Ṛgveda Saṃhitā — Maṇḍala 1
Tradição Védica (Ṛṣis)
ऋग्वेद-सꣳहिता मण्डल १ अग्निम् ईळे पुरोहितꣳ यज्ञस्य देवम् ऋत्विजम् । होतारꣳ रत्नधातमम्
अग्निः पूर्वेभिर् ऋषिभिर् ईड्यो नूतनैर् उत । स देवाꣳ एह वक्षति
अग्निना रयिम् अश्नवत् पोषम् एव दिवे-दिवे । यशसꣳ वीरवत्तमम्
अग्ने यꣳ यज्ञम् अध्वरꣳ विश्वतः परिभूर् असि । स इद् देवेषु गच्छति
अग्निर् होता कविक्रतुः सत्यश् चित्रश्रवस्तमः । देवो देवेभिर् आ गमत्
यद् अङ्ग दाशुषे त्वम् अग्ने भद्रꣳ करिष्यसि । तवेत् तत् सत्यम् अङ्गिरः
उप त्वाग्ने दिवे-दिवे दोषावस्तर् धिया वयम् । नमो भरन्त एमसि
राजन्तम् अध्वराणाꣳ गोपाम् ऋतस्य दीदिविम् । वर्धमानꣳ स्वे दमे
स नः पितेव सूनवे ऽग्ने सूपायनो भव । सचस्वा नः स्वस्तये
वायव् आ याहि दर्शतेमे सोमा अरꣳकृताः । तेषाम् पाहि श्रुधी हवम्
वाय उक्थेभिर् जरन्ते त्वाम् अच्छा जरितारः । सुतसोमा अहर्विदः
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे । उरूची सोमपीतये
इन्द्रवायू इमे सुता उप प्रयोभिर् आ गतम् । इन्दवो वाम् उशन्ति हि
वायव् इन्द्रश् च चेतथः सुतानाꣳ वाजिनीवसू । ताव् आ यातम् उप द्रवत्
वायव् इन्द्रश् च सुन्वत आ यातम् उप निष्कृतम् । मक्ष्व् इ१त्था धिया नरा
मित्रꣳ हुवे पूतदक्षꣳ वरुणꣳ च रिशादसम् । धियꣳ घृताचीꣳ साधन्ता
ऋतेन मित्रावरुणाव् ऋतावृधाव् ऋतस्पृशा । क्रतुम् बृहन्तम् आशाथे
कवी नो मित्रावरुणा तुविजाता उरुक्षया । दक्षꣳ दधाते अपसम्
अश्विना यज्वरीर् इषो द्रवत्पाणी शुभस् पती । पुरुभुजा चनस्यतम्
अश्विना पुरुदꣳससा नरा शवीरया धिया । धिष्ण्या वनतꣳ गिरः
दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः । आ यातꣳ रुद्रवर्तनी
इन्द्रा याहि चित्रभानो सुता इमे त्वायवः । अण्वीभिस् तना पूतासः
इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः । उप ब्रह्माणि वाघतः
इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः । सुते दधिष्व नश् चनः
ओमासश् चर्षणीधृतो विश्वे देवास आ गत । दाश्वाꣳसो दाशुषः सुतम्
विश्वे देवासो अप्तुरः सुतम् आ गन्त तूर्णयः । उस्रा इव स्वसराणि
विश्वे देवासो अस्रिध एहिमायासो अद्रुहः । मेधꣳ जुषन्त वह्नयः
पावका नः सरस्वती वाजेभिर् वाजिनीवती । यज्ञꣳ वष्टु धियावसुः
चोदयित्री सूनृतानाꣳ चेतन्ती सुमतीनाम् । यज्ञꣳ दधे सरस्वती
महो अर्णः सरस्वती प्र चेतयति केतुना । धियो विश्वा वि राजति
सुरूपकृत्नुम् ऊतये सुदुघाम् इव गोदुहे । जुहूमसि द्यवि-द्यवि
उप नः सवना गहि सोमस्य सोमपाः पिब । गोदा इद् रेवतो मदः
अथा ते अन्तमानाꣳ विद्याम सुमतीनाम् । मा नो अति ख्य आ गहि
परेहि विग्रम् अस्तृतम् इन्द्रम् पृच्छा विपश्चितम् । यस् ते सखिभ्य आ वरम्
उत ब्रुवन्तु नो निदो निर् अन्यतश् चिद् आरत । दधाना इन्द्र इद् दुवः
उत नः सुभगाꣳ अरिर् वोचेयुर् दस्म कृष्टयः । स्यामेद् इन्द्रस्य शर्मणि
एम् आशुम् आशवे भर यज्ञश्रियꣳ नृमादनम् । पतयन् मन्दयत्सखम्
अस्य पीत्वा शतक्रतो घनो वृत्राणाम् अभवः । प्रावो वाजेषु वाजिनम्
तꣳ त्वा वाजेषु वाजिनꣳ वाजयामः शतक्रतो । धनानाम् इन्द्र सातये
यो रायो३ ऽवनिर् महान् सुपारः सुन्वतः सखा । तस्मा इन्द्राय गायत
आ त्व् एता नि षीदतेन्द्रम् अभि प्र गायत । सखायः स्तोमवाहसः
पुरूतमम् पुरूणाम् ईशानꣳ वार्याणाम् । इन्द्रꣳ सोमे सचा सुते
स घा नो योग आ भुवत् स राये स पुरꣳध्याम् । गमद् वाजेभिर् आ स नः
यस्य सꣳस्थे न वृण्वते हरी समत्सु शत्रवः । तस्मा इन्द्राय गायत
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये । सोमासो दध्याशिरः
त्वꣳ सुतस्य पीतये सद्यो वृद्धो अजायथाः । इन्द्र ज्यैष्ठ्याय सुक्रतो
आ त्वा विशन्त्व् आशवः सोमास इन्द्र गिर्वणः । शꣳ ते सन्तु प्रचेतसे
त्वाꣳ स्तोमा अवीवृधन् त्वाम् उक्था शतक्रतो । त्वाꣳ वर्धन्तु नो गिरः
अक्षितोतिः सनेद् इमꣳ वाजम् इन्द्रः सहस्रिणम् । यस्मिन् विश्वानि पौꣳस्या
मा नो मर्ता अभि द्रुहन् तनूनाम् इन्द्र गिर्वणः । ईशानो यवया वधम्
युञ्जन्ति ब्रध्नम् अरुषꣳ चरन्तम् परि तस्थुषः । रोचन्ते रोचना दिवि
युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे । शोणा धृष्णू नृवाहसा
केतुꣳ कृण्वन्न् अकेतवे पेशो मर्या अपेशसे । सम् उषद्भिर् अजायथाः
आद् अह स्वधाम् अनु पुनर् गर्भत्वम् एरिरे । दधाना नाम यज्ञियम्
वीळु चिद् आरुजत्नुभिर् गुहा चिद् इन्द्र वह्निभिः । अविन्द उस्रिया अनु
देवयन्तो यथा मतिम् अच्छा विदद्वसुꣳ गिरः । महाम् अनूषत श्रुतम्
इन्द्रेण सꣳ हि दृक्षसे सꣳजग्मानो अबिभ्युषा । मन्दू समानवर्चसा
अनवद्यैर् अभिद्युभिर् मखः सहस्वद् अर्चति । गणैर् इन्द्रस्य काम्यैः
अतः परिज्मन्न् आ गहि दिवो वा रोचनाद् अधि । सम् अस्मिन्न् ऋञ्जते गिरः
इतो वा सातिम् ईमहे दिवो वा पार्थिवाद् अधि । इन्द्रम् महो वा रजसः
इन्द्रम् इद् गाथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः । इन्द्रꣳ वाणीर् अनूषत
इन्द्र इद् धर्योः सचा सम्मिश्ल आ वचोयुजा । इन्द्रो वज्री हिरण्ययः
इन्द्रो दीर्घाय चक्षस आ सूर्यꣳ रोहयद् दिवि । वि गोभिर् अद्रिम् ऐरयत्
इन्द्र वाजेषु नो ऽव सहस्रप्रधनेषु च । उग्र उग्राभिर् ऊतिभिः
इन्द्रꣳ वयम् महाधन इन्द्रम् अर्भे हवामहे । युजꣳ वृत्रेषु वज्रिणम्
स नो वृषन्न् अमुꣳ चरुꣳ सत्रादावन्न् अपा वृधि । अस्मभ्यम् अप्रतिष्कुतः
तुञ्जे-तुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः । न विन्धे अस्य सुष्टुतिम्
वृषा यूथेव वꣳसगः कृष्टीर् इयर्त्य् ओजसा । ईशानो अप्रतिष्कुतः
य एकश् चर्षणीनाꣳ वसूनाम् इरज्यति । इन्द्रः पञ्च क्षितीनाम्
इन्द्रꣳ वो विश्वतस् परि हवामहे जनेभ्यः । अस्माकम् अस्तु केवलः
एन्द्र सानसिꣳ रयिꣳ सजित्वानꣳ सदासहम् । वर्षिष्ठम् ऊतये भर
नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै । त्वोतासो न्य् अर्वता
इन्द्र त्वोतास आ वयꣳ वज्रꣳ घना ददीमहि । जयेम सꣳ युधि स्पृधः
वयꣳ शूरेभिर् अस्तृभिर् इन्द्र त्वया युजा वयम् । सासह्याम पृतन्यतः
महाꣳ इन्द्रः परश् च नु महित्वम् अस्तु वज्रिणे । द्यौर् न प्रथिना शवः
समोहे वा य आशत नरस् तोकस्य सनितौ । विप्रासो वा धियायवः
यः कुक्षिः सोमपातमः समुद्र इव पिन्वते । उर्वीर् आपो न काकुदः
एवा ह्य् अस्य सूनृता विरप्शी गोमती मही । पक्वा शाखा न दाशुषे
एवा हि ते विभूतय ऊतय इन्द्र मावते । सद्यश् चित् सन्ति दाशुषे
एवा ह्य् अस्य काम्या स्तोम उक्थꣳ च शꣳस्या । इन्द्राय सोमपीतये
इन्द्रेहि मत्स्य् अन्धसो विश्वेभिः सोमपर्वभिः । महाꣳ अभिष्टिर् ओजसा
एम् एनꣳ सृजता सुते मन्दिम् इन्द्राय मन्दिने । चक्रिꣳ विश्वानि चक्रये
मत्स्वा सुशिप्र मन्दिभिः स्तोमेभिर् विश्वचर्षणे । सचैषु सवनेष्व् आ
असृग्रम् इन्द्र ते गिरः प्रति त्वाम् उद् अहासत । अजोषा वृषभम् पतिम्
सꣳ चोदय चित्रम् अर्वाग् राध इन्द्र वरेण्यम् । असद् इत् ते विभु प्रभु
अस्मान् सु तत्र चोदयेन्द्र राये रभस्वतः । तुविद्युम्न यशस्वतः
सꣳ गोमद् इन्द्र वाजवद् अस्मे पृथु श्रवो बृहत् । विश्वायुर् धेह्य् अक्षितम्
अस्मे धेहि श्रवो बृहद् द्युम्नꣳ सहस्रसातमम् । इन्द्र ता रथिनीर् इषः
वसोर् इन्द्रꣳ वसुपतिꣳ गीर्भिर् गृणन्त ऋग्मियम् । होम गन्तारम् ऊतये
सुते-सुते न्योकसे बृहद् बृहत एद् अरिः । इन्द्राय शूषम् अर्चति
गायन्ति त्वा गायत्रिणो ऽर्चन्त्य् अर्कम् अर्किणः । ब्रह्माणस् त्वा शतक्रत उद् वꣳशम् इव येमिरे
यत् सानोः सानुम् आरुहद् भूर्य् अस्पष्ट कर्त्वम् । तद् इन्द्रो अर्थꣳ चेतति यूथेन वृष्णिर् एजति
युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । अथा न इन्द्र सोमपा गिराम् उपश्रुतिꣳ चर
एहि स्तोमाꣳ अभि स्वराभि गृणीह्य् आ रुव । ब्रह्म च नो वसो सचेन्द्र यज्ञꣳ च वर्धय
उक्थम् इन्द्राय शꣳस्यꣳ वर्धनम् पुरुनिष्षिधे । शक्रो यथा सुतेषु णो रारणत् सख्येषु च
तम् इत् सखित्व ईमहे तꣳ राये तꣳ सुवीर्ये । स शक्र उत नः शकद् इन्द्रो वसु दयमानः
सुविवृतꣳ सुनिरजम् इन्द्र त्वादातम् इद् यशः । गवाम् अप व्रजꣳ वृधि कृणुष्व राधो अद्रिवः
नहि त्वा रोदसी उभे ऋघायमाणम् इन्वतः । जेषः स्वर्वतीर् अपः सꣳ गा अस्मभ्यꣳ धूनुहि
आश्रुत्कर्ण श्रुधी हवꣳ नू चिद् दधिष्व मे गिरः । इन्द्र स्तोमम् इमम् मम कृष्वा युजश् चिद् अन्तरम्
विद्मा हि त्वा वृषन्तमꣳ वाजेषु हवनश्रुतम् । वृषन्तमस्य हूमह ऊतिꣳ सहस्रसातमाम्
आ तू न इन्द्र कौशिक मन्दसानः सुतम् पिब । नव्यम् आयुः प्र सू तिर कृधी सहस्रसाम् ऋषिम्
परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः । वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः
इन्द्रꣳ विश्वा अवीवृधन् समुद्रव्यचसꣳ गिरः । रथीतमꣳ रथीनाꣳ वाजानाꣳ सत्पतिम् पतिम्
सख्ये त इन्द्र वाजिनो मा भेम शवसस् पते । त्वाम् अभि प्र णोनुमो जेतारम् अपराजितम्
पूर्वीर् इन्द्रस्य रातयो न वि दस्यन्त्य् ऊतयः । यदी वाजस्य गोमतः स्तोतृभ्यो मꣳहते मघम्
पुराम् भिन्दुर् युवा कविर् अमितौजा अजायत । इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः
त्वꣳ वलस्य गोमतो ऽपावर् अद्रिवो बिलम् । त्वाꣳ देवा अबिभ्युषस् तुज्यमानास आविषुः
तवाहꣳ शूर रातिभिः प्रत्य् आयꣳ सिन्धुम् आवदन् । उपातिष्ठन्त गिर्वणो विदुष् टे तस्य कारवः
मायाभिर् इन्द्र मायिनꣳ त्वꣳ शुष्णम् अवातिरः । विदुष् टे तस्य मेधिरास् तेषाꣳ श्रवाꣳस्य् उत् तिर
इन्द्रम् ईशानम् ओजसाभि स्तोमा अनूषत । सहस्रꣳ यस्य रातय उत वा सन्ति भूयसीः
अग्निꣳ दूतꣳ वृणीमहे होतारꣳ विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम्
अग्निम्-अग्निꣳ हवीमभिः सदा हवन्त विश्पतिम् । हव्यवाहम् पुरुप्रियम्
अग्ने देवाꣳ इहा वह जज्ञानो वृक्तबर्हिषे । असि होता न ईड्यः
ताꣳ उशतो वि बोधय यद् अग्ने यासि दूत्यम् । देवैर् आ सत्सि बर्हिषि
घृताहवन दीदिवः प्रति ष्म रिषतो दह । अग्ने त्वꣳ रक्षस्विनः
अग्निनाग्निः सम् इध्यते कविर् गृहपतिर् युवा । हव्यवाड् जुह्वास्यः
कविम् अग्निम् उप स्तुहि सत्यधर्माणम् अध्वरे । देवम् अमीवचातनम्
यस् त्वाम् अग्ने हविष्पतिर् दूतꣳ देव सपर्यति । तस्य स्म प्राविता भव
यो अग्निꣳ देववीतये हविष्माꣳ आविवासति । तस्मै पावक मृळय
स नः पावक दीदिवो ऽग्ने देवाꣳ इहा वह । उप यज्ञꣳ हविश् च नः
स नः स्तवान आ भर गायत्रेण नवीयसा । रयिꣳ वीरवतीम् इषम्
अग्ने शुक्रेण शोचिषा विश्वाभिर् देवहूतिभिः । इमꣳ स्तोमꣳ जुषस्व नः
सुसमिद्धो न आ वह देवाꣳ अग्ने हविष्मते । होतः पावक यक्षि च
मधुमन्तꣳ तनूनपाद् यज्ञꣳ देवेषु नः कवे । अद्या कृणुहि वीतये
नराशꣳसम् इह प्रियम् अस्मिन् यज्ञ उप ह्वये । मधुजिह्वꣳ हविष्कृतम्
अग्ने सुखतमे रथे देवाꣳ ईळित आ वह । असि होता मनुर्हितः
स्तृणीत बर्हिर् आनुषग् घृतपृष्ठम् मनीषिणः । यत्रामृतस्य चक्षणम्
वि श्रयन्ताम् ऋतावृधो द्वारो देवीर् असश्चतः । अद्या नूनꣳ च यष्टवे
नक्तोषासा सुपेशसास्मिन् यज्ञ उप ह्वये । इदꣳ नो बर्हिर् आसदे
ता सुजिह्वा उप ह्वये होतारा दैव्या कवी । यज्ञꣳ नो यक्षताम् इमम्
इळा सरस्वती मही तिस्रो देवीर् मयोभुवः । बर्हिः सीदन्त्व् अस्रिधः
इह त्वष्टारम् अग्रियꣳ विश्वरूपम् उप ह्वये । अस्माकम् अस्तु केवलः
अव सृजा वनस्पते देव देवेभ्यो हविः । प्र दातुर् अस्तु चेतनम्
स्वाहा यज्ञꣳ कृणोतनेन्द्राय यज्वनो गृहे । तत्र देवाꣳ उप ह्वये
ऐभिर् अग्ने दुवो गिरो विश्वेभिः सोमपीतये । देवेभिर् याहि यक्षि च
आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः । देवेभिर् अग्न आ गहि
इन्द्रवायू बृहस्पतिम् मित्राग्निम् पूषणम् भगम् । आदित्यान् मारुतꣳ गणम्
प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः । द्रप्सा मध्वश् चमूषदः
ईळते त्वाम् अवस्यवः कण्वासो वृक्तबर्हिषः । हविष्मन्तो अरꣳकृतः
घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः । आ देवान् सोमपीतये
तान् यजत्राꣳ ऋतावृधो ऽग्ने पत्नीवतस् कृधि । मध्वः सुजिह्व पायय
ये यजत्रा य ईड्यास् ते ते पिबन्तु जिह्वया । मधोर् अग्ने वषट्कृति
आकीꣳ सूर्यस्य रोचनाद् विश्वान् देवाꣳ उषर्बुधः । विप्रो होतेह वक्षति
विश्वेभिः सोम्यम् मध्व् अग्न इन्द्रेण वायुना । पिबा मित्रस्य धामभिः
त्वꣳ होता मनुर्हितो ऽग्ने यज्ञेषु सीदसि । सेमꣳ नो अध्वरꣳ यज
युक्ष्वा ह्य् अरुषी रथे हरितो देव रोहितः । ताभिर् देवाꣳ इहा वह
इन्द्र सोमम् पिब ऋतुना त्वा विशन्त्व् इन्दवः । मत्सरासस् तदोकसः
मरुतः पिबत ऋतुना पोत्राद् यज्ञम् पुनीतन । यूयꣳ हि ष्ठा सुदानवः
अभि यज्ञꣳ गृणीहि नो ग्नावो नेष्टः पिब ऋतुना । त्वꣳ हि रत्नधा असि
अग्ने देवाꣳ इहा वह सादया योनिषु त्रिषु । परि भूष पिब ऋतुना
ब्राह्मणाद् इन्द्र राधसः पिबा सोमम् ऋतूꣳर् अनु । तवेद् धि सख्यम् अस्तृतम्
युवꣳ दक्षꣳ धृतव्रत मित्रावरुण दूळभम् । ऋतुना यज्ञम् आशाथे
द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे । यज्ञेषु देवम् ईळते
द्रविणोदा ददातु नो वसूनि यानि शृण्विरे । देवेषु ता वनामहे
द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत । नेष्ट्राद् ऋतुभिर् इष्यत
यत् त्वा तुरीयम् ऋतुभिर् द्रविणोदो यजामहे । अध स्मा नो ददिर् भव
अश्विना पिबतम् मधु दीद्यग्नी शुचिव्रता । ऋतुना यज्ञवाहसा
गार्हपत्येन सन्त्य ऋतुना यज्ञनीर् असि । देवान् देवयते यज
आ त्वा वहन्तु हरयो वृषणꣳ सोमपीतये । इन्द्र त्वा सूरचक्षसः
इमा धाना घृतस्नुवो हरी इहोप वक्षतः । इन्द्रꣳ सुखतमे रथे
इन्द्रम् प्रातर् हवामह इन्द्रम् प्रयत्य् अध्वरे । इन्द्रꣳ सोमस्य पीतये
उप नः सुतम् आ गहि हरिभिर् इन्द्र केशिभिः । सुते हि त्वा हवामहे
सेमꣳ नः स्तोमम् आ गह्य् उपेदꣳ सवनꣳ सुतम् । गौरो न तृषितः पिब
इमे सोमास इन्दवः सुतासो अधि बर्हिषि । ताꣳ इन्द्र सहसे पिब
अयꣳ ते स्तोमो अग्रियो हृदिस्पृग् अस्तु शꣳतमः । अथा सोमꣳ सुतम् पिब
विश्वम् इत् सवनꣳ सुतम् इन्द्रो मदाय गच्छति । वृत्रहा सोमपीतये
सेमꣳ नः कामम् आ पृण गोभिर् अश्वैः शतक्रतो । स्तवाम त्वा स्वाध्यः
इन्द्रावरुणयोर् अहꣳ सम्राजोर् अव आ वृणे । ता नो मृळात ईदृशे
गन्तारा हि स्थो ऽवसे हवꣳ विप्रस्य मावतः । धर्तारा चर्षणीनाम्
अनुकामꣳ तर्पयेथाम् इन्द्रावरुण राय आ । ता वाꣳ नेदिष्ठम् ईमहे
युवाकु हि शचीनाꣳ युवाकु सुमतीनाम् । भूयाम वाजदाव्नाम्
इन्द्रः सहस्रदाव्नाꣳ वरुणः शꣳस्यानाम् । क्रतुर् भवत्य् उक्थ्यः
तयोर् इद् अवसा वयꣳ सनेम नि च धीमहि । स्याद् उत प्ररेचनम्
इन्द्रावरुण वाम् अहꣳ हुवे चित्राय राधसे । अस्मान् सु जिग्युषस् कृतम्
इन्द्रावरुण नू नु वाꣳ सिषासन्तीषु धीष्व् आ । अस्मभ्यꣳ शर्म यच्छतम्
प्र वाम् अश्नोतु सुष्टुतिर् इन्द्रावरुण याꣳ हुवे । याम् ऋधाथे सधस्तुतिम्
सोमानꣳ स्वरणꣳ कृणुहि ब्रह्मणस् पते । कक्षीवन्तꣳ य औशिजः
यो रेवान् यो अमीवहा वसुवित् पुष्टिवर्धनः । स नः सिषक्तु यस् तुरः
मा नः शꣳसो अररुषो धूर्तिः प्रणङ् मर्त्यस्य । रक्षा णो ब्रह्मणस् पते
स घा वीरो न रिष्यति यम् इन्द्रो ब्रह्मणस् पतिः । सोमो हिनोति मर्त्यम्
त्वꣳ तम् ब्रह्मणस् पते सोम इन्द्रश् च मर्त्यम् । दक्षिणा पात्व् अꣳहसः
सदसस् पतिम् अद्भुतम् प्रियम् इन्द्रस्य काम्यम् । सनिम् मेधाम् अयासिषम्
यस्माद् ऋते न सिध्यति यज्ञो विपश्चितश् चन । स धीनाꣳ योगम् इन्वति
आद् ऋध्नोति हविष्कृतिम् प्राञ्चꣳ कृणोत्य् अध्वरम् । होत्रा देवेषु गच्छति
नराशꣳसꣳ सुधृष्टमम् अपश्यꣳ सप्रथस्तमम् । दिवो न सद्ममखसम्
प्रति त्यꣳ चारुम् अध्वरꣳ गोपीथाय प्र हूयसे । मरुद्भिर् अग्न आ गहि
नहि देवो न मर्त्यो महस् तव क्रतुम् परः । मरुद्भिर् अग्न आ गहि
ये महो रजसो विदुर् विश्वे देवासो अद्रुहः । मरुद्भिर् अग्न आ गहि
य उग्रा अर्कम् आनृचुर् अनाधृष्टास ओजसा । मरुद्भिर् अग्न आ गहि
ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः । मरुद्भिर् अग्न आ गहि
ये नाकस्याधि रोचने दिवि देवास आसते । मरुद्भिर् अग्न आ गहि
य ईङ्खयन्ति पर्वतान् तिरः समुद्रम् अर्णवम् । मरुद्भिर् अग्न आ गहि
आ ये तन्वन्ति रश्मिभिस् तिरः समुद्रम् ओजसा । मरुद्भिर् अग्न आ गहि
अभि त्वा पूर्वपीतये सृजामि सोम्यम् मधु । मरुद्भिर् अग्न आ गहि
अयꣳ देवाय जन्मने स्तोमो विप्रेभिर् आसया । अकारि रत्नधातमः
य इन्द्राय वचोयुजा ततक्षुर् मनसा हरी । शमीभिर् यज्ञम् आशत
तक्षन् नासत्याभ्याम् परिज्मानꣳ सुखꣳ रथम् । तक्षन् धेनुꣳ सबर्दुघाम्
युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः । ऋभवो विष्ट्य् अक्रत
सꣳ वो मदासो अग्मतेन्द्रेण च मरुत्वता । आदित्येभिश् च राजभिः
उत त्यꣳ चमसꣳ नवꣳ त्वष्टुर् देवस्य निष्कृतम् । अकर्त चतुरः पुनः
ते नो रत्नानि धत्तन त्रिर् आ साप्तानि सुन्वते । एकम्-एकꣳ सुशस्तिभिः
अधारयन्त वह्नयो ऽभजन्त सुकृत्यया । भागꣳ देवेषु यज्ञियम्
इहेन्द्राग्नी उप ह्वये तयोर् इत् स्तोमम् उश्मसि । ता सोमꣳ सोमपातमा
ता यज्ञेषु प्र शꣳसतेन्द्राग्नी शुम्भता नरः । ता गायत्रेषु गायत
ता मित्रस्य प्रशस्तय इन्द्राग्नी ता हवामहे । सोमपा सोमपीतये
उग्रा सन्ता हवामह उपेदꣳ सवनꣳ सुतम् । इन्द्राग्नी एह गच्छताम्
ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम् । अप्रजाः सन्त्व् अत्रिणः
तेन सत्येन जागृतम् अधि प्रचेतुने पदे । इन्द्राग्नी शर्म यच्छतम्
प्रातर्युजा वि बोधयाश्विनाव् एह गच्छताम् । अस्य सोमस्य पीतये
या सुरथा रथीतमोभा देवा दिविस्पृशा । अश्विना ता हवामहे
या वाꣳ कशा मधुमत्य् अश्विना सूनृतावती । तया यज्ञम् मिमिक्षतम्
नहि वाम् अस्ति दूरके यत्रा रथेन गच्छथः । अश्विना सोमिनो गृहम्
हिरण्यपाणिम् ऊतये सवितारम् उप ह्वये । स चेत्ता देवता पदम्
अपाꣳ नपातम् अवसे सवितारम् उप स्तुहि । तस्य व्रतान्य् उश्मसि
विभक्तारꣳ हवामहे वसोश् चित्रस्य राधसः । सवितारꣳ नृचक्षसम्
सखाय आ नि षीदत सविता स्तोम्यो नु नः । दाता राधाꣳसि शुम्भति
अग्ने पत्नीर् इहा वह देवानाम् उशतीर् उप । त्वष्टारꣳ सोमपीतये
आ ग्ना अग्न इहावसे होत्राꣳ यविष्ठ भारतीम् । वरूत्रीꣳ धिषणाꣳ वह
अभि नो देवीर् अवसा महः शर्मणा नृपत्नीः । अच्छिन्नपत्राः सचन्ताम्
इहेन्द्राणीम् उप ह्वये वरुणानीꣳ स्वस्तये । अग्नायीꣳ सोमपीतये
मही द्यौः पृथिवी च न इमꣳ यज्ञम् मिमिक्षताम् । पिपृताꣳ नो भरीमभिः
तयोर् इद् घृतवत् पयो विप्रा रिहन्ति धीतिभिः । गन्धर्वस्य ध्रुवे पदे
स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथः
अतो देवा अवन्तु नो यतो विष्णुर् विचक्रमे । पृथिव्याः सप्त धामभिः
इदꣳ विष्णुर् वि चक्रमे त्रेधा नि दधे पदम् । समूळ्हम् अस्य पाꣳसुरे
त्रीणि पदा वि चक्रमे विष्णुर् गोपा अदाभ्यः । अतो धर्माणि धारयन्
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा
तद् विष्णोः परमम् पदꣳ सदा पश्यन्ति सूरयः । दिवीव चक्षुर् आततम्
तद् विप्रासो विपन्यवो जागृवाꣳसः सम् इन्धते । विष्णोर् यत् परमम् पदम्
तीव्राः सोमास आ गह्य् आशीर्वन्तः सुता इमे । वायो तान् प्रस्थितान् पिब
उभा देवा दिविस्पृशेन्द्रवायू हवामहे । अस्य सोमस्य पीतये
इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये । सहस्राक्षा धियस् पती
मित्रꣳ वयꣳ हवामहे वरुणꣳ सोमपीतये । जज्ञाना पूतदक्षसा
ऋतेन याव् ऋतावृधाव् ऋतस्य ज्योतिषस् पती । ता मित्रावरुणा हुवे
वरुणः प्राविता भुवन् मित्रो विश्वाभिर् ऊतिभिः । करताꣳ नः सुराधसः
मरुत्वन्तꣳ हवामह इन्द्रम् आ सोमपीतये । सजूर् गणेन तृम्पतु
इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः । विश्वे मम श्रुता हवम्
हत वृत्रꣳ सुदानव इन्द्रेण सहसा युजा । मा नो दुःशꣳस ईशत
विश्वान् देवान् हवामहे मरुतः सोमपीतये । उग्रा हि पृश्निमातरः
जयताम् इव तन्यतुर् मरुताम् एति धृष्णुया । यच् छुभꣳ याथना नरः
हस्काराद् विद्युतस् पर्य् अतो जाता अवन्तु नः । मरुतो मृळयन्तु नः
आ पूषञ् चित्रबर्हिषम् आघृणे धरुणꣳ दिवः । आजा नष्टꣳ यथा पशुम्
पूषा राजानम् आघृणिर् अपगूळ्हꣳ गुहा हितम् । अविन्दच् चित्रबर्हिषम्
उतो स मह्यम् इन्दुभिः षड् युक्ताꣳ अनुसेषिधत् । गोभिर् यवꣳ न चर्कृषत्
अम्बयो यन्त्य् अध्वभिर् जामयो अध्वरीयताम् । पृञ्चतीर् मधुना पयः
अमूर् या उप सूर्ये याभिर् वा सूर्यः सह । ता नो हिन्वन्त्व् अध्वरम्
अपो देवीर् उप ह्वये यत्र गावः पिबन्ति नः । सिन्धुभ्यः कर्त्वꣳ हविः
अप्स्व् अ१न्तर् अमृतम् अप्सु भेषजम् अपाम् उत प्रशस्तये । देवा भवत वाजिनः
अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा । अग्निꣳ च विश्वशम्भुवम् आपश् च विश्वभेषजीः
आपः पृणीत भेषजꣳ वरूथꣳ तन्वे३ मम । ज्योक् च सूर्यꣳ दृशे
इदम् आपः प्र वहत यत् किꣳ च दुरितम् मयि । यद् वाहम् अभिदुद्रोह यद् वा शेप उतानृतम्
आपो अद्यान्व् अचारिषꣳ रसेन सम् अगस्महि । पयस्वान् अग्न आ गहि तम् मा सꣳ सृज वर्चसा
सम् माग्ने वर्चसा सृज सम् प्रजया सम् आयुषा । विद्युर् मे अस्य देवा इन्द्रो विद्यात् सह ऋषिभिः
कस्य नूनꣳ कतमस्यामृतानाम् मनामहे चारु देवस्य नाम । को नो मह्या अदितये पुनर् दात् पितरꣳ च दृशेयम् मातरꣳ च
अग्नेर् वयम् प्रथमस्यामृतानाम् मनामहे चारु देवस्य नाम । स नो मह्या अदितये पुनर् दात् पितरꣳ च दृशेयम् मातरꣳ च
अभि त्वा देव सवितर् ईशानꣳ वार्याणाम् । सदावन् भागम् ईमहे
यश् चिद् धि त इत्था भगः शशमानः पुरा निदः । अद्वेषो हस्तयोर् दधे
भगभक्तस्य ते वयम् उद् अशेम तवावसा । मूर्धानꣳ राय आरभे
नहि ते क्षत्रꣳ न सहो न मन्युꣳ वयश् चनामी पतयन्त आपुः । नेमा आपो अनिमिषꣳ चरन्तीर् न ये वातस्य प्रमिनन्त्य् अभ्वम्
अबुध्ने राजा वरुणो वनस्योर्ध्वꣳ स्तूपꣳ ददते पूतदक्षः । नीचीनाः स्थुर् उपरि बुध्न एषाम् अस्मे अन्तर् निहिताः केतवः स्युः
उरुꣳ हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा उ । अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित्
शतꣳ ते राजन् भिषजः सहस्रम् उर्वी गभीरा सुमतिष् टे अस्तु । बाधस्व दूरे निरृतिम् पराचैः कृतꣳ चिद् एनः प्र मुमुग्ध्य् अस्मत्
अमी य ऋक्षा निहितास उच्चा नक्तꣳ ददृश्रे कुह चिद् दिवेयुः । अदब्धानि वरुणस्य व्रतानि विचाकशच् चन्द्रमा नक्तम् एति
तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः । अहेळमानो वरुणेह बोध्य् उरुशꣳस मा न आयुः प्र मोषीः
तद् इन् नक्तꣳ तद् दिवा मह्यम् आहुस् तद् अयꣳ केतो हृद आ वि चष्टे । शुनःशेपो यम् अह्वद् गृभीतः सो अस्मान् राजा वरुणो मुमोक्तु
शुनःशेपो ह्य् अह्वद् गृभीतस् त्रिष्व् आदित्यꣳ द्रुपदेषु बद्धः । अवैनꣳ राजा वरुणः ससृज्याद् विद्वाꣳ अदब्धो वि मुमोक्तु पाशान्
अव ते हेळो वरुण नमोभिर् अव यज्ञेभिर् ईमहे हविर्भिः । क्षयन्न् अस्मभ्यम् असुर प्रचेता राजन्न् एनाꣳसि शिश्रथः कृतानि
उद् उत्तमꣳ वरुण पाशम् अस्मद् अवाधमꣳ वि मध्यमꣳ श्रथाय । अथा वयम् आदित्य व्रते तवानागसो अदितये स्याम
यच् चिद् धि ते विशो यथा प्र देव वरुण व्रतम् । मिनीमसि द्यवि-द्यवि
मा नो वधाय हत्नवे जिहीळानस्य रीरधः । मा हृणानस्य मन्यवे
वि मृळीकाय ते मनो रथीर् अश्वꣳ न सꣳदितम् । गीर्भिर् वरुण सीमहि
परा हि मे विमन्यवः पतन्ति वस्यईष्टये । वयो न वसतीर् उप
कदा क्षत्रश्रियꣳ नरम् आ वरुणꣳ करामहे । मृळीकायोरुचक्षसम्
तद् इत् समानम् आशाते वेनन्ता न प्र युच्छतः । धृतव्रताय दाशुषे
वेदा यो वीनाम् पदम् अन्तरिक्षेण पतताम् । वेद नावः समुद्रियः
वेद मासो धृतव्रतो द्वादश प्रजावतः । वेदा य उपजायते
वेद वातस्य वर्तनिम् उरोर् ऋष्वस्य बृहतः । वेदा ये अध्यासते
नि षसाद धृतव्रतो वरुणः पस्त्या३स्व् आ । साम्राज्याय सुक्रतुः
अतो विश्वान्य् अद्भुता चिकित्वाꣳ अभि पश्यति । कृतानि या च कर्त्वा
स नो विश्वाहा सुक्रतुर् आदित्यः सुपथा करत् । प्र ण आयूꣳषि तारिषत्
बिभ्रद् द्रापिꣳ हिरण्ययꣳ वरुणो वस्त निर्णिजम् । परि स्पशो नि षेदिरे
न यꣳ दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् । न देवम् अभिमातयः
उत यो मानुषेष्व् आ यशश् चक्रे असाम्य् आ । अस्माकम् उदरेष्व् आ
परा मे यन्ति धीतयो गावो न गव्यूतीर् अनु । इच्छन्तीर् उरुचक्षसम्
सꣳ नु वोचावहै पुनर् यतो मे मध्व् आभृतम् । होतेव क्षदसे प्रियम्
दर्शꣳ नु विश्वदर्शतꣳ दर्शꣳ रथम् अधि क्षमि । एता जुषत मे गिरः
इमम् मे वरुण श्रुधी हवम् अद्या च मृळय । त्वाम् अवस्युर् आ चके
त्वꣳ विश्वस्य मेधिर दिवश् च ग्मश् च राजसि । स यामनि प्रति श्रुधि
उद् उत्तमम् मुमुग्धि नो वि पाशम् मध्यमꣳ चृत । अवाधमानि जीवसे
वसिष्वा हि मियेध्य वस्त्राण्य् ऊर्जाम् पते । सेमꣳ नो अध्वरꣳ यज
नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः । अग्ने दिवित्मता वचः
आ हि ष्मा सूनवे पितापिर् यजत्य् आपये । सखा सख्ये वरेण्यः
आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा । सीदन्तु मनुषो यथा
पूर्व्य होतर् अस्य नो मन्दस्व सख्यस्य च । इमा उ षु श्रुधी गिरः
यच् चिद् धि शश्वता तना देवꣳ-देवꣳ यजामहे । त्वे इद् धूयते हविः
प्रियो नो अस्तु विश्पतिर् होता मन्द्रो वरेण्यः । प्रियाः स्वग्नयो वयम्
स्वग्नयो हि वार्यꣳ देवासो दधिरे च नः । स्वग्नयो मनामहे
अथा न उभयेषाम् अमृत मर्त्यानाम् । मिथः सन्तु प्रशस्तयः
विश्वेभिर् अग्ने अग्निभिर् इमꣳ यज्ञम् इदꣳ वचः । चनो धाः सहसो यहो
अश्वꣳ न त्वा वारवन्तꣳ वन्दध्या अग्निꣳ नमोभिः । सम्राजन्तम् अध्वराणाम्
स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः । मीढ्वाꣳ अस्माकम् बभूयात्
स नो दूराच् चासाच् च नि मर्त्याद् अघायोः । पाहि सदम् इद् विश्वायुः
इमम् ऊ षु त्वम् अस्माकꣳ सनिꣳ गायत्रꣳ नव्याꣳसम् । अग्ने देवेषु प्र वोचः
आ नो भज परमेष्व् आ वाजेषु मध्यमेषु । शिक्षा वस्वो अन्तमस्य
विभक्तासि चित्रभानो सिन्धोर् ऊर्मा उपाक आ । सद्यो दाशुषे क्षरसि
यम् अग्ने पृत्सु मर्त्यम् अवा वाजेषु यꣳ जुनाः । स यन्ता शश्वतीर् इषः
नकिर् अस्य सहन्त्य पर्येता कयस्य चित् । वाजो अस्ति श्रवाय्यः
स वाजꣳ विश्वचर्षणिर् अर्वद्भिर् अस्तु तरुता । विप्रेभिर् अस्तु सनिता
जराबोध तद् विविड्ढि विशे-विशे यज्ञियाय । स्तोमꣳ रुद्राय दृशीकम्
स नो महाꣳ अनिमानो धूमकेतुः पुरुश्चन्द्रः । धिये वाजाय हिन्वतु
स रेवाꣳ इव विश्पतिर् दैव्यः केतुः शृणोतु नः । उक्थैर् अग्निर् बृहद्भानुः
नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः । यजाम देवान् यदि शक्नवाम मा ज्यायसः शꣳसम् आ वृक्षि देवाः
यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे । उलूखलसुतानाम् अवेद् व् इन्द्र जल्गुलः
यत्र द्वाव् इव जघनाधिषवण्या कृता । उलूखलसुतानाम् अवेद् व् इन्द्र जल्गुलः
यत्र नार्य् अपच्यवम् उपच्यवꣳ च शिक्षते । उलूखलसुतानाम् अवेद् व् इन्द्र जल्गुलः
यत्र मन्थाꣳ विबध्नते रश्मीन् यमितवा इव । उलूखलसुतानाम् अवेद् व् इन्द्र जल्गुलः
यच् चिद् धि त्वꣳ गृहे-गृह उलूखलक युज्यसे । इह द्युमत्तमꣳ वद जयताम् इव दुन्दुभिः
उत स्म ते वनस्पते वातो वि वात्य् अग्रम् इत् । अथो इन्द्राय पातवे सुनु सोमम् उलूखल
आयजी वाजसातमा ता ह्य् उ१च्चा विजर्भृतः । हरी इवान्धाꣳसि बप्सता
ता नो अद्य वनस्पती ऋष्वाव् ऋष्वेभिः सोतृभिः । इन्द्राय मधुमत् सुतम्
उच् छिष्टꣳ चम्वोर् भर सोमम् पवित्र आ सृज । नि धेहि गोर् अधि त्वचि
यच् चिद् धि सत्य सोमपा अनाशस्ता इव स्मसि । आ तू न इन्द्र शꣳसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ
शिप्रिन् वाजानाम् पते शचीवस् तव दꣳसना । आ तू न इन्द्र शꣳसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ
नि ष्वापया मिथूदृशा सस्ताम् अबुध्यमाने । आ तू न इन्द्र शꣳसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ
ससन्तु त्या अरातयो बोधन्तु शूर रातयः । आ तू न इन्द्र शꣳसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ
सम् इन्द्र गर्दभम् मृण नुवन्तम् पापयामुया । आ तू न इन्द्र शꣳसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ
पताति कुण्डृणाच्या दूरꣳ वातो वनाद् अधि । आ तू न इन्द्र शꣳसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ
सर्वम् परिक्रोशꣳ जहि जम्भया कृकदाश्वम् । आ तू न इन्द्र शꣳसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ
आ व इन्द्रꣳ क्रिविꣳ यथा वाजयन्तः शतक्रतुम् । मꣳहिष्ठꣳ सिञ्च इन्दुभिः
शतꣳ वा यः शुचीनाꣳ सहस्रꣳ वा समाशिराम् । एद् उ निम्नꣳ न रीयते
सꣳ यन् मदाय शुष्मिण एना ह्य् अस्योदरे । समुद्रो न व्यचो दधे
अयम् उ ते सम् अतसि कपोत इव गर्भधिम् । वचस् तच् चिन् न ओहसे
स्तोत्रꣳ राधानाम् पते गिर्वाहो वीर यस्य ते । विभूतिर् अस्तु सूनृता
ऊर्ध्वस् तिष्ठा न ऊतये ऽस्मिन् वाजे शतक्रतो । सम् अन्येषु ब्रवावहै
योगे-योगे तवस्तरꣳ वाजे-वाजे हवामहे । सखाय इन्द्रम् ऊतये
आ घा गमद् यदि श्रवत् सहस्रिणीभिर् ऊतिभिः । वाजेभिर् उप नो हवम्
अनु प्रत्नस्यौकसो हुवे तुविप्रतिꣳ नरम् । यꣳ ते पूर्वम् पिता हुवे
तꣳ त्वा वयꣳ विश्ववारा शास्महे पुरुहूत । सखे वसो जरितृभ्यः
अस्माकꣳ शिप्रिणीनाꣳ सोमपाः सोमपाव्नाम् । सखे वज्रिन् सखीनाम्
तथा तद् अस्तु सोमपाः सखे वज्रिन् तथा कृणु । यथा त उश्मसीष्टये
रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर् मदेम
आ घ त्वावान् त्मनाप्तः स्तोतृभ्यो धृष्णव् इयानः । ऋणोर् अक्षꣳ न चक्र्योः
आ यद् दुवः शतक्रतव् आ कामꣳ जरितॄणाम् । ऋणोर् अक्षꣳ न शचीभिः
शश्वद् इन्द्रः पोप्रुथद्भिर् जिगाय नानदद्भिः शाश्वसद्भिर् धनानि । स नो हिरण्यरथꣳ दꣳसनावान् स नः सनिता सनये स नो ऽदात्
आश्विनाव् अश्वावत्येषा यातꣳ शवीरया । गोमद् दस्रा हिरण्यवत्
समानयोजनो हि वाꣳ रथो दस्राव् अमर्त्यः । समुद्रे अश्विनेयते
न्य् अ१घ्न्यस्य मूर्धनि चक्रꣳ रथस्य येमथुः । परि द्याम् अन्यद् ईयते
कस् त उषः कधप्रिये भुजे मर्तो अमर्त्ये । कꣳ नक्षसे विभावरि
वयꣳ हि ते अमन्मह्य् आन्ताद् आ पराकात् । अश्वे न चित्रे अरुषि
त्वꣳ त्येभिर् आ गहि वाजेभिर् दुहितर् दिवः । अस्मे रयिꣳ नि धारय
त्वम् अग्ने प्रथमो अङ्गिरा ऋषिर् देवो देवानाम् अभवः शिवः सखा । तव व्रते कवयो विद्मनापसो ऽजायन्त मरुतो भ्राजदृष्टयः
त्वम् अग्ने प्रथमो अङ्गिरस्तमः कविर् देवानाम् परि भूषसि व्रतम् । विभुर् विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिद् आयवे
त्वम् अग्ने प्रथमो मातरिश्वन आविर् भव सुक्रतूया विवस्वते । अरेजेताꣳ रोदसी होतृवूर्ये ऽसघ्नोर् भारम् अयजो महो वसो
त्वम् अग्ने मनवे द्याम् अवाशयः पुरूरवसे सुकृते सुकृत्तरः । श्वात्रेण यत् पित्रोर् मुच्यसे पर्य् आ त्वा पूर्वम् अनयन्न् आपरम् पुनः
त्वम् अग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः । य आहुतिम् परि वेदा वषट्कृतिम् एकायुर् अग्रे विश आविवाससि
त्वम् अग्ने वृजिनवर्तनिꣳ नरꣳ सक्मन् पिपर्षि विदथे विचर्षणे । यः शूरसाता परितक्म्ये धने दभ्रेभिश् चित् समृता हꣳसि भूयसः
त्वꣳ तम् अग्ने अमृतत्व उत्तमे मर्तꣳ दधासि श्रवसे दिवे-दिवे । यस् तातृषाण उभयाय जन्मने मयः कृणोषि प्रय आ च सूरये
त्वꣳ नो अग्ने सनये धनानाꣳ यशसꣳ कारुꣳ कृणुहि स्तवानः । ऋध्याम कर्मापसा नवेन देवैर् द्यावापृथिवी प्रावतꣳ नः
त्वꣳ नो अग्ने पित्रोर् उपस्थ आ देवो देवेष्व् अनवद्य जागृविः । तनूकृद् बोधि प्रमतिश् च कारवे त्वꣳ कल्याण वसु विश्वम् ओपिषे
त्वम् अग्ने प्रमतिस् त्वम् पितासि नस् त्वꣳ वयस्कृत् तव जामयो वयम् । सꣳ त्वा रायः शतिनः सꣳ सहस्रिणः सुवीरꣳ यन्ति व्रतपाम् अदाभ्य
त्वाम् अग्ने प्रथमम् आयुम् आयवे देवा अकृण्वन् नहुषस्य विश्पतिम् । इळाम् अकृण्वन् मनुषस्य शासनीम् पितुर् यत् पुत्रो ममकस्य जायते
त्वꣳ नो अग्ने तव देव पायुभिर् मघोनो रक्ष तन्वश् च वन्द्य । त्राता तोकस्य तनये गवाम् अस्य् अनिमेषꣳ रक्षमाणस् तव व्रते
त्वम् अग्ने यज्यवे पायुर् अन्तरो ऽनिषङ्गाय चतुरक्ष इध्यसे । यो रातहव्यो ऽवृकाय धायसे कीरेश् चिन् मन्त्रम् मनसा वनोषि तम्
त्वम् अग्न उरुशꣳसाय वाघते स्पार्हꣳ यद् रेक्णः परमꣳ वनोषि तत् । आध्रस्य चित् प्रमतिर् उच्यसे पिता प्र पाकꣳ शास्सि प्र दिशो विदुष्टरः
त्वम् अग्ने प्रयतदक्षिणꣳ नरꣳ वर्मेव स्यूतम् परि पासि विश्वतः । स्वादुक्षद्मा यो वसतौ स्योनकृज् जीवयाजꣳ यजते सोपमा दिवः
इमाम् अग्ने शरणिम् मीमृषो न इमम् अध्वानꣳ यम् अगाम दूरात् । आपिः पिता प्रमतिः सोम्यानाम् भृमिर् अस्य् ऋषिकृन् मर्त्यानाम्
