Ṛgveda Saṃhitā — Maṇḍala 3
Tradição Védica (Ṛṣis)
मण्डल ३ सोमस्य मा तवसꣳ वक्ष्य् अग्ने वह्निꣳ चकर्थ विदथे यजध्यै । देवाꣳ अच्छा दीद्यद् युञ्जे अद्रिꣳ शमाये अग्ने तन्वꣳ जुषस्व
प्राञ्चꣳ यज्ञꣳ चकृम वर्धताꣳ गीः समिद्भिर् अग्निꣳ नमसा दुवस्यन् । दिवः शशासुर् विदथा कवीनाꣳ गृत्साय चित् तवसे गातुम् ईषुः
मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर् जनुषा पृथिव्याः । अविन्दन्न् उ दर्शतम् अप्स्व् अ१न्तर् देवासो अग्निम् अपसि स्वसॄणाम्
अवर्धयन् सुभगꣳ सप्त यह्वीः श्वेतꣳ जज्ञानम् अरुषम् महित्वा । शिशुꣳ न जातम् अभ्य् आरुर् अश्वा देवासो अग्निꣳ जनिमन् वपुष्यन्
शुक्रेभिर् अङ्गै रज आततन्वान् क्रतुम् पुनानः कविभिः पवित्रैः । शोचिर् वसानः पर्य् आयुर् अपाꣳ श्रियो मिमीते बृहतीर् अनूनाः
वव्राजा सीम् अनदतीर् अदब्धा दिवो यह्वीर् अवसाना अनग्नाः । सना अत्र युवतयः सयोनीर् एकꣳ गर्भꣳ दधिरे सप्त वाणीः
स्तीर्णा अस्य सꣳहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम् । अस्थुर् अत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची
बभ्राणः सूनो सहसो व्य् अद्यौद् दधानः शुक्रा रभसा वपूꣳषि । श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन
पितुश् चिद् ऊधर् जनुषा विवेद व्य् अस्य धारा असृजद् वि धेनाः । गुहा चरन्तꣳ सखिभिः शिवेभिर् दिवो यह्वीभिर् न गुहा बभूव
पितुश् च गर्भꣳ जनितुश् च बभ्रे पूर्वीर् एको अधयत् पीप्यानाः । वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये३ नि पाहि
उरौ महाꣳ अनिबाधे ववर्धापो अग्निꣳ यशसः सꣳ हि पूर्वीः । ऋतस्य योनाव् अशयद् दमूना जामीनाम् अग्निर् अपसि स्वसॄणाम्
अक्रो न बभ्रिः समिथे महीनाꣳ दिदृक्षेयः सूनवे भाऋजीकः । उद् उस्रिया जनिता यो जजानापाꣳ गर्भो नृतमो यह्वो अग्निः
अपाꣳ गर्भꣳ दर्शतम् ओषधीनाꣳ वना जजान सुभगा विरूपम् । देवासश् चिन् मनसा सꣳ हि जग्मुः पनिष्ठꣳ जातꣳ तवसꣳ दुवस्यन्
बृहन्त इद् भानवो भाऋजीकम् अग्निꣳ सचन्त विद्युतो न शुक्राः । गुहेव वृद्धꣳ सदसि स्वे अन्तर् अपार ऊर्वे अमृतꣳ दुहानाः
ईळे च त्वा यजमानो हविर्भिर् ईळे सखित्वꣳ सुमतिꣳ निकामः । देवैर् अवो मिमीहि सꣳ जरित्रे रक्षा च नो दम्येभिर् अनीकैः
उपक्षेतारस् तव सुप्रणीते ऽग्ने विश्वानि धन्या दधानाः । सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूꣳर् अदेवान्
आ देवानाम् अभवः केतुर् अग्ने मन्द्रो विश्वानि काव्यानि विद्वान् । प्रति मर्ताꣳ अवासयो दमूना अनु देवान् रथिरो यासि साधन्
नि दुरोणे अमृतो मर्त्यानाꣳ राजा ससाद विदथानि साधन् । घृतप्रतीक उर्विया व्य् अद्यौद् अग्निर् विश्वानि काव्यानि विद्वान्
आ नो गहि सख्येभिः शिवेभिर् महान् महीभिर् ऊतिभिः सरण्यन् । अस्मे रयिम् बहुलꣳ सꣳतरुत्रꣳ सुवाचम् भागꣳ यशसꣳ कृधी नः
एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् । महान्ति वृष्णे सवना कृतेमा जन्मञ्-जन्मन् निहितो जातवेदाः
जन्मञ्-जन्मन् निहितो जातवेदा विश्वामित्रेभिर् इध्यते अजस्रः । तस्य वयꣳ सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम
इमꣳ यज्ञꣳ सहसावन् त्वꣳ नो देवत्रा धेहि सुक्रतो रराणः । प्र यꣳसि होतर् बृहतीर् इषो नो ऽग्ने महि द्रविणम् आ यजस्व
इळाम् अग्ने पुरुदꣳसꣳ सनिꣳ गोः शश्वत्तमꣳ हवमानाय साध । स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे
वैश्वानराय धिषणाम् ऋतावृधे घृतꣳ न पूतम् अग्नये जनामसि । द्विता होतारम् मनुषश् च वाघतो धिया रथꣳ न कुलिशः सम् ऋण्वति
स रोचयज् जनुषा रोदसी उभे स मात्रोर् अभवत् पुत्र ईड्यः । हव्यवाळ् अग्निर् अजरश् चनोहितो दूळभो विशाम् अतिथिर् विभावसुः
क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निꣳ जनयन्त चित्तिभिः । रुरुचानम् भानुना ज्योतिषा महाम् अत्यꣳ न वाजꣳ सनिष्यन्न् उप ब्रुवे
आ मन्द्रस्य सनिष्यन्तो वरेण्यꣳ वृणीमहे अह्रयꣳ वाजम् ऋग्मियम् । रातिम् भृगूणाम् उशिजꣳ कविक्रतुम् अग्निꣳ राजन्तꣳ दिव्येन शोचिषा
अग्निꣳ सुम्नाय दधिरे पुरो जना वाजश्रवसम् इह वृक्तबर्हिषः । यतस्रुचः सुरुचꣳ विश्वदेव्यꣳ रुद्रꣳ यज्ञानाꣳ साधदिष्टिम् अपसाम्
पावकशोचे तव हि क्षयम् परि होतर् यज्ञेषु वृक्तबर्हिषो नरः । अग्ने दुव इच्छमानास आप्यम् उपासते द्रविणꣳ धेहि तेभ्यः
आ रोदसी अपृणद् आ स्वर् महज् जातꣳ यद् एनम् अपसो अधारयन् । सो अध्वराय परि णीयते कविर् अत्यो न वाजसातये चनोहितः
नमस्यत हव्यदातिꣳ स्वध्वरꣳ दुवस्यत दम्यꣳ जातवेदसम् । रथीर् ऋतस्य बृहतो विचर्षणिर् अग्निर् देवानाम् अभवत् पुरोहितः
तिस्रो यह्वस्य समिधः परिज्मनो ऽग्नेर् अपुनन्न् उशिजो अमृत्यवः । तासाम् एकाम् अदधुर् मर्त्ये भुजम् उ लोकम् उ द्वे उप जामिम् ईयतुः
विशाꣳ कविꣳ विश्पतिम् मानुषीर् इषः सꣳ सीम् अकृण्वन् स्वधितिꣳ न तेजसे । स उद्वतो निवतो याति वेविषत् स गर्भम् एषु भुवनेषु दीधरत्
स जिन्वते जठरेषु प्रजज्ञिवान् वृषा चित्रेषु नानदन् न सिꣳहः । वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे
वैश्वानरः प्रत्नथा नाकम् आरुहद् दिवस् पृष्ठम् भन्दमानः सुमन्मभिः । स पूर्ववज् जनयञ् जन्तवे धनꣳ समानम् अज्मम् पर्य् एति जागृविः
ऋतावानꣳ यज्ञियꣳ विप्रम् उक्थ्य१म् आ यꣳ दधे मातरिश्वा दिवि क्षयम् । तꣳ चित्रयामꣳ हरिकेशम् ईमहे सुदीतिम् अग्निꣳ सुविताय नव्यसे
शुचिꣳ न यामन्न् इषिरꣳ स्वर्दृशꣳ केतुꣳ दिवो रोचनस्थाम् उषर्बुधम् । अग्निम् मूर्धानꣳ दिवो अप्रतिष्कुतꣳ तम् ईमहे नमसा वाजिनम् बृहत्
मन्द्रꣳ होतारꣳ शुचिम् अद्वयाविनꣳ दमूनसम् उक्थ्यꣳ विश्वचर्षणिम् । रथꣳ न चित्रꣳ वपुषाय दर्शतम् मनुर्हितꣳ सदम् इद् राय ईमहे
वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे । अग्निर् हि देवाꣳ अमृतो दुवस्यत्य् अथा धर्माणि सनता न दूदुषत्
अन्तर् दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः । क्षयम् बृहन्तम् परि भूषति द्युभिर् देवेभिर् अग्निर् इषितो धियावसुः
केतुꣳ यज्ञानाꣳ विदथस्य साधनꣳ विप्रासो अग्निम् महयन्त चित्तिभिः । अपाꣳसि यस्मिन्न् अधि सꣳदधुर् गिरस् तस्मिन् सुम्नानि यजमान आ चके
पिता यज्ञानाम् असुरो विपश्चिताꣳ विमानम् अग्निर् वयुनꣳ च वाघताम् । आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः
चन्द्रम् अग्निꣳ चन्द्ररथꣳ हरिव्रतꣳ वैश्वानरम् अप्सुषदꣳ स्वर्विदम् । विगाहꣳ तूर्णिꣳ तविषीभिर् आवृतम् भूर्णिꣳ देवास इह सुश्रियꣳ दधुः
अग्निर् देवेभिर् मनुषश् च जन्तुभिस् तन्वानो यज्ञम् पुरुपेशसꣳ धिया । रथीर् अन्तर् ईयते साधदिष्टिभिर् जीरो दमूना अभिशस्तिचातनः
अग्ने जरस्व स्वपत्य आयुन्य् ऊर्जा पिन्वस्व सम् इषो दिदीहि नः । वयाꣳसि जिन्व बृहतश् च जागृव उशिग् देवानाम् असि सुक्रतुर् विपाम्
विश्पतिꣳ यह्वम् अतिथिꣳ नरः सदा यन्तारꣳ धीनाम् उशिजꣳ च वाघताम् । अध्वराणाꣳ चेतनꣳ जातवेदसम् प्र शꣳसन्ति नमसा जूतिभिर् वृधे
विभावा देवः सुरणः परि क्षितीर् अग्निर् बभूव शवसा सुमद्रथः । तस्य व्रतानि भूरिपोषिणो वयम् उप भूषेम दम आ सुवृक्तिभिः
वैश्वानर तव धामान्य् आ चके येभिः स्वर्विद् अभवो विचक्षण । जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूर् असि त्मना
वैश्वानरस्य दꣳसनाभ्यो बृहद् अरिणाद् एकः स्वपस्यया कविः । उभा पितरा महयन्न् अजायताग्निर् द्यावापृथिवी भूरिरेतसा
समित्-समित् सुमना बोध्य् अस्मे शुचा-शुचा सुमतिꣳ रासि वस्वः । आ देव देवान् यजथाय वक्षि सखा सखीन् सुमना यक्ष्य् अग्ने
यꣳ देवासस् त्रिर् अहन्न् आयजन्ते दिवे-दिवे वरुणो मित्रो अग्निः । सेमꣳ यज्ञम् मधुमन्तꣳ कृधी नस् तनूनपाद् घृतयोनिꣳ विधन्तम्
प्र दीधितिर् विश्ववारा जिगाति होतारम् इळः प्रथमꣳ यजध्यै । अच्छा नमोभिर् वृषभꣳ वन्दध्यै स देवान् यक्षद् इषितो यजीयान्
ऊर्ध्वो वाꣳ गातुर् अध्वरे अकार्य् ऊर्ध्वा शोचीꣳषि प्रस्थिता रजाꣳसि । दिवो वा नाभा न्य् असादि होता स्तृणीमहि देवव्यचा वि बर्हिः
सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वम् प्रति यन्न् ऋतेन । नृपेशसो विदथेषु प्र जाता अभी३मꣳ यज्ञꣳ वि चरन्त पूर्वीः
आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा३ विरूपे । यथा नो मित्रो वरुणो जुजोषद् इन्द्रो मरुत्वाꣳ उत वा महोभिः
दैव्या होतारा प्रथमा न्य् ऋञ्जे सप्त पृक्षासः स्वधया मदन्ति । ऋतꣳ शꣳसन्त ऋतम् इत् त आहुर् अनु व्रतꣳ व्रतपा दीध्यानाः
आ भारती भारतीभिः सजोषा इळा देवैर् मनुष्येभिर् अग्निः । सरस्वती सारस्वतेभिर् अर्वाक् तिस्रो देवीर् बर्हिर् एदꣳ सदन्तु
तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः स्यस्व । यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः
वनस्पते ऽव सृजोप देवान् अग्निर् हविः शमिता सूदयाति । सेद् उ होता सत्यतरो यजाति यथा देवानाꣳ जनिमानि वेद
आ याह्य् अग्ने समिधानो अर्वाङ् इन्द्रेण देवैः सरथꣳ तुरेभिः । बर्हिर् न आस्ताम् अदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम्
प्रत्य् अग्निर् उषसश् चेकितानो ऽबोधि विप्रः पदवीः कवीनाम् । पृथुपाजा देवयद्भिः समिद्धो ऽप द्वारा तमसो वह्निर् आवः
प्रेद् व् अग्निर् वावृधे स्तोमेभिर् गीर्भिः स्तोतॄणाꣳ नमस्य उक्थैः । पूर्वीर् ऋतस्य सꣳदृशश् चकानः सꣳ दूतो अद्यौद् उषसो विरोके
अधाय्य् अग्निर् मानुषीषु विक्ष्व् अ१पाꣳ गर्भो मित्र ऋतेन साधन् । आ हर्यतो यजतः सान्व् अस्थाद् अभूद् उ विप्रो हव्यो मतीनाम्
मित्रो अग्निर् भवति यत् समिद्धो मित्रो होता वरुणो जातवेदाः । मित्रो अध्वर्युर् इषिरो दमूना मित्रः सिन्धूनाम् उत पर्वतानाम्
पाति प्रियꣳ रिपो अग्रम् पदꣳ वेः पाति यह्वश् चरणꣳ सूर्यस्य । पाति नाभा सप्तशीर्षाणम् अग्निः पाति देवानाम् उपमादम् ऋष्वः
ऋभुश् चक्र ईड्यꣳ चारु नाम विश्वानि देवो वयुनानि विद्वान् । ससस्य चर्म घृतवत् पदꣳ वेस् तद् इद् अग्नी रक्षत्य् अप्रयुच्छन्
आ योनिम् अग्निर् घृतवन्तम् अस्थात् पृथुप्रगाणम् उशन्तम् उशानः । दीद्यानः शुचिर् ऋष्वः पावकः पुनः-पुनर् मातरा नव्यसी कः
सद्यो जात ओषधीभिर् ववक्षे यदी वर्धन्ति प्रस्वो घृतेन । आप इव प्रवता शुम्भमाना उरुष्यद् अग्निः पित्रोर् उपस्थे
उद् उ ष्टुतः समिधा यह्वो अद्यौद् वर्ष्मन् दिवो अधि नाभा पृथिव्याः । मित्रो अग्निर् ईड्यो मातरिश्वा दूतो वक्षद् यजथाय देवान्
