Śruti Sāra Samuddhāraṇam
Toṭakācārya
जीमूतमुक्तविमलाम्बरचारुवर्णं वासिष्ठमुग्रतपसं प्रणतोऽस्मि नित्यम् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 सकलं मनसा क्रियया जनितं समवेक्ष्य विनाशितया तु जगत् ।
निरविद्यत कश्चिदतो निखिलादविनाशि कृतेन न लभ्यमिति ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 प्रतिपित्सुरसावविनाशि पदं यतिधर्मरतो यतिमेव गुरुम् ।
विदितात्मसतत्त्वमुपेत्य कविं प्रणिपत्य निवेदितवान्स्वमतम् ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 भगवन्नुदधौ मृतिजन्मजले सुखदुःखझषे पतितं व्यथितम् ।
कृपया शरणागतमुद्धर मामनुशाध्युुपसन्नमनन्यगतिम् ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 विनिवर्त्य रतिं विषये विषमां परिमुच्य शरीरनिबद्धमतिम् ।
परमात्मपदे भव नित्यरतो जहि मोहमयं भ्रममात्ममतेः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 विसृजान्नमायादिषु पञ्चसु तामहमस्मि ममेति मतिं सततम् ।
दृशिरूपमनन्तमृतं विगुणं हृदयस्थमवेहि सदाऽहमिति ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 जलभेदकृता बहुतेव रवेर्घटिकादिकृता नभसोऽपि यथा ।
मतिभेदकृता तु तथा बहुता तव बुद्धिदृशोऽविकृतस्य सदा ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 दिनकृत्प्रभया सदृशेन सदा जनचित्तर (च्चरि)तं सकलं स्वचिता ।
विदितं भवताऽविकृतेन सदा यत एवमतोऽसित एव सदा ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 उपरागमपेक्ष्य मतिर्विषये विषयावधृतिं कुरुते तु यतः ।
तत एव मतेर्विदिताविदिता विषयास्तु ततः परिणामवती ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 मतिवृत्तय आत्मचिता विदिताः सततं हि यतोऽविकृतश्च ततः ।
यदि चाऽऽत्मचितिः परिणामवती मतयो विदिताविदिताः स्युरिमाः ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 चरितं तु धियः सकलं सततं विदितं भवता परिशुद्धाचिता ।
मतिभेदगुणो नहि तेऽस्ति ततो यत एवमतोऽसदृशस्तु धिया ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 विदितत्वमविप्रतिपन्नतया मतिषु प्रगतं विषयेषु यथा ।
यत एवमतः परसंविदिता विदितत्वत एव यथा विषयाः ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 परसंविदिताः सततं हि यतो न विदुः स्वममी विषयास्तु ततः ।
मतयोऽपि तथा परसंविदिता न विदुः स्वममूर्विषयास्तु यथा ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 विषयाकृतिसंस्थितिरेकविधा मनसस्तु सदा व्यवहारविधौ ।
अहमित्यपि तद्विषया त्वपरा मतिवृत्तिरवज्वलिताऽऽत्मचिता ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 पुरुषस्य तु धर्मवदुद्भवति स्वरसेन मतेः स्वमुणोऽपि सती ।
अत आत्मगुणं प्रतियन्ति जना मतिवृत्तिमिमामहमित्यबुधाः ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 यदि सा न भवेज्जनमोहकरी व्यवहारमिमं न जनोऽनुभवेत् ।
विफलश्च तदा विषयानुभवो ज्ञगुणो नहि सेति यदा विदिता ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 उपलभ्यघटादिनिभैव भवेन्मनसो यदि संस्थितिरेकविधा ।
पुरुषस्य चितिश्च न विक्रियते मतिवृत्तिमपेक्ष्य घटादिनिभाम् ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 अवगन्त्रवगम्यचिदात्मधियोरहमित्यभिमानविहीनतया ।
स्थितयोरभिमानपुरःसरकं व्यवहारपथं न जनोऽवतरेत् ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 अहमीक्ष इति प्रथमं हि धिया सुविचिन्त्य ततो विषयाभिमुखम् ।
नयनं प्रहिणोति तथाऽन्यदपि श्रवणादि वियत्प्रमुखस्य गुणे ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 अपहाय न कश्चिदहङ्करणं व्यवहारमुपैति कदाचिदपि ।