मनुष्वद् अग्ने अङ्गिरस्वद् अङ्गिरो ययातिवत् सदने पूर्ववच् छुचे । अच्छ याह्य् आ वहा दैव्यꣳ जनम् आ सादय बर्हिषि यक्षि च प्रियम्
एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत् ते चकृमा विदा वा । उत प्र णेष्य् अभि वस्यो अस्मान् सꣳ नः सृज सुमत्या वाजवत्या
इन्द्रस्य नु वीर्याणि प्र वोचꣳ यानि चकार प्रथमानि वज्री । अहन्न् अहिम् अन्व् अपस् ततर्द प्र वक्षणा अभिनत् पर्वतानाम्
अहन्न् अहिम् पर्वते शिश्रियाणꣳ त्वष्टास्मै वज्रꣳ स्वर्यꣳ ततक्ष । वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रम् अव जग्मुर् आपः
वृषायमाणो ऽवृणीत सोमꣳ त्रिकद्रुकेष्व् अपिबत् सुतस्य । आ सायकम् मघवादत्त वज्रम् अहन्न् एनम् प्रथमजाम् अहीनाम्
यद् इन्द्राहन् प्रथमजाम् अहीनाम् आन् मायिनाम् अमिनाः प्रोत मायाः । आत् सूर्यꣳ जनयन् द्याम् उषासꣳ तादीत्ना शत्रुꣳ न किला विवित्से
अहन् वृत्रꣳ वृत्रतरꣳ व्यꣳसम् इन्द्रो वज्रेण महता वधेन । स्कन्धाꣳसीव कुलिशेना विवृक्णाहिः शयत उपपृक् पृथिव्याः
अयोद्धेव दुर्मद आ हि जुह्वे महावीरꣳ तुविबाधम् ऋजीषम् । नातारीद् अस्य समृतिꣳ वधानाꣳ सꣳ रुजानाः पिपिष इन्द्रशत्रुः
अपाद् अहस्तो अपृतन्यद् इन्द्रम् आस्य वज्रम् अधि सानौ जघान । वृष्णो वध्रिः प्रतिमानम् बुभूषन् पुरुत्रा वृत्रो अशयद् व्यस्तः
नदꣳ न भिन्नम् अमुया शयानम् मनो रुहाणा अति यन्त्य् आपः । याश् चिद् वृत्रो महिना पर्यतिष्ठत् तासाम् अहिः पत्सुतःशीर् बभूव
नीचावया अभवद् वृत्रपुत्रेन्द्रो अस्या अव वधर् जभार । उत्तरा सूर् अधरः पुत्र आसीद् दानुः शये सहवत्सा न धेनुः
अतिष्ठन्तीनाम् अनिवेशनानाꣳ काष्ठानाम् मध्ये निहितꣳ शरीरम् । वृत्रस्य निण्यꣳ वि चरन्त्य् आपो दीर्घꣳ तम आशयद् इन्द्रशत्रुः
दासपत्नीर् अहिगोपा अतिष्ठन् निरुद्धा आपः पणिनेव गावः । अपाम् बिलम् अपिहितꣳ यद् आसीद् वृत्रꣳ जघन्वाꣳ अप तद् ववार
अश्व्यो वारो अभवस् तद् इन्द्र सृके यत् त्वा प्रत्यहन् देव एकः । अजयो गा अजयः शूर सोमम् अवासृजः सर्तवे सप्त सिन्धून्
नास्मै विद्युन् न तन्यतुः सिषेध न याम् मिहम् अकिरद् ध्रादुनिꣳ च । इन्द्रश् च यद् युयुधाते अहिश् चोतापरीभ्यो मघवा वि जिग्ये
अहेर् यातारꣳ कम् अपश्य इन्द्र हृदि यत् ते जघ्नुषो भीर् अगच्छत् । नव च यन् नवतिꣳ च स्रवन्तीः श्येनो न भीतो अतरो रजाꣳसि
इन्द्रो यातो ऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः । सेद् उ राजा क्षयति चर्षणीनाम् अरान् न नेमिः परि ता बभूव
एतायामोप गव्यन्त इन्द्रम् अस्माकꣳ सु प्रमतिꣳ वावृधाति । अनामृणः कुविद् आद् अस्य रायो गवाꣳ केतम् परम् आवर्जते नः
उपेद् अहꣳ धनदाम् अप्रतीतꣳ जुष्टाꣳ न श्येनो वसतिम् पतामि । इन्द्रꣳ नमस्यन्न् उपमेभिर् अर्कैर् यः स्तोतृभ्यो हव्यो अस्ति यामन्
नि सर्वसेन इषुधीꣳर् असक्त सम् अर्यो गा अजति यस्य वष्टि । चोष्कूयमाण इन्द्र भूरि वामम् मा पणिर् भूर् अस्मद् अधि प्रवृद्ध
वधीर् हि दस्युꣳ धनिनꣳ घनेनꣳ एकश् चरन्न् उपशाकेभिर् इन्द्र । धनोर् अधि विषुणक् ते व्य् आयन्न् अयज्वानः सनकाः प्रेतिम् ईयुः
परा चिच् छीर्षा ववृजुस् त इन्द्रायज्वानो यज्वभिः स्पर्धमानाः । प्र यद् दिवो हरिवः स्थातर् उग्र निर् अव्रताꣳ अधमो रोदस्योः
अयुयुत्सन्न् अनवद्यस्य सेनाम् अयातयन्त क्षितयो नवग्वाः । वृषायुधो न वध्रयो निरष्टाः प्रवद्भिर् इन्द्राच् चितयन्त आयन्
त्वम् एतान् रुदतो जक्षतश् चायोधयो रजस इन्द्र पारे । अवादहो दिव आ दस्युम् उच्चा प्र सुन्वतः स्तुवतः शꣳसम् आवः
चक्राणासः परीणहम् पृथिव्या हिरण्येन मणिना शुम्भमानाः । न हिन्वानासस् तितिरुस् त इन्द्रम् परि स्पशो अदधात् सूर्येण
परि यद् इन्द्र रोदसी उभे अबुभोजीर् महिना विश्वतः सीम् । अमन्यमानाꣳ अभि मन्यमानैर् निर् ब्रह्मभिर् अधमो दस्युम् इन्द्र
न ये दिवः पृथिव्या अन्तम् आपुर् न मायाभिर् धनदाम् पर्यभूवन् । युजꣳ वज्रꣳ वृषभश् चक्र इन्द्रो निर् ज्योतिषा तमसो गा अदुक्षत्
अनु स्वधाम् अक्षरन्न् आपो अस्यावर्धत मध्य आ नाव्यानाम् । सध्रीचीनेन मनसा तम् इन्द्र ओजिष्ठेन हन्मनाहन्न् अभि द्यून्
न्य् आविध्यद् इलीबिशस्य दृळ्हा वि शृङ्गिणम् अभिनच् छुष्णम् इन्द्रः । यावत् तरो मघवन् यावद् ओजो वज्रेण शत्रुम् अवधीः पृतन्युम्
अभि सिध्मो अजिगाद् अस्य शत्रून् वि तिग्मेन वृषभेणा पुरो ऽभेत् । सꣳ वज्रेणासृजद् वृत्रम् इन्द्रः प्र स्वाम् मतिम् अतिरच् छाशदानः
आवः कुत्सम् इन्द्र यस्मिञ् चाकन् प्रावो युध्यन्तꣳ वृषभꣳ दशद्युम् । शफच्युतो रेणुर् नक्षत द्याम् उच् छ्वैत्रेयो नृषाह्याय तस्थौ
आवः शमꣳ वृषभꣳ तुग्र्यासु क्षेत्रजेषे मघवञ् छ्वित्र्यꣳ गाम् । ज्योक् चिद् अत्र तस्थिवाꣳसो अक्रञ् छत्रूयताम् अधरा वेदनाकः
त्रिश् चिन् नो अद्या भवतꣳ नवेदसा विभुर् वाꣳ याम उत रातिर् अश्विना । युवोर् हि यन्त्रꣳ हिम्येव वाससो ऽभ्यायꣳसेन्या भवतम् मनीषिभिः
त्रयः पवयो मधुवाहने रथे सोमस्य वेनाम् अनु विश्व इद् विदुः । त्रयः स्कम्भासः स्कभितास आरभे त्रिर् नक्तꣳ याथस् त्रिर् व् अश्विना दिवा
समाने अहन् त्रिर् अवद्यगोहना त्रिर् अद्य यज्ञम् मधुना मिमिक्षतम् । त्रिर् वाजवतीर् इषो अश्विना युवꣳ दोषा अस्मभ्यम् उषसश् च पिन्वतम्
त्रिर् वर्तिर् यातꣳ त्रिर् अनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतम् । त्रिर् नान्द्यꣳ वहतम् अश्विना युवꣳ त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम्
त्रिर् नो रयिꣳ वहतम् अश्विना युवꣳ त्रिर् देवताता त्रिर् उतावतꣳ धियः । त्रिः सौभगत्वꣳ त्रिर् उत श्रवाꣳसि नस् त्रिष्ठꣳ वाꣳ सूरे दुहिता रुहद् रथम्
त्रिर् नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिर् उ दत्तम् अद्भ्यः । ओमानꣳ शꣳयोर् ममकाय सूनवे त्रिधातु शर्म वहतꣳ शुभस् पती
त्रिर् नो अश्विना यजता दिवे-दिवे परि त्रिधातु पृथिवीम् अशायतम् । तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गच्छतम्
त्रिर् अश्विना सिन्धुभिः सप्तमातृभिस् त्रय आहावास् त्रेधा हविष् कृतम् । तिस्रः पृथिवीर् उपरि प्रवा दिवो नाकꣳ रक्षेथे द्युभिर् अक्तुभिर् हितम्
क्व१ त्री चक्रा त्रिवृतो रथस्य क्व१ त्रयो वन्धुरो ये सनीळाः । कदा योगो वाजिनो रासभस्य येन यज्ञꣳ नासत्योपयाथः
आ नासत्या गच्छतꣳ हूयते हविर् मध्वः पिबतम् मधुपेभिर् आसभिः । युवोर् हि पूर्वꣳ सवितोषसो रथम् ऋताय चित्रꣳ घृतवन्तम् इष्यति
आ नासत्या त्रिभिर् एकादशैर् इह देवेभिर् यातम् मधुपेयम् अश्विना । प्रायुस् तारिष्टꣳ नी रपाꣳसि मृक्षतꣳ सेधतꣳ द्वेषो भवतꣳ सचाभुवा
आ नो अश्विना त्रिवृता रथेनार्वाञ्चꣳ रयिꣳ वहतꣳ सुवीरम् । शृण्वन्ता वाम् अवसे जोहवीमि वृधे च नो भवतꣳ वाजसातौ
ह्वयाम्य् अग्निम् प्रथमꣳ स्वस्तये ह्वयामि मित्रावरुणाव् इहावसे । ह्वयामि रात्रीꣳ जगतो निवेशनीꣳ ह्वयामि देवꣳ सवितारम् ऊतये
आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतम् मर्त्यꣳ च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन्
याति देवः प्रवता यात्य् उद्वता याति शुभ्राभ्याꣳ यजतो हरिभ्याम् । आ देवो याति सविता परावतो ऽप विश्वा दुरिता बाधमानः
अभीवृतꣳ कृशनैर् विश्वरूपꣳ हिरण्यशम्यꣳ यजतो बृहन्तम् । आस्थाद् रथꣳ सविता चित्रभानुः कृष्णा रजाꣳसि तविषीꣳ दधानः
वि जनाञ् छ्यावाः शितिपादो अख्यन् रथꣳ हिरण्यप्रüगꣳ वहन्तः । शश्वद् विशः सवितुर् दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः
तिस्रो द्यावः सवितुर् द्वा उपस्थाꣳ एका यमस्य भुवने विराषाट् । आणिꣳ न रथ्यम् अमृताधि तस्थुर् इह ब्रवीतु य उ तच् चिकेतत्
वि सुपर्णो अन्तरिक्षाण्य् अख्यद् गभीरवेपा असुरः सुनीथः । क्वे३दानीꣳ सूर्यः कश् चिकेत कतमाꣳ द्याꣳ रश्मिर् अस्या ततान
अष्टौ व्य् अख्यत् ककुभः पृथिव्यास् त्री धन्व योजना सप्त सिन्धून् । हिरण्याक्षः सविता देव आगाद् दधद् रत्ना दाशुषे वार्याणि
हिरण्यपाणिः सविता विचर्षणिर् उभे द्यावापृथिवी अन्तर् ईयते । अपामीवाम् बाधते वेति सूर्यम् अभि कृष्णेन रजसा द्याम् ऋणोति
हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववाꣳ यात्व् अर्वाङ् । अपसेधन् रक्षसो यातुधानान् अस्थाद् देवः प्रतिदोषꣳ गृणानः
ये ते पन्थाः सवितः पूर्व्यासो ऽरेणवः सुकृता अन्तरिक्षे । तेभिर् नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव
प्र वो यह्वम् पुरूणाꣳ विशाꣳ देवयतीनाम् । अग्निꣳ सूक्तेभिर् वचोभिर् ईमहे यꣳ सीम् इद् अन्य ईळते
जनासो अग्निꣳ दधिरे सहोवृधꣳ हविष्मन्तो विधेम ते । स त्वꣳ नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य
प्र त्वा दूतꣳ वृणीमहे होतारꣳ विश्ववेदसम् । महस् ते सतो वि चरन्त्य् अर्चयो दिवि स्पृशन्ति भानवः
देवासस् त्वा वरुणो मित्रो अर्यमा सꣳ दूतम् प्रत्नम् इन्धते । विश्वꣳ सो अग्ने जयति त्वया धनꣳ यस् ते ददाश मर्त्यः
मन्द्रो होता गृहपतिर् अग्ने दूतो विशाम् असि । त्वे विश्वा सꣳगतानि व्रता ध्रुवा यानि देवा अकृण्वत
त्वे इद् अग्ने सुभगे यविष्ठ्य विश्वम् आ हूयते हविः । स त्वꣳ नो अद्य सुमना उतापरꣳ यक्षि देवान् सुवीर्या
तꣳ घेम् इत्था नमस्विन उप स्वराजम् आसते । होत्राभिर् अग्निम् मनुषः सम् इन्धते तितिर्वाꣳसो अति स्रिधः
घ्नन्तो वृत्रम् अतरन् रोदसी अप उरु क्षयाय चक्रिरे । भुवत् कण्वे वृषा द्युम्न्य् आहुतः क्रन्दद् अश्वो गविष्टिषु
सꣳ सीदस्व महाꣳ असि शोचस्व देववीतमः । वि धूमम् अग्ने अरुषम् मियेध्य सृज प्रशस्त दर्शतम्
यꣳ त्वा देवासो मनवे दधुर् इह यजिष्ठꣳ हव्यवाहन । यꣳ कण्वो मेध्यातिथिर् धनस्पृतꣳ यꣳ वृषा यम् उपस्तुतः
यम् अग्निम् मेध्यातिथिः कण्व ईध ऋताद् अधि । तस्य प्रेषो दीदियुस् तम् इमा ऋचस् तम् अग्निꣳ वर्धयामसि
रायस् पूर्धि स्वधावो ऽस्ति हि ते ऽग्ने देवेष्व् आप्यम् । त्वꣳ वाजस्य श्रुत्यस्य राजसि स नो मृळ महाꣳ असि
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघद्भिर् विह्वयामहे
ऊर्ध्वो नः पाह्य् अꣳहसो नि केतुना विश्वꣳ सम् अत्रिणꣳ दह । कृधी न ऊर्ध्वाञ् चरथाय जीवसे विदा देवेषु नो दुवः
पाहि नो अग्ने रक्षसः पाहि धूर्तेर् अराव्णः । पाहि रीषत उत वा जिघाꣳसतो बृहद्भानो यविष्ठ्य
घनेव विष्वग् वि जह्य् अराव्णस् तपुर्जम्भ यो अस्मध्रुक् । यो मर्त्यः शिशीते अत्य् अक्तुभिर् मा नः स रिपुर् ईशत
अग्निर् वव्ने सुवीर्यम् अग्निः कण्वाय सौभगम् । अग्निः प्रावन् मित्रोत मेध्यातिथिम् अग्निः साता उपस्तुतम्
अग्निना तुर्वशꣳ यदुम् परावत उग्रादेवꣳ हवामहे । अग्निर् नयन् नववास्त्वम् बृहद्रथꣳ तुर्वीतिꣳ दस्यवे सहः
नि त्वाम् अग्ने मनुर् दधे ज्योतिर् जनाय शश्वते । दीदेथ कण्व ऋतजात उक्षितो यꣳ नमस्यन्ति कृष्टयः
त्वेषासो अग्नेर् अमवन्तो अर्चयो भीमासो न प्रतीतये । रक्षस्विनः सदम् इद् यातुमावतो विश्वꣳ सम् अत्रिणꣳ दह
क्रीळꣳ वः शर्धो मारुतम् अनर्वाणꣳ रथेशुभम् । कण्वा अभि प्र गायत
ये पृषतीभिर् ऋष्टिभिः साकꣳ वाशीभिर् अञ्जिभिः । अजायन्त स्वभानवः
इहेव शृण्व एषाꣳ कशा हस्तेषु यद् वदान् । नि यामञ् चित्रम् ऋञ्जते
प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे । देवत्तम् ब्रह्म गायत
प्र शꣳसा गोष्व् अघ्न्यꣳ क्रीळꣳ यच् छर्धो मारुतम् । जम्भे रसस्य वावृधे
को वो वर्षिष्ठ आ नरो दिवश् च ग्मश् च धूतयः । यत् सीम् अन्तꣳ न धूनुथ
नि वो यामाय मानुषो दध्र उग्राय मन्यवे । जिहीत पर्वतो गिरिः
येषाम् अज्मेषु पृथिवी जुजुर्वाꣳ इव विश्पतिः । भिया यामेषु रेजते
स्थिरꣳ हि जानम् एषाꣳ वयो मातुर् निरेतवे । यत् सीम् अनु द्विता शवः
उद् उ त्ये सूनवो गिरः काष्ठा अज्मेष्व् अत्नत । वाश्रा अभिज्ञु यातवे
त्यꣳ चिद् घा दीर्घम् पृथुम् मिहो नपातम् अमृध्रम् । प्र च्यावयन्ति यामभिः
मरुतो यद् ध वो बलꣳ जनाꣳ अचुच्यवीतन । गिरीꣳर् अचुच्यवीतन
यद् ध यान्ति मरुतः सꣳ ह ब्रुवते ऽध्वन्न् आ । शृणोति कश् चिद् एषाम्
प्र यात शीभम् आशुभिः सन्ति कण्वेषु वो दुवः । तत्रो षु मादयाध्वै
अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयम् एषाम् । विश्वꣳ चिद् आयुर् जीवसे
कद् ध नूनꣳ कधप्रियः पिता पुत्रꣳ न हस्तयोः । दधिध्वे वृक्तबर्हिषः
क्व नूनꣳ कद् वो अर्थꣳ गन्ता दिवो न पृथिव्याः । क्व वो गावो न रण्यन्ति
क्व वः सुम्ना नव्याꣳसि मरुतः क्व सुविता । क्वो३ विश्वानि सौभगा
यद् यूयम् पृश्निमातरो मर्तासः स्यातन । स्तोता वो अमृतः स्यात्
मा वो मृगो न यवसे जरिता भूद् अजोष्यः । पथा यमस्य गाद् उप
मो षु णः परा-परा निरृतिर् दुर्हणा वधीत् । पदीष्ट तृष्णया सह
सत्यꣳ त्वेषा अमवन्तो धन्वञ् चिद् आ रुद्रियासः । मिहꣳ कृण्वन्त्य् अवाताम्
वाश्रेव विद्युन् मिमाति वत्सꣳ न माता सिषक्ति । यद् एषाꣳ वृष्टिर् असर्जि
दिवा चित् तमः कृण्वन्ति पर्जन्येनोदवाहेन । यत् पृथिवीꣳ व्युन्दन्ति
अध स्वनान् मरुताꣳ विश्वम् आ सद्म पार्थिवम् । अरेजन्त प्र मानुषाः
मरुतो वीळुपाणिभिश् चित्रा रोधस्वतीर् अनु । यातेम् अखिद्रयामभिः
स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम् । सुसꣳस्कृता अभीशवः
अच्छा वदा तना गिरा जरायै ब्रह्मणस् पतिम् । अग्निम् मित्रꣳ न दर्शतम्
मिमीहि श्लोकम् आस्ये पर्जन्य इव ततनः । गाय गायत्रम् उक्थ्यम्
वन्दस्व मारुतꣳ गणꣳ त्वेषम् पनस्युम् अर्किणम् । अस्मे वृद्धा असन्न् इह
प्र यद् इत्था परावतः शोचिर् न मानम् अस्यथ । कस्य क्रत्वा मरुतः कस्य वर्पसा कꣳ याथ कꣳ ह धूतयः
स्थिरा वः सन्त्व् आयुधा पराणुदे वीळू उत प्रतिष्कभे । युष्माकम् अस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः
परा ह यत् स्थिरꣳ हथ नरो वर्तयथा गुरु । वि याथन वनिनः पृथिव्या व्य् आशाः पर्वतानाम्
नहि वः शत्रुर् विविदे अधि द्यवि न भूम्याꣳ रिशादसः । युष्माकम् अस्तु तविषी तना युजा रुद्रासो नू चिद् आधृषे
प्र वेपयन्ति पर्वतान् वि विञ्चन्ति वनस्पतीन् । प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा
उपो रथेषु पृषतीर् अयुग्ध्वम् प्रष्टिर् वहति रोहितः । आ वो यामाय पृथिवी चिद् अश्रोद् अबीभयन्त मानुषाः
आ वो मक्षू तनाय कꣳ रुद्रा अवो वृणीमहे । गन्ता नूनꣳ नो ऽवसा यथा पुरेत्था कण्वाय बिभ्युषे
युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते । वि तꣳ युयोत शवसा व्य् ओजसा वि युष्माकाभिर् ऊतिभिः
असामि हि प्रयज्यवः कण्वꣳ दद प्रचेतसः । असामिभिर् मरुत आ न ऊतिभिर् गन्ता वृष्टिꣳ न विद्युतः
असाम्य् ओजो बिभृथा सुदानवो ऽसामि धूतयः शवः । ऋषिद्विषे मरुतः परिमन्यव इषुꣳ न सृजत द्विषम्
उत् तिष्ठ ब्रह्मणस् पते देवयन्तस् त्वेमहे । उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर् भवा सचा
त्वाम् इद् धि सहसस् पुत्र मर्त्य उपब्रूते धने हिते । सुवीर्यम् मरुत आ स्वश्व्यꣳ दधीत यो व आचके
प्रैतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता । अच्छा वीरꣳ नर्यम् पङ्क्तिराधसꣳ देवा यज्ञꣳ नयन्तु नः
यो वाघते ददाति सूनरꣳ वसु स धत्ते अक्षिति श्रवः । तस्मा इळाꣳ सुवीराम् आ यजामहे सुप्रतूर्तिम् अनेहसम्
प्र नूनम् ब्रह्मणस् पतिर् मन्त्रꣳ वदत्य् उक्थ्यम् । यस्मिन्न् इन्द्रो वरुणो मित्रो अर्यमा देवा ओकाꣳसि चक्रिरे
तम् इद् वोचेमा विदथेषु शम्भुवम् मन्त्रꣳ देवा अनेहसम् । इमाꣳ च वाचम् प्रतिहर्यथा नरो विश्वेद् वामा वो अश्नवत्
को देवयन्तम् अश्नवज् जनꣳ को वृक्तबर्हिषम् । प्र-प्र दाश्वान् पस्त्याभिर् अस्थितान्तर्वावत् क्षयꣳ दधे
उप क्षत्रम् पृञ्चीत हन्ति राजभिर् भये चित् सुक्षितिꣳ दधे । नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः
यꣳ रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा । नू चित् स दभ्यते जनः
यम् बाहुतेव पिप्रति पान्ति मर्त्यꣳ रिषः । अरिष्टः सर्व एधते
वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम् । नयन्ति दुरिता तिरः
सुगः पन्था अनृक्षर आदित्यास ऋतꣳ यते । नात्रावखादो अस्ति वः
यꣳ यज्ञꣳ नयथा नर आदित्या ऋजुना पथा । प्र वः स धीतये नशत्
स रत्नम् मर्त्यो वसु विश्वꣳ तोकम् उत त्मना । अच्छा गच्छत्य् अस्तृतः
कथा राधाम सखायः स्तोमम् मित्रस्यार्यम्णः । महि प्सरो वरुणस्य
मा वो घ्नन्तम् मा शपन्तम् प्रति वोचे देवयन्तम् । सुम्नैर् इद् व आ विवासे
चतुरश् चिद् ददमानाद् बिभीयाद् आ निधातोः । न दुरुक्ताय स्पृहयेत्
सम् पूषन्न् अध्वनस् तिर व्य् अꣳहो विमुचो नपात् । सक्ष्वा देव प्र णस् पुरः
यो नः पूषन्न् अघो वृको दुःशेव आदिदेशति । अप स्म तम् पथो जहि
अप त्यम् परिपन्थिनम् मुषीवाणꣳ हुरश्चितम् । दूरम् अधि स्रुतेर् अज
त्वꣳ तस्य द्वयाविनो ऽघशꣳसस्य कस्य चित् । पदाभि तिष्ठ तपुषिम्
आ तत् ते दस्र मन्तुमः पूषन्न् अवो वृणीमहे । येन पितॄन् अचोदयः
अधा नो विश्वसौभग हिरण्यवाशीमत्तम । धनानि सुषणा कृधि
अति नः सश्चतो नय सुगा नः सुपथा कृणु । पूषन्न् इह क्रतुꣳ विदः
अभि सूयवसꣳ नय न नवज्वारो अध्वने । पूषन्न् इह क्रतुꣳ विदः
शग्धि पूर्धि प्र यꣳसि च शिशीहि प्रास्य् उदरम् । पूषन्न् इह क्रतुꣳ विदः
न पूषणम् मेथामसि सूक्तैर् अभि गृणीमसि । वसूनि दस्मम् ईमहे
कद् रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे । वोचेम शꣳतमꣳ हृदे
यथा नो अदितिः करत् पश्वे नृभ्यो यथा गवे । यथा तोकाय रुद्रियम्
यथा नो मित्रो वरुणो यथा रुद्रश् चिकेतति । यथा विश्वे सजोषसः
गाथपतिम् मेधपतिꣳ रुद्रꣳ जलाषभेषजम् । तच् छꣳयोः सुम्नम् ईमहे
यः शुक्र इव सूर्यो हिरण्यम् इव रोचते । श्रेष्ठो देवानाꣳ वसुः
शꣳ नः करत्य् अर्वते सुगम् मेषाय मेष्ये । नृभ्यो नारिभ्यो गवे
अस्मे सोम श्रियम् अधि नि धेहि शतस्य नृणाम् । महि श्रवस् तुविनृम्णम्
मा नः सोमपरिबाधो मारातयो जुहुरन्त । आ न इन्दो वाजे भज
यास् ते प्रजा अमृतस्य परस्मिन् धामन्न् ऋतस्य । मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः
अग्ने विवस्वद् उषसश् चित्रꣳ राधो अमर्त्य । आ दाशुषे जातवेदो वहा त्वम् अद्या देवाꣳ उषर्बुधः
जुष्टो हि दूतो असि हव्यवाहनो ऽग्ने रथीर् अध्वराणाम् । सजूर् अश्विभ्याम् उषसा सुवीर्यम् अस्मे धेहि श्रवो बृहत्
अद्या दूतꣳ वृणीमहे वसुम् अग्निम् पुरुप्रियम् । धूमकेतुम् भाऋजीकꣳ व्युष्टिषु यज्ञानाम् अध्वरश्रियम्
श्रेष्ठꣳ यविष्ठम् अतिथिꣳ स्वाहुतꣳ जुष्टꣳ जनाय दाशुषे । देवाꣳ अच्छा यातवे जातवेदसम् अग्निम् ईळे व्युष्टिषु
स्तविष्यामि त्वाम् अहꣳ विश्वस्यामृत भोजन । अग्ने त्रातारम् अमृतम् मियेध्य यजिष्ठꣳ हव्यवाहन
सुशꣳसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः । प्रस्कण्वस्य प्रतिरन्न् आयुर् जीवसे नमस्या दैव्यꣳ जनम्
होतारꣳ विश्ववेदसꣳ सꣳ हि त्वा विश इन्धते । स आ वह पुरुहूत प्रचेतसो ऽग्ने देवाꣳ इह द्रवत्
सवितारम् उषसम् अश्विना भगम् अग्निꣳ व्युष्टिषु क्षपः । कण्वासस् त्वा सुतसोमास इन्धते हव्यवाहꣳ स्वध्वर
पतिर् ह्य् अध्वराणाम् अग्ने दूतो विशाम् असि । उषर्बुध आ वह सोमपीतये देवाꣳ अद्य स्वर्दृशः
अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः । असि ग्रामेष्व् अविता पुरोहितो ऽसि यज्ञेषु मानुषः
नि त्वा यज्ञस्य साधनम् अग्ने होतारम् ऋत्विजम् । मनुष्वद् देव धीमहि प्रचेतसꣳ जीरꣳ दूतम् अमर्त्यम्
यद् देवानाम् मित्रमहः पुरोहितो ऽन्तरो यासि दूत्यम् । सिन्धोर् इव प्रस्वनितास ऊर्मयो ऽग्नेर् भ्राजन्ते अर्चयः
श्रुधि श्रुत्कर्ण वह्निभिर् देवैर् अग्ने सयावभिः । आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम्
शृण्वन्तु स्तोमम् मरुतः सुदानवो ऽग्निजिह्वा ऋतावृधः । पिबतु सोमꣳ वरुणो धृतव्रतो ऽश्विभ्याम् उषसा सजूः
त्वम् अग्ने वसूꣳर् इह रुद्राꣳ आदित्याꣳ उत । यजा स्वध्वरꣳ जनम् मनुजातꣳ घृतप्रुषम्
श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः । तान् रोहिदश्व गिर्वणस् त्रयस्त्रिꣳशतम् आ वह
प्रियमेधवद् अत्रिवज् जातवेदो विरूपवत् । अङ्गिरस्वन् महिव्रत प्रस्कण्वस्य श्रुधी हवम्
महिकेरव ऊतये प्रियमेधा अहूषत । राजन्तम् अध्वराणाम् अग्निꣳ शुक्रेण शोचिषा
घृताहवन सन्त्येमा उ षु श्रुधी गिरः । याभिः कण्वस्य सूनवो हवन्ते ऽवसे त्वा
त्वाꣳ चित्रश्रवस्तम हवन्ते विक्षु जन्तवः । शोचिष्केशम् पुरुप्रियाग्ने हव्याय वोळ्हवे
नि त्वा होतारम् ऋत्विजꣳ दधिरे वसुवित्तमम् । श्रुत्कर्णꣳ सप्रथस्तमꣳ विप्रा अग्ने दिविष्टिषु
आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः । बृहद् भा बिभ्रतो हविर् अग्ने मर्ताय दाशुषे
प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य । इहाद्य दैव्यꣳ जनम् बर्हिर् आ सादया वसो
अर्वाञ्चꣳ दैव्यꣳ जनम् अग्ने यक्ष्व सहूतिभिः । अयꣳ सोमः सुदानवस् तम् पात तिरोअह्न्यम्
एषो उषा अपूर्व्या व्य् उच्छति प्रिया दिवः । स्तुषे वाम् अश्विना बृहत्
या दस्रा सिन्धुमातरा मनोतरा रयीणाम् । धिया देवा वसुविदा
वच्यन्ते वाꣳ ककुहासो जूर्णायाम् अधि विष्टपि । यद् वाꣳ रथो विभिष् पतात्
हविषा जारो अपाम् पिपर्ति पपुरिर् नरा । पिता कुटस्य चर्षणिः
आदारो वाम् मतीनाꣳ नासत्या मतवचसा । पातꣳ सोमस्य धृष्णुया
या नः पीपरद् अश्विना ज्योतिष्मती तमस् तिरः । ताम् अस्मे रासाथाम् इषम्
आ नो नावा मतीनाꣳ यातम् पाराय गन्तवे । युञ्जाथाम् अश्विना रथम्
अरित्रꣳ वाꣳ दिवस् पृथु तीर्थे सिन्धूनाꣳ रथः । धिया युयुज्र इन्दवः
दिवस् कण्वास इन्दवो वसु सिन्धूनाम् पदे । स्वꣳ वव्रिꣳ कुह धित्सथः
अभूद् उ भा उ अꣳशवे हिरण्यम् प्रति सूर्यः । व्य् अख्यज् जिह्वयासितः
अभूद् उ पारम् एतवे पन्था ऋतस्य साधुया । अदर्शि वि स्रुतिर् दिवः
तत्-तद् इद् अश्विनोर् अवो जरिता प्रति भूषति । मदे सोमस्य पिप्रतोः
वावसाना विवस्वति सोमस्य पीत्या गिरा । मनुष्वच् छम्भू आ गतम्
युवोर् उषा अनु श्रियम् परिज्मनोर् उपाचरत् । ऋता वनथो अक्तुभिः
उभा पिबतम् अश्विनोभा नः शर्म यच्छतम् । अविद्रियाभिर् ऊतिभिः
अयꣳ वाम् मधुमत्तमः सुतः सोम ऋतावृधा । तम् अश्विना पिबतꣳ तिरोअह्न्यꣳ धत्तꣳ रत्नानि दाशुषे
त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातम् अश्विना । कण्वासो वाम् ब्रह्म कृण्वन्त्य् अध्वरे तेषाꣳ सु शृणुतꣳ हवम्
अश्विना मधुमत्तमम् पातꣳ सोमम् ऋतावृधा । अथाद्य दस्रा वसु बिभ्रता रथे दाश्वाꣳसम् उप गच्छतम्
त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञम् मिमिक्षतम् । कण्वासो वाꣳ सुतसोमा अभिद्यवो युवाꣳ हवन्ते अश्विना
याभिः कण्वम् अभिष्टिभिः प्रावतꣳ युवम् अश्विना । ताभिः ष्व् अ१स्माꣳ अवतꣳ शुभस् पती पातꣳ सोमम् ऋतावृधा
सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतम् अश्विना । रयिꣳ समुद्राद् उत वा दिवस् पर्य् अस्मे धत्तम् पुरुस्पृहम्
यन् नासत्या परावति यद् वा स्थो अधि तुर्वशे । अतो रथेन सुवृता न आ गतꣳ साकꣳ सूर्यस्य रश्मिभिः
अर्वाञ्चा वाꣳ सप्तयो ऽध्वरश्रियो वहन्तु सवनेद् उप । इषम् पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतꣳ नरा
तेन नासत्या गतꣳ रथेन सूर्यत्वचा । येन शश्वद् ऊहथुर् दाशुषे वसु मध्वः सोमस्य पीतये
उक्थेभिर् अर्वाग् अवसे पुरूवसू अर्कैश् च नि ह्वयामहे । शश्वत् कण्वानाꣳ सदसि प्रिये हि कꣳ सोमम् पपथुर् अश्विना
सह वामेन न उषो व्य् उच्छा दुहितर् दिवः । सह द्युम्नेन बृहता विभावरि राया देवि दास्वती
अश्वावतीर् गोमतीर् विश्वसुविदो भूरि च्यवन्त वस्तवे । उद् ईरय प्रति मा सूनृता उषश् चोद राधो मघोनाम्
उवासोषा उच्छाच् च नु देवी जीरा रथानाम् । ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः
उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः । अत्राह तत् कण्व एषाꣳ कण्वतमो नाम गृणाति नृणाम्
आ घा योषेव सूनर्य् उषा याति प्रभुञ्जती । जरयन्ती वृजनम् पद्वद् ईयत उत् पातयति पक्षिणः
वि या सृजति समनꣳ व्य् अ१र्थिनः पदꣳ न वेत्य् ओदती । वयो नकिष् टे पप्तिवाꣳस आसते व्युष्टौ वाजिनीवति
एषायुक्त परावतः सूर्यस्योदयनाद् अधि । शतꣳ रथेभिः सुभगोषा इयꣳ वि यात्य् अभि मानुषान्
विश्वम् अस्या नानाम चक्षसे जगज् ज्योतिष् कृणोति सूनरी । अप द्वेषो मघोनी दुहिता दिव उषा उच्छद् अप स्रिधः
उष आ भाहि भानुना चन्द्रेण दुहितर् दिवः । आवहन्ती भूर्य् अस्मभ्यꣳ सौभगꣳ व्युच्छन्ती दिविष्टिषु
विश्वस्य हि प्राणनꣳ जीवनꣳ त्वे वि यद् उच्छसि सूनरि । सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम्
उषो वाजꣳ हि वꣳस्व यश् चित्रो मानुषे जने । तेना वह सुकृतो अध्वराꣳ उप ये त्वा गृणन्ति वह्नयः
विश्वान् देवाꣳ आ वह सोमपीतये ऽन्तरिक्षाद् उषस् त्वम् । सास्मासु धा गोमद् अश्वावद् उक्थ्य१म् उषो वाजꣳ सुवीर्यम्
यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत । सा नो रयिꣳ विश्ववारꣳ सुपेशसम् उषा ददातु सुग्म्यम्
ये चिद् धि त्वाम् ऋषयः पूर्व ऊतये जुहूरे ऽवसे महि । सा नः स्तोमाꣳ अभि गृणीहि राधसोषः शुक्रेण शोचिषा
उषो यद् अद्य भानुना वि द्वाराव् ऋणवो दिवः । प्र नो यच्छताद् अवृकम् पृथु च्छर्दिः प्र देवि गोमतीर् इषः
सꣳ नो राया बृहता विश्वपेशसा मिमिक्ष्वा सम् इळाभिर् आ । सꣳ द्युम्नेन विश्वतुरोषो महि सꣳ वाजैर् वाजिनीवति
उषो भद्रेभिर् आ गहि दिवश् चिद् रोचनाद् अधि । वहन्त्व् अरुणप्सव उप त्वा सोमिनो गृहम्
सुपेशसꣳ सुखꣳ रथꣳ यम् अध्यस्था उषस् त्वम् । तेना सुश्रवसꣳ जनम् प्रावाद्य दुहितर् दिवः
वयश् चित् ते पतत्रिणो द्विपच् चतुष्पद् अर्जुनि । उषः प्रारन्न् ऋतूꣳर् अनु दिवो अन्तेभ्यस् परि
व्युच्छन्ती हि रश्मिभिर् विश्वम् आभासि रोचनम् । ताꣳ त्वाम् उषर् वसूयवो गीर्भिः कण्वा अहूषत
उद् उ त्यꣳ जातवेदसꣳ देवꣳ वहन्ति केतवः । दृशे विश्वाय सूर्यम्
अप त्ये तायवो यथा नक्षत्रा यन्त्य् अक्तुभिः । सूराय विश्वचक्षसे
अदृश्रम् अस्य केतवो वि रश्मयो जनाꣳ अनु । भ्राजन्तो अग्नयो यथा
तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य । विश्वम् आ भासि रोचनम्
प्रत्यङ् देवानाꣳ विशः प्रत्यङ्ङ् उद् एषि मानुषान् । प्रत्यङ् विश्वꣳ स्वर् दृशे
येना पावक चक्षसा भुरण्यन्तꣳ जनाꣳ अनु । त्वꣳ वरुण पश्यसि
वि द्याम् एषि रजस् पृथ्व् अहा मिमानो अक्तुभिः । पश्यञ् जन्मानि सूर्य
सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशꣳ विचक्षण
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । ताभिर् याति स्वयुक्तिभिः
उद् वयꣳ तमसस् परि ज्योतिष् पश्यन्त उत्तरम् । देवꣳ देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम्
उद्यन्न् अद्य मित्रमह आरोहन्न् उत्तराꣳ दिवम् । हृद्रोगम् मम सूर्य हरिमाणꣳ च नाशय
शुकेषु मे हरिमाणꣳ रोपणाकासु दध्मसि । अथो हारिद्रवेषु मे हरिमाणꣳ नि दध्मसि
उद् अगाद् अयम् आदित्यो विश्वेन सहसा सह । द्विषन्तम् मह्यꣳ रन्धयन् मो अहꣳ द्विषते रधम्
अभि त्यम् मेषम् पुरुहूतम् ऋग्मियम् इन्द्रꣳ गीर्भिर् मदता वस्वो अर्णवम् । यस्य द्यावो न विचरन्ति मानुषा भुजे मꣳहिष्ठम् अभि विप्रम् अर्चत
अभीम् अवन्वन् स्वभिष्टिम् ऊतयो ऽन्तरिक्षप्राꣳ तविषीभिर् आवृतम् । इन्द्रꣳ दक्षास ऋभवो मदच्युतꣳ शतक्रतुꣳ जवनी सूनृतारुहत्
त्वꣳ गोत्रम् अङ्गिरोभ्यो ऽवृणोर् अपोतात्रये शतदुरेषु गातुवित् । ससेन चिद् विमदायावहो वस्व् आजाव् अद्रिꣳ वावसानस्य नर्तयन्
त्वम् अपाम् अपिधानावृणोर् अपाधारयः पर्वते दानुमद् वसु । वृत्रꣳ यद् इन्द्र शवसावधीर् अहिम् आद् इत् सूर्यꣳ दिव्य् आरोहयो दृशे
त्वम् मायाभिर् अप मायिनो ऽधमः स्वधाभिर् ये अधि शुप्ताव् अजुह्वत । त्वम् पिप्रोर् नृमणः प्रारुजः पुरः प्र ऋजिश्वानꣳ दस्युहत्येष्व् आविथ
त्वꣳ कुत्सꣳ शुष्णहत्येष्व् आविथारन्धयो ऽतिथिग्वाय शम्बरम् । महान्तꣳ चिद् अर्बुदꣳ नि क्रमीः पदा सनाद् एव दस्युहत्याय जज्ञिषे
त्वे विश्वा तविषी सध्र्यग् घिता तव राधः सोमपीथाय हर्षते । तव वज्रश् चिकिते बाह्वोर् हितो वृश्चा शत्रोर् अव विश्वानि वृष्ण्या
वि जानीह्य् आर्यान् ये च दस्यवो बर्हिष्मते रन्धया शासद् अव्रतान् । शाकी भव यजमानस्य चोदिता विश्वेत् ता ते सधमादेषु चाकन
अनुव्रताय रन्धयन्न् अपव्रतान् आभूभिर् इन्द्रः श्नथयन्न् अनाभुवः । वृद्धस्य चिद् वर्धतो द्याम् इनक्षतः स्तवानो वम्रो वि जघान सꣳदिहः
तक्षद् यत् त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः । आ त्वा वातस्य नृमणो मनोयुज आ पूर्यमाणम् अवहन्न् अभि श्रवः
मन्दिष्ट यद् उशने काव्ये सचाꣳ इन्द्रो वङ्कू वङ्कुतराधि तिष्ठति । उग्रो ययिꣳ निर् अपः स्रोतसासृजद् वि शुष्णस्य दृꣳहिता ऐरयत् पुरः
आ स्मा रथꣳ वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता येषु मन्दसे । इन्द्र यथा सुतसोमेषु चाकनो ऽनर्वाणꣳ श्लोकम् आ रोहसे दिवि
अददा अर्भाम् महते वचस्यवे कक्षीवते वृचयाम् इन्द्र सुन्वते । मेनाभवो वृषणश्वस्य सुक्रतो विश्वेत् ता ते सवनेषु प्रवाच्या
इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु स्तोमो दुर्यो न यूपः । अश्वयुर् गव्यू रथयुर् वसूयुर् इन्द्र इद् रायः क्षयति प्रयन्ता
इदꣳ नमो वृषभाय स्वराजे सत्यशुष्माय तवसे ऽवाचि । अस्मिन्न् इन्द्र वृजने सर्ववीराः स्मत् सूरिभिस् तव शर्मन् स्याम
त्यꣳ सु मेषम् महया स्वर्विदꣳ शतꣳ यस्य सुभ्वः साकम् ईरते । अत्यꣳ न वाजꣳ हवनस्यदꣳ रथम् एन्द्रꣳ ववृत्याम् अवसे सुवृक्तिभिः
स पर्वतो न धरुणेष्व् अच्युतः सहस्रमूतिस् तविषीषु वावृधे । इन्द्रो यद् वृत्रम् अवधीन् नदीवृतम् उब्जन्न् अर्णाꣳसि जर्हृषाणो अन्धसा
स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः । इन्द्रꣳ तम् अह्वे स्वपस्यया धिया मꣳहिष्ठरातिꣳ स हि पप्रिर् अन्धसः
आ यम् पृणन्ति दिवि सद्मबर्हिषः समुद्रꣳ न सुभ्व१ः स्वा अभिष्टयः । तꣳ वृत्रहत्ये अनु तस्थुर् ऊतयः शुष्मा इन्द्रम् अवाता अह्रुतप्सवः
अभि स्ववृष्टिम् मदे अस्य युध्यतो रघ्वीर् इव प्रवणे सस्रुर् ऊतयः । इन्द्रो यद् वज्री धृषमाणो अन्धसा भिनद् वलस्य परिधीꣳर् इव त्रितः
परीꣳ घृणा चरति तित्विषे शवो ऽपो वृत्वी रजसो बुध्नम् आशयत् । वृत्रस्य यत् प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोर् इन्द्र तन्यतुम्
ह्रदꣳ न हि त्वा न्यृषन्त्य् ऊर्मयो ब्रह्माणीन्द्र तव यानि वर्धना । त्वष्टा चित् ते युज्यꣳ वावृधे शवस् ततक्ष वज्रम् अभिभूत्योजसम्
जघन्वाꣳ उ हरिभिः सम्भृतक्रतव् इन्द्र वृत्रम् मनुषे गातुयन्न् अपः । अयच्छथा बाह्वोर् वज्रम् आयसम् अधारयो दिव्य् आ सूर्यꣳ दृशे
बृहत् स्वश्चन्द्रम् अमवद् यद् उक्थ्य१म् अकृण्वत भियसा रोहणꣳ दिवः । यन् मानुषप्रधना इन्द्रम् ऊतयः स्वर् नृषाचो मरुतो ऽमदन्न् अनु
द्यौश् चिद् अस्यामवाꣳ अहेः स्वनाद् अयोयवीद् भियसा वज्र इन्द्र ते । वृत्रस्य यद् बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच् छिरः
यद् इन् न्व् इन्द्र पृथिवी दशभुजिर् अहानि विश्वा ततनन्त कृष्टयः । अत्राह ते मघवन् विश्रुतꣳ सहो द्याम् अनु शवसा बर्हणा भुवत्
त्वम् अस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः । चकृषे भूमिम् प्रतिमानम् ओजसो ऽपः स्वः परिभूर् एष्य् आ दिवम्
त्वम् भुवः प्रतिमानम् पृथिव्या ऋष्ववीरस्य बृहतः पतिर् भूः । विश्वम् आप्रा अन्तरिक्षम् महित्वा सत्यम् अद्धा नकिर् अन्यस् त्वावान्
न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तम् आनशुः । नोत स्ववृष्टिम् मदे अस्य युध्यत एको अन्यच् चकृषे विश्वम् आनुषक्
आर्चन्न् अत्र मरुतः सस्मिन्न् आजौ विश्वे देवासो अमदन्न् अनु त्वा । वृत्रस्य यद् भृष्टिमता वधेन नि त्वम् इन्द्र प्रत्य् आनꣳ जघन्थ
न्य् ऊ३ षु वाचम् प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः । नू चिद् धि रत्नꣳ ससताम् इवाविदन् न दुष्टुतिर् द्रविणोदेषु शस्यते
दुरो अश्वस्य दुर इन्द्र गोर् असि दुरो यवस्य वसुन इनस् पतिः । शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस् तम् इदꣳ गृणीमसि
शचीव इन्द्र पुरुकृद् द्युमत्तम तवेद् इदम् अभितश् चेकिते वसु । अतः सꣳगृभ्याभिभूत आ भर मा त्वायतो जरितुः कामम् ऊनयीः
एभिर् द्युभिः सुमना एभिर् इन्दुभिर् निरुन्धानो अमतिꣳ गोभिर् अश्विना । इन्द्रेण दस्युꣳ दरयन्त इन्दुभिर् युतद्वेषसः सम् इषा रभेमहि
सम् इन्द्र राया सम् इषा रभेमहि सꣳ वाजेभिः पुरुश्चन्द्रैर् अभिद्युभिः । सꣳ देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि
ते त्वा मदा अमदन् तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते । यत् कारवे दश वृत्राण्य् अप्रति बर्हिष्मते नि सहस्राणि बर्हयः