उद् अस्तम्भीत् समिधा नाकम् ऋष्वो३ ऽग्निर् भवन्न् उत्तमो रोचनानाम् । यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तꣳ हव्यवाहꣳ समीधे
इळाम् अग्ने पुरुदꣳसꣳ सनिꣳ गोः शश्वत्तमꣳ हवमानाय साध । स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे
प्र कारवो मनना वच्यमाना देवद्रीचीꣳ नयत देवयन्तः । दक्षिणावाड् वाजिनी प्राच्य् एति हविर् भरन्त्य् अग्नये घृताची
आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो । दिवश् चिद् अग्ने महिना पृथिव्या वच्यन्ताꣳ ते वह्नयः सप्तजिह्वाः
द्यौश् च त्वा पृथिवी यज्ञियासो नि होतारꣳ सादयन्ते दमाय । यदी विशो मानुषीर् देवयन्तीः प्रयस्वतीर् ईळते शुक्रम् अर्चिः
महान् सधस्थे ध्रुव आ निषत्तो ऽन्तर् द्यावा माहिने हर्यमाणः । आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्य धेनू
व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ । त्वꣳ दूतो अभवो जायमानस् त्वꣳ नेता वृषभ चर्षणीनाम्
ऋतस्य वा केशिना योग्याभिर् घृतस्नुवा रोहिता धुरि धिष्व । अथा वह देवान् देव विश्वान् स्वध्वरा कृणुहि जातवेदः
दिवश् चिद् आ ते रुचयन्त रोका उषो विभातीर् अनु भासि पूर्वीः । अपो यद् अग्न उशधग् वनेषु होतुर् मन्द्रस्य पनयन्त देवाः
उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः । ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः
ऐभिर् अग्ने सरथꣳ याह्य् अर्वाङ् नानारथꣳ वा विभवो ह्य् अश्वाः । पत्नीवतस् त्रिꣳशतꣳ त्रीꣳश् च देवान् अनुष्वधम् आ वह मादयस्व
स होता यस्य रोदसी चिद् उर्वी यज्ञꣳ-यज्ञम् अभि वृधे गृणीतः । प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य सत्ये
इळाम् अग्ने पुरुदꣳसꣳ सनिꣳ गोः शश्वत्तमꣳ हवमानाय साध । स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे
प्र य आरुः शितिपृष्ठस्य धासेर् आ मातरा विविशुः सप्त वाणीः । परिक्षिता पितरा सꣳ चरेते प्र सर्स्राते दीर्घम् आयुः प्रयक्षे
दिवक्षसो धेनवो वृष्णो अश्वा देवीर् आ तस्थौ मधुमद् वहन्तीः । ऋतस्य त्वा सदसि क्षेमयन्तम् पर्य् एका चरति वर्तनिꣳ गौः
आ सीम् अरोहत् सुयमा भवन्तीः पतिश् चिकित्वान् रयिविद् रयीणाम् । प्र नीलपृष्ठो अतसस्य धासेस् ता अवासयत् पुरुधप्रतीकः
महि त्वाष्ट्रम् ऊर्जयन्तीर् अजुर्यꣳ स्तभूयमानꣳ वहतो वहन्ति । व्य् अङ्गेभिर् दिद्युतानः सधस्थ एकाम् इव रोदसी आ विवेश
जानन्ति वृष्णो अरुषस्य शेवम् उत ब्रध्नस्य शासने रणन्ति । दिवोरुचः सुरुचो रोचमाना इळा येषाꣳ गण्या माहिना गीः
उतो पितृभ्याम् प्रविदानु घोषम् महो महद्भ्याम् अनयन्त शूषम् । उक्षा ह यत्र परि धानम् अक्तोर् अनु स्वꣳ धाम जरितुर् ववक्ष
अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियꣳ रक्षन्ते निहितम् पदꣳ वेः । प्राञ्चो मदन्त्य् उक्षणो अजुर्या देवा देवानाम् अनु हि व्रता गुः
दैव्या होतारा प्रथमा न्य् ऋञ्जे सप्त पृक्षासः स्वधया मदन्ति । ऋतꣳ शꣳसन्त ऋतम् इत् त आहुर् अनु व्रतꣳ व्रतपा दीध्यानाः
वृषायन्ते महे अत्याय पूर्वीर् वृष्णे चित्राय रश्मयः सुयामाः । देव होतर् मन्द्रतरश् चिकित्वान् महो देवान् रोदसी एह वक्षि
पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवद् ऊषुः । उतो चिद् अग्ने महिना पृथिव्याः कृतꣳ चिद् एनः सम् महे दशस्य
इळाम् अग्ने पुरुदꣳसꣳ सनिꣳ गोः शश्वत्तमꣳ हवमानाय साध । स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे
अञ्जन्ति त्वाम् अध्वरे देवयन्तो वनस्पते मधुना दैव्येन । यद् ऊर्ध्वस् तिष्ठा द्रविणेह धत्ताद् यद् वा क्षयो मातुर् अस्या उपस्थे
समिद्धस्य श्रयमाणः पुरस्ताद् ब्रह्म वन्वानो अजरꣳ सुवीरम् । आरे अस्मद् अमतिम् बाधमान उच् छ्रयस्व महते सौभगाय
उच् छ्रयस्व वनस्पते वर्ष्मन् पृथिव्या अधि । सुमिती मीयमानो वर्चो धा यज्ञवाहसे
युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः । तꣳ धीरासः कवय उन् नयन्ति स्वाध्यो३ मनसा देवयन्तः
जातो जायते सुदिनत्वे अह्नाꣳ समर्य आ विदथे वर्धमानः । पुनन्ति धीरा अपसो मनीषा देवया विप्र उद् इयर्ति वाचम्
यान् वो नरो देवयन्तो निमिम्युर् वनस्पते स्वधितिर् वा ततक्ष । ते देवासः स्वरवस् तस्थिवाꣳसः प्रजावद् अस्मे दिधिषन्तु रत्नम्
ये वृक्णासो अधि क्षमि निमितासो यतस्रुचः । ते नो व्यन्तु वार्यꣳ देवत्रा क्षेत्रसाधसः
आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी अन्तरिक्षम् । सजोषसो यज्ञम् अवन्तु देवा ऊर्ध्वꣳ कृण्वन्त्व् अध्वरस्य केतुम्
हꣳसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो न आगुः । उन्नीयमानाः कविभिः पुरस्ताद् देवा देवानाम् अपि यन्ति पाथः
शृङ्गाणीवेच् छृङ्गिणाꣳ सꣳ ददृश्रे चषालवन्तः स्वरवः पृथिव्याम् । वाघद्भिर् वा विहवे श्रोषमाणा अस्माꣳ अवन्तु पृतनाज्येषु
वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयꣳ रुहेम । यꣳ त्वाम् अयꣳ स्वधितिस् तेजमानः प्रणिनाय महते सौभगाय
सखायस् त्वा ववृमहे देवम् मर्तास ऊतये । अपाꣳ नपातꣳ सुभगꣳ सुदीदितिꣳ सुप्रतूर्तिम् अनेहसम्
कायमानो वना त्वꣳ यन् मातॄर् अजगन्न् अपः । न तत् ते अग्ने प्रमृषे निवर्तनꣳ यद् दूरे सन्न् इहाभवः
अति तृष्टꣳ ववक्षिथाथैव सुमना असि । प्र-प्रान्ये यन्ति पर्य् अन्य आसते येषाꣳ सख्ये असि श्रितः
ईयिवाꣳसम् अति स्रिधः शश्वतीर् अति सश्चतः । अन्व् ईम् अविन्दन् निचिरासो अद्रुहो ऽप्सु सिꣳहम् इव श्रितम्
ससृवाꣳसम् इव त्मनाग्निम् इत्था तिरोहितम् । ऐनꣳ नयन् मातरिश्वा परावतो देवेभ्यो मथितम् परि
तꣳ त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन । विश्वान् यद् यज्ञाꣳ अभिपासि मानुष तव क्रत्वा यविष्ठ्य
तद् भद्रꣳ तव दꣳसना पाकाय चिच् छदयति । त्वाꣳ यद् अग्ने पशवः समासते समिद्धम् अपिशर्वरे
आ जुहोता स्वध्वरꣳ शीरम् पावकशोचिषम् । आशुꣳ दूतम् अजिरम् प्रत्नम् ईड्यꣳ श्रुष्टी देवꣳ सपर्यत
त्रीणि शता त्री सहस्राण्य् अग्निꣳ त्रिꣳशच् च देवा नव चासपर्यन् । औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा आद् इद् धोतारꣳ न्य् असादयन्त
त्वाम् अग्ने मनीषिणः सम्राजꣳ चर्षणीनाम् । देवम् मर्तास इन्धते सम् अध्वरे
त्वाꣳ यज्ञेष्व् ऋत्विजम् अग्ने होतारम् ईळते । गोपा ऋतस्य दीदिहि स्वे दमे
स घा यस् ते ददाशति समिधा जातवेदसे । सो अग्ने धत्ते सुवीर्यꣳ स पुष्यति
स केतुर् अध्वराणाम् अग्निर् देवेभिर् आ गमत् । अञ्जानः सप्त होतृभिर् हविष्मते
प्र होत्रे पूर्व्यꣳ वचो ऽग्नये भरता बृहत् । विपाꣳ ज्योतीꣳषि बिभ्रते न वेधसे
अग्निꣳ वर्धन्तु नो गिरो यतो जायत उक्थ्यः । महे वाजाय द्रविणाय दर्शतः
अग्ने यजिष्ठो अध्वरे देवान् देवयते यज । होता मन्द्रो वि राजस्य् अति स्रिधः
स नः पावक दीदिहि द्युमद् अस्मे सुवीर्यम् । भवा स्तोतृभ्यो अन्तमः स्वस्तये
तꣳ त्वा विप्रा विपन्यवो जागृवाꣳसः सम् इन्धते । हव्यवाहम् अमर्त्यꣳ सहोवृधम्
अग्निर् होता पुरोहितो ऽध्वरस्य विचर्षणिः । स वेद यज्ञम् आनुषक्
स हव्यवाळ् अमर्त्य उशिग् दूतश् चनोहितः । अग्निर् धिया सम् ऋण्वति
अग्निर् धिया स चेतति केतुर् यज्ञस्य पूर्व्यः । अर्थꣳ ह्य् अस्य तरणि
अग्निꣳ सूनुꣳ सनश्रुतꣳ सहसो जातवेदसम् । वह्निꣳ देवा अकृण्वत
अदाभ्यः पुरएता विशाम् अग्निर् मानुषीणाम् । तूर्णी रथः सदा नवः
साह्वान् विश्वा अभियुजः क्रतुर् देवानाम् अमृक्तः । अग्निस् तुविश्रवस्तमः
अभि प्रयाꣳसि वाहसा दाश्वाꣳ अश्नोति मर्त्यः । क्षयम् पावकशोचिषः
परि विश्वानि सुधिताग्नेर् अश्याम मन्मभिः । विप्रासो जातवेदसः
अग्ने विश्वानि वार्या वाजेषु सनिषामहे । त्वे देवास एरिरे
इन्द्राग्नी आ गतꣳ सुतꣳ गीर्भिर् नभो वरेण्यम् । अस्य पातꣳ धियेषिता
इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः । अया पातम् इमꣳ सुतम्
इन्द्रम् अग्निꣳ कविच्छदा यज्ञस्य जूत्या वृणे । ता सोमस्येह तृम्पताम्
तोशा वृत्रहणा हुवे सजित्वानापराजिता । इन्द्राग्नी वाजसातमा
प्र वाम् अर्चन्त्य् उक्थिनो नीथाविदो जरितारः । इन्द्राग्नी इष आ वृणे
इन्द्राग्नी नवतिम् पुरो दासपत्नीर् अधूनुतम् । साकम् एकेन कर्मणा
इन्द्राग्नी अपसस् पर्य् उप प्र यन्ति धीतयः । ऋतस्य पथ्या३ अनु
इन्द्राग्नी तविषाणि वाꣳ सधस्थानि प्रयाꣳसि च । युवोर् अप्तूर्यꣳ हितम्
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । तद् वाꣳ चेति प्र वीर्यम्
प्र वो देवायाग्नये बर्हिष्ठम् अर्चास्मै । गमद् देवेभिर् आ स नो यजिष्ठो बर्हिर् आ सदत्
ऋतावा यस्य रोदसी दक्षꣳ सचन्त ऊतयः । हविष्मन्तस् तम् ईळते तꣳ सनिष्यन्तो ऽवसे
स यन्ता विप्र एषाꣳ स यज्ञानाम् अथा हि षः । अग्निꣳ तꣳ वो दुवस्यत दाता यो वनिता मघम्
स नः शर्माणि वीतये ऽग्निर् यच्छतु शꣳतमा । यतो नः प्रुष्णवद् वसु दिवि क्षितिभ्यो अप्स्व् आ
दीदिवाꣳसम् अपूर्व्यꣳ वस्वीभिर् अस्य धीतिभिः । ऋक्वाणो अग्निम् इन्धते होतारꣳ विश्पतिꣳ विशाम्
उत नो ब्रह्मन्न् अविष उक्थेषु देवहूतमः । शꣳ नः शोचा मरुद्वृधो ऽग्ने सहस्रसातमः
नू नो रास्व सहस्रवत् तोकवत् पुष्टिमद् वसु । द्युमद् अग्ने सुवीर्यꣳ वर्षिष्ठम् अनुपक्षितम्
आ होता मन्द्रो विदथान्य् अस्थात् सत्यो यज्वा कवितमः स वेधाः । विद्युद्रथः सहसस् पुत्रो अग्निः शोचिष्केशः पृथिव्याम् पाजो अश्रेत्
अयामि ते नमüक्तिꣳ जुषस्व ऋतावस् तुभ्यꣳ चेतते सहस्वः । विद्वाꣳ आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिर् ऊतये यजत्र
द्रवताꣳ त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिर् अच्छ । यत् सीम् अञ्जन्ति पूर्व्यꣳ हविर्भिर् आ वन्धुरेव तस्थतुर् दुरोणे
मित्रश् च तुभ्यꣳ वरुणः सहस्वो ऽग्ने विश्वे मरुतः सुम्नम् अर्चन् । यच् छोचिषा सहसस् पुत्र तिष्ठा अभि क्षितीः प्रथयन् सूर्यो नॄन्
वयꣳ ते अद्य ररिमा हि कामम् उत्तानहस्ता नमसोपसद्य । यजिष्ठेन मनसा यक्षि देवान् अस्रेधता मन्मना विप्रो अग्ने
त्वद् धि पुत्र सहसो वि पूर्वीर् देवस्य यन्त्य् ऊतयो वि वाजाः । त्वꣳ देहि सहस्रिणꣳ रयिꣳ नो ऽद्रोघेण वचसा सत्यम् अग्ने
तुभ्यꣳ दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म । त्वꣳ विश्वस्य सुरथस्य बोधि सर्वꣳ तद् अग्ने अमृत स्वदेह
वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः । सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहꣳ सुहवस्य प्रणीतौ