उपपन्नतरा हि मतेस्तु ततो व्यवहारपथं प्रति कारणता ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 चितिशक्तिगुणः किमहङ्करणं किमु बुद्धिगुणोऽथ भवेदुभयोः ।
इति चिन्त्यमिदं मनसाऽनलसैरुपपत्तिभिरात्महितं यतिभिः ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 उपलभ्यमहङ्करणं न भवेत्पुरुषस्य गुणो यदि तर्हि भवेत् ।
गुणिरूपमथोऽवययं गुणिनो न विहाय गुणः पृथगस्ति यतः ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 न गुणो गुणिनि स्थितवान् गुणिना विषयी क्रियते न च तस्य गुणैः ।
नहि देशकृता न च वस्तुकृता गुणिनोऽस्ति गुणस्य भिदा तु यतः ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 न परस्परमग्निगुणोऽग्निगतो विषयत्वमुपैति कदाचिदपि ।
नहि बह्निरपि स्वगुणं स्वगतं विषयी कुरुते स्वगुणेन भुवि ॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 कणभुग्यमचीक्लृपदात्मगुणं गुणपूगमनित्यमनात्मगुणम् ।
अनयैव दिशा स निराक्रियतां नहि नित्यमनित्यगुणेन गुणि ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 वियतः प्रभवं प्रवदन्ति यतः श्रुतयो बहुशः खमनित्यमतः ।
उपमानमनित्यगुणं वियतो नहि नित्यमिहास्ति कणादकृते ॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 मनसा पुरुषः पुरुषेण मनो नभसा मुसलं मुसलेन नभः ।
नहि योगवियोगमुपैति कुतोऽवयवित्वनिराकरणादमुतः ॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 इह रज्जुघटादि हि सावयवं समुपैति युजामितरेतरतः ।
इति दृष्टमतोऽन्यददृष्टमपि स्वयमूह्यमिदं त्वपरित्यजता ॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 नहि सावयवं विगतावयवैर्विगतावयवं न च सावयवैः ।
उपयाति युजामिति दृष्टमिदं यत एवमतः स्थितमुक्तमदः ॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 नहि कल्पितभागसमागमनं विगतावयवस्य घटेत कुतः ।
वितथत्वमतिः सुदृढा तु यतः परिकल्पितवस्तुषु इत्यमुतः ॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 इह वेदशिरःसु तदर्थविदः प्रवदन्ति समस्तजगत्प्रकृतिम् ।
परमात्मपदं दृशिमात्रवपुर्ध्रुवमेकमतोऽन्यदनित्यमिति ॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 अत एव न किञ्चिदुदाहरणं ध्रुवमस्ति परस्य विनाशिगुणम् ।
यत एवमतः स्थितमुक्तमदो नहि नित्यमनित्यगुणेन गुणि ॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】 उपलभ्यमहङ्करणं भवितुं क्षमते दृशिरूपगुणो न यतः ।
विषयाकृतिरञ्जितधीगुणवद् विषयत्वमहङ्करणस्य ततः ॥ ३३ ॥ 【भाष्यम्】 【भाष्यम्】 विषयप्रकृतिं प्रतिपन्नवतीं मतिवृत्तिमहङ्करणं च मतेः ।
उभयं परिपश्यति योऽविकृतः परमात्मसदुक्तिरसौ पुरुषः ॥ ३४ ॥ 【भाष्यम्】 【भाष्यम्】 ननु देहभृदेष कथं भवताऽभिहितः परमात्मसदुक्तिरिति ।
न विरुद्धमवादिषमेतदहं श्रुतिरप्यमुमर्थमुवाच यतः ॥ ३५ ॥ 【भाष्यम्】 【भाष्यम्】 अमतं न मतेरमतस्तदिदं यदमुत्र तदेव तु कश्चिदिति ।
श्रुतिषु प्रतिपादितमस्य दृशेः परमात्मपदत्वममूषु भृशम् ॥ ३६ ॥ 【भाष्यम्】 【भाष्यम्】 यदनभ्युदितं वदनेन सदा नयनेन च पश्यति यन्न सदा ।
श्रवणेन च यन्न शृणोति सदा मनसाऽपि च यन्मनुते न सदा ॥ ३७ ॥ 【भाष्यम्】 【भाष्यम्】 वदनं नयनं च तथा श्रवणं मन एव च येन मतं सततम् ।
अवगच्छ तदेव पदं परमं त्वमिति श्रुतिरीक्षितुरुक्तवती ॥ ३८ ॥ 【भाष्यम्】 【भाष्यम्】 परमात्मपदत्व इयं च मया श्रुतिरल्पकणोक्तिरिहाभिहिता ।
अणिमादिगुणं सदिति प्रकृतं तदसि त्वमिति श्रुतिरप्यवदत् ॥ ३९ ॥ 【भाष्यम्】 【भाष्यम्】 नभसोऽवयवो विकृतिश्च यथा घटकादिनभो न भवेत्तु तथा ।
परमात्मन एष न चावयवो विकृतिश्च शरीरभृदित्यमृषा ॥ ४० ॥ 【भाष्यम्】 【भाष्यम्】 करकादिनिमित्तकमेव यथा करकाम्बरनाम भवेद्वियतः ।
परमात्मदृशेरपि नाम तथा पुरहेतुकमेव तु जीव इति ॥ ४१ ॥ 【भाष्यम्】 【भाष्यम्】 जनितं वियदग्रणि येन जगत्परमात्मसदक्षरनामभृता ।
