Sāmaveda Saṃhitā (Kauthuma Śākhā)
Tradição Védica (Ṛṣis)
अग्न आ याहि वीतये गृणानो हव्यदातये . नि होता सत्सि बर्हिषि ..
त्वमग्ने यज्ञानां होता विश्वेषां हितः . देवेभिर्मानुषे जने ..
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् . अस्य यज्ञस्य सुक्रतुम् ..
अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया . समिद्धः शुक्र आहुतः ..
प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियम् . अग्ने रथं न वेद्यम् ..
त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः . उत द्विषो मर्त्यस्य ..
एह्यू षु ब्रवाणि ते ऽग्न इत्थेतरा गिरः . एभिर्वर्धास इन्दुभिः ..
आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् . अग्ने त्वां कामये गिरा ..
त्वामग्ने पुष्करादध्यथर्वा निरमन्थत . मूर्ध्नो विश्वस्य वाघतः ..
अग्ने विवस्वदा भरास्मभ्यमूतये महे . देवो ह्यसि नो दृशे ..
नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः . अमैरमित्रमर्दय ..
दूतं वो विश्ववेदसं हव्यवाहममर्त्यम् . यजिष्ठमृञ्जसे गिरा ..
उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः . वायोरनीके अस्थिरन् ..
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् . नमो भरन्त एमसि ..
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय . स्तोमं रुद्राय दृशीकम् ..
प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे . मरुद्भिरग्न आ गहि ..
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः . सम्राजन्तमध्वराणाम् ..
और्वभृगुवच्छुचिमप्नवानवदा हुवे . अग्निं समुद्रवाससम् ..
अग्निमिन्धानो मनसा धियं सचेत मर्त्यः . अग्निमिन्धे विवस्वभिः ..
आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् . परो यदिध्यते दिवि ..
अग्निं वो वृधन्तमध्वराणां पुरूतमम् . अच्छा नप्त्रे सहस्वते ..
अग्निस्तिग्मेन शोचिषा यंसद्विश्वं न्या३त्रिणम् . अग्निर्नो वंसते रयिम् ..
अग्ने मृड महां अस्यय आ देवयुं जनम् . इयेथ बर्हिरासदम् ..
अग्ने रक्षा णो अंहसः प्रति स्म देव रीषतः . तपिष्ठैरजरो दह ..
अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः . अरं वहन्त्याशवः ..
नि त्वा नक्ष्य विश्पते द्युमन्तं धीमहे वयम् . सुवीरमग्न आहुत ..
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् . अपां रेतांसि जिन्वति ..
इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम् . अग्ने देवेषु प्र वोचः ..
तं त्वा गोपवनो गिरा जनिष्ठदग्ने अङ्गरः . स पावक श्रुधी हवम् ..
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् . दधद्रत्नानि दाशुषे ..
उदु त्यं जातवेदसं देवं वहन्ति केतवः . दृशे विश्वाय सूर्यम् ..
कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे . देवममीवचातनम् ..
शं नो देवीरभिष्टये शं नो भवन्तु पीतये . शं योरभि स्रवन्तु नः ..
कस्य नूनं परीणसि धियो जिन्वसि सत्पते . जोषाता यस्य ते गिरः ..
यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे . प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् ..
पाहि नो अग्न एकया पाह्यू३त द्वितीयया . पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ..
बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा . भरद्वाजे समिधानो यविष्ठ्य रेवत्पावक दीदिहि ..
त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः . यन्तारो ये मघवानो जनानामूर्वं दयन्त गोनाम् ..
अग्ने जरितर्विश्पतिस्तपानो देव रक्षसः . अप्रोषिवान्गृहपते महां असि दिवस्पायुर्दुरोणयुः ..
अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य . आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः ..
त्वं नश्चित्र ऊत्या वसो राधांसि चोदय . अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ..
त्वमित्सप्रथा अस्यग्ने त्रातरृतः कविः . त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ..
आ नो अग्ने वयोवृधं रयिं पावक शंस्यम् . रास्वा च न उपमाते पुरुस्पृहं सुनीती सुयशस्तरम् ..
यो विश्वा दयते वसु होता मन्द्रो जनानाम् . मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये ..
एना वो अग्निं नमसोर्जो नपातमा हुवे . प्रियं चेतिष्ठमरतिं स्वाध्वरं विश्वस्य दूतममृतम् ..
शेषे वनेषु मातृषु सं त्वा मर्तास इन्धते . अतन्द्रो हव्यं वहसि हविष्कृत आदिद्देवेषु राजसि ..
अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः . उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ..
अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे . ऋचा यामि मरुतो ब्रह्मणस्पते देवा अवो वरेण्यम् ..
अग्निमीडिष्वावसे गाथाभिः शीरशोचिषम् . अग्निं राये पुरुमीढ श्रुतं नरो ऽग्निः सुदीतये छर्दिः ..
श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः . आ सीदतु बर्हिषि मित्रो अर्यमा प्रातर्यावभिरध्वरे ..
प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना . अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ..
अध ज्मो अध वा दिवो बृहतो रोचनादधि . अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण ..
कायमानो वना त्वं यन्मात्र्^ईरजगन्नपः . न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभुवः ..
नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते . दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः .. ५४ प्रथम प्रपाठकः . द्वितीयो ऽर्धः
देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् . उद्वा सिञ्जध्वमुप वा पृणध्वमादिद्वो देव ओहते ..
प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता . अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ..
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता . ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ..
प्र यो राये निनीषति मर्तो यस्ते वसो दाशत् . स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम् ..
प्र वो यह्वं पुरूणां विशां देवयतीनाम् . अग्निं सूक्तेभिर्वचोभिर्वृणीमहे यंसमिदन्य इन्धते ..
अयमग्निः सुवीर्यस्येशे हि सौभगस्य . राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् ..
त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे . त्वं पोता विश्ववार प्रचेता ताक्षि यासि च वार्यम् ..
सखायस्त्वा ववृमहे देवं मर्तास ऊतये . अपां नपातं सुभगं सुदंससं सुप्रतूर्तिमनेहसम् ..
आ जुहोता हविषा मर्जयध्वं नि होतारं गृहपतिं दधिध्वम् . इडस्पदे नमसा रातहव्यं सपर्यता यजतं पस्त्यानाम् ..
चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावन्वेति धातवे . अनूधा यदजीजनदधा चिदा ववक्षत्सद्यो महि दूत्या३ं चरन् ..
इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व . संवेशनस्तन्वे३ चारुरेधि प्रियो देवानां परमे जनित्रे ..
इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया . भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ..
मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् . कविं सम्राजमतिथिं जनानामासन्नाः पात्रं जनयन्त देवाः ..
वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरग्ने जनयन्त देवाः . तं त्वा गिरः सुष्टुतयो वाजयन्त्याजिं न गिर्ववाहो जिग्युरश्वाः ..
आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः . अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ..
इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन . नरो हव्येभिरीडते सबाध आग्निरग्रमुषसामशोचि ..
प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति . दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध ..
अग्निं नरो दीधितिभिरण्योर्हस्तच्युतं जनयत प्रशस्तम् . दूरेदृशं गृहपतिमथव्युम् ..
अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् . यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ ..
प्र भूर्जयन्तं महां विपोधां मूरैरमूरं पुरां दर्माणम् . नयन्तं गीर्भिर्वना धियं धा हरिश्मश्रुं न वार्मणा धनर्चिम् ..
शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि . विश्वा हि माया अवसि स्वधावन्भद्रा ते पूषन्निह रातिरस्तु..
इडामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध . स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ..
प्र होता जातो महान्नभोविन्नृषद्मा सीददपां विवर्ते . दधद्यो धायी सुते वयांसि यन्ता वसूनि विधते तनूपाः ..
प्र सम्राजमसुरस्य प्रश्स्तं पुंसः कृष्टीनामनुमाद्यस्य . इन्द्रस्येव प्र तवसस्कृतानि वन्दद्वारा वन्दमाना विवष्टु ..
अरण्योर्निहितो जातवेदा गर्भ इवेत्सुभृतो गर्भिणीभिः . दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ..
सनादग्ने मृणसि यातुधानान्न त्वा रक्षांसि पृतनासु जिग्युः . अनु दह सहमूरान्कयादो मा ते हेत्या मुक्षत दैव्यायाः ..
अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो . प्र नो राये पनीयसे रत्सि वाजाय पन्थाम् ..
यदि वीरो अनु ष्यादग्निमिन्धीत मर्त्यः . आजुह्वद्धव्यमानुषक्शर्म भक्षीत दैव्यम् ..
त्वेषस्ते धूम ऋण्वति दिवि सं च्छुक्र आततः . सूरो न हि द्युता त्वं कृपा पावक रोचसे ..
त्वं हि क्षैतवद्यशो ऽग्ने मित्रो न पत्यसे . त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ..
प्रातरग्निः पुरुप्रियो विष स्तवेतातिथिः . विश्वे यस्मिन्नमर्त्ये हव्यं मर्तास इन्धते ..
यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो . महिषीव त्वद्रयिस्त्वद्वाजा उदीरते ..
विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् . अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः ..
बृहद्वयो हि भानवे ऽर्चा देवायाग्नये . यं मित्रं न प्रशस्तये मर्तासो दधिरे पुरः ..
अगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् . य स्म श्रुतर्वन्नार्क्षे बृहदनीक इध्यते ..
जातः परेण धर्मणा यत्सवृद्भिः सहाभुवः . पिता यत्कश्यपस्याग्निः श्रद्धा माता मनुः कविः ..
सोमं राजानं वरुणमग्निमन्वारभामहे . आदित्यं विष्णुं सूर्यं ब्रह्मानं च बृहस्पतिम् ..
इत एत उदारुहन्दिवः पृष्ठान्या रुहन् . प्र भूर्जयो यथा पथोद्यामङ्गिरसो ययुः ..
राये अग्ने महे त्वा दानाय समिधीमहि . ईडिष्वा हि महे वृषं द्यावा होत्राय पृथिवी ..
दधन्वे वा यदीमनु वोचद्ब्रह्मेति वेरु तत् . परि विश्वानि काव्या नेमिश्चक्रमिवाभुवत् ..
प्रत्यग्ने हरसा हरः शृणाहि विश्वतस्परि . यातुधानस्य रक्षसो बलं न्युब्जवीर्यम् ..
त्वमग्ने वसूंरिह रुद्रां आदित्यां उत . यजा स्वध्वरं जनं मनुजातं घृतप्रुषम् .. ९६ द्वितीय प्रपाठकः . प्रथमो ऽर्धः
पुरु त्वा दाशिवां वोचे ऽरिरग्ने तव स्विदा . तोदस्येव शरण आ महस्य ..
प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् . विपां ज्योतींषि बिभ्रते न वेधसे ..
अग्ने वाजस्य गोमत ईशानः सहसो यहो . अस्मे धेहि जातवेदो महि श्रवः ..
अग्ने यजिष्ठो अध्वरे देवां देवयते यज . होता मन्द्रो वि राजस्यति स्रिधः ..
जज्ञानः सप्त मातृभिर्मेधामाशासत श्रिये . अयं ध्रुवो रयीणां चिकेतदा ..
उत स्या नो दिवा मतिरदितिरूत्यागमत् . सा शन्ताता मयस्करदप स्रिधः ..
ईडिष्वा हि प्रतीव्या३ं यजस्व जातवेदसम् . चरिष्णुधूममगृभीतशोचिषम् ..
न तस्य मायया च न रिपुरीशीत मर्त्यः . यो अग्नये ददाश हव्यदातये ..
अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यम् . दविष्ठमस्य सत्पते कृधी सुगम् ..
श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते . नि मायिनस्तपसा रक्षसो दह ..
प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे . उपस्तुतासो अग्नये ..
प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः . यस्य त्वं सख्यमाविथ ..
तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे . देवत्रा हव्यमूहिषे ..
मा नो हृणीथा अतिथिं वसुरग्निः पुरुप्रशस्त एशः . यः सुहोता स्वध्वरः ..
भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः . भद्रा उत प्रशस्तयः ..
यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् . अस्य यज्ञस्य सुक्रतुम् ..
तदग्ने द्युम्नमा भर यत्सासाहा सदने कं चिदत्रिणम् . मन्युं जनस्य दूढ्यम् ..
यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशे . विश्वेदग्निः प्रति रक्षांसि सेधति .. ११४ .. इत्याग्नेय पर्वं काण्डम् .. ऐन्द्र काण्डम्
तद्वो गाय सुते सचा पुरुहूताय सत्वने . शं यद्गवे न शाकिने ..
यस्ते नूनं शतक्रतविन्द्र द्युम्नितमो मदः . तेन नूनं मदे मदेः ..
गाव उप वदावटे महि यज्ञस्य रप्सुदा . उभा कर्णा हिरण्यया ..
अरमश्वाय गायत श्रुतकक्षारं गवे . अरमिन्द्रस्य धाम्ने ..
तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे . स वृषा वृषभो भुवत् ..
त्वमिन्द्र बलादधि सहसो जात ओजसः . त्वं सन्वृषन्वृषेदसि ..
यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् . चक्राण ओपशं दिवि ..
यदिन्द्राहं तथा त्वमीशीय वस्व एक इत् . स्तोता मे गोसखा स्यात् ..
पन्यंपन्यमित्सोतार आ धावत मद्याय . सोमं वीराय शूराय ..
इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् . अनाभयिन्ररिमा ते ..
उद्धेदभि श्रुतामघं वृषभं नर्यापसम् . अस्तारमेषि सूर्य ..
यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य . सर्वं तदिन्द्र ते वशे ..
य आनयत्परावतः सुनीती तुर्वशं यदुम् . इन्द्रः स नो युवा सखा ..
मा न इन्द्राभ्या ऽ ऽ३ दिशः सूरो अक्तुष्वा यमत . त्वा युजा वनेम तत् ..
एन्द्र सानसिं रयिं सजित्वानं सदासहम् . वर्षिष्ठमूतये भर ..
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे . युजं वृत्रेषु वज्रिणम् ..
अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे . तत्राददिष्ट पौंस्यम् ..
वयमिन्द्र त्वायवो ऽभि प्र नोनुमो वृषन् . विद्धी त्वा३स्य नो वसो ..
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् . येषामिन्द्रो युवा सखा ..
भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः . वसु स्पार्हं तदा भर ..
इहेव शृण्व एषां कशा हस्तेषु यद्वदान् . नि यामं चित्रमृञ्जते ..
इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः . पुष्टावन्तो यथा पशुम् ..
समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः . समुद्रायेव सिन्धवः ..
देवानामिदवो महत्तदा वृणीमहे वयम् . वृष्णामस्मभ्यमूतये ..
सोमानां स्वरणं कृणुहि ब्रह्मणस्पते . कक्षीवन्तं य औशिजः ..
बोधन्मना इदस्तु नो वृत्रहा भूर्यासुतिः . शृणोतु शक्र आशिषम् ..
अद्य नो देव सवितः प्रजावत्सावीः सौभगम् . परा दुःष्वप्न्यं सुव ..
क्वा३स्य वृषभो युवा तुविग्रीवो अनानतः . ब्रह्मा कस्तं सपर्यति ..
उपह्वरे गिरीणां सङ्गमे च नदीनाम् . धिया विप्रो अजायत ..
प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः . नरं नृषाहं मंहिष्ठम् .. १४४ द्वितीय प्रपाठकः . द्वितीयो ऽर्धः
अपादु शिप्रयन्धसः सुदक्षस्य प्रहोषिणः . इन्द्रोरिन्द्रो यवाशिरः ..
इमा उ त्वा पुरुवसो ऽभि प्र नोनवुर्गिरः . गावो वत्सं न धेनवः ..
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् . इत्था चन्द्रमसो गृहे ..
यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः . तत्र पूषाभुवत्सचा ..
गौर्धयति मरुतां श्रवस्युर्माता मघोनाम् युक्ता वह्नी रथानाम् ..
उप नो हरिभिः सुतं याहि मदानां पते . उप नो हरिभिः सुतम् ..
इष्टा होत्रा असृक्षतेन्द्रं वृधन्तो अध्वरे . अच्छावभृथमोजसा ..
अहमिद्धि पितुष्परि मेधामृतस्य जग्रह . अहं सूर्य इवाजनि ..
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः . क्षुमन्तो याभिर्मदेम ..
सोमः पूषा च चेततुर्विश्वासां सुक्षितीनाम् . देवत्रा रथ्योर्हिता ..
पान्तमा वो अन्धस इन्द्रमभि प्र गायत . विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम् ..
प्र व इन्द्राय मादनं हर्यश्वाय गायत . सखायः सोमपाव्ने ..
वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः . कण्वा उक्थेभिर्जरन्ते ..
इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः . अर्कमर्चन्तु कारवः ..
अयं त इन्द्र सोमो निपूतो अधि बर्हिषि . एहीमस्य द्रवा पिब ..
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे . जुहूमसि द्यविद्यवि ..
अभि त्वा वृषभा सुते सुतं सृजामि पीतये . तृम्पा व्यश्नुही मदम् ..
य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः . पिबेदस्य त्वमीशिषे ..
योगेयोगे तवस्तरं वाजेवाजे हवामहे . सखाय इन्द्रमूतये ..
आ त्वेता नि षीदतेन्द्रमभि प्र गायत . सखायः स्तोमवाहसः ..
इदं ह्यन्वोजसा सुतं राधानां पते . पिबा त्वा३स्य गिर्वणः ..
महां इन्द्रः पुरश्च नो महित्वमस्तु वज्रिणे . द्यौर्न प्रथिना शवः ..
आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय . महाहस्ती दक्षिणेन ..
अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे . सूनुं सत्यस्य सत्पतिम् ..
कया नश्चित्र आ भुवदूती सदावृधः सखा . कया शचिष्ठया वृता ..
त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् . आ च्यावयस्यूतये ..
सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् . सनिं मेधामयासिषम् ..
ये ते पन्था अधो दिवो येभिर्व्यश्वमैरयः . उत श्रोषन्तु नो भुवः ..
भद्रंभद्रं न आ भरेषमूर्जं शतक्रतो . यदिन्द्र मृडयासि नः ..
अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः . उत स्वराजो अश्विना ..
ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते . वन्वानासः सुवीर्यम् ..
न कि देवा इनीमसि न क्या योपयामसि . मन्त्रश्रुत्यं चरामसि ..
दोषो आगाद्बृहद्गाय द्युमद्गामन्नाथर्वण . स्तुहि देवं सवितारम् ..
एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः . स्तुषे वामश्विना बृहत् ..
इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः . जघान नवतीर्नव ..
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः . महां अभिष्टिरोजसा ..
आ तू न इन्द्र वृत्रहन्नस्माकमर्धमा गहि . महान्महीभिरूतिभिः ..
ओजस्तदस्य तित्विष उभे यत्समवर्तयत् . इन्द्रश्चर्मेव रोदसी ..
अयमु ते समतसि कपोत इव गर्भधिम् . वचस्तच्चिन्न ओहसे ..
वात आ वातु बेषजं शम्भु मयोभु नो हृदे . प्र न अयूंषि तारिषत् ..
यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा . न किः स दभ्यते जनः ..
गव्यो षु णो यथा पुराश्वयोत रथया . वरिवस्या महोनाम् ..
इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरम् . एनामृतस्य पिप्युषीः ..
अया धिया च गव्यया पुरुणामन्पुरुष्टुत . यत्सोमेसोम आभुवः ..
पावका नः सरस्वती वाजेभिर्वाजिनीवती . यज्ञं वष्टु धियावसुः ..
क इमं नाहुषीष्वा इन्द्रं सोमस्य तर्पयात् . स नो वसून्या भरात् ..
आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् . एदं बर्हिः सदो मम ..
महि त्रीणामवरस्तु द्युक्षं मित्रस्यार्यम्णः . दुराधर्षं वरुणस्य ..
त्वावतः पुरूवसो वयमिन्द्र प्रणेतः . स्मसि स्थातर्हरीणाम् .. १९३ तृतीय प्रपाठकः . प्रथमो ऽर्धः
उत्त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः . अव ब्रह्मद्विषो जहि ..
गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे . इन्द्र त्वादातमिद्यशः ..
सदा व इन्द्रश्चर्कृषदा उपो नु स सपर्यन् . न देवो वृतः शूर इन्द्रः ..
आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः . न त्वामिन्द्राति रिच्यते ..
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः . इन्द्रं वाणीरनूषत ..
इन्द्र इषे ददातु न ऋभुक्षणमृभुं रयिम् . वाजी ददातु वाजिनम् ..
इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत् . स हि स्थिरो विचर्षणिः .. इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः .
गावो वत्सं न धेनवः ..
इन्द्रा नु पूषणा वयं सख्याय स्वस्तये . हुवेम वाजसातये ..
न कि इन्द्र त्वदुत्तरं न ज्यायो अस्ति वृत्रहन् . न क्येवं यथा त्वम् ..
तरणिं वो जनानां त्रदं वाजस्य गोमतः . समानमु प्र शंसिषम् ..
असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत . सजोषा वृषभं पतिम् ..
सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा . मित्रास्पान्त्यद्रुहः ..
यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् . वसु स्पार्हं तदा भर ..
श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनाम् . आशिषे राधसे महे ..
अरं त इन्द्र श्रवसे गमेम शूर त्वावतः . अरं शक्र परेमणि ..
धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् . इन्द्र प्रातर्जुषस्व नः ..
अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः . विश्वा यदजय स्पृधः ..
इमे त इन्द्र सोमाः सुतासो ये च सोत्वाः . तेषां मत्स्व प्रभूवसो ..
तुभ्यं सुतासः सोमाः स्तीर्णं बर्हिर्विभावसो . स्तोतृभ्य इन्द्र मृडय ..
आ व इन्द्र कृविं यथा वाजयन्तः शतक्रतुम् . मंहिष्ठं सिञ्च इन्दुभिः ..
अतश्चिदिन्द्र न उपा याहि शतवाजया . इषा सहस्रवाजया ..
आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरम् . क उग्राः के ह शृण्विरे ..
बृबदुक्थं हवामहे सृप्रकरस्नमूतये . साधः कृण्वन्तमवसे ..
ऋजुनीती नो वरुणो मित्रो नयति विद्वान् . अर्यमा देवैः सजोषाः ..
दूरादिहेव यत्सतो ऽरुणप्सुरशिश्वितत् . वि भानुं विश्वथातनत् ..
आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् . मध्वा रजांसि सुक्रतू ..
उदु त्ये सूनवो गिरः काष्ठा यज्ञेष्वत्नत . वाश्रा अभिज्ञु यातवे ..
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् . समूढमस्य पांसुले ..
अतीहि मन्युषाविणं सुषुवांसमुपेरय . अस्य रातौ सुतं पिब ..
कदु प्रचेतसे महे वचो देवाय शस्यते . तदिध्यस्य वर्धनम् ..
उक्थं च न शस्यमानं नागो रयिरा चिकेत . न गायत्रं गीयमानम् ..
इन्द्र उक्थेभिर्मन्दिष्ठो वाजानां च वाजपतिः . हरिवान्त्सुतानां सखा ..
आ याह्युप नः सुतं वाजेभिर्मा हृणीयथाः . महां इव युवजानिः ..
कदा वसो स्तोत्रं हर्यत आ अव श्मशा रुधद्वाः . दीर्घं सुतम् वाताप्याय ..
ब्राह्मणादिन्द्र राधसः पिबा सोममृतूं रनु . तवेदं सख्यमस्तृतम् ..
वयं घा ते अपि स्मसि स्तोतार इन्द्र गिर्वणः . त्वं नो जिन्व सोमपाः ..
एन्द्र पृक्षु कासु चिन्नृम्णं तनूषु धेहि नः . सत्राजिदुग्र पौंस्यम् ..
एवा ह्यसि वीरयुरेवा शूर उत स्थिरः . एवा ते राध्यं मनः ..
अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः . ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ..
त्वामिद्धि हवामहे सातौ वाजस्य कार्वः . त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ..
अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे . यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ..
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः . अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ..
तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये . बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ..
तरणिरित्सिषासति वाजं पुरन्ध्या युजा . आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवम् ..
पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः . आपिर्नो बोधि सधमाद्ये वृधे३ ऽस्मां अवन्तु ते धियः ..
त्वं ह्येहि चेरवे विदा भगं वसुत्तये . उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ..
न हि वश्चरमं च न वसिष्ठः परिमंस्ते . अस्माकमद्य मरुतः सुते सचा विश्वे पिबन्तु कामिनः ..
मा चिदन्यद्वि शंसत सखायो मा रिषण्यत . इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत .. २४२ तृतीय प्रपाठकः . द्वितीयो ऽर्धः
न किष्टं कर्मणा नशद्यश्चकार सदावृधम् . इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्णुमोजसा ..
य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः . सन्धाता सन्धिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः ..
आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये . ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ..
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः . मा त्वा के चिन्नि येमुरिन्न पाशिनो ऽति धन्वेव तां इहि ..
त्वमङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् . न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ..
त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः . त्वं वृत्राणि हंस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ..
इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे . इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ..
इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम . पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैरनूषत ..
उदु त्ये मधुमत्तमा गिर स्तोमास ईरते . सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ..
यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् . आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ..
शग्ध्यू३षु शचीपत इन्द्र विश्वाभिरूतिभिः . भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ..
या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः . स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ..
प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो . वरूथ्ये३ वरुणे छन्द्यं वचः स्तोत्रं राजसु गायत ..
अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः . समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ..
प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत . वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा ..
बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् . येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि ..
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा . शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ..
मा न इन्द्र परा वृणग्भवा नः सधमाद्ये . त्वं न ऊती त्वमिन्न आप्यम् मा न इन्द्र परा वृणक् ..
वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः . पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ..
यदिन्द्र नाहुषीष्वा ओजो नृम्णं च कृष्टिषु . यद्वा पञ्च क्षितीनां द्युम्नमा भर सत्रा विश्वानि पौंस्या ..
सत्यमित्था वृषेदसि वृषजूतिर्नो ऽविता . वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ..
यच्छक्रासि परावति यदर्वावति वृत्रहन् . अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावां आ विवासति ..
अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम् . इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा ..
इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तये . छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ..
श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत . वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ..
न सीमदेव आप तदिषं दीर्घायो मर्त्यः . एतग्वा चिद्या एतशो युयोजत इन्द्रो हरी युयोजते ..
आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत . उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ..
तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमम् . सत्रा विश्वस्य परमस्य राजसि न किष्ट्वा गोषु वृण्वते ..
क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः . अलर्षि युध्म खजकृत्पुरन्दर प्र गायत्रा अगासिषुः ..
वयमेनमिदा ह्योपीपेमेह वज्रिणम् . तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ..
यो राजा चर्षणीनां याता रथेभिरध्रिगुः . विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ..
यत इन्द्र भयामहे ततो नो अभयं कृधि . मघवञ्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि ..
वास्तोष्पते ध्रुवा स्थूणां सत्रं सोम्यानाम् . द्रप्सः पुरां भेत्ता शश्वतीनामिन्द्रो मुनीनां सखा ..
बण्महां असि सूर्य बडादित्य महां असि . महस्ते सतो महिमा पनिष्टम मह्ना देव महां असि ..
अश्वी रथी सुरूप इद्गोमां यदिन्द्र ते सखा . श्वात्रभाजा वयसा सचते सदा चन्द्रैर्याति सभामुप ..
यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः . न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ..
यदिन्द्र प्रागपागुदग्न्यग्वा हूयसे नृभिः . सिमा पुरू नृषूतो अस्यानवे ऽसि प्रशर्ध तुर्वशे ..
कस्तमिन्द्र त्वा वसवा मर्त्यो दधर्षति . श्रद्धा हि ते मघवन्पार्ये दिवि वाजी वाजं सिषासति ..
इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः . हित्वा शिरो जिह्वया रारपच्चरत्त्रिंशत्पदा न्यक्रमीत् ..
इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः . आ शं तम शं तमाभिरभिष्टिभिरा स्वापे स्वापिभिः ..
इत ऊती वो अजरं प्रहेतारमप्रहितम् . आशुं जेतारं हेतारं रथीतममतूर्तं तुग्रियावृधम् ..
मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् . आरात्ताद्वा सधमादं न आ गहीह वा सन्नुप श्रुधि ..
सुनोत सोमपाव्ने सोममिन्द्राय वज्रिणे . पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः ..
यः सत्राहा विचर्षणिरिन्द्रं तं हूमहे वयम् . सहस्रमन्यो तुविनृम्ण सत्पते भवा समत्सु नो वृधे ..
शचीभिर्नः शचीवसू दिवानक्तं दिशस्यतम् . मा वां रातिरुप दसत्कदा च नास्मद्रातिः कदा च न ..
यदा कदा च मीढुषे स्तोता जरेत मर्त्यः . आदिद्वन्देत वरुणं विपा गिरा धर्त्तारं विव्रतानाम् ..
पाहि गा अन्धसो मद इन्द्राय मेध्यातिथे . यः सम्मिश्लो हर्योर्यो हिरण्यय इन्द्रो वज्री हिरण्ययः ..
उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः . सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ..
महे च न त्वाद्रिवः परा शुल्काय दीयसे . न सहस्राय नायुताये वज्रिवो न शताय शतामघ ..
वस्यां इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः . माता च मे छदयथः समा वसो वसुत्वनाय राधसे .. २९२ चतुर्थ प्रपाठकः . प्रथमो ऽर्धः
इम इन्द्राय सुन्विरे सोमासो दध्याशिरः . तां आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ ..
इम इन्द्र मदाय ते सोमाश्चिकित्र उकिथनः . मधोः पपान उप नो गिरः शृणु रास्व स्तोत्राय गिर्वणः ..
आ त्वा३द्य सबर्दुघां हुवे गायत्रवेपसम् . इन्द्रं धेनुं सुदुघामन्यामिषमुरुधारामरङ्कृतम् ..
न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीडवः . यच्छिक्षसि स्तुवते मावते वसु न किष्टदा मिनाति ते ..
क ईं वेद सुते सचा पिबन्तं कद्वयो दधे . अयं यः पुरो विभिनत्योजसा मन्दानः शिप्र्यन्धसः ..
यदिन्द्र शासो अव्रतं च्यावया सदसस्परि . अस्माकमंशुं मघवन्पुरुस्पृहं वसव्ये अधि बर्हय ..
त्वष्टा नो दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः . पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रामणं वचः ..
कदा च न स्तरीरसि नेन्द्र सश्चसि दाशुषे . उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते ..
युङ्क्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः . अर्वाचीनो मघवन्त्सोमपीतय उग्र ऋष्वेभिरा गहि ..
त्वामिदा ह्यो नरो ऽपीप्यन्वज्रिन्भूर्णयः . स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि ..