युधा युधम् उप घेद् एषि धृष्णुया पुरा पुरꣳ सम् इदꣳ हꣳस्य् ओजसा । नम्या यद् इन्द्र सख्या परावति निबर्हयो नमुचिꣳ नाम मायिनम्
त्वꣳ करञ्जम् उत पर्णयꣳ वधीस् तेजिष्ठयातिथिग्वस्य वर्तनी । त्वꣳ शता वङ्गृदस्याभिनत् पुरो ऽनानुदः परिषूता ऋजिश्वना
त्वम् एताञ् जनराज्ञो द्विर् दशाबन्धुना सुश्रवसोपजग्मुषः । षष्टिꣳ सहस्रा नवतिꣳ नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक्
त्वम् आविथ सुश्रवसꣳ तवोतिभिस् तव त्रामभिर् इन्द्र तूर्वयाणम् । त्वम् अस्मै कुत्सम् अतिथिग्वम् आयुम् महे राज्ञे यूने अरन्धनायः
य उदृचीन्द्र देवगोपाः सखायस् ते शिवतमा असाम । त्वाꣳ स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरꣳ दधानाः
मा नो अस्मिन् मघवन् पृत्स्व् अꣳहसि नहि ते अन्तः शवसः परीणशे । अक्रन्दयो नद्यो३ रोरुवद् वना कथा न क्षोणीर् भियसा सम् आरत
अर्चा शक्राय शाकिने शचीवते शृण्वन्तम् इन्द्रम् महयन्न् अभि ष्टुहि । यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते
अर्चा दिवे बृहते शूष्य१ꣳ वचः स्वक्षत्रꣳ यस्य धृषतो धृषन् मनः । बृहच्छ्रवा असुरो बर्हणा कृतः पुरो हरिभ्याꣳ वृषभो रथो हि षः
त्वꣳ दिवो बृहतः सानु कोपयो ऽव त्मना धृषता शम्बरम् भिनत् । यन् मायिनो व्रन्दिनो मन्दिना धृषच् छिताꣳ गभस्तिम् अशनिम् पृतन्यसि
नि यद् वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद् व्रन्दिनो रोरुवद् वना । प्राचीनेन मनसा बर्हणावता यद् अद्या चित् कृणवः कस् त्वा परि
त्वम् आविथ नर्यꣳ तुर्वशꣳ यदुꣳ त्वꣳ तुर्वीतिꣳ वय्यꣳ शतक्रतो । त्वꣳ रथम् एतशꣳ कृत्व्ये धने त्वम् पुरो नवतिꣳ दम्भयो नव
स घा राजा सत्पतिः शूशुवज् जनो रातहव्यः प्रति यः शासम् इन्वति । उक्था वा यो अभिगृणाति राधसा दानुर् अस्मा उपरा पिन्वते दिवः
असमꣳ क्षत्रम् असमा मनीषा प्र सोमपा अपसा सन्तु नेमे । ये त इन्द्र ददुषो वर्धयन्ति महि क्षत्रꣳ स्थविरꣳ वृष्ण्यꣳ च
तुभ्येद् एते बहुला अद्रिदुग्धाश् चमूषदश् चमसा इन्द्रपानाः । व्य् अश्नुहि तर्पया कामम् एषाम् अथा मनो वसुदेयाय कृष्व
अपाम् अतिष्ठद् धरुणह्वरꣳ तमो ऽन्तर् वृत्रस्य जठरेषु पर्वतः । अभीम् इन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु जिघ्नते
स शेवृधम् अधि धा द्युम्नम् अस्मे महि क्षत्रꣳ जनाषाळ् इन्द्र तव्यम् । रक्षा च नो मघोनः पाहि सूरीन् राये च नः स्वपत्या इषे धाः
दिवश् चिद् अस्य वरिमा वि पप्रथ इन्द्रꣳ न मह्ना पृथिवी चन प्रति । भीमस् तुविष्माञ् चर्षणिभ्य आतपः शिशीते वज्रꣳ तेजसे न वꣳसगः
सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः । इन्द्रः सोमस्य पीतये वृषायते सनात् स युध्म ओजसा पनस्यते
त्वꣳ तम् इन्द्र पर्वतꣳ न भोजसे महो नृम्णस्य धर्मणाम् इरज्यसि । प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः
स इद् वने नमस्युभिर् वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम् । वृषा छन्दुर् भवति हर्यतो वृषा क्षेमेण धेनाम् मघवा यद् इन्वति
स इन् महानि समिथानि मज्मना कृणोति युध्म ओजसा जनेभ्यः । अधा चन श्रद् दधति त्विषीमत इन्द्राय वज्रꣳ निघनिघ्नते वधम्
स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसा विनाशयन् । ज्योतीꣳषि कृण्वन्न् अवृकाणि यज्यवे ऽव सुक्रतुः सर्तवा अपः सृजत्
दानाय मनः सोमपावन्न् अस्तु ते ऽर्वाञ्चा हरी वन्दनश्रुद् आ कृधि । यमिष्ठासः सारथयो य इन्द्र ते न त्वा केता आ दभ्नुवन्ति भूर्णयः
अप्रक्षितꣳ वसु बिभर्षि हस्तयोर् अषाळ्हꣳ सहस् तन्वि श्रुतो दधे । आवृतासो ऽवतासो न कर्तृभिस् तनूषु ते क्रतव इन्द्र भूरयः
एष प्र पूर्वीर् अव तस्य चम्रिषो ऽत्यो न योषाम् उद् अयꣳस्त भुर्वणिः । दक्षम् महे पाययते हिरण्ययꣳ रथम् आवृत्या हरियोगम् ऋभ्वसम्
तꣳ गूर्तयो नेमन्निषः परीणसः समुद्रꣳ न सꣳचरणे सनिष्यवः । पतिꣳ दक्षस्य विदथस्य नू सहो गिरिꣳ न वेना अधि रोह तेजसा
स तुर्वणिर् महाꣳ अरेणु पौꣳस्ये गिरेर् भृष्टिर् न भ्राजते तुजा शवः । येन शुष्णम् मायिनम् आयसो मदे दुध्र आभूषु रामयन् नि दामनि
देवी यदि तविषी त्वावृधोतय इन्द्रꣳ सिषक्त्य् उषसꣳ न सूर्यः । यो धृष्णुना शवसा बाधते तम इयर्ति रेणुम् बृहद् अर्हरिष्वणिः
वि यत् तिरो धरुणम् अच्युतꣳ रजो ऽतिष्ठिपो दिव आतासु बर्हणा । स्वर्मीळ्हे यन् मद इन्द्र हर्ष्याहन् वृत्रꣳ निर् अपाम् औब्जो अर्णवम्
त्वꣳ दिवो धरुणꣳ धिष ओजसा पृथिव्या इन्द्र सदनेषु माहिनः । त्वꣳ सुतस्य मदे अरिणा अपो वि वृत्रस्य समया पाष्यारुजः
प्र मꣳहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिम् भरे । अपाम् इव प्रवणे यस्य दुर्धरꣳ राधो विश्वायु शवसे अपावृतम्
अध ते विश्वम् अनु हासद् इष्टय आपो निम्नेव सवना हविष्मतः । यत् पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः
अस्मै भीमाय नमसा सम् अध्वर उषो न शुभ्र आ भरा पनीयसे । यस्य धाम श्रवसे नामेन्द्रियꣳ ज्योतिर् अकारि हरितो नायसे
इमे त इन्द्र ते वयम् पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो । नहि त्वद् अन्यो गिर्वणो गिरः सघत् क्षोणीर् इव प्रति नो हर्य तद् वचः
भूरि त इन्द्र वीर्य१ꣳ तव स्मस्य् अस्य स्तोतुर् मघवन् कामम् आ पृण । अनु ते द्यौर् बृहती वीर्यम् मम इयꣳ च ते पृथिवी नेम ओजसे
त्वꣳ तम् इन्द्र पर्वतम् महाम् उरुꣳ वज्रेण वज्रिन् पर्वशश् चकर्तिथ । अवासृजो निवृताः सर्तवा अपः सत्रा विश्वꣳ दधिषे केवलꣳ सहः
नू चित् सहोजा अमृतो नि तुन्दते होता यद् दूतो अभवद् विवस्वतः । वि साधिष्ठेभिः पथिभी रजो मम आ देवताता हविषा विवासति
आ स्वम् अद्म युवमानो अजरस् तृष्व् अविष्यन्न् अतसेषु तिष्ठति । अत्यो न पृष्ठम् प्रुषितस्य रोचते दिवो न सानु स्तनयन्न् अचिक्रदत्
क्राणा रुद्रेभिर् वसुभिः पुरोहितो होता निषत्तो रयिषाळ् अमर्त्यः । रथो न विक्ष्व् ऋञ्जसान आयुषु व्य् आनुषग् वार्या देव ऋण्वति
वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः । तृषु यद् अग्ने वनिनो वृषायसे कृष्णꣳ त एम रुशदूर्मे अजर
तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वाꣳ अव वाति वꣳसगः । अभिव्रजन्न् अक्षितम् पाजसा रजः स्थातुश् चरथम् भयते पतत्रिणः
दधुष् ट्वा भृगवो मानुषेष्व् आ रयिꣳ न चारुꣳ सुहवꣳ जनेभ्यः । होतारम् अग्ने अतिथिꣳ वरेण्यम् मित्रꣳ न शेवꣳ दिव्याय जन्मने
होतारꣳ सप्त जुह्वो३ यजिष्ठꣳ यꣳ वाघतो वृणते अध्वरेषु । अग्निꣳ विश्वेषाम् अरतिꣳ वसूनाꣳ सपर्यामि प्रयसा यामि रत्नम्
अच्छिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म यच्छ । अग्ने गृणन्तम् अꣳहस उरुष्योर्जो नपात् पूर्भिर् आयसीभिः
भवा वरूथꣳ गृणते विभावो भवा मघवन् मघवद्भ्यः शर्म । उरुष्याग्ने अꣳहसो गृणन्तम् प्रातर् मक्षू धियावसुर् जगम्यात्
वया इद् अग्ने अग्नयस् ते अन्ये त्वे विश्वे अमृता मादयन्ते । वैश्वानर नाभिर् असि क्षितीनाꣳ स्थूणेव जनाꣳ उपमिद् ययन्थ
मूर्धा दिवो नाभिर् अग्निः पृथिव्या अथाभवद् अरती रोदस्योः । तꣳ त्वा देवासो ऽजनयन्त देवꣳ वैश्वानर ज्योतिर् इद् आर्याय
आ सूर्ये न रश्मयो ध्रुवासो वैश्वानरे दधिरे ऽग्ना वसूनि । या पर्वतेष्व् ओषधीष्व् अप्सु या मानुषेष्व् असि तस्य राजा
बृहती इव सूनवे रोदसी गिरो होता मनुष्यो३ न दक्षः । स्वर्वते सत्यशुष्माय पूर्वीर् वैश्वानराय नृतमाय यह्वीः
दिवश् चित् ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम् । राजा कृष्टीनाम् असि मानुषीणाꣳ युधा देवेभ्यो वरिवश् चकर्थ
प्र नू महित्वꣳ वृषभस्य वोचꣳ यम् पूरवो वृत्रहणꣳ सचन्ते । वैश्वानरो दस्युम् अग्निर् जघन्वाꣳ अधूनोत् काष्ठा अव शम्बरम् भेत्
वैश्वानरो महिम्ना विश्वकृष्टिर् भरद्वाजेषु यजतो विभावा । शातवनेये शतिनीभिर् अग्निः पुरुणीथे जरते सूनृतावान्
वह्निꣳ यशसꣳ विदथस्य केतुꣳ सुप्राव्यꣳ दूतꣳ सद्योअर्थम् । द्विजन्मानꣳ रयिम् इव प्रशस्तꣳ रातिम् भरद् भृगवे मातरिश्वा
अस्य शासुर् उभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः । दिवश् चित् पूर्वो न्य् असादि होतापृच्छ्यो विश्पतिर् विक्षु वेधाः
तꣳ नव्यसी हृद आ जायमानम् अस्मत् सुकीर्तिर् मधुजिह्वम् अश्याः । यम् ऋत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त
उशिक् पावको वसुर् मानुषेषु वरेण्यो होताधायि विक्षु । दमूना गृहपतिर् दम आꣳ अग्निर् भुवद् रयिपती रयीणाम्
तꣳ त्वा वयम् पतिम् अग्ने रयीणाम् प्र शꣳसामो मतिभिर् गोतमासः । आशुꣳ न वाजम्भरम् मर्जयन्तः प्रातर् मक्षू धियावसुर् जगम्यात्
अस्मा इद् उ प्र तवसे तुराय प्रयो न हर्मि स्तोमम् माहिनाय । ऋचीषमायाध्रिगव ओहम् इन्द्राय ब्रह्माणि राततमा
अस्मा इद् उ प्रय इव प्र यꣳसि भराम्य् आङ्गूषम् बाधे सुवृक्ति । इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त
अस्मा इद् उ त्यम् उपमꣳ स्वर्षाम् भराम्य् आङ्गूषम् आस्येन । मꣳहिष्ठम् अच्छोक्तिभिर् मतीनाꣳ सुवृक्तिभिः सूरिꣳ वावृधध्यै
अस्मा इद् उ स्तोमꣳ सꣳ हिनोमि रथꣳ न तष्टेव तत्सिनाय । गिरश् च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वम् मेधिराय
अस्मा इद् उ सप्तिम् इव श्रवस्येन्द्रायार्कꣳ जुह्वा३ सम् अञ्जे । वीरꣳ दानौकसꣳ वन्दध्यै पुराꣳ गूर्तश्रवसꣳ दर्माणम्
अस्मा इद् उ त्वष्टा तक्षद् वज्रꣳ स्वपस्तमꣳ स्वर्य१ꣳ रणाय । वृत्रस्य चिद् विदद् येन मर्म तुजन्न् ईशानस् तुजता कियेधाः
अस्येद् उ मातुः सवनेषु सद्यो महः पितुम् पपिवाञ् चार्व् अन्ना । मुषायद् विष्णुः पचतꣳ सहीयान् विध्यद् वराहꣳ तिरो अद्रिम् अस्ता
अस्मा इद् उ ग्नाश् चिद् देवपत्नीर् इन्द्रायार्कम् अहिहत्य ऊवुः । परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानम् परि ष्टः
अस्येद् एव प्र रिरिचे महित्वꣳ दिवस् पृथिव्याः पर्य् अन्तरिक्षात् । स्वराळ् इन्द्रो दम आ विश्वगूर्तः स्वरिर् अमत्रो ववक्षे रणाय
अस्येद् एव शवसा शुषन्तꣳ वि वृश्चद् वज्रेण वृत्रम् इन्द्रः । गा न व्राणा अवनीर् अमुञ्चद् अभि श्रवो दावने सचेताः
अस्येद् उ त्वेषसा रन्त सिन्धवः परि यद् वज्रेण सीम् अयच्छत् । ईशानकृद् दाशुषे दशस्यन् तुर्वीतये गाधꣳ तुर्वणिः कः
अस्मा इद् उ प्र भरा तूतुजानो वृत्राय वज्रम् ईशानः कियेधाः । गोर् न पर्व वि रदा तिरश्चेष्यन्न् अर्णाꣳस्य् अपाꣳ चरध्यै
अस्येद् उ प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः । युधे यद् इष्णान आयुधान्य् ऋघायमाणो निरिणाति शत्रून्
अस्येद् उ भिया गिरयश् च दृळ्हा द्यावा च भूमा जनुषस् तुजेते । उपो वेनस्य जोगुवान ओणिꣳ सद्यो भुवद् वीर्याय नोधाः
अस्मा इद् उ त्यद् अनु दाय्य् एषाम् एको यद् वव्ने भूरेर् ईशानः । प्रैतशꣳ सूर्ये पस्पृधानꣳ सौवश्व्ये सुष्विम् आवद् इन्द्रः
एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् । ऐषु विश्वपेशसꣳ धियꣳ धाः प्रातर् मक्षू धियावसुर् जगम्यात्
प्र मन्महे शवसानाय शूषम् आङ्गूषꣳ गिर्वणसे अङ्गिरस्वत् । सुवृक्तिभिः स्तुवत ऋग्मियायार्चामार्कꣳ नरे विश्रुताय
प्र वो महे महि नमो भरध्वम् आङ्गूष्यꣳ शवसानाय साम । येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसो गा अविन्दन्
इन्द्रस्याङ्गिरसाꣳ चेष्टौ विदत् सरमा तनयाय धासिम् । बृहस्पतिर् भिनद् अद्रिꣳ विदद् गाः सम् उस्रियाभिर् वावशन्त नरः
स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिꣳ स्वर्यो३ नवग्वैः । सरण्युभिः फलिगम् इन्द्र शक्र वलꣳ रवेण दरयो दशग्वैः
गृणानो अङ्गिरोभिर् दस्म वि वर् उषसा सूर्येण गोभिर् अन्धः । वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरम् अस्तभायः
तद् उ प्रयक्षतमम् अस्य कर्म दस्मस्य चारुतमम् अस्ति दꣳसः । उपह्वरे यद् उपरा अपिन्वन् मध्वर्णसो नद्य१श् चतस्रः
द्विता वि वव्रे सनजा सनीळे अयास्यः स्तवमानेभिर् अर्कैः । भगो न मेने परमे व्योमन्न् अधारयद् रोदसी सुदꣳसाः
सनाद् दिवम् परि भूमा विरूपे पुनर्भुवा युवती स्वेभिर् एवैः । कृष्णेभिर् अक्तोषा रुशद्भिर् वपुर्भिर् आ चरतो अन्यान्या
सनेमि सख्यꣳ स्वपस्यमानः सूनुर् दाधार शवसा सुदꣳसाः । आमासु चिद् दधिषे पक्वम् अन्तः पयः कृष्णासु रुशद् रोहिणीषु
सनात् सनीळा अवनीर् अवाता व्रता रक्षन्ते अमृताः सहोभिः । पुरू सहस्रा जनयो न पत्नीर् दुवस्यन्ति स्वसारो अह्रयाणम्
सनायुवो नमसा नव्यो अर्कैर् वसूयवो मतयो दस्म दद्रुः । पतिꣳ न पत्नीर् उशतीर् उशन्तꣳ स्पृशन्ति त्वा शवसावन् मनीषाः
सनाद् एव तव रायो गभस्तौ न क्षीयन्ते नोप दस्यन्ति दस्म । द्युमाꣳ असि क्रतुमाꣳ इन्द्र धीरः शिक्षा शचीवस् तव नः शचीभिः
सनायते गोतम इन्द्र नव्यम् अतक्षद् ब्रह्म हरियोजनाय । सुनीथाय नः शवसान नोधाः प्रातर् मक्षू धियावसुर् जगम्यात्
त्वम् महाꣳ इन्द्र यो ह शुष्मैर् द्यावा जज्ञानः पृथिवी अमे धाः । यद् ध ते विश्वा गिरयश् चिद् अभ्वा भिया दृळ्हासः किरणा नैजन्
आ यद् धरी इन्द्र विव्रता वेर् आ ते वज्रꣳ जरिता बाह्वोर् धात् । येनाविहर्यतक्रतो अमित्रान् पुर इष्णासि पुरुहूत पूर्वीः
त्वꣳ सत्य इन्द्र धृष्णुर् एतान् त्वम् ऋभुक्षा नर्यस् त्वꣳ षाट् । त्वꣳ शुष्णꣳ वृजने पृक्ष आणौ यूने कुत्साय द्युमते सचाहन्
त्वꣳ ह त्यद् इन्द्र चोदीः सखा वृत्रꣳ यद् वज्रिन् वृषकर्मन्न् उभ्नाः । यद् ध शूर वृषमणः पराचैर् वि दस्यूꣳर् योनाव् अकृतो वृथाषाट्
त्वꣳ ह त्यद् इन्द्रारिषण्यन् दृळ्हस्य चिन् मर्तानाम् अजुष्टौ । व्य् अ१स्मद् आ काष्ठा अर्वते वर् घनेव वज्रिञ् छ्नथिह्य् अमित्रान्
त्वाꣳ ह त्यद् इन्द्रार्णसातौ स्वर्मीळ्हे नर आजा हवन्ते । तव स्वधाव इयम् आ समर्य ऊतिर् वाजेष्व् अतसाय्या भूत्
त्वꣳ ह त्यद् इन्द्र सप्त युध्यन् पुरो वज्रिन् पुरुकुत्साय दर्दः । बर्हिर् न यत् सुदासे वृथा वर्ग् अꣳहो राजन् वरिवः पूरवे कः
त्वꣳ त्याꣳ न इन्द्र देव चित्राम् इषम् आपो न पीपयः परिज्मन् । यया शूर प्रत्य् अस्मभ्यꣳ यꣳसि त्मनम् ऊर्जꣳ न विश्वध क्षरध्यै
अकारि त इन्द्र गोतमेभिर् ब्रह्माण्य् ओक्ता नमसा हरिभ्याम् । सुपेशसꣳ वाजम् आ भरा नः प्रातर् मक्षू धियावसुर् जगम्यात्
वृष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिम् प्र भरा मरुद्भ्यः । अपो न धीरो मनसा सुहस्त्यो गिरः सम् अञ्जे विदथेष्व् आभुवः
ते जज्ञिरे दिव ऋष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः । पावकासः शुचयः सूर्या इव सत्वानो न द्रप्सिनो घोरवर्पसः
युवानो रुद्रा अजरा अभोग्घनो ववक्षुर् अध्रिगावः पर्वता इव । दृळ्हा चिद् विश्वा भुवनानि पार्थिवा प्र च्यावयन्ति दिव्यानि मज्मना
चित्रैर् अञ्जिभिर् वपुषे व्य् अञ्जते वक्षःसु रुक्माꣳ अधि येतिरे शुभे । अꣳसेष्व् एषाꣳ नि मिमृक्षुर् ऋष्टयः साकꣳ जज्ञिरे स्वधया दिवो नरः
ईशानकृतो धुनयो रिशादसो वातान् विद्युतस् तविषीभिर् अक्रत । दुहन्त्य् ऊधर् दिव्यानि धूतयो भूमिम् पिन्वन्ति पयसा परिज्रयः
पिन्वन्त्य् अपो मरुतः सुदानवः पयो घृतवद् विदथेष्व् आभुवः । अत्यꣳ न मिहे वि नयन्ति वाजिनम् उत्सꣳ दुहन्ति स्तनयन्तम् अक्षितम्
महिषासो मायिनश् चित्रभानवो गिरयो न स्वतवसो रघुष्यदः । मृगा इव हस्तिनः खादथा वना यद् आरुणीषु तविषीर् अयुग्ध्वम्
सिꣳहा इव नानदति प्रचेतसः पिशा इव सुपिशो विश्ववेदसः । क्षपो जिन्वन्तः पृषतीभिर् ऋष्टिभिः सम् इत् सबाधः शवसाहिमन्यवः
रोदसी आ वदता गणश्रियो नृषाचः शूराः शवसाहिमन्यवः । आ वन्धुरेष्व् अमतिर् न दर्शता विद्युन् न तस्थौ मरुतो रथेषु वः
विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस् तविषीभिर् विरप्शिनः । अस्तार इषुꣳ दधिरे गभस्त्योर् अनन्तशुष्मा वृषखादयो नरः
हिरण्ययेभिः पविभिः पयोवृध उज्जिघ्नन्त आपथ्यो३ न पर्वतान् । मखा अयासः स्वसृतो ध्रुवच्युतो दुध्रकृतो मरुतो भ्राजदृष्टयः
घृषुम् पावकꣳ वनिनꣳ विचर्षणिꣳ रुद्रस्य सूनुꣳ हवसा गृणीमसि । रजस्तुरꣳ तवसम् मारुतꣳ गणम् ऋजीषिणꣳ वृषणꣳ सश्चत श्रिये
प्र नू स मर्तः शवसा जनाꣳ अति तस्थौ व ऊती मरुतो यम् आवत । अर्वद्भिर् वाजम् भरते धना नृभिर् आपृच्छ्यꣳ क्रतुम् आ क्षेति पुष्यति
चर्कृत्यम् मरुतः पृत्सु दुष्टरꣳ द्युमन्तꣳ शुष्मम् मघवत्सु धत्तन । धनस्पृतम् उक्थ्यꣳ विश्वचर्षणिꣳ तोकम् पुष्येम तनयꣳ शतꣳ हिमाः
नू ष्ठिरम् मरुतो वीरवन्तम् ऋतीषाहꣳ रयिम् अस्मासु धत्त । सहस्रिणꣳ शतिनꣳ शूशुवाꣳसम् प्रातर् मक्षू धियावसुर् जगम्यात्
पश्वा न तायुꣳ गुहा चतन्तꣳ नमो युजानꣳ नमो वहन्तम्
सजोषा धीराः पदैर् अनु ग्मन्न् उप त्वा सीदन् विश्वे यजत्राः
ऋतस्य देवा अनु व्रता गुर् भुवत् परिष्टिर् द्यौर् न भूम
वर्धन्तीम् आपः पन्वा सुशिश्विम् ऋतस्य योना गर्भे सुजातम्
पुष्टिर् न रण्वा क्षितिर् न पृथ्वी गिरिर् न भुज्म क्षोदो न शम्भु
अत्यो नाज्मन् सर्गप्रतक्तः सिन्धुर् न क्षोदः क ईꣳ वराते
जामिः सिन्धूनाम् भ्रातेव स्वस्राम् इभ्यान् न राजा वनान्य् अत्ति
यद् वातजूतो वना व्य् अस्थाद् अग्निर् ह दाति रोमा पृथिव्याः
श्वसित्य् अप्सु हꣳसो न सीदन् क्रत्वा चेतिष्ठो विशाम् उषर्भुत्
सोमो न वेधा ऋतप्रजातः पशुर् न शिश्वा विभुर् दूरेभाः
रयिर् न चित्रा सूरो न सꣳदृग् आयुर् न प्राणो नित्यो न सूनुः
तक्वा न भूर्णिर् वना सिषक्ति पयो न धेनुः शुचिर् विभावा
दाधार क्षेमम् ओको न रण्वो यवो न पक्वो जेता जनानाम्
ऋषिर् न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयो दधाति
दुरोकशोचिः क्रतुर् न नित्यो जायेव योनाव् अरꣳ विश्वस्मै
चित्रो यद् अभ्राट् छ्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु
सेनेव सृष्टामꣳ दधात्य् अस्तुर् न दिद्युत् त्वेषप्रतीका
यमो ह जातो यमो जनित्वꣳ जारः कनीनाम् पतिर् जनीनाम्
तꣳ वश् चराथा वयꣳ वसत्यास्तꣳ न गावो नक्षन्त इद्धम्
सिन्धुर् न क्षोदः प्र नीचीर् ऐनोन् नवन्त गावः स्व१र् दृशीके
वनेषु जायुर् मर्तेषु मित्रो वृणीते श्रुष्टिꣳ राजेवाजुर्यम्
क्षेमो न साधुः क्रतुर् न भद्रो भुवत् स्वाधीर् होता हव्यवाट्
हस्ते दधानो नृम्णा विश्वान्य् अमे देवान् धाद् गुहा निषीदन्
विदन्तीम् अत्र नरो धियꣳधा हृदा यत् तष्टान् मन्त्राꣳ अशꣳसन्
अजो न क्षाꣳ दाधार पृथिवीꣳ तस्तम्भ द्याम् मन्त्रेभिः सत्यैः
प्रिया पदानि पश्वो नि पाहि विश्वायुर् अग्ने गुहा गुहꣳ गाः
य ईꣳ चिकेत गुहा भवन्तम् आ यः ससाद धाराम् ऋतस्य
वि ये चृतन्त्य् ऋता सपन्त आद् इद् वसूनि प्र ववाचास्मै
वि यो वीरुत्सु रोधन् महित्वोत प्रजा उत प्रसूष्व् अन्तः
चित्तिर् अपाꣳ दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः
श्रीणन्न् उप स्थाद् दिवम् भुरण्युः स्थातुश् चरथम् अक्तून् व्य् ऊर्णोत्
परि यद् एषाम् एको विश्वेषाम् भुवद् देवो देवानाम् महित्वा
आद् इत् ते विश्वे क्रतुꣳ जुषन्त शुष्काद् यद् देव जीवो जनिष्ठाः
भजन्त विश्वे देवत्वꣳ नाम ऋतꣳ सपन्तो अमृतम् एवैः
ऋतस्य प्रेषा ऋतस्य धीतिर् विश्वायुर् विश्वे अपाꣳसि चक्रुः
यस् तुभ्यꣳ दाशाद् यो वा ते शिक्षात् तस्मै चिकित्वान् रयिꣳ दयस्व
होता निषत्तो मनोर् अपत्ये स चिन् न्व् आसाम् पती रयीणाम्
इच्छन्त रेतो मिथस् तनूषु सꣳ जानत स्वैर् दक्षैर् अमूराः
पितुर् न पुत्राः क्रतुꣳ जुषन्त श्रोषन् ये अस्य शासꣳ तुरासः
वि राय और्णोद् दुरः पुरुक्षुः पिपेश नाकꣳ स्तृभिर् दमूनाः
शुक्रः शुशुक्वाꣳ उषो न जारः पप्रा समीची दिवो न ज्योतिः
परि प्रजातः क्रत्वा बभूथ भुवो देवानाम् पिता पुत्रः सन्
वेधा अदृप्तो अग्निर् विजानन्न् ऊधर् न गोनाꣳ स्वाद्मा पितूनाम्
जने न शेव आहूर्यः सन् मध्ये निषत्तो रण्वो दुरोणे
पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत्
विशो यद् अह्वे नृभिः सनीळा अग्निर् देवत्वा विश्वान्य् अश्याः
नकिष् ट एता व्रता मिनन्ति नृभ्यो यद् एभ्यः श्रुष्टिꣳ चकर्थ
तत् तु ते दꣳसो यद् अहन् समानैर् नृभिर् यद् युक्तो विवे रपाꣳसि
उषो न जारो विभावोस्रः सꣳज्ञातरूपश् चिकेतद् अस्मै
त्मना वहन्तो दुरो व्य् ऋण्वन् नवन्त विश्वे स्व१र् दृशीके
वनेम पूर्वीर् अर्यो मनीषा अग्निः सुशोको विश्वान्य् अश्याः
आ दैव्यानि व्रता चिकित्वान् आ मानुषस्य जनस्य जन्म
गर्भो यो अपाꣳ गर्भो वनानाꣳ गर्भश् च स्थाताꣳ गर्भश् चरथाम्
अद्रौ चिद् अस्मा अन्तर् दुरोणे विशाꣳ न विश्वो अमृतः स्वाधीः
स हि क्षपावाꣳ अग्नी रयीणाꣳ दाशद् यो अस्मा अरꣳ सूक्तैः
एता चिकित्वो भूमा नि पाहि देवानाꣳ जन्म मर्ताꣳश् च विद्वान्
वर्धान् यम् पूर्वीः क्षपो विरूपाः स्थातुश् च रथम् ऋतप्रवीतम्
अराधि होता स्व१र् निषत्तः कृण्वन् विश्वान्य् अपाꣳसि सत्या
गोषु प्रशस्तिꣳ वनेषु धिषे भरन्त विश्वे बलिꣳ स्वर् णः
वि त्वा नरः पुरुत्रा सपर्यन् पितुर् न जिव्रेर् वि वेदो भरन्त
साधुर् न गृध्नुर् अस्तेव शूरो यातेव भीमस् त्वेषः समत्सु
उप प्र जिन्वन्न् उशतीर् उशन्तम् पतिꣳ न नित्यꣳ जनयः सनीळाः । स्वसारः श्यावीम् अरुषीम् अजुष्रञ् चित्रम् उच्छन्तीम् उषसꣳ न गावः
वीळु चिद् दृळ्हा पितरो न उक्थैर् अद्रिꣳ रुजन्न् अङ्गिरसो रवेण । चक्रुर् दिवो बृहतो गातुम् अस्मे अहः स्वर् विविदुः केतुम् उस्राः
दधन्न् ऋतꣳ धनयन्न् अस्य धीतिम् आद् इद् अर्यो दिधिष्वो३ विभृत्राः । अतृष्यन्तीर् अपसो यन्त्य् अच्छा देवाञ् जन्म प्रयसा वर्धयन्तीः
मथीद् यद् ईꣳ विभृतो मातरिश्वा गृहे-गृहे श्येतो जेन्यो भूत् । आद् ईꣳ राज्ञे न सहीयसे सचा सन्न् आ दूत्य१म् भृगवाणो विवाय
महे यत् पित्र ईꣳ रसꣳ दिवे कर् अव त्सरत् पृशन्यश् चिकित्वान् । सृजद् अस्ता धृषता दिद्युम् अस्मै स्वायाꣳ देवो दुहितरि त्विषिꣳ धात्
स्व आ यस् तुभ्यꣳ दम आ विभाति नमो वा दाशाद् उशतो अनु द्यून् । वर्धो अग्ने वयो अस्य द्विबर्हा यासद् राया सरथꣳ यꣳ जुनासि
अग्निꣳ विश्वा अभि पृक्षः सचन्ते समुद्रꣳ न स्रवतः सप्त यह्वीः । न जामिभिर् वि चिकिते वयो नो विदा देवेषु प्रमतिꣳ चिकित्वान्
आ यद् इषे नृपतिꣳ तेज आनट् छुचि रेतो निषिक्तꣳ द्यौर् अभीके । अग्निः शर्धम् अनवद्यꣳ युवानꣳ स्वाध्यꣳ जनयत् सूदयच् च
मनो न यो ऽध्वनः सद्य एत्य् एकः सत्रा सूरो वस्व ईशे । राजाना मित्रावरुणा सुपाणी गोषु प्रियम् अमृतꣳ रक्षमाणा
मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष् कविः सन् । नभो न रूपꣳ जरिमा मिनाति पुरा तस्या अभिशस्तेर् अधीहि
नि काव्या वेधसः शश्वतस् कर् हस्ते दधानो नर्या पुरूणि । अग्निर् भुवद् रयिपती रयीणाꣳ सत्रा चक्राणो अमृतानि विश्वा
अस्मे वत्सम् परि षन्तꣳ न विन्दन्न् इच्छन्तो विश्वे अमृता अमूराः । श्रमयुवः पदव्यो धियꣳधास् तस्थुः पदे परमे चार्व् अग्नेः
तिस्रो यद् अग्ने शरदस् त्वाम् इच् छुचिꣳ घृतेन शुचयः सपर्यान् । नामानि चिद् दधिरे यज्ञियान्य् असूदयन्त तन्व१ः सुजाताः
आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः । विदन् मर्तो नेमधिता चिकित्वान् अग्निम् पदे परमे तस्थिवाꣳसम्
सꣳजानाना उप सीदन्न् अभिज्ञु पत्नीवन्तो नमस्यꣳ नमस्यन् । रिरिक्वाꣳसस् तन्वः कृण्वत स्वाः सखा सख्युर् निमिषि रक्षमाणाः
त्रिः सप्त यद् गुह्यानि त्वे इत् पदाविदन् निहिता यज्ञियासः । तेभी रक्षन्ते अमृतꣳ सजोषाः पशूञ् च स्थातॄञ् चरथꣳ च पाहि
विद्वाꣳ अग्ने वयुनानि क्षितीनाꣳ व्य् आनुषक् छुरुधो जीवसे धाः । अन्तर्विद्वाꣳ अध्वनो देवयानान् अतन्द्रो दूतो अभवो हविर्वाट्
स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्य् ऋतज्ञा अजानन् । विदद् गव्यꣳ सरमा दृळ्हम् ऊर्वꣳ येना नु कम् मानुषी भोजते विट्
आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् । मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैर् अदितिर् धायसे वेः
अधि श्रियꣳ नि दधुश् चारुम् अस्मिन् दिवो यद् अक्षी अमृता अकृण्वन् । अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीर् अग्ने अरुषीर् अजानन्
रयिर् न यः पितृवित्तो वयोधाः सुप्रणीतिश् चिकितुषो न शासुः । स्योनशीर् अतिथिर् न प्रीणानो होतेव सद्म विधतो वि तारीत्
देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा । पुरुप्रशस्तो अमतिर् न सत्य आत्मेव शेवो दिधिषाय्यो भूत्
देवो न यः पृथिवीꣳ विश्वधाया उपक्षेति हितमित्रो न राजा । पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी
तꣳ त्वा नरो दम आ नित्यम् इद्धम् अग्ने सचन्त क्षितिषु ध्रुवासु । अधि द्युम्नꣳ नि दधुर् भूर्य् अस्मिन् भवा विश्वायुर् धरुणो रयीणाम्
वि पृक्षो अग्ने मघवानो अश्युर् वि सूरयो ददतो विश्वम् आयुः । सनेम वाजꣳ समिथेष्व् अर्यो भागꣳ देवेषु श्रवसे दधानाः
ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः । परावतः सुमतिम् भिक्षमाणा वि सिन्धवः समया सस्रुर् अद्रिम्
त्वे अग्ने सुमतिम् भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः । नक्ता च चक्रुर् उषसा विरूपे कृष्णꣳ च वर्णम् अरुणꣳ च सꣳ धुः
यान् राये मर्तान् सुषूदो अग्ने ते स्याम मघवानो वयꣳ च । छायेव विश्वम् भुवनꣳ सिसक्ष्य् आपप्रिवान् रोदसी अन्तरिक्षम्
अर्वद्भिर् अग्ने अर्वतो नृभिर् नॄन् वीरैर् वीरान् वनुयामा त्वोताः । ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः
एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च । शकेम रायः सुधुरो यमꣳ ते ऽधि श्रवो देवभक्तꣳ दधानाः
उपप्रयन्तो अध्वरम् मन्त्रꣳ वोचेमाग्नये । आरे अस्मे च शृण्वते
यः स्नीहितीषु पूर्व्यः सꣳजग्मानासु कृष्टिषु । अरक्षद् दाशुषे गयम्
उत ब्रुवन्तु जन्तव उद् अग्निर् वृत्रहाजनि । धनꣳजयो रणे-रणे
यस्य दूतो असि क्षये वेषि हव्यानि वीतये । दस्मत् कृणोष्य् अध्वरम्
तम् इत् सुहव्यम् अङ्गिरः सुदेवꣳ सहसो यहो । जना आहुः सुबर्हिषम्
आ च वहासि ताꣳ इह देवाꣳ उप प्रशस्तये । हव्या सुश्चन्द्र वीतये
न योर् उपब्दिर् अश्व्यः शृण्वे रथस्य कच् चन । यद् अग्ने यासि दूत्यम्
त्वोतो वाज्य् अह्रयो ऽभि पूर्वस्माद् अपरः । प्र दाश्वाꣳ अग्ने अस्थात्
उत द्युमत् सुवीर्यम् बृहद् अग्ने विवाससि । देवेभ्यो देव दाशुषे
जुषस्व सप्रथस्तमꣳ वचो देवप्सरस्तमम् । हव्या जुह्वान आसनि
अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम् । वोचेम ब्रह्म सानसि
कस् ते जामिर् जनानाम् अग्ने को दाश्वध्वरः । को ह कस्मिन्न् असि श्रितः
त्वꣳ जामिर् जनानाम् अग्ने मित्रो असि प्रियः । सखा सखिभ्य ईड्यः
यजा नो मित्रावरुणा यजा देवाꣳ ऋतम् बृहत् । अग्ने यक्षि स्वꣳ दमम्
का त उपेतिर् मनसो वराय भुवद् अग्ने शꣳतमा का मनीषा । को वा यज्ञैः परि दक्षꣳ त आप केन वा ते मनसा दाशेम
एह्य् अग्न इह होता नि षीदादब्धः सु पुरएता भवा नः । अवताꣳ त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान्
प्र सु विश्वान् रक्षसो धक्ष्य् अग्ने भवा यज्ञानाम् अभिशस्तिपावा । अथा वह सोमपतिꣳ हरिभ्याम् आतिथ्यम् अस्मै चकृमा सुदाव्ने
प्रजावता वचसा वह्निर् आसा च हुवे नि च सत्सीह देवैः । वेषि होत्रम् उत पोत्रꣳ यजत्र बोधि प्रयन्तर् जनितर् वसूनाम्
यथा विप्रस्य मनुषो हविर्भिर् देवाꣳ अयजः कविभिः कविः सन् । एवा होतः सत्यतर त्वम् अद्याग्ने मन्द्रया जुह्वा यजस्व
कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः । यो मर्त्येष्व् अमृत ऋतावा होता यजिष्ठ इत् कृणोति देवान्
यो अध्वरेषु शꣳतम ऋतावा होता तम् ऊ नमोभिर् आ कृणुध्वम् । अग्निर् यद् वेर् मर्ताय देवान् स चा बोधाति मनसा यजाति
स हि क्रतुः स मर्यः स साधुर् मित्रो न भूद् अद्भुतस्य रथीः । तम् मेधेषु प्रथमꣳ देवयन्तीर् विश उप ब्रुवते दस्मम् आरीः
स नो नृणाꣳ नृतमो रिशादा अग्निर् गिरो ऽवसा वेतु धीतिम् । तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म
एवाग्निर् गोतमेभिर् ऋतावा विप्रेभिर् अस्तोष्ट जातवेदाः । स एषु द्युम्नम् पीपयत् स वाजꣳ स पुष्टिꣳ याति जोषम् आ चिकित्वान्
अभि त्वा गोतमा गिरा जातवेदो विचर्षणे । द्युम्नैर् अभि प्र णोनुमः
तम् उ त्वा गोतमो गिरा रायस्कामो दुवस्यति । द्युम्नैर् अभि प्र णोनुमः
तम् उ त्वा वाजसातमम् अङ्गिरस्वद् धवामहे । द्युम्नैर् अभि प्र णोनुमः
तम् उ त्वा वृत्रहन्तमꣳ यो दस्यूꣳर् अवधूनुषे । द्युम्नैर् अभि प्र णोनुमः
अवोचाम रहूगणा अग्नये मधुमद् वचः । द्युम्नैर् अभि प्र णोनुमः
हिरण्यकेशो रजसो विसारे ऽहिर् धुनिर् वात इव ध्रजीमान् । शुचिभ्राजा उषसो नवेदा यशस्वतीर् अपस्युवो न सत्याः
आ ते सुपर्णा अमिनन्तꣳ एवैः कृष्णो नोनाव वृषभो यदीदम् । शिवाभिर् न स्मयमानाभिर् आगात् पतन्ति मिहः स्तनयन्त्य् अभ्रा
यद् ईम् ऋतस्य पयसा पियानो नयन्न् ऋतस्य पथिभी रजिष्ठैः । अर्यमा मित्रो वरुणः परिज्मा त्वचम् पृञ्चन्त्य् उपरस्य योनौ
अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे धेहि जातवेदो महि श्रवः
स इधानो वसुष् कविर् अग्निर् ईळेन्यो गिरा । रेवद् अस्मभ्यम् पुर्वणीक दीदिहि
क्षपो राजन्न् उत त्मनाग्ने वस्तोर् उतोषसः । स तिग्मजम्भ रक्षसो दह प्रति
अवा नो अग्न ऊतिभिर् गायत्रस्य प्रभर्मणि । विश्वासु धीषु वन्द्य
आ नो अग्ने रयिम् भर सत्रासाहꣳ वरेण्यम् । विश्वासु पृत्सु दुष्टरम्
आ नो अग्ने सुचेतुना रयिꣳ विश्वायुपोषसम् । मार्डीकꣳ धेहि जीवसे
प्र पूतास् तिग्मशोचिषे वाचो गोतमाग्नये । भरस्व सुम्नयुर् गिरः
यो नो अग्ने ऽभिदासत्य् अन्ति दूरे पदीष्ट सः । अस्माकम् इद् वृधे भव
सहस्राक्षो विचर्षणिर् अग्नी रक्षाꣳसि सेधति । होता गृणीत उक्थ्यः
इत्था हि सोम इन् मदे ब्रह्मा चकार वर्धनम् । शविष्ठ वज्रिन्न् ओजसा पृथिव्या निः शशा अहिम् अर्चन्न् अनु स्वराज्यम्
स त्वामदद् वृषा मदः सोमः श्येनाभृतः सुतः । येना वृत्रꣳ निर् अद्भ्यो जघन्थ वज्रिन्न् ओजसार्चन्न् अनु स्वराज्यम्
प्रेह्य् अभीहि धृष्णुहि न ते वज्रो नि यꣳसते । इन्द्र नृम्णꣳ हि ते शवो हनो वृत्रꣳ जया अपो ऽर्चन्न् अनु स्वराज्यम्
निर् इन्द्र भूम्या अधि वृत्रꣳ जघन्थ निर् दिवः । सृजा मरुत्वतीर् अव जीवधन्या इमा अपो ऽर्चन्न् अनु स्वराज्यम्
इन्द्रो वृत्रस्य दोधतः सानुꣳ वज्रेण हीळितः । अभिक्रम्याव जिघ्नते ऽपः सर्माय चोदयन्न् अर्चन्न् अनु स्वराज्यम्
अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा । मन्दान इन्द्रो अन्धसः सखिभ्यो गातुम् इच्छत्य् अर्चन्न् अनु स्वराज्यम्
इन्द्र तुभ्यम् इद् अद्रिवो ऽनुत्तꣳ वज्रिन् वीर्यम् । यद् ध त्यम् मायिनम् मृगꣳ तम् उ त्वम् माययावधीर् अर्चन्न् अनु स्वराज्यम्
वि ते वज्रासो अस्थिरन् नवतिꣳ नाव्या३ अनु । महत् त इन्द्र वीर्यम् बाह्वोस् ते बलꣳ हितम् अर्चन्न् अनु स्वराज्यम्
सहस्रꣳ साकम् अर्चत परि ष्टोभत विꣳशतिः । शतैनम् अन्व् अनोनवुर् इन्द्राय ब्रह्मोद्यतम् अर्चन्न् अनु स्वराज्यम्
इन्द्रो वृत्रस्य तविषीꣳ निर् अहन् सहसा सहः । महत् तद् अस्य पौꣳस्यꣳ वृत्रꣳ जघन्वाꣳ असृजद् अर्चन्न् अनु स्वराज्यम्
इमे चित् तव मन्यवे वेपेते भियसा मही । यद् इन्द्र वज्रिन्न् ओजसा वृत्रम् मरुत्वाꣳ अवधीर् अर्चन्न् अनु स्वराज्यम्
न वेपसा न तन्यतेन्द्रꣳ वृत्रो वि बीभयत् । अभ्य् एनꣳ वज्र आयसः सहस्रभृष्टिर् आयतार्चन्न् अनु स्वराज्यम्
यद् वृत्रꣳ तव चाशनिꣳ वज्रेण समयोधयः । अहिम् इन्द्र जिघाꣳसतो दिवि ते बद्बधे शवो ऽर्चन्न् अनु स्वराज्यम्
अभिष्टने ते अद्रिवो यत् स्था जगच् च रेजते । त्वष्टा चित् तव मन्यव इन्द्र वेविज्यते भियार्चन्न् अनु स्वराज्यम्
नहि नु याद् अधीमसीन्द्रꣳ को वीर्या परः । तस्मिन् नृम्णम् उत क्रतुꣳ देवा ओजाꣳसि सꣳ दधुर् अर्चन्न् अनु स्वराज्यम्
याम् अथर्वा मनुष् पिता दध्यङ् धियम् अत्नत । तस्मिन् ब्रह्माणि पूर्वथेन्द्र उक्था सम् अग्मतार्चन्न् अनु स्वराज्यम्
इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः । तम् इन् महत्स्व् आजिषूतेम् अर्भे हवामहे स वाजेषु प्र नो ऽविषत्
असि हि वीर सेन्यो ऽसि भूरि पराददिः । असि दभ्रस्य चिद् वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु
यद् उदीरत आजयो धृष्णवे धीयते धना । युक्ष्वा मदच्युता हरी कꣳ हनः कꣳ वसौ दधो ऽस्माꣳ इन्द्र वसौ दधः
क्रत्वा महाꣳ अनुष्वधम् भीम आ वावृधे शवः । श्रिय ऋष्व उपाकयोर् नि शिप्री हरिवान् दधे हस्तयोर् वज्रम् आयसम्
आ पप्रौ पार्थिवꣳ रजो बद्बधे रोचना दिवि । न त्वावाꣳ इन्द्र कश् चन न जातो न जनिष्यते ऽति विश्वꣳ ववक्षिथ
यो अर्यो मर्तभोजनम् पराददाति दाशुषे । इन्द्रो अस्मभ्यꣳ शिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः
मदे-मदे हि नो ददिर् यूथा गवाम् ऋजुक्रतुः । सꣳ गृभाय पुरू शतोभयाहस्त्या वसु शिशीहि राय आ भर
मादयस्व सुते सचा शवसे शूर राधसे । विद्मा हि त्वा पुरूवसुम् उप कामान् ससृज्महे ऽथा नो ऽविता भव