प्रविवेश स एव जगत्स्वकृतं खमिवेह घटं घटसृष्टिमनु ॥ ४२ ॥ 【भाष्यम्】 【भाष्यम्】 उदपद्यत खप्रमुखं हि जगत्परमात्मन इत्यपि याः श्रुतयः ।
अवधार्यत आभिरभेदमतिः परमात्मसतत्त्वसमर्पणतः ॥ ४३ ॥ 【भाष्यम्】 【भाष्यम्】 यदि सृष्टिविधानपरं वचनं फलशून्यमनर्थकमेव भवेत् ।
जगदित्थमजायत धातुरिति श्रवणं पुरुषस्य फलाय न हि ॥ ४४ ॥ 【भाष्यम्】 【भाष्यम्】 अनृतत्वमवाद्यसकृद्विकृतेर्निरधारि सदेव तु सत्यमिति ।
श्रुतिभिर्बहुधैतदतोऽवगतं जगतो न हि जन्म विधेयमिति ॥ ४५ ॥ 【भाष्यम्】 【भाष्यम्】 न च तत्त्वमसीत्यसकृद्वचनं जगतो जनिमात्रविधौ घटते ।
परमात्मपदानुमतिं तु यदा जनयेत्पुरुषस्य तदा घटते ॥ ४६ ॥ 【भाष्यम्】 【भाष्यम्】 स्थिरजङ्गमदेहधियां चरितं परिपश्यति योऽविकृतः पुरुषः ।
परमात्मसदुक्तिरसाविति यद्भणितं तदतिष्ठिपमित्थमहम् ॥ ४७ ॥ 【भाष्यम्】 【भाष्यम्】 पृथगेव यदाऽक्षरतो मतिविन्मकरोदकवन्न घटाम्बरवत् ।
न विरोत्स्यति तत्त्वमसीति तदा वचनं कथमेष स इत्यपि च ॥ ४८ ॥ 【भाष्यम्】 【भाष्यम्】 न तु वस्तुसतत्त्वविबोधनकृद्विनिवर्तयदप्रतिबोधमिदम् ।
सदुपासनकर्मविधानपरं तत एव मतं न विरोत्स्यति मे ॥ ४९ ॥ 【भाष्यम्】 【भाष्यम्】 मनआदिषु कारणदृष्टिविधिः प्रतिमासु च देवधियां करणम् ।
स्वमतिं त्वनपोह्य यथा हि तथा त्वमसीति सदात्ममतिर्वचनात् ॥ ५० ॥ 【भाष्यम्】 【भाष्यम्】 अथवा त्वमितिध्वनिवाच्यमिदं सदसीति वदेद्वचनं गुणतः ।
विभयं पुरुषं प्रवदन्ति यथा मृगराडयमीश्वरगुप्त इति ॥ ५१ ॥ 【भाष्यम्】 【भाष्यम्】 यदि वा स्तुतये सदसीति वदेन्मघवानसि विष्णुरसीति यथा ।
त्वमितिश्रुतिवाच्यसतत्त्वकतामथवा सत एव वदेद्वचनम् ॥ ५२ ॥ 【भाष्यम्】 【भाष्यम्】 यदि तत्त्वमिति ध्वनिनाऽभिहितः परमात्मसतत्त्वक एव सदा ।
किमिति स्वकमेव न रूपमवेत्प्रतिबोध्यत एव यतो वचनैः ॥ ५३ ॥ 【भाष्यम्】 【भाष्यम्】 अत एव हि जीवसदात्मकतां नहि तत्त्वमसीति वदेद्वचनम् ।
यदपीदृशमन्यदतो वचनं तदपि प्रथयेदनयैव दिशा ॥ ५४ ॥ 【भाष्यम्】 【भाष्यम्】 त्वदुदाहृतवाक्यविलक्षणता वचनस्य हि तत्त्वमसीति यतः ।
अत एव न दृष्टिविधानपरं सत एव सदात्मकतागमकम् ॥ ५५ ॥ 【भाष्यम्】 【भाष्यम्】 इति शब्दशिरस्कपदोक्तमतिर्विहिता मनआदिषु तैर्वचनैः ।
न विधानमिहास्ति तथा वचने सुविलक्षणमेतदतो वचनात् ॥ ५६ ॥ 【भाष्यम्】 【भाष्यम्】 मनसो वियतः सवितृप्रभृतेः प्रवदन्ति न तानि सदात्मकताम् ।
मनआदि हि मुख्यमुपास्यतया प्रवदन्ति यतोऽक्षरदृष्टियुतम् ॥ ५७ ॥ 【भाष्यम्】 【भाष्यम्】 करको न मृदः पृथगस्ति यथा मनआदि सतोऽस्ति तथा न पृथक् ।
इति वस्तुसतत्त्वकता तु यथा विधिशब्द इतिश्च तथा तु वृथा ॥ ५८ ॥ 【भाष्यम्】 【भाष्यम्】 मनआदिसमानविभक्तितया विधिशब्दमितिं च विहाय यदि ।
जनकेन सता सहयोगमियादनृतं तदिति स्फुटमुक्तमभूत् ॥ ५९ ॥ 【भाष्यम्】 【भाष्यम्】 ननु जीवसतोरपि तत्त्वमिति स्फुटमेकविभक्त्यभिधानमिदम् ।
कथमस्य शरीरभृतोऽनृतता न भवेदविभक्तविभक्तियुजः ॥ ६० ॥ 【भाष्यम्】 【भाष्यम्】 प्रकृतेरभिधानपदेन यथा विकृतेरभिधानमुपैति युजाम् ।
अनृतत्वमतिस्तु तथा विकृतौ मृदयं घट इत्यभिधासु यथा ॥ ६१ ॥ 【भाष्यम्】 【भाष्यम्】 विकृतित्वमवादि मनःप्रभृतेर्बहुशः श्रुतिषु प्रकृतेस्तु सतः ।
अत एव समानविभक्तितया मनआदि सुवेद्यमसत्यमिति ॥ ६२ ॥ 【भाष्यम्】 【भाष्यम्】 जनितत्वमवादि नहि श्रुतिभिर्जनकेन सताऽस्य शरीरभृतः ।
मनआदिविकारविलक्षणतां प्रतियन्ति शरीरभृतस्तु ततः ॥ ६३ ॥ 【भाष्यम्】 【भाष्यम्】 यदजीजनदम्बरपूर्वमिदं जगदक्षरमीक्षणविग्रहकम् ।
प्रविवेश तदेव जगत्स्वकृतं स च जीवसमाख्य इति श्रुतयः ॥ ६४ ॥ 【भाष्यम्】 【भाष्यम्】 परमात्मविकारविभक्तमतिर्न भवत्यत एव शरीरभृतः ।
यत एव विकारविभिन्नमतिर्न भवत्यत एव मृषात्वमतिः ॥ ६५ ॥ 【भाष्यम्】 【भाष्यम्】 अविभक्तविभक्त्यभिधानकृता परमात्मपदेन शरीरभृतः ।