प्रत्यु अदर्श्यायत्यू३च्छन्ती दुहिता दिवः . अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरि ..
इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना . अयं वामह्वे ऽवसे शचीवसू विशंविशं हि गच्छथः ..
कु ष्ठः को वामश्विना तपानो देवा मर्त्यः . घ्नता वामश्मया क्षपमाणोंशुनेत्थमु आदुन्यथा ..
अयं वां मधुमत्तमः सुतः सोमो दिविष्टिषु . तमश्विना पिबतं तिरो अह्न्यं धत्तं रत्नानि दाशुषे ..
आ त्वा सोमस्य गल्दया सदा याचन्नहं ज्या . भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ..
अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति . उपो नूनं युयुजे वृष्णा हरी आ च जगाम वृत्रहा ..
अभी षतस्तदा भरेन्द्र ज्यायः कनीयसः . पुरूवसुर्हि मघवन्बभूविथ भरेभरे च हव्यः ..
यदिन्द्र यावतस्त्वमेतावदहमीशीय . स्तोतारमिद्दधिषे रदावसो न पापत्वाय रंसिषम् ..
त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः . अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः ..
प्र यो रिरिक्ष ओजसा दिवः सदोभ्यस्परि . न त्वा विव्याच रज इन्द्र पार्थिवमति विश्वं ववक्षिथ ..
असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच . बोधामसि त्वा हर्यश्व यज्ञैर्बोधा न स्तोममन्धसो मदेषु ..
योनिष्ट इन्द्र सदने अकारि तमा नृभिः पुरूहूत प्र याहि . असो यथा नो ऽविता वृधश्चिद्ददो वसूनि ममदश्च सोमैः ..
अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानां अरम्णाः . महान्तमिन्द्र पर्वतं वि यद्वः सृजद्धारा अव यद्दानवान्हन् ..
सुष्वाणास इन्द्र स्तुमसि त्वा सनिष्यन्तश्चित्तुविनृम्ण वाजम् . आ नो भर सुवितं यस्य कोना तना त्मना सह्यामा त्वोताः ..
जगृह्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् . विद्मा हि त्वा गोपतिं शूर गोनामस्मभ्यं चित्रं वृषणं रयिन्दाः ..
इन्द्रं नरो नेमधिता हवन्ति यत्पार्या युनजते धियस्ताः . शूरो नृषाता श्रवसश्च काम आ गोमति व्रजे भजा त्वं नः ..
वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः . अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्या३स्मान्निधयेव बद्धान् ..
नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा . हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ..
ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः . स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः ..
अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय . विरप्शिने वज्रिणे शन्तमानि वचांस्यास्मै स्थविराय तक्षुः ..
अव द्रप्सो अंशुमतीमतिष्ठदीयानः कृष्णो दशभिः सहस्रैः . आवत्तमिन्द्रः शच्या धमन्तमप स्नीहितिं नृमणा अधद्राः ..
वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः . मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि ..
विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार . देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ..
त्वं ह त्यत्सप्तभ्यो जायमानो ऽशत्रुभ्यो अभवः शत्रुरिन्द्र . गूढे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ..
मेडिं न त्वा वज्रिणं भृष्टिमन्तं पुरुधस्मानं वृषभं स्थिरप्स्नुम् . करोष्यर्यस्तरुषीर्दुवस्युरिन्द्र द्युक्षं वृत्रहणं गृणीषे ..
प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् .
विशः पूर्वीः प्र चर चर्षणिप्राः ..
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ . शृण्वन्तमुग्रमूतये समत्सु ध्नन्तं वृत्राणि सञ्जितं धनानि ..
उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ . आ यो विश्वानि श्रवसा ततानोपश्रोता म ईवतो वचांसि ..
चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चच्छद्यात् . पृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु ..
त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम् . अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ..
त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् . हुवे नु शक्रं पुरुहूतमिन्द्रमिदं हविर्मघवा वेत्विन्द्रः ..
यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्य३ं विव्रतानाम् . प्र श्मश्रुभिर्दोधुवदूर्ध्वधा भुवद्वि सेनाभिर्भयमानो वि राधसा ..
सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृशभं सुवज्रम् . हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ..
यो नो वनुष्यन्नभिदाति मर्त उगणा वा मन्यमानस्तुरो वा . क्षिधी युधा शवसा वा तमिन्द्राभी ष्याम वृषमणस्त्वोताः ..
यं वृत्रेषु क्षितय स्पर्धमाना यं युक्तेषु तुरयन्तो हवन्ते . यं शूरसातौ यमपामुपज्मन्यं विप्रासो वाजयन्ते स इन्द्रः ..
इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः . वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिडया मदन्ता ..
इन्द्राय गिरो अनिशितसर्गा अपः प्रैरयत्सगरस्य बुध्नात् . यो अक्षेणेव चक्रियौ शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम् ..
आ त्वा सखायः सख्या ववृत्युस्तिरः पुरू चिदर्णवां जगम्याः . पितुर्नपातमा दधित वेधा अस्मिन्क्षये प्रतरां दीद्यानः ..
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् . आसन्नेषामप्सुवाहो मयोभून्य एषां भृत्यामृणधत्स जीवात् .. ३४१ चतुर्थ प्रपाठकः . द्वितीयो ऽर्धः
गायन्ति त्वा गायत्रिणो ऽर्चन्त्यर्कमर्किणः . ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ..
इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः . रथीतमं रथीनां वाजानां सत्पतिं पतिम् ..
इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् . शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ..
यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः . राधस्तन्नो विदद्वस उभयाहस्त्या भर ..
श्रुदी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति . सुवीर्यस्य गोमतो रायस्पूर्धि महां असि ..
असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि . आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ..
एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् . दिवो अमुष्य शासतो दिवं यय दिवावसो ..
आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः . अभि त्वा समनूषत गावो वत्सं न धेनवः ..
एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना . शुद्धैरुक्थैर्वावृध्वांसं शुद्धैराशीर्वान्ममत्तु ..
यो रयिं वो रयिन्तमो यो द्युम्नैर्द्युम्नवत्तमः . सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः ..
प्रत्यस्मै पिपीषते विश्वानि विदुषे भर . अरङ्गमाय जग्मये ऽपश्चादध्वने नरः ..
आ नो वयोवयःशयं महान्तं गह्वरेष्ठां महान्तं पूर्विनेष्ठाम् . उग्रं वचो अपावधीः ..
आ त्वा रथं यथोतये सुम्नाय वर्तयामसि . तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिम् ..
स पूर्व्यो महोनां वेनः क्रतुभिरानजे . यस्य द्वारा मनुः पिता देवेषु धिय आनजे ..
यदी वहन्त्याशवो भ्राजमाना रथेष्वा . पिबन्तो मदिरं मधु तत्र श्रवांसि कृण्वते ..
त्यमु वो अप्रहणं गृणीषे शवसस्पतिम् . इन्द्रं विश्वासाहं नरं शचिष्ठं विश्ववेदसम् ..
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः . सुरभि नो मुखा करत्प्र न आयूंषि तारिषत् ..
पुरां भिन्दुर्युवा कविरमितौजा अजायत . इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः ..
प्रप्र वस्त्रिष्टुभमिषं वन्दद्वीरायेन्दवे . धिया वो मेधसातये पुरन्ध्या विवासति ..
कश्यपस्य स्वर्विदो यावाहुः सयुजाविति . ययोर्विश्वमपि व्रतं यज्ञं धीरा निचाय्य ..
अर्चत प्रार्चता नरः प्रियमेधासो अर्चत . अर्चन्तु पुत्रका उत पुरमिद्धृष्ण्वर्चत ..
उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिःषिधे . शक्रो यथा सुतेषु नो रारणत्सख्येषु च ..
विश्वानरस्य वस्पतिमनानतस्य शवसः . एवैश्च चर्षणीनामूती हुवे रथानाम् ..
स घा यस्ते दिवो नरो धिया मर्तस्य शमतः . ऊती स बृहतो दिवो द्विषो अंहो न तरति ..
विभोष्ट इन्द्र राधसो विभ्वी रातिः शतक्रतो . अथा नो विश्वचर्षणे द्युम्नं सुदत्र मंहय ..
वयश्चित्ते पतत्रिणो द्विपाच्चतुष्पादर्जुनि . उषः प्रारन्नृतूंरनु दिवो अन्तेभ्यस्परि ..
अमी ये देवा स्थन मध्य आ रोचने दिवः . कद्व ऋतं कदमृतं का प्रत्ना व आहुतिः ..
ऋचं साम यजामहे याभ्यां कर्माणि कृण्वते . वि ते सदसि राजतो यज्ञं देवेषु वक्षतः ..
विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे . क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम् ..
श्रत्ते दधामि प्रथमाय मन्यवे ऽहन्यद्दस्युं नर्यं विवेरपः . उभे यत्वा रोदसी धावतामनु भ्यसात्ते शुष्मात्पृथिवी चिदद्रिवः ..
समेत विश्वा ओजसा पतिं दिवो य एक इद्भूरतिथिर्जनानाम् स पूर्व्यो नूतनमाजिगीषं तं वर्त्तनीरनु वावृत एक इत् ..
इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो . न हि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति तद्धर्य नो वचः ..
चर्षणीधृतं मघवानमुक्थ्या३मिन्द्रं गिरो बृहतीरभ्यनूषत . वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे ..
अच्छा व इन्द्रं मतयः स्वर्युवः सध्रीचीर्विश्वा उशतीरनूषत . परि ष्वजन्त जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ..
अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम् . यस्य द्यावो न विचरन्ति मानुषं भुजे मंहिष्ठमभि विप्रमर्चत ..
त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभुवः साकमीरते . अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः ..
घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा . द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ..
उभे यदिन्द्र रोदसी आपप्राथोषा इव . महान्तं त्वा महीनां सम्राजं चर्षणीनाम् . १ ४ २ ०९१०ए देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ..
प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना . अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हुवेमहि ..
इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम् . विदे वृधस्य दक्षस्य महां हि षः ..
तमु अभि प्र गायत पुरुहूतं पुरुष्टुतम् . इन्द्रं गीर्भिस्तविषमा विवासत ..
तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम् . उ लोककृत्नुमद्रिवो हरिश्रियम् ..
यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये . यद्वा मरुत्सु मन्दसे समिन्दुभिः ..
एदु मधोर्मदिन्तरं सिञ्चाध्वर्यो अन्धसः . एवा हि वीरस्तवते सदावृधः ..
एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु . प्र राधांसि चोदयते महित्वना ..
एतो न्विन्द्रं स्तवाम सखायः स्तोम्यं नरम् . कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ..
इन्द्राय साम गायत विप्राय बृहते बृहत् . ब्रह्मकृते विपश्चिते पनस्यवे ..
य एक इद्विदयते वसु मर्ताय दाशुषे . ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ..
सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे . स्तुष ऊ षु वो नृतमाय धृष्णवे .. ३९० पञ्चम प्रपाठकः . प्रथमो ऽर्धः
गृणे तदिन्द्र ते शव उपमां देवतातये . यद्धंसि वृत्रमोजसा शचीपते ..
यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयन् . अयं स सोम इन्द्र ते सुतः पिब ..
एन्द्र नो गधि प्रिय सत्राजिदगोह्य . गिरिर्न विश्वतः पृथुः पतिर्दिवः ..
य इन्द्र सोमपातमो मदः शविष्ठ चेतति . येना हंसि न्या३त्रिणं तमीमहे ..
तुचे तुनाय तत्सु नो द्राधीय आयुर्जीवसे . आदित्यासः समहसः कृणोतन ..
वेत्था हि निरृतीनां वज्रहस्त परिवृजम् . अहरहः शुन्ध्युः परिपदामिव ..
अपामीवामप स्त्रिधमप सेधत दुर्मतिम् . आदित्यासो युयोतना नो अंहसः ..
पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः . सोतुर्बाहुभ्यां सुयतो नार्वा ..
अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि . युधेदापित्वमिच्छसे ..
यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे . सखाय इन्द्रमूतये ..
आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थात समन्यवः . दृढा चिद्यमयिष्णवः ..
आ याह्ययमिन्दवे ऽश्वपते गोपत उर्वरापते . सोमं सोमपते पिब ..
त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभ ब्रुवीमहि . संस्थे जनस्य गोमतः ..
गावश्चिद्धा समन्यवः सजात्येन मरुतः सबन्धवः . रिहते ककुभो मिथः ..
त्वं न इन्द्रा भर ओजो नृम्णं शतक्रतो विचर्षणे . आ वीरं पृतनासहम् ..
अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे . उदेव ग्मन्त उदभिः ..
सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे . अभि त्वामिन्द्र नोनुमः ..
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तो ऽवस्यवः . वज्रिञ्चित्रं हवामहे ..
स्वादोरित्था विषूवतो मधोः पिबन्ति गौर्यः . या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ..
इत्था हि सोम इन्मदो ब्रह्म चकार वर्धनम् . शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् ..
इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः . तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नो ऽविषत् ..
इन्द्र तुभ्यमिदद्रिवो ऽनुत्तं वज्रिन्वीर्यम् . यद्ध त्यं मायिनं मृगं तव त्यन्माययावधीरर्चन्ननु स्वराज्यम् ..
प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यंसते . इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपो ऽर्चन्ननु स्वराज्यम् ..
यदुदीरत आजयो धृष्णवे धीयते धनम् . युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधो ऽस्मां इन्द्र वसौ दधः ..
अक्षन्नमीमदन्त ह्यव प्रिया अधूषत . अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ..
उपो षु शृणुही गिरो मघवन्मातथा इव . कदा नः सूनृतावतः कर इदर्थयास इद्योजा न्विन्द्र ते हरी ..
चन्द्रमा अप्स्वा३न्तरा सुपर्णो धावते दिवि . न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ..
प्रति प्रियतमं रथं वृषणं वसुवाहनम् . स्तोता वामश्विनावृशि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतं हवम् ..
आ ते अग्न इधीमहि द्युमन्तं देवाजरम् . युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर ..
आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे . शीरं पावकशोचिषं वि वो मदे यज्ञेषु स्तीर्णबर्हिषं विवक्षसे ..
महे नो अद्य बोधयोषो राये दिवित्मती . यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ..
भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् . अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे ..
क्रत्वा महां अनुष्वधं भीम आ वावृते शवः . श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवां दधे हस्तयोर्वज्रमायसम् ..
स घा तं वृषणं रथमधि तिष्ठाति गोविदम् . यः पात्रं हारियोजनं पूर्णमिन्द्रा चिकेतति योजा न्विन्द्र ते हरी ..
अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः . अस्तमर्वन्त आशवो ऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ..
न तमंहो न दुरितं देवासो अष्ट मर्त्यम् . सजोषसो यमर्यमा मित्रो नयति वरुणो अति द्विषः ..
परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ..
पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः . द्विषस्तरध्या ऋणया न ईरसे ..
पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ..
पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ..
इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय ..
अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये . वाजां अभि पवमान प्र गाहसे ..
क ईं व्यक्ता नरः सनीडा रुद्रस्य मर्या अथ स्वश्वाः ..
अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् . ऋध्यामा त ओहैः ..
आविर्मर्या आ वाजं वाजिनो अग्मं देवस्य सवितुः सवम् . स्वर्गां अर्वन्तो जयत ..
पवस्व सोम द्युम्नी सुधारो महां अवीनामनुपूर्व्यः .. ४३६ पञ्चम प्रपाठकः . द्वितीयो ऽर्धः
विश्वतोदावन्विश्वतो न आ भर यं त्वा शविष्ठमीमहे ..
एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ..
ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ ..
अनवस्ते रथमश्वाय तक्षुस्त्वष्टा वज्रं पुरुहूत द्युमन्तम् ..
शं पदं मघं रयीषिणो न काममव्रतो हिनोति न स्पृशद्रयिम् ..
सदा गावः शुचयो विश्वधायसः सदा देवा अरेपसः ..
आ याहि वनसा सह गावः सचन्त वर्त्तनिं यदूधभिः ..
उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र ..
अर्चन्त्यर्कं मरुतः स्वर्क्का आ स्तोभति श्रुतो युवा स इन्द्रः ..
प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते ..
अचेत्यग्निश्चिकितिर्हव्यवाड्न सुमद्रथः ..
अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः ..
भगो न चित्रो अग्निर्महोनां दधाति रत्नम् ..
विश्वस्य प्र स्तोभ पुरो वा सन्यदि वेह नूनम् ..
उषा अप स्वसुष्टमः सं वर्त्तयति वर्त्तनिं सुजातता ..
इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ..
वि स्रुतयो यथा पथ इन्द्र त्वद्यन्तु रातयः ..
अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ..
ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणुही न इन्द्र ..
इन्द्रो विश्वस्य राजति ..
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम् . स ईं ममाद महि कर्म कर्त्तवे महामुरुं सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् ..
अयं सहस्रमानवो दृशः कवीनां मतिर्ज्योतिर्विधर्म . ब्रध्नः समीचीरुषसः समैरयदरेपसः सोचेतसः स्वसरे मन्युमन्तश्चिता गोः ..
एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्ता राजेव सत्पतिः . हवामहे त्वा प्रयस्वन्तः सुतेष्वा पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ..
तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं श्रवांसि भूरिः . मंहिष्ठो गीर्भिरा च यज्ञियो ववर्त्त राये नो विश्वा सुपथा कृणोतु वज्री ..
अस्तु श्रौष्ट्पुरो अग्निं धिया दध आ नु त्यच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे . यद्ध क्राणा विवस्वते नाभा सन्दाय नव्यसे . १ ५ २ ०८०५ए अध प्र नूनमुप यन्ति धीतयो देवांअच्छा न धीतयः ..
प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् . प्र शर्धाय प्र यज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ..
अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति सयुग्वभिः सूरो न सयुग्वभिः . धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः . १ ५ २ ०८०७ए विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः ..
अभि त्यं देवं सवितारमोण्योः कविक्रतुमर्चामि सत्यसवं रत्नधामभि प्रियं मतिम् ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वः ..
अग्निं होतारं मन्ये दास्वन्तं वसोः सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् . य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा . घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ..
तव त्यन्नर्यं नृतो ऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् . यो देवस्य शवसा प्रारिणा असु रिणन्नपः . १ ५ २ ०८१०ए भुवो विश्वमभ्यदेवमोजसा विदेदूर्जं शतक्रतुर्विदेदिषम् .. ४६६ .. इत्यैन्द्रं पर्व काण्डम् .. पावमान काण्डम्
उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे . उग्रं शर्म महि श्रवः ..
स्वादिष्ठया मदिष्ठया पवस्व सोम धारया . इन्द्राय पातवे सुतः ..
वृषा पवस्व धारया मरुत्वते च मत्सरः . विश्वा दधान ओजसा ..
यस्ते मदो वरेण्यस्तेना पवस्वान्धसा . देवावीरघशंसहा ..
तिस्रो वाच उदीरते गावो मिमन्ति धेनवः . हरिरेति कनिक्रदत् ..
इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः . अर्कस्य योनिमासदम् ..
असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः . श्येनो न योनिमासदत् ..
पवस्व दक्षसाधनो देवेभ्यः पीतये हरे . मरुद्भ्यो वायवे मदः ..
परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् . मदेषु सर्वधा असि ..
परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः . स्वानैर्याति कविक्रतुः ..
प्र सोमासो मदच्युतः श्रवसे नो मघोनः . सुता विदथे अक्रमुः ..
प्र सोमासो विपश्चितो ऽपो नयन्त ऊर्मयः . वनानि महिषा इव ..
पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने . विश्वा अप द्विषो जहि ..
वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे . पवमान स्वर्दृशम् ..
इन्दुः पविष्ट चेतनः प्रियः कवीनां मतिः . सृजदश्वं रथीरिव ..
असृक्षत प्र वाजिनो गव्या सोमासो अश्वया . शुक्रासो वीरयाशवः ..
पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः . वायुमा रोह धर्मणा ..
पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् . ज्योतिर्वैश्वानरं बृहत् ..
परि स्वानास इन्दवो मदाय बर्हणा गिरा . मधो अर्षन्ति धारया ..
परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः . कारुं बिभ्रत्पुरुस्पृहम् .. ४८६ षष्ठ प्रपाठकः . प्रथमो ऽर्धः
उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् . इन्दुं देवा अयासिषुः ..
पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः . शुम्भन्ति विप्रं धीतिभिः ..
आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रियः . इन्दुरिन्द्राय धीयते ..
असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः . कार्ष्मन्वाजी न्यक्रमीत् ..
प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः . घ्नन्तः कृष्णामप त्वचम् ..
अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः . नुदस्वादेवयुं जनम् ..
अया पवस्व धारया यया सूर्यमरोचयः . हिन्वानो मानुषीरपः ..
स पवस्व य आविथेन्द्रं वृत्राय हन्तवे . वव्रिवांसं महीरपः ..
अया वीती परि स्रव यस्त इन्दो मदेष्वा . अवाहन्नवतीर्नव ..
परि द्युक्षं सनद्रायिं भरद्वाजं नो अन्धसा . स्वानो अर्ष पवित्र आ ..
अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः . सं सूर्येण दिद्युते ..
आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे . पान्तमा पुरुस्पृहम् ..
अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय . पुनीहीन्द्राय पातवे ..
तरत्स मन्दी धावति धारा सुतस्यान्धसः . तरत्स मन्दी धावति ..
आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् . अस्मे श्रवांसि धारय ..
अनु प्रत्नास आयवः पदं नवीयो अक्रमुः . रुचे जनन्त सूर्यम् ..
अर्षा सोम द्युमत्तमो ऽभि द्रोणानि रोरुवत् . सीदन्योनौ योनेष्वा ..
वृषा सोम द्युमां असि वृषा देव वृषव्रतः . वृषा धर्माणि दध्रिषे ..
इषे पवस्व धारया मृज्यमानो मनीषिभिः . इन्दो रुचाभि गा इहि ..
मन्द्रया सोम धारया वृषा पवस्व देवयुः . अव्यो वारेभिरस्मयुः ..
अया सोम सुकृत्यपा महान्त्सन्नभ्यवर्धथाः . हिन्दान इद्वृषायसे ..
अयं विचर्षणिर्हितः पवमानः स चेतति . हिन्वान आप्यं बृहत् ..
प्र ण इन्दो महे तु न ऊर्मिं न बिभ्रदर्षसि . अभि देवां अयास्यः ..
अपघ्नन्पवते मृधो ऽप सोमो अराव्णः . गच्छन्निन्द्रस्य निष्कृतम् ..
पुनानः सोम धारयापो वसानो अर्षसि . आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ..
परीतो षिञ्चता सुतं सोमो य उत्तमं हविः . दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ..
आ सोम स्वानो अद्रिभिस्तिरो वाराण्यव्यया . जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे ..
प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा . अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम् ..
सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनाम् . अश्वयेव हरिता याति धारया मन्द्रया याति धारया ..
तवाहं सोम रारण सख्य इन्दो दिवेदिवे . पुरूणि बभ्रो नि चरन्ति मामव परिधींरति तां इहि ..
मृज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि . रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ..
अभि सोमास आयवः पवन्ते मद्यं मदम् . समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ..
पुनानः सोम जागृविरव्या वारैः परि प्रियः . त्वं विप्रो अभवो ऽङ्गिरस्तम मध्वा यज्ञं मिमिक्ष णः ..
इन्द्राय पवते मदः सोमो मरुत्वते सुतः . सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः ..
पवस्व वाजसातमो ऽभि विश्वानि वार्या . त्वं समुद्रः प्रथमे विधर्मं देवेभ्यं सोम मत्सरः ..
पवमाना असृक्षत पवित्रमति धारया . मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयांसि च ..
प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष . अश्वं न त्वा वाजिनं मर्जयन्तो ऽच्छा बर्ही रशनाभिर्नयन्ति ..
प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति . महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ..
तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् . गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ..
अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् . सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता ..
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः . जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ..
अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशन्त वाणीः . वना वसानो वरुणो न सिन्धूर्वि रत्नधा दयते वार्याणि ..
अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः . वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ..
कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः . नृभिर्यतः कृणुते निर्णिजं गामतो मतिं जनयत स्वधाभिः ..
एष स्य ते मधुमां इन्द्र सोमो वृषा वृष्णः परि पवित्रे अक्षाः . सहस्रदाः शतदा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात् ..
पवस्व सोम मधुमां ऋतावापो वसानो अधि सानो अव्ये . अव द्रोणानि घृतवन्ति रोह मदिन्तमो मत्सर इन्द्रपानः ..
प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना . भद्रान्कृण्वन्निन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ..
प्र ते धारा मधुमतीरसृग्रन्वारं यत्पूतो अत्येष्यव्यम् . पवमान पवसे धाम गोनां जनयन्त्सूर्यमपिन्वो अर्कैः ..
प्र गायताभ्यर्चाम देवान्त्सोमं हिनोत महते धनाय . स्वादुः पवतामति वारमव्यमा सीदतु कलशं देव इन्दुः ..
प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिषन्नयासीत् . इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः ..
तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य धर्मं द्युक्षोरनीके . आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम् ..
साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः . हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ..
अधि यदस्मिन्वाजिनीव शुभः स्पर्धन्ते धियः सूरे न विशः . अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म ..
इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय . हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा ..
अया पवा पवस्वैना वसूनि मांश्चत्व इन्द्रो सरसि प्र धन्व . ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ..
महत्तत्सोमो महिषश्चकारापां यद्गर्भो ऽवृणीत देवान् . अदधादिन्द्रे पवमान ओजो ऽजनयत्सूर्ये ज्योतिरिन्दुः ..
असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमा मनीष . दश स्वसारो अधि सानो अव्ये मृजन्ति वह्निं सदनेष्वच्छ ..
अपामिवेदूर्मयस्तर्त्तुराणाः प्र मनीषा ईरते सोममच्छ . नमस्यन्तीरुप च यन्ति सं चाच विशन्त्युशतीरुशन्तम् .. ५४४ षष्ठ प्रपाठकः . द्वितीयो ऽर्धः
पुरोजिती वो अन्धसः सुताय मादयित्नवे . अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् ..
अयं पूषा रयिर्भगः सोमः पुनानो अर्षति . पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ..
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः . पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः ..
सोमाः पवन्त इन्दवो ऽस्मभ्यं गातुवित्तमाः . मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः ..
अभी नो वाजसातमं रयिमर्ष शतस्पृहम् . इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम् ..
अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम् . वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः ..
आ हर्यताय धृष्णवे धनुष्टन्वन्ति पौंस्यम् . शुक्रा वि यन्त्यसुराय निर्णिजे विपामग्रे महीयुवः ..
परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण . यो देवान्विश्वां इत्परि मदेन सह गच्छति ..
प्र सुन्वानास्यान्धसो मर्तो न वष्ट तद्वचः . अप श्वानमराधसं हता मखं न भृगवः ..
अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते . आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ..
अचोदसो नो धन्वन्त्विन्दवः प्र स्वानासो बृहद्देवेषु हरयः . वि चिदश्नाना इषयो अरातयो ऽर्यो नः सन्तु सनिषन्तु नो धियः ..
एष प्र कोशे मधुमां अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टमः . अभ्य्र्^ई३तस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसा च घेनवः ..
प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति सङ्गिरम् . मर्य इव युवतिभिः समर्षति सोमः कलशे शतयामना पथा ..
धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः . हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुषे नदीष्वा ..
वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः . प्राणा सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः ..
त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि . चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ..
इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह . मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः ..
असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् . पुनानो वारमत्येष्यव्ययं श्येनो न योनिं घृतवन्तमासदत् ..
प्र देवमच्छा मधुमन्त इन्दवो ऽसिष्यदन्त गाव आ न धेनवः . बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे ..
अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मघ्वाभ्यञ्जते . सिन्धोरु ऽच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमप्सु गृभ्णते ..
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः . अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत ..
इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः . श्रुष्टे जातास इन्दवः स्वर्विदः ..
प्र धन्वा सोम जागृविरिन्द्रायेन्दो परि स्रव . द्युमन्तं शुष्ममा भर स्वर्विदम् ..
सखाय आ नि षीदत पुनानाय प्र गायत . शिशुं न यज्ञैः परि भूषत श्रिये ..
तं वः सखायो मदाय पुनानमभि गायत . शिशुं न हव्यैः स्वदयन्त गूर्तिभिः ..
प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् . विश्वा परि प्रिया भुवदध द्विता ..
पवस्व देववीतय इन्दो धाराभिरोजसा . आ कलशं मधुमान्त्सोम नः सदः ..
सोमः पुनान ऊर्मिणाव्यं वारं वि धावति . अग्रे वाचः पवमानः कनिक्रदत् ..
प्र पुनानाय वेधसे सोमाय वच उच्यते . भृतिं न भरा मतिभिर्जुजोषते ..
गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव . शुचिं च वर्णमधि गोषु धार्य ..
अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत . गोभिष्टे वर्णमभि वासयामसि ..
पवते हर्यतो हरिरति ह्वरांसि रंह्या . अभ्यर्ष स्तोतृभ्यो वीरवद्यशः ..
परि कोशं मधुश्चुतं सोमः पुनानो अर्षति . अभि वाणीरृषीणां सप्ता नूषत ..
पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः . महि द्युक्षतमो मदः ..
अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुम् . वि कोशं मध्यमं युव ..
आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम् . वनप्रक्षमुदप्रुतम् ..
एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवोदुहम् . विश्वा वसूनि बिभ्रतम् ..
स सुन्वे यो वसूनां यो रायामानेता य इडानाम् . सोमो यः सुक्षितीनाम् ..
त्वं ह्या३ङ्ग दैव्या पवमान जनिमानि द्युमत्तमः . अमृतत्वाय घोषयन् ..
एष स्य धारया सुतो ऽव्यो वारेभिः पवते मदिन्तमः . क्रीडन्नूर्मिरपामिव ..
य उस्रिया अपि या अन्तरश्मनि निर्गा अकृन्तदोजसा . अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज . १ ६ २ ०९०८ए ॐ वर्मीव धृष्णवा रुज .. ५८५ .. इति सौम्यं पावमानं पर्व काण्डम् .. .. इति पूर्वार्चिकः .. आरण्य आर्चिकः आरण्य काण्डम्
इन्द्र ज्येष्ठं न आ भर ओजिष्ठं पुपुरि श्रवः . यद्दिधृक्षेम वज्रहस्त रोदसी ओभे सुशिप्र पप्राः ..
इन्द्रो राजा जगतश्चर्षणीनामधिक्षमा विश्वरूपं यदस्य . ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतं चिदर्वाक् ..