त्वꣳ नो अस्या उषसो व्युष्टौ त्वꣳ सूर उदिते बोधि गोपाः । जन्मेव नित्यꣳ तनयꣳ जुषस्व स्तोमम् मे अग्ने तन्वा सुजात
त्वꣳ नृचक्षा वृषभानु पूर्वीः कृष्णास्व् अग्ने अरुषो वि भाहि । वसो नेषि च पर्षि चात्य् अꣳहः कृधी नो राय उशिजो यविष्ठ
अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा सꣳजिगीवान् । यज्ञस्य नेता प्रथमस्य पायोर् जातवेदो बृहतः सुप्रणीते
अच्छिद्रा शर्म जरितः पुरूणि देवाꣳ अच्छा दीद्यानः सुमेधाः । रथो न सस्निर् अभि वक्षि वाजम् अग्ने त्वꣳ रोदसी नः सुमेके
प्र पीपय वृषभ जिन्व वाजान् अग्ने त्वꣳ रोदसी नः सुदोघे । देवेभिर् देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात्
इळाम् अग्ने पुरुदꣳसꣳ सनिꣳ गोः शश्वत्तमꣳ हवमानाय साध । स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे
अयम् अग्निः सुवीर्यस्येशे महः सौभगस्य । राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम्
इमꣳ नरो मरुतः सश्चता वृधꣳ यस्मिन् रायः शेवृधासः । अभि ये सन्ति पृतनासु दूढ्यो विश्वाहा शत्रुम् आदभुः
स त्वꣳ नो रायः शिशीहि मीढ्वो अग्ने सुवीर्यस्य । तुविद्युम्न वर्षिष्ठस्य प्रजावतो ऽनमीवस्य शुष्मिणः
चक्रिर् यो विश्वा भुवनाभि सासहिश् चक्रिर् देवेष्व् आ दुवः । आ देवेषु यतत आ सुवीर्य आ शꣳस उत नृणाम्
मा नो अग्ने ऽमतये मावीरतायै रीरधः । मागोतायै सहसस् पुत्र मा निदे ऽप द्वेषाꣳस्य् आ कृधि
शग्धि वाजस्य सुभग प्रजावतो ऽग्ने बृहतो अध्वरे । सꣳ राया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता
समिध्यमानः प्रथमानु धर्मा सम् अक्तुभिर् अज्यते विश्ववारः । शोचिष्केशो घृतनिर्णिक् पावकः सुयज्ञो अग्निर् यजथाय देवान्
यथायजो होत्रम् अग्ने पृथिव्या यथा दिवो जातवेदश् चिकित्वान् । एवानेन हविषा यक्षि देवान् मनुष्वद् यज्ञम् प्र तिरेमम् अद्य
त्रीण्य् आयूꣳषि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने । ताभिर् देवानाम् अवो यक्षि विद्वान् अथा भव यजमानाय शꣳ योः
अग्निꣳ सुदीतिꣳ सुदृशꣳ गृणन्तो नमस्यामस् त्वेड्यꣳ जातवेदः । त्वाꣳ दूतम् अरतिꣳ हव्यवाहꣳ देवा अकृण्वन्न् अमृतस्य नाभिम्
यस् त्वद् धोता पूर्वो अग्ने यजीयान् द्विता च सत्ता स्वधया च शम्भुः । तस्यानु धर्म प्र यजा चिकित्वो ऽथा नो धा अध्वरꣳ देववीतौ
भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः । पुरुद्रुहो हि क्षितयो जनानाम् प्रति प्रतीचीर् दहताद् अरातीः
तपो ष्व् अग्ने अन्तराꣳ अमित्रान् तपा शꣳसम् अररुषः परस्य । तपो वसो चिकितानो अचित्तान् वि ते तिष्ठन्ताम् अजरा अयासः
इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यꣳ तरसे बलाय । यावद् ईशे ब्रह्मणा वन्दमान इमाꣳ धियꣳ शतसेयाय देवीम्
उच् छोचिषा सहसस् पुत्र स्तुतो बृहद् वयः शशमानेषु धेहि । रेवद् अग्ने विश्वामित्रेषु शꣳ योर् मर्मृज्मा ते तन्व१म् भूरि कृत्वः
कृधि रत्नꣳ सुसनितर् धनानाꣳ स घेद् अग्ने भवसि यत् समिद्धः । स्तोतुर् दुरोणे सुभगस्य रेवत् सृप्रा करस्ना दधिषे वपूꣳषि
अग्निꣳ होतारम् प्र वृणे मियेधे गृत्सꣳ कविꣳ विश्वविदम् अमूरम् । स नो यक्षद् देवताता यजीयान् राये वाजाय वनते मघानि
प्र ते अग्ने हविष्मतीम् इयर्म्य् अच्छा सुद्युम्नाꣳ रातिनीꣳ घृताचीम् । प्रदक्षिणिद् देवतातिम् उराणः सꣳ रातिभिर् वसुभिर् यज्ञम् अश्रेत्
स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः । अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश् च वस्वः
भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः । स आ वह देवतातिꣳ यविष्ठ शर्धो यद् अद्य दिव्यꣳ यजासि
यत् त्वा होतारम् अनजन् मियेधे निषादयन्तो यजथाय देवाः । स त्वꣳ नो अग्ने ऽवितेह बोध्य् अधि श्रवाꣳसि धेहि नस् तनूषु
अग्निम् उषसम् अश्विना दधिक्राꣳ व्युष्टिषु हवते वह्निर् उक्थैः । सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरꣳ वावशानाः
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः । तिस्र उ ते तन्वो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन्
अग्ने भूरीणि तव जातवेदो देव स्वधावो ऽमृतस्य नाम । याश् च माया मायिनाꣳ विश्वमिन्व त्वे पूर्वीः सꣳदधुः पृष्टबन्धो
अग्निर् नेता भग इव क्षितीनाꣳ दैवीनाꣳ देव ऋतुपा ऋतावा । स वृत्रहा सनयो विश्ववेदाः पर्षद् विश्वाति दुरिता गृणन्तम्
दधिक्राम् अग्निम् उषसꣳ च देवीम् बृहस्पतिꣳ सवितारꣳ च देवम् । अश्विना मित्रावरुणा भगꣳ च वसून् रुद्राꣳ आदित्याꣳ इह हुवे
इमꣳ नो यज्ञम् अमृतेषु धेहीमा हव्या जातवेदो जुषस्व । स्तोकानाम् अग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य
घृतवन्तः पावक ते स्तोकाः श्चोतन्ति मेदसः । स्वधर्मन् देववीतये श्रेष्ठꣳ नो धेहि वार्यम्
तुभ्यꣳ स्तोका घृतश्चुतो ऽग्ने विप्राय सन्त्य । ऋषिः श्रेष्ठः सम् इध्यसे यज्ञस्य प्राविता भव
तुभ्यꣳ श्चोतन्त्य् अध्रिगो शचीवः स्तोकासो अग्ने मेदसो घृतस्य । कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर
ओजिष्ठꣳ ते मध्यतो मेद उद्भृतम् प्र ते वयꣳ ददामहे । श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान् देवशो विहि
अयꣳ सो अग्निर् यस्मिन् सोमम् इन्द्रः सुतꣳ दधे जठरे वावशानः । सहस्रिणꣳ वाजम् अत्यꣳ न सप्तिꣳ ससवान् सन् स्तूयसे जातवेदः
अग्ने यत् ते दिवि वर्चः पृथिव्याꣳ यद् ओषधीष्व् अप्स्व् आ यजत्र । येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो नृचक्षाः
अग्ने दिवो अर्णम् अच्छा जिगास्य् अच्छा देवाꣳ ऊचिषे धिष्ण्या ये । या रोचने परस्तात् सूर्यस्य याश् चावस्ताद् उपतिष्ठन्त आपः
पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः । जुषन्ताꣳ यज्ञम् अद्रुहो ऽनमीवा इषो महीः
इळाम् अग्ने पुरुदꣳसꣳ सनिꣳ गोः शश्वत्तमꣳ हवमानाय साध । स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे
निर्मथितः सुधित आ सधस्थे युवा कविर् अध्वरस्य प्रणेता । जूर्यत्स्व् अग्निर् अजरो वनेष्व् अत्रा दधे अमृतꣳ जातवेदाः
अमन्थिष्टाम् भारता रेवद् अग्निꣳ देवश्रवा देववातः सुदक्षम् । अग्ने वि पश्य बृहताभि रायेषाꣳ नो नेता भवताद् अनु द्यून्
दश क्षिपः पूर्व्यꣳ सीम् अजीजनन् सुजातम् मातृषु प्रियम् । अग्निꣳ स्तुहि दैववातꣳ देवश्रवो यो जनानाम् असद् वशी
नि त्वा दधे वर आ पृथिव्या इळायास् पदे सुदिनत्वे अह्नाम् । दृषद्वत्याम् मानुष आपयायाꣳ सरस्वत्याꣳ रेवद् अग्ने दिदीहि
इळाम् अग्ने पुरुदꣳसꣳ सनिꣳ गोः शश्वत्तमꣳ हवमानाय साध । स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे
अग्ने सहस्व पृतना अभिमातीर् अपास्य । दुष्टरस् तरन्न् अरातीर् वर्चो धा यज्ञवाहसे
अग्न इळा सम् इध्यसे वीतिहोत्रो अमर्त्यः । जुषस्व सू नो अध्वरम्
अग्ने द्युम्नेन जागृवे सहसः सूनव् आहुत । एदम् बर्हिः सदो मम
अग्ने विश्वेभिर् अग्निभिर् देवेभिर् महया गिरः । यज्ञेषु य उ चायवः
अग्ने दा दाशुषे रयिꣳ वीरवन्तम् परीणसम् । शिशीहि नः सूनुमतः
अग्ने दिवः सूनुर् असि प्रचेतास् तना पृथिव्या उत विश्ववेदाः । ऋधग् देवाꣳ इह यजा चिकित्वः
अग्निः सनोति वीर्याणि विद्वान् सनोति वाजम् अमृताय भूषन् । स नो देवाꣳ एह वहा पुरुक्षो
अग्निर् द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते अमूरः । क्षयन् वाजैः पुरुश्चन्द्रो नमोभिः
अग्न इन्द्रश् च दाशुषो दुरोणे सुतावतो यज्ञम् इहोप यातम् । अमर्धन्ता सोमपेयाय देवा
अग्ने अपाꣳ सम् इध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः । सधस्थानि महयमान ऊती
वैश्वानरम् मनसाग्निꣳ निचाय्या हविष्मन्तो अनुषत्यꣳ स्वर्विदम् । सुदानुꣳ देवꣳ रथिरꣳ वसूयवो गीर्भी रण्वꣳ कुशिकासो हवामहे
तꣳ शुभ्रम् अग्निम् अवसे हवामहे वैश्वानरम् मातरिश्वानम् उक्थ्यम् । बृहस्पतिम् मनुषो देवतातये विप्रꣳ श्रोतारम् अतिथिꣳ रघुष्यदम्
अश्वो न क्रन्दञ् जनिभिः सम् इध्यते वैश्वानरः कुशिकेभिर् युगे-युगे । स नो अग्निः सुवीर्यꣳ स्वश्व्यꣳ दधातु रत्नम् अमृतेषु जागृविः
प्र यन्तु वाजास् तविषीभिर् अग्नयः शुभे सम्मिश्लाः पृषतीर् अयुक्षत । बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्ति पर्वताꣳ अदाभ्याः
अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषम् उग्रम् अव ईमहे वयम् । ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिꣳहा न हेषक्रतवः सुदानवः
व्रातꣳ-व्रातꣳ गणꣳ-गणꣳ सुशस्तिभिर् अग्नेर् भामम् मरुताम् ओज ईमहे । पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञꣳ विदथेषु धीराः
अग्निर् अस्मि जन्मना जातवेदा घृतम् मे चक्षुर् अमृतम् म आसन् । अर्कस् त्रिधातू रजसो विमानो ऽजस्रो घर्मो हविर् अस्मि नाम
त्रिभिः पवित्रैर् अपुपोद् ध्य् अ१र्कꣳ हृदा मतिꣳ ज्योतिर् अनु प्रजानन् । वर्षिष्ठꣳ रत्नम् अकृत स्वधाभिर् आद् इद् द्यावापृथिवी पर्य् अपश्यत्
शतधारम् उत्सम् अक्षीयमाणꣳ विपश्चितम् पितरꣳ वक्त्वानाम् । मेळिम् मदन्तम् पित्रोर् उपस्थे तꣳ रोदसी पिपृतꣳ सत्यवाचम्
प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या । देवाञ् जिगाति सुम्नयुः
ईळे अग्निꣳ विपश्चितꣳ गिरा यज्ञस्य साधनम् । श्रुष्टीवानꣳ धितावानम्
अग्ने शकेम ते वयꣳ यमꣳ देवस्य वाजिनः । अति द्वेषाꣳसि तरेम
समिध्यमानो अध्वरे३ ऽग्निः पावक ईड्यः । शोचिष्केशस् तम् ईमहे
पृथुपाजा अमर्त्यो घृतनिर्णिक् स्वाहुतः । अग्निर् यज्ञस्य हव्यवाट्
तꣳ सबाधो यतस्रुच इत्था धिया यज्ञवन्तः । आ चक्रुर् अग्निम् ऊतये
होता देवो अमर्त्यः पुरस्ताद् एति मायया । विदथानि प्रचोदयन्
वाजी वाजेषु धीयते ऽध्वरेषु प्र णीयते । विप्रो यज्ञस्य साधनः
धिया चक्रे वरेण्यो भूतानाꣳ गर्भम् आ दधे । दक्षस्य पितरꣳ तना
नि त्वा दधे वरेण्यꣳ दक्षस्येळा सहस्कृत । अग्ने सुदीतिम् उशिजम्
अग्निꣳ यन्तुरम् अप्तुरम् ऋतस्य योगे वनुषः । विप्रा वाजैः सम् इन्धते
ऊर्जो नपातम् अध्वरे दीदिवाꣳसम् उप द्यवि । अग्निम् ईळे कविक्रतुम्
ईळेन्यो नमस्यस् तिरस् तमाꣳसि दर्शतः । सम् अग्निर् इध्यते वृषा
वृषो अग्निः सम् इध्यते ऽश्वो न देववाहनः । तꣳ हविष्मन्त ईळते
वृषणꣳ त्वा वयꣳ वृषन् वृषणः सम् इधीमहि । अग्ने दीद्यतम् बृहत्
अग्ने जुषस्व नो हविः पुरोळाशꣳ जातवेदः । प्रातःसावे धियावसो
पुरोळा अग्ने पचतस् तुभ्यꣳ वा घा परिष्कृतः । तꣳ जुषस्व यविष्ठ्य
