Ānandagiri Ṭīkā — Gītā Bhāṣya
Ānandagiri
हेरम्ब देहि प्रत्यूहक्ष्वेडव्यूहनिवारिणीम् ॥ १ ॥ यद्वक्त्रपङ्केरुहसम्प्रसूतं निष्ठामृतं विश्वविभागनिष्ठम् । 【भाष्यम्】 【भाष्यम्】
साध्येतराभ्यां परिनिष्टितान्तं तं वासुदेवं सततं नतोऽस्मि ॥ २ ॥ प्रत्यञ्चमच्युतं नत्वा गुरूनपि गरीयसः । 【भाष्यम्】 【भाष्यम्】
क्रियते शिष्यशिक्षायै गीताभाष्यविवेचनम् ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 कर्मनिष्ठाज्ञाननिष्ठेत्युपायोपेयभूतं निष्ठाद्वयमधिकृत्य प्रवृत्त गीताशास्त्रं व्याचिख्यासुर्भगवान् भाष्यकारो विघ्नोपप्लवोपशमनादिप्रयोजनप्रसिद्धये प्रामाणिकव्यवहारप्रमाणकमिष्टदेवतातत्त्वानुस्मरणं मङ्गलाचरणं सम्पादयन् अनवशेषेणेतिहासपुराणयोर्व्याचिख्यासितगीताशास्त्रेणैकवाक्यतामभिप्रेत्य पौराणिकश्लोकमेवान्तर्यामिविषयमुदाहरति – नारायण इति । ‘आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ ’ [मनुः १.१०] इति स्मृतिसिद्धः स्थूलदृशां नारायणशब्दार्थः । सूक्ष्मदर्शिनः पुनराचक्षते – नरशब्देन चराचरात्मकं शरीरजातमुच्यते । तत्र नित्यसन्निहिताश्चिदाभासा जीवा नारा इति निरुच्यन्ते । तेषामयनमाश्रयो नियामकोऽन्तर्यामी नारायण इति । यमधिकृत्यान्तर्यामिब्राह्मणं श्रीनारायणाख्यं मन्त्राम्नायं चाधीयते । तदनेन शास्त्रप्रतिपाद्यं विशिष्टं तत्त्वमादिष्टं भवति । ननु परस्याऽऽत्मनो मायासम्बन्धादन्तर्यामित्वं शास्त्रप्रतिपाद्यत्वं च वक्तव्यम् । अन्यथा कूटस्थासङ्गाविषयाद्वितीयस्य तदयोगात् । तथा च शुद्धतासिद्धौ कथं यथोक्ता परदेवता शास्त्रादावनुस्मर्यते शुद्धस्य हि तत्त्वस्यानुस्मरणमभीष्टफलवदभीष्टम् । तत्राह – परोऽव्यक्तादिति । अव्यक्तम् अव्याकृतं मायेत्यनर्थान्तरम् । तस्मात् परो – व्यतिरिक्त स्तेनासंस्पृष्टोऽयं परः, ‘अक्षरात् परतः परः’ (मु. उ. २-१-२) इति श्रुतेर्गृहीतः । तत्त्वतो मायासम्बन्धाभावेऽपि कल्पनया तदीयसङ्गतिमङ्गीकृत्यान्तर्यामित्वादिकमुन्नेयम् । यस्मादीश्वरस्य व्यतिरेको विवक्षितस्तस्मिन्नव्यक्ते साक्षिसिद्धेऽपि, कार्यलिङ्गकमनुमानमुपन्यस्यति – अण्डमिति । अपञ्चीकृतपञ्चमहाभूतात्मकं हैरण्यगर्भं तत्त्वमण्डमित्यभिलप्यते । तदव्यक्तात् पूर्वोक्तादुत्पद्यते । प्रसिद्धा हि श्रुतिस्मृतिवादेषु हिरण्यगर्भस्य मूलकारणादुत्पत्तिः । तथा च कार्यलिङ्गादव्यक्तादभिव्यक्तिरित्यर्थः । हिरण्यगर्भे श्रुतिस्मृतिसमधिगतेऽपि कार्यलिङ्गकमनुमानमस्तीति मन्वानो विराडुत्पत्तिमुपदर्शयति – अण्डस्येति । उक्तस्याण्डस्य हिरण्यगर्भाभिधानीयस्यान्तरिमे भूरादयो लोका विराडात्मका वर्तन्ते । कार्यं हि कारणस्यान्तर्भवति । तेन हिरण्यगर्भान्तर्भूता भूरादयो लोका विराडात्मानस्तेन सृष्टा इति तल्लिङ्गाद्धिरण्यगर्भसिद्धिरित्यर्थः । लोकानेव पञ्चीकृतपञ्चमहाभूतात्मकविराडात्मत्वेन व्युत्पादयति – सप्तद्वीपेति । ‘सा पृथिव्यभवत्’ [बृ.उ. १.२.२]
इति श्रुतौ विराजो जन्म सङ्कीर्तितमित्यङ्गीकारादशेषद्वीपोपेता पृथिवीत्यनेन सर्वलोकात्मको विराडेवोच्यते । चशब्देन विराजो हि हिरण्यगर्भे पूर्वोक्ताण्डात्मन्यन्तर्भावात् , ततः सम्भवोऽनुकृष्यते । परमात्मा हि स्वाज्ञानद्वारा जगदशेषमुत्पाद्य स्वात्मन्येवान्तर्भाव्याखण्डैकरससच्चिदानन्दात्मना स्वे महिम्नि तिष्ठतीत्यर्थः । अत्र च नारायणशब्देनाभिधेयमुक्तम् । नरा एव नारा जीवाः, त्वम्पदवाच्याः, तेषामयनमधिष्ठानं तत्पदवाच्यं परं ब्रह्म । तथा च कल्पितस्याधिष्ठानातिरिक्तस्वरूपाभावाद्वाच्यस्य कल्पितत्वेऽपि लक्ष्यस्य ब्रह्ममात्रत्वाद्ब्रह्मात्मैक्यं विषयोऽत्र सूच्यते । तेनार्थाद्विषयविषयिभावः सम्बन्धोऽपि ध्वनितः । परोऽव्यक्तादित्यनेन मायासंस्पर्शाभावोक्त्या सर्वानर्थनिवृत्त्या परमानन्दाविर्भावलक्षणो मोक्षो विवक्षितः । तेन च तत्कामस्याधिकारो द्योतितः । परिशिष्टेन तु, शब्देन वस्तुनो वास्तवमद्वितीयत्वमावेदितम् । तेन च वस्तुद्वारा परमविषयत्वं तज्ज्ञाननिष्ठायास्तदुपायभूतकर्मनिष्ठायाश्चावान्तरविषयत्वमित्यर्थादुक्तमित्यवधेयम् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 ननु नैवं साध्यसाधनभूतं निष्ठाद्वयमत्र भगवता प्रतिपाद्यते, भूमिप्रार्थितेन ब्रह्मणाऽभ्यर्थितस्य भगवतो भूमिभारापहारार्थं वसुदेवेन देवक्यामाविर्भूतस्य तादर्थ्येन मध्यमं पृथासुतं प्रथितमहिमानं प्रेरयितुं धर्मयोरिहानूद्यमानत्वात् , अतो नास्य शास्त्रस्य निष्ठाद्वयं परापरविषयभावमनुभवितुमलमिति । तन्न । भगवतो धर्मसंस्थापनस्वाभाव्यध्रौव्याद् धर्मद्वयस्थापनार्थमेव प्रादुर्भावाभ्युपगमाद्भूभारपरिहारस्य चाऽऽर्थिकत्वात् , अर्जुनं निमित्तीकृत्याधिकारिणं स्वधर्मप्रवर्तनद्वारा ज्ञाननिष्ठायामवतारयितुं गीताशास्त्रस्य प्रणीतत्वात् , उचितमस्य निष्ठाद्वयविषयत्वमिति परिहरति – स भगवान् इत्यादिना धर्मद्वयमर्जुनायोपदिदेश इत्यन्तेन भाष्येण । तत्र, नेदं गीताशास्त्रं व्याख्यातुमुचितमाप्तप्रणीतत्वानिर्धारणात् तथाविधशास्त्रान्तरवदित्याशङ्क्य, मङ्गलाचरणस्योद्देश्यं दर्शयन् आदौ शास्त्रप्रणेतुराप्तत्वनिर्धारणार्थं सर्वज्ञत्वादिप्रतिज्ञापूर्वकं सर्वजगज्जनयितृत्वमाह – स भगवानिति । प्रकृतो नारायणाख्यो देवः सर्वज्ञः सर्वेश्वरः समस्तमपि प्रपञ्चमुत्पाद्य व्यवस्थितः । न च तस्यानाप्तत्वम् , ईश्वरानुगृहीतानामाप्तत्वप्रसिद्ध्या तस्य परमाप्तत्वप्रसिद्धेरित्यर्थः । ननु भगवता सृष्टमपि चातुर्वर्ण्यादिविशिष्टं हिरण्यगर्भादिलक्षणं जगत् न व्यवस्थितिमास्थातुं शक्यते व्यवस्थापकाभावात् , न च परस्यैवेश्वरस्य व्यवस्थापकत्वं वैषम्यादिप्रसङ्गात् , तत्राह – तस्य चेति । सृष्टस्य जगतो मर्यादाविरहितत्वे शङ्किते तदीयां व्यवस्थां कर्तुमिच्छन् व्यवस्थापकमालोच्य क्षत्रस्यापि क्षत्रत्वेन प्रसिद्धं धर्मं तथाविधमधिगम्य सृष्टवानित्यर्थः । सृष्टस्य धर्मस्य साध्यस्वभावतया साधयितारमन्तरेणासम्भावत् तस्यैव तदनुष्ठातृत्वानभ्युपगमात् प्राणिप्रभेदानामधर्मप्रायाणां तदयोगात् कुतस्तदीया सृष्टिरित्याशङ्क्याह – मरीच्यादीनिति । तेषां भगवता सृष्टानां प्रजासृष्टिहेतूनां यागदानादिप्रवृत्तिसाध्यं धर्ममनुष्ठातुमधिकृतानां स्वकीयत्वेन तदुपादानमुपपन्नमित्यर्थः । चैत्यवन्दनादिभ्यो विशेषार्थं धर्मं विशिनष्टि – वेदोक्तमिति । ननु नैतावता जगदशेषमपि व्यवस्थापयितुं शक्यते, प्रवृत्तिमार्गस्य पूर्वोक्तधर्मं प्रति नियतत्वेऽपि निवृत्तिमार्गस्य तेन व्यवस्थापनायोग्यत्वात् , तत्राह – ततोऽन्यांश्चेति । निवृत्तिरूपस्य धर्मस्य शमदमाद्यात्मनो गमकमाह – ज्ञानेति । विवेकवैराग्यातिशये शमाद्यतिशयो गम्यते । ततो विवेकादि तस्य गमकमित्यर्थः । धर्मे बहुविदां विवाददर्शनाज्जगतः स्थेम्ने कारणीभूतधर्मान्तरमपि स्रष्टव्यमस्तीत्याशङ्क्याह – द्विविधो हीति । अतिप्रसङ्गाप्रसङ्गव्यावृत्तये प्रकृतं धर्मं लक्षयति – प्राणिनामिति । प्रवृत्तिलक्षणो धर्मोऽभ्युदयार्थिनां साक्षादभ्युदयहेतुः, निश्रेयसार्थिनां परम्परया निःश्रेयसहेतुः । निवृत्तिलक्षणस्तु धर्मः साक्षादेव निःश्रेयसहेतुरिति विभागः । ज्ञानस्यैव निःश्रेयसहेतुत्वेऽपि शमादीनां ज्ञानद्वारा मोक्षहेतुत्वं, ज्ञानातिरिक्तव्यवधानाभावाच्च साक्षादित्युक्तम् । यद्येवं धर्मो लक्ष्यते, तर्हि वर्णित्वमाश्रमित्वं चोपेक्ष्य सर्वैरेव पुरुषार्थार्थिभिर्द्वावपि धर्मौ यथायोग्यमनुष्ठेयावित्यानुष्ठातृनियमासिद्धिरित्याशङ्क्याह – ब्राह्मणाद्यैरिति । अर्थित्वाविशेषेऽपि श्रुतिस्मृतिपर्यालोचनयाऽनुष्ठानान्नियमसिद्धिरित्यर्थः । नित्यनैमित्तिकेषु यावज्जीवमनुष्ठानं काम्येषु करणांशे रागाधीना प्रवृत्तिः इतिकर्तव्यतांशे वैधीति विभागेऽपि कदाचिदेवानुष्ठानमिति विभागमभिप्रेत्याह – दीर्घेणेति । अथ यथोक्तधर्मवशादेव जगतो विवक्षितस्थितिसिद्धेर्भगवतो नारायणस्यादिकर्तुरनेकानर्थकलुषितशरीरपरिग्रहासम्भवादन्यस्यैव कस्यचिदनाप्तस्य वैषम्यनैर्घृण्यवतो निग्रहपरिग्रहद्वारेण गीताशास्त्रप्रणयनमिति कुतोऽस्य आप्तप्रणीतत्वम् , तत्राह – अनुष्ठातॄणामिति । अथवा यथोक्तशङ्कायां दीर्घेणेत्यारभ्योत्तरम् । महता कालेन कृतत्रेतात्यये द्वापरावसाने साधकानां कामक्रोधादिपूर्वकादविवेकादधर्मबाहुल्याद्धर्माभिभवादधर्माभिवृद्धेश्च जगतो मर्यादाभेदे तदीयां मर्यादामात्मनिर्मितां पालयितुमिच्छन् प्रकृतो भगवान् एतदर्थेन चातुर्वर्ण्यादिसंरक्षणार्थं लीलामयं मायाशक्तिप्रयुक्तं स्वेच्छाविग्रहं जग्राहेत्यर्थः । ‘भौमस्य ब्रह्मणो गुप्त्यै वसुदेवादजीजनत्’ [म.भा.शां. ४७.२९] इति स्मृतिमनुसृत्य पदद्वयमनूद्य व्याचष्टे – भौमस्येति । अंशेनेति । स्वेच्छानिर्मितेन मायामयेन स्वरूपेणेत्यर्थः । किल इति किलेत्यस्मिन्नर्थे पौराणिकी प्रसिद्धिरनूद्यते । न हि भगवतो व्यतिरिक्तस्येदं जन्मेति युज्यते, बहुविधागमविरोधादिति भावः । ननु वैदिकधर्मसंरक्षणार्थं भगवतो जन्म, ‘यदा यदा हि धर्मस्य’ [भ. गी. ४.७] इत्यादिदर्शनात् । किमिदं ब्राह्मणत्वस्य रक्षणार्थमिति तत्राह – ब्राह्मणत्वस्य हीति । तथापि वर्णाश्रमभेदव्यवस्थापनं विना कथं यथोक्तधर्मरक्षणमित्याशङ्क्याह – तदधीनत्वादिति । ब्राह्मणं हि पुरोधाय क्षत्रादिः प्रतिष्ठां प्रतिपद्यते, याजनाध्यापनयोस्तद्धर्मत्वात् तद्द्वारा च वर्णाश्रमभेदव्यवस्थापनात् । अतो ब्राह्मण्ये रक्षिते सर्वमपि सुरक्षितं भवतीत्यर्थः । नन्वेवमपि भगवतो नारायणस्य शरीरादिमत्त्वे सत्यस्मदादिभिरविशेषादनीश्वरत्वप्रसक्तिरित्याशङ्क्य ज्ञानादिकृतं विशेषमाह – स चेति । ज्ञानं – ज्ञप्तिः – अर्थपरिच्छित्तिः, ऐश्वर्यम् – ईश्वरत्वं स्वातन्त्र्यम्, शक्तिः – तदर्थनिर्वर्तनसामर्थ्यम् , बलम् – सहायसम्पत्तिः, वीर्यम् – पराक्रमवत्त्वम् , तेजस्तु प्रागल्भ्यमधृष्यत्वम् , एते च षड्गुणाः सर्वविषयाः सर्वदा भगवति वर्तन्ते । तथा च तस्य शरीरादिमत्त्वेऽपि नास्मदादिसाम्यमित्यर्थः । अथैवमपि कथमीश्वरस्यानादिनिधनस्य नित्यशुद्धबुद्वमुक्तस्वभावस्य स्वभावविपरीतं जन्मादि सम्भवति न हि भूतानामीशिता स्वतन्त्रः स्वात्मनोऽनर्थं स्वयमेव सम्पादयितुमर्हति, न चास्य देहादिग्रहे किमपि फलमुपलभ्यते, तत्राह – त्रिगुणात्मिकामिति । सिसृक्षितदेहादिगतवैरूप्यसिद्ध्यर्थमिदं विशेषणम् । तस्या व्यापकत्वं वक्तुं वैष्णवीमित्युक्तम् । ईश्वरपारवश्यं तस्या दर्शयति – स्वामिति । तस्याश्च प्रतिभासमात्रशरीरत्वमेव न तु वस्तुत्वमित्याह – मायामिति । तस्या नानाविधकार्याकारेण परिणामित्वं सूचयति – मूलप्रकृतिमिति । ईश्वरस्य प्रकृत्यधीनत्वं वारयति – वशीकृत्येति । नित्यशुद्धबुद्धमुक्त नित्यत्वं कार्याकारविरहितत्वम् , शुद्धत्वमकारणत्वम् , बुद्धत्वं अजडत्वम् , मुक्तत्वं अविद्याकामकर्मपारतन्त्र्यराहित्यम् । न च नित्यत्वादयः संसारावस्थायामसन्तो मोक्षावस्थायां सम्भवन्तीति युक्तमित्याह – स्वभाव इति । स्वमायया । देहग्रहे प्राधान्यं मायाया दर्शयितुं पुनः स्वमाययेत्युक्तम् । ‘स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः’ (बृ. उ. १४-३-८) इति श्रुतिमाश्रित्याह – देहवानिति । इव जात इव इवकाराभ्यां देहादेरवस्तुत्वेन कल्पितत्वं द्योत्यते । लोकानुग्रहमिति धर्मद्वयोपदेशद्वारा प्राणिवर्गस्याभ्युदयनिःश्रेयसतत्परत्वापादनं लोकानुग्रहः । यद्यपि कूटस्थः स्वतन्त्रो नित्यत्वादिलक्षणश्चायमीश्वरः स्वतो दृश्यते, तथापि यथोक्तमायाशक्त्या देहादि गृहीत्वा प्राणिनामनुग्रहमादधानो न स्वभावविपर्ययं पर्येतीत्यर्थः । ननु ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ‘ इति न्यायादीश्वरस्याऽऽप्तकामतया कृतकृत्यस्य प्रयोजनाभावादनुग्राह्याणां चाद्वैतवादे व्यतिरिक्तानामसत्त्वान्न धर्मद्वयमुपदेष्टुमुचितमिति, तत्राह – स्वप्रयोजनेति । कल्पितभेदभाञ्जि भूतान्युपादाय तदनुग्रहेच्छया चैत्यवन्दनादिविलक्षणं धर्मद्वयमर्जुनं निमित्तीकृत्याऽऽप्तकामोऽपि भगवानुपदिष्टवानित्यर्थः । अर्जुनस्योपदेशापेक्षास्तीति दर्शयितुं विशिनष्टि – शोकेति । ननु भूतानुग्रहे कर्तव्ये किमित्यर्जुनाय धर्मद्वयं भगवतोपदिश्यते, तत्राह – गुणाधिकैरिति । प्रचयं गमिष्यतीति मत्वा धर्मद्वयमर्जुनायोपदिदेशेति सम्बन्धः । अथ तथापि सुगतोपदिष्टधर्मवदयमपि भगवदुपदिष्टो धर्मो न प्रामाणिकोपादेयतामुपगच्छेदित्याशङ्क्य वेदोक्तत्वान्नास्य तत्तुल्यत्वमित्युक्तमित्यभिप्रत्य शिष्टपरिगृहीतत्वाच्च मैवमित्याह – तं धर्ममिति । अधर्मे धर्मबुद्धिर्वेदव्यासस्य जातेत्याशङ्क्याह – सर्वज्ञ इति । ‘कृष्णद्वैपायनं विद्धि व्यासं नारायणं प्रभुम्’ [वि.पु. ३.४.५] इति स्मृतेः सज्जनोपकारकभगवदवतारत्वाच्च व्यासस्य नान्यथाबुद्धिरित्याह – भगवानिति । गीताशास्त्रस्यानाप्तप्रणीतत्वमपाकृत्य व्याख्येयत्वमुपपादितमुपसंहरति – तदिदमिति । पौरुषेयस्य वचसो मूलप्रमाणाभावेनाप्रामाण्यमिति मत्वा विशिनष्टि – समस्तेति । शास्त्राक्षरैरेव तदर्थप्रतिपत्तिसम्भवे किमिति व्याख्यानमित्याशङ्क्याह – दुर्विज्ञेयार्थमिति । ‘पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना । आक्षेपस्य समाधानं व्याक्यानं पञ्चलक्षणम् ॥' इत्यादिक्रमेणास्य शास्त्रस्य पूर्वाचार्यैर्व्याख्यातत्वात् किमर्थमिदमारभ्यते गतार्थत्वात् , तत्राह – तदर्थेति । गीताशास्त्रार्थस्य प्रकटीकरणार्थं पदविभागस्तदर्थोक्तिः समासद्वारा वाक्यार्थनिर्देशः, तत्रापेक्षितो न्यायश्चाक्षेपसमाधानलक्षणो वृत्तिकारैर्दर्शितः तथापि तथाविधमेव शास्त्रं शास्त्रपरिचयशून्यैः समुच्चयवादिभिर्विरुद्धार्थत्वेनानेकार्थत्वेन च गृहीतमालक्ष्य तद्बुद्धिमनुरोद्धुमिदमारब्धव्यमित्यर्थः । येषां प्राचीने व्याख्याने बुद्धिरप्रविष्टा तेषां सम्प्रतितने एतस्मिन्नसौ प्रवेक्ष्यतीति कुतो नियमस्तत्राह – विवेकत इति । पूर्वव्याख्याने तत्तदर्थनिर्धारणार्थोपन्यासः सङ्कीर्णवद्भातीति न तत्र केषाञ्चिन्मनीषा समुन्मिषति, प्रकृते त्वसम्प्रकीर्णतया तत्तत्पदार्थनिर्णयोपयोगिन्यायो विव्रियते, तेनात्र मन्दमध्यमयोरपि बुद्धिरवतरतीत्यर्थः । किञ्च अनपेक्षिताधिकग्रन्थसद्भावान्न प्राचीने व्याख्याने श्रोतॄणां प्रवृत्तिः । अत्र त्वपेक्षिताल्पग्रन्थे विवरणे प्रायशः सर्वेषां प्रवृत्तिः स्यादिति मत्वाह – सङ्क्षेपत इति । ननु अनाप्तप्रणीतत्वाद्यभावेऽपि नेदं शास्त्रं व्याख्येयं विषयाद्यनुबन्धस्यानभिहितत्वेन शास्त्रत्वाभावादित्याशङ्क्य सर्वव्यापाराणां प्रयोजनार्थत्वादादौ प्रयोजनमाह – तस्येति । प्रसाधितप्रामाण्यस्य, व्याख्येयत्वेन मनसि संनिहितस्य गीताशास्त्रस्य सङ्क्षेपतः सङ्ग्रहः सम्पिण्डितत्वमेकवाक्यत्वं, तेनेदं परमं फलं यन्निश्चितं श्रेयो निःश्रेयसं कैवल्यम् । अवान्तरफलं तु तत्रतत्रावान्तरवाक्यभेदेन मनोनिग्रहादि विवक्ष्यते । निःश्रेयसं च द्विविधम् – निरतिशयसुखाविर्भावो निःशेषानर्थोच्छित्तिश्च । तत्राद्यमुदाहरति – परमिति । द्वितीयं दर्शयति – सहेतुकस्येति । संसारोपरमस्यात्यन्तिकत्वं प्रतियोगिनः संसारस्य पुनरुत्पत्त्ययोग्यत्वम् । तच्च स्वापमूर्च्छादिव्यवच्छेदार्थं विशेषणम् । तदेव साधयितुं सहेतुकस्येत्युक्तम् । उक्तं फलं समुच्चितादेकाकिनो वा कर्मणः स्यादिति तस्यैव शास्त्रप्रतिपाद्यतेत्याशङ्क्याभिधेयमभिधित्समानः समाधत्ते – तच्चेति । आत्मज्ञाननिष्ठाशेषत्वेन कर्मनिष्ठा अत्रोच्यते । प्राधान्येन त्वात्मज्ञाननिष्ठैवात्र प्रतिपाद्यत इत्यर्थः । ननु शेषिणी निष्ठा कुतो भवति संन्यासात् न कर्मनिष्ठायाः शेषत्वात् तत्राह – सर्वेति । संन्यासद्वारेणासकृदनुष्ठितश्रवणादेः शेषिणी निष्ठा सिद्ध्यति, शेषत्वं च कर्मणः, तत्र परस्पराश्रयत्वमित्यर्थः । ननु ‘यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ’ [भ. गी. १८.५] इति वाक्यशेषात् समुच्चितमात्मज्ञानमत्र प्रतिपाद्यते, नेत्याह – तथेति । सर्वकर्मसंन्यासपूर्वकमात्मज्ञाननिष्ठारूपं धर्मं निःश्रेयसप्रयोजनं प्रागुक्तं परामृशति – इममेवेति । वक्तृभेदादभिप्रायभेदाशङ्कां वारयति – भगवतैवेति । उक्तमनुगीतास्विति सम्बन्धः । ब्रह्मणः पदं ब्रह्मणः पदं – पूर्वोक्तं निःश्रेयसम् । तस्य वेदनं लाभः । तत्र विशिष्टो ज्ञाननिष्ठारूपो धर्मः समर्थो भवतीत्यर्थः । यज्ञदानादिवाक्यस्य तु तद्वयाख्यानावसरे तात्पर्यं वक्ष्यते । कर्मत्यागस्य भगवतोऽभिप्रेतत्वे वाक्यान्तरमनुगीतागतमेवोदाहरति – तत्रैवेति । धर्माधर्मापूर्वासंसर्गित्वे हेतुमाह – नैवेति । क्रियाद्वयसम्बन्धाभावात् तन्निर्वर्त्त्यापूर्वाभ्यामसम्बन्धे प्राप्तमर्थमाह – यः स्यादिति । वागादिबाह्यकरणव्यापारविरहितत्वं तूष्णीमित्युच्यते । किञ्चिदचिन्तयन् इत्यन्तःकरणव्यापाराभावोऽभिप्रेतः । द्विविधकरणव्यापारविरहितः सन् प्रागुक्तो योऽधिकारी केवलमेकस्मिन् – अद्वितीये ब्रह्मणि आसनमवस्थानम् , तत्र लीनः, तस्मिन्नेव समाप्तिभागी स्यात् , तस्यासम्प्रज्ञातसमाधिनिष्ठस्य सर्वकर्मत्यागहेतुकं ज्ञानं मुक्तिहेतुर्भवतीत्यर्थः । न केवलमनुगीतास्वेव यथोक्तं ज्ञानमुक्तम् । किन्तु प्रकृतेऽपि शास्त्रे समाप्त्यवसरे दर्शितमित्याह – इहापीति । नन्वत्र निवृत्तिलक्षणधर्मात्मकं ससंन्यसमात्मज्ञानमेव न प्रतिपाद्यते, ‘कुरु कर्मैव तस्मात् त्वम् ’ [भ. गी. ४.१५] इत्यादौ प्रवृत्तिलक्षणस्यापि धर्मस्य वक्ष्यमाणत्वात् , धर्मयोश्च प्रकृतत्वाविशेषात् , तत्राह – अभ्युदयार्थोऽपीति । ननु वर्णिभिराश्रमिभिश्चानुष्ठेयत्वेनान्यत्र विहितस्यापि तस्य न युक्तं मोक्षसाधनत्वाधिकारे विधानम् , देवादिस्थानप्राप्तिहेतुत्वेन मोक्षं प्रति प्रतिपक्षत्वात् । सत्यम् , तथापि फलाभिलाषमन्तरेणेश्वरार्पणधिया कृतस्य बुद्धिशुद्धिहेतुत्वात् तस्येह वचनमित्याह – स देवादीति । फलाभिसन्धिद्वारा कृतः सन्निति शेषः । प्रवृत्तिलक्षणधर्मस्योक्तरीत्या चित्तशुद्धिहेतुत्वेऽपि मोक्षहेतुत्वेन कुतो मोक्षाधिकारे निर्देशः स्यादित्याशङ्क्याह – शुद्धेति । प्रतिपद्यते प्रागुक्तो धर्म इति शेषः । यदुक्तं फलाभिसन्धिवर्जितमीश्वरार्पणबुद्ध्याऽनुष्ठितं कर्म बुद्धिशुद्धये भवतीति, तत्र वाक्यषेषमनुकूलयति – तथा चेति । शास्त्रस्य प्रयोजनं ससाधनमुक्तमनूद्य विषयं दर्शयति – इममिति । दर्शितेन फलेन शास्त्रस्य निष्ठाद्वयद्वारा साध्यसाधनभावः सम्बन्धो विषयेण विषयविषयित्वमिति विवक्षित्वाह – विशेषत इति । एवमनुबन्धत्रयविशिष्टं शास्त्रं व्याख्यानार्हमित्युपसंहरति – विशिष्टेति । सिद्धे व्याख्यानयोग्यत्वे व्याख्येयत्वं फलितमाह – यत इति । तत्रैषाऽक्षरयोजना - धृतराष्ट्र उवाचेति । धृतराष्ट्रो हि प्रज्ञाचक्षुर्बाह्यचक्षुरभावाद्बाह्यमर्थं प्रत्यक्षयितुमनीशः सन् अभ्याशवर्तिनं सञ्जयमात्मनो हितोपदेष्टारं पृच्छति - धर्मक्षेत्र इति ।
धर्मस्य तद्बुद्धेश्च क्षेत्रमभिवृद्धिकारणं यदुच्यते कुरुक्षेत्रमिति, तत्र समवेताः सङ्गताः, युयुत्सवो योद्धुकामास्ते च केचिन्मदीया दुर्योधनप्रभृतयः पाण्डवाश्चापरे युधिष्ठिरादयः, ते च सर्वे युद्धभूमौ सङ्गता भूत्वा किं कृतवन्तः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 ‘किमस्मदीयं प्रबलं बलं प्रतिलभ्य धीरपुरुषैर्भीष्मादिभिरधिष्ठितं परेषां भयमाविरभूत् , यद्वा पक्षद्वयहिंसानिमित्ताधर्मभयमासीत् , येनैते युद्धादुपरमेरन् ‘ इत्येवं पुत्रपरवशस्य पुत्रस्नेहाभिनिविष्टस्य धृतराष्ट्रस्य प्रश्ने सञ्जयस्य प्रतिवचनम् - दृष्ट्वेत्यादि ।
पाण्डवानां भयप्रसङ्गो नास्तीत्येतत् तुशब्देन द्योत्यते । प्रत्युत दुर्योधनस्यैव राज्ञो भयं प्रभूतं प्रादुर्बभूव । पाण्डवानां - पाण्डुसुतानां युधिष्ठिरादीनामनीकं - सैन्यं धृष्टद्युम्नादिभिरतिधृष्टैर्व्यूहाधिष्ठितं दृष्ट्वा प्रत्यक्षेण प्रतीत्य त्रस्तहृदयो दुर्योधनो राजा तदा - तस्यां सङ्ग्रामोद्योगावस्थायाम् , आचार्यं द्रोणनामानमात्मनः शिक्षितारं रक्षितारं च श्लाघयन्नुपसङ्गम्य - तदीयं समीपं विनयेन प्राप्य भयोद्विग्नहृदयत्वेऽपि तेजस्वित्वादेव वचनमर्थसहितं वाक्यमुक्तवानित्यर्थः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 तदेव वचनमुदाहरति - पश्येति । एतामस्मदभ्याशे महापुरुषानपि भवत्प्रमुखानपरिगणय्य भयलेशशून्यामवस्थितां चमूमिमां सेनां पाण्डुपुत्रैर्युधिष्ठिरादिभिरानीतां महतीमनेकाक्षौहिणीसहितामक्षोभ्यां, पश्येत्याचार्यं दुर्योधनो नियुङ्क्ते । नियोगद्वारा च तस्मिन् परेषामवज्ञां विज्ञापयन् क्रोधातिरेकमुत्पादयितुमुत्सहते । परकीयसेनाया वैशिष्ट्याभिधानद्वारा परपक्षेऽपि त्वदीयमेव बलमिति सूचयन् आचार्यस्य तन्निरसनं सुकरमिति मन्वानः सन्नाह - व्यूढामिति ।
राज्ञो द्रुपदस्य पुत्रः तव च शिष्यो धृष्टद्युम्नो लोके ख्यातिमुपगतः, स्वयं च शस्त्रास्त्रविद्यासम्पन्नो महामहिमा तेन व्यूहमापाद्याधिष्ठितामिमां चमूं किमिति न प्रतिपद्यसे किमिति वा मृष्यसीत्यर्थः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 अन्येऽपि प्रतिपक्षे पराक्रमभाजो बहवः सन्तीत्यनुपेक्षणीयत्वं परपक्षस्य विवक्षयन्नाह - अत्रेति । अस्यां हि प्रतिपक्षभूतायां सेनायां शूराः - स्वयमभीरवः शस्त्रास्त्रकुशलाः भीमार्जुनाभ्यां सर्वसम्प्रतिपन्नवीर्याभ्यां तुल्याः युद्धभूमावुपलभ्यन्ते । तेषां युद्धशौण्डीर्यं विशदीकर्तुं विशिनष्टि - महेष्वासा इति । इषुरस्यतेऽस्मिन्निति व्युत्पत्त्या धनुस्तदुच्यते । तच्च महत् अन्यैरप्रधृष्यं तद् येषां ते राजानस्तथा विवक्ष्यन्ते । तानेव परसेनामध्यमध्यासीनान् परपक्षानुरागिणो राज्ञो विज्ञापयति - युयुधान इत्यादिना सौभद्रो द्रौपदेयाश्चेत्यन्तेन । तेषां सर्वेषामपि महाबलपराक्रमभाक्त्वादनुपेक्ष्यत्वं पुनर्विवक्षति - सर्व एवेति ॥ ४, ५, ६ ॥ यद्येवं परकीयं बलमतिप्रभूतं प्रतीत्यातिभीतवदभिदधासि, हन्त सन्धिरेव परैरिष्यताम् , अलं विग्रहाग्रहेण इत्याचार्याभिप्रायमाशङ्क्य ब्रवीति - अस्माकमिति । तुशब्देनान्तरुत्पन्नमपि स्वकीयं भयं तिरोदधानो धृष्टतामात्मनो द्योतयति । ये खल्वस्मत्पक्षे व्यवस्थिताः सर्वेभ्यः समुत्कर्षजुषः तान् मयोच्यमानान् निबोध - निश्चयेन मद्वचनादवधारयेत्यर्थः । यद्यपि त्वमेव त्रैवर्णिकेषु त्रैविद्यवृद्धेषु प्रधानत्वात् प्रतिपत्तुं प्रभवसि, तथापि मदीयसैन्यस्य ये मुख्यास्तानहं ते तुभ्यं संज्ञार्थमसङ्ख्येषु तेषु मध्ये कतिचिन्नामभिर्गृहीत्वा परिशिष्टानुपलक्षयितुं विज्ञापनं करोमि, न त्वज्ञातं किञ्चित् तव ज्ञापयामीति मत्वाह - द्विजोत्तमेति
॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 तानेव स्वसेनानिविष्टान् पुरुषधौरेयान् आत्मीयभयपरिहारार्थं परिगणयति - भवानित्यादिना
॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 द्रोणादिपरिगणनस्य परिशिष्टपरिसङ्ख्यार्थत्वं व्यावर्तयति - अन्ये चेति । सर्वेऽपि भवन्तमारभ्य मदीयपृतनायां प्रविष्टाः स्वजीवितादपि मह्यं स्पृहयन्तीत्याह - मदर्थ इति । यत्तु तेषां शूरत्वमुक्तं तदिदानीं विशदयति - नानेति । नानाविधानि अनेकप्रकाराणि शस्त्राणि - आयुधानि प्रहरणानि - प्रहरणसाधनानि येषां ते तथा । बहुविधायुधसम्पत्तावपि तत्प्रयोगे नैपुण्याभावे तद्वैफल्यमिति चेत् , नेत्याह - सर्व इति
॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 राजा पुनरपि स्वकीयभयाभावे हेत्वन्तरमाचार्यं प्रत्यावेदयति - अपर्याप्तमिति ।
अस्माकं खल्विदं एकादशसङ्ख्याकाक्षौहिणीपरिगणितमपरिमितं बलं भीष्मेण च प्रथितमहामहिम्ना सूक्ष्मबुद्धिना सर्वतो रक्षितं पर्याप्तं - परोषां परिभवे समर्थम् । एतेषां पुनस्तदल्पं - सप्तसङ्ख्याकाक्षौहिणीपरिमितं बलं भीमेन चपलबुद्धिना कुशलताविकलेन परिपालितं अपर्याप्तम् - अस्मानभिभवितुमसमर्थमित्यर्थः । अथवा - तदिदमस्माकं बलं भीष्माधिष्ठितमपर्याप्तं - अपरिमितं अधृष्यं - अक्षोभ्यम् । एतेषां तु पाण्डवानां बलं भीमेनाभिरक्षितं पर्याप्तं - अपरिमितम् सोढुं शक्यमित्यर्थः । अथवा - तत् पाण्डवानां बलमपर्याप्तं - नालम् , अस्माकं - अस्मभ्यं भीष्माभिरक्षितं भीष्मोऽभिरक्षितोऽस्मै परबलनिवृत्त्यर्थमिति तदेव तथोच्यते । इदं पुनरस्मदीयं बलमेतेषां - पाण्डवानां पर्याप्तं - परिभवे समर्थम् , भीमाभिरक्षितं भीमो दुर्बलहृदयो यस्मादस्मै परबलनिवृत्त्यर्थमभिरक्षितः । तस्मादस्माकं न किञ्चिदपि भयकारणमस्तीत्यर्थः ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 स्वकीयबलस्य भीष्माधिष्ठितत्वेन बलिष्ठत्वमुक्त्वा भीष्मशेषत्वेन तदनुगुणत्वं द्रोणादीनां प्रार्थयते - अयनेष्विति ।
कर्तव्यविशेषद्योती चशब्दः । समरसमारम्भसमये योधानां यथाप्रधानं युद्धभूमौ पूर्वापरादिदिग्विभागेनावस्थितिस्थानानि नियम्यन्ते । तान्यत्र अयनान्युच्यन्ते । सेनापतिश्च सर्वसैन्यमधिष्ठाय मध्ये तिष्ठति । तेषु सर्वेषु प्रक्लृप्तं प्रविभागमप्रत्याख्याय भवान् अश्वत्थामा कर्णश्चेत्येवमादयो भवन्तः सर्वेऽवस्थिताः सन्तो भीष्ममेव सेनापतिं सर्वतो रक्षन्तु । तस्य हि रक्षणे सर्वमस्मदीयं बलं रक्षितं स्यात् , परबलनिवृत्त्यर्थत्वेन तस्यास्माभी रक्षितत्वादित्यर्थः ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 तमेवमाचार्यं प्रति संवादं कुर्वन्तं भयाविष्टं राजानं दृष्ट्वा तदभ्याशवर्ती पितामहस्तद् - बुद्ध्यनुरोधार्थमित्थं कृतवानित्याह - तस्येति ।
राज्ञो दुर्योधनस्य हर्षं - बुद्धिगतमुल्लासविशेषं परपरिभवद्वारा स्वकीयविजयद्वारकं सम्यगुत्पादयन् भयं तदीयमपनिनीषुरुच्चैः सिंहनादं कृत्वा शङ्खमापूरितवान् । किमिति दुर्योधनस्य हर्षमुत्पादयितुं पितामहो यतते, कुरुवृद्धत्वात् तस्य कुरुराजत्वात् पितामहत्वाच्चास्य दुर्योधनभयापनयनार्था प्रवृत्तिरुचिता, तदुपजीवितया तद्वशत्वाच्च । तस्य च सिंहनादे शङ्खशब्दे च परेषां हृदयव्यथा सम्भाव्यते, दूरादेव अरिनिवहं प्रति भयजननलक्षणप्रतापत्वादित्यर्थः ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 राजाभिप्रायं प्रतीत्य भीष्मप्रवृत्त्यनन्तरं तत्पक्षैस्तैस्तै राजभिः शङ्खादयो वाद्यविशेषा झटिति शब्दवन्तः सम्पादिताः । स च शङ्खादिप्रयुक्तशब्दस्तुमुलो बहुलं भयं परेषां परिद्योतयन्नासीदित्याह - तत इति
॥१३ ॥ 【भाष्यम्】 【भाष्यम्】 एवं दुर्योधनपक्षे प्रवृत्तिमालक्ष्य परिसरवर्तिनौ केशवार्जुनौ श्वेतैर्हयैरतिबलपराक्रमैर्युक्ते महति - अप्रधृष्ये रथे व्यवस्थितौ अप्राकृतौ शङ्खौ पूरितवन्तावित्याह - ततः श्वेतैर्हयैरिति
॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 तयोः शङ्खयोर्दिव्यत्वमेवावेदयति - पाञ्चजन्यमिति । केशवार्जुनयोर्युद्धाभिमुख्यं दृष्ट्वा संहृष्टः स्वारस्येन समररसिको भीमसेनोऽपि युद्धाभिमुखोऽभूदित्याह - पौण्ड्रमिति
॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 एतेषामीदृशीं प्रवृत्तिं प्रतीत्य परिपालनावकाशमासाद्य राज्ञो युधिष्ठिरस्यापि प्रवृत्तिं दर्शयति - अनन्तेति । ज्यायसां भ्रातॄणामनुसरणमावश्यकमिति मत्वा तयोर्यवीयसोर्भ्रात्रोरपि प्रवृत्तिमाह - नकुल इति
॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 अन्येषामपि तत्पक्षीयाणां राज्ञामैकमत्यं विज्ञापयन् धृतराष्ट्रस्य दुराशां सञ्जयो व्युदस्यति - काश्यश्चेत्यादिना
॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 द्रुपद इति ।
परमेष्वासादिविशेषणचतुष्टयं प्रत्येकं सम्बध्यते ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 तैस्तै राजभिः शङ्खानापूरयद्भिरापादितो महान् घोषः तुमुलः - अतिभैरवो नभश्च - अन्तरिक्षं पृथिवीं च - भुवनं लोकत्रयं सर्वमेव विशेषेणानुक्रमेण नादयन् - नादयुक्तं कुर्वन् धार्तराष्ट्राणां दुर्योधनादीनां हृदयानि अन्तःकरणानि व्यदारयत् - विदारितवान् । युज्यते हि तत्प्रेरितशङ्खघोषश्रवणात् त्रैंलोक्याक्रोशे तमुपश्रृण्वतां तेषां हृदयेषु दोधूयमानत्वम् । तदाह - स घोष इति
॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 दुर्योधनादीनां धार्तराष्ट्राणामेवं भयप्राप्तिं प्रदर्श्य पार्थादीनां पाण्डवानां तद्वैपरीत्यमिदानीमुदाहरति - अथेत्यादिना । भीतिप्रत्युपस्थितेरनन्तरं पलायने प्राप्तेऽपि वैपरीत्याद् व्यवस्थितान् अप्रचलितानेव परान् प्रत्यक्षेणोपलभ्य हनुमन्तं वानरवरं ध्वजलक्षणत्वेन आदायावस्थितोऽर्जुनो भगवन्तमाहेति सम्बन्धः । किमाहेत्यपेक्षायामिदं - वक्ष्यमाणं हेतुमद्वचनमित्याह - वाक्यमिदमिति । कस्यामवस्थायामिदमुक्तवानिति तत्राह - प्रवृत्त इति । शस्त्राणां - इषुप्रासप्रभृतीनां सम्पातः - समुदायः तस्मिन् प्रवृत्ते - प्रयोगाभिमुखे सतीति यावत् । किं कृत्वा भगवन्तं प्रत्युक्तवानिति तदाह – धनुरिति ।
महीपतिशब्देन राजा प्रज्ञाचक्षुः सञ्जयेन सम्बोध्यते ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 तदेव गाण्डीवधन्वनो वाक्यमनुक्रामति - सेनयोरिति ।
उभयोरपि सेनयोः संनिहितयोर्मध्ये मदीयं रथं स्थापयेत्यर्जुनेन सारथ्ये सर्वेश्वरो नियुज्यते । किं हि भक्तानामशक्यं यद्भगवानपि तन्नियोगमनुतिष्ठति युक्तं हि भगवतो भक्तपारवश्यम् । अच्युतेति सम्बोधनतया भगवतः स्वरूपं न कदाचिदपि प्रच्युतिं प्राप्नोतीत्युच्यते ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 मध्ये रथं स्थापयेत्युक्तम् । तदेव रथस्थापनस्थानं निर्धारयति - यावदिति । एतान् - प्रतिपक्षे प्रतिष्ठितान् भीष्मद्रोणादीन् अस्माभिः सार्धं योद्धुमपेक्षावतो यावद् - गत्वा निरीक्षितुमहं क्षमः स्याम् , तावति प्रदेशे रथस्य स्थापनम् कर्तव्यमित्यर्थः । किञ्च, प्रवृृत्ते युद्धप्रारम्भे बहवो राजानोऽमुष्यां युद्धभूमावुपलभ्यन्ते, तेषां मध्ये कैः सह मया योद्धव्यम् न हि क्वचिदपि मम गतिप्रतिहतिरस्तीत्याह - कैर्मयेति
॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 प्रतियोगिनामभावे कथं तव युद्धौत्सुक्यं फलवद् भवेदिति तत्राह – योत्स्यमानानिति । ये केचिदेते राजानो नानादेशेभ्योऽत्र कुरुक्षेत्रे समवेतास्तानहं योत्स्यमानान् - परिगृहीतप्रहरणोपायान् अतितरां सङ्ग्रामसमुत्सुकानुपलभे । तेन प्रतियोगिनां बाहुल्यमित्यर्थः । तेषामस्माभिः सह पूर्ववैराभावे कथं प्रतियोगित्वं प्रकल्पते तत्राह - धार्तराष्ट्रस्येति ।
धृतराष्ट्रपुत्रस्य दुर्योधनस्य दुर्बुद्धेः - स्वरक्षणोपायमप्रतिपद्यमानस्य युद्धाय संरम्भं कुर्वतो युद्धे - युद्धभूमौ स्थित्वा प्रियं कर्तुमिच्छवो राजानः समागता दृश्यन्ते, तेन तेषामौपाधिकमस्मत्प्रतियोगित्वमुपपन्नमित्यर्थः ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 एवमर्जुनेन प्रेरितो भगवान् अहिंसारूपं धर्ममाश्रित्य प्रायशो युद्धात् तं निवर्तयिष्यतीति धृतराष्ट्रस्य मनीषां दुदूषयिषुः सञ्जयो राजानं प्रत्युक्तवानित्याह - सञ्जय इति । भगवतोऽपि भूभारापहारार्थं प्रवृत्तस्य अर्जुनाभिप्रायप्रतिपत्तिद्वारेण स्वाभिसन्धिं प्रतिलभमानस्य परोक्तिमनुसृत्य स्वाभिप्रायानुकूलमनुष्ठानमादर्शयति - एवमिति ।
॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 भीष्मद्रोणादीनामन्येषां च राज्ञामन्तिके रथं स्थापयित्वा भगवान् किं कृतवानिति तदाह - उवाचेति ।
एतान् - अभ्याशे वर्तमानान् , कुरून् - कुरुवंशप्रसूतान् भवद्भिः सार्धं युद्धार्थं सङ्गतान् पश्य । दृष्ट्वा च यैः सहात्र युयुत्सा तवोपावर्तते तैः साकं युद्धं कुरु । नो खल्वेतेषां शस्त्रास्त्रशिक्षावतां महीक्षितामुपेक्षोपपद्यते, सारथ्ये तु न मनः खेदनीयमित्यर्थः ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 एवं स्थिते महानधर्मो हिंसेति विपरीतबुद्ध्या युद्धादुपरिरंसा पार्थस्य सम्प्रवृत्तेति कथयति - तत्रेत्यादिना ।
सप्तम्या भगवदभ्यनुज्ञाने समरसमारम्भाय सम्प्रवृत्ते सतीत्येतदुच्यते । सेनयोरुभयोरपि स्थितान् पार्थोऽपश्यदिति सम्बन्धः । अथशब्दः तथाशब्दपर्यायः । श्वशुराः भार्याणां जनयितारः । सुहृदो मित्राणि कृतवर्मप्रभृतयः ॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 सेनाद्वये व्यवस्थितान् यथोक्तान् पितृपितामहादीन् आलोच्य परमकृपापरवशः सन्नर्जुनो भगवन्तमुक्तवानित्याह - तानिति ।
विषीदन् - यथोक्तानां पित्रादीनां हिंसासंरम्भनिबन्धनं विषादमुपतापं कुर्वन्नित्यर्थः ॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 तदेव इदंशब्दवाच्यं वचनमुदाहरति - दृष्ट्वेति ।
॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मीयं बन्धुवर्गं युद्धेच्छया युद्धभूमावुपस्थितमुपलभ्य शोकप्रवृत्तिं दर्शयति - सीदन्तीति । देवांशस्यैवार्जुनस्यानात्मविदः स्वपरदेहेष्वात्मात्मीयाभिमानवतः तत्प्रियस्य युद्धारम्भे तन्मृत्युप्रसङ्गदर्शिनः शोको महानासीदित्यर्थः । अङ्गेषु व्यथा मुखे परिशोषश्चेत्युभयं शोकलिङ्गमुक्तम् । सम्प्रति वेपथुप्रभृतीनि भीतिलिङ्गान्युपन्यस्यति - वेपथुश्चेति ।
रोमहर्षः - रोम्णां गात्रेषु पुलकितत्वम् ॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 किञ्च अधैर्यमपि संवृत्तमित्याह - न चेति । मोहोऽपि महान् भवतीत्याह - भ्रमतीवेति ।
॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 विपरीतनिमित्तप्रतीतेरपि मोहो भवतीत्याह – निमित्तानीति । तानि विपरीतानि निमित्तानि यानि वामनेत्रस्फुरणादीनि । युद्धे स्वजनहिंसया फलानुपलम्भादपि तस्मादुपरिरंसा जायते इत्याह - न चेति ।
॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 प्राप्तानां युयुत्सूनां हिंसया विजयो राज्यं सुखानि च लब्धुं शक्यानीति कुतो युद्धादुपरतिरित्याशङ्क्याह - न काङ्क्ष इति किमिति राज्यादिकं सर्वाकाङ्क्षितत्वान्न काङ्क्ष्यते तेन हि पुत्रभ्रात्रादीनां स्वास्थ्यमाधातुं शक्यमित्याशङ्क्याह – किमिति ।
॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】 राज्यादीनामाक्षेपे हेतुमाह - येषामिति
॥३३ ॥ 【भाष्यम्】 【भाष्यम्】 तानेव विशिनष्टि - आचार्या इति ।
स्यालाः - भार्याणां भ्रातरो धृष्टद्युम्नप्रभृतयः ॥ ३४ ॥ 【भाष्यम्】 【भाष्यम्】 वध्येष्वपि स्वराज्यपरिपन्थिष्वाततायिषु कृपाबुद्ध्या स्वधर्माद्युद्धात् पूर्वोक्तमोहादिवशात् प्रच्युतिं प्रदर्शयति - एतानिति । जिघांसन्तं जिघांसीयात्’ (वसिष्ठधर्मसूत्रम् ३.१७) इति न्यायादेतेषां हिंसा न दोषायेत्याशङ्क्याह – घ्नतोऽपीति । पृथिवीप्राप्त्यर्थं हि हननमेतेषामिष्यते । न च तत्प्राप्तिः समीहितेति कैमुतिकन्यायेन दर्शयति - अपीति ।
न हि महदपि त्रैलोक्यलक्षणं राज्यं लब्धुं स्वजनहिंसायै मनो मदीयं स्पृहयति । पृथिवीप्राप्त्यर्थं पुनर्बन्धुवधं न श्रद्दधामीति किं वक्तव्यमित्यर्थः ॥ ३५ ॥ 【भाष्यम्】 【भाष्यम्】 दुर्योधनादीनां शत्रूणां निग्रहे प्रीतिप्राप्तिसम्भवाद्युद्धं कर्तव्यमित्याशङ्क्याह – निहत्येति । यदि पुनरमी दुर्योधनादयो न निगृह्येरन् भवन्तस्तर्हि तैर्निगृहीता दुःखिताः स्युरित्याशङ्क्याह - पापमेवेति । यदीमे दुर्योधनादयो निर्दोषानेवास्मान् अकस्माद्युद्धभूमौ हन्युः, तदैतान् ‘अग्निदो गरदश्च’ (मनुः ८.३५०)
इत्यादिलक्षणोपेतानाततायिनो निर्दोषस्वजनहिंसाप्रयुक्तं पापं पूर्वमेव पापिनः समाश्रयेदित्यर्थः । अथवा - यद्यप्येते भवन्त्याततायिनः, तथाप्येतान् अतिशोच्यान् दुर्योधनादीन् हिंसित्वा हिंसाकृतं पापमस्मानेवाश्रयेत् , अतो नास्माभिरेते हन्तव्या इत्यर्थः । अथवा - गुरुभ्रातृसुहृत्प्रभृतीनेतान् हत्वा वयमाततायिनः स्याम, ततश्चैतान् हत्वा हिंसाकृतं पापमाततायिनोऽस्मानेव समाश्रयेत् इति युद्धात् उपरमणमस्माकं श्रेयस्करमित्यर्थः ॥ ३६ ॥ 【भाष्यम्】 【भाष्यम्】 फलाभावादनर्थसम्भवाच्च परहिंसा न कर्तव्येत्युपसंहरति - तस्मादिति । किञ्च राज्यसुखमुद्दिश्य युद्धमुपक्रम्यते, न च स्वजनपरिक्षये सुखमुपपद्यते, तेन न कर्तव्यं युद्धमित्याह - स्वजनं हीति
॥ ३७ ॥ 【भाष्यम्】 【भाष्यम्】 कथं तर्हि परेषां कुलक्षये स्वजनहिंसायां च प्रवृत्तिस्तत्राह – यद्यपीति ।
लोभोपहतबुद्धित्वात् तेषां कुलक्षयादिप्रयुक्तदोषप्रतीत्यभावात् प्रवृत्तिविस्रम्भः सम्भवतीत्यर्थः ॥ ३८ ॥ 【भाष्यम्】 【भाष्यम्】 परेषामिव अस्माकमपि प्रवृत्तिविस्रम्भः सम्भवेदिति चेत् , नेत्याह – कथमिति ।
कुलक्षये मित्रद्रोहे च दोषं प्रपश्यद्भिरस्माभिः तद्दोषशब्दितं पापं कथं न ज्ञातव्यम् तदज्ञाने तत्परिहारासम्भवात् । अतोऽस्मात् पापान्निवृत्त्यर्थं तज्ज्ञानमपेक्षितमिति पापपरिहारार्थिनामस्माकं न युक्ता युद्धे प्रवृत्तिरित्यर्थः ॥ ३९ ॥ 【भाष्यम्】 【भाष्यम्】 कोऽसौ कुलक्षये दोषो यद्दर्शनाद्युष्माकं युद्धादुपरतिरपेक्ष्यते तत्राह – कुलेति । कुलस्य हि क्षये कुलसम्बन्धिनः चिरन्तना धर्माः तत्तदग्निहोत्रादिक्रियासाध्या नाशमुपयान्ति । कर्तुरभावादित्यर्थः । धर्मनाशेऽपि किं स्यात् इति चेत् , तत्राह - धर्म इति ।
कुलप्रयुक्ते धर्मे कुलनाशादेव नष्टे कुलक्षयकरस्य कुलं परिशिष्टमखिलमपि तदीयोऽधर्मोऽभिभवति । अधर्मभूयिष्ठं तस्य कुलं भवतीत्यर्थः ॥ ४० ॥ 【भाष्यम्】 【भाष्यम्】 कुलक्षये कृते अवशिष्टकुलस्य अधर्मप्रवणत्वे को दोषः स्यात् इति तत्राह – अधर्मेति । पापप्रचुरे कुले प्रसूतानां स्त्रीणां प्रदुष्टत्वे किं दुष्यति तत्राह - स्त्रीष्विति
॥ ४१ ॥ 【भाष्यम्】 【भाष्यम्】 वर्णसङ्करस्य दोषपर्यवसायितामादर्शयति - सङ्कर इति । कुलक्षयकराणां दोषान्तरं समुच्चिनोति - पतन्तीति । कुलक्षयकृतां पितरो निरयगामिनो सम्भवन्तीत्यत्र हेतुमाह – लुप्तेति ।
पुत्रादीनां कर्तॄणामभावात् लुप्ता पिण्डस्योदकस्य च क्रिया येषां ते तथा । ततश्च प्रेतत्वपरावृत्तिकारणाभावात् नरकपतनमेव आवश्यकमापतेदित्यर्थः ॥ ४२ ॥ 【भाष्यम्】 【भाष्यम्】 कुलक्षयकृतामेतैरुदाहृतैर्दोषैर्वर्णसङ्करहेतुभिर्जातिप्रयुक्ता वंशप्रयुक्ताश्च धर्माः सर्वे समुत्साद्यन्ते । तेन कुलक्षयकारणाद् युद्धादुपरतिरेव श्रेयसीत्याह - दोषैरिति
॥ ४३ ॥ 【भाष्यम्】 【भाष्यम्】 किञ्च जातिधर्मेषु कुलधर्मेषु चोत्सन्नेषु तत्तद्धर्मवर्जितानां मनुष्याणामनधिकृतानां नरकपतनध्रौव्यात् अनर्थकरमिदमेव हेयमित्याह – उत्सन्नेति । यथोक्तानां मनुष्याणां नरकपातस्य आवश्यकत्वे प्रमाणमाह - इत्यनुशुश्रुमेति
॥ ४४ ॥ 【भाष्यम्】 【भाष्यम्】 राज्यप्राप्तिप्रयुक्तसुखोपभोगलुब्धतया स्वजनहिंसायां प्रवृत्तिरस्माकं गुणदोषविभागविज्ञानवतामतिकष्टेति परिभ्रष्टहृदयः सन्नाह - अहो बतेति
॥ ४५ ॥ 【भाष्यम्】 【भाष्यम्】 यद्येवं युद्धे विमुखः सन् परपरिभवप्रतीकाररहितो वर्तेथाः, तर्हि त्वां शस्त्रपरिग्रहरहितं शत्रुं शस्रपाणयो धार्तराष्ट्रा निगृह्णीयुरित्याशङ्क्याह – यदीति ।
प्राणत्राणादपि प्रकृष्टो धर्मः प्राणभृतामहिंसेति भावः ॥ ४६ ॥ 【भाष्यम्】 【भाष्यम्】 यथोक्तमर्जुनस्य वृत्तान्तं सञ्जयो धृतराष्ट्रं राजानं प्रति प्रवेदितवान् । तमेव प्रवेदनप्रकारं दर्शयति - एवमिति । प्रदर्शितेन प्रकारेण भगवन्तं प्रति विज्ञापनं कृत्वा शोकमोहाभ्यां परिभूतमानसः सन् अर्जुनः सङ्ख्ये - युद्धमध्ये शरेण सहितं गाण्डीवं त्यक्त्वा ‘न योत्स्येऽहम्’ (भ. भ. गी. २-९)
इति ब्रुवन् , मध्ये रथस्य, संन्यासमेव श्रेयस्करं मत्वोपविष्टवानित्यर्थः ॥ ४७ ॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने प्रथमोऽध्यायः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 अतीतसन्दर्भस्येत्थमक्षरोत्थमर्थं विवक्षित्वा तस्मिन्नेव वाक्यविभागमवगमयति - दृष्ट्वा त्विति । ‘धर्मक्षेत्रे कुरुक्षेत्रे’ (भ. भ. गी. १-१) इत्यादिराद्यश्लोकस्तावदेकं वाक्यम् । शास्रस्य कथासम्बन्धपरत्वेन पर्यवसानात् । ‘दृष्ट्वा’ (भ. भ. गी. १-२) इत्यारभ्य यावत् ‘तूष्णीं बभूव ह’ (भ. भ. गी. २-९) इति तावच्चैकं वाक्यम् । इत आरभ्य ‘इदं वचः’ (भ. भ. गी. २-१०) इत्येतदन्तो ग्रन्थो भवत्यपरं वाक्यमिति विभागः । ननु - आद्यश्लोकस्य युक्तमेकवाक्यत्वम् , प्रकृतशास्रस्य महाभारतेऽवतारावद्योतित्वात् , अन्तिमस्यापि सम्भवत्येकवाक्यत्वमर्जुनाश्वासार्थतया प्रवृत्तत्वात् , तन्मध्यमस्य तु कथमेकवाक्यत्वमित्याशङ्क्यार्थैकत्वादित्याह - प्राणिनामिति । शोकः - मानसस्तापः, मोहः - विवेकाभावः । आदिशब्दस्तदवान्तरभेदार्थः । स एव संसारस्य दुःखात्मनो बीजभूतो दोषः, तस्योद्भवे कारणमहङ्कारो ममकारः तद्धेतुरविद्या च तत्प्रदर्शनार्थत्वेनेति योजना । सङ्गृहीतमर्थं विवृणोति - तथा हीति । राज्यं - राज्ञः कर्म परिपालनादि । पूजार्हा गुरवः - भीष्मद्रोणादयः । पुत्राः - स्वयमुत्पादिताः सौभद्रादयः । सम्बन्धान्तरमन्तरेण स्नेहगोचरा गुरुपुत्रप्रभृतयो मित्रशब्देनोच्यन्ते । उपकारनिरपेक्षतया स्वयमुपकारिणो हृदयानुरागभाजो भगवत्प्रमुखाः सुहृदः । स्वजनाः - ज्ञातयो दुर्योधनादयः । सम्बन्धिनः - श्वशुरस्यालप्रभृतयो द्रुपदधृष्टद्युम्नादयः । परम्परया पितृपितामहादिष्वनुरागभाजो राजानो बान्धवाः । तेषु यथोक्तं प्रत्ययं निमित्तीकृत्य यः स्नेहो यश्च तैः सह विच्छेदो, यच्चैतेषामुपघाते पातकं या च लोकगर्हा सर्वं तन्निमित्तं ययोरात्मनः शोकमोहयोस्तावेतौ संसारबीजभूतौ ‘कथम् ‘ (भ. गी. २. ४) इत्यादिना दर्शितावित्यर्थः । कथं पुनरनयोः संसारबीजयोरर्जुने सम्भावनोपपद्यते न हि प्रथितमहामहिम्नो विवेकविज्ञानवतः स्वधर्मे प्रवृत्तस्य तस्य शोकमोहावनर्थहेतू सम्भावितावित्याशङ्क्य, विवेकतिरस्कारेण तयोर्विहिताकरणप्रतिषिद्धाचरणकारणत्वादनर्थाधायकयोरस्ति तस्मिन् सम्भावनेत्याह शोकमोहाभ्यामिति । भिक्षया जीवनं प्राणधारणम् । आदिशब्दात् अशेषकर्मसंन्यासलक्षणं पारिव्राज्यमात्माभिध्यानमित्यादि गृह्यते । किञ्च अर्जुने दृश्यमानौ शोकमोहौ संसारबीजं, शोकमोहत्वात् , अस्मदादिनिष्ठशोकमोहवत् , इति उपलब्धौ शोकमोहौ प्रत्येकं पक्षीकृत्यानुमातव्यमित्याह - तथा चेति । शोकमोहादीत्यादिशब्देन मिथ्याभिमानस्नेहगर्हादयो गृह्यन्ते । स्वभावतः चित्तदोषसामर्थ्यादित्यर्थः । अस्मदादीनामपि स्वधर्मे प्रवृत्तानां विहिताकरणाद्यभावात् न शोकादेः संसारबीजतेति दृष्टान्तस्य साध्यविकलतेति चेत् , तत्राह - स्वधर्म इति कायादीनामित्यादिशब्दादवशिष्टानीन्द्रियाण्यादीयन्ते । फलाभिसन्धिः - तद्विषयोऽभिलाषः । कर्तृत्वभोक्तृत्वाभिमानः - अहङ्कारः । प्रागुक्तप्रकारेण वागादिव्यापारे सति किं सिध्यति तत्राह - तत्रेति । शुभकर्मानुष्ठानेन धर्मोपचयादिष्टं देवादिजन्म, ततः सुखप्राप्तिः, अशुभकर्मानुष्ठानेन अधर्मोपचयादनिष्टं तिर्यगादिजन्म, ततो दुःखप्राप्तिः, व्यामिश्रकर्मानुष्ठानादुभाभ्यां धर्माधर्माभ्यां मनुष्यजन्म, ततः सुखदुःखे भवतः । एवमात्मकः संसारः सन्ततो वर्तत इत्यर्थः । अर्जुनस्यान्येषां च शोकमोहयोः संसारबीजत्वमुपपादितमुपसंहरति - इत्यत इति । तदेवं प्रथमाध्यायस्य द्वितीयाध्यायैकदेशसहितस्य आत्माज्ञानोत्थनिवर्तनीयशोकमोहाख्यसंसारबीजप्रदर्शनपरत्वं दर्शयित्वा, वक्ष्यमाणसन्दर्भस्य सहेतुकसंसारनिवर्तकसम्यग्ज्ञानोपदेशे तात्पर्यं दर्शयति - तयोश्चेति । तत् - यथोक्तं ज्ञानम् , उपदिदिक्षुः - उपदेष्टुमिच्छन् भगवानाहेति सम्बन्धः । सर्वलोकानुग्रहार्थं यथोक्तं ज्ञानं भगवानुपदिदिक्षतीत्ययुक्तम् , अर्जुनं प्रत्येवोपदेशात् , इत्याशङ्क्याह - अर्जुनमिति । न हि तस्यामवस्थायामर्जुनस्य भगवता यथोक्तं ज्ञानमुपदेष्टुमिष्टम् , किन्तु स्वधर्मानुष्ठानाद् - बुद्धिशुद्ध्युत्तरकालमित्यभिप्रेत्योक्तम् - निमित्तीकृत्येति । सर्वकर्मसंन्यासपूर्वकादात्मज्ञानादेव केवलात् कैवल्यप्राप्तिरिति गीताशास्त्रार्थः स्वाभिप्रेतो व्याख्यातः । सम्प्रति वृत्तिकृतामभिप्रेतं निरसितुमनुवदति - अत्रेति। निर्धारितः शास्त्रार्थः सतिसप्तम्या परामृश्यते । तेषामुक्तिमेव विवृण्वन् आदौ सैद्धान्तिकमभ्युपगमं प्रत्यादिशति - सर्वकर्मेति । वैदिकेन कर्मणा समुच्चयं व्युदसितुं मात्रपदम् । स्मार्तेन कर्मणा समुच्चयं निरसितुमवधारणम् । अभ्याससम्बन्धं धुनीते - केवलादिति । नैवेत्येवकारः सम्बध्यते । केन तर्हि प्रकारेण ज्ञानं कैवल्यप्राप्तिकारणम् इत्याशङ्क्याह - किं तर्हीति । किं तत्र प्रमापकम् इत्याशङ्क्य, इदमेव शास्रमित्याह - इति सर्वास्विति । यथा प्रयाजानुयाजाद्युपकृतमेव दर्शपौर्णमासादि स्वर्गसाधनम् , तथा श्रौतस्मार्तकर्मोपकृतमेव ब्रह्मज्ञानं कैवल्यं साधयति । विमतं सेतिकर्तव्यताकमेव स्वफलसाधकं करणत्वाद् दर्शपौर्णमासादिवत् । तदेवं ज्ञानकर्मसमुच्चयपरं शास्त्रमित्यर्थः । इतिपदम् - आहुरित्यनेन पूर्वेण सम्बध्यते । पौर्वापर्यालोचनायां शास्त्रस्य समुच्चयपरत्वं न निर्धारितमित्याशङ्क्याह - ज्ञापकं चेति । न केवलं ज्ञानं मुक्तिहेतुः, अपितु समुच्चितमित्यस्यार्थस्य स्वधर्माननुष्ठाने पापप्राप्तिवचनसामर्थ्यलक्षणं लिङ्गं गमकमित्यर्थः । शास्त्रस्य समुच्चयपरत्वे लिङ्गवद्वाक्यमपि प्रमाणमित्याह - कर्मण्येवेति । तत्रैव वाक्यान्तरमुदाहरति - कुरु कर्मेति । ननु - ‘न हिंस्यात् सर्वा भूतानि’ इत्यादिना प्रतिषिद्धत्वेन हिंसादेरनर्थहेतुत्वावगमात् तदुपेतं वैदिकं कर्म अधर्मायेति नानुष्ठातुं शक्यते । तथा च तस्य मोक्षे ज्ञानेन समुच्चयो न सिध्यतीति साङ्ख्यमतमाशङ्क्य परिहरति - हिंसादीति । आदिशब्दादुच्छिष्टभक्षणं गृह्यते । यथोक्ता शङ्का न कर्तव्येत्यत्र आकाङ्क्षापूर्वकं हेतुमाह - कथमित्यादिना । स्वशब्देन क्षत्रियो विवक्ष्यते । युद्धाकरणे क्षत्रियस्य प्रत्यवायश्रवणात् तस्य तं प्रति नित्यत्वेन अवश्यकर्तव्यत्वप्रतीतेर्गुर्वादिहिंसायुक्तमतिक्रूरमपि कर्म न अधर्मायेति हेत्वन्तरमाह - तदकरणे चेति । आचार्यादिहिंसायुक्तमतिक्रूरमपि युद्धं न अधर्मायेति ब्रुवता भगवता श्रौतानां हिंसादियुक्तानामपि कर्मणां दूरतो न अधर्मत्वमिति स्पष्टमुपदिष्टं भवति । सामान्यशास्त्रस्य व्यर्थहिंसानिषेधार्थत्वात् क्रतुविषये चोदितहिंसायास्तदविषयत्वात् कुतो वैदिककर्मानुष्ठानानुपपत्तिरित्यर्थः । ज्ञानकर्मसमुच्चयात् कैवल्यसिद्धिरित्युपसंहर्तुं इतिशब्दः । यत् तावत् ‘ब्रह्मज्ञानं सेतिकर्तव्यताकं, स्वफलसाधकं, करणत्वात्’ इत्यनुमानं तद्दूषयति - तदसदिति । न हि शुक्तिकादिज्ञानमज्ञाननिवृत्तौ स्वफले सहकारि किञ्चिदपेक्षते, तथा च व्यभिचारादसाधकं करणत्वमित्यर्थः । यत्तु - गीताशास्त्रे समुच्चयस्यैव प्रतिपाद्यतेति प्रतिज्ञातम् , तदपि विभागवचनविरुद्धमित्याह - ज्ञानेति । साङ्ख्यबुद्धिर्योगबुद्धिश्चेति बुद्धिद्वयम् । तत्र साङ्ख्यबुद्ध्याश्रयां ज्ञाननिष्ठां व्याख्यातुं साङ्ख्यशब्दार्थमाह - अशोच्यानित्यादिनेति । ‘अशोच्यान्’ (भ. भ. गी. २-११) इत्यादि ‘स्वधर्ममपि चावेक्ष्य’ (भ. भ. गी. २-३१) इत्येतदन्तं वाक्यं यावद्भविष्यति तावता ग्रन्थेन यत् परमार्थभूतमात्मतत्त्वं भगवता निरूपितम् , तत् यया सम्यक् ख्यायते - प्रकाश्यते सा वैदिकी सम्यग्बुद्भिः सङ्ख्या । तया प्रकाश्यत्वेन सम्बन्धि प्रकृतं तत्त्वं साङ्ख्यमित्यर्थः । साङ्ख्यशब्दार्थमुक्तवा तत्प्रकाशिकां बुद्धिं तद्वतश्च साङ्ख्यान् व्याकरोति - तद्विषयेति । तद्विषया बुद्धिः साङ्ख्यबुद्धिरिति सम्बन्धः । तामेव प्रकटयति - आत्मन इति । ‘न जायते म्रियते वा’ (भ. भ. गी. २-२०) इत्यादिप्रकरणार्थनिरूपणद्वारेण आत्मनः षड्भावविक्रियाऽसम्भवात् कूटस्थोऽसाविति या बुद्धिरुत्पद्यते सा साङ्ख्यबुद्धिः, तत्पराः संन्यासिनः साङ्ख्या इत्यर्थः । सम्प्रति योगबुद्ध्याश्रयां कर्मनिष्ठां व्याख्यातुकामो योगशब्दार्थमाह - एतस्या इति । यथोक्तबुद्ध्युत्पत्तौ विरोधादेवानुष्ठानायोगात् तस्यास्तन्निवर्तकत्वात् पूर्वमेव तदुत्पत्तेरात्मनो देहादिव्यतिरिक्तत्वाद्यपेक्षया धर्माधर्मौ निष्कृष्य तेन ईश्वराराधनरूपेण कर्मणा पुरुषो मोक्षाय युज्यते - योग्यः सम्पद्यते । तेन मोक्षसिद्धये परम्परया साधनीभूतप्रागुक्तधर्मानुष्ठानात्मको योग इत्यर्थः । अथ योगबुद्धिं विभजन् योगिनो विभजते - तद्विषयेति । उक्ते बुद्धिद्वये भगवतोऽभिमतिं दर्शयति - तथा चेति । साङ्ख्यबुद्ध्याश्रया ज्ञाननिष्ठेत्येतदपि भगवतोऽभिमतमित्याह - तयोश्चेति । ज्ञानमेव योगो ज्ञानयोगः । तेन हि ब्रह्मणा युज्यते - तादात्म्यमापद्यते । तेन संन्यासिनां निष्ठा - निश्चयेन स्थितिस्तात्पर्येण परिसमाप्तिः, तां कर्मनिष्ठातो व्यतिरिक्तां निष्ठयोर्मध्ये निष्कृष्य भगवान् वक्ष्यतीति योजना । ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । ज्ञानयोगेन साङ्ख्यानाम्’ (भ. भ. गी. ३-३) इत्येतद्वाक्यमुक्तार्थविषयमर्थतोऽनुवदति - पुरेति । योगबुद्ध्याश्रया कर्मनिष्ठेत्यत्रापि भगवदनुमतिमादर्शयति - तथा चेति । कर्मैव योगः कर्मयोगः । तेन हि बुद्धिशुद्धिद्वारा मोक्षहेतुज्ञानाय पुमान् युज्यते । तेन निष्ठां कर्मिणां ज्ञाननिष्ठातो विलक्षणां कर्मयोगेनेत्यादिना वक्ष्यति भगवानिति योजना । निष्ठाद्वयं बुद्धिद्वयाश्रयं भगवता विभज्योक्तमुपसंहरति - एवमिति । कया पुनरनुपपत्त्या भगवता निष्ठाद्वयं विभज्योक्तम् इत्याशङ्क्याह - ज्ञानकर्मणोरिति । कर्म हि कर्तृत्वानेकत्वबुद्ध्याश्रयम् , ज्ञानं पुनरकर्तृत्वैकत्वबुद्ध्याश्रयम् । तदुभयमित्थं विरुद्धसाधनसाध्यत्वात् न एकावस्थस्यैव पुरुषस्य सम्भवति । अतो युक्तमेव तयोर्विभागवचनमित्यर्थः । भगवदुक्तविभागवचनस्य मूलत्वेन श्रुतिमुदाहरति- यथेति । तत्र ज्ञाननिष्ठाविषयं वाक्यं पठति - एतमेवेति । प्रकृतमात्मानं नित्यविज्ञप्तिस्वभावं वेदितुमिच्छन्तः त्रिविधेऽपि कर्मफले वैतृष्ण्यभाजः सर्वाणि कर्माणि परित्यज्य ज्ञाननिष्ठा भवन्तीति पञ्चमलकारस्वीकारेण संन्यासविधिं विवक्षित्वा, तस्यैव विधेः शेषेणार्थवादेन ‘किं प्रजया’ (बृ. उ. ४-४-२२) इत्यादिना मोक्षफलं ज्ञानमुक्तमित्यर्थः । ननु - फलाभावात् प्रजाक्षेपो नोपपद्यते, पुत्रेणैतल्लोकजयस्य वाक्यान्तरसिद्धत्वात् , इत्याशङ्क्य, विदुषां प्रजासाध्यमनुष्यलोकस्य आत्मव्यतिरेकेणाभावात् , आत्मनश्चासाध्यत्वादाक्षेपो युक्तिमानिति विवक्षित्वाह - येषामिति । इति ज्ञानं दर्शितमिति शेषः । तस्मिन्नेव ब्राह्मणे कर्मनिष्ठाविषयं वाक्यं दर्शयति - तत्रैवेति । प्राकृतत्वम् - अतत्त्वदर्शित्वेनाज्ञत्वम् । स च ब्रह्मचारी सन् गुरुसमीपे यथाविधि वेदमधीत्य अर्थज्ञानार्थं धर्मजिज्ञासां कृत्वा तदुत्तरकालं लोकत्रयप्राप्तिसाधनं पुत्रादित्रयं ‘सोऽकामयत जाया मे स्यात्’ (बृ. उ. १-४-१७) इत्यादिना कामितवानिति श्रुतमित्यर्थः । वित्तं विभजते - द्विप्रकारमिति । तदेव प्रकारद्वैरूप्यमाह - मानुषमिति । मानुषं वित्तं व्याचष्टे - कर्मरूपमिति । तस्य फलपर्यवसायित्वमाह - पितृलोकेति । दैवं वित्तं विभजते - विद्यां चेति । तस्यापि फलनिष्ठत्वमाह - देवेति । कर्मनिष्ठाविषयत्वेनोदाहृतश्रुतेस्तात्पर्यमाह - अविद्येति । अज्ञस्य कामनाविशिष्टस्यैव कर्माणि ‘सोऽकामयत’ (बृ. उ. १-४-१७) इत्यादिना दर्शितानीत्यर्थः । ज्ञाननिष्ठाविषयत्वेन दर्शितश्रुतेरपि तात्पर्यं दर्शयति - तेभ्य इति । कर्मसु विरक्तस्यैव संन्यास - पूर्विका ज्ञाननिष्ठा प्रागुदाहृतश्रुत्या दर्शितेत्यर्थः । अवस्थाभेदेन ज्ञानकर्मणोर्भिन्नाधिकारत्वस्य श्रुतत्वात् तन्मूलेन भगवतो विभागवचनेन शास्त्रस्य समुच्चयपरत्वं प्रतिज्ञातमपबाधितमिति साधितम् । किञ्च समुच्चयो ज्ञानस्य श्रौतेन, स्मार्तेन वा कर्मणा विवक्ष्यते यदि प्रथमस्तत्राह - तदेतदिति । समुच्चयेऽभिप्रेते प्रश्नानुपपत्तिं दोषान्तरमाह न चेति । तामेवानुपपत्तिं प्रकटयति- एकपुरुषेति । यदि समुच्चयः शास्त्रार्थो भगवता विवक्षितः तदा ज्ञानकर्मणोरेकेन पुरुषेणानुष्ठेयत्वमेव तेनोक्तमर्जुनेन च श्रुतम् । तत् कथं तदसम्भवमनुक्तमश्रुतं च मिथ्यैव श्रोता भगवत्यारोपयेत् न च तदारोपादृते किमिति मां कर्मण्येव अतिक्रूरे युद्धलक्षणे नियोजयसीति प्रश्नोऽवकल्पते । तथा च प्रश्नालोचनया प्रष्टृप्रतिवक्त्रोः शास्त्रार्थतया समुच्चयोऽभिप्रेतो न भवतीति प्रतिभातीत्यर्थः । किञ्च समुच्चयपक्षे कर्मापेक्षया बुद्धेर्ज्यायस्त्वं भगवता पूर्वमनुक्तमर्जुनेन चाश्रुतं कथमसौ तस्मिन्नारोपयितुमर्हति ततश्चानुवादवचनं श्रोतुरनुचितमित्याह - बुद्धेश्चेति । इतश्च समुच्चयः शास्त्रार्थो न सम्भवति, अन्यथा पञ्चमादावर्जुनस्य प्रश्नानुपपत्तेरित्याह - किञ्चेति । ननु - सर्वान् प्रत्युक्तेऽपि समुच्चये, नार्जुनं प्रत्युक्तोऽसाविति तदीयप्रश्नोपपत्तिरित्याशङ्क्याह - यदीति । एतयोः - कर्मतत्त्यागयोरिति यावत् । ननु - कर्मापेक्षया कर्मत्यागपूर्वकस्य ज्ञानस्य प्राधान्यात् तस्य श्रेयस्त्वात् तद्विषयप्रश्नोपपत्तिरिति चेत् , नेत्याह - न हीति । तथैव समुच्चये पुरुषार्थसाधने भगवता दर्शिते सत्यन्यतरगोचरो न प्रश्नो भवतीति शेषः । समुच्चये भगवतोक्तेऽपि तदज्ञानादर्जुनस्य प्रश्नोपपत्तिरिति शङ्कते - अथेति । अज्ञाननिमित्तं प्रश्नमङ्गीकृत्यापि प्रत्याचष्टे - तथापीति । भगवतो भ्रान्त्यभावेन पूर्वापरानुसन्धानसम्भवादित्यर्थः । प्रश्नानुरूपत्वमेव प्रतिवचनस्य प्रकटयति - मयेति । व्यावर्त्यमंशमादर्शयति - न त्विति । प्रतिवचनस्य प्रश्नाननुरूपत्वमेव स्पष्टयति - पृष्टादिति । .श्रौतेन कर्मणा समुच्चयो ज्ञानस्येति पक्षं प्रतिक्षिप्य पक्षान्तरं प्रतिक्षिपति - नापीति । श्रुतिस्मृत्योर्ज्ञानकर्मणोर्विभागवचनं आदिशब्दगृहीतं बुद्धेर्ज्यायस्त्वं, पञ्चमादौ प्रश्नः, भगवत्प्रतिवचनं, सर्वमिदं श्रौतेनेव स्मार्तेनापि कर्मणा बुद्धेः समुच्चये विरुद्धं स्यादित्यर्थः । द्वितीयपक्षासम्भवे हेत्वन्तरमाह - किञ्चेति । समुच्चयपक्षे प्रश्नप्रतिवचनयोरसम्भवात् नेदं गीताशास्त्रं तत्परमित्युपसंहरति - तस्मादिति । विशुद्धब्रह्मात्मज्ञानं स्वफलसिद्धौ न सहकारिसापेक्षम् , अज्ञाननिवृत्तिफलत्वात् , रज्ज्वादितत्त्वज्ञानवत् । अथवा - बन्धः सहायानपेक्षेण ज्ञानेन निवर्त्यते, अज्ञानात्मकत्वात् , रज्जुसर्पादिवदिति भावः । ननु - ‘कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसङ्ग्रहम्’ (भ. भ. गी. ३-२५) इति वक्ष्यमाणत्वात् कथं गीताशास्त्रे समुच्चयो नास्ति तत्राह - यस्य त्विति । चोदनासूत्रानुसारेण विधितोऽनुष्ठेयस्य कर्मणो धर्मत्वात् , व्यापारमात्रस्य तथात्वाभावात् तत्त्वविदश्च वर्णाश्रमाभिमानशून्यस्य अधिकारप्रतिपत्त्यभावात् , यागादिप्रवृत्तीनामविद्यालेशतो जायमानानां कर्माभासत्वात् , ‘कुर्याद्विद्वान्’ (भ. भ. गी. ३-२५) इत्यादिवाक्यं न समुच्चयप्रापकमिति भावः । वाशब्दश्चार्थे । द्वितीयस्तु विविदिषावाक्यस्थसाधनान्तरसङ्ग्रहार्थः । सांसारिकं ज्ञानं व्यावर्तयति - परमार्थेति । तदेवाभिनयति - एकमिति । प्रवृत्तिरूपमिति रूपग्रहणमाभासत्वप्रदर्शनार्थम् । कर्माभाससमुच्चयस्तु यादृच्छिकत्वात् न मोक्षं फलयतीति शेषः । किञ्च, ज्ञानिनो यागादिप्रवृत्तिर्न ज्ञानेन तत्फलेन समुच्चीयते, फलाभिसन्धिविकलप्रवृत्तित्वात् अहङ्कारविधुरप्रवृत्तित्वाद्वा भगवत्प्रवृत्तिवदित्याह - यथेति । हेतुद्वयस्यासिद्धिमाशङ्क्य परिहरति - तत्त्वविदिति । कूटस्थं ब्रह्मैवाहमिति मन्वानो विद्वान् प्रवृत्तिं तत्फलं वा नैव स्वगतत्वेन पश्यति, रूपादिवद् दृश्यस्य द्रष्टृधर्मत्वायोगात् । किन्तु कार्यकरणसङ्घातगतत्वेनैव प्रवृत्त्यादि प्रतिपद्यते । ततस्तत्त्वविदो व्याख्यानभिक्षाटनादावहङ्कारस्य तृप्त्यादिफलाभिसन्धेश्च आभासत्वात् नासिद्धं हेतुद्वयमित्यर्थः । ननु - ज्ञानोदयात् प्रागवस्थायामिवोत्तरकालेऽपि प्रतिनियतप्रवृत्त्यादिदर्शनात् न तत्त्वदर्शिनिष्ठप्रवृत्त्यादेराभासत्वमिति, तत्राह - यथा चेति । स्वर्गादिरेव काम्यमानत्वात् कामः, तदर्थिनः - स्वर्गादिकामस्य अग्निहोत्रादेरपेक्षितस्वर्गादिसाधनस्यानुष्ठानार्थमग्निमाधाय व्यवस्थितस्य तस्मिन्नेव काम्ये कर्मणि प्रवृत्तस्य अर्धकृते केनापि हेतुना कामे विनष्टे तदेवाग्निहोत्रादि निर्वर्तयतो न तत् काम्यं भवति, नित्यकाम्यविभागस्य स्वाभाविकत्वाभावात् , कामोपबन्धानुपबन्धकृतत्वात् । तथा विदुषोऽपि विध्यधिकाराभावात् यागादिप्रवृत्तीनां कर्माभासतेत्यर्थः । विद्वत्प्रवृत्तीनां कर्माभासत्वमित्यत्र भगवदनुमतिमुपन्यस्यति - तथा चेति । ननु - विद्वद्व्यापारेऽपि कर्मशब्दप्रयोगदर्शनात् तद्व्यापारस्य कर्माभासत्वानुपपत्तेः समुच्चयसिद्धिरिति, तत्राह - यच्चेति । ज्ञानकर्मणोः समुच्चित्यैव संसिद्धिहेतुत्वे प्रतिपन्ने कुतो विभज्य अर्थज्ञानमिति पृच्छति - तत्कथमिति । तत्र, ‘किं जनकादयोऽपि तत्त्वविदः प्रवृत्तकर्माणः स्युः, आहोस्विदतत्त्वविदः ‘ इति विक्ल्प्य, प्रथमं प्रत्याह - यदीति । तत्त्ववित्त्वे कथं प्रवृत्तकर्मत्वम् , कर्मणामकिञ्चित्करत्वात् , इत्याशङ्क्याह - ते लोकेति । तेषामुक्तप्रयोजनार्थमपि न प्रवृत्तिर्युक्ता सर्वत्राप्युदासीनत्वात् , इत्याशङ्क्याह - गुणा इति । इन्द्रियाणां विषयेषु प्रवृत्तिद्वारा तत्त्वविदां प्रवृत्तकर्मत्वेऽपि ज्ञानेनैव तेषां मुक्तिरित्याह - ज्ञानेनेति । उक्तमेवार्थं सङ्क्षिप्य दर्शयति - कर्मेति कर्मणेत्यादौ बाधितानुवृत्त्या प्रवृत्त्याभासो गृह्यते । द्वितीयमनुवदति - अथेति । तत्र वाक्यार्थं कथयति - ईश्वरेति । विभज्य विज्ञेयत्वं वाक्यार्थस्योक्तमुपसंहरति - इति व्याख्येयमिति । कर्मणां चित्तशुद्धिद्वारा ज्ञानहेतुत्वमित्युक्तेऽर्थे वाक्यशेषं प्रमाणयति - एतमेवेति । ‘योगिनः कर्म कुर्वन्ति’ (भ. भ. गी. ५-११) इत्यादिवाक्यमर्थतोऽनुवदति - सत्त्वेति । ‘स्वकर्मणा’ (भ. भ. गी. १८-४६) इत्यादौ साक्षादेव मोक्षहेतुत्वं कर्मणां वक्ष्यतीत्याशङ्क्याह - स्वकर्मणेति । स्वकर्मानुष्ठानादीश्वरप्रसादद्वारा ज्ञाननिष्ठायोग्यता लभ्यते । ततो ज्ञाननिष्ठया मुक्तिः । तेन न साक्षात् कर्मणां मुक्तिहेतुतेत्यग्रे स्फुटीभविष्यतीत्यर्थः । तत्त्वज्ञानोत्तरकालं कर्मासम्भवे फलितमुपसंहरति - तस्मादिति । ननु - यद्यपि गीताशास्त्रं तत्त्वज्ञानप्रधानमेकं वाक्यम् , तथापि तन्मध्ये श्रूयमाणं कर्म तदङ्गमङ्गीकर्तव्यम् , प्रकरणप्रामाण्यात् इति समुच्चयसिद्धिः, तत्राह - यथा चेति । अर्थशब्देन आत्मज्ञानमेव केवलं कैवल्यहेतुरिति गृह्यते । ‘अहिंसा परमो धर्मो भिक्षाशनं च ‘ इत्येवंलक्षणया बुद्ध्या युद्धवैमुख्यमर्जुनस्य श्रुत्वा स्वपुत्राणां राज्यैश्वर्यमप्रचलितमवधार्य स्वस्थहृदयं धृतराष्ट्रं दृष्ट्वा तस्य दुराशामपनेष्यामीति मनीषया सञ्जयस्तं प्रत्युक्तवानित्याह - सञ्जय इति । परमेश्वरेण स्मार्यमाणोऽपि कृत्याकृत्ये सहसा नार्जुनः सस्मार, विपर्ययप्रयुक्तस्य शोकस्य दृढतरमोहहेतुत्वात् । तथापि तं भगवान् नोपेक्षितवानित्याह - तं तथेति ।
तं - प्रकृतं पार्थं, तथा - स्वजनमरणप्रसङ्गदर्शनेन कृपया - करुणया आविष्टं - अधिष्ठितम् , अश्रुभिः पूर्णे समाकुले चेक्षणे यस्य तम् , अश्रुव्याप्ततरलाक्षं विषीदन्तं - शोचन्तं इदं - वक्ष्यमाणं वाक्यं - सोपपत्तिकं वचनं मधुनामानमसुरं सूदितवानिति मधुसूदनो भगवानुक्तवान् , न तु यथोक्तमर्जुनमुपेक्षितवानित्यर्थः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 किं तद्वाक्यमित्यपेक्षायामाह – श्रीभगवानिति ।
