Yati Pañcakam
Śrī Ādi Śaṅkarācārya
बेदान्तवाक्येषु सदा रमन्तो भिक्षान्नमात्रेण च तुष्टिमन्तः ।विशोकवन्तः करणैकवन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ १ ॥
मूलं तरोः केवलमाश्रयन्तः पाणिद्वयं भोक्तुममत्त्रयन्तः ।कन्थामिव श्रीमपि कुत्सयन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ २ ॥
देहादिभावं परिमार्जयन्त आत्मानमात्मन्यवलोकयन्तः ।नान्तर्न मध्यं न बहिः स्मरन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ ३ ॥
स्वानन्दभावे परितुष्टिमन्तः संशान्तसर्वेन्द्रियदृष्टिमन्तः ।अहर्निशं ब्रह्मणि ये रमन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ ४ ॥
पञ्चाक्षरं पावनमुच्चरन्तः पतिं पशूनां हृदि भावयन्तः ।भिक्षाशना दिक्षु परिभ्रमन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ ५ ॥
Usando este texto em trabalho acadêmico? Obter citação formal
ŚRĪ ĀDI ŚAṄKARĀCĀRYA. Yati Pañcakam. Vishva Vidya — Vedanta, 2026. Disponível em: <https://vedanta.com.br/biblioteca/yati-panchakam>. Acesso em: 26/04/2026.
Śrī Ādi Śaṅkarācārya (2026). Yati Pañcakam. Vishva Vidya — Vedanta. https://vedanta.com.br/biblioteca/yati-panchakam
Śrī Ādi Śaṅkarācārya. "Yati Pañcakam." Vishva Vidya — Vedanta, 1 de janeiro de 2026. https://vedanta.com.br/biblioteca/yati-panchakam.