अग्ने वीहि पुरोळाशम् आहुतꣳ तिरोअह्न्यम् । सहसः सूनुर् अस्य् अध्वरे हितः
माध्यꣳदिने सवने जातवेदः पुरोळाशम् इह कवे जुषस्व । अग्ने यह्वस्य तव भागधेयꣳ न प्र मिनन्ति विदथेषु धीराः
अग्ने तृतीये सवने हि कानिषः पुरोळाशꣳ सहसः सूनव् आहुतम् । अथा देवेष्व् अध्वरꣳ विपन्यया धा रत्नवन्तम् अमृतेषु जागृविम्
अग्ने वृधान आहुतिम् पुरोळाशꣳ जातवेदः । जुषस्व तिरोअह्न्यम्
अस्तीदम् अधिमन्थनम् अस्ति प्रजननꣳ कृतम् । एताꣳ विश्पत्नीम् आ भराग्निम् मन्थाम पूर्वथा
अरण्योर् निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु । दिवे-दिव ईड्यो जागृवद्भिर् हविष्मद्भिर् मनुष्येभिर् अग्निः
उत्तानायाम् अव भरा चिकित्वान् सद्यः प्रवीता वृषणꣳ जजान । अरुषस्तूपो रुशद् अस्य पाज इळायास् पुत्रो वयुने ऽजनिष्ट
इळायास् त्वा पदे वयꣳ नाभा पृथिव्या अधि । जातवेदो नि धीमह्य् अग्ने हव्याय वोळ्हवे
मन्थता नरः कविम् अद्वयन्तम् प्रचेतसम् अमृतꣳ सुप्रतीकम् । यज्ञस्य केतुम् प्रथमम् पुरस्ताद् अग्निꣳ नरो जनयता सुशेवम्
यदी मन्थन्ति बाहुभिर् वि रोचते ऽश्वो न वाज्य् अरुषो वनेष्व् आ । चित्रो न यामन्न् अश्विनोर् अनिवृतः परि वृणक्त्य् अश्मनस् तृणा दहन्
जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः । यꣳ देवास ईड्यꣳ विश्वविदꣳ हव्यवाहम् अदधुर् अध्वरेषु
सीद होतः स्व उ लोके चिकित्वान् सादया यज्ञꣳ सुकृतस्य योनौ । देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः
कृणोत धूमꣳ वृषणꣳ सखायो ऽस्रेधन्त इतन वाजम् अच्छ । अयम् अग्निः पृतनाषाट् सुवीरो येन देवासो असहन्त दस्यून्
अयꣳ ते योनिर् ऋत्वियो यतो जातो अरोचथाः । तꣳ जानन्न् अग्न आ सीदाथा नो वर्धया गिरः
तनूनपाद् उच्यते गर्भ आसुरो नराशꣳसो भवति यद् विजायते । मातरिश्वा यद् अमिमीत मातरि वातस्य सर्गो अभवत् सरीमणि
सुनिर्मथा निर्मथितः सुनिधा निहितः कविः । अग्ने स्वध्वरा कृणु देवान् देवयते यज
अजीजनन्न् अमृतम् मर्त्यासो ऽस्रेमाणꣳ तरणिꣳ वीळुजम्भम् । दश स्वसारो अग्रुवः समीचीः पुमाꣳसꣳ जातम् अभि सꣳ रभन्ते
प्र सप्तहोता सनकाद् अरोचत मातुर् उपस्थे यद् अशोचद् ऊधनि । न नि मिषति सुरणो दिवे-दिवे यद् असुरस्य जठराद् अजायत
अमित्रायुधो मरुताम् इव प्रयाः प्रथमजा ब्रह्मणो विश्वम् इद् विदुः । द्युम्नवद् ब्रह्म कुशिकास एरिर एक-एको दमे अग्निꣳ सम् ईधिरे
यद् अद्य त्वा प्रयति यज्ञे अस्मिन् होतश् चिकित्वो ऽवृणीमहीह । ध्रुवम् अया ध्रुवम् उताशमिष्ठाः प्रजानन् विद्वाꣳ उप याहि सोमम्
इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमꣳ दधति प्रयाꣳसि । तितिक्षन्ते अभिशस्तिꣳ जनानाम् इन्द्र त्वद् आ कश् चन हि प्रकेतः
न ते दूरे परमा चिद् रजाꣳस्य् आ तु प्र याहि हरिवो हरिभ्याम् । स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने अग्नौ
इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस् तुविकूर्मिर् ऋघावान् । यद् उग्रो धा बाधितो मर्त्येषु क्व१ त्या ते वृषभ वीर्याणि
त्वꣳ हि ष्मा च्यावयन्न् अच्युतान्य् एको वृत्रा चरसि जिघ्नमानः । तव द्यावापृथिवी पर्वतासो ऽनु व्रताय निमितेव तस्थुः
उताभये पुरुहूत श्रवोभिर् एको दृळ्हम् अवदो वृत्रहा सन् । इमे चिद् इन्द्र रोदसी अपारे यत् सꣳगृभ्णा मघवन् काशिर् इत् ते
प्र सू त इन्द्र प्रवता हरिभ्याम् प्र ते वज्रः प्रमृणन्न् एतु शत्रून् । जहि प्रतीचो अनूचः पराचो विश्वꣳ सत्यꣳ कृणुहि विष्टम् अस्तु
यस्मै धायुर् अदधा मर्त्यायाभक्तꣳ चिद् भजते गेह्य१ꣳ सः । भद्रा त इन्द्र सुमतिर् घृताची सहस्रदाना पुरुहूत रातिः
सहदानुम् पुरुहूत क्षियन्तम् अहस्तम् इन्द्र सम् पिणक् कुणारुम् । अभि वृत्रꣳ वर्धमानम् पियारुम् अपादम् इन्द्र तवसा जघन्थ
नि सामनाम् इषिराम् इन्द्र भूमिम् महीम् अपाराꣳ सदने ससत्थ । अस्तभ्नाद् द्याꣳ वृषभो अन्तरिक्षम् अर्षन्त्व् आपस् त्वयेह प्रसूताः
अलातृणो वल इन्द्र व्रजो गोः पुरा हन्तोर् भयमानो व्य् आर । सुगान् पथो अकृणोन् निरजे गाः प्रावन् वाणीः पुरुहूतꣳ धमन्तीः
एको द्वे वसुमती समीची इन्द्र आ पप्रौ पृथिवीम् उत द्याम् । उतान्तरिक्षाद् अभि नः समीक इषो रथीः सयुजः शूर वाजान्
दिशः सूर्यो न मिनाति प्रदिष्टा दिवे-दिवे हर्यश्वप्रसूताः । सꣳ यद् आनळ् अध्वन आद् इद् अश्वैर् विमोचनꣳ कृणुते तत् त्व् अस्य
दिदृक्षन्त उषसो यामन्न् अक्तोर् विवस्वत्या महि चित्रम् अनीकम् । विश्वे जानन्ति महिना यद् आगाद् इन्द्रस्य कर्म सुकृता पुरूणि
महि ज्योतिर् निहितꣳ वक्षणास्व् आमा पक्वꣳ चरति बिभ्रती गौः । विश्वꣳ स्वाद्म सम्भृतम् उस्रियायाꣳ यत् सीम् इन्द्रो अदधाद् भोजनाय
इन्द्र दृह्य यामकोशा अभूवन् यज्ञाय शिक्ष गृणते सखिभ्यः । दुर्मायवो दुरेवा मर्त्यासो निषङ्गिणो रिपवो हन्त्वासः
सꣳ घोषः शृण्वे ऽवमैर् अमित्रैर् जही न्य् एष्व् अशनिꣳ तपिष्ठाम् । वृश्चेम् अधस्ताद् वि रुजा सहस्व जहि रक्षो मघवन् रन्धयस्व
उद् वृह रक्षः सहमूलम् इन्द्र वृश्चा मध्यम् प्रत्य् अग्रꣳ शृणीहि । आ कीवतः सललूकꣳ चकर्थ ब्रह्मद्विषे तपुषिꣳ हेतिम् अस्य
स्वस्तये वाजिभिश् च प्रणेतः सꣳ यन् महीर् इष आसत्सि पूर्वीः । रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावान्
आ नो भर भगम् इन्द्र द्युमन्तꣳ नि ते देष्णस्य धीमहि प्ररेके । ऊर्व इव पप्रथे कामो अस्मे तम् आ पृण वसुपते वसूनाम्
इमꣳ कामम् मन्दया गोभिर् अश्वैश् चन्द्रवता राधसा पप्रथश् च । स्वर्यवो मतिभिस् तुभ्यꣳ विप्रा इन्द्राय वाहः कुशिकासो अक्रन्
आ नो गोत्रा दर्दृहि गोपते गाः सम् अस्मभ्यꣳ सनयो यन्तु वाजाः । दिवक्षा असि वृषभ सत्यशुष्मो ऽस्मभ्यꣳ सु मघवन् बोधि गोदाः
शुनꣳ हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमꣳ वाजसातौ । शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तꣳ वृत्राणि सꣳजितꣳ धनानाम्
शासद् वह्निर् दुहितुर् नप्त्यꣳ गाद् विद्वाꣳ ऋतस्य दीधितिꣳ सपर्यन् । पिता यत्र दुहितुः सेकम् ऋञ्जन् सꣳ शग्म्येन मनसा दधन्वे
न जामये तान्वो रिक्थम् आरैक् चकार गर्भꣳ सनितुर् निधानम् । यदी मातरो जनयन्त वह्निम् अन्यः कर्ता सुकृतोर् अन्य ऋन्धन्
अग्निर् जज्ञे जुह्वा३ रेजमानो महस् पुत्राꣳ अरुषस्य प्रयक्षे । महान् गर्भो मह्य् आ जातम् एषाम् मही प्रवृद् धर्यश्वस्य यज्ञैः
अभि जैत्रीर् असचन्त स्पृधानम् महि ज्योतिस् तमसो निर् अजानन् । तꣳ जानतीः प्रत्य् उद् आयन्न् उषासः पतिर् गवाम् अभवद् एक इन्द्रः
वीळौ सतीर् अभि धीरा अतृन्दन् प्राचाहिन्वन् मनसा सप्त विप्राः । विश्वाम् अविन्दन् पथ्याम् ऋतस्य प्रजानन्न् इत् ता नमसा विवेश
विदद् यदी सरमा रुग्णम् अद्रेर् महि पाथः पूर्व्यꣳ सध्र्यक् कः । अग्रꣳ नयत् सुपद्य् अक्षराणाम् अच्छा रवम् प्रथमा जानती गात्
अगच्छद् उ विप्रतमः सखीयन्न् असूदयत् सुकृते गर्भम् अद्रिः । ससान मर्यो युवभिर् मखस्यन्न् अथाभवद् अङ्गिराः सद्यो अर्चन्
सतः-सतः प्रतिमानम् पुरोभूर् विश्वा वेद जनिमा हन्ति शुष्णम् । प्र णो दिवः पदवीर् गव्युर् अर्चन् सखा सखीꣳर् अमुञ्चन् निर् अवद्यात्
नि गव्यता मनसा सेदुर् अर्कैः कृण्वानासो अमृतत्वाय गातुम् । इदꣳ चिन् नु सदनम् भूर्य् एषाꣳ येन मासाꣳ असिषासन्न् ऋतेन
सम्पश्यमाना अमदन्न् अभि स्वम् पयः प्रत्नस्य रेतसो दुघानाः । वि रोदसी अतपद् घोष एषाꣳ जाते निष्ठाम् अदधुर् गोषु वीरान्
स जातेभिर् वृत्रहा सेद् उ हव्यैर् उद् उस्रिया असृजद् इन्द्रो अर्कैः । उरूच्य् अस्मै घृतवद् भरन्ती मधु स्वाद्म दुदुहे जेन्या गौः
पित्रे चिच् चक्रुः सदनꣳ सम् अस्मै महि त्विषीमत् सुकृतो वि हि ख्यन् । विष्कभ्नन्तः स्कम्भनेना जनित्री आसीना ऊर्ध्वꣳ रभसꣳ वि मिन्वन्
मही यदि धिषणा शिश्नथे धात् सद्योवृधꣳ विभ्व१ꣳ रोदस्योः । गिरो यस्मिन्न् अनवद्याः समीचीर् विश्वा इन्द्राय तविषीर् अनुत्ताः
मह्य् आ ते सख्यꣳ वश्मि शक्तीर् आ वृत्रघ्ने नियुतो यन्ति पूर्वीः । महि स्तोत्रम् अव आगन्म सूरेर् अस्माकꣳ सु मघवन् बोधि गोपाः
महि क्षेत्रम् पुरु श्चन्द्रꣳ विविद्वान् आद् इत् सखिभ्यश् चरथꣳ सम् ऐरत् । इन्द्रो नृभिर् अजनद् दीद्यानः साकꣳ सूर्यम् उषसꣳ गातुम् अग्निम्
अपश् चिद् एष विभ्वो३ दमूनाः प्र सध्रीचीर् असृजद् विश्वश्चन्द्राः । मध्वः पुनानाः कविभिः पवित्रैर् द्युभिर् हिन्वन्त्य् अक्तुभिर् धनुत्रीः
अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मꣳहना यजत्रे । परि यत् ते महिमानꣳ वृजध्यै सखाय इन्द्र काम्या ऋजिप्याः
पतिर् भव वृत्रहन् सूनृतानाꣳ गिराꣳ विश्वायुर् वृषभो वयोधाः । आ नो गहि सख्येभिः शिवेभिर् महान् महीभिर् ऊतिभिः सरण्यन्
तम् अङ्गिरस्वन् नमसा सपर्यन् नव्यꣳ कृणोमि सन्यसे पुराजाम् । द्रुहो वि याहि बहुला अदेवीः स्वश् च नो मघवन् सातये धाः
मिहः पावकाः प्रतता अभूवन् स्वस्ति नः पिपृहि पारम् आसाम् । इन्द्र त्वꣳ रथिरः पाहि नो रिषो मक्षू-मक्षू कृणुहि गोजितो नः
अदेदिष्ट वृत्रहा गोपतिर् गा अन्तः कृष्णाꣳ अरुषैर् धामभिर् गात् । प्र सूनृता दिशमान ऋतेन दुरश् च विश्वा अवृणोद् अप स्वाः
शुनꣳ हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमꣳ वाजसातौ । शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तꣳ वृत्राणि सꣳजितꣳ धनानाम्
इन्द्र सोमꣳ सोमपते पिबेमम् माध्यꣳदिनꣳ सवनꣳ चारु यत् ते । प्रप्रुथ्या शिप्रे मघवन्न् ऋजीषिन् विमुच्या हरी इह मादयस्व
गवाशिरम् मन्थिनम् इन्द्र शुक्रम् पिबा सोमꣳ ररिमा ते मदाय । ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस् तृपद् आ वृषस्व
ये ते शुष्मꣳ ये तविषीम् अवर्धन्न् अर्चन्त इन्द्र मरुतस् त ओजः । माध्यꣳदिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र
त इन् न्व् अस्य मधुमद् विविप्र इन्द्रस्य शर्धो मरुतो य आसन् । येभिर् वृत्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म
मनुष्वद् इन्द्र सवनꣳ जुषाणः पिबा सोमꣳ शश्वते वीर्याय । स आ ववृत्स्व हर्यश्व यज्ञैः सरण्युभिर् अपो अर्णा सिसर्षि
त्वम् अपो यद् ध वृत्रꣳ जघन्वाꣳ अत्याꣳ इव प्रासृजः सर्तवाजौ । शयानम् इन्द्र चरता वधेन वव्रिवाꣳसम् परि देवीर् अदेवम्
यजाम इन् नमसा वृद्धम् इन्द्रम् बृहन्तम् ऋष्वम् अजरꣳ युवानम् । यस्य प्रिये ममतुर् यज्ञियस्य न रोदसी महिमानम् ममाते