कुतो - हेतोस्त्वा - त्वां सर्वक्षत्रियप्रवरं कश्मलं - मलिनं शिष्टगर्हितं युद्धात् पराङ्मुखत्वं विषमे - सभयस्थाने समुपस्थितं - प्राप्तम् अनार्यैः - शास्त्रार्थमविद्वद्भिर्जुष्टं - सेवितम् , अस्वर्ग्यं - स्वर्गानर्हं - प्रत्यवायकारणम् , इह च अकीर्तिकरम् - अयशस्करम् । अर्जुननाम्ना प्रख्यातस्य तव नैतद्युक्तमित्यर्थः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 पुनरपि भगवानर्जुनं प्रत्याह - क्लैब्यमिति ।
क्लैब्यं - क्लीबभावमधैर्यं, मा स्म गमः - मा गाः । हे पार्थ – पृथातनय । न हि त्वयि - महेश्वरेणापि कृताहवे प्रख्यातपौरुषे महामहिमनि एतदुपपद्यते । क्षुद्रं - क्षुद्रत्वकारणं हृदयदौर्बल्यं - मनसो दुर्बलत्वमधैर्यं त्यक्त्वोत्तिष्ठ - युद्धायोपक्रमं कुरु । हे परन्तप - परं शत्रुं तापयतीति तथा सम्बोध्यते ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 एवं भगवता प्रतिबोध्यमानोऽपि शोकाभिभूतचेतस्त्वात् अप्रतिबुध्यमानः सन् अर्जुनः स्वाभिप्रायमेव प्रकृतं भगवन्तं प्रत्युक्तवान् - कथमित्यादिना ।
भीष्मं पितामहं द्रोणं चाचार्यं सङ्ख्ये - रणे हे मधुसूदन, इषुभिः, यत्र वाचापि योत्स्यामीति वक्तुमनुचितं तत्र कथं बाणैर्योत्स्ये इति भावः । सायकैस्तौ कथं प्रतियोत्स्यामि - प्रतियोत्स्ये तौ हि पूजार्हौ - कुसुमादिभिरर्चनयोग्यौ । हे अरिसूदन - सर्वानेव अरीन् अयत्नेन सूदितवानिति भगवानेवं सम्बोध्यते ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 राज्ञां धर्मेऽपि युद्धे गुर्वादिवधे वृत्तिमात्रफलत्वं गृहीत्वा पापमारोप्य ब्रूते - गुरूनिति । गुरून् - भीष्मद्रोणादीन् भ्रात्रादींश्चात्र प्राप्तानहिंसित्वा । महानुभावान् - महामाहात्म्यान् श्रुताध्ययनसम्पन्नान् । श्रेयः - प्रशस्यतरं युक्तं भोक्तुं - अभ्यवहर्तुम् । भैक्षं - भिक्षाणां समूहः । भिक्षाशनं नृपादीनां निषिद्धमपि इह लोके - व्यवहारभूमौ । न हि गुर्वादिहिंसया राज्यभोगोऽपेक्ष्यते । किञ्च हत्वा गुर्वादीनर्थकामानेव भुञ्जीय, न मोक्षमनुभवेयम् । इहैव भोगः, न स्वर्गे । अर्थकामानेव विशिनष्टि - भोगानिति ।
भुज्यन्ते इति भोगाः, तान् रुधिरप्रदिग्धान् - लोहितलिप्तानिव अत्यन्तगर्हितान् , अतो भोगान् गुरुवधादिसाध्यान् परित्यज्य भिक्षाशनमेव युक्तमित्यर्थः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 क्षत्रियाणां स्वधर्मत्वाद्युद्धमेव श्रेयस्करमित्याशङ्क्याह - न चैतदिति ।
एतदपि न जानीमो भैक्षयुद्धयोः कतरन्नोऽस्माकं गरीयः - श्रेष्ठम् , किं भैक्षं हिंसाशून्यत्वात् , उत युद्धं स्ववृत्तित्वात् इति । सन्दिग्धा च जयस्थितिः । किं साम्यमेवोभयेषां यद्वा वयं जयेम - अतिशयीमहि, यदि वा नोऽस्मान् धार्तराष्ट्राः - दुर्योधनादयो जयेयुः जातोऽपि जयो न फलवान् , यतो यान् बन्धून् हत्वा न जिजीविषामः - जीवितुं नेच्छामः, ते एवावस्थिताः, प्रमुखे - सम्मुखे, धार्तराष्ट्राः - धृतराष्ट्रस्यापत्यानि । तस्माद्भैक्षाद्युद्धस्य श्रेष्ठत्वं न सिद्धमित्यर्थः ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 समधिगतसंसारदोषजातस्य अतितरां निर्विण्णस्य मुमुक्षोरुपसन्नस्य आत्मोपदेशसङ्ग्रहणेऽधिकारं सूचयति - कार्पण्येति । योऽल्पां - स्वल्पामपि स्वक्षतिं न क्षमते स कृपणः । तद्विधत्वात् , अखिलोऽनात्मवित् अप्राप्तपरमपुरुषार्थतया कृपणो भवति । ‘यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात् प्रैति स कृपणः’ (बृ. उ. ३-८-१०) इति श्रुतेः । तस्य भावः कार्पण्यं - दैन्यं, तेन दोषेणोपहतः - दूषितः स्वभावः - चित्तमस्येति विग्रहः सोऽहं पृच्छामि - अनुयुञ्जे, त्वा - त्वाम् । धर्मसम्मूढचेताः - धर्मो धारयतीति परं ब्रह्म, तस्मिन् संमूढं - अविवेकतां गतं चेतो यस्य ममेति तथाऽहमुक्तः । किं पृच्छसि यन्निश्चितमैकान्तिकमनापेक्षिकं श्रेयः स्यात् , न रोगनिवृत्तिवदनैकान्तिकमनात्यन्तिकम् , स्वर्गवदापेक्षिकं वा, तन्निःश्रेयसं मे - मह्यं ब्रूहि । ‘नापुत्रायाशिष्याय’ (श्वे. उ. ६-२२)
इति निषेधान्न प्रवक्तव्यमिति मा मंस्थाः । यतः शिष्यस्तेऽहं भवामि । शाधि - अनुशाधि मां निःश्रेयसम् । त्वामहं प्रपन्नोऽस्मि ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 कुतो निःश्रेयसमेवेच्छसि तत्राह - न हीति । यस्मान्न प्रपश्यामि । किं न पश्यसि ममापनुद्यात् - अपनयेत् । यत् शोकमुच्छोषणं - प्रतपनमिन्द्रियाणां तन्न पश्यामि । ननु शत्रून् निहत्य राज्ये प्राप्ते शोकनिवृत्तिस्ते भविष्यति, नेत्याह - अवाप्येति । अविद्यमानः सपत्नः शत्रुर्यस्य तद् दृढं राज्यं - राज्ञः कर्म प्रजारक्षणप्रशासनादि । तदिदमस्यां भूमाववाप्यापि शोकापनयकारणं न पश्यामीत्यर्थः । तर्हि देवेन्द्रत्वादिप्राप्त्या शोकापनयस्ते भविष्यति, नेत्याह - सुराणामपीति ।
तेषामाधिपत्यं - अधिपतित्वं स्वाम्यमिन्द्रत्वं ब्रह्मत्वं वा, तदवाप्यापि मम शोको नापगच्छेदित्यर्थः ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 एवमर्जुनेन स्वाभिप्रायं भगवन्तं प्रति प्रकाशितं सञ्जयो राजानमावेदितवानित्याह - सञ्जय इति ।
एवं प्रागुक्तप्रकारेण भगवन्तं प्रत्युक्त्वा परन्तपोऽर्जुनो न योत्स्ये - न सम्प्रहरिष्ये, अत्यन्तासह्यशोकप्रसङ्गात् इति गोविन्दमुक्त्वा तूष्णीं - अब्रुवन् बभूव, ह किलेत्यर्थः ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 तमर्जुनं सेनयोर्वाहिन्योरुभयोर्मध्ये विषीदन्तं - विषादं कुर्वन्तमतिदुःखितं शोकमोहाभ्यामभिभूतं स्वधर्मात् प्रच्युतप्रायं प्रतीत्य प्रहसन्निव - उपहासं कुर्वन्निव, तदाश्वासार्थं हे भारत - भरतान्वय ! इत्येवं सम्बोध्य, भगवानिदं - प्रश्नोत्तरं निःश्रेयसाधिगमसाधनं वचनमूचिवानित्याह - तमुवाचेति
॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 तदेव वचनमुदाहरति - श्रीभगवानिति । यस्य अज्ञानं तस्य भ्रमः, यस्य भ्रमस्तस्य पदार्थपरिशोधनपूर्वकं सम्यग्ज्ञानं वाक्यादुदेतीति ज्ञानाधिकारिणमभिप्रेत्याह - अशोच्यानित्यादीति । यत्तु - कैश्चित् , ‘आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. २-४-५) इत्याद्यात्मयाथात्म्यदर्शनविधिवाक्यार्थमनेन श्लोकेन व्याचष्टे स्वयं हरिरित्युक्तम् , तदयुक्तम् । कृतियोग्यतैकार्थसमवेतश्रेयःसाधनताया वा पराभिमतनियोगस्य वा विध्यर्थस्य अत्र अप्रतीयमानस्य कल्पनाहेत्वभावात् । न च दर्शने पुरुषतन्त्रत्वरहिते विधेययागादिविलक्षणे विधिरुपपद्यते । कृत्यान्तर्भूतस्यार्हार्थत्वात् । तव्यो न विधिमधिकरोतीत्यभिप्रेत्य व्याचष्टे - न शोच्या इति । कथं तेषामशोच्यत्वमित्युक्ते भीष्मादिशब्दवाच्यानां वा शोच्यत्वम् , तत्पदलक्ष्याणां वेति विकल्प्य, आद्यं दूषयति - सद्वृत्तत्वादिति । ये भीष्मादिशब्दैरुच्यन्ते, ते श्रुतिस्मृत्युदीरिताविगीताचारवत्त्वात् न शोच्यतामश्नुवीरन्नित्यर्थः । द्वितीयं प्रत्याह - परमार्थेति । अरजते रजतबुद्धिवत् अशोच्येषु शोच्यबुद्ध्या भ्रान्तोऽसीत्याह - तानिति । अनुशोचनप्रकारमभिनयन् भ्रान्तिमेव प्रकटयति - ते म्रियन्त इति । पुत्रभार्यादिप्रयुक्तं सुखमादिशब्देन गृह्यते । इत्यनुशोचितवानसीति सम्बन्धः । विरुद्धार्थाभिधायित्वेनापि भ्रान्तत्वमर्जुनस्य साधयति - प्रज्ञावतामिति । वचनानि - ‘उत्सन्नकुलधर्माणाम्’ (भ. भ. गी. १-४४) इत्यादीनि । किमेतावता फलितमिति तदाह - तदेतदिति । तत् मौढ्यं - अशोच्येषु शोच्यदृष्टित्वम् । एतत् पाण्डित्यं - बुद्धिमतां वचनभाषित्वमिति यावत् । अर्जुनस्य पूर्वोक्तभ्रान्तिभाक्त्वे निमित्तमात्माज्ञानमित्याह - यस्मादिति । ननु - सूक्ष्मबुद्धिभाक्त्वमेव पाण्डित्यं न त्वात्मज्ञत्वं, हेत्वभावात् , इत्याशङ्क्याह - ते हीति । पाण्डित्यं - पण्डितभावमात्मज्ञानं, निर्विद्य - निश्चयेन लब्ध्वा, ‘बाल्येन तिष्ठासेत्’ (बृ. उ. ३-५-१) इति बृहदारण्यकश्रुतिमुक्तर्थामुदाहरति - पाण्डित्यमिति । यथोक्तपाण्डित्यराहित्यं कथं ममावगतमित्याशङ्क्य, कार्यदर्शनादित्याह - परमार्थतस्त्विति । यस्मादित्यस्यापेक्षितं दर्शयति - अत इति
॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 वृत्तिकृतामभिप्रायं प्रत्याख्याय, स्वाभिप्रेतः शास्त्रार्थः समर्थितः । सम्प्रति ‘अशोच्यान्’ (भ. भ. गी. २-११) इत्यस्मात् प्राक्तनग्रन्थसन्दर्भस्य प्रागुक्तं तात्पर्यार्थमनूद्य ‘अशोच्यान्’ इत्यादेः ‘स्वधर्ममपि चावेक्ष्य’ (भ. भ. गी. २-३१) इत्येतदन्तस्य समुदायस्य तात्पर्यमाह - तत्रेति । अत्र हि शास्त्रे त्रीणि काण्डानि । अष्टादशसङ्ख्याकानामध्यायानां षट्कत्रितयमुपादाय त्रैविध्यात् । तत्र पूर्वषट्कात्मकं पूर्वकाण्डं त्वम्पदार्थं विषयीकरोति । मध्यमषट्करूपं मध्यमकाण्डं तत्पदार्थं गोचरयति । अन्तिमषट्कलक्षणमन्तिमं काण्डं पदार्थयोरैक्यं वाक्यार्थमधिकरोति । तज्ज्ञानसाधनानि च तत्र तत्र प्रसङ्गादुपन्यस्यन्ते, तज्ज्ञानस्य तदधीनत्वात् । तत्त्वज्ञानमेव केवलं कैवल्यसाधनमिति च सर्वत्राविगीतम् । एवं पूर्वोक्तरीत्या गीताशास्त्रार्थे परिनिश्चिते सतीति यावत् । धर्मे संमूढं - कर्तव्याकर्तव्यविवेकविकलं चेतो यस्य तस्य, मिथ्याज्ञानवतः अहङ्कारममकारवतः शोकाख्यसागरे दुरुत्तारे प्रविश्य क्लिश्यतो ब्रह्मात्मैक्यलक्षणवाक्यार्थज्ञानं आत्मज्ञानं, तदतिरेकेणोद्धरणासिद्धेः तं अतिभक्तमतिस्निग्धं शोकादुद्धर्तुमिच्छन् भगवान् यथोक्तज्ञानार्थं तमर्जुनमवतारयन् - पदार्थपरिशोधने प्रवर्तयन् , आदौ त्वम्पदार्थं शोधयितुमशोच्यानित्यादिवाक्यमाहेति योजना । आत्मा न जायते प्रागभावशून्यत्वात् , नरविषाणवदिति परिहरति - न त्वेवेति । किञ्च आत्मा नित्यः, भावत्वे सत्यजातत्वात् व्यतिरेकेण घटवत् इत्यनुमानान्तरमाह - न चैवेति । यत्तु - कैश्चित् आत्मयाथात्म्यं जिज्ञासितं भगवानुपदिशति न त्वित्यादिना श्लोकचतुष्टयेन इत्यादिष्टम् , तदसत् । विशेषवचने हेत्वभावात् , सर्वत्रैव आत्मयाथात्म्यप्रतिपादनाविशेषात् इत्याशयेन । ‘पदच्छेदः पदार्थोक्तिर्वाक्ययोजना’ इति त्रितयमपि व्याख्यानाङ्गं सम्पादयति - न त्वित्यादिना । ननु - आत्मनो देहोत्पत्तिविनाशयोरुत्पत्तिविनाशप्रसिद्धेरुक्तमनुमानद्वयं प्रसिद्धिविरुद्धतया कालात्ययापदिष्टमिति, नेत्याह - अतीतेष्विति । ‘चराचरव्यपाश्रयस्तु स्यात्’ (ब्र. सू. २-३-१६) इति न्यायेन आत्मनो जन्मविनाशप्रसिद्धेरौपाधिकजन्यविनाशविषयत्वात् निरुपाधिकस्य तस्य जन्मादिराहित्यमिति भावः । यद्यपि तवेश्वरस्य जन्मराहित्यं, तथापि कथं मम इत्याशङ्क्याह - तथेति । तथापि भीष्मादीनां कथं जन्माभावः, तत्राह - ‘तथा नेमे’ इति । द्वितीयमनुमानं प्रपञ्चयन्नुत्तरार्धं व्याचष्टे - तथेत्यादिना । ननु - देहोत्पत्तिविनाशयोरात्मनो जन्मनाशाभावेऽपि महासर्गमहाप्रलययोस्तस्याग्निविस्फुलिङ्गदृष्टान्तश्रृत्या जन्मविनाशावेष्टव्यावित्याशङ्क्य, ‘नाऽऽत्माऽश्रुतेः’ (ब्र. सू. २. ३. १७) इति न्यायेन परिहरति - त्रिष्वपीति । ‘यावद्विकारं तु विभागो लोकवत्’ (ब्र. सू. २-३-७) इति न्यायेन भिन्नत्वात् विकारित्वमात्मनामनुमीयते । भिन्नत्वं च बहुवचनप्रयोगप्रमितमित्याशङ्क्याह - देहेति
॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 नित्यत्वमशोच्यत्वे कारणमिति सूचितं विवेचयितुं प्रश्नपूर्वकं प्रतिजानीते - कुत इत्यादिना । नित्यत्वमसिद्धं प्रमाणाभावात् इति चोदयति - कथमिति । न केवलमागमादेव आत्मनो नित्यत्वम् , किन्तु अवस्थान्तरवत् जन्मान्तरे पूर्वसंस्कारानुवृत्तेश्चेत्याह - देहिन इति । देहवत्त्वं - तस्मिन्नहंममाभिमानभाक्त्वम् । तासामिति निर्धारणे षष्ठी । आत्मनः श्रुतिस्मृत्युपपत्तिभिर्नित्यत्वज्ञानं धीमानित्यत्र धीर्विवक्ष्यते । एवं सतीति ।
तत्त्वतो विक्रियाभावात् नित्यत्वे समधिगते सतीत्यर्थः ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 ननु - पूर्वं देहं विहाय अपूर्वं देहमुपादानस्य विक्रियावत्त्वेनोत्पत्तिविनाशवत्त्वविभ्रमः समुद्भवेत् इति शङ्कते - तत्रेति । अशोच्यत्वप्रतिज्ञायां नित्यत्वे हेतू कृते सतीति यावत् । अवस्थाभेदे सत्यपि वस्तुतो विक्रियाभावादात्मनो नित्यत्वमुपपन्नमित्युत्तरश्लोकेन दृष्टान्तावष्टम्भेन प्रतिपादयतीत्याह - दृष्टान्तमिति । व्याख्येयं पदमुपादाय करणव्युत्पत्त्या तस्येन्द्रियविषयत्वं दर्शयति - मात्रास्पर्शा इत्यादिना । षष्ठीसमासं दर्शयन् भावव्युत्पत्त्या स्पर्शशब्दार्थमाह - मात्राणामिति । तेषामर्थक्रियामादर्शयति - ते शीतेति । सम्प्रति स्पर्प्रा शब्दस्य कर्मव्युत्पत्त्या शब्दादिविषयपरत्वमुपेत्य समासान्तरं दर्शयन् विषयाणां कार्यं कथयति - अथवेति । ननु - शीतोष्णप्रदत्वे सुखदुःखप्रदत्वस्य सिद्धत्वात् किमिति शीतोष्णयोः सुखदुःखाभ्यां पृथग्ग्रहणम् इति, तत्राह - शीतमिति । विषयेभ्यस्तु पृथक्कथनं तदन्तर्भूतयोरेव तयोः सुखदुःखहेत्वोरानुकूल्यप्रातिकूल्ययोरुपलक्षणार्थम् । अव्यात्मं हि शीतमुष्णं वा आनुकूलयं प्रातिकूल्यं वा सम्पाद्य बाह्या विषयाः सुखादि जनयन्ति । ननु - विषयेन्द्रियसंयोगस्य आत्मनि सदा सत्त्वात् तत्प्रयुक्तशीतादेरपि तथात्वात् तन्निमित्तौ हर्षविषादौ तथैव तस्मिन्नापन्नौ इत्याशङ्क्योत्तरार्धं व्याचष्टे - यस्मादित्यादिना ।
अत्र च ‘कौन्तेय, भारत’ इति सम्बोधनाभ्यामुभयकुलशुद्धस्यैव विद्याधिकारित्वमित्येतदेव द्योत्यते ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मनः श्रुत्यादिप्रमिते नित्यत्वे तदुत्पत्तिविनाशप्रयुक्तशोकमोहाभावेऽपि, प्रकारान्तरेण शोकमोहौ स्याताम् , इत्याशङ्कामनूद्य, उत्तरत्वेन श्लोकमवतारयति - यद्यपीत्यादिना । शीतोष्णयोस्ताभ्यां सुखदुःखयोश्च प्राप्तिं निमित्तीकृत्य यो मोहादिर्दृश्यते, तस्य अन्वयव्यतिरेकाभ्यां दृश्यमानत्वमाश्रित्य लौकिकविशेषणम् । ‘अशोच्यान्’ (भ. भ. गी. २-११) इत्यत्र यो विद्याधिकारी सूचितः, तस्य ‘तितिक्षुः समाहितो भूत्वा’ (बृ. उ. ४-४-२३) इति श्रुतेस्तितिक्षुत्वविशेषणमिहोपदिश्यते। तितिक्षमाणस्य विवक्षितं लाभमुपलम्भयति - यं हीति । हर्षविषादरहितमित्यत्र शमादिसाधनसम्पन्नत्वमुच्यते । धीमन्तमिति - नित्यानित्याविवेकभागित्वम् । एतच्चोभयं वैराग्यादेरुपलक्षणम् । नित्यात्मदर्शनं - त्वमर्थज्ञानम् । साधनचतुष्टयवन्तमधिकारिणमनूद्य त्वम्पदार्थज्ञानवतस्तस्य मोक्षौपयिकवाक्यार्थज्ञानयोग्यतामाह - स नित्येति
॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 अधिकारिविशेषणं तितिक्षुत्वं नोपयुक्तम् , केवलस्य तस्य पुमर्थाहेतुत्वात् इति शङ्कते - शीतेति । विवेकवैराग्यादिसहितं तन्मोक्षहेतुज्ञानद्वारा तदर्थमिति परिहरति - श्रृण्विति । यतः शीतादेः शोकादिहेतोः, अनात्मनो नास्ति वस्तुत्वम् , वस्तुनश्च आत्मनो निर्विकारत्वेन एकरूपत्वम् , अतो मुमुक्षोर्विशेषणं तितिक्षुत्वं युक्तमित्याह - नेत्यादिना । कार्यस्यासत्त्वेऽपि कारणस्य सत्त्वेन अत्यन्तासत्त्वासिद्धिरित्याशङ्क्य विशिनष्टि - सकारणस्येति । नासत इत्युपादाय, पुनर्नकारानुकर्षणमन्वयार्थम् । असतः शून्यस्य अस्तित्वप्रसङ्गाभावात् अप्रसक्तप्रतिषेधप्रसक्तिरित्याशङ्क्याह - न हीति । विमतं - अतात्त्विकम् , अप्रामणिकत्वाद् - रज्जुसर्पवत् । न हि धर्मिग्राहकस्य प्रत्यक्षादेस्तत्त्वावेदकं प्रामाण्यं कल्प्यते, विषयस्य दुर्निरूपत्वात् , अतोऽनिर्वाच्यं द्वैतमित्यर्थः । कथं पुनरध्यक्षादिविषयस्य शीतोष्णादिद्वैतस्य दुर्निरूपत्वेन अनिर्वाच्यत्वम्, तत्राह - विकारोहीति । ततश्च विमतं - मिथ्या आगमापायित्वात् सम्प्रतिपन्नवदिति । फलितमाह - विकारश्चेति । वाचारम्भणश्रुतेर्द्वैतमिथ्यात्वे अनुग्राहकत्वं दर्शयितुं चकारः । किञ्च कार्यं कारणाद्भिन्नम् , अभिन्नं वा इति विकल्प्य, आद्यं दूषयति - यथेति । निरूप्यमाणम् , अन्तर्बहिश्चेति शेषः । विमतं कारणान्न तत्त्वतो भिद्यते, कार्यत्वाद् - घटवदित्यर्थः । इतोऽपि कारणाद्भेदेन नास्ति कार्यम् , ‘आदावन्ते च यन्नास्ति वर्तमानेऽपि तत् तथा’ (मां. का. २-६) इति न्यायादित्याह - जन्मेति । यदि कार्यं कारणादभिन्नम् , तदा तस्य भेदेन असत्त्वे पूर्वस्मादविशेषः । तादात्म्येनावस्थानं तु न युक्तम् , तस्यापि कारणव्यतिरेकेणाभावात् । कार्यकारणविभागाविधुरे वस्तुनि कार्यकारणपरम्पराया विभ्रमत्वादित्यभिप्रेत्याह - मृदादीति । कार्यकारणविभागविहीनं वस्त्वेव नास्तीति मन्वानश्चोदयति - तदसत्त्व इति । अनुवृत्तव्यावृत्तबुद्धिद्वयदर्शनादनुवृत्ते च व्यावृत्तानां कल्पितत्वादकल्पितं सर्वभेदकल्पनाधिष्ठानमकार्यकारणं वस्तु सिध्यतीति परिहरति - न ; सर्वत्रेति । सम्प्रति सतो वस्तुत्वे प्रमाणमनुमानमुपन्यस्यति - यद्विषयेति । यद्व्यावृत्तेष्वनुवृत्तं तत् परमार्थसत् यथा - सर्पधारादिष्वनुगतो रज्ज्वादेरिदमंशः । विमतं सत्यमव्यभिचारित्वात् सम्प्रतिपन्नवदित्यर्थः । व्यावृत्तस्य कल्पितत्वे प्रमाणमाह - यद्विषयेत्यादिना । यत् व्यावृत्तं तन्मिथ्या, यथा - सर्पधारादि । विमतं मिथ्या, व्यभिचारित्वात् सम्प्रतिपन्नवदित्यर्थः । इत्यनुमानद्वयमनुसृत्य सतोऽकल्पितत्वम् , असतश्च कल्पितत्वम् , स्थितमिति शेषः । ननु - नेदमनुमानद्वयमुपपद्यते, समस्तद्वैतवैतथ्यवादिनो विभागाभावात् , अनुमानादिव्यवहारानुपपत्तेः तत्राह - सदसदिति । उक्ते विभागे बुद्धिद्वयाधीने स्थिते सत्यनुमानादिव्यवहारो निर्वहति प्रातिभसिकविभागेन तद्योगात् परमार्थस्यैव तद्धेतुत्वे केवलव्यतिरेकाभावादित्यर्थः । कुतः सदसद्विभागस्य बुद्धिद्वयाधीनत्वं बुद्धिविभागस्यापि तवाभावात् , तत्राह - सर्वत्रेति । व्यवहारभूमिः सप्तम्यर्थः । बुद्धिविभागस्यापि कल्पितस्यैव बोध्यविभागप्रतिभासहेतुतेति भावः । बुद्धिद्वयमनुरुध्य सदसद्विभागे, सतः सामान्यरूपतया विशेषाकाङ्क्षायां सामान्यविशेषे द्वे वस्तुनी वस्तुभूते स्याताम् इति चेत् , नेत्याह - समानाधिकरणे इति । पदयोः सामानाधिकरण्यं बुद्ध्योरुपचर्यते । सोऽयमिति सामानाधिकरण्यवद्घटः सन्नित्यादि सामानाधिकरण्यमेकवस्तुनिष्ठं वस्तुभेदे घटपटयोरिव तदयोगादित्यर्थः । नीलमुत्पलमितिवद्धर्मधर्मिविषयतया सामानाधिकरण्यस्य सुवचत्वात् न वस्त्वैक्यविषयत्वम् इति चेत् , नेत्याह - न नीलेति । न हि सामान्यविशेषयोर्भेदेऽभेदे च तद्भावः भेदाभेदौ च विरुद्धौ, अतो जातिव्यक्त्योः सामानाधिकरण्यं नीलोत्पलयोरिव न गौणम् , किन्तु व्यावृत्तमनुवृत्ते कल्पितमित्येकनिष्ठमित्यर्थः । सामान्यविशेषयोरुक्तन्यायं गुणगुण्यादावतिदिशति - एवमिति । तुल्यौ हि तत्रापि विकल्पदोषाविति भावः । सामानाधिकरण्यानुपपत्त्या द्वे वस्तुनी सामान्यविशेषाविति पक्षं प्रतिक्षिप्य, विशेषा एव वस्तूनीति पक्षं प्रतिक्षिपति - तयोरिति । बुद्धिव्यभिचाराद्बोध्यव्यभिचारेपि, कथं व्यावृत्तानां विशेषाणामवस्तुत्वम् इत्याशङ्क्याह - तथा चेति । विकारो हि स इत्यादाविति शेषः । न चैकं वस्तु सामान्यविशेषात्मकमेकस्य द्वैरूप्यविरोधादित्यभिप्रेत्य, सामान्यमेकमेव वस्तु तद्बुद्धेरव्यभिचारात् , बोध्यस्यापि सतस्तथात्वादित्याह - न त्विति । व्यभिचरतीति पूर्वेण सम्बन्धः । विशेषाणां व्यभिचारित्वे सतश्चाव्यभिचारित्वे फलितमुपसंहरति - तस्मादिति । असत्त्वं कल्पितत्वम् । तच्छब्दार्थमेव स्फोरयति - व्यभिचारादिति । सद्बुद्धिविषयस्य सतोऽकल्पितत्वे तच्छब्दोपात्तमेव हेतुमाह - अव्यभिचारादिति । सद्बुद्धिव्यभिचारद्वारा बोध्यस्यापि व्यभिचारात् तदव्यभिचारित्वहेतोरसिद्धिरिति शङ्कते - घटे विनष्ट इति । सद्बुद्धेर्घटबुद्धिवद्घटमात्रविषयत्वाभावात् , न घटनाशे व्यभिचारोस्तीति परिहरति - न, पटादाविति । सद्बुद्धेरघटवियत्वे निरालम्बनत्वायोगात् विषयान्तरं वक्तव्यमित्याशङ्क्याह - विशेषणेति । सतोऽकल्पितत्वहेतोरव्यभिचारित्वस्यासिद्धिमुद्धृत्य, विशेषाणां कल्पितत्वहेतोर्व्यभिचारित्वस्यासिद्धिं शङ्कते - सदिति । यथा सद्बुद्धिर्घटे नष्टे पटादौ दृष्टत्वादव्यभिचारिणीति अव्यभिचारः सतो दर्शितः, तथा घटबुद्धिरपि घटे नष्टे घटान्तरे दृष्टेत्यव्यभिचारात् घटे व्यभिचारासिद्धौ विशेषान्तरेष्वपि कल्पितत्वहेतुर्व्यभिचारो न सिध्यतीत्यर्थः । घटबुद्धेर्घटान्तरे दृष्टत्वेऽपि पटादावदृष्टत्वेन व्यभिचारात् पटादिविशेषेष्वपि व्यभिचारित्वसिद्धिरित्युत्तरमाह - न, पटादाविति । विशेषाणामेवं व्यभिचारित्वे सतोऽपि तदुपपत्तेरव्यभिचारित्वहेत्वसिद्धितादवस्थ्यमिति शङ्कते - सद्बुद्धिरिति । घटादिनाशदेशे तदुपरक्ताकारेण सत्त्वाभानेऽपि नासत्त्वम् , घटाद्यभावाधिष्ठानतया भानादित्याह - न विशेष्येति । यथा सर्वगता जातिरित्यत्र खण्डमुण्डादिव्यक्त्यभावदेशे गोत्वं व्यञ्जकाभावात् न व्यज्यते, न गोत्वाभावात् , तथा सत्त्वमपि घटादिनाशे व्यञ्जकाभावात् न भाति, न स्वरूपाभावात् इत्युक्तमेव प्रपञ्चयति - सदित्यादिना । सप्रतियोगिकविशेषणव्यभिचारेऽपि स्वरूपाव्यभिचाराद्युक्तं सतः सत्यत्वमिति भावः । द्वयोः सतोरेव विशेषणविशेष्यत्वदर्शनात् घटसतोरपि विशेषणविशेष्यत्वे द्वयोः सत्त्वध्रौव्यात् घटादिकल्पितत्वानुमानं सामानाधिकरण्यधीबाधितमिति चोदयति - एकेति । अनुभवमनुसृस्य बाधितविषयत्वमुक्तानुमानस्य निरस्यति - नेत्यादिना । घटादेः सति कल्पितत्वानुमानस्य दोषराहित्ये, फलितमुपसंहरति - तस्मादिति । प्रथमपादव्याख्यानपरिसामाप्तावितिशब्दः । ननु - नेदं व्याख्यानं भाष्यकाराभिप्रेतम् , सर्वद्वैतशून्यत्वविवक्षायां शास्त्रतद्भाष्यविरोधात् । केनापि पुनर्दुर्विदग्धेन स्वमनीषिकयोत्प्रेक्षितमेतत् इति चेत् , मैवम् । किमिदं द्वैतप्रपञ्चस्य शून्यत्वम् किं तुच्छत्वम् किं वा सद्विलक्षणत्वम् नाद्यः, अनभ्युपगमात् । द्वितीयानभ्युपगमे तु तवैव शास्त्रविरोधो भाष्यविरोधश्च । सर्वं हि शास्त्रं तद्भाष्यं च द्वैतस्य सत्यत्वानधिकरणत्वसाधनेन अद्वैतसत्यत्वे पर्यवसितमिति त्रैविद्यवृद्धैस्तत्र तत्र प्रतिष्ठापितम् । तथा च प्रक्षेपाशङ्का सम्प्रदायपरिचयाभावात् इति द्रष्टव्यम् । अनात्मजातस्य कल्पितत्वेन अवस्तुत्वप्रतिपादनपरतया प्रथमपादं व्याख्याय, द्वितीयपादमात्मनः सर्वकल्पनाधिष्ठानस्याकल्पितत्वेन वस्तुत्वप्रसाधनपरतया व्याकरोति - तथेति । ननु - आत्मनः सदात्मनो विशेषेषु विनाशिषु तदुपरक्तस्य विनाशः स्यात् इत्याशङ्क्य, विशिष्टनाशेऽपि स्वरूपानाशस्योक्तत्वात् , मैवमित्याह - सर्वत्रेति । ननु - कदाचिदसदेव पुनः सत्त्वमापद्यते, प्रागसतो घटस्य जन्मना सत्त्वाभ्युपगमात् । सच्च कदाचिदसत्त्वं प्रतिपद्यते, स्थितिकाले सतो घटस्य पुनर्नाशेन असत्त्वाङ्गीकारात् । एवं सदसतोरव्यवस्थितत्वाविशेषात् उभयोरपि हेयत्वमुपादेयत्वं वा तुल्यं स्यात् इति, तत्राह - एवमिति । तुशब्दो दृष्टशब्देन सम्बध्यमानो दृष्टिमवधारयति । न हि प्रागसतो घटस्य सत्त्वम् , असत्त्वे स्थिते सत्त्वप्राप्तिविरोधात् । असत्त्वनिवृत्तिश्च सत्त्वप्राप्त्या चेत् , प्राप्तमितरेतराश्रयत्वम् , अन्तरेणैव सत्त्वापत्तिमसत्त्वनिवृत्तौ असत्त्वमनवकाशि भवेत् । एतेन - सतोसत्त्वापत्तिरपि प्रतिनीतेति भावः । कथं तर्हि सतोऽसत्त्वम् , असतश्च सत्त्वं प्रतिभाति इत्याशङ्क्य, तत्त्वदर्शनाभावात् इत्याह - तत्त्वेति । तस्य भावस्तत्त्वम् । न च तच्छब्देन परामर्शयोग्यं किञ्चिदस्ति प्रकृतं प्रतिनियतम् इत्याशङ्क्य व्याचष्टे - तदित्यादिना । ननु - सदसतोरन्यथात्वं केचित् प्रतिपद्यन्ते । केचित्तु तयोरुक्तनिर्णयमनुसृत्य तथात्वमेवाधिगच्छन्ति । तत्र केषां मतमेषितव्यम् इति, तत्राह - त्वमपीति
॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 अधिकारिविशेषणे तितिक्षुत्वे हेत्वन्तरपरत्वेन उत्तरश्लोकमवतारयति - इतश्चेति । इतःशब्दार्थमेवस्फुटयति - यस्मादिति । आत्मनः सदात्मनो विनाशराहित्यविज्ञाने सर्वजगद्व्यापकत्वं हेतुमाह - येनेति । आत्मनो विनाशाभावे युक्तिमाह - विनाशमिति । आत्मनो विनाश मिच्छता स्वतो वा परतो वा नाशस्तस्येष्यते नाद्य इत्याह - अविनाशीति । देहादिद्वैतमसदुच्यते । ततः सतो विशेषणं स्वतो नाशराहित्यम् । तस्य द्योतको निपात इत्याह - तुशब्द इति । आकाङ्क्षापूर्वकं विशेष्यं दर्शयति - किमित्यादिना । विमतं - अविनाशि, व्यापकत्वादाकाशवत् । न हि प्रमितमेवोदाहरणं किन्तु प्रसिद्धमपीति भावः । न द्वितीय इत्याह - विनाशमिति । न खल्वस्य विनाशं कर्तुं कश्चिदर्हतीति सम्बन्धः । विनाशस्य सावशेषत्वनिरवशेषत्वाभ्यां द्वैराश्यमाश्रित्य व्याकरोति - अदर्शनमिति । न कश्चिदस्यभावं कर्तुं शक्नोतीत्यत्र हेतुमाह - अव्ययस्येति । ब्रह्म हि स्वरूपेण व्येति स्वसम्बन्धिना वा इति विकल्प्य, आद्यं दूषयति - नैतदिति । न हि निरवयवस्य स्वावयवापचयरूपव्ययः सम्भवतीत्यत्र वैधर्म्यदृष्टान्तमाह - देहादिवदिति । द्वितीयं निरस्यति - नापीति । तदेव व्यतिरेकदृष्टान्तेन स्पष्टयति - यथेति । द्विविधेऽपि व्ययायोगे फलितमाह - अत इति । किञ्च ब्रह्म परतो न नश्यति आत्मत्वात् , घटवदित्याह - न कश्चिदिति । आत्मत्वहेतोरसिद्धिमुद्धरति - आत्मा हीति । तादात्म्यश्रुतिः अत्र हीति हेतूक्रियते । अस्तु तर्हि स्वयमेव ब्रह्म, आत्मनो नाशकमुद्बन्धनादिदर्शनात् , नेत्याह - स्वात्मनीति
॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 ननु सदिति सामान्यम् , स्वरूपं वा प्रथमे, तस्य विशेषसापेक्षतया प्रलयदशायामशेषविशेषविनाशे विनाशः स्यात् । न चात्मादयो विशेषास्तदापि सन्तीति वाच्यम् । आत्मातिरिक्तानां विशेषणां कार्यत्वाङ्गीकारात् , प्रलयावस्थायामनवस्थानात् , आत्मनस्तु सामान्यात्मनो धर्मित्वादुक्तदोषात् । द्वितीये तु, स्वरूपस्य व्यावृत्तत्वे कल्पितत्वाद्विनाशित्वम् , अनुवृत्तत्वे तस्यैव सामान्यतया प्रागुक्तदोषानुषक्तिरिति मन्वानश्चोदयति - किं पुनरिति । सामान्यविशेषभावशून्यमखण्डैकरसं ‘सदेव’ (छा. उ. ६-२-१) इत्यादिश्रुतिप्रमितं सर्वाविक्रियारहितं वस्तु प्रकृतं सद्विवक्षितमित्युत्तरमाह - उच्यत इति । ननु - देहादिषु सद्बुद्धेरनुवृत्तेस्तस्या विच्छेदाभावात् कथमन्तवत्त्वं तेषामिष्यते तत्राह - यथेति । तथेमे देहाः, सद्बुभाजोऽपि प्रमाणतो निरूपणायामवसाने विच्छेदादन्तवन्तो भवन्तीति शेषः । देहत्वादिना च जाग्रद्देहादेरन्तवत्त्वं सम्प्रतिपन्नवदनुमातुं शक्यमित्याह - स्वप्नेति । तेषां स्वातन्त्र्यं व्युदस्यति - नित्यस्येति । आकाशादिव्यावृत्त्यर्थं विशिनष्टि - शरीरिण इति । परिणामिनित्यत्वं व्यवच्छिनति - अनाशिन इति । तस्य प्रत्यक्षाद्यविषयत्वमाह - अप्रमेयस्येति । प्रवाहस्य प्रवाहिव्यतिरेकेण अनिरूपणात् न तदात्मनः देहाद्यभावे सम्बन्धसिद्धिरित्यभिसन्धायोक्तम् - विवेकिभिरिति । शरीरादेरन्तवत्त्वेऽपि प्रवाहरूपेण आत्मनस्तत्सम्बन्धस्यानन्तवत्त्वमाशङ्क्याह - नित्यस्येति । नित्यत्वस्य द्वैविध्यसिद्ध्यर्थं नाशद्वैविध्यं प्रकटयति - यथेत्यादिना । नाशस्य निरवशेषत्वेन सावशेषत्वेन च सिद्धे द्वैविध्ये फलितमाह - तत्रेति । पदद्वयस्यैकार्थत्वमाशङ्क्य निरस्यति - नित्यस्येत्यादिना । विशेषणाभ्यां कूटस्थानित्यत्वमात्मनो विवक्षितमित्यर्थः । अन्यतरविशेषणमात्रोपादाने परिणामिनित्यत्वमात्मनः शङ्क्येत इत्यनिष्टापत्तिमाशङ्क्याह - अन्यथेति । औपनिषदत्वविशेषणमाश्रित्य अप्रमेयत्वमाक्षिपति - नन्विति । इतश्च आत्मनो नाप्रमेयत्वमित्याह - प्रत्यक्षादिनेति । तेन च आगमप्रवृत्त्यपेक्षया पूर्वावस्थायामात्मैव परिच्छिद्यते, तस्मिन्नेव अज्ञातत्वसम्भवात् , ‘अज्ञातज्ञापकं प्रमाणम्’ इति च प्रमाणलक्षणादित्यर्थः । ‘एतदप्रमेयम्’ (बृ. उ. ४. ४. २०) इत्यादिश्रुतिमनुसृत्य परिहरति - नेत्यादिना । कथं मानमनपेक्ष्य आत्मनः सिद्धत्वमित्याशङ्क्योक्तं विवृणोति - सिद्धे हीति । प्रमित्सोः प्रमेयमिति शेषः । तदेव व्यतिरेकमुखेन विशदयति - न हीति । आत्मनः सर्वलोकप्रसिद्धत्वाच्च तस्मिन् न प्रमाणमन्वेषणीयमित्याह - न ह्यात्मेति । प्रत्यक्षादेरनात्मविषयत्वात् तत्र चाज्ञातताया व्यवहारे सम्भवात् तत्प्रामाण्यस्य च व्यावहारिकत्वात् । विशिष्टे तत्प्रवृत्तावपि केवले तदप्रवृत्तेः यद्यपि नात्मनि तत्प्रामाण्यम् , तथापि तद्धितश्रुत्या शास्त्रस्य तत्र प्रवृत्तिरवश्यम्भाविनीत्याशङ्क्याह - शास्त्रं त्विति । शास्त्रेण प्रत्यग्भूते ब्रह्मणि प्रतिपादिते प्रमात्रादिविभागस्य व्यावृत्तत्वात् युक्तमस्यान्त्यत्वम् , अपौरुषेयतया निर्दोषत्वाच्चास्य प्रामाण्यमित्यर्थः । तथापि कथमस्य प्रत्यगात्मनि प्रामाण्यम्, तस्य स्वतःसिद्धत्वेन अविषयत्वात् , अज्ञातज्ञापनायोगात् इत्याशङ्क्य, स्वतो भानेऽपि प्रतीचो, ‘मनुष्योऽहं कर्ताहम्’ इत्यादिना मनुष्यत्वकर्तृत्वादीनामतद्धर्माणामध्यारोपणेन आत्मनि प्रतीयमानत्वात् तन्मात्रनिवर्तकत्वेन आत्मनो विषयत्वमनापद्यैव शास्त्रं प्रामाण्यं प्रतिपद्यते, ‘सिद्धं तु निवर्तकत्वात्’ इति न्यायादित्याह - अतद्धर्मेति । घटादाविव स्फुरणातिशयजनकत्वेन किमित्यात्मनि शास्त्रप्रामाण्यं नेष्टमित्याशङ्क्य, जडत्वाजडत्वाभ्यां विशेषादिति मत्वाह - न त्विति । ब्रह्मात्मनो मानापेक्षामन्तरेण स्वतः स्फुरणे प्रमाणमाह - तथा चेति । साक्षात् - अन्यापेक्षामन्तरेण अपरोक्षात् - अपरोक्षस्फुरणात्मकं यद्ब्रह्म, न च तस्यात्मनोऽर्थान्तरत्वम् , सर्वाभ्यन्तरत्वेन सर्ववस्तुसारत्वात् तमात्मानं व्याचक्ष्वेति योजना । अप्रमेयत्वेन अविनाशित्वं प्रतिपाद्य, फलितं निगमयति - यस्मादिति । देहादेरवस्तुत्वात् आत्मनश्चैकरूपत्वात् युद्धे स्वधर्मे प्रवृत्तस्यापि तव न हिंसादिदोषसम्भावनेत्याह - तस्मादिति । स्वधर्मनिवृत्तिहेतुनिषेधे तात्पर्यं दर्शयति - युद्धादिति । आत्मनो नित्यत्वादिस्वरूपमुपपाद्य युद्धकर्तव्यत्वविधानात् ज्ञानकर्मसमुच्चयोऽत्र भातीत्याशङ्क्याह - न हीति । युध्यस्वेति वचनात् तत्कर्तव्यत्वविधिरस्तीत्याशङ्क्यह - युद्ध इति । कथं तर्हि ‘कथं भीष्ममहं’ (भ. भ. गी. २-४) इत्याद्यर्जुनस्य युद्धोपरमपरं वचनम् इति तत्राह - शोकेति । यदि स्वतो युद्धे प्रवृत्तिः, तर्हि भगवद्वचनस्य का गतिरित्याशङ्क्याह - तस्येति । भगवद्वचनस्य प्रतिबन्धनिवर्तकत्वे सति अर्जुनप्रवृत्तेः स्वाभाविकत्वे फलितमाह - तस्मादिति ‘अविनाशि तु तद् विद्धि’ (भ. भ. गी. २-१७) इत्यत्र पूर्वार्धेन तत्पदार्थसमर्थनम् , उत्तरार्धेन निरीश्वरवादस्य परिणामवादस्य वा निराकरणम् , आत्मनि जन्मादिप्रतिभानस्यौपचारिकत्वप्रदर्शनार्थं ‘अन्तवन्तः’ (भ. गी. २-१८)
