वं, तत्राह — स हीति । संनिधिमात्रस्यातिप्रसङ्गित्वमाशङ्क्य हेत्वन्तरमाह — आत्मेति । सम्भावितं पक्षान्तरमाह — आदित्येति । तस्य चक्षुषि विशेषसंनिधिं सूचयति — चक्षुष इति । तस्य तस्मिन्ननुग्राहकत्वेन संनिधौ मानमाह — रश्मिभिरिति । ‘एतदमृतम् ‘ इत्यादि कल्पद्वये कथं, तदाह — अमृतत्वेति । जीवपक्षसङ्ग्रहार्थोऽपिशब्दः । कथञ्चिदित्यौपचारिकोक्तिः । तेषां मुख्यत्वासम्भवादीश्वरो गृह्यतामित्याशङ्क्य प्रथमदृष्टलिङ्गविरोधान्मैवमित्याह — नेति । सुखविशिष्टब्रह्मप्रकरणं नास्तीति कृत्वाचिन्तया प्राप्तं पक्षमनुभाष्य सिद्धान्तमुत्थाप्य प्रतिज्ञार्थमाह — एवमिति । उक्तेषु पक्षान्तरेषु नियमासिद्धिरित्याह — कस्मादिति । हेतुमादाय व्याकरोति — उपपत्तेरिति । इहेत्यक्षिपुरुषोक्तिः । उपपत्तिमेव स्फोरयति — आत्मत्वमिति । गौणमुख्ययोर्मुख्ये संप्रत्ययन्यायं सूचयति — मुख्ययेति । तत्रात्मत्वस्य मुख्यत्वे गमकमाह — स इति । ईश्वरपक्षे हेत्वन्तरमाह — अमृतत्वेति । ईश्वरपक्षे हेत्वन्तरमाह — तथेति । अमृतत्वादिवदित्यर्थः । आनुकूल्यमेव स्फोरयति — यथेति । तत्तत्र लोके यद्यपि यदपि किञ्चिदस्मिन्नक्षिणि सर्पिर्घृतमुदकं वा सिञ्चति क्षिपति तत्सर्वं वर्त्मनी पक्ष्मस्थाने एव गच्छति तेन न लिप्यते चक्षुरित्यर्थः । इति ह स्मोपाध्यायो वदतीत्यादावितिशब्दस्योक्तार्थावच्छेदेनोक्तियोगिनोऽर्थपरत्वदृष्टेः ‘इति होवाच’ इत्यत्रापीतिशब्दस्यार्थावच्छेदेनोक्तियोगादर्थपरत्वदृष्टेः, आत्मब्रह्मश्रुतिभ्यां, अमृतत्वादिलिङ्गाच्च दृश्यत इति छायात्मलिङ्गं बाध्यमित्यर्थः । किञ्चोपक्रमस्थैकलिङ्गाद्वाक्यशेषस्थानेकलिङ्गानि बलवन्ति, संवादस्य तात्पर्यहेतुत्वादित्याह — संयदिति । कुतोऽस्य संयद्वामत्वं, तत्राह — एतं हीति । वामानि कर्मफलान्येतमक्षिपुरुषं हेतुमाश्रित्याभिसंयन्त्युत्पद्यन्ते, सर्वफलोदयहेतुरयमित्यर्थः । वामनीरप्ययमेव पुमानित्याह — एष इति । तदुपपादयति — एष हीति । वामानि शोभनानि लोकं प्रापयति । लोकस्य सर्वशुभप्रापकोऽयमित्यर्थः । भामनीरप्ययमेवेत्याह — एष इति । भामानि भानानि सर्वत्र नयतीति भामनीः । अयमेव प्रकाशकः सर्वत्रेत्यर्थः । तदेव स्फुटयति — एष हीति । प्रथमश्रुतस्यापि चरमश्रुतैरनेकैरन्यथयितव्यत्वमुपसंहरति —
अत इति ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वपक्षबीजं दूषयति — स्थानादीति । स्थानान्यादयो येषां नामरूपाणां तेषां व्यपदेसान्न परस्याक्षिस्थानत्वानुपपत्तिरिति योजना । यादसामम्भोधिरिव स्थानिनः स्थानं महद्दृष्टमिति शङ्कते — कथमिति । व्योम्नः सूचीपाशादिवदक्ष्यादिस्थानत्वं महतोऽपि परस्य स्यादित्याह — अत्रेति । एवंजातीयकशब्देन गुणजातं गृहीतम् । निर्गुणस्य गुणसम्बन्धोक्तिरप्ययुक्ता, तत्कथमनेकदुर्धटप्रकटनमेव समादिरित्याशङ्क्याह — निर्गुणमिति । चकारार्थमाह —
सर्वेति ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकरणादपि ब्रह्मैवात्र ग्राह्यमित्याह — सुखेति । हेत्वन्तरपरं सूत्रमिति स्फोरयितुं चकारार्थमाह — अपिचेति । तदेव वक्तुं प्रतिजानीते — नैवेति । विवादस्याकार्यत्वे हेतुमाह — सुखेति । ब्रह्मणो विशिष्टस्योपक्रमस्थस्याक्षिवाक्येऽपि निर्देशादक्ष्याधारस्य पुंसो ब्रह्मतेत्युक्तमेव विवृणोति — सुखेत्यादिना । प्रक्रान्तत्वेऽपि ब्रह्मणोऽक्षिवाक्ये किं जातं, तदाह — तदेवेति । प्रकृतपरिग्रहस्याक्षिवाक्ये यच्छब्देनेति शेषः । दृश्यत इति लिङ्गोपनीतच्छायात्मार्थो यच्छब्दः । लिङ्गस्य प्रकरणाद्वलीयस्त्वादित्याशङ्क्य तथात्वे वाक्यभेदाद्गतिमात्रोक्तिशेषाच्चैकवाक्यत्वाकाङ्क्षायां तदापादकप्रकरणस्य लिङ्गात्प्राबल्यात्प्रकृतं ब्रह्मैव यच्छब्दोक्तमित्याह — आचार्यस्त्विति । उक्तं व्यक्तीकर्तुं शङ्कते — कथमिति । तत्र ब्रह्मोक्तिं वक्तुमुपक्रमं दर्शयति — उच्यत इति । प्राणस्य सूत्रात्मनो बृहत्त्वाद्युक्तं ब्रह्मत्वं कथं पुनरर्थेन्द्रिययोगजं सुखं खं च भूताकाशं तद्ब्रह्मेति ज्ञातुं शक्यमित्याह — एतदिति । शङ्कायामुत्तरम् — तत्रेति । प्रत्येकं ब्रह्मत्वमजानतो मिथो वैशिष्ट्योक्तौ कथं धीरित्याशङ्क्य स्वंशब्दस्येतरव्यभिचारे दोषमाह — तत्र खमिति । प्रतीको नामाश्रयान्तरप्रत्ययस्याश्रयान्तरे क्षेपः । नचायं तदुपदेशः, ‘अप्रतीकालम्बनान्नयति’ इति न्यायेन वक्ष्यमाणगतिविरोधादिति भावः । कंशब्दस्यापीतरव्यभिचारे दोषमाह — तथेति । क्षयिता पारतन्त्र्यादि वामयः । नच तस्मिन्ब्रह्मदृष्टिः, उक्तन्यायादित्यर्थः । व्यतिरेके दोषमुक्त्वोभयग्रहे गुणमाह — इतरेतरेति । अर्थयोर्विशेषितत्वेन शब्दावपि विशेषितावुक्तौ । कंशब्देन विशेषितो हि खंशब्दो भूताकाशं त्यक्त्वा तद्गुणयोगाद्ब्रह्मणि वर्तते । किमपि खेन विशेषितं निरामयं भवति । तथाच यथोक्तौ शब्दावनवच्छिन्नसुखगुणकं ब्रह्म गमयित्वा चरितार्थावित्यर्थः । एकस्यैव ब्रह्मणो ध्योयत्वाद्ब्रह्मपदाभ्यासो वृथेत्याशङ्क्याह — तत्रेति । विशेषणत्वेन, आकाशविशेषणार्पकत्वेनेति यावत् । उपरि प्रयोगाद्ब्रह्मपदं शिरो ययोस्ते ब्रह्मशिरसी तयोर्भावो ब्रह्मशिरस्त्वम् । सुखस्याध्येयत्वमेवास्तु को दोष इत्याशङ्क्याह — इष्टं हीति । मार्गोक्त्या सगुणविद्यात्वदृष्टेरित्यर्थः । ब्रह्मणः प्रक्रान्तत्वमुक्त्वोपसंहरति — तदेवमिति । तत्रैव हेत्वन्तरमाह — प्रत्येकं चेति । उपकोसलं गार्हपत्योऽनुशशास, पृथिव्यग्निरन्नमादित्य इतीमां मे चतस्रस्तनवः ‘य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि’ इति । अन्वाहार्यपचनोऽपि तदनुशासनमकरोत्, अापो दिशो नक्षत्राणि चन्द्रमा इति मे तनवः 'य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि' इति। अाहवनीयोऽपि तदनुशासनं कृतवान् , प्राण आकाशो द्यौर्विद्युदिति मम तनवः ‘य एष विद्युति पुरुषः सोऽहमस्मि’ इति । एवमेते प्रत्येकमग्नयः स्वं स्वं महिमानं विभूतिं पृथिव्यादिविस्तारमुक्त्वैषा सोम्य ते तुभ्यं प्रत्येकमुक्तास्माद्विद्याऽग्निविषया । पूर्वं च सम्भूय ‘प्रणो ब्रह्म’ इत्यादिनात्मविद्योक्तास्माभिरित्युपसंहरन्तो ब्रह्मोपक्रमं दर्शयन्तीत्यर्थः । अग्निवाक्ये ब्रह्मोक्तमपि किमित्याचार्यवाक्येऽनुवर्तते, वक्तृभेदादर्थभेदसिद्धेरित्याशङ्क्याह — आचार्यस्त्विति । वक्तृभेदेऽप्येकवाक्यता, साकाङ्क्षत्वात् । पूर्वोत्तरवाक्ययोरेकार्थत्वं, वाक्यैक्यसम्भवे तद्भेदस्यायोगादित्यर्थः । फलोक्तेरपि सिद्धमक्षिस्थस्य ब्रह्मत्वमित्याह — यथेति । प्रकृतपुरुषविदो हि पापाद्यनुपहतत्वं फलमुक्तं, तच्च तदधिगमाधिकरणे ब्रह्मधियोऽभिधास्यते तेनास्य ब्रह्मत्वमित्यर्थः । आचार्येण गतिमात्रे वाच्ये किमित्यधिकं सोऽभिदधीतेत्याशङ्र्यापेक्षितं पूरयित्वा गतिर्वाच्येत्युपसंहरन्नाह — तस्मादिति ।
पूर्वापरालोचनायामेकवाक्यत्वनिश्चयादित्यर्थः ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकरणादक्षिस्थस्य ब्रह्मत्वमुक्त्वा लिङ्गादपि तथेत्याह — श्रुतेति । श्रुता संवृत्तोपनिषद्रहस्यं ज्ञानं यस्य स तथा, तस्य या देवयानाख्या गतिरागमसिद्धा तस्याश्चाक्षुषपुरुषवेदिन्यभिधानात्तद्ब्रह्मतेत्यर्थः । चकारार्थमाह — इतश्चेति । अवशिष्टं व्याचष्टे — यस्मादिति । या गतिः श्रुतौ स्मृतौ च प्रसिद्धा सैवेहाभिधीयमनेति सम्बन्धः । श्रुतिमाह — अथेति । देहपातानन्तर्यमथशब्दार्थः । तपोब्रह्मचर्याद्युपायेनात्मानमनुसन्धाय तद्विद्यया ध्यानाख्यया हेतुनोत्तरमार्गमर्चिराद्युपलक्षितं प्राप्य तेनादित्यद्वारा कार्यं ब्रह्माप्नुवन्तीत्यर्थः । ब्रह्म विशिनष्टि — एतदिति । व्यष्टिसमष्टिकरणात्मकं हैरण्यगर्भं पदमित्यर्थः । तस्यैव वास्तवं रूपमाह — एतदिति । उक्तविशेषणसिद्ध्यर्थं हेतुमाह — एतस्मादिति । गतिविषयां श्रुतिमुक्त्वा स्मृतिमाह — अग्निरिति । अग्न्यादिशब्दैरातिवाहिक्यो देवता गृह्यन्ते । पथ्यन्तरादत्र विशेषमाह — तत्रेति । पथो देवयानस्य प्रामाणिकत्वेऽपि प्रकृते किमायातमित्याशङ्क्योक्तम् — सैवेति । इहेत्युक्तां श्रुतिमाह — अथेति । देहपातानन्तर्यमेवाथेत्युक्तम् । अस्मिन्नुपासके प्रारब्धकर्मसमाप्त्या मृते यदि पुत्रा ज्ञातयो वा शव्यं शवसम्बन्धि संस्कारादिकर्म कुर्वन्ति यदि वा न द्विधाप्यप्रतिहतधीफलास्तेऽर्चिरभिमानिनीं देवतां प्राप्नुवन्ति तदाह — यदु चेति । अर्चिषोऽहर्देवतां ततः शुक्लपक्षदेवतां ततः षण्मासोपलक्षितोत्तरायणदेवतां ततः संवत्सराभिमानिनीं देवतां ततश्चादित्यं ततश्चन्द्रं ततो विद्युतमाप्नुवन्ति । तत्तत्र स्थितानुपासकान्ब्रह्मलोकादागत्यामानवः पुरुषो गन्तव्यं ब्रह्म प्रापयीत्याह — इत्युपक्रम्येति । देवैर्नेतृभिरधिष्ठितः पन्था देवपथः । ब्रह्मणा गन्तव्यत्वेनोपलक्षितो ब्रह्मपथः । एतेन पथा कार्यं ब्रह्म प्रतिपद्यमानाः पुनरिमं मनोः सर्गं जन्ममरणाद्यावृत्तियुक्तं नावर्तन्ते न प्रविशन्तीत्याह — एष इति । तथापि प्रकृते किं जातं, तदाह — तदिति ।