न भवेदिह तत्त्वमसिप्रभृतौ लवणं जलमित्यभिधासु यथा ॥ ६६ ॥ 【भाष्यम्】 【भाष्यम्】 परमात्मविकारनिराकरणं कृतमस्य शरीरभृतस्तु यतः ।
परमेश्वररूपविलक्षणता न मनागपि देहभृतोऽस्ति ततः ॥ ६७ ॥ 【भाष्यम्】 【भाष्यम्】 ननु जीवसतोरणुमात्रमपि स्वगतं न विशेषणमस्ति यदा ।
वद तत्त्वमसीति तदा वचनं किमु वक्ति तथैष त इत्यपि च ॥ ६८ ॥ 【भाष्यम्】 【भाष्यम्】 स्वगतं यदि भेदकमिष्टमभूदणुमात्रमपीश्वरदेहभृतोः ।
अपनेतुमशक्यमदो वचनैरमुनाऽस्य पृथक्त्वनिषेधपरैः ॥ ६९ ॥ 【भाष्यम्】 【भाष्यम्】 इह यस्य च यो गुण आत्मगतः स्वत एव न जातु भवेत्परतः ।
वचनेन न तस्य निराकरणं क्रियते स गुणः सहजस्तु यतः ॥ ७० ॥ 【भाष्यम्】 【भाष्यम्】 वचनं त्ववबोधकमेव यतस्तत एव न वस्तुविपर्ययकृत् ।
ऩहि वस्त्वपि शब्दवशात्प्रकृतिं प्रजहात्यनवस्थितिदोषभयात् ॥ ७१ ॥ 【भाष्यम्】 【भाष्यम्】 यत एवमतो विषयस्य गुणं विषयेण सहात्मनि मूढधिया ।
अधिरोपितमप्स्विव भूमिगुणं प्रतिषेधति तत्त्वमसीति वचः ॥ ७२ ॥ 【भाष्यम्】 【भाष्यम्】 अत एव न दृष्टिविधानपरं गुणवादपरं च न तद्वचनम् ।
स्तुतिवाद्यपि नैतदुपास्यतया विधिरत्र न देहभृतोऽस्ति यतः ॥ ७३ ॥ 【भाष्यम्】 【भाष्यम्】 सत एव हि नाम जगत्प्रकृतेरुपधानवशादिह जीव इति ।
अत एव न जीवसतत्त्वकतां प्रकृतस्य सतः प्रतिपादयति ॥ ७४ ॥ 【भाष्यम्】 【भाष्यम्】 यदि जीवसतत्त्वकतां गमयेदणिमादिगुणस्य जगत्प्रकृतेः ।
अणिमादिगुणोक्तिकताऽस्य मृषा यदि वाऽस्य शरीरभृदात्मकता ॥ ७५ ॥ 【भाष्यम्】 【भाष्यम्】 इह संसृतिहेतुनिराकरणं कृतमस्य शरीरभृतोऽभिमतम् ।
परमेश्वरमात्मतया ब्रुवता वचनेन च तत्त्वमसीत्यमुना ॥ ७६ ॥ 【भाष्यम्】 【भाष्यम्】 त्वमसीति पदद्वयमेति युजां तदिति ध्वनिना सह तत्त्वमिति ।
क्रियया सह नामपदं समियान्निरपेक्षमुपैत्यनया हि युजाम् ॥ ७७ ॥ 【भाष्यम्】 【भाष्यम्】 नहि नामसहस्रमपि क्रियया रहितं किमपि प्रतिपादयति ।
प्रतिपादकमेषु लिङादि भवेद्विहितादिमतेर्जनकं हि यतः ॥ ७८ ॥ 【भाष्यम्】 【भाष्यम्】 भगवानपि मध्यममेव यतो विनियच्छति युष्मदि नित्यमतः ।
प्रथमं त्वमसीति पदे समितश्चरमं त्वसिना समियात्तदिति ॥ ७९ ॥ 【भाष्यम्】 【भाष्यम्】 पुरुषोऽभिहितस्त्वमसीति यदा किमसानि वदेति तदाऽभिमुखः ।
श्रवणाय भवेदणिमादिगुणं सदिति प्रकृतं तदसीति वदेत् ॥ ८० ॥ 【भाष्यम्】 【भाष्यम्】 त्वमिति ध्वनिनाऽभिहितस्य यतस्तदितिश्रुतिवाच्यसदात्मकताम् ।
अवदद्वचनं तत एव सतो नहि जीवसतत्त्वकतां वदति ॥ ८१ ॥ 【भाष्यम्】 【भाष्यम्】 विषयाभिमुखानि (णि) शरीरभृतः स्वरसेन सदा करणानि यतः ।
स्वकमेष न रूपमवैति ततः प्रतिबोध्यत एव ततो वचनैः ॥ ८२ ॥ 【भाष्यम्】 【भाष्यम्】 वचनं च पराञ्चिपुरःसरकं बहु वैदिकमत्र तथा स्मरणम् ।
विषयेषु च नावमिवाम्भसि यन्मनसेन्द्रियरश्मिविनिग्रहवत् ॥ ८३ ॥ 【भाष्यम्】 【भाष्यम्】 इयता हि न देहभृतोऽस्ति भिदा परमात्मदृशेरिति वाच्यमिदम् ।
स्थितिकाल इहापि च सृष्टिमुखे सदनन्यतया श्रुत एष यतः ॥ ८४ ॥ 【भाष्यम्】 【भाष्यम्】 द्वयमप्यविरोधि शरीरभृतो वचनीयमिदं रघुनन्दनवत् ।
उपदेशमपेक्ष्य सदाऽऽत्ममतिः परमात्मसतत्त्वकता च सदा ॥ ८५ ॥ 【भाष्यम्】 【भाष्यम्】 सदुपासनमस्य विधेयतया वचनस्य मम प्रतिभाति यतः ।
अत एव न जीवसदात्मकतां प्रतिबोधयतीत्यवदत्तदसत् ॥ ८६ ॥ 【भाष्यम्】 【भाष्यम्】 सदुपास्य इति श्रुतिरत्र न न ते तदसि त्वमिति श्रुतिरेवमियम् ।
यत एवमतो न विधित्सितता सदुपासनकर्मण इत्यमृषा ॥ ८७ ॥ 【भाष्यम्】 【भाष्यम्】 यदि तस्य कुतश्चिदिहाऽऽनयनं क्रियते तदनर्थकमेव भवेत् ।
पुरुषेण कृतस्य यतः श्रुतिता न भवेदिति वेदविदां स्मरणम् ॥ ८८ ॥ 【भाष्यम्】 【भाष्यम्】 किमरे पुरुषं प्रतिबोधयितुं स्वकमर्थमशक्तमिदं वचनम् ।
यदतोऽन्यत आनयनं क्रियते भवता श्रवणेन विनाऽपि विधेः ॥ ८९ ॥ 【भाष्यम्】 【भाष्यम्】 श्रुतहानिरिहाश्रुतक्लृप्तिरपि श्रुतिवित्समयो न भवेत्तु यतः ।