इत्यादि वचनमिति केचित् । अस्तु नाम अयमपि पन्थाः ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 सदसतोरनन्तरप्रकृतयोः स्वरूपाव्यभिचारित्वे परमार्थतया सन्निर्धारितम् । इदानीमसन्निर्दिधारयिषया पृच्छति - किं पुनरिति । असत् असदेवेति निर्धारितत्वात् प्रश्नस्य निरवकाशत्वमाशङ्क्य शून्यं व्यावर्त्य विवक्षितमसत् निर्धारयितुं तस्य सावकाशत्वमाह - यत् स्वात्मेति । देहादेरनात्मवर्गस्य प्रकृतासच्छब्दविषयतेत्याह - उच्यत इति । प्रत्यक्षस्याज्ञानप्रसूतत्वेन आभासत्वात् तत्कृता बुद्धिर्न प्रमेति परिहरति - य एनमिति । ‘हन्ता चेन्मन्यते हन्तुम्’ (क. उ. १-२-१९) इत्याद्यामृचमर्थतो दर्शयित्वा व्याचष्टे - य एनमिति । हन्तारं हतं वा आत्मानं मन्यमानस्य कथमज्ञानमित्यशङ्क्याह - हन्ताहमिति । हन्तृत्वादिज्ञानमज्ञानमित्यत्र हेतुमाह - यस्मादिति । आत्मनो हननं प्रति कर्तृत्वकर्मत्वयोरभावे हेतुं दर्शयति - अविक्रित्यवादिति
॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वोक्तस्य गीताशास्रार्थस्योत्प्रेक्षामात्रमूलत्वं निराकर्तुं मन्त्रद्वयं भगवान् आनीतवानिति श्लोकद्वयस्य सङ्गतिं दर्शयति - शोकमोहादीति । तत्र प्रथममन्त्रस्य सङ्गतिमाह - यत्त्विति । प्रत्यक्षनिबन्धनत्वादमुष्या बुद्धेर्मृषात्वमयुक्तमित्याक्षिपति - कथमिति । सर्वविक्रियाराहित्यप्रदर्शनेन हेतुं विशदयन् मन्त्रमेव पठति - न जायत इति । जन्ममरणविक्रियाद्वयप्रतिषेधं साधयति - नायमिति । अयमात्मा भूत्वा नाभविता, न वा अभूत्वा भूयो भवितेति योजना । न केवलं विक्रियाद्वयमेवात्र निषिध्यते, किन्तु सर्वमेव विक्रियाजातमित्याह - अज इति । वाच्यमर्थमुक्त्वा विवक्षितमर्थमाह - जनिलक्षणेति । विकल्पार्थत्वं व्यावर्तयति - वेति । निष्पन्नमर्थं निर्दिशति - नेत्यादिना । सम्बन्धमेवाभिनयति - न कदाचिदिति । अन्त्यविक्रियाभावे हेतुत्वेन नायमित्यादि व्याचष्टे - यस्मादिति । उक्तमेव व्यनक्ति - यो हीति । आत्मनि तु भूत्वा पुनरभवनाभावान्नास्ति मृत्युरित्यर्थः । आत्मनो जन्माभावेऽपि हेतुरिहैव विवक्षितः, इत्याह - वाशब्दादिति । अभूत्वेति च्छेदः । देहवदिति व्यतिरेकोदाहरणम् । उक्तमेवार्थं साधयति - यो हीति । जन्माभावे तत्पूर्विकास्तित्वविक्रियाऽपि नात्मनोऽस्तीत्याह - यस्मादिति । प्राणवियोगादात्मनो मृतेरभावे सावशेषनाशाभाववन्निरवशेषनाशाभावोऽपि सिध्यति, इत्याह - यस्मादिति । ननु - जन्मनाशयोर्निषेधे तदन्तर्गतानां विक्रियान्तराणामपि निषेधसिद्धेस्तन्निषेधार्थं न पृथक् प्रयतितंव्यमिति, तत्राह - यद्यपीति । स्वशब्दैः - मध्यवर्तिविक्रियानिषेधवाचकैरिति यावत् । आर्थिकेऽपि निषेधे, निषेधस्य सिद्धतया शाब्दो निषेधो न पृथगर्थवान् इत्याशङ्क्याह - अनुक्तानामिति । नित्यशब्देन शाश्वतशब्दस्य पौनरुक्त्यं परिहरन् व्याकरोति - शाश्वत इत्यादिना । अपक्षयो हि स्वरूपेण वा स्यात् गुणापचयतो वा इति विकल्प्य, क्रमेण दूषयति - नेत्यादिना । पुराणपदस्य अगतार्थत्वं कथयति - अपक्षयेति । तदेव स्फुटयति - यो हीति । ‘न म्रियते वा’ इत्यनेन चतुर्थपादस्य पौनरुक्त्यमाशङ्क्य, व्याचष्टे - तथेत्यादिना । ननु - हिंसार्थो हन्तिः श्रूयते, तत् कथं विपरिणामो निषिध्यते तत्राह - हन्तिरिति । हिंसार्थत्वसम्भवे किमित्यर्थान्तरं हन्तेरिष्यते तत्राह - अपुनरुक्ततायै इति । हिंसार्थत्वे मृतिनिषेधेन पौनरुक्त्यं स्यात् , तन्निषेधार्थं विपरिणामार्थत्वमेष्टव्यमित्यर्थः । पूर्वावस्थात्यागेन अवस्थान्तराप्रपत्तिर्विपरिणामः । तदर्थश्चेदत्र हन्तिरिष्यते, तदा निष्पन्नमर्थमाह - नेति । ‘न जायते’ (क. उ. १-२-१८) इत्यादिमन्त्रार्थमुपसंहरति - अस्मिन्निति । षण्णां विकाराणामात्मनि प्रतिषेधे फलितमाह - सर्वेति । आत्मनः सर्वविक्रियाराहित्येऽपि किमायातमित्याशङ्क्याह - यस्मादिति
॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 तदेव साधयितुं ‘न जायते म्रियते वा विपश्चित्’ (क. उ. १-२-१८) इत्यादिमन्त्रान्तरमवतारयति - कथमिति । कर्तृत्वाद्यभिमानविरोधात् अद्वैतकूटस्थात्मनिश्चयसामर्थ्यात् प्राप्तं विदुषः संन्यासं विद्यापरिपाकार्थमभ्यनुजानाति - वेदेति । पदद्वयस्य पूर्वमेव पौनरुक्त्यपरिहारेऽपि प्रकारान्तरेणापौनरुक्त्यमाह - अविनाशिनमित्यादिना । प्रश्नेऽपि सम्भवति, किमिति नञुल्लेखेन व्याख्यायते, तत्राह - उभयत्रेति । उत्तरत्र प्रतिवचनादर्शनात् नात्र प्रश्नः सम्भवति इत्यर्थः । विवक्षितं प्रकरणार्थं निगमयति - हेत्वर्थस्येति । अविक्रियत्वं हेत्वर्थः, तस्य विदुषः सर्वकर्मनिषेधे समानत्वात् इति यावत् । यदि विदुषः सर्वकर्मनिषेधोऽभिमतः, तर्हि किमिति हन्त्यर्थ एव आक्षिप्यते तत्राह - हन्तेरिति । उक्तं हेतुमाक्षेप्तुं पृच्छति - विदुष इति । अभिप्रायमप्रतिपद्यमानो हेतुविशेषं पूर्वोक्तं स्मारयति - नन्विति । उक्तमङ्गीकृत्य आक्षिपति - सत्यमिति । विदुषः - विज्ञानात्मनः ब्रह्मणश्च वेद्यस्य विरुद्धधर्मत्वेन दहनतुहिनवत् भिन्नत्वात् विदुषः सर्वकर्मत्यागे, न असो कारणविशेषः स्यात् , इत्याह - अन्यत्वादिति । अविक्रियात् इति च्छेदः । तथापि कूटस्थम् अविक्रियं ब्रह्म प्रतिपद्यमानस्य कुतो विक्रिया सम्भवेत् , ब्रह्मप्रतिपत्तिविरोधात् इत्याशङ्क्याह - न हीति । ‘अयमात्मा ब्रह्म’ (बृ. उ. २-५-१९) इत्यादिश्रुत्या समाधत्ते - न, विदुष इति । किञ्च - विद्वत्ता विशिष्टस्य वा केवलस्य वा नाद्यः । विशिष्टस्य विद्वत्तायां सविशेषणस्यापि तत्प्रसङ्गात् । न च विशेषणीभूतसङ्घातस्य अचेतनत्वात् विद्वत्ता युक्ता, इत्याह - न देहादीति । द्वितीये तु, जीवब्रह्मविभागासिद्धिः इत्याह - असंहत इति । किञ्च प्रामाणिकविरुद्धधर्मवत्त्वस्य असिद्धत्वात् प्रातिभासिकस्य च बिम्ब्रप्रतिबिम्बयोरनैकान्त्यात् भेदानुमानायोगात् , जीवब्रह्मणोरमेदसिद्धिरित्यभिप्रेत्य, फलितमाह - इति तस्येति । ननु - अविक्रियस्य ब्रह्मस्वरूपतया सर्वकर्मासम्भवे विदुषो विद्वत्तापि कथं सम्भवति नाहि ब्रह्मणोऽविक्रियस्य विद्यालक्षणा विक्रिया स्वक्रिया भवितुमर्हति, तत्राह - यथेति । अदृष्टेन्द्रियादिसहकृतमन्तः करणं प्रदीपप्रभावद्विषयपर्यन्तं परिणतं बु्द्धिवृत्तिरुच्यते । तत्र प्रतिबिम्बितं चैतन्यमभिव्यञ्जकबुद्धिवृत्त्यविवेकाद्विषयज्ञानमिति व्यवह्नियते । तेन - आत्मा उपलब्धा कल्प्यते । तच्च अविद्याप्रयुक्तमिथ्यासम्बन्धनिबन्धनम् । तथैव आध्यासिकसम्बन्धेन ब्रह्मात्मैक्याभिव्यञ्जकवाक्योत्थबुद्धिवृत्तिद्वारा विद्वानात्मा व्यपदिश्यते । न च मिथ्यासम्बन्धेन पारमार्थिकाविक्रियत्वविहतिरस्तीत्यर्थः । ‘अहं ब्रह्म’ (बृ. उ. १-४-१०) इति बुद्धिवृत्तेर्मोक्षावस्थायामपि भावात् , आत्मनः सविशेषत्वमाशङ्क्य तस्या यावदुपाधिसत्त्वमेवेत्याह - असत्येति । ननु - कूटस्थस्यात्मनो मिथ्याविद्यावत्त्वेऽपि तस्य कर्माधिकारनिवृत्तौ, कस्य कर्माणि विधीयन्ते न हि निरधिकाराणां तेषां विधिः, इत्याशङ्क्याह - विदुष इति । कर्माणि अविदुषो विहितानीति विशेषमाक्षिपति - नन्विति । कर्मविधानमविदुषः, विदुषश्चविद्याविघानमिति विभागे का हानिः इत्याशङ्क्याह - विदितेति । विद्याया विदितत्वं लब्धत्वम् । कर्मविधिरविदुषः, विदुषो विद्याविधिरिति विभागासम्भवे फलितमाह - तत्रेति । धर्मज्ञानानन्तरम् अनुष्ठेयस्य भावात् ब्रह्मज्ञानोत्तरकालं च तदभावात् ब्रह्मज्ञानहीनस्यैव कर्मविधिरिति समाधत्ते - न ; अनुष्ठेयस्येति । विशेषोपपत्तिमेव प्रपञ्चयति - अग्निहोत्रादीति । ननु - देहादिव्यतिरिक्तात्मज्ञानं विना पारलौकिकेषु कर्मसु प्रवृत्तेरनुपपत्तेः, तथाविधज्ञानवता कर्म अनुष्ठेयम् इति चेत् , तत्राह - कर्ताहमिति । आत्मनि कर्ता भोक्ता इत्येवं विज्ञानवतत्त्वेऽपि ब्रह्मज्ञानविहीनत्वेन अविदुषोऽनुष्ठेयं कर्मेत्यर्थः । देहादिव्यतिरेकज्ञानवत् ब्रह्मज्ञानमपि ज्ञानत्वाविशेषात् कर्मप्रवृत्तौ उपकरिष्यतीत्याशङ्क्याह - न त्विति । अनुष्ठेयविरोधित्वात् अविक्रियात्मज्ञानस्येति शेषः । ननु - ब्रह्मात्मैकत्वज्ञानात् उत्तरकालमपि कर्ताऽहमित्यादिज्ञानोत्पत्तौ कर्मविधिः सावकाशः स्यात् इति, नेत्याह - नाहमिति । कारणाभावादिति शेषः । कर्तृत्वादिज्ञानमन्यदित्युक्तम् । अनुष्ठानाननुष्ठानयोरुक्तविशेषात् अविदुषोऽनुष्ठानं विदुषो नेत्युपसंहरति - इत्येष इति । नन्वात्मविदो न चेदनुष्ठेयं किञ्चिदस्ति, कथं तर्हि ‘विद्वान् यजेत’ इत्यादिशास्त्रात् तं प्रति कर्माणि विधीयन्ते, तत्राह - यः पुनरिति । आत्मनि कर्तृत्वादिज्ञानापेक्षाया कर्मस्वधिकृतत्वज्ञाने, तथाविधं पुरुषं प्रति कर्माणि विधीयन्ते । स च प्राचीनवचनात् अविद्वानेवेति निश्चीयते । न खलु अकर्तुत्वादिज्ञानवतः तद्विपरीतकर्तृत्वादिज्ञानद्वारा कर्मसु प्रवृत्तिरित्यर्थः । कर्मासम्भवे ब्रह्मविदो हेत्वन्तरमाह - विशेषितस्येति । ‘वेदाविनाशिनम्’ (भ. भ. गी. २. २३) इत्यादिनेति शेषः । यद्यपि विदुषो नास्ति कर्म, तथापि विविदिषोः स्यात् , इत्याशङ्क्याह - तस्मादिति । विद्ययां विरुद्धत्वात् , इष्यमाणमेक्षप्रतिक्षत्वाच्च कर्मणामित्यर्थः । यद्यपि मुमुक्षोराश्रमकर्माण्यपेक्षितानि, तथापि विद्यातत्फलाभ्यामविरुद्धान्येव तान्यभ्युपगतानि । अन्यथा विविदिषासंन्यासविधिविरोधात् इत्यभिप्रेत्य, उक्तेऽर्थे भगवतोऽनुमतिमाह - अत एवेति । विदुषो विविदिषोश्च संन्यासेऽधिकारः, अविदुषस्तु कर्मणीति विभागस्येष्टत्वादित्यर्थः । अधिकारिभेदेन निष्ठाद्वयं भगवता वेदव्यासेनापि दर्शितमित्याह - तथा चेति । अध्ययनविधिना स्वाध्यायपाठे त्रैवर्णिकस्य प्रवृत्त्यनन्तरं तत्र क्रियामार्गो ज्ञानमर्गश्चेति द्वौमार्गौ अधिकारिभेेदेनावेदितावित्यर्थः । आदिशब्दात् ‘यत्र वेदाः प्रतिष्ठिताः’ (मो. ध. २४१-६) इत्यादि गृह्यते । उक्तयोर्मार्गयोस्तुल्यतां परिहर्तुमुदाहरणान्तरमाह - तथेति । बुद्धिशुद्धिद्वारा कर्मतत्फलयोर्वैराग्योदयात् पूर्वं कर्ममार्गो विहितः । विरक्तस्य पुनः संन्यासपूर्वको ज्ञानमार्गो दर्शितः । स चेतरस्मादतिशयशालीति श्रुतमित्यर्थः । उक्ते विभागे पुनरपि वाक्यशेषानुकूल्यमादर्शयति - एतमेवेति । ‘अहङ्कारविमूढात्मा’ (भ. गी. ३-२७) इत्यस्य व्याख्यानम् - अतत्त्वविदिति । ‘तत्ववित् तु’ इति श्लोकमवतार्य तात्पर्यार्थं सङ्गृह्णाति - नाहमिति । पूर्वेण क्रियापदेन इतिशब्दः सम्बध्यते । विरक्तमघिकृत्य वाक्यान्तरं पठति - तथा चेति । आदिशब्दस्तस्यैव श्लोकस्य शेषसङ्ग्रहार्थः । अविक्रियात्मज्ञानात् कर्मसंन्यासे दर्शिते, मीमांसकमतमुत्थापयति - तत्रेति । आत्मनो ज्ञानक्रियाशक्त्याधारत्वेन अविक्रियत्वाभावात् अविक्रियात्मज्ञानं संन्यासकारणीभूतं न सम्भवतीत्यर्थः । ‘यथोक्तज्ञानाभावो विषयाभावाद्वा मानाभावाद्वा ‘ इति विकल्प्य, आद्यं दूषयति - नेत्यादिना । न तावदविक्रियात्माभावः ‘न जायते म्रियते’ (भ. गी. २-२०) इत्यादिशास्रस्याप्तवाक्यतया प्रमणस्यान्तरेण कारणमानर्थक्यायोगादित्यर्थः । द्वितीयं प्रत्याह - यथा चेति । पारलौकिककर्मविधिसामर्थ्यसिद्धं विज्ञानमुदाहरति - कर्तुश्चेति । कर्मकाण्डादज्ञाते धर्मादौ विज्ञानोत्पत्तिवत् , ज्ञानकाण्डादज्ञाते ब्रह्मात्मनि विज्ञानोत्पत्तिरविरुद्धा, प्रमाणत्वाविशेषादित्यर्थः । ज्ञानस्य मनःसंयोगजन्यत्वात् , आत्मनश्च श्रुत्या मनोगोचरत्वनिरासात् , न आत्मज्ञाने साधनमस्तीति शङ्कते - करणेति । श्रुतिमाश्रित्य परिहरति - न, मनसेति । ‘तत्त्वमसि’ (छा. उ. ६-८-७) आदिवाक्योत्थमनोवृत्त्यैव शास्त्राचार्योपदेशमनुसृत्य द्रष्टव्यं तत्त्वमिति श्रूयते । स्वरूपेण स्वप्रकाशमपि ब्रह्मात्मवस्तु वाक्योत्थबुद्धिवृत्त्यभिव्यक्तं सविकल्पकव्यवहारालम्बनं भवतीति मनोगोचरत्वोपचारादसिद्धं करणागोचरत्वमित्यर्थः । कथं तर्हि ब्रह्मात्मनो मनोविषयत्वनिषेधश्रुतिः इत्याशङ्क्य, असंस्कृतमनोवृत्त्यविषयत्वविषया सेति मन्वानः सन्नाह - शास्त्रेति । सत्यपि श्रुत्यादौ, तदनुग्राहकाभावात् नास्माकमविक्रियात्मकज्ञानमुत्पत्तुमर्हतीत्याशङ्क्याह - तथेति । तस्य अविक्रियस्य आत्मनोऽधिगत्यर्थं, ‘विमतो विकारः, नात्मधर्मः, विकारत्वात् , उभयाभिमतविकारवत्’ इत्यनुमाने, पूर्वोक्तश्रुतिस्मृतिरूपागमे च सत्येव, तस्मिन्नोत्पद्यते ज्ञानम् , इति वचः साहसमात्रं, सत्येव माने मेयं न भातीतिवदित्यर्थः । ननु - यथोक्तं ज्ञानमुत्पन्नमपि हानाय उपादानाय वा न भवतीति कुतोऽस्य फलवत्त्वम् तत्राह - ज्ञानं चेति । अवश्यमिति । प्रकाशप्रवृत्तेः तमोनिवृत्तिव्यतिरेकेण अनुपपत्तिवत् , आत्मज्ञाननिवृत्तमन्तरेण आत्मज्ञानोत्पत्तेरनुपपत्तेरित्यर्थः । ननु - अज्ञानस्य ज्ञानप्रागभावत्त्वात् तन्निवृत्तिरेव ज्ञानम् , नतु तन्निवर्तकमिति, तत्राह - तच्चेति । कथं पुनर्भगवतापि ज्ञानाभावातिरिक्तमज्ञानं दर्शितम् इत्याशङ्क्याह - अत्र चेति । ‘विमतं, ज्ञानाभावो न भवति, उपादानत्वात् , मृदादिवत्’ इति भावः । ननु - हननक्रियायाः ‘न हिंस्यात्’ इति निषिद्धत्वात् , तत्कर्तृत्वादेरज्ञानकृतत्वेऽपि विहितक्रियाकर्तृत्वादेर्न तथात्वमिति, नेत्याह - तच्चेति । न तावदात्मनि कर्तृत्वादि । नित्यम् , अमुक्तिप्रसङ्गात् । न चानित्यमपि निरुपादानम् , भावकार्यस्योपादाननियमात् । न च अनात्मा तदुपादानम् , आत्मनि तत्प्रतिभानात् । न चात्मैव तदुपादानम् , कूटस्थस्य तस्याविद्यां विना तदयोगात् इत्याह - अविक्रियत्वादिति । कर्तृत्वाभावेऽपि कारयितृत्वं स्यात् , इत्याशङ्क्याह - विक्रियावानिति । आत्मनि कर्तृत्वादिप्रतिभानस्य अनाद्यनिर्वाच्यमज्ञानमुपादानम् , तन्निवृत्तिश्च तत्त्वज्ञानादित्युक्तम् । इदानीं कर्तृत्वकारयितृत्वयोरविद्याकृतत्वे भगवतोऽनुमतिं दर्शयति - तदेतदिति । विदुषो यदि कर्माधिकाराभावो भगवतोऽभिमतः, तर्हि कुत्र तस्य जीवतोऽधिकारः स्यात् इति पृच्छति - क्व पुनरिति । ‘ज्ञाननिष्ठायाम्’ इत्युक्तं स्मारयति - उक्तमिति । तदङ्गभूते सर्वकर्मसंन्यासे च तस्याधिकारोऽस्तीत्याह - तथेति । वक्ष्यमाणे वाक्ये सर्वकर्मसंन्यासो न प्रतिभाति, मानसानामेव कर्मणां विशेषणवशात् त्यागावगमात् इति शङ्कते - नन्विति । विशेषणान्तरमाश्रित्य दूषयति - न ; सर्वेति । मनसेति विशेषणात् मानसेष्वेव कर्मसु सर्वशब्दः सङ्कुचितः स्यात् इति शङ्कते - मानसानामिति । सर्वात्मना मनोव्यापारत्यागे व्यापारान्तराणामनुपपत्तेः सर्वकर्मसंन्यासः सिध्यतीति परिहरति - नेत्यादिना । मानसेष्वपि कर्मसु संन्यासे सङ्कोचात् न वागादिव्यापारानुपपत्तिरिति शङ्कते - शास्त्रीयाणामिति । अन्यानीति । अशास्त्रीयवाक्कायकर्मकारणानि अशास्त्रीयाणि मानसानि । तानि च सर्वाणि कर्माणीत्यर्थः । वाक्यशेषमादाय दूषयति - न ; नैवेति । न हि विवेकबुद्ध्या सर्वाणि कर्माण्यशास्त्रीयाणि संन्यस्य तिष्ठतीति युक्तम् , ‘नैव कुर्वन्’ (भ. गी. ५-१३) इत्यादिविशेषणस्य विवेकबुद्धेश्च त्यागहेतोस्तुल्यत्वादित्यर्थः । भगवदभिमतसर्वकर्मसंन्यासस्य अवस्थाविेशेषे सङ्कोचं दर्शयन्नाशङ्कते - मरिष्यत इति । संन्यासो जीवदवस्थायामेव अत्र विवक्षित इत्यत्र लिङ्गं दर्शयन्नुत्तरमाह - न ; नवेति । अनुपपत्तिमेव स्फोरयति - न हीति । अन्वयविशेषान्वाख्यानेन लिङ्गासिद्धिं चोदयति - अकुर्वत इति । विवेकवशात् अशेषाण्यपि कर्माणि देहे यथोक्ते निक्षिप्य अकुर्वन् अकारयंश्च विद्वानवतिष्ठते । तथा च - देहे कर्माणि संन्यस्य अकुर्वतोऽकारयतश्च सुखमासनमिति सम्बन्धसम्भवात् विशेषणस्य सति देहे, कर्मत्यागाविषयत्वाभावात् जीवतः सर्वकर्मत्यागो नास्तीत्यर्थः । अथवा अकुर्वत इत्यादि पूर्वत्रैव सम्बन्धनीयम् । लिङ्गासिद्धिचोद्यं तु देहे संन्यस्येत्यारभ्य उन्नेयम् । आत्मनः सर्वत्र अविक्रियत्वनिर्धारणात् देहसम्बन्धमन्तरेण कर्तृत्वकारयितृत्वाप्राप्तेः अप्राप्तप्रतिषेधप्रसङ्गपरिहारार्थम् अस्मदुक्त एव सम्बन्धः साधीयानिति समाधत्ते - न ; सर्वत्रेति । श्रुतिषु स्मृतिषु चेत्यर्थः । किञ्च - सम्बन्धस्य आकाङ्क्षासंनिधियोग्यताधीनत्वात् आकाङ्क्षावशात् अस्मदभिमतसम्बन्धसिद्धिरित्याह - आसनेति । भवदिष्टस्तु सम्बन्धो न सिध्यति, आकाङ्क्षाभावात् , इत्याह - तदनपेक्षत्वाच्चेति । संन्यासशब्दस्य निक्षेपार्थत्वात् तस्य च अघिकरणसापेक्षत्वात् अस्मदिष्टसम्बन्धसिद्धिरित्याशङ्क्याह - सम्पूर्वस्त्विति । अन्यथा उपसर्गवैयर्थ्यात् इत्यर्थः । मनसा विवेकविज्ञानेन सर्वकर्माणि परित्यज्य आस्ते देहे विद्वान् इत्यस्यैव सम्बन्धस्य साधुत्वं मत्वोपसंहरति - तस्मादिति । सर्वव्यापारोपरमात्मनः संन्यासस्य अविक्रियात्मज्ञानाविरोधित्वात् प्रयोजकज्ञानवतो वैधे संन्यासेऽधिकारः, सम्यग्ज्ञानवतस्तु अवैधे स्वाभाविके फलात्मनि इति विभागमभ्युपेत्य उक्तेऽर्थे वाक्यशेषानुगुण्यं दर्शयति - इति तत्र तत्रेति
॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वश्लोकार्थस्यैवोत्तरत्रापि प्रतिभानात् पौनरुक्त्यमाशङ्क्य, वृत्तानुवादपूर्वकमुत्तरश्लोकमवतारयति - य एनमित्यादिना । आत्मनः स्वतो विक्रियाभावेऽपि पुरातनदेहत्यागे नूतनदेहोपादाने च विक्रियावत्त्वध्रौव्यात् अविक्रियत्वमसिद्धमिति चेत् , तत्राह - वासांसीति । शरीराणि जीर्णानि - वयोहानिं गतानि, वलीपलितादिसङ्गतानीत्यर्थः । वाससां पुरातनानां परित्यागे, नवानां चोपादाने त्यागोपादानकर्तृभूतलौकिकपुरुषस्यापि अविकारित्वेन एकरूपत्ववत् , आत्मनो देहत्यागोपादानयोरविरुद्धं अविक्रियत्वमिति वाक्यार्थमाह - पुरुषवदिति
॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मनोऽविक्रियत्वेन कर्मासम्भवं प्रतिपाद्य अविक्रियत्वहेतुसमर्थनार्थमेव उत्तरग्रन्थमवतारयति - प्रकृतं त्विति । किं तत्प्रकृतम् इति शङ्कमानं प्रत्याह - तत्रेति । अविनाशित्वमित्युपलक्षणम् , अविक्रियत्वमित्यर्थः । तदेव दृष्टान्तेन स्पष्टयितुमुत्तरश्लोकमुत्थापयति - तदित्यादिना । पृथिव्यादिभूतचतुष्टयप्रयुक्तविक्रियाभाक्त्वात् आत्मनोऽसिद्धं अविक्रियत्वमिति शङ्कते - कस्मादिति । यतो न भूतानि आत्मानं गोचरयितुमर्हन्ति अतो युक्तमाकाशवत् तस्य अविक्रियत्वमिति शङ्कते - आहेत्यादिना
॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वार्धमु्त्तरार्धे हेतुत्वेन योजयति - यस्मादिति । नित्यत्वादीनामन्योन्यं हेतुहेतुमद्भावं सूचयति- नित्यत्वादित्यादिना । न च नित्यत्वं परमाणुषु व्यभिचारादसाधकं सर्वगतत्वस्येति वाच्यम् । तेषामेव अप्रामाणिकत्वेन व्यभिचारानवतारात् । न च सर्वगतत्वेऽपि विक्रियाशक्तिमत्त्वमात्मनोऽस्तीति युक्तम् , विभुत्वेनाभिमते नभसि तदनुपलम्भात् । न च विक्रियाशक्तिमत्वे स्थैर्यमास्थातुं शक्यम् , तथाविधस्य मृदादेरस्थिरत्वदर्शनात् , इत्याशयेनाह - स्थिरत्वादिति । स्वतो नित्यत्वेऽपि कारणान्नाशसम्भवादुत्पत्तिरपि सम्भावितेति कुतश्चिरन्तनत्वम् इत्याशङ्क्याह - न कारणादिति । आत्मनोऽविक्रियत्वस्य ‘न जायते म्रियते वा’ (भ. गी. २-२०) इत्यादिना साधितत्वात् , तस्यैव पुनःपुनरभिधाने पुनरुक्तिरित्याशङ्क्याह- नैतेषामिति । अनाशङ्कनीयस्य चोद्यस्य प्रसङ्गं दर्शयति - यत इति । अतो ‘वेदाविनाशिनम्’ (भ. गी. २. २१) इत्यादौ शङ्क्यते, पौनरुक्त्यमिति शेषः । कथं तत्र पौनरुक्त्याशङ्का समुन्मिषति तत्राह - तत्रेति । वेदाविनाशिनम् (भ. गी. २. २१) इत्यादिश्लोकः सप्तम्या परामृश्यते, श्लोकशब्देन ‘न जायते म्रियते वा’ (भ. गी. २-२०) इत्यादिरुच्यते । ननु - इह श्लोके जन्ममरणाद्यभावोऽभिलक्ष्यते, ‘वेद’ (भ. गी. २. २१) इत्यादौ पुनरपक्षयाद्यभावो विवक्ष्यते, तत्र कथमर्थातिरेकाभावमादाय पौनरुक्त्यं चोद्यते तत्राह - किञ्चिदिति । कथं तर्हि पौनरुक्त्यं न चोदनीयमिति मन्यसे तत्राह - दुर्बोधत्वादिति । पुनःपुनर्विधानमेदेन वस्तु निरूपयतो भगवतोऽभिप्रायमाह - कथं न्विति
॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 पृथिव्यादिभूतप्रयुक्तच्छेदनाद्यर्थक्रियाभावे योग्यताभावं कारणमाह - यत इति । आत्मनो नित्यत्वादिलक्षणस्य तथैव प्रथा किमिति न भवति तत्राह - अव्यक्त इति । मा तर्हि प्रत्यक्षत्वं भूत् , अनुमेयत्वं तु तस्य किं न स्यात् इत्याशङ्क्याह - अत एवेति । तदेव प्रपञ्चयति - यद्धीति । अतीन्द्रियत्वेऽपि सामान्यतो दृष्टविषयत्वं भविष्यतीत्याशङ्क्य कूटस्थेन आत्मना व्याप्तलिङ्गाभावात् , मैवमित्याह - अविकार्य इति । अविकार्यत्वे व्यतिरेकदृष्टान्तमाह - यथेति । किञ्च आत्मा न विक्रियते, निरवयवद्रव्यत्वात् , घटादिवत् - इति व्यतिरेक्यनुमानमाह - निरवयवत्वाच्चेति । निरवयवत्वेऽपि विक्रियावत्त्वे का क्षतिः इत्याशङ्क्याह - नहीति । सावयवस्यैव विक्रियावत्त्वदर्शनात् विक्रियावत्त्वे निरवयवत्वानुपपत्तिरित्यर्थः । यद्धि सावयवं सक्रियं क्षीरादि, तत् दध्यादिना विकारमापद्यते । न च आत्मनः श्रुतिप्रमितनिरवयवत्वस्य सावयवत्वम् । अतोऽविक्रियत्वान्नायं विकार्यो भवितुमलमिति फलितमाह - अविक्रियत्वादिति । आत्मयाथात्म्योपदेशम् ‘अशोच्यानन्वशोचस्त्वम्’ (भ. गी. २-११) इत्युपक्रम्य व्याख्यातमुपसंहरति - तस्मादिति । अव्यक्तत्वाचिन्त्यत्वाविकार्यत्वनित्यत्वसर्वगतत्वादिरूपो यस्मात् आत्मा निर्धारितः, तस्मात् तथैव ज्ञातुमुचितः, तज्ज्ञानस्य फलवत्त्वादित्यर्थः । प्रतिषेध्यमनुशोकमेवाभिनयति -
हन्ताहमिति ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 त्वम्पदार्थपरिशोधनस्य प्रकृतत्वात् तत्रैव हेत्वन्तरमाह - किञ्चेति । श्रोतुरर्जुनस्य पूर्वोक्तमात्मयाथात्म्यं श्रुत्वापि तस्मिन् निर्धारणासिद्धेर्द्वयोर्मतयोरन्यतरमताभ्युपगमः शङ्कितः, तदर्थो निपातद्वयप्रयोग इत्याह - अथ चेति । प्रकृतस्य आत्मनो नित्यत्वादिलक्षणस्य पुनःपुनर्जातत्वाभिमानो मानाभावादसम्भवी इत्याशङ्क्याह - लोकेति । नित्यजातत्वाभिनिवेशे पौनःपुन्येन मृतत्वाभिनेवेशो व्याहतः स्यादित्यशङ्क्याह - तथेति । परकीयमतमनुभाषितमभ्युपेत्य, ‘अहो बत महत् पापं कर्तुं व्यवसिता वयम्’ (भ. गी. १. ४५) इत्यादेस्तदीयशोकस्य निरवकाशत्वमित्याह - तथापीति । एवमर्जुनस्य दृश्यमानमनुशोकप्रकारं दर्शयित्वा तस्य कर्तुमयोग्यत्वे हेतुमाह - जन्मवत इति ।
‘जन्मवतो नाशो नाशवतश्च जन्म’ इत्येतौ अवश्यंभाविनौ - मिथो व्याप्ताविति योजना ॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मनो नित्यत्वस्य प्रागेव सिद्धत्वात् उत्तरश्लोकानुपपत्तिरित्याशङ्क्यह - आत्मन इति । ‘अनित्यत्वं’ इति च्छेदः । शाक्यानां लोकायतानां वा मतम् इदमा परामृश्यते । तयोरवश्यम्भावित्वे सति अनुशोकस्य अकर्तव्यत्वे हेत्वन्तरमाह - तथा चेति
॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 चाक्षुषदर्शनमात्रवृत्तिं व्यावर्तयति - अनुपलब्धिरिति । नहि यथोक्तसङ्घातरूपाणि भूतानि पूर्वमुत्पत्तेः उपलभ्यन्ते । तेन तानि तथा व्यपदेशभाञ्जि भवन्ति इत्यर्थः । किं तत् मध्यम् , यदेषां व्यक्तमिष्यते तदाह - उत्पन्नानीति । उत्पत्तेरूर्ध्वं मरणाच्च पूर्वं व्यावहारिकं सत्त्वं मध्यमेषां व्यक्तमिति तथोच्यते । जन्मानुसारित्वं विलयस्य युक्तम् इति मत्वा तात्पर्यार्थमाह - मरणादिति । उक्तेऽर्थे पौराणिकसंमतिमाह - तथा चेति । तत्रेत्यस्यार्थमाह - अदृष्टेति ।
पूर्वम् अदृष्टानि सन्ति, पुनर्दृष्टानि, तान्येव पुनर्नष्टानि, तदेवं भ्रान्तिविषयतया घटिकायन्त्रवत् चक्रीभूतेषु भूतेषु शोकनिमितस्य प्रलापस्य नावकाशोऽस्तीत्यर्थः ॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मानमुद्दिश्यानुशोकस्य कर्तुमयोग्यत्वेऽपि भूतसङ्घातात्मकानि भूतान्युद्दिश्य तस्य कर्तव्यत्वमाशङ्क्य, आह - कार्येति । समनन्तरश्लोकः तत्र हेतुरित्याह - यत इति । ‘आश्चर्यवत्’ (भ. गी. २-२९) इति आद्येन पादेन आत्मविषयदर्शनस्य दुर्लभत्वं दर्शयता द्रष्टुर्दौर्लभ्यमुच्यते । द्वितीयेन च तद्विषयवदनस्य दुर्लभत्वोक्तेः तदुपदेष्टुस्तथात्वं कथ्यते । तृतीयेन तदीयश्रवणस्य दुर्लभत्वद्वारा श्रोतुर्विरलता विवक्षिता । श्रवणदर्शनोक्तीनां भावेऽपि तद्विषयसाक्षात्कारस्य अत्यन्तायासलभ्यत्वं चतुर्थेनाभिप्रेतम् इति विभागः । आत्मगोचरदर्शनादिदुर्लभत्वद्वारा दुर्बोधत्वम् आत्मनः साधयति - आश्चर्यवदिति । संप्रत्यात्मनि द्रष्टुर्वक्तुः श्रोतुः साक्षात्कर्तुश्च दुर्लभत्वाभिधानेन तदीयं दुर्बोधत्वं कथयति - अथवेति । व्याख्यानद्वयेऽपि फलितमाह - अत इति
॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 अर्जुनं प्रति उपालम्भं दर्शयित्वा प्रकृतस्य आत्मनो दुर्विज्ञेयत्वात् तं प्रति उपालम्भो न सम्भवतीति सन्वानः सन् आह - दुर्विज्ञेय इति । तथा च आत्माज्ञाननिमित्तविप्रलम्भस्य साधारणत्वात् असाधारणोपालम्भस्य निरवकाशता, इत्याह - किं त्वामेवेति । अहंप्रत्ययवेद्यत्वादात्मनो दुर्विज्ञेयत्वम् असिद्धमिति शङ्कते - कथमिति । विशिष्टस्य आत्मनः अहंप्रत्ययदृष्टत्वेऽपि केवलस्य तदभावात् अस्ति दुर्विज्ञेयता इति श्लोकमवतारयति - आहेति । हेतुभागं विभजते - सर्वस्येति । देहे वध्यमानेऽपि देहिनो वध्यत्वाभावे फलितमाह - यस्मात् इति । फलितप्रदर्शनपरं श्लोकार्धं व्याचष्टे- तस्माद्भीष्मादीनीति
॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 श्लोकान्तरमुत्थापयति - अथेति । आत्मनो दुर्ज्ञानत्वप्रदर्शनानन्तरमिति यावत् । वस्तुवृत्तापेक्षया शोकमोहयोरकर्तव्यत्वं प्रकरणार्थः । यद्धि क्षत्रियस्य धर्मादनपेतं श्रेयःसाधनं तदेव मया अनुवर्तितव्यमित्याशङ्क्याह - धर्म्यादिति । जातिप्रयुक्तं स्वाभाविकं स्वधर्ममेव विशिनष्टि - क्षत्रियस्येति । पुनर्नकारोपादानमन्वयार्थम् । प्रचलितुमयोग्यत्वे प्रतियोगिनं दर्शयति - स्वाभाविकादिति । स्वाभाविकत्वमशास्रीयत्वमिति शङ्कां वारयितुं तात्पर्यमाह- आत्मेति । आत्मनः - स्वस्यार्जुनस्य स्वाभाव्यं क्षत्रियस्वभावप्रयुक्तं वर्णाश्रमोचितं कर्म, तस्मादित्यर्थः । धर्मार्थं प्रजापरिपालनार्थं च प्रयतमानस्य युद्धादुपरिरंसा श्रद्धातव्येत्याशङ्क्याह- तच्चेति । ततोऽपि श्रेयस्करं किञ्चिदनुष्ठातुं युद्धादुपरतिरुचितेत्याशङ्क्याह - तस्मादिति ।
तस्मात् युद्धात् प्रचलनमनुचितमिति शेषः ॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 श्लोकान्तरमवतारयन् वृत्तं कीर्तयति - इहेति । पूर्वश्लोकः सप्तम्यर्थः । यत् पारमार्थिकं तत्त्वं तदपेक्षायामेव केवलं शोकमोहयोरसम्भवो न भवति, किन्तु ‘स्वधर्ममपि चावेक्ष्य’ (भ. गी. २-३१) इति सम्बन्धः स्वकीयं क्षात्रधर्ममनुसन्धाय ततश्चलनं परिहर्तव्यमित्यर्थः । तथापि युद्धे प्रवृत्तानामैहिकामुष्मिकस्थायिसुखाभावादुपरतिरेव ततो युक्ता प्रतिभातीत्याशङ्क्याह - यदृच्छयेति । चिरेण चिरतरेण कालेन च यागाद्यनुष्ठायिनः स्वर्गादिभाजो भवन्ति । युध्यमानास्तु क्षत्रिया बहिर्मुखताविहीनाः सहसैव स्वर्गादिसुखभोक्तारः । तेन तव कर्तव्यमेव युद्धमिति व्याख्यानेन स्फुटयति - यदृच्छयेत्यादिना ।
इहामुत्र च भाविसुखवतामेव क्षत्रियाणां स्वधर्मभूतयुद्धसिद्धेस्तादर्थ्येनोत्थानं शोकमोहौहित्वा कर्तव्यमित्यर्थः ॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】 युद्धस्य गुर्वाद्यनेकप्राणिहिंसात्मकस्य अहिंसाशास्त्रविरोधात् नास्ति कर्तव्यतेति शङ्कते - कुतश्चेति । अग्नीषोमीयहिंसादिवत् युद्धमपि क्षत्रियस्य विहितत्वादनुष्ठेयम् , सामान्यशास्त्रतो विशेषशास्त्रस्य बलीयस्त्वात् इत्याह- उच्यत इति । स्वधर्मस्य युद्धस्य श्रद्धया करणे स्वर्गादिमहाफलप्राप्तिं प्रदर्श्य, तदकरणे प्रत्यवायप्राप्तिं प्रदर्शयन् उत्तरश्लोकगताथशब्दार्थं कथयति - एवमिति ।
विहितत्वं फलवत्त्वमित्यनेन प्रकारेणेत्यर्थः । अन्वयार्थः पुनः चेदित्यनूद्यते । महादेवादीत्यादिशब्देन महेन्द्रादयो गृह्यन्ते ॥ ३३ ॥ 【भाष्यम्】 【भाष्यम्】 युद्धे स्वमरणसन्देहात् तत्परिहारार्थमकीर्तिरपि सोढव्या, आत्मसंरक्षणस्य श्रेयस्करत्वात् इत्याशङ्क्याह - धर्मात्मेति । मान्यानामकीर्तिर्भवति मरणादपि दुःसहेति तात्पर्यार्थमाह - सम्भावितस्येति
॥ ३४ ॥ 【भाष्यम्】 【भाष्यम्】 युद्धाकरणे क्षत्रियस्य प्रत्यवायमामुष्मिकमापाद्य, शिष्टगर्हालक्षणं दीर्घकालभाविनमैहिकमपि प्रत्यवायं प्रतिलम्भयति - न केवलमिति । प्राणिषु कृपया नाहं युद्धं करिष्यामीत्याशङ्क्याह - भयादिति । महारथानेव विशिनष्टि - येषां चेति ।
दुर्योधनादिभिस्तव उपहास्यतानिरसनाय सङ्ग्रामे प्रवृत्तिरवश्यम्भाविनीत्यर्थः ॥ ३५ ॥ 【भाष्यम्】 【भाष्यम्】 इतश्च त्वया युद्धं कर्तव्यमित्याह - किञ्चेति । ननु - भीष्मद्रोणादिवधप्रयुक्तं कष्टतरं दुःखमसहमानो युद्धान्निवृत्तः स्वसामर्थ्यनिन्दनादि शत्रुकृतं सोढुं शक्ष्यामीत्याशङ्क्याह- तत इति