यस्येदमा रजोयुजस्तुजे जने वनं स्वः . इन्द्रस्य रन्त्यं बृहत् ..
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय . अथादित्य व्रते वयं तवानागसो अदितये स्याम ..
त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् . तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ..
इमं वृषणं कृणुतैकमिन्माम् ..
स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः . वरिवोवित्परिस्रव ..
एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् . सिषासन्तो वनामहे ..
अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाम . यो मा ददाति स इदेवमावदहमन्नमन्नमदन्तमद्मि ..
त्वमेतदधारयः कृष्णासु रोहिणीषु च . परुष्णीषु रुशत्पयः ..
अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः . मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमादधुः ..
इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा . इन्द्रो वज्री हिरण्ययः ..
इन्द्र वाजेषु नो ऽव सहस्रप्रधनेषु च . उग्र उग्राभिरूतिभिः ..
प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् . धातुर्द्युतानात्सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः ..
नियुत्वान्वायवा गह्ययं शुक्रो अयामि ते . गन्तासि सुन्वतो गृहम् ..
यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय . तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवम् ..
मयि वर्चो अथो यशो ऽथो यज्ञस्य यत्पयः . परमेष्ठी प्रजापतिर्दिवि द्यामिव दृंहतु ..
सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः . आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व ..
त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः . त्वमातनोरुर्वा३न्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ..
अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम् . होतारं रत्नधातमम् ..
ते मन्वत प्रथमं नाम गोनां त्रिः सप्त परमं नाम जनान् . ता जानतीरभ्यनूषत क्षा आविर्भुवन्नरुणीर्यशसा गावः ..
समन्या यन्त्युपयन्त्यन्याः समानमूर्वं नद्यस्पृणन्ति . तमू शुचिं शुचयो दीदिवांसमपान्नपातमुप यन्त्यापः ..
आ प्रागाद्भद्रा युवतिरह्नः केतून्त्समीर्त्सति . अभूद्भद्रा निवेशनी विश्वस्य जगतो रात्री ..
प्रक्षस्य वृष्णो अरुषस्य नू महः प्र नो वचो विदथा जातवेदसे . वैश्वानराय मतिर्नव्यसे शुचिः सोम इव पवते चारुरग्नये ..
विश्वे देवा मम शृण्वन्तु यज्ञमुभे रोदसी अपां नपाच्च मन्म . मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद्वो अन्तमा मदेम ..
यशो मा द्यावापृथिवी यशो मेन्द्रबृहस्पती . यशो भगस्य विन्दतु यशो मा प्रतिमुच्यताम् . २ ० ० ०३१०ए यशस्व्या३स्याः सं सदो ऽहं प्रवदिता स्याम् ..
इन्द्रस्य नु वीर्याणि प्रवोचं यानि चकार प्रथमानि वज्री . अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ..
अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् . त्रिधातुरर्को रजसो विमानो ऽजस्रं ज्योतिर्हविरस्मि सर्वम् ..
पात्यग्निर्विपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य . पाति नाभा सप्तशीर्षाणमग्निः ..
भ्राजन्त्यग्ने समिधान दीदिवो जिह्वा चरत्यन्तरासनि . स त्वं नो अग्ने पयसा वसुविद्रयिं वर्चो दृशे ऽदाः ..
वसन्त इन्नु रन्त्यो ग्रीष्म इन्नु रन्त्यः . वर्षाण्यनु शरदो हेमन्तः शिशिर इन्नु रन्त्यः ..
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् . स भूमिं सर्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ..
त्रिपादूर्ध्व उदैत्पुरुषः पदो ऽस्येहाभवत्पुनः . तथा विष्वङ् व्यक्रामदशनानशने अभि ..
पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् . पादो ऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि ..
तावानस्य महिमा ततो ज्यायांश्च पूरुषः . उतामृतत्वस्येशानो यदन्नेनातिरोहति ..
ततो विराडजायत विराजो अधि पूरुषः . स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ..
मन्ये वां द्यावापृथिवी सुभोजसौ ये अप्रथेथाममितमभि योजनम् . द्यावापृथिवी भवतं स्योने ते नो मुञ्चतमंहसः ..
हरी त इन्द्र श्मश्रूण्युतो ते हरितौ हरि . तं त्वा स्तुवन्ति कवयः पुरुषासो वनर्गवः ..
यद्वर्चो हिरण्यस्य यद्वा वर्चो गवामुत . सत्यस्य ब्रह्मणो वर्चस्तेन मा सं सृजामसि ..
सहस्तन्न इन्द्र दद्ध्योज ईशे ह्यस्य महतो विरप्शिन् . क्रतुं न नृम्णं स्थविरं च वाजं वृत्रेषु शत्रून्त्सुहना कृधी नः ..
सहर्षभाः सहवत्सा उदेत विश्वा रूपाणी बिभ्रतीर्द्व्यूद्नीः . उरुः पृथुरयं वो अस्तु लोक इमा आपः सुप्रपाणा इह स्त ..
अग्न आयूंषि पवस आसुवोर्जमिषं च नः . आरे बाधस्व दुच्छुनाम् ..
विभ्राङ्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् . वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ..
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः . आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ..
आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः . पितरं च प्रयन्त्स्वः ..
अन्तश्चरति रोचनास्य प्राणादपानती . व्यख्यन्महिषो दिवम् ..
त्रिंषद्धाम वि राजति वाक्पतङ्गाय धीयते . प्रति वस्तोरह द्युभिः ..
अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः . सूराय विश्वचक्षसे ..
अदृश्रन्नस्य केतवो वि रश्मयो जनां अनु . भ्राजन्तो अग्नयो यथा ..
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य . विश्वमाभासि रोचनम् ..
प्रत्यङ् देवानां विशः प्रत्यङ्ङुदेषि मानुषान् . प्रत्यङ् विश्वं स्वर्दृशे ..
येना पावक चक्षसा भुरण्यन्तं जनां अनु . त्वं वरुण पश्यसि ..
उद्द्यामेषि रजः पृथ्वहा मिमानो अक्तुभिः . पश्यञ्जन्मानि सूर्य ..
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्र्यः . ताभिर्याति स्वयुक्तिभिः ..
सप्त त्वा हरितो रथे वहन्ति देव सूर्य . शोचिष्केशं विचक्षण .. ६४० .. इत्यारण्यं पर्व काण्डम् .. महानाम्न्य आर्चिकः
विदा मघवन् विदा गातुमनुशंसिषो दिशः . शिक्षा शचीनां पते पूर्वीणां पुरूवसो ..
आभिष्ट्वमभिष्टिभिः स्वा ऽ३र्न्नांशुः . प्रचेतन प्रचेतयेन्द्र द्युम्नाय न इषे ..
एवा हि शक्रो राये वाजाय वज्रिवः . शविष्ठ वज्रिन्नृञ्जसे मंहिष्ठ वज्रिन्नृञ्जस . ३ ० ० ०००३ए आ याहि पिब मत्स्व ..
विदा राये सुवीर्यं भवो वाजानां पतिर्वशां अनु . मंहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणाम् ..
यो मंहिष्ठो मघोनाम्ंशुर्न्न शोचिः . चिकित्वो अभि नो नयेंद्रो विदे तमु स्तुहि ..
ईशे हि शक्रस्तमूतये हवामहे जेतारमपराजितम् . स नः स्वर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् ..
इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् . स नः स्वर्षदति द्विषः स नः स्वर्षदति द्विषः ..
पूर्वस्य यत्ते अद्रिवों ऽशुर्मदाय . सुम्न आ धेहि नो वसो पूर्तिः शविष्ठ शस्यते . ३ ० ० ०००८ए वशी हि शक्रो नूनं तन्नव्यं संन्यसे ..
प्रभो जनस्य वृत्रहन्त्समर्येषु ब्रवावहै . शूरो यो गोषु गच्छति सखा सुशेवो अद्वयुः .. ६४९ अथ पञ्च पुरीषपदानि
एवाह्यो ऽ३ ऽ३ ऽ३वा . एवा ह्यग्ने . एवाहीन्द्र . एवा हि पूषन् . एवा हि देवाः ॐ एवाहि देवाः .. ६५० .. इति पञ्च पुरीषपदानि .. .. इति महानाम्न्यार्चिकः .. उत्तर आर्चिकः प्रथम प्रपाठकः . प्रथमो ऽर्धः असितः काश्यपो देवलो वा. गायत्री. पवमानः सोमः. ४ १ १ ०१ ०१अ उपास्मै गायता नरः पवमानायेन्दवे . ४ १ १ ०१ ०१च् अभि देवां इयक्षते .. ६५१ ४ १ १ ०१ ०२अ अभि ते मधुना पयो ऽथर्वाणो अशिश्रयुः . ४ १ १ ०१ ०२च् देवं देवाय देवयु .. ६५२ ४ १ १ ०१ ०३अ स नः पवस्व शं गवे शं जनाय शमर्वते . ४ १ १ ०१ ०३च् शं राजन्नोषधीभ्यः .. ६५३ कश्यपो मारीचः. गायत्री. पवमानः सोमः. ४ १ १ ०२ ०१अ दविद्युतत्या रुचा परिष्टोभन्त्या कृपा . ४ १ १ ०२ ०१च् सोमाः शुक्रा गवाशिरः .. ६५४ ४ १ १ ०२ ०२अ हिन्वानो हेतृभिर्हित आ वाजं वाज्यक्रमीत् . ४ १ १ ०२ ०२च् सीदन्तो वनुषो यथा .. ६५५ ४ १ १ ०२ ०३अ ऋधक्सोम स्वस्तये संजग्मानो दिवा कवे . ४ १ १ ०२ ०३च् पवस्व सूर्यो दृशे .. ६५६ शतं वैखानसाः, गायत्री, पवमानः सोमः. ४ १ १ ०३ ०१अ पवमानस्य ते कवे वाजिन्त्सर्गा असृक्षते . ४ १ १ ०३ ०१च् अर्वन्तो न श्रवस्यवः .. ६५७ ४ १ १ ०३ ०२अ अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये . ४ १ १ ०३ ०२च् अवावशन्त धीतयः .. ६५८ ४ १ १ ०३ ०३अ अच्छा समुद्रमिन्दवो ऽस्तं गावो न धेनवः . ४ १ १ ०३ ०३च् अग्मन्नृतस्य योनिमा .. ६५९ भरद्वाजो बार्हस्पत्यः, गायत्री, अग्निः. ४ १ १ ०४ ०१अ अग्न आ याहि वीतये गृणानो हव्यदातये . ४ १ १ ०४ ०१च् नि होता सत्सि बर्हिषि .. ६६० ४ १ १ ०४ ०२अ तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि . ४ १ १ ०४ ०२च् बृहच्छोचा यविष्ठ्य .. ६६१ ४ १ १ ०४ ०३अ स नः पृथु श्रवाय्यमच्छा देव विवाससि . ४ १ १ ०४ ०३च् बृहदग्ने सुवीर्यम् .. ६६२ विश्वामित्रो गाथिनः जमदग्निर्वा, गायत्री, मित्रावरुणौ. ४ १ १ ०५ ०१अ आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् . ४ १ १ ०५ ०१च् मध्वा रजांसि सुक्रतू .. ६६३ ४ १ १ ०५ ०२अ उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः . ४ १ १ ०५ ०२च् द्राघिष्ठाभिः शुचिव्रता .. ६६४ ४ १ १ ०५ ०३अ गृणाना जमदग्निना योनावृतस्य सीदतम् . ४ १ १ ०५ ०३च् पातं सोममृतावृधा .. ६६५ इरीम्बिठिः काण्वः. गायत्री. इन्द्रः. ४ १ १ ०६ ०३अ आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् . ४ १ १ ०६ ०३च् एदं बर्हिः सदो मम .. ६६६ ४ १ १ ०६ ०३अ आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना . ४ १ १ ०६ ०३च् उप ब्रह्माणि नः शृणु .. ६६७ ४ १ १ ०६ ०३अ ब्रह्माणस्त्वा युजा वयं सोमपामिन्द्र सोमिनः . ४ १ १ ०६ ०३च् सुतावन्तो हवामहे .. ६६८ विश्वामित्रो गाथिनः. गायत्री. इन्द्राग्नी. ४ १ १ ०७ ०१अ इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् . ४ १ १ ०७ ०१च् अस्य पातं धियेषिता .. ६६९ ४ १ १ ०७ ०२अ इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः . ४ १ १ ०७ ०२च् अया पातमिमं सुतम् .. ६७० ४ १ १ ०७ ०३अ इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे . ४ १ १ ०७ ०३च् ता सोमस्येह तृम्पताम् .. ६७१ अमहीयुराङ्गिरसः. गायत्री. पवमानः सोमः. ४ १ १ ०८ ०१अ उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे . ४ १ १ ०८ ०१च् उग्रं शर्म महि श्रवः .. ६७२ ४ १ १ ०८ ०२अ स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः . ४ १ १ ०८ ०२च् वरिवोवित्परि स्रव .. ६७३ ४ १ १ ०८ ०३अ एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् . ४ १ १ ०८ ०३च् सिषासन्तो वनामहे .. ६७४ ४ १ १ ०९ ०१अ पुनानः सोम धारयापो वसानो अर्षसि . ४ १ १ ०९ ०१च् आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः .. ६७५ ४ १ १ ०९ ०२अ दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् . ४ १ १ ०९ ०२च् आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः .. ६७६ ४ १ १ १० ०१अ प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष . ४ १ १ १० ०१च् अश्वं न त्वा वाजिनं मर्जयन्तो ऽच्छा बर्ही रशनाभिर्नयन्ति .. ६७७ ४ १ १ १० ०२अ स्वायुधः पवते देव इन्दुरशस्तिहा वृजना रक्षमाणः . ४ १ १ १० ०२च् पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः .. ६७८ ४ १ १ १० ०३अ ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन . ४ १ १ १० ०३च् स चिद्विवेद निहितं यदासामपीच्या३ं गुह्यं नाम गोनाम् .. ६७९ ४ १ १ ११ ०१अ अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः . ४ १ १ ११ ०१च् ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः .. ६८० ४ १ १ ११ ०२अ न त्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते . ४ १ १ ११ ०२च् अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे .. ६८१ ४ १ १ १२ ०१अ कया नश्चित्र आ भुवदूती सदावृधः सखा . ४ १ १ १२ ०१च् कया शचिष्ठया वृता .. ६८२ ४ १ १ १२ ०२अ कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः . ४ १ १ १२ ०२च् दृढा चिदारुजे वसु .. ६८३ ४ १ १ १२ ०३अ अभी षु णः सखीनामविता जरित्र्^ईणाम् . ४ १ १ १२ ०३च् शतं भवास्यूतये .. ६८४ ४ १ १ १३ ०१अ तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः . ४ १ १ १३ ०१च् अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे .. ६८५ ४ १ १ १३ ०२अ द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् . ४ १ १ १३ ०२च् क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे .. ६८६ ४ १ १ १४ ०१अ तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये . ४ १ १ १४ ०१च् बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् .. ६८७ ४ १ १ १४ ०२अ न यं दुध्रा वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः . ४ १ १ १४ ०२च् य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् .. ६८८ ४ १ १ १५ ०१अ स्वादिष्ठया मदिष्ठया पवस्व सोम धारया . ४ १ १ १५ ०१च् इन्द्राय पातवे सुतः .. ६८९ ४ १ १ १५ ०२अ रक्षोहा विश्वचर्षणिरभि योनिमयोहते . ४ १ १ १५ ०२च् द्रोणे सधस्थमासदत् .. ६९० ४ १ १ १५ ०३अ वरिवोधातमो भुवो मंहिष्ठो वृत्रहन्तमः . ४ १ १ १५ ०३च् पर्षि राधो मघोनाम् .. ६९१ ४ १ १ १६ ०१अ पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः . ४ १ १ १६ ०१च् महि द्युक्षतमो मदः .. ६९२ ४ १ १ १६ ०२अ यस्य ते पीत्वा वृषभो वृषायते ऽस्य पीत्वा स्वर्विदः . ४ १ १ १६ ०२च् स सुप्रकेतो अभ्यक्रमीदिषो ऽच्छा वाजं नैतशः .. ६९३ ४ १ १ १७ ०१अ इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः . ४ १ १ १७ ०१च् श्रुष्टे जातास इन्दवः स्वर्विदः .. ६९४ ४ १ १ १७ ०२अ अयं भराय सानसिरिन्द्राय पवते सुतः . ४ १ १ १७ ०२च् सोमो जैत्रस्य चेतति यथा विदे .. ६९५ ४ १ १ १७ ०३अ अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिम् . ४ १ १ १७ ०३च् वज्रं च वृषणं भरत्समप्सुजित् .. ६९६ ४ १ १ १८ ०१अ पुरोजिती वो अन्धसः सुताय मादयित्नवे . ४ १ १ १८ ०१च् अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् .. ६९७ ४ १ १ १८ ०२अ यो धारया पावकया परिप्रस्यन्दते सुतः . ४ १ १ १८ ०२च् इन्दुरश्वो न कृत्व्यः .. ६९८ ४ १ १ १८ ०३अ तं दुरोषमभी नरः सोमं विश्वाच्या धिया . ४ १ १ १८ ०३च् यज्ञाय सन्त्वद्रयः .. ६९९ ४ १ १ १९ ०१अ अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते . ४ १ १ १९ ०१च् आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः.. ७०० ४ १ १ १९ ०२अ ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः . ४ १ १ १९ ०२च् दधाति पुत्रः पित्रोरपीच्या३ं नाम तृतीयमधि रोचनं दिवः .. ७०१ ४ १ १ १९ ०३अ अव द्युतानः कलशां अचिक्रदन्नृभिर्येमाणः कोश आ हिरण्यये . ४ १ १ १९ ०३च् अभी ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजसि .. ७०२ ४ १ १ २० ०१अ यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे . ४ १ १ २० ०१च् प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् .. ७०३ ४ १ १ २० ०२अ ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये . ४ १ १ २० ०२च् भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनाम् .. ७०४ ४ १ १ २१ ०१अ एह्यू षु ब्रवाणि ते ऽग्न इत्थेतरा गिरः . ४ १ १ २१ ०१च् एभिर्वर्धास इन्दुभिः .. ७०५ ४ १ १ २१ ०२अ यत्र क्व च ते मनो दक्षं दधस उत्तरम् . ४ १ १ २१ ०२च् तत्रा योनिं कृणवसे .. ७०६ ४ १ १ २१ ०३अ न हि ते पूर्तमक्षिपद्भुवन्नेमानां पते . ४ १ १ २१ ०३च् अथा दुवो वनवसे .. ७०७ ४ १ १ २२ ०१अ वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तो ऽवस्यवः . ४ १ १ २२ ०१च् वज्रिञ्चित्रं हवामहे .. ७०८ ४ १ १ २२ ०२अ उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् . ४ १ १ २२ ०२च् त्वामिध्यवितारं ववृमहे सखाय इन्द्र सानसिम् .. ७०९ ४ १ १ २३ ०१अ अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे . ४ १ १ २३ ०१च् उदेव ग्मन्त उदभिः .. ७१० ४ १ १ २३ ०२अ वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि . ४ १ १ २३ ०२च् ववृध्वांसं चिदद्रिवो दिवेदिवे .. ७११ ४ १ १ २३ ०३अ पुञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे वचोयुजा . ४ १ १ २३ ०३च् इन्द्रवाहा स्वर्विदा .. ७१२ प्रथम प्रपाठकः . द्वितीयो ऽर्धः ४ १ २ ०१ ०१अ पान्तमा वो अन्धस इन्द्रमभि प्र गायत . ४ १ २ ०१ ०१च् विश्वासाहं शत्क्रतुं मंहिष्ठं चर्षणीनाम् .. ७१३ ४ १ २ ०१ ०२अ पुरुहूतं पुरुष्टुतं गाथान्या३ं सनश्रुतम् . ४ १ २ ०१ ०२च् इन्द्र इति ब्रवीतन .. ७१४ ४ १ २ ०१ ०३अ इन्द्र इन्नो महोनां दाता वाजानां नृतुः . ४ १ २ ०१ ०३च् महां अभिज्ञ्वा यमत् .. ७१५ ४ १ २ ०२ ०१अ प्र व इन्द्राय मादनं हर्यश्वाय गायत . ४ १ २ ०२ ०१च् सखायः सोमपाव्ने .. ७१६ ४ १ २ ०२ ०२अ शंसेदुक्थं सुदानव उत द्युक्षं यथ नरः . ४ १ २ ०२ ०२च् चकृमा सत्यराधसे .. ७१७ ४ १ २ ०२ ०३अ त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो . ४ १ २ ०२ ०३च् त्वं हिरण्ययुर्वसो .. ७१८ ४ १ २ ०३ ०१अ वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः . ४ १ २ ०३ ०१च् कण्वा उक्थेभिर्जरन्ते .. ७१९ ४ १ २ ०३ ०२अ न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ . ४ १ २ ०३ ०२च् तवेदु स्तोमैश्चिकेत .. ७२० ४ १ २ ०३ ०३अ इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति . ४ १ २ ०३ ०३च् यन्ति प्रमादमतन्द्राः .. ७२१ ४ १ २ ०४ ०१अ इन्द्राय मद्व्ने सुतं परि ष्टोभन्तु नो गिरः . ४ १ २ ०४ ०१च् अर्कमर्च्चन्तु कारवः .. ७२२ ४ १ २ ०४ ०२अ यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त संसदः . ४ १ २ ०४ ०२च् इन्द्रं सुते हवामहे .. ७२३ ४ १ २ ०४ ०३अ त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत . ४ १ २ ०४ ०३च् तमिद्वर्धन्तु नो गिरः .. ७२४ ४ १ २ ०५ ०१अ अयं त इन्द्र सोमो निपूतो अधि बर्हिषि . ४ १ २ ०५ ०१च् एहीमस्य द्रवा पिब .. ७२५ ४ १ २ ०५ ०२अ शाचिगो शाचिपूजनायं रणाय ते सुतः . ४ १ २ ०५ ०२च् आखण्डल प्र हूयसे .. ७२६ ४ १ २ ०५ ०३अ यस्ते शृङ्गवृषो णपात्प्रणपात्कुण्डपाय्यः . ४ १ २ ०५ ०३च् न्यस्मिं दध्र आ मनः .. ७२७ ४ १ २ ०६ ०१अ आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय . ४ १ २ ०६ ०१च् महाहस्ति दक्षिणेन .. ७२८ ४ १ २ ०६ ०२अ विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् . ४ १ २ ०६ ०२च् तुविमात्रमवोभिः .. ७२९ ४ १ २ ०६ ०३अ न हि त्वा शूर देवा न मर्तासो दित्सन्तम् . ४ १ २ ०६ ०३च् भीमं न गां वारयन्ते .. ७३० ४ १ २ ०७ ०१अ अभि त्वा वृषभा सुते सुतं सृजामि पीतये . ४ १ २ ०७ ०१च् तृम्पा व्यश्नुही मदम् .. ७३१ ४ १ २ ०७ ०२अ मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् . ४ १ २ ०७ ०२च् मा कीं ब्रह्मद्विषं वनः .. ७३२ ४ १ २ ०७ ०३अ इह त्वा गोपरीणसं महे मन्दन्तु राधसे . ४ १ २ ०७ ०३च् सरो गौरो यथा पिब .. ७३३ ४ १ २ ०८ ०१अ इदम् वसो सुतमन्धः पिबा सुपूर्णमुदरम् . ४ १ २ ०८ ०१च् अनाभयिन्ररिमा ते .. ७३४ ४ १ २ ०८ ०२अ नृभिर्धौतः सुतो अश्नैरव्या वारैः परिपूतः . ४ १ २ ०८ ०२च् अश्वो न निक्तो नदीषु .. ७३५ ४ १ २ ०८ ०३अ तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः . ४ १ २ ०८ ०३च् इन्द्र त्वास्मिंत्सधमादे .. ७३६ ४ १ २ ०९ ०१अ इदं ह्यन्वोजसा सुतं राधानां पते . ४ १ २ ०९ ०१च् पिबा त्वा३स्य गिर्वणः .. ७३७ ४ १ २ ०९ ०२अ यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम् . ४ १ २ ०९ ०२च् स त्वा ममत्तु सोम्यम् .. ७३८ ४ १ २ ०९ ०३अ प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः . ४ १ २ ०९ ०३च् प्र बाहू शूर राधसा .. ७३९ ४ १ २ १० ०१अ आ त्वेता नि षीदतेन्द्रमभि प्र गायत . ४ १ २ १० ०१च् सखाय स्तोमवाहसः .. ७४० ४ १ २ १० ०२अ पुरूतमं पुरूणामीशानं वार्याणाम् . ४ १ २ १० ०२च् इन्द्रं सोमे सचा सुते .. ७४१ ४ १ २ १० ०३अ स घा नो योग आ भुवत्स राये स पुरन्ध्या . ४ १ २ १० ०३च् गमद्वाजेभिरा स नः .. ७४२ ४ १ २ ११ ०१अ योगेयोगे तवस्तरं वाजेवाजे हवामहे . ४ १ २ ११ ०१च् सखाय इन्द्रमूतये .. ७४३ ४ १ २ ११ ०२अ अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् . ४ १ २ ११ ०२च् यं ते पूर्वं पिता हुवे .. ७४४ ४ १ २ ११ ०३अ आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः . ४ १ २ ११ ०३च् वाजेभिरुप नो हवम् .. ७४५ ४ १ २ १२ ०१अ इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम् . ४ १ २ १२ ०१च् विदे वृधस्य दक्षस्य महां हि षः .. ७४६ ४ १ २ १२ ०२अ स प्रथमे व्योमनि देवानां सदने वृधः . ४ १ २ १२ ०२च् सुपारः सुश्रवस्तमः समप्सुजित् .. ७४७ ४ १ २ १२ ०३अ तमु हुवे वाजसातय इन्द्रं भराय शुष्मिणम् . ४ १ २ १२ ०३च् भवा नः सुम्ने अन्तमः सखा वृधे .. ७४८ ४ १ २ १३ ०१अ एना वो अग्निं नमसोर्जो नपातमा हुवे . ४ १ २ १३ ०१च् प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतम् .. ७४९ ४ १ २ १३ ०२अ स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः . ४ १ २ १३ ०२च् सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् .. ७५० ४ १ २ १४ ०१अ प्रत्यु अदर्श्यायत्यू३च्छन्ती दुहिता दिवः . ४ १ २ १४ ०१च् अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरी .. ७५१ ४ १ २ १४ ०२अ उदुस्रियाः सृजते सूर्यः सचा उद्यन्नक्षत्रमर्चिवत् . ४ १ २ १४ ०२च् तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि .. ७५२ ४ १ २ १५ ०१अ इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना . ४ १ २ १५ ०१च् अयं वामह्वे ऽवसे शचीवसू विशंविशं हि गच्छथः .. ७५३ ४ १ २ १५ ०२अ युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते . ४ १ २ १५ ०२च् अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधु .. ७५४ ४ १ २ १६ ०१अ अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः . ४ १ २ १६ ०१च् पयः सहस्रसामृषिम् .. ७५५ ४ १ २ १६ ०२अ अयं सूर्य इवोपदृगयं सरांसि धावति . ४ १ २ १६ ०२च् सप्त प्रवत आ दिवम् .. ७५६ ४ १ २ १६ ०३अ अयं विश्वानि तिष्ठति पुनानो भुवनोपरि . ४ १ २ १६ ०३च् सोमो देवो न सूर्यः .. ७५७ ४ १ २ १७ ०१अ एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः . ४ १ २ १७ ०१च् हरिः पवित्रे अर्षति .. ७५८ ४ १ २ १७ ०२अ एष प्रत्नेन मन्मना देवो देवेभ्यस्परि . ४ १ २ १७ ०२च् कविर्विप्रेण वावृधे .. ७५९ ४ १ २ १७ ०३अ दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यसे . ४ १ २ १७ ०३च् क्रन्दं देवां अजीजनः .. ७६० ४ १ २ १८ ०१अ उप शिक्षापतस्थुषो भियसमा धेहि शत्रवे . ४ १ २ १८ ०१च् पवमान विदा रयिम् .. ७६१ ४ १ २ १८ ०२अ उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् . ४ १ २ १८ ०२च् इन्दुं देवा अयासिषुः .. ७६२ ४ १ २ १८ ०३अ उपास्मै गायता नरः पवमानायेन्दवे . ४ १ २ १८ ०३च् अभि देवां इयक्षते .. ७६३ ४ १ २ १९ ०१अ प्र सोमासो विपश्चितो ऽपो नयन्त ऊर्मयः . ४ १ २ १९ ०१च् वनानि महिषा इव .. ७६४ ४ १ २ १९ ०२अ अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया . ४ १ २ १९ ०२च् वाजं गोमन्तमक्षरन् .. ७६५ ४ १ २ १९ ०३अ सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः . ४ १ २ १९ ०३च् सोमा अर्षन्तु विष्णवे .. ७६६ ४ १ २ २० ०१अ प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा . ४ १ २ २० ०१च् अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम् .. ७६७ ४ १ २ २० ०२अ आ हर्यतो अर्जुनो अत्के अव्यत प्रियः सूनुर्न मर्ज्यः . ४ १ २ २० ०२च् तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः .. ७६८ ४ १ २ २१ ०१अ प्र सोमासो मदच्युतः श्रवसे नो मघोनाम् . ४ १ २ २१ ०१च् सुता विदथे अक्रमुः .. ७६९ ४ १ २ २१ ०२अ आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिम् . ४ १ २ २१ ०२च् अत्यो न गोभिरज्यते .. ७७० ४ १ २ २१ ०३अ आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः . ४ १ २ २१ ०३च् इन्दुमिन्द्राय पीतये .. ७७१ ४ १ २ २२ ०१अ अया पवस्व देवयु रेभन्पवित्रं पर्येषि विश्वतः . ४ १ २ २२ ०१च् मधोर्धारा असृक्षत .. ७७२ ४ १ २ २२ ०२अ पवते हर्यतो हरिरति ह्वरांसि रंह्या . ४ १ २ २२ ०२च् अभ्यर्ष स्तोतृभ्यो वीरवद्यशः .. ७७३ ४ १ २ २२ ०३अ प्र सुन्वानास्यान्धसो मर्तो न वष्ट तद्वचः . ४ १ २ २२ ०३च् अप श्वानमराधसं हता मखं न भृगवः .. ७७४ द्वितीय प्रपाठकः . प्रथमो ऽर्धः ४ २ १ ०१ ०१अ पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः . ४ २ १ ०१ ०१च् अभि विश्वानि काव्या .. ७७५ ४ २ १ ०१ ०२अ त्वं समुद्रिया अपो ऽग्रियो वाच ईरयन् . ४ २ १ ०१ ०२च् पवस्व विश्वचर्षणे .. ७७६ ४ २ १ ०१ ०३अ तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे . ४ २ १ ०१ ०३च् तुभ्यं धावन्ति धेनवः .. ७७७ ४ २ १ ०२ ०१अ पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने . ४ २ १ ०२ ०१च् विश्वा अप द्विषो जहि .. ७७८ ४ २ १ ०२ ०२अ यस्य ते सख्ये वयं सासह्याम पृतन्यतः . ४ २ १ ०२ ०२च् तवेन्दो द्युम्न उत्तमे .. ७७९ ४ २ १ ०२ ०३अ या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे . ४ २ १ ०२ ०३च् रक्षा समस्य नो निदः .. ७८० ४ २ १ ०३ ०१अ वृषा सोम द्युमां असि वृषा देव