प्रकरणमिहेत्युक्तम् ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 सिद्धान्तमुपपाद्य परोक्तं प्रत्याह — अनवस्थितेरिति । तद्व्याकर्तुं व्यावर्त्यमनुकीर्तयति — यदिति । सूत्रमुत्तरत्वेन योजयति — अत्रेति । इहेति स्थानं वाक्यं चोक्तम् । प्रश्नपूर्वकं हेतुं छायात्मनि व्याचष्टे — कस्मादिति । उक्तमन्वयव्यतिरेकाभ्यां व्यनक्ति — यदेति । स्वचक्षुषि नित्यं संनिध्यभावेऽपि यत्र क्वापि छायात्मनः सम्भवादुपास्यतेत्याशङ्क्याह — य इति । दृश्यत इत्युक्ते स्वेनान्येन वेत्यविशेषाच्चरमश्रुतत्वाच्च प्रथमश्रुतमक्षि स्वकीयमेव युक्तं, संनिधेः स्वस्मिन्नतिशयादित्याह — संनिधानादिति । तर्हि पुरुषान्तरं संनिधाप्य स्वचक्षुषि तद्दृश्यस्योपास्यता स्यादित्याशङ्क्य गौरवान्नेत्याह — नचेति । युक्त्यानवस्थितत्वमुक्त्वा तत्रैव श्रुतिमाह — अस्येति । छायाकरस्येत्यर्थः । आनन्तर्यार्थोऽनुशब्दः । एषशब्दश्छायात्मार्थः । हेत्वन्तरमादाय व्याख्याति — असम्भवाच्चेति । जीवनिरासेऽप्यनवस्थितिं व्याचष्टे — तथेति । छायात्मवदित्यर्थः । नहि तस्य चक्षुष्येव व्यक्तियोग्यता, येन तत्रोपास्तिः । विनापि स्थानविशेषमहमिति व्यक्तेरित्यर्थः । तर्हि ब्रह्मणोऽपि सर्वत्र सत्त्वान्न चक्षुष्येव स्थितिः, तत्राह — ब्रह्मणस्त्विति । दृष्टः । श्रुताविति शेषः । हेत्वन्तरं जीवेऽपि योजयति — समानश्चेति । जीवस्य ब्रह्माभेदात्तत्रामृतत्वादि स्यादित्याशङ्क्याह — यद्यपीति । अनवस्थितिर्देवतात्मन्यसिद्धेत्याशङ्क्य हेत्वन्तरेण निराह — देवतेति । देवेष्वमरत्वप्रसिद्धिवाधितं तदुत्पत्त्यादिवाक्यमित्याशङ्क्याह — अमरत्वमिति । संयद्वामत्वादिकमपि न तत्रेत्याह — ऐश्वर्यमिति । तस्येश्वरायत्तत्वे भयास्तित्वे च मानमाह — भीषेति । भयेनास्मादीश्वरात्पवते चलति । वायुरित्यर्थः । पक्षत्रयायोगे फलितमाह — तस्मादिति । ईश्वरेऽपि दृश्यत इत्ययुक्तं, तस्यादृश्यत्वादित्याशङ्क्याह — अस्मिन्निति । उपलब्धिर्दर्शनं तत्र शास्त्रीयदर्शनस्य शास्रमेव संनिहितं करणमिति विद्वत्प्रसिद्धं शास्त्रीयमेव दर्शनं सिद्धवदनूद्यते । तत्राज्ञानामनुरागार्थमित्यर्थः । शास्त्रादीत्यादिपदं विद्वदनुभवार्थम् । तद्विषयदर्शनोक्तेरुपयोगमाह — प्ररोचनेति ।
उक्तं तत्त्वदर्शनमयोग्यमित्युक्ते न तद्दर्शने फलवति भवत्यभिरुचिरित्यर्थः । तदेवमुपकोसलवाक्यं सविशेषे ब्रह्मण्यन्वितमिति ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 स्थानादिव्यपदेशसूत्रे पृथिव्यादीनि ब्रह्मणः स्थानानीत्युक्तं, तदसिद्धिमाशङ्क्याह — अन्तर्यामीति । अन्तर्यामिब्राह्मणमुदाहरति — य इति । मनुष्यादिभिर्देवादिभिश्चाधिष्ठितमिमममुं च लोकं योऽन्तरो यमयति, यश्च लोकद्वयवर्तीनि भूतान्यन्तरः सन्यमयति, तं किं वेत्थेत्यन्तर्यामिणमुपक्रम्य श्रुतमित्यर्थः । पृथिव्यां तिष्ठन्नन्तर्यामीत्युक्ते सर्वत्रापि चराचरे प्रसक्तावुक्तम् — पृथिव्या इति । तद्देवतां प्रत्याह — यमिति । ईश्वरस्याप्यकार्यकरणस्य न नियन्तृतेत्याशङ्क्याह — यस्येति । नियम्यकार्यकरणैरेव नियन्तृत्वम् । फलितमाह — य इति । तस्याताटस्थ्यमाह — एष इति । ते मम चेत्यर्थः । आदिपदं ‘योऽप्सु तिष्ठन्’ इत्यादिसङ्ग्रहार्थम् । आपातिकं श्रुत्यर्थमाह — अत्रेति । ‘यः पृथिव्याम्’ इत्याद्यधिदैवतम् । ‘यः सर्वेषु लोकेषु ‘ इत्यधिलोकम् । ‘यः सर्वेषु वेदेषु’ इत्यधिवेदम् । ‘यः सर्वेषु यज्ञेषु’ इत्यधियज्ञम् । ‘यः सर्वेषु भूतेषु’ इत्यधिभूतम् । ‘यः प्राणेषु’ इत्यादि ‘य आत्मनि’ इत्यन्तमध्यात्ममिति भेदः । अदेहस्य नियन्तृत्वासम्भवसम्भवाभ्यां संशयमाह — स किमिति । अर्थान्तरे सन्दिह्यमाने हेतुमाह — अपूर्वेति । दृश्यत इति श्रुतिर्बहुतरलिङ्गाद्यनुरोधेनार्थविशेषपरतया नीता, अत्र त्वन्तर्यामिशब्दस्याप्रसिद्धार्थत्वान्नार्थो निर्णीतो डित्थादिशब्दवदित्याह — किं तावदिति । अन्तर्यामिब्राह्मणस्य सविशेषे ब्रह्मण्यन्वयोक्तेः । सङ्गतयः पूर्वपक्षे विशिष्टस्य योगिनोऽन्तर्यामिणः, सिद्धान्ते परस्यैव तस्योपास्तिरिति फलम् । तत्र पूर्वपक्षाभासमाह — संज्ञाया इति । अध्ययनविध्युपात्तस्य पुमर्थान्वयध्रौव्यादनिर्धारितस्य तदयोगादन्तर्यमिरूपं निर्धारणीयमिति पक्षान्तरमाह — अथवेति । अप्रसिद्धत्वात्संज्ञायाः संज्ञिनापि तथा भाव्यं व्याप्तेरित्याशङ्क्याह — अन्तर्यामीति । अर्थान्तरायोगे फलितमाह — तस्मादिति । तत्र शाकल्यवाक्यं प्रमाणयति — तथाचेति । आयतनं शरीरं, लोको लोक्यतेऽनेनेत्यसाधारणं, ज्योतिः साधारणं करणम् । सशरीरा देवता चक्षुर्मनोभ्यां सर्वं वेत्तीत्यर्थः । ‘यस्तं विद्यात्स एव वेदिता’ इत्यादि ग्रहीतुमादिपदम् । ईश्वरेऽपि सर्वमिदं स्यादित्याशङ्क्याह — स चेति । उपक्रमोपसंहाराभ्यामेकस्मिन्नन्तर्यामिणि सिद्धे कथं पृथिव्याद्यनेकदेवतोक्तिरित्याशङ्क्याह — योगिनो वेति । यदनुग्रहाद्योगिनो नियमनादिसामर्थ्यं स किमित्युपेक्ष्यते, तत्राह — न त्विति । विशिष्टस्य योगिनोऽन्तर्यामिणो ध्यानार्थं ब्राह्माणमित्युपसंहर्तुमितिशब्दः । सिद्धान्तयति — एवमिति । प्रतिज्ञातेऽर्थे प्रश्नपूर्वकं हेतुमुपस्थाप्य व्याचष्टे — कुत इति । इहेत्यन्तर्यामिग्रहणम् । के ते परस्यासाधारणा धर्मा येऽन्तर्यामिणि व्यपदिश्यन्ते, तत्र सर्वनियन्तृत्वं तावदाह — पृथिव्यादीति । साधनाधीनशक्त्या तद्वतो ज्ञाने तद्धियोपेक्षणाद्धीगौरवात् , नित्यसिद्धशक्त्येश्वरग्रहे लाघवात्तस्यैव सर्वनियन्तृतेति भावः । परस्यैवासाधारणधर्मद्वयमाह — एष इति । देवपक्षे दोषान्तरमाह — यमिति । एकस्य कर्मकर्तृत्वायोगात्पृथिव्यपि देवता न स्वात्मानं जानीयादिति कुतस्ततोऽन्यत्वं, तत्राह — पृथिवीति । अहमित्यात्मधीः सर्वेषामनुभवसिद्धा देवतायामपि नापह्नोतुं शक्येत्यर्थः । इतोऽपि परमात्मैवान्तर्यामीत्याह — तथेति । अकार्यकरणत्वान्न परोऽन्तर्यामी घटयदित्युक्तमनुवदति — यत्त्विति । किमीश्वरस्य नियम्यातिरिक्तदेहादिराहित्यं वा देहाद्यसंबन्धो वा तत्राभोक्तृत्वं वा हेतूक्रियते । नाद्यः तक्षादेः स्वदेहादिनियमने देहान्तराद्यभावेन व्यभिचारात् । द्वितीये स्वाविद्यार्जितदेहादेरीश्वरेण सम्बन्धादसिद्धिः । तृतीये त्वभोक्तृत्वादीश्वरो न नियन्तेत्यत्राचेतनत्वमुपाधिः । नच मुक्तात्मसु साध्याव्याप्तिः । तेषामीश्वराभेदेन पक्षत्वादिति विवक्षन्नाह — नैष इति । ईश्वरस्य नियन्तृत्वे कार्यकारणवत्त्वमपि शक्यमस्मदादिवदनुमातुमित्याशङ्क्य नियम्यकार्यकरणवत्त्वे सिद्धसाधनमतिरिक्ततद्वत्त्वे श्रुतिविरुद्धतेत्याह — यानिति । स्वदेहादिनियन्तुरपि जीवस्यान्यो नियन्ता चेत्तस्याप्यन्यो नियन्ता स्यादविशेषादित्याशङ्क्याह — तस्यापीति । निरङ्कुशं सर्वनियन्तृत्वं श्रौतम् । नच तादृशि सर्वनियन्तरि भेदः । न चानुमानं श्रुतिबाधितमुत्तिष्ठति । तन्नानवस्थेत्यर्थः । योगिपक्षे तु स्यादनवस्थेत्याह — भेदे हीति । तत्रापि नियन्तृत्वं क्वापि तिष्ठति चेदिष्टसिद्धिरिति भावः । सूत्रार्थमुपसंहरति —
