Pañcīkaraṇa
Śrī Ādi Śaṅkarācārya
ॐ पञ्चीकृतम्पञ्चमहाभूतानि तत्कार्यं च सर्वं विराडित्युच्यते । एतत्स्थूलशरीरमात्मनः । इन्द्रियैरर्थोपलब्धिर्जागरितम् । तदुभयाभिमान्यात्मा विश्वः । एतत् त्रयमकारः ॥ १ ॥
अपञ्चीकृतपञ्चमहाभूतानि पञ्चतन्मात्राणि तत्कार्यं च पञ्च प्राणाः दशेन्द्रियाणि मनोबुद्धिश्चेति सप्तदशकं लिङ्गं भौतिकं हिरण्यगर्भ इत्युच्यते । एतत्सूक्ष्मशरीरमात्मनः ॥ २ ॥
करणेषूपसंहृतेषु जागरितसंस्कारजः प्रत्ययः सविषयः स्वप्न इत्युच्यते । यदुभयाभिमान्यात्मा तैजसः । एतत् त्रयमुकारः ॥ ३ ॥
शरीरद्वयकारणमात्माज्ञानं साभासमव्याकृतमित्युच्यते । एतत् कारणशरीरमात्मनः । तच्च न सन्नासन्नापि सदसन्न भिन्नं नाभिन्नं नापि भिन्नाभिन्नं कुतश्चित् न निरवयवं न सावयवं नोभयं किन्तु केवलब्रह्मात्मैकत्वज्ञानापनोद्यम् ॥ ४ ॥
सर्वप्रकारज्ञानोपसंहारे बुद्धेः कारणात्मनाऽवस्थानं सुषुप्तिः । तदुभयाभिमान्यात्मा प्राज्ञः । एतत् त्रयम् मकारः ॥ ५ ॥
अकार उकारे उकारो मकारे मकार ओङ्कारे ओङ्कारोऽहम्येव । अहमात्मा साक्षी केवलश्चिन्मात्रस्वरूपः नाज्ञानं नापि तत्कार्यं किन्तु नित्यशुद्धबुद्धमुक्तसत्यस्वभावं परमानन्दाद्वयं प्रत्यग्भूतचैतन्यं ब्रह्मैवाहमस्मीत्यभेदेनावस्थानं समाधिः ॥ ६ ॥
तत्त्वमसि ब्रह्माहमस्मि प्रज्ञानमानन्दं ब्रह्म अयमात्मा ब्रह्म इत्यादिश्रुतिभ्यः ॥ ७ ॥ इति श्रीशङ्कराचार्यविरचितं पञ्चीकरणम् ॥
Usando este texto em trabalho acadêmico? Obter citação formal
ŚRĪ ĀDI ŚAṄKARĀCĀRYA. Pañcīkaraṇa. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/panchikarana>. Acesso em: 26/04/2026.
Śrī Ādi Śaṅkarācārya (2026). Pañcīkaraṇa. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/panchikarana
Śrī Ādi Śaṅkarācārya. "Pañcīkaraṇa." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/panchikarana.