॥ ३६ ॥ 【भाष्यम्】 【भाष्यम्】 इतश्च मा त्वं युद्धादुपरमं कार्षीरित्याह - किञ्चेति । जये पराजये च लाभध्रौव्यात् युद्धार्थमुत्थानमावश्यकमित्याह- तस्मादिति । नहि परिशुद्धकुलस्य क्षत्रियस्य युद्धायोद्युक्तस्य तस्मादुपरमः साधीयानित्याह - कौन्तेयेति । जये पराजये चेत्येतदुभयथेत्युच्यते । जयादिनियमाभावोऽपि लाभनियमे फलितमाह - यत इति । कृतनिश्चयत्वमेव विशदयति - जेष्यामीति
॥ ३७ ॥ 【भाष्यम्】 【भाष्यम्】 तर्हि युद्धे गुर्वादिवधवशात् मध्यस्थनिन्दा, ततो निवृत्तौ शत्रुनिन्दा इत्युभयतः पाशा रज्जुरित्याशङ्क्याह - युद्धे पुनरिति । सुहृञ्जीवनमरणादिनिमित्तयोः सुखदुःखयोः समताकरणं कथम् इति, तत्राह - रागद्वेषाविति । लाभः - शत्रुकोषादिप्राप्तिः, अलाभः - तद्विपर्ययः । न्याय्येन युद्धेनापरिभूतेन परस्य परिभवो जयः, तद्विपर्ययस्त्वजयः, तयोर्लाभालाभयोर्जयाजययोश्च समताकरणं समानमेव, रागद्वेषावकृत्वेत्येतद्दर्शयितुं तथेत्युक्तम् । यथोक्तोपदेशवशात् परमार्थदर्शनप्रकरणे युद्धकर्तव्यतोक्तेः समुच्चयपरत्वं शास्त्रस्य प्राप्तमित्याशङ्क्याह - एष इति ।
क्षत्रियस्य तव धर्मभूतयुद्धकर्तव्यतानुवादप्रसङ्गागतत्वात् अस्योपदेशस्य नानेन मिषेण समुच्चयः सिध्यतीत्यर्थः ॥ ३८ ॥ 【भाष्यम्】 【भाष्यम्】 पापभीरुतया युद्धाय निश्चयं कृत्वा नोत्थातुं शक्नोमीत्याशङ्क्याह - तत्रेति । युद्धस्य स्वधर्मतया कर्तव्यत्वे सतीति यावत् । परमार्थतत्त्वविषयां ज्ञाननिष्ठामुक्तामुपसंहृत्य वक्ष्यमाणां सङ्गृह्णाति - योगे त्विति । तामेव बुद्धिं विशिष्टफलवत्त्वेनाभिष्टौति - बुद्ध्येति । तत्रोपसंहारभागं विभजते- एषेत्यादिना । बु्द्धिशब्दस्यान्तःकरणविषयत्वं व्यावर्तयति - ज्ञानमिति । तस्य सहकारिनिरपेक्षस्य विशिष्टं फलवत्त्वमाचष्टे - साक्षादिति । शोकमोहौ रागद्वेषौ कर्तृत्वं भोक्तृत्वमित्यादिरनर्थः संसारः, तस्य हेतुर्दोषः स्वाज्ञानम् , तस्य निवृत्तौ निरपेक्षं कारणं ज्ञानम् । अज्ञाननिवृत्तौ ज्ञानस्यान्वयव्यतिरेकसमधिगतसाधनत्वादित्यर्थः । ‘योगे त्विमां’ (भ. गी. २-३९) इत्यादि व्याकुर्वन् योगशब्दस्य प्रकृते चित्तवृत्तिनिरोधविषयत्वं व्यवच्छिनत्ति - तत्प्राप्तीति । प्रकृतं मुक्त्युपयुक्तं ज्ञानं तत्पदेन परामृश्यते । ज्ञानोदयोपायमेव प्रकटयति - निःसङ्गतयेति । फलाभिसन्धिवैधुर्यं निःसङ्गत्वम् । बुद्धिस्तुतिप्रयोजनमाह - प्ररोचनार्थमिति । अभिष्टुता हि बुद्धिः श्रद्धातव्या सत्यनुष्ठातारमधिकरोति । तेन स्तुतिरर्थवतीत्यर्थः । कर्मानुष्ठानविषयबुद्ध्या कर्मबन्धस्य कुतो निवृत्तिः नहि तत्त्वज्ञानमन्तरेण समूलं कर्म हातुं शक्यमित्याशङ्क्यह - ईश्वरेति
॥ ३९ ॥ 【भाष्यम्】 【भाष्यम्】 ननु - ‘स्वधर्ममपि चावेक्ष्य’ (भ. गी. २-३१ ) इत्यादिश्लोकैर्न्यायावष्टम्भेन शोकमोहापनयनस्य तात्पर्येणोक्तत्वात् तस्मिन्नुपसंहर्तव्ये किमिति परमार्थदर्शनमुपसंह्नियते तत्राह - शोकेति । ‘स्वधर्ममपि’ (भ. गी. २-३१) इत्यादिभिरतीतैः श्लोकैः शोकमोहयोः स्वजनमरणगुर्वादिवधशङ्कानिमित्तयोः सम्यग्ज्ञानप्रतिबन्धकयोरपनयार्थं वर्णाश्रमकृतं धर्ममनुतिष्ठतः स्वर्गादि सिध्यति, नान्यथा, इत्यन्वयव्यतिरेकात्मको लोकप्रसिद्धो न्यायो यद्यपि दर्शितः, तथापि नासौ तात्पर्येणोक्त इत्यर्थः । किं तर्हि तात्पर्येणोक्तम् तदाह - परमार्थेति । ‘न त्वेवाहं जातु नासं’ (भ. गी. २-१२) इत्यादि सप्तम्या परामृश्यते । उक्तम् - ‘न जायते म्रियते वा कदाचित्’ (भ. गी. २. २०) इत्यादिनोपपादितमित्यर्थः । उपसंहारप्रयोजनमाह - शास्त्रेति । तस्य वस्तुद्वारा विषयो निष्ठाद्वयम् । तस्य विभक्तस्य तेनैव विभागेन प्रदर्शनार्थं परमार्थदर्शनोपसंहार इत्यर्थः । ननु - किमित्यत्र शास्त्रस्य विषयविभागः प्रदर्श्यते उत्तरत्रैव तद्विभागप्रवृत्तिप्रतिपत्त्योः सम्भवात् इति, तत्राह - इह हीति । शास्त्रप्रवृत्तेः श्रोतृपतिपत्तेश्च सौकर्यार्थमादौ विषयविभागसूचनमित्यर्थः । उपसंहारस्य फलवत्त्वमेवमुक्त्वा तमेवोपसंहारमवतारयति - अत आहेति । कर्मणा सह समाधेरनुष्ठातुमशक्यत्वात् , अनेकान्तरायसम्भवात् , तत्फलस्य च साक्षात्कारस्य दीर्घकालाभ्याससाध्यस्यैकस्मिन् जन्मन्यसम्भावत् अर्थात् योगी भ्रश्येत, अनर्थे च निपतेत् , इत्याशङ्क्याह - नेहेति । प्रतीकत्वेनोपात्तस्य नकारस्य पुनरन्वयानुगुणत्वेन नास्तीत्यनुवादः । यत्तु - कर्मानुष्ठानस्य अनैकान्तिकफलत्वेन अकिञ्चित्करत्वमुक्तं तद्दूषयति - यथेति । कृषिवाणिज्यादेरारम्भस्य अनियतं फलम् , सम्भावनामात्रोपनीतत्वात् , न तथा कर्मणि वैदिके प्रारम्भस्य फलमनियतं युज्यते, शास्त्रविरोधादित्यर्थः । यत्तूक्तम् - अनेकानर्थकलुषितत्वेन दोषवदनुष्ठानमिति, तत्राह - किञ्चेति । इतोऽपि कर्मानुष्ठानमावश्यकमिति प्रतिज्ञाय हेत्वन्तरमपि स्फुटयति - नापीति । चिकित्सायां हि क्रियमाणायां व्याध्यतिरेको वा मरणं वा प्रत्यवायोऽपि सम्भाव्यते, कर्मपरिपाकस्य दुर्विवेकत्वात् । न तथा कर्मानुष्ठाने दोषोऽस्ति, विहितत्वादित्यर्थः । सम्प्रति कर्मानुष्ठानस्य फलं पृच्छति - किं न्विति । उत्तरार्धं व्याकुर्वन् विवक्षितं फलं कथयति - स्वल्पमपीति ।
सम्यग्ज्ञानोत्पादनद्वारेण रक्षणं विवक्षितम् - ‘सर्वपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् । यतिस्तपस्वी भवति पङ्क्तिपावनपावनः ॥ ‘ इति स्मृतेरित्यर्थः ॥ ४० ॥ 【भाष्यम्】 【भाष्यम्】 ननु - कर्मानुष्ठानस्य अनैकांन्तिकफलत्वेन अकिञ्चित्करत्वात् अनेकानर्थकलुषितत्वेन दोषवत्त्वाच्च योगबुद्धिरपि न श्रद्धेयेति, तत्राह - किञ्चेति । अन्यच्च किञ्चिदुच्यते कर्मानुष्ठानस्यावश्यकत्वे कारणमिति यावत् । सैवैका प्रमाणभूता बुद्धिरित्याह - व्यवसायात्मिकेति । बुद्ध्यन्तराणि अविवेकमूलानि, अप्रमाणानि, इत्याह - बहुशाखा हीति । व्यवसायात्मिकाया बुद्धेः श्रेयोमार्गे प्रवृत्ताया विवक्षित फलमाह - इतरेति । प्रकृतबुद्धिद्वयापेक्षया इतराः विपरीताश्च अप्रमाणजनिताः स्वकपोलकल्पिता या बुद्धयः, तासां शाखाभेदो यः संसारहेतुः, तस्य बाधिकेति यावत् । तत्र हेतुः - सम्यगिति । निर्दोषवेदवाक्यसमुत्थत्वात् उक्तमुपायोपेयभूतं बुद्धिद्वयं साक्षात् पारम्पर्याभ्यां संसारहेतुबाधकमित्यर्थः । उत्तरार्धं व्याचष्टे - याः पुनरिति । प्रकृतबुद्धिद्वयापेक्षया अर्थान्तरत्वम् - इतरत्वम् । तासामनर्थहेतुत्वं दर्शयति - यासामिति । अप्रामाणिकबुद्धीनां प्रसक्तानुप्रसक्त्या जायमानानामतीव बुद्धिपरिणामविशेषाः शाखाभेदाः, तेषां प्रचारः - प्रवृत्तिः, तद्वशादित्येतत् । अनन्तत्वं सम्यग्ज्ञानमन्तरेण निवृत्तिविरहितत्वम् । अपारत्वं - कार्यस्यैव सतो वस्तुभूतकारणविरहितत्वम् । अनुपरतत्वं स्फोरयति - नित्येति । कथं तर्हि तन्निवृत्त्या पुरुषार्थपरिसमाप्तिः तत्राह - प्रमाणेति । अन्वयव्यतिरेकाख्येन अनुमानेन आगमेन च पदार्थपरिशोधनपरिनिष्पन्ना विवेकात्मिका या बुद्धिः, तां निमीत्तीकृत्य समुत्पन्नसम्यग्बोधानुरोधात् प्रकृता विपरीतबुद्धयो व्यावर्तन्ते । तास्वसङ्ख्यातासु व्यावृत्तासु सतीषु निरालम्बनतया संसारोऽपि स्थातुमशक्नुवन् उपरतो भवतीत्यर्थः । याः पुनः इत्युपक्रान्तास्तत्त्वज्ञानापनोद्याः संसारास्पदीभूताः विपरीतबुद्धीरनुक्रामति - ता बुद्धय इति । बुद्धीनां वृक्षस्येव कुतो बहुशाखित्वम् तत्राह - बहुभेदा इत्येतदिति । एकैकां बुद्धिम्प्रति शाखाभेदोऽवान्तरविशेषः, तेन बुद्धीनामसङ्ख्यात्वं प्रख्यातमित्याह - प्रतिशाखेति । बुद्धीनामानन्त्यप्रसिद्धिप्रद्योतनार्थो हिशब्दः । सम्यग्ज्ञानवतां यथोक्तबुद्धिभेदभाक्त्वमप्रसिद्धमित्याशङ्क्य प्रत्याह - केषामित्यादिना
॥ ४१ ॥ 【भाष्यम्】 【भाष्यम्】 ननु - बुद्धिद्वयातिरिक्तानि बुद्ध्यन्तराण्यपि काणादादिशास्त्रप्रसिद्धानि विद्यन्ते । तथा च कथं बुद्धिद्वयमेव भगवतोपदिष्टमिति, तत्राह - येयमिति । ते यामिमां पुष्पितां वाचं प्रवदन्ति तया अपहृतचेतसां कामिनां कामवशात् निश्चयात्मिका बुद्धिर्न प्रायः स्थिरा भवतीत्याह - ते । यामिति । ‘इमाम्’ इत्यव्ययनविध्युपात्तत्वेन प्रसिद्धत्वं कर्मकाण्डरूपाया वाचो विवक्ष्यते । वक्ष्यमाणत्वं ‘क्रियाविशेषबहुलाम्’ (भ. गी. २-४३) इत्यादौ द्रष्टव्यम् । किंशुको हि पुष्पशाली शोभमानोऽनुभूयते, न पुरुषभोग्यफलभागी लक्ष्यते । तथा, इयमपि कर्मकाण्डात्मिका श्रूयमाणदशायां रमणीया वागुपलभ्यते, साध्यसाधनसम्बन्धप्रतिभानात् । न त्वेषा निरतिशयफलभागिनी भवति, कर्मानुष्ठानफलस्य अनित्यत्वात् , इति मत्वाह - पुष्पितामिति । वाक्यत्वेन लक्ष्यतेऽर्थवत्त्वप्रतिभानात् । वस्तुतस्तु न वाक्यम् , अर्थाभासत्वात् , इत्याह - वाक्यलक्षणामिति । प्रवक्तॄणां वेदवाक्यतात्पर्यपरिज्ञानाभावं सूचयति - अविपश्चित इति । वेदवादाः - वेदवाक्यानि, तानि च बहूनामर्थवादानां फलानां साधनानां च विधिशेषाणां प्रकाशकानि, तेषु रतिः - आसक्तिः, तन्निष्ठत्वं - तद्वत्त्वमपि तेषां विशेषणमित्याह - वेदवादेति । कर्मकाण्डनिष्ठत्वफलं कथयति - नान्यदिति ।
ईश्वरो वा मोक्षो वा नास्तीत्येवं वदन्तो नास्तिकाः सन्तः सम्यग्ज्ञानवन्तो न भवन्तीत्यर्थः ॥ ४२ ॥ 【भाष्यम्】 【भाष्यम्】 यदि साङ्ख्ययोगरूपा एकैव प्रमाणभूता बुद्धिः, तर्हि सैव सर्वेषां चित्ते किमिति स्थिरा न भवति तत्राह - येषामिति । तेषां संसारपरिवर्तनपरिदर्शनार्थं प्रस्तुतां वाचमेव विशिनष्टि - जन्मेति । ननु - पुंसां कामस्वभावत्वमयुक्तम् , चेतनस्येच्छावतस्तदात्मत्वानुपपत्तेः, इति तत्राह - कामपरा इति । तत्परत्वं - तत्तत्फलार्थित्वेन तत्तदुपायेषु कर्मस्वेव प्रवृत्ततया कर्मसंन्यासपूर्वकात् ज्ञानाद्बहिर्मुखत्वम् । ननु - कर्मनिष्ठानामपि परमपुरुषार्थापेक्षया मोक्षोपाये ज्ञाने भवत्याभिमुख्यमिति, नेत्याह - स्वर्गेति । तत्परत्वं - तस्मिन्नेवासक्ततया तदतिरिक्तपुरुषार्थराहित्यनिश्चयवत्त्वम् । उच्चावचमध्यमदेहप्रभेदग्रहणं जन्म । वाचो यथोक्तफलप्रदत्वं अप्रामाणिकम् इत्याशङ्क्य, अऩुष्ठानद्वारा तदुपपत्तिरित्याह - क्रियेति । क्रियाणां - अनुष्ठानानां विशेषाः - देशकालाधिकारिप्रयुक्तः सप्ताहानेकाहलक्षणाः, ते खल्वस्यां वाचि प्राचुर्येण प्रतिभान्तीत्यर्थः । कथं यथोक्तायां वाचि क्रियाविशेषाणां बाहुल्येन अवस्थानम् इत्याशङ्क्य, प्रकाश्यत्वेनेत्येतद्विशदयति - स्वर्गेति । तथापि तेषां मोक्षोपायत्वोपपत्तेः, तन्निष्ठानां मोक्षाभिमुख्यं भविष्यति, नेत्याह - भोगेति । यथोक्तां वाचमभिवदतां पर्यवसानं दर्शयति - तद्बहुलामिति
॥ ४३ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकृतान् प्रवक्तॄनविवेकिनो व्यवसायात्मकबुद्धिभाक्त्वासम्भवसिद्ध्यर्थं विधान्तरेण विशिनष्टि - ते चेति । तथापि शास्त्रानुसारिण्या विवेकप्रज्ञया व्यवसायात्मिका बुद्धिस्तेषामुदेष्यति, इत्याशङ्क्याह- तयेति । ननु - समाधिः सम्प्रज्ञातासम्प्रज्ञातभेदेन द्विधोच्यते, तत्र बुद्धिद्वयविधिरप्रसक्तः सन् कथं निषिध्यते तत्राह - समाधीयत इति
॥ ४४ ॥ 【भाष्यम्】 【भाष्यम्】 ननु - कर्मकाण्डनिष्ठानां कर्मानुष्ठायिनामपि बुद्धिशुद्धिद्वारेण अऩ्तःकरणे साध्यसाधनभूतबुद्धिद्वयसमुदयसम्भवात् , अतो मोक्षो भविष्यति, नेत्याह - तेषां चेति । तदात्मभूतानां - तयोरेव भोगैश्वर्ययोरात्मकर्तव्यत्वेन आरोपितयोः, अभिनिविष्टे चेतसि तादात्म्याध्यासवतां बहिर्मुखानामित्यर्थः । तर्हि वेदार्थतया कामात्मता प्रशस्तेत्याशङ्क्याह - निस्त्रैगुण्य इति । भवेति पदं निर्द्वन्द्वादिविशेषणेष्वपि प्रत्येकं सम्बध्यते । त्रयाणां - सत्त्वादीनां, गुणानां - पुण्यपापव्यामिश्रकर्मतत्फलसम्बन्धलक्षणः समाहारः - त्रैगुण्यम् , इत्यङ्गीकृत्य व्याचष्टे - संसार इति । वेदशब्देनात्र कर्मकाण्डमेव गृह्यते । तदभ्यासवतां तदर्थानुष्ठानद्वारा संसाराध्रौव्यान्न विवेकावसरोऽस्तीत्यर्थः । तर्हि संसारपरिवर्जनार्थं विवेकसिद्धये किं कर्तव्यम् इत्याशङ्क्याह - त्वं त्विति । कथं निस्त्रैगुण्यो भवेति गुणत्रयराहित्यं विधीयते नित्यसत्त्वस्थो भवेति वाक्यशेषविरोधात् , इत्याशङ्क्याह - निष्काम इति । सप्रतिपक्षत्वं - परस्परविरोधित्वम् । पदार्थौ - शीतोष्णादिलक्षणौ । निष्कामत्वे द्वन्द्वान्निर्गतत्वं - शीतोष्णादिसहिष्णुत्वं हेतुमुक्त्वा, तत्रापि हेत्वपेक्षायां सदा सत्त्वगुणाश्रितत्वं हेतुमाह - नित्येति । योगक्षेमव्यापृतचेतसो रजस्तमोभ्यामसंस्पृष्टे सत्त्वमात्रे समाश्रितत्वमशक्यम् इत्याशङ्क्याह - तथेति । योगक्षेमयोर्जीवनहेतुतया पुरुषार्थसाधनत्वात् निर्योगक्षेमो भवेति कुतो विधिः इत्याशङ्क्याह - योगेति । योगक्षेमप्रधानत्वं सर्वस्य स्वारसिकमिति ततो निर्गमनमशक्यम् इत्याशङ्क्याह - आत्मवानिति । अप्रमादः - मनसो विषयपारवश्यशून्यत्वम् । अथ यथोक्तोपदेशस्य मुमुक्षुविषयत्वात् अर्जुनस्य मुमुक्षुत्वमिह विवक्षितमिति, नेत्याह - एष इति
॥ ४५ ॥ 【भाष्यम्】 【भाष्यम्】 अविवेकिनामपि वेदाभ्यासवतां विवेकबुद्धिरुदेष्यति, इत्याशङ्क्याह - य एवमिति । तथा च अपरिच्छिन्नात्मानन्दप्राप्तिपर्यवसायिनो योगमार्गस्य नास्ति वैफल्यमित्याह - यावानिति । उक्तमर्थमक्षरयोजनया प्रकटयति - यथेति । उदकं पीयतेऽस्मिन्निति व्युत्पत्या कूपादिपरिच्छिन्नोदकविषयत्वमुदपानशब्दस्य दर्शयति - कूपेति । कूपादिगतस्याभिधेयस्य समुद्रेऽन्तर्भावासम्भवात् कथमिदम् इत्याशङ्क्य, अर्थशब्दस्य प्रयोजनविषयत्वं व्युत्पादयति - फलमिति । यत् फल्गुत्वेन लीयते तत् फलमित्युच्यते, तत् कथं तडागादिकृतं स्नानपानादि तथा इत्याशङ्क्य, तस्य अल्पीयसो नाशोपपत्तेः, इत्याह - प्रयोजनमिति । तडागादिप्रयुक्तप्रयोजनस्य समुद्रनिमित्तप्रयोजनमात्रत्वम् अयुक्तम् , अन्यस्य अन्यात्मत्वानुपपत्तेः, इत्याशङ्क्याह - तत्रेति । घटाकाशादेरिव महाकाशे परिच्छिन्नोदककार्यस्य अपरिच्छिन्नोदककार्यान्तर्भावः सम्भवति, तत्प्राप्तावितरापेक्षाभावादित्यर्थः । पूर्वार्धं दृष्टान्तभूतमेवं व्याख्याय, दार्ष्टान्तिकमुत्तरार्धं व्याकरोति - एवमित्यादिना । ‘कर्मसु योऽर्थः’ इत्युक्तं व्यनक्ति - यत् कर्मफलमिति । सोऽर्थो विजानतो ब्राह्मणस्य योऽर्थः, तावानेव सम्पद्यत इति सम्बन्धः । तदेव स्पष्टयति - विज्ञानेति । तस्मिनन्नन्तर्भवतीति शेषः । सर्वं कर्मफलं ज्ञानफलेऽन्तर्भवतीत्यत्र प्रमाणमाह - सर्वमिति । यत् किमपि प्रजाः साधु कर्म कुर्वन्ति, तत् सर्वं स पुरुषोऽभिसमेति - प्राप्नोति, यः पुरुषः, तद्वेद - विजानाति, यद्वस्तु सः - रैक्को वेद तद्वेद्यमिति श्रुतेरर्थः । कर्मफलस्य सगुणज्ञानफलेऽन्तर्भावः संवर्गविद्यायां श्रूयते, कथमेतावता निर्गुणज्ञानफले कर्मफलान्तर्भावः सम्भवति इत्याशङ्क्याह - सर्वमिति । तर्हि ज्ञाननिष्ठैव कर्तव्या, तावतैव कर्मफलस्य लब्धतया कर्मानुष्ठानानपेक्षणात् , इत्याशङ्क्याह - तस्मादिति ।
योगमर्गस्य निष्फलत्वाभावस्तच्छब्दार्थः ॥ ४६ ॥ 【भाष्यम्】 【भाष्यम्】 ईश्वरार्पणधिया स्वधर्मानुष्ठानेऽपि फलकामनाभावाद्वैफल्यं योगमार्गस्येति मन्वानः शङ्कते - सर्वेष्विति । कर्ममार्गस्य फलवत्त्वं प्रतिजानीते- उच्यत इति । किं तत्फलम् इत्युक्ते तद्विषयं श्लोकमवतारयति - श्रृण्विति । यथा उदपाने - कूपादौ परिच्छिन्नोदके स्नानाचमनादिर्योऽर्थो यावान् उत्पद्यते स तावान् अपरिच्छिन्ने सर्वतःसम्प्लुतोदके समुद्रेऽन्तर्भवति, परिच्छिन्नोदकानाम् अपरिच्छिन्नोदकांशत्वात् । तथा, सर्वेषु वेदोक्तेषु कर्मसु यावान् अर्थो विषयविशेषोपरक्तः सुखविशेषो जायते, स तावान् आत्मविदः स्वरूपभूते सुखेऽन्तर्भवति, परिच्छिन्नानन्दानाम् अपरिच्छिन्नानन्दान्तर्भावाभ्युपगमात् , ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४-३-३२) इति श्रुतेः । तर्हि तत्फलाभिलाषोऽपि स्यात् इति, नेत्याह - माफलेष्विति । पूर्वोक्तमेवार्थं प्रपञ्चयति - मा कर्मेति । फलाभिसन्ध्यसम्भवे कर्माकरणमेव श्रद्दधामि, इत्याशङ्क्याह - मा ते इति । ज्ञानानधिकारिणोऽपि कर्मत्यागप्रसक्तिं निवारयति - कर्मण्येवेति । कर्मण्येवेति, एवकारार्थमाह - न ज्ञानेति । नहि तत्र अब्राह्मणस्य अपरिपक्वकषायस्य मुख्योऽधिकारः सिध्यतीत्यर्थः । फलैस्तर्हि सम्बन्धो दुर्वारः स्यात् , इत्याशङ्क्याह - तत्रेति । कर्मण्येवाधिकरे सतीति सप्तम्यर्थः । फलेष्वधिकाराभावं स्फोरयति - कर्मेति । कर्मानुष्ठानात् प्रागूर्ध्वं तत्काले चेत्येतत् कदाचनेति विवक्षितमित्याह - कस्याञ्चिदिति । फलाभिसंधाने दोषमाह - यदेति । एवं कर्मफलतृष्णाद्वारेणेत्यर्थः । कर्मफलहेतुत्वं विवृणोति - यदा हीति । तर्हि विफलं क्लेशात्मकं कर्म न कर्तव्यम् , इति शङ्कामनुभाष्य दूषयति - यदीत्यादिना । अकर्मणि ते सङ्गो मा भूत् , इत्युक्तमेव स्पष्टयति - अकरण इति
॥ ४७ ॥ 【भाष्यम्】 【भाष्यम्】 तर्हि परम्परया पुरुषार्थसाधनं योगमार्गं परित्यज्य साक्षादेव पुरुषार्थकारणमात्मज्ञानं तदर्थमुपदेष्टव्यम् , तस्मै हि स्पृहयति मनो मदीयम् , इत्याशङ्क्याह - तव चेति । वक्ष्यमाणयोगमुद्दिश्य तन्निष्ठो भूत्वा कर्माणि क्लेशात्मकान्यपि विहितत्वात् अनुष्ठेयानीत्याह - योगस्थः सन्निति । कर्मानुष्ठानस्योद्देश्यं दर्शयति - केवलमिति । फलान्तरापेक्षामन्तरेण ईश्वरार्थं - तत्प्रसादनार्थमनुष्ठानमित्यर्थः । तर्हि ईश्वरसन्तोषोऽभिलाषगोचरीभूतो भविष्यति, नेत्याह - तत्रापीति । ईश्वरप्रसादनार्थे कर्मानुष्ठाने स्थितेऽपीत्यर्थः । सङ्गं त्यक्त्वा कुर्विति पूर्वेण सम्बन्धः । आकाङ्क्षितं पूरयित्वा, सिद्धिशब्दार्थमाह - फलेति । तद्विपर्ययजा - सत्त्वाशुद्धिजन्या । ज्ञानाप्राप्तिलक्षणेति यावत् । कर्म अननुतिष्ठतो योगमुद्दिश्य शेषतया प्रकृतमाकाङ्क्षापूर्वकं प्रकटयति - कोऽसावित्यादिना
॥ ४८ ॥ 【भाष्यम्】 【भाष्यम्】 आसक्तिरकरणे न युक्ता चेत् , तर्हि क्लेशात्मकं कर्म किमुद्दिश्य कर्तव्यम् इत्याशङ्कामनूद्य, श्लोकान्तरमवतारयति - यदीत्यादिना । बुद्धियुक्तस्य बुद्धियोगाधीनं प्रकर्षं सूचयति - बुद्धीति । बुद्धिसम्बन्धासम्बन्धाभ्यां कर्मणि प्रकर्षनिकर्षयोर्भावे करणीयं नियच्छति - बुद्धाविति । यत्तु फलेच्छयापि कर्मानुष्ठानं सुकरमिति, तत्राह - कृपणेति । निकृष्टं कर्मैव विशिनष्टि - फलार्थिनेति । कस्मात् प्रतियोगिनः सकाशादिदं निकृष्टम् इत्याशङ्क्य, प्रतीकमुपादाय व्याचष्टे - बुद्धीत्यादिना । फलाभिलाषेण क्रियमाणस्य कर्मणो निकृष्टत्वे हेतुमाह - जन्मेति । समत्वबुद्धियुक्तात् कर्मणः तद्धीनस्य कर्मणो जन्मादिहेतुत्वेन निकृष्टत्वे फलितमाह - यत इति । योगविषया बुद्धिः समत्वबुद्धिः । बुद्धिशब्दस्य अर्थान्तरमाह - तत्परिपाकेति । तच्छब्देन समत्वबुद्धिसमन्वितं कर्म गृह्यते । तस्य परिपाकः - तत्फलभूता बुद्धिशुद्धिः । शरणशब्दस्य पर्यायं गृहीत्वा विवक्षितमर्थमाह - अभयेति । सप्तमीमविवक्षित्वा द्वितीयं पक्षं गृहीत्वा वाक्यार्थमाह - परमार्थेति । तथाविधज्ञानशरणत्वे हेतुमाह - यत इति । फलहेतुत्वं विवृणोति - फलेति । तेन परमार्थज्ञानशरणतैव युक्तेति शेषः । परमार्थज्ञानबहिर्मुखानां कृपणत्वे श्रुतिं प्रमाणयति - यो वा इति ।
अस्थूलादिविशेषणं एतदित्युच्यते ॥ ४९ ॥ 【भाष्यम्】 【भाष्यम्】 किमिति योगस्थेन तत्त्वज्ञानमुद्दिश्य कर्म कर्तव्यम् , फलाभिलाषेऽपि तदनुष्ठानस्य सुलभत्वात् इत्याशङ्क्य, यथोक्तयोगयुक्तं कर्म स्तुवन् , अनन्तरश्लोकमुत्थापयति - यत् पुनरिति । अवरं कर्म - बुद्धिसम्बन्धविरुद्धमिति शेषः । बुद्धियोगस्य फलवत्त्वे फलितमाह - तस्मादिति । पूर्वार्धं व्याचष्टे - बुद्धीत्यादिना । ननु - समत्वबुद्धिमात्रात् न पुण्यपापनिवृत्तिर्युक्ता, परमार्थदर्शनवतस्तन्निवृत्तिप्रसिद्धेः, इति तत्राह - सत्त्वेति । उत्तरार्धं व्याचष्टे - तस्मादिति । स्वधर्ममनुतिष्ठतो यथोक्तयोगार्थं किमर्थं मनो योजनीयम् इत्याशङ्क्याह - योगो हीति । तर्हि यथोक्तयोगसामर्थ्यादेव दर्शितफलसिद्धेरनास्था स्वधर्मानुष्ठाने प्राप्ता, इत्याशङ्क्याह - स्वधर्माख्येष्विति । ईश्वरार्पितचेतस्तया कर्मसु वर्तमानस्य - अनुष्ठाननिष्ठस्य या यथोक्ता बुद्धिः, तत् तेषु कौशलम् इति योजना । कर्मणां बन्धस्वभावत्वात् तदनुष्ठाने बन्धानुबन्धः स्यात् , इत्याशङ्क्य कौशलमेव विशदयति - तद्धीति । समत्वबुद्धेरेवंफलत्वे स्थिते फलितमुपसंहरति - तस्मादिति
॥ ५० ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वोक्तसमत्वबुद्धियुक्तस्य स्वधर्मानुष्ठाने प्रवृत्तस्य किं स्यात् इत्याशङ्क्याह - समत्वेति । बुद्धियुक्तः स्वधर्माख्यं कर्म अनुतिष्ठन्निति शेषः । मनीषिणो हि ज्ञानातिशयवन्तो बुद्धियुक्ताः सन्तः स्वधर्माख्यं कर्मानुतिष्ठन्तः, ततो जातं फलं देहप्रभेदं हित्वा जन्मलक्षणाद्बन्धात् विनिर्मुक्ताः वैष्णवं पदं सर्वसंसारसंस्पर्शशून्यं प्राप्नुवन्तीति श्लोकोक्तमर्थं श्लोकयोजनया दर्शयति - कर्मजमित्यादिना । इष्टो देहो देवादिलक्षणः, अनिष्टो देहः तिर्यगादिलक्षणः । तत्प्राप्तिरेव कर्मणो जातं फलम् । तत् यथोक्तबुद्धियुक्ता ज्ञानिनो भूत्वा तद्बलादेव परित्यज्य बन्धविनिर्मोकपूर्वकं जीवन्मुक्ताः सन्तो विदेहकैवल्यभाजो भवन्तीत्यर्थः । बुद्धियोगादित्यादौ बुद्धिशब्दस्य समत्वबुद्धिरर्थो व्याख्यातः, सम्प्रति परम्परां परिहृत्य सुकृतदुष्कृतप्रहाणहेतुत्वस्य समत्वबुद्धावसिद्धेः, बुद्धिशब्दस्य योग्यमर्थान्तरं कथयति - अथवेति । अनवच्छिन्नवस्तुगोचरत्वेन अनवच्छिन्नत्वं तस्याः सूचयन् बुद्ध्यन्तराद्विशेषं दर्शयति - सर्वत इति । असाधारणं निमित्तन्तस्या निर्दिशति - कर्मेति । यथोक्तबुद्धेर्बुद्धिशब्दार्थत्वे हेतुमाह - साक्षादिति ।
जन्मबन्धविनिर्मोकादिः आदिशब्दार्थः । यस्मिन् कर्मणि क्रियमाणे परमार्थदर्शनलक्षणा बुद्धिरुद्देश्यतया युज्यते, तस्मात् कर्मणः, सकाशादितरत् कर्म तथाविधोद्देश्यभूतबुद्धिसम्बन्धविधुरमतिशयेन निष्कृष्यते । ततश्च परमार्थबुद्धिमुद्देश्यत्वेनाश्रित्य कर्म अनुष्ठातव्यम् , परिच्छिन्नफलान्तरमुद्दिश्य तदनुष्ठाने कार्पण्यप्रसङ्गात् । किञ्च - परमार्थबुद्धिमुद्देश्यमाश्रित्य कर्म अनुतिष्ठन् अन्तःकरणशुद्धिद्वारा परमार्थदर्शनसिद्धौ, जीवत्येव देहे सुकृतादि हित्वा मोक्षमधिगच्छति । तथाच - परमार्थदर्शनलक्षणयोगार्थं मनो धारयितव्यम् । योगशब्दितं हि परमार्थदर्शनमुद्देश्यतया कर्मस्वनुतिष्ठतो नैपुण्यमिष्यते - यदि च परमार्थदर्शनमुद्दिश्य तद्युताः सन्तः समारभेरन् कर्माणि, तदा तदनुष्ठानजनितबुद्धिशुद्ध्या ज्ञानिनो भूत्वा कर्मजं फलं परित्यज्य, निर्मुक्तबन्धनाः मुक्तिभाजो भवन्ति - इत्येवमस्मिन् पक्षे श्लोकत्रयाक्षराणि व्याख्यातव्यानि ॥ ५१ ॥ 【भाष्यम्】 【भाष्यम्】 समत्वबुद्धियुक्तस्य सुकृतदुष्कृततत्फलपरित्यागेऽपि कथं मोक्षः स्यात् इत्याशङ्क्याह - यस्मादिति । समत्वबुद्ध्या यस्मात् कर्मानुष्ठीयमानं दुरितादि त्याजयति, तस्मात् परम्परया असौ मुक्तिहेतुरित्यर्थः । श्रुतं श्रोतव्यं दृष्ठं द्रष्टव्यमित्यादौ फलाभिलाषप्रतिबन्धात् नोक्ता बुद्धिरुदेष्यति, इत्याशङ्क्याह - यदेति । विेवेकपरिपाकावस्था कालशब्देनोच्यते । कालुष्यस्य दोषपर्यवसायित्वं दर्शयन् विशिनष्टि - येनेति । तत् - अनर्थरूपं कालुष्यम् । तवेत्यन्वयार्थं पुनर्वचनम् । बुद्धिशुद्धिफलस्य विवेकस्य प्राप्त्या वैराग्याप्तिं दर्शयति - तदेति । अध्यात्मशास्त्रातिरिक्तं शास्त्रं श्रोतव्यादिशब्देन गृह्यते । उक्तं वैराग्यमेव स्फोरयति - श्रोतव्यमिति ।
यथोक्तविवेकसिद्धौ सर्वस्मिन् अनात्मविषये नैष्फल्यं प्रतिभातीत्यर्थः ॥ ५२ ॥ 【भाष्यम्】 【भाष्यम्】 यथोक्तबुद्धिप्राप्तिकालं प्रश्नपूर्वकं प्रकटयति- योगेति । बुद्धेः श्रृतिविप्रतिपन्नत्वं विशदयति - अनेकेति । नानाश्रुतिप्रतिपन्नत्वमेव सङ्क्षिपति- विक्षिप्तेति ।
उक्तं हेतुद्वयमनुरुध्य वैराग्यपरिपाकावस्था कालशब्दार्थः । नैश्चल्यम् - विक्षेपराहित्यम् , अचलत्वम् - विकल्पशून्यत्वम् , विक्षेपः - विपर्ययः, विकल्पः - संशयः - इति विवेकः । विवेकद्वारा जाता प्रज्ञा प्रागुक्ता बुद्धिः । समाधिः - तत्रैव निष्ठा ॥ ५३ ॥ 【भाष्यम्】 【भाष्यम्】 बुद्धिशुद्धिविवेकवैराग्यसिद्धावपि पूर्वोक्तबुद्धिप्राप्तिकालो दर्शितो न भवतीति शङ्कते - मोहेति । प्रागुक्तविवेकादियुक्तबुद्धेरात्मनि स्थैर्यावस्थायां प्रकृतबुद्धिसिद्धिरित्याह - तत् शृण्विति । पृष्टं कालविशेषाख्यं वस्तु तच्छब्देन गृह्यते । ननु - तस्य भाषा तत्कार्यानुरोधिनी भविष्यति, किमित्यसौ विजिज्ञास्यते तत्राह - कथमिति । ज्ञाननिष्ठस्य लक्षणविवक्षया प्रश्नमवतार्य तन्निष्ठासाधनबुभुत्सया विशिनष्ठि - समाधिस्थस्येति । तस्यैवार्थक्रियां पृच्छति - स्थितधीरिति
॥ ५४ ॥ 【भाष्यम्】 【भाष्यम्】 संन्यासिनो ज्ञाननिष्ठातत्प्राप्तिवचनं प्रश्नबीजम् । पृच्छतोऽर्जुनस्याभिप्रायमाह - लब्धेति । लब्धा समाधौ - आत्मनि, समाधानेन वा प्रज्ञा परमार्थदर्शनलक्षणा येन तस्येति यावत् । स्थितप्रज्ञस्य का भाषा इति प्रथमप्रश्नस्योत्तरमाह - प्रजहातीति । कामत्यागस्य प्रकर्षः - वासनाराहित्यम् । कामानामात्मनिष्ठत्वं कैश्विदिष्यते । तदयुक्तम् , तेषां मनोनिष्ठत्वश्रुतेः, इत्याशयवानाह - मनोगतानिति । ‘आत्मन्येवात्मना’ (भ. गी. २-५५) इत्याद्युत्तरभागनिरस्यं चोद्यमनुवदति - सर्वकामेति । तर्हि प्रवर्तकाभावाद्विदुषः सर्वप्रवृत्तेरुपशान्तिरिति, नेत्याह - शरीरेति । उन्मादवान् उन्मत्तः - विवेकविरहितबुद्धिभ्रमभागी । प्रकर्षेण मदमनुभवन् विद्यमानमपि विवेकं निरस्यन् भ्रान्तवद्व्यवहरन् प्रमत्तः इति विभागः । उत्तरार्धमवतार्य व्याकरोति - उच्यत इति । आत्मन्येव इत्येवकारस्य ‘आत्मना’ इत्यत्रापि सम्बन्धं द्योतयति - स्वेनैवेति । बाह्मलाभनिरपेक्षत्वेन तुष्टिमेव स्पष्टयति - परमार्थेति । स्थितप्रज्ञपदं विभजते - स्थितेति । प्रज्ञाप्रतिबन्घकसर्वकामविगमावस्था तदेति निर्दिश्यते । उक्तमेव प्रपञ्चयति - त्यक्तेति ।
आत्मानं जिज्ञासमानो वैराग्यद्वारा सर्वैषणात्यागात्मकं संन्यासमासाद्य, श्रवणाद्यावृत्त्या तज्ज्ञानं प्राप्य, तस्मिन्नेव आसक्त्या विषयवैमुख्येन तत्फलभूतां परितुष्टिं तत्रैव प्रतिलभमानः स्थितप्रज्ञव्यपदेशभाक् इत्यर्थः ॥ ५५ ॥ 【भाष्यम्】 【भाष्यम्】 प्रतिवचनमवतारयितुं पातनिकां करोति - यो हीति । हिशब्देन कर्मसंन्यासकारणीभूतविरागतासम्पत्तिः सूच्यते । आदितः - ब्रह्मचर्यावस्थायामिति यावत् । ज्ञानमेव योगो ब्रह्मात्मभावप्रापकत्वात् , तस्मिन् निष्ठा - परिसमाप्तिः, तस्यामित्यर्थः । कर्मैव योगस्तेन, कर्माण्यसंन्यस्य तन्निष्ठायामेव प्रवृत्त इति शेषः । ननु - तत् कथमेकेन वाक्येन अर्थद्वयमुपदिश्यते द्वैयर्थ्ये वाक्यभेदात् । नच लक्षणमेव साधनम् , कृतार्थलक्षणस्य तत्स्वरूपत्वेन फलत्वे साधनत्वानुपपत्तेः, इति तत्राह- सर्वत्रैवेति । यद्यपि कृतार्थस्य - ज्ञानिनो लक्षणं तद्रूपेण फलत्वान्न साधनत्वमधिगच्छति, तथापि जिज्ञासोस्तदेव प्रयत्नसाध्यतया साधनं सम्पद्यते । लक्षणं चात्र ज्ञानसामर्थ्यलब्धमनूद्यते । न विधीयते, विदुषो विधिनिषेधागोचरत्वात् । तेन जिज्ञासोः साधनानुष्ठानाय लक्षणानुवादात् एकस्मिन्नेव साधनानुष्ठाने तात्पर्यमित्यर्थः । उक्तेऽर्थे भगवद्वाक्यमुत्थापयति - यानीति । लक्षणानि च ज्ञानसामर्थ्यलभ्यानि, अयत्नसाध्यानीति शेषः । ज्वरशिरोरोगादिकृतानि दुःखानि आध्यात्मिकानि । आदिशब्देन आधिभौतिकानि व्याघ्रसर्पादिप्रयुक्तानि, आधिदैविकानि च अतिवातवर्षादिनिमित्तानि दुःखानि गृह्यन्ते । तेषूपलब्धेष्वपि नोद्विग्नं मनो यस्य स तथेति सम्बन्धः । नोद्विग्नमित्येतद्व्याचष्टे - न प्रक्षुभितमिति । दुःखानामुक्तानां प्राप्तौ परिहाराक्षमस्य तदनुभवपरिभावितं दुःखमुद्वेगः । तेन सहितं मनो यस्य न भवति, स तथेत्याह - दुःखप्राप्ताविति । मनो यस्य नोद्विग्नमिति पूर्वेण सम्बन्धः । सुखान्यपि दुःखवत् त्रिविधानीति मत्वा तथेत्युक्तम् । तेषु प्राप्तेषु सत्सु तेभ्यो विगता स्पृहा तृष्णा यस्य सः विगतस्पृहः - इति योजना । अज्ञस्य हि प्राप्तानि सुखान्यनु विवर्धते तृष्णा । विदुषस्तु नैवम् , इत्यत्र वैधर्म्यदृष्टान्तमाह - नाग्निरिवेति । यथा हि दाह्यस्य इन्धनादेः अभ्याधाने वह्निर्विवर्धते, तथा अज्ञस्य सुखानि उपनतानि अनुविवर्घमानापि तृष्णा विदुषो न तान्यनु विवर्धते । नहि वह्निरदाह्यमुपगतमपि दग्धुं विवृद्धिमधिगच्छति । तेन जिज्ञासुना सुखदुःखयोस्तृष्णोद्वेगौ न कर्तव्यावित्यर्थः । रागादयश्च तेन कर्तव्या न भवन्तीत्याह - वीतेति । अनुभूताभिनिवेशे विषयेषु रञ्जनात्मकस्तृष्णाभेदो रागः । परेणापकृतस्य गात्रनेत्रादिविकारकारणं भयम् । क्रोधस्तु परवशीकृत्य आत्मानं स्वपरापकारप्रवृत्तिहेतुर्बुद्धिवृत्तिविशेषः । मनुते इति मुनिः, आत्मवित् इत्यङ्गीकृत्याह - संन्यासीति ।
सुखादिविषयतृष्णादेः, रागादेश्च अभावावस्था तदेत्युच्यते ॥ ५६ ॥ 【भाष्यम्】 【भाष्यम्】 लक्षणभेदानुवादद्वारा विविदिषोरेव कर्तव्यान्तरमुपदिशति - किञ्चेति । विवेकवतो विदुषो विवेकजन्या प्रज्ञा कथं प्रतिष्ठां प्रतिपद्यताम् इत्याशङ्क्याह - यः सर्वत्रेति । ननु - देहजीवनादौ स्पृहा, शुभाशुभप्राप्तौ हर्षविषादौ विदुषो विविदिषोश्च अवर्जनीयौ इति प्रज्ञास्थैर्यासिद्धिः, तत्राह - यो मुनिरिति । तत्तदिति शोभनवत्त्वेन अशोभनवत्त्वेन वा प्रसिद्धत्वं प्रतिनिर्दिश्यते । तदेव विभजते - शुभमिति । विषयेषु अभिषङ्गाभावः शुभादिप्राप्तौ हर्षाद्यभावश्च प्रज्ञास्थैर्ये कारणमित्याह - तस्येति