श्रुतिभक्तिमता श्रुतिवक्तृगतं ग्रहणीयमतो न तु बुद्धिवशात् ॥ ९० ॥ 【भाष्यम्】 【भाष्यम्】 पुरुषम्य शरीरगतात्ममतिं मृतिसम्भवहेतुमनर्थकरीम् ।
अपनीय सदात्ममतिं दधती महते पुरुषस्य हिताय भवेत् ॥ ९१ ॥ 【भाष्यम्】 【भाष्यम्】 विनिवर्तत एव शरीरगता विपरीतमतिः पुरुषस्य तदा ।
वचनेन तु तत्त्वमसीति यदा प्रतिबोध्यत एष त इत्यपि च ॥ ९२ ॥ 【भाष्यम्】 【भाष्यम्】 यदि नापनयेच्छ्रुतिरात्ममतिं पुरुषस्य शरीरगतामनृताम् ।
तदहंमतिहेतुककर्मगतिं सुखदुःखफलामवशोऽनुभवेत् ॥ ९३ ॥ 【भाष्यम्】 【भाष्यम्】 यदि तत्त्वमसीति वदेद्वचनं सदुपासनकर्म न तत्त्वमतिम् ।
पुरुषस्य फलं सदुपासनतो विमृशामि भविष्यति कीदृगिति ॥ ९४ ॥ 【भाष्यम्】 【भाष्यम्】 पुरुषस्य तु मर्त्यगुणस्य भवेत्सदुपासनया न सदात्मकता ।
न कथञ्चिदपि प्रजहाति यतः प्रकृतिं सहजामिह कश्चिदपि ॥ ९५ ॥ 【भाष्यम्】 【भाष्यम्】 यदि देहभृदेष सदात्मकतां प्रगमिष्यति वै सदुपासनया ।
न जिहासति रूपमसौ न निजं यत ऐक्यगतिर्न भवत्युभयोः ॥ ९६ ॥ 【भाष्यम्】 【भाष्यम्】 रसविद्धमयः प्रकृतिं सहजां प्रविहाय यथा कनकत्वमियात् ।
पुरुषोऽपि तथा सदुपासनया प्रतिपत्स्यत एव सदात्मकताम् ॥ ९७ ॥ 【भाष्यम्】 【भाष्यम्】 अयसोऽवयवानभिभूय रसः स्थितवाननलानुगृहीतिमनु ।
कनकत्वमतिं जनयत्ययसि प्रतिपन्नमयो न तु काञ्चनताम् ॥ ९८ ॥ 【भाष्यम्】 【भाष्यम्】 उदकावयवानभिभूय पयो रजतावयवांश्च यथा कनकम् ।
विपरीतमतिं जनयत्युदके रजते च तथाऽयसि हेममतिम् ॥ ९९ ॥ 【भाष्यम्】 【भाष्यम्】 रसवीर्यविपाकविनाशमनु प्रविनश्यति काञ्चनताऽप्ययसः ।
कृतकं हि न नित्यमतिप्रगतं समवेतमवश्यमुपैति यतः ॥ १०० ॥ 【भाष्यम्】 【भाष्यम्】 अमृतत्वमसत्पुरुषस्य यदि क्रियते सदुपासनया यजिवत् ।
यजिकार्यवदन्तवदेव भवेत्कृतकस्य यतो विदिताऽध्रुवता ॥ १०१ ॥ 【भाष्यम्】 【भाष्यम्】 पुरुषस्य सतश्च विधर्मकयोः सदुपासनया न भवेत्समितिः ।
यदि सङ्गतिरिष्यत एव तयोरविमुक्ततया न चिरं वसतः ॥ १०२ ॥ 【भाष्यम्】 【भाष्यम्】 फलमीदृगिदं सदुपासनतः पुरुषस्य भविष्यति नान्यदतः ।
न च तन्निरवद्यतयाऽभिमतं विदुषां बहुदोषसमीक्षणतः ॥ १०३ ॥ 【भाष्यम्】 【भाष्यम्】 सदुपासनकर्मविधानपरं न भवेदत एव हि तद्वचनम् ।
अहमस्मि शरीरमिदं च ममेत्यविवेकमतिं विनिवर्तयति ॥ १०४ ॥ 【भाष्यम्】 【भाष्यम्】 सकलोपनिषत्सु शरीरभृतः परमात्मपदैकविभक्तितया ।
उपदेशवचांस्यनयैव दिशा गमयेन्मतिमानभियुक्ततया ॥ १०५ ॥ 【भाष्यम्】 【भाष्यम्】 द्रविडोऽपि च तत्त्वमसीति वचो विनिवर्तकमेव निरूपितवान् ।
शबरेण विवर्धितराजशिशोर्निजजन्मविदुक्तिनिदर्शनतः ॥ १०६ ॥ 【भाष्यम्】 【भाष्यम्】 यत एवमतः स्वशरीरगतामहमित्यविवेकमतिं सुदृढाम् ।
प्रविहाय यदक्षरमद्वयकं त्ममवेहि तदक्षरमात्मतया ॥ १०७ ॥ 【भाष्यम्】 【भाष्यम्】 न मनो न मतिः करणानि च नो न रजो न तमो न च सत्त्वमपि ।
न मही न जलं न च वह्निरपि श्वसनो न नभश्च पदं परमम् ॥ १०८ ॥ 【भाष्यम्】 【भाष्यम्】 अमनस्कमबुद्धिमनिन्द्रियकमरजस्कमसत्त्वतमस्कमपि ।
अमहीजलवह्न्यनिलाम्बरकं परमक्षरमात्मतयाऽऽश्रय भोः ॥ १०९ ॥ 【भाष्यम्】 【भाष्यम्】 करणानि हि यद्विषयाभिमुखं प्रगमय्य मतिर्विषयेषु चरेत् ।
तदु जागरितं प्रवदन्ति बुधा न तदस्ति ममेत्यवगच्छ दृशेः ॥ ११० ॥ 【भाष्यम्】 【भाष्यम्】 करणानि यदोपरतानि तदा विषयानुभवाहितवासनया ।
विषयेण विना विषयप्रतिमं स्फुरणं स्वपनं प्रवदन्ति बुधाः ॥ १११ ॥ 【भाष्यम्】 【भाष्यम्】 करणस्य धियः स्फुरणेन विना विषयाकृतिकेन तु या स्थितता ।
प्रवदन्ति सुषुप्तिममूं हि बुधा विनिवृत्ततृषः श्रुतितत्त्वविदः ॥ ११२ ॥ 【भाष्यम्】 【भाष्यम्】 इति जागरितं स्वपनं च धियः क्रमतोऽक्रमतश्च सुषुप्तमपि ।
न कदाचिदपि त्रयमस्ति ममेत्यवगच्छ तदाऽस्मि तुरीयमिति ॥ ११३ ॥ 【भाष्यम्】 【भाष्यम्】 यदु जागरितप्रभृतित्रितयं परिकल्पितमात्मनि मूढधिया ।