तस्मादिति ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 सूत्रव्यावर्त्यां शङ्कामाह — स्यादेतदिति । यौक्तिकेऽर्थे स्मृतिमपि संवादयति — अप्रतर्क्यमिति । इत्थं महदादिरूपेण प्रधानं किमिति प्रवर्तते कस्मान्नान्यथेति तर्कस्याविषयो गूढत्वादित्यर्थः । रूपादिराहित्यादविज्ञेयं चक्षुराद्यग्राह्यं, प्रसुप्तमिव सर्वतः सर्वासु दिक्षु जडिमव्याप्तमित्यर्थः । कथं तस्याचेतनस्यान्तर्यामित्वं, तत्राह — तस्येति । अदृष्टत्वादीनां प्रधाने सम्भवे फलितमाह — तस्मादिति । प्रागेव प्रयुक्तं प्रधानं किमिति पुनः शङ्क्यते, तत्राह — ईक्षतेरिति । प्रासङ्गिकशङ्कोत्तरत्वेन सूत्रमादाय व्याकरोति — अत इति । अदृष्टत्वादिसम्भवात्प्रधानस्यान्तर्यामित्वमुक्तमित्याशङ्क्य हेतुमाह — कस्मादिति । हेत्वसिद्धिं शङ्कित्वा तदर्थमाह — यद्यपीति । अन्तर्यामिणि द्रष्टृत्वादिव्यपदेशं दर्शयति — अदृष्ट इति । इहेति ब्राह्मणोक्तिः । प्रधानपक्षे दोषान्तरमाह —
आत्मत्वमिति ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 अपेक्षितं पूरयित्वा प्रतिज्ञां विभजते — नेत्यादिना । चकारादनुवृत्तिः । द्रष्ट्टत्वादिधर्माणां सम्भवात्तदन्तर्यामित्वं दुर्वारमिति शङ्कते — कस्मादिति । चशब्दसूचितं ब्रुवन्परिहरति — यद्यपीति । उभयेऽपीत्यादि व्याकरोति — अपि चेति । माध्यन्दिनपाठे भेदोक्तिं व्यनक्ति — य आत्मनीति । काण्वानां पाठे भेदोक्तिं व्यनक्ति — विज्ञान इति । काण्वपाठे शारीरवाचिपदाभावात्कुतो भेदोक्तिः, तत्राह — विज्ञानेति । विज्ञानशब्दस्य बुद्ध्यर्थस्य कथं शारीरे वृत्तिरित्याशङ्क्य रूढ्यभावेऽपि वृत्त्यन्तरमाह — विज्ञानेति । भेदोक्तिफलमाह — तस्मादिति । भेदेनेत्यादिसूत्रात्तात्त्विकभेदाशङ्कां निरसितुं शङ्कते — कथमिति । द्रष्ट्टद्वयमेव विशिनष्टि — यश्चेति । न खल्वेकस्मिन्देहे द्रष्ट्टद्वयं युक्तं, विरुद्धाभिप्रायानेकचेतनाधिष्ठितस्य देहस्याव्यवस्थितत्वप्रसङ्गादित्यर्थः । कश्चित्कार्यकरणसंहतो भोक्ता तद्रहितोऽन्योऽधिष्ठाता पश्यत्येवेति विभागे नावद्यमिति शङ्कते — का पुनरिति । अनुपपत्तिमाह — नेति । विरोधं स्फोरयितुं प्रतीतमर्थमाह — अत्रेति । अस्मिन्ग्रामे मैत्र एवाद्वितीय इतिवत्तत्तुल्यद्रष्ट्रन्तरनिवारकमेव तदिति शङ्कते — नियन्त्रन्तरेति । सर्वनियन्तुः स्वनियन्त्रा नियन्तव्यत्वशङ्काभावात् , नान्योऽतोऽस्ति नियन्ता द्रष्टेति विशेषाश्रुतेश्च नैवमित्याह — नेति । आत्मनि तिष्ठन्नित्यौपाधिकभेदार्थं वाक्यं, ‘नान्योऽतोऽस्ति’ इति तु तत्त्वविषयमिति परिहरति — अत्रेति । भेदोक्तेस्तत्त्वविषयत्वं, निषेधोक्तेश्चातत्त्वविषयतेति वैपरीत्यमाशङ्क्याह — एको हीति । प्रत्यक्त्वात्मत्वयोरेकत्रैव मुख्यत्वादित्यर्थः । एकत्वमेव तत्त्वं चेत्कुतो भेदोक्तिः, तत्राह — एकस्येति । औपाधिकभेदोक्तिमुदाहरति — यथेति । तात्त्विकभेदाभावे कथं श्रुत्याद्युपपत्तिः, तत्राह — ततश्चेति । प्राप्तृप्राप्तव्यादिसङ्ग्रहार्थमादिपदम् । आविद्याद्भेदाद्व्यावहारमात्रसिद्धावन्वयव्यतिरेकश्रुतिमाह — तथा चेति ।
आविद्यभेदानुवादेन नियन्तृनियम्यत्वम् । वस्तुतस्त्वद्वितीयः परमात्मा, तत्राविद्यया सर्वनियन्तर्यन्वितमन्तर्यामिब्राह्मणं, तस्यानुध्यानादापरोक्ष्यान्मोक्ष इति भावः ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 उत्तरसूत्रव्यावर्त्याशङ्कामाह — यदीति । द्रष्ट्टत्वाद्यसम्भवस्य तत्रापि तुल्यत्वमाशङ्क्योक्तम् — शारीरो हीति । तथापि कथं तत्रामृतत्वं, स हि देहापाये म्रियते, तत्राह — अमृतश्चेति । अन्यथाऽकृतागमादिप्रसङ्गात् ‘जीवापेतं वाव’ इत्यादिश्रुतेश्चेत्यर्थः । तथापि कथमदृष्टत्वादीनां तत्रोपपत्तिस्तस्याहन्धीव्याप्यत्वात् , तत्राह — अदृष्टत्वेति । सकर्मिका क्रिया कर्म व्याप्नोति न कर्तारं तेन कर्तर्यात्मनि दर्शनादिवृत्तौ कर्तृत्वेन गुणत्वं कर्मत्वेन प्राधान्यं चेत्येकस्यां क्रियायां युगपद्गुणप्रधानत्वविरोधादिति हेतुमाह — दर्शनादीति । जीवस्यादृष्टत्वादयो न केवलं यौक्तिकाः । किन्तु श्रौताश्चेत्याह — नेति । लौकिक्या दृष्टेर्बुद्धिपरिणतेर्द्रष्टारमात्मानं तयैव दृष्ट्या त्वं न पश्येर्न शक्नोषि द्रष्टुमित्यर्थः । ‘न श्रुतेः श्रोतारम्’ इत्यादिसङ्ग्रहार्थमादिपदम् । तथापि कथं तस्यान्तर्यामित्वं नियम्यनिविष्टत्वात् , तत्राह — तस्येति । अन्तर्यामिधर्माणां शारीरे सम्भावनाफलमाह — तस्मादिति । सूत्रमवतारयति — अत इति । अदृष्टत्वादीनां प्रधानगामित्वेऽपि द्रष्ट्टत्वादीनां तत्रायोगान्न तदन्तर्यामीत्युक्तम् । तर्हि भूतयोनिवाक्ये द्रष्ट्टत्वादीनामनुक्तेरदृश्यत्वादिगुणको भूतयोनिः प्रधानमेवेत्याशङ्क्याह — अदृश्यत्वादीति । अथर्वणवाक्यमाह — अथेति । अपरविद्योक्त्यनन्तरं या परा विद्योच्यते तां विशिनष्टि — ययेति । अक्षरं वर्णसमुदायाद्व्यवच्छिनत्ति — यदिति । अद्रेश्यमदृश्यं ज्ञानेन्द्रियाविषयः, अग्राह्यं कर्मेन्द्रियाविषयः, अगोत्रं वंशशून्यम् , अवर्णं जातिहीनम् । न केवलमिन्द्रियाविषयः, तद्धीनं चेत्याह — अचक्षुरिति । न विद्येेते चक्षुःश्रोत्रे यस्य तत्तथा । चक्षुःश्रोत्रोक्तिरनुक्तज्ञानेन्द्रियोपलक्षणार्थम् । कर्मेन्द्रयराहित्यमाह — अपाणीति । पाणिश्च पादश्च पाणिपादं तन्नास्ति यस्य तत्तथा । उभयोक्तिरनुक्तकर्मेन्द्रियोपलक्षणम् । नित्यमनाशोपलक्षितसत्ताकम् । विभुं प्रभुम् , सर्वगतं सर्वकल्पनाधिष्ठानम् । सुसूक्ष्मं दुर्ज्ञानत्वात् , तदव्ययमपक्षयाभावात् , यथोक्तमक्षरं भूतयोनिं भूतकारणं धीराः पण्डिताः पश्यन्तिः, तदक्षरं ययाधिगम्यते सा परा विद्येत्यर्थः । अदृश्यत्वादिसाधारणधर्मदृष्ट्या संशयमाह — तत्रेति । भूतयोनिः सप्तम्यर्थः । साधारणस्याप्यन्तर्यामिशब्दस्य लाघवसाहाय्यान्नित्यसिद्धनियन्तृत्वादिनेश्वरपरत्वमुक्तम् । इहापि साधारणादृश्यत्वादिधर्मस्याचेतनदृष्टान्तोपादानबलात्प्रधाननिष्ठतेति पूर्वपक्षमाह — तत्रेति । भूतयोनिवाक्यस्य निर्विशेषे ब्रह्मण्यन्वयोक्तेः सङ्गतयः । पूर्वपक्षे प्रधानस्य शारीरस्य वा ध्यानं सिद्धान्ते निर्विशेषवस्तुधीरिति फलम् । दृष्टान्तदार्ष्टान्तिकयोस्तुल्यतानियमाद्दृष्टान्तस्याचेतनत्वाद्दार्ष्टान्तिकस्यापि भूतयोनेरचेतनत्वमिति हेतुमाह — अचेतनानामिति । ऊर्णनाभिर्लूताकीटः स्वदेहाव्यतिरेकिणस्तन्तून्सृजत्युपसंहरति चेत्यर्थः । सतो विद्यमानात् । जीवत इति यावत् । इहेति सर्गावस्थोक्तिः । दृष्टान्तमाक्षिप्य समाधत्ते — नन्विति । इहेत्यक्षराद्विश्वोत्पत्तावित्यर्थः । केवलचेतनस्य वा कारणत्वं, चेतनाधिष्ठिताचेतनस्य वा । तत्राद्यं प्रत्याह — न हीति । शरीरस्यापि तत्रान्वयव्यतिरेकित्वादित्यर्थः । द्वितीयमङ्गीकरोति — चेतनेति । दार्ष्टान्तिकेऽपि चेतनाधिष्ठितं प्रधानं जगद्धेतुरिति भावः । पूर्वं प्रधानस्य प्रत्युक्तत्वात्कथं पुनस्तदाशङ्का, तत्राह — अपिचेति । इहेत्यत्रेति च भूतयोनिवाक्योक्तिः । विरुध्यमानत्वमप्रधानविषयत्वम् । यद्वात्रेति प्रधानमुक्तम् । विरुध्यमानत्वं धर्मस्य तस्मिन्नसम्भवित्वम् । स्ववाक्ये प्रधाने विरुद्धधर्माभावेऽपि वाक्यशेषे सोऽस्तीति शङ्कते — नन्विति । भूतयोनेरक्षरस्य पञ्चम्यन्ताक्षरश्रुत्या प्रत्यभिज्ञानात्प्रथमान्तपरशब्दोक्तस्य सर्वज्ञत्वादीति वाक्यशेषस्याक्षरातिरिक्तं विषयं दर्शयन्नाह — अत्रेति । अक्षरस्य जगद्योनित्वमुक्त्वा ‘यः सर्वज्ञः सर्ववित् ‘ इति सर्वज्ञस्य तदुक्तेर्लिङ्गप्रत्यभिज्ञानादक्षरस्यैव सर्वज्ञत्वादीति चेत् , न, अक्षरश्रुतिप्रत्यभिज्ञातो लिङ्गप्रत्यभिज्ञाया दुर्बलत्वात् , ‘येनाक्षरं पुरुषं वेद’ इति चेतनेऽपि भूतयोनौ श्रुत्या प्रत्यभिज्ञानात् , जगत्प्रकृतित्वलिङ्गानुगृहीतश्रुतिप्रत्यभिज्ञया