वृषव्रतः . ४ २ १ ०३ ०१च् वृषा धर्माणि दध्रिषे .. ७८१ ४ २ १ ०३ ०२अ वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा सुतः . ४ २ १ ०३ ०२च् स त्वं वृषन्वृषेदसि .. ७८२ ४ २ १ ०३ ०३अ अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः . ४ २ १ ०३ ०३च् वि नो राये दुरो वृधि .. ७८३ ४ २ १ ०४ ०१अ वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे . ४ २ १ ०४ ०१च् पवमान स्वर्दृशम् .. ७८४ ४ २ १ ०४ ०२अ यदद्भिः परिशिच्यसे मर्मृज्यमान आयुभिः . ४ २ १ ०४ ०२च् द्रोणे सधस्थमश्नुषे .. ७८५ ४ २ १ ०४ ०३अ आ पवस्व सुवीर्यं मन्दमानः स्वायुध . ४ २ १ ०४ ०३च् इहो ष्विन्दवा गहि .. ७८६ ४ २ १ ०५ ०१अ पवमानस्य ते वयं पवित्रमभ्युन्दतः . ४ २ १ ०५ ०१च् सखित्वमा वृणीमहे .. ७८७ ४ २ १ ०५ ०२अ ये ते पवित्रमूर्मयो ऽभिक्षरन्ति धारया . ४ २ १ ०५ ०२च् तेभिर्नः सोम मृडय .. ७८८ ४ २ १ ०५ ०३अ स नः पुनान आ भर रयिं वीरवतीमिषम् ४ २ १ ०५ ०३च् ईशानः सोम विश्वतः .. ७८९ ४ २ १ ०६ ०१अ अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् . ४ २ १ ०६ ०१च् अस्य यज्ञस्य सुक्रतुम् .. ७९० ४ २ १ ०६ ०२अ अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् . ४ २ १ ०६ ०२च् हव्यवाहं पुरुप्रियम् .. ७९१ ४ २ १ ०६ ०३अ अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे . ४ २ १ ०६ ०३च् असि होता न ईड्यः .. ७९२ ४ २ १ ०७ ०१अ मित्रं वयं हवामहे वरुणं सोमपीतये . ४ २ १ ०७ ०१च् य जाता पूतदक्षसा .. ७९३ ४ २ १ ०७ ०२अ ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती . ४ २ १ ०७ ०२च् ता मित्रावरुणा हुवे .. ७९४ ४ २ १ ०७ ०३अ वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः . ४ २ १ ०७ ०३च् करतां नः सुराधसः .. ७९५ ४ २ १ ०८ ०१अ इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः . ४ २ १ ०८ ०१च् इन्द्रं वाणीरनूषत .. ७९६ ४ २ १ ०८ ०२अ इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा . ४ २ १ ०८ ०२च् इन्द्रो वज्री हिरण्ययः .. ७९७ ४ २ १ ०८ ०३अ इन्द्र वाजेषु नो ऽव सहस्रप्रधनेषु च . ४ २ १ ०८ ०३च् उग्र उग्राभिरूतिभिः .. ७९८ ४ २ १ ०८ ०४अ इन्द्रो दीर्धाय चक्षस आ सूर्यं रोहयद्दिवि . ४ २ १ ०८ ०४च् वि गोभिरद्रिमैरयत् .. ७९९ ४ २ १ ०९ ०१अ इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे . ४ २ १ ०९ ०१च् धिया धेना अवस्यवः .. ८०० ४ २ १ ०९ ०२अ ता हि शश्वन्त ईडत इत्था विप्रास ऊतये . ४ २ १ ०९ ०२च् सबाधो वाजसातये .. ८०१ ४ २ १ ०९ ०३अ ता वां गीर्भिर्विपन्युवः प्रयस्वन्तो हवामहे . ४ २ १ ०९ ०३च् मेधसाता सनिष्यवः .. ८०२ ४ २ १ १० ०१अ वृषा पवस्व धारया मरुत्वते च मत्सरः . ४ २ १ १० ०१च् दिश्वा दधान ओजसा .. ८०३ ४ २ १ १० ०२अ तं त्वा धर्त्तारमोण्यो३ः पवमान स्वर्दृशम् . ४ २ १ १० ०२च् हिन्वे वाजेषु वाजिनम् .. ८०४ ४ २ १ १० ०३अ अया चित्तो विपानया हरिः पवस्व धारया . ४ २ १ १० ०३च् युजं वाजेषु चोदय .. ८०५ ४ २ १ ११ ०१अ वृषा शोणो अभिकनिक्रदद्गा नदयन्नेषि पृथिवीमुत द्याम् . ४ २ १ ११ ०१च् इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचोदयन्नर्षसि वाचमेमाम् .. ८०६ ४ २ १ ११ ०२अ रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुम् . ४ २ १ ११ ०२च् पवमान सन्तनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः .. ८०७ ४ २ १ ११ ०३अ एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नुम् . ४ २ १ ११ ०३च् परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः .. ८०८ ४ २ १ १२ ०१अ त्वामिद्धि हवामहे सातौ वाजस्य कारवः . ४ २ १ १२ ०१च् त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः .. ८०९ ४ २ १ १२ ०२अ स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः . ४ २ १ १२ ०२च् गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे .. ८१० ४ २ १ १३ ०१अ अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे . ४ २ १ १३ ०१च् यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति .. ८११ ४ २ १ १३ ०२अ शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे . ४ २ १ १३ ०२च् गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः .. ८१२ ४ २ १ १४ ०१अ त्वामिदा ह्यो नरो ऽपीप्यन्वज्रिन्भूर्णयः . ४ २ १ १४ ०१च् स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि .. ८१३ ४ २ १ १४ ०२अ मत्स्वा सुशिप्रिन्हरिवस्तमीमहे त्वया भूषन्ति वेधसः . ४ २ १ १४ ०२च् तव श्रवांस्युपमान्युक्थ्य सुतेष्विन्द्र गिर्वणः .. ८१४ ४ २ १ १५ ०१अ यस्ते मदो वरेण्यस्तेना पवस्वान्धसा . ४ २ १ १५ ०१च् देवावीरघशंसहा .. ८१५ ४ २ १ १५ ०२अ जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे . ४ २ १ १५ ०२च् गोषातिरश्वसा असि .. ८१६ ४ २ १ १५ ०३अ सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभि . ४ २ १ १५ ०३च् सीदं च्छ्येनो न योनिमा .. ८१७ ४ २ १ १६ ०१अ अयं पूषा रयिर्भगः सोमः पुनानो अर्षति . ४ २ १ १६ ०१च् पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे .. ८१८ ४ २ १ १६ ०२अ समु प्रिया अनूषत गावो मदाय घृष्वयः . ४ २ १ १६ ०२च् सोमासः कृण्वते पथः पवमानास इन्दवः .. ८१९ ४ २ १ १६ ०३अ य ओजिष्ठस्तमा भर पवमान श्रवाय्यम् . ४ २ १ १६ ०३च् यः पञ्च चर्षणीरभि रयिं येन वनामहे .. ८२० ४ २ १ १७ ०१अ वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः . ४ २ १ १७ ०१च् प्राणा सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः .. ८२१ ४ २ १ १७ ०२अ मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशां असिष्यदत् . ४ २ १ १७ ०२च् त्रितस्य नाम जनयन्मधु क्षरन्निन्द्रस्य वायूं सख्याय वर्धयन् .. ८२२ ४ २ १ १७ ०३अ अयं पुनान उषसो अरोचयदयं सिन्धुभ्यो अभवदु लोककृत् . ४ २ १ १७ ०३च् अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः .. ८२३ ४ २ १ १८ ०१अ एवा ह्यसि वीरयुरेवा शूर उत स्थिरह् . ४ २ १ १८ ०१च् एवा ते राध्यं मनः .. ८२४ ४ २ १ १८ ०२अ एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः . ४ २ १ १८ ०२च् अधा चिदिन्द्र नः सचा .. ८२५ ४ २ १ १८ ०३अ मो षु ब्रह्मेव तदिन्द्रयुर्भुवो वाजानां पते . ४ २ १ १८ ०३च् मत्स्वा सुतस्य गोमतः .. ८२६ ४ २ १ १९ ०१अ इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः . ४ २ १ १९ ०१च् रथीतमं रथीनां वाजानां सत्पतिं पतिम् .. ८२७ ४ २ १ १९ ०२अ सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते . ४ २ १ १९ ०२च् त्वामभि प्र नोनुमो जेतारमपराजितम् .. ८२८ ४ २ १ १९ ०३अ पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः . ४ २ १ १९ ०३च् यदा वाजस्य गोमत स्तोतृभ्यो मंहते मघम् .. ८२९ द्वितीय प्रपाठकः . द्वितीयो ऽर्धः ४ २ २ ०१ ०१अ एत असृग्रमिन्दवस्तिरः पवित्रमाशवः . ४ २ २ ०१ ०१च् विश्वान्यभि सौभगा .. ८३० ४ २ २ ०१ ०२अ विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः . ४ २ २ ०१ ०२च् त्मना कृण्वन्तो अर्वतः .. ८३१ ४ २ २ ०१ ०३अ कृण्वन्तो वरिवो गवे ऽभ्यर्षन्ति सुष्टुतिम् . ४ २ २ ०१ ०३च् इडामस्मभ्यं संयतम् .. ८३२ ४ २ २ ०२ ०१अ राजा मेधाभिरीयते पवमानो मनावधि . ४ २ २ ०२ ०१च् अन्तरिक्षेण यातवे .. ८३३ ४ २ २ ०२ ०२अ आ नः सोम सहो जुवो रूपं न वर्चसे भर . ४ २ २ ०२ ०२च् सुष्वाणो देववीतये .. ८३४ ४ २ २ ०२ ०३अ आ न इन्दो शतग्विनं गवां पोषं स्वश्व्यम् . ४ २ २ ०२ ०३च् वहा भगत्तिमूतये .. ८३५ ४ २ २ ०३ ०१अ तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः . ४ २ २ ०३ ०१च् चारुं सुकृत्ययेमहे .. ८३६ ४ २ २ ०३ ०२अ संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम् . ४ २ २ ०३ ०२च् शतं पुरो रुरुक्षणिम् .. ८३७ ४ २ २ ०३ ०३अ अतस्त्वा रयिरभ्ययद्राजानं सुक्रतो दिवः . ४ २ २ ०३ ०३च् सुपर्णो अव्यथी भरत् .. ८३८ ४ २ २ ०३ ०४अ अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे . ४ २ २ ०३ ०४च् अभिष्टिकृद्विचर्षणिः .. ८३९ ४ २ २ ०३ ०५अ विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरम् . ४ २ २ ०३ ०५च् गोपामृतस्य विर्भरत् .. ८४० ४ २ २ ०४ ०१अ इषे पवस्व धारया मृज्यमानो मनीषिभिः . ४ २ २ ०४ ०१च् इन्दो रुचाभि गा इहि .. ८४१ ४ २ २ ०४ ०२अ पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः . ४ २ २ ०४ ०२च् हरे सृजान आशिरम् .. ८४२ ४ २ २ ०४ ०३अ पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् . ४ २ २ ०४ ०३च् द्युतानो वाजिभिर्हितः .. ८४३ ४ २ २ ०५ ०१अ अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा . ४ २ २ ०५ ०१च् हव्यवाड्जुह्वास्यः .. ८४४ ४ २ २ ०५ ०२अ यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति . ४ २ २ ०५ ०२च् तस्य स्म प्राविता भव .. ८४५ ४ २ २ ०५ ०३अ यो अग्निं देववीतये हविष्मां आविवासति . ४ २ २ ०५ ०३च् तस्मै पावक मृडय .. ८४६ ४ २ २ ०६ ०१अ मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् . ४ २ २ ०६ ०१च् धियं घृताचीं साधन्ता .. ८४७ ४ २ २ ०६ ०२अ ऋतेन मित्रावरुणावृतावृधावृतस्पृशा . ४ २ २ ०६ ०२च् क्रतुं बृहन्तमाशाथे .. ८४८ ४ २ २ ०६ ०३अ कवी नो मित्रावरुणा तुविजाता उरुक्षया . ४ २ २ ०६ ०३च् दक्षं दधाते अपसम् .. ८४९ ४ २ २ ०७ ०१अ इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा . ४ २ २ ०७ ०१च् मन्दू समानवर्च्चसा .. ८५० ४ २ २ ०७ ०२अ आदह स्वधामनु पुनर्गर्भत्वमेरिरे . ४ २ २ ०७ ०२च् दधाना नाम यज्ञियम् .. ८५१ ४ २ २ ०७ ०३अ वीडु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः . ४ २ २ ०७ ०३च् अविन्द उस्रिया अनु .. ८५२ ४ २ २ ०८ ०१अ ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतम् . ४ २ २ ०८ ०१च् इन्द्राग्नी न मर्धतः .. ८५३ ४ २ २ ०८ ०२अ उग्रा विघनिना मृध इन्द्राग्नी हवामहे . ४ २ २ ०८ ०२च् ता नो मृडात ईदृशे .. ८५४ ४ २ २ ०८ ०३अ हथो वृत्राण्यार्या हथो दासानि सत्पती . ४ २ २ ०८ ०३च् हथो विश्वा अप द्विषः .. ८५५ ४ २ २ ०९ ०१अ अभि सोमास आयवः पवन्ते मद्यं मदम् . ४ २ २ ०९ ०१च् समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः .. ८५६ ४ २ २ ०९ ०२अ तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् . ४ २ २ ०९ ०२च् अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् .. ८५७ ४ २ २ ०९ ०३अ नृभिर्येमाणो हर्यतो विचक्षणो राजा देवः समुद्र्यः .. ८५८ ४ २ २ १० ०१अ तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् . ४ २ २ १० ०१च् गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः .. ८५९ ४ २ २ १० ०२अ सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः . ४ २ २ १० ०२च् सोमः सुत ऋच्यते पूयमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते .. ८६० ४ २ २ १० ०३अ एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति . ४ २ २ १० ०३च् इन्द्रमा विश बृहता मदेन वर्धया वाचं जनया पुरन्धिम् .. ८६१ ४ २ २ ११ ०१अ यद्द्याव इन्द्र ते शतंशतं भूमीरुत स्युः . ४ २ २ ११ ०१च् न त्वा वज्रिन्त्सहस्रं सुर्या अनु न जातमष्ट रोदसी .. ८६२ ४ २ २ ११ ०२अ आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा . ४ २ २ ११ ०२च् अस्मां अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः .. ८६३ ४ २ २ १२ ०१अ वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः . ४ २ २ १२ ०१च् पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते .. ८६४ ४ २ २ १२ ०२अ स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः . ४ २ २ १२ ०२च् कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः .. ८६५ ४ २ २ १२ ०३अ कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् . ४ २ २ १२ ०३च् पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे .. ८६६ ४ २ २ १३ ०१अ तरणिरित्सिषासति वाजं पुरन्ध्या युजा . ४ २ २ १३ ०१च् आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवम् .. ८६७ ४ २ २ १३ ०२अ न दुष्टुतिर्द्रविणोदेषु शस्यते न स्रेधन्तं रयिर्नशत् . ४ २ २ १३ ०२च् सुशक्तिरिन्मघवं तुभ्यं मावते देष्णं यत्पार्ये दिवि .. ८६८ ४ २ २ १४ ०१अ तिस्रो वाच उदीरते गावो मिमन्ति धेनवः . ४ २ २ १४ ०१च् हरिरेति कनिक्रदत् .. ८६९ ४ २ २ १४ ०२अ अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः . ४ २ २ १४ ०२च् मर्जयन्तीर्दिवः शिशुम् .. ८७० ४ २ २ १४ ०३अ रायः समुद्रांश्चतुरो ऽस्मभ्यं सोम विश्वतः . ४ २ २ १४ ०३च् आ पवस्व सहस्रिणः .. ८७१ ४ २ २ १५ ०१अ सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः . ४ २ २ १५ ०१च् पवित्रवन्तो अक्षरं देवान्गच्छन्तु वो मदाः .. ८७२ ४ २ २ १५ ०२अ इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् . ४ २ २ १५ ०२च् वाचस्पतिर्मखस्यते विश्वस्येशान ओजसाः .. ८७३ ४ २ २ १५ ०३अ सहस्रधारः पवते समुद्रो वाचमीङ्खयः . ४ २ २ १५ ०३च् सोमस्पती रयीणां सखेन्द्रस्य दिवेदिवे .. ८७४ ४ २ २ १६ ०१अ पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः . ४ २ २ १६ ०१च् अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत .. ८७५ ४ २ २ १६ ०२अ तपोष्पवित्रं विततं दिवस्पदे ऽर्चन्तो अस्य तन्तवो व्यस्थिरन् . ४ २ २ १६ ०२च् अवन्त्यस्य पवीतारमाशवो दिवः पृष्ठमधि रोहन्ति तेजसा .. ८७६ ४ २ २ १६ ०३अ अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः . ४ २ २ १६ ०३च् मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः .. ८७७ ४ २ २ १७ ०१अ प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे . ४ २ २ १७ ०१च् उपस्तुतासो अग्नये .. ८७८ ४ २ २ १७ ०२अ आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः . ४ २ २ १७ ०२च् कुविन्नो अस्य सुमतिर्भवीयस्यच्छा वाजेभिरागमत् .. ८७९ ४ २ २ १८ ०१अ तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम् . ४ २ २ १८ ०१च् उ लोककृत्नुमद्रिवो हरिश्रियम् .. ८८० ४ २ २ १८ ०२अ येन ज्योतींष्यायवे मनवे च विवेदिथ . ४ २ २ १८ ०२च् मन्दानो अस्य बर्हिषो वि राजसि .. ८८१ ४ २ २ १८ ०३अ तदद्या चित्त उक्थिनो ऽनु ष्टुवन्ति पूर्वथा . ४ २ २ १८ ०३च् वृषपत्नीरपो जया दिवेदिवे .. ८८२ ४ २ २ १९ ०१अ श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति . ४ २ २ १९ ०१च् सुवीर्यस्य गोमतो रायस्पूर्धि महां असि .. ८८३ ४ २ २ १९ ०२अ यस्त इन्द्र नवीयसीं गिरं मन्द्रामजीजनत् . ४ २ २ १९ ०२च् चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीम् .. ८८४ ४ २ २ १९ ०३अ तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः . ४ २ २ १९ ०३च् पुरूण्यस्य नौंस्या सिषासन्तो वनामहे .. ८८५ तृतीय प्रपाठकः . प्रथमो ऽर्धः ४ ३ १ ०१ ०१अ प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि . ४ ३ १ ०१ ०१च् प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः .. ८८६ ४ ३ १ ०१ ०२अ उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः . ४ ३ १ ०१ ०२च् यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योनौ कलशेषु सीदति .. ८८७ ४ ३ १ ०१ ०३अ विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः परि यन्ति केतवः . ४ ३ १ ०१ ०३च् व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसि .. ८८८ ४ ३ १ ०२ ०१अ पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् . ४ ३ १ ०२ ०१च् ज्योतिर्वैश्वानरं बृहत् .. ८८९ ४ ३ १ ०२ ०२अ पवमान रसस्तव मदो राजन्नदुच्छुनः . ४ ३ १ ०२ ०२च् वि वारमव्यमर्षति .. ८९० ४ ३ १ ०२ ०३अ पवमानस्य ते रसो दक्षो वि राजति द्युमान् . ४ ३ १ ०२ ०३च् ज्योतिर्विश्वं स्वर्दृशे .. ८९१ ४ ३ १ ०३ ०१अ प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः . ४ ३ १ ०३ ०१च् घ्नन्तः कृष्णामप त्वचम् .. ८९२ ४ ३ १ ०३ ०२अ सुवितस्य मनामहे ऽति सेतुं दुराय्यम् . ४ ३ १ ०३ ०२च् साह्याम दस्युमव्रतम् .. ८९३ ४ ३ १ ०३ ०३अ शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः . ४ ३ १ ०३ ०३च् चरन्ति विद्युतो दिवि .. ८९४ ४ ३ १ ०३ ०४अ आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् . ४ ३ १ ०३ ०४च् अश्ववत्सोम वीरवत् .. ८९५ ४ ३ १ ०३ ०५अ पवस्व विश्वचर्षण आ मही रोदसी पृण . ४ ३ १ ०३ ०५च् उषाः सूर्यो न रश्मिभिः .. ८९६ ४ ३ १ ०३ ०६अ परि नः शर्मयन्त्या धारया सोम विश्वतः . ४ ३ १ ०३ ०६च् सरा रसेव विष्टपम् .. ८९७ ४ ३ १ ०४ ०१अ आशुरर्ष बृहन्मते परि प्रियेण धाम्ना . ४ ३ १ ०४ ०१च् यत्र देवा इति ब्रुवन् .. ८९८ ४ ३ १ ०४ ०२अ परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः . ४ ३ १ ०४ ०२च् वृष्टिं दिवः परि स्रव .. ८९९ ४ ३ १ ०४ ०३अ अयं स यो दिवस्परि रघुयामा पवित्र आ . ४ ३ १ ०४ ०३च् सिन्धोरूर्मा व्यक्षरत् .. ९०० ४ ३ १ ०४ ०४अ सुत एति पवित्र आ त्विषिं दधान ओजसा . ४ ३ १ ०४ ०४च् विचक्षाणो विरोचयन् .. ९०१ ४ ३ १ ०४ ०५अ आविवासन्परावतो अथो अर्वावतः सुतः . ४ ३ १ ०४ ०५च् इन्द्राय सिच्यते मधु .. ९०२ ४ ३ १ ०४ ००अ समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः . ४ ३ १ ०४ ००च् इन्दुमिन्द्राय पीतये .. ९०३ ४ ३ १ ०५ ०१अ हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिम् . ४ ३ १ ०५ ०१च् महामिन्दुं महीयुवः .. ९०४ ४ ३ १ ०५ ०२अ पवमान रुचारुचा देवो देवेभ्यः सुतः . ४ ३ १ ०५ ०२च् विश्वा वसून्या विश .. ९०५ ४ ३ १ ०५ ०३अ आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः . ४ ३ १ ०५ ०३च् इषे पवस्व संयतम् .. ९०६ ४ ३ १ ०६ ०१अ जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे . ४ ३ १ ०६ ०१च् घृतप्रतीको बृहता दिविस्पृषा द्युमद्वि भाति भरतेभ्यः शुचिः .. ९०७ ४ ३ १ ०६ ०२अ त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने . ४ ३ १ ०६ ०२च् स जायसे मथ्यमानः सहो महत्वामाहुः सहसस्पुत्रमङ्गिरः .. ९०८ ४ ३ १ ०६ ०३अ यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते . ४ ३ १ ०६ ०३च् इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः .. ९०९ ४ ३ १ ०७ ०१अ अयं वां मित्रावरुणा सुतः सोम ऋतावृधा . ४ ३ १ ०७ ०१च् ममेदिह श्रुतं हवम् .. ९१० ४ ३ १ ०७ ०२अ राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे . ४ ३ १ ०७ ०२च् सहस्रस्थूण आशाते .. ९११ ४ ३ १ ०७ ०३अ ता सम्राजा घृतासुती आदित्या दानुनस्पती . ४ ३ १ ०७ ०३च् सचेते अनवह्वरम् .. ९१२ ४ ३ १ ०८ ०१अ इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः . ४ ३ १ ०८ ०१च् जघान नवतीर्नव .. ९१३ ४ ३ १ ०८ ०२अ इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम् . ४ ३ १ ०८ ०२च् तद्विदच्छर्यणावति .. ९१४ ४ ३ १ ०८ ०३अ अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् . ४ ३ १ ०८ ०३च् इत्था चन्द्रमसो गृहे .. ९१५ ४ ३ १ ०९ ०१अ इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः . ४ ३ १ ०९ ०१च् अभ्राद्वृष्टिरिवाजनि .. ९१६ ४ ३ १ ०९ ०२अ शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः . ४ ३ १ ०९ ०२च् ईशाना पिप्यतं धियः .. ९१७ ४ ३ १ ०९ ०३अ मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये . ४ ३ १ ०९ ०३च् मा नो रीरधतं निदे .. ९१८ ४ ३ १ १० ०१अ पवस्व दक्षसाधनो देवेभ्यः पीतये हरे . ४ ३ १ १० ०१च् मरुद्भ्यो वायवे मदः .. ९१९ ४ ३ १ १० ०२अ सं देवैः शोभते वृषा कविर्योनावधि प्रियः . ४ ३ १ १० ०२च् पवमानो अदाभ्यः .. ९२० ४ ३ १ १० ०३अ पवमान धिया हितो३ ऽभि योनिं कनिक्रदत् . ४ ३ १ १० ०३च् धर्मणा वायुमारुहः .. ९२१ ४ ३ १ ११ ०१अ तवाहं सोम रारण सख्य इन्दो दिवेदिवे . ४ ३ १ ११ ०१च् पुरूणि बभ्रो नि चरन्ति मामव परिधीं रति तांइहि .. ९२२ ४ ३ १ ११ ०२अ तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनि . ४ ३ १ ११ ०२च् घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम .. ९२३ ४ ३ १ १२ ०१अ पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः . ४ ३ १ १२ ०१च् शुम्भन्ति विप्रं धीतिभिः .. ९२४ ४ ३ १ १२ ०२अ आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतम् . ४ ३ १ १२ ०२च् ध्रुवे सदसि सीदतु .. ९२५ ४ ३ १ १२ ०३अ नू नो रयिं महामिन्दो ऽस्मभ्यं सोम विश्वतः . ४ ३ १ १२ ०३च् आ पवस्व सहस्रिणम् .. ९२६ ४ ३ १ १३ ०१अ पिबा सोममिन्द्र मदन्तु त्वा यं ते सुषाव हर्यश्वाद्रिः . ४ ३ १ १३ ०१च् सोतुर्बाहुभ्यां सुयतो नार्वा .. ९२७ ४ ३ १ १३ ०२अ यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि . ४ ३ १ १३ ०२च् स त्वामिन्द्र प्रभूवसो ममत्तु .. ९२८ ४ ३ १ १३ ०३अ बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् . ४ ३ १ १३ ०३च् इमा ब्रह्म सधमादे जुषस्व .. ९२९ ४ ३ १ १४ ०१अ विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे . ४ ३ १ १४ ०१च् क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम् .. ९३० ४ ३ १ १४ ०२अ नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरे . ४ ३ १ १४ ०२च् सुदीतयो वो अद्रुहो ऽपि कर्णे तरस्विनः समृक्वभिः .. ९३१ ४ ३ १ १४ ०३अ समु रेभसो अस्वरन्निन्द्रं सोमस्य पीतये . ४ ३ १ १४ ०३च् स्वःपतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः .. ९३२ ४ ३ १ १५ ०१अ यो राजा चर्षणीनां याता रथेभिरध्रिगुः . ४ ३ १ १५ ०१च् विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे .. ९३३ ४ ३ १ १५ ०२अ इन्द्रं तं शुम्भ्य पुरुहन्मन्नवसे यस्य द्विता विधर्त्तरि . ४ ३ १ १५ ०२च् हस्तेन वज्रः प्रति धायि दर्शतो महां देवो न सूर्यः .. ९३४ ४ ३ १ १६ ०१अ परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः . ४ ३ १ १६ ०१च् स्वानैर्याति कविक्रतुः .. ९३५ ४ ३ १ १६ ०२अ स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् . ४ ३ १ १६ ०२च् महान्मही ऋतावृधा .. ९३६ ४ ३ १ १६ ०३अ प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहः . ४ ३ १ १६ ०३च् वीत्यर्ष पनिष्टये .. ९३७ ४ ३ १ १७ ०१अ त्वं ह्या३ंङ्ग दैव्या पवमान जनिमानि द्युमत्तमः . ४ ३ १ १७ ०१च् अमृतत्वाय घोषयन् .. ९३८ ४ ३ १ १७ ०२अ येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे . ४ ३ १ १७ ०२च् देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्याशत .. ९३९ ४ ३ १ १८ ०१अ सोमः पुनान ऊर्मिणाव्यं वारं वि धावति . ४ ३ १ १८ ०१च् अग्रे वाचः पवमानः कनिक्रदत् .. ९४० ४ ३ १ १८ ०२अ धीभिर्मृजन्ति वाजिनं वने क्रीडन्तमत्यविम् . ४ ३ १ १८ ०२च् अभि त्रिपृष्ठं मतयः समस्वरन् .. ९४१ ४ ३ १ १८ ०३अ असर्जि कलशां अभि मीढ्वान्त्सप्तिर्न वाजयुः . ४ ३ १ १८ ०३च् पुनानो वाचं जनयन्नसिष्यदत् .. ९४२ ४ ३ १ १९ ०१अ सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः . ४ ३ १ १९ ०१च् जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः .. ९४३ ४ ३ १ १९ ०२अ ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषोमृगाणाम् . ४ ३ १ १९ ०२च् श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् .. ९४४ ४ ३ १ १९ ०३अ प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर स्तोमान्पवमानो मनीषाः . ४ ३ १ १९ ०३च् अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् .. ९४५ ४ ३ १ २० ०१अ अग्निं वो वृधन्तमध्वराणां पुरूतमम् . ४ ३ १ २० ०१च् अच्छा नप्त्रे सहस्वते .. ९४६ ४ ३ १ २० ०२अ अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या . ४ ३ १ २० ०२च् अस्य क्रत्वा यशस्वतः .. ९४७ ४ ३ १ २० ०३अ अयं विश्वा अभि श्रियो ऽग्निर्देवेषु पत्यते . ४ ३ १ २० ०३च् आ वाजैरुप नो गमत् .. ९४८ ४ ३ १ २१ ०१अ इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् . ४ ३ १ २१ ०१च् शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने .. ९४९ ४ ३ १ २१ ०२अ न किष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे . ४ ३ १ २१ ०२च् न किष्ट्वानु मज्मना न किः स्वश्व आनशे .. ९५० ४ ३ १ २१ ०३अ इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन . ४ ३ १ २१ ०३च् सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः .. ९५१ ४ ३ १ २२ ०१अ इन्द्र जुषस्व प्र वहा याहि शूर हरिह . ४ ३ १ २२ ०१च् पिबा सुतस्य मतिर्न मधोश्चकानश्चारुर्मदाय .. ९५२ ४ ३ १ २२ ०२अ इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न . ४ ३ १ २२ ०२च् अस्य सुतस्य स्वा३र्नोप त्वा मदाः सुवाचो अस्थुः .. ९५३ ४ ३ १ २२ ०३अ इन्द्रस्तुराषाण्मित्रो न जघान वृत्रं यतिर्न . ४ ३ १ २२ ०३च् बिभेद वलं भृगुर्न ससाहे शत्रून्मदे सोमस्य .. ९५४ तृतीय प्रपाठकः . द्वितीयो ऽर्धः ४ ३ २ ०१ ०१अ गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः . ४ ३ २ ०१ ०१च् त्वं सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते .. ९५५ ४ ३ २ ०१ ०२अ त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि . ४ ३ २ ०१ ०२च् स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे .. ९५६ ४ ३ २ ०१ ०३अ ईशान इमा भुवनानि ईयसे युजान इन्दो हरितः सुपर्ण्यः . ४ ३ २ ०१ ०३च् तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः .. ९५७ ४ ३ २ ०२ ०१अ पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत . ४ ३ २ ०२ ०१च् सूर्यस्येव न रश्मयः .. ९५८ ४ ३ २ ०२ ०२अ केतुं कृण्वं दिवस्परि विश्वा रूपाभ्यर्षसि . ४ ३ २ ०२ ०२च् समुद्रः सोम