अभिधानमिदं तदपेक्ष्य भवेत्परमात्मपदस्य तुरीयमिति ॥ ११४ ॥ 【भाष्यम्】 【भाष्यम्】 यदपेक्ष्य भवेदभिधानमिदं परमात्मपदस्य तुरीयमिति ।
तदसत्यमसत्यगुणश्च ततः परिनिर्मितवारणचेष्टितवत् ॥ ११५ ॥ 【भाष्यम्】 【भाष्यम्】 गगनप्रमुखं पृथिवीचरमं विषयेन्द्रियबुद्धिमनःसहितम् ।
जनिमज्जगदेतदभूतमिति श्रुतयः प्रवदन्त्युपमानशतैः ॥ ११६ ॥ 【भाष्यम्】 【भाष्यम्】 कफपित्तसमीरणधातुधृतं कुशरीरमिदं सततं हि यथा ।
प्रभवप्रभृति प्रलयान्तमिदं जगदग्निरवीन्दुधृतं हि तथा ॥ ११७ ॥ 【भाष्यम्】 【भाष्यम्】 जगतः स्थितिकारणमित्थमिदं प्रथितं रविवह्निशशित्रितयम् ।
स्मृतिवेदजनेषु भृशं यदिति श्रुतिरीरितवत्यनृनं तदिति ॥ ११८ ॥ 【भाष्यम्】 【भाष्यम्】 यदु रोहितशुक्लसुकृष्णामिदं ज्वलनादिषु रूपमवैति जनः ।
तदु तैजसमाप्यमथान्नमिति ब्रुवती त्रयमेव तु सत्यमिति ॥ ११९ ॥ 【भाष्यम्】 【भाष्यम्】 रुचकप्रमुखं कनकादिमयं रुचकाद्यभिधाननिमित्तमिति ।
असदित्यवगम्यत एव यतो व्यभिचारवती रुचकादिमतिः ॥ १२० ॥ 【भाष्यम्】 【भाष्यम्】 न कदाचिदपि व्यभिचारवती कनकादिमतिः पुरुषस्य यतः ।
तत एव हि सत्यतयाऽभिमतं कनकादि विपर्यय एषु नहि ॥ १२१ ॥ 【भाष्यम्】 【भाष्यम्】 रुचकादिसमं ज्वलनादि भवेदनृतत्वगुणेन तु सत्यतया ।
अरुणप्रमुखं ज्वलनप्रभृतिप्रकृतित्रितयं कनकादिसमम् ॥ १२२ ॥ 【भाष्यम्】 【भाष्यम्】 अनयोपमयाऽनृततामवदच्छ्रुतिरग्निदिवाकरचन्द्रमसाम् ।
अमृषात्वमपि श्रुतिरुक्तवती त्रितयस्य तु रक्तपुरःसरिणः ॥ १२३ ॥ 【भाष्यम्】 【भाष्यम्】 अनृतत्वमिदं ज्वलनप्रभृतेर्यदवादि भवेत्तदुदाहरणम् ।
वितथा विकृतिः सततं सकला न तथा प्रकृतिः श्रुतिनिश्चयतः ॥ १२४ ॥ 【भाष्यम्】 【भाष्यम्】 प्रदिदर्शयिषुर्वसनस्य यथा वितथत्वमपास्यति तन्तुगुणम् ।
अपकृष्य तु तन्तुसमं त्रितयं ज्वलनप्रमुखस्य तथोक्तवती ॥ १२५ ॥ 【भाष्यम्】 【भाष्यम्】 अवनिप्रमुखं वियदन्तमिदं विकृतिस्तु परस्य भवत्यपरम् ।
अनृतं त्वपरं विकृतिस्तु यतोऽवितथं तु परं प्रकृतिस्तु यतः ॥ १२६ ॥ 【भाष्यम्】 【भाष्यम्】 अत एतदसेधि सदुक्ति परं न मृषेति मृषा तु ततोऽन्यदिति ।
इति सिद्धमतो यदवादि मया जनिमज्जगदेतदभूतमिति ॥ १२७ ॥ 【भाष्यम्】 【भाष्यम्】 मनसोऽप्यनृतत्वमसेध्यमुतः प्रतिपादितहेतुत एव भवेत् ।
चरितं च तदीयमसत्यमतः परिनिर्मितवारणचेष्टितवत् ॥ १२८ ॥ 【भाष्यम्】 【भाष्यम्】 ननु नाभ्यवदच्छ्रुतिरुद्भवनं मनसस्तु सतो न च खप्रमुखात् ।
कथमस्य भवेदनृतत्वगतिर्मनसो भगवन् वद निश्चयतः ॥ १२९ ॥ 【भाष्यम्】 【भाष्यम्】 ननु सप्तम आत्मन उद्भवनं मनसोऽभिदधावसुनाऽपि सह ।
कथमस्य भवेदमृतत्वगतिर्मनसो विकृतित्वगुणस्य वद ॥ १३० ॥ 【भाष्यम्】 【भाष्यम्】 असुना करणैर्गगनप्रमुखैः सह मुण्डक उद्भवनं मनसः ।
पुरुषात्परमात्मन उक्तमतो वितथं मन इत्यवधारय भोः ॥ १३१ ॥ 【भाष्यम्】 【भाष्यम्】 मनसोऽन्नमयत्वमवादि यतस्तत एव हि भूतमयत्वगतिः ।
कुशरीरवदेव ततोऽपि भृशं वितथं मन इत्यवधारय भोः ॥ १३२ ॥ 【भाष्यम्】 【भाष्यम्】 कुरु पक्षमिमं गगनप्रमुखं जनिमत्सकलं नहि सत्यमिति ।
प्रथमं चरमं च न चास्ति यतो रुचकादिवदित्युपमां च वद ॥ १३३ ॥ 【भाष्यम्】 【भाष्यम्】 कनके रुचकादि न पूर्वमभूच्चरमं च न विद्यत इत्यनृतम् ।
अधुनाऽपि तथैव समस्तमिदं जनिमद्वियदादि भवेदनृतम् ॥ १३४ ॥ 【भाष्यम्】 【भाष्यम्】 कनकादिषु यद्युपजातमभूद्रुचकप्रमुखं पृथगेव ततः ।
अधिकं परिमाणममीषु कुतो न भवेदिति वाच्यमवश्यमिदम् ॥ १३५ ॥ 【भाष्यम्】 【भाष्यम्】 कनकप्रभृतेर्व्यतिरिक्तमतो रुचकादि न विद्यत एव कुतः ।
पृथगग्रहणात्कनकप्रभृतेरिति कारणमेव सदन्यदसत् ॥ १३६ ॥ 【भाष्यम्】 【भाष्यम्】 ननु नाम पृथग्विकृतेः प्रकृतेरथ रूपमथापि च कार्यमतः ।
कथमव्यतिरिक्ततयाऽवगमः प्रकृतेर्विकृतेरिति वाच्यमिदम् ॥ १३७ ॥ 【भाष्यम्】 【भाष्यम्】 इह वीरणतन्तुसुवर्णमृदः कटशाटकहारघटाकृतयः ।