केवलश्रुतिप्रत्यभिज्ञा बाध्येति चेत् , न, तस्मादिति निमित्तेऽपि पञ्चमीसम्भवात् । नचैवमपि प्रत्यभिज्ञायाः साम्यं, अचेतनदृष्टान्तानुगृहीतप्रत्यभिज्ञाप्राबल्यात् । तस्मात्प्रधानमेव भूतयोनिरित्याह — प्रधानमेवेति । सर्वज्ञाद्विवेकायात्र प्रधानं ग्राह्यमित्युक्त्वा जीवो देहाद्यतिरिक्तोऽभ्युदयनिःश्रेयसाप्तये निरूप्यतेऽत्रेति पक्षान्तरमाह — यदेति । योनिशब्दस्य प्रकृत्यर्थत्वे निमित्तार्थत्वे च प्रधानस्य सर्वज्ञाद्विविक्तस्य जीवस्य वा देहाद्यतिरिक्तस्य द्विविधपुमर्थाप्तये ध्यानार्थमेतदित्युपसंहर्तुमितिशब्दः । सिद्धान्तसूत्रमवतारयति — एवमिति । तत्र प्रतिज्ञां व्याचष्टे — योऽयमिति । प्रधानादौ सम्भवति नियमासिद्धिरित्याह — कथमिति । नियामकं हेतुमवतार्य व्याचष्टे — धर्मेति । भूतयोनिरिहेत्युक्तः । हेतोरन्यथासिद्धिं धुनीते — नहीति । ‘अक्ताः शर्करा उपदधाति’ इत्यत्र ‘तेजो वै घृतम्’ इति शेषान्निर्णयवदिहापि साधारणोपक्रमस्थस्यादृश्यत्वादेः शेषाद्ब्रह्मनिष्ठता निर्णेयेत्यर्थः । वाक्यशेषो भूतयोनिविषयो नेत्युक्तं स्मारयति — नन्विति । ‘जनिकर्तुः प्रकृतिः’ इति स्मृतेरक्षरादिति पञ्चम्या जायमानप्रकृतित्वेनोक्तमक्षरं ‘तस्मादेतद्ब्रह्म’ इत्यत्रापि पञ्चम्या प्रत्यभिज्ञायते । तेन भूतयोन्यर्थ एव वाक्यशेष इत्याह — अत्रेति । तस्मादविशेषेण सर्वज्ञाद्विशेषेण सर्वविदो ज्ञानमयतपःसहितात्कार्यं ब्रह्म सूक्ष्मभूतात्मकं नाम रूपं च स्थूलभूतात्मकमन्नं च ब्रीहियवादि सर्वं भौतिकं तद्द्वारा सत्तां प्राप्नोतीत्याह — तस्मादिति । लिङ्गप्रत्यभिज्ञाफलमाह — तस्मादिति । श्रुतिप्रत्यभिज्ञा लिङ्गप्रत्यभिज्ञातो बलवती दर्शितेत्याशङ्क्य पञ्चम्यन्ताक्षरपदं न प्रकृताक्षरगामीत्याह — अक्षरादिति । तत्र गमकं पृच्छति — कथमिति । चेतने भूतयोनौ प्रथममेव श्रुतिप्रत्यभिज्ञानादित्याह — येनेति । येन ज्ञानेनाक्षरं प्रकृतं भूतयोनिं सर्वज्ञं पुरुषं सत्यं वेद तां ब्रह्मविद्यामुपसन्नाय शान्तायाचार्यः प्रोवाच प्रब्रूयादित्युपक्रम्य ‘अक्षरात्परतः परः’ इत्युच्यमानः परो न भूतयोनेरतिरिच्यते । तथाच क्वचिज्जगत्प्रकृतित्वं क्वचित्तन्निमित्ततेति न वैषम्यमिति भावः । पञ्चम्यन्ताक्षरपदस्य भूतयोन्यर्थत्वाभावे तद्वाक्यं वाच्यमिति शङ्कते — कथमिति । तत्र भाविनं परिहारं सूचयति — उत्तरेति । परा विद्येति समाख्यानादपि भूतयोनेरक्षरस्य ब्रह्मतेत्याह — अपिचेति । भूतयोनेरपरविद्यागम्यत्वं निराह — तत्रेति । उदाहृते वाक्ये प्रतीतमर्थमाह — तत्रेति । तथापि प्रधानं जीवो वा परविद्यागम्यमक्षरं स्यादित्याशङ्क्याह — यदीति । कार्यकारणविषयतया भोक्तृभोग्यविषयतया वा परापरविभागमाशङ्क्याह — परेति । प्रधानादिविद्या मुक्तिफलतया परा स्यादित्याशङ्क्याह — नचेति । जडमात्रस्य तद्युक्ताजडस्य वा धीनं मुक्तिहेतुः, चिन्मात्रधियस्तद्भावादित्यर्थः । यदि प्रधानस्य जीवस्य वा भूतयोनित्वेन तद्विद्या परविद्या तदोत्तरत्रोच्यमानसर्वविज्ञानस्यापीष्टत्वाद्द्वे विद्ये इति द्वित्वश्रवणं न स्यादित्याह — तिस्रश्चेति । इष्टापत्तिं प्रात्याचष्टे — द्वे इति । इहेत्युपक्रमोक्तिः । इतश्च भूतयोनिवाक्यं ब्रह्मनिष्ठमित्याह — कस्मिन्निति । एकविज्ञानेन सर्वं विज्ञानं पक्षान्तरेऽपि स्यादित्याशङ्क्याह — नेति । अचेतनस्य भोग्यमात्रस्यैकमयनमाश्रयस्तस्मिन्नित्यर्थः । मात्रशब्देनात्मभ्यो भेदमाह । प्रधाने ज्ञाते भोग्यवर्गज्ञानेऽपि न भोक्तृज्ञानमित्यर्थः । जीवपक्षे तज्ज्ञाने भोग्यधीरपि नेत्याह — भोग्येति । ब्रह्मविद्येति समाख्ययापि भूतयोनेर्ब्रह्मतेत्याह — अपिचेति । सर्वविद्यानां प्रतिष्ठा समाप्तिर्यस्यां ततो निरतिशयपुरुषार्थलाभात्तां ब्रह्मविद्यां सर्वविद्यावेद्यवस्त्वधिष्ठानविषयतया वा सर्वविद्याप्रतिष्ठामथर्वनाम्ने कुत्रचित्सृष्टावाद्याय पुत्राय स ब्रह्मोक्तवानित्यर्थः । ‘ब्रह्मा देवानाम् ‘ इति वक्ता तत्रोपक्रान्त एवेत्याशङ्कवाह — प्राधान्येति । तथापि कथमक्षरस्य ब्रह्मत्वं, तदाह — सा चेति । ब्रह्मविद्योपक्रमेऽप्यपरविद्यावदक्षरविद्यापि ब्रह्मविद्या मा भूदित्याशङ्क्य प्रक्रान्ताया अन्यत्रानुक्तिवदत्राप्यनुक्तौ बाधादक्षरविद्या ब्रह्मविद्यैवेत्याह — अपरेति । तस्यास्तत्प्रशंसार्थत्वं कथं, तत्राह — प्लवा हीति । प्लवन्ते गच्छन्तीति प्लवा विनाशिनः, तत्प्रसिद्धौ हिशब्दः । तदेवोत्पत्त्यादिमत्त्वेन साधयति — अदृढा इति । के ते यज्ञरूपाः यज्ञो रूपमुपाधिर्येषां ते तथा, ऋत्विगादिशब्दस्य यज्ञोपाधिकत्वात् । अष्टादश षोडशर्त्विजः पत्नी यजमानश्च । क्षयिफलत्वादवरं कर्म येषु यदाश्रयमुक्तं श्रुत्या विहितमेतदेव कर्म श्रेयोहेतुर्न ब्रह्मधीरिति ये मूढा हृष्यन्ति ते पुनः पुनर्जरापूर्वं मरणमेवाप्नुवन्तीत्यर्थः । आदिपदं ‘अविद्यायामन्तरे वर्तमानाः’ इत्यादिसङ्ग्रहार्थम् । इतश्च परविद्याशेषत्वेनैवापरविद्योक्तिरित्याह — निन्दित्वेति । प्रत्यक्षादिना कर्मसाध्यांल्लोकाननित्यतया ज्ञात्वा निर्वेदं वैराग्यमायाद्गच्छेत्कुर्यात् । कथं, नास्त्यकृतो मोक्षः कृतेन कर्मणा, नित्यफलार्थी चाहं, तस्मात्किं कर्मणेति विरक्तस्तस्य ब्रह्मणो विज्ञानार्थं गुरुमेवाभिगच्छेद्गुरुपादोपसर्पणं कृत्वा मुक्तिहेतुज्ञानाय श्रवणादि कुर्यादित्यर्थः । ‘रिक्तहस्तस्तु नोपेयाद्राजानं दैवतं गुरुण् ‘ इति न्यायेन समित्पाणिरित्युक्तम् । श्रोत्रियमित्यादिनाध्ययनहीनस्य वाऽकर्मिणो वा गुरुत्वं वार्यते । कर्मनिन्दया ततो विरक्तस्याधिकारोक्तेरक्षरविद्या ब्रह्मविद्यैवेति समुदायार्थः । पूर्वपक्षबीजमनुभाषते — यत्त्विति । सर्वथा वा साम्यं, अंशेन वा नाद्य इत्याह — तदयुक्तमिति । सर्वथा साम्य परस्याप्यनिष्टापत्तिमाह — अपिचेति । कार्यस्य कारणाव्यतिरेको विवक्षितोंऽशस्तेन साम्यमिष्टमेवेति मत्वोपसंहरति —
तस्मादिति ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 भूतयोनेर्ब्रह्मत्वे हेत्वन्तरमाह — विशेषणेति । चकारार्थमाह — इतश्चेति । एवकारार्थमाह — नेतराविति । इतःशब्दार्थं स्फुटयन्प्रश्नपूर्वं हेतुद्वयमाह — कस्मादिति । विशेषणान्न जीवो भेदोक्तेर्न प्रधानमिति विभज्य व्याकुर्वन्नाद्यं व्याचष्टे — विशिनष्टीति । दिव्यो द्योतनात्मकः स्वयञ्ज्योतिः, तत्र श्रुत्यन्तरप्रसिद्ध्यर्थो हिशब्दः । अमूर्तत्वं पूर्णत्वम् । आकाशाद्विशेषमाह — पुरुष इति । कार्यकारणाभ्यां परिच्छेदमाशङ्क्याह — सबाह्येति । बाह्यं कार्यमभ्यन्तरं कारणं ताभ्यां कल्पिताभ्यां सहाधिष्ठानत्वेन तिष्ठति तस्य सर्वकल्पनाधिष्ठानत्वे श्रुतिप्रसिद्ध्यार्थो हिशब्दः । जन्माद्यभावेन कौटस्थ्यमाह — अज इति । प्राणमनोभ्यां संसर्गाभेदाभावात्परिशुद्धिमाह — अप्राणो हीति । शारीरस्यापि विशेषणं स्यादित्याशङ्क्याह — न हीति । तद्धर्मा नामरूपादिधर्मा दृश्यत्वादयः । विेशेषणस्यानन्यथासिद्धिफलमाह — तस्मादिति । विशेषणस्य तुल्यत्वेऽपि द्वितीयं हेतुं प्रधानपक्षे योजयति — तथेति । भेदोक्तिं व्यनक्ति — अक्षरमिति । किं तदव्याकृतं, तदाह — नामेति । तयोर्बीजस्येश्वरस्य शक्तिरूपं, तत्पारतन्त्र्यात् । भूतानां लीलानां सूक्ष्मं संस्काररूपं वर्ततेऽत्रेति भूतसूक्ष्मं, ईश्वरपदलक्ष्यं स्वरूपमाश्रयोऽस्येति तथोक्तम् । अन्यस्य तत्कार्यत्वेन तदाश्रयत्वात्तस्यैवेश्वरो जीवो जगदिति बुद्धावुपाधित्वेन स्थितं, विकारहेतुत्वाद्विकारश्चेत्यर्थः । ननु नामरूपयोर्बीजं शक्तिरूपं चाव्याकृतम् । यद्वा नामरूपे एव बीजे तयोः शक्तिरूपं तदेव तच्च भूतसूक्ष्मं तत्कारणत्वादीश्वराश्रयमित्याश्रयशब्दो विषयार्थस्तस्यैवेश्वरस्य जीवत्वं प्राप्तस्य बुद्ध्यादिद्वारा कर्तृत्वादावुपाधिभूतमिति व्याख्येयं भाष्यमिति चेत् । मैवम् । आश्रयशब्दस्य श्रुतार्थत्यागायोगाज्जीवत्वापत्तेश्चाव्याकृतसम्बन्धकृतत्वात्परिशुद्धे चिद्धातौ तत्सम्बन्धध्रौव्यात् । अतो भाष्यबहिर्भूतो नानाजीववादः । अक्षरशब्दार्थमुक्त्वा परिशिष्टं व्याचष्टे — तस्मादिति । इहेति प्रकृतवाक्योक्तिः । प्रधानाद्ब्रह्मणो भेदे प्रधानमिष्टमसतोऽप्रतियोगित्वादित्याशङ्क्याह — मात्रेति । प्रतियोग्यनङ्गीकारे कथं भेदोक्तिः, तत्राह — किं तर्हीति ।