पिन्वसे .. ९५९ ४ ३ २ ०२ ०३अ जज्ञानो वाचमिष्यसि पवमान विधर्मणि . ४ ३ २ ०२ ०३च् क्रन्दं देवो न सूर्यः .. ९६० ४ ३ २ ०३ ०१अ प्र सोमासो अधन्विषुः पवमानास इन्दवः . ४ ३ २ ०३ ०१च् श्रीणाना अप्सु वृञ्जते .. ९६१ ४ ३ २ ०३ ०२अ अभि गावो अधन्विषुरापो न प्रवता यतीः . ४ ३ २ ०३ ०२च् पुनाना इन्द्रमाशत .. ९६२ ४ ३ २ ०३ ०३अ प्र पवमान धन्वसि सोमेन्द्राय मादनः . ४ ३ २ ०३ ०३च् नृभिर्यतो वि नीयसे .. ९६३ ४ ३ २ ०३ ०४अ इन्दो यदद्रिभिः सुतः पवित्रं परिदीयसे . ४ ३ २ ०३ ०४च् अरमिन्द्रस्य धाम्ने .. ९६४ ४ ३ २ ०३ ०५अ त्वं सोम नृमादनः पवस्व चर्षणीधृतिः . ४ ३ २ ०३ ०५च् सस्निर्यो अनुमाद्यः .. ९६५ ४ ३ २ ०३ ०६अ पवस्व वृत्रहन्तम उक्थेभिरनुमाद्यः . ४ ३ २ ०३ ०६च् शुचिः पावको अद्भुतः .. ९६६ ४ ३ २ ०३ ०७अ शुचिः पावक उच्यते सोमः सुतः स मधुमान् . ४ ३ २ ०३ ०७च् देवावीरघशंसहा .. ९६७ ४ ३ २ ०४ ०१अ प्र कविर्देववीतये ऽव्या वारेभिरव्यत . ४ ३ २ ०४ ०१च् साह्वान्विश्वा अभि स्पृधः .. ९६८ ४ ३ २ ०४ ०२अ स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति . ४ ३ २ ०४ ०२च् पवमानः सहस्रिणम् .. ९६९ ४ ३ २ ०४ ०३अ परि विश्वानि चेतसा मृज्यसे पवसे मती . ४ ३ २ ०४ ०३च् स नः सोम श्रवो विदः .. ९७० ४ ३ २ ०४ ०४अ अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिम् . ४ ३ २ ०४ ०४च् इषं स्तोतृभ्य आ भर .. ९७१ ४ ३ २ ०४ ०५अ त्वं राजेव सुव्रतो गिरः सोमाविवेशिथ . ४ ३ २ ०४ ०५च् पुनानो वह्ने अद्भुत .. ९७२ ४ ३ २ ०४ ०६अ स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः . ४ ३ २ ०४ ०६च् सोमश्चमूषु सीदति .. ९७३ ४ ३ २ ०४ ०७अ क्रीडुर्मखो न मंहयुः पवित्रं सोम गच्छसि . ४ ३ २ ०४ ०७च् दधत्स्तोत्रे सुवीर्यम् .. ९७४ ४ ३ २ ०५ ०१अ यवंयवं नो अन्धसा पुष्टंपुष्टं परि स्रव . ४ ३ २ ०५ ०१च् विश्वा च सोम सौभगा .. ९७५ ४ ३ २ ०५ ०२अ इन्दो यथा तव स्तवो यथा ते जातमन्धसः . ४ ३ २ ०५ ०२च् नि बर्हिषि प्रिये सदः .. ९७६ ४ ३ २ ०५ ०३अ उत नो गोविदश्ववित्पवस्व सोमान्धसा . ४ ३ २ ०५ ०३च् मक्षूतमेभिरहभिः .. ९७७ ४ ३ २ ०५ ०४अ यो जिनाति न जीयते हन्ति शत्रुमभीत्य . ४ ३ २ ०५ ०४च् स पवस्व सहस्रजित् .. ९७८ ४ ३ २ ०६ ०१अ यास्ते धारा मधुश्चुतो ऽसृग्रमिन्द ऊतये . ४ ३ २ ०६ ०१च् ताभिः पवित्रमासदः .. ९७९ ४ ३ २ ०६ ०२अ सो अर्षेन्द्राय पीतये तिरो वाराण्यव्यया . ४ ३ २ ०६ ०२च् सीदन्नृतस्य योनिमा .. ९८० ४ ३ २ ०६ ०३अ त्वं सोम परि स्रव स्वादिष्ठो अङ्गिरोभ्यः . ४ ३ २ ०६ ०३च् वरिवोविद्धृतं पयः .. ९८१ ४ ३ २ ०७ ०१अ तव श्रियो वर्ष्यस्येव विद्युतोग्नेश्चिकित्र उषसामिवेतयः . ४ ३ २ ०७ ०१च् यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमासनि .. ९८२ ४ ३ २ ०७ ०२अ वातोपजूत इषितो वशां अनु तृषु यदन्ना वेविषद्वितिष्ठसे . ४ ३ २ ०७ ०२च् आ ते यतन्ते रथ्यो३ यथा पृथक्शर्धांस्यग्ने अजरस्य धक्षतः .. ९८३ ४ ३ २ ०७ ०३अ मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतरं मतिम् . ४ ३ २ ०७ ०३च् त्वामर्भस्य हविषः समानमित्तवां महो वृणते नान्यं त्वत् .. ९८४ ४ ३ २ ०८ ०१अ पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण . ४ ३ २ ०८ ०१च् मित्र वंसि वां सुमतिम् .. ९८५ ४ ३ २ ०८ ०२अ ता वां सम्यगद्रुह्वाणेषमश्याम धाम च . ४ ३ २ ०८ ०२च् वयं वां मित्रा स्याम .. ९८६ ४ ३ २ ०८ ०३अ पातं नो मित्रा पायुभिरुत त्रायेथां सुत्रात्रा . ४ ३ २ ०८ ०३च् साह्याम दस्यूं तनूभिः .. ९८७ ४ ३ २ ०९ ०१अ उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः . ४ ३ २ ०९ ०१च् सोममिन्द्र चमूसुतम् .. ९८८ ४ ३ २ ०९ ०२अ अनु त्वा रोदसी उभे स्पर्धमानमददेताम् . ४ ३ २ ०९ ०२च् इन्द्र यद्दस्युहाभवः .. ९८९ ४ ३ २ ०९ ०३अ वाचमष्टापदीमहं नवस्रक्तिमृतावृधम् . ४ ३ २ ०९ ०३च् इन्द्रात्परितन्वं ममे .. ९९० ४ ३ २ १० ०१अ इन्द्राग्नी युवामिमे३ ऽभि स्तोमा अनूषत . ४ ३ २ १० ०१च् पिबतं शम्भुवा सुतम् .. ९९१ ४ ३ २ १० ०२अ या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा . ४ ३ २ १० ०२च् इन्द्राग्नी ताभिरा गतम् .. ९९२ ४ ३ २ १० ०३अ ताभिरा गच्छतं नरोपेदं सवनं सुतम् . ४ ३ २ १० ०३च् इन्द्राग्नी सोमपीतये .. ९९३ ४ ३ २ ११ ०१अ अर्षा सोम द्युमत्तमो ऽभि द्रोणानि रोरुवत् . ४ ३ २ ११ ०१च् सीदन्योनौ योनेष्वा .. ९९४ ४ ३ २ ११ ०२अ अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः . ४ ३ २ ११ ०२च् सोमा अर्षन्तु विष्णवे .. ९९५ ४ ३ २ ११ ०३अ इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः . ४ ३ २ ११ ०३च् आ पवस्व सहस्रिणम् .. ९९६ ४ ३ २ १२ ०१अ सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनाम् . ४ ३ २ १२ ०१च् अश्वयेव हरिता याति धारया मन्द्रया याति धारया .. ९९७ ४ ३ २ १२ ०२अ अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः . ४ ३ २ १२ ०२च् समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते .. ९९८ ४ ३ २ १३ ०१अ यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु . ४ ३ २ १३ ०१च् तन्नः पुनान आ भर .. ९९९ ४ ३ २ १३ ०२अ वृषा पुनान आयुंषि स्तनयन्नधि बर्हिषि . ४ ३ २ १३ ०२च् हरिः सन्योनिमासदः .. १००० ४ ३ २ १३ ०३अ युवं हि स्थः स्वःपती इन्द्रश्च सोम गोपती . ४ ३ २ १३ ०३च् ईशाना पिप्यतं धियः .. १००१ ४ ३ २ १४ ०१अ इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः . ४ ३ २ १४ ०१च् तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नो ऽविषत् .. १००२ ४ ३ २ १४ ०२अ असि हि वीर सेन्यो ऽसि भूरि पराददिः . ४ ३ २ १४ ०२च् असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु .. १००३ ४ ३ २ १४ ०३अ यदुदीरत आजयो धृष्णवे धीयते धनाम् . ४ ३ २ १४ ०३च् युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधो ऽस्मां इन्द्र वसौ दधः .. १००४ ४ ३ २ १५ ०१अ स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः . ४ ३ २ १५ ०१च् या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् .. १००५ ४ ३ २ १५ ०२अ ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः . ४ ३ २ १५ ०२च् प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् .. १००६ ४ ३ २ १५ ०३अ ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः . ४ ३ २ १५ ०३च् व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् .. १००७ ४ ३ २ १६ ०१अ असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः . ४ ३ २ १६ ०१च् श्येनो न योनिमासदत् .. १००८ ४ ३ २ १६ ०२अ शुभ्रमन्धो देववातमप्सु धौतं नृभिः सुतम् . ४ ३ २ १६ ०२च् स्वदन्ति गावः पयोभिः .. १००९ ४ ३ २ १६ ०३अ आदीमश्वं न हेतारमशूशुभन्नमृताय . ४ ३ २ १६ ०३च् मधो रसं सधमादे .. १०१० ४ ३ २ १७ ०१अ अभि द्युभ्नं बृहद्यश इषस्पते दीदिहि देव देवयुम् . ४ ३ २ १७ ०१च् वि कोशं मध्यमं युव .. १०११ ४ ३ २ १७ ०२अ आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः . ४ ३ २ १७ ०२च् वृष्टिं दिवः पवस्व रीतिमपो जिन्वन्गविष्टये धियः .. १०१२ ४ ३ २ १८ ०१अ प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् . ४ ३ २ १८ ०१च् विश्वा परि प्रिया भुवदध द्विता .. १०१३ ४ ३ २ १८ ०२अ उप त्रितस्य पाष्यो३रभक्त यद्गुहा पदम् . ४ ३ २ १८ ०२च् यज्ञस्य सप्त धामभिरध प्रियम् .. १०१४ ४ ३ २ १८ ०३अ त्रीणि त्रितस्य धारया पृष्टेष्वैरयद्रयिम् . ४ ३ २ १८ ०३च् मिमीते अस्य योजना वि सुक्रतुः .. १०१५ ४ ३ २ १९ ०१अ पवस्व वाजसातये पवित्रे धारया सुतः . ४ ३ २ १९ ०१च् इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः .. १०१६ ४ ३ २ १९ ०२अ त्वां रिहन्ति धीतयो हरिं पवित्रे अद्रुहः . ४ ३ २ १९ ०२च् वत्सं जातं न मातरः पवमान विधर्मणि .. १०१७ ४ ३ २ १९ ०३अ त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे . ४ ३ २ १९ ०३च् प्रति द्रापिममुञ्चथाः पवमान महित्वना .. १०१८ ४ ३ २ २० ०१अ इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय . ४ ३ २ २० ०१च् हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा .. १०१९ ४ ३ २ २० ०२अ अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः . ४ ३ २ २० ०२च् इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय .. १०२० ४ ३ २ २० ०३अ अभि व्रतानि पवते पुनानो देवो देवान्त्स्वेन रसेन पृञ्चन् . ४ ३ २ २० ०३च् इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये .. १०२१ ४ ३ २ २१ ०१अ आ ते अग्न इधीमहि द्युमन्तं देवाजरम् . ४ ३ २ २१ ०१च् युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर .. १०२२ ४ ३ २ २१ ०२अ आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते . ४ ३ २ २१ ०२च् सुश्चन्द्र दस्म विश्पते हव्यवाट्तुभ्यं हूयत इषं स्तोतृभ्य आ भर .. १०२३ ४ ३ २ २१ ०३अ ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि . ४ ३ २ २१ ०३च् उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भर .. १०२४ ४ ३ २ २२ ०१अ इन्द्राय साम गायत विप्राय बृहते बृहत् . ४ ३ २ २२ ०१च् ब्रह्माकृते विपश्चिते पनस्यवे .. १०२५ ४ ३ २ २२ ०२अ त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः . ४ ३ २ २२ ०२च् विश्वकर्मा विश्वदेवो महां असि .. १०२६ ४ ३ २ २२ ०३अ विभ्राजं ज्योतिषा त्व३रगच्छो रोचनं दिवः . ४ ३ २ २२ ०३च् देवास्त इन्द्र सख्याय येमिरे .. १०२७ ४ ३ २ २३ ०१अ असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि . ४ ३ २ २३ ०१च् आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः .. १०२८ ४ ३ २ २३ ०२अ आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी . ४ ३ २ २३ ०२च् अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना .. १०२९ ४ ३ २ २३ ०३अ इन्द्रमिद्धरी वहतो ऽप्रतिधृष्टशवसम् . ४ ३ २ २३ ०३च् ऋषीणां सुष्टुतीरुप यज्ञं च मानुषाणाम् .. १०३० चतुर्थ प्रपाठकः . प्रथमो ऽर्धः ४ ४ १ ०१ ०१अ ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः . ४ ४ १ ०१ ०१च् दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः .. १०३१ ४ ४ १ ०१ ०२अ अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः . ४ ४ १ ०१ ०२च् हरिर्मित्रस्य सदनेषु सीदति मर्मृजानो ऽविभिः सिन्धुभिर्वृषा .. १०३२ ४ ४ १ ०१ ०३अ अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छसि . ४ ४ १ ०१ ०३च् अग्रे वाजस्य भजसे महद्धनं स्वायुधः सोतृभिः सोम सूयसे .. १०३३ ४ ४ १ ०२ ०१अ असृक्षत प्र वाजिनो गव्या सोमासो अश्वया . ४ ४ १ ०२ ०१च् शुक्रासो वीरयाशवः .. १०३४ ४ ४ १ ०२ ०२अ शुम्भमानो ऋतायुभिर्मृज्यमाना गभस्त्योः . र्म् ४ ४ १ ०२ ०२च् पवन्ते वारे अव्यये .. १०३५ ४ ४ १ ०२ ०३अ ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा . ४ ४ १ ०२ ०३च् पवन्तामान्तरिक्ष्या .. १०३६ ४ ४ १ ०३ ०१अ पवस्व देववीरति पवित्रं सोम रंह्या . ४ ४ १ ०३ ०१च् इन्द्रमिन्दो वृषा विश .. १०३७ ४ ४ १ ०३ ०२अ आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः . ४ ४ १ ०३ ०२च् आ योनिं धर्णसिः सदः .. १०३८ ४ ४ १ ०३ ०३अ अधुक्षत प्रियं मधु धारा सुतस्य वेधसः . ४ ४ १ ०३ ०३च् अपो वसिष्ट सुक्रतुः .. १०३९ ४ ४ १ ०३ ०४अ महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः . ४ ४ १ ०३ ०४च् यद्गोभिर्वासयिष्यसे .. १०४० ४ ४ १ ०३ ०५अ समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः . ४ ४ १ ०३ ०५च् सोमः पवित्रे अस्मयुः .. १०४१ ४ ४ १ ०३ ०६अ अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः . ४ ४ १ ०३ ०६च् सं सूर्येण दिद्युते .. १०४२ ४ ४ १ ०३ ०७अ गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः . ४ ४ १ ०३ ०७च् याभिर्मदाय शुम्भसे .. १०४३ ४ ४ १ ०३ ०८अ तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे . ४ ४ १ ०३ ०८च् तव प्रशस्तये महे .. १०४४ ४ ४ १ ०३ ०९अ गोषा इन्दो नृषा अस्यश्वसा वाजसा उत . ४ ४ १ ०३ ०९च् आत्मा यज्ञस्य पूर्व्यः .. १०४५ ४ ४ १ ०३ १०अ अस्मभ्यमिन्दविन्द्रियं मधोः पवस्व धारया . ४ ४ १ ०३ १०च् पर्जन्यो वृष्टिमां इव .. १०४६ ४ ४ १ ०४ ०१अ सना च सोम जेषि च पवमान महि श्रवः . ४ ४ १ ०४ ०१च् अथा नो वस्यसस्कृधि .. १०४७ ४ ४ १ ०४ ०२अ सना ज्योतिः सना स्वा३र्विश्वा च सोम सौभगा . ४ ४ १ ०४ ०२च् अथा नो वस्यसस्कृधि .. १०४८ ४ ४ १ ०४ ०३अ सना दक्षमुत क्रतुमप सोम मृधो जहि . ४ ४ १ ०४ ०३च् अथा नो वस्यसस्कृधि .. १०४९ ४ ४ १ ०४ ०४अ पवीतारः पुनीतन सोममिन्द्राय पातवे . ४ ४ १ ०४ ०४च् अथा नो वस्यसस्कृधि .. १०५० ४ ४ १ ०४ ०५अ त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः . ४ ४ १ ०४ ०५च् अथा नो वस्यसस्कृधि .. १०५१ ४ ४ १ ०४ ०६अ तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम् . ४ ४ १ ०४ ०६च् अथा नो वस्यसस्कृधि .. १०५२ ४ ४ १ ०४ ०७अ अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिम् . ४ ४ १ ०४ ०७च् अथा नो वस्यसस्कृधि .. १०५३ ४ ४ १ ०४ ०८अ अभ्या३र्षानपच्युतो वाजिन्त्समत्सु सासहिः . ४ ४ १ ०४ ०८च् अथा नो वस्यसस्कृधि .. १०५४ ४ ४ १ ०४ ०९अ त्वां यज्ञैरवीवृधन्पवमान विधर्मणि . ४ ४ १ ०४ ०९च् अथा नो वस्यसस्कृधि .. १०५५ ४ ४ १ ०४ १०अ रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर . ४ ४ १ ०४ १०च् अथा नो वस्यसस्कृधि .. १०५६ ४ ४ १ ०५ ०१अ तरत्स मन्दी धावति धारा सुतस्यान्धसः . ४ ४ १ ०५ ०१च् तरत्स मन्दी धावति .. १०५७ ४ ४ १ ०५ ०२अ उस्रा वेद वसूनां मर्त्तस्य देव्यवसः . ४ ४ १ ०५ ०२च् तरत्स मन्दी धावति .. १०५८ ४ ४ १ ०५ ०३अ ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे . ४ ४ १ ०५ ०३च् तरत्स मन्दी धावति .. १०५९ ४ ४ १ ०५ ०४अ आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे . ४ ४ १ ०५ ०४च् तरत्स मन्दी धावति .. १०६० ४ ४ १ ०६ ०१अ एते सोमा असृक्षत गृणानाः शवसे महे . ४ ४ १ ०६ ०१च् मदिन्तमस्य धारया .. १०६१ ४ ४ १ ०६ ०२अ अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि . ४ ४ १ ०६ ०२च् सनद्वाजः परि स्रव .. १०६२ ४ ४ १ ०६ ०३अ उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः . ४ ४ १ ०६ ०३च् गृणानो जमदग्निना .. १०६३ ४ ४ १ ०७ ०१अ इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया . ४ ४ १ ०७ ०१च् भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव .. १०६४ ४ ४ १ ०७ ०२अ भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम् . ४ ४ १ ०७ ०२च् जीवातवे प्रतरं साधया धियो ऽग्ने सख्ये म रिषामा वयं तव .. १०६५ ४ ४ १ ०७ ०३अ शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम् . ४ ४ १ ०७ ०३च् त्वमादित्यां आ वह तान्ह्यू३श्मस्यग्ने सख्ये मा रिषामा वयं तव .. १०६६ ४ ४ १ ०८ ०१अ प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् . ४ ४ १ ०८ ०१च् अर्यमणं रिशादसम् .. १०६७ ४ ४ १ ०८ ०२अ राया हिरण्यया मतिरियमवृकाय शवसे . ४ ४ १ ०८ ०२च् इयं विप्रामेधसातये .. १०६८ ४ ४ १ ०८ ०३अ ते स्याम देव वरुण ते मित्र सूरिभिः सह . ४ ४ १ ०८ ०३च् इषं स्वश्च धीमहि .. १०६९ ४ ४ १ ०९ ०१अ भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः . ४ ४ १ ०९ ०१च् वसु स्पार्हं तदा भर .. १०७० ४ ४ १ ०९ ०२अ यस्य ते विश्वमानुषग्भूरेर्दत्तस्य वेदति . ४ ४ १ ०९ ०२च् वसु स्पार्हं तदा भर .. १०७१ ४ ४ १ ०९ ०३अ यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् . ४ ४ १ ०९ ०३च् वसु स्पार्हं तदा भर .. १०७२ ४ ४ १ १० ०१अ यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु . ४ ४ १ १० ०१च् इन्द्राग्नी तस्य बोधतम् .. १०७३ ४ ४ १ १० ०२अ तोशासा रथयावाना वृत्रहणापराजिता . ४ ४ १ १० ०२च् इन्द्राग्नी तस्य बोधतम् .. १०७४ ४ ४ १ १० ०३अ इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः . ४ ४ १ १० ०३च् इन्द्राग्नी तस्य बोधतम् .. १०७५ ४ ४ १ ११ ०१अ इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः . ४ ४ १ ११ ०१च् अर्कस्य योनिमासदम् .. १०७६ ४ ४ १ ११ ०२अ तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिम् . ४ ४ १ ११ ०२च् सं त्वा मृजन्त्यायवः .. १०७७ ४ ४ १ ११ ०३अ रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे . ४ ४ १ ११ ०३च् पवमानस्य मरुतः .. १०७८ ४ ४ १ १२ ०१अ मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि . ४ ४ १ १२ ०१च् रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि .. १०७९ ४ ४ १ १२ ०२अ पुनानो वरे पवमनो अव्यये वृषो अचिक्रदद्वने . ४ ४ १ १२ ०२च् देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि .. १०८० ४ ४ १ १३ ०१अ एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् . ४ ४ १ १३ ०१च् समादित्येभिरख्यत .. १०८१ ४ ४ १ १३ ०२अ समिन्द्रेणोत वायुना सुत एति पवित्र आ . ४ ४ १ १३ ०२च् सं सूर्यस्य रश्मिभिः .. १०८२ ४ ४ १ १३ ०३अ स नो भगाय वायवे पूष्णे पवस्व मधुमान् . ४ ४ १ १३ ०३च् चारुर्मित्रे वरुणे च .. १०८३ ४ ४ १ १४ ०१अ रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः . ४ ४ १ १४ ०१च् क्षुमन्तो याभिर्मदेम .. १०८४ ४ ४ १ १४ ०२अ आ घ त्वावां त्मना युक्तः स्तोतृभ्यो धृष्णवीयानः . ४ ४ १ १४ ०२च् ऋणोरक्षं न चक्र्योः .. १०८५ ४ ४ १ १४ ०३अ आ यद्दुवः शतक्रतवा कामं जरित्र्^ईणाम् . ४ ४ १ १४ ०३च् ऋणोरक्षं न शचीभिः .. १०८६ ४ ४ १ १५ ०१अ सुरूपकृत्नुमूतये सुदुघामिव गोदुहे . ४ ४ १ १५ ०१च् जुहूमसि द्यविद्यवि .. १०८७ ४ ४ १ १५ ०२अ उप नः सवना गहि सोमस्य सोमपाः पिब . ४ ४ १ १५ ०२च् गोदा इद्रेवतो मदः .. १०८८ ४ ४ १ १५ ०३अ अथा ते अन्तमानां विद्याम सुमतीनाम् . ४ ४ १ १५ ०३च् मा नो अति ख्य आ गहि .. १०८९ ४ ४ १ १६ ०१अ उभे यदिन्द्र रोदसी आपप्राथोषा इव . ४ ४ १ १६ ०१च् महान्तं त्वा महीनां सम्राजं चर्षणीनाम् . ४ ४ १ १६ ०१ए देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् .. १०९० ४ ४ १ १६ ०२अ दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः . ४ ४ १ १६ ०२च् पूर्वेण मघवन्पदा वयामजो यथा यमः . ४ ४ १ १६ ०२ए देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् .. १०९१ ४ ४ १ १६ ०३अ अव स्म दुर्हृणायतो मर्त्तस्य तनुहि स्थिरम् . ४ ४ १ १६ ०३च् अधस्पदं तमीं कृधि यो अस्मां अभिदासति . ४ ४ १ १६ ०३ए देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् .. १०९२ ४ ४ १ १७ ०१अ परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् . ४ ४ १ १७ ०१च् मदेषु सर्वधा असि .. १०९३ ४ ४ १ १७ ०२अ त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः . ४ ४ १ १७ ०२च् मदेषु सर्वधा असि .. १०९४ ४ ४ १ १७ ०३अ त्वे विश्वे सजोषसो देवासः पीतिमाशत . ४ ४ १ १७ ०३च् मदेषु सर्वधा असि .. १०९५ ४ ४ १ १८ ०१अ स सुन्वे यो वसूनां यो रायामानेता य इडानाम् . ४ ४ १ १८ ०१च् सोमो यः सुक्षितीनाम् .. १०९६ ४ ४ १ १८ ०२अ यस्य त इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः . ४ ४ १ १८ ०२च् आ येन मित्रावरुणा करामह एन्द्रमवसे महे .. १०९७ ४ ४ १ १९ ०१अ तं वः सखायो मदाय पुनानमभि गायत . ४ ४ १ १९ ०१च् शिशुं न हव्यैः स्वदयन्त गूर्तिभिः .. १०९८ ४ ४ १ १९ ०२अ सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते . ४ ४ १ १९ ०२च् देवावीर्मदो मतिभिः परिष्कृतः .. १०९९ ४ ४ १ १९ ०३अ अयं दक्षाय साधनो ऽयं शर्धाय वीतये . ४ ४ १ १९ ०३च् अयं देवेभ्यो मधुमत्तरः सुतः .. ११०० ४ ४ १ २० ०१अ सोमाः पवन्त इन्दवो ऽस्मभ्यं गातुवित्तमाः . ४ ४ १ २० ०१च् मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः .. ११०१ ४ ४ १ २० ०२अ ते पूतासो विपश्चितः सोमासो दध्याशिरः . ४ ४ १ २० ०२च् सूरासो न दर्शतासो जिगत्नवो ध्रुवा घृते .. ११०२ ४ ४ १ २० ०३अ सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि . ४ ४ १ २० ०३च् इषमस्मभ्यमभितः समस्वरन्वसुविदः .. ११०३ ४ ४ १ २१ ०१अ अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व . ४ ४ १ २१ ०१च् ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् .. ११०४ ४ ४ १ २१ ०२अ उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे . ४ ४ १ २१ ०२च् षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय .. ११०५ ४ ४ १ २१ ०३अ महीमे अस्य वृष नाम शूषे मांश्चत्वे वा पृशने वा वधत्रे . ४ ४ १ २१ ०३च् अस्वापयन्निगुतः स्नेहयच्चापामित्रां अपाचितो अचेतः .. ११०६ ४ ४ १ २२ ०१अ अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः .. ११०७ ४ ४ १ २२ ०२अ वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमो रयिं दाः .. ११०८ ४ ४ १ २२ ०३अ तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः .. ११०९ ४ ४ १ २३ ०१अ इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः .. १११० ४ ४ १ २३ ०२अ यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु .. ११११ ४ ४ १ २३ ०३अ आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करत् .. १११२ ४ ४ १ २४ ०१अ प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते .. १११३ ४ ४ १ २४ ०२अ अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः .. १११४ ४ ४ १ २४ ०३अ उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र .. १११५ चतुर्थ प्रपाठकः . द्वितीयो ऽर्धः ४ ४ २ ०१ ०१अ प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति . ४ ४ २ ०१ ०१च् महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् .. १११६ ४ ४ २ ०१ ०२अ प्र हंसासस्तृपला वग्नुमच्छामादस्तं वृषगणा अयासुः . ४ ४ २ ०१ ०२च् आङ्गोषिणं पवमानं सखायो दुर्मर्षं वाणं प्र वदन्ति साकम् .. १११७ ४ ४ २ ०१ ०३अ स योजत उरुगायस्य जूतिं वृथा क्रीडन्तं मिमते न गावः . ४ ४ २ ०१ ०३च् परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः .. १११८ ४ ४ २ ०१ ०४अ प्र स्वानासो रथा इवार्वन्तो न अवस्यवः . ४ ४ २ ०१ ०४च् सोमासो राये अक्रमुः .. १११९ ४ ४ २ ०१ ०५अ हिन्वानासो रथा इव दधन्विरे गभस्त्योः . ४ ४ २ ०१ ०५च् भरासः कारिणामिव .. ११२० ४ ४ २ ०१ ०६अ राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते . ४ ४ २ ०१ ०६च् यज्ञो न सप्त धातृभिः .. ११२१ ४ ४ २ ०१ ०७अ परि स्वानास इन्दवो मदाय बर्हणा गिरा . ४ ४ २ ०१ ०७च् मधो अर्षन्ति धारया .. ११२२ ४ ४ २ ०१ ०८अ आपानासो विवस्वतो जिन्वन्त उषसो भगम् . ४ ४ २ ०१ ०८च् सूरा अण्वं वि तन्वते .. ११२३ ४ ४ २ ०१ ०९अ अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः . ४ ४ २ ०१ ०९च् वृष्णो हरस आयवः .. ११२४ ४ ४ २ ०१ १०अ समीचीनास आशत होतारः सप्तजानयः . ४ ४ २ ०१ १०च् पदमेकस्य पिप्रतः .. ११२५ ४ ४ २ ०१ ११अ नाभा नाभिं न आ ददे चक्षुषा सूर्य दृशे . ४ ४ २ ०१ ११च् कवेरपत्यमा दुहे .. ११२६ ४ ४ २ ०१ १२अ अभि प्रियं दिवस्पदमध्वर्युभिर्गुहा हितम् . ४ ४ २ ०१ १३च् सूरः पस्यति चक्षसा .. ११२७ ४ ४ २ ०२ ०१अ असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः . ४ ४ २ ०२ ०१च् विदाना अस्य योजना .. ११२८ ४ ४ २ ०२ ०२अ प्र धारा मधो अग्रियो महीरपो वि गाहते . ४ ४ २ ०२ ०२च् हविर्हविःषु वन्द्यः .. ११२९ ४ ४ २ ०२ ०३अ प्र युजा वाचो अग्रियो वृषो अचिक्रदद्वने . ४ ४ २ ०२ ०३च् सद्माभि सत्यो अध्वरः .. ११३० ४ ४ २ ०२ ०४अ परि यत्काव्या कविर्नृम्णा पुनानो अर्षति . ४ ४ २ ०२ ०४च् स्वर्वाजी सिषासति .. ११३१ ४ ४ २ ०२ ०५अ पवमानो अभि स्पृधो विशो राजेव सीदति . ४ ४ २ ०२ ०५च् यदीमृण्वन्ति वेधसः .. ११३२ ४ ४ २ ०२ ०६अ अव्या वारे परि प्रियो हरिर्वनेषु सीदति . ४ ४ २ ०२ ०६च् रेभो वनुष्यते मति . ११३३ ४ ४ २ ०२ ०७अ स वायुमिन्द्रमश्विना साकं मदेन गच्छति . ४ ४ २ ०२ ०७च् रणा यो अस्य धर्मणा .. ११३४ ४ ४ २ ०२ ०८अ आ मित्रे वरुणे भगे मधोः पवन्त ऊर्मयः . ४ ४ २ ०२ ०८च् विदाना अस्य शक्मभिः .. ११३५ ४ ४ २ ०२ ०९अ अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये . ४ ४ २ ०२ ०९च् श्रवो वसूनि सञ्जितम् .. ११३६ ४ ४ २ ०२ १०अ आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे . ४ ४ २ ०२ १०च् पान्तमा पुरुस्पृहम् .. ११३७ ४ ४ २ ०२ ११अ आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम् . ४ ४ २ ०२ ११च् पान्तमा पुरुस्पृहम् .. ११३८ ४ ४ २ ०२ १२अ आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा . ४ ४ २ ०२ १२च् पान्तमा पुरुस्पृहम् .. ११३९ ४ ४ २ ०३ ०१अ मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् . ४ ४ २ ०३ ०१च् कविं सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः .. ११४० ४ ४ २ ०३ ०२अ त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते . ४ ४ २ ०३ ०२च् तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः .. ११४१ ४ ४ २ ०३ ०३अ नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त . ४ ४ २ ०३ ०३च् वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः .. ११४२ ४ ४ २ ०४ ०१अ प्र वो मित्राय गायत वरुणाय विपा गिरा . ४ ४ २ ०४ ०१च् महिक्षत्रावृतं बृहत् .. ११४३ ४ ४ २ ०४ ०२अ सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्च . ४ ४ २ ०४ ०२च् देवा देवेषु प्रशस्ता .. ११४४ ४ ४ २ ०४ ०३अ ता नः शक्तं पर्थिवस्य महो रायो दिव्यस्य . ४ ४ २ ०४ ०३च् महि वां क्षत्रं देवेषु .. ११४५ ४ ४ २ ०५ ०१अ इन्द्रा याहि चित्रभानो सुता इमे त्वायवः . ४ ४ २ ०५ ०१च् अण्वीभिस्तना पूतासः .. ११४६ ४ ४ २ ०५ ०२अ इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः . ४ ४ २ ०५ ०२च् उप ब्रह्माणि वाघतः .. ११४७ ४ ४ २ ०५ ०३अ इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः . ४ ४ २ ०५ ०३च् सुते दधिष्व नश्चनः .. ११४८ ४ ४ २ ०६ ०१अ तमीडिष्व यो अर्चिषा वना विश्वा परिष्वजत् . ४ ४ २ ०६ ०१च् कृष्णा कृणोति जिह्वया .. ११४९ ४ ४ २ ०६ ०२अ य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः . ४ ४ २ ०६ ०२च् द्युम्नाय सुतरा अपः .. ११५० ४ ४ २ ०६ ०३अ ता नो वाजवतीरिष आशून्पिपृतमर्वतः . ४ ४ २ ०६ ०३च् एन्द्रमग्निं च वोढवे .. ११५१ ४ ४ २ ०७ ०१अ प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति सङ्गिरम् . ४ ४ २ ०७ ०१च् मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा .. ११५२ ४ ४ २ ०७ ०२अ प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवरणेष्वक्रमुः . ४ ४ २ ०७ ०२च् हरिं क्रीडन्तमभ्यनूषत स्तुभो ऽभि धेनवः पयसेदशिश्रयुः .. ११५३ ४ ४ २ ०७ ०३अ आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमान ऊर्मिणा . ४ ४ २ ०७ ०३च् या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम् .. ११५४ ४ ४ २ ०८ ०१अ न किष्टं कर्मणा नशद्यश्चकार सदावृधम् . ४ ४ २ ०८ ०१च् इन्द्रं न यज्ञैर्विश्वगूर्त्तमृभ्वसमधृष्टं धृष्णुमोजसा .. ११५५ ४ ४ २ ०८ ०२अ अषाढमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः . ४ ४ २ ०८ ०२च् सं धेनवो जायमाने अनोनवुर्द्यावः क्षामीरनोनवुः .. ११५६ ४ ४ २ ०९ ०१अ सखाय आ नि षीदत पुनानाय प्र गायत . ४ ४ २ ०९ ०१च् शिशुं न यज्ञैः परि भूषत श्रिये .. ११५७ ४ ४ २ ०९ ०२अ समी वत्सं न मातृभिः सृजता गयसाधनम् . ४ ४ २ ०९ ०२च् देवाव्या३ं मदमभि द्विशवसम् .. ११५८ ४ ४ २ ०९ ०३अ पुनाता दक्षसाधनं यथा शर्धाय वीतये . ४ ४ २ ०९ ०३च् यथा मित्राय वरुणाय शन्तमम् .. ११५९ ४ ४ २ १० ०१अ प्र वाज्यक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम् .. ११६० ४ ४ २ १० ०२अ स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः .. ११६१ ४ ४ २ १० ०३अ प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः .. ११६२ ४ ४ २ ११ ०१अ ये सोमासः परावति ये अर्वावति सुन्विरे . ४ ४ २ ११ ०१च् ये वादः शर्यणावति .. ११६३ ४ ४ २ ११ ०२अ य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् . ४ ४ २ ११ ०२च् ये वा जनेषु पञ्चसु .. ११६४ ४ ४ २ ११ ०३अ ते नो वृष्टिं दिवस्परि पवन्तामा सुवीर्यम् . ४ ४ २ ११ ०३च् स्वाना देवास इन्दवः .. ११६५ ४ ४ २ १२ ०१अ आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् . ४ ४ २ १२ ०१च् अग्ने त्वां कामये गिरा .. ११६६ ४ ४ २ १२ ०२अ पुरुत्रा हि सदृङ्ङसि दिशो विश्वा अनु प्रभुः . ४ ४ २ १२ ०२च् समत्सु त्वा हवामहे .. ११६७ ४ ४ २ १२ ०३अ समत्स्वग्निमवसे वाजयन्तो हवामहे . ४ ४ २ १२ ०३च् वाजेषु चित्रराधसम् .. ११६८ ४ ४ २ १३ ०१अ त्वं न इन्द्रा भर ओजो नृम्णं शतक्रतो विचर्षणे . ४ ४ २ १३ ०१च् आ वीरं पृतनासहम् .. ११६९ ४ ४ २ १३ ०२अ त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ . ४ ४ २ १३ ०२च् अथा ते सुम्नमीमहे .. ११७० ४ ४ २ १३ ०३अ त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे सहस्कृत . ४ ४ २ १३ ०३च् स नो रास्व सुवीर्यम् .. ११७१ ४ ४ २ १३ ०४अ यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः . ४ ४ २ १३ ०४च् राधस्तन्नो विदद्वस उभयाहस्त्या भर .. ११७२ ४ ४ २ १३ ०५अ यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर . ४ ४ २ १३ ०५च् विद्याम तस्य ते वयमकूपारस्य दावनः .. ११७३ ४ ४ २ १३ ०६अ यत्ते दिक्षु प्रराध्यं मनो अस्ति श्रुतं बृहत् . ४ ४ २ १३ ०६च् तेन दृढा चिदद्रिव आ वाजं दर्षि सातये .. ११७४ पञ्चम प्रपाठकः . प्रथमो ऽर्धः ४ ५ १ ०१ ०१अ शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन . ४ ५ १ ०१ ०१च् कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् .. ११७५ ४ ५ १ ०१ ०२अ ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रनीथः पदवीः कवीनाम् . ४ ५ १ ०१ ०२च् तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप् .. ११७६ ४ ५ १ ०१ ०३अ चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् . ४ ५ १ ०१ ०३च् अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति .. ११७७ ४ ५ १ ०२ ०१अ एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् . ४ ५ १ ०२ ०१च् वर्धन्तो अस्य वीर्यम् .. ११७८ ४ ५ १ ०२ ०२अ पुनानासश्चमूषदो गच्छन्तो वायुमश्विना . ४ ५ १ ०२ ०२च् ते नो धत्त सुवीर्यम् .. ११८१ ४ ५ १ ०२ ०३अ इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय . ४ ५ १ ०२ ०३च् देवानां योनिमासदम् .. ११८० ४ ५ १ ०२ ०४अ मृजन्ति त्वा देश क्षिपो हिन्वन्ति सप्त धीतयः . ४ ५ १ ०२ ०४च् अनु विप्रा अमादिषुः .. ११८१ ४ ५ १ ०२ ०५अ देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः . ४ ५ १ ०२ ०५च् स गोभिर्वासयामसि .. ११८२ ४ ५ १ ०२ ०६अ पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः . ४ ५ १ ०२ ०६च् परि गव्यान्यव्यत .. ११८३ ४ ५ १ ०२ ०७अ मघोन आ पवस्व नो जहि विश्वा अप द्विषः . ४ ५ १ ०२ ०७च् इन्दो सखायमा विश .. ११८४ ४ ५ १ ०२ ०८अ नृचक्षसं त्वा वयमिन्द्रपीतं स्वर्विदम् . ४ ५ १ ०२ ०८च् भक्षीमहि प्रजामिषम् .. ११८५ ४ ५ १ ०२ ०९अ वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि . ४ ५ १ ०२ ०९च् सहो नः सोम पृत्सु धाः .. ११८६ ४ ५ १ ०३ ०१अ सोमः पुनानो अर्षति सहस्रधारो अत्यविः . ४ ५ १ ०३ ०१च् वायोरिन्द्रस्य निष्कृतम् .. ११८७ ४ ५ १ ०३ ०२अ पवमानमवस्यवो विप्रमभि प्र गायत . ४ ५ १ ०३ ०२च् सुष्वाणं देववीतये .. ११८८ ४ ५ १ ०३ ०३अ पवन्ते वाजसातये सोमाः सहस्रपाजसः . ४ ५ १ ०३ ०३च् गृणाना देववीतये .. ११८९ ४ ५ १ ०३ ०४अ उत नो वाजसातये पवस्व बृहतीरिषः . ४ ५ १ ०३ ०४च् द्युमदिन्दो सुवीर्यम् .. ११९० ४ ५ १ ०३ ०५अ अत्या हियाना न हेतृभिरसृग्रं वाजसातये . ४ ५ १ ०३ ०५च् वि वारमव्यमाशवः .. ११९१ ४ ५ १ ०३ ०६अ ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम् . ४ ५ १ ०३ ०६च् सुवाना देवास इन्दवः .. ११९२ ४ ५ १ ०३ ०७अ वाश्रा अर्षन्तीन्दवो ऽभि वत्सं न मातरः . ४ ५ १ ०३ ०७च् दधन्विरे गभस्त्योः .. ११९३ ४ ५ १ ०३ ०८अ जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् . ४ ५ १ ०३ ०८च् विश्वा अप द्विषो जहि .. ११९४ ४ ५ १ ०३ ०९अ अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः . ४ ५ १ ०३ ०९च् योनावृतस्य सीदत .. ११९५ ४ ५ १ ०४ ०१अ सोमा असृग्रमिन्दवः सुता ऋतस्य धारया . ४ ५ १ ०४ ०१च् इन्द्राय मधुमत्तमाः .. ११९६ ४ ५ १ ०४ ०२अ अभि विप्रा अनूषत गावो वत्सं न धेनवः . ४ ५ १ ०४ ०२च् इन्द्रं सोमस्य पीतये .. ११९७ ४ ५ १ ०४ ०३अ मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित् . ४ ५ १ ०४ ०३च् सोमो गौरी अधि श्रितः .. ११९८ ४ ५ १ ०४ ०४अ दिवो नाभा विचक्षणो ऽव्यो वारे महीयते . ४ ५ १ ०४ ०४च् सोमो यः सुक्रतुः कविः .. ११९९ ४ ५ १ ०४ ०५अ यः सोमः कलशेष्वा अन्तः पवित्र आहितः . ४ ५ १ ०४ ०५च् तमिन्दुः परि षस्वजे .. १२०० ४ ५ १ ०४ ०६अ प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि . ४ ५ १ ०४ ०६च् जिन्वन्कोशं मधुश्चुतम् .. १२०१ ४ ५ १ ०४ ०७अ नित्यस्तोत्रो वनस्पतिर्धेनामन्तः सबर्दुघाम् . ४ ५ १ ०४ ०७च् हिन्वानो मानुषा युजा .. १२०२ ४ ५ १ ०४ ०८अ आ पवमान धारय रयिं सहस्रवर्चसम् . ४ ५ १ ०४ ०८च् अस्मे इन्दो स्वाभुवम् .. १२०३ ४ ५ १ ०४ ०९अ अभि प्रिया दिवः कविर्विप्रः स धारया सुतः . ४ ५ १ ०४ ०९च् सोमो हिन्वे परावति .. १२०४ ४ ५ १ ०५ ०१अ उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः . ४ ५ १ ०५ ०१च् वाणस्य चोदया पविम् .. १२०५ ४ ५ १ ०५ ०२अ प्रसवे त उदीरते तिस्रो वाचो मखस्युवः . ४ ५ १ ०५ ०२च् यदव्य एषि सानवि .. १२०६ ४ ५ १ ०५ ०३अ अव्या वारैः परि प्रियं हरिं हिन्वन्त्यद्रिभिः . ४ ५ १ ०५ ०३च् पवमानं मधुश्चुतम् .. १२०७ ४ ५ १ ०५ ०४अ आ पवस्व मदिन्तम पवित्रं धारया कवे . ४ ५ १ ०५ ०४च् अर्कस्य योनिमासदम् .. १२०८ ४ ५ १ ०५ ०५अ स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः . ४ ५ १ ०५ ०५च् एन्द्रस्य जठरं विश .. १२०९ ४ ५ १ ०६ ०१अ अया वीती परि स्रव यस्त इन्दो मदेष्वा . ४ ५ १ ०६ ०१च् अवाहन्नवतीर्नव .. १२१० ४ ५ १ ०६ ०२अ पुरः सद्य इत्थाधिये दिवोदासाय शंबरम् . ४ ५ १ ०६ ०२च् अध त्यं तुर्वशं यदुम् .. १२१च्ल्स्दिर् ४ ५ १ ०६ ०३अ परि नो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् . ४ ५ १ ०६ ०३च् क्षरा सहस्रिणीरिषः .. १२१२ ४ ५ १ ०७ ०१अ अपघ्नन्पवते मृधो ऽप सोमो अराव्णः . ४ ५ १ ०७ ०१च् गच्छन्निन्द्रस्य निष्कृतम् .. १२१३ ४ ५ १ ०७ ०२अ महो नो राय आ भर पवमान जही मृधः . ४ ५ १ ०७ ०२च् रास्वेन्दो वीरवद्यशः .. १२१४ ४ ५ १ ०७ ०३अ न त्वा शतं च न ह्रुतो राधो दित्सन्तमा मिनन् . ४ ५ १ ०७ ०३च् यत्पुनानो मखस्यसे .. १२१५ ४ ५ १ ०८ ०१अ अया पवस्व धारया यया सूर्यमरोचयः . ४ ५ १ ०८ ०१च् हिन्वानो मानुषीरपः .. १२१६ ४ ५ १ ०८ ०२अ अयुक्त सूर एतशं पवमानो मनावधि . ४ ५ १ ०८ ०२च् अन्तरिक्षेण यातवे .. १२१७ ४ ५ १ ०८ ०३अ उत त्या हरितो रथे सूरो अयुक्त यातवे . ४ ५ १ ०८ ०३च् इन्दुरिन्द्र इति ब्रुवन् .. १२१८ ४ ५ १ ०९ ०१अ अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् . ४ ५ १ ०९ ०१च् यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः .. १२१९ ४ ५ १ ०९ ०२अ प्रोथदश्वो न यवसे ऽविष्यन्यदा महः संवरणाद्व्यस्थात् . ४ ५ १ ०९ ०२च् आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति .. १२२० ४ ५ १ ०९ ०३अ उद्यस्य ते नवजातस्य वृष्णो ऽग्ने चरन्त्यजरा इधानाः . ४ ५ १ ०९ ०३च् अच्छा द्यामरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान् .. १२२१ ४ ५ १ १० ०१अ तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे . ४ ५ १ १० ०१च् स वृषा वृषभो भुवत् .. १२२२ ४ ५ १ १० ०२अ इन्द्रः स दामने कृत ओजिष्ठः स बले हितः . ४ ५ १ १० ०२च् द्युम्नी श्लोकी स सोम्यः .. १२२३ ४ ५ १ १० ०३अ गिरा वज्रो न सम्भृतः सबलो अनपच्युतः . ४ ५ १ १० ०३च् ववक्ष उग्रो अस्तृतः .. १२२४ ४ ५ १ ११ ०१अ अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय . ४ ५ १ ११ ०१च् पुनाहीन्द्राय पातवे .. १२२५ ४ ५ १ ११ ०२अ तव त्य इन्दो अन्धसो देवा मधोर्व्याशत . ४ ५ १ ११ ०२च् पवमानस्य मरुतः .. १२२६ ४ ५ १ ११ ०३अ दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे . ४ ५ १ ११ ०३च् सुनोता मधुमत्तमम् .. १२२७ ४ ५ १ १२ ०१अ धर्त्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः . ४ ५ १ १२ ०१च् हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुषे नदीष्वा .. १२२८ ४ ५ १ १२ ०२अ शूरो न धत्त आयुधा गभस्त्योः स्वा३ः सिषासन्रथिरो गविष्टिषु . ४ ५ १ १२ ०२च् इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः .. १२२९ ४ ५ १ १२ ०३अ इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश . ४ ५ १ १२ ०३च् प्र नः पिन्व विद्युदभ्रेव रोदसी धिया नो वाजां उप माहि शश्वतः .. १२३० ४ ५ १ १३ ०१अ यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः . ४ ५ १ १३ ०१च् सिमा पुरू नृषूतो अस्यानवे ऽसि प्रशर्ध तुर्वशे .. १२३१ ४ ५ १ १३ ०२अ यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा . ४ ५ १ १३ ०२च् कण्वासस्त्वा स्तोमेभिर्ब्रह्मवाहस इन्द्रा यच्छन्त्या गहि .. १२३२ ४ ५ १ १४ ०१अ उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः . ४ ५ १ १४ ०१च् सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् .. १२३३ ४ ५ १ १४ ०२अ तं हि स्वराजं वृषभं तमोजसा धिषणे निष्टतक्षतुः . ४ ५ १ १४ ०२च् उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः .. १२३४ ४ ५ १ १५ ०१अ पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः . ४ ५ १ १५ ०१च् वायुमा रोह धर्मणा .. १२३५ ४ ५ १ १५ ०२अ पवमान नि तोशसे रयिं सोम श्रवाय्यम् . ४ ५ १ १५ ०२च् इन्दो समुद्रमा विश .. १२३६ ४ ५ १ १५ ०३अ अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः . ४ ५ १ १५ ०३च् नुदस्वादेवयुं जनम् .. १२३७ ४ ५ १ १६ ०१अ अभी नो वाजसातमं रयिमर्ष शतस्पृहम् . ४ ५ १ १६ ०१च् इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम् .. १२३८ ४ ५ १ १६ ०२अ वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः . ४ ५ १ १६ ०२च् नि नेदिष्ठतमा इषः स्याम सुम्ने ते आध्रिगो .. १२३९ ४ ५ १ १६ ०३अ परि स्य स्वानो अक्षरिदिन्दुरव्ये मदच्युतः . ४ ५ १ १६ ०३च् धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः .. १२४० ४ ५ १ १६ ०४अ पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम .. १२४१ ४ ५ १ १६ ०५अ शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजाभ्यः .. १२४२ ४ ५ १ १६ ०६अ दिवो धर्त्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व .. १२४३ ४ ५ १ १८ ०१अ प्रेष्ठं वो अतिर्थिं स्तुषे मित्रमिव प्रियम् . ४ ५ १ १८ ०१च् अग्ने रथं न वेद्यम् .. १२४४ ४ ५ १ १८ ०२अ कविमिव प्रशंस्यं यं देवास इति द्विता . ४ ५ १ १८ ०२च् नि मर्त्येष्वादधुः .. १२४५ ४ ५ १ १८ ०३अ त्वं यविष्ठ दाशुषो न्र्^ईंपाहि शृणुही गिरः . ४ ५ १ १८ ०३च् रक्षा तोकमुत त्मना .. १२४६ ४ ५ १ १९ ०१अ एन्द्र नो गधि प्रिय सत्राजिदगोह्य . ४ ५ १ १९ ०१च् गिरिर्न विश्वतः पृथुः पतिर्दिवः .. १२४७ ४ ५ १ १९ ०२अ अभि हि सत्य सोमपा उभे बभूथ रोदसी . ४ ५ १ १९ ०२च् इन्द्रासि सुन्वतो वृधः पतिर्दिवः .. १२४८ ४ ५ १ १९ ०३अ त्वं हि शश्वतीनामिन्द्र धर्त्ता पुरामसि . ४ ५ १ १९ ०३च् हन्ता दस्योर्मनोर्वृधः पतिर्दिवः .. १२४९ ४ ५ १ २० ०१अ पुरां भिन्दुर्युवा कविरमितौजा अजायत . ४ ५ १ २० ०१च् इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः .. १२५० ४ ५ १ २० ०२अ त्वं वलस्य गोमतो ऽपावरद्रिवो बिलम् . ४ ५ १ २० ०२च् त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः .. १२५१ ४ ५ १ २० ०३अ इन्द्रमीशानमोजसाभि स्तोमैरनूषत . ४ ५ १ २० ०३च् सहस्रं यस्य रातय उत वा सन्ति भूयसीः .. १२५२ पञ्चम प्रपाठकः . द्वितीयो ऽर्धः ४ ५ २ ०१ ०१अ अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः . ४ ५ २ ०१ ०१च् वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः .. १२५३ ४ ५ २ ०१ ०२अ मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः . ४ ५ २ ०१ ०२च् मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम .. १२५४ ४ ५ २ ०१ ०३अ महत्तत्सोमो महिषश्चकारापां यद्गर्भो ऽवृणीत देवान् . ४ ५ २ ०१ ०३च् अदधादिन्द्रे पवमान ओजो ऽजनयत्सूर्ये ज्योतिरिन्दुः .. १२५५ ४ ५ २ ०२ ०१अ एष देवो अमर्त्यः पर्णवीरिव दीयते . ४ ५ २ ०२ ०१च् अभि द्रोणान्यासदम् .. १२५६ ४ ५ २ ०२ ०२अ एष विप्रैरभिष्टुतो ऽपो देवो वि गाहते . ४ ५ २ ०२ ०२च् दधद्रत्नानि दाशुषे .. १२५७ ४ ५ २ ०२ ०३अ एष विश्वानि वार्या शूरो यन्निव सत्वभिः . ४ ५ २ ०२ ०३च् पवमानः सिषासति .. १२५८ ४ ५ २ ०२ ०४अ एष देवो रथर्यति पवमानो दिशस्यति . ४ ५ २ ०२ ०४च् आविष्कृणोति वग्वनुम् .. १२५९ ४ ५ २ ०२ ०५अ एष देवो विपन्युभिः पवमान ऋतायुभिः . ४ ५ २ ०२ ०५च् हरिर्वाजाय मृज्यते .. १२६० ४ ५ २ ०२ ०६अ एष देवो विपा कृतो ऽति ह्वरांसि धावति . ४ ५ २ ०२ ०६च् पवमानो अदाभ्यः .. १२६१ ४ ५ २ ०२ ०७अ एष दिवं वि धावति तिरो रजांसि धारया . ४ ५ २ ०२ ०७च् पवमानः कनिक्रदत् .. १२६२ ४ ५ २ ०२ ०८अ एष दिवं व्यासरत्तिरो रजांस्यस्पृतः . ४ ५ २ ०२ ०८च् पवमानः स्वध्वरः .. १२६३ ४ ५ २ ०२ ०९अ एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः . ४ ५ २ ०२ ०९च् हरिः पवित्रे अर्षति .. १२६४ ४ ५ २ ०२ १०अ एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः . ४ ५ २ ०२ १०च् धारया पवते सुतः .. १२६५ ४ ५ २ ०३ ०१अ एष धिया यात्यण्व्य शूरो रथेभिराशुभिः . ४ ५ २ ०३ ०१च् गच्छन्निन्द्रस्य निष्कृतम् .. १२६६ ४ ५ २ ०३ ०२अ एष पुरू धियायते बृहते देवतातये . ४ ५ २ ०३ ०२च् यत्रामृतास आशत .. १२६७ ४ ५ २ ०३ ०३अ एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः . ४ ५ २ ०३ ०३च् प्रचक्राणं महीरिषः .. १२६८ ४ ५ २ ०३ ०४अ एष हितो वि नीयते ऽन्तः शुन्ध्यावता पथा . ४ ५ २ ०३ ०४च् यदी तुञ्जन्ति भूर्णयः .. १२६९ ४ ५ २ ०३ ०५अ एष रुक्मिभिरीयते वाजि शुभ्रेभिरंशुभिः . ४ ५ २ ०३ ०५च् पतिः सिन्धूनां भवन् .. १२७० ४ ५ २ ०३ ०६अ एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो३ वृषा . ४ ५ २ ०३ ०६च् नृम्णा दधान ओजसा .. १२७१ ४ ५ २ ०३ ०७अ एष वसूनि पिब्दनः परुषा ययिवां अति . ४ ५ २ ०३ ०७च् अव शादेषु गच्छति .. १२७२ ४ ५ २ ०३ ०८अ एतमु त्यं दश क्षिपो हरिं हिवन्ति यातवे . ४ ५ २ ०३ ०८च् स्वायुधं मदिन्तमम् .. १२७३ ४ ५ २ ०४ ०१अ एष उ स्य वृषा रथो ऽव्या वारेभिरव्यत . ४ ५ २ ०४ ०१च् गच्छन्वाजं सहस्रिणम् .. १२७४ ४ ५ २ ०४ ०२अ एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः . ४ ५ २ ०४ ०२च् इन्दुमिन्द्राय पीतये .. १२७५ ४ ५ २ ०४ ०३अ एष स्य मानुषीष्वा श्येनो न विक्षु सीदति . ४ ५ २ ०४ ०३च् गच्छं जारो न योषितम् .. १२७६ ४ ५ २ ०४ ०४अ एष स्य मद्यो रसो ऽव चष्टे दिवः शिशुः . ४ ५ २ ०४ ०४च् य इन्दुर्वारमाविशत् .. १२७७ ४ ५ २ ०४ ०५अ एष स्य पीतये सुतो हरिरर्षति धर्णसिः . ४ ५ २ ०४ ०५च् क्रन्दन्योनिमभि प्रियम् .. १२७८ ४ ५ २ ०४ ०६अ एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः . ४ ५ २ ०४ ०६च् याभिर्मदाय शुम्भते .. १२७९ ४ ५ २ ०५ ०१अ एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः . ४ ५ २ ०५ ०१च् अव्यो वारं वि धावति .. १२८० ४ ५ २ ०५ ०२अ एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः . ४ ५ २ ०५ ०२च् विश्वा धामान्याविशन् .. १२८१ ४ ५ २ ०६ ०३अ एष देवः शुभायते ऽधि योनावमर्त्यः . ४ ५ २ ०६ ०३च् वृत्रहा देववीतमः .. १२८२ ४ ५ २ ०७ ०४अ एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः . ४ ५ २ ०७ ०४च् अभि द्रोणानि धावति .. १२८३ ४ ५ २ ०८ ०५अ एष सूर्यमरोचयत्पवमानो अधि द्यवि . ४ ५ २ ०८ ०५च् पवित्रे मत्सरो मदः .. १२८४ ४ ५ २ ०९ ०६अ एष सूर्येण हासते संवसानो विवस्वता . ४ ५ २ ०९ ०६च् पतिर्वाचो अदाभ्यः .. १२८५ ४ ५ २ ०६ ०१अ एष कविरभिष्टुतः पवित्रे अधि तोशते . ४ ५ २ ०६ ०१च् पुनानो घ्नन्नप द्विषः .. १२८६ ४ ५ २ ०६ ०२अ एष इन्द्राय वायवे स्वर्जित्परि षिच्यते . ४ ५ २ ०६ ०२च् पवित्रे दक्षसाधनः .. १२८७ ४ ५ २ ०६ ०३अ एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः . ४ ५ २ ०६ ०३च् सोमो वनेषु विश्ववित् .. १२८८ ४ ५ २ ०६ ०४अ एष गव्युरचिक्रदत्पवमानो हिरण्ययुः . ४ ५ २ ०६ ०४च् इन्दुः सत्राजिदस्तृतः .. १२८९ ४ ५ २ ०६ ०५अ एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः . ४ ५ २ ०६ ०५च् पुनान इन्दुरिन्द्रमा .. १२९० ४ ५ २ ०६ ०६अ एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति . ४ ५ २ ०६ ०६च् देवावीरघशंसहा .. १२९१ ४ ५ २ ०७ ०१अ स सुतः पीतये वृषा सोमः पवित्रे अर्षति . ४ ५ २ ०७ ०१च् विघ्नन्रक्षांसि देवयुः .. १२९२ ४ ५ २ ०७ ०२अ स पवित्रे विचक्षणो हरिरर्षति धर्णसिः . ४ ५ २ ०७ ०२च् अभि योनिं कनिक्रदत् .. १२९३ ४ ५ २ ०७ ०३अ स वाजी रोचना दिवः पवमानो वि धावति . ४ ५ २ ०७ ०३च् रक्षोहा वारमव्ययम् .. १२९४ ४ ५ २ ०७ ०४अ स त्रितस्याधि सानवि पवमानो अरोचयत् . ४ ५ २ ०७ ०४च् जामिभिः सूर्यं सह .. १२९५ ४ ५ २ ०७ ०५अ स वृत्रहा वृषा सुतो वरिवोविददाभ्यः . ४ ५ २ ०७ ०५च् सोमो वाजमिवासरत् .. १२९६ ४ ५ २ ०७ ०६अ स देवः कविनेषितो३ ऽभि द्रोणानि धावति . ४ ५ २ ०७ ०६च् इन्दुरिन्द्राय मंहयन् .. १२९७ ४ ५ २ ०८ ०१अ यः पावमानीरध्येत्यृषिभिः सम्भृतं रसम् . ४ ५ २ ०८ ०१च् सर्वं स पूतमश्नाति स्वदितं मातरिश्वना .. १२९८ ४ ५ २ ०८ ०२अ पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसम् . ४ ५ २ ०८ ०२च् तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम् .. १२९९ ४ ५ २ ०८ ०३अ पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः . ४ ५ २ ०८ ०३च् ऋषिभिः संभृतो रसो ब्राह्मणेष्वमृतं हितम् .. १३०० ४ ५ २ ०८ ०४अ पावमानीर्दधन्तु न इमं लोकमथो अमुम् . ४ ५ २ ०८ ०४च् कामान्त्समर्धयन्तु नो देवीर्देवैः समाहृताः .. १३०१ ४ ५ २ ०८ ०५अ येन देवाः पवित्रेणात्मानं पुनते सदा . ४ ५ २ ०८ ०५च् तेन सहस्रधारेण पावमानीः पुनन्तु नः .. १३०२ ४ ५ २ ०८ ०६अ पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति नान्दनम् . ४ ५ २ ०८ ०६च् पुण्यांश्च भक्षान्भक्षयत्यमृतत्वं च गच्छति .. १३०३ ४ ५ २ ०९ ०१अ अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे . ४ ५ २ ०९ ०१च् चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् .. १३०४ ४ ५ २ ०९ ०२अ स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः . ४ ५ २ ०९ ०२च् स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः .. १३०५ ४ ५ २ ०९ ०३अ त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः . ४ ५ २ ०९ ०३च् त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः .. १३०६ ४ ५ २ १० ०१अ महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव . ४ ५ २ १० ०१च् स्तोमैर्वत्सस्य वावृधे .. १३०७ ४ ५ २ १० ०१अ कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् . ४ ५ २ १० ०१च् जामि ब्रुवत आयुधा .. १३०८ ४ ५ २ १० ०१अ प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः . ४ ५ २ १० ०१च् विप्रा ऋतस्य वाहसा .. १३०९ ४ ५ २ ११ ०१अ पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत . ४ ५ २ ११ ०१च् जीरा अजिरशोचिषः .. १३१० ४ ५ २ ११ ०२अ पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः . ४ ५ २ ११ ०२च् हरिश्चन्द्रो मरुद्गणः .. १३११ ४ ५ २ ११ ०३अ पवमान् व्यश्नुहि रश्मिभिर्वाजसातमः . ४ ५ २ ११ ०३च् दधत्स्तोत्रे सुवीर्यम् .. १३१२ ४ ५ २ १२ ०१अ परीतो षिञ्चता सुतं सोमो य उत्तमं हविः . ४ ५ २ १२ ०१च् दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः .. १३१३ ४ ५ २ १२ ०२अ नूनं पुनानो ऽविभिः परि स्रवादब्धः सुरभिन्तरः . ४ ५ २ १२ ०२च् सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् .. १३१४ ४ ५ २ १२ ०३अ परि स्वानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः .. १३१५ ४ ५ २ १३ ०१अ असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् . ४ ५ २ १३ ०१च् पुनानो वारमत्येष्यव्ययं श्येनो न योनिं घृतवन्तमासदत् .. १३१६ ४ ५ २ १३ ०२अ पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे . ४ ५ २ १३ ०२च् स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे .. १३१७ ४ ५ २ १३ ०३अ कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि . ४ ५ २ १३ ०३च् अपसेधन्दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजम् .. १३१८ ४ ५ २ १४ ०१अ श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत . ४ ५ २ १४ ०१च् वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः .. १३१९ ४ ५ २ १४ ०२अ अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः . ४ ५ २ १४ ०२च् यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् .. १३२० ४ ५ २ १५ ०१अ यत इन्द्र भयामहे ततो नो अभ्यं कृधि . ४ ५ २ १५ ०१च् मघवन्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि .. १३२१ ४ ५ २ १५ ०२अ त्वं हि राधस्पते राधसो महः क्षयस्यासि विध्रत्ता . ४ ५ २ १५ ०२च् तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे .. १३२२ ४ ५ २ १६ ०१अ त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे . ४ ५ २ १६ ०१च् पवस्व मंहयद्रयिः .. १३२३ ४ ५ २ १६ ०२अ त्वं सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः . ४ ५ २ १६ ०२च् इन्दुः सत्राजिदस्तृतः .. १३२४ ४ ५ २ १६ ०३अ त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् . ४ ५ २ १६ ०३च् द्युमन्तं शुष्मा भर .. १३२५ ४ ५ २ १७ ०१अ पवस्व देववीतय इन्दो धाराभिरोजसा . ४ ५ २ १७ ०१च् आ कलशं मधुमान्त्सोम नः सदः .. १३२६ ४ ५ २ १७ ०२अ तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः . ४ ५ २ १७ ०२च् त्वां देवासो अमृताय कं पपुः .. १३२७ ४ ५ २ १७ ०३अ आ नः सुतास इन्दवः पुनाना धावता रयिम् . ४ ५ २ १७ ०३च् वृष्टिद्यावो रीत्यापः स्वर्विदः .. १३२८ ४ ५ २ १८ ०१अ परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण . ४ ५ २ १८ ०१च् यो देवान्विश्वां इत्परि मदेन सह गच्छति .. १३२९ ४ ५ २ १८ ०२अ द्विर्यं पञ्च स्वयशसं सखायो अद्रिसंहतम् . ४ ५ २ १८ ०२च् प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः .. १३३० ४ ५ २ १८ ०३अ इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे . ४ ५ २ १८ ०३च् नरे च दक्षिणावते वीराय सदनासदे .. १३३१ ४ ५ २ १९ ०१अ पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय .. १३३२ ४ ५ २ १९ ०२अ प्र ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय .. १३३३ ४ ५ २ १९ ०३अ शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् .. १३३४ ४ ५ २ २० ०१अ उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् . ४ ५ २ २० ०१च् इन्दुं देवा अयासिषुः .. १३३५ ४ ५ २ २० ०२अ तमिद्वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव . ४ ५ २ २० ०२च् य इन्द्रस्य हृदंसनिः .. १३३६ ४ ५ २ २० ०३अ अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषम् . ४ ५ २ २० ०३च् वर्धा समुद्रमुक्थ्यम् .. १३३७ ४ ५ २ २१ ०१अ आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् . ४ ५ २ २१ ०१च् येषामिन्द्रो युवा सखा .. १३३८ ४ ५ २ २१ ०२अ बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः . ४ ५ २ २१ ०२च् येषामिन्द्रो युवा सखा .. १३३९ ४ ५ २ २१ ०३अ अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः . ४ ५ २ २१ ०३च् येषामिन्द्रो युवा सखा .. १३४० ४ ५ २ २२ ०१अ य एक इद्विदयते वसु मर्त्ताय दाशुषे . ४ ५ २ २२ ०१च् ईशानो अप्रतिष्कुत इन्द्रो अङ्ग .. १३४१ ४ ५ २ २२ ०२अ यश्चिद्धि त्वा बहुभ्य आ सुतावां आविवासति . ४ ५ २ २२ ०२च् उग्रं तत्पत्यते शव इन्द्रो अङ्ग .. १३४२ ४ ५ २ २२ ०३अ कदा मर्त्तमराधसं पदा क्षुम्पमिव स्फुरत् . ४ ५ २ २२ ०३च् कदा नः शुश्रवद्गिर इन्द्रो अङ्ग .. १३४३ ४ ५ २ २३ ०१अ गायन्ति त्वा गायत्रिणो ऽर्चन्त्यर्कमर्किणः . ४ ५ २ २३ ०१च् ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे .. १३४४ ४ ५ २ २३ ०२अ यत्सानोः सान्वारुहो भूर्यस्पष्ट कर्त्त्वम् . ४ ५ २ २३ ०२च् तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति .. १३४५ ४ ५ २ २३ ०३अ युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा . ४ ५ २ २३ ०३च् अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर .. १३४६ षष्ठ प्रपाठकः . प्रथमो ऽर्धः ४ ६ १ ०१ ०१अ सुषमिद्धो न आ वह देवां अग्ने हविष्मते . ४ ६ १ ०१ ०१च् होतः पावक यक्षि च .. १३४७ ४ ६ १ ०१ ०२अ मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे . ४ ६ १ ०१ ०२च् अद्या कृणुय्हूतये .. १३४८ ४ ६ १ ०१ ०३अ नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये . ४ ६ १ ०१ ०३च् मधुजिह्वं हविष्कृतम् .. १३४९ ४ ६ १ ०१ ०४अ अग्ने सुखतमे रथे देवां ईडित आ वह . ४ ६ १ ०१ ०४च् असि होता मनुर्हितः .. १३५० ४ ६ १ ०२ ०१अ यदद्य सूर उदिते ऽनागा मित्रो अर्यमा . ४ ६ १ ०२ ०१च् सुवाति सविता भगः .. १३५१ ४ ६ १ ०२ ०२अ सुप्रावीरस्तु स क्षयः प्र नु यामन्त्सुदानवः . ४ ६ १ ०२ ०२च् ये नो अंहो ऽतिपिप्रति .. १३५२ ४ ६ १ ०२ ०३अ उत स्वराजो अदितिरदब्धस्य व्रतस्य ये . ४ ६ १ ०२ ०३च् महो राजान ईशते .. १३५३ ४ ६ १ ०३ ०१अ उ त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः . ४ ६ १ ०३ ०१च् अव ब्रह्मद्विषो जहि .. १३५४ ४ ६ १ ०३ ०२अ पदा पणीनराधसो नि बाधस्व महां असि . ४ ६ १ ०३ ०२च् न हि त्वा कश्च न प्रति .. १३५५ ४ ६ १ ०३ ०३अ त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् . ४ ६ १ ०३ ०३च् त्वं राजा जनानाम् .. १३५६ ४ ६ १ ०४ ०१अ आ जागृविर्विप्र ऋतां मतीनां सोमः पुनानो असदच्चमूषु . ४ ६ १ ०४ ०१च् सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः .. १३५७ ४ ६ १ ०४ ०२अ स पुनान उप सूरे दधान ओबे अप्रा रोदसी वि ष आवः . ४ ६ १ ०४ ०२च् प्रिया चिद्यस्य प्रियसास ऊती सतो धनं कारिणे न प्र यंसत् .. १३५८ ४ ६ १ ०४ ०३अ स वर्धिता वर्धनः पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावीत् . ४ ६ १ ०४ ०३च् यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन् .. १३५९ ४ ६ १ ०५ ०१अ मा चिदन्यद्वि शंसत सखायो मा रिषण्यत . ४ ६ १ ०५ ०१च् इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत .. १३६० ४ ६ १ ०५ ०२अ अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीसहम् . ४ ६ १ ०५ ०२च् विद्वेषणं संवननमुभयङ्करं मंहिष्ठमुभयाविनम् .. १३६१ ४ ६ १ ०६ ०१अ उदु त्ये मधुमत्तमा गिर स्तोमास ईरते . ४ ६ १ ०६ ०१च् सत्राजितो धनसा अक्षितोतयो वाजन्तो रथा इव .. १३६२ ४ ६ १ ०६ ०२अ कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमाशत . ४ ६ १ ०६ ०२च् इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् .. १३६३ ४ ६ १ ०७ ०१अ पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः . ४ ६ १ ०७ ०१च् द्विषस्तरध्या ऋणया न ईरसे .. १३६४ ४ ६ १ ०७ ०२अ अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः . ४ ६ १ ०७ ०२च् गोजीरया रंहमानः पुरन्ध्या .. १३६५ ४ ६ १ ०७ ०३अ अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये . ४ ६ १ ०७ ०३च् वाजां अभि पवमान प्र गाहसे .. १३६६ ४ ६ १ ०८ ०१अ परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय .. १३६७ ४ ६ १ ०८ ०२अ एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः .. १३६८ ४ ६ १ ०८ ०३अ इन्द्रस्ते सोम सुतस्य पेयात्क्रत्वे दक्षाय विश्वे च देवाः .. १३६९ ४ ६ १ ०९ ०१अ सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुतः साकमीरते . ४ ६ १ ०९ ०१च् तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन .. १३७० ४ ६ १ ०९ ०२अ उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि . ४ ६ १ ०९ ०२च् पवमानः सन्तनिः सुन्वतामिव मधुमान्द्रप्सः परि वारमर्षति .. १३७१ ४ ६ १ ०९ ०३अ उक्षा मिमेति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम् . ४ ६ १ ०९ ०३च् अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत .. १३७२ ४ ६ १ १० ०१अ अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तम् . ४ ६ १ १० ०१च् दूरेदृशं गृहपतिमथव्युम् .. १३७३ ४ ६ १ १० ०२अ तमग्निमस्ते वसवो न्यृण्वन्त्सुप्रतिचक्षमवसे कुतश्चित् . ४ ६ १ १० ०२च् दक्षाय्यो यो दम आस नित्यः .. १३७४ ४ ६ १ १० ०३अ प्रेद्धो अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ . ४ ६ १ १० ०३च् त्वां शश्वन्त उप यन्ति वाजाः .. १३७५ ४ ६ १ ११ ०१अ आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः . ४ ६ १ ११ ०१च् पितरं च प्रयन्त्स्वः .. १३७६ ४ ६ १ ११ ०२अ अन्तश्चरति रोचनास्य प्राणादपानती . ४ ६ १ ११ ०२च् व्यख्यन्महिषो दिवम् .. १३७७ ४ ६ १ ११ ०३अ त्रिंशद्धाम वि राजति वाक्पतङ्गाय धीयते . ४ ६ १ ११ ०३च् प्रति वस्तोरह द्युभिः .. १३७८ षष्ठ प्रपाठकः . द्वितीयो ऽर्धः ४ ६ २ ०१ ०१अ उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये . ४ ६ २ ०१ ०१च् आरे अस्मे च शृण्वते .. १३७९ ४ ६ २ ०१ ०२अ यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु . ४ ६ २ ०१ ०२च् अरक्षद्दाशुषे गयम् .. १३८० ४ ६ २ ०१ ०३अ स नो वेदो अमात्यमग्नी रक्षतु शन्तमः . ४ ६ २ ०१ ०३च् उतास्मान्पात्वंहसः .. १३८१ ४ ६ २ ०१ ०४अ उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि . ४ ६ २ ०१ ०४च् धनञ्जयो रणेरणे .. १३८२ ४ ६ २ ०२ ०१अ अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः . ४ ६ २ ०२ ०१च् अरं वहन्त्याशवः .. १३८३ ४ ६ २ ०२ ०२अ अच्छा नो याह्या वहाभि प्रयांसि वीतये . ४ ६ २ ०२ ०२च् आ देवान्त्सोमपीतये .. १३८४ ४ ६ २ ०२ ०३अ उदग्ने भारत द्युमदजस्रेण दविद्युतत् . ४ ६ २ ०२ ०३च् शोचा वि भाह्यजर ..
प्र सुन्वानायान्धसो मर्त्तो न वष्ट तद्वचः . अप श्वानमराधसं हता मखं न भृगवः ..
आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः . सरज्जारो न योषणां वरो न योनिमासदम् ..
स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी . हरिः पवित्रे अव्यत वेधा न योनिमासदम् ..
अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि . युधेदापित्वमिच्छसे ..
न की रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः . यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे ..
आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये . ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ..
आ त्वा रथे हिरण्यये हरी मयूरशेप्या . शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये ..
पिबा त्वा३स्य गिर्वणः सुतस्य पूर्वपा इव . परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ..
आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम् . वनप्रक्षमुदप्रुतम् ..
सहस्रधारं वृषभं पयोदुहं प्रियं देवाय जन्मने . ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत् ..
अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया . समिद्धः शुक्र आहुतः ..
गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे . सीदन्नृतस्य योनिमा ..
ब्रह्म प्रजावदा भर जातवेदो विचर्षणे . अग्ने यद्दीदयद्दिवि ..
अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् . सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता ..
भद्रा वस्त्रा समन्या ऽ ऽ३ वसानो महान्कविर्निवचनानि शंसन् . आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ ..
समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे . अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ..
एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना . शुद्धैरुक्थैर्वावृध्वांसं शुद्धैराशीर्वान्ममत्तु ..
इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः . शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्य ..
इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे . शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ..
अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः . देवस्य द्रविणस्यवः ..
अग्निर्जुषत नो गिरो होता यो मानुषेष्वा . स यक्षद्दैव्यं जनम् ..
त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः . त्वया यज्ञं वि तन्वते ..
अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशंत वाणीः . वना वसानो वरुणो न सिन्धूर्वि रत्नधा दयते वार्याणि ..
शूरग्रामः सर्ववीरः सहावान्जेता पवस्व सनिता धनानि . तिग्मायुधः क्षिप्रधन्वा समत्स्वषाढः साह्वान्पृतनासु शत्रून् ..
उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरन्धी . अपः सिषासन्नुषसः स्वा३र्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ..
त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः . त्वं वृत्राणि हंस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ..
तमु त्वा नूनमसुर प्रचेतसं राधो भागमिवेमहे . महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ..
यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् . अस्य यज्ञस्य सुक्रतुम् ..
अपां नपातं सुभगं सुदीदितिमग्निमु श्रेष्ठशोचिषम् . स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ..
यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः . स यन्ता शश्वतीरिषः ..
न किरस्य सहन्त्य पर्येता कयस्य चित् . वाजो अस्ति श्रवाय्यः ..
स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता . विप्रेभिरस्तु सनिता ..
साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः . हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ..
सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः . मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः ..
उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः . मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः ..
पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः . आपिर्नो बोधि सधमाद्ये वृधे३ ऽस्मां अवन्तु ते धियः ..
भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये . अस्मां चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ..
त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि . चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ..
स भक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे . तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ..
ते अस्य सन्तु केतवो ऽमृत्यवो ऽदाभ्यासो जनुषी उभे अनु . येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत ..
अभि वायुं वीत्यर्षा गृणानो३ ऽभि मित्रावरुणा पूयमानः . अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् ..
अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः . अभि चन्द्रा भर्त्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ..
अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः . अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः ..
यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय . तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवम् ..
तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः . तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् ..
आमासु पक्वमैरय आ सूर्यं रोहयो दिवि . घर्मं न सामं तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ..
मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः . वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः ..
आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः . सहावां इन्द्र सानसिः पृतनषाडमर्त्यः ..
त्वं हि शूरः सनिता चोदयो मनुषो रथम् . सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा .. १४३४ षष्ठ प्रपाठकः . तृतीयो ऽर्धः
पवस्व वृष्टिमा सु नो ऽपामूर्मिं दिवस्परि . अयक्ष्मा बृहतीरिषः ..
तया पवस्व धारया यया गाव इहागमन् . जन्यास उप नो गृहम् ..
घृतं पवस्व धारया यज्ञेषु देववीतमः . अस्मभ्यं वृष्टिमा पव ..
स न ऊर्जे व्या३व्ययं पवित्रं धाव धारया . देवासः शृणवन्हि कम् ..
पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् . प्रत्नवद्रोचयन्रुचः ..
प्रत्यस्मै पिपीषते विश्वानि विदुषे भर . अरङ्गमाय जग्मये ऽपश्चादध्वने नरः ..
एमेनं प्रत्येतन सोमेभिः सोमपातमम् . अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः ..
यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ . वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते ..
अस्माअस्मा इदन्धसो ऽध्वर्यो प्र भरा सुतम् . कुवित्समस्य जेन्यस्य शर्धतो ऽभिशस्तेरवस्वरत् ..
बभ्रवे नु स्वतवसे ऽरुणाय दिविस्पृशे . सोमाय गाथमर्चत ..
हस्तच्युतेभिरद्रिभिः सुतं सोमं पुनीतन . मधावा धावता मधु ..
नमसेदुप सीदत दध्नेदभि श्रीणीतन . इन्दुमिन्द्रे दधातन ..
अमित्रहा विचर्षणिः पवस्व सोम शं गवे . देवेभ्यो अनुकामकृत् ..
इन्द्राय सोम पातवे मदाय परि षिच्यसे . मनश्चिन्मनसस्पतिः ..
पवमान सुवीर्यं रयिं सोम रिरीहि नः . इन्दविन्द्रेण नो युजा ..
उद्धेदभि श्रुतामघं वृषमं नर्यापसम् . अस्तारमेषि सूर्य ..
नव यो नवतिं पुरो बिभेद बाह्वोजसा . अहिं च वृत्रहावधीत् ..
स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् . उरुधारेव दोहते ..
विभ्राड् बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् . वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ..
विभ्राड् बृहत्सुभृतं वाजसातमं धर्मं दिवो धरुणे सत्यमर्पितम् . अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ..
इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् . विश्वभ्राड् भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ..
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा . शिक्षा णो अस्मिन्पुरुहूत यामनि जीव ज्योतिरशीमहि ..
मा नो अज्ञाता वृजना दुराध्यो३ माशिवासो ऽव क्रमुः . त्वया वयं प्रवतः शश्वतीरपो ऽति शूर तरामसि ..
अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः . विश्वा च नो जरित्र्^ईन्त्सत्पते अहा दिवा नक्तं च रक्षिषः ..
प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् . उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः ..
जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः . सरस्वन्तं हवामहे ..
उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा . सरस्वती स्तोम्या भूत् ..
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि . धियो यो नः प्रचोदयात् ..
सोमानां स्वरणं कृणुहि ब्रह्मणस्पते .
कक्षीवन्तं य औशिजः ..
अग्न आयूंषि पवसे आ सुवोर्जं इषं च नः .
आरे बाधस्व दुच्छुनाम् ..
ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य . महि वा क्षत्रं देवेषु ..
ऋतमृतेन सपन्तेषिरं दक्षमाशाते . अद्रुहा देवौ वर्धेते ..
वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः . बृहन्तं गर्त्तमाशाते ..
युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः . रोचन्ते रोचना दिवि ..
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे . शोणा धृष्णू नृवाहसा ..
केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे . समुषद्भिरजायथाः ..
अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि . त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् ..
स ईं रथो न भुरिषाडयोजि महः पुरूणि सातये वसूनि . आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ..
शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् . आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः ..
त्वमग्ने यज्ञानां होता विश्वेषां हितः . देवेभिर्मानुषे जने ..
स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः . आ देवान्वक्षि यक्षि च ..
वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा . अग्ने यज्ञेषु सुक्रतो ..
होता देवो अमर्त्यः पुरस्तादेति मायया . विदथानि प्रचोदयन् ..
वाजी वाजेषु धीयते ऽध्वरेषु प्र णीयते . विप्रो यज्ञस्य साधनः ..
धिया चक्रे वरेण्यो भूतानां गर्भमा दधे . दक्षस्य पितरं तना ..
आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियम् . रसा दधीत वृषभम् ..
ते जानत स्वमोक्या३ं सं वत्सासो न मातृभिः . मिथो नसन्त जामिभिः ..
उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि . इन्द्रे अग्ना नमः स्वः ..
तदिदास भुवनेषु ज्येष्टं यतो जज्ञा उग्रस्त्वेषनृम्णः . सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ..
वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति . अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ..
त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः . स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ..
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम् . स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् ..
साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः . दाता राध स्तुवते काम्यं वसु प्रचेतन सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् ..
अध त्विषीमां अभ्योजसा कृविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे . अधत्तान्यं जठरे प्रेमरिच्यत प्र चेतय सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् .. १४८८ सप्तम प्रपाठकः . प्रथमो ऽर्धः
अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे . मूनुं सत्यस्य सत्पतिम् ..
आ हरयः ससृज्रिरे ऽरुषीरधि बर्हिषि . यत्राभि संनवामहे ..
इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु . यत्सीमुपह्वरे विदत् ..
आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत . उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ..
त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् . तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ..
प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यं महो गाहद्दिव आ निरधुक्षत . इन्द्रमभि जायमानं समस्वरन् ..
आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत . दिवो न वारं सविता व्यूर्णुते ..
अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना . यूथे न निष्ठा वृषभो वि राजसि ..
इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम् . अग्ने देवेषु प्र वोचः ..
विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ . सद्यो दाशुषे क्षरसि ..
आ नो भज परमेष्वा वाजेषु मध्यमेषु . शिक्षा वस्वो अन्तमस्य ..
अहमिद्धि पितुष्परि मेधामृतस्य जग्रह . अहं सूर्य इवाजनि ..
अहं प्रत्नेन जन्मना गिरः शुम्भामि कण्ववत् . येनेन्द्रः शुष्ममिद्दधे ..
ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः . ममेद्वर्धस्व सुष्टुतः ..
अग्ने विश्वेभिरग्निभिर्जोषि ब्रह्म सहस्कृत . ये देवत्रा य आयुषु तेभिर्नो महया गिरः ..
प्र स विश्वेभिरग्निभिरग्निः स यस्य वाजिनः . तनये तोके अस्मदा सम्यङ्वाजैः परीवृतः ..
त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय . त्वं नो देवतातये रायो दानाय चोदय ..
त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियन् दधुः . स त्वं नो वीर वीर्याय चोदय ..
अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् . शर्याभिर्न भरमाणो गभस्त्योः ..
अजीजनो अमृत मर्त्याय अमृतस्य धर्मन्नमृतस्य चारुणः . सदासरो वाजमच्छा सनिष्यदत् ..
एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु . प्र राधांसि चोदयते महित्वना ..
उपो हरीणां पतिं राधः पृञ्चन्तमब्रवम् . नूनं श्रुधि स्तुवतो अश्व्यस्य ..
न ह्याङ्३ग पुरा च न जज्ञे वीरतरस्त्वत् . न की राया नैवथा न भन्दना ..
नदं व ओदतीनां नदं योयुवतीनाम् . पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ..
देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् . उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ..
तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत . दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ..
अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः . उपोषु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ..
यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः . सहस्रसां मेधसाताविव त्मनाग्निं धीभिर्नमस्यत ..
प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना . अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ..
अग्न आयूंषि पवसे आसुवोर्जमिषं च नः . आरे बाधस्व दुच्छुनाम् ..
अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः . तमीमहे महागयम् ..
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् . दधद्रयिं मयि योषम् ..
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया . आ देवान्वक्षि यक्षि च ..
तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम् . देवां आ वीतये वह ..
वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि . अग्ने बृहन्तमध्वरे ..
अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि . विश्वासु धीषु वन्द्य ..
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् . विश्वासु पृत्सु दुष्टरम् ..
आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् . मार्डीकं धेहि जीवसे ..
अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु . तेन जेष्म धनंधनम् ..
यया गा आकरामहै सेनयाग्ने तवोत्या . तां नो हिन्व मघत्तये ..
आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनम् . अङ्धि खं वर्त्तया पविम् ..
अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि . दधज्ज्योतिर्जनेभ्यः ..
अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् . बोधा स्तोत्रे वयो दधत् ..
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् . अपां रेतांसि जिन्वति ..
ईशिषे वार्यस्य हि दात्रस्याग्ने स्वःपतिः . स्तोता स्यां तव शर्मणि ..
उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते . तव ज्योतींष्यर्चयः .. १५३४ सप्तम प्रपाठकः . द्वितीयो ऽर्धः
कस्ते जामिर्जनानामग्ने को दाश्वध्वरः . को ह कस्मिन्नसि श्रितः ..
त्वं जामिर्जनानामग्ने मित्रो असि प्रियः . सखा सखिभ्य ईड्यः ..
यजा नो मित्रावरुणा यजा देवां ऋतं बृहत् . अग्ने यक्षि स्वं दमम् ..
ईडेन्यो नमस्यस्तिरस्तमांसि दर्शतः . समग्निरिध्यते वृषा ..
वृषो अग्निः समिध्यते ऽश्वो न देववाहनः . तं हविष्मन्त ईडते ..
वृषणं त्वा वयं वृषन्वृषणः समिधीमहि . अग्ने दीद्यतं बृहत् ..
उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः . अग्ने शुक्रास ईरते ..
उप त्वा जुह्वो३ मम घृताचीर्यन्तु हर्यत . अग्ने हव्या जुषस्व नः ..
मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुम् . अग्निमीडे स उ श्रवत् ..
पाहि नो अग्न एकया पाह्यू३त द्वितीयया . पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ..
पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नो ऽव . त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ..
इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमां अदर्शि . चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ..
कृष्णां यदेनीमभि वर्पसाभूज्जनयन्योषां बृहतः पितुर्जाम् . ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ..
भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् . सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ..
कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम् . वराय देव मन्यवे ..
दाशेम कस्य मनसा यज्ञस्य सहसो यहो . कदु वोच इदं नमः ..
अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः . वाजद्रविणसो गिरः ..
अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे . आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ..
अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे . ऊर्जो नपातं घृतकेशमीमहे ऽग्निं यज्ञेषु पूर्व्यम् ..
अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् . अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ..
अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् . द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ..
अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् . तूर्णी रथः सदा नवः ..
अभि प्रयांसि वाहसा दाश्वां अश्नोति मर्त्यः . क्षयं पावकशोचिषः ..
साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः . अग्निस्तुविश्रवस्तमः ..
भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः . भद्रा उत प्रशस्तयः ..
भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः . अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टये ..
अग्ने वाजस्य गोमत ईशानः सहसो यहो . अस्मे देहि जातवेदो महि श्रवः ..
स इधानो वसुष्कविरग्निरीडेन्यो गिरा . रेवदस्मभ्यं पुर्वणीक दीदिहि ..
क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः . स तिग्मजम्भ रक्षसो दह प्रति ..
विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् . अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ..
यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् . प्रशंसन्ति प्रशस्तिभिः ..
पन्यांसं जातवेदसं यो देवतात्युद्यता . हव्यान्यैरयद्दिवि ..
समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् . विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम् ..
त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम्. देवासश्च मर्त्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ..
विभूषन्नग्न उभयां अनु व्रता दूतो देवानां रजसी समीयसे . यत्ते धीतिं सुमतिमावृणीमहे ऽध स्मा नस्त्रिवरूथः शिवो भव ..
उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः . वायोरनीके अस्थिरन् ..
यस्य त्रिधात्ववृतं बर्हिस्तस्थावसन्दिनम् . आपश्चिन्नि दधा पदम् ..
पदं देवस्य मीढुषो ऽनाधृष्टाभिरूतिभिः . भद्रा सूर्य इवोपदृक् .. १५७२ सप्तम प्रपाठकः . तृतीयो ऽर्धः
अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः . समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ..
अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि . अद्या तमस्य महिमानमायवो ऽनु ष्टुवन्ति पूर्वथा ..
प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः . इन्द्राग्नी इष आ वृणे ..
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् . साकमेकेन कर्मणा ..
इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः . ऋतस्य पथ्या ऽ ऽ३ अनु ..
इन्द्राग्नी तविषाणी वां सधस्थानि प्रयांसि च . युवोरप्तूर्यं हितम् ..
शग्ध्यू३ षु शचीपत इन्द्र विश्वाभिरूतिभिः . भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ..
पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः . न किर्हि दानं परि मर्धिषत्वे यद्यद्यामि तदा भर ..
त्वं ह्येहि चेरवे विदा भगं वसुत्तये . उद्वावृषस्व मधवन्गविष्टय उदिन्द्राश्वमिष्टये ..
त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे . आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तो ऽवसे ..
यो विश्वा दयते वसु होता मन्द्रो जनानाम् . मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये ..
अश्व न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः . उभे तोके तनये दस्म विस्पते पर्षि राधो मघोनाम् ..
इमं मे वरुण श्रुधी हवमद्या च मृडय . त्वामवस्युरा चके ..
कया त्वं न ऊत्याभि प्र मन्दसे वृषन् . कया स्तोतृभ्य आ भर ..
इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे . इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ..
इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् . इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ..
विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व तन्वा३ं स्वा हि ते . मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ..
अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति सयुग्वभिः सूरो न सयुग्वभिः . धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः . ४ ७ ३ १००१ए विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः ..
प्राचीमनु प्रदिशं पाति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः . अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयत . ४ ७ ३ १००२ए वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ..
त्वं ह त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे . परावतो न साम तद्यत्रा रणन्ति धीतयः . ४ ७ ३ १००३ए त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे .
उत नो गोषणिं धियमश्वसां वाजसामुत . नृवत्कृणुह्यूतये ..
शशमानस्य वा नरः स्वेदस्य सत्यशवसः . विदा कामस्य वेनतः ..
उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये . सुमृडीका भवन्तु नः ..
प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे . शुची उप प्रशस्तये ..
पुनाने तन्वा मिथः स्वेन दक्षेण राजथः . ऊह्याथे सनादृतम् ..
मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम् . परि यज्ञं नि षेदथुः ..
अयमु ते समतसि कपोत इव गर्भधिम् . वचस्तच्चिन्न ओहसे ..
स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते . विभूतिरस्तु सूनृता ..
ऊर्ध्वस्तिष्ठा न ऊतये ऽस्मिन्वाजे शतक्रतो . समन्येषु ब्रवावहै ..
गाव उप वदावटे महि यज्ञस्य रप्सुदा . उभा कर्णा हिरण्यया ..
अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु . अवटस्य विसर्जने ..
सिञ्चन्ति नमसावटमुच्चाचक्रं परिज्मानम् . नीचीनबारमक्षितम् ..
मा भेम मा श्रमिष्मोग्रस्य सख्ये तव . महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम् ..
सव्यामनु स्फिग्यं वावसे वृष्ना न दानो अस्य रोषति . मध्वा संपृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ..
इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम . पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैरनूषत ..
अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे . सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ..
यस्यायं विश्व आर्यो दासः शेवधिपा अरिः . तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः ..
तुरण्यवो मधुमन्तं घृतश्चतं विप्रासो अर्कमानृचुः . अस्मे रयिः पप्रथे वृष्ण्यं शवो ऽस्मे स्वानास इन्दवः ..
गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव . शुचिं च वर्णमधि गोषु धार्य ..
स नो हरीणां पत इन्दो देवप्सरस्तमः . सखेव सख्ये नर्यो रुचे भव ..
सनेमि त्वमस्मदा अदेवं कं चिदत्रिणम् . साह्वां इन्दो परि बाधो अप द्वयुम् ..
अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मध्वाभ्यञ्जते . सिन्धोरु ऽच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमप्सु गृभ्णते ..
विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति . अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीडन्नसरद्वृषा हरिः ..
अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः . हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः .. १६१६ आष्टम प्रपाठकः . प्रथमो ऽर्धः
विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः . चनो घाः सहसा यहो ..
यच्चिद्धि शश्वा तना देवंदेवं यजामहे . त्वे इद्धूयते हविः ..
प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः . प्रियाः स्वग्नयो वयम् ..
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः . अस्माकमस्तु केवलः ..
स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि . अस्मभ्यमप्रतिष्कुतः ..
बृषा यूथेव वंसगः कृष्टीरियर्त्योजसा . ईशानो अप्रतिष्कुतः ..
त्वं नश्चित्र ऊत्या वसो राधांसि चोदय . अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ..
पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः . अग्ने हेडांसि दैव्या युयोधि नो ऽदेवानि हरांसि च ..
किमित्ते विष्णो परिचक्षि नाम प्र यद्ववक्षे शिपिविष्टो अस्मि . मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ..
प्र तत्ते अद्य शिपिविष्ट हव्यमर्यः शंसामि वयुनानि विद्वान् . तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ..
वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् . वर्धन्तु त्वा सुष्टुतयो गिरि मे यूयं पात स्वस्तभिः सदा नः ..
वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु . आ याहि सोमपीतये स्पार्हो देव नियुत्वता ..
इन्द्रश्च वायवेषां सोमानां पीतिमर्हथः . युवां हि यन्तीन्दवो निम्नमापो न सध्र्यक् ..
वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती . नियुत्वन्ता न ऊतय आ यातं सोमपीतये ..
अध क्षपा परिष्कृतो वाजां अभि प्र गाहते . यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे ..
तमस्य मर्जयामसि मदो य इन्द्रपातमः . यं गाव आसभिर्दधुः पुरा नूनं च सूरयः ..
तं गाथया पुराण्या पुनानमभ्यनूषत . उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ..
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः . सम्राजन्तमध्वराणाम् ..
स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः . मीढ्वां अस्माकं बभूयात् ..
स नो दूराच्चासाच्च नि मर्त्यादघायोः . पाहि सदमिद्विश्वायुः ..
त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः . अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः ..
अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा . विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ..
यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् . चक्राण ओपशं दिवि ..
व्या३न्तरिक्षमतिरन्मदे सोमस्य रोचना . इन्द्रो यदभिनद्वलम् ..
उदगा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः . अर्वाञ्चं नुनुदे वलम् ..
त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् . आ च्यावयस्यूतये ..
युध्मं सन्तमनर्वाणं सोमपामनपच्युतम् . नरमवार्यक्रतुम् ..
शिक्षा ण इन्द्र राय आ पुरु विद्वां ऋचीषम . अवा नः पार्ये धने ..
तव त्यदिन्द्रियं बृहत्तव दक्ष्ममुत क्रतुम् . वज्रं शिशाति धिषणा वरेण्यम् ..
तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः . त्वामापः पर्वतासश्च हिन्विरे ..
त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः . त्वां शर्धो मदत्यनु मारुतम् ..
नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः . अमैरमित्रमर्दय ..
कुवित्सु नो गविष्टये ऽग्ने संवेषिषो रयिम् . उरुकृदुरु णस्कृधि ..
मा नो अग्ने महाधने परा वर्ग्भारभृद्यथा . संवर्गं सं रयिं जय ..
समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः . समुद्रायेव सिन्धवः ..
वि चिद्वृत्रस्य दोधतः शिरो बिभेद वृष्णिना . वज्रेण शतपर्वणा ..
ओजस्तदस्य तित्विष उभे यत्समवर्त्तयत् . इन्द्रश्चर्मेव रोदसी ..
सुमन्मा वस्वी रन्ती सूनरी ..
सरूप वृषन्ना गहीमौ भद्रौ धुर्यावभि . ताविमा उप सर्पतः ..
नीव शीर्षाणि मृढ्वं मध्य आपस्य तिष्ठति . शृङ्गेभिर्दशभिर्दिशन् .. १६५६ आष्टम प्रपाठकः . द्वितीयो ऽर्धः
पन्यंपन्यमित्सोतार आ धावत मद्याय . सोमं वीराय शूराय ..
एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् . इन्द्रं गीर्भिर्गिर्वणसम् ..
पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् . नि यमते शतमूतिः ..
आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः . न त्वामिन्द्राति रिच्यते ..
विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे . य इन्द्र जठरेषु ते ..
अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् . अरं धामभ्य इन्दवः ..
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय . स्तोमं रुद्राय दृशीकम् ..
स नो महां अनिमानो धूमकेतुः पुरुश्चन्द्रः . धिये वाजाय हिन्वतु ..
स रेवां इव विश्पतिर्दैव्यः केतुः शृणोतु नः . उक्थैरग्निर्बृहद्भानुः ..
तद्वो गाय सुते सचा पुरुहूताय सत्वने . शं यद्गवे न शाकिने ..
न घा वसुर्नि यमते दानं वाजस्य गोमतः . यत्सीमुपश्रवद्गिरः ..
कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् . शचीभिरप नो वरत् ..
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् . समूढमस्य पांसुले ..
त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः . अतो धर्माणि धारयन् ..
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे . इन्द्रस्य युज्यः सखा ..
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः . दिवीव चक्षुराततम् ..
तद्विप्रासो विपन्युवो जागृवांसः समिन्धते . विष्णोर्यत्परमं पदम् ..
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे . पृथिव्या अधि सानवि ..
मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् . आरात्ताद्व सधमादं न आ गहीह वा सन्नुप श्रुधि ..
इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते . इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ..
अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत . पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत ..
समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् . सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ..
इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे . नरे च दक्षिणावते देवाय सदनासदे ..
तं सखायः पुरूरुचं यूयं वयं च सूरयः . अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम् ..
परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण . यो देवान्विश्वां इत्परि मदेन सह गच्छति ..
कस्तमिन्द्र त्वावसो मर्त्यो दधर्षति . श्रद्धा इत्तेमघवन् पार्ये दिवि वाजी वाजं सिषासति ..
मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु . तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ..
एदु मधोर्मदिन्तरं सिञ्चाध्वर्यो अन्धसः . एवा हि वीर स्तवते सदावृधः ..
इन्द्र स्थातर्हरीणां न किष्टे पूर्व्यस्तुतिम् . उदानंश शवसा न भन्दना ..
तं वो वाजानां पतिमहूमहि श्रवस्यवः . अप्रायुभिर्ज्ञेभिर्वावृधेन्यम् ..
तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे . देवत्रा हव्यमूहिषे ..
विभूतरातिं विप्र चित्रशोचिषमग्निमीडिष्व यन्तुरम् . अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ..
आ सोम सवानो अद्रिभिस्तिरो वाराण्यव्यया . जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे ..
स मामृजे तिरो अण्वानि मेष्यो मीड्वान्त्सप्तिर्न वाजयुः . अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः ..
वयमेनमिदा ह्यो ऽपीपेमेह वज्रिणम् . तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ..
वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति . सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ..
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः . तद्वां चेति प्र वीर्यम् ..
इन्द्राग्नी अपसस्परि उप प्र यन्ति धीतयः . ऋतस्य पथ्या अनु ..
इन्द्राग्नी तविषाणि वाम् सधस्थानि प्रयांसि च . युवोरप्तूर्यं हितम् ..
क ईं वेद सुते सचा पिबन्तं कद्वयो दधे . अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्रयन्धसः ..
दाना मृगो न वारणः पुरुत्रा चरथं दधे . न किष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा ..
य उग्रः सन्ननिष्टृतः स्थिरो रणाय संस्कृतः . यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ..
पवमाना असृक्षत सोमाः शुक्रास इन्दवः . अभि विश्वानि काव्या ..
पवमाना दिवस्पर्यन्तरिक्षादसृक्षत . पृथिव्या अधि सानवि ..
पवमानास आशवः शुभ्रा असृग्रमिन्दवः . घ्नन्तो विश्वा अप द्विषः ..
तोशा वृत्रहणा हुवे सजित्वानापराजिता . इन्द्राग्नी वाजसातमा ..
प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः . इन्द्राग्नी इष आ वृणे ..
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् . साकमेकेन कर्मणा ..
उप त्वा रण्वसन्दृशं प्रयस्वन्तः सहस्कृत . अग्ने ससृज्महे गिरः ..
उप च्छायामिव घृणेरगन्म शर्म ते वयम् . अग्ने हिरण्यसन्दृशः ..
य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः . अग्ने पुरो रुरोजिथ ..
ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् . अजस्रं घर्ममीमहे ..
य इदं प्रतिपप्रथे यज्ञस्य स्वरुत्तिरन् . ऋतूनुत्सृजते वशी ..
अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य . सभ्राडेको वि राजति .. १७१० आष्टम प्रपाठकः . तृतीयो ऽर्धः
अग्निः प्रत्नेन जन्मना शुम्भानस्तन्वा३ं स्वाम् . कविर्विप्रेण ववृधे ..
ऊर्ज्जो नपातमा हुवे ऽग्निं पावकशोचिषम् . अस्मिन्यज्ञे स्वध्वरे ..
स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा . देवैरा सत्सि बर्हिषि ..
उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः . नुदस्व याः परिस्पृधः ..
अया निजघ्निरोजसा रथसङ्गे धने हिते . स्तवा अबिभ्युषा हृदा ..
अस्य व्रतानि नाधृषे पवमानस्य दूढ्या . रुज यस्त्वा पृतन्यति ..
तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् . इन्दुमिन्द्राय मत्सरम् ..
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः . मा त्वा के चिन्नि येमुरिन्न पाशिनो ऽति धन्वेव तां इहि ..
वृत्रखादो वलं रुजः पुरां दर्मो अपामजः . स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृढा चिदारुजः ..
गम्भीरां उदधींरिव क्रतुं पुष्यसि गा इव . प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ..
यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् . आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ..
मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते . आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ..
त्वमङ्ग प्र शुंसिषो देवः शविष्ठ मर्त्यम् . न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ..
मा ते राधांसि मा त ऊतयो वसो ऽस्मान्कदा चना दभन् . विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ..
प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः . दिवो अदर्शि दुहिता ..
अश्वेव चित्रारुषी माता गवामृतावरी . सखा भूदश्विनोरुषाः ..
उत सखास्यश्विनोरुत माता गवामसि . उतोषो वस्व ईशिषे ..
एषो उषा अपूर्व्य व्युच्छति प्रिया दिवः . स्तुषे वामश्विना बृहत् ..
या दस्रा सिन्धुमातरा मनोतरा रयीणाम् . धिया देवा वसुविदा ..
वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि . यद्वां रथो विभिष्पतात् ..
उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति . येन तोकं च तनयं च धामहे ..
उषो अद्येह गोमत्यश्वावति विभावरि . रेवदस्मे व्युच्छ सूनृतावति ..
युङ्क्ष्वा हि वाजिनीवत्यश्वां अद्यारुणां उषः . अथा नो विश्वा सौभगान्या वह ..
अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् . अर्वाग्रथं समनसा नि यच्छतम् ..
एह देवा मयोभुवा दस्रा हिरण्यवर्त्तनी . उषर्बुधो वहन्तु सोमपीतये ..
यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः . आ न ऊर्जं वहतमश्विना युवम् ..
अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः . अस्तमर्वन्त आशवोस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ..
अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः . अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भर ..
सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः . समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर ..
महे नो अद्य बोधयोषो राये दिवित्मती . यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ..
या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः . सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ..
सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः . यो व्यौच्छः सहीयसि सत्यश्रवसि याय्ये सुजाते अश्वसूनृते ..
प्रति प्रियतमं रथं वृशणं वसुवाहनम् . स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतं हवम् ..
अत्यायातमश्विना तिरो विश्वा अहं सना . दस्रा हिरण्यवर्त्तनी सुषुम्णा सिन्धुवाहसा माध्वी मम श्रुतं हवम् ..
आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम् . रुद्रा हिरण्यवर्त्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम् ..
अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् . यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ ..
अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् . समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि ..
यदीं गणस्य रशनामजीगः शुचिरङ्क्ते शुचिभिर्गोभिरग्निः . आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः ..
इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा . यथा प्रसूता सवितुः सवायैवा रात्र्युषसे योनिमारैक् ..
रुशाद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः . समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ..
समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे . न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ..
आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः . अर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छ ..
न संस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह . दिवाभिपित्वेवसागमिष्ठा प्रत्यवर्त्तिं दाशुषे शम्भविष्ठा ..
उता यातं संगवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य . दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततान ..
एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते . निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावो ऽरुषीर्यन्ति मातरः ..
उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत . अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ..
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः . इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ..
अबोध्यग्निर्ज्म उदेति सूर्यो व्यू३षाश्चन्द्रा मह्यावो अर्चिषा . आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ..
यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् . अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ..
अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः . त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ..
प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः . अच्छा वाजं सहस्रिणम् ..
अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति . हरिस्तुञ्जान आयुधा ..
स मर्मृजान आयुभिरिभो राजेव सुव्रतः . श्येनो न वंसु षीदति ..
स नो विश्वा दिवो वसूतो पृथिव्या अधि . पुनान इन्दवा भर .. १७६४ नवम प्रपाठकः . प्रथमो ऽर्धः
प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा . देवां अनु प्रभूषतः ..
सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा . ज्योतिर्जज्ञानमुक्थ्यम् ..
सुषहा सोम तानि ते पुनानाय प्रभूवसो . वर्धा समुद्रमुक्थ्यम् ..
एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ..
त्वामिच्छवसस्पते यन्ति गिरो न संयतः ..
वि स्रुतयो यथा पथा इन्द्र त्वद्यन्तु रातयः ..
आ त्वा रथं यथोतये सुम्नाय वर्त्तयामसि . तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिम् ..
तुविशुष्म तुविक्रतो शचीवो विश्वया मते . आ पप्राथ महित्वना ..
यस्य ते महिना महः परि ज्मायन्तमीयतुः . हस्ता वज्रं हिरण्ययम् ..
आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो३ नार्व . सूरो न रुरुक्वाञ्छतात्मा ..
अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचनो अस्थात् . होता यजिष्ठो अपां सधस्थे ..
अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या . मर्तो यो अस्मै सुतुको ददाश ..
अग्ने तमद्याष्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृषम् . ऋध्यामा त ओहैः ..
अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः . रथीरृतस्य बृहतो बभूथ ..
एभिर्नो अर्कैर्भवा नो अर्वाङ्क्स्वा३र्ण ज्योतिः . अग्ने विश्वेभिः सुमना अनीकैः ..
अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य . आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः ..
जुष्टो हि दूतो असि हव्यवाहनो ऽग्ने रथीरध्वराणाम् . सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ..
विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार . देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ..
शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीडः . यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ..
ऐभिर्ददे वृष्ण्या पौंस्यानि येभिरौक्षद्वृत्रहत्याय वज्री . ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः ..
अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः . उत स्वराजो अश्विना ..
पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः . त्रिषधस्थस्य जावतः ..
उतो न्वस्य जोषमा इन्द्रः सुतस्य गोमतः . प्रातर्होतेव मत्सति ..
बण्महां असि सूर्य बडादित्य महां असि . महस्ते सतो महिमा पनिष्तम मह्ना देव महां असि ..
बट् सूर्य श्रवसा महां असि सत्रा देव महां असि . मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ..
उप नो हरिभिः सुतं याहि मदानां पते . उप नो हरिभिः सुतम् ..
द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः . उप नो हरिभिः सुतम् ..
त्वं हि वृत्रहन्नेषां पाता सोमानामसि . उप नो हरिभिः सुतम् ..
प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् . विशः पूर्वीः प्र चर चर्षणिप्राः ..
उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः . तस्य व्रतानि न मिनन्ति धीराः ..
इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै . हर्यश्वाय बर्हया समापीन् ..
यदिन्द्र यावतस्त्वमेतावदहमीशीय . स्तोतारमिद्दधिषे रदावसो न पापत्वाय रंसिषम् ..
शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे . न हि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता च न ..
श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम् . कृष्वा दुवांस्यन्तमा सचेमा ..
न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् . सदा ते नाम स्वयशो विवक्मि ..
भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् . मारे अस्मन्मघवञ्ज्योक्कः ..
प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत . अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रह . ४ ९ १ १४०१ए अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ..
त्वं सिन्धूंरवासृजो ऽधराचो अहन्नहिम् . अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यम् . ४ ९ १ १४०२ए तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ..
वि षु विश्वा अरातयो ऽर्यो नशन्त नो धियः . अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति . ४ ९ १ १४०३ए या ते रातिर्ददिवसु नभन्तामन्यकेषां ज्याका अधि धन्वसु ..
रेवां इद्रेवत स्तोता स्यात्त्वावतो मघोनः . प्रेदु हरिवः सुतस्य ..
उक्थं च न शस्यमानं नागो रयिरा चिकेत . न गायत्रं गीयमानम् ..
मा न इन्द्र पीयत्नवे मा शर्धते परा दाः . शिक्षा शचीवः शचीभिः ..
एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् . दिवो अमुष्य शासतो दिवं यय दिवावसो ..
अत्रा वि नेमिरेषामुरां न धूनुते वृकः . दिवो अमुष्य शासतो दिवं यय दिवावसो ..
आ त्वा ग्रावा वदनीह सोमी घोषेण वक्षतु . दिवो अमुष्य शासतो दिवं यय दिवावसो ..
पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः ..
ते सुतासो विपश्चितः शुक्रा वायुमसृक्षत ..
असृग्रं देववीतये वाजयन्तो रथा इव ..
अग्निं होतारं मन्ये दास्वन्तं वसोः सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् . य ऊर्ध्वरो स्वध्वरो देवो देवाच्या कृपा . ४ ९ १ १८०१ए घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ..
यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्रमन्मभिः . परिज्मानमिव द्यां होतारं चर्षणीनाम् . ४ ९ १ १८०२ए शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ..
स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः . वीडु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम् . ४ ९ १ १८०३ए निष्षहमाणो यमते नायते धन्वासहा नायते .. १८१५ नवम प्रपाठकः . द्वितीयो ऽर्धः
अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो . बृहद्भानो शवसा वाजमुक्थ्य३ं दधासि दाशुषे कवे ..
पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना . पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ..
ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः . त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ..
इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य . स दर्शतस्य वपुषो वि राजसि पृणक्षि दर्शतं क्रतुम् ..
इष्कर्त्तारमध्वरस्य प्रचेतसं क्षयन्तं राधसो महः . रातिं वामस्य सुभगां महीमिषं दधासि सानसिं रयिम् ..
ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो जनाः . श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ..
प्र सो अग्ने तवोतिभिः सुविराभिस्तरति वाजकर्मभिः . यस्य त्वं सख्यमाविथ ..
तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे . त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि ..
तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः . तमित्समानं वनिनश्च वीरुधो ऽन्तर्वतीश्च सुवते च विश्वहा ..
अग्निरिन्द्राय पवते दिवि शुक्रो वि राजति . महिषीव वि जायते ..
यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति . यो जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ..
अग्निर्जागार तमृचः कामयन्तेग्निर्जागार तमु सामानि यन्ति . अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ..
नमः सखिभ्यः पूर्वसद्भ्यो नमः साकन्निषेभ्यः . युञ्जे वाचं शतपदीम् ..
युञ्जे वाचं शतपदीं गाये सहस्रवर्त्तनि . गायत्रं त्रैष्टुभं जगत् ..
गायत्रं त्रैष्टुभं जगद्विश्वा रूपाणि सम्भृता . देवा ओकांसि चक्रिरे ..
अग्निर्ज्योतिर्ज्योतिरग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रः . सूर्यो ज्योतिर्ज्योतिः सूर्यः ..
पुनरूर्जा नि वर्त्तस्व पुनरग्न इषायुषा . पुनर्नः पाह्यंहसः ..
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया . विश्वप्स्न्या विश्वतस्परि ..
यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् . स्तोता मे गोसखा स्यात् ..
शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे . यदहं गोपतिः स्याम् ..
धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते . गामश्वं पिप्युषी दुहे ..
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन . महे रणाय चक्षसे ..
यो वः शिवतमो रसस्तस्य भाजयतेह नः . उशतीरिव मातरः ..
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ . आपो जनयथा च नः ..
वात आ वातु बेषजं शम्भु मयोभु नो हृदे . प्र न अयूंषि तारिषत् ..
उत वात पितासि न उत भ्रातोत नः सखा . स नो जीवातवे कृधि ..
यददो वात ते गृहे३ ऽमृतं निहितं गुहा . तस्यो नो देहि जीवसे ..
अभि वाजी विश्वरूपो जनित्रं हिरण्ययं बिभ्रदत्कं सुपर्णः . सूर्यस्य भानुमृतुथा वसानः परि स्वयं मेधमृज्रो जजान ..
अप्सु रेतः शिश्रिये विश्वरूपं तेजः पृथिव्यामधि यत्सम्बभूव . अन्तरिक्षे स्वं महिमानं मिमानः कनिक्रन्ति वृष्णो अश्वस्य रेतः ..
अयं सहस्रा परि युक्ता वसानः सूर्यस्य भानुं यज्ञो दाधार . सहस्रदाः शतदा भूरिदावा धर्त्ता दिवो भुवनस्य विश्पतिः ..
नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा . हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ..
ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यञ्चित्रा बिभ्रदस्यायुधानि . वसानो अत्कं सुरभिं दृशे कं स्व३र्ण नाम जनत प्रियाणि ..
द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् . भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि .. १८४८ नवम प्रपाठकः . तृतीयो ऽर्धः
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् . सङ्क्रन्दनो ऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ..
सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना . तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ..
स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन . सं सृष्टजित्सोमपा बाहुशर्ध्यू३ग्रधन्वा प्रतिहिताभिरस्ता ..
बृहस्पते परि दीया रथेन रक्षोहामित्रां अपबाधमानः . प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् ..
बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः . अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् ..
गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा . इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनु सं रभध्वम् ..
अभि गोत्राणि सहसा गाहमानो ऽदयो वीरः शतमन्युरिन्द्रः . दुश्च्यवनः पृतनाषाडयुध्यो३ ऽस्माकं सेना अवतु प्र युत्सु ..
इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः . देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ..
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् . महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ..
उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनांसि . उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ..
अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु . अस्माकं वीरा उत्तरे भवन्त्वस्मां उ देवा अवता हवेषु ..
असौ या सेना मरुतः परेषामभ्येति न ओजसा स्पर्धमाना . तां गूहत तमसापव्रतेन यथैतेषामन्यो अन्यं न जानात् ..
अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि . अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् ..
प्रेता जयता नर इन्द्रो वः शर्म यच्छतु . उग्रा वः सन्तु बाहवो ऽनाधृष्या यथासथ ..
अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते . गच्छामित्रान्प्र पद्यस्व मामीषां कं च नोच्छिषः ..
कङ्काः सुपर्णा अनु यन्त्वेनान्गृध्राणामन्नमसावस्तु सेना . मैषां मोच्यघहारश्च नेन्द्र वयांस्येनाननुसंयन्तु सर्वान् ..
अमित्रसेनां मघवन्नस्माञ्छत्रुयतीमभि . उभौ तामिन्द्र वृत्रहन्नग्निश्च दहतं प्रति ..
यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव . तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ..
वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज . वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ..
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः . यो अस्मां अभिदासत्यधरं गमया तमः ..
इन्द्रस्य बाहू स्थविरौ युवानावनाधृष्यौ सुप्रतीकावसह्यौ . तौ युञ्जीत प्रथमौ योग आगते याभ्यां जितमसुराणां सहो महत् ..
मर्माणि ते वर्मणा च्छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् . उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ..
अन्धा अमित्रा भवताशीर्षाणो ऽहय इव . तेषां वो अग्निनुन्नानामिन्द्रो हन्तु वरंवरम् ..
यो नः स्वो ऽरणो यश्च निष्ट्यो जिघांसति . देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरं शर्म वर्म ममान्तरम् ..
मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः . सृकं संशाय पविमिन्द्र तिग्मं वि शत्रूं ताढि वि मृधो नुदस्व ..
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवां सस्तनूभिर्व्यशेमहि देवहितं यदायुः ..
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः . स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु .. ४ ९ ३ ०९०३ए ॐ स्वस्ति नो बृहस्पतिर्दधातु .. १८७५ .. इत्युत्तरार्चिकः .. .. इति सामवेदसंहिता समाप्ता..
Usando este texto em trabalho acadêmico? Obter citação formal
TRADIÇÃO VÉDICA (ṚṢIS). Sāmaveda Saṃhitā (Kauthuma Śākhā). Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/samaveda-samhita>. Acesso em: 26/04/2026.
Tradição Védica (Ṛṣis) (2026). Sāmaveda Saṃhitā (Kauthuma Śākhā). Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/samaveda-samhita
Tradição Védica (Ṛṣis). "Sāmaveda Saṃhitā (Kauthuma Śākhā)." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/samaveda-samhita.