एते त इन्द्र जन्तवो विश्वम् पुष्यन्ति वार्यम् । अन्तर् हि ख्यो जनानाम् अर्यो वेदो अदाशुषाꣳ तेषाꣳ नो वेद आ भर
उपो षु शृणुही गिरो मघवन् मातथा इव । यदा नः सूनृतावतः कर आद् अर्थयास इद् योजा न्व् इन्द्र ते हरी
अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्व् इन्द्र ते हरी
सुसꣳदृशꣳ त्वा वयम् मघवन् वन्दिषीमहि । प्र नूनम् पूर्णवन्धुरः स्तुतो याहि वशाꣳ अनु योजा न्व् इन्द्र ते हरी
स घा तꣳ वृषणꣳ रथम् अधि तिष्ठाति गोविदम् । यः पात्रꣳ हारियोजनम् पूर्णम् इन्द्र चिकेतति योजा न्व् इन्द्र ते हरी
युक्तस् ते अस्तु दक्षिण उत सव्यः शतक्रतो । तेन जायाम् उप प्रियाम् मन्दानो याह्य् अन्धसो योजा न्व् इन्द्र ते हरी
युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः । उत् त्वा सुतासो रभसा अमन्दिषुः पूषण्वान् वज्रिन् सम् उ पत्न्यामदः
अश्वावति प्रथमो गोषु गच्छति सुप्रावीर् इन्द्र मर्त्यस् तवोतिभिः । तम् इत् पृणक्षि वसुना भवीयसा सिन्धुम् आपो यथाभितो विचेतसः
आपो न देवीर् उप यन्ति होत्रियम् अवः पश्यन्ति विततꣳ यथा रजः । प्राचैर् देवासः प्र णयन्ति देवयुम् ब्रह्मप्रियꣳ जोषयन्ते वरा इव
अधि द्वयोर् अदधा उक्थ्य१ꣳ वचो यतस्रुचा मिथुना या सपर्यतः । असꣳयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर् यजमानाय सुन्वते
आद् अङ्गिराः प्रथमꣳ दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया । सर्वम् पणेः सम् अविन्दन्त भोजनम् अश्वावन्तꣳ गोमन्तम् आ पशुꣳ नरः
यज्ञैर् अथर्वा प्रथमः पथस् तते ततः सूर्यो व्रतपा वेन आजनि । आ गा आजद् उशना काव्यः सचा यमस्य जातम् अमृतꣳ यजामहे
बर्हिर् वा यत् स्वपत्याय वृज्यते ऽर्को वा श्लोकम् आघोषते दिवि । ग्रावा यत्र वदति कारुर् उक्थ्य१स् तस्येद् इन्द्रो अभिपित्वेषु रण्यति
असावि सोम इन्द्र ते शविष्ठ धृष्णव् आ गहि । आ त्वा पृणक्त्व् इन्द्रियꣳ रजः सूर्यो न रश्मिभिः
इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् । ऋषीणाꣳ च स्तुतीर् उप यज्ञꣳ च मानुषाणाम्
आ तिष्ठ वृत्रहन् रथꣳ युक्ता ते ब्रह्मणा हरी । अर्वाचीनꣳ सु ते मनो ग्रावा कृणोतु वग्नुना
इमम् इन्द्र सुतम् पिब ज्येष्ठम् अमर्त्यम् मदम् । शुक्रस्य त्वाभ्य् अक्षरन् धारा ऋतस्य सादने
इन्द्राय नूनम् अर्चतोक्थानि च ब्रवीतन । सुता अमत्सुर् इन्दवो ज्येष्ठꣳ नमस्यता सहः
नकिष् ट्वद् रथीतरो हरी यद् इन्द्र यच्छसे । नकिष् ट्वानु मज्मना नकिः स्वश्व आनशे
य एक इद् विदयते वसु मर्ताय दाशुषे । ईशानो अप्रतिष्कुत इन्द्रो अङ्ग
कदा मर्तम् अराधसम् पदा क्षुम्पम् इव स्फुरत् । कदा नः शुश्रवद् गिर इन्द्रो अङ्ग
यश् चिद् धि त्वा बहुभ्य आ सुतावाꣳ आविवासति । उग्रꣳ तत् पत्यते शव इन्द्रो अङ्ग
स्वादोर् इत्था विषूवतो मध्वः पिबन्ति गौर्यः । या इन्द्रेण सयावरीर् वृष्णा मदन्ति शोभसे वस्वीर् अनु स्वराज्यम्
ता अस्य पृशनायुवः सोमꣳ श्रीणन्ति पृश्नयः । प्रिया इन्द्रस्य धेनवो वज्रꣳ हिन्वन्ति सायकꣳ वस्वीर् अनु स्वराज्यम्
ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः । व्रतान्य् अस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर् अनु स्वराज्यम्
इन्द्रो दधीचो अस्थभिर् वृत्राण्य् अप्रतिष्कुतः । जघान नवतीर् नव
इच्छन्न् अश्वस्य यच् छिरः पर्वतेष्व् अपश्रितम् । तद् विदच् छर्यणावति
अत्राह गोर् अमन्वत नाम त्वष्टुर् अपीच्यम् । इत्था चन्द्रमसो गृहे
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । आसन्निषून् हृत्स्वसो मयोभून् य एषाम् भृत्याम् ऋणधत् स जीवात्
क ईषते तुज्यते को बिभाय को मꣳसते सन्तम् इन्द्रꣳ को अन्ति । कस् तोकाय क इभायोत राये ऽधि ब्रवत् तन्वे३ को जनाय
को अग्निम् ईट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर् ध्रुवेभिः । कस्मै देवा आ वहान् आशु होम को मꣳसते वीतिहोत्रः सुदेवः
त्वम् अङ्ग प्र शꣳसिषो देवः शविष्ठ मर्त्यम् । न त्वद् अन्यो मघवन्न् अस्ति मर्डितेन्द्र ब्रवीमि ते वचः
मा ते राधाꣳसि मा त ऊतयो वसो ऽस्मान् कदा चना दभन् । विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ
प्र ये शुम्भन्ते जनयो न सप्तयो यामन् रुद्रस्य सूनवः सुदꣳससः । रोदसी हि मरुतश् चक्रिरे वृधे मदन्ति वीरा विदथेषु घृष्वयः
त उक्षितासो महिमानम् आशत दिवि रुद्रासो अधि चक्रिरे सदः । अर्चन्तो अर्कꣳ जनयन्त इन्द्रियम् अधि श्रियो दधिरे पृश्निमातरः
गोमातरो यच् छुभयन्ते अञ्जिभिस् तनूषु शुभ्रा दधिरे विरुक्मतः । बाधन्ते विश्वम् अभिमातिनम् अप वर्त्मान्य् एषाम् अनु रीयते घृतम्
वि ये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तो अच्युता चिद् ओजसा । मनोजुवो यन् मरुतो रथेष्व् आ वृषव्रातासः पृषतीर् अयुग्ध्वम्
प्र यद् रथेषु पृषतीर् अयुग्ध्वꣳ वाजे अद्रिम् मरुतो रꣳहयन्तः । उतारुषस्य वि ष्यन्ति धाराश् चर्मेवोदभिर् व्य् उन्दन्ति भूम
आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः । सीदता बर्हिर् उरु वः सदस् कृतम् मादयध्वम् मरुतो मध्वो अन्धसः
ते ऽवर्धन्त स्वतवसो महित्वना नाकꣳ तस्थुर् उरु चक्रिरे सदः । विष्णुर् यद् धावद् वृषणम् मदच्युतꣳ वयो न सीदन्न् अधि बर्हिषि प्रिये
शूरा इवेद् युयुधयो न जग्मयः श्रवस्यवो न पृतनासु येतिरे । भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव त्वेषसꣳदृशो नरः
त्वष्टा यद् वज्रꣳ सुकृतꣳ हिरण्ययꣳ सहस्रभृष्टिꣳ स्वपा अवर्तयत् । धत्त इन्द्रो नर्य् अपाꣳसि कर्तवे ऽहन् वृत्रꣳ निर् अपाम् औब्जद् अर्णवम्
ऊर्ध्वꣳ नुनुद्रे ऽवतꣳ त ओजसा दादृहाणꣳ चिद् बिभिदुर् वि पर्वतम् । धमन्तो वाणम् मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे
जिह्मꣳ नुनुद्रे ऽवतꣳ तया दिशासिञ्चन्न् उत्सꣳ गोतमाय तृष्णजे । आ गच्छन्तीम् अवसा चित्रभानवः कामꣳ विप्रस्य तर्पयन्त धामभिः
या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि । अस्मभ्यꣳ तानि मरुतो वि यन्त रयिꣳ नो धत्त वृषणः सुवीरम्
मरुतो यस्य हि क्षये पाथा दिवो विमहसः । स सुगोपातमो जनः
यज्ञैर् वा यज्ञवाहसो विप्रस्य वा मतीनाम् । मरुतः शृणुता हवम्
उत वा यस्य वाजिनो ऽनु विप्रम् अतक्षत । स गन्ता गोमति व्रजे
अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु । उक्थम् मदश् च शस्यते
अस्य श्रोषन्त्व् आ भुवो विश्वा यश् चर्षणीर् अभि । सूरꣳ चित् सस्रुषीर् इषः
पूर्वीभिर् हि ददाशिम शरद्भिर् मरुतो वयम् । अवोभिश् चर्षणीनाम्
सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः । यस्य प्रयाꣳसि पर्षथ
शशमानस्य वा नरः स्वेदस्य सत्यशवसः । विदा कामस्य वेनतः
यूयꣳ तत् सत्यशवस आविष् कर्त महित्वना । विध्यता विद्युता रक्षः
गूहता गुह्यꣳ तमो वि यात विश्वम् अत्रिणम् । ज्योतिष् कर्ता यद् उश्मसि
प्रत्वक्षसः प्रतवसो विरप्शिनो ऽनानता अविथुरा ऋजीषिणः । जुष्टतमासो नृतमासो अञ्जिभिर् व्य् आनज्रे के चिद् उस्रा इव स्तृभिः
उपह्वरेषु यद् अचिध्वꣳ ययिꣳ वय इव मरुतः केन चित् पथा । श्चोतन्ति कोशा उप वो रथेष्व् आ घृतम् उक्षता मधुवर्णम् अर्चते
प्रैषाम् अज्मेषु विथुरेव रेजते भूमिर् यामेषु यद् ध युञ्जते शुभे । ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयम् महित्वम् पनयन्त धूतयः
स हि स्वसृत् पृषदश्वो युवा गणो३ ऽया ईशानस् तविषीभिर् आवृतः । असि सत्य ऋणयावानेद्यो ऽस्या धियः प्राविताथा वृषा गणः
पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति चक्षसा । यद् ईम् इन्द्रꣳ शम्य् ऋक्वाण आशताद् इन् नामानि यज्ञियानि दधिरे
श्रियसे कम् भानुभिः सम् मिमिक्षिरे ते रश्मिभिस् त ऋक्वभिः सुखादयः । ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः
आ विद्युन्मद्भिर् मरुतः स्वर्कै रथेभिर् यात ऋष्टिमद्भिर् अश्वपर्णैः । आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः
ते ऽरुणेभिर् वरम् आ पिशङ्गैः शुभे कꣳ यान्ति रथतूर्भिर् अश्वैः । रुक्मो न चित्रः स्वधितीवान् पव्या रथस्य जङ्घनन्त भूम
श्रिये कꣳ वो अधि तनूषु वाशीर् मेधा वना न कृणवन्त ऊर्ध्वा । युष्मभ्यꣳ कम् मरुतः सुजातास् तुविद्युम्नासो धनयन्ते अद्रिम्
अहानि गृध्राः पर्य् आ व आगुर् इमाꣳ धियꣳ वार्कार्याꣳ च देवीम् । ब्रह्म कृण्वन्तो गोतमासो अर्कैर् ऊर्ध्वꣳ नुनुद्र उत्सधिम् पिबध्यै
एतत् त्यन् न योजनम् अचेति सस्वर् ह यन् मरुतो गोतमो वः । पश्यन् हिरण्यचक्रान् अयोदꣳष्ट्रान् विधावतो वराहून्
एषा स्या वो मरुतो ऽनुभर्त्री प्रति ष्टोभति वाघतो न वाणी । अस्तोभयद् वृथासाम् अनु स्वधाꣳ गभस्त्योः
आ नो भद्राः क्रतवो यन्तु विश्वतो ऽदब्धासो अपरीतास उद्भिदः । देवा नो यथा सदम् इद् वृधे असन्न् अप्रायुवो रक्षितारो दिवे-दिवे
देवानाम् भद्रा सुमतिर् ऋजूयताꣳ देवानाꣳ रातिर् अभि नो नि वर्तताम् । देवानाꣳ सख्यम् उप सेदिमा वयꣳ देवा न आयुः प्र तिरन्तु जीवसे
तान् पूर्वया निविदा हूमहे वयम् भगम् मित्रम् अदितिꣳ दक्षम् अस्रिधम् । अर्यमणꣳ वरुणꣳ सोमम् अश्विना सरस्वती नः सुभगा मयस् करत्
तन् नो वातो मयोभु वातु भेषजꣳ तन् माता पृथिवी तत् पिता द्यौः । तद् ग्रावाणः सोमसुतो मयोभुवस् तद् अश्विना शृणुतꣳ धिष्ण्या युवम्
तम् ईशानꣳ जगतस् तस्थुषस् पतिꣳ धियꣳजिन्वम् अवसे हूमहे वयम् । पूषा नो यथा वेदसाम् असद् वृधे रक्षिता पायुर् अदब्धः स्वस्तये
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस् तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु
पृषदश्वा मरुतः पृश्निमातरः शुभꣳयावानो विदथेषु जग्मयः । अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्न् इह
भद्रꣳ कर्णेभिः शृणुयाम देवा भद्रम् पश्येमाक्षभिर् यजत्राः । स्थिरैर् अङ्गैस् तुष्टुवाꣳसस् तनूभिर् व्य् अशेम देवहितꣳ यद् आयुः
शतम् इन् नु शरदो अन्ति देवा यत्रा नश् चक्रा जरसꣳ तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः
अदितिर् द्यौर् अदितिर् अन्तरिक्षम् अदितिर् माता स पिता स पुत्रः । विश्वे देवा अदितिः पञ्च जना अदितिर् जातम् अदितिर् जनित्वम्
ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् । अर्यमा देवैः सजोषाः
ते हि वस्वो वसवानास् ते अप्रमूरा महोभिः । व्रता रक्षन्ते विश्वाहा
ते अस्मभ्यꣳ शर्म यꣳसन्न् अमृता मर्त्येभ्यः । बाधमाना अप द्विषः
वि नः पथः सुविताय चियन्त्व् इन्द्रो मरुतः । पूषा भगो वन्द्यासः
उत नो धियो गोअग्राः पूषन् विष्णव् एवयावः । कर्ता नः स्वस्तिमतः
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर् नः सन्त्व् ओषधीः
मधु नक्तम् उतोषसो मधुमत् पार्थिवꣳ रजः । मधु द्यौर् अस्तु नः पिता
मधुमान् नो वनस्पतिर् मधुमाꣳ अस्तु सूर्यः । माध्वीर् गावो भवन्तु नः
शꣳ नो मित्रः शꣳ वरुणः शꣳ नो भवत्व् अर्यमा । शꣳ न इन्द्रो बृहस्पतिः शꣳ नो विष्णुर् उरुक्रमः
त्वꣳ सोम प्र चिकितो मनीषा त्वꣳ रजिष्ठम् अनु नेषि पन्थाम् । तव प्रणीती पितरो न इन्दो देवेषु रत्नम् अभजन्त धीराः
त्वꣳ सोम क्रतुभिः सुक्रतुर् भूस् त्वꣳ दक्षैः सुदक्षो विश्ववेदाः । त्वꣳ वृषा वृषत्वेभिर् महित्वा द्युम्नेभिर् द्युम्न्य् अभवो नृचक्षाः
राज्ञो नु ते वरुणस्य व्रतानि बृहद् गभीरꣳ तव सोम धाम । शुचिष् ट्वम् असि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम
या ते धामानि दिवि या पृथिव्याꣳ या पर्वतेष्व् ओषधीष्व् अप्सु । तेभिर् नो विश्वैः सुमना अहेळन् राजन् सोम प्रति हव्या गृभाय
त्वꣳ सोमासि सत्पतिस् त्वꣳ राजोत वृत्रहा । त्वम् भद्रो असि क्रतुः
त्वꣳ च सोम नो वशो जीवातुꣳ न मरामहे । प्रियस्तोत्रो वनस्पतिः
त्वꣳ सोम महे भगꣳ त्वꣳ यून ऋतायते । दक्षꣳ दधासि जीवसे
त्वꣳ नः सोम विश्वतो रक्षा राजन्न् अघायतः । न रिष्येत् त्वावतः सखा
सोम यास् ते मयोभुव ऊतयः सन्ति दाशुषे । ताभिर् नो ऽविता भव
इमꣳ यज्ञम् इदꣳ वचो जुजुषाण उपागहि । सोम त्वꣳ नो वृधे भव
सोम गीर्भिष् ट्वा वयꣳ वर्धयामो वचोविदः । सुमृळीको न आ विश
गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः । सुमित्रः सोम नो भव
सोम रारन्धि नो हृदि गावो न यवसेष्व् आ । मर्य इव स्व ओक्ये
यः सोम सख्ये तव रारणद् देव मर्त्यः । तꣳ दक्षः सचते कविः
उरुष्या णो अभिशस्तेः सोम नि पाह्य् अꣳहसः । सखा सुशेव एधि नः
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य सꣳगथे
आ प्यायस्व मदिन्तम सोम विश्वेभिर् अꣳशुभिः । भवा नः सुश्रवस्तमः सखा वृधे
सꣳ ते पयाꣳसि सम् उ यन्तु वाजाः सꣳ वृष्ण्यान्य् अभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवाꣳस्य् उत्तमानि धिष्व
या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूर् अस्तु यज्ञम् । गयस्फानः प्रतरणः सुवीरो ऽवीरहा प्र चरा सोम दुर्यान्
सोमो धेनुꣳ सोमो अर्वन्तम् आशुꣳ सोमो वीरꣳ कर्मण्यꣳ ददाति । सादन्यꣳ विदथ्यꣳ सभेयम् पितृश्रवणꣳ यो ददाशद् अस्मै
अषाळ्हꣳ युत्सु पृतनासु पप्रिꣳ स्वर्षाम् अप्साꣳ वृजनस्य गोपाम् । भरेषुजाꣳ सुक्षितिꣳ सुश्रवसꣳ जयन्तꣳ त्वाम् अनु मदेम सोम
त्वम् इमा ओषधीः सोम विश्वास् त्वम् अपो अजनयस् त्वꣳ गाः । त्वम् आ ततन्थोर्व् अ१न्तरिक्षꣳ त्वꣳ ज्योतिषा वि तमो ववर्थ
देवेन नो मनसा देव सोम रायो भागꣳ सहसावन्न् अभि युध्य । मा त्वा तनद् ईशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ
एता उ त्या उषसः केतुम् अक्रत पूर्वे अर्धे रजसो भानुम् अञ्जते । निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावो ऽरुषीर् यन्ति मातरः
उद् अपप्तन्न् अरुणा भानवो वृथा स्वायुजो अरुषीर् गा अयुक्षत । अक्रन्न् उषासो वयुनानि पूर्वथा रुशन्तम् भानुम् अरुषीर् अशिश्रयुः
अर्चन्ति नारीर् अपसो न विष्टिभिः समानेन योजनेना परावतः । इषꣳ वहन्तीः सुकृते सुदानवे विश्वेद् अह यजमानाय सुन्वते
अधि पेशाꣳसि वपते नृतूर् इवापोर्णुते वक्ष उस्रेव बर्जहम् । ज्योतिर् विश्वस्मै भुवनाय कृण्वती गावो न व्रजꣳ व्य् उ१षा आवर् तमः
प्रत्य् अर्ची रुशद् अस्या अदर्शि वि तिष्ठते बाधते कृष्णम् अभ्वम् । स्वरुꣳ न पेशो विदथेष्व् अञ्जञ् चित्रꣳ दिवो दुहिता भानुम् अश्रेत्
अतारिष्म तमसस् पारम् अस्योषा उच्छन्ती वयुना कृणोति । श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः
भास्वती नेत्री सूनृतानाꣳ दिवः स्तवे दुहिता गोतमेभिः । प्रजावतो नृवतो अश्वबुध्यान् उषो गोअग्राꣳ उप मासि वाजान्
उषस् तम् अश्याꣳ यशसꣳ सुवीरꣳ दासप्रवर्गꣳ रयिम् अश्वबुध्यम् । सुदꣳससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम्
विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुर् उर्विया वि भाति । विश्वꣳ जीवꣳ चरसे बोधयन्ती विश्वस्य वाचम् अविदन् मनायोः
पुनः-पुनर् जायमाना पुराणी समानꣳ वर्णम् अभि शुम्भमाना । श्वघ्नीव कृत्नुर् विज आमिनाना मर्तस्य देवी जरयन्त्य् आयुः
व्यूर्ण्वती दिवो अन्ताꣳ अबोध्य् अप स्वसारꣳ सनुतर् युयोति । प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति
पशून् न चित्रा सुभगा प्रथाना सिन्धुर् न क्षोद उर्विया व्य् अश्वैत् । अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर् दृशाना
उषस् तच् चित्रम् आ भरास्मभ्यꣳ वाजिनीवति । येन तोकꣳ च तनयꣳ च धामहे
उषो अद्येह गोमत्य् अश्वावति विभावरि । रेवद् अस्मे व्य् उच्छ सूनृतावति
युक्ष्वा हि वाजिनीवत्य् अश्वाꣳ अद्यारुणाꣳ उषः । अथा नो विश्वा सौभगान्य् आ वह
अश्विना वर्तिर् अस्मद् आ गोमद् दस्रा हिरण्यवत् । अर्वाग् रथꣳ समनसा नि यच्छतम्
याव् इत्था श्लोकम् आ दिवो ज्योतिर् जनाय चक्रथुः । आ न ऊर्जꣳ वहतम् अश्विना युवम्
एह देवा मयोभुवा दस्रा हिरण्यवर्तनी । उषर्बुधो वहन्तु सोमपीतये
अग्नीषोमाव् इमꣳ सु मे शृणुतꣳ वृषणा हवम् । प्रति सूक्तानि हर्यतम् भवतꣳ दाशुषे मयः
अग्नीषोमा यो अद्य वाम् इदꣳ वचः सपर्यति । तस्मै धत्तꣳ सुवीर्यꣳ गवाम् पोषꣳ स्वश्व्यम्
अग्नीषोमा य आहुतिꣳ यो वाꣳ दाशाद् धविष्कृतिम् । स प्रजया सुवीर्यꣳ विश्वम् आयुर् व्य् अश्नवत्
अग्नीषोमा चेति तद् वीर्यꣳ वाꣳ यद् अमुष्णीतम् अवसम् पणिꣳ गाः । अवातिरतम् बृसयस्य शेषो ऽविन्दतꣳ ज्योतिर् एकम् बहुभ्यः
युवम् एतानि दिवि रोचनान्य् अग्निश् च सोम सक्रतू अधत्तम् । युवꣳ सिन्धूꣳर् अभिशस्तेर् अवद्याद् अग्नीषोमाव् अमुञ्चतꣳ गृभीतान्
आन्यꣳ दिवो मातरिश्वा जभारामथ्नाद् अन्यम् परि श्येनो अद्रेः । अग्नीषोमा ब्रह्मणा वावृधानोरुꣳ यज्ञाय चक्रथुर् उ लोकम्
अग्नीषोमा हविषः प्रस्थितस्य वीतꣳ हर्यतꣳ वृषणा जुषेथाम् । सुशर्माणा स्ववसा हि भूतम् अथा धत्तꣳ यजमानाय शꣳ योः
यो अग्नीषोमा हविषा सपर्याद् देवद्रीचा मनसा यो घृतेन । तस्य व्रतꣳ रक्षतम् पातम् अꣳहसो विशे जनाय महि शर्म यच्छतम्
अग्नीषोमा सवेदसा सहूती वनतꣳ गिरः । सꣳ देवत्रा बभूवथुः
अग्नीषोमाव् अनेन वाꣳ यो वाꣳ घृतेन दाशति । तस्मै दीदयतम् बृहत्
अग्नीषोमाव् इमानि नो युवꣳ हव्या जुजोषतम् । आ यातम् उप नः सचा
अग्नीषोमा पिपृतम् अर्वतो न आ प्यायन्ताम् उस्रिया हव्यसूदः । अस्मे बलानि मघवत्सु धत्तꣳ कृणुतꣳ नो अध्वरꣳ श्रुष्टिमन्तम्
इमꣳ स्तोमम् अर्हते जातवेदसे रथम् इव सम् महेमा मनीषया । भद्रा हि नः प्रमतिर् अस्य सꣳसद्य् अग्ने सख्ये मा रिषामा वयꣳ तव
यस्मै त्वम् आयजसे स साधत्य् अनर्वा क्षेति दधते सुवीर्यम् । स तूताव नैनम् अश्नोत्य् अꣳहतिर् अग्ने सख्ये मा रिषामा वयꣳ तव
शकेम त्वा समिधꣳ साधया धियस् त्वे देवा हविर् अदन्त्य् आहुतम् । त्वम् आदित्याꣳ आ वह तान् ह्य् उ१श्मस्य् अग्ने सख्ये मा रिषामा वयꣳ तव
भरामेध्मꣳ कृणवामा हवीꣳषि ते चितयन्तः पर्वणा-पर्वणा वयम् । जीवातवे प्रतरꣳ साधया धियो ऽग्ने सख्ये मा रिषामा वयꣳ तव
विशाꣳ गोपा अस्य चरन्ति जन्तवो द्विपच् च यद् उत चतुष्पद् अक्तुभिः । चित्रः प्रकेत उषसो महाꣳ अस्य् अग्ने सख्ये मा रिषामा वयꣳ तव
त्वम् अध्वर्युर् उत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः । विश्वा विद्वाꣳ आर्त्विज्या धीर पुष्यस्य् अग्ने सख्ये मा रिषामा वयꣳ तव
यो विश्वतः सुप्रतीकः सदृङ्ङ् असि दूरे चित् सन् तळिद् इवाति रोचसे । रात्र्याश् चिद् अन्धो अति देव पश्यस्य् अग्ने सख्ये मा रिषामा वयꣳ तव
पूर्वो देवा भवतु सुन्वतो रथो ऽस्माकꣳ शꣳसो अभ्य् अस्तु दूढ्यः । तद् आ जानीतोत पुष्यता वचो ऽग्ने सख्ये मा रिषामा वयꣳ तव
वधैर् दुःशꣳसाꣳ अप दूढ्यो जहि दूरे वा ये अन्ति वा के चिद् अत्रिणः । अथा यज्ञाय गृणते सुगꣳ कृध्य् अग्ने सख्ये मा रिषामा वयꣳ तव
यद् अयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः । आद् इन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयꣳ तव
अध स्वनाद् उत बिभ्युः पतत्रिणो द्रप्सा यत् ते यवसादो व्य् अस्थिरन् । सुगꣳ तत् ते तावकेभ्यो रथेभ्यो ऽग्ने सख्ये मा रिषामा वयꣳ तव
अयम् मित्रस्य वरुणस्य धायसे ऽवयाताम् मरुताꣳ हेळो अद्भुतः । मृळा सु नो भूत्व् एषाम् मनः पुनर् अग्ने सख्ये मा रिषामा वयꣳ तव
देवो देवानाम् असि मित्रो अद्भुतो वसुर् वसूनाम् असि चारुर् अध्वरे । शर्मन् स्याम तव सप्रथस्तमे ऽग्ने सख्ये मा रिषामा वयꣳ तव
तत् ते भद्रꣳ यत् समिद्धः स्वे दमे सोमाहुतो जरसे मृळयत्तमः । दधासि रत्नꣳ द्रविणꣳ च दाशुषे ऽग्ने सख्ये मा रिषामा वयꣳ तव
यस्मै त्वꣳ सुद्रविणो ददाशो ऽनागास्त्वम् अदिते सर्वताता । यम् भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्याम
स त्वम् अग्ने सौभगत्वस्य विद्वान् अस्माकम् आयुः प्र तिरेह देव । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्सम् उप धापयेते । हरिर् अन्यस्याम् भवति स्वधावाञ् छुक्रो अन्यस्याꣳ ददृशे सुवर्चाः
दशेमꣳ त्वष्टुर् जनयन्त गर्भम् अतन्द्रासो युवतयो विभृत्रम् । तिग्मानीकꣳ स्वयशसꣳ जनेषु विरोचमानम् परि षीꣳ नयन्ति
त्रीणि जाना परि भूषन्त्य् अस्य समुद्र एकꣳ दिव्य् एकम् अप्सु । पूर्वाम् अनु प्र दिशम् पार्थिवानाम् ऋतून् प्रशासद् वि दधाव् अनुष्ठु
क इमꣳ वो निण्यम् आ चिकेत वत्सो मातॄर् जनयत स्वधाभिः । बह्वीनाꣳ गर्भो अपसाम् उपस्थान् महान् कविर् निश् चरति स्वधावान्
आविष्ट्यो वर्धते चारुर् आसु जिह्मानाम् ऊर्ध्वः स्वयशा उपस्थे । उभे त्वष्टुर् बिभ्यतुर् जायमानात् प्रतीची सिꣳहम् प्रति जोषयेते
उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुर् एवैः । स दक्षाणाꣳ दक्षपतिर् बभूवाञ्जन्ति यꣳ दक्षिणतो हविर्भिः
उद् यꣳयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन् । उच् छुक्रम् अत्कम् अजते सिमस्मान् नवा मातृभ्यो वसना जहाति
त्वेषꣳ रूपꣳ कृणुत उत्तरꣳ यत् सम्पृञ्चानः सदने गोभिर् अद्भिः । कविर् बुध्नम् परि मर्मृज्यते धीः सा देवताता समितिर् बभूव
उरु ते ज्रयः पर्य् एति बुध्नꣳ विरोचमानम् महिषस्य धाम । विश्वेभिर् अग्ने स्वयशोभिर् इद्धो ऽदब्धेभिः पायुभिः पाह्य् अस्मान्
धन्वन् स्रोतः कृणुते गातुम् ऊर्मिꣳ शुक्रैर् ऊर्मिभिर् अभि नक्षति क्षाम् । विश्वा सनानि जठरेषु धत्ते ऽन्तर् नवासु चरति प्रसूषु
एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसे वि भाहि । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळ् अधत्त विश्वा । आपश् च मित्रꣳ धिषणा च साधन् देवा अग्निꣳ धारयन् द्रविणोदाम्
स पूर्वया निविदा कव्यतायोर् इमाः प्रजा अजनयन् मनूनाम् । विवस्वता चक्षसा द्याम् अपश् च देवा अग्निꣳ धारयन् द्रविणोदाम्
तम् ईळत प्रथमꣳ यज्ञसाधꣳ विश आरीर् आहुतम् ऋञ्जसानम् । ऊर्जः पुत्रम् भरतꣳ सृप्रदानुꣳ देवा अग्निꣳ धारयन् द्रविणोदाम्
स मातरिश्वा पुरुवारपुष्टिर् विदद् गातुꣳ तनयाय स्वर्वित् । विशाꣳ गोपा जनिता रोदस्योर् देवा अग्निꣳ धारयन् द्रविणोदाम्
नक्तोषासा वर्णम् आमेम्याने धापयेते शिशुम् एकꣳ समीची । द्यावाक्षामा रुक्मो अन्तर् वि भाति देवा अग्निꣳ धारयन् द्रविणोदाम्
रायो बुध्नः सꣳगमनो वसूनाꣳ यज्ञस्य केतुर् मन्मसाधनो वेः । अमृतत्वꣳ रक्षमाणास एनꣳ देवा अग्निꣳ धारयन् द्रविणोदाम्
नू च पुरा च सदनꣳ रयीणाꣳ जातस्य च जायमानस्य च क्षाम् । सतश् च गोपाम् भवतश् च भूरेर् देवा अग्निꣳ धारयन् द्रविणोदाम्
द्रविणोदा द्रविणसस् तुरस्य द्रविणोदाः सनरस्य प्र यꣳसत् । द्रविणोदा वीरवतीम् इषꣳ नो द्रविणोदा रासते दीर्घम् आयुः
एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसे वि भाहि । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
अप नः शोशुचद् अघम् अग्ने शुशुग्ध्य् आ रयिम् । अप नः शोशुचद् अघम्
सुक्षेत्रिया सुगातुया वसूया च यजामहे । अप नः शोशुचद् अघम्
प्र यद् भन्दिष्ठ एषाम् प्रास्माकासश् च सूरयः । अप नः शोशुचद् अघम्
प्र यत् ते अग्ने सूरयो जायेमहि प्र ते वयम् । अप नः शोशुचद् अघम्
प्र यद् अग्नेः सहस्वतो विश्वतो यन्ति भानवः । अप नः शोशुचद् अघम्
त्वꣳ हि विश्वतोमुख विश्वतः परिभूर् असि । अप नः शोशुचद् अघम्
द्विषो नो विश्वतोमुखाति नावेव पारय । अप नः शोशुचद् अघम्
स नः सिन्धुम् इव नावयाति पर्षा स्वस्तये । अप नः शोशुचद् अघम्
वैश्वानरस्य सुमतौ स्याम राजा हि कम् भुवनानाम् अभिश्रीः । इतो जातो विश्वम् इदꣳ वि चष्टे वैश्वानरो यतते सूर्येण
पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् पृष्टो विश्वा ओषधीर् आ विवेश । वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम्
वैश्वानर तव तत् सत्यम् अस्त्व् अस्मान् रायो मघवानः सचन्ताम् । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
जातवेदसे सुनवाम सोमम् अरातीयतो नि दहाति वेदः । स नः पर्षद् अति दुर्गाणि विश्वा नावेव सिन्धुꣳ दुरितात्य् अग्निः
स यो वृषा वृष्ण्येभिः समोका महो दिवः पृथिव्याश् च सम्राट् । सतीनसत्वा हव्यो भरेषु मरुत्वान् नो भवत्व् इन्द्र ऊती
यस्यानाप्तः सूर्यस्येव यामो भरे-भरे वृत्रहा शुष्मो अस्ति । वृषन्तमः सखिभिः स्वेभिर् एवैर् मरुत्वान् नो भवत्व् इन्द्र ऊती
दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः । तरद्द्वेषाः सासहिः पौꣳस्येभिर् मरुत्वान् नो भवत्व् इन्द्र ऊती
सो अङ्गिरोभिर् अङ्गिरस्तमो भूद् वृषा वृषभिः सखिभिः सखा सन् । ऋग्मिभिर् ऋग्मी गातुभिर् ज्येष्ठो मरुत्वान् नो भवत्व् इन्द्र ऊती
स सूनुभिर् न रुद्रेभिर् ऋभ्वा नृषाह्ये सासह्वाꣳ अमित्रान् । सनीळेभिः श्रवस्यानि तूर्वन् मरुत्वान् नो भवत्व् इन्द्र ऊती
स मन्युमीः समदनस्य कर्तास्माकेभिर् नृभिः सूर्यꣳ सनत् । अस्मिन्न् अहन् सत्पतिः पुरुहूतो मरुत्वान् नो भवत्व् इन्द्र ऊती
तम् ऊतयो रणयञ् छूरसातौ तꣳ क्षेमस्य क्षितयः कृण्वत त्राम् । स विश्वस्य करुणस्येश एको मरुत्वान् नो भवत्व् इन्द्र ऊती
तम् अप्सन्त शवस उत्सवेषु नरो नरम् अवसे तꣳ धनाय । सो अन्धे चित् तमसि ज्योतिर् विदन् मरुत्वान् नो भवत्व् इन्द्र ऊती
स सव्येन यमति व्राधतश् चित् स दक्षिणे सꣳगृभीता कृतानि । स कीरिणा चित् सनिता धनानि मरुत्वान् नो भवत्व् इन्द्र ऊती
स ग्रामेभिः सनिता स रथेभिर् विदे विश्वाभिः कृष्टिभिर् न्व् अ१द्य । स पौꣳस्येभिर् अभिभूर् अशस्तीर् मरुत्वान् नो भवत्व् इन्द्र ऊती
स जामिभिर् यत् समजाति मीळ्हे ऽजामिभिर् वा पुरुहूत एवैः । अपाꣳ तोकस्य तनयस्य जेषे मरुत्वान् नो भवत्व् इन्द्र ऊती
स वज्रभृद् दस्युहा भीम उग्रः सहस्रचेताः शतनीथ ऋभ्वा । चम्रीषो न शवसा पाञ्चजन्यो मरुत्वान् नो भवत्व् इन्द्र ऊती
तस्य वज्रः क्रन्दति स्मत् स्वर्षा दिवो न त्वेषो रवथः शिमीवान् । तꣳ सचन्ते सनयस् तꣳ धनानि मरुत्वान् नो भवत्व् इन्द्र ऊती
यस्याजस्रꣳ शवसा मानम् उक्थम् परिभुजद् रोदसी विश्वतः सीम् । स पारिषत् क्रतुभिर् मन्दसानो मरुत्वान् नो भवत्व् इन्द्र ऊती
न यस्य देवा देवता न मर्ता आपश् चन शवसो अन्तम् आपुः । स प्ररिक्वा त्वक्षसा क्ष्मो दिवश् च मरुत्वान् नो भवत्व् इन्द्र ऊती
रोहिच् छ्यावा सुमदꣳशुर् ललामीर् द्युक्षा राय ऋज्राश्वस्य । वृषण्वन्तम् बिभ्रती धूर्षु रथम् मन्द्रा चिकेत नाहुषीषु विक्षु
एतत् त्यत् त इन्द्र वृष्ण उक्थꣳ वार्षागिरा अभि गृणन्ति राधः । ऋज्राश्वः प्रष्टिभिर् अम्बरीषः सहदेवो भयमानः सुराधाः
दस्यूञ् छिम्यूꣳश् च पुरुहूत एवैर् हत्वा पृथिव्याꣳ शर्वा नि बर्हीत् । सनत् क्षेत्रꣳ सखिभिः श्वित्न्येभिः सनत् सूर्यꣳ सनद् अपः सुवज्रः
विश्वाहेन्द्रो अधिवक्ता नो अस्त्व् अपरिह्वृताः सनुयाम वाजम् । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
प्र मन्दिने पितुमद् अर्चता वचो यः कृष्णगर्भा निरहन्न् ऋजिश्वना । अवस्यवो वृषणꣳ वज्रदक्षिणम् मरुत्वन्तꣳ सख्याय हवामहे
यो व्यꣳसꣳ जाहृषाणेन मन्युना यः शम्बरꣳ यो अहन् पिप्रुम् अव्रतम् । इन्द्रो यः शुष्णम् अशुषꣳ न्य् आवृणङ् मरुत्वन्तꣳ सख्याय हवामहे
यस्य द्यावापृथिवी पौꣳस्यम् महद् यस्य व्रते वरुणो यस्य सूर्यः । यस्येन्द्रस्य सिन्धवः सश्चति व्रतम् मरुत्वन्तꣳ सख्याय हवामहे
यो अश्वानाꣳ यो गवाꣳ गोपतिर् वशी य आरितः कर्मणि-कर्मणि स्थिरः । वीळोश् चिद् इन्द्रो यो असुन्वतो वधो मरुत्वन्तꣳ सख्याय हवामहे
यो विश्वस्य जगतः प्राणतस् पतिर् यो ब्रह्मणे प्रथमो गा अविन्दत् । इन्द्रो यो दस्यूꣳर् अधराꣳ अवातिरन् मरुत्वन्तꣳ सख्याय हवामहे
यः शूरेभिर् हव्यो यश् च भीरुभिर् यो धावद्भिर् हूयते यश् च जिग्युभिः । इन्द्रꣳ यꣳ विश्वा भुवनाभि सꣳदधुर् मरुत्वन्तꣳ सख्याय हवामहे
रुद्राणाम् एति प्रदिशा विचक्षणो रुद्रेभिर् योषा तनुते पृथु ज्रयः । इन्द्रम् मनीषा अभ्य् अर्चति श्रुतम् मरुत्वन्तꣳ सख्याय हवामहे
यद् वा मरुत्वः परमे सधस्थे यद् वावमे वृजने मादयासे । अत आ याह्य् अध्वरꣳ नो अच्छा त्वाया हविश् चकृमा सत्यराधः
त्वायेन्द्र सोमꣳ सुषुमा सुदक्ष त्वाया हविश् चकृमा ब्रह्मवाहः । अधा नियुत्वः सगणो मरुद्भिर् अस्मिन् यज्ञे बर्हिषि मादयस्व
मादयस्व हरिभिर् ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने । आ त्वा सुशिप्र हरयो वहन्तूशन् हव्यानि प्रति नो जुषस्व
मरुत्स्तोत्रस्य वृजनस्य गोपा वयम् इन्द्रेण सनुयाम वाजम् । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
इमाꣳ ते धियम् प्र भरे महो महीम् अस्य स्तोत्रे धिषणा यत् त आनजे । तम् उत्सवे च प्रसवे च सासहिम् इन्द्रꣳ देवासः शवसामदन्न् अनु
अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतꣳ वपुः । अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कम् इन्द्र चरतो वितर्तुरम्
तꣳ स्मा रथम् मघवन् प्राव सातये जैत्रꣳ यꣳ ते अनुमदाम सꣳगमे । आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ् छर्म यच्छ नः
वयꣳ जयेम त्वया युजा वृतम् अस्माकम् अꣳशम् उद् अवा भरे-भरे । अस्मभ्यम् इन्द्र वरिवः सुगꣳ कृधि प्र शत्रूणाम् मघवन् वृष्ण्या रुज
नाना हि त्वा हवमाना जना इमे धनानाꣳ धर्तर् अवसा विपन्यवः । अस्माकꣳ स्मा रथम् आ तिष्ठ सातये जैत्रꣳ हीन्द्र निभृतम् मनस् तव
गोजिता बाहू अमितक्रतुः सिमः कर्मन्-कर्मञ् छतमूतिः खजꣳकरः । अकल्प इन्द्रः प्रतिमानम् ओजसाथा जना वि ह्वयन्ते सिषासवः
उत् ते शतान् मघवन्न् उच् च भूयस उत् सहस्राद् रिरिचे कृष्टिषु श्रवः । अमात्रꣳ त्वा धिषणा तित्विषे मह्य् अधा वृत्राणि जिघ्नसे पुरꣳदर
त्रिविष्टिधातु प्रतिमानम् ओजसस् तिस्रो भूमीर् नृपते त्रीणि रोचना । अतीदꣳ विश्वम् भुवनꣳ ववक्षिथाशत्रुर् इन्द्र जनुषा सनाद् असि
त्वाꣳ देवेषु प्रथमꣳ हवामहे त्वम् बभूथ पृतनासु सासहिः । सेमꣳ नः कारुम् उपमन्युम् उद्भिदम् इन्द्रः कृणोतु प्रसवे रथम् पुरः
त्वꣳ जिगेथ न धना रुरोधिथार्भेष्व् आजा मघवन् महत्सु च । त्वाम् उग्रम् अवसे सꣳ शिशीमस्य् अथा न इन्द्र हवनेषु चोदय
विश्वाहेन्द्रो अधिवक्ता नो अस्त्व् अपरिह्वृताः सनुयाम वाजम् । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
तत् त इन्द्रियम् परमम् पराचैर् अधारयन्त कवयः पुरेदम् । क्षमेदम् अन्यद् दिव्य् अ१न्यद् अस्य सम् ई पृच्यते समनेव केतुः
स धारयत् पृथिवीम् पप्रथच् च वज्रेण हत्वा निर् अपः ससर्ज । अहन्न् अहिम् अभिनद् रौहिणꣳ व्य् अहन् व्यꣳसम् मघवा शचीभिः
स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्न् अचरद् वि दासीः । विद्वान् वज्रिन् दस्यवे हेतिम् अस्यार्यꣳ सहो वर्धया द्युम्नम् इन्द्र
तद् ऊचुषे मानुषेमा युगानि कीर्तेन्यम् मघवा नाम बिभ्रत् । उपप्रयन् दस्युहत्याय वज्री यद् ध सूनुः श्रवसे नाम दधे
तद् अस्येदम् पश्यता भूरि पुष्टꣳ श्रद् इन्द्रस्य धत्तन वीर्याय । स गा अविन्दत् सो अविन्दद् अश्वान् स ओषधीः सो अपः स वनानि
भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम् । य आदृत्या परिपन्थीव शूरो ऽयज्वनो विभजन्न् एति वेदः
तद् इन्द्र प्रेव वीर्यꣳ चकर्थ यत् ससन्तꣳ वज्रेणाबोधयो ऽहिम् । अनु त्वा पत्नीर् हृषितꣳ वयश् च विश्वे देवासो अमदन्न् अनु त्वा
शुष्णम् पिप्रुꣳ कुयवꣳ वृत्रम् इन्द्र यदावधीर् वि पुरः शम्बरस्य । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
योनिष् ट इन्द्र निषदे अकारि तम् आ नि षीद स्वानो नार्वा । विमुच्या वयो ऽवसायाश्वान् दोषा वस्तोर् वहीयसः प्रपित्वे
ओ त्ये नर इन्द्रम् ऊतये गुर् नू चित् तान् सद्यो अध्वनो जगम्यात् । देवासो मन्युꣳ दासस्य श्चम्नन् ते न आ वक्षन् सुविताय वर्णम्
अव त्मना भरते केतवेदा अव त्मना भरते फेनम् उदन् । क्षीरेण स्नातः कुयवस्य योषे हते ते स्याताम् प्रवणे शिफायाः
युयोप नाभिर् उपरस्यायोः प्र पूर्वाभिस् तिरते राष्टि शूरः । अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर् भरन्ते
प्रति यत् स्या नीथादर्शि दस्योर् ओको नाच्छा सदनꣳ जानती गात् । अध स्मा नो मघवञ् चर्कृताद् इन् मा नो मघेव निष्षपी परा दाः
स त्वꣳ न इन्द्र सूर्ये सो अप्स्व् अनागास्त्व आ भज जीवशꣳसे । मान्तराम् भुजम् आ रीरिषो नः श्रद्धितꣳ ते महत इन्द्रियाय
अधा मन्ये श्रत् ते अस्मा अधायि वृषा चोदस्व महते धनाय । मा नो अकृते पुरुहूत योनाव् इन्द्र क्षुध्यद्भ्यो वय आसुतिꣳ दाः
मा नो वधीर् इन्द्र मा परा दा मा नः प्रिया भोजनानि प्र मोषीः । आण्डा मा नो मघवञ् छक्र निर् भेन् मा नः पात्रा भेत् सहजानुषाणि
अर्वाङ् एहि सोमकामꣳ त्वाहुर् अयꣳ सुतस् तस्य पिबा मदाय । उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः
चन्द्रमा अप्स्व् अ१न्तर् आ सुपर्णो धावते दिवि । न वो हिरण्यनेमयः पदꣳ विन्दन्ति विद्युतो वित्तम् मे अस्य रोदसी
अर्थम् इद् वा उ अर्थिन आ जाया युवते पतिम् । तुञ्जाते वृष्ण्यम् पयः परिदाय रसꣳ दुहे वित्तम् मे अस्य रोदसी