भूतसूक्ष्मं भूतानां सूक्ष्मं कारणमित्यर्थः । इहेति श्रूतिसूत्रयोरुक्तिः ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 वृत्तिकारमतेन व्याकरोति — अपिचेति । अग्निर्द्युलोकः, ‘असौ वाव लोको गौतमाग्निः’ इति श्रुतेः । पद्भ्यामिति प्रथमार्थे । पादौ पृथिवी यस्य, स एष सर्वभूतानामन्तश्चात्मा चेत्यर्थः । एवं रूपोपन्यासेऽपि किं स्यात् , तदाह — तच्चेति । अन्यथासिद्धिं प्रत्याह — नेति । तनुमहिमत्वं परिच्छिन्नशक्तित्वम् । प्रधानविषयत्वं तस्य दूषयति — नापीति । अनन्यथासिद्धिफलमाह — तस्मादिति । मानाभावेन शङ्कते — कथमिति । मानं वदन्नुत्तरमाह — प्रकरणादीति । प्रकृतत्वेऽपि भूतयोनेः ‘अग्निर्मूर्धा’ इत्यादौ कथमनुवृत्तिः, तत्राह — एष इति । तदेव स्फुटयति — भूतेति । दृष्टान्तेनैतदेवस्फुटयति — यथेति । अदृश्यत्वादिधर्मकस्य विग्रहवद्रूपं कथमित्याक्षिपति — कथमिति । समाधत्ते — सर्वेति । यथा कश्चिद्ब्रह्मात्मविदात्मनः सर्वात्मत्वविवक्षया ‘अहमन्नमहमन्नादः’ इति साम गायति, न त्वन्नान्नादत्वमात्मनोऽभिप्रैति, तस्यापुमर्थत्वात्तथेहापीत्याह — अहमिति । एकदेशिनं दूषयति — अन्ये पुनरिति । हेत्वसिद्धिमाशङ्क्य पूर्वोत्तरवाक्येषु जायमानत्वेन तत्तदर्थोक्तेरिहापि जायमानत्वेनोक्तिरस्तीत्याह — एतस्मादिति । यश्च सूर्यो द्युलोकाग्नेः समिध एव भासकः सोऽपि तस्मादेव जायत इत्यर्थः । तथापि मध्ये परस्यैव रूपमुक्तमित्याशङ्क्य वाक्यभेदान्नेत्याह — इहेति । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात्तदर्थं सार्वात्म्ये वक्तव्ये तदेवेदमुक्तमन्यत्रानुक्तेरित्याशङ्क्याह — सर्वात्मत्वमिति । उत्तरत्रोक्तावपि तस्यैवेदमपि सार्वात्म्यमन्यस्यायोगादित्याशङ्क्याह — श्रुतीति । कस्मै प्रजापतये विधेम परिचरेम । हिरण्यगर्भः सृष्ट्यादाववर्तिष्टेत्येतावदिहोक्तं न जन्मेत्याशङ्क्याह — समावर्ततेति । स जातः सन्भूतग्रामस्येश्वराज्ञया पतिर्बभूवेति शेषदर्शनादित्यर्थः । अस्तु श्रुत्यादिसिद्धं जन्म, तस्य कथं सर्वभूतान्तरात्मत्वं, तत्राह — विकारेति । पूर्वकल्पे प्रकृष्टधीकर्मानुष्ठाता कश्चिद्यजमानः कल्पादौ हिरण्यगर्भतया प्रादुर्बभूव, तस्य सर्वप्राणाद्यधिष्ठातृत्वादधिष्ठात्रधिष्ठेययोरभेदात्प्राणात्मना सर्वभूतानामध्यात्मं देहे स्थितेर्जायमानेऽपि सार्वात्म्यं सिद्धमित्यर्थः । नन्वपञ्चीकृतभूताद्यभिमानिनो हिरण्यगर्भस्य विग्रहविशिष्टरूपेण तदधिष्ठेयप्राणादिजन्मानन्तरं जन्मोच्यते चेत् कस्तर्हि सूत्रार्थः, तत्राह — अस्मिन्निति ।
विश्वं सर्वं कर्म ससाध्यं तपो ज्ञानं च पुरुष एवेति सार्वात्म्यरूपोपन्यासात्परमात्मैव भूतयोनिरित्यर्थः । ‘न विलक्षणत्वात्’ इत्यत्र परिणामस्य सारूप्यापेक्षाप्रतिक्षेपाद्विवर्तस्य च शङ्खपीतिमादौ विसदृशेऽपि दर्शनात्तदपेक्षानियमाद्भूतयोनिवाक्यं निर्विशेषे ब्रह्मण्यन्वितमिति भावः ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 भूतयोनेरीश्वरत्वे हेत्वन्तरमाह — कुतश्चेति । रूपोपन्यासाच्च नेतरावित्यनुषङ्गः । रूपोपन्यासप्रसङ्गान्त्रैलोक्यदेहो वैश्वानरः पर इत्याह — वैश्वानर इति । विषयं वक्तुं वाक्योपक्रममाह — को न इति । आत्मनोऽसंसारित्वार्थं ब्रह्मपदम् । तस्यापरोक्ष्यार्थमात्मपदम् । प्राचीनशालसत्ययज्ञेन्द्रद्युम्नजनबुडिलाः समेत्येत्थं मीमांसां चक्रुः । ते च निश्चिचीषयोद्दालकमाजग्मुः । सोऽपि न वेद सम्यगिति सह तेन षडपि ते कैकेयराजमश्वपतिमागत्योचुः — आत्मानमेव' इत्यादि । अद्येषि स्मरसि । स च तेषां विपरीतधीनिरासेन सम्यग्धीजिग्राहयिषया तानेव पप्रच्छ । औपमन्यव कं त्वमात्मानमुपास्से । दिवमेवेत्याहेतरः । राजा पुनरुवाच, एष सुतेजा वैश्वानरो यं त्वमात्मानमुपास्से । मूर्धात्वयमात्मनो मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति । ततः सत्ययज्ञमपृच्छत् । स चादित्यमूचे । ततश्चैष विश्वरूप आत्मा चक्षुस्त्वेतदात्मन इत्यन्धोऽभविष्यो यन्मां नागमिष्य इति राजाभाषत । एवं क्रमेण द्युसूर्यदीनां सुतेजस्त्वविश्वरूपत्वपृथग्वर्त्मात्मत्वबहुलत्वरयित्वपादत्वगुणयोगं विधाय मूर्धपातान्धत्वप्राणोत्क्रमणदेहविशीर्णताबस्तिभेदपादशोषणैरेकैकोपास्तिनिन्दया च तेषां वैश्वानरं प्रति मूर्धादिभावमुक्त्वा समस्तोपासनमाम्नातम् - ‘यस्त्वेतम् ‘ इत्यादिना । आभिमुख्येन विश्वं मिमीते जानातीत्यभिविमानस्तं प्रादेशपरिमाणमुपास्ते यस्तस्य सर्वलोकाद्याश्रयं फलमित्यर्थः । लोका भोगभूमयः, भूतानि तत्तदुपाधयः, भोक्तारस्त्वात्मान इति भेदः । तत्तत्सम्बन्धिफलभाक्त्वमन्नमत्तीत्युच्यते । ध्यानफलमुक्त्वा ध्येयरूपमाह — तस्येति । सुतेजस्त्वगुणा द्यौर्वैश्वानरस्य मूर्धा । निपातावेतत्प्रसिद्ध्यर्थौ । विश्वरूपत्वगुणः सूर्यस्तस्य चक्षुः, ‘एष शुक्ल एष नीलः’ इत्यादिश्रुतेः । पृथङ् नाना वर्त्म गमनमात्मा स्वरूपमस्येति तथा नानागतित्वगुणो वायुरस्य प्राणः । बहुलत्वगुण आकाशः सन्देहोऽस्य देहमध्यम् । रयिर्धनं तद्गुणा अापोऽस्य बस्तिस्थमुदकम् । पृथिव्यां वैश्वानरस्य प्रतिष्ठानात्तस्य पादौ पृथिव्येव । तस्य होमाधारत्वसम्पादनायोक्तम् — उर एवेत्यादि । ‘तद्यद्भक्तं प्रथममागच्छेत्’ इत्यादिवाक्यमादिशब्दार्थः । तत्र श्रुतौ वैश्वानरोऽनात्मात्मा वेति संशयं हृदि निधायाद्ये पक्षत्रयं, द्वितीये पक्षद्वयमाह — तत्रेति । संशयहेतुं प्रश्नपूर्वकमाह — किमिति । सत्यां सामग्र्यां कार्यध्रौव्यं फलितमाह — तत्रेति । वाक्योपक्रमस्थादृश्यत्वादिसाधारणधर्मस्य वाक्यशेषस्थसर्वज्ञत्वाद्युक्त्या ब्रह्मविषयत्ववदिहाप्युपक्रमगतसाधारणशब्दस्य शेषस्थहोमाधारत्वलिङ्गेन प्रसिद्ध्यनुगृहीतेन जाठरार्थत्वसिद्धेस्तस्यैवोपास्यतेति विमृश्य पूर्वपक्षमाह — किमिति । वैश्वानरविद्याश्रुतेः सविशेषब्रह्मण्यन्वयोक्तेः सङ्गतयः । पूर्वपक्षे जठराग्नेः, सिद्धान्ते ब्रह्मणो ध्यानं फलम् । साधारणे शब्दे कुतो विशेषप्रतिज्ञेत्याह — कुत इति । प्रतिज्ञाविशेषे हेतुमाह — तत्रेति । योऽयं वैश्वानरोऽग्निः सोऽयं पुरषाकारे देहेऽन्तरित्युक्त्वा तमेव विशिनष्टि — येनेति । पक्षान्तरमाह — अग्नीति । तन्मात्रग्रहे हेतुः — सामान्येनेति । विश्वस्मै भुवनाय वैश्वानरमग्निमह्नां केतुं चिह्नं सूर्यमकृण्वन्कृतवन्तो देवाः । तदुदये दिनव्यवहारादित्यर्थः । कल्पान्तरमाह — अग्नीति । तदभिमानिदेवताग्रहे हेतुः — तस्यामिति । वैश्वानरस्य देवस्य सुमतौ शोभनबुद्धौ वयं स्याम भवेम । तस्यास्मद्विषया समुतिर्भवत्वित्यर्थः । तत्र हेतुः — राजा हीति । यस्माद्भुवनानामयं राजा, कं सुखं सुखहेतुः, अभिमुखा श्रीरस्येत्यभिश्रीरीश्वरस्तस्मात्तस्य सुमतौ स्यामेत्यर्थः । हिकमित्येकं पदमित्येके । तत्राष्ययमेवार्थः । प्रयोगत्रयेऽपि तुल्यप्रयोगग्रहार्थमादिपदम् । कथं देवतार्थत्वमस्य प्रयोगस्येति, तदाह — एवमाद्याया इति । ऐश्वर्यादीत्यादिपदं धर्मज्ञानवैराग्यादिसङ्ग्रहार्थम् । पक्षत्रयेऽप्यपरितोषमाह — अथेति । वाजसनेयकेऽग्निवैश्वानरशब्दाभ्यामेवोपक्रमान्नेश्वरार्थतेति पक्षान्तरमाह — तथापीति । शारीरे लक्षणया वैश्वानरशब्दोपपत्तिमाह — तस्येति । तत्रैव हेत्वन्तरमाह — प्रादेशेति । भूताग्निदेवताजीवविषयं पक्षत्रयमुपक्रममात्रं प्राणाहुत्याधारत्वादेर्द्युमूर्धत्वादेश्चायोगात् । ‘हृदयं गार्हपत्यः’ इत्यादिना हि देहावयवाः संनिहितस्यौदर्यस्याग्नेर्गार्हपत्यादित्वेन कल्प्यन्ते । ‘आस्यमाहवनीयः’ ‘तद्यद्भक्तं’ ‘तद्धोमीयम्’ इति च जाठरस्य मुखानुस्यूतस्य