इन्द्रस्य कर्म सुकृता पुरूणि व्रतानि देवा न मिनन्ति विश्वे । दाधार यः पृथिवीꣳ द्याम् उतेमाꣳ जजान सूर्यम् उषसꣳ सुदꣳसाः
अद्रोघ सत्यꣳ तव तन् महित्वꣳ सद्यो यज् जातो अपिबो ह सोमम् । न द्याव इन्द्र तवसस् त ओजो नाहा न मासाः शरदो वरन्त
त्वꣳ सद्यो अपिबो जात इन्द्र मदाय सोमम् परमे व्योमन् । यद् ध द्यावापृथिवी आविवेशीर् अथाभवः पूर्व्यः कारुधायाः
अहन्न् अहिम् परिशयानम् अर्ण ओजायमानꣳ तुविजात तव्यान् । न ते महित्वम् अनु भूद् अध द्यौर् यद् अन्यया स्फिग्या३ क्षाम् अवस्थाः
यज्ञो हि त इन्द्र वर्धनो भूद् उत प्रियः सुतसोमो मियेधः । यज्ञेन यज्ञम् अव यज्ञियः सन् यज्ञस् ते वज्रम् अहिहत्य आवत्
यज्ञेनेन्द्रम् अवसा चक्रे अर्वाग् ऐनꣳ सुम्नाय नव्यसे ववृत्याम् । यः स्तोमेभिर् वावृधे पूर्व्येभिर् यो मध्यमेभिर् उत नूतनेभिः
विवेष यन् मा धिषणा जजान स्तवै पुरा पार्याद् इन्द्रम् अह्नः । अꣳहसो यत्र पीपरद् यथा नो नावेव यान्तम् उभये हवन्ते
आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशꣳ सिसिचे पिबध्यै । सम् उ प्रिया आववृत्रन् मदाय प्रदक्षिणिद् अभि सोमास इन्द्रम्
न त्वा गभीरः पुरुहूत सिन्धुर् नाद्रयः परि षन्तो वरन्त । इत्था सखिभ्य इषितो यद् इन्द्रा दृळ्हꣳ चिद् अरुजो गव्यम् ऊर्वम्
शुनꣳ हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमꣳ वाजसातौ । शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तꣳ वृत्राणि सꣳजितꣳ धनानाम्
प्र पर्वतानाम् उशती उपस्थाद् अश्वे इव विषिते हासमाने । गावेव शुभ्रे मातरा रिहाणे विपाट् छुतुद्री पयसा जवेते
इन्द्रेषिते प्रसवम् भिक्षमाणे अच्छा समुद्रꣳ रथ्येव याथः । समाराणे ऊर्मिभिः पिन्वमाने अन्या वाम् अन्याम् अप्य् एति शुभ्रे
अच्छा सिन्धुम् मातृतमाम् अयासꣳ विपाशम् उर्वीꣳ सुभगाम् अगन्म । वत्सम् इव मातरा सꣳरिहाणे समानꣳ योनिम् अनु सꣳचरन्ती
एना वयम् पयसा पिन्वमाना अनु योनिꣳ देवकृतꣳ चरन्तीः । न वर्तवे प्रसवः सर्गतक्तः किꣳयुर् विप्रो नद्यो जोहवीति
रमध्वम् मे वचसे सोम्याय ऋतावरीर् उप मुहूर्तम् एवैः । प्र सिन्धुम् अच्छा बृहती मनीषावस्युर् अह्वे कुशिकस्य सूनुः
इन्द्रो अस्माꣳ अरदद् वज्रबाहुर् अपाहन् वृत्रम् परिधिꣳ नदीनाम् । देवो ऽनयत् सविता सुपाणिस् तस्य वयम् प्रसवे याम उर्वीः
प्रवाच्यꣳ शश्वधा वीर्य१ꣳ तद् इन्द्रस्य कर्म यद् अहिꣳ विवृश्चत् । वि वज्रेण परिषदो जघानायन्न् आपो ऽयनम् इच्छमानाः
एतद् वचो जरितर् मापि मृष्ठा आ यत् ते घोषान् उत्तरा युगानि । उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस् ते
ओ षु स्वसारः कारवे शृणोत ययौ वो दूराद् अनसा रथेन । नि षू नमध्वम् भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः
आ ते कारो शृणवामा वचाꣳसि ययाथ दूराद् अनसा रथेन । नि ते नꣳसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते
यद् अङ्ग त्वा भरताः सꣳतरेयुर् गव्यन् ग्राम इषित इन्द्रजूतः । अर्षाद् अह प्रसवः सर्गतक्त आ वो वृणे सुमतिꣳ यज्ञियानाम्
अतारिषुर् भरता गव्यवः सम् अभक्त विप्रः सुमतिꣳ नदीनाम् । प्र पिन्वध्वम् इषयन्तीः सुराधा आ वक्षणाः पृणध्वꣳ यात शीभम्
उद् व ऊर्मिः शम्या हन्त्व् आपो योक्त्राणि मुञ्चत । मादुष्कृतौ व्येनसाघ्न्यौ शूनम् आरताम्
इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैर् विदद्वसुर् दयमानो वि शत्रून् । ब्रह्मजूतस् तन्वा वावृधानो भूरिदात्र आपृणद् रोदसी उभे
मखस्य ते तविषस्य प्र जूतिम् इयर्मि वाचम् अमृताय भूषन् । इन्द्र क्षितीनाम् असि मानुषीणाꣳ विशाꣳ दैवीनाम् उत पूर्वयावा
इन्द्रो वृत्रम् अवृणोच् छर्धनीतिः प्र मायिनाम् अमिनाद् वर्पणीतिः । अहन् व्यꣳसम् उशधग् वनेष्व् आविर् धेना अकृणोद् राम्याणाम्
इन्द्रः स्वर्षा जनयन्न् अहानि जिगायोशिग्भिः पृतना अभिष्टिः । प्रारोचयन् मनवे केतुम् अह्नाम् अविन्दज् ज्योतिर् बृहते रणाय
इन्द्रस् तुजो बर्हणा आ विवेश नृवद् दधानो नर्या पुरूणि । अचेतयद् धिय इमा जरित्रे प्रेमꣳ वर्णम् अतिरच् छुक्रम् आसाम्
महो महानि पनयन्त्य् अस्येन्द्रस्य कर्म सुकृता पुरूणि । वृजनेन वृजिनान् सम् पिपेष मायाभिर् दस्यूꣳर् अभिभूत्योजाः
युधेन्द्रो मह्ना वरिवश् चकार देवेभ्यः सत्पतिश् चर्षणिप्राः । विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति
सत्रासाहꣳ वरेण्यꣳ सहोदाꣳ ससवाꣳसꣳ स्वर् अपश् च देवीः । ससान यः पृथिवीꣳ द्याम् उतेमाम् इन्द्रम् मदन्त्य् अनु धीरणासः
ससानात्याꣳ उत सूर्यꣳ ससानेन्द्रः ससान पुरुभोजसꣳ गाम् । हिरण्ययम् उत भोगꣳ ससान हत्वी दस्यून् प्रार्यꣳ वर्णम् आवत्
इन्द्र ओषधीर् असनोद् अहानि वनस्पतीꣳर् असनोद् अन्तरिक्षम् । बिभेद वलꣳ नुनुदे विवाचो ऽथाभवद् दमिताभिक्रतूनाम्
शुनꣳ हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमꣳ वाजसातौ । शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तꣳ वृत्राणि सꣳजितꣳ धनानाम्
तिष्ठा हरी रथ आ युज्यमाना याहि वायुर् न नियुतो नो अच्छ । पिबास्य् अन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय
उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्व् आ युनज्मि । द्रवद् यथा सम्भृतꣳ विश्वतश् चिद् उपेमꣳ यज्ञम् आ वहात इन्द्रम्
उपो नयस्व वृषणा तपुष्पोतेम् अव त्वꣳ वृषभ स्वधावः । ग्रसेताम् अश्वा वि मुचेह शोणा दिवे-दिवे सदृशीर् अद्धि धानाः
ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू । स्थिरꣳ रथꣳ सुखम् इन्द्राधितिष्ठन् प्रजानन् विद्वाꣳ उप याहि सोमम्
मा ते हरी वृषणा वीतपृष्ठा नि रीरमन् यजमानासो अन्ये । अत्यायाहि शश्वतो वयꣳ ते ऽरꣳ सुतेभिः कृणवाम सोमैः
तवायꣳ सोमस् त्वम् एह्य् अर्वाङ् छश्वत्तमꣳ सुमना अस्य पाहि । अस्मिन् यज्ञे बर्हिष्य् आ निषद्या दधिष्वेमꣳ जठर इन्दुम् इन्द्र
स्तीर्णꣳ ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते हरिभ्याम् । तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यꣳ राता हवीꣳषि
इमꣳ नरः पर्वतास् तुभ्यम् आपः सम् इन्द्र गोभिर् मधुमन्तम् अक्रन् । तस्यागत्या सुमना ऋष्व पाहि प्रजानन् विद्वान् पथ्या३ अनु स्वाः
याꣳ आभजो मरुत इन्द्र सोमे ये त्वाम् अवर्धन्न् अभवन् गणस् ते । तेभिर् एतꣳ सजोषा वावशानो३ ऽग्नेः पिब जिह्वया सोमम् इन्द्र
इन्द्र पिब स्वधया चित् सुतस्याग्नेर् वा पाहि जिह्वया यजत्र । अध्वर्योर् वा प्रयतꣳ शक्र हस्ताद् धोतुर् वा यज्ञꣳ हविषो जुषस्व
शुनꣳ हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमꣳ वाजसातौ । शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तꣳ वृत्राणि सꣳजितꣳ धनानाम्
इमाम् ऊ षु प्रभृतिꣳ सातये धाः शश्वच्-छश्वद् ऊतिभिर् यादमानः । सुते-सुते वावृधे वर्धनेभिर् यः कर्मभिर् महद्भिः सुश्रुतो भूत्
इन्द्राय सोमाः प्रदिवो विदाना ऋभुर् येभिर् वृषपर्वा विहायाः । प्रयम्यमानान् प्रति षू गृभायेन्द्र पिब वृषधूतस्य वृष्णः
पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे । यथापिबः पूर्व्याꣳ इन्द्र सोमाꣳ एवा पाहि पन्यो अद्या नवीयान्
महाꣳ अमत्रो वृजने विरप्श्य् उ१ग्रꣳ शवः पत्यते धृष्ण्व् ओजः । नाह विव्याच पृथिवी चनैनꣳ यत् सोमासो हर्यश्वम् अमन्दन्
महाꣳ उग्रो वावृधे वीर्याय समाचक्रे वृषभः काव्येन । इन्द्रो भगो वाजदा अस्य गावः प्र जायन्ते दक्षिणा अस्य पूर्वीः
प्र यत् सिन्धवः प्रसवꣳ यथायन्न् आपः समुद्रꣳ रथ्येव जग्मुः । अतश् चिद् इन्द्रः सदसो वरीयान् यद् ईꣳ सोमः पृणति दुग्धो अꣳशुः
समुद्रेण सिन्धवो यादमाना इन्द्राय सोमꣳ सुषुतम् भरन्तः । अꣳशुꣳ दुहन्ति हस्तिनो भरित्रैर् मध्वः पुनन्ति धारया पवित्रैः
ह्रदा इव कुक्षयः सोमधानाः सम् ई विव्याच सवना पुरूणि । अन्ना यद् इन्द्रः प्रथमा व्य् आश वृत्रꣳ जघन्वाꣳ अवृणीत सोमम्
आ तू भर माकिर् एतत् परि ष्ठाद् विद्मा हि त्वा वसुपतिꣳ वसूनाम् । इन्द्र यत् ते माहिनꣳ दत्रम् अस्त्य् अस्मभ्यꣳ तद् धर्यश्व प्र यन्धि
अस्मे प्र यन्धि मघवन्न् ऋजीषिन्न् इन्द्र रायो विश्ववारस्य भूरेः । अस्मे शतꣳ शरदो जीवसे धा अस्मे वीराञ् छश्वत इन्द्र शिप्रिन्
शुनꣳ हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमꣳ वाजसातौ । शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तꣳ वृत्राणि सꣳजितꣳ धनानाम्
वार्त्रहत्याय शवसे पृतनाषाह्याय च । इन्द्र त्वा वर्तयामसि
अर्वाचीनꣳ सु ते मन उत चक्षुः शतक्रतो । इन्द्र कृण्वन्तु वाघतः
नामानि ते शतक्रतो विश्वाभिर् गीर्भिर् ईमहे । इन्द्राभिमातिषाह्ये
पुरुष्टुतस्य धामभिः शतेन महयामसि । इन्द्रस्य चर्षणीधृतः
इन्द्रꣳ वृत्राय हन्तवे पुरुहूतम् उप ब्रुवे । भरेषु वाजसातये
वाजेषु सासहिर् भव त्वाम् ईमहे शतक्रतो । इन्द्र वृत्राय हन्तवे
द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवःसु च । इन्द्र साक्ष्वाभिमातिषु
शुष्मिन्तमꣳ न ऊतये द्युम्निनम् पाहि जागृविम् । इन्द्र सोमꣳ शतक्रतो
इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । इन्द्र तानि त आ वृणे
अगन्न् इन्द्र श्रवो बृहद् द्युम्नꣳ दधिष्व दुष्टरम् । उत् ते शुष्मꣳ तिरामसि
अर्वावतो न आ गह्य् अथो शक्र परावतः । उ लोको यस् ते अद्रिव इन्द्रेह तत आ गहि
अभि तष्टेव दीधया मनीषाम् अत्यो न वाजी सुधुरो जिहानः । अभि प्रियाणि मर्मृशत् पराणि कवीꣳर् इच्छामि सꣳदृशे सुमेधाः
इनोत पृच्छ जनिमा कवीनाम् मनोधृतः सुकृतस् तक्षत द्याम् । इमा उ ते प्रण्यो३ वर्धमाना मनोवाता अध नु धर्मणि ग्मन्
नि षीम् इद् अत्र गुह्या दधाना उत क्षत्राय रोदसी सम् अञ्जन् । सम् मात्राभिर् ममिरे येमुर् उर्वी अन्तर् मही समृते धायसे धुः
आतिष्ठन्तम् परि विश्वे अभूषञ् छ्रियो वसानश् चरति स्वरोचिः । महत् तद् वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ
असूत पूर्वो वृषभो ज्यायान् इमा अस्य शुरुधः सन्ति पूर्वीः । दिवो नपाता विदथस्य धीभिः क्षत्रꣳ राजाना प्रदिवो दधाथे
त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदाꣳसि । अपश्यम् अत्र मनसा जगन्वान् व्रते गन्धर्वाꣳ अपि वायुकेशान्
तद् इन् न्व् अस्य वृषभस्य धेनोर् आ नामभिर् ममिरे सक्म्यꣳ गोः । अन्यद्-अन्यद् असुर्य१ꣳ वसाना नि मायिनो ममिरे रूपम् अस्मिन्
तद् इन् न्व् अस्य सवितुर् नकिर् मे हिरण्ययीम् अमतिꣳ याम् अशिश्रेत् । आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे
युवम् प्रत्नस्य साधथो महो यद् दैवी स्वस्तिः परि णः स्यातम् । गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कृतानि
शुनꣳ हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमꣳ वाजसातौ । शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तꣳ वृत्राणि सꣳजितꣳ धनानाम्
इन्द्रम् मतिर् हृद आ वच्यमानाच्छा पतिꣳ स्तोमतष्टा जिगाति । या जागृविर् विदथे शस्यमानेन्द्र यत् ते जायते विद्धि तस्य
दिवश् चिद् आ पूर्व्या जायमाना वि जागृविर् विदथे शस्यमाना । भद्रा वस्त्राण्य् अर्जुना वसाना सेयम् अस्मे सनजा पित्र्या धीः
यमा चिद् अत्र यमसूर् असूत जिह्वाया अग्रम् पतद् आ ह्य् अस्थात् । वपूꣳषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता
नकिर् एषाꣳ निन्दिता मर्त्येषु ये अस्माकम् पितरो गोषु योधाः । इन्द्र एषाꣳ दृꣳहिता माहिनावान् उद् गोत्राणि ससृजे दꣳसनावान्
सखा ह यत्र सखिभिर् नवग्वैर् अभिज्ञ्व् आ सत्वभिर् गा अनुग्मन् । सत्यꣳ तद् इन्द्रो दशभिर् दशग्वैः सूर्यꣳ विवेद तमसि क्षियन्तम्
इन्द्रो मधु सम्भृतम् उस्रियायाम् पद्वद् विवेद शफवन् नमे गोः । गुहा हितꣳ गुह्यꣳ गूळ्हम् अप्सु हस्ते दधे दक्षिणे दक्षिणावान्
ज्योतिर् वृणीत तमसो विजानन्न् आरे स्याम दुरिताद् अभीके । इमा गिरः सोमपाः सोमवृद्ध जुषस्वेन्द्र पुरुतमस्य कारोः
ज्योतिर् यज्ञाय रोदसी अनु ष्याद् आरे स्याम दुरितस्य भूरेः । भूरि चिद् धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत्
शुनꣳ हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमꣳ वाजसातौ । शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तꣳ वृत्राणि सꣳजितꣳ धनानाम्
इन्द्र त्वा वृषभꣳ वयꣳ सुते सोमे हवामहे । स पाहि मध्वो अन्धसः
इन्द्र क्रतुविदꣳ सुतꣳ सोमꣳ हर्य पुरुष्टुत । पिबा वृषस्व तातृपिम्
इन्द्र प्र णो धितावानꣳ यज्ञꣳ विश्वेभिर् देवेभिः । तिर स्तवान विश्पते
इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते । क्षयꣳ चन्द्रास इन्दवः
दधिष्वा जठरे सुतꣳ सोमम् इन्द्र वरेण्यम् । तव द्युक्षास इन्दवः
गिर्वणः पाहि नः सुतम् मधोर् धाराभिर् अज्यसे । इन्द्र त्वादातम् इद् यशः
अभि द्युम्नानि वनिन इन्द्रꣳ सचन्ते अक्षिता । पीत्वी सोमस्य वावृधे
अर्वावतो न आ गहि परावतश् च वृत्रहन् । इमा जुषस्व नो गिरः
यद् अन्तरा परावतम् अर्वावतꣳ च हूयसे । इन्द्रेह तत आ गहि
आ तू न इन्द्र मद्र्यग् घुवानः सोमपीतये । हरिभ्याꣳ याह्य् अद्रिवः
सत्तो होता न ऋत्वियस् तिस्तिरे बर्हिर् आनुषक् । अयुज्रन् प्रातर् अद्रयः
इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद । वीहि शूर पुरोळाशम्
रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् । उक्थेष्व् इन्द्र गिर्वणः
मतयः सोमपाम् उरुꣳ रिहन्ति शवसस् पतिम् । इन्द्रꣳ वत्सꣳ न मातरः
स मन्दस्वा ह्य् अन्धसो राधसे तन्वा महे । न स्तोतारꣳ निदे करः
वयम् इन्द्र त्वायवो हविष्मन्तो जरामहे । उत त्वम् अस्मयुर् वसो
मारे अस्मद् वि मुमुचो हरिप्रियार्वाङ् याहि । इन्द्र स्वधावो मत्स्वेह
अर्वाञ्चꣳ त्वा सुखे रथे वहताम् इन्द्र केशिना । घृतस्नू बर्हिर् आसदे
उप नः सुतम् आ गहि सोमम् इन्द्र गवाशिरम् । हरिभ्याꣳ यस् ते अस्मयुः
तम् इन्द्र मदम् आ गहि बर्हिःष्ठाꣳ ग्रावभिः सुतम् । कुविन् न्व् अस्य तृप्णवः
इन्द्रम् इत्था गिरो ममाच्छागुर् इषिता इतः । आवृते सोमपीतये
इन्द्रꣳ सोमस्य पीतये स्तोमैर् इह हवामहे । उक्थेभिः कुविद् आगमत्
इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो । जठरे वाजिनीवसो
विद्मा हि त्वा धनꣳजयꣳ वाजेषु दधृषꣳ कवे । अधा ते सुम्नम् ईमहे
इमम् इन्द्र गवाशिरꣳ यवाशिरꣳ च नः पिब । आगत्या वृषभिः सुतम्
तुभ्येद् इन्द्र स्व ओक्ये३ सोमꣳ चोदामि पीतये । एष रारन्तु ते हृदि
त्वाꣳ सुतस्य पीतये प्रत्नम् इन्द्र हवामहे । कुशिकासो अवस्यवः
आ याह्य् अर्वाङ् उप वन्धुरेष्ठास् तवेद् अनु प्रदिवः सोमपेयम् । प्रिया सखाया वि मुचोप बर्हिस् त्वाम् इमे हव्यवाहो हवन्ते
आ याहि पूर्वीर् अति चर्षणीर् आꣳ अर्य आशिष उप नो हरिभ्याम् । इमा हि त्वा मतयः स्तोमतष्टा इन्द्र हवन्ते सख्यꣳ जुषाणाः
आ नो यज्ञꣳ नमोवृधꣳ सजोषा इन्द्र देव हरिभिर् याहि तूयम् । अहꣳ हि त्वा मतिभिर् जोहवीमि घृतप्रयाः सधमादे मधूनाम्
आ च त्वाम् एता वृषणा वहातो हरी सखाया सुधुरा स्वङ्गा । धानावद् इन्द्रः सवनꣳ जुषाणः सखा सख्युः शृणवद् वन्दनानि
कुविन् मा गोपाꣳ करसे जनस्य कुविद् राजानम् मघवन्न् ऋजीषिन् । कुविन् म ऋषिम् पपिवाꣳसꣳ सुतस्य कुविन् मे वस्वो अमृतस्य शिक्षाः
आ त्वा बृहन्तो हरयो युजाना अर्वाग् इन्द्र सधमादो वहन्तु । प्र ये द्विता दिव ऋञ्जन्त्य् आताः सुसम्मृष्टासो वृषभस्य मूराः
इन्द्र पिब वृषधूतस्य वृष्ण आ यꣳ ते श्येन उशते जभार । यस्य मदे च्यावयसि प्र कृष्टीर् यस्य मदे अप गोत्रा ववर्थ
शुनꣳ हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमꣳ वाजसातौ । शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तꣳ वृत्राणि सꣳजितꣳ धनानाम्
अयꣳ ते अस्तु हर्यतः सोम आ हरिभिः सुतः । जुषाण इन्द्र हरिभिर् न आ गह्य् आ तिष्ठ हरितꣳ रथम्
हर्यन्न् उषसम् अर्चयः सूर्यꣳ हर्यन्न् अरोचयः । विद्वाꣳश् चिकित्वान् हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियः
द्याम् इन्द्रो हरिधायसम् पृथिवीꣳ हरिवर्पसम् । अधारयद् धरितोर् भूरि भोजनꣳ ययोर् अन्तर् हरिश् चरत्
जज्ञानो हरितो वृषा विश्वम् आ भाति रोचनम् । हर्यश्वो हरितꣳ धत्त आयुधम् आ वज्रम् बाह्वोर् हरिम्
इन्द्रो हर्यन्तम् अर्जुनꣳ वज्रꣳ शुक्रैर् अभीवृतम् । अपावृणोद् धरिभिर् अद्रिभिः सुतम् उद् गा हरिभिर् आजत
आ मन्द्रैर् इन्द्र हरिभिर् याहि मयूररोमभिः । मा त्वा के चिन् नि यमन् विꣳ न पाशिनो ऽति धन्वेव ताꣳ इहि
वृत्रखादो वलꣳरुजः पुराꣳ दर्मो अपाम् अजः । स्थाता रथस्य हर्योर् अभिस्वर इन्द्रो दृळ्हा चिद् आरुजः
गम्भीराꣳ उदधीꣳर् इव क्रतुम् पुष्यसि गा इव । प्र सुगोपा यवसꣳ धेनवो यथा ह्रदꣳ कुल्या इवाशत
आ नस् तुजꣳ रयिम् भराꣳशꣳ न प्रतिजानते । वृक्षम् पक्वम् फलम् अङ्कीव धूनुहीन्द्र सम्पारणꣳ वसु
स्वयुर् इन्द्र स्वराळ् असि स्मद्दिष्टिः स्वयशस्तरः । स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः
युध्मस्य ते वृषभस्य स्वराज उग्रस्य यूनः स्थविरस्य घृष्वेः । अजूर्यतो वज्रिणो वीर्या३णीन्द्र श्रुतस्य महतो महानि
महाꣳ असि महिष वृष्ण्येभिर् धनस्पृद् उग्र सहमानो अन्यान् । एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान्
प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर् विश्वतो अप्रतीतः । प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर् महो अन्तरिक्षाद् ऋजीषी
उरुꣳ गभीरꣳ जनुषाभ्य् उ१ग्रꣳ विश्वव्यचसम् अवतम् मतीनाम् । इन्द्रꣳ सोमासः प्रदिवि सुतासः समुद्रꣳ न स्रवत आ विशन्ति
यꣳ सोमम् इन्द्र पृथिवीद्यावा गर्भꣳ न माता बिभृतस् त्वाया । तꣳ ते हिन्वन्ति तम् उ ते मृजन्त्य् अध्वर्यवो वृषभ पातवा उ
मरुत्वाꣳ इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधम् मदाय । आ सिञ्चस्व जठरे मध्व ऊर्मिꣳ त्वꣳ राजासि प्रदिवः सुतानाम्
सजोषा इन्द्र सगणो मरुद्भिः सोमम् पिब वृत्रहा शूर विद्वान् । जहि शत्रूꣳर् अप मृधो नुदस्वाथाभयꣳ कृणुहि विश्वतो नः
उत ऋतुभिर् ऋतुपाः पाहि सोमम् इन्द्र देवेभिः सखिभिः सुतꣳ नः । याꣳ आभजो मरुतो ये त्वान्व् अहन् वृत्रम् अदधुस् तुभ्यम् ओजः
ये त्वाहिहत्ये मघवन्न् अवर्धन् ये शाम्बरे हरिवो ये गविष्टौ । ये त्वा नूनम् अनुमदन्ति विप्राः पिबेन्द्र सोमꣳ सगणो मरुद्भिः
मरुत्वन्तꣳ वृषभꣳ वावृधानम् अकवारिꣳ दिव्यꣳ शासम् इन्द्रम् । विश्वासाहम् अवसे नूतनायोग्रꣳ सहोदाम् इह तꣳ हुवेम
सद्यो ह जातो वृषभः कनीनः प्रभर्तुम् आवद् अन्धसः सुतस्य । साधोः पिब प्रतिकामꣳ यथा ते रसाशिरः प्रथमꣳ सोम्यस्य
यज् जायथास् तद् अहर् अस्य कामे ऽꣳशोः पीयूषम् अपिबो गिरिष्ठाम् । तꣳ ते माता परि योषा जनित्री महः पितुर् दम आसिञ्चद् अग्रे
उपस्थाय मातरम् अन्नम् ऐट्ट तिग्मम् अपश्यद् अभि सोमम् ऊधः । प्रयावयन्न् अचरद् गृत्सो अन्यान् महानि चक्रे पुरुधप्रतीकः
उग्रस् तुराषाळ् अभिभूत्योजा यथावशꣳ तन्वꣳ चक्र एषः । त्वष्टारम् इन्द्रो जनुषाभिभूयामुष्या सोमम् अपिबच् चमूषु
शुनꣳ हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमꣳ वाजसातौ । शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तꣳ वृत्राणि सꣳजितꣳ धनानाम्
शꣳसा महाम् इन्द्रꣳ यस्मिन् विश्वा आ कृष्टयः सोमपाः कामम् अव्यन् । यꣳ सुक्रतुꣳ धिषणे विभ्वतष्टꣳ घनꣳ वृत्राणाꣳ जनयन्त देवाः
यꣳ नु नकिः पृतनासु स्वराजꣳ द्विता तरति नृतमꣳ हरिष्ठाम् । इनतमः सत्वभिर् यो ह शूषैः पृथुज्रया अमिनाद् आयुर् दस्योः
सहावा पृत्सु तरणिर् नार्वा व्यानशी रोदसी मेहनावान् । भगो न कारे हव्यो मतीनाम् पितेव चारुः सुहवो वयोधाः
धर्ता दिवो रजसस् पृष्ट ऊर्ध्वो रथो न वायुर् वसुभिर् नियुत्वान् । क्षपाꣳ वस्ता जनिता सूर्यस्य विभक्ता भागꣳ धिषणेव वाजम्
शुनꣳ हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमꣳ वाजसातौ । शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तꣳ वृत्राणि सꣳजितꣳ धनानाम्
इन्द्रः स्वाहा पिबतु यस्य सोम आगत्या तुम्रो वृषभो मरुत्वान् । ओरुव्यचाः पृणताम् एभिर् अन्नैर् आस्य हविस् तन्व१ः कामम् ऋध्याः
आ ते सपर्यू जवसे युनज्मि ययोर् अनु प्रदिवः श्रुष्टिम् आवः । इह त्वा धेयुर् हरयः सुशिप्र पिबा त्व् अ१स्य सुषुतस्य चारोः
गोभिर् मिमिक्षुꣳ दधिरे सुपारम् इन्द्रꣳ ज्यैष्ठ्याय धायसे गृणानाः । मन्दानः सोमम् पपिवाꣳ ऋजीषिन् सम् अस्मभ्यम् पुरुधा गा इषण्य
इमꣳ कामम् मन्दया गोभिर् अश्वैश् चन्द्रवता राधसा पप्रथश् च । स्वर्यवो मतिभिस् तुभ्यꣳ विप्रा इन्द्राय वाहः कुशिकासो अक्रन्
शुनꣳ हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमꣳ वाजसातौ । शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तꣳ वृत्राणि सꣳजितꣳ धनानाम्
चर्षणीधृतम् मघवानम् उक्थ्य१म् इन्द्रꣳ गिरो बृहतीर् अभ्य् अनूषत । वावृधानम् पुरुहूतꣳ सुवृक्तिभिर् अमर्त्यꣳ जरमाणꣳ दिवे-दिवे