उपलब्धृजनैरूपलब्धमतो न भिदाऽस्ति ततः प्रकृतेर्विकृतेः ॥ १३८ ॥ 【भाष्यम्】 【भाष्यम्】 विकृतिर्यदि नास्ति पृथक् प्रकृतेर्न घटेत भिदाऽप्यभिधाप्रभृतेः ।
इति धीर्विफला तव येन जनैर्विविदे नयनेन मृदाद्यभिदा ॥ १३९ ॥ 【भाष्यम्】 【भाष्यम्】 ननु रूपमथो अपि कार्यमथो अभिधाऽपि नटस्य पृथग् विदिता ।
न पृथक्त्वमुपैति नटः किमिति प्रतिवाच्यमवश्यमिदं कुशलैः ॥ १४० ॥ 【भाष्यम्】 【भाष्यम्】 असतो न कथञ्चन जन्म भवेत्तदसत्त्वत एव खपुष्पमिव ।
न सतोऽस्ति भवः पुरुतोऽपि भवाद्यत आत्मवदेव सदिष्टमिति ॥ १४१ ॥ 【भाष्यम्】 【भाष्यम्】 कपिलासुरपञ्चशिखादिमतं परिगृह्य वदेद्यदि कश्चिदिदम् ।
न कदा चन जन्म वदामि सतः प्रवदामि तु यच्छृणु तत्त्वमपि ॥ १४२ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकृतावविशिष्टतया यदभूदधुना तु तदेव विशेषयुतम् ।
निरवद्यमिदं प्रतिभाति मम प्रवदात्र विरोधमवैषि यदि ॥ १४३ ॥ 【भाष्यम्】 【भाष्यम्】 सदयुज्यत येन गुणेन पुरा प्रकृतौ स इहास्ति न वेति वद ।
यदि विद्यत एव पुरा प्रकृतावधुनाऽपि विशेषयुतत्वमसत् ॥ १४४ ॥ 【भाष्यम्】 【भाष्यम्】 यदि नास्ति पुरा स गुणः प्रकृतावसदुद्भवनं भवतोऽभिमतम् ।
जननेन च सत्त्वमुपात्तवतो जनिमत्त्वत एव विनष्टिरपि ॥ १४५ ॥ 【भाष्यम्】 【भाष्यम्】 भवतोऽभिमतं परिहर्तुमिदं न कथञ्चन शक्यत इत्यमुतः ।
कणभक्षमतेन समत्वमिदं भवतोऽभिमतं शनकैरगमत् ॥ १४६ ॥ 【भाष्यम्】 【भाष्यम्】 असतो भवनं नशनं च सतः कणभोजिमतं विदितं कविभिः ।
उपपत्तिविरुद्धतया सुभृशं तदभाणि मयाऽपि विरुद्धतया ॥ १४७ ॥ 【भाष्यम्】 【भाष्यम्】 प्रतिषिद्धमिदं कणभोजिमतं हरिणाऽपि समस्तगुरोर्गुरुणा ।
वचनेन तु नासत इत्यमुना ब्रुवता च पृथातनयाय हितम् ॥ १४८ ॥ 【भाष्यम्】 【भाष्यम्】 असतश्च सतश्च न जन्म भवेदिति पूर्वमवाद्युपपत्तियुतम् ।
सदसच्च न जायत एव कुतो नहि वस्तु तथाविधमस्ति यतः ॥ १४९ ॥ 【भाष्यम्】 【भाष्यम्】 सदसत्त्वमतीत्य मनःप्रभृतेर्न कथञ्चन वृत्तिरिहास्ति यतः ।
तत एव मनःप्रमुखस्य भवो न भवेदिति सर्वसुवेद्यमिति ॥ १५० ॥ 【भाष्यम्】 【भाष्यम्】 यदि नाम कथञ्चिदमुष्य भवः सदसत्त्वमपेक्ष्य भविष्यति वः ।
अमृषात्वममुष्य तथाऽपि न तु श्रुतिरस्य मृषात्वमुवाच यतः ॥ १५१ ॥ 【भाष्यम्】 【भाष्यम्】 मनसोऽनृततैवमवादि यतस्तत एव हि तस्य मृषा चरितम् ।
यत एव मृषा मनसश्चरितं तत एव पुरोदितसिद्धिरभूत् ॥ १५२ ॥ 【भाष्यम्】 【भाष्यम्】 यदपेक्ष्य तु नाम भवेत्त्रितयं परमात्मपदस्य तुरीयमिति ।
तदसत्यमसत्यगुणस्तु यतः परिनिर्मितसर्पविसर्पणवत् ॥ १५३ ॥ 【भाष्यम्】 【भाष्यम्】 निखिलस्य मनःप्रमुखस्य यतो वितथत्वमवादि पुरा तु मया ।
श्रुतियुक्तिबलेन ततोऽद्वयकं परमक्षरमेव सदन्यदसत् ॥ १५४ ॥ 【भाष्यम्】 【भाष्यम्】 यदपूर्वमबाह्यमनन्तरकं न च किञ्चन तस्य भवत्यपरम् ।
इति वेदवचोनुऽशशास यतो वितयं परतोऽन्यदतः प्रगतम् ॥ १५५ ॥ 【भाष्यम्】 【भाष्यम्】 प्रतिषिध्य यतो बहिरन्तरपि स्वविलक्षणमात्मन उक्तवती ।
अववोधघनत्वमतोऽन्यदसल्लवणैकरसत्वनिदर्शनतः ॥ १५६ ॥ 【भाष्यम्】 【भाष्यम्】 लवणैकरसत्वसमं भणितं स्वविलक्षणवस्तुनिषेधनतः ।
अवबोधघनं परमात्मपदं त्वमवेहि तदस्मि सदाऽहमिति ॥ १५७ ॥ 【भाष्यम्】 【भाष्यम्】 अणु नो न च तद्विपरीतगुणो न च ह्नस्वमतो न च दीर्घमपि ।
प्रतिषिद्धसमस्तविशेषणकं परमक्षरमात्मतयाऽऽश्रय भोः ॥ १५८ ॥ 【भाष्यम्】 【भाष्यम्】 असुबुद्धिशरीरगुणान् षडिमानविवेकिजनैर्दृशिधर्मतया ।
प्रतिपन्नतमान् प्रविहाय शनैर्दृशिमात्रमवेहि सदाऽहमिति ॥ १५९ ॥ 【भाष्यम्】 【भाष्यम्】 अहिनिर्ल्वयनीमहिरात्मतया जगृहे परिमोक्षणतस्तु पुरा ।
परिमुच्य तु तामुरगः स्वबिले न पुनः समवेक्षत आत्मतया ॥ १६० ॥ 【भाष्यम्】 【भाष्यम्】 अविवेकत आत्मतया विदितं कुशरीरमिदं भवताऽप्यहिवत् ।
अहिवत्त्यज देहमिमं त्वमपि प्रतिपद्य चिदात्मकमात्मतया ॥ १६१ ॥ 【भाष्यम्】 【भाष्यम्】 रजनीदिवसौ न रवेर्भवतः प्रभया सततं यत एष युतः ।