प्राणाहुत्याधारस्याहवनीयत्वेनास्यं कल्प्यते । नच द्युमूर्धत्वादेस्तत्रासम्भवः । ‘स होवाच मूर्धानमुपदिशन्नेष वा अतिष्ठा वैश्वानरः’ इत्यादिना मूर्धादीनां द्युलोकाद्यात्मना सम्पादनात्तैर्जाठरस्यापि द्युमूर्धत्वदिसिद्धेरारोपितद्युमूर्धत्वादिना बृहत्त्वात्तस्यैव ब्रह्मत्वमापनादात्मत्वम् । नच ब्रह्मणयपि द्युमूर्धत्वादेरारोपः, जाठरे तत्कल्पनायाः श्रौतत्वेन विशेषात् । अतो जाठरोपास्तिपरं वाक्यमित्युपसंहरति — तस्मादिति । सिद्धान्तयति — तत इति । हेतुं प्रश्नपूर्वकमादाय व्याचष्टे — कुत इति । कौ तौ साधारणौ शब्दौ, को वा तयोर्विशेषः, तत्राह — यद्यपीति । नायं परमात्मगमको विशेषः, तस्य निर्विशेषस्य द्युमूर्धत्वाद्ययोगादित्याशङ्क्याह — अत्रेति । अवस्थान्तरमध्यात्ममधिदैवमित्येवम् । तस्य तथैवोपन्यासफलमाह — आध्यानायेति । कथं परस्यावस्थान्तरभाक्त्वं, तदाह — कारणत्वादिति । तदेव स्फुटयति — कारणस्येति । एतेन जाठरे द्युमूर्धत्वादि प्रत्युक्तम् । वैश्वानरोपासकस्य सर्वलोकाद्याश्रयफलश्रुतेश्च वैश्वानरस्येश्वरत्वमित्याह — स इति । वैश्वानरविदः सर्वपाप्मदाहश्रुतेश्च तस्य परत्वं तद्विज्ञाने तद्दाहप्रसिद्धेरित्याह — एवं हेति । यथाग्नौ क्षिप्तमिषीकातूलं दह्यत एवमस्य विदुषः सर्वाणि कर्माण्यनर्थहेतवो दह्यन्त इत्यर्थः । उपक्रमादपि तस्य परमात्मता तयोस्तत्रैव रूढेर्जाठरे त्वमुख्यत्वादित्याह — को न इति । उक्तलिङ्गानां फलमाह — इत्येवमेतानीति । श्रुतिलिङ्गसिद्धमुपसंहरति —
तस्मादिति ॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 स्मृत्या च श्रुत्यर्थः शक्यो निर्णेतुमित्याह — स्मर्यमाणमिति । तत्र प्रतिज्ञां पूरयति — इतश्चेति । सूत्रं व्याकुर्वन्नितःशब्दार्धमाह — यस्मादिति । स्मृतिमुदाहरति — यस्येति । तस्याः श्रुतिवन्मानत्वं व्युदस्य तद्द्वारा तदाह — तदिति । इतिशब्दस्य वाक्यसमाप्त्यर्थत्वं व्यावर्त्य हेत्वर्थत्वं व्यनक्ति — यस्मादिति । स्तुतेरसदारोपेऽपि सम्भवान्न मूलश्रुत्यपेक्षेत्याशङ्क्याह — यद्यपीति । सद्रूपेण स्तुतित्वमौत्सर्गकमसति श्रुत्यपवादे दुर्वारमित्यर्थः । अस्तुतिरूपामपि स्मृतिमाह — द्यामिति ।
इहेति त्रैलोक्यदेहस्य वैश्वानरस्येश्वरतायामित्यर्थः ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 सिद्धान्तं विधान्तरेणाक्षिप्य समाधत्ते — शब्दादिभ्य इति । आक्षेपं विवृण्वन्नञर्थमाह — अत्रेति । स्थितः सिद्धान्तः सप्तम्यर्थः । श्रुत्यादिना वैश्वानरस्योक्तेश्वरत्वाक्षेपे प्रश्नद्वारा हेतुमादत्ते — कुत इति । तत्र शब्दं व्याचष्टे — शब्द इति । ईश्वरस्य विरोधीति शेषः । तदेव स्फोरयति — वैश्वानरेति । शब्दान्तरमाह — तथेति । सोऽपि श्रौतो वैश्वानरशब्दवदीश्वरे न सम्भवतीति योजना । आदिशब्दोपात्तं लिङ्गमाह — आदीति । बहूक्त्यर्थं लिङ्गान्तरमाह — तद्यदिति । अपेक्षितां प्रतिज्ञां पूरयति — एतेभ्य इति । वाजसनेयकेऽग्निरहस्ये वैश्वानरेऽग्निशब्दात्तस्य परस्मिन्नयोगात्तत्सामान्याच्छान्दोग्येऽपि वैश्वानरोऽग्निरेव, स चाहुत्याधारत्वादिलिङ्गाज्जाठर एवेति भावः । तत्रैव लिङ्गान्तरमाह — तथेति । यथोक्तहेतुभ्यो वैश्वानरो नेश्वरस्तथा वक्ष्यमाणहेतोरपीत्यर्थः । अन्तःप्रतिष्ठानमपि वैश्वानरस्येति शेषः । अग्निरहस्ये सप्रपञ्चां वैश्वानरविद्यामुक्त्वा स यो हैतमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद स सर्वलोकाद्याश्रयं फलमत्तीत्युक्तम् । पुरुषेन्तःप्रतिष्ठितश्चाग्निर्जाठर एव, प्रसिद्धेरित्यर्थः । तथापि वाजसनेयके द्युमूर्धत्वादिश्रवणान्न जाठरः स्यादित्युक्तमनुवदति — यदपीति । अनेकलिङ्गानुगृहीतानन्यथासिद्धवैश्वानराग्निश्रुतिभ्यामेकं लिङ्गं नेयमित्याह — अत्रेति । जाठरेऽपि द्युमूर्धत्वादि कथञ्चिन्नीतमिति भावः । न जाठरे मुख्यं द्युमूर्थत्वादीत्यपरितोषादाह — अथवेति । एष निर्देशो वैश्वानराग्निशब्दाभ्याामन्तःप्रतिष्ठानो्क्त्या चेति शेषः । तत्रापि कुतो द्यूमूर्धत्वादि सिद्धं, तत्राह — तस्यापीति । अपिरीश्वरदृष्टान्तार्थः । इमां पृथिवीमुत द्यामपि द्यावापृथिव्यावेव रोदसी यो भानुरूपेणाततान व्याप्तवान् , अन्तरिक्षं च तयोर्मध्यमाततान स देवो द्युलोकाद्यवयवो ध्येय इत्यर्थः । परिच्छिन्नभूताग्नेर्न द्युलोकाद्यवयवत्वमित्यरुच्या कल्पान्तरमाह — अथवेति । द्युमूर्धत्वादिविशेषस्यन्यथासिद्धत्वे फलितमाह — तस्मादिति । परिहारमवतारयति — अत्रेति । तदक्षराणि व्याचष्टे — नेत्यादिना । दृष्ट्युपदेशं सदृष्टान्तं स्पष्टयति — परमेति । ब्रह्मप्रतीकस्य जाठरस्योपास्यतेष्टेति शिष्ट्वा सूत्रावयवं तदुपाधिनो ब्रह्मण एवोपास्यतेति विधान्तरेण व्याकरोति — अथवेति । जाठरप्रतीकत्वात्तदुपाधित्वाद्वा परस्मिन्नपि लक्षणयाग्न्यादिशब्दसिद्धौ न तस्य तल्लिङ्गान्यथाकरणे शक्तिरिति भावः । असम्भवादिति व्याचष्टे — यदि चेति । उपास्त्यर्थत्वेऽपि जाठरे द्युमूर्धत्वादेरसत एवारोपः स्यात् । नच सति सम्भवे स युक्त इत्यर्थः । अस्तु तर्हि देवतादिविषयत्वं विशेषस्येत्याशङ्क्याह — यथेति । पुरुषमपीत्यादि विभजते — यदि चेति । ब्रह्मोपाधित्वतत्प्रतीकत्वयोरसत्त्वं कैवल्यं तस्य सर्वलोकाद्याश्रयं फलमिति शेषः । पुरुषत्वेऽपि कथं ब्रह्मणस्तदन्तःप्रतिष्ठितत्वं, तत्राह — परमेति । पाठान्तरमादाय व्याचष्टे — ये त्विति । जाठरस्याचेतनत्वात्पुरुषत्ववन्न तद्विधत्वमपीत्यर्थः । ब्रह्मणोऽपि पुरुषत्वमेव न तद्विधत्वमित्याशङ्क्याह — पुरुषेति ।
तच्च ब्रह्मण्युपास्त्यर्थं स्यादिति भावः ॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 द्युमूर्धत्वादिविशेषस्य जाठरविषयत्वं सन्दूष्य देवतादिविषयत्वं दूषयति — अत एवेति । सूत्रं व्याकर्तुं व्यावर्त्यं पक्षद्वयमनूद्य तस्य निरस्यत्वमाह — यदिति । सूत्रमुत्थाप्य व्याकरोति — अत्रेति । द्युमूर्धत्वादिसम्बन्धसर्वलोकाद्याश्रयफलभाक्त्वसर्वपाप्मदाहात्मब्रह्मोपक्रमा उक्ता हेतवः । भूतदेवतयोरपि द्युमूर्धत्वादि सिध्यतीत्युक्तं प्रत्याह — न हीति । किञ्च न देवताया निरङ्कुशमैश्वर्यं किन्त्वीश्वरायत्तं, अतस्तस्यैव सर्वकारणस्य द्युमूर्धत्वादीत्याह — परमेश्वरेति । पक्षत्रयसाधारणं दोषमाह — आत्मेति ।
चकारो ब्रह्मशब्दायोगस्य सर्वपाप्मदाहाद्ययोगस्य च समुच्चयार्थः ॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 वाजसनेयकेऽग्निशब्दं जाठरार्थमुपेत्य परस्मिन्नपि तत्सम्बन्धाल्लक्षणां स्वीकृत्य ब्रह्मोपास्तिरित्युक्तम् । इदानीमत्राप्यग्न्यादिशब्दो ब्रह्मार्थः । ततो यदधिदैवं द्युलोकादिपृथिव्यन्तं यच्चाध्यात्मं मूर्धादिचुबुकान्तं रूपं तदनुगतं ब्रह्मैवोपास्यं न जाठरावच्छिन्नमित्याह — साक्षादिति । वृत्तमनूद्य सूत्रार्थं विवृणोति — पूर्वमित्यादिना । जाठरस्य प्रतीकादित्वेन ग्रहे हेतुं सूचयति — अन्तरिति । साक्षादीश्वरोपास्तौ विरोधं शङ्कते — नन्विति । विरोधं व्युदस्यति — अत्रेति । अन्तःप्रतिष्ठितत्वोक्तेर्जाठराग्रहेऽप्यविरोधं प्रतिज्ञाय हेतुमाह — न हीति । इहेति वाजसनेयकोक्तिः । अन्तःप्रतिष्ठितत्वमिदमा परामृष्टम् । प्रकरणोपपदयोरभावाज्जाठरानभिप्रायेऽपि पुरुषशब्देन करशिरश्चरणादिमतोऽभिधानात्कथं तद्विधत्वं तदन्तःप्रतिष्ठितत्वं वा परस्यापीत्याशङ्क्याह — कथमिति । पुरुषावयवसम्पत्त्या तद्विधत्वं कार्यकारणसमुदायात्मनि तस्मिन्मूर्धादिचुबुकान्तावयवस्थितेश्च पुरुषेऽन्तःप्रतिष्ठितत्वं समुदायिनां समुदायमध्यपातित्वादित्याह — यथेति । अन्तःप्रतिष्ठितत्वेन माध्यस्थ्येन साक्षीव लक्ष्यत इति पक्षान्तरमाह — अथवेति । अन्तःप्रतिष्ठितत्वोक्तेरविरोधमुक्तवा वैश्वानरशब्दस्याविरोधमाह — निश्चिते चेति । तस्य तत्रारूढेर्न तद्विषयतेत्याशङ्क्याह — केनेति । सर्वात्मत्वमाश्रित्य योगवृत्तिमेव कथयति — विश्वश्चेति । सर्वकारणत्वेन योगवृत्तिमाह — विश्वेषामिति । सर्वेश्वरत्वेनापि तामाह — विश्वे वेति । सर्वात्मत्वं सर्वकारणत्वं सर्वेश्वरत्वोपलक्षणम् । तथापि विश्वनर इति स्यात्कथं वैश्वानर इत्युच्यते, तत्राह — विश्वेति । ‘नरे संज्ञायाम्’ इति दीर्घता । अण्प्रत्ययस्तर्हि कथं, तत्राह — तद्धित इति । अनन्यार्थत्वं प्रकृत्यर्थातिरिक्तार्थशून्यत्वम् । तथापि कथं परस्मिन्नग्निपदं, तदाह — अग्नीति । अगेर्धातोर्गत्यर्थस्य निप्रत्ययान्तस्याग्निरिति रूपं, तत्राङ्गयति गमयति जगतोऽग्रं जन्म प्रापयतीत्यग्निरग्रणीरुक्तः । आदिशब्दादभितोगतत्वं सर्वज्ञातृत्वं च गृहीतम् । एवं वाजिशाखायामपि परोपास्तिसिद्धौ न तद्बलाच्छान्दोग्यवाक्यं विघटनीयमित्युक्तम् । यत्तु छान्दोग्ये परस्मिन्नसम्भवि लिङ्गमुक्तं, तत्राह —