मो षु देवा अदः स्व१र् अव पादि दिवस् परि । मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तम् मे अस्य रोदसी
यज्ञम् पृच्छाम्य् अवमꣳ स तद् दूतो वि वोचति । क्व ऋतम् पूर्व्यꣳ गतꣳ कस् तद् बिभर्ति नूतनो वित्तम् मे अस्य रोदसी
अमी ये देवाः स्थन त्रिष्व् आ रोचने दिवः । कद् व ऋतꣳ कद् अनृतꣳ क्व प्रत्ना व आहुतिर् वित्तम् मे अस्य रोदसी
कद् व ऋतस्य धर्णसि कद् वरुणस्य चक्षणम् । कद् अर्यम्णो महस् पथाति क्रामेम दूढ्यो वित्तम् मे अस्य रोदसी
अहꣳ सो अस्मि यः पुरा सुते वदामि कानि चित् । तम् मा व्यन्त्य् आध्यो३ वृको न तृष्णजम् मृगꣳ वित्तम् मे अस्य रोदसी
सम् मा तपन्त्य् अभितः सपत्नीर् इव पर्शवः । मूषो न शिश्ना व्य् अदन्ति माध्यः स्तोतारꣳ ते शतक्रतो वित्तम् मे अस्य रोदसी
अमी ये सप्त रश्मयस् तत्रा मे नाभिर् आतता । त्रितस् तद् वेदाप्त्यः स जामित्वाय रेभति वित्तम् मे अस्य रोदसी
अमी ये पञ्चोक्षणो मध्ये तस्थुर् महो दिवः । देवत्रा नु प्रवाच्यꣳ सध्रीचीना नि वावृतुर् वित्तम् मे अस्य रोदसी
सुपर्णा एत आसते मध्य आरोधने दिवः । ते सेधन्ति पथो वृकꣳ तरन्तꣳ यह्वतीर् अपो वित्तम् मे अस्य रोदसी
नव्यꣳ तद् उक्थ्यꣳ हितꣳ देवासः सुप्रवाचनम् । ऋतम् अर्षन्ति सिन्धवः सत्यꣳ तातान सूर्यो वित्तम् मे अस्य रोदसी
अग्ने तव त्यद् उक्थ्यꣳ देवेष्व् अस्त्य् आप्यम् । स नः सत्तो मनुष्वद् आ देवान् यक्षि विदुष्टरो वित्तम् मे अस्य रोदसी
सत्तो होता मनुष्वद् आ देवाꣳ अच्छा विदुष्टरः । अग्निर् हव्या सुषूदति देवो देवेषु मेधिरो वित्तम् मे अस्य रोदसी
ब्रह्मा कृणोति वरुणो गातुविदꣳ तम् ईमहे । व्य् ऊर्णोति हृदा मतिꣳ नव्यो जायताम् ऋतꣳ वित्तम् मे अस्य रोदसी
असौ यः पन्था आदित्यो दिवि प्रवाच्यꣳ कृतः । न स देवा अतिक्रमे तम् मर्तासो न पश्यथ वित्तम् मे अस्य रोदसी
त्रितः कूपे ऽवहितो देवान् हवत ऊतये । तच् छुश्राव बृहस्पतिः कृण्वन्न् अꣳहूरणाद् उरु वित्तम् मे अस्य रोदसी
अरुणो मा सकृद् वृकः पथा यन्तꣳ ददर्श हि । उज् जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तम् मे अस्य रोदसी
एनाङ्गूषेण वयम् इन्द्रवन्तो ऽभि ष्याम वृजने सर्ववीराः । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
इन्द्रम् मित्रꣳ वरुणम् अग्निम् ऊतये मारुतꣳ शर्धो अदितिꣳ हवामहे । रथꣳ न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अꣳहसो निष् पिपर्तन
त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु शम्भुवः । रथꣳ न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अꣳहसो निष् पिपर्तन
अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा । रथꣳ न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अꣳहसो निष् पिपर्तन
नराशꣳसꣳ वाजिनꣳ वाजयन्न् इह क्षयद्वीरम् पूषणꣳ सुम्नैर् ईमहे । रथꣳ न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अꣳहसो निष् पिपर्तन
बृहस्पते सदम् इन् नः सुगꣳ कृधि शꣳ योर् यत् ते मनुर्हितꣳ तद् ईमहे । रथꣳ न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अꣳहसो निष् पिपर्तन
इन्द्रꣳ कुत्सो वृत्रहणꣳ शचीपतिꣳ काटे निबाळ्ह ऋषिर् अह्वद् ऊतये । रथꣳ न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अꣳहसो निष् पिपर्तन
देवैर् नो देव्य् अदितिर् नि पातु देवस् त्राता त्रायताम् अप्रयुच्छन् । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
यज्ञो देवानाम् प्रत्य् एति सुम्नम् आदित्यासो भवता मृळयन्तः । आ वो ऽर्वाची सुमतिर् ववृत्याद् अꣳहोश् चिद् या वरिवोवित्तरासत्
उप नो देवा अवसा गमन्त्व् अङ्गिरसाꣳ सामभिः स्तूयमानाः । इन्द्र इन्द्रियैर् मरुतो मरुद्भिर् आदित्यैर् नो अदितिः शर्म यꣳसत्
तन् न इन्द्रस् तद् वरुणस् तद् अग्निस् तद् अर्यमा तत् सविता चनो धात् । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
य इन्द्राग्नी चित्रतमो रथो वाम् अभि विश्वानि भुवनानि चष्टे । तेना यातꣳ सरथꣳ तस्थिवाꣳसाथा सोमस्य पिबतꣳ सुतस्य
यावद् इदम् भुवनꣳ विश्वम् अस्त्य् उरुव्यचा वरिमता गभीरम् । तावाꣳ अयम् पातवे सोमो अस्त्व् अरम् इन्द्राग्नी मनसे युवभ्याम्
चक्राथे हि सध्र्य१ङ् नाम भद्रꣳ सध्रीचीना वृत्रहणा उत स्थः । ताव् इन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम्
समिद्धेष्व् अग्निष्व् आनजाना यतस्रुचा बर्हिर् उ तिस्तिराणा । तीव्रैः सोमैः परिषिक्तेभिर् अर्वाग् एन्द्राग्नी सौमनसाय यातम्
यानीन्द्राग्नी चक्रथुर् वीर्याणि यानि रूपाण्य् उत वृष्ण्यानि । या वाम् प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतꣳ सुतस्य
यद् अब्रवम् प्रथमꣳ वाꣳ वृणानो३ ऽयꣳ सोमो असुरैर् नो विहव्यः । ताꣳ सत्याꣳ श्रद्धाम् अभ्य् आ हि यातम् अथा सोमस्य पिबतꣳ सुतस्य
यद् इन्द्राग्नी मदथः स्वे दुरोणे यद् ब्रह्मणि राजनि वा यजत्रा । अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतꣳ सुतस्य
यद् इन्द्राग्नी यदुषु तुर्वशेषु यद् द्रुह्युष्व् अनुषु पूरुषु स्थः । अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतꣳ सुतस्य
यद् इन्द्राग्नी अवमस्याम् पृथिव्याम् मध्यमस्याम् परमस्याम् उत स्थः । अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतꣳ सुतस्य
यद् इन्द्राग्नी परमस्याम् पृथिव्याम् मध्यमस्याम् अवमस्याम् उत स्थः । अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतꣳ सुतस्य
यद् इन्द्राग्नी दिवि ष्ठो यत् पृथिव्याꣳ यत् पर्वतेष्व् ओषधीष्व् अप्सु । अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतꣳ सुतस्य
यद् इन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे । अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतꣳ सुतस्य
एवेन्द्राग्नी पपिवाꣳसा सुतस्य विश्वास्मभ्यꣳ सꣳ जयतꣳ धनानि । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
वि ह्य् अख्यम् मनसा वस्य इच्छन्न् इन्द्राग्नी ज्ञास उत वा सजातान् । नान्या युवत् प्रमतिर् अस्ति मह्यꣳ स वाꣳ धियꣳ वाजयन्तीम् अतक्षम्
अश्रवꣳ हि भूरिदावत्तरा वाꣳ विजामातुर् उत वा घा स्यालात् । अथा सोमस्य प्रयती युवभ्याम् इन्द्राग्नी स्तोमꣳ जनयामि नव्यम्
मा च्छेद्म रश्मीꣳर् इति नाधमानाः पितॄणाꣳ शक्तीर् अनुयच्छमानाः । इन्द्राग्निभ्याꣳ कꣳ वृषणो मदन्ति ता ह्य् अद्री धिषणाया उपस्थे
युवाभ्याꣳ देवी धिषणा मदायेन्द्राग्नी सोमम् उशती सुनोति । ताव् अश्विना भद्रहस्ता सुपाणी आ धावतम् मधुना पृङ्क्तम् अप्सु
युवाम् इन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वृत्रहत्ये । ताव् आसद्या बर्हिषि यज्ञे अस्मिन् प्र चर्षणी मादयेथाꣳ सुतस्य
प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश् च । प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्य् अन्या
आ भरतꣳ शिक्षतꣳ वज्रबाहू अस्माꣳ इन्द्राग्नी अवतꣳ शचीभिः । इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वम् पितरो न आसन्
पुरꣳदरा शिक्षतꣳ वज्रहस्तास्माꣳ इन्द्राग्नी अवतम् भरेषु । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
ततम् मे अपस् तद् उ तायते पुनः स्वादिष्ठा धीतिर् उचथाय शस्यते । अयꣳ समुद्र इह विश्वदेव्यः स्वाहाकृतस्य सम् उ तृप्णुत ऋभवः
आभोगयम् प्र यद् इच्छन्त ऐतनापाकाः प्राञ्चो मम के चिद् आपयः । सौधन्वनासश् चरितस्य भूमनागच्छत सवितुर् दाशुषो गृहम्
तत् सविता वो ऽमृतत्वम् आसुवद् अगोह्यꣳ यच् छ्रवयन्त ऐतन । त्यꣳ चिच् चमसम् असुरस्य भक्षणम् एकꣳ सन्तम् अकृणुता चतुर्वयम्
विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वम् आनशुः । सौधन्वना ऋभवः सूरचक्षसः सꣳवत्सरे सम् अपृच्यन्त धीतिभिः
क्षेत्रम् इव वि ममुस् तेजनेनꣳ एकम् पात्रम् ऋभवो जेहमानम् । उपस्तुता उपमꣳ नाधमाना अमर्त्येषु श्रव इच्छमानाः
आ मनीषाम् अन्तरिक्षस्य नृभ्यः स्रुचेव घृतꣳ जुहवाम विद्मना । तरणित्वा ये पितुर् अस्य सश्चिर ऋभवो वाजम् अरुहन् दिवो रजः
ऋभुर् न इन्द्रः शवसा नवीयान् ऋभुर् वाजेभिर् वसुभिर् वसुर् ददिः । युष्माकꣳ देवा अवसाहनि प्रिये३ ऽभि तिष्ठेम पृत्सुतीर् असुन्वताम्
निश् चर्मण ऋभवो गाम् अपिꣳशत सꣳ वत्सेनासृजता मातरम् पुनः । सौधन्वनासः स्वपस्यया नरो जिव्री युवाना पितराकृणोतन
वाजेभिर् नो वाजसाताव् अविड्ढ्य् ऋभुमाꣳ इन्द्र चित्रम् आ दर्षि राधः । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
तक्षन् रथꣳ सुवृतꣳ विद्मनापसस् तक्षन् हरी इन्द्रवाहा वृषण्वसू । तक्षन् पितृभ्याम् ऋभवो युवद् वयस् तक्षन् वत्साय मातरꣳ सचाभुवम्
आ नो यज्ञाय तक्षत ऋभुमद् वयः क्रत्वे दक्षाय सुप्रजावतीम् इषम् । यथा क्षयाम सर्ववीरया विशा तन् नः शर्धाय धासथा स्व् इन्द्रियम्
आ तक्षत सातिम् अस्मभ्यम् ऋभवः सातिꣳ रथाय सातिम् अर्वते नरः । सातिꣳ नो जैत्रीꣳ सम् महेत विश्वहा जामिम् अजामिम् पृतनासु सक्षणिम्
ऋभुक्षणम् इन्द्रम् आ हुव ऊतय ऋभून् वाजान् मरुतः सोमपीतये । उभा मित्रावरुणा नूनम् अश्विना ते नो हिन्वन्तु सातये धिये जिषे
ऋभुर् भराय सꣳ शिशातु सातिꣳ समर्यजिद् वाजो अस्माꣳ अविष्टु । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
ईळे द्यावापृथिवी पूर्वचित्तये ऽग्निꣳ घर्मꣳ सुरुचꣳ यामन्न् इष्टये । याभिर् भरे कारम् अꣳशाय जिन्वथस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
युवोर् दानाय सुभरा असश्चतो रथम् आ तस्थुर् वचसꣳ न मन्तवे । याभिर् धियो ऽवथः कर्मन्न् इष्टये ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
युवꣳ तासाꣳ दिव्यस्य प्रशासने विशाꣳ क्षयथो अमृतस्य मज्मना । याभिर् धेनुम् अस्व१म् पिन्वथो नरा ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर् विभूषति । याभिस् त्रिमन्तुर् अभवद् विचक्षणस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
याभी रेभꣳ निवृतꣳ सितम् अद्भ्य उद् वन्दनम् ऐरयतꣳ स्वर् दृशे । याभिः कण्वम् प्र सिषासन्तम् आवतꣳ ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
याभिर् अन्तकꣳ जसमानम् आरणे भुज्युꣳ याभिर् अव्यथिभिर् जिजिन्वथुः । याभिः कर्कन्धुꣳ वय्यꣳ च जिन्वथस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
याभिः शुचन्तिꣳ धनसाꣳ सुषꣳसदꣳ तप्तꣳ घर्मम् ओम्यावन्तम् अत्रये । याभिः पृश्निगुम् पुरुकुत्सम् आवतꣳ ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
याभिः शचीभिर् वृषणा परावृजम् प्रान्धꣳ श्रोणꣳ चक्षस एतवे कृथः । याभिर् वर्तिकाꣳ ग्रसिताम् अमुञ्चतꣳ ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
याभिः सिन्धुम् मधुमन्तम् असश्चतꣳ वसिष्ठꣳ याभिर् अजराव् अजिन्वतम् । याभिः कुत्सꣳ श्रुतर्यꣳ नर्यम् आवतꣳ ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
याभिर् विश्पलाꣳ धनसाम् अथर्व्यꣳ सहस्रमीळ्ह आजाव् अजिन्वतम् । याभिर् वशम् अश्व्यम् प्रेणिम् आवतꣳ ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत् । कक्षीवन्तꣳ स्तोतारꣳ याभिर् आवतꣳ ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
याभी रसाꣳ क्षोदसोद्नः पिपिन्वथुर् अनश्वꣳ याभी रथम् आवतꣳ जिषे । याभिस् त्रिशोक उस्रिया उदाजत ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
याभिः सूर्यम् परियाथः परावति मन्धातारꣳ क्षैत्रपत्येष्व् आवतम् । याभिर् विप्रम् प्र भरद्वाजम् आवतꣳ ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
याभिर् महाम् अतिथिग्वꣳ कशोजुवꣳ दिवोदासꣳ शम्बरहत्य आवतम् । याभिः पूर्भिद्ये त्रसदस्युम् आवतꣳ ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
याभिर् वम्रꣳ विपिपानम् उपस्तुतꣳ कलिꣳ याभिर् वित्तजानिꣳ दुवस्यथः । याभिर् व्यश्वम् उत पृथिम् आवतꣳ ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
याभिर् नरा शयवे याभिर् अत्रये याभिः पुरा मनवे गातुम् ईषथुः । याभिः शारीर् आजतꣳ स्यूमरश्मये ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
याभिः पठर्वा जठरस्य मज्मनाग्निर् नादीदेच् चित इद्धो अज्मन्न् आ । याभिः शर्यातम् अवथो महाधने ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
याभिर् अङ्गिरो मनसा निरण्यथो ऽग्रꣳ गच्छथो विवरे गोअर्णसः । याभिर् मनुꣳ शूरम् इषा समावतꣳ ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
याभिः पत्नीर् विमदाय न्यूहथुर् आ घ वा याभिर् अरुणीर् अशिक्षतम् । याभिः सुदास ऊहथुः सुदेव्य१ꣳ ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
याभिः शꣳताती भवथो ददाशुषे भुज्युꣳ याभिर् अवथो याभिर् अध्रिगुम् । ओम्यावतीꣳ सुभराम् ऋतस्तुभꣳ ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
याभिः कृशानुम् असने दुवस्यथो जवे याभिर् यूनो अर्वन्तम् आवतम् । मधु प्रियम् भरथो यत् सरड्भ्यस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
याभिर् नरꣳ गोषुयुधꣳ नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः । याभी रथाꣳ अवथो याभिर् अर्वतस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
याभिः कुत्सम् आर्जुनेयꣳ शतक्रतू प्र तुर्वीतिम् प्र च दभीतिम् आवतम् । याभिर् ध्वसन्तिम् पुरुषन्तिम् आवतꣳ ताभिर् ऊ षु ऊतिभिर् अश्विना गतम्
अप्नस्वतीम् अश्विना वाचम् अस्मे कृतꣳ नो दस्रा वृषणा मनीषाम् । अद्यूत्ये ऽवसे नि ह्वये वाꣳ वृधे च नो भवतꣳ वाजसातौ
द्युभिर् अक्तुभिः परि पातम् अस्मान् अरिष्टेभिर् अश्विना सौभगेभिः । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
इदꣳ श्रेष्ठꣳ ज्योतिषाꣳ ज्योतिर् आगाच् चित्रः प्रकेतो अजनिष्ट विभ्वा । यथा प्रसूता सवितुः सवायꣳ एवा रात्र्य् उषसे योनिम् आरैक्
रुशद्वत्सा रुशती श्वेत्यागाद् आरैग् उ कृष्णा सदनान्य् अस्याः । समानबन्धू अमृते अनूची द्यावा वर्णꣳ चरत आमिनाने
समानो अध्वा स्वस्रोर् अनन्तस् तम् अन्यान्या चरतो देवशिष्टे । न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे
भास्वती नेत्री सूनृतानाम् अचेति चित्रा वि दुरो न आवः । प्रार्प्या जगद् व्य् उ नो रायो अख्यद् उषा अजीगर् भुवनानि विश्वा
जिह्मश्ये३ चरितवे मघोन्य् आभोगय इष्टये राय उ त्वम् । दभ्रम् पश्यद्भ्य उर्विया विचक्ष उषा अजीगर् भुवनानि विश्वा
क्षत्राय त्वꣳ श्रवसे त्वम् महीया इष्टये त्वम् अर्थम् इव त्वम् इत्यै । विसदृशा जीविताभिप्रचक्ष उषा अजीगर् भुवनानि विश्वा
एषा दिवो दुहिता प्रत्य् अदर्शि व्युच्छन्ती युवतिः शुक्रवासाः । विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्य् उच्छ
परायतीनाम् अन्व् एति पाथ आयतीनाम् प्रथमा शश्वतीनाम् । व्युच्छन्ती जीवम् उदीरयन्त्य् उषा मृतꣳ कꣳ चन बोधयन्ती
उषो यद् अग्निꣳ समिधे चकर्थ वि यद् आवश् चक्षसा सूर्यस्य । यन् मानुषान् यक्ष्यमाणाꣳ अजीगस् तद् देवेषु चकृषे भद्रम् अप्नः
कियात्य् आ यत् समया भवाति या व्यूषुर् याश् च नूनꣳ व्युच्छान् । अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषम् अन्याभिर् एति
ईयुष् टे ये पूर्वतराम् अपश्यन् व्युच्छन्तीम् उषसम् मर्त्यासः । अस्माभिर् ऊ नु प्रतिचक्ष्याभूद् ओ ते यन्ति ये अपरीषु पश्यान्
यावयद्द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती । सुमङ्गलीर् बिभ्रती देववीतिम् इहाद्योषः श्रेष्ठतमा व्य् उच्छ
शश्वत् पुरोषा व्य् उवास देव्य् अथो अद्येदꣳ व्य् आवो मघोनी । अथो व्य् उच्छाद् उत्तराꣳ अनु द्यून् अजरामृता चरति स्वधाभिः
व्य् अ१ञ्जिभिर् दिव आतास्व् अद्यौद् अप कृष्णाꣳ निर्णिजꣳ देव्य् आवः । प्रबोधयन्त्य् अरुणेभिर् अश्वैर् ओषा याति सुयुजा रथेन
आवहन्ती पोष्या वार्याणि चित्रꣳ केतुꣳ कृणुते चेकिताना । ईयुषीणाम् उपमा शश्वतीनाꣳ विभातीनाम् प्रथमोषा व्य् अश्वैत्
उद् ईर्ध्वꣳ जीवो असुर् न आगाद् अप प्रागात् तम आ ज्योतिर् एति । आरैक् पन्थाꣳ यातवे सूर्यायागन्म यत्र प्रतिरन्त आयुः
स्यूमना वाच उद् इयर्ति वह्निः स्तवानो रेभ उषसो विभातीः । अद्या तद् उच्छ गृणते मघोन्य् अस्मे आयुर् नि दिदीहि प्रजावत्
या गोमतीर् उषसः सर्ववीरा व्युच्छन्ति दाशुषे मर्त्याय । वायोर् इव सूनृतानाम् उदर्के ता अश्वदा अश्नवत् सोमसुत्वा
माता देवानाम् अदितेर् अनीकꣳ यज्ञस्य केतुर् बृहती वि भाहि । प्रशस्तिकृद् ब्रह्मणे नो व्य् उ१च्छा नो जने जनय विश्ववारे
यच् चित्रम् अप्न उषसो वहन्तीजानाय शशमानाय भद्रम् । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः । यथा शम् असद् द्विपदे चतुष्पदे विश्वम् पुष्टꣳ ग्रामे अस्मिन्न् अनातुरम्
मृळा नो रुद्रोत नो मयस् कृधि क्षयद्वीराय नमसा विधेम ते । यच् छꣳ च योश् च मनुर् आयेजे पिता तद् अश्याम तव रुद्र प्रणीतिषु
अश्याम ते सुमतिꣳ देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः । सुम्नायन्न् इद् विशो अस्माकम् आ चरारिष्टवीरा जुहवाम ते हविः
त्वेषꣳ वयꣳ रुद्रꣳ यज्ञसाधꣳ वङ्कुꣳ कविम् अवसे नि ह्वयामहे । आरे अस्मद् दैव्यꣳ हेळो अस्यतु सुमतिम् इद् वयम् अस्या वृणीमहे
दिवो वराहम् अरुषꣳ कपर्दिनꣳ त्वेषꣳ रूपꣳ नमसा नि ह्वयामहे । हस्ते बिभ्रद् भेषजा वार्याणि शर्म वर्म च्छर्दिर् अस्मभ्यꣳ यꣳसत्
इदम् पित्रे मरुताम् उच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् । रास्वा च नो अमृत मर्तभोजनꣳ त्मने तोकाय तनयाय मृळ
मा नो महान्तम् उत मा नो अर्भकम् मा न उक्षन्तम् उत मा न उक्षितम् । मा नो वधीः पितरम् मोत मातरम् मा नः प्रियास् तन्वो रुद्र रीरिषः
मा नस् तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे
उप ते स्तोमान् पशुपा इवाकरꣳ रास्वा पितर् मरुताꣳ सुम्नम् अस्मे । भद्रा हि ते सुमतिर् मृळयत्तमाथा वयम् अव इत् ते वृणीमहे
आरे ते गोघ्नम् उत पूरुषघ्नꣳ क्षयद्वीर सुम्नम् अस्मे ते अस्तु । मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः
अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवꣳ रुद्रो मरुत्वान् । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
चित्रꣳ देवानाम् उद् अगाद् अनीकꣳ चक्षुर् मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षꣳ सूर्य आत्मा जगतस् तस्थुषश् च
सूर्यो देवीम् उषसꣳ रोचमानाम् मर्यो न योषाम् अभ्य् एति पश्चात् । यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम्
भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः । नमस्यन्तो दिव आ पृष्ठम् अस्थुः परि द्यावापृथिवी यन्ति सद्यः
तत् सूर्यस्य देवत्वꣳ तन् महित्वम् मध्या कर्तोर् विततꣳ सꣳ जभार । यदेद् अयुक्त हरितः सधस्थाद् आद् रात्री वासस् तनुते सिमस्मै
तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपꣳ कृणुते द्योर् उपस्थे । अनन्तम् अन्यद् रुशद् अस्य पाजः कृष्णम् अन्यद् धरितः सम् भरन्ति
अद्या देवा उदिता सूर्यस्य निर् अꣳहसः पिपृता निर् अवद्यात् । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
नासत्याभ्याम् बर्हिर् इव प्र वृञ्जे स्तोमाꣳ इयर्म्य् अभ्रियेव वातः । याव् अर्भगाय विमदाय जायाꣳ सेनाजुवा न्यूहतू रथेन
वीळुपत्मभिर् आशुहेमभिर् वा देवानाꣳ वा जूतिभिः शाशदाना । तद् रासभो नासत्या सहस्रम् आजा यमस्य प्रधने जिगाय
तुग्रो ह भुज्युम् अश्विनोदमेघे रयिꣳ न कश् चिन् ममृवाꣳ अवाहाः । तम् ऊहथुर् नौभिर् आत्मन्वतीभिर् अन्तरिक्षप्रुद्भिर् अपोदकाभिः
तिस्रः क्षपस् त्रिर् अहातिव्रजद्भिर् नासत्या भुज्युम् ऊहथुः पतꣳगैः । समुद्रस्य धन्वन्न् आर्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः
अनारम्भणे तद् अवीरयेथाम् अनास्थाने अग्रभणे समुद्रे । यद् अश्विना ऊहथुर् भुज्युम् अस्तꣳ शतारित्राꣳ नावम् आतस्थिवाꣳसम्
यम् अश्विना ददथुः श्वेतम् अश्वम् अघाश्वाय शश्वद् इत् स्वस्ति । तद् वाꣳ दात्रम् महि कीर्तेन्यम् भूत् पैद्वो वाजी सदम् इद् धव्यो अर्यः
युवꣳ नरा स्तुवते पज्रियाय कक्षीवते अरदतम् पुरꣳधिम् । कारोतराच् छफाद् अश्वस्य वृष्णः शतꣳ कुम्भाꣳ असिञ्चतꣳ सुरायाः
हिमेनाग्निꣳ घ्रꣳसम् अवारयेथाम् पितुमतीम् ऊर्जम् अस्मा अधत्तम् । ऋबीसे अत्रिम् अश्विनावनीतम् उन् निन्यथुः सर्वगणꣳ स्वस्ति
परावतꣳ नासत्यानुदेथाम् उच्चाबुध्नꣳ चक्रथुर् जिह्मबारम् । क्षरन्न् आपो न पायनाय राये सहस्राय तृष्यते गोतमस्य
जुजुरुषो नासत्योत वव्रिम् प्रामुञ्चतꣳ द्रापिम् इव च्यवानात् । प्रातिरतꣳ जहितस्यायुर् दस्राद् इत् पतिम् अकृणुतꣳ कनीनाम्
तद् वाꣳ नरा शꣳस्यꣳ राध्यꣳ चाभिष्टिमन् नासत्या वरूथम् । यद् विद्वाꣳसा निधिम् इवापगूळ्हम् उद् दर्शताद् ऊपथुर् वन्दनाय
तद् वाꣳ नरा सनये दꣳस उग्रम् आविष् कृणोमि तन्यतुर् न वृष्टिम् । दध्यङ् ह यन् मध्व् आथर्वणो वाम् अश्वस्य शीर्ष्णा प्र यद् ईम् उवाच
अजोहवीन् नासत्या करा वाम् महे यामन् पुरुभुजा पुरꣳधिः । श्रुतꣳ तच् छासुर् इव वध्रिमत्या हिरण्यहस्तम् अश्विनाव् अदत्तम्
आस्नो वृकस्य वर्तिकाम् अभीके युवꣳ नरा नासत्यामुमुक्तम् । उतो कविम् पुरुभुजा युवꣳ ह कृपमाणम् अकृणुतꣳ विचक्षे
चरित्रꣳ हि वेर् इवाच्छेदि पर्णम् आजा खेलस्य परितक्म्यायाम् । सद्यो जङ्घाम् आयसीꣳ विश्पलायै धने हिते सर्तवे प्रत्य् अधत्तम्
शतम् मेषान् वृक्ये चक्षदानम् ऋज्राश्वꣳ तम् पितान्धꣳ चकार । तस्मा अक्षी नासत्या विचक्ष आधत्तꣳ दस्रा भिषजाव् अनर्वन्
आ वाꣳ रथꣳ दुहिता सूर्यस्य कार्ष्मेवातिष्ठद् अर्वता जयन्ती । विश्वे देवा अन्व् अमन्यन्त हृद्भिः सम् उ श्रिया नासत्या सचेथे
यद् अयातꣳ दिवोदासाय वर्तिर् भरद्वाजायाश्विना हयन्ता । रेवद् उवाह सचनो रथो वाꣳ वृषभश् च शिꣳशुमारश् च युक्ता
रयिꣳ सुक्षत्रꣳ स्वपत्यम् आयुः सुवीर्यꣳ नासत्या वहन्ता । आ जह्नावीꣳ समनसोप वाजैस् त्रिर् अह्नो भागꣳ दधतीम् अयातम्
परिविष्टꣳ जाहुषꣳ विश्वतः सीꣳ सुगेभिर् नक्तम् ऊहथू रजोभिः । विभिन्दुना नासत्या रथेन वि पर्वताꣳ अजरयू अयातम्
एकस्या वस्तोर् आवतꣳ रणाय वशम् अश्विना सनये सहस्रा । निर् अहतꣳ दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणाव् अरातीः
शरस्य चिद् आर्चत्कस्यावताद् आ नीचाद् उच्चा चक्रथुः पातवे वाः । शयवे चिन् नासत्या शचीभिर् जसुरये स्तर्यम् पिप्यथुर् गाम्
अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः । पशुꣳ न नष्टम् इव दर्शनाय विष्णाप्वꣳ ददथुर् विश्वकाय
दश रात्रीर् अशिवेना नव द्यून् अवनद्धꣳ श्नथितम् अप्स्व् अ१न्तः । विप्रुतꣳ रेभम् उदनि प्रवृक्तम् उन् निन्यथुः सोमम् इव स्रुवेण
प्र वाꣳ दꣳसाꣳस्य् अश्विनाव् अवोचम् अस्य पतिः स्याꣳ सुगवः सुवीरः । उत पश्यन्न् अश्नुवन् दीर्घम् आयुर् अस्तम् इवेज् जरिमाणꣳ जगम्याम्
मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम् । बर्हिष्मती रातिर् विश्रिता गीर् इषा यातꣳ नासत्योप वाजैः
यो वाम् अश्विना मनसो जवीयान् रथः स्वश्वो विश आजिगाति । येन गच्छथः सुकृतो दुरोणꣳ तेन नरा वर्तिर् अस्मभ्यꣳ यातम्
ऋषिꣳ नराव् अꣳहसः पाञ्चजन्यम् ऋबीसाद् अत्रिम् मुञ्चथो गणेन । मिनन्ता दस्योर् अशिवस्य माया अनुपूर्वꣳ वृषणा चोदयन्ता
अश्वꣳ न गूळ्हम् अश्विना दुरेवैर् ऋषिꣳ नरा वृषणा रेभम् अप्सु । सꣳ तꣳ रिणीथो विप्रुतꣳ दꣳसोभिर् न वाꣳ जूर्यन्ति पूर्व्या कृतानि
सुषुप्वाꣳसꣳ न निरृतेर् उपस्थे सूर्यꣳ न दस्रा तमसि क्षियन्तम् । शुभे रुक्मꣳ न दर्शतꣳ निखातम् उद् ऊपथुर् अश्विना वन्दनाय
तद् वाꣳ नरा शꣳस्यम् पज्रियेण कक्षीवता नासत्या परिज्मन् । शफाद् अश्वस्य वाजिनो जनाय शतꣳ कुम्भाꣳ असिञ्चतम् मधूनाम्
युवꣳ नरा स्तुवते कृष्णियाय विष्णाप्वꣳ ददथुर् विश्वकाय । घोषायै चित् पितृषदे दुरोणे पतिꣳ जूर्यन्त्या अश्विनाव् अदत्तम्
युवꣳ श्यावाय रुशतीम् अदत्तम् महः क्षोणस्याश्विना कण्वाय । प्रवाच्यꣳ तद् वृषणा कृतꣳ वाꣳ यन् नार्षदाय श्रवो अध्यधत्तम्
पुरू वर्पाꣳस्य् अश्विना दधाना नि पेदव ऊहथुर् आशुम् अश्वम् । सहस्रसाꣳ वाजिनम् अप्रतीतम् अहिहनꣳ श्रवस्य१ꣳ तरुत्रम्
एतानि वाꣳ श्रवस्या सुदानू ब्रह्माङ्गूषꣳ सदनꣳ रोदस्योः । यद् वाम् पज्रासो अश्विना हवन्ते यातम् इषा च विदुषे च वाजम्
सूनोर् मानेनाश्विना गृणाना वाजꣳ विप्राय भुरणा रदन्ता । अगस्त्ये ब्रह्मणा वावृधाना सꣳ विश्पलाꣳ नासत्यारिणीतम्
कुह यान्ता सुष्टुतिꣳ काव्यस्य दिवो नपाता वृषणा शयुत्रा । हिरण्यस्येव कलशꣳ निखातम् उद् ऊपथुर् दशमे अश्विनाहन्
युवꣳ च्यवानम् अश्विना जरन्तम् पुनर् युवानꣳ चक्रथुः शचीभिः । युवो रथꣳ दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत
युवꣳ तुग्राय पूर्व्येभिर् एवैः पुनर्मन्याव् अभवतꣳ युवाना । युवम् भुज्युम् अर्णसो निः समुद्राद् विभिर् ऊहथुर् ऋज्रेभिर् अश्वैः
अजोहवीद् अश्विना तौग्र्यो वाम् प्रोळ्हः समुद्रम् अव्यथिर् जगन्वान् । निष् टम् ऊहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति
अजोहवीद् अश्विना वर्तिका वाम् आस्नो यत् सीम् अमुञ्चतꣳ वृकस्य । वि जयुषा ययथुः सान्व् अद्रेर् जातꣳ विष्वाचो अहतꣳ विषेण
शतम् मेषान् वृक्ये मामहानꣳ तमः प्रणीतम् अशिवेन पित्रा । आक्षी ऋज्राश्वे अश्विनाव् अधत्तꣳ ज्योतिर् अन्धाय चक्रथुर् विचक्षे
शुनम् अन्धाय भरम् अह्वयत् सा वृकीर् अश्विना वृषणा नरेति । जारः कनीन इव चक्षदान ऋज्राश्वः शतम् एकꣳ च मेषान्
मही वाम् ऊतिर् अश्विना मयोभूर् उत स्रामꣳ धिष्ण्या सꣳ रिणीथः । अथा युवाम् इद् अह्वयत् पुरꣳधिर् आगच्छतꣳ सीꣳ वृषणाव् अवोभिः
अधेनुꣳ दस्रा स्तर्य१ꣳ विषक्ताम् अपिन्वतꣳ शयवे अश्विना गाम् । युवꣳ शचीभिर् विमदाय जायाꣳ न्य् ऊहथुः पुरुमित्रस्य योषाम्
यवꣳ वृकेणाश्विना वपन्तेषꣳ दुहन्ता मनुषाय दस्रा । अभि दस्युम् बकुरेणा धमन्तोरु ज्योतिश् चक्रथुर् आर्याय
आथर्वणायाश्विना दधीचे ऽश्व्यꣳ शिरः प्रत्य् ऐरयतम् । स वाम् मधु प्र वोचद् ऋतायन् त्वाष्ट्रꣳ यद् दस्राव् अपिकक्ष्यꣳ वाम्
सदा कवी सुमतिम् आ चके वाꣳ विश्वा धियो अश्विना प्रावतम् मे । अस्मे रयिꣳ नासत्या बृहन्तम् अपत्यसाचꣳ श्रुत्यꣳ रराथाम्
हिरण्यहस्तम् अश्विना रराणा पुत्रꣳ नरा वध्रिमत्या अदत्तम् । त्रिधा ह श्यावम् अश्विना विकस्तम् उज् जीवस ऐरयतꣳ सुदानू
एतानि वाम् अश्विना वीर्याणि प्र पूर्व्याण्य् आयवो ऽवोचन् । ब्रह्म कृण्वन्तो वृषणा युवभ्याꣳ सुवीरासो विदथम् आ वदेम
आ वाꣳ रथो अश्विना श्येनपत्वा सुमृळीकः स्ववाꣳ यात्व् अर्वाङ् । यो मर्त्यस्य मनसो जवीयान् त्रिवन्धुरो वृषणा वातरꣳहाः
त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातम् अर्वाक् । पिन्वतꣳ गा जिन्वतम् अर्वतो नो वर्धयतम् अश्विना वीरम् अस्मे
प्रवद्यामना सुवृता रथेन दस्राव् इमꣳ शृणुतꣳ श्लोकम् अद्रेः । किम् अङ्ग वाम् प्रत्य् अवर्तिꣳ गमिष्ठाहुर् विप्रासो अश्विना पुराजाः
आ वाꣳ श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतꣳगाः । ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति
आ वाꣳ रथꣳ युवतिस् तिष्ठद् अत्र जुष्ट्वी नरा दुहिता सूर्यस्य । परि वाम् अश्वा वपुषः पतꣳगा वयो वहन्त्व् अरुषा अभीके
उद् वन्दनम् ऐरतꣳ दꣳसनाभिर् उद् रेभꣳ दस्रा वृषणा शचीभिः । निष् टौग्र्यम् पारयथः समुद्रात् पुनश् च्यवानꣳ चक्रथुर् युवानम्
युवम् अत्रये ऽवनीताय तप्तम् ऊर्जम् ओमानम् अश्विनाव् अधत्तम् । युवꣳ कण्वायापिरिप्ताय चक्षुः प्रत्य् अधत्तꣳ सुष्टुतिꣳ जुजुषाणा
युवꣳ धेनुꣳ शयवे नाधितायापिन्वतम् अश्विना पूर्व्याय । अमुञ्चतꣳ वर्तिकाम् अꣳहसो निः प्रति जङ्घाꣳ विश्पलाया अधत्तम्
युवꣳ श्वेतम् पेदव इन्द्रजूतम् अहिहनम् अश्विनादत्तम् अश्वम् । जोहूत्रम् अर्यो अभिभूतिम् उग्रꣳ सहस्रसाꣳ वृषणꣳ वीड्वङ्गम्
ता वाꣳ नरा स्व् अवसे सुजाता हवामहे अश्विना नाधमानाः । आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम्
आ श्येनस्य जवसा नूतनेनास्मे यातꣳ नासत्या सजोषाः । हवे हि वाम् अश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ
आ वाꣳ रथम् पुरुमायम् मनोजुवꣳ जीराश्वꣳ यज्ञियꣳ जीवसे हुवे । सहस्रकेतुꣳ वनिनꣳ शतद्वसुꣳ श्रुष्टीवानꣳ वरिवोधाम् अभि प्रयः
ऊर्ध्वा धीतिः प्रत्य् अस्य प्रयामन्य् अधायि शस्मन् सम् अयन्त आ दिशः । स्वदामि घर्मम् प्रति यन्त्य् ऊतय आ वाम् ऊर्जानी रथम् अश्विनारुहत्
सꣳ यन् मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे । युवोर् अह प्रवणे चेकिते रथो यद् अश्विना वहथः सूरिम् आ वरम्
युवम् भुज्युम् भुरमाणꣳ विभिर् गतꣳ स्वयुक्तिभिर् निवहन्ता पितृभ्य आ । यासिष्टꣳ वर्तिर् वृषणा विजेन्य१ꣳ दिवोदासाय महि चेति वाम् अवः
युवोर् अश्विना वपुषे युवायुजꣳ रथꣳ वाणी येमतुर् अस्य शर्ध्यम् । आ वाम् पतित्वꣳ सख्याय जग्मुषी योषावृणीत जेन्या युवाम् पती
युवꣳ रेभम् परिषूतेर् उरुष्यथो हिमेन घर्मम् परितप्तम् अत्रये । युवꣳ शयोर् अवसम् पिप्यथुर् गवि प्र दीर्घेण वन्दनस् तार्य् आयुषा
युवꣳ वन्दनꣳ निरृतꣳ जरण्यया रथꣳ न दस्रा करणा सम् इन्वथः । क्षेत्राद् आ विप्रꣳ जनथो विपन्यया प्र वाम् अत्र विधते दꣳसना भुवत्
अगच्छतꣳ कृपमाणम् परावति पितुः स्वस्य त्यजसा निबाधितम् । स्वर्वतीर् इत ऊतीर् युवोर् अह चित्रा अभीके अभवन्न् अभिष्टयः
उत स्या वाम् मधुमन् मक्षिकारपन् मदे सोमस्यौशिजो हुवन्यति । युवꣳ दधीचो मन आ विवासथो ऽथा शिरः प्रति वाम् अश्व्यꣳ वदत्
युवम् पेदवे पुरुवारम् अश्विना स्पृधाꣳ श्वेतꣳ तरुतारꣳ दुवस्यथः । शर्यैर् अभिद्युम् पृतनासु दुष्टरꣳ चर्कृत्यम् इन्द्रम् इव चर्षणीसहम्
का राधद् धोत्राश्विना वाꣳ को वाꣳ जोष उभयोः । कथा विधात्य् अप्रचेताः
विद्वाꣳसाव् इद् दुरः पृच्छेद् अविद्वान् इत्थापरो अचेताः । नू चिन् नु मर्ते अक्रौ
ता विद्वाꣳसा हवामहे वाꣳ ता नो विद्वाꣳसा मन्म वोचेतम् अद्य । प्रार्चद् दयमानो युवाकुः
वि पृच्छामि पाक्या३ न देवान् वषट्कृतस्याद्भुतस्य दस्रा । पातꣳ च सह्यसो युवꣳ च रभ्यसो नः
प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वाम् । प्रैषयुर् न विद्वान्
श्रुतꣳ गायत्रꣳ तकवानस्याहꣳ चिद् धि रिरेभाश्विना वाम् । आक्षी शुभस् पती दन्
युवꣳ ह्य् आस्तम् महो रन् युवꣳ वा यन् निरततꣳसतम् । ता नो वसू सुगोपा स्यातम् पातꣳ नो वृकाद् अघायोः
मा कस्मै धातम् अभ्य् अमित्रिणे नो माकुत्रा नो गृहेभ्यो धेनवो गुः । स्तनाभुजो अशिश्वीः
दुहीयन् मित्रधितये युवाकु राये च नो मिमीतꣳ वाजवत्यै । इषे च नो मिमीतꣳ धेनुमत्यै
अश्विनोर् असनꣳ रथम् अनश्वꣳ वाजिनीवतोः । तेनाहम् भूरि चाकन
अयꣳ समह मा तनूह्याते जनाꣳ अनु । सोमपेयꣳ सुखो रथः
अध स्वप्नस्य निर् विदे ऽभुञ्जतश् च रेवतः । उभा ता बस्रि नश्यतः
कद् इत्था नॄꣳः पात्रꣳ देवयताꣳ श्रवद् गिरो अङ्गिरसाꣳ तुरण्यन् । प्र यद् आनड् विश आ हर्म्यस्योरु क्रꣳसते अध्वरे यजत्रः
स्तम्भीद् ध द्याꣳ स धरुणम् प्रुषायद् ऋभुर् वाजाय द्रविणꣳ नरो गोः । अनु स्वजाम् महिषश् चक्षत व्राम् मेनाम् अश्वस्य परि मातरꣳ गोः
नक्षद् धवम् अरुणीः पूर्व्यꣳ राट् तुरो विशाम् अङ्गिरसाम् अनु द्यून् । तक्षद् वज्रꣳ नियुतꣳ तस्तम्भद् द्याꣳ चतुष्पदे नर्याय द्विपादे
अस्य मदे स्वर्यꣳ दा ऋतायापीवृतम् उस्रियाणाम् अनीकम् । यद् ध प्रसर्गे त्रिककुम् निवर्तद् अप द्रुहो मानुषस्य दुरो वः
तुभ्यम् पयो यत् पितराव् अनीताꣳ राधः सुरेतस् तुरणे भुरण्यू । शुचि यत् ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः
अध प्र जज्ञे तरणिर् ममत्तु प्र रोच्य् अस्या उषसो न सूरः । इन्दुर् येभिर् आष्ट स्वेदुहव्यैः स्रुवेण सिञ्चञ् जरणाभि धाम
स्विध्मा यद् वनधितिर् अपस्यात् सूरो अध्वरे परि रोधना गोः । यद् ध प्रभासि कृत्व्याꣳ अनु द्यून् अनर्विशे पश्विषे तुराय
अष्टा महो दिव आदो हरी इह द्युम्नासाहम् अभि योधान उत्सम् । हरिꣳ यत् ते मन्दिनꣳ दुक्षन् वृधे गोरभसम् अद्रिभिर् वाताप्यम्
त्वम् आयसम् प्रति वर्तयो गोर् दिवो अश्मानम् उपनीतम् ऋभ्वा । कुत्साय यत्र पुरुहूत वन्वञ् छुष्णम् अनन्तैः परियासि वधैः
पुरा यत् सूरस् तमसो अपीतेस् तम् अद्रिवः फलिगꣳ हेतिम् अस्य । शुष्णस्य चित् परिहितꣳ यद् ओजो दिवस् परि सुग्रथितꣳ तद् आदः
अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदताम् इन्द्र कर्मन् । त्वꣳ वृत्रम् आशयानꣳ सिरासु महो वज्रेण सिष्वपो वराहुम्
त्वम् इन्द्र नर्यो याꣳ अवो नॄन् तिष्ठा वातस्य सुयुजो वहिष्ठान् । यꣳ ते काव्य उशना मन्दिनꣳ दाद् वृत्रहणम् पार्यꣳ ततक्ष वज्रम्
त्वꣳ सूरो हरितो रामयो नॄन् भरच् चक्रम् एतशो नायम् इन्द्र । प्रास्य पारꣳ नवतिꣳ नाव्यानाम् अपि कर्तम् अवर्तयो ऽयज्यून्