अविवेकविवेकगुणावपि ते भवतो न रवेरिव नित्यदृशेः ॥ १६२ ॥ 【भाष्यम्】 【भाष्यम्】 परिशुद्धविबुद्धविमुक्तदृशेरविवेकविवेकविवर्जनतः ।
मम बन्धविमोक्षगुणौ भवतो न कदाचिदपीत्यवगच्छ भृशम् ॥ १६३ ॥ 【भाष्यम्】 【भाष्यम्】 न मम ग्रहणोज्झनमस्ति मया न परेण दृशेरिति निश्चिनु भोः ।
नहि कस्यचिदात्मनि कर्म भवेन्न च कश्चिदिहास्ति मदन्य इति ॥ १६४ ॥ 【भाष्यम्】 【भाष्यम्】 अहमस्मि चरस्थिरदेहधियां चरितस्य सदेक्षक एक इति ।
न भवेदत एव मदन्य इति त्वमवेहि सुमेध इदं सुदृढम् ॥ १६५ ॥ 【भाष्यम्】 【भाष्यम्】 गगने विमले जलदादिमतेः सति वाऽसति वा न भिदाऽस्ति यथा ।
त्वयि सर्वगते परिशुद्धदृशौ न भिदाऽस्ति तथा द्वयभेदकृता ॥ १६६ ॥ 【भाष्यम्】 【भाष्यम्】 अनृतं द्वयमित्यवदाम पुरा व्यवहारमपेक्ष्य तु गीतमिदम् ।
अनृतेन न सत्यमुपैति युजां न मरीचिजलेन नदी ह्रदिनी ॥ १६७ ॥ 【भाष्यम्】 【भाष्यम्】 बहुनाऽभिहितेन किमु क्रियते शृणु सङ्ग्रहमत्र वदामि तव ।
त्वयि जागरितप्रभृतित्रितयं परिकल्पितमित्यसदेव सदा ॥ १६८ ॥ 【भाष्यम्】 【भाष्यम्】 परिकल्पितमित्यसदित्युदितं मन इत्यभिशब्दितमागमतः ।
उपपत्तिभिरेव च सिद्धमतो भवतोऽन्यदशेषमभूतमिति ॥ १६९ ॥ 【भाष्यम्】 【भाष्यम्】 यदबाह्यमनन्तरमेकरसं यदकार्यमकारणमद्वयकम् ।
यदशेषविशेषविहीनतरं दृशिरूपमनन्तमृतं तदसि ॥ १७० ॥ 【भाष्यम्】 【भाष्यम्】 इयदेव मयोपनिषत्सु पदं परमं विदितं न ततोऽस्त्यधिकम् ।
इति पिप्पलभक्ष इवाभ्यवदद्ध्यवशिष्टमतिं विनिवारयितुम् ॥ १७१ ॥ 【भाष्यम्】 【भाष्यम्】 इतरोऽपि गुरुं प्रणिपत्य जगौ भगवन्निति तारितवानसि माम् ।
अवबोधतरेण समुद्रमिमं मृतिजन्मजलं सुखदुःखझषम् ॥ १७२ ॥ 【भाष्यम्】 【भाष्यम्】 अधुनाऽस्मि सुनिर्वृत आत्मरतिः कृतकृत्य उपेक्षक एकमनाः ।
प्रहसन्विषयान्मृगतोयसमान्विचरामि महीं भवता सहितः ॥ १७३ ॥ 【भाष्यम्】 【भाष्यम्】 तव दास्यमहं भृशमामरणात्प्रतिपद्य शरीरधृतिं भगवन् ।
करवाणि मया शकनीयमिदं तव कर्तुमतोऽन्यदशक्यमिति ॥ १७४ ॥ 【भाष्यम्】 【भाष्यम्】 गुरुशिष्यकथाश्रव्रणेन मया श्रुतिवच्छ्रुतिसारसमुद्धरणम् ।
कृतमित्थमवैति य एतदसौ न पतत्युदधौ मृतिजन्मजले ॥ १७५ ॥ 【भाष्यम्】 【भाष्यम्】 भगवद्भिरिदं गुरुभक्तियुतैः पठितव्यमपाठ्यमतोऽन्यजनैः ।
गुरुभक्तिमतः प्रतिभाति यतो गुरुणोक्तमतोऽन्यरतो न पठेत् ॥ १७६ ॥ 【भाष्यम्】 【भाष्यम्】 निगमोऽपि च यस्य इतिप्रभृतिर्गुरुभक्तिमतः कथितं गुरुणा ।
प्रतिभाति महात्मन इत्यवदत्पठितव्यमतो गुरुभक्तियुतैः ॥ १७७ ॥ 【भाष्यम्】 【भाष्यम्】 येषां धीसूर्यदीप्त्या प्रतिहतिमगमन्नाशमेकान्ततो मे ध्वान्तं स्वान्तस्य हेतुर्जननमरणसन्तानदोलाधिरूढेः । येषां पादौ प्रपन्नाः श्रुतिशमविनयैर्भूषिताः शिष्यसङ्घाः
सद्यो मुक्तौ स्थितास्तान्यतिपरमहितान्यावदायुर्नमामि ॥ १७८ ॥ 【भाष्यम्】 【भाष्यम्】 भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्रसूर्यौ च नेत्रे कर्णावाशा शिरो द्यौर्मुखमपि दहनो यस्य वास्तव्यमब्धिः । अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यै-
श्चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ॥ १७९ ॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमच्छङ्करभगवत्पूज्यपादशिष्यश्रीतोटकाचार्यविरचितं श्रुतिसारसमुद्धरणाख्यं प्रकरणं सम्पूर्णम् ॥
Usando este texto em trabalho acadêmico? Obter citação formal
TOṬAKĀCĀRYA. Śruti Sāra Samuddhāraṇam. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/shruti-sara-samuddharanam>. Acesso em: 26/04/2026.
Toṭakācārya (2026). Śruti Sāra Samuddhāraṇam. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/shruti-sara-samuddharanam
Toṭakācārya. "Śruti Sāra Samuddhāraṇam." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/shruti-sara-samuddharanam.