शतक्रतुम् अर्णवꣳ शाकिनꣳ नरꣳ गिरो म इन्द्रम् उप यन्ति विश्वतः । वाजसनिम् पूर्भिदꣳ तूर्णिम् अप्तुरꣳ धामसाचम् अभिषाचꣳ स्वर्विदम्
आकरे वसोर् जरिता पनस्यते ऽनेहसः स्तुभ इन्द्रो दुवस्यति । विवस्वतः सदन आ हि पिप्रिये सत्रासाहम् अभिमातिहनꣳ स्तुहि
नृणाम् उ त्वा नृतमꣳ गीर्भिर् उक्थैर् अभि प्र वीरम् अर्चता सबाधः । सꣳ सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक ईशे
पूर्वीर् अस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी बिभर्ति । इन्द्राय द्याव ओषधीर् उतापो रयिꣳ रक्षन्ति जीरयो वनानि
तुभ्यम् ब्रह्माणि गिर इन्द्र तुभ्यꣳ सत्रा दधिरे हरिवो जुषस्व । बोध्य् आ३पिर् अवसो नूतनस्य सखे वसो जरितृभ्यो वयो धाः
इन्द्र मरुत्व इह पाहि सोमꣳ यथा शार्याते अपिबः सुतस्य । तव प्रणीती तव शूर शर्मन्न् आ विवासन्ति कवयः सुयज्ञाः
स वावशान इह पाहि सोमम् मरुद्भिर् इन्द्र सखिभिः सुतꣳ नः । जातꣳ यत् त्वा परि देवा अभूषन् महे भराय पुरुहूत विश्वे
अप्तूर्ये मरुत आपिर् एषो ऽमन्दन्न् इन्द्रम् अनु दातिवाराः । तेभिः साकम् पिबतु वृत्रखादः सुतꣳ सोमꣳ दाशुषः स्वे सधस्थे
इदꣳ ह्य् अन्व् ओजसा सुतꣳ राधानाम् पते । पिबा त्व् अ१स्य गिर्वणः
यस् ते अनु स्वधाम् असत् सुते नि यच्छ तन्वम् । स त्वा ममत्तु सोम्यम्
प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः । प्र बाहू शूर राधसे
धानावन्तꣳ करम्भिणम् अपूपवन्तम् उक्थिनम् । इन्द्र प्रातर् जुषस्व नः
पुरोळाशम् पचत्यꣳ जुषस्वेन्द्रा गुरस्व च । तुभ्यꣳ हव्यानि सिस्रते
पुरोळाशꣳ च नो घसो जोषयासे गिरश् च नः । वधूयुर् इव योषणाम्
पुरोळाशꣳ सनश्रुत प्रातःसावे जुषस्व नः । इन्द्र क्रतुर् हि ते बृहन्
माध्यꣳदिनस्य सवनस्य धानाः पुरोळाशम् इन्द्र कृष्वेह चारुम् । प्र यत् स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिर् ईट्टे
तृतीये धानाः सवने पुरुष्टुत पुरोळाशम् आहुतम् मामहस्व नः । ऋभुमन्तꣳ वाजवन्तꣳ त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभिः
पूषण्वते ते चकृमा करम्भꣳ हरिवते हर्यश्वाय धानाः । अपूपम् अद्धि सगणो मरुद्भिः सोमम् पिब वृत्रहा शूर विद्वान्
प्रति धाना भरत तूयम् अस्मै पुरोळाशꣳ वीरतमाय नृणाम् । दिवे-दिवे सदृशीर् इन्द्र तुभ्यꣳ वर्धन्तु त्वा सोमपेयाय धृष्णो
इन्द्रापर्वता बृहता रथेन वामीर् इष आ वहतꣳ सुवीराः । वीतꣳ हव्यान्य् अध्वरेषु देवा वर्धेथाꣳ गीर्भिर् इळया मदन्ता
तिष्ठा सु कम् मघवन् मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि । पितुर् न पुत्रः सिचम् आ रभे त इन्द्र स्वादिष्ठया गिरा शचीवः
शꣳसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् । एदम् बर्हिर् यजमानस्य सीदाथा च भूद् उक्थम् इन्द्राय शस्तम्
जायेद् अस्तम् मघवन् सेद् उ योनिस् तद् इत् त्वा युक्ता हरयो वहन्तु । यदा कदा च सुनवाम सोमम् अग्निष् ट्वा दूतो धन्वात्य् अच्छ
परा याहि मघवन्न् आ च याहीन्द्र भ्रातर् उभयत्रा ते अर्थम् । यत्रा रथस्य बृहतो निधानꣳ विमोचनꣳ वाजिनो रासभस्य
अपाः सोमम् अस्तम् इन्द्र प्र याहि कल्याणीर् जाया सुरणꣳ गृहे ते । यत्रा रथस्य बृहतो निधानꣳ विमोचनꣳ वाजिनो दक्षिणावत्
इमे भोजा अङ्गिरसो विरूपा दिवस् पुत्रासो असुरस्य वीराः । विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः
रूपꣳ-रूपम् मघवा बोभवीति मायाः कृण्वानस् तन्व१म् परि स्वाम् । त्रिर् यद् दिवः परि मुहूर्तम् आगात् स्वैर् मन्त्रैर् अनृतुपा ऋतावा
महाꣳ ऋषिर् देवजा देवजूतो ऽस्तभ्नात् सिन्धुम् अर्णवꣳ नृचक्षाः । विश्वामित्रो यद् अवहत् सुदासम् अप्रियायत कुशिकेभिर् इन्द्रः
हꣳसा इव कृणुथ श्लोकम् अद्रिभिर् मदन्तो गीर्भिर् अध्वरे सुते सचा । देवेभिर् विप्रा ऋषयो नृचक्षसो वि पिबध्वꣳ कुशिकाः सोम्यम् मधु
उप प्रेत कुशिकाश् चेतयध्वम् अश्वꣳ राये प्र मुञ्चता सुदासः । राजा वृत्रꣳ जङ्घनत् प्राग् अपाग् उदग् अथा यजाते वर आ पृथिव्याः
य इमे रोदसी उभे अहम् इन्द्रम् अतुष्टवम् । विश्वामित्रस्य रक्षति ब्रह्मेदम् भारतꣳ जनम्
विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे । करद् इन् नः सुराधसः
किꣳ ते कृण्वन्ति कीकटेषु गावो नाशिरꣳ दुह्रे न तपन्ति घर्मम् । आ नो भर प्रमगन्दस्य वेदो नैचाशाखम् मघवन् रन्धया नः
ससर्परीर् अमतिम् बाधमाना बृहन् मिमाय जमदग्निदत्ता । आ सूर्यस्य दुहिता ततान श्रवो देवेष्व् अमृतम् अजुर्यम्
ससर्परीर् अभरत् तूयम् एभ्यो ऽधि श्रवः पाञ्चजन्यासु कृष्टिषु । सा पक्ष्या३ नव्यम् आयुर् दधाना याम् मे पलस्तिजमदग्नयो ददुः
स्थिरौ गावौ भवताꣳ वीळुर् अक्षो मेषा वि वर्हि मा युगꣳ वि शारि । इन्द्रः पातल्ये ददताꣳ शरीतोर् अरिष्टनेमे अभि नः सचस्व
बलꣳ धेहि तनूषु नो बलम् इन्द्रानळुत्सु नः । बलꣳ तोकाय तनयाय जीवसे त्वꣳ हि बलदा असि
अभि व्ययस्व खदिरस्य सारम् ओजो धेहि स्पन्दने शिꣳशपायाम् । अक्ष वीळो वीळित वीळयस्व मा यामाद् अस्माद् अव जीहिपो नः
अयम् अस्मान् वनस्पतिर् मा च हा मा च रीरिषत् । स्वस्त्य् आ गृहेभ्य आवसा आ विमोचनात्
इन्द्रोतिभिर् बहुलाभिर् नो अद्य याच्छ्रेष्ठाभिर् मघवञ् छूर जिन्व । यो नो द्वेष्ट्य् अधरः सस् पदीष्ट यम् उ द्विष्मस् तम् उ प्राणो जहातु
परशुꣳ चिद् वि तपति शिम्बलꣳ चिद् वि वृश्चति । उखा चिद् इन्द्र येषन्ती प्रयस्ता फेनम् अस्यति
न सायकस्य चिकिते जनासो लोधꣳ नयन्ति पशु मन्यमानाः । नावाजिनꣳ वाजिना हासयन्ति न गर्दभम् पुरो अश्वान् नयन्ति
इम इन्द्र भरतस्य पुत्रा अपपित्वꣳ चिकितुर् न प्रपित्वम् । हिन्वन्त्य् अश्वम् अरणꣳ न नित्यꣳ ज्यावाजम् परि णयन्त्य् आजौ
इमम् महे विदथ्याय शूषꣳ शश्वत् कृत्व ईड्याय प्र जभ्रुः । शृणोतु नो दम्येभिर् अनीकैः शृणोत्व् अग्निर् दिव्यैर् अजस्रः
महि महे दिवे अर्चा पृथिव्यै कामो म इच्छञ् चरति प्रजानन् । ययोर् ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः
युवोर् ऋतꣳ रोदसी सत्यम् अस्तु महे षु णः सुविताय प्र भूतम् । इदꣳ दिवे नमो अग्ने पृथिव्यै सपर्यामि प्रयसा यामि रत्नम्
उतो हि वाम् पूर्व्या आविविद्र ऋतावरी रोदसी सत्यवाचः । नरश् चिद् वाꣳ समिथे शूरसातौ ववन्दिरे पृथिवि वेविदानाः
को अद्धा वेद क इह प्र वोचद् देवाꣳ अच्छा पथ्या३ का सम् एति । ददृश्र एषाम् अवमा सदाꣳसि परेषु या गुह्येषु व्रतेषु
कविर् नृचक्षा अभि षीम् अचष्ट ऋतस्य योना विघृते मदन्ती । नाना चक्राते सदनꣳ यथा वेः समानेन क्रतुना सꣳविदाने
समान्या वियुते दूरेअन्ते ध्रुवे पदे तस्थतुर् जागरूके । उत स्वसारा युवती भवन्ती आद् उ ब्रुवाते मिथुनानि नाम
विश्वेद् एते जनिमा सꣳ विविक्तो महो देवान् बिभ्रती न व्यथेते । एजद् ध्रुवम् पत्यते विश्वम् एकꣳ चरत् पतत्रि विषुणꣳ वि जातम्
सना पुराणम् अध्य् एम्य् आरान् महः पितुर् जनितुर् जामि तन् नः । देवासो यत्र पनितार एवैर् उरौ पथि व्युते तस्थुर् अन्तः
इमꣳ स्तोमꣳ रोदसी प्र ब्रवीम्य् ऋदूदराः शृणवन्न् अग्निजिह्वाः । मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः
हिरण्यपाणिः सविता सुजिह्वस् त्रिर् आ दिवो विदथे पत्यमानः । देवेषु च सवितः श्लोकम् अश्रेर् आद् अस्मभ्यम् आ सुव सर्वतातिम्
सुकृत् सुपाणिः स्ववाꣳ ऋतावा देवस् त्वष्टावसे तानि नो धात् । पूषण्वन्त ऋभवो मादयध्वम् ऊर्ध्वग्रावाणो अध्वरम् अतष्ट
विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता अयासः । सरस्वती शृणवन् यज्ञियासो धाता रयिꣳ सहवीरꣳ तुरासः
विष्णुꣳ स्तोमासः पुरुदस्मम् अर्का भगस्येव कारिणो यामनि ग्मन् । उरुक्रमः ककुहो यस्य पूर्वीर् न मर्धन्ति युवतयो जनित्रीः
इन्द्रो विश्वैर् वीर्यै३ः पत्यमान उभे आ पप्रौ रोदसी महित्वा । पुरꣳदरो वृत्रहा धृष्णुषेणः सꣳगृभ्या न आ भरा भूरि पश्वः
नासत्या मे पितरा बन्धुपृच्छा सजात्यम् अश्विनोश् चारु नाम । युवꣳ हि स्थो रयिदौ नो रयीणाꣳ दात्रꣳ रक्षेथे अकवैर् अदब्धा
महत् तद् वः कवयश् चारु नाम यद् ध देवा भवथ विश्व इन्द्रे । सख ऋभुभिः पुरुहूत प्रियेभिर् इमाꣳ धियꣳ सातये तक्षता नः
अर्यमा णो अदितिर् यज्ञियासो ऽदब्धानि वरुणस्य व्रतानि । युयोत नो अनपत्यानि गन्तोः प्रजावान् नः पशुमाꣳ अस्तु गातुः
देवानाꣳ दूतः पुरुध प्रसूतो ऽनागान् नो वोचतु सर्वताता । शृणोतु नः पृथिवी द्यौर् उतापः सूर्यो नक्षत्रैर् उर्व् अ१न्तरिक्षम्
शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया मदन्तः । आदित्यैर् नो अदितिः शृणोतु यच्छन्तु नो मरुतः शर्म भद्रम्
सदा सुगः पितुमाꣳ अस्तु पन्था मध्वा देवा ओषधीः सम् पिपृक्त । भगो मे अग्ने सख्ये न मृध्या उद् रायो अश्याꣳ सदनम् पुरुक्षोः
स्वदस्व हव्या सम् इषो दिदीह्य् अस्मद्र्य१क् सम् मिमीहि श्रवाꣳसि । विश्वाꣳ अग्ने पृत्सु ताञ् जेषि शत्रून् अहा विश्वा सुमना दीदिही नः
उषसः पूर्वा अध यद् व्यूषुर् महद् वि जज्ञे अक्षरम् पदे गोः । व्रता देवानाम् उप नु प्रभूषन् महद् देवानाम् असुरत्वम् एकम्
मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः । पुराण्योः सद्मनोः केतुर् अन्तर् महद् देवानाम् असुरत्वम् एकम्
वि मे पुरुत्रा पतयन्ति कामाः शम्य् अच्छा दीद्ये पूर्व्याणि । समिद्धे अग्नाव् ऋतम् इद् वदेम महद् देवानाम् असुरत्वम् एकम्
समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु । अन्या वत्सम् भरति क्षेति माता महद् देवानाम् असुरत्वम् एकम्
आक्षित् पूर्वास्व् अपरा अनूरुत् सद्यो जातासु तरुणीष्व् अन्तः । अन्तर्वतीः सुवते अप्रवीता महद् देवानाम् असुरत्वम् एकम्
शयुः परस्ताद् अध नु द्विमाताबन्धनश् चरति वत्स एकः । मित्रस्य ता वरुणस्य व्रतानि महद् देवानाम् असुरत्वम् एकम्
द्विमाता होता विदथेषु सम्राळ् अन्व् अग्रꣳ चरति क्षेति बुध्नः । प्र रण्यानि रण्यवाचो भरन्ते महद् देवानाम् असुरत्वम् एकम्
शूरस्येव युध्यतो अन्तमस्य प्रतीचीनꣳ ददृशे विश्वम् आयत् । अन्तर् मतिश् चरति निष्षिधꣳ गोर् महद् देवानाम् असुरत्वम् एकम्
नि वेवेति पलितो दूत आस्व् अन्तर् महाꣳश् चरति रोचनेन । वपूꣳषि बिभ्रद् अभि नो वि चष्टे महद् देवानाम् असुरत्वम् एकम्
विष्णुर् गोपाः परमम् पाति पाथः प्रिया धामान्य् अमृता दधानः । अग्निष् टा विश्वा भुवनानि वेद महद् देवानाम् असुरत्वम् एकम्
नाना चक्राते यम्या३ वपूꣳषि तयोर् अन्यद् रोचते कृष्णम् अन्यत् । श्यावी च यद् अरुषी च स्वसारौ महद् देवानाम् असुरत्वम् एकम्
माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची । ऋतस्य ते सदसीळे अन्तर् महद् देवानाम् असुरत्वम् एकम्
अन्यस्या वत्सꣳ रिहती मिमाय कया भुवा नि दधे धेनुर् ऊधः । ऋतस्य सा पयसापिन्वतेळा महद् देवानाम् असुरत्वम् एकम्
पद्या वस्ते पुरुरूपा वपूꣳष्य् ऊर्ध्वा तस्थौ त्र्यविꣳ रेरिहाणा । ऋतस्य सद्म वि चरामि विद्वान् महद् देवानाम् असुरत्वम् एकम्
पदे इव निहिते दस्मे अन्तस् तयोर् अन्यद् गुह्यम् आविर् अन्यत् । सध्रीचीना पथ्या३ सा विषूची महद् देवानाम् असुरत्वम् एकम्
आ धेनवो धुनयन्ताम् अशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः । नव्या-नव्या युवतयो भवन्तीर् महद् देवानाम् असुरत्वम् एकम्
यद् अन्यासु वृषभो रोरवीति सो अन्यस्मिन् यूथे नि दधाति रेतः । स हि क्षपावान् स भगः स राजा महद् देवानाम् असुरत्वम् एकम्
वीरस्य नु स्वश्व्यꣳ जनासः प्र नु वोचाम विदुर् अस्य देवाः । षोळ्हा युक्ताः पञ्च-पञ्चा वहन्ति महद् देवानाम् असुरत्वम् एकम्
देवस् त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान । इमा च विश्वा भुवनान्य् अस्य महद् देवानाम् असुरत्वम् एकम्
मही सम् ऐरच् चम्वा समीची उभे ते अस्य वसुना न्यृष्टे । शृण्वे वीरो विन्दमानो वसूनि महद् देवानाम् असुरत्वम् एकम्
इमाꣳ च नः पृथिवीꣳ विश्वधाया उप क्षेति हितमित्रो न राजा । पुरःसदः शर्मसदो न वीरा महद् देवानाम् असुरत्वम् एकम्
निष्षिध्वरीस् त ओषधीर् उतापो रयिꣳ त इन्द्र पृथिवी बिभर्ति । सखायस् ते वामभाजः स्याम महद् देवानाम् असुरत्वम् एकम्
न ता मिनन्ति मायिनो न धीरा व्रता देवानाम् प्रथमा ध्रुवाणि । न रोदसी अद्रुहा वेद्याभिर् न पर्वता निनमे तस्थिवाꣳसः
षड् भाराꣳ एको अचरन् बिभर्त्य् ऋतꣳ वर्षिष्ठम् उप गाव आगुः । तिस्रो महीर् उपरास् तस्थुर् अत्या गुहा द्वे निहिते दर्श्य् एका
त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध प्रजावान् । त्र्यनीकः पत्यते माहिनावान् स रेतोधा वृषभः शश्वतीनाम्
अभीक आसाम् पदवीर् अबोध्य् आदित्यानाम् अह्वे चारु नाम । आपश् चिद् अस्मा अरमन्त देवीः पृथग् व्रजन्तीः परि षीम् अवृञ्जन्
त्री षधस्था सिन्धवस् त्रिः कवीनाम् उत त्रिमाता विदथेषु सम्राट् । ऋतावरीर् योषणास् तिस्रो अप्यास् त्रिर् आ दिवो विदथे पत्यमानाः
त्रिर् आ दिवः सवितर् वार्याणि दिवे-दिव आ सुव त्रिर् नो अह्नः । त्रिधातु राय आ सुवा वसूनि भग त्रातर् धिषणे सातये धाः
त्रिर् आ दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी । आपश् चिद् अस्य रोदसी चिद् उर्वी रत्नम् भिक्षन्त सवितुः सवाय
त्रिर् उत्तमा दूणशा रोचनानि त्रयो राजन्त्य् असुरस्य वीराः । ऋतावान इषिरा दूळभासस् त्रिर् आ दिवो विदथे सन्तु देवाः
प्र मे विविक्वाꣳ अविदन् मनीषाꣳ धेनुꣳ चरन्तीम् प्रयुताम् अगोपाम् । सद्यश् चिद् या दुदुहे भूरि धासेर् इन्द्रस् तद् अग्निः पनितारो अस्याः
इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयꣳ दुदुह्रे । विश्वे यद् अस्याꣳ रणयन्त देवाः प्र वो ऽत्र वसवः सुम्नम् अश्याम्
या जामयो वृष्ण इच्छन्ति शक्तिꣳ नमस्यन्तीर् जानते गर्भम् अस्मिन् । अच्छा पुत्रꣳ धेनवो वावशाना महश् चरन्ति बिभ्रतꣳ वपूꣳषि
अच्छा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा । इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः
या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची । तयेह विश्वाꣳ अवसे यजत्रान् आ सादय पायया चा मधूनि
या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद् देव चित्रा । ताम् अस्मभ्यम् प्रमतिꣳ जातवेदो वसो रास्व सुमतिꣳ विश्वजन्याम्
धेनुः प्रत्नस्य काम्यꣳ दुहानान्तः पुत्रश् चरति दक्षिणायाः । आ द्योतनिꣳ वहति शुभ्रयामोषसः स्तोमो अश्विनाव् अजीगः
सुयुग् वहन्ति प्रति वाम् ऋतेनोर्ध्वा भवन्ति पितरेव मेधाः । जरेथाम् अस्मद् वि पणेर् मनीषाꣳ युवोर् अवश् चकृमा यातम् अर्वाक्
सुयुग्भिर् अश्वैः सुवृता रथेन दस्राव् इमꣳ शृणुतꣳ श्लोकम् अद्रेः । किम् अङ्ग वाम् प्रत्य् अवर्तिꣳ गमिष्ठाहुर् विप्रासो अश्विना पुराजाः
आ मन्येथाम् आ गतꣳ कच् चिद् एवैर् विश्वे जनासो अश्विना हवन्ते । इमा हि वाꣳ गोऋजीका मधूनि प्र मित्रासो न ददुर् उस्रो अग्रे
तिरः पुरू चिद् अश्विना रजाꣳस्य् आङ्गूषो वाम् मघवाना जनेषु । एह यातम् पथिभिर् देवयानैर् दस्राव् इमे वाꣳ निधयो मधूनाम्
पुराणम् ओकः सख्यꣳ शिवꣳ वाꣳ युवोर् नरा द्रविणꣳ जह्नाव्याम् । पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू समानाः
अश्विना वायुना युवꣳ सुदक्षा नियुद्भिष् च सजोषसा युवाना । नासत्या तिरोअह्न्यꣳ जुषाणा सोमम् पिबतम् अस्रिधा सुदानू
अश्विना परि वाम् इषः पुरूचीर् ईयुर् गीर्भिर् यतमाना अमृध्राः । रथो ह वाम् ऋतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः
अश्विना मधुषुत्तमो युवाकुः सोमस् तम् पातम् आ गतꣳ दुरोणे । रथो ह वाम् भूरि वर्पः करिक्रत् सुतावतो निष्कृतम् आगमिष्ठः
मित्रो जनान् यातयति ब्रुवाणो मित्रो दाधार पृथिवीम् उत द्याम् । मित्रः कृष्टीर् अनिमिषाभि चष्टे मित्राय हव्यꣳ घृतवज् जुहोत
प्र स मित्र मर्तो अस्तु प्रयस्वान् यस् त आदित्य शिक्षति व्रतेन । न हन्यते न जीयते त्वोतो नैनम् अꣳहो अश्नोत्य् अन्तितो न दूरात्
अनमीवास इळया मदन्तो मितज्ञवो वरिमन्न् आ पृथिव्याः । आदित्यस्य व्रतम् उपक्षियन्तो वयम् मित्रस्य सुमतौ स्याम
अयम् मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः । तस्य वयꣳ सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम
महाꣳ आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः । तस्मा एतत् पन्यतमाय जुष्टम् अग्नौ मित्राय हविर् आ जुहोत
मित्रस्य चर्षणीधृतो ऽवो देवस्य सानसि । द्युम्नꣳ चित्रश्रवस्तमम्
अभि यो महिना दिवम् मित्रो बभूव सप्रथाः । अभि श्रवोभिः पृथिवीम्
मित्राय पञ्च येमिरे जना अभिष्टिशवसे । स देवान् विश्वान् बिभर्ति
मित्रो देवेष्व् आयुषु जनाय वृक्तबर्हिषे । इष इष्टव्रता अकः
इहेह वो मनसा बन्धुता नर उशिजो जग्मुर् अभि तानि वेदसा । याभिर् मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियम् भागम् आनश
याभिः शचीभिश् चमसाꣳ अपिꣳशत यया धिया गाम् अरिणीत चर्मणः । येन हरी मनसा निरतक्षत तेन देवत्वम् ऋभवः सम् आनश
इन्द्रस्य सख्यम् ऋभवः सम् आनशुर् मनोर् नपातो अपसो दधन्विरे । सौधन्वनासो अमृतत्वम् एरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्यया
इन्द्रेण याथ सरथꣳ सुते सचाꣳ अथो वशानाम् भवथा सह श्रिया । न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो वीर्याणि च
इन्द्र ऋभुभिर् वाजवद्भिः समुक्षितꣳ सुतꣳ सोमम् आ वृषस्वा गभस्त्योः । धियेषितो मघवन् दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः
इन्द्र ऋभुमान् वाजवान् मत्स्वेह नो ऽस्मिन् सवने शच्या पुरुष्टुत । इमानि तुभ्यꣳ स्वसराणि येमिरे व्रता देवानाम् मनुषश् च धर्मभिः
इन्द्र ऋभुभिर् वाजिभिर् वाजयन्न् इह स्तोमꣳ जरितुर् उप याहि यज्ञियम् । शतꣳ केतेभिर् इषिरेभिर् आयवे सहस्रणीथो अध्वरस्य होमनि
उषो वाजेन वाजिनि प्रचेताः स्तोमꣳ जुषस्व गृणतो मघोनि । पुराणी देवि युवतिः पुरꣳधिर् अनु व्रतꣳ चरसि विश्ववारे
उषो देव्य् अमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती । आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णाम् पृथुपाजसो ये
उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्य् अमृतस्य केतुः । समानम् अर्थꣳ चरणीयमाना चक्रम् इव नव्यस्य् आ ववृत्स्व
अव स्यूमेव चिन्वती मघोन्य् उषा याति स्वसरस्य पत्नी । स्व१र् जनन्ती सुभगा सुदꣳसा आन्ताद् दिवः पप्रथ आ पृथिव्याः
अच्छा वो देवीम् उषसꣳ विभातीम् प्र वो भरध्वꣳ नमसा सुवृक्तिम् । ऊर्ध्वम् मधुधा दिवि पाजो अश्रेत् प्र रोचना रुरुचे रण्वसꣳदृक्
ऋतावरी दिवो अर्कैर् अबोध्य् आ रेवती रोदसी चित्रम् अस्थात् । आयतीम् अग्न उषसꣳ विभातीꣳ वामम् एषि द्रविणम् भिक्षमाणः
ऋतस्य बुध्न उषसाम् इषण्यन् वृषा मही रोदसी आ विवेश । मही मित्रस्य वरुणस्य माया चन्द्रेव भानुꣳ वि दधे पुरुत्रा
इमा उ वाम् भृमयो मन्यमाना युवावते न तुज्या अभूवन् । क्व१ त्यद् इन्द्रावरुणा यशो वाꣳ येन स्मा सिनम् भरथः सखिभ्यः
अयम् उ वाम् पुरुतमो रयीयञ् छश्वत्तमम् अवसे जोहवीति । सजोषाव् इन्द्रावरुणा मरुद्भिर् दिवा पृथिव्या शृणुतꣳ हवम् मे
अस्मे तद् इन्द्रावरुणा वसु ष्याद् अस्मे रयिर् मरुतः सर्ववीरः । अस्मान् वरूत्रीः शरणैर् अवन्त्व् अस्मान् होत्रा भारती दक्षिणाभिः
बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । रास्व रत्नानि दाशुषे
शुचिम् अर्कैर् बृहस्पतिम् अध्वरेषु नमस्यत । अनाम्य् ओज आ चके
वृषभꣳ चर्षणीनाꣳ विश्वरूपम् अदाभ्यम् । बृहस्पतिꣳ वरेण्यम्
इयꣳ ते पूषन्न् आघृणे सुष्टुतिर् देव नव्यसी । अस्माभिस् तुभ्यꣳ शस्यते
ताꣳ जुषस्व गिरम् मम वाजयन्तीम् अवा धियम् । वधूयुर् इव योषणाम्
यो विश्वाभि विपश्यति भुवना सꣳ च पश्यति । स नः पूषाविता भुवत्
तत् सवितुर् वरेण्यम् भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात्
देवस्य सवितुर् वयꣳ वाजयन्तः पुरꣳध्या । भगस्य रातिम् ईमहे
देवꣳ नरः सवितारꣳ विप्रा यज्ञैः सुवृक्तिभिः । नमस्यन्ति धियेषिताः
सोमो जिगाति गातुविद् देवानाम् एति निष्कृतम् । ऋतस्य योनिम् आसदम्
सोमो अस्मभ्यꣳ द्विपदे चतुष्पदे च पशवे । अनमीवा इषस् करत्
अस्माकम् आयुर् वर्धयन्न् अभिमातीः सहमानः । सोमः सधस्थम् आसदत्
आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् । मध्वा रजाꣳसि सुक्रतू
उरुशꣳसा नमोवृधा मह्ना दक्षस्य राजथः । द्राघिष्ठाभिः शुचिव्रता
गृणाना जमदग्निना योनाव् ऋतस्य सीदतम् । पातꣳ सोमम् ऋतावृधा
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ṚṢIS). Ṛgveda Saṃhitā — Maṇḍala 3. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/rgveda-mandala-3>. Acesso em: 26/04/2026.
Tradição Védica (Ṛṣis) (2026). Ṛgveda Saṃhitā — Maṇḍala 3. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/rgveda-mandala-3
Tradição Védica (Ṛṣis). "Ṛgveda Saṃhitā — Maṇḍala 3." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/rgveda-mandala-3.