त्वꣳ नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरिताद् अभीके । प्र नो वाजान् रथ्यो३ अश्वबुध्यान् इषे यन्धि श्रवसे सूनृतायै
मा सा ते अस्मत् सुमतिर् वि दसद् वाजप्रमहः सम् इषो वरन्त । आ नो भज मघवन् गोष्व् अर्यो मꣳहिष्ठास् ते सधमादः स्याम
प्र वः पान्तꣳ रघुमन्यवो ऽन्धो यज्ञꣳ रुद्राय मीळ्हुषे भरध्वम् । दिवो अस्तोष्य् असुरस्य वीरैर् इषुध्येव मरुतो रोदस्योः
पत्नीव पूर्वहूतिꣳ वावृधध्या उषासानक्ता पुरुधा विदाने । स्तरीर् नात्कꣳ व्युतꣳ वसाना सूर्यस्य श्रिया सुदृशी हिरण्यैः
ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपाꣳ वृषण्वान् । शिशीतम् इन्द्रापर्वता युवꣳ नस् तन् नो विश्वे वरिवस्यन्तु देवाः
उत त्या मे यशसा श्वेतनायै व्यन्ता पान्तौशिजो हुवध्यै । प्र वो नपातम् अपाꣳ कृणुध्वम् प्र मातरा रास्पिनस्यायोः
आ वो रुवण्युम् औशिजो हुवध्यै घोषेव शꣳसम् अर्जुनस्य नꣳशे । प्र वः पूष्णे दावन आꣳ अच्छा वोचेय वसुतातिम् अग्नेः
श्रुतम् मे मित्रावरुणा हवेमोत श्रुतꣳ सदने विश्वतः सीम् । श्रोतु नः श्रोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुर् अद्भिः
स्तुषे सा वाꣳ वरुण मित्र रातिर् गवाꣳ शता पृक्षयामेषु पज्रे । श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिꣳ निरुन्धानासो अग्मन्
अस्य स्तुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः । जनो यः पज्रेभ्यो वाजिनीवान् अश्वावतो रथिनो मह्यꣳ सूरिः
जनो यो मित्रावरुणाव् अभिध्रुग् अपो न वाꣳ सुनोत्य् अक्ष्णयाध्रुक् । स्वयꣳ स यक्ष्मꣳ हृदये नि धत्त आप यद् ईꣳ होत्राभिर् ऋतावा
स व्राधतो नहुषो दꣳसुजूतः शर्धस्तरो नराꣳ गूर्तश्रवाः । विसृष्टरातिर् याति बाळ्हसृत्वा विश्वासु पृत्सु सदम् इच् छूरः
अध ग्मन्ता नहुषो हवꣳ सूरेः श्रोता राजानो अमृतस्य मन्द्राः । नभोजुवो यन् निरवस्य राधः प्रशस्तये महिना रथवते
एतꣳ शर्धꣳ धाम यस्य सूरेर् इत्य् अवोचन् दशतयस्य नꣳशे । द्युम्नानि येषु वसुताती रारन् विश्वे सन्वन्तु प्रभृथेषु वाजम्
मन्दामहे दशतयस्य धासेर् द्विर् यत् पञ्च बिभ्रतो यन्त्य् अन्ना । किम् इष्टाश्व इष्टरश्मिर् एत ईशानासस् तरुष ऋञ्जते नॄन्
हिरण्यकर्णम् मणिग्रीवम् अर्णस् तन् नो विश्वे वरिवस्यन्तु देवाः । अर्यो गिरः सद्य आ जग्मुषीर् ओस्राश् चाकन्तूभयेष्व् अस्मे
चत्वारो मा मशर्शारस्य शिश्वस् त्रयो राज्ञ आयवसस्य जिष्णोः । रथो वाम् मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत्
पृथू रथो दक्षिणाया अयोज्य् ऐनꣳ देवासो अमृतासो अस्थुः । कृष्णाद् उद् अस्थाद् अर्या३ विहायाश् चिकित्सन्ती मानुषाय क्षयाय
पूर्वा विश्वस्माद् भुवनाद् अबोधि जयन्ती वाजम् बृहती सनुत्री । उच्चा व्य् अख्यद् युवतिः पुनर्भूर् ओषा अगन् प्रथमा पूर्वहूतौ
यद् अद्य भागꣳ विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते । देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय
गृहꣳ-गृहम् अहना यात्य् अच्छा दिवे-दिवे अधि नामा दधाना । सिषासन्ती द्योतना शश्वद् आगाद् अग्रम्-अग्रम् इद् भजते वसूनाम्
भगस्य स्वसा वरुणस्य जामिर् उषः सूनृते प्रथमा जरस्व । पश्चा स दघ्या यो अघस्य धाता जयेम तꣳ दक्षिणया रथेन
उद् ईरताꣳ सूनृता उत् पुरꣳधीर् उद् अग्नयः शुशुचानासो अस्थुः । स्पार्हा वसूनि तमसापगूळ्हाविष् कृण्वन्त्य् उषसो विभातीः
अपान्यद् एत्य् अभ्य् अ१न्यद् एति विषुरूपे अहनी सꣳ चरेते । परिक्षितोस् तमो अन्या गुहाकर् अद्यौद् उषाः शोशुचता रथेन
सदृशीर् अद्य सदृशीर् इद् उ श्वो दीर्घꣳ सचन्ते वरुणस्य धाम । अनवद्यास् त्रिꣳशतꣳ योजनान्य् एकैका क्रतुम् परि यन्ति सद्यः
जानत्य् अह्नः प्रथमस्य नाम शुक्रा कृष्णाद् अजनिष्ट श्वितीची । ऋतस्य योषा न मिनाति धामाहर्-अहर् निष्कृतम् आचरन्ती
कन्येव तन्वा३ शाशदानाꣳ एषि देवि देवम् इयक्षमाणम् । सꣳस्मयमाना युवतिः पुरस्ताद् आविर् वक्षाꣳसि कृणुषे विभाती
सुसꣳकाशा मातृमृष्टेव योषाविस् तन्वꣳ कृणुषे दृशे कम् । भद्रा त्वम् उषो वितरꣳ व्य् उच्छ न तत् ते अन्या उषसो नशन्त
अश्वावतीर् गोमतीर् विश्ववारा यतमाना रश्मिभिः सूर्यस्य । परा च यन्ति पुनर् आ च यन्ति भद्रा नाम वहमाना उषासः
ऋतस्य रश्मिम् अनुयच्छमाना भद्रम्-भद्रꣳ क्रतुम् अस्मासु धेहि । उषो नो अद्य सुहवा व्य् उच्छास्मासु रायो मघवत्सु च स्युः
उषा उच्छन्ती समिधाने अग्ना उद्यन् सूर्य उर्विया ज्योतिर् अश्रेत् । देवो नो अत्र सविता न्व् अर्थम् प्रासावीद् द्विपत् प्र चतुष्पद् इत्यै
अमिनती दैव्यानि व्रतानि प्रमिनती मनुष्या युगानि । ईयुषीणाम् उपमा शश्वतीनाम् आयतीनाम् प्रथमोषा व्य् अद्यौत्
एषा दिवो दुहिता प्रत्य् अदर्शि ज्योतिर् वसाना समना पुरस्तात् । ऋतस्य पन्थाम् अन्व् एति साधु प्रजानतीव न दिशो मिनाति
उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविर् अकृत प्रियाणि । अद्मसन् न ससतो बोधयन्ती शश्वत्तमागात् पुनर् एयुषीणाम्
पूर्वे अर्धे रजसो अप्त्यस्य गवाꣳ जनित्र्य् अकृत प्र केतुम् । व्य् उ प्रथते वितरꣳ वरीय ओभा पृणन्ती पित्रोर् उपस्था
एवेद् एषा पुरुतमा दृशे कꣳ नाजामिꣳ न परि वृणक्ति जामिम् । अरेपसा तन्वा३ शाशदाना नार्भाद् ईषते न महो विभाती
अभ्रातेव पुꣳस एति प्रतीची गर्तारुग् इव सनये धनानाम् । जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः
स्वसा स्वस्रे ज्यायस्यै योनिम् आरैग् अपैत्य् अस्याः प्रतिचक्ष्येव । व्युच्छन्ती रश्मिभिः सूर्यस्याञ्ज्य् अङ्क्ते समनगा इव व्राः
आसाम् पूर्वासाम् अहसु स्वसॄणाम् अपरा पूर्वाम् अभ्य् एति पश्चात् । ताः प्रत्नवन् नव्यसीर् नूनम् अस्मे रेवद् उच्छन्तु सुदिना उषासः
प्र बोधयोषः पृणतो मघोन्य् अबुध्यमानाः पणयः ससन्तु । रेवद् उच्छ मघवद्भ्यो मघोनि रेवत् स्तोत्रे सूनृते जारयन्ती
अवेयम् अश्वैद् युवतिः पुरस्ताद् युङ्क्ते गवाम् अरुणानाम् अनीकम् । वि नूनम् उच्छाद् असति प्र केतुर् गृहꣳ-गृहम् उप तिष्ठाते अग्निः
उत् ते वयश् चिद् वसतेर् अपप्तन् नरश् च ये पितुभाजो व्युष्टौ । अमा सते वहसि भूरि वामम् उषो देवि दाशुषे मर्त्याय
अस्तोढ्वꣳ स्तोम्या ब्रह्मणा मे ऽवीवृधध्वम् उशतीर् उषासः । युष्माकꣳ देवीर् अवसा सनेम सहस्रिणꣳ च शतिनꣳ च वाजम्
प्राता रत्नम् प्रातरित्वा दधाति तꣳ चिकित्वान् प्रतिगृह्या नि धत्ते । तेन प्रजाꣳ वर्धयमान आयू रायस् पोषेण सचते सुवीरः
सुगुर् असत् सुहिरण्यः स्वश्वो बृहद् अस्मै वय इन्द्रो दधाति । यस् त्वायन्तꣳ वसुना प्रातरित्वो मुक्षीजयेव पदिम् उत्सिनाति
आयम् अद्य सुकृतम् प्रातर् इच्छन्न् इष्टेः पुत्रꣳ वसुमता रथेन । अꣳशोः सुतम् पायय मत्सरस्य क्षयद्वीरꣳ वर्धय सूनृताभिः
उप क्षरन्ति सिन्धवो मयोभुव ईजानꣳ च यक्ष्यमाणꣳ च धेनवः । पृणन्तꣳ च पपुरिꣳ च श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः
नाकस्य पृष्ठे अधि तिष्ठति श्रितो यः पृणाति स ह देवेषु गच्छति । तस्मा आपो घृतम् अर्षन्ति सिन्धवस् तस्मा इयꣳ दक्षिणा पिन्वते सदा
दक्षिणावताम् इद् इमानि चित्रा दक्षिणावताꣳ दिवि सूर्यासः । दक्षिणावन्तो अमृतम् भजन्ते दक्षिणावन्तः प्र तिरन्त आयुः
मा पृणन्तो दुरितम् एन आरन् मा जारिषुः सूरयः सुव्रतासः । अन्यस् तेषाम् परिधिर् अस्तु कश् चिद् अपृणन्तम् अभि सꣳ यन्तु शोकाः
अमन्दान् स्तोमान् प्र भरे मनीषा सिन्धाव् अधि क्षियतो भाव्यस्य । यो मे सहस्रम् अमिमीत सवान् अतूर्तो राजा श्रव इच्छमानः
शतꣳ राज्ञो नाधमानस्य निष्काञ् छतम् अश्वान् प्रयतान् सद्य आदम् । शतꣳ कक्षीवाꣳ असुरस्य गोनाꣳ दिवि श्रवो ऽजरम् आ ततान
उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः । षष्टिः सहस्रम् अनु गव्यम् आगात् सनत् कक्षीवाꣳ अभिपित्वे अह्नाम्
चत्वारिꣳशद् दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिꣳ नयन्ति । मदच्युतः कृशनावतो अत्यान् कक्षीवन्त उद् अमृक्षन्त पज्राः
पूर्वाम् अनु प्रयतिम् आ ददे वस् त्रीन् युक्ताꣳ अष्टाव् अरिधायसो गाः । सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः
आगधिता परिगधिता या कशीकेव जङ्गहे । ददाति मह्यꣳ यादुरी याशूनाम् भोज्या शता
उपोप मे परा मृश मा मे दभ्राणि मन्यथाः । सर्वाहम् अस्मि रोमशा गन्धारीणाम् इवाविका
अग्निꣳ होतारम् मन्ये दास्वन्तꣳ वसुꣳ सूनुꣳ सहसो जातवेदसꣳ विप्रꣳ न जातवेदसम् । य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिम् अनु वष्टि शोचिषाजुह्वानस्य सर्पिषः
यजिष्ठꣳ त्वा यजमाना हुवेम ज्येष्ठम् अङ्गिरसाꣳ विप्र मन्मभिर् विप्रेभिः शुक्र मन्मभिः । परिज्मानम् इव द्याꣳ होतारꣳ चर्षणीनाम् । शोचिष्केशꣳ वृषणꣳ यम् इमा विशः प्रावन्तु जूतये विशः
स हि पुरू चिद् ओजसा विरुक्मता दीद्यानो भवति द्रुहꣳतरः परशुर् न द्रुहꣳतरः । वीळु चिद् यस्य समृतौ श्रुवद् वनेव यत् स्थिरम् । निःषहमाणो यमते नायते धन्वासहा नायते
दृळ्हा चिद् अस्मा अनु दुर् यथा विदे तेजिष्ठाभिर् अरणिभिर् दाष्ट्य् अवसे ऽग्नये दाष्ट्य् अवसे । प्र यः पुरूणि गाहते तक्षद् वनेव शोचिषा । स्थिरा चिद् अन्ना नि रिणात्य् ओजसा नि स्थिराणि चिद् ओजसा
तम् अस्य पृक्षम् उपरासु धीमहि नक्तꣳ यः सुदर्शतरो दिवातराद् अप्रायुषे दिवातरात् । आद् अस्यायुर् ग्रभणवद् वीळु शर्म न सूनवे । भक्तम् अभक्तम् अवो व्यन्तो अजरा अग्नयो व्यन्तो अजराः
स हि शर्धो न मारुतꣳ तुविष्वणिर् अप्नस्वतीषूर्वरास्व् इष्टनिर् आर्तनास्व् इष्टनिः । आदद् धव्यान्य् आददिर् यज्ञस्य केतुर् अर्हणा । अध स्मास्य हर्षतो हृषीवतो विश्वे जुषन्त पन्थाꣳ नरः शुभे न पन्थाम्
द्विता यद् ईꣳ कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवो मथ्नन्तो दाशा भृगवः । अग्निर् ईशे वसूनाꣳ शुचिर् यो धर्णिर् एषाम् । प्रियाꣳ अपिधीꣳर् वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरः
विश्वासाꣳ त्वा विशाम् पतिꣳ हवामहे सर्वासाꣳ समानꣳ दम्पतिम् भुजे सत्यगिर्वाहसम् भुजे । अतिथिम् मानुषाणाम् पितुर् न यस्यासया । अमी च विश्वे अमृतास आ वयो हव्या देवेष्व् आ वयः
त्वम् अग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर् न देवतातये । शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः । अध स्मा ते परि चरन्त्य् अजर श्रुष्टीवानो नाजर
प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभूत्व् अग्नये । प्रति यद् ईꣳ हविष्मान् विश्वासु क्षासु जोगुवे । अग्रे रेभो न जरत ऋषूणाꣳ जूर्णिर् होत ऋषूणाम्
स नो नेदिष्ठꣳ ददृशान आ भराग्ने देवेभिः सचनाः सुचेतुना महो रायः सुचेतुना । महि शविष्ठ नस् कृधि सꣳचक्षे भुजे अस्यै । महि स्तोतृभ्यो मघवन् सुवीर्यम् मथीर् उग्रो न शवसा
अयꣳ जायत मनुषो धरीमणि होता यजिष्ठ उशिजाम् अनु व्रतम् अग्निः स्वम् अनु व्रतम् । विश्वश्रुष्टिः सखीयते रयिर् इव श्रवस्यते । अदब्धो होता नि षदद् इळस् पदे परिवीत इळस् पदे
तꣳ यज्ञसाधम् अपि वातयामस्य् ऋतस्य पथा नमसा हविष्मता देवताता हविष्मता । स न ऊर्जाम् उपाभृत्य् अया कृपा न जूर्यति । यम् मातरिश्वा मनवे परावतो देवम् भाः परावतः
एवेन सद्यः पर्य् एति पार्थिवम् मुहुर्गी रेतो वृषभः कनिक्रदद् दधद् रेतः कनिक्रदत् । शतꣳ चक्षाणो अक्षभिर् देवो वनेषु तुर्वणिः । सदो दधान उपरेषु सानुष्व् अग्निः परेषु सानुषु
स सुक्रतुः पुरोहितो दमे-दमे ऽग्निर् यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति । क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे । यतो घृतश्रीर् अतिथिर् अजायत वह्निर् वेधा अजायत
क्रत्वा यद् अस्य तविषीषु पृञ्चते ऽग्नेर् अवेण मरुताꣳ न भोज्येषिराय न भोज्या । स हि ष्मा दानम् इन्वति वसूनाꣳ च मज्मना । स नस् त्रासते दुरिताद् अभिह्रुतः शꣳसाद् अघाद् अभिह्रुतः
विश्वो विहाया अरतिर् वसुर् दधे हस्ते दक्षिणे तरणिर् न शिश्रथच् छ्रवस्यया न शिश्रथत् । विश्वस्मा इद् इषुध्यते देवत्रा हव्यम् ओहिषे । विश्वस्मा इत् सुकृते वारम् ऋण्वत्य् अग्निर् द्वारा व्य् ऋण्वति
स मानुषे वृजने शꣳतमो हितो३ ऽग्निर् यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः । स हव्या मानुषाणाम् इळा कृतानि पत्यते । स नस् त्रासते वरुणस्य धूर्तेर् महो देवस्य धूर्तेः
अग्निꣳ होतारम् ईळते वसुधितिम् प्रियꣳ चेतिष्ठम् अरतिꣳ न्य् एरिरे हव्यवाहꣳ न्य् एरिरे । विश्वायुꣳ विश्ववेदसꣳ होतारꣳ यजतꣳ कविम् । देवासो रण्वम् अवसे वसूयवो गीर्भी रण्वꣳ वसूयवः
यꣳ त्वꣳ रथम् इन्द्र मेधसातये ऽपाका सन्तम् इषिर प्रणयसि प्रानवद्य नयसि । सद्यश् चित् तम् अभिष्टये करो वशश् च वाजिनम् । सास्माकम् अनवद्य तूतुजान वेधसाम् इमाꣳ वाचꣳ न वेधसाम्
स श्रुधि यः स्मा पृतनासु कासु चिद् दक्षाय्य इन्द्र भरहूतये नृभिर् असि प्रतूर्तये नृभिः । यः शूरैः स्व१ः सनिता यो विप्रैर् वाजꣳ तरुता । तम् ईशानास इरधन्त वाजिनम् पृक्षम् अत्यꣳ न वाजिनम्
दस्मो हि ष्मा वृषणम् पिन्वसि त्वचꣳ कꣳ चिद् यावीर् अररुꣳ शूर मर्त्यम् परिवृणक्षि मर्त्यम् । इन्द्रोत तुभ्यꣳ तद् दिवे तद् रुद्राय स्वयशसे । मित्राय वोचꣳ वरुणाय सप्रथः सुमृळीकाय सप्रथः
अस्माकꣳ व इन्द्रम् उश्मसीष्टये सखायꣳ विश्वायुम् प्रासहꣳ युजꣳ वाजेषु प्रासहꣳ युजम् । अस्माकम् ब्रह्मोतये ऽवा पृत्सुषु कासु चित् । नहि त्वा शत्रुः स्तरते स्तृणोषि यꣳ विश्वꣳ शत्रुꣳ स्तृणोषि यम्
नि षू नमातिमतिꣳ कयस्य चित् तेजिष्ठाभिर् अरणिभिर् नोतिभिर् उग्राभिर् उग्रोतिभिः । नेषि णो यथा पुरानेनाः शूर मन्यसे । विश्वानि पूरोर् अप पर्षि वह्निर् आसा वह्निर् नो अच्छ
प्र तद् वोचेयम् भव्यायेन्दवे हव्यो न य इषवान् मन्म रेजति रक्षोहा मन्म रेजति । स्वयꣳ सो अस्मद् आ निदो वधैर् अजेत दुर्मतिम् । अव स्रवेद् अघशꣳसो ऽवतरम् अव क्षुद्रम् इव स्रवेत्
वनेम तद् धोत्रया चितन्त्या वनेम रयिꣳ रयिवः सुवीर्यꣳ रण्वꣳ सन्तꣳ सुवीर्यम् । दुर्मन्मानꣳ सुमन्तुभिर् एम् इषा पृचीमहि । आ सत्याभिर् इन्द्रꣳ द्युम्नहूतिभिर् यजत्रꣳ द्युम्नहूतिभिः
प्र-प्रा वो अस्मे स्वयशोभिर् ऊती परिवर्ग इन्द्रो दुर्मतीनाꣳ दरीमन् दुर्मतीनाम् । स्वयꣳ सा रिषयध्यै या न उपेषे अत्रैः । हतेम् असन् न वक्षति क्षिप्ता जूर्णिर् न वक्षति
त्वꣳ न इन्द्र राया परीणसा याहि पथाꣳ अनेहसा पुरो याह्य् अरक्षसा । सचस्व नः पराक आ सचस्वास्तमीक आ । पाहि नो दूराद् आराद् अभिष्टिभिः सदा पाह्य् अभिष्टिभिः
त्वꣳ न इन्द्र राया तरूषसोग्रꣳ चित् त्वा महिमा सक्षद् अवसे महे मित्रꣳ नावसे । ओजिष्ठ त्रातर् अविता रथꣳ कꣳ चिद् अमर्त्य । अन्यम् अस्मद् रिरिषेः कꣳ चिद् अद्रिवो रिरिक्षन्तꣳ चिद् अद्रिवः
पाहि न इन्द्र सुष्टुत स्रिधो ऽवयाता सदम् इद् दुर्मतीनाꣳ देवः सन् दुर्मतीनाम् । हन्ता पापस्य रक्षसस् त्राता विप्रस्य मावतः । अधा हि त्वा जनिता जीजनद् वसो रक्षोहणꣳ त्वा जीजनद् वसो
एन्द्र याह्य् उप नः परावतो नायम् अच्छा विदथानीव सत्पतिर् अस्तꣳ राजेव सत्पतिः । हवामहे त्वा वयम् प्रयस्वन्तः सुते सचा । पुत्रासो न पितरꣳ वाजसातये मꣳहिष्ठꣳ वाजसातये
पिबा सोमम् इन्द्र सुवानम् अद्रिभिः कोशेन सिक्तम् अवतꣳ न वꣳसगस् तातृषाणो न वꣳसगः । मदाय हर्यताय ते तुविष्टमाय धायसे । आ त्वा यच्छन्तु हरितो न सूर्यम् अहा विश्वेव सूर्यम्
अविन्दद् दिवो निहितꣳ गुहा निधिꣳ वेर् न गर्भम् परिवीतम् अश्मन्य् अनन्ते अन्तर् अश्मनि । व्रजꣳ वज्री गवाम् इव सिषासन्न् अङ्गिरस्तमः । अपावृणोद् इष इन्द्रः परीवृता द्वार इषः परीवृताः
दादृहाणो वज्रम् इन्द्रो गभस्त्योः क्षद्मेव तिग्मम् असनाय सꣳ श्यद् अहिहत्याय सꣳ श्यत् । सꣳविव्यान ओजसा शवोभिर् इन्द्र मज्मना । तष्टेव वृक्षꣳ वनिनो नि वृश्चसि परश्वेव नि वृश्चसि
त्वꣳ वृथा नद्य इन्द्र सर्तवे ऽच्छा समुद्रम् असृजो रथाꣳ इव वाजयतो रथाꣳ इव । इत ऊतीर् अयुञ्जत समानम् अर्थम् अक्षितम् । धेनूर् इव मनवे विश्वदोहसो जनाय विश्वदोहसः
इमाꣳ ते वाचꣳ वसूयन्त आयवो रथꣳ न धीरः स्वपा अतक्षिषुः सुम्नाय त्वाम् अतक्षिषुः । शुम्भन्तो जेन्यꣳ यथा वाजेषु विप्र वाजिनम् । अत्यम् इव शवसे सातये धना विश्वा धनानि सातये
भिनत् पुरो नवतिम् इन्द्र पूरवे दिवोदासाय महि दाशुषे नृतो वज्रेण दाशुषे नृतो । अतिथिग्वाय शम्बरꣳ गिरेर् उग्रो अवाभरत् । महो धनानि दयमान ओजसा विश्वा धनान्य् ओजसा
इन्द्रः समत्सु यजमानम् आर्यम् प्रावद् विश्वेषु शतमूतिर् आजिषु स्वर्मीळ्हेष्व् आजिषु । मनवे शासद् अव्रतान् त्वचꣳ कृष्णाम् अरन्धयत् । दक्षन् न विश्वꣳ ततृषाणम् ओषति न्य् अर्शसानम् ओषति
सूरश् चक्रम् प्र वृहज् जात ओजसा प्रपित्वे वाचम् अरुणो मुषायतीशान आ मुषायति । उशना यत् परावतो ऽजगन्न् ऊतये कवे । सुम्नानि विश्वा मनुषेव तुर्वणिर् अहा विश्वेव तुर्वणिः
स नो नव्येभिर् वृषकर्मन्न् उक्थैः पुराꣳ दर्तः पायुभिः पाहि शग्मैः । दिवोदासेभिर् इन्द्र स्तवानो वावृधीथा अहोभिर् इव द्यौः
इन्द्राय हि द्यौर् असुरो अनम्नतेन्द्राय मही पृथिवी वरीमभिर् द्युम्नसाता वरीमभिः । इन्द्रꣳ विश्वे सजोषसो देवासो दधिरे पुरः । इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा
विश्वेषु हि त्वा सवनेषु तुञ्जते समानम् एकꣳ वृषमण्यवः पृथक् स्वः सनिष्यवः पृथक् । तꣳ त्वा नावꣳ न पर्षणिꣳ शूषस्य धुरि धीमहि । इन्द्रꣳ न यज्ञैश् चितयन्त आयवः स्तोमेभिर् इन्द्रम् आयवः
वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः । यद् गव्यन्ता द्वा जना स्व१र् यन्ता समूहसि । आविष् करिक्रद् वृषणꣳ सचाभुवꣳ वज्रम् इन्द्र सचाभुवम्
विदुष् टे अस्य वीर्यस्य पूरवः पुरो यद् इन्द्र शारदीर् अवातिरः सासहानो अवातिरः । शासस् तम् इन्द्र मर्त्यम् अयज्युꣳ शवसस् पते । महीम् अमुष्णाः पृथिवीम् इमा अपो मन्दसान इमा अपः
आद् इत् ते अस्य वीर्यस्य चर्किरन् मदेषु वृषन्न् उशिजो यद् आविथ सखीयतो यद् आविथ । चकर्थ कारम् एभ्यः पृतनासु प्रवन्तवे । ते अन्याम्-अन्याꣳ नद्यꣳ सनिष्णत श्रवस्यन्तः सनिष्णत
उतो नो अस्या उषसो जुषेत ह्य् अ१र्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः । यद् इन्द्र हन्तवे मृधो वृषा वज्रिञ् चिकेतसि । आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः
त्वꣳ तम् इन्द्र वावृधानो अस्मयुर् अमित्रयन्तꣳ तुविजात मर्त्यꣳ वज्रेण शूर मर्त्यम् । जहि यो नो अघायति शृणुष्व सुश्रवस्तमः । रिष्टꣳ न यामन्न् अप भूतु दुर्मतिर् विश्वाप भूतु दुर्मतिः
त्वया वयम् मघवन् पूर्व्ये धन इन्द्रत्वोताः सासह्याम पृतन्यतो वनुयाम वनुष्यतः । नेदिष्ठे अस्मिन्न् अहन्य् अधि वोचा नु सुन्वते । अस्मिन् यज्ञे वि चयेमा भरे कृतꣳ वाजयन्तो भरे कृतम्
स्वर्जेषे भर आप्रस्य वक्मन्य् उषर्बुधः स्वस्मिन्न् अञ्जसि क्राणस्य स्वस्मिन्न् अञ्जसि । अहन्न् इन्द्रो यथा विदे शीर्ष्णा-शीर्ष्णोपवाच्यः । अस्मत्रा ते सध्र्यक् सन्तु रातयो भद्रा भद्रस्य रातयः
तत् तु प्रयः प्रत्नथा ते शुशुक्वनꣳ यस्मिन् यज्ञे वारम् अकृण्वत क्षयम् ऋतस्य वार् असि क्षयम् । वि तद् वोचेर् अध द्वितान्तः पश्यन्ति रश्मिभिः । स घा विदे अन्व् इन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः
नू इत्था ते पूर्वथा च प्रवाच्यꣳ यद् अङ्गिरोभ्यो ऽवृणोर् अप व्रजम् इन्द्र शिक्षन्न् अप व्रजम् । ऐभ्यः समान्या दिशास्मभ्यꣳ जेषि योत्सि च । सुन्वद्भ्यो रन्धया कꣳ चिद् अव्रतꣳ हृणायन्तꣳ चिद् अव्रतम्
सꣳ यज् जनान् क्रतुभिः शूर ईक्षयद् धने हिते तरुषन्त श्रवस्यवः प्र यक्षन्त श्रवस्यवः । तस्मा आयुः प्रजावद् इद् बाधे अर्चन्त्य् ओजसा । इन्द्र ओक्यꣳ दिधिषन्त धीतयो देवाꣳ अच्छा न धीतयः
युवꣳ तम् इन्द्रापर्वता पुरोयुधा यो नः पृतन्याद् अप तꣳ-तम् इद् धतꣳ वज्रेण तꣳ-तम् इद् धतम् । दूरे चत्ताय च्छन्त्सद् गहनꣳ यद् इनक्षत् । अस्माकꣳ शत्रून् परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः
उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सम् महीर् अनिन्द्राः । अभिव्लग्य यत्र हता अमित्रा वैलस्थानम् परि तृळ्हा अशेरन्
अभिव्लग्या चिद् अद्रिवः शीर्षा यातुमतीनाम् । छिन्धि वटूरिणा पदा महावटूरिणा पदा
अवासाम् मघवञ् जहि शर्धो यातुमतीनाम् । वैलस्थानके अर्मके महावैलस्थे अर्मके
यासाꣳ तिस्रः पञ्चाशतो ऽभिव्लङ्गैर् अपावपः । तत् सु ते मनायति तकत् सु ते मनायति
पिशङ्गभृष्टिम् अम्भृणम् पिशाचिम् इन्द्र सम् मृण । सर्वꣳ रक्षो नि बर्हय
अवर् मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः क्षा न भीषाꣳ अद्रिवो घृणान् न भीषाꣳ अद्रिवः । शुष्मिन्तमो हि शुष्मिभिर् वधैर् उग्रेभिर् ईयसे । अपूरुषघ्नो अप्रतीत शूर सत्वभिस् त्रिसप्तैः शूर सत्वभिः
वनोति हि सुन्वन् क्षयम् परीणसः सुन्वानो हि ष्मा यजत्य् अव द्विषो देवानाम् अव द्विषः । सुन्वान इत् सिषासति सहस्रा वाज्य् अवृतः । सुन्वानायेन्द्रो ददात्य् आभुवꣳ रयिꣳ ददात्य् आभुवम्
आ त्वा जुवो रारहाणा अभि प्रयो वायो वहन्त्व् इह पूर्वपीतये सोमस्य पूर्वपीतये । ऊर्ध्वा ते अनु सूनृता मनस् तिष्ठतु जानती । नियुत्वता रथेना याहि दावने वायो मखस्य दावने
मन्दन्तु त्वा मन्दिनो वायव् इन्दवो ऽस्मत् क्राणासः सुकृता अभिद्यवो गोभिः क्राणा अभिद्यवः । यद् ध क्राणा इरध्यै दक्षꣳ सचन्त ऊतयः । सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईꣳ धियः
वायुर् युङ्क्ते रोहिता वायुर् अरुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे । प्र बोधया पुरꣳधिꣳ जार आ ससतीम् इव । प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः
तुभ्यम् उषासः शुचयः परावति भद्रा वस्त्रा तन्वते दꣳसु रश्मिषु चित्रा नव्येषु रश्मिषु । तुभ्यꣳ धेनुः सबर्दुघा विश्वा वसूनि दोहते । अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः
तुभ्यꣳ शुक्रासः शुचयस् तुरण्यवो मदेषूग्रा इषणन्त भुर्वण्य् अपाम् इषन्त भुर्वणि । त्वाꣳ त्सारी दसमानो भगम् ईट्टे तक्ववीये । त्वꣳ विश्वस्माद् भुवनात् पासि धर्मणासुर्यात् पासि धर्मणा
त्वꣳ नो वायव् एषाम् अपूर्व्यः सोमानाम् प्रथमः पीतिम् अर्हसि सुतानाम् पीतिम् अर्हसि । उतो विहुत्मतीनाꣳ विशाꣳ ववर्जुषीणाम् । विश्वा इत् ते धेनवो दुह्र आशिरꣳ घृतꣳ दुह्रत आशिरम्
स्तीर्णम् बर्हिर् उप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर् नियुत्वते । तुभ्यꣳ हि पूर्वपीतये देवा देवाय येमिरे । प्र ते सुतासो मधुमन्तो अस्थिरन् मदाय क्रत्वे अस्थिरन्
तुभ्यायꣳ सोमः परिपूतो अद्रिभिः स्पार्हा वसानः परि कोशम् अर्षति शुक्रा वसानो अर्षति । तवायम् भाग आयुषु सोमो देवेषु हूयते । वह वायो नियुतो याह्य् अस्मयुर् जुषाणो याह्य् अस्मयुः
आ नो नियुद्भिः शतिनीभिर् अध्वरꣳ सहस्रिणीभिर् उप याहि वीतये वायो हव्यानि वीतये । तवायम् भाग ऋत्वियः सरश्मिः सूर्ये सचा । अध्वर्युभिर् भरमाणा अयꣳसत वायो शुक्रा अयꣳसत
आ वाꣳ रथो नियुत्वान् वक्षद् अवसे ऽभि प्रयाꣳसि सुधितानि वीतये वायो हव्यानि वीतये । पिबतम् मध्वो अन्धसः पूर्वपेयꣳ हि वाꣳ हितम् । वायव् आ चन्द्रेण राधसा गतम् इन्द्रश् च राधसा गतम्
आ वाꣳ धियो ववृत्युर् अध्वराꣳ उपेमम् इन्दुम् मर्मृजन्त वाजिनम् आशुम् अत्यꣳ न वाजिनम् । तेषाम् पिबतम् अस्मयू आ नो गन्तम् इहोत्या । इन्द्रवायू सुतानाम् अद्रिभिर् युवम् मदाय वाजदा युवम्
इमे वाꣳ सोमा अप्स्व् आ सुता इहाध्वर्युभिर् भरमाणा अयꣳसत वायो शुक्रा अयꣳसत । एते वाम् अभ्य् असृक्षत तिरः पवित्रम् आशवः । युवायवो ऽति रोमाण्य् अव्यया सोमासो अत्य् अव्यया
अति वायो ससतो याहि शश्वतो यत्र ग्रावा वदति तत्र गच्छतꣳ गृहम् इन्द्रश् च गच्छतम् । वि सूनृता ददृशे रीयते घृतम् आ पूर्णया नियुता याथो अध्वरम् इन्द्रश् च याथो अध्वरम्
अत्राह तद् वहेथे मध्व आहुतिꣳ यम् अश्वत्थम् उपतिष्ठन्त जायवो ऽस्मे ते सन्तु जायवः । साकꣳ गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः
इमे ये ते सु वायो बाह्वोजसो ऽन्तर् नदी ते पतयन्त्य् उक्षणो महि व्राधन्त उक्षणः । धन्वञ् चिद् ये अनाशवो जीराश् चिद् अगिरौकसः । सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर् दुर्नियन्तवः
प्र सु ज्येष्ठꣳ निचिराभ्याम् बृहन् नमो हव्यम् मतिम् भरता मृळयद्भ्याꣳ स्वादिष्ठम् मृळयद्भ्याम् । ता सम्राजा घृतासुती यज्ञे-यज्ञ उपस्तुता । अथैनोः क्षत्रꣳ न कुतश् चनाधृषे देवत्वꣳ नू चिद् आधृषे
अदर्शि गातुर् उरवे वरीयसी पन्था ऋतस्य सम् अयꣳस्त रश्मिभिश् चक्षुर् भगस्य रश्मिभिः । द्युक्षम् मित्रस्य सादनम् अर्यम्णो वरुणस्य च । अथा दधाते बृहद् उक्थ्य१ꣳ वय उपस्तुत्यम् बृहद् वयः
ज्योतिष्मतीम् अदितिꣳ धारयत्क्षितिꣳ स्वर्वतीम् आ सचेते दिवे-दिवे जागृवाꣳसा दिवे-दिवे । ज्योतिष्मत् क्षत्रम् आशाते आदित्या दानुनस् पती । मित्रस् तयोर् वरुणो यातयज्जनो ऽर्यमा यातयज्जनः
अयम् मित्राय वरुणाय शꣳतमः सोमो भूत्व् अवपानेष्व् आभगो देवो देवेष्व् आभगः । तꣳ देवासो जुषेरत विश्वे अद्य सजोषसः । तथा राजाना करथो यद् ईमह ऋतावाना यद् ईमहे
यो मित्राय वरुणायाविधज् जनो ऽनर्वाणꣳ तम् परि पातो अꣳहसो दाश्वाꣳसम् मर्तम् अꣳहसः । तम् अर्यमाभि रक्षत्य् ऋजूयन्तम् अनु व्रतम् । उक्थैर् य एनोः परिभूषति व्रतꣳ स्तोमैर् आभूषति व्रतम्
नमो दिवे बृहते रोदसीभ्याम् मित्राय वोचꣳ वरुणाय मीळ्हुषे सुमृळीकाय मीळ्हुषे । इन्द्रम् अग्निम् उप स्तुहि द्युक्षम् अर्यमणम् भगम् । ज्योग् जीवन्तः प्रजया सचेमहि सोमस्योती सचेमहि
ऊती देवानाꣳ वयम् इन्द्रवन्तो मꣳसीमहि स्वयशसो मरुद्भिः । अग्निर् मित्रो वरुणः शर्म यꣳसन् तद् अश्याम मघवानो वयꣳ च
सुषुमा यातम् अद्रिभिर् गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे । आ राजाना दिविस्पृशास्मत्रा गन्तम् उप नः । इमे वाम् मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः
इम आ यातम् इन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः । उत वाम् उषसो बुधि साकꣳ सूर्यस्य रश्मिभिः । सुतो मित्राय वरुणाय पीतये चारुर् ऋताय पीतये
ताꣳ वाꣳ धेनुꣳ न वासरीम् अꣳशुꣳ दुहन्त्य् अद्रिभिः सोमꣳ दुहन्त्य् अद्रिभिः । अस्मत्रा गन्तम् उप नो ऽर्वाञ्चा सोमपीतये । अयꣳ वाम् मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः
प्र-प्र पूष्णस् तुविजातस्य शस्यते महित्वम् अस्य तवसो न तन्दते स्तोत्रम् अस्य न तन्दते । अर्चामि सुम्नयन्न् अहम् अन्त्यूतिम् मयोभुवम् । विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः
प्र हि त्वा पूषन्न् अजिरꣳ न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः । हुवे यत् त्वा मयोभुवꣳ देवꣳ सख्याय मर्त्यः । अस्माकम् आङ्गूषान् द्युम्निनस् कृधि वाजेषु द्युम्निनस् कृधि
यस्य ते पूषन् सख्ये विपन्यवः क्रत्वा चित् सन्तो ऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे । ताम् अनु त्वा नवीयसीꣳ नियुतꣳ राय ईमहे । अहेळमान उरुशꣳस सरी भव वाजे-वाजे सरी भव
अस्या ऊ षु ण उप सातये भुवो ऽहेळमानो ररिवाꣳ अजाश्व श्रवस्यताम् अजाश्व । ओ षु त्वा ववृतीमहि स्तोमेभिर् दस्म साधुभिः । नहि त्वा पूषन्न् अतिमन्य आघृणे न ते सख्यम् अपह्नुवे
अस्तु श्रौषट् पुरो अग्निꣳ धिया दध आ नु तच् छर्धो दिव्यꣳ वृणीमह इन्द्रवायू वृणीमहे । यद् ध क्राणा विवस्वति नाभा सꣳदायि नव्यसी । अध प्र सू न उप यन्तु धीतयो देवाꣳ अच्छा न धीतयः
यद् ध त्यन् मित्रावरुणाव् ऋताद् अध्य् आददाथे अनृतꣳ स्वेन मन्युना दक्षस्य स्वेन मन्युना । युवोर् इत्थाधि सद्मस्व् अपश्याम हिरण्ययम् । धीभिश् चन मनसा स्वेभिर् अक्षभिः सोमस्य स्वेभिर् अक्षभिः
युवाꣳ स्तोमेभिर् देवयन्तो अश्विनाश्रावयन्त इव श्लोकम् आयवो युवाꣳ हव्याभ्य् आ३यवः । युवोर् विश्वा अधि श्रियः पृक्षश् च विश्ववेदसा । प्रुषायन्ते वाम् पवयो हिरण्यये रथे दस्रा हिरण्यये
अचेति दस्रा व्य् उ१ नाकम् ऋण्वथो युञ्जते वाꣳ रथयुजो दिविष्टिष्व् अध्वस्मानो दिविष्टिषु । अधि वाꣳ स्थाम वन्धुरे रथे दस्रा हिरण्यये । पथेव यन्ताव् अनुशासता रजो ऽञ्जसा शासता रजः
शचीभिर् नः शचीवसू दिवा नक्तꣳ दशस्यतम् । मा वाꣳ रातिर् उप दसत् कदा चनास्मद् रातिः कदा चन
वृषन्न् इन्द्र वृषपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस् तुभ्यꣳ सुतास उद्भिदः । ते त्वा मन्दन्तु दावने महे चित्राय राधसे । गीर्भिर् गिर्वाहः स्तवमान आ गहि सुमृळीको न आ गहि
ओ षू णो अग्ने शृणुहि त्वम् ईळितो देवेभ्यो ब्रवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः । यद् ध त्याम् अङ्गिरोभ्यो धेनुꣳ देवा अदत्तन । वि ताꣳ दुह्रे अर्यमा कर्तरी सचाꣳ एष ताꣳ वेद मे सचा
मो षु वो अस्मद् अभि तानि पौꣳस्या सना भूवन् द्युम्नानि मोत जारिषुर् अस्मत् पुरोत जारिषुः । यद् वश् चित्रꣳ युगे-युगे नव्यꣳ घोषाद् अमर्त्यम् । अस्मासु तन् मरुतो यच् च दुष्टरꣳ दिधृता यच् च दुष्टरम्
दध्यङ् ह मे जनुषम् पूर्वो अङ्गिराः प्रियमेधः कण्वो अत्रिर् मनुर् विदुस् ते मे पूर्वे मनुर् विदुः । तेषाꣳ देवेष्व् आयतिर् अस्माकꣳ तेषु नाभयः । तेषाम् पदेन मह्य् आ नमे गिरेन्द्राग्नी आ नमे गिरा
होता यक्षद् वनिनो वन्त वार्यम् बृहस्पतिर् यजति वेन उक्षभिः पुरुवारेभिर् उक्षभिः । जगृभ्मा दूरआदिशꣳ श्लोकम् अद्रेर् अध त्मना । अधारयद् अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः
ये देवासो दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थ । अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञम् इमꣳ जुषध्वम्
वेदिषदे प्रियधामाय सुद्युते धासिम् इव प्र भरा योनिम् अग्नये । वस्त्रेणेव वासया मन्मना शुचिꣳ ज्योतीरथꣳ शुक्रवर्णꣳ तमोहनम्
अभि द्विजन्मा त्रिवृद् अन्नम् ऋज्यते सꣳवत्सरे वावृधे जग्धम् ई पुनः । अन्यस्यासा जिह्वया जेन्यो वृषा न्य् अ१न्येन वनिनो मृष्ट वारणः
कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा शिशुम् । प्राचाजिह्वꣳ ध्वसयन्तꣳ तृषुच्युतम् आ साच्यꣳ कुपयꣳ वर्धनम् पितुः
मुमुक्ष्वो३ मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ जुवः । असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः
आद् अस्य ते ध्वसयन्तो वृथेरते कृष्णम् अभ्वम् महि वर्पः करिक्रतः । यत् सीम् महीम् अवनिम् प्राभि मर्मृशद् अभिश्वसन् स्तनयन्न् एति नानदत्
भूषन् न यो ऽधि बभ्रूषु नम्नते वृषेव पत्नीर् अभ्य् एति रोरुवत् । ओजायमानस् तन्वश् च शुम्भते भीमो न शृङ्गा दविधाव दुर्गृभिः
स सꣳस्तिरो विष्टिरः सꣳ गृभायति जानन्न् एव जानतीर् नित्य आ शये । पुनर् वर्धन्ते अपि यन्ति देव्यम् अन्यद् वर्पः पित्रोः कृण्वते सचा
तम् अग्रुवः केशिनीः सꣳ हि रेभिर ऊर्ध्वास् तस्थुर् मम्रुषीः प्रायवे पुनः । तासाꣳ जराम् प्रमुञ्चन्न् एति नानदद् असुम् परꣳ जनयञ् जीवम् अस्तृतम्
अधीवासम् परि मातू रिहन्न् अह तुविग्रेभिः सत्वभिर् याति वि ज्रयः । वयो दधत् पद्वते रेरिहत् सदानु श्येनी सचते वर्तनीर् अह
अस्माकम् अग्ने मघवत्सु दीदिह्य् अध श्वसीवान् वृषभो दमूनाः । अवास्या शिशुमतीर् अदीदेर् वर्मेव युत्सु परिजर्भुराणः
इदम् अग्ने सुधितꣳ दुर्धिताद् अधि प्रियाद् उ चिन् मन्मनः प्रेयो अस्तु ते । यत् ते शुक्रꣳ तन्वो३ रोचते शुचि तेनास्मभ्यꣳ वनसे रत्नम् आ त्वम्
रथाय नावम् उत नो गृहाय नित्यारित्राम् पद्वतीꣳ रास्य् अग्ने । अस्माकꣳ वीराꣳ उत नो मघोनो जनाꣳश् च या पारयाच् छर्म या च
अभी नो अग्न उक्थम् इज् जुगुर्या द्यावाक्षामा सिन्धवश् च स्वगूर्ताः । गव्यꣳ यव्यꣳ यन्तो दीर्घाहेषꣳ वरम् अरुण्यो वरन्त
बळ् इत्था तद् वपुषे धायि दर्शतꣳ देवस्य भर्गः सहसो यतो जनि । यद् ईम् उप ह्वरते साधते मतिर् ऋतस्य धेना अनयन्त सस्रुतः
पृक्षो वपुः पितुमान् नित्य आ शये द्वितीयम् आ सप्तशिवासु मातृषु । तृतीयम् अस्य वृषभस्य दोहसे दशप्रमतिꣳ जनयन्त योषणः
निर् यद् ईम् बुध्नान् महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः । यद् ईम् अनु प्रदिवो मध्व आधवे गुहा सन्तम् मातरिश्वा मथायति
प्र यत् पितुः परमान् नीयते पर्य् आ पृक्षुधो वीरुधो दꣳसु रोहति । उभा यद् अस्य जनुषꣳ यद् इन्वत आद् इद् यविष्ठो अभवद् घृणा शुचिः
आद् इन् मातॄर् आविशद् यास्व् आ शुचिर् अहिꣳस्यमान उर्विया वि वावृधे । अनु यत् पूर्वा अरुहत् सनाजुवो नि नव्यसीष्व् अवरासु धावते
आद् इद् धोतारꣳ वृणते दिविष्टिषु भगम् इव पपृचानास ऋञ्जते । देवान् यत् क्रत्वा मज्मना पुरुष्टुतो मर्तꣳ शꣳसꣳ विश्वधा वेति धायसे