गार्हपत्यादीति ॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 सूत्रत्रयमाकाङ्क्षाद्वारादत्ते — कथमिति । मतभेदेन व्याख्यामेव दर्शयन्नादावाश्मरथ्यमतमाह — अभिव्यक्तेरिति । विभोरीश्वरस्यायुक्ता प्रादेशमात्रतेति शङ्कां निरस्यन्व्याकरोति — अतिमात्रस्येति । अतिक्रान्ता मात्राः परिमाणं येन तस्येति यावत् । अभिव्यक्तिनिमित्तं प्रादेशमात्रत्वमित्येतदेव व्यनक्ति — अभिव्यज्यत इति । स्वाभाविकाणिमाद्यैश्वर्यख्यापनार्थं महतोऽपीश्वरस्योपासकान्प्रति सूक्ष्मत्वेन व्यक्तिरिति द्योतयति — किलेति । नियमेन प्रादेशमात्रतया व्यक्तौ हेत्वभावान्नेयं व्याख्येत्याशङ्क्याह — प्रदेशेष्विति । अभिव्यक्तिफलमाह —
अत इति ॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 मतान्तरमाह — अनुस्मृतेरिति । व्याचष्टे — प्रादेशेति । पूर्वेण विकल्पार्थो वाशब्दः । अभिव्यञ्जकस्थं परिमाणमभिव्यङ्ग्ये भातीत्येतद्दृष्टान्तेनाह — यथेति । वैषम्यमाशङ्क्य प्रत्याह — यद्यपीति । हृदयस्थं परिमाणं मनःप्रभवस्मृतावारोपितं स्मृत्यैक्येनाध्यस्तस्मर्यमाणेश्वरेऽध्यस्तमालम्बनमिति यथाकथञ्चिदित्युक्तम् । स्मृतिगतपरिमाणस्य हृदयद्वारारोपितस्य स्मर्यमाणो कथमारोपो विषयविषयित्वेन भेदादित्याशङ्क्य व्याख्यान्तरमाह — प्रादेशेति । उपसंहरति —
एवमिति ॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 प्रादेशमात्रश्रुतेर्विषयं कथञ्चिदुक्त्वा साक्षादेव श्रुत्युक्तं विषयमाह — सम्पत्तेरिति । प्रतिज्ञां विभजते — सम्पत्तीति । सम्पत्तिरत्राश्रुतेति पृच्छति — कुत इति । उत्तरम् — तथाहीति । तदेेव ब्राह्मणमुदाहरति — प्रादेशेति । परमेश्वरमप्रादेशमात्रमपि सम्पादनेन प्रादेशमात्रमिव सम्यग्विदितवन्तो देवास्तमेवेश्वरं पूर्वमभिसम्पन्नास्ततो वो युष्मभ्यं तथा द्युप्रभृतीनेतानवयवान्वक्ष्यामि यथा प्रादेशपरिमाणं वैश्वानरं सम्पादयिष्यामीत्यौपमन्यवप्रभृतीन्प्रति वक्तव्यत्वेन प्रतिज्ञायाश्वपती राजोवाच, किं कुर्वन्नित्युक्ते स्वस्य मूर्धानमुपदिशन्कराग्रेण दर्शयन्नेष वै लोकान्भूरादीनतीत्य तिष्ठतीत्यतिष्ठा द्यौर्वैश्वानरस्यावयव इति । प्रसिद्धे मूर्धनि वैश्वानरस्याधिदैवं यो मूर्धा द्युलोकस्तद्दृष्टिः कर्तव्येत्यर्थः । स्वकीये चक्षुषी दर्शयन्नुवाचैष वै सुतेजाः शोभनतेजःसहितः सूर्योऽधिदैवं वैश्वानरस्य चक्षुरिति । प्रसिद्धयोश्चक्षुषोर्वैश्वानरस्याधिदैवं यदादित्याख्यं चक्षुस्तद्दृष्टिरित्यर्थः । अध्यात्मप्रसिद्धयोर्नासिकयोर्वैश्वानरस्याधिदैवं यो वायुः प्राणस्तद्दृष्टिरित्याह — नासिके इति । अध्यात्ममुखावच्छिन्ने नभसि वैश्वानरस्य यदधिदैवं सन्देहाख्यं नभस्तद्धीरित्याह — मुख्यमिति । मुखसम्भवास्वप्सु वैश्वानरस्याधिदैवं या बस्तिस्थानीया आपस्तद्दृष्टिमाह — मुख्या इति । प्रसिद्धे चुबुके वैश्वानरस्य याधिदैवं पादाख्या पृथिवी तद्दृष्टिमाह — चुबुकमिति । ननु छान्दोग्यवाजसनेयकयोर्नैका विद्या गुणवैषम्यादतो न वाजसनेयकानुसारेण छान्दोग्ये प्रादेशमात्रश्रुतिर्नेतव्येति, तत्राह — यद्यपीती । अल्पवैषम्येऽपि बहुतररूपप्रत्यभिज्ञानाद्विद्यैक्यमित्यर्थः । विद्यैक्यं किञ्चिदित्युक्तम् । तथापि प्रकरणभेदाद्विद्याभेदमाशङ्क्याह — सर्वेति । न्यायस्य गुणोपसंहाराधिकारे वक्ष्यमाणत्वाद्वाजसनेयकस्थातिष्ठागुणश्छान्दोग्ये तद्गतश्च विश्वरूपगुणोऽन्यत्र ज्ञेय इत्यर्थः । छान्दोग्यवदितरत्र ‘को न आत्मा किं ब्रह्म’ इत्युपक्रमाभावान्न विद्यैक्यमित्याशङ्क्य ‘स एषोऽग्निर्वैश्वानरो यत्पुरुषः’ इत्युपसंहारे पुरुषोद्देशेनाग्रणीत्वादिविधेरुपक्रमेऽपि तस्यैवावगमात्पुरुषस्य च परमात्मत्वादुभयत्र विद्यैक्याद्वाजसनेयकानुरोधाच्छान्दोग्ये प्रादेशमात्रश्रुतिरित्युपसंहरति —
सम्पत्तीति ॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 प्रादेशमात्रश्रुतिः सम्पत्तिनिमित्तेत्यत्र श्रुत्यन्तरमाह — आमनन्तीति । सूत्रं व्याकरोति — आमनन्ति चेति । य एष प्रसिद्धः परमात्मा नाशाभावादनन्तः, स्वरूपेणानभिव्यक्तेरव्यक्तः, तं कथं विजानीयामित्यत्रिप्रश्ने याज्ञवल्क्यस्योत्तरम् — स इति । स हि परमात्मा जीवात्मन्यविमुक्ते व्यवहारतः संसारिणि प्रतिष्ठितः परस्यैव प्रत्यक्त्वादित्यर्थः । पुनरत्रिरपृच्छत् — स इति । तत्र याज्ञवल्क्यो ब्रूते — वरणायामिति । वरणा भ्रूः । प्रश्नान्तरं भूमिकापूर्वमादत्ते — तत्र चेति । प्रकृता श्रुतिः सप्तम्यर्थः । इमामेव प्रसिद्धां भ्रूसहितां नासिकां वारयति नाशयतीति वरणासहिता नासीति निश्चयेनोक्त्वेत्यर्थः । अविमुक्तस्य स्थानभूता ‘का वै वरणा का च नासी’ इति प्रश्नस्य प्रत्युक्तिः सर्वानिन्द्रियवृृृृत्तिकृतान्दोषान्वारयति तेन वरणेति सर्वानिन्द्रियवृत्तिकृतान्पाप्मनो नाशयति तेन नासीति । नियम्यजीवाधिष्ठानत्वद्वारा नियन्तुरीश्वरस्याधिष्ठानत्वान्नासाभ्रुवोः पाप्मवारकत्वादिसिद्धिः । तयोर्मध्येऽपि स्थानविशेषगवेषणया पृच्छति — कतमच्चेति । याज्ञवल्क्यस्त्वाह — भ्रुवोरिति । प्राणो नासिक्यस्तयोर्मध्यं द्युलोकस्य स्वर्गस्य परस्य च ब्रह्मलोकस्य सन्धित्वेन ध्येयमित्याह — स इति । श्रुत्यन्तरसंवादफलमाह — तस्मादिति । विशेषणान्तरं घटयति — अभिविमानेति । प्रत्यक्त्वेन सर्ववेद्यत्वं सर्वात्मत्वे सत्यानन्त्यं सर्वकारणत्वं वा निमित्तीकृत्याभिप्रायमेव प्रकटयति — प्रत्यगिति । परमेश्वरे साधकसत्त्वाज्जाठरादौ तदभावात्परोपास्तिपरं वैश्वानरवाक्यमित्युपसंहरति — तस्मादिति । सविशेषप्रचुराणां वा रूढिबहुलानां वान्यतरत्रास्पष्टलिङ्गानां वा वाक्यानां ब्रह्मण्यन्वयः सिद्ध इति पादार्थं निगमयति —
इति सिद्धमिति ॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानविरचिते शारीरकन्यायनिर्णये प्रथमाध्यायस्य द्वितीयः पादः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वस्मिन्पादे सविशेषवस्तुप्रचुराणां वाक्यानां ब्रह्मपरतोक्ता । सम्प्रति निर्विशेषब्रह्मप्रचुराणां तेषां तत्परतां वक्तुं पादान्तरमारभ्यते । तत्र पूर्वाधिकरणे त्रैलोक्यात्मा वैश्वानरः परमात्मेत्युक्तं तर्हि त्रैलोक्यायतनमन्यदित्याशङ्क्याह — द्युभ्वादीति । यद्वोपक्रमस्थश्रुतेर्वाक्यशेषस्थलिङ्गेनान्यपरत्वमुक्तं, तत्प्रसङ्गेन जगदायतनत्वस्यानेकसाधारणस्य वाक्यशेषस्थात्मश्रुत्या ब्रह्मपरत्वमाह — द्युभ्वादीति । आथर्वणवाक्यमुदाहरति — इदमिति । लोकत्रयकल्पनाधिष्ठानत्वोक्त्या पञ्चीकृतभूतपञ्चकाधिष्ठानत्वमाह — यस्मिन्निति । कार्यब्रह्माख्यसमष्ट्यन्तःकरणस्य तत्रैव कल्पितत्वमाह — मन इति । इन्द्रियसमष्टिदेवतानां तत्रैव कल्पितत्वं सूचयति — सहेति । चकाराद्भूतसूक्ष्माव्याकृतेश्वरान्तर्यामिणामध्यस्तत्वं ध्वनितम् । मायाख्यां प्रकृतिं कल्पितकार्यपरम्परां च श्रुत्युदिततर्काग्निना विलाप्य तमेवाधिष्ठानभूतमद्वयमात्मानं जानथेति मुमुक्षून्प्रत्याह — तमेवेति । वाच्यवाचककल्पनानामैक्यापरोक्षप्रमित्या वादमाह — अन्या इति । एष वाग्विमोकपूर्वकस्तत्त्वसाक्षात्कारः सोपादानसंसारनिवृत्तित्वेनामृृतत्वस्य