वि यद् अस्थाद् यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः । तस्य पत्मन् दक्षुषः कृष्णजꣳहसः शुचिजन्मनो रज आ व्यध्वनः
रथो न यातः शिक्वभिः कृतो द्याम् अङ्गेभिर् अरुषेभिर् ईयते । आद् अस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथाद् ईषते वयः
त्वया ह्य् अग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः । यत् सीम् अनु क्रतुना विश्वथा विभुर् अरान् न नेमिः परिभूर् अजायथाः
त्वम् अग्ने शशमानाय सुन्वते रत्नꣳ यविष्ठ देवतातिम् इन्वसि । तꣳ त्वा नु नव्यꣳ सहसो युवन् वयम् भगꣳ न कारे महिरत्न धीमहि
अस्मे रयिꣳ न स्वर्थꣳ दमूनसम् भगꣳ दक्षꣳ न पपृचासि धर्णसिम् । रश्मीꣳर् इव यो यमति जन्मनी उभे देवानाꣳ शꣳसम् ऋत आ च सुक्रतुः
उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच् चन्द्ररथः । स नो नेषन् नेषतमैर् अमूरो ऽग्निर् वामꣳ सुवितꣳ वस्यो अच्छ
अस्ताव्य् अग्निः शिमीवद्भिर् अर्कैः साम्राज्याय प्रतरꣳ दधानः । अमी च ये मघवानो वयꣳ च मिहꣳ न सूरो अति निष् टतन्युः
समिद्धो अग्न आ वह देवाꣳ अद्य यतस्रुचे । तन्तुꣳ तनुष्व पूर्व्यꣳ सुतसोमाय दाशुषे
घृतवन्तम् उप मासि मधुमन्तꣳ तनूनपात् । यज्ञꣳ विप्रस्य मावतः शशमानस्य दाशुषः
शुचिः पावको अद्भुतो मध्वा यज्ञम् मिमिक्षति । नराशꣳसस् त्रिर् आ दिवो देवो देवेषु यज्ञियः
ईळितो अग्न आ वहेन्द्रꣳ चित्रम् इह प्रियम् । इयꣳ हि त्वा मतिर् ममाच्छा सुजिह्व वच्यते
स्तृणानासो यतस्रुचो बर्हिर् यज्ञे स्वध्वरे । वृञ्जे देवव्यचस्तमम् इन्द्राय शर्म सप्रथः
वि श्रयन्ताम् ऋतावृधः प्रयै देवेभ्यो महीः । पावकासः पुरुस्पृहो द्वारो देवीर् असश्चतः
आ भन्दमाने उपाके नक्तोषासा सुपेशसा । यह्वी ऋतस्य मातरा सीदताम् बर्हिर् आ सुमत्
मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी । यज्ञꣳ नो यक्षताम् इमꣳ सिध्रम् अद्य दिविस्पृशम्
शुचिर् देवेष्व् अर्पिता होत्रा मरुत्सु भारती । इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः
तन् नस् तुरीपम् अद्भुतम् पुरु वारम् पुरु त्मना । त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः
अवसृजन्न् उप त्मना देवान् यक्षि वनस्पते । अग्निर् हव्या सुषूदति देवो देवेषु मेधिरः
पूषण्वते मरुत्वते विश्वदेवाय वायवे । स्वाहा गायत्रवेपसे हव्यम् इन्द्राय कर्तन
स्वाहाकृतान्य् आ गह्य् उप हव्यानि वीतये । इन्द्रा गहि श्रुधी हवꣳ त्वाꣳ हवन्ते अध्वरे
प्र तव्यसीꣳ नव्यसीꣳ धीतिम् अग्नये वाचो मतिꣳ सहसः सूनवे भरे । अपाꣳ नपाद् यो वसुभिः सह प्रियो होता पृथिव्याꣳ न्य् असीदद् ऋत्वियः
स जायमानः परमे व्योमन्य् आविर् अग्निर् अभवन् मातरिश्वने । अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत्
अस्य त्वेषा अजरा अस्य भानवः सुसꣳदृशः सुप्रतीकस्य सुद्युतः । भात्वक्षसो अत्य् अक्तुर् न सिन्धवो ऽग्ने रेजन्ते अससन्तो अजराः
यम् एरिरे भृगवो विश्ववेदसꣳ नाभा पृथिव्या भुवनस्य मज्मना । अग्निꣳ तꣳ गीर्भिर् हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति
न यो वराय मरुताम् इव स्वनः सेनेव सृष्टा दिव्या यथाशनिः । अग्निर् जम्भैस् तिगितैर् अत्ति भर्वति योधो न शत्रून् स वना न्य् ऋञ्जते
कुविन् नो अग्निर् उचथस्य वीर् असद् वसुष् कुविद् वसुभिः कामम् आवरत् । चोदः कुवित् तुतुज्यात् सातये धियः शुचिप्रतीकꣳ तम् अया धिया गृणे
घृतप्रतीकꣳ व ऋतस्य धूर्षदम् अग्निम् मित्रꣳ न समिधान ऋञ्जते । इन्धानो अक्रो विदथेषु दीद्यच् छुक्रवर्णाम् उद् उ नो यꣳसते धियम्
अप्रयुच्छन्न् अप्रयुच्छद्भिर् अग्ने शिवेभिर् नः पायुभिः पाहि शग्मैः । अदब्धेभिर् अदृपितेभिर् इष्टे ऽनिमिषद्भिः परि पाहि नो जाः
एति प्र होता व्रतम् अस्य माययोर्ध्वाꣳ दधानः शुचिपेशसꣳ धियम् । अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमꣳ ह निꣳसते
अभीम् ऋतस्य दोहना अनूषत योनौ देवस्य सदने परीवृताः । अपाम् उपस्थे विभृतो यद् आवसद् अध स्वधा अधयद् याभिर् ईयते
युयूषतः सवयसा तद् इद् वपुः समानम् अर्थꣳ वितरित्रता मिथः । आद् ईम् भगो न हव्यः सम् अस्मद् आ वोळ्हुर् न रश्मीन् सम् अयꣳस्त सारथिः
यम् ईꣳ द्वा सवयसा सपर्यतः समाने योना मिथुना समोकसा । दिवा न नक्तम् पलितो युवाजनि पुरू चरन्न् अजरो मानुषा युगा
तम् ईꣳ हिन्वन्ति धीतयो दश व्रिशो देवम् मर्तास ऊतये हवामहे । धनोर् अधि प्रवत आ स ऋण्वत्य् अभिव्रजद्भिर् वयुना नवाधित
त्वꣳ ह्य् अग्ने दिव्यस्य राजसि त्वम् पार्थिवस्य पशुपा इव त्मना । एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिर् आशाते
अग्ने जुषस्व प्रति हर्य तद् वचो मन्द्र स्वधाव ऋतजात सुक्रतो । यो विश्वतः प्रत्यङ्ङ् असि दर्शतो रण्वः सꣳदृष्टौ पितुमाꣳ इव क्षयः
तम् पृच्छता स जगामा स वेद स चिकित्वाꣳ ईयते सा न्व् ईयते । तस्मिन् सन्ति प्रशिषस् तस्मिन्न् इष्टयः स वाजस्य शवसः शुष्मिणस् पतिः
तम् इत् पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यद् अग्रभीत् । न मृष्यते प्रथमꣳ नापरꣳ वचो ऽस्य क्रत्वा सचते अप्रदृपितः
तम् इद् गच्छन्ति जुह्व१स् तम् अर्वतीर् विश्वान्य् एकः शृणवद् वचाꣳसि मे । पुरुप्रैषस् ततुरिर् यज्ञसाधनो ऽच्छिद्रोतिः शिशुर् आदत्त सꣳ रभः
उपस्थायꣳ चरति यत् समारत सद्यो जातस् तत्सार युज्येभिः । अभि श्वान्तम् मृशते नान्द्ये मुदे यद् ईꣳ गच्छन्त्य् उशतीर् अपिष्ठितम्
स ईम् मृगो अप्यो वनर्गुर् उप त्वच्य् उपमस्याꣳ नि धायि । व्य् अब्रवीद् वयुना मर्त्येभ्यो ऽग्निर् विद्वाꣳ ऋतचिद् धि सत्यः
त्रिमूर्धानꣳ सप्तरश्मिꣳ गृणीषे ऽनूनम् अग्निम् पित्रोर् उपस्थे । निषत्तम् अस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवाꣳसम्
उक्षा महाꣳ अभि ववक्ष एने अजरस् तस्थाव् इतऊतिर् ऋष्वः । उर्व्याः पदो नि दधाति सानौ रिहन्त्य् ऊधो अरुषासो अस्य
समानꣳ वत्सम् अभि सꣳचरन्ती विष्वग् धेनू वि चरतः सुमेके । अनपवृज्याꣳ अध्वनो मिमाने विश्वान् केताꣳ अधि महो दधाने
धीरासः पदꣳ कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम् । सिषासन्तः पर्य् अपश्यन्त सिन्धुम् आविर् एभ्यो अभवत् सूर्यो नॄन्
दिदृक्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे । पुरुत्रा यद् अभवत् सूर् अहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः
कथा ते अग्ने शुचयन्त आयोर् ददाशुर् वाजेभिर् आशुषाणाः । उभे यत् तोके तनये दधाना ऋतस्य सामन् रणयन्त देवाः
बोधा मे अस्य वचसो यविष्ठ मꣳहिष्ठस्य प्रभृतस्य स्वधावः । पीयति त्वो अनु त्वो गृणाति वन्दारुस् ते तन्वꣳ वन्दे अग्ने
ये पायवो मामतेयꣳ ते अग्ने पश्यन्तो अन्धꣳ दुरिताद् अरक्षन् । ररक्ष तान् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो नाह देभुः
यो नो अग्ने अररिवाꣳ अघायुर् अरातीवा मर्चयति द्वयेन । मन्त्रो गुरुः पुनर् अस्तु सो अस्मा अनु मृक्षीष्ट तन्वꣳ दुरुक्तैः
उत वा यः सहस्य प्रविद्वान् मर्तो मर्तम् मर्चयति द्वयेन । अतः पाहि स्तवमान स्तुवन्तम् अग्ने माकिर् नो दुरिताय धायीः
मथीद् यद् ईꣳ विष्टो मातरिश्वा होतारꣳ विश्वाप्सुꣳ विश्वदेव्यम् । नि यꣳ दधुर् मनुष्यासु विक्षु स्व१र् ण चित्रꣳ वपुषे विभावम्
ददानम् इन् न ददभन्त मन्माग्निर् वरूथम् मम तस्य चाकन् । जुषन्त विश्वान्य् अस्य कर्मोपस्तुतिम् भरमाणस्य कारोः
नित्ये चिन् नु यꣳ सदने जगृभ्रे प्रशस्तिभिर् दधिरे यज्ञियासः । प्र सू नयन्त गृभयन्त इष्टाव् अश्वासो न रथ्यो रारहाणाः
पुरूणि दस्मो नि रिणाति जम्भैर् आद् रोचते वन आ विभावा । आद् अस्य वातो अनु वाति शोचिर् अस्तुर् न शर्याम् असनाम् अनु द्यून्
न यꣳ रिपवो न रिषण्यवो गर्भे सन्तꣳ रेषणा रेषयन्ति । अन्धा अपश्या न दभन्न् अभिख्या नित्यास ईम् प्रेतारो अरक्षन्
महः स राय एषते पतिर् दन्न् इन इनस्य वसुनः पद आ । उप ध्रजन्तम् अद्रयो विधन्न् इत्
स यो वृषा नराꣳ न रोदस्योः श्रवोभिर् अस्ति जीवपीतसर्गः । प्र यः सस्राणः शिश्रीत योनौ
आ यः पुरꣳ नार्मिणीम् अदीदेद् अत्यः कविर् नभन्यो३ नार्वा । सूरो न रुरुक्वाञ् छतात्मा
अभि द्विजन्मा त्री रोचनानि विश्वा रजाꣳसि शुशुचानो अस्थात् । होता यजिष्ठो अपाꣳ सधस्थे
अयꣳ स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या । मर्तो यो अस्मै सुतुको ददाश
पुरु त्वा दाश्वान् वोचे ऽरिर् अग्ने तव स्विद् आ । तोदस्येव शरण आ महस्य
व्य् अनिनस्य धनिनः प्रहोषे चिद् अररुषः । कदा चन प्रजिगतो अदेवयोः
स चन्द्रो विप्र मर्त्यो महो व्राधन्तमो दिवि । प्र-प्रेत् ते अग्ने वनुषः स्याम
मित्रꣳ न यꣳ शिम्या गोषु गव्यवः स्वाध्यो विदथे अप्सु जीजनन् । अरेजेताꣳ रोदसी पाजसा गिरा प्रति प्रियꣳ यजतꣳ जनुषाम् अवः
यद् ध त्यद् वाम् पुरुमीळ्हस्य सोमिनः प्र मित्रासो न दधिरे स्वाभुवः । अध क्रतुꣳ विदतꣳ गातुम् अर्चत उत श्रुतꣳ वृषणा पस्त्यावतः
आ वाम् भूषन् क्षितयो जन्म रोदस्योः प्रवाच्यꣳ वृषणा दक्षसे महे । यद् ईम् ऋताय भरथो यद् अर्वते प्र होत्रया शिम्या वीथो अध्वरम्
प्र सा क्षितिर् असुर या महि प्रिय ऋतावानाव् ऋतम् आ घोषथो बृहत् । युवꣳ दिवो बृहतो दक्षम् आभुवꣳ गाꣳ न धुर्य् उप युञ्जाथे अपः
मही अत्र महिना वारम् ऋण्वथो ऽरेणवस् तुज आ सद्मन् धेनवः । स्वरन्ति ता उपरताति सूर्यम् आ निम्रुच उषसस् तक्ववीर् इव
आ वाम् ऋताय केशिनीर् अनूषत मित्र यत्र वरुण गातुम् अर्चथः । अव त्मना सृजतम् पिन्वतꣳ धियो युवꣳ विप्रस्य मन्मनाम् इरज्यथः
यो वाꣳ यज्ञैः शशमानो ह दाशति कविर् होता यजति मन्मसाधनः । उपाह तꣳ गच्छथो वीथो अध्वरम् अच्छा गिरः सुमतिꣳ गन्तम् अस्मयू
युवाꣳ यज्ञैः प्रथमा गोभिर् अञ्जत ऋतावाना मनसो न प्रयुक्तिषु । भरन्ति वाम् मन्मना सꣳयता गिरो ऽदृप्यता मनसा रेवद् आशाथे
रेवद् वयो दधाथे रेवद् आशाथे नरा मायाभिर् इतऊति माहिनम् । न वाꣳ द्यावो ऽहभिर् नोत सिन्धवो न देवत्वम् पणयो नानशुर् मघम्
युवꣳ वस्त्राणि पीवसा वसाथे युवोर् अच्छिद्रा मन्तवो ह सर्गाः । अवातिरतम् अनृतानि विश्व ऋतेन मित्रावरुणा सचेथे
एतच् चन त्वो वि चिकेतद् एषाꣳ सत्यो मन्त्रः कविशस्त ऋघावान् । त्रिरश्रिꣳ हन्ति चतुरश्रिर् उग्रो देवनिदो ह प्रथमा अजूर्यन्
अपाद् एति प्रथमा पद्वतीनाꣳ कस् तद् वाम् मित्रावरुणा चिकेत । गर्भो भारम् भरत्य् आ चिद् अस्य ऋतम् पिपर्त्य् अनृतꣳ नि तारीत्
प्रयन्तम् इत् परि जारꣳ कनीनाम् पश्यामसि नोपनिपद्यमानम् । अनवपृग्णा वितता वसानम् प्रियम् मित्रस्य वरुणस्य धाम
अनश्वो जातो अनभीशुर् अर्वा कनिक्रदत् पतयद् ऊर्ध्वसानुः । अचित्तम् ब्रह्म जुजुषुर् युवानः प्र मित्रे धाम वरुणे गृणन्तः
आ धेनवो मामतेयम् अवन्तीर् ब्रह्मप्रियम् पीपयन् सस्मिन्न् ऊधन् । पित्वो भिक्षेत वयुनानि विद्वान् आसाविवासन्न् अदितिम् उरुष्येत्
आ वाम् मित्रावरुणा हव्यजुष्टिꣳ नमसा देवाव् अवसा ववृत्याम् । अस्माकम् ब्रह्म पृतनासु सह्या अस्माकꣳ वृष्टिर् दिव्या सुपारा
यजामहे वाम् महः सजोषा हव्येभिर् मित्रावरुणा नमोभिः । घृतैर् घृतस्नू अध यद् वाम् अस्मे अध्वर्यवो न धीतिभिर् भरन्ति
प्रस्तुतिर् वाꣳ धाम न प्रयुक्तिर् अयामि मित्रावरुणा सुवृक्तिः । अनक्ति यद् वाꣳ विदथेषु होता सुम्नꣳ वाꣳ सूरिर् वृषणाव् इयक्षन्
पीपाय धेनुर् अदितिर् ऋताय जनाय मित्रावरुणा हविर्दे । हिनोति यद् वाꣳ विदथे सपर्यन् स रातहव्यो मानुषो न होता
उत वाꣳ विक्षु मद्यास्व् अन्धो गाव आपश् च पीपयन्त देवीः । उतो नो अस्य पूर्व्यः पतिर् दन् वीतम् पातम् पयस उस्रियायाः
विष्णोर् नु कꣳ वीर्याणि प्र वोचꣳ यः पार्थिवानि विममे रजाꣳसि । यो अस्कभायद् उत्तरꣳ सधस्थꣳ विचक्रमाणस् त्रेधोरुगायः
प्र तद् विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्व् अधिक्षियन्ति भुवनानि विश्वा
प्र विष्णवे शूषम् एतु मन्म गिरिक्षित उरुगायाय वृष्णे । य इदꣳ दीर्घम् प्रयतꣳ सधस्थम् एको विममे त्रिभिर् इत् पदेभिः
यस्य त्री पूर्णा मधुना पदान्य् अक्षीयमाणा स्वधया मदन्ति । य उ त्रिधातु पृथिवीम् उत द्याम् एको दाधार भुवनानि विश्वा
तद् अस्य प्रियम् अभि पाथो अश्याꣳ नरो यत्र देवयवो मदन्ति । उरुक्रमस्य स हि बन्धुर् इत्था विष्णोः पदे परमे मध्व उत्सः
ता वाꣳ वास्तून्य् उश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः । अत्राह तद् उरुगायस्य वृष्णः परमम् पदम् अव भाति भूरि
प्र वः पान्तम् अन्धसो धियायते महे शूराय विष्णवे चार्चत । या सानुनि पर्वतानाम् अदाभ्या महस् तस्थतुर् अर्वतेव साधुना
त्वेषम् इत्था समरणꣳ शिमीवतोर् इन्द्राविष्णू सुतपा वाम् उरुष्यति । या मर्त्याय प्रतिधीयमानम् इत् कृशानोर् अस्तुर् असनाम् उरुष्यथः
ता ईꣳ वर्धन्ति मह्य् अस्य पौꣳस्यꣳ नि मातरा नयति रेतसे भुजे । दधाति पुत्रो ऽवरम् परम् पितुर् नाम तृतीयम् अधि रोचने दिवः
तत्-तद् इद् अस्य पौꣳस्यꣳ गृणीमसीनस्य त्रातुर् अवृकस्य मीळ्हुषः । यः पार्थिवानि त्रिभिर् इद् विगामभिर् उरु क्रमिष्टोरुगायाय जीवसे
द्वे इद् अस्य क्रमणे स्वर्दृशो ऽभिख्याय मर्त्यो भुरण्यति । तृतीयम् अस्य नकिर् आ दधर्षति वयश् चन पतयन्तः पतत्रिणः
चतुर्भिः साकꣳ नवतिꣳ च नामभिश् चक्रꣳ न वृत्तꣳ व्यतीꣳर् अवीविपत् । बृहच्छरीरो विमिमान ऋक्वभिर् युवाकुमारः प्रत्य् एत्य् आहवम्
भवा मित्रो न शेव्यो घृतासुतिर् विभूतद्युम्न एवया उ सप्रथाः । अधा ते विष्णो विदुषा चिद् अर्ध्यः स्तोमो यज्ञश् च राध्यो हविष्मता
यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति । यो जातम् अस्य महतो महि ब्रवत् सेद् उ श्रवोभिर् युज्यꣳ चिद् अभ्य् असत्
तम् उ स्तोतारः पूर्व्यꣳ यथा विद ऋतस्य गर्भꣳ जनुषा पिपर्तन । आस्य जानन्तो नाम चिद् विवक्तन महस् ते विष्णो सुमतिम् भजामहे
तम् अस्य राजा वरुणस् तम् अश्विना क्रतुꣳ सचन्त मारुतस्य वेधसः । दाधार दक्षम् उत्तमम् अहर्विदꣳ व्रजꣳ च विष्णुः सखिवाꣳ अपोर्णुते
आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः । वेधा अजिन्वत् त्रिषधस्थ आर्यम् ऋतस्य भागे यजमानम् आभजत्
अबोध्य् अग्निर् ज्म उद् एति सूर्यो व्य् उ१षाश् चन्द्रा मह्य् आवो अर्चिषा । आयुक्षाताम् अश्विना यातवे रथम् प्रासावीद् देवः सविता जगत् पृथक्
यद् युञ्जाथे वृषणम् अश्विना रथꣳ घृतेन नो मधुना क्षत्रम् उक्षतम् । अस्माकम् ब्रह्म पृतनासु जिन्वतꣳ वयꣳ धना शूरसाता भजेमहि
अर्वाङ् त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर् यातु सुष्टुतः । त्रिवन्धुरो मघवा विश्वसौभगः शꣳ न आ वक्षद् द्विपदे चतुष्पदे
आ न ऊर्जꣳ वहतम् अश्विना युवम् मधुमत्या नः कशया मिमिक्षतम् । प्रायुस् तारिष्टꣳ नी रपाꣳसि मृक्षतꣳ सेधतꣳ द्वेषो भवतꣳ सचाभुवा
युवꣳ ह गर्भꣳ जगतीषु धत्थो युवꣳ विश्वेषु भुवनेष्व् अन्तः । युवम् अग्निꣳ च वृषणाव् अपश् च वनस्पतीꣳर् अश्विनाव् ऐरयेथाम्
युवꣳ ह स्थो भिषजा भेषजेभिर् अथो ह स्थो रथ्या३ राथ्येभिः । अथो ह क्षत्रम् अधि धत्थ उग्रा यो वाꣳ हविष्मान् मनसा ददाश
वसू रुद्रा पुरुमन्तू वृधन्ता दशस्यतꣳ नो वृषणाव् अभिष्टौ । दस्रा ह यद् रेक्ण औचथ्यो वाम् प्र यत् सस्राथे अकवाभिर् ऊती
को वाꣳ दाशत् सुमतये चिद् अस्यै वसू यद् धेथे नमसा पदे गोः । जिगृतम् अस्मे रेवतीः पुरꣳधीः कामप्रेणेव मनसा चरन्ता
युक्तो ह यद् वाꣳ तौग्र्याय पेरुर् वि मध्ये अर्णसो धायि पज्रः । उप वाम् अवः शरणꣳ गमेयꣳ शूरो नाज्म पतयद्भिर् एवैः
उपस्तुतिर् औचथ्यम् उरुष्येन् मा माम् इमे पतत्रिणी वि दुग्धाम् । मा माम् एधो दशतयश् चितो धाक् प्र यद् वाम् बद्धस् त्मनि खादति क्षाम्
न मा गरन् नद्यो मातृतमा दासा यद् ईꣳ सुसमुब्धम् अवाधुः । शिरो यद् अस्य त्रैतनो वितक्षत् स्वयꣳ दास उरो अꣳसाव् अपि ग्ध
दीर्घतमा मामतेयो जुजुर्वान् दशमे युगे । अपाम् अर्थꣳ यतीनाम् ब्रह्मा भवति सारथिः
प्र द्यावा यज्ञैः पृथिवी ऋतावृधा मही स्तुषे विदथेषु प्रचेतसा । देवेभिर् ये देवपुत्रे सुदꣳससेत्था धिया वार्याणि प्रभूषतः
उत मन्ये पितुर् अद्रुहो मनो मातुर् महि स्वतवस् तद् धवीमभिः । सुरेतसा पितरा भूम चक्रतुर् उरु प्रजाया अमृतꣳ वरीमभिः
ते सूनवः स्वपसः सुदꣳससो मही जज्ञुर् मातरा पूर्वचित्तये । स्थातुश् च सत्यꣳ जगतश् च धर्मणि पुत्रस्य पाथः पदम् अद्वयाविनः
ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा । नव्यꣳ-नव्यꣳ तन्तुम् आ तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः
तद् राधो अद्य सवितुर् वरेण्यꣳ वयꣳ देवस्य प्रसवे मनामहे । अस्मभ्यꣳ द्यावापृथिवी सुचेतुना रयिꣳ धत्तꣳ वसुमन्तꣳ शतग्विनम्
ते हि द्यावापृथिवी विश्वशम्भुव ऋतावरी रजसो धारयत्कवी । सुजन्मनी धिषणे अन्तर् ईयते देवो देवी धर्मणा सूर्यः शुचिः
उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः । सुधृष्टमे वपुष्ये३ न रोदसी पिता यत् सीम् अभि रूपैर् अवासयत्
स वह्निः पुत्रः पित्रोः पवित्रवान् पुनाति धीरो भुवनानि मायया । धेनुꣳ च पृश्निꣳ वृषभꣳ सुरेतसꣳ विश्वाहा शुक्रम् पयो अस्य दुक्षत
अयꣳ देवानाम् अपसाम् अपस्तमो यो जजान रोदसी विश्वशम्भुवा । वि यो ममे रजसी सुक्रतूययाजरेभिः स्कम्भनेभिः सम् आनृचे
ते नो गृणाने महिनी महि श्रवः क्षत्रꣳ द्यावापृथिवी धासथो बृहत् । येनाभि कृष्टीस् ततनाम विश्वहा पनाय्यम् ओजो अस्मे सम् इन्वतम्
किम् उ श्रेष्ठः किꣳ यविष्ठो न आजगन् किम् ईयते दूत्य१ꣳ कद् यद् ऊचिम । न निन्दिम चमसꣳ यो महाकुलो ऽग्ने भ्रातर् द्रुण इद् भूतिम् ऊदिम
एकꣳ चमसꣳ चतुरः कृणोतन तद् वो देवा अब्रुवन् तद् व आगमम् । सौधन्वना यद्य् एवा करिष्यथ साकꣳ देवैर् यज्ञियासो भविष्यथ
अग्निꣳ दूतम् प्रति यद् अब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः । धेनुः कर्त्वा युवशा कर्त्वा द्वा तानि भ्रातर् अनु वः कृत्व्य् एमसि
चकृवाꣳस ऋभवस् तद् अपृच्छत क्वेद् अभूद् यः स्य दूतो न आजगन् । यदावाख्यच् चमसाञ् चतुरः कृतान् आद् इत् त्वष्टा ग्नास्व् अन्तर् न्य् आनजे
हनामैनाꣳ इति त्वष्टा यद् अब्रवीच् चमसꣳ ये देवपानम् अनिन्दिषुः । अन्या नामानि कृण्वते सुते सचाꣳ अन्यैर् एनान् कन्या३ नामभिः स्परत्
इन्द्रो हरी युयुजे अश्विना रथम् बृहस्पतिर् विश्वरूपाम् उपाजत । ऋभुर् विभ्वा वाजो देवाꣳ अगच्छत स्वपसो यज्ञियम् भागम् ऐतन
निश् चर्मणो गाम् अरिणीत धीतिभिर् या जरन्ता युवशा ताकृणोतन । सौधन्वना अश्वाद् अश्वम् अतक्षत युक्त्वा रथम् उप देवाꣳ अयातन
इदम् उदकम् पिबतेत्य् अब्रवीतनेदꣳ वा घा पिबता मुञ्जनेजनम् । सौधन्वना यदि तन् नेव हर्यथ तृतीये घा सवने मादयाध्वै
आपो भूयिष्ठा इत्य् एको अब्रवीद् अग्निर् भूयिष्ठ इत्य् अन्यो अब्रवीत् । वधर्यन्तीम् बहुभ्यः प्रैको अब्रवीद् ऋता वदन्तश् चमसाꣳ अपिꣳशत
श्रोणाम् एक उदकꣳ गाम् अवाजति माꣳसम् एकः पिꣳशति सूनयाभृतम् । आ निम्रुचः शकृद् एको अपाभरत् किꣳ स्वित् पुत्रेभ्यः पितरा उपावतुः
उद्वत्स्व् अस्मा अकृणोतना तृणꣳ निवत्स्व् अपः स्वपस्यया नरः । अगोह्यस्य यद् असस्तना गृहे तद् अद्येदम् ऋभवो नानु गच्छथ
सम्मील्य यद् भुवना पर्यसर्पत क्व स्वित् तात्या पितरा व आसतुः । अशपत यः करस्नꣳ व आददे यः प्राब्रवीत् प्रो तस्मा अब्रवीतन
सुषुप्वाꣳस ऋभवस् तद् अपृच्छतागोह्य क इदꣳ नो अबूबुधत् । श्वानम् बस्तो बोधयितारम् अब्रवीत् सꣳवत्सर इदम् अद्या व्य् अख्यत
दिवा यान्ति मरुतो भूम्याग्निर् अयꣳ वातो अन्तरिक्षेण याति । अद्भिर् याति वरुणः समुद्रैर् युष्माꣳ इच्छन्तः शवसो नपातः
मा नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतः परि ख्यन् । यद् वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि
यन् निर्णिजा रेक्णसा प्रावृतस्य रातिꣳ गृभीताम् मुखतो नयन्ति । सुप्राङ् अजो मेम्यद् विश्वरूप इन्द्रापूष्णोः प्रियम् अप्य् एति पाथः
एष च्छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः । अभिप्रियꣳ यत् पुरोळाशम् अर्वता त्वष्टेद् एनꣳ सौश्रवसाय जिन्वति
यद् धविष्यम् ऋतुशो देवयानꣳ त्रिर् मानुषाः पर्य् अश्वꣳ नयन्ति । अत्रा पूष्णः प्रथमो भाग एति यज्ञꣳ देवेभ्यः प्रतिवेदयन्न् अजः
होताध्वर्युर् आवया अग्निमिन्धो ग्रावग्राभ उत शꣳस्ता सुविप्रः । तेन यज्ञेन स्वरꣳकृतेन स्विष्टेन वक्षणा आ पृणध्वम्
यूपव्रस्का उत ये यूपवाहाश् चषालꣳ ये अश्वयूपाय तक्षति । ये चार्वते पचनꣳ सम्भरन्त्य् उतो तेषाम् अभिगूर्तिर् न इन्वतु
उप प्रागात् सुमन् मे ऽधायि मन्म देवानाम् आशा उप वीतपृष्ठः । अन्व् एनꣳ विप्रा ऋषयो मदन्ति देवानाम् पुष्टे चकृमा सुबन्धुम्
यद् वाजिनो दाम सꣳदानम् अर्वतो या शीर्षण्या रशना रज्जुर् अस्य । यद् वा घास्य प्रभृतम् आस्ये३ तृणꣳ सर्वा ता ते अपि देवेष्व् अस्तु
यद् अश्वस्य क्रविषो मक्षिकाश यद् वा स्वरौ स्वधितौ रिप्तम् अस्ति । यद् धस्तयोः शमितुर् यन् नखेषु सर्वा ता ते अपि देवेष्व् अस्तु
यद् ऊवध्यम् उदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति । सुकृता तच् छमितारः कृण्वन्तूत मेधꣳ शृतपाकम् पचन्तु
यत् ते गात्राद् अग्निना पच्यमानाद् अभि शूलꣳ निहतस्यावधावति । मा तद् भूम्याम् आ श्रिषन् मा तृणेषु देवेभ्यस् तद् उशद्भ्यो रातम् अस्तु
ये वाजिनम् परिपश्यन्ति पक्वꣳ य ईम् आहुः सुरभिर् निर् हरेति । ये चार्वतो माꣳसभिक्षाम् उपासत उतो तेषाम् अभिगूर्तिर् न इन्वतु
यन् नीक्षणम् माꣳस्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि । ऊष्मण्यापिधाना चरूणाम् अङ्काः सूनाः परि भूषन्त्य् अश्वम्
निक्रमणꣳ निषदनꣳ विवर्तनꣳ यच् च पड्बीशम् अर्वतः । यच् च पपौ यच् च घासिꣳ जघास सर्वा ता ते अपि देवेष्व् अस्तु
मा त्वाग्निर् ध्वनयीद् धूमगन्धिर् मोखा भ्राजन्त्य् अभि विक्त जघ्रिः । इष्टꣳ वीतम् अभिगूर्तꣳ वषट्कृतꣳ तꣳ देवासः प्रति गृभ्णन्त्य् अश्वम्
यद् अश्वाय वास उपस्तृणन्त्य् अधीवासꣳ या हिरण्यान्य् अस्मै । सꣳदानम् अर्वन्तम् पड्बीशम् प्रिया देवेष्व् आ यामयन्ति
यत् ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद । स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि
चतुस्त्रिꣳशद् वाजिनो देवबन्धोर् वङ्क्रीर् अश्वस्य स्वधितिः सम् एति । अच्छिद्रा गात्रा वयुना कृणोत परुष्-परुर् अनुघुष्या वि शस्त
एकस् त्वष्टुर् अश्वस्या विशस्ता द्वा यन्तारा भवतस् तथ ऋतुः । या ते गात्राणाम् ऋतुथा कृणोमि ता-ता पिण्डानाम् प्र जुहोम्य् अग्नौ
मा त्वा तपत् प्रिय आत्मापियन्तम् मा स्वधितिस् तन्व१ आ तिष्ठिपत् ते । मा ते गृध्नुर् अविशस्तातिहाय छिद्रा गात्राण्य् असिना मिथू कः
न वा उ एतन् म्रियसे न रिष्यसि देवाꣳ इद् एषि पथिभिः सुगेभिः । हरी ते युञ्जा पृषती अभूताम् उपास्थाद् वाजी धुरि रासभस्य
सुगव्यꣳ नो वाजी स्वश्व्यम् पुꣳसः पुत्राꣳ उत विश्वापुषꣳ रयिम् । अनागास्त्वꣳ नो अदितिः कृणोतु क्षत्रꣳ नो अश्वो वनताꣳ हविष्मान्
यद् अक्रन्दः प्रथमꣳ जायमान उद्यन् समुद्राद् उत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यम् महि जातꣳ ते अर्वन्
यमेन दत्तꣳ त्रित एनम् आयुनग् इन्द्र एणम् प्रथमो अध्य् अतिष्ठत् । गन्धर्वो अस्य रशनाम् अगृभ्णात् सूराद् अश्वꣳ वसवो निर् अतष्ट
असि यमो अस्य् आदित्यो अर्वन्न् असि त्रितो गुह्येन व्रतेन । असि सोमेन समया विपृक्त आहुस् ते त्रीणि दिवि बन्धनानि
त्रीणि त आहुर् दिवि बन्धनानि त्रीण्य् अप्सु त्रीण्य् अन्तः समुद्रे । उतेव मे वरुणश् छन्त्स्य् अर्वन् यत्रा त आहुः परमꣳ जनित्रम्
इमा ते वाजिन्न् अवमार्जनानीमा शफानाꣳ सनितुर् निधाना । अत्रा ते भद्रा रशना अपश्यम् ऋतस्य या अभिरक्षन्ति गोपाः
आत्मानꣳ ते मनसाराद् अजानाम् अवो दिवा पतयन्तम् पतꣳगम् । शिरो अपश्यम् पथिभिः सुगेभिर् अरेणुभिर् जेहमानम् पतत्रि
अत्रा ते रूपम् उत्तमम् अपश्यꣳ जिगीषमाणम् इष आ पदे गोः । यदा ते मर्तो अनु भोगम् आनळ् आद् इद् ग्रसिष्ठ ओषधीर् अजीगः
अनु त्वा रथो अनु मर्यो अर्वन्न् अनु गावो ऽनु भगः कनीनाम् । अनु व्रातासस् तव सख्यम् ईयुर् अनु देवा ममिरे वीर्यꣳ ते
हिरण्यशृङ्गो ऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत् । देवा इद् अस्य हविरद्यम् आयन् यो अर्वन्तम् प्रथमो अध्यतिष्ठत्
ईर्मान्तासः सिलिकमध्यमासः सꣳ शूरणासो दिव्यासो अत्याः । हꣳसा इव श्रेणिशो यतन्ते यद् आक्षिषुर् दिव्यम् अज्मम् अश्वाः
तव शरीरम् पतयिष्ण्व् अर्वन् तव चित्तꣳ वात इव ध्रजीमान् । तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति
उप प्रागाच् छसनꣳ वाज्य् अर्वा देवद्रीचा मनसा दीध्यानः । अजः पुरो नीयते नाभिर् अस्यानु पश्चात् कवयो यन्ति रेभाः
उप प्रागात् परमꣳ यत् सधस्थम् अर्वाꣳ अच्छा पितरम् मातरꣳ च । अद्या देवाञ् जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि
अस्य वामस्य पलितस्य होतुस् तस्य भ्राता मध्यमो अस्त्य् अश्नः । तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यꣳ विश्पतिꣳ सप्तपुत्रम्
सप्त युञ्जन्ति रथम् एकचक्रम् एको अश्वो वहति सप्तनामा । त्रिनाभि चक्रम् अजरम् अनर्वꣳ यत्रेमा विश्वा भुवनाधि तस्थुः
इमꣳ रथम् अधि ये सप्त तस्थुः सप्तचक्रꣳ सप्त वहन्त्य् अश्वाः । सप्त स्वसारो अभि सꣳ नवन्ते यत्र गवाꣳ निहिता सप्त नाम
को ददर्श प्रथमꣳ जायमानम् अस्थन्वन्तꣳ यद् अनस्था बिभर्ति । भूम्या असुर् असृग् आत्मा क्व स्वित् को विद्वाꣳसम् उप गात् प्रष्टुम् एतत्
पाकः पृच्छामि मनसाविजानन् देवानाम् एना निहिता पदानि । वत्से बष्कये ऽधि सप्त तन्तून् वि तत्निरे कवय ओतवा उ
अचिकित्वाञ् चिकितुषश् चिद् अत्र कवीन् पृच्छामि विद्मने न विद्वान् । वि यस् तस्तम्भ षळ् इमा रजाꣳस्य् अजस्य रूपे किम् अपि स्विद् एकम्
इह ब्रवीतु य ईम् अङ्ग वेदास्य वामस्य निहितम् पदꣳ वेः । शीर्ष्णः क्षीरꣳ दुह्रते गावो अस्य वव्रिꣳ वसाना उदकम् पदापुः
माता पितरम् ऋत आ बभाज धीत्य् अग्रे मनसा सꣳ हि जग्मे । सा बीभत्सुर् गर्भरसा निविद्धा नमस्वन्त इद् उपवाकम् ईयुः
युक्ता मातासीद् धुरि दक्षिणाया अतिष्ठद् गर्भो वृजनीष्व् अन्तः । अमीमेद् वत्सो अनु गाम् अपश्यद् विश्वरूप्यꣳ त्रिषु योजनेषु
तिस्रो मातॄस् त्रीन् पितॄन् बिभ्रद् एक ऊर्ध्वस् तस्थौ नेम् अव ग्लापयन्ति । मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदꣳ वाचम् अविश्वमिन्वाम्
द्वादशारꣳ नहि तज् जराय वर्वर्ति चक्रम् परि द्याम् ऋतस्य । आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विꣳशतिश् च तस्थुः
पञ्चपादम् पितरꣳ द्वादशाकृतिꣳ दिव आहुः परे अर्धे पुरीषिणम् । अथेमे अन्य उपरे विचक्षणꣳ सप्तचक्रे षळर आहुर् अर्पितम्
पञ्चारे चक्रे परिवर्तमाने तस्मिन्न् आ तस्थुर् भुवनानि विश्वा । तस्य नाक्षस् तप्यते भूरिभारः सनाद् एव न शीर्यते सनाभिः
सनेमि चक्रम् अजरꣳ वि वावृत उत्तानायाꣳ दश युक्ता वहन्ति । सूर्यस्य चक्षू रजसैत्य् आवृतꣳ तस्मिन्न् आर्पिता भुवनानि विश्वा
साकꣳजानाꣳ सप्तथम् आहुर् एकजꣳ षळ् इद् यमा ऋषयो देवजा इति । तेषाम् इष्टानि विहितानि धामशः स्थात्रे रेजन्ते विकृतानि रूपशः
स्त्रियः सतीस् ताꣳ उ मे पुꣳस आहुः पश्यद् अक्षण्वान् न वि चेतद् अन्धः । कविर् यः पुत्रः स ईम् आ चिकेत यस् ता विजानात् स पितुष् पितासत्
अवः परेण पर एनावरेण पदा वत्सम् बिभ्रती गौर् उद् अस्थात् । सा कद्रीची कꣳ स्विद् अर्धम् परागात् क्व स्वित् सूते नहि यूथे अन्तः
अवः परेण पितरꣳ यो अस्यानुवेद पर एनावरेण । कवीयमानः क इह प्र वोचद् देवम् मनः कुतो अधि प्रजातम्
ये अर्वाञ्चस् ताꣳ उ पराच आहुर् ये पराञ्चस् ताꣳ उ अर्वाच आहुः । इन्द्रश् च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति
द्वा सुपर्णा सयुजा सखाया समानꣳ वृक्षम् परि षस्वजाते । तयोर् अन्यः पिप्पलꣳ स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभि चाकशीति
यत्रा सुपर्णा अमृतस्य भागम् अनिमेषꣳ विदथाभिस्वरन्ति । इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकम् अत्रा विवेश
यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे । तस्येद् आहुः पिप्पलꣳ स्वाद्व् अग्रे तन् नोन् नशद् यः पितरꣳ न वेद
यद् गायत्रे अधि गायत्रम् आहितꣳ त्रैष्टुभाद् वा त्रैष्टुभꣳ निरतक्षत । यद् वा जगज् जगत्य् आहितम् पदꣳ य इत् तद् विदुस् ते अमृतत्वम् आनशुः
गायत्रेण प्रति मिमीते अर्कम् अर्केण साम त्रैष्टुभेन वाकम् । वाकेन वाकꣳ द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः
जगता सिन्धुꣳ दिव्य् अस्तभायद् रथꣳतरे सूर्यम् पर्य् अपश्यत् । गायत्रस्य समिधस् तिस्र आहुस् ततो मह्ना प्र रिरिचे महित्वा
उप ह्वये सुदुघाꣳ धेनुम् एताꣳ सुहस्तो गोधुग् उत दोहद् एनाम् । श्रेष्ठꣳ सवꣳ सविता साविषन् नो ऽभीद्धो घर्मस् तद् उ षु प्र वोचम्
हिङ्कृण्वती वसुपत्नी वसूनाꣳ वत्सम् इच्छन्ती मनसाभ्य् आगात् । दुहाम् अश्विभ्याम् पयो अघ्न्येयꣳ सा वर्धताम् महते सौभगाय
गौर् अमीमेद् अनु वत्सम् मिषन्तम् मूर्धानꣳ हिङ्ङ् अकृणोन् मातवा उ । सृक्वाणꣳ घर्मम् अभि वावशाना मिमाति मायुम् पयते पयोभिः
अयꣳ स शिङ्क्ते येन गौर् अभीवृता मिमाति मायुꣳ ध्वसनाव् अधि श्रिता । सा चित्तिभिर् नि हि चकार मर्त्यꣳ विद्युद् भवन्ती प्रति वव्रिम् औहत
अनच् छये तुरगातु जीवम् एजद् ध्रुवम् मध्य आ पस्त्यानाम् । जीवो मृतस्य चरति स्वधाभिर् अमर्त्यो मर्त्येना सयोनिः
अपश्यꣳ गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् । स सध्रीचीः स विषूचीर् वसान आ वरीवर्ति भुवनेष्व् अन्तः
य ईꣳ चकार न सो अस्य वेद य ईꣳ ददर्श हिरुग् इन् नु तस्मात् । स मातुर् योना परिवीतो अन्तर् बहुप्रजा निरृतिम् आ विवेश
द्यौर् मे पिता जनिता नाभिर् अत्र बन्धुर् मे माता पृथिवी महीयम् । उत्तानयोश् चम्वो३र् योनिर् अन्तर् अत्रा पिता दुहितुर् गर्भम् आधात्
पृच्छामि त्वा परम् अन्तम् पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः । पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमꣳ व्योम
इयꣳ वेदिः परो अन्तः पृथिव्या अयꣳ यज्ञो भुवनस्य नाभिः । अयꣳ सोमो वृष्णो अश्वस्य रेतो ब्रह्मायꣳ वाचः परमꣳ व्योम
सप्तार्धगर्भा भुवनस्य रेतो विष्णोस् तिष्ठन्ति प्रदिशा विधर्मणि । ते धीतिभिर् मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः
न वि जानामि यद् इवेदम् अस्मि निण्यः सꣳनद्धो मनसा चरामि । यदा मागन् प्रथमजा ऋतस्याद् इद् वाचो अश्नुवे भागम् अस्याः
अपाङ् प्राङ् एति स्वधया गृभीतो ऽमर्त्यो मर्त्येना सयोनिः । ता शश्वन्ता विषूचीना वियन्ता न्य् अ१न्यꣳ चिक्युर् न नि चिक्युर् अन्यम्
ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । यस् तन् न वेद किम् ऋचा करिष्यति य इत् तद् विदुस् त इमे सम् आसते
सूयवसाद् भगवती हि भूया अथो वयम् भगवन्तः स्याम । अद्धि तृणम् अघ्न्ये विश्वदानीम् पिब शुद्धम् उदकम् आचरन्ती
गौरीर् मिमाय सलिलानि तक्षत्य् एकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन्
तस्याः समुद्रा अधि वि क्षरन्ति तेन जीवन्ति प्रदिशश् चतस्रः । ततः क्षरत्य् अक्षरꣳ तद् विश्वम् उप जीवति
शकमयꣳ धूमम् आराद् अपश्यꣳ विषूवता पर एनावरेण । उक्षाणम् पृश्निम् अपचन्त वीरास् तानि धर्माणि प्रथमान्य् आसन्
त्रयः केशिन ऋतुथा वि चक्षते सꣳवत्सरे वपत एक एषाम् । विश्वम् एको अभि चष्टे शचीभिर् ध्राजिर् एकस्य ददृशे न रूपम्
चत्वारि वाक् परिमिता पदानि तानि विदुर् ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयꣳ वाचो मनुष्या वदन्ति
इन्द्रम् मित्रꣳ वरुणम् अग्निम् आहुर् अथो दिव्यः स सुपर्णो गरुत्मान् । एकꣳ सद् विप्रा बहुधा वदन्त्य् अग्निꣳ यमम् मातरिश्वानम् आहुः
कृष्णꣳ नियानꣳ हरयः सुपर्णा अपो वसाना दिवम् उत् पतन्ति । त आववृत्रन् सदनाद् ऋतस्याद् इद् घृतेन पृथिवी व्य् उद्यते
द्वादश प्रधयश् चक्रम् एकꣳ त्रीणि नभ्यानि क उ तच् चिकेत । तस्मिन् साकꣳ त्रिशता न शङ्कवो ऽर्पिताः षष्टिर् न चलाचलासः
यस् ते स्तनः शशयो यो मयोभूर् येन विश्वा पुष्यसि वार्याणि । यो रत्नधा वसुविद् यः सुदत्रः सरस्वति तम् इह धातवे कः
यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः
समानम् एतद् उदकम् उच् चैत्य् अव चाहभिः । भूमिम् पर्जन्या जिन्वन्ति दिवꣳ जिन्वन्त्य् अग्नयः
दिव्यꣳ सुपर्णꣳ वायसम् बृहन्तम् अपाꣳ गर्भꣳ दर्शतम् ओषधीनाम् । अभीपतो वृष्टिभिस् तर्पयन्तꣳ सरस्वन्तम् अवसे जोहवीमि
कया शुभा सवयसः सनीळाः समान्या मरुतः सम् मिमिक्षुः । कया मती कुत एतास एते ऽर्चन्ति शुष्मꣳ वृषणो वसूया
कस्य ब्रह्माणि जुजुषुर् युवानः को अध्वरे मरुत आ ववर्त । श्येनाꣳ इव ध्रजतो अन्तरिक्षे केन महा मनसा रीरमाम
कुतस् त्वम् इन्द्र माहिनः सन्न् एको यासि सत्पते किꣳ त इत्था । सम् पृच्छसे समराणः शुभानैर् वोचेस् तन् नो हरिवो यत् ते अस्मे
ब्रह्माणि मे मतयः शꣳ सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः । आ शासते प्रति हर्यन्त्य् उक्थेमा हरी वहतस् ता नो अच्छ
अतो वयम् अन्तमेभिर् युजानाः स्वक्षत्रेभिस् तन्व१ः शुम्भमानाः । महोभिर् एताꣳ उप युज्महे न्व् इन्द्र स्वधाम् अनु हि नो बभूथ
क्व१ स्या वो मरुतः स्वधासीद् यन् माम् एकꣳ समधत्ताहिहत्ये । अहꣳ ह्य् उ१ग्रस् तविषस् तुविष्मान् विश्वस्य शत्रोर् अनमꣳ वधस्नैः
भूरि चकर्थ युज्येभिर् अस्मे समानेभिर् वृषभ पौꣳस्येभिः । भूरीणि हि कृणवामा शविष्ठेन्द्र क्रत्वा मरुतो यद् वशाम
वधीꣳ वृत्रम् मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान् । अहम् एता मनवे विश्वश्चन्द्राः सुगा अपश् चकर वज्रबाहुः
अनुत्तम् आ ते मघवन् नकिर् नु न त्वावाꣳ अस्ति देवता विदानः । न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध
एकस्य चिन् मे विभ्व् अ१स्त्व् ओजो या नु दधृष्वान् कृणवै मनीषा । अहꣳ ह्य् उ१ग्रो मरुतो विदानो यानि च्यवम् इन्द्र इद् ईश एषाम्
अमन्दन् मा मरुतः स्तोमो अत्र यन् मे नरः श्रुत्यम् ब्रह्म चक्र । इन्द्राय वृष्णे सुमखाय मह्यꣳ सख्ये सखायस् तन्वे तनूभिः
एवेद् एते प्रति मा रोचमाना अनेद्यः श्रव एषो दधानाः । सꣳचक्ष्या मरुतश् चन्द्रवर्णा अच्छान्त मे छदयाथा च नूनम्
को न्व् अत्र मरुतो मामहे वः प्र यातन सखीꣳर् अच्छा सखायः । मन्मानि चित्रा अपिवातयन्त एषाम् भूत नवेदा म ऋतानाम्
आ यद् दुवस्याद् दुवसे न कारुर् अस्माञ् चक्रे मान्यस्य मेधा । ओ षु वर्त्त मरुतो विप्रम् अच्छेमा ब्रह्माणि जरिता वो अर्चत्
एष वः स्तोमो मरुत इयꣳ गीर् मान्दार्यस्य मान्यस्य कारोः । एषा यासीष्ट तन्वे वयाꣳ विद्यामेषꣳ वृजनꣳ जीरदानुम्
तन् नु वोचाम रभसाय जन्मने पूर्वम् महित्वꣳ वृषभस्य केतवे । ऐधेव यामन् मरुतस् तुविष्वणो युधेव शक्रास् तविषाणि कर्तन
नित्यꣳ न सूनुम् मधु बिभ्रत उप क्रीळन्ति क्रीळा विदथेषु घृष्वयः । नक्षन्ति रुद्रा अवसा नमस्विनꣳ न मर्धन्ति स्वतवसो हविष्कृतम्
यस्मा ऊमासो अमृता अरासत रायस् पोषꣳ च हविषा ददाशुषे । उक्षन्त्य् अस्मै मरुतो हिता इव पुरू रजाꣳसि पयसा मयोभुवः
आ ये रजाꣳसि तविषीभिर् अव्यत प्र व एवासः स्वयतासो अध्रजन् । भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामः प्रयतास्व् ऋष्टिषु
यत् त्वेषयामा नदयन्त पर्वतान् दिवो वा पृष्ठꣳ नर्या अचुच्यवुः । विश्वो वो अज्मन् भयते वनस्पती रथीयन्तीव प्र जिहीत ओषधिः
यूयꣳ न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिम् पिपर्तन । यत्रा वो दिद्युद् रदति क्रिविर्दती रिणाति पश्वः सुधितेव बर्हणा
प्र स्कम्भदेष्णा अनवभ्रराधसो ऽलातृणासो विदथेषु सुष्टुताः । अर्चन्त्य् अर्कम् मदिरस्य पीतये विदुर् वीरस्य प्रथमानि पौꣳस्या
शतभुजिभिस् तम् अभिह्रुतेर् अघात् पूर्भी रक्षता मरुतो यम् आवत । जनꣳ यम् उग्रास् तवसो विरप्शिनः पाथना शꣳसात् तनयस्य पुष्टिषु
विश्वानि भद्रा मरुतो रथेषु वो मिथस्पृध्येव तविषाण्य् आहिता । अꣳसेष्व् आ वः प्रपथेषु खादयो ऽक्षो वश् चक्रा समया वि वावृते
भूरीणि भद्रा नर्येषु बाहुषु वक्षःसु रुक्मा रभसासो अञ्जयः । अꣳसेष्व् एताः पविषु क्षुरा अधि वयो न पक्षान् व्य् अनु श्रियो धिरे
महान्तो मह्ना विभ्वो३ विभूतयो दूरेदृशो ये दिव्या इव स्तृभिः । मन्द्राः सुजिह्वाः स्वरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः
तद् वः सुजाता मरुतो महित्वनꣳ दीर्घꣳ वो दात्रम् अदितेर् इव व्रतम् । इन्द्रश् चन त्यजसा वि ह्रुणाति तज् जनाय यस्मै सुकृते अराध्वम्
तद् वो जामित्वम् मरुतः परे युगे पुरू यच् छꣳसम् अमृतास आवत । अया धिया मनवे श्रुष्टिम् आव्या साकꣳ नरो दꣳसनैर् आ चिकित्रिरे
येन दीर्घम् मरुतः शूशवाम युष्माकेन परीणसा तुरासः । आ यत् ततनन् वृजने जनास एभिर् यज्ञेभिस् तद् अभीष्टिम् अश्याम्
एष वः स्तोमो मरुत इयꣳ गीर् मान्दार्यस्य मान्यस्य कारोः । एषा यासीष्ट तन्वे वयाꣳ विद्यामेषꣳ वृजनꣳ जीरदानुम्
सहस्रꣳ त इन्द्रोतयो नः सहस्रम् इषो हरिवो गूर्ततमाः । सहस्रꣳ रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः
आ नो ऽवोभिर् मरुतो यान्त्व् अच्छा ज्येष्ठेभिर् वा बृहद्दिवैः सुमायाः । अध यद् एषाꣳ नियुतः परमाः समुद्रस्य चिद् धनयन्त पारे
मिम्यक्ष येषु सुधिता घृताची हिरण्यनिर्णिग् उपरा न ऋष्टिः । गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सꣳ वाक्
परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः । न रोदसी अप नुदन्त घोरा जुषन्त वृधꣳ सख्याय देवाः
जोषद् यद् ईम् असुर्या सचध्यै विषितस्तुका रोदसी नृमणाः । आ सूर्येव विधतो रथꣳ गात् त्वेषप्रतीका नभसो नेत्या
आस्थापयन्त युवतिꣳ युवानः शुभे निमिश्लाꣳ विदथेषु पज्राम् । अर्को यद् वो मरुतो हविष्मान् गायद् गाथꣳ सुतसोमो दुवस्यन्
प्र तꣳ विवक्मि वक्म्यो य एषाम् मरुताम् महिमा सत्यो अस्ति । सचा यद् ईꣳ वृषमणा अहꣳयुः स्थिरा चिज् जनीर् वहते सुभागाः
पान्ति मित्रावरुणाव् अवद्याच् चयत ईम् अर्यमो अप्रशस्तान् । उत च्यवन्ते अच्युता ध्रुवाणि वावृध ईम् मरुतो दातिवारः
नही नु वो मरुतो अन्त्य् अस्मे आरात्ताच् चिच् छवसो अन्तम् आपुः । ते धृष्णुना शवसा शूशुवाꣳसो ऽर्णो न द्वेषो धृषता परि ष्ठुः
वयम् अद्येन्द्रस्य प्रेष्ठा वयꣳ श्वो वोचेमहि समर्ये । वयम् पुरा महि च नो अनु द्यून् तन् न ऋभुक्षा नराम् अनु ष्यात्
एष वः स्तोमो मरुत इयꣳ गीर् मान्दार्यस्य मान्यस्य कारोः । एषा यासीष्ट तन्वे वयाꣳ विद्यामेषꣳ वृजनꣳ जीरदानुम्
यज्ञा-यज्ञा वः समना तुतुर्वणिर् धियꣳ-धियꣳ वो देवया उ दधिध्वे । आ वो ऽर्वाचः सुविताय रोदस्योर् महे ववृत्याम् अवसे सुवृक्तिभिः
वव्रासो न ये स्वजाः स्वतवस इषꣳ स्वर् अभिजायन्त धूतयः । सहस्रियासो अपाꣳ नोर्मय आसा गावो वन्द्यासो नोक्षणः
सोमासो न ये सुतास् तृप्ताꣳशवो हृत्सु पीतासो दुवसो नासते । ऐषाम् अꣳसेषु रम्भिणीव रारभे हस्तेषु खादिश् च कृतिश् च सꣳ दधे
अव स्वयुक्ता दिव आ वृथा ययुर् अमर्त्याः कशया चोदत त्मना । अरेणवस् तुविजाता अचुच्यवुर् दृळ्हानि चिन् मरुतो भ्राजदृष्टयः
को वो ऽन्तर् मरुत ऋष्टिविद्युतो रेजति त्मना हन्वेव जिह्वया । धन्वच्युत इषाꣳ न यामनि पुरुप्रैषा अहन्यो३ नैतशः
क्व स्विद् अस्य रजसो महस् परꣳ क्वावरम् मरुतो यस्मिन्न् आयय । यच् च्यावयथ विथुरेव सꣳहितꣳ व्य् अद्रिणा पतथ त्वेषम् अर्णवम्
सातिर् न वो ऽमवती स्वर्वती त्वेषा विपाका मरुतः पिपिष्वती । भद्रा वो रातिः पृणतो न दक्षिणा पृथुज्रयी असुर्येव जञ्जती
प्रति ष्टोभन्ति सिन्धवः पविभ्यो यद् अभ्रियाꣳ वाचम् उदीरयन्ति । अव स्मयन्त विद्युतः पृथिव्याꣳ यदी घृतम् मरुतः प्रुष्णुवन्ति
असूत पृश्निर् महते रणाय त्वेषम् अयासाम् मरुताम् अनीकम् । ते सप्सरासो ऽजनयन्ताभ्वम् आद् इत् स्वधाम् इषिराम् पर्य् अपश्यन्
एष वः स्तोमो मरुत इयꣳ गीर् मान्दार्यस्य मान्यस्य कारोः । एषा यासीष्ट तन्वे वयाꣳ विद्यामेषꣳ वृजनꣳ जीरदानुम्
महश् चित् त्वम् इन्द्र यत एतान् महश् चिद् असि त्यजसो वरूता । स नो वेधो मरुताꣳ चिकित्वान् सुम्ना वनुष्व तव हि प्रेष्ठा
अयुज्रन् त इन्द्र विश्वकृष्टीर् विदानासो निष्षिधो मर्त्यत्रा । मरुताम् पृत्सुतिर् हासमाना स्वर्मीळ्हस्य प्रधनस्य सातौ
अम्यक् सा त इन्द्र ऋष्टिर् अस्मे सनेम्य् अभ्वम् मरुतो जुनन्ति । अग्निश् चिद् धि ष्मातसे शुशुक्वान् आपो न द्वीपꣳ दधति प्रयाꣳसि
त्वꣳ तू न इन्द्र तꣳ रयिꣳ दा ओजिष्ठया दक्षिणयेव रातिम् । स्तुतश् च यास् ते चकनन्त वायोः स्तनꣳ न मध्वः पीपयन्त वाजैः
त्वे राय इन्द्र तोशतमाः प्रणेतारः कस्य चिद् ऋतायोः । ते षु णो मरुतो मृळयन्तु ये स्मा पुरा गातूयन्तीव देवाः
प्रति प्र याहीन्द्र मीळ्हुषो नॄन् महः पार्थिवे सदने यतस्व । अध यद् एषाम् पृथुबुध्नास एतास् तीर्थे नार्यः पौꣳस्यानि तस्थुः
प्रति घोराणाम् एतानाम् अयासाम् मरुताꣳ शृण्व आयताम् उपब्दिः । ये मर्त्यम् पृतनायन्तम् ऊमैर् ऋणावानꣳ न पतयन्त सर्गैः
त्वम् मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः । स्तवानेभिः स्तवसे देव देवैर् विद्यामेषꣳ वृजनꣳ जीरदानुम्
न नूनम् अस्ति नो श्वः कस् तद् वेद यद् अद्भुतम् । अन्यस्य चित्तम् अभि सꣳचरेण्यम् उताधीतꣳ वि नश्यति
किꣳ न इन्द्र जिघाꣳससि भ्रातरो मरुतस् तव । तेभिः कल्पस्व साधुया मा नः समरणे वधीः
किꣳ नो भ्रातर् अगस्त्य सखा सन्न् अति मन्यसे । विद्मा हि ते यथा मनो ऽस्मभ्यम् इन् न दित्ससि
अरꣳ कृण्वन्तु वेदिꣳ सम् अग्निम् इन्धताम् पुरः । तत्रामृतस्य चेतनꣳ यज्ञꣳ ते तनवावहै
त्वम् ईशिषे वसुपते वसूनाꣳ त्वम् मित्राणाम् मित्रपते धेष्ठः । इन्द्र त्वम् मरुद्भिः सꣳ वदस्वाध प्राशान ऋतुथा हवीꣳषि
प्रति व एना नमसाहम् एमि सूक्तेन भिक्षे सुमतिꣳ तुराणाम् । रराणता मरुतो वेद्याभिर् नि हेळो धत्त वि मुचध्वम् अश्वान्
एष वः स्तोमो मरुतो नमस्वान् हृदा तष्टो मनसा धायि देवाः । उपेम् आ यात मनसा जुषाणा यूयꣳ हि ष्ठा नमस इद् वृधासः
स्तुतासो नो मरुतो मृळयन्तूत स्तुतो मघवा शम्भविष्ठः । ऊर्ध्वा नः सन्तु कोम्या वनान्य् अहानि विश्वा मरुतो जिगीषा
अस्माद् अहꣳ तविषाद् ईषमाण इन्द्राद् भिया मरुतो रेजमानः । युष्मभ्यꣳ हव्या निशितान्य् आसन् तान्य् आरे चकृमा मृळता नः
येन मानासश् चितयन्त उस्रा व्युष्टिषु शवसा शश्वतीनाम् । स नो मरुद्भिर् वृषभ श्रवो धा उग्र उग्रेभिः स्थविरः सहोदाः
त्वम् पाहीन्द्र सहीयसो नॄन् भवा मरुद्भिर् अवयातहेळाः । सुप्रकेतेभिः सासहिर् दधानो विद्यामेषꣳ वृजनꣳ जीरदानुम्
चित्रो वो ऽस्तु यामश् चित्र ऊती सुदानवः । मरुतो अहिभानवः
आरे सा वः सुदानवो मरुत ऋञ्जती शरुः । आरे अश्मा यम् अस्यथ
तृणस्कन्दस्य नु विशः परि वृङ्क्त सुदानवः । ऊर्ध्वान् नः कर्त जीवसे
गायत् साम नभन्य१ꣳ यथा वेर् अर्चाम तद् वावृधानꣳ स्वर्वत् । गावो धेनवो बर्हिष्य् अदब्धा आ यत् सद्मानꣳ दिव्यꣳ विवासान्
अर्चद् वृषा वृषभिः स्वेदुहव्यैर् मृगो नाश्नो अति यज् जुगुर्यात् । प्र मन्दयुर् मनाꣳ गूर्त होता भरते मर्यो मिथुना यजत्रः
नक्षद् धोता परि सद्म मिता यन् भरद् गर्भम् आ शरदः पृथिव्याः । क्रन्दद् अश्वो नयमानो रुवद् गौर् अन्तर् दूतो न रोदसी चरद् वाक्
ता कर्माषतरास्मै प्र च्यौत्नानि देवयन्तो भरन्ते । जुजोषद् इन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः
तम् उ ष्टुहीन्द्रꣳ यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः । प्रतीचश् चिद् योधीयान् वृषण्वान् ववव्रुषश् चित् तमसो विहन्ता
प्र यद् इत्था महिना नृभ्यो अस्त्य् अरꣳ रोदसी कक्ष्ये३ नास्मै । सꣳ विव्य इन्द्रो वृजनꣳ न भूमा भर्ति स्वधावाꣳ ओपशम् इव द्याम्
समत्सु त्वा शूर सताम् उराणम् प्रपथिन्तमम् परितꣳसयध्यै । सजोषस इन्द्रम् मदे क्षोणीः सूरिꣳ चिद् ये अनुमदन्ति वाजैः
एवा हि ते शꣳ सवना समुद्र आपो यत् त आसु मदन्ति देवीः । विश्वा ते अनु जोष्या भूद् गौः सूरीꣳश् चिद् यदि धिषा वेषि जनान्
असाम यथा सुषखाय एन स्वभिष्टयो नराꣳ न शꣳसैः । असद् यथा न इन्द्रो वन्दनेष्ठास् तुरो न कर्म नयमान उक्था
विष्पर्धसो नराꣳ न शꣳसैर् अस्माकासद् इन्द्रो वज्रहस्तः । मित्रायुवो न पूर्पतिꣳ सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः
यज्ञो हि ष्मेन्द्रꣳ कश् चिद् ऋन्धञ् जुहुराणश् चिन् मनसा परियन् । तीर्थे नाच्छा तातृषाणम् ओको दीर्घो न सिध्रम् आ कृणोत्य् अध्वा
मो षू ण इन्द्रात्र पृत्सु देवैर् अस्ति हि ष्मा ते शुष्मिन्न् अवयाः । महश् चिद् यस्य मीळ्हुषो यव्या हविष्मतो मरुतो वन्दते गीः
एष स्तोम इन्द्र तुभ्यम् अस्मे एतेन गातुꣳ हरिवो विदो नः । आ नो ववृत्याः सुविताय देव विद्यामेषꣳ वृजनꣳ जीरदानुम्
त्वꣳ राजेन्द्र ये च देवा रक्षा नॄन् पाह्य् असुर त्वम् अस्मान् । त्वꣳ सत्पतिर् मघवा नस् तरुत्रस् त्वꣳ सत्यो वसवानः सहोदाः
दनो विश इन्द्र मृध्रवाचः सप्त यत् पुरः शर्म शारदीर् दर्त् । ऋणोर् अपो अनवद्यार्णा यूने वृत्रम् पुरुकुत्साय रन्धीः
अजा वृत इन्द्र शूरपत्नीर् द्याꣳ च येभिः पुरुहूत नूनम् । रक्षो अग्निम् अशुषꣳ तूर्वयाणꣳ सिꣳहो न दमे अपाꣳसि वस्तोः
शेषन् नु त इन्द्र सस्मिन् योनौ प्रशस्तये पवीरवस्य मह्ना । सृजद् अर्णाꣳस्य् अव यद् युधा गास् तिष्ठद् धरी धृषता मृष्ट वाजान्
वह कुत्सम् इन्द्र यस्मिञ् चाकन् स्यूमन्यू ऋज्रा वातस्याश्वा । प्र सूरश् चक्रꣳ वृहताद् अभीके ऽभि स्पृधो यासिषद् वज्रबाहुः
जघन्वाꣳ इन्द्र मित्रेरूञ् चोदप्रवृद्धो हरिवो अदाशून् । प्र ये पश्यन्न् अर्यमणꣳ सचायोस् त्वया शूर्ता वहमाना अपत्यम्
रपत् कविर् इन्द्रार्कसातौ क्षाꣳ दासायोपबर्हणीꣳ कः । करत् तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचम् मृधि श्रेत्
सना ता त इन्द्र नव्या आगुः सहो नभो ऽविरणाय पूर्वीः । भिनत् पुरो न भिदो अदेवीर् ननमो वधर् अदेवस्य पीयोः
त्वꣳ धुनिर् इन्द्र धुनिमतीर् ऋणोर् अपः सीरा न स्रवन्तीः । प्र यत् समुद्रम् अति शूर पर्षि पारया तुर्वशꣳ यदुꣳ स्वस्ति
त्वम् अस्माकम् इन्द्र विश्वध स्या अवृकतमो नराꣳ नृपाता । स नो विश्वासाꣳ स्पृधाꣳ सहोदा विद्यामेषꣳ वृजनꣳ जीरदानुम्
मत्स्य् अपायि ते महः पात्रस्येव हरिवो मत्सरो मदः । वृषा ते वृष्ण इन्दुर् वाजी सहस्रसातमः
आ नस् ते गन्तु मत्सरो वृषा मदो वरेण्यः । सहावाꣳ इन्द्र सानसिः पृतनाषाळ् अमर्त्यः
त्वꣳ हि शूरः सनिता चोदयो मनुषो रथम् । सहावान् दस्युम् अव्रतम् ओषः पात्रꣳ न शोचिषा
मुषाय सूर्यꣳ कवे चक्रम् ईशान ओजसा । वह शुष्णाय वधꣳ कुत्सꣳ वातस्याश्वैः
शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः । वृत्रघ्ना वरिवोविदा मꣳसीष्ठा अश्वसातमः
यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ । ताम् अनु त्वा निविदꣳ जोहवीमि विद्यामेषꣳ वृजनꣳ जीरदानुम्
मत्सि नो वस्यईष्टय इन्द्रम् इन्दो वृषा विश । ऋघायमाण इन्वसि शत्रुम् अन्ति न विन्दसि
तस्मिन्न् आ वेशया गिरो य एकश् चर्षणीनाम् । अनु स्वधा यम् उप्यते यवꣳ न चर्कृषद् वृषा
यस्य विश्वानि हस्तयोः पञ्च क्षितीनाꣳ वसु । स्पाशयस्व यो अस्मध्रुग् दिव्येवाशनिर् जहि
असुन्वन्तꣳ समꣳ जहि दूणाशꣳ यो न ते मयः । अस्मभ्यम् अस्य वेदनꣳ दद्धि सूरिश् चिद् ओहते
आवो यस्य द्विबर्हसो ऽर्केषु सानुषग् असत् । आजाव् इन्द्रस्येन्दो प्रावो वाजेषु वाजिनम्
यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ । ताम् अनु त्वा निविदꣳ जोहवीमि विद्यामेषꣳ वृजनꣳ जीरदानुम्
आ चर्षणिप्रा वृषभो जनानाꣳ राजा कृष्टीनाम् पुरुहूत इन्द्रः । स्तुतः श्रवस्यन्न् अवसोप मद्रिग् युक्त्वा हरी वृषणा याह्य् अर्वाङ्
ये ते वृषणो वृषभास इन्द्र ब्रह्मयुजो वृषरथासो अत्याः । ताꣳ आ तिष्ठ तेभिर् आ याह्य् अर्वाङ् हवामहे त्वा सुत इन्द्र सोमे
आ तिष्ठ रथꣳ वृषणꣳ वृषा ते सुतः सोमः परिषिक्ता मधूनि । युक्त्वा वृषभ्याꣳ वृषभ क्षितीनाꣳ हरिभ्याꣳ याहि प्रवतोप मद्रिक्
अयꣳ यज्ञो देवया अयम् मियेध इमा ब्रह्माण्य् अयम् इन्द्र सोमः । स्तीर्णम् बर्हिर् आ तु शक्र प्र याहि पिबा निषद्य वि मुचा हरी इह
ओ सुष्टुत इन्द्र याह्य् अर्वाङ् उप ब्रह्माणि मान्यस्य कारोः । विद्याम वस्तोर् अवसा गृणन्तो विद्यामेषꣳ वृजनꣳ जीरदानुम्
यद् ध स्या त इन्द्र श्रुष्टिर् अस्ति यया बभूथ जरितृभ्य ऊती । मा नः कामम् महयन्तम् आ धग् विश्वा ते अश्याम् पर्य् आप आयोः
न घा राजेन्द्र आ दभन् नो या नु स्वसारा कृणवन्त योनौ । आपश् चिद् अस्मै सुतुका अवेषन् गमन् न इन्द्रः सख्या वयश् च
जेता नृभिर् इन्द्रः पृत्सु शूरः श्रोता हवꣳ नाधमानस्य कारोः । प्रभर्ता रथꣳ दाशुष उपाक उद्यन्ता गिरो यदि च त्मना भूत्
एवा नृभिर् इन्द्रः सुश्रवस्या प्रखादः पृक्षो अभि मित्रिणो भूत् । समर्य इषः स्तवते विवाचि सत्राकरो यजमानस्य शꣳसः
त्वया वयम् मघवन्न् इन्द्र शत्रून् अभि ष्याम महतो मन्यमानान् । त्वꣳ त्राता त्वम् उ नो वृधे भूर् विद्यामेषꣳ वृजनꣳ जीरदानुम्
पूर्वीर् अहꣳ शरदः शश्रमाणा दोषा वस्तोर् उषसो जरयन्तीः । मिनाति श्रियꣳ जरिमा तनूनाम् अप्य् ऊ नु पत्नीर् वृषणो जगम्युः
ये चिद् धि पूर्व ऋतसाप आसन् साकꣳ देवेभिर् अवदन्न् ऋतानि । ते चिद् अवासुर् नह्य् अन्तम् आपुः सम् ऊ नु पत्नीर् वृषभिर् जगम्युः
न मृषा श्रान्तꣳ यद् अवन्ति देवा विश्वा इत् स्पृधो अभ्य् अश्नवाव । जयावेद् अत्र शतनीथम् आजिꣳ यत् सम्यञ्चा मिथुनाव् अभ्य् अजाव
नदस्य मा रुधतः काम आगन्न् इत आजातो अमुतः कुतश् चित् । लोपामुद्रा वृषणꣳ नी रिणाति धीरम् अधीरा धयति श्वसन्तम्
इमꣳ नु सोमम् अन्तितो हृत्सु पीतम् उप ब्रुवे । यत् सीम् आगश् चकृमा तत् सु मृळतु पुलुकामो हि मर्त्यः
अगस्त्यः खनमानः खनित्रैः प्रजाम् अपत्यम् बलम् इच्छमानः । उभौ वर्णाव् ऋषिर् उग्रः पुपोष सत्या देवेष्व् आशिषो जगाम
युवो रजाꣳसि सुयमासो अश्वा रथो यद् वाम् पर्य् अर्णाꣳसि दीयत् । हिरण्यया वाम् पवयः प्रुषायन् मध्वः पिबन्ता उषसः सचेथे
युवम् अत्यस्याव नक्षथो यद् विपत्मनो नर्यस्य प्रयज्योः । स्वसा यद् वाꣳ विश्वगूर्ती भराति वाजायेट्टे मधुपाव् इषे च
युवम् पय उस्रियायाम् अधत्तम् पक्वम् आमायाम् अव पूर्व्यꣳ गोः । अन्तर् यद् वनिनो वाम् ऋतप्सू ह्वारो न शुचिर् यजते हविष्मान्
युवꣳ ह घर्मम् मधुमन्तम् अत्रये ऽपो न क्षोदो ऽवृणीतम् एषे । तद् वाꣳ नराव् अश्विना पश्वईष्टी रथ्येव चक्रा प्रति यन्ति मध्वः
आ वाꣳ दानाय ववृतीय दस्रा गोर् ओहेण तौग्र्यो न जिव्रिः । अपः क्षोणी सचते माहिना वाꣳ जूर्णो वाम् अक्षुर् अꣳहसो यजत्रा
नि यद् युवेथे नियुतः सुदानू उप स्वधाभिः सृजथः पुरꣳधिम् । प्रेषद् वेषद् वातो न सूरिर् आ महे ददे सुव्रतो न वाजम्
वयꣳ चिद् धि वाꣳ जरितारः सत्या विपन्यामहे वि पणिर् हितावान् । अधा चिद् धि ष्माश्विनाव् अनिन्द्या पाथो हि ष्मा वृषणाव् अन्तिदेवम्
युवाꣳ चिद् धि ष्माश्विनाव् अनु द्यून् विरुद्रस्य प्रस्रवणस्य सातौ । अगस्त्यो नराꣳ नृषु प्रशस्तः काराधुनीव चितयत् सहस्रैः
प्र यद् वहेथे महिना रथस्य प्र स्यन्द्रा याथो मनुषो न होता । धत्तꣳ सूरिभ्य उत वा स्वश्व्यꣳ नासत्या रयिषाचः स्याम
तꣳ वाꣳ रथꣳ वयम् अद्या हुवेम स्तोमैर् अश्विना सुविताय नव्यम् । अरिष्टनेमिम् परि द्याम् इयानꣳ विद्यामेषꣳ वृजनꣳ जीरदानुम्
कद् उ प्रेष्टाव् इषाꣳ रयीणाम् अध्वर्यन्ता यद् उन्निनीथो अपाम् । अयꣳ वाꣳ यज्ञो अकृत प्रशस्तिꣳ वसुधिती अवितारा जनानाम्
आ वाम् अश्वासः शुचयः पयस्पा वातरꣳहसो दिव्यासो अत्याः । मनोजुवो वृषणो वीतपृष्ठा एह स्वराजो अश्विना वहन्तु
आ वाꣳ रथो ऽवनिर् न प्रवत्वान् सृप्रवन्धुरः सुविताय गम्याः । वृष्णः स्थातारा मनसो जवीयान् अहम्पूर्वो यजतो धिष्ण्या यः
इहेह जाता सम् अवावशीताम् अरेपसा तन्वा३ नामभिः स्वैः । जिष्णुर् वाम् अन्यः सुमखस्य सूरिर् दिवो अन्यः सुभगः पुत्र ऊहे
प्र वाꣳ निचेरुः ककुहो वशाꣳ अनु पिशङ्गरूपः सदनानि गम्याः । हरी अन्यस्य पीपयन्त वाजैर् मथ्रा रजाꣳस्य् अश्विना वि घोषैः
प्र वाꣳ शरद्वान् वृषभो न निष्षाट् पूर्वीर् इषश् चरति मध्व इष्णन् । एवैर् अन्यस्य पीपयन्त वाजैर् वेषन्तीर् ऊर्ध्वा नद्यो न आगुः
असर्जि वाꣳ स्थविरा वेधसा गीर् बाळ्हे अश्विना त्रेधा क्षरन्ती । उपस्तुताव् अवतꣳ नाधमानꣳ यामन्न् अयामञ् छृणुतꣳ हवम् मे
उत स्या वाꣳ रुशतो वप्ससो गीस् त्रिबर्हिषि सदसि पिन्वते नॄन् । वृषा वाम् मेघो वृषणा पीपाय गोर् न सेके मनुषो दशस्यन्
युवाम् पूषेवाश्विना पुरꣳधिर् अग्निम् उषाꣳ न जरते हविष्मान् । हुवे यद् वाꣳ वरिवस्या गृणानो विद्यामेषꣳ वृजनꣳ जीरदानुम्
अभूद् इदꣳ वयुनम् ओ षु भूषता रथो वृषण्वान् मदता मनीषिणः । धियꣳजिन्वा धिष्ण्या विश्पलावसू दिवो नपाता सुकृते शुचिव्रता
इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दꣳसिष्ठा रथ्या रथीतमा । पूर्णꣳ रथꣳ वहेथे मध्व आचितꣳ तेन दाश्वाꣳसम् उप याथो अश्विना
किम् अत्र दस्रा कृणुथः किम् आसाथे जनो यः कश् चिद् अहविर् महीयते । अति क्रमिष्टꣳ जुरतम् पणेर् असुꣳ ज्योतिर् विप्राय कृणुतꣳ वचस्यवे
जम्भयतम् अभितो रायतः शुनो हतम् मृधो विदथुस् तान्य् अश्विना । वाचꣳ-वाचꣳ जरितू रत्निनीꣳ कृतम् उभा शꣳसꣳ नासत्यावतम् मम
युवम् एतꣳ चक्रथुः सिन्धुषु प्लवम् आत्मन्वन्तम् पक्षिणꣳ तौग्र्याय कम् । येन देवत्रा मनसा निरूहथुः सुपप्तनी पेतथुः क्षोदसो महः
अवविद्धꣳ तौग्र्यम् अप्स्व् अ१न्तर् अनारम्भणे तमसि प्रविद्धम् । चतस्रो नावो जठलस्य जुष्टा उद् अश्विभ्याम् इषिताः पारयन्ति
कः स्विद् वृक्षो निष्ठितो मध्ये अर्णसो यꣳ तौग्र्यो नाधितः पर्यषस्वजत् । पर्णा मृगस्य पतरोर् इवारभ उद् अश्विना ऊहथुः श्रोमताय कम्
तद् वाꣳ नरा नासत्याव् अनु ष्याद् यद् वाम् मानास उचथम् अवोचन् । अस्माद् अद्य सदसः सोम्याद् आ विद्यामेषꣳ वृजनꣳ जीरदानुम्
तꣳ युञ्जाथाम् मनसो यो जवीयान् त्रिवन्धुरो वृषणा यस् त्रिचक्रः । येनोपयाथः सुकृतो दुरोणꣳ त्रिधातुना पतथो विर् न पर्णैः
सुवृद् रथो वर्तते यन्न् अभि क्षाꣳ यत् तिष्ठथः क्रतुमन्तानु पृक्षे । वपुर् वपुष्या सचताम् इयꣳ गीर् दिवो दुहित्रोषसा सचेथे
आ तिष्ठतꣳ सुवृतꣳ यो रथो वाम् अनु व्रतानि वर्तते हविष्मान् । येन नरा नासत्येषयध्यै वर्तिर् याथस् तनयाय त्मने च
मा वाꣳ वृको मा वृकीर् आ दधर्षीन् मा परि वर्क्तम् उत माति धक्तम् । अयꣳ वाम् भागो निहित इयꣳ गीर् दस्राव् इमे वाꣳ निधयो मधूनाम्
युवाꣳ गोतमः पुरुमीळ्हो अत्रिर् दस्रा हवते ऽवसे हविष्मान् । दिशꣳ न दिष्टाम् ऋजूयेव यन्ता मे हवꣳ नासत्योप यातम्
अतारिष्म तमसस् पारम् अस्य प्रति वाꣳ स्तोमो अश्विनाव् अधायि । एह यातम् पथिभिर् देवयानैर् विद्यामेषꣳ वृजनꣳ जीरदानुम्
ता वाम् अद्य ताव् अपरꣳ हुवेमोच्छन्त्याम् उषसि वह्निर् उक्थैः । नासत्या कुह चित् सन्ताव् अर्यो दिवो नपाता सुदास्तराय
अस्मे ऊ षु वृषणा मादयेथाम् उत् पणीꣳर् हतम् ऊर्म्या मदन्ता । श्रुतम् मे अच्छोक्तिभिर् मतीनाम् एष्टा नरा निचेतारा च कर्णैः
श्रिये पूषन्न् इषुकृतेव देवा नासत्या वहतुꣳ सूर्यायाः । वच्यन्ते वाꣳ ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः
अस्मे सा वाम् माध्वी रातिर् अस्तु स्तोमꣳ हिनोतम् मान्यस्य कारोः । अनु यद् वाꣳ श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति
एष वाꣳ स्तोमो अश्विनाव् अकारि मानेभिर् मघवाना सुवृक्ति । यातꣳ वर्तिस् तनयाय त्मने चागस्त्ये नासत्या मदन्ता
अतारिष्म तमसस् पारम् अस्य प्रति वाꣳ स्तोमो अश्विनाव् अधायि । एह यातम् पथिभिर् देवयानैर् विद्यामेषꣳ वृजनꣳ जीरदानुम्
कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद । विश्वꣳ त्मना बिभृतो यद् ध नाम वि वर्तेते अहनी चक्रियेव
भूरिꣳ द्वे अचरन्ती चरन्तम् पद्वन्तꣳ गर्भम् अपदी दधाते । नित्यꣳ न सूनुम् पित्रोर् उपस्थे द्यावा रक्षतम् पृथिवी नो अभ्वात्
अनेहो दात्रम् अदितेर् अनर्वꣳ हुवे स्वर्वद् अवधꣳ नमस्वत् । तद् रोदसी जनयतꣳ जरित्रे द्यावा रक्षतम् पृथिवी नो अभ्वात्
अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे । उभे देवानाम् उभयेभिर् अह्नाꣳ द्यावा रक्षतम् पृथिवी नो अभ्वात्
सꣳगच्छमाने युवती समन्ते स्वसारा जामी पित्रोर् उपस्थे । अभिजिघ्रन्ती भुवनस्य नाभिꣳ द्यावा रक्षतम् पृथिवी नो अभ्वात्
उर्वी सद्मनी बृहती ऋतेन हुवे देवानाम् अवसा जनित्री । दधाते ये अमृतꣳ सुप्रतीके द्यावा रक्षतम् पृथिवी नो अभ्वात्
उर्वी पृथ्वी बहुले दूरेअन्ते उप ब्रुवे नमसा यज्ञे अस्मिन् । दधाते ये सुभगे सुप्रतूर्ती द्यावा रक्षतम् पृथिवी नो अभ्वात्
देवान् वा यच् चकृमा कच् चिद् आगः सखायꣳ वा सदम् इज् जास्पतिꣳ वा । इयꣳ धीर् भूया अवयानम् एषाꣳ द्यावा रक्षतम् पृथिवी नो अभ्वात्
उभा शꣳसा नर्या माम् अविष्टाम् उभे माम् ऊती अवसा सचेताम् । भूरि चिद् अर्यः सुदास्तरायेषा मदन्त इषयेम देवाः
ऋतꣳ दिवे तद् अवोचम् पृथिव्या अभिश्रावाय प्रथमꣳ सुमेधाः । पाताम् अवद्याद् दुरिताद् अभीके पिता माता च रक्षताम् अवोभिः
इदꣳ द्यावापृथिवी सत्यम् अस्तु पितर् मातर् यद् इहोपब्रुवे वाम् । भूतꣳ देवानाम् अवमे अवोभिर् विद्यामेषꣳ वृजनꣳ जीरदानुम्
आ न इळाभिर् विदथे सुशस्ति विश्वानरः सविता देव एतु । अपि यथा युवानो मत्सथा नो विश्वꣳ जगद् अभिपित्वे मनीषा
आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः । भुवन् यथा नो विश्वे वृधासः करन् सुषाहा विथुरꣳ न शवः
प्रेष्ठꣳ वो अतिथिꣳ गृणीषे ऽग्निꣳ शस्तिभिस् तुर्वणिः सजोषाः । असद् यथा नो वरुणः सुकीर्तिर् इषश् च पर्षद् अरिगूर्तः सूरिः
उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः । समाने अहन् विमिमानो अर्कꣳ विषुरूपे पयसि सस्मिन्न् ऊधन्
उत नो ऽहिर् बुध्न्यो३ मयस् कः शिशुꣳ न पिप्युषीव वेति सिन्धुः । येन नपातम् अपाꣳ जुनाम मनोजुवो वृषणो यꣳ वहन्ति
उत न ईꣳ त्वष्टा गन्त्व् अच्छा स्मत् सूरिभिर् अभिपित्वे सजोषाः । आ वृत्रहेन्द्रश् चर्षणिप्रास् तुविष्टमो नराꣳ न इह गम्याः
उत न ईम् मतयो ऽश्वयोगाः शिशुꣳ न गावस् तरुणꣳ रिहन्ति । तम् ईꣳ गिरो जनयो न पत्नीः सुरभिष्टमꣳ नराꣳ नसन्त
उत न ईम् मरुतो वृद्धसेनाः स्मद् रोदसी समनसः सदन्तु । पृषदश्वासो ऽवनयो न रथा रिशादसो मित्रयुजो न देवाः
प्र नु यद् एषाम् महिना चिकित्रे प्र युञ्जते प्रयुजस् ते सुवृक्ति । अध यद् एषाꣳ सुदिने न शरुर् विश्वम् एरिणम् प्रुषायन्त सेनाः
प्रो अश्विनाव् अवसे कृणुध्वम् प्र पूषणꣳ स्वतवसो हि सन्ति । अद्वेषो विष्णुर् वात ऋभुक्षा अच्छा सुम्नाय ववृतीय देवान्
इयꣳ सा वो अस्मे दीधितिर् यजत्रा अपिप्राणी च सदनी च भूयाः । नि या देवेषु यतते वसूयुर् विद्यामेषꣳ वृजनꣳ जीरदानुम्
पितुꣳ नु स्तोषम् महो धर्माणꣳ तविषीम् । यस्य त्रितो व्य् ओजसा वृत्रꣳ विपर्वम् अर्दयत्
स्वादो पितो मधो पितो वयꣳ त्वा ववृमहे । अस्माकम् अविता भव
उप नः पितव् आ चर शिवः शिवाभिर् ऊतिभिः । मयोभुर् अद्विषेण्यः सखा सुशेवो अद्वयाः
तव त्ये पितो रसा रजाꣳस्य् अनु विष्ठिताः । दिवि वाता इव श्रिताः
तव त्ये पितो ददतस् तव स्वादिष्ठ ते पितो । प्र स्वाद्मानो रसानाꣳ तुविग्रीवा इवेरते
त्वे पितो महानाꣳ देवानाम् मनो हितम् । अकारि चारु केतुना तवाहिम् अवसावधीत्
यद् अदो पितो अजगन् विवस्व पर्वतानाम् । अत्रा चिन् नो मधो पितो ऽरम् भक्षाय गम्याः
यद् अपाम् ओषधीनाम् परिꣳशम् आरिशामहे । वातापे पीव इद् भव
यत् ते सोम गवाशिरो यवाशिरो भजामहे । वातापे पीव इद् भव
करम्भ ओषधे भव पीवो वृक्क उदारथिः । वातापे पीव इद् भव
तꣳ त्वा वयम् पितो वचोभिर् गावो न हव्या सुषूदिम । देवेभ्यस् त्वा सधमादम् अस्मभ्यꣳ त्वा सधमादम्
समिद्धो अद्य राजसि देवो देवैः सहस्रजित् । दूतो हव्या कविर् वह
तनूनपाद् ऋतꣳ यते मध्वा यज्ञः सम् अज्यते । दधत् सहस्रिणीर् इषः
आजुह्वानो न ईड्यो देवाꣳ आ वक्षि यज्ञियान् । अग्ने सहस्रसा असि
प्राचीनम् बर्हिर् ओजसा सहस्रवीरम् अस्तृणन् । यत्रादित्या विराजथ
विराट् सम्राड् विभ्वीः प्रभ्वीर् बह्वीश् च भूयसीश् च याः । दुरो घृतान्य् अक्षरन्
सुरुक्मे हि सुपेशसाधि श्रिया विराजतः । उषासाव् एह सीदताम्
प्रथमा हि सुवाचसा होतारा दैव्या कवी । यज्ञꣳ नो यक्षताम् इमम्
भारतीळे सरस्वति या वः सर्वा उपब्रुवे । ता नश् चोदयत श्रिये
त्वष्टा रूपाणि हि प्रभुः पशून् विश्वान् समानजे । तेषाꣳ नः स्फातिम् आ यज
उप त्मन्या वनस्पते पाथो देवेभ्यः सृज । अग्निर् हव्यानि सिष्वदत्
पुरोगा अग्निर् देवानाꣳ गायत्रेण सम् अज्यते । स्वाहाकृतीषु रोचते
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्य् अ१स्मज् जुहुराणम् एनो भूयिष्ठाꣳ ते नमüक्तिꣳ विधेम
अग्ने त्वम् पारया नव्यो अस्मान् स्वस्तिभिर् अति दुर्गाणि विश्वा । पूश् च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शꣳ योः
अग्ने त्वम् अस्मद् युयोध्य् अमीवा अनग्नित्रा अभ्य् अमन्त कृष्टीः । पुनर् अस्मभ्यꣳ सुविताय देव क्षाꣳ विश्वेभिर् अमृतेभिर् यजत्र
पाहि नो अग्ने पायुभिर् अजस्रैर् उत प्रिये सदन आ शुशुक्वान् । मा ते भयꣳ जरितारꣳ यविष्ठ नूनꣳ विदन् मापरꣳ सहस्वः
मा नो अग्ने ऽव सृजो अघायाविष्यवे रिपवे दुच्छुनायै । मा दत्वते दशते मादते नो मा रीषते सहसावन् परा दाः
वि घ त्वावाꣳ ऋतजात यꣳसद् गृणानो अग्ने तन्वे३ वरूथम् । विश्वाद् रिरिक्षोर् उत वा निनित्सोर् अभिह्रुताम् असि हि देव विष्पट्
त्वꣳ ताꣳ अग्न उभयान् वि विद्वान् वेषि प्रपित्वे मनुषो यजत्र । अभिपित्वे मनवे शास्यो भूर् मर्मृजेन्य उशिग्भिर् नाक्रः
अवोचाम निवचनान्य् अस्मिन् मानस्य सूनुः सहसाने अग्नौ । वयꣳ सहस्रम् ऋषिभिः सनेम विद्यामेषꣳ वृजनꣳ जीरदानुम्
अनर्वाणꣳ वृषभम् मन्द्रजिह्वम् बृहस्पतिꣳ वर्धया नव्यम् अर्कैः । गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः
तम् ऋत्विया उप वाचः सचन्ते सर्गो न यो देवयताम् असर्जि । बृहस्पतिः स ह्य् अञ्जो वराꣳसि विभ्वाभवत् सम् ऋते मातरिश्वा
उपस्तुतिꣳ नमस उद्यतिꣳ च श्लोकꣳ यꣳसत् सवितेव प्र बाहू । अस्य क्रत्वाहन्यो३ यो अस्ति मृगो न भीमो अरक्षसस् तुविष्मान्
अस्य श्लोको दिवीयते पृथिव्याम् अत्यो न यꣳसद् यक्षभृद् विचेताः । मृगाणाꣳ न हेतयो यन्ति चेमा बृहस्पतेर् अहिमायाꣳ अभि द्यून्
ये त्वा देवोस्रिकम् मन्यमानाः पापा भद्रम् उपजीवन्ति पज्राः । न दूढ्ये३ अनु ददासि वामम् बृहस्पते चयस इत् पियारुम्
सुप्रैतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः । अनर्वाणो अभि ये चक्षते नो ऽपीवृता अपोर्णुवन्तो अस्थुः
सꣳ यꣳ स्तुभो ऽवनयो न यन्ति समुद्रꣳ न स्रवतो रोधचक्राः । स विद्वाꣳ उभयꣳ चष्टे अन्तर् बृहस्पतिस् तर आपश् च गृध्रः
एवा महस् तुविजातस् तुविष्मान् बृहस्पतिर् वृषभो धायि देवः । स नः स्तुतो वीरवद् धातु गोमद् विद्यामेषꣳ वृजनꣳ जीरदानुम्
कङ्कतो न कङ्कतो ऽथो सतीनकङ्कतः । द्वाव् इति प्लुषी इति न्य् अ१दृष्टा अलिप्सत
अदृष्टान् हन्त्य् आयत्य् अथो हन्ति परायती । अथो अवघ्नती हन्त्य् अथो पिनष्टि पिꣳषती
शरासः कुशरासो दर्भासः सैर्या उत । मौञ्जा अदृष्टा वैरिणाः सर्वे साकꣳ न्य् अलिप्सत
नि गावो गोष्ठे असदन् नि मृगासो अविक्षत । नि केतवो जनानाꣳ न्य् अ१दृष्टा अलिप्सत
एत उ त्ये प्रत्य् अदृश्रन् प्रदोषꣳ तस्करा इव । अदृष्टा विश्वदृष्टाः प्रतिबुद्धा अभूतन
द्यौर् वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा । अदृष्टा विश्वदृष्टास् तिष्ठतेलयता सु कम्
ये अꣳस्या ये अङ्ग्याः सूचीका ये प्रकङ्कताः । अदृष्टाः किꣳ चनेह वः सर्वे साकꣳ नि जस्यत
उत् पुरस्तात् सूर्य एति विश्वदृष्टो अदृष्टहा । अदृष्टान् सर्वाञ् जम्भयन् सर्वाश् च यातुधान्यः
उद् अपप्तद् असौ सूर्यः पुरु विश्वानि जूर्वन् । आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा
सूर्ये विषम् आ सजामि दृतिꣳ सुरावतो गृहे । सो चिन् नु न मराति नो वयम् मरामारे अस्य योजनꣳ हरिष्ठा मधु त्वा मधुला चकार
इयत्तिका शकुन्तिका सका जघास ते विषम् । सो चिन् नु न मराति नो वयम् मरामारे अस्य योजनꣳ हरिष्ठा मधु त्वा मधुला चकार
त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यम् अक्षन् । ताश् चिन् नु न मरन्ति नो वयम् मरामारे अस्य योजनꣳ हरिष्ठा मधु त्वा मधुला चकार
नवानाꣳ नवतीनाꣳ विषस्य रोपुषीणाम् । सर्वासाम् अग्रभꣳ नामारे अस्य योजनꣳ हरिष्ठा मधु त्वा मधुला चकार
त्रिः सप्त मयूर्यः सप्त स्वसारो अग्रुवः । तास् ते विषꣳ वि जभ्रिर उदकꣳ कुम्भिनीर् इव
इयत्तकः कुषुम्भकस् तकम् भिनद्म्य् अश्मना । ततो विषम् प्र वावृते पराचीर् अनु सꣳवतः
कुषुम्भकस् तद् अब्रवीद् गिरेः प्रवर्तमानकः । वृश्चिकस्यारसꣳ विषम् अरसꣳ वृश्चिक ते विषम्
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ṚṢIS). Ṛgveda Saṃhitā — Maṇḍala 1. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/rgveda-mandala-1>. Acesso em: 26/04/2026.
Tradição Védica (Ṛṣis) (2026). Ṛgveda Saṃhitā — Maṇḍala 1. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/rgveda-mandala-1
Tradição Védica (Ṛṣis). "Ṛgveda Saṃhitā — Maṇḍala 1." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/rgveda-mandala-1.