व्यवस्थापक इत्याह — अमृतस्येति । आयतनशब्दाश्रुतेर्नेदमुदाहरणमित्याशङ्क्याह — अत्रेति । आयतनत्वसाधारणधर्मदृष्ट्या संशयमाह — तदिति । अर्थान्तरं प्रधानम् । उपक्रमस्थस्य साधारणशब्दस्य वाक्यशेषगतद्युमूर्धत्वादिलिङ्गेनेश्वरार्थत्ववदिहाप्युपक्रमस्थसाधारणायतनत्वस्य वाक्यशेषगतसेतुश्रुत्या परिच्छिन्ने सेतुशब्दार्थे व्यवस्थेति पूर्वपक्षयति — तत्रेति । निर्विशेषे ब्रह्मण्युक्तश्रुत्यन्वयोक्तेः सङ्गतयः । पूर्वपक्षे प्रधानोपास्तिः, सिद्धान्ते परमेश्वरधीरिति फलम् । आयतनत्वस्य ब्रह्मण्यपि योगान्नार्थान्तरमित्याशङ्क्य प्रत्याह — कस्मादिति । अमृतस्येति श्रवणादेष सेतुरिति च श्रवणादिति योजना । अमृतस्येति षष्ठीप्रयोगाद्ब्रह्मणः स्वयममृतत्वादन्यस्यामृतस्याभावात्तत्प्रयोगो ब्रह्मणि नेति मत्वा सेतुश्रुतिं विशदयति — पारवानिति । तथापि कुतो न ब्रह्मणः सेतुत्वं, तत्राह — न चेति । आनन्त्यमनौपचारिकमित्युक्तम् । उभयत्रापि सेतुशब्दस्य मुख्यार्थत्वायोगेऽपि विधरणस्यागन्तुकस्याश्रयणान्निजसिद्धपरिच्छिन्नाश्रयणं युक्तमिति भावः । किं तदर्थान्तरं, तदाह — अर्थान्तरे चेति । श्रुत्युक्तमायतनं श्रौतमेवोचितं न स्मार्तमित्याशङ्क्याह — श्रुतीति । वायोरायतनत्वं साधयति — वायुरिति । सर्वगतस्य तन्त्वादिवत्कुतः सूत्रतेत्याशङ्क्य सूक्ष्मतया सूत्रवदवस्थानादित्याह — वायुनेति । आकाशस्यापि सूत्रवदन्तर्वर्तनमस्तीत्यासङ्क्यास्य सर्वं प्रत्येकस्वभावतया विधारकत्वमाह — अयं चेति । सन्दृब्धानि सङ्ग्रथितानि विधृतानीत्यर्थः । आयतनस्यात्मत्वश्रुतेर्नैवमित्याशङ्क्याह — शारीरो वेति । तस्य परिच्छिन्नत्वान्न सर्वविधारकतेत्याशङ्क्य कर्मोपास्त्यादिद्वारा सर्वस्थितिहेतुत्वमाह — तस्येति । विश्वायतनत्वेन प्रधानस्य वायोर्भोक्तुर्वा ध्यानार्थं वाक्यमित्युपसंहर्तुमितिशब्दः । पूर्वपक्षमनूद्योत्तरपक्षप्रतिज्ञामादाय विगृह्णाति — एवमिति । ‘न भूसुधियोः’ इति निषेधाद्द्युभ्वादीति यणादेशासिद्धिरिति चेन्न । ‘गतिकारकोपपदाभ्यामन्यपूर्वस्य नेष्यते’ इति विशेषणात् , अस्य च कारकोपपदत्वात् । द्वन्द्वे द्वयोः समत्वादुपपदत्वं दिवो नेति चेन्न । समत्वेऽपि प्रथमप्रयुक्ताया दिवश्चरमप्रयुक्तां भुवं प्रत्युपपदत्वमारोप्य समासे यणादेशसिद्धेः । न च द्वन्द्वे समस्यमानानां समत्वनियमः, राजपुरुषादिषु व्यभिचारात् । तस्माद्वर्षाभ्वादिवद्द्युभ्वादीत्यविरुद्धम् । द्वन्द्वे तद्गुणसंविज्ञाने च कृते तस्यायतनमिति स्थिते प्रतिज्ञाया विवक्षितमर्थमाह — यदिति । जगदायतनत्वस्यान्यत्रापि योगे विशेषोक्तिरयुक्तेत्याह — कुत इति । तत्र हेतुमादाय योजयति — स्वशब्दादिति । आयतनशब्दसमानाधिकृतात्मशब्दस्यादृष्टिमाशङ्क्याह — आत्मेति । जीवादावपि तदुपपत्तिमाशङ्क्योक्तम् — आत्मशब्दश्चेति । पक्षान्तरे मुख्यमाप्त्याद्ययुक्तमित्यर्थः । स्वशब्देन ब्रह्मोक्त्वा तस्यासाधारणसच्छब्देनायतनत्वोक्तिरिति योजनान्तरमाह — क्वचिच्चेति । स्वस्यायतनस्यासाधारणायतनशब्दादिति योजनान्तरं मत्वा श्रुतिमाह — सदिति । सतो निमित्तत्वेनैव मूलत्वं प्रत्याह — सदायतना इति । असमवायिकारणस्यैव सतः स्थितिहेतुत्वमेवेत्याशङ्क्याह — सत्पतिष्ठा इति । स्वशब्देन ब्रह्मोक्त्वा तदसाधारणपुरुषशब्देन ब्रह्मशब्देन परशब्देनामृतशब्देन चोक्तेरित्यर्थान्तरमाह — स्वशब्देनेति । इहेति प्रकरणोक्तिः । ‘यस्मिन्द्यौः’ इत्यादिवाक्यात्पूर्वोत्तरवाक्ययोर्ब्रह्मोक्तेर्मध्येऽपि तदेव युक्तं, आदिमध्यावसानानामैकार्थ्ये वाक्यैक्यादित्यर्थः । पुरस्ताद्ब्रह्मोक्तिमाह — पुरुष इति । पुरस्तादपि तदुक्तिमाह — ब्रह्मैवेति । पुरस्तात्पूर्वस्यां दिशि पश्चात्पश्चिमायां दक्षिणतो दक्षिणस्यामुत्तरेणोत्तरस्यां यदिदं दृश्यते तद्ब्रह्मैवेत्यर्थः । सर्वत्र ब्रह्मोक्तावपि तदनेकरसत्वमाशङ्क्याह — तत्रेति । उक्तवाक्यं सप्तम्यर्थः । सामानाधिकरण्याद्विचित्र आत्मेत्याशङ्का सम्भवतीति सम्बन्धः । वैचित्र्यं दृष्टान्तेनाह — यथेति । कथं तर्हि तन्निरसनं, तदाह — तामिति । जगदायतनं ब्रह्म ज्ञेयमित्युक्ते कुतस्तदैकरस्यं, तत्राह — एतदिति । तथापि कथं प्रपञ्चायतनस्य निष्कृष्य ज्ञानं, तत्राह — यथेति । एकशब्दादेवकाराच्चायतनपदलक्ष्यमेकरसं ब्रह्मात्मत्वेन ज्ञेयमित्युक्त्वा तत्रैव हेत्वन्तरमाह — विकारेति । वाचारम्भणश्रुतेर्दृश्यत्वादित्युक्तेश्च विकारो मिथ्या तस्मिन्ननृतेऽनिर्वाच्येऽभिसन्धाभिमानो यस्य तस्येति यावत् । द्वैतं सत्यं पश्यतो निन्दाश्रुतेरप्येकरसं ब्रह्मेत्यर्थः । ब्रह्मैकरस्यं सामानाधिकरण्यश्रुतिविरुद्धमित्याशङ्क्य पुरुषः स्थाणुरितिवज्जाड्यादिना विरुद्धस्य द्वैतस्य ब्रह्मणा सामानाधिकरण्यं बाधार्थमित्याह — सर्वमिति । यदविद्यारोपितं तत्सर्वं वस्तुतो ब्रह्म न तु यद्ब्रह्म तत्सर्वमतो न श्रुतिविरुद्धमित्यर्थः । ब्रह्मानूद्य सर्वत्वविधावप्रसिद्धानुवादेन प्रसिद्धविधिप्रसक्तिरित्यभिप्रेत्य ब्रह्मणो नानारसत्वे श्रुत्यन्तरविरोधमाह — स यथेति । सैन्धवखिल्योऽन्तर्बहिर्विभागहीनः सर्वात्मना लवणैकरसो यथा तथात्मापि सर्वथा चिदेकरसमूर्तिरिति श्रुत्यर्थः । ब्रह्मणश्चिदेकरसस्य प्रतिपाद्यत्वे फलितमाह — तस्मादिति । तस्यैकरस्यात्प्रधानादेस्तद्विरहादित्यर्थः । सेतुश्रुतेर्गतिं वक्तुमुक्तमनुवदति — यत्त्विति । तस्याविवक्षितां गतिमाह — अत्रेति । अत्रेति सप्तम्या भावप्रधानममृतं वाक्यं चोक्तम् । सावयवत्वाचेतनत्वादि वक्तुमादिपदम् । ननु सेतुनाऽविनाभूतत्वात्पारवत्त्वादेस्तत्र तच्छब्दाद्धीरिति चेन्नेत्याह — नहीति । अत्रापीति प्रकृतवाक्योक्तिः अभ्युपगम्यते, परेणापीति शेषः । विधरणत्वस्यागन्तुकत्वात्पारवत्त्वादेः स्वाभाव्यात्तदेव सेतुश्रुत्या ग्राह्यमिति चेत् , तत्राह — सेत्विति । गुणवृत्त्यापि शब्दैकदेशार्थविधरणगुणस्वीकरणमेव युक्तं न त्वत्यन्तबहिरर्थपारवत्त्वाद्यङ्गीकरणं मुख्यार्थैकदेशलाभेन विधरणस्य बुद्धिस्थत्वात् , अमृतस्येति षष्ठी च ब्रह्मपक्षे भावार्थस्वीकारादिति भावः । सेतुशब्दं ब्रह्मेत्युपेत्य सेतुश्रुतेर्गतिमुक्त्वा विषयान्तरोक्त्यापि तद्गतिमाह — अपर इति । सेतुशब्दस्य वाग्विमोकपूर्वकमात्मज्ञानमर्थो न ब्रह्मेति स्थिते फलितमाह —
तत्रेति ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 द्युभ्वाद्यायतनं ब्रह्मेत्यत्र हेत्वन्तरमाह — मुक्तेति । तद्व्याख्यातुं प्रतिज्ञां पूरयति — इतश्चेति । इतःशब्दार्थं स्पष्टयति — यस्मादिति । मुक्तेन ब्रह्मणा कुतस्तदेवोपसृप्यमित्याशङ्क्याह — मुक्तैरिति । बन्धविश्लेषं मुक्तिशब्दार्थं वक्तुं बन्धमनुवदति — देहादिष्विति । अविद्याफलमाह — तत इति । अनर्थसमुदायस्य सम्यग्ज्ञानादृते विच्छेदाभावं सूचयति — सन्तत इति । तत्र स्वानुभवं प्रमाणयति — सर्वेषामिति । बन्धमनूद्य तद्विश्लेषं मोक्षमाचक्षाणः सूत्रं योजयति — तदिति । उक्तमुक्त्यनन्तरं प्राप्यं ब्रह्मेति श्रुतिरसिद्धेति शङ्कते — कथमिति । मुक्तौ श्रुतिमाह — भिद्यत इति । तथापि कथं द्युभ्वाद्यायतनस्य मुक्तोपसृप्यत्वं, तत्रापि श्रुतिमाह — इत्युक्त्वेति । यथा नद्यो गङ्गाद्या नामरूपाभ्यां निर्मुक्ता समुद्रं प्राप्य तदात्मनावतिष्ठन्ते, तथा विद्वानपि साक्षात्कृतब्रह्मा तद्बलादेव नामरूपादविद्यातत्कार्यात्मनो विमुक्तः परादव्याकृतात्परमस्पृष्टानर्थं पुरुषं पूर्णमात्मानं दिव्यमखण्डं चिद्धातुमुपैत्यात्मत्वेनाप्नोतीत्यर्थः । प्रधानादीनामन्यतमस्यापि मुक्तोपसृप्यत्वसिद्धेरन्यथासिद्धिरित्याशङ्क्याह — ब्रह्मणश्चेति । ज्ञानावस्था यदेत्युक्ता । मुमुक्षुरस्येत्युक्तः । हृदीत्युक्त्या कामानामात्मनिष्ठता निरस्ता । प्रतिबन्धाभावावस्थां वक्तुमथेत्युक्तम् । अत्रेति जीवदवस्थोक्तिः । ‘स यो ह वै तत्परमं ब्रह्म वेद’ इत्यादिसङ्ग्रहार्थमादिपदम् । परपक्षव्यावृत्तिं स्फो