॥ ५७ ॥ 【भाष्यम्】 【भाष्यम्】 लक्षणभेदानुवादद्वारा विविदिषोरेव कर्तव्यान्तरमुपदिशति - किञ्चेति । इन्द्रियाणां विषयेभ्यो वैमुख्यस्य प्रज्ञास्थैर्ये कारणत्वात् , आदौ जिज्ञासुना तदनुष्ठेयम् , इत्याह - यदेति । मुमुक्षुणा - मोक्षहेतुं प्रज्ञां प्रार्थयमानेन सर्वेभ्यो विषयेभ्यः सर्वाणीन्द्रियाणि विमुखानि कर्तव्यानि, इति श्लोकव्याख्यानेन कथयति - यदेत्यादिना । उपसंहारः - स्ववशत्वापादनम् । तस्य च सम्यक्त्वं - अतिदृढत्वम् । अयमिति प्रकृतस्थितप्रज्ञग्रहणं व्यावर्तयति - ज्ञाननिष्ठायामिति । इन्द्रियोपसंहारस्य प्रलयरूपत्वं व्यावर्त्य, सङ्कोचात्मकत्वं दृष्टान्तेन दर्शयति - कूर्म इति । दृष्टान्तं व्याकरोति - यथेति । दार्ष्टान्तिके योजयन् ज्ञाननिष्ठापदं तत्र प्रवर्तयति - एवमिति । इन्द्रियाणां विषयेभ्यो वैमुख्यकरणं प्रज्ञास्थैर्यहेतुः, इत्युक्तमुपसंहरति - तस्येति
॥ ५८ ॥ 【भाष्यम्】 【भाष्यम्】 जिज्ञासोरेव कर्तव्यान्तरं सूचयति - किञ्चेति । विषयोपभोगपराङ्मुखस्य कुतो विषयपरावृत्तिः तत्परावृत्तिश्च अप्रस्तुता, इत्याशङ्क्याह - यद्यपीति । निराहारस्येत्यस्य व्याख्याानम् - अनाह्रियमाणविषयस्येति । यो हि विषयप्रवणो न भवति, तस्य आत्यन्तिके तपसि क्लेशात्मके व्यवस्थितस्य विद्याहीनस्यापि इन्द्रियाणि विषयेभ्यः सकाशाद् यद्यपि संह्रियन्ते, तथापि रागोऽवशिष्यते । स च तत्त्वज्ञानादुच्छिद्यत इत्यर्थः । रसशब्दस्य माधुर्यादिषङ्विधरसविषत्वं निषेधति- रसशब्द इति । वृद्धप्रयोगमन्तरेण कथं प्रसिद्धिः इत्याशङ्क्याह - स्वरसेनेति । स्वेच्छयेति यावत् । रसिकः - स्वेच्छावशवर्ती । रसज्ञः - विवक्षितापेक्षितज्ञातेत्यर्थः । कथं तर्हि तस्य निवृत्तिः तत्राह- सोऽपीति । दृष्टिमेवोपलब्धिपर्यायां स्पष्टयति - अहमेवेति । रागापगमे सिद्धमर्थमाह - निर्बीजमिति । ननु - सम्यग्ज्ञानमन्तरेण रागो नापगच्छति इति चेत् , तदपगमादृते रागवतः सम्यग्ज्ञानोदयायोगात् इतरेतराश्रयता इति, नेत्याह - नासतीति । इन्द्रियाणां विषयपारवश्ये विवेकद्वारा परिहृते स्थूलो रागो व्यावर्तते । ततश्च सम्यग्ज्ञानोत्पत्त्या सूक्ष्मस्यापि रागस्य सर्वात्मना निवृत्त्युपपत्तेः, न इतरेतराश्रयता - इत्यर्थः । प्रज्ञास्थैर्यस्य सफलत्वे स्थिते फलितमाह - तस्मादिति
॥ ५९ ॥ 【भाष्यम्】 【भाष्यम्】 इन्द्रियाणां विषयेभ्यो वैमुख्येऽपि तद्विषयरागानुवृत्तौ कथं प्रज्ञालाभः स्यात् इति शङ्कते - तत्रेति । व्यवहारभूमिः सप्तम्यर्थः । विषयान् अनाहरतः - तदुपभोगविमुखस्येत्यर्थः । रागश्चेन्नोपसंह्रियते, न तर्हि प्रज्ञालाभः सम्भवति, रागस्य तत्परिपन्थित्वात् इति मत्वा आह - स कथमिति । रागनिवृत्त्युपायमुपदिशन्नुत्तरमाह - उच्यत इति । ननु - विवेकवतो विषयदोषदर्शिनो विषयेभ्यः स्वयमेवेन्द्रियाणि व्यावर्तन्ते, किं तत्र प्रज्ञास्थैर्यं चिकीर्षता कर्तव्यम् इति, तत्राह - यततो हीति । विषयेषु भूयो भूयो दोषदर्शनमेवप्रयत्नः । अपिशब्दस्य प्रयत्नं कुर्वतोऽपीति सम्बन्धं गृहीत्वा, सम्बन्धान्तरमाह - पुरुषस्येति । प्रमथनशीलत्वं प्रकटयति - विषयेति । विक्षोभस्य आकुलीकरणस्य फलमाह - आकुलीकृत्येति । प्रकाशमेवेत्युक्तं विशदयति - पश्यत इति । विपश्चितः - विदुषोऽपि, प्रकाशमेव - प्रकाशशब्दितविवेकाख्यविज्ञानेन युक्तमेव मनो हरन्तीन्द्रियाणीति सम्बन्धः ।
॥ ६० ॥ 【भाष्यम्】 【भाष्यम्】 श्लोकान्तरमवतारयति - सम्यग्दर्शनेति । मनसः स्ववशत्वादेव प्रज्ञास्थैर्यसम्भवे किमर्थमिन्द्रियाणां स्ववशत्वापादनम् इत्याशङ्क्याह- यस्मादिति । इन्द्रियाणां स्ववशत्वसम्पादनानन्तरं कर्तव्यमर्थमाह - तानीति । एवमासीनस्य किं स्यात् इति तदाह - वशे हीति । समाहितस्य - विक्षेपविकलस्य कथमासनम् इत्यपेक्षायामाह - मत्पर इति । परापरभेदशङ्कामपाकृत्य आसनमेव स्फोरयति - नान्योऽहमिति । उत्तरार्धं व्याकरोति - एवमिति । हिशब्दार्थं स्फुटयति - अभ्यासेति ।
परस्मादात्मनो नाहमन्योऽस्मीति प्रागुक्तानुसन्धानस्य आदरेण नैरन्तर्यदीर्घकालानुष्ठानसामर्थ्यादित्यर्थः ।अथवा - विषयेषु दोषदर्शनाभ्याससामर्थ्यात् इन्द्रियाणि संयतानीत्यर्थः ॥ ६१ ॥ 【भाष्यम्】 【भाष्यम्】 समनन्तरश्लोकद्वयतात्पर्यमाह - अथेति । पुरुषार्थोपायोपदेशानन्तर्यमथशब्दार्थः । तन्निष्ठत्वराहित्यावस्थां दर्शयति - इदानीमिति ।
पराभविष्यतः - महान्तमनर्थं गमिष्यतः । विवेकविज्ञानविहीनस्येति यावत् । सर्वानर्थमूलं विषयाभिध्यानं तस्य तथात्वमनुभवसिद्धमिति वक्तुमिदमित्युक्तम् । विषयेषु विशेषत्वमारोपितरमणीयत्वम् । प्रीतिरासक्तिरिति साधारणासक्तिमात्रं गृह्यते । तृष्णेति उद्रिक्ता सक्तिरुक्ता । प्रतिबन्धेन प्रणाशेन वा प्रतिहतिः ॥ ६२ ॥ 【भाष्यम्】 【भाष्यम्】 क्रोधस्य संमोहहेतुत्वमनुभवेन द्रढयति - क्रुद्धो हीति । आक्रोशति - अधिक्षिपति । तदयोग्यत्वमपेरर्थः । संमोहकार्यं कथयति - संमोहादिति । स्मृतेर्निमित्तनिवेदनद्वारा स्वरूपं निरूपयति - शास्त्रेति । क्षणिकत्वादेवतस्याः स्वतो नाशसम्भवात् , न संमोहाधीनत्वं तस्येत्याशङ्क्याह - स्मृतीति । स्मृतिभ्रंशेऽपि कथं बुद्धिनाशः स्वरूपतः सिध्यति तत्राह - कार्येति । ननु - पुरुषस्य नित्यसिद्धस्य बुद्धिनाशेऽपि प्रणाशो न कल्पते, तत्राह - तावदेवेति । कार्याकार्यविवेचनयोग्यान्तःकरणाभावे सतोऽपि पुरुषस्य करणाभावात् , अपगततत्त्वविवेकविवक्षया नष्टत्वव्यपदेशः । तदेतदाह - पुरुषार्थेति
॥ ६३ ॥ 【भाष्यम्】 【भाष्यम्】 इन्द्रियाणां विषयेषु प्रवृतिश्चेत् , नियमानुपपत्त्या वर्जनीयेष्वपि सा स्यात् , इत्याशङ्क्याह - आत्मेति । अन्तःकरणाधीनत्वेऽपि इन्द्रियाणां तदनियमात् तेषामपि नियमानुपपत्तिः, इत्याशङ्क्याह - विधेयात्मेति
॥ ६४ ॥ 【भाष्यम्】 【भाष्यम्】 विषयाणां स्मरणमपि चेदनर्थकारणम् , सुतरां तर्हि भोगः, तेन जीवनार्थं भुञ्जानो विषयान् अनर्थं कथं न प्रतिपद्यते इत्याशङ्क्य, वृत्तानुवादपूर्वकमुत्तरश्लोकतात्पर्यमाह - सर्वानर्थस्येति । अनर्थमूलकथनानन्तर्यमथशब्दार्थः । परिहर्तव्ये निर्णीते तत्परिहारोपायजिज्ञासां दर्शयति - इदानीमिति । रागद्वेषपूर्विका प्रवृत्तिः, इत्यत्र अनुभवदर्शनार्थो हिशब्दः । शास्त्रीयप्रवृत्तिव्यासेधार्थं स्वाभाविकी इत्युक्तम् । तत्रेत्यधिकृतान् अधिकृत्य प्रयोगः । अवर्जनीयान् अशनपानादीन् , देहस्थितिहेतूनिति यावत् । सर्वदुःखहान्या बुद्धिस्वास्थ्येऽपि, प्रकृतं प्रज्ञास्थैर्यं कथं सिद्धम् इत्याशङ्क्याह - प्रसन्नेति । बुद्धिप्रसादस्यैव फलान्तरमाह - किञ्चेति । तस्मात् बुद्धिप्रसादार्थं प्रयतितव्यमिति शेषः । श्लोकद्वयस्य अक्षरोत्थमर्थमुक्त्वा, तात्पर्यार्थमुपसंहरति - एवमिति ।
युक्तः - समाहितः - विषयपारवश्यशून्यः सन्निति यावत् ॥ ६५ ॥ 【भाष्यम्】 【भाष्यम्】 तथापि नानाविधदुःखाभिभूतत्वात् न स्वास्थ्यमास्थातुं शक्यम् , इत्याशयेन पृच्छति - प्रसाद इति । श्लोकार्धेनोत्तरमाह - उच्यत इति । असमाहितस्यापि बुद्धिमात्रमुत्पद्यमानं प्रतिभाति, इत्याशङ्क्य विशिनष्टि - आत्मस्वरूपेति । नहि विक्षिप्तचित्तस्य आत्मस्वरूपविषया बुद्धिरुदेतुमर्हति, इत्यत्र हेतुमाह - नचेति । आत्मज्ञाने शब्दादापाततो जाते, स्मृतिसन्तानकरणं साक्षात्कारार्थमभिनिवेशो भावनेतिचोच्यते । न चासौ विक्षिप्तबुद्धेः सिध्यति, इति हेत्वर्थं विवक्षित्वाह - आत्मज्ञानेति । भावनाद्वारा साक्षात्काराभावेऽपि का क्षतिः इत्याशङ्क्याह - तथेति । असमाहितस्य भावनाभाववदिति यावत् । आत्मनि आपाततो ज्ञाते श्रवणाद्यावृत्तिरूपां स्मृतिम् अनातन्वानस्य अपरोक्षबुद्ध्यभावे, न अनर्थनिवृत्तिः सिध्यतीत्याह - उपशम इति । अनिवृत्तानर्थस्य परमानन्दसागराद्विभक्तस्य संसारवारिधौ निमग्नस्य सुखाविर्भावो न सम्भवतीत्याह - अशान्तस्येति । तस्यापि विषयसेवातो वैषयिकं सुखं सम्भवति, इत्याशङ्क्याह - इन्द्रियाणां हीति । तृष्णाक्षयस्य शास्त्रप्रसिद्धमानुभविकं च सुखत्वमिति वक्तुं हिशब्दः । विषयसेवातृष्णयापि विषयोपभोगद्वारा सुखमुपलब्धम् , इत्याशङ्क्याह - दुःखमेवेति । तत्रापि हिशब्दः अनुभवद्योती । तदेव स्पष्टयति - नेत्यादिना
॥ ६६ ॥ 【भाष्यम्】 【भाष्यम्】 किं पुनः सत्त्वशुद्ध्यैव यथोक्तबुद्धिः सिध्यति नेत्याह - सेयमिति । विक्षिप्तचेतसो भावनाभावे साक्षात्कारलक्षणा बुद्धिर्न भवतीति हेत्वन्तरेण साधयति - इन्द्रियाणामिति । यत्पदोपात्तं मनः, तत्पदेनापि गृह्यते । इन्द्रियाणां - श्रोत्रादीनां, विषयाः - शब्दादयः, तेषां विकल्पनं - मिथो विभज्य ग्रहणम् , तेनेति यावत् । दृष्टान्तं व्याकरोति - उदक इति ।
करोति यस्मात् तस्मात् अयुक्तस्य नोत्पद्यते बुद्धिरिति योजना ॥ ६७ ॥ 【भाष्यम्】 【भाष्यम्】 आकाङ्क्षाद्वारा श्लोकान्तरमुत्थापयति - अयुक्तस्येति । तच्छब्दापेक्षितार्थोक्तिद्वारा श्लोकमवतारयति - इन्द्रियाणामिति ।
असमाहितेन मनसा यस्मात् अनुविधीयमानानि इन्द्रियाणि प्रसह्य प्रज्ञामपहरन्ति, तस्मात् इति योजना ॥ ६८ ॥ 【भाष्यम्】 【भाष्यम्】 ‘यततो हि’ (भ. गी. २-६०) इत्यादिश्लोकाभ्यामुक्तस्यैवार्थस्य प्रकृतश्लोकाभ्यामपि कथ्यमानत्वात् अस्ति पुनरुक्तिः, इत्याशङ्क्य परिहरति - यततो हीत्यादीना । ‘ध्यायतो विषयान्’ (भ. गी. २-६२) इत्यादिना उपपत्तिवचनमुन्नेयम् । सर्वप्राणिनां निशा पदार्थाविवेककरी इत्यत्र हेतुमाह - तमःस्वभावत्वादिति । सर्वप्राणिसाधारणीं प्रसिद्धां निशां दर्शयित्वा, तामेव प्रकृतानुगुणत्वेन प्रश्नपूर्वकं विशदयति - किं तदित्यादिना । स्थितप्रज्ञविषयस्य परमार्थतत्त्वस्य प्रकाशैकस्वभावस्य कथमज्ञानं प्रति निशात्वम् इत्याशङ्क्याह - यथेति । तत्र हेतुमाह- अगोचरत्वादिति । अतद्बुद्धीनां परमार्थतत्त्वातिरिक्ते द्वैतप्रपञ्चे प्रवृत्तबुद्धीनाम् अप्रतिपन्नत्वात् परमार्थतत्त्वं निशेव अविदुषामित्यर्थः । तस्यामित्यादि व्याचष्टे - तस्यामिति । निशावदुक्तायामवस्थायामिति यावत् । योगीति ज्ञानी कथ्यते । द्वितीयार्धं विभजते - यस्यामिति । प्रसुप्तानां जागरणं विरुद्धम् , इत्याशङ्क्याह - प्रसुप्ता इवेति । परमार्थतत्त्वमनुभवतो निवृत्ताविद्यस्य संन्यासिनो द्वैतावस्था निशा इत्यत्र हेतुमाह - अविद्यारूपत्वादिति । परमार्थावस्था निशेव अविदुषाम् , विदुषां तु द्वैतावस्था तथा, इति स्थिते फलितमाह - अत इति । अविद्यावस्थायामेव क्रियाकारकफलभेदप्रतिभानादित्यर्थः । विद्योदयेऽपि तत्प्रतिभानाविशेषात् पूर्वमिव कर्माणि विधीयेरन् , इत्याशङ्क्याह - विद्यायामिति । अविद्यानिवृत्तौ बाधितानुवृत्त्या विभागभानेऽपि नास्ति कर्मविधिः, विभागाभिनिवेशाभावादित्यर्थः । अविद्यावस्थायामेव कर्मणीत्युक्तं व्यक्तीकरोति - प्रागिति । विद्योदयात् पूर्वं बाधकाभावादबाधिता विद्या क्रियादिभेदमापाद्य प्रमाणरूपया बुद्ध्या ग्राह्यतां प्राप्य कर्महेतुर्भवति, क्रियादिभेदाभिमानस्य तद्धेतुत्वादित्यर्थः । न विद्यावस्थायामित्युक्तं प्रपञ्चयति - न अप्रमाणेति । उत्पन्नायां च विद्यायां अविद्याया निवृत्तत्वात् क्रियादिभेदभानमप्रमाणमिति बुद्धिरुत्पद्यते, तया गृह्यमाणा यथोक्तविभागभागिन्यपि अविद्या न कर्महेतुत्वं प्रतिपद्यते, बाधितत्वेन आभासतया तद्धेतुत्वायोगादित्यर्थः । विद्याविद्याविभागेनोक्तमेव विशेषं विवृणोति - प्रमाणभूतेनेति । यथोक्तेन वेदेन कामनाजीवनादिमतो मम कर्म विहितम् , तेन मया तत् कर्तव्यम् इति मन्वानः सन् कर्मणि अज्ञोऽधिक्रियते, तं प्रति साधनविशेषवादिनो वेदस्य प्रवर्तकत्वादित्यर्थः । सर्वमेवेदमविद्यामात्रं द्वैतं निषेवेत इति मन्वानस्तु न प्रवर्तते कर्मणि, इति व्यावर्त्यमाह - नाविद्येति । विदुषो न कर्मण्यधिकारश्चेत् तस्याधिकारस्तर्हि कुत्र इत्याशङ्क्याह - यस्येति । तस्य आत्मज्ञस्य फलभूतसंन्यासाधिकारे वाक्यशेषं प्रमाणयति - तथा चेति । प्रवर्तकं प्रमाणं विधिः, तदभावे कर्मस्विव विदुषो ज्ञाननिष्ठायामपि प्रवृत्तेरनुपपत्तेः, आश्रयणीयो ज्ञानवतोऽपि विधिरिति शङ्कते - तत्रापीति । किमात्मज्ञानं विधिमपेक्षते किं वा आत्मा नाद्यः । तस्य स्वरूपविषयस्य यथाप्रमाणप्रमेयमुत्पत्तेर्विध्यनपेक्षत्वादित्याह - न स्वात्मेति । न द्वितीय इत्याह- नहीति । प्रवर्तकप्रमाणशब्दितस्य विधेः साध्यविषयत्वात् आत्मनश्चासाध्यत्वादिति हेतुमाह - आत्मत्वादेवेति । आत्मतज्ज्ञानयोर्विघ्यनपेक्षत्वेऽपि ज्ञानिनो मानमेव व्यवहारं प्रति नियमार्थं विध्यपेक्षा स्यात् , इत्याशङ्क्याह - तदन्तत्वाच्चेति । सर्वेषां प्रमाणानां प्रामाण्यस्य आत्मज्ञानोदयावसानत्वात् तस्मिन्नुत्पन्ने व्यवहारस्य निरवकाशत्वात् , न तत्प्रति नियमाय ज्ञानिनो विधिरित्यर्थः । उक्तमेव व्यक्तीकरोति - नहीति । धर्माधिगमवदात्माधिगमेऽपि किमिति यथोक्तो व्यवहारो न भवति इत्याशङ्क्याह - प्रमातृत्वं हीति । तन्निवृत्तौ कथमद्वैतज्ञानस्य प्रामाण्यम् इत्याशङ्क्याह - निवर्तयदेवेति । निवर्तयत् अद्वैतज्ञानं स्वयं निवृत्तेर्न प्रमाणम् , इत्यत्र दृष्टान्तमाह - स्वप्नेति । आत्मज्ञानस्य विध्यनपेक्षत्वे हेत्वन्तरमाह - लोके चेति । व्यवहारभूमौ हि प्रमाणस्य वस्तुनिश्वयफलपर्यन्तत्वे सति प्रवर्तकविधिसापेक्षत्वानुपलम्भात् अद्वैतज्ञानमपि प्रमाणत्वात् न विधिमपेक्षते, रज्ज्वादिज्ञानवदित्यर्थः । आत्मज्ञानवतस्तन्निष्ठाविधिमन्तरेण ज्ञानमाहत्म्येनैव सिद्धत्वात् , तस्य कर्मसंन्यासेऽधिकारः, न कर्मणि, इत्युपसंहरति - तस्मादिति
॥ ६९ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मविदः स्थितप्रज्ञस्य सर्वकर्मपरित्यागेऽधिकारः, तद्विपरीतस्य अज्ञस्य कर्मणि, इत्येतस्मिन्नर्थे समनन्तरश्लोकमवतारयति- योऽयमिति । अविद्यानिवृत्तौ सर्वकर्मनिवृत्तिश्चेत् , तन्निवृत्तिरेव कथम् इत्याशङ्क्याह - अविद्यायाश्चेति । स्फुटीकुर्वन् बाह्याभ्यन्तरकरणानां पराक्प्रत्यक्प्रवृत्तिवत् तथाविधे दर्शने च मिथो विरुध्येते, पराग्दर्शनस्य अनाद्यात्मावरणाविद्याकार्यत्वात् , आत्मदर्शनस्य च तन्निवर्तकत्वात् , ततश्च आत्मदर्शनार्थमिन्द्रियाण्यर्थेभ्यो निगृह्णीयात् इत्याहेति योजना अद्भिः समुद्रस्य समन्तात् पूर्यमाणत्वे वृद्धिह्रासवती तदीया स्थितिरापतेत् , इत्याशङ्क्याह - अचलेति । नहि समुद्रस्योदकात्मकं प्रतिनियतं रूपं कदाचिद्विवर्धते ह्रसते वा । तेन तदीया स्थितिरेकरूपैवेत्यर्थः । तत्तन्नादेयाश्चेदापः समुद्रान्तर्गच्छन्ति, तर्हि तस्य विक्रियावत्त्वादप्रतिष्ठा स्यात् , इत्याशङ्क्याह - स्वात्मस्थमिति । इच्छाविशेषा विषयाणामसंनिधौ विदुषि निर्विकारे प्रविशन्तोऽपि संनिधाने तस्मिन् प्रविशन्तो विकारमापादयेयुः, इत्याशङ्क्याह - विषयेति । प्रवेशं विशदयति - सर्वत इति । ‘योऽकामः’ (बृ. ४.४.६ ) इत्यादिश्रुतेः, विषयविमुखस्य निष्कामस्य मोक्षः, न कामकामुकस्येत्याह - स शान्तिमिति
॥ ७० ॥ 【भाष्यम्】 【भाष्यम्】 ननु - असंन्यासिनापि विद्यावतां विद्याफलस्य मोक्षस्य लब्धुं शक्यत्वात् किमिति विदुषः संन्यासो नियम्यते तत्राह - विदुष इति । आपातज्ञानवतो विवेकवैराग्यादिविशिष्टस्य एषणाभ्यः सर्वाभ्योऽभ्युत्थितस्य श्रवणादिद्वारा समुत्पन्नसाक्षात्कारवतो मुख्यस्य संन्यासिनो मोक्षः, न अन्यस्य विषयतृष्णापरिभूतस्य, इत्येतत् दृष्टान्तेन प्रतिपादयितुमिच्छन् , ‘रागद्वेषवियुक्तैस्तु’ (भ. गी. २. ६४) इति श्लोकोक्तमेवार्थं पुनराहेति योजना । अशेषविषयत्यागे जीवनमपि कथम् इत्याशङ्क्याह - जीवनेति । सम्भवद्रागद्वेषादिके देशे निवासव्यावृत्त्यर्थं चरतीत्येतद् व्याचष्टे- पर्यटतीति । ‘विहाय कामान्’ (भ. गी. २-७१) इत्यनेन पुनरुक्तिं परिहरति- शरीरेति । निःस्पृहत्वमुक्त्वा निर्ममत्वं पुनर्वदन् , कथं पुनरुक्तिमार्थिकीं न पश्यसि इत्याशङ्क्याह - शरीरजीवनेति । सत्यहङ्कारे ममकारस्य आवश्यकत्वात् निरहङ्कारत्वं व्याकरोति - विद्यावत्त्वादीति । ‘स शान्तिमाप्नोति’ इत्युक्तमुपसंहरति - स एवंभूत इति ।
संन्यासिनो मोक्षमपेक्षमाणस्य सर्वकामपरित्यागादीनि श्लोकोक्तानि विशेषणानि यत्नसाध्यानि, तत्संमतिफलं तु कैवल्यमित्यर्थः ॥ ७१ ॥ 【भाष्यम्】 【भाष्यम्】 यदि गृहस्थेनापि मनसा समस्ताभिमानं हित्वा कूटस्थं ब्रह्म आत्मानं परिभावयता ब्रह्मनिर्वाणमाप्यते, प्राप्तं तर्हि मौढ्यादिविडम्बनमेव, इत्याशङ्क्याह - यस्मादिति । शब्दादिविषयप्रवणस्य ततदिच्छाभेदमानिनो न मुक्तिः, इति व्यतिरेकस्य सिद्धत्वात् , पूर्वोक्तमन्वयं निगमयितुमनन्तरं वाक्यमित्यर्थः । गृहस्थः संन्यासी इत्युभावपि चेन्मुक्तिभोगिनौ, किं तर्हि कष्टेन सर्वथैव संन्यासेन इत्याशङ्क्य, संन्यासिव्यतिरिक्तानामन्तरायसम्भवात् अपेक्षितः संन्यासो मुमुक्षोः, इत्याह - एषेति । स्थितिमेव व्याचष्टे - सर्वमिति । न विमुह्यतीति पुनर्नञोऽनुकर्षणमन्वयार्थम् । संन्यासिनो विमोहाभावेऽपि गृहस्थो धनहान्यादिनिमित्तं प्रायेण विमुह्यति । विक्षिप्तः सन् परमार्थविवेकरहितो भवतीत्यर्थः । यथोक्ता ब्राह्मी स्थितिः - सर्वकर्मसंन्यासपूर्विका ब्रह्मनिष्ठा, तस्यां स्थित्वा तामिमाम् , आयुषश्चतुर्थेऽपि भागे कृत्वेत्यर्थः । अपिशब्दसूचितं कैमुतिकन्यायमाह - किमु वक्तव्यमिति ।
तदेवं तत्त्वम्पदार्थौ, तदैक्यम् , वाक्यार्थः, तज्ज्ञानादेकाकिनो मुक्तिः, तदुपायश्च - इत्येतेषामेकैकत्र श्लोके प्राधान्येन प्रदर्शितमिति निष्ठाद्वयमुपायोपेयभूतमध्यायेन सिद्धम् ॥ ७२ ॥ 【भाष्यम्】 【भाष्यम्】 तत्र तत्र सङ्क्षेपविस्तराभ्यां प्रदर्शितां ज्ञाननिष्ठामधिकारिप्रवृत्त्यर्थत्वेन स्तोतुमुत्तरश्लोकमवतारयति - सैषेति । प्राथमिकेन सम्बन्धग्रन्थेन समस्तशास्त्रार्थसङ्ग्राहकेण तद्विवरणात्मनोऽस्य सन्दर्भस्य नास्ति पौनरुक्त्यामिति मत्वा, प्रतिपदं व्याख्यातुं प्रश्नैकदेशं समुत्थापयति - ज्यायसी चेदिति । वेदाश्चेत् प्रमाणमितिवत् चेदित्यस्य निश्चयार्थत्वं व्यावर्तयति - यदीति । बुद्धिशब्दस्यान्तःकरणविषयत्वं व्यवच्छिनत्ति - ज्ञानमिति । पूर्वार्धस्याक्षरयोजनां कृत्वा समुच्चयाभावे तात्पर्यमाह - यदीति । इष्टे,भगवतेति शेषः । एकं ज्ञानं कर्म च समुच्चितमिति यावत् । ज्ञानकर्मणोरभीष्टे समुच्चये समुच्चितस्य श्रेयःसाधनस्यैकत्वात् कर्मणः सकाशाद् ज्ञानस्य पृथक्करणमयुक्तमित्यर्थः । एकमपि साधनं फलतोऽतिरिक्तं किं न स्यादित्याशङ्क्याह - नहीति । नच केवलात् कर्मणो ज्ञानस्य केवलस्य फलतोऽतिरिक्तत्वं विवक्षित्वा पृथक्करणं, समुच्चयपक्षे प्रत्येकं श्रेयः साधनत्वानभ्युपगमादिति भावः । पूर्वार्धस्येवोत्तरार्धस्यापि समुच्चयपक्षे तुल्यानुपपत्तिरित्याह - तथेति । ‘दूरेण ह्यवरं कर्म ‘ (भ. गी. २-३०) इत्यत्र कर्मणः सकाशाद् बुद्धिः श्रेयस्करी भगवतोक्ता । कर्म च बुद्धेः सकाशादश्रेयस्करमुक्तम् । तथाऽपि तदेव कर्म ‘कर्मण्येवाधिकारस्ते मा फलेषु’ (भ. गी. २-४७) इति स्निग्धं भक्तं च मां प्रति कुर्विति भगवान् प्रतिपादयति, तत्र कारणानुपलम्भादयुक्तम् , अतिक्रूरे कर्मणि भगवतो मन्नियोजनमिति यदर्जुनो ब्रवीति, तच्च समुच्चयपक्षेऽनुपपन्नः स्यादित्यर्थः । यत्तु वृत्तिकारैुरुक्तं ‘श्रौतेन स्मार्तेन च कर्मणा समुच्चयो गृहस्थानां श्रेयःसाधनम् , इतरेषां स्मार्तेनैवेति भगवतोक्तमर्जुनेन च निर्धारितम्’ इति, तदेतदनुवदति – अथेति । तत्रापि ’तत्किम्’इत्याद्युपालम्भवचनमनुपपन्नं, कर्ममात्रसमुच्चयवादिनो भगवतो नियोजनाभावादिति दूषयति – तत्किमिति
॥१॥ 【भाष्यम्】 【भाष्यम्】 पूर्वोत्तराध्याययोः सम्बन्धं वक्तुं पूर्वस्मिन्नध्याये वृत्तमर्थं सङ्क्षिप्यानुवदति - शास्त्रस्येति । गीताशास्त्रप्रारम्भापेक्षितं हेतुफलभूतं बुद्धिद्वयं भगवतोपदिष्टमित्यर्थः । प्रष्टुरर्जुनस्याभिप्रायं निर्देष्टुं प्रवृत्तमर्थान्तरमनुवदति - तत्रेति । अध्यायो बुद्धिद्वयनिर्धारणं वा सप्तम्यर्थः । पारमार्थिके तत्त्वे यज्ज्ञानं तन्निष्ठानामशेषकामत्यागिनां कामयुक्तानां कर्मिणामपि प्रतिपत्तिकर्मवत् त्यागं कर्तव्यत्वेन भगवानुक्तवानित्यर्थः । तथाऽपि मोक्षसाधने विकल्पसमुच्चययोरन्यतरस्य विवक्षितत्वबुद्ध्या समनन्तरप्रश्नप्रवृत्तिरित्याशङ्क्याह - उक्तेति । अर्जुनस्य मनसि व्याकुलत्वं प्रश्नबीजं दर्शयितुमुक्तमर्थान्तरमनुभाषते - अर्जुनाय चेति । साङ्ख्यबुद्धिमाश्रित्य कर्मत्यागमुक्त्वा, पुनस्तस्यैव कर्तव्यत्वं कथं मिथो विरुद्धं ब्रवीति इत्याशङ्क्याह - योगेति । यथा साङ्ख्यबुद्धिमाश्रितानां संन्यासद्वारा तन्निष्ठानां कृतार्थतोक्ता, तथा योगबुद्धिमाश्रित्य कर्म कुर्वतोऽपि कृतार्थत्वमुक्तमित्याशङ्क्याह - न तत एवेति । ‘दूरेण ह्यवरं कर्म बुद्धियोगात्’ (भ. गी. २-४९) इति दर्शनादिति शेषः । बुद्धिव्याकुलत्वं प्रश्नबीजं प्रतिलभ्य प्रश्नं करोतीत्याह - तदेतदिति । साक्षादेव श्रेयःसाधनं ज्ञानमन्येभ्यो दर्शितं - तदित्युच्यते । तद्विपरीतं कर्म स्वस्यानुष्ठेयत्वेनोक्तम् - एतदिति निर्दिश्यते । भगवदुक्तेऽर्थे सन्दिह्यमानस्य निर्णयाकाङ्क्षया प्रश्नप्रवृत्तेरस्ति पूर्वोत्तराध्याययोरुत्थाप्योत्थापकलक्षणा सङ्गतिरित्यर्थः । अर्जुनस्य प्रश्ननिमित्तं पर्याकुलत्वं प्रपञ्चयति - कथमित्यादिना । यद्धि साक्षादेव श्रेयःसाधनं साङ्ख्यशब्दितपरमार्थतत्त्वविषयबुद्धौ निष्ठारूपं, तद् अन्यस्मै श्रेयोऽर्थिने भक्ताय श्रावयित्वा, मां पुनरभक्तम् अश्रेयोऽर्थिनमिव कर्मणि पूर्वोक्तविपरीते कथं भगवान् नियोक्तुमर्हतीत्यर्जुनस्य पर्याकुलीभावो युक्त इति सम्बन्धः । ज्ञाननिष्ठातो वैपरीत्यं स्फोरयितुं कर्म विशिनष्टि - दृष्टेति । युद्धे हि क्षत्रकर्मणि दृष्टोऽनेकोऽनर्थो गुरुभ्रातृहिंसादिः तेन सम्बद्धे बुद्धिशुद्धिद्वाराऽपि वर्तमाने जन्मन्येव फलमित्यनियते । मम -भक्तस्य श्रेयोऽर्थिनो नियोगो भगवता युक्तो न भवतीति शेषः । यथोक्तं निमित्तं प्रश्नस्य युक्तं तदनुगुणत्वात् तस्येति द्योतकमाह - तदनुरूपश्चेति । ज्ञाननिष्ठानां कृतार्थता, कर्मनिष्ठानां तु न तथेत्युक्तम् । विभागभागि शास्त्रमित्यत्र ‘लोकेऽस्मिन्’ (भ. गी. ३-३) इत्यादिवाक्यस्यापि द्योतकत्वं दर्शयति - प्रश्नेति ॥ साक्षादेव श्रेयःसाधनमन्येभ्यो भगवतोक्तम्, न तु मह्यमिति मत्वा व्याकुलीभूतः सन् पृच्छतीति स्वाभिप्रायेण सम्बन्धमुक्त्वा वृत्तिकाराभिप्रायं दूषयति - केचित्त्विति । ज्ञानकर्मणोः समुच्चयमवधारयितुं प्रश्नाङ्गीकारे समुच्चयावधारणेनैव प्रतिवचनमुचितम् । न च तथा भगवता प्रतिवचनमुक्तम् । तथा च प्रश्नस्य समुच्चयविषयत्वोपगमात् प्रत्युक्तेश्चासमुच्चयविषयत्वात् तयोर्मिथो विरोधो वृत्तिकारमते स्यादित्यर्थः । किञ्च, केवलं प्रश्नप्रतिवचनयोरेव परमते परस्परविरोधो न भवति, अपि तु परेषां स्वग्रन्थेऽपि पूर्वापरविरोधोऽस्तीत्याह - यथा चेति । आत्मना - वृत्तिकारैरिति यावत् । सम्बन्धग्रन्थः - गीताशास्रारम्भोपोद्घातः । इहेति तृतीयाध्यायारम्भं परामृशति । तदेव विवृण्वन्नाकाङ्क्षामाह - कथमिति । पूर्वापरविरोधं स्फोरयितुं सम्बन्धग्रन्थोक्तमनुवदति - तत्रेति । परकीया वृत्तिः सप्तम्या समुल्लिख्यते । सम्बन्धग्रन्थे तावदयमर्थ उक्त इति सम्बन्धः । तमेवार्थं विशदयति - सर्वेषामिति । सर्वकर्मसंन्यासपूर्वकज्ञानादेव केवलात् कैवल्यमित्यस्मिन्नर्थे शास्त्रस्य पर्यवसानान्न समुच्चयो विवक्षितस्तत्रेत्याशङ्क्याह - पुनरिति । उक्तगीतार्थो वृत्तिकारैरेव कर्मत्यागायोगेन विशेषितत्वान्नाविवक्षितोऽलं भवितुमुत्सहते । तथा च श्रौतानि कर्माणि त्यक्त्वा ज्ञानादेव केवलान्मुक्तिर्भवतीत्येतन्मतं नियमेनैव यावज्जीवश्रुतिभिर्विप्रतिषिद्धत्वात् नाभ्युपगन्तुमुचितमित्यर्थः। तथाऽपि कथं मिथो विरोधधीरित्याशङ्क्याह - इह त्विति । प्रथमतो हि सम्बन्धग्रन्थे समुच्चयो गीतार्थप्रतिपाद्यत्वेन वृत्तिकृता प्रतिज्ञातः । श्रौतकर्मपरित्यागश्च श्रुतिविरोधादेव न सम्भवतीत्युक्तम् । तृतीयाध्यायारम्भे पुनः संन्यासिनां ज्ञाननिष्ठा, कर्मिणां कर्मनिष्ठेत्याश्रमविभागमभिदधता पूर्वप्रतिषिद्धकर्मत्यागाभ्युपगमान्मिथो विरोधो दर्शितः स्यादित्यर्थः । ननु यथा भगवता प्रतिपादितं, तथैव वृत्तिकृता व्याख्यातमिति न तस्यापराधोऽस्तीत्याशङ्क्याह - तत्कथमिति । न हीह भगवान् विरुद्धमर्थमभिधत्ते, सर्वज्ञस्य परमाप्तस्य विरुद्धार्थवादित्वायोगात् । किन्तु तदभिप्रायापरिज्ञानादेव व्याख्यातुर्विरुद्धार्थवादितेत्यर्थः । भगवतो विरुद्धार्थवादित्वाभावेऽपि श्रोतुर्विरुद्धार्थप्रतिपत्तिं प्रतीत्य व्याचक्षाणो वृत्तिकारो नापराध्यतीत्याशङ्क्याह - श्रोता वेति । अर्जुनो हि श्रोता । सोऽपि बुद्धिपूर्वकारी भगवदुक्तमेवावधारयन् न विरुद्धमर्थमवधारयितुमर्हति । तथा च परस्यैव विरुद्धार्थवादितेत्यर्थः ॥ विरोधं परिहरन् आशङ्कते - तत्रेति । सम्बन्धग्रन्थे हि वृत्तिकारस्यैतदभिप्रेतम् - गृहस्थानामेव सतां परिपक्कज्ञानमन्तरेण यावज्जीवश्रुतिचोदिताग्निहोत्रादित्यागेन केवलादेवापातिकादात्मज्ञानात् मोक्षमपेक्षमाणानां यावज्जीवादिशास्रैरसौ निषिध्यते, न तु स्वरूपेणैव कर्मत्यागो ज्ञानान्मोक्षो वा निषेद्धुमिष्यते । तृतीये पुनरध्याये कर्मत्यागिनां गृहस्थेभ्यो व्यतिरिक्तानामेव केवलादात्मज्ञानान्मोक्षो विवक्ष्यते । अतो भिन्नाविषयत्वान्निषेधाभ्यनुज्ञानयोर्नविरोधाशंकेत्यर्थः। विरोधान्तरेण विरोधं दर्शयन्नुत्तरमाह - एतदपीति । विरोधमेवाकाङ्क्षाद्वारा साधयति - कथमित्यादिना । श्रौतं कर्म गृहस्थानामवश्यमनुष्ठेयमित्यनेनाभिप्रायेण तेषां केवलादात्मज्ञानान्मोक्षो निषिध्यते । न तु गृहस्थानां ज्ञानमात्रायत्तं मोक्षं प्रतिषिध्य अन्येषां केवलज्ञानाधीनो मोक्षो विवक्ष्यते, आश्रमान्तराणामपि स्मार्तेन कर्मणा समुच्चयाभ्युपगमादिति चोदयति - अथेति । एतत्परामृष्टं वचनमेवाभिनयति - केवलादिति । ननु गृहस्थानां श्रौतकर्मराहित्येऽपि, सति स्मार्ते कर्मणि कुतो ज्ञानस्य केवलत्वं लभ्यते येन निषेधोक्तिरर्थवती, तत्राह - तत्रेति । प्रकृतवचनमेव सप्तम्यर्थः, प्रधानं हि श्रौतं कर्म । तद्राहित्ये सति, स्मार्तस्य कर्मणः सतोऽप्यसद्भावमभिप्रेत्य ज्ञानस्य केवलत्वमुक्तमिति युक्ता निषेधोक्तिरित्यर्थः । गृहस्थानामेव श्रौतकर्मसमुच्चयो नान्येषाम् , अन्येषां तु स्मार्तेनेति पक्षपाते हेत्वभावं मन्वानः सन् परिहरति - एतदपीति । तमेव हेतभावं प्रश्नद्वारा विवृणोति - कथमित्यादिना । गृहस्थानां श्रौतस्मार्तकर्मसमुच्चितं ज्ञानं मुक्तिहेतुरित्यभ्युपगमात् केवलस्मार्तकर्मसमुच्चितात् ततो न मुक्तिरिति निषेधो युज्यते । ऊर्ध्वरेतसां तु स्मार्तकर्ममात्रसमुच्चिताज्ज्ञानान्मुक्तिरिति विभागे नास्ति हेतुरित्यर्थः । पक्षपाते कारणं नास्तीत्युक्त्वा पक्षपातपरित्यागे कारणमस्तीत्याह - किञ्चेति । गृहस्थानामपि ब्रह्मज्ञानं स्मार्तैरेव कर्मभिः समुच्चितं मोक्षसाधनं, ब्रह्मज्ञानत्वादूर्ध्वरेतःसु व्यवस्थितब्रह्मज्ञानवदिति पक्षपातत्यागे हेतुं स्फुटयति - यदीत्यादिना ॥ यदि गृहस्थानां ब्रह्मज्ञानं स्मार्तैरेव कर्मभिः समुच्चितं मोक्षहेतुरिति विवक्षितं, तदा तान् प्रति यावज्जीवश्रुतिर्विरुध्येत । यदि स्मार्तैरपि कर्मभिः समुच्चितं तदीयं ज्ञानं मोक्षसाधनं विवक्ष्यते, तदा सिद्धसाध्यतेति प्रागुक्तमभिप्रेत्य चोदयति - अथेति । आश्रमान्तराणां तर्हि केवलादेव ज्ञानान्मुक्तिरिति प्रागुक्तविरोधतादवस्थ्यमित्याशङ्क्याह - ऊर्ध्वरेतसां त्विति । यथोक्ते विभागे, गार्हस्थ्यं क्लेशात्मककर्मबाहुल्यादनुपादेयमापद्येतेति दूषयति - तत्रेति । साधनभूयस्त्वे फलभूयस्त्वमिति न्यायमाश्रित्य शङ्कते - अथेति । क्लेशबाहुल्योपेतं श्रौतं स्मार्तं च बहु कर्म । तस्यानुष्ठानाद् गृहस्थस्य मोक्षः स्यादेवेत्यर्थः । एवकारनिरस्यं दर्शयति - नाश्रमान्तराणामिति । तेषां नास्ति मुक्तिरित्यत्र यावज्जीवादिश्रुतिविहितावश्यानुष्ठेयकर्मराहित्यं हेतुं सूचयति - श्रौतेति । शास्त्रविरोधिन्यायस्य निरवकाशत्वमभिप्रेत्य दूषयति - तदपीति । ऐकाश्रम्यस्मृत्या गार्हस्थ्यस्यैव प्राधान्यादनधिकृतान्धादिविषयं कर्मसंन्यासविधानमित्याशङ्क्याह - ज्ञानाङ्गत्वेनेति । न खल्वनधिकृतानामन्धादीनां संन्यासः श्रवणाद्यावृत्तिद्वारा ज्ञानाङ्गं भवितुमलम्, तेषां श्रवणाद्यभ्यासासामर्थ्यात् । अतः श्रुत्यादीनां विरोधे नास्ति गार्हस्थ्यस्य प्राधान्यमित्यर्थः । तस्य प्राधान्याभावे हेत्वन्तरमाह - आश्रमेति । ‘ब्रह्मचर्यं समाप्य गृही भवेद् , गृहाद्वनी भूत्वा प्रव्रजेद् , यदि वा इतरथा ब्रह्मचर्यादेव प्रव्रजेद् गृहाद् वा वनाद् वा‘ (जा. उ. ४., या. उ. १ ) इति श्रुतौ, ‘तस्याश्रमविकल्पमेके ब्रुवते’ (गौ. ध. ३-१) इति ‘यमिच्छेत् तमावसेत्’ (व. ८-२) इत्यादिस्मृतौ च आश्रमाणां समुच्चयेन विकल्पेन चाश्रमान्तरमिच्छन्तं प्रति विधानान्न गार्हस्थ्यस्य प्रधानत्वमित्यर्थः ॥ यदि सर्वेषामाश्रमाणां श्रुतिस्मृतिमूलत्वं, तर्हि तत्तदाश्रमविहितकर्मणां ज्ञानेन समुच्चयः सिध्यतीति शङ्कते - सिद्धस्तर्हीति । यद्यपि ज्ञानोत्पत्तावाश्रमकर्मणां साधनत्वं, तथाऽपि ज्ञानमुत्पन्नं नैव फले सहकारित्वेन तान्यपेक्षते, अन्यथा संन्यासविध्यनुपपत्तेरिति दूषयति - न मुमुक्षोरिति । संन्यासविधानमेवानुक्रामति - व्युत्थायेत्यादिना । एषणाभ्यो वैमुख्येनोत्थानं - तत्परित्यागः । आश्रमसम्पत्त्यनन्तरं तत्र विहितधर्मकलापानुष्ठानमपि कर्तव्यमित्याह - अथेति । प्रागुक्तानां सत्यादीनामल्पफलत्वाद् न्यासस्य च ज्ञानद्वारा मोक्षफलत्वादित्याह - तस्मादिति । अतिरिक्तम् -अतिशयवन्तं, महाफलमिति यावत् । प्रकृतकर्मभ्यः सकाशान्न्यास एवातिशयवान् आसीदित्युक्तेऽर्थे वाक्यान्तरं पठति - न्यास एवेति । लोकत्रयहेतुं साधनत्रयं परित्यज्य संसाराद् विरक्ताः संन्यासपूर्वकादात्मज्ञानादेव प्राप्तवन्तो मोक्षमित्याह - न कर्मणेति । सति वैराग्य नास्ति कर्मापेक्षा, सत्यां सामग्र्यां कार्याक्षेपानुपपत्तेरित्याह - ब्रह्मचर्यादेवेति । इत्याद्याः - सर्वकर्मसंन्यासविधायिन्यः, श्रुतयः, भवन्तीति शेषः । ‘आत्मानमेव लोकमिच्छन्तः प्रव्रजन्ति’ (बृ. उ. ४-४-२२) इत्यादिवाक्यसङ्ग्रहार्थमादिपदम् । तत्रैव स्मृतिमुदाहरति - त्यजेति । धर्माधर्मयोः सत्यानृतयोश्च संसारारम्भ्कत्वाद् मुमुक्षुणा तत्त्यागे प्रयतितव्यमित्यर्थः । त्यक्तृत्वाभिमानस्यापि तत्त्वतः स्वरूपसम्बन्धाभावात् त्याज्यत्वमविशिष्टमित्याह - येनेति । अनुभवानुसारेण प्रमातृताप्रमुखरय संसारस्य दुःखफलत्वमालक्ष्य मोक्षहेतुसम्यग्ज्ञानसिद्धये ब्रह्मचर्यादेव पारिव्रज्यमनुष्ठेयमित्युत्पत्तिविधिमुपन्यस्यति - संसारमिति । तत्त्वज्ञानमुद्दिश्य ब्रह्मचर्यादेव कर्मसंन्याससामग्रीमभिदधानो विनियोगविधिं सूचयति - परमिति । ज्ञानकर्मणोरसमुच्चयार्थं फलविभागं कथयति - कर्मणेति । उक्तं फलविभागमनूद्य ज्ञाननिष्ठानां कर्मसंन्यासस्य कर्तव्यत्वमाह - तस्मादिति । वाक्यशेषेऽपि सर्वकर्मसंन्यासो विवक्षितोऽस्तीत्याह - इहापीति ॥ ज्ञानार्थिनो मुमुक्षोः संन्यासविध्यनुपपत्तिबाधितं समुच्चयविधिवचनमित्युक्तम् ; इदानाीं मोक्षस्वभावालोचनयाऽपि समुच्चयवचनमनुचितमित्याह - मोक्षस्य चेति । ‘अकुर्वन् विहितं कर्म निन्दितं च समाचरन् । प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति ॥‘ (मनु ११ - १४) इति स्मृतेः मुमुक्षुणाऽपि प्रत्यवायनिवृत्तये कर्तव्यं नित्यकर्मेति शङ्कते - नित्यानीति । यो यस्मिन् कर्मण्यधिकृतस्तस्य तदकरणात् प्रत्यवायो भवति, न तु कर्मानधिकारिणः संन्यासिनस्तदकरणात् प्रत्यवायः सम्भवतीति दूषयति - नासंन्यासीति । तदेव स्पष्टयति - न हीति । समिद्धोमाध्ययनाद्यकरणात् प्रत्यवायः संन्यासिनो नास्तीत्यर्थः । तत्र व्यतिरेकोदाहरणमाह - यथेति । अकरणात् प्रत्यवायोत्पत्तिमभ्युपेत्योक्तं ; सम्प्रति प्रतिषिद्धकरणादेव प्रत्यवायो न त्वकरणात् अभावाद् भावोत्पत्तेर्लोकवेदविरुद्धत्वादित्याह - न तावदिति । ननु नित्यकर्मविधायी वेदस्तदकरणात् प्रत्यवायो भवतीति ब्रवीति, तत् कथमकरणात् प्रत्यवायो न भवतीति श्रुतिमाश्रित्योच्यते, श्रुत्यन्तरविरोधादिति, तत्राह - यदीति । विहितस्याकरणे सति अनर्थप्राप्तेर्न नित्यकर्मविधायी वेदोऽनर्थकरत्वेनाप्रमाणमित्याशङ्क्याह - विहितस्येति । न विहितस्य करणे पितृलोकप्राप्तिलक्षणं फलं भवतेष्यते, धूमादिना नयनपीडादिदुःखं तु प्रत्यक्षमेव, अकरणे च प्रत्यवायोत्पत्तिः, उभयथाऽपि पुरुषस्यानर्थकरो वेदोऽप्रमाणमेव स्यादित्यर्थः । नन्वभावस्यापि भावोत्पादनसामर्थ्यं वेदः सम्पादयिष्यति, तथा च विहिताकरणप्रत्यवायपरिहारो विहितकरणे फलिष्यतीति, नेत्याह - तथा चेति । लोकप्रसिद्धपदार्थशक्त्याश्रयणेन शास्त्रप्रवृत्त्यङ्गीकारात् अपूर्वशक्त्याधानायोगाद् ज्ञापकमेव शास्त्रमित्यर्थः । कारकत्वे च तस्याप्रामाण्यमप्रत्यूहं स्यादित्याह - कारकमिति । भवतु शास्त्रस्याप्रामाण्यमित्याशङ्क्यपौरुषेयतया शेषदोषानागान्धितत्वाद् मैवमित्याह - न चेति । अनिर्वाच्यानुपलम्भस्य संवेदनमभावज्ञाने कारणं, समीहितसाधनज्ञानं तु चरणन्यासादि प्रवृत्तिक्रारणमित्यङ्गीकृत्योपसंहरति - तस्मादिति । अकरणात् प्रत्यवायोत्पत्यसम्भवस्तच्छब्दार्थः । संन्यासिनां - ज्ञाननिष्ठानां, कर्मसंन्यासित्वादेव कर्मासम्भवे फलितमाह - अत इति । समुच्चयानुपपत्तौ हेत्वन्तरमाह - ज्यायसीति । प्रश्नानुपपत्तिमेव प्रपञ्चयति - यदि हीति । समुच्चयोपदेशे प्रश्नैकदेशानुपपत्तेश्च न तदुपदेशोपपत्तिरित्याह - अर्जुनायेति । ‘कर्मण्येवाधिकारस्ते मा फलेषु कदाचन’ (भ. गी. २-४७) इत्यर्जुनं प्रत्युपदेशात् तं प्रति ज्यायसी बुद्धिर्नोक्तेति युक्तं, ‘तत् किम्’ (भ. गी. ३-१) इत्याद्युपालम्भवचनमित्याशङ्क्याह - नचेति । येन कल्पनेन ‘ज्यायसी चेद्’ (भ. गी. ३-१) इत्यारभ्यं ‘तत्किं कर्मणि’ (भ. गी. ३-१) इत्युपालम्भात्मा प्रश्नः स्यात् तथा न युक्तं कल्पयितुम् ‘एषा तेऽभिहिता साङ्ख्ये बुद्धि’ (भ. गी. २-३९ ) इति वचनविरोधादिति योजना । कस्मिन् पक्षे तर्हि प्रश्नस्योपपत्तिरित्याशङ्क्याह - यदीति । भगवदुक्तेऽर्थे प्रष्टुर्विवेकाभावात् प्रश्नः स्यादित्याशङ्क्य पूर्वोक्तमेवाधिकविवक्षया स्मारयति - अविवेकत इति । भगवतोऽपि प्रतिवचनम् अज्ञाननिमित्तं प्रश्नाननुरूपत्वादित्याशङ्क्य अधिकं दर्शयति - नचेति । भगवतः सर्वज्ञत्वप्रसिद्धिविरोधाद् अज्ञानाधीनप्रतिवचनायोगादित्यर्थः । इतश्च समुच्चयः शास्त्रार्थो न भवतीत्याह - अस्माच्चेति । कस्तर्हि शास्त्रार्थो विवक्षितः तत्राह - केवलादिति । ज्ञानकर्मणोः समुच्चयानुपपत्तौ कारणान्तरमाह - ज्ञानेति । वाक्यशेषवशादपि समुच्चयस्याशास्त्रार्थतेत्याह - कुरु कर्मैवेति । इतश्च प्रश्नः समुच्चयानुसारी न भवतीत्याह – किञ्चेति । भगवतो विविक्तार्थवादित्वादयुक्तं व्यामिश्रेणेत्यादिवचनमित्याशङ्क्याह – यद्यपीति । यदि भगवद्वचनं सङ्कीर्णमिव ते भाति, तर्हि तेन त्वदीयबुद्धिव्यामोहनमेव तस्य विवक्षितमिति, किमिति मोहयसीवेत्युच्यते तत्राह – ममेति । ज्ञानकर्मणि मिथो विरोधाद् युगपदेकपुरुषाननुष्ठेयतया भिन्नकर्तृके कथ्येते, तथा च तयोरन्यतरस्मिन्नेव त्वं नियुक्तः, न तु ते बुद्धिव्यामोहनमभिमतमिति, भगवतो मतमनुवदति – त्वं त्विति । तदेकमित्यादिश्लोकार्धेनोत्तरमाह – तत्रेति । उक्तं भागवतमतं सप्तम्या परामृश्यते । एकमित्युक्तप्रकारोक्तिः । एकमित्युक्तमेव स्फुटयति – बुद्धिमिति । निश्चयप्रकारं प्रकटयति – इदमिति । योग्यत्वं स्पष्टयति – बुद्धीति । अस्य क्षत्रियस्य सतोऽन्तःकरणस्य देहशक्तेः समरसमारम्भावस्थायाश्चेदमेव ज्ञानं वा अनुगुणमिति निर्धार्य ब्रूहीत्यर्थः । निश्चित्यान्यतरोक्तौ तेन श्रोतुः श्रेयोऽवाप्तिं फलमाह - येनेति । तदेकमित्यादिवाक्यस्याक्षरोत्थमर्थमुक्त्वा, समुच्चयस्य शास्त्रार्थत्वाभावे तात्पर्यमाह - यदि हीति । गुणभूतमपीत्यादिना प्रधानभूतमपि वेति विवक्षितम् । ननु उभयप्राप्त्यसम्भवमात्मनो मन्यमानस्यार्जुनस्यान्यतरविषया शुश्रूषा भविष्यति नेत्याह - न हीति । यथोक्तभगवद्वचनाभावे द्वयप्राप्त्यसम्भवबुद्ध्या नान्यतरप्रार्थना सम्भवतीत्याह - येनेति ।
नहि तथाविधं भगवद्वचनं भवतेष्टं, भगवतः समुच्चयवादित्वाङ्गीकारात् । अतस्तदभावादुक्तबुद्ध्या न युक्ताऽन्यतरप्रार्थनेत्यर्थः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 येयं व्यवहारभूमिरुपलभ्यते, तत्र त्रैवर्णिकाः ज्ञानं कर्म वा शास्त्रीयमनुष्ठातुमधिक्रियन्ते। तेषां द्विधा स्थितिर्मया प्रोक्तेति पूर्वार्धं योजयति - लोकेऽस्मिन्निति। स्थितिमेव व्याकरोति - अनुष्ठेयेति। पूर्वं प्रवचनप्रसङ्गं प्रदर्शयन् प्रवक्तारं विशिनष्टि - सर्गादाविति। प्रवचनस्यायथार्थत्वशङ्कां वारयति - सर्वज्ञेनेति। अर्जुनस्य भगवदुपदेशयोग्यत्वं सूचयति - अनघेति। निर्धारणार्थे तत्रेति सप्तमी । ज्ञानं - परमार्थवस्तुविषयं तदेव योगशब्दितं, युज्यतेऽनेन ब्रह्मणेति व्युत्पत्तेस्तेन । निष्ठेत्यनुवर्तते। उक्तज्ञानोपायमुपदिदिक्षुः साङ्ख्यशब्दार्थमाह - आत्मेति। तेषामेव कर्मनिष्ठत्वं व्यावर्तयति - ब्रह्मचर्येति। तेषां जपादिपारवश्येन श्रवणादिपराङ्मुखत्वं पराकरोति - वेदान्तेति। उक्तविशेषणवतां मुख्यसंन्यासित्वेन फलावस्थत्वं दर्शयति - परमहंसेति। कर्म - वर्णाश्रमविहितं धर्माख्यं तदेव युज्यते तेनाभ्युदयेनेति योगस्थेन निष्ठा कर्मिणां प्रोक्तेत्यनुषङ्गं दर्शयन्नाह - कर्मैवेत्यादिना । एवं प्रतिवचनवाक्यस्थान्यक्षराणि व्याख्याय तस्यैव तात्पर्यार्थं कथयति - यदि चेति। इष्टस्यापि दुर्बोधत्वमाशङ्क्याह - उक्तमिति। ज्ञानस्यापि मूलविकलतया विभ्रमत्चमाशङ्क्याह - वेदेष्विति। तस्याशिष्यत्वबुद्ध्या अन्यथाकथनमित्याशङ्क्याह - उपसन्नायेति। तथापि तस्मिन् औदासीन्यादन्यथोक्तिरित्याशङ्क्याह - प्रियायेति। ब्रवीति च भिन्नपुरुषकर्तृकं निष्ठाद्वयं, तेन समुच्चयो भगवदभीष्टः शास्त्रार्थो न भवतीति शेषः। नन्वर्जुनस्य प्रेक्षापूर्वकारित्वाद् ज्ञानकर्मश्रवणानन्तरमुभयनिर्देशानुउपपत्त्या समुच्चयानुष्ठानं सम्पत्स्यते, तद्व्यतिरिक्तानां तु ज्ञानकर्मणोर्भिन्नपुरुषानुष्ठेयत्वं श्रुत्वा प्रत्येकं तदनुष्ठानं भविष्यतीति भगवतो मतं कल्प्यते, तस्यार्जुनेऽनुरागातिरेकादितरेषु च तदभावादिति तत्राह - यदि पुनरिति। अप्रमाणभूतत्वम् - अनाप्तत्वम् ।न च भगवतो रागादिमत्त्वेनाप्तत्वं युक्तम्, ’समं सर्वेषु भूतेषु तिष्ठन्तम्’ इत्यादिविरोधादित्याह - तच्चेति। निष्ठाद्वयस्य भिन्नपुरुषानुष्ठेयत्वनिर्देशफलमुपसंहरति - तस्मादिति।
॥३॥ 【भाष्यम्】 【भाष्यम्】 किमिति भगवता बुद्धेर्ज्यायस्त्वं ’ज्यायसी चेद्’ इत्यत्रोक्तमुपेक्षितमिति, तत्राह - यदर्जुनेनेति। किं च ज्ञाननिष्ठायां संन्यासिनामेवाधिकारो भगवतोऽभिप्रेतः, अन्यथा तदीयविभागवचनविरोधादिति विभागवचनसामर्थ्यसिद्धमर्थमाह - तस्याश्चेति
॥३॥ 【भाष्यम्】 【भाष्यम्】 सम्मुच्चयविरोधितया प्रश्नं व्याख्याय तद्विरोधित्वेनैव प्रतिवचनमुत्थापयति - प्रश्नेति। ‘यस्य वा एतत् कर्म’ (कौ. उ. ४. १७) इति श्रुताविव कर्मशब्दस्य क्रियमाणवस्तुविषयत्वमाशङ्क्य व्याचष्टे - क्रियाणामिति । ताश्चनित्यनैमित्तिकत्वेन विभजते - यज्ञादीनामिति । अस्मिन्नेव जन्मनि अनुष्ठितानां कर्मणां बुद्धिशुद्धिद्वारा ज्ञानकारणत्वे, ब्रह्मचारिणां कुतो ज्ञानोत्पत्तिर्जन्मान्तरकृतानां कर्मणां वा तथात्वे, गृहस्थादीनामैहिकानि कर्माणि न ज्ञानहेतवः स्युरित्याशङ्क्य अनियमं दर्शयति - इहेति । नेमानि सत्त्वशुद्धिकारणानि उपात्तदुरितप्रतिबन्धादित्याशङ्क्याह - उपात्तेति । तर्हि तावतैव कृतार्थानां कुतो ज्ञाननिष्ठाहेतुत्वं, तत्राह - तत्कारणत्वेनेति । कर्मणां चित्तशुद्धिद्वारा ज्ञानहेतुत्वे मानमाह - ज्ञानमिति । अनारम्भशब्दस्योपक्रमविपरीतविषयत्वं व्यावर्तयति- अननुष्ठानादिति । निष्कर्मणः संन्यासिनः कर्मज्ञानं नैष्कर्म्यमिति व्याचष्टे - निष्कर्मेति । कर्माभावावस्थां व्यवच्छिनत्ति - ज्ञानयोगेनेति । तस्याः साधनपक्षपातित्वं व्यावर्तयति - निष्क्रियेति । कर्मानुष्ठानोपायलब्धा ज्ञाननिष्ठा स्वतन्त्रा पुमर्थहेतुरिति प्रकृतार्थसमर्थनार्थं व्यतिरेकवचनस्यान्वये पर्यवसानं मत्वा व्याचष्टे - कर्मणामिति । तद्विपर्ययमेव व्याचष्टे - तेषामिति । उक्तेऽर्थे हेतुं पृच्छति - कस्मादिति । जिज्ञासितं हेतुमाह - उच्यत इति । उपायत्वेऽपि तदभावे कुतो नैष्कर्म्यासिद्धिरित्याशङ्क्याह - नहीति । ज्ञानयोगं प्रति कर्मयोगस्योपायत्वे श्रुतिस्मृती प्रमाणयति - कर्मयोगेति । श्रौतमुपायोपेयत्वप्रतिपादनं प्रकटयति - श्रुताविति । यत्तु गीताशास्त्रे कर्मयोगस्य ज्ञानयोगं प्रत्युपायत्वोपपादनं, तदिदानीमुदाहरति - इहापि चेति । न कर्मणामित्यादिना पूर्वार्धं व्याख्याय, उत्तरार्धं व्याख्यातुमाशङ्कयति - नन्विति । आदिशब्देन ‘शान्तो दान्त उपरतस्तितिक्षुः’ (बृ. उ. ४-४-२३) ‘संन्यासयोगाद् यतयः शुद्धसत्त्वाः’ (मु. उ. ३-२-६) इत्यादि गृह्यते । तत्रैव लोकप्रसिद्धिमनुकूलयति - लोके चेति । प्रसिद्धतरं, ‘यतो यतो निवर्तते ततस्ततो विमुच्यते । निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ॥‘ (सं. शा. ३. ३६४) इत्यादिदर्शनादिति शेषः । लौकिकवैदिकप्रसिद्धिभ्यां सिद्धमर्थमाह - अतश्चेति । तत्रोत्तरत्वेनोत्तरार्धमवतार्य, व्याकरोति - अत आहेत्यादिना । एवकारार्थमाह - केवलादिति । तदेव स्पष्टयति - कर्मेति । उक्तमेव नञमनुकृष्य क्रियापदेन सङ्गतिं दर्शयति - न प्राप्नोतीति
॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 तर्हि विभागवचनानुरोधादर्जुनस्यापि संन्यासपूर्विकायां ज्ञाननिष्ठायामेवाधिकारो भविष्यति, नेत्याह - मां चेति । बुद्धेर्ज्यायस्त्वमुपेत्यापीति चकारार्थः । अर्जुनमालक्ष्य भगवानाहेति सम्बन्धः । अन्तरेणापि कर्माणि, श्रवणादिभिर्ज्ञानावाप्तिर्भविष्यतीति परबुद्धिमनुरुध्य विशिनष्टि - कर्मेति । विभागवचनवशादसमुच्चयश्चेद् उभयोरपि ज्ञानकर्मणोः स्वातन्त्र्येण पुरुषार्थहेतुत्वम् , अन्यथा कर्मवद् ज्ञानमपि न स्वातन्त्र्येण पुरुषार्थं साधयेद् इत्याशङ्क्य सम्बन्धान्तरमाह - अथवेति । तर्हि ज्ञाननिष्ठाऽपि कर्मनिष्ठावन्निष्ठात्वाविशेषान्न स्वातन्त्र्येण पुरुषार्थहेतुरिति । समुच्चयसिद्धिरित्याशङ्क्याह - ज्ञाननिष्ठा त्विति । नहि रज्जुतत्त्वज्ञानमुत्पन्नं फलसिद्धौ सहकारिसापेक्षमालक्ष्यते । तथेदमपि च उत्पन्नं मोक्षाय नान्यदपेक्षते । तदाह - अन्येति । कदाचित् - क्षणमात्रमपि, न कश्चिदकर्मकृत् तिष्ठतीत्यत्र हेतुत्वेनोत्तरार्धं व्याचष्टे - कस्मादिति । सर्वशब्दाद् ज्ञानवानपि गुणैरवशः सन् कर्म कार्यते । ततश्च ज्ञानवतः संन्यासवचनमनवकाशं स्यादित्याशङ्क्याह - अज्ञ इतीति । तमेव वाक्यशेषं वाक्यशेषावष्टम्भेन स्पष्टयति - यत इति । आत्मज्ञानवतो गुणैरविचाल्यतया गुणातीतत्ववचनादज्ञस्यैव सत्त्वादिगुणैरिच्छाभेदेन कार्यकरणसङ्घातं प्रवर्तयितुमशक्तस्य अजितकार्यकरणसङ्घातस्य क्रियासु प्रवर्तमानत्वमित्यर्थः । ज्ञानयोगेनेत्यादिना उक्तन्यायाच्च वाक्यशेषोपपत्तिरित्याह - साङ्ख्यानामिति । ज्ञानिनां गुणप्रयुक्तचलनाभावेऽपि स्वाभाविकचलनबलात् कर्मयोगो भविष्यतीत्याशङ्क्याह - ज्ञानिनां त्विति । प्रत्यगात्मनि स्वारसिकचलनासम्भवे प्रागुक्तं न्यायं स्मारयति - तथा चेति
॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 उक्तेऽर्थे बुभुत्सितं हेतुं वक्तुमुत्तरश्लोकमुत्थापयति - कस्मादिति । कस्मान्न कर्मसंन्यासादेव सिद्धिमधिगच्छतीति पूर्वेण सम्बन्धः । मिथ्याचारतामेव वर्णयति - कर्मेन्द्रियाणीति
॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मज्ञवदनात्मज्ञस्यापि तर्हि कर्माकुर्वतो न प्रत्यवायः, शरीरेन्द्रियसङ्घातं नियन्तुमसमर्थस्य मूर्खस्यापि संन्याससम्भवादित्याशङ्क्याह - यस्त्विति । तस्य चोदिताकरणं तच्छब्देन परामृश्यते - तदसदिति । मिथ्याचारत्वादिति भावः । अनात्मज्ञस्य चोदितमकुर्वतो जाग्रतो विषयान्तरदर्शनध्रौव्यात् मिथ्याचारत्वेन प्रत्यवायित्वमुक्त्वा विहितमनुतिष्ठतस्तस्यैव फलाभिलाषविकलस्य सदाचारत्वेन वैशिष्ट्यमाचष्टे - यस्त्विन्द्रियाणीति । विहितमनुतिष्ठतो, मूर्खात् कर्म त्यजतो वैशिष्ट्यमक्षरयोजनया स्पष्टयति - यस्तु पुनरिति
॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 उक्तमेव हेतुं भगवदनुमतिकथनेन स्फुटयति - कर्मेति । इतश्च त्वया कर्तव्यं कर्मेत्याह - शरीरेति । तन्नियत तस्याधिकृतस्येति सम्बन्धः । स्वर्गादिफले दर्शपूर्णमासादावधिकृतस्य तस्य तदपि नित्यं स्यादित्याशङ्क्य विशिनष्टि - फलायेति । नित्यं - नियमेन कर्तव्यमित्यत्र हेतुमाह - यत इति । हिशब्दोपात्तमुक्तमेव हेतुमनुवदति - यस्मादिति । करणस्य अकरणाज्ज्यायस्त्वं प्रश्नपूर्वकं प्रकटयति - कथमित्यादिना । सत्येव कर्मणि देहादिचेष्टाद्वारा शरीरं स्थातुं पारयति, तदभावे जीवनमेव दुर्लभं भवेदिति फलितमाह - अत इति
॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 कर्मानुष्ठायिनो वैशिष्ट्यमुपदिष्टमनूद्य तदनुष्ठानमधिकृतेन कर्तव्यमिति निगमयति - यत इति । फलाभिसन्धिमन्तरेण यज्ञार्थं कर्म कुर्वाणस्य बन्धाभावात् तादर्थ्येन कर्म कर्तव्यमित्याह - तदर्थमिति । यज्ञार्थं कर्मेत्ययुक्तं, नहि कर्मार्थमेव कर्मेत्याशङ्क्य, व्याचष्टे - यज्ञो वै विष्णुरिति । कथं तर्हि ‘कर्मणा बध्यते जन्तुः’ (म. भा. १२-२४१-७) इति स्मृतिः तत्राह - तस्मादिति । ईश्वरार्पणबुद्ध्या कृतस्य कर्मणो बन्धार्थत्वाभावे फलितमाह - अत इति
॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 ‘कर्मणा बध्यते जन्तुः’ (म. भा. १२-२४१-७) इति स्मृतेर्बन्धार्थं कर्म, तत्र श्रेयोऽर्थिना कर्तव्यमित्याशङ्कामनूद्य दूषयति - यच्चेत्यादिना । कर्माधिकृतस्य तदकरणमयुक्तमिति प्रतिज्ञातं प्रश्नपूर्वकं विवृणोति - कथमित्यादिना । कथं पुनरनेन यज्ञेन वृद्धिरस्माभिः शक्या कर्तुमित्याशङ्क्याह - एष इति
॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 नित्यस्य कर्मणो नैमित्तिकसहितस्य अधिकृतेन कर्तव्यत्वे हेत्वन्तरपरत्वेनानन्तरश्लोकमवतारयति - इतश्चेति । तत्र श्लोकेनोत्तरमाह - देवानिति ।
मुमुक्षुत्वबुभुक्षुत्वविभागेन श्रेयसि विकल्पः ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 कथं पुनरभीष्टफलविशेषहेतुत्वं यज्ञस्य विज्ञायते नहि देवताप्रसादादृते स्वर्गादिरभ्युदयो लभ्यते, नापि सम्यग्दर्शनमन्तरेण निश्श्रेयसं सेद्धुं पारयतीति शङ्कते - कथमिति । कथमस्माभिर्भाविताः सन्तो देवा भावयिष्यन्ति अस्मानिति, तदाह - इष्टानिति । यज्ञानुष्ठानेन पूर्वोक्तरीत्या स्वर्गापवर्गयोर्भावेऽपि, कथं स्त्रीपशुपुत्रादिसिद्धिरित्याशङ्क्य, पूर्वार्धं व्याकरोति - इष्टान् अभिप्रेतानिति । पश्वादिभिश्च यज्ञानुष्ठानद्वारा भोगो निर्वर्तनीयः, अन्यथा प्रत्यवायप्रसङ्गादित्युत्तरार्धं व्याचष्टे - तैरिति ।
आनृण्यमकृत्वा इत्यस्य अयमर्थः - देवानामृषीणां पितृणां च यज्ञेन ब्रह्मचर्येण प्रजया च सन्तोषमनापाद्य, स्वकीयं कार्यकरणसङ्घातमेव पोष्टुं भुञ्जानस्तस्करो भवतीति ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 इतश्चाधिकृतेन कर्म कर्तव्यमित्याह - किञ्चेति । तैर्दत्तानित्यादिनोक्तं निगमयति - भुञ्जत इति । देवयज्ञादीन् इति आदिशब्देन पितृयज्ञो मनुष्ययज्ञो भूतयज्ञो ब्रह्मयज्ञश्चेति चत्वारो यज्ञाः गृह्यन्ते । चुल्लीशब्देन पिठरधारणाद्यर्थक्रियां कुर्वन्तो विन्यासविशेषवन्तस्त्रयो ग्रावाणो विवक्ष्यन्ते । आदिशब्देन कण्डनी पेषणी मार्जनी उदकुम्भश्चेत्येते हिंसाहेतवो गृहीताः । तान्येतानि पञ्च, प्राणिनां सूनास्थानानि - हिंसाकारणानि, तत्प्रयुक्तैः सर्वैरपि बुद्ध्यबुद्धिपूर्वकदुरितैर्मुच्यन्त इति सम्बन्धः । प्रमादः - विचारव्यतिरेकेणाबुद्धिपूर्वकमुपनतं पादपातादिकर्म, तेन प्राणिनां हिंसा सम्भाव्यते । आदिशब्देनाशुचिसंस्पर्शादिगृहीतं, तदुत्थैश्च पापैर्महायज्ञकारिणो मुच्यन्ते । उक्तं हि ‘कण्डनं पेषणं चु्ल्ली उदकुम्भश्च मार्जनी ।पञ्च सूना गृहस्थस्य पञ्चयज्ञात् प्रणश्यति ॥ ‘ (मनुः - ३ -६८) इति । ‘पञ्च सूना गृहस्थस्य चुल्ली पेषण्यवस्करः । कण्डनी चैव (चोद) कुम्मश्च वध्यन्ते यांस्तु वाहयन्' इति च । अस्यायमर्थः - या यथोक्ताः पञ्चसङ्ख्याका गृहस्थस्य सूनास्ता यो वाहयन् - आपादयन् वर्तते, तेन प्राणिनो बुद्धिपूर्वकमबुद्धिपूर्वकं च वध्यन्ते । तत्प्रयुक्तं सर्वमपि पापं महायज्ञानुष्ठानात् प्रणश्यतीति महायज्ञानुष्ठानस्तुत्यर्थम् तदनुष्ठानविमुखान् निन्दति - ये त्विति । आत्मम्भरित्वमेव स्फोरयति - ये पचन्तीति । स्वदेहेन्द्रियपोषणार्थमेव पाकं कुर्वतां देवयज्ञादिपराङ्मुखानां पापभूयस्त्वं दर्शयति - भुञ्जत इति ।
पाठक्रमस्त्वर्थक्रमादपबाधनीयः ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 देवादिभ्यः संविभागमकृत्वा भुञ्जानानां प्रत्यवायित्वमुक्त्वा, तदन्येषां सर्वदोषराहित्यं दर्शयति - ये पुनरिति । यज्ञशिष्टाशिनो ये पुनस्ते तादृशाः सन्तः सर्वकिल्बिषैर्मुच्यन्त इति योजना । उक्तेऽर्थे स्मृत्यन्तरं संवादयति - अग्नाविति । तत्र हि देवताभिध्यानपूर्वकं तदुद्देशेन प्रहिताहुतिरपूर्वतां गता रश्मिद्वारेणादित्यमारुह्य, वृष्ट्यात्मना पृथिवीं प्राप्य, व्रिहियवाद्यन्नभावमापद्य, संस्कृतोपभुक्ता शुक्रशोणितरूपेण परिणता प्रजाभावं प्राप्नोतीत्यर्थः । ‘यज्ञः कर्मसमुद्भवः’ (भ. गी. ३-१४) इत्ययुक्तं, स्वस्यैव स्वोद्भवे कारणत्वायोगादित्याशङ्क्याह - ऋत्विगिति ।
द्रव्यदेवतयोः सङ्ग्राहकश्चकारः ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 देवयज्ञादिकं कर्माधिकृतेन कर्तव्यमित्यत्र हेत्वन्तरमितःशब्दोपात्तमेव दर्शयति - जगदिति । ननु भुक्तमन्नं रेतोलोहितपरिणतिक्रमेण प्रजारूपेण जायते, तच्चान्नं वृष्टिसम्भवं प्रत्यक्षदृष्टं, तत् कथं कर्मणो जगच्चक्रप्रवर्तकत्वमिति शङ्कते - कथमिति । पारम्पर्येण कर्मणस्तद्धेतुत्वं साधयति - उच्यत इति । किमिति कर्मणो ब्रह्मोद्भवत्वमुच्यते सर्वस्य तदुद्भवत्वाविशेषादित्याशङ्क्याह - ब्रह्म वेद इति । ब्रह्म तर्हि वेदाख्यमनादिनिधनमिति, तत्राह - ब्रह्म पुनरिति । अक्षरात्मनो वेदस्य पुनरक्षरेभ्यः सकाशादेव समुद्भवो न सम्भवतीत्याशङ्क्याह - अक्षरमिति । ब्रह्मेत्यक्षरमेवोक्तं, तत् कथं तस्मादेवोद्भवतीत्याशङ्क्य, ब्रह्मशब्दार्थमुक्तमेव स्मारयति - ब्रह्म वेद इति । ननु ब्रह्मशब्दितस्य वेदस्यापि पौरुषेयत्वात् प्रामाण्यसन्देहात् कथं तदुक्तमग्निहोत्रादिकं कर्म निर्धारयितुं शक्यते तत्राह - यस्मादिति । कथं तर्हि तस्य यज्ञे प्रतिष्ठितत्वं सर्वगतत्वे विशेषायोगादित्याशङ्क्याह - सर्वगतमपीति
॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 यत् अपूर्वहेतुत्वेन कर्मोक्तं, तत् किं चैत्यवन्दनादि किं वाऽग्निहोत्रादीति सन्दिहानं प्रत्याह - कर्मेति । अधिकृतेन अध्ययनादिद्वारा जगच्चक्रमनुवर्तनीयम् , अन्यथेश्वराज्ञातिलङ्घिनस्तस्य प्रत्यवायः स्यादित्याह - एवमिति । ‘न कर्मणामनारम्भात्’ (भ. गी. ३-४) इत्यादिनोक्तमुपसंहरति - तस्मादिति । जगच्चक्रस्य प्रागुक्तप्रकारेणानुवर्तने वृथा जीवनमघसाधनं यस्मात् तस्माज्जीवता नियतं कर्म कर्तव्यमित्यर्थः । यद्यधिकृतेन कर्तव्यमेव कर्म, तर्हि किमिति अज्ञेनेति विशिष्यते ज्ञाननिष्टेनापि तत् कर्तव्यमेवाधिकृतत्वाविशेषादित्याश्ङ्क्य, पूर्वोक्तमनुवदति - प्रागिति । नहि ज्ञानकर्मणोर्विरोधाज्ज्ञाननिष्ठेन कर्म कर्तुं शक्यते । तथा चानात्मज्ञेनैव चित्तशुद्ध्यादिपरम्परया ज्ञानार्थं कर्मानु्ष्ठेयमिति प्रतिपादितमित्यर्थः । तर्हि ‘यज्ञार्थात्’ (भ. गी. ३-९) इत्यादि किमर्थं, नहि तत्र ज्ञाननिष्ठा प्रतिपाद्यते, कर्मनिष्ठा तु पूर्वमेवोक्तत्वान्नात्र वक्तव्येत्याशङ्क्य, वृत्तमर्थान्तरमनुवदति - प्रतिपाद्येति । प्रासङ्गिकम् - अज्ञस्य कर्मकर्तव्यतोक्तिप्रसङ्गादागतमिति यावत् । बहुकारणम् - ईश्वरप्रसादो देवताप्रीतिश्चेत्यादि । दोषसङ्कीर्तनं - ‘तैर्दत्तान् अप्रदाय’ (भ. गी. ३-१२)
इत्यादि ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मनिष्ठस्य विषयसङ्गराहित्यं दृष्टं, तदनात्मज्ञेन जिज्ञासुना कर्तव्यमिति मत्वाऽऽह - यस्तु साङ्ख्य इति । किञ्च, आत्मज्ञस्य ज्ञानेनात्मनैव परितृप्तत्वात् नान्नपानादिना साध्या तृ्प्तिरिष्टा । तेन विद्यार्थिना संन्यासिनाऽपि नान्नरसादौ आसक्तिर्युक्ता कर्तुमित्याह - आत्मतृप्त इति । किञ्चात्मविदः सर्वतो वैतृष्ण्यं दृष्टं, तदनात्मविदा विद्यार्थिना कर्तव्यमित्याह - आत्मन्येवेति । रतितृप्तिसन्तोषाणां मोदप्रमोदानन्दवत् अवान्तरभेदः । अथवा रतिर्विषयासक्तिः, तृप्तिर्विषयविशेषसम्पर्कजं सुखं, सन्तोषोऽभीष्टविषयमात्रलाभाधीनं सुखसामान्यमिति भेदः । ननु आत्मरतेरात्मतृप्तस्यात्मन्येव सन्तुष्टस्यापि किञ्चित् कर्तव्यं मुक्तये भविष्यतीति, नेत्याह - य ईदृश इति
॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 वृत्तमर्थमेवं विभज्यानूद्य अनन्तरश्लोकमाशङ्कोत्तरत्वेनावतारयति - एवमिति । अर्जुनस्य प्रश्नमित्येवमर्थमाशङ्क्याह भगवानिति सम्बन्धः । नन्वेषा आशङ्का नावकाशमासादयति, अनात्मज्ञेन कर्तव्यं कर्मेति बहुशो विशेषितत्वादित्याशङ्क्याह - स्वयमेवेति । किमर्थं श्रुत्यर्थं स्वयमेव भगवानत्र प्रतिपादयतीत्याशङ्क्याह - शास्त्रार्थस्येति । गीताशास्त्रस्य ससंन्यासं ज्ञानमेव मुक्तिसाधनमर्थः, नार्थान्तरमिति विवेकार्थमिह श्रुत्यर्थं कीर्तयतीत्यर्थः । तमेव श्रुत्यर्थं सङ्क्षिपति - एतमिति । सिद्धं चेदात्मवेदनम् , अनर्थकं तर्हि व्युत्थानादि, इत्याशङ्क्यापातिकविज्ञानफलमाह - निवृत्तेति । ब्राह्मणग्रहणं तेषामेव व्युत्थाने मुख्यमधिकारित्वमिति ज्ञापनार्थम् । क्लेशात्मकत्वात् एषणानां ताभ्यो व्युत्थानं सर्वेषां स्वाभाविकत्वात् अविधित्सितमित्याशङ्क्याह - मिथ्येति । ‘भिक्षाचर्यं चरन्ति’ (बृ. उ. ३-५-१) इति वचनं व्युत्थानविरुद्धमित्याशङ्क्याह - शरीरेति । तर्हि तद्वदेव तेषामग्निहोत्रादि अपि कर्तव्यमापद्येत, इत्याशङ्क्य, व्युत्थायिनामाश्रमधर्मवदग्निहोत्रादेरनुष्ठापकाभावाद् मैवमित्याह - न तेषामिति । यथोक्तं श्रुत्यर्थमस्मिन् गीताशास्त्रे पौर्वापर्येण पर्यालोच्यमाने प्रतिपादयितुमिष्टं प्रकटीकुर्वन् कर्तव्यमेव कर्म जीवतेति नियमे ‘ज्ञानयोगेन साङ्ख्यानाम्’ (भ. गी. ३-३) इति कथमुक्तमिति परिचोद्यपरिहारमुदर्शयतीत्याह - इत्येवमिति । अभ्युदयनिःश्रेयसयोरन्यतरत् प्रयोजनं कृतेन -सुकृतेनात्मविदो भविष्यतीत्याशङ्क्याह - नैवेति । प्रत्यवायनिवृत्तये स्वरूपप्रच्युतिप्रत्याख्यानाय वा कर्म स्यादित्याशङ्क्याह - नेत्यादिना । ब्रह्मादिषु स्थावरान्तेषु भूतेषु कञ्चिद् भूतविशेषमाश्रित्य कश्चिदर्थो विदुषः साध्यो भविष्यति, तदर्थं तेन कर्तव्यं कर्मेत्याशङ्क्याह - नचेति । तत्राद्यं पादमादत्ते - नैवेति । तं व्याचष्टे - तस्येति । आत्मविदः स्वर्गाद्यभ्युदयानर्थित्वात् निःश्रेयसस्य च प्राप्तत्वान्न कृतं - कर्मार्थवदित्यर्थः । आत्मविदा चेत् कर्म न क्रियते, तर्हि तेनाकृतेन तस्यानर्थो भविष्यतीति तत्प्रत्याख्यानार्थं तस्य कर्तव्यं कर्मेति शङ्कते - तर्हीति । द्वितीयपादेनोत्तरमाह - नेत्यादिना । अतो न तन्निवृत्त्यर्थं कृतमर्थवदिति शेषः । द्वितीयं भागं विभजते - नचास्येति । व्यपाश्रयणम् - आलम्बनं, नेति सम्बन्धः । पदार्थमुक्त्वा वाक्यार्थमाह - कञ्चिदिति । भूतविशेषस्याश्रितस्यापि क्रियाद्वारा प्रयोजनप्रसवहेतुत्वमिति मत्वाऽऽह - येनेति । तर्हि मयाऽऽपि यथोक्तं तत्त्वमाश्रित्य त्याज्यमेव कर्मेत्यर्जुनस्य मतमाशङ्क्याह - न त्वमिति
॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 इतश्चात्मविदो न किञ्चित् कर्तव्यमित्याह - किञ्चेति । मोक्षमेवापेक्षमाणस्य कथं कर्मणि फलन्तरवति नियोगः स्यादित्यशङ्क्याह - असक्तो हीति
॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 सम्यग्ज्ञाननिष्ठत्वाभावे कर्मानुष्ठानमावश्यकमित्याह - यत इति । तस्मात्-ज्ञाननिष्ठाराहित्यादिति यावत् । इतोऽपि त्वया विहितं कर्म कर्तव्यमित्याह - लोकेति
॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 यद्यपि जितन्द्रियोऽपि विवेकी श्रवणादिभिरजस्रं ब्रह्मणि निष्ठातुं शक्नोति, तथाऽपि क्षत्रियेण त्वया विहितं कर्म न त्याज्यमित्याह - यस्माच्चेति । तस्मात् त्वमपि कर्म कर्तुमर्हसीति सम्बन्धः । श्रेष्ठानुसारित्वमितरेषामाचारे दर्शयित्वा, प्रतिपत्तावपि दर्शयति - किञ्चेति
॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानवता कृतार्थेन लोकसङ्ग्रहार्थमपि न प्रवर्तितव्यमित्याशङ्कामुत्थाप्य, परिहरति - लोकेत्यादिना । श्रुताध्ययनसम्पन्नत्वेनाभिमतो यद्यद् - विहितं प्रतिषिद्धं वा कर्मानुतिष्ठति, तत्तदेव प्राकृतो जनोऽनुवर्तते । तेन विद्यावताऽपि लोकमर्यादास्थापनार्थं विहितं कर्म कर्तव्यमित्यर्थः । अप्राप्तस्य प्राप्तये तवापि कर्तृत्वसम्भवाद् न किञ्चिदपि विद्यते कर्तव्यमिति कथमुक्तमित्याशङ्क्याह - नानवाप्तमिति । प्रतीकमुपादाय व्याख्यानद्वारा विद्यावतोऽपि कर्मप्रवृत्तिं सम्भावयति - नेत्यादिना । अन्वयार्थं पुनर्नञोऽनुवादः । भगवतो नास्ति कर्तव्यमित्येतदाकाङ्क्षाद्वारा स्फोरयति - कस्मादित्यादिना । प्रयोजनाभावे त्वयाऽपि नानुष्ठेयं कर्मेत्याशङ्क्य लोकसङ्ग्रहार्थं ममापि कर्मानुष्ठानमिति मत्वाऽऽह - तथापीति ।
॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 कृतार्थस्यापि लोकसङ्ग्रहार्थं विहितं कर्म कर्तव्यमित्युक्त्वा, तत्रैव भगवन्तमुदाहरणत्वेनोपन्यस्यति - यदीत्यादिना । लोकसङ्ग्रहोऽपि न ते कर्तव्यो विफलत्वादित्याशङ्क्याह - यदि हीति
॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 श्रेष्ठस्य तव मार्गानुवर्तित्वं मनुष्याणामुचितमेवेत्याशङ्क्य, दूषयति - तथाचेत्यादिना । ईश्वरस्य कर्मण्यप्रवृत्तौ तदनुवर्तिनामपि कर्मानुपपत्तेरिति हेतुमाह - लोकस्थितीति । इतश्चेश्वरेण कर्म कर्तव्यमित्याह - किञ्चेति । यदि कर्म न कुर्यामिति शेषः । सङ्करकरणस्य कार्यं कथयति - तेनेति । प्रजोपहतिः परिप्राप्यते चेत् , किं तया तव स्यादिति, तत्राह - प्रजानामिति
॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 दृष्टान्तदार्ष्टान्तिकरूपं श्लोकं व्याकरोति - सक्ता इत्यादिना ।
असक्तः सन् कर्तृत्वाभिमानं फलभिसन्धिं वा कुर्वन्निति यावत् ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 त्वामनाचरन्तमनुवर्ततां सर्वेषां को दोषः स्यात् इत्यपेक्षायामीश्वरस्य कृतार्थतया कर्मानुष्ठानाभावे तदनुवर्तिनामपि तदभावादेव स्थितिहेत्वभावात् , पृथिव्यादिभूतानां विनाशप्रसङ्गाद् वर्णाश्रमधर्मव्यवस्थानुपपत्तेश्चाधिकृतानां प्राणभृतां पापोपहतत्वप्रसङ्गात् परानुग्रहार्थं प्रवृ्त्तिरीश्वरस्येत्युक्तम् । सम्प्रति लोकसङ्ग्रहाय कर्म कुर्वाणस्य कर्तृत्वाभिमानेन ज्ञानाभिभवे प्राप्ते, प्रत्याह - यदि पुनरिति । कृतार्थबुद्धित्वे हेतुमाह - आत्मविदिति । यथावदात्मानमवगच्छन् कर्तृत्वाद्यभिमानाभावात् कृतार्थो भवत्येवेत्यर्थः । अर्जुनादन्यत्रापि ज्ञानवति कृतार्थबुद्धित्वं कर्तव्यत्वाद्यभिमानहीने तुल्यमित्याह - अन्यो वेति । तस्य तर्हि कर्मानुष्ठानमफलत्वात् अनवकाशमित्याशङ्क्याह - तस्यापीति । >कर्तव्य इति आत्मविदाऽपि परानुग्रहाय कर्तव्यमेव कर्मेति, आहेति शेषः । पूर्वार्धमेवं व्याख्यायोत्तरार्धं प्रश्नपूर्वकमवतार्य व्याचष्टे - किं नु कुर्यादिति । सर्वकर्माणि कारयेत् , तेषु प्रीतिं कुर्वन्निति शेषः । कथं कारयेदित्याकाङ्क्षायामाह - तदेवेति
॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 वृत्तमनूद्योत्तरश्लोकमवतारयति - एवमिति । कर्तव्यं,कर्मेति शेषः । कर्तृत्वमात्मनः अवास्तवम् इत्यभ्युपगमाद् विद्वान् कथं कुर्वन्नेव तस्याभावं पश्यतीत्याशङ्क्याह - प्रकृतेरिति । कर्मसु अविदुषः सक्तिप्रकारं प्रकटयन् व्याकरोति - प्रकृतेरित्यादिना ।
प्रधान शब्देन मायाशक्तिरुच्यते । अविद्ययेत्युभयतः सम्बध्यते ॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 ‘अज्ञानां कर्मसङ्गिनाम्’ (भ. गी. ३-२६) इत्युक्तं ; तेनोत्तरश्लोकस्य सङ्गतिमाह - अविद्वानिति । तुशब्देनाज्ञाद् विशिष्टे निर्दिष्ठप्रश्नपूर्वकं द्वितीयपादमवतार्य व्याचष्टे - कस्येत्यादिना । गुणानामेव गुणेषु वर्तमानत्वमयुक्तं, निर्गुणत्वात् तेषामित्याशङ्क्य विभजते - गुणा इति ।
कार्यकरणानामेव विषयेषु प्रवृत्तिः, आत्मनस्तु कूटस्थत्वात् मैवमिति ज्ञात्वा, तत्त्ववित् कर्मसु दृढतरं कर्तव्याभिमानं न करोतीत्यर्थः ॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 अज्ञस्य कर्मसु सक्तिमुक्त्वा विदुषस्तदभावमभिदधाति - यः पुनरिति । तत्त्वं याथार्थ्यं वेत्तीति व्युत्पत्त्या तत्त्वविदिति । गुणानां - तेषामेव देहादीनां कर्मसु -व्यापारेषु, सज्जन्ते - सक्तिं दृढतरामात्मीयबुद्धिं कुर्वन्तीत्याह - प्रकृतेरित्यादिना । तेषामनात्मविदां स्वयमात्मविद् बुद्धिभेदं नापादयेदित्याह - तानित्यादिना
॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 विद्वान् अविद्वानित्युभावपि प्रकृत्य, विद्वानविदुषो बुद्धिभेदं न कुर्यादित्युपसंहरति - ये पुनरिति । प्रकृतेरुक्तगुणैर्देहादिभिर्विकारैः संमूढाः - तानेव आत्मत्वेन मन्यमाना ये ते । यथोक्ते परस्मिन्नात्मनि सर्वकर्मणां समर्पणे कारणमाह - अध्यात्मेति । विवेकबुद्धिमेव व्याकरोति - अहमिति । दर्शितरीत्या कर्मसु प्रवृत्तस्य कर्तव्यान्तरमाह - किञ्चेति । त्यक्ताशीः फलप्रार्थनाहीनः सन्नित्यर्थः । निर्ममोभूत्वा , पुत्रभ्रात्रादिष्विति शेषः । ननु युद्धे नियोगो नोपपद्यते, पुत्रभ्रात्रादिहिंसात्मनस्तस्य सन्तापहेतोर्नियोगविषयत्वायोगादिति, तत्राह - विगतेति
॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 यद्यपि कर्मण्यज्ञोऽधिक्रियते, तथाऽपि मोक्षमाणेन तेन कर्म त्यक्तव्यं, मोक्षस्य कर्मासाध्यत्वात् , न तु तेन कर्म कर्तुं शक्या, कर्मणः स्वापेक्षितविरोधित्वादिति शङ्कते - कथमिति । श्लोकेनोत्तरमाह - उच्यत इति । प्रकृतं भगवतो मतमुक्तप्रकारमनुसृत्यैवानुतिष्ठतां क्रममुक्तिफलं कथयति - यदेतदिति ।
शास्त्राचार्योपदिष्टेऽदृष्ठार्थे विश्वासवत्त्वं - श्रद्दधानत्वम् । गुणेषु दोषाविष्करणम् - असूया । अपिर्यथोक्ताया मुक्तेरमुख्यत्वद्योतनार्थः ॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 भगवन्मताननुवर्तिनां प्रत्यवायित्वं प्रत्याययति - ये त्विति । तद्विपरीतत्वं भगवन्मतानुवर्तिभ्यो वैपरीत्यम् । तदेव दर्शयति - एतदित्यादिना ।
अभ्यसूयन्तः - तत्रासन्तमपि दोषमुद्भावयन्त इत्यर्थः । सर्वज्ञानानि - सगुणनिर्गुणविषयाणि । प्रमाणप्रमेयप्रयोजनविभागतो विविधत्वम् ॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】 उत्तरत्वेन श्लोकमवतारयति - सदृशमिति । तत्राहेति । सर्वस्य प्राणिवर्गस्य प्रकृतिवशवर्तित्वे कैमुतिकन्यायं सूचयति - ज्ञानवानपीति । सर्वाण्यपि भूतानि अनिच्छन्त्यपि प्रकृतिसदृशीं चेष्टां गच्छन्तीति निगमयति - प्रकृतिमिति । भूतानां प्रकृत्यधीनत्वेऽपि, प्रकृतिर्भगवता निग्राह्येत्याशङ्क्याह - निग्रह इति । का पुनरियं प्रकृतिः यदनुसारिणी भूतानां चेष्टेति पृच्छति - प्रकृतिर्नामेति । भगवदभिप्रेतां प्रकृतिं प्रकटयति - पूर्वेति । आदिशब्देन ज्ञानेच्छादि सङ्गृह्यते । यथोक्तः संस्कारः स्वसत्तया प्रवर्तकश्वेत् , प्रलयेऽपि प्रवृत्तिः स्यादित्याशङ्क्य, विशिनष्टि - वर्तमानेति । सर्वो जन्तुरित्ययुक्तं, विवेकिप्रवृत्तेरतथात्वादित्याशङ्क्य, ‘पश्वादिभिश्चाविशेषात्’ इति न्यायमनुसरन्नाह - ज्ञानवानिति । ज्ञानवतामज्ञानवतां च प्रकृत्यधीनत्वाविशेषे फलितमाह - तस्मादिति । प्रकृतिं यान्ति- प्रकृतिसदृशीं चेष्टां गच्छन्ति, अनिच्छन्त्यपि सर्वाणि भूतानीत्यर्थः । प्रकृतेर्भगवता तत्तुल्येन वा केनचिन्निग्रहमाशङ्क्य अवतारितचतुर्थपादस्यार्थापेक्षितं पूरयति - मम वेति
॥ ३३ ॥ 【भाष्यम्】 【भाष्यम्】 भगवन्मतानुवर्तनमन्तरेण परधर्मानुष्ठाने स्वधर्माननुष्ठाने च कारणं पृच्छति - कस्मादिति । भगवत्प्रतिकूलत्वमेव तत्र कारणमित्याशङ्क्याह - त्वत्प्रतिकूला इति । राजानुशासनातिक्रमे दोषदर्शनाद् भगवदनुशासनातिक्रमेऽपि दोषसम्भवात् प्रतिकूलत्वं भयकारणमित्यर्थः । वीप्सायाः सर्वकरणागोचरत्वं दर्शयति - सर्वेति । प्रत्यर्थं रागद्वेषयोरव्यवस्थायाः प्राप्तौ प्रत्यादिशति - इष्ट इति । प्रतिविषयं विभागेन तयोरन्यतरस्यावश्यकत्वेऽपि पुरुषकारविषयाभावप्रयुक्त्या प्रागुक्तं दूषणं कथं समाधेयमित्याशङ्क्याह - तत्रेति । तयोरित्याद्यवतारितं भागं विभजते - शास्त्रार्थ इति । प्रकृतिवशत्वात् जन्तोर्नैव नियोज्यत्वमित्याशङ्क्याह - या हीति । रागद्वेषद्वारा प्रकृतिवशवर्तित्वे स्वधर्मत्यागादि दुर्वारमित्युक्तम् , इदानीं विवेकविज्ञानेन रागादिनिवारणे शास्त्रीयदृष्ट्या प्रकृतिपारवश्यं परिहर्तुं शक्यमित्याह - यदेति । मिथ्याज्ञाननिबन्धनौ हि रागद्वेषौ । तत्प्रतिपक्षत्वं विवेकविज्ञानस्य मिथ्याज्ञानविरोधित्वादवधेयम् । रागद्वेषयोर्मूलनिवृत्त्या निवृत्तौ प्रतिबन्धध्वंसे कार्यसिद्धिमभिसन्धायोक्तं - तदेति । एवकारस्यान्ययोगव्यवच्छेदकत्वं दर्शयति - नेति । पूर्वोक्तं नियोगमुपसंहरति - तस्मादिति । तत्र हेतुमाह - यत इति । हिशब्दोपात्ताो हेतुर्यत इति प्रकटितः । स च पूर्वेण तच्छब्देन सम्बन्धनीयः । पुरुषपरिपन्थित्वमेव तयोः सोदाहरणं स्फोरयति - श्रेयोमार्गस्येति
॥ ३४ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वस्य भूतवर्गस्य प्रकृतिवशवर्तित्वे लौकिकवैदिकपुरुषकारविषयाभावात् विधिनिषेधानर्थक्यमितिशङ्कते - यदीति । ननु यस्य न प्रकृतिरस्ति, तस्य पुरुषकारसम्भवादर्थवत्त्वं तद्विषये विधिनिषेधयोर्भविष्यति, नेत्याह - नचेति । शङ्कितदोषं श्लोकेन परिहरति - इदमित्यादिना । क्षत्रधर्माद् युद्धाद् दुरनुष्ठानात् परिव्राड्धर्मस्य भिक्षाशनादिलक्षणस्य स्वनुष्ठेयतयाऽपि कर्तव्यत्वं प्राप्तमित्याशङ्क्य, व्याचष्टे - श्रेयानिति । उक्तेऽर्थे प्रश्नपूर्वकं हेतुमाह - कस्मादित्यादिना ।
स्वधर्ममवधूय परधर्ममनुतिष्ठतः स्वधर्मातिक्रमकृतदोषस्य दुष्परिहरत्वान्न तत्त्यागः साधीयानित्यर्थः ॥ ३५ ॥ 【भाष्यम्】 【भाष्यम्】 रागद्वेषयोः श्रेयोमार्गप्रतिपक्षत्वं प्रकटयितुं परमतोपन्यासद्वारा समनन्तरश्लोकमवतारयति - तत्रेत्यादिना । व्यवहारभूमिः सप्तम्यर्थः । शास्त्रार्थस्यान्यथाप्रतिपत्तिमेव प्रत्याययति - परधर्मोऽपीति । स्वधर्मवदित्यप्यर्थः । अनुमानं दूषयन्नुत्तरत्वेन श्लोकमुत्थापयति - तदसदिति । वाक्यारम्भार्थत्वमथशब्दस्य गृहीत्वा, प्रश्नवाक्यं व्याकरोति - अथेत्यादिना । अनिच्छतोऽपि बलादेव दुश्चरितप्रेरितत्वे दृष्टान्तमाचष्टे - राज्ञेवेति । विनियोज्यत्वस्येच्छासापेक्षत्वात् तदभावे तदसिद्धिमाशङ्क्य, प्रागुक्तं स्मारयति - राज्ञेवेत्युक्त इति
॥ ३६ ॥ 【भाष्यम्】 【भाष्यम्】 प्रागेवानर्थमूलस्योक्तत्वात् पुनस्तज्जिज्ञासया प्रश्नानुपपत्तिः - इत्याशङ्क्याह - यद्यपीति । विक्षिप्तं- विविधेषु प्रदेशेषु क्षिप्तं, दर्शितमिति यावत् । अनवधारितम्, अनेकत्रोक्तात्वादनेकधा अविवेककामादिभिर्विकल्पितत्वादित्यर्थः । नन्वनर्थमूलं परिहर्तव्यं, तत्किमिति ज्ञातुमिष्यते तत्राह - ज्ञाते हीति । कुर्यामिति । तज्ज्ञानमर्थवदिति शेषः । भगवच्छब्दार्थं निर्धारयितुं पौराणिकं वचनमुदाहरति - ऐश्वर्यस्येति । समग्रस्येत्येतत् प्रत्येकं विशेषणैः सम्बध्यते । अथ शब्दस्तथाशब्दपर्यायः समुच्चयार्थः । मोक्षशब्देन तदुपायो ज्ञानं विवक्ष्यते । उदाहृतवचसस्तात्पर्यमाह - ऐश्वर्यादीति । स वाच्यो भगवानिति सम्बन्धः । तत्रैव पौराणिकं वाक्यान्तरं पठति - उत्पत्तिमिति । भृतानामिति प्रत्येकमुत्पत्त्यादिभिः सम्बध्यते । कारणार्थौ च उत्पत्तिप्रलयशब्दौ । क्रियामात्रस्य पुरुषान्तरगोचरत्वसम्भवात् । आगतिर्गतिश्चेत्यागामिन्यौ सम्पदापदौ सूच्येते । वाक्यान्तरस्यापि तात्पर्यमाह - उत्पत्त्यादीति । वेत्तीत्युक्तः साक्षात्कारो विज्ञानमित्युच्यते । समग्रैश्वर्यादिसम्पत्तिसमुच्चयार्थश्चकारः । उक्तलक्षणो भगवान् किमुक्तवानिति, तदाह - काम इति । कामस्य सर्वलोकशत्रुत्वं विशदयति - यन्निमित्तेति । तथाऽपि कथं तस्यैव कोधत्वं, तदाह - स एष इति । कामक्रोधयोरेव हेयत्वद्योतनार्थं कारणं कथयति - रजोगुणेति । कारणद्वारा कामादेरेव हेयत्वमुक्त्वा, कार्यद्वाराऽपि तस्य हेयत्वं सूचयति - रजोगुणस्येति । कामस्य पुरुषप्रवर्तकत्वमेव, न रजोगुणजनकत्वम् , इत्याशङ्क्याह - कामो हीति । तत्रैवानुभवानुसारिणीं लोकप्रसिद्धि प्रमाणयति - तृष्णया हीति । तस्य योग्यायोग्यविभागमन्तरेण बहुविषयत्वं दर्शयति - महाशन इति । बहुविषयत्वप्रयुक्तं कर्म निर्दिशति - अत इति । सर्वविषयत्वेऽस्य पापत्वमित्याशङ्क्याह - कामेनेति । कामस्योक्तविशेषणवत्त्वे फलितमाह - अत इति
॥ ३७ ॥ 【भाष्यम्】 【भाष्यम्】 सम्प्रति प्रतिवचनं प्रस्तौति - श्रृण्विति । तस्य वैरित्वं स्फोरयति - सर्वेति । अप्रस्तुतं किमिति प्रस्तूयते तत्राह - यं त्वमिति । सहजस्य धूमस्य प्रकाशात्मकवह्निं प्रति आवरकत्वसिद्ध्यर्थं विशिनष्टि - अप्रकाशात्मकेनेति
॥ ३८ ॥ 【भाष्यम्】 【भाष्यम्】 उत्तरश्लोकमवतास्यति - कथमिति । अनेकदृष्टान्तोपादानं प्रतिपत्तिसौकर्यार्थम् । प्रतीकमादाय व्याकरोति - आवृतमित्यादिना । ज्ञानिनां प्रति वैरित्वेऽपि, नित्यवैरित्वं कामस्य कथमित्याशङ्क्याह - ज्ञानी हीति । अनर्थप्राप्तिमन्तरेण कामस्य प्रसङ्गावस्था पूर्वमेवेत्युच्यते । अतः शब्देन कामप्रसक्तिरेव परामृश्यते । नित्यमेवेत्युत्पत्त्यवस्था च कामस्य कथ्यते । ननु सर्वस्यापि कामात्मता ऩ प्रशस्तेति कामो नित्यवैरी भवति, ततः कुतो ज्ञानिविशेषणमित्याशङ्क्याह - न त्विति । अज्ञस्य नासौ नित्यवैरीत्येतदुपपादयति - स हीति । कार्यप्राप्तिप्रागवस्था पूर्वमित्युक्ता । अज्ञम्प्रति वैरित्वे सत्यपि कामस्य नित्यवैरित्वाभावे फलितमाह - अत इति । स्वरूपतो नित्यवैरित्वाविशेषेऽपि ज्ञानाज्ञानाभ्यामवान्तरभेदसिद्धिरित्यर्थः । आकाङ्क्षाद्वारा प्रकृतं वैरिणमेव स्फोरयति - किंरूपेणेत्यादिना
॥ ३९ ॥ 【भाष्यम्】 【भाष्यम्】 सामान्यतो निर्दिष्टं विशेषतो निर्देष्टुमाकाङ्क्षापूर्वकमनन्तरश्लोकमवतारयति - किं पुनरिति । कामस्य ज्ञानं प्रति आवरणसिद्ध्यर्थं ज्ञानिनो नित्यवैरिणेत्यादिविशेषणम् । कामस्य नित्यवैरित्वेन परिजिहीर्षितस्य किमित्यधिष्ठानं ज्ञाप्यते, तत्राह - इन्द्रियादिभिरिति
॥ ४० ॥ 【भाष्यम्】 【भाष्यम्】 कामस्य निराश्रयस्य कार्यकारकत्वाभावं मत्वा प्रश्नपूर्वकमाश्रयं दर्शयति - किमधिष्ठान इति । पापमूलतया कामस्य तच्छब्दवाच्यत्वमुन्नेयम् । कामस्य परित्याज्यत्वे वैरित्वं हेतुं साधयति - ज्ञानेति । ज्ञानविज्ञानशब्दयोरर्थभेदमावेदयति - ज्ञानमित्यादिना
॥ ४१ ॥ 【भाष्यम्】 【भाष्यम्】 तेषां कामाश्रयत्वे सिद्धे, साश्रयस्य तस्य परिहर्तव्यत्वमाह - यत इति । तस्मात् - इन्द्रियादीनामाश्रयत्वादिति यावत् । पूर्वं - कामनिरोधात् प्रागवस्थायामित्यर्थः । तेषु नियमितेषु मनोबुद्ध्योर्नियमः सिध्यति, तत्प्रवृत्तेरितरप्रवृत्तिव्यतिरेकेणाफलत्वादिति भावः । किमपेक्षया तेषां परत्वं तत्राह - देहमिति । तथाऽपि केन प्रकारेण परत्वं तदाह - सौक्ष्म्येति । आदिशब्देन कारणत्वादि गृह्यते । इन्द्रियापेक्षया सूक्ष्मत्वादिना मनसः स्वरूपोक्तिपूर्वकं परत्वं कथयति - तथेति । मनसि दर्शितं न्यायं बुद्धावतिदिशति - तथा मनसस्त्विति । ‘यो बुद्धेः’ (भ. गी. ३-४२) इत्यादि व्याचष्टे - तथेत्यादिना । आत्मनो यथोक्तविशेषणस्याप्रकृतत्वमाशङ्क्याह - यं देहिनमिति
॥ ४२ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वोक्तमनूद्य कामत्यागस्य दुष्करत्वं मन्वानो ‘रसोऽप्यस्य’ (भ. गी. २-५९) इत्यत्रोक्तमेव स्पष्टीकर्तुं प्रश्नपूर्वकं श्लोकान्तरमवतारयति - इन्द्रियाणीत्यादिना । पञ्चेति । ज्ञानेन्द्रियवत् । कर्मेन्द्रियाण्यपि वागादीनि गृह्यन्ते । इन्द्रियादिसमाधानपूर्वकमात्मज्ञानात् कामजयो भवतीत्युपसंहरति - एवमित्यादिना । संस्कृतं मनो मनः समाधाने हेतुरिति सूचयति - संस्तभ्येति । प्रकृतं शत्रुमेव विशिनष्टि - कामरूपमिति । तस्य दुरासदत्वे हेतुमाह - दूर्विज्ञेयेति ।
अनेकविशेषोऽतादृशो महाशनत्वादिः, तदनेनोपायभूता कर्मनिष्ठा प्राधान्येनोक्ता, उपेया तु ज्ञाननिष्ठा गुणत्वेनेति विवेक्तव्यम् ॥ ४३ ॥ 【भाष्यम्】 【भाष्यम्】
तत्सत् इति श्रीमत्परमहंसपरिव्राजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानकृते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने तृतीयोऽध्यायः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 गुरुशिष्यपरम्परोपन्यासमेवानुक्रामति - इममिति । इममित्यस्य सन्निहितं विषयं दर्शयति - अध्यायेति । योगं - ज्ञाननिष्ठालक्षणं, कर्मयोगोपायलभ्यमित्यर्थः । स्वयम् अकृतार्थानां प्रयोजनव्यग्राणां परार्थप्रवृत्त्यसम्भवाद् भगवतस्तथाविधप्रवृत्तिदर्शनात् कृतार्थता कल्पनीयेत्याह - विवस्वत इति । अव्ययवेदमूलत्वादव्ययत्वं योगस्य गमयितव्यम् । किमिति भगवता कृतार्थेनापि योगप्रवचनं कृतमिति, तदाह - जगदिति । कथं यथोक्तेन योगेन क्षत्रियाणां बलाधानं तदाह - तेनेति । युक्ताः, क्षत्रिया इति शेषः । ब्रह्मशब्देन ब्राह्मणत्वजातिरुच्यते । यद्यपि योगप्रवचनेन क्षत्रं रक्षितं, तेन च ब्राह्मणत्वं, तथाऽपि कथं रक्षणीयं जगदशेषं रक्षितम् इत्याशङ्क्याह - ब्रह्मेति । ताभ्यां हि कर्मफलभूतं जगद् अनुष्ठानद्वारा रक्षितुं शक्यमित्यर्थः । योगस्याव्ययत्वे हेत्वन्तरमाह - अव्ययफलत्वादिति । ननु कर्मफलवत् उक्तयोगफलस्यापि साध्यत्वेन क्षयिष्णुत्वमनुमीयते, नेत्याह - नहीति । अपुनरावृत्तिश्रुतिप्रतिहतमनुमानं न प्रमाणीभवतीति भावः । भगवता विवस्वते प्रोक्तो योगस्तत्रैव पर्यवस्यति, इत्याशङ्क्याह - स चेति ।
स्वपुत्रायेत्युभयत्र सम्बध्यते । आदिराजायेति इक्ष्वाकोः सूर्यवंशप्रवर्तकत्वेन वैशिष्ट्यमुच्यते ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वाभ्यामध्यायाभ्यां निष्ठाद्वयात्मनो योगस्य गीतत्वाद् वेदार्थस्य च समाप्तत्वाद् वक्तव्यशेषाभावाद् उक्तयोगस्य कृत्रिमत्वशङ्कानिवृत्तये वंशकथनपूर्विकां स्तुतिं भगवान् उक्तवानित्याह - श्रीभगवानिति । तदेतद्भगवद्वचनं वृत्तानुवादद्वारेण प्रस्तौति - योऽयमिति । उक्तमेव योगं विभज्यानुवदति- ज्ञानेति । संन्यासेन इतिकर्तव्यतया सहितस्य ज्ञानात्मनो योगस्य कर्माख्यो योगो हेतुः, अतश्चोपायोपेयभूतं निष्ठाद्वयं प्रतिष्ठापितमित्यर्थः । उक्ते योगद्वये प्रमाणमुपन्यस्यति - यस्मिन्निति । अथवा, ज्ञानयोगस्य कर्मयोगोपायत्वमेव स्फृटयति - यस्मिन्निति । प्रवृत्त्या लक्ष्यते -ज्ञायते कर्मयोगः, निवृत्त्या च लक्ष्यते ज्ञानयोग इति विभागः । यद्यपि पूर्वस्मिन् अध्यायद्वये यथोक्तनिष्ठाद्वयं व्याख्यातं, तथाऽपि वक्ष्यमाणाध्यायेषु वक्तव्यान्तरमस्तीत्याशङ्क्याह - गीतासु चेति । कथं तर्हि समनन्तराध्यायस्य प्रवृत्तिः अत आह - अत इति । वंशकथनं -सम्प्रदायोपन्यासः । सम्प्रदायोपदेशश्च कृत्रिमत्वशङ्कानिवृत्त्या योगस्तुतौ पर्यवस्यति । यथोक्ते योगे परम्परागते विशिष्टजनसम्मतिमुदाहरति - एवमिति । तस्य कथं सम्प्रति वक्तव्यत्वं, तदाह - स कालेनेति । पूर्वार्धं व्याकरोति - एवमित्यादिना । ऐश्वर्यसम्पत्ती राजत्वं येषां, तेषामेव सृक्ष्मार्थनिरीक्षणक्षमत्वमृषित्वम् । इहेति भगवतोऽर्जुनेन सह संव्यवहारकालो गृह्यते । परन्तपेति सम्बोधनं विभजते - आत्मन इति
॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वो योगो विच्छिन्नसम्प्रदायः, अधुना तु अन्यो योगो मदर्थमुच्यते भगवता, इत्याशङ्क्याह - स एवेति । कस्मादन्यस्मै यस्मैकस्मैचित् पुरातनो योगो नोक्तो भगवतेत्याशङ्क्याह - भक्तोऽसीति । उक्तमधिकारिणं प्रति योगस्य वक्तव्यत्वे हेतुमाह - रहस्यं हीति । अनादिवेदमूलत्वाद् योगस्य पुरातनत्वम् । भक्तिः - शरणबुद्ध्या प्रीतिः, तया युक्तः । निजरूपमवेक्ष्य भक्तो विवक्षितः । समानवयाः स्निग्धः सहायः सखेत्युच्यते । एतदिति कथं योगो विशेष्यते, तत्राह - ज्ञानमिति
॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 किमिति वर्तमाने काले प्रकृतो योगः सम्प्रदायरहितोऽभूदित्याशङ्क्य, अधिकार्यभावादित्याह - दुर्बलानिति । तदेव दौर्बल्यं प्रकृतोपयोगित्वेन व्याकरोति - अजितेन्द्रियानिति । यद्यपि कामक्रोधादिप्रधानान् पुरुषान् प्रतिलभ्य कामक्रोधादिभिरभिभूयमानो योगः नष्टः - विच्छिन्नसम्प्रदायः सञ्जातः, तथाऽपि योगादृते पुरुषार्थो लोकस्य लभ्यते चेत् - किमनेन योगोपदेशेनेत्याशङ्क्य, यथोक्तयोगाभाबे परमपुरुषार्थाप्राप्तेर्मैवमित्यह - लोकं चेति । एतच्छब्दार्थमेव स्फुटयति - यस्त्वमिति
॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 भगवति लोकस्यानीश्वरत्वशङ्कां निवर्तयितुं चोद्यमुद्भावयति - भगवतेति । परिहारार्थंभगवतो मनुष्यवदवस्थितस्यानीश्वरत्वमुपेत्य तद्वचने शङ्कितविप्रतिषेधस्येति शेषः । भगवतो निजरूपमुपेत्य नेदं चोद्यं, किन्तु लीलाविग्रहं ग्रहीत्वेति वक्तुं चोद्यमिवेत्युक्तम् । अतीतानेकजन्मवत्त्वं ममैव नासाधारणं, किन्तु सर्वप्राणिसाधारणमित्याह - तव चेति । तानि प्रमाणाभावान्न प्रतिभान्तीत्याशङ्क्याह - तानीति । ईश्वरस्यानावृतज्ञानत्वादित्यर्थः । किमिति तर्हि तानि मम न प्रतीयन्ते तवावृतज्ञानत्वादित्याह - न त्वमिति । परान् परिकल्प्य तत्परिभवार्थं प्रवृत्तत्वात् तव ज्ञानावरणं विज्ञेयमित्याह - परन्तपेति । अर्जुनस्य भगवता सहातीतानेकजन्मवत्त्वे तुल्येऽपि, ज्ञानवैषम्ये हेतुमाह - धर्मेति । आदिशब्देन रागलोभादयो गृह्यन्ते । ईश्वरस्यातीतानागतवर्तमानसर्वार्थविषयज्ञानवत्त्वे हेतुमाह - अहमिति
॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 भगवत्यज्ञानान्मनुष्यत्वशङ्कां वारयितुं प्रतिवचनमवतारयति - या वासुदेव इति । अन्यथाप्रश्ने कथमाशङ्कान्तरं परिहर्तुं भगवद्वचनमित्याशङ्क्य, प्रश्नप्रतिवचनयोरेकार्थत्वमाह - यदर्थो हीति । यस्य शङ्कितस्य विरोधस्य परिहारार्थो यस्य प्रश्नः, तमेव परिहारं वक्तुं भगवद्वचनमित्यर्थः । पारमार्थिकजन्मायोगे कारणं पूर्वार्धेनानूद्य, प्रातिभासिकजन्मसम्भवे कारणमाह - प्रकृतिमिति । प्रकृतिशब्दस्य स्वरूपविषयत्वं प्रत्यादेष्टुम् आत्ममायया इत्युक्तम् । वस्तुतो जन्माभावे कारणानुवादभागं विवृणोति - अजोऽपीत्यादिना । प्रातिभासिकजन्मसम्भवे कारणकथनपरमुत्तरार्धं विभजते - प्रकृतिमित्यादिना । प्रकृतिशब्दस्य स्वरूपशब्दपर्यायत्वं वारयति - मायामिति । तस्याः स्वातन्त्र्यं निराकृत्य भगवदधीनत्वमाह - ममेति । तस्याश्चाधिकरणद्वारेणावच्छिन्नत्वं सूचयति - वैष्णवीमिति । मायाशब्दस्यापि प्रज्ञानामसु पाठाद् विज्ञानशक्तिविषयत्वमाशङ्क्याह - त्रिगुणात्मिकामिति । तस्याः कार्यलिङ्गकमनुमानं सूचयति - यस्या इति । जगतो मायावशवर्तित्वमेव स्फुटयति - ययेति । यथा लोके कश्चिज्जातो देहवानालक्ष्यते, एवमहमपि मायामाश्रित्यत्या स्ववशया सम्भवामि - जन्मव्यवहारमनुभवामि, तेन मायामयमीश्वरस्य जन्मेत्याह - तां प्रकृतिमित्यादिना । सम्भवामीत्युक्तमेव विभजते - देहवानिति । अस्मदादेरिव तवापि परमार्थत्वाभिमानो जन्मादिविषये स्यादित्याशङ्क्य, प्रागुक्तस्वरूपपरिज्ञानवत्त्वादीश्वरस्य मैवमित्याह – न परमार्थत इति । आवृतज्ञानवतो लोकस्य जन्मादिविषये परमार्थत्वाभिमानः सम्भवतीत्याह - लोकवदिति
॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 ईश्वरस्य कारणाभावात् जन्मैवायुक्तम् , अतीतानेकजन्मवत्त्वं तु दूरोत्सारितमिति शङ्कते - कथमिति । वस्तुतो जन्माभावेऽपि मायावशाज्जन्म सम्भवतीत्युत्तरमाह - उच्यत इति । चातुरर्वर्ण्ये चातुराश्रम्ये च यथावदनुष्ठीयमाने नास्ति धर्महानिरिति मन्वानो विशिनष्टि - वर्णेति । वर्णैराश्रमैस्तदाचारैश्च लक्ष्यते - ज्ञायते धर्मः, तस्येति यावत् । धर्महानौ समस्तपुरुषार्थभङ्गो भवतीत्यभिप्रेत्याह - प्राणिनामिति । नच यथोक्तस्य धर्मस्य हानिं सोढुं शक्तो भवानित्याह - भारतेति । न केवलं प्राणिनां धर्महानिरेव भगवतो मायाविग्रहस्य परिग्रहे हेतुः, अपि तु तेषामधर्मप्रवृत्तिरपि, इत्याह - अभ्युत्थानमिति । यदा यदेति पूर्वेण सम्बन्धः
॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 यदीश्वरस्य मायानिबन्धनं जन्मेत्युक्तं, तस्य प्रश्नपूर्वकं कालं कथयति - तच्चेत्यादिना । यथा साधूनां रक्षणम् , असाधूनां निग्रहश्च भगवदवतारफलं, तथा फलान्तरमपि तस्यास्तीत्याह - किञ्चेति । धर्मे हि स्थापिते जगदेव स्थापितं भवति, अन्यथा भिन्नमर्यादं जगदसन्गतमापद्येतेत्यर्थः
॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 यथोक्ते काले कृतकृत्यस्य भगवतो मायाकृते जन्मनि प्रश्नपूर्वकं प्रयोजनमाह - किमर्थमित्यादिना । मायामयमीश्वरस्य जन्म, न वास्तवं, तस्यैव च जगत्परिपालनं कर्म, नान्यस्य, इति जानतः श्रेयोऽवाप्तिन्दर्शयन् , विपक्षे प्रत्यवायं सूचयति - तज्जन्मेत्यादिना । यथोक्तं - मायामयं, कल्पितमिति यावत् । वेदनस्य यथावत्वं, वेद्यस्य जन्मादेरुक्तरूपानतिवर्तित्वम् । यदि पुनर्भगवतो वास्तवं जन्म, साधुजनपरिपालनादि चान्यस्यैव कर्म क्षत्रियस्येति विवक्ष्यते, तदा तत्त्वापरिज्ञानाप्रयुक्तो जन्मादिः संसारो दुर्वारः स्यादिति भावः
॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 मन्मयत्वस्य मद्भावगमनेनापौनरुत्तयं दर्शयति - ब्रह्मविद इति । आत्मनो भिन्नत्वेन, भिन्नाभिन्नत्वेन वा ब्रह्मणो वेदनं व्यावर्तयति - ईश्वरेति । अभेददर्शनेन समुच्चित्य कर्मानुष्ठानं प्रत्याचष्टे - मामेवेति । तदुपाश्रयत्वमेव विशदयति - केवलेति । मामुपाश्रिता इति केवलज्ञाननिष्ठत्वमुक्त्वा, ‘ज्ञानतपसा पूताः’ (भ. गी. ४-१०) इति किमर्थं पुनरुच्यते तत्राह - इतरेति
॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 सम्प्रति प्रस्तुतमोक्षमार्गस्य नूतनत्वेनाव्यवस्थितत्वमाशङ्क्य, परिहरति - नैष इति । मुमुक्षूणामीश्वरानुसारित्वेऽपि फलान्तरार्थिनां कुतस्तदनुसारित्वम् इत्याशङ्क्य ‘फलमत उपपत्ते’ (ब्र. सू. ३-२-३८) इति न्यायेन तत्फलस्येश्वरायत्तत्वात् तदनुवर्तित्वमावश्यकम् , इत्याह - ममेति । भगवद्भजनभागिनां सर्वेषामेव कैवल्यमेकरूपं किमिति नानुगृह्यते तत्राह - तेषामिति । अभ्युदयनिःश्रेयसार्थित्वं प्रार्थनावैचित्र्यादेकस्यैव किं न स्याद् इत्याशङ्क्य, पर्यायेण तदनुपपत्तिं साधयति - नहीति । मुमुक्षूणां फलार्थिनां च विभागे स्थिते सति अनुग्रहविभागं फलितमाह - अत इति । फलप्रदानेनानुगृह्णामीति सम्बन्धः । नित्यनैमित्तिककर्मानुष्ठायिनामेव फलार्थित्वाभावे सति, मुमुक्षुत्वे कथं तेष्वनुग्रहः स्यात् इति तत्राह - ये यथोक्तेति । ज्ञानप्रदानेन भजामीत्युत्तरत्र सम्बन्धः । सन्ति केचित् त्यक्तसर्वकर्माणो ज्ञानिनो मोक्षमेवापेक्षमाणाः, तेष्वनुग्रहप्रकारं प्रकटयति - ये ज्ञानिन इति । केचिदार्ताः सन्तो ज्ञानादिसाधनान्तररहिता भगवन्तमेवार्तिमपहर्तुमनुवर्तन्ते, तेषु भगवतोऽनुग्रहविशेषं दर्शयति- तथेति । पूर्वार्धव्याख्यानमुपसंहरति - इत्येवमिति । भगवतोऽनुग्रहे निमित्तान्तरं निवारयति - न पुनरिति । फलार्थित्वे मुमुक्षुत्वे च जन्तूनां भगवदनुसरणमावश्यकम् इत्युत्तरार्धं विभजते - सर्वथाऽपीति । सर्वावस्थत्वं - तेन तेनात्मना परस्यैवेश्वरस्यावस्थानम् । मार्गः - ज्ञानकर्मलक्षणः । मनुष्यग्रहणाद् इतरेषामीश्वरमार्गानुवर्तित्वपर्युदासः स्याद् , इत्याशङ्क्याह - यत्फलेति । सर्वप्रकारैर्मम मार्गमनुवर्तन्त इति पूर्वेण सम्बन्धः
॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 ईश्वरः सर्वेभ्यो भूतेभ्यो मोक्षं प्रयच्छति चेत् , प्रागुक्तविशेषणवैयर्थ्यं ; यदि तु केभ्यश्चिदेव मोक्षं प्रयच्छेत् , तर्हि, तस्य रागादिमत्त्वादनीश्वरत्वापत्तिः, इति शङ्कते - तव तर्हीति । ये मुमुक्षवः, तेभ्यो मोक्षमीश्वरो ज्ञानसम्पादनद्वारा प्रयच्छति, फलान्तरार्थिभ्यस्तु तत्तदुपायानुष्ठानेन तत्तदेव ददातीति, नास्य रागद्वेषौ इति परिहरति - उच्यत इति । कर्मफलसिद्धिमिच्छता किमिति मानुषे लोके देवतापूजनमिष्यते तत्राह - क्षिप्रं हीति । कर्मफलसम्पत्त्यर्थिनां यष्टृयष्टव्यविभागदर्शिनां तद्दर्शने कारणमात्माज्ञानम् , इत्यत्र बृहदारण्यकश्रुतिमुदाहरति - अथेति । अविद्याप्रकरणोपक्रमार्थमथेत्युक्तम् । उपासनं भेददर्शनमित्यनूद्य, कारणमात्माज्ञानं तत्र, इति दर्शयति - नेति । यथा अस्मदादीनां हलवहनादिना पशुरुपकरोति, एवमज्ञो देवादीनां यागादिभिरुपकरोति, इत्याह - यथेति । किमिति ते फलाकाङूक्षिणो भिन्नदेवतायादिनो ज्ञानमार्गं नापेक्षन्ते तत्रोत्तरार्धमुत्तरत्वेन योजयति - तेषामित्यादिना । यस्माद् यथोक्तानामधिकारिणां कर्मप्रयुक्तं फलं लोकविशिषे झटिति सिध्यति, तस्मात् तेषांं मोक्षमार्गादस्ति वैमुख्यमित्यर्थः । मानुषलोकविशेषणं किमर्थम् इत्याशङ्क्याह - मनुष्यलोके हीति । लोकान्तरेषु तर्हि कर्मफलसिद्धिर्नास्ति, इत्याशङ्क्य, क्षिप्रविशेषणस्य तात्पर्यमाह - क्षिप्रमिति । क्वचित् कर्मफलसिद्धिरविलम्बेन भवति, अन्यत्र तु विलम्बेन इति विभागे को हेतुः इत्याशङ्क्य, सामग्राीभावाभावाभ्याम् , इत्याह - मानुष इति । मनुष्यलोके कर्मफलसिद्धेः शैघ्र्यात् तदभिमुखानां ज्ञानमार्गवैमुख्यं प्रायिकमित्युपसंहरति - तेषामिति
॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 अनुग्राह्याणां ज्ञानकर्मानुरोधेन भगवता तेष्वनुग्रहविधानात् तस्य रागद्वेषौ यदि न भवतः, तर्हि तस्य रागाद्यभावादेव सर्वेषु प्राणिष्वनुग्रहेच्छा तुल्या प्राप्ता, नच तस्यां सत्यामेव फलस्याल्पीयसः सम्पादने सामर्थ्यं, नतु भगवतो महतो मोक्षाख्यस्य फलस्य प्रदानेऽशक्तिरिति युक्तम् , अप्रतिहतज्ञानेच्छाक्रियाशक्तिमतस्तव सर्वफलप्रदान सामर्थ्यात् । तथाच यथोक्तानुजिघृक्षायां सत्यां, त्वयि च यथोक्तसामर्थ्यवति सति, सर्वे फल्गुफलाद् अभ्युदयाद्विमुखा मोक्षमेवापेक्षमाणा ज्ञानेन त्वामेव किमिति न प्रतिपद्येरन् इति चोदयति - यदीति । मोक्षापेक्षाभावात् तदुपायभूतज्ञानादपि वैमुख्याद् भगवत्प्राप्त्यभावे हेतुमभिदधानः समाधत्ते - श्रृण्विति । तर्हि, तव कर्तृत्वभोक्तृत्वसम्भवात् अस्मदादितुल्यत्वेनानीश्वरत्वम् , इत्याशङ्क्याह - तस्येति । ईश्वरस्य विषमसृष्टिं विदधानस्य सृष्टिवैषम्यनिर्वाहकं कथयति - गुणेति । गुणविभागेन कर्मविभागः । तेन चातुर्वर्ण्यस्य सृष्टिमेवोपदिष्टां स्पष्टयति - तत्रेत्यादिना । प्रश्नद्वयप्रतिविधानं प्रकृतमुपसम्हरति - तच्चेदमिति । मनुष्यलोके परं वर्णाश्रमादिपूर्वके कर्मण्यधिकारः, तत्रैव वर्णादेरीश्वरेण सृष्टत्वात् , न लोकान्तरेषु, तत्र वर्णाद्यभावात् , ईश्वरमेव चातुर्वर्ण्याश्रमादिविभागिनोऽधिकारिणोऽनुवर्तन्ते, तेनैव वर्णादेस्तद्व्यापारस्य च सृष्टत्वात् तदनुवर्तनस्य युक्तत्वादित्यर्थः । तस्येत्यादि द्वितीयभागापोह्यं चोद्यमनुद्रवति - हन्तेति । यदि चातुर्वर्ण्यादिकर्तृत्वादीश्वरस्य प्रागुक्तो नियमोऽभिमतः, तर्हि, तद्विषयसृष्ट्यादेः तन्निष्ठव्यापारस्य च धर्मादेर्निवर्तकत्वात् तत्फलस्य कर्तृगामित्वात् कर्तृत्वभोक्तृत्वयोस्त्वयि प्रसङ्गात् नित्यमुक्तत्वादि ते न स्यादित्यर्थः । मायया कर्तृत्वं, परमार्थतश्चाकर्तृत्वम् , इत्यभ्युपगमात् नित्यमुक्तत्वादि सिध्यति, इत्युत्तरमाह - उच्यत इति । मायावृत्त्यादिसंव्यवहारेण चातुर्वणर्यादेस्तत्कर्मणश्च यद्यपि कर्ताऽहं, तथाऽपि तथाविधं मां परमार्थतोऽकर्तारं विद्धीति योजना । अकर्तृत्वादेवाभोक्तृत्वसिद्धिः, इत्याह - अत एवेति
॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 मनुष्यलोके ‘चातुर्वर्ण्यं, चातुराश्रम्यम् ‘ इत्यनेन द्वारेण कर्माधिकारनियमे कारणं पृच्छति - मानुष एवेति । आदिशब्देनावस्थाविशेषा विवक्ष्यन्ते । प्रकारान्तरेण वृत्तानुवादपूर्वकं चोद्यमुत्थापयति - अथवेत्यादिना । प्रश्नद्वयं परिहरति - उच्यत इति । कर्मतत्फलसंस्पर्शशून्यमीश्वरं पश्यतो दर्शनानुरूपं फलं दर्शयति - न मामिति । तानि कर्माणीति येषां कर्मणामहं कर्ता तवाभिमतः, तानीति यावत् । देहेन्द्रियाद्यारम्भकत्वेन तेषां कर्मणामीश्वरे संस्पर्शाभावे, तस्य तत्करणावस्थायामहङ्काराभावं हेतुं करोति - अहङ्काराभावादिति । कर्मफलतृष्णाभावाच्चेश्वरं कर्माणि न लिम्पन्ति, इत्याह- नचेति । उक्तमेव प्रपञ्चयति - येषां त्विति । तदभावात् -कर्मसु ‘अहं कर्ता’ इत्यभिमानस्य, तत्फलेषु स्पृहायाश्चाभावादित्यर्थः । ईश्वरस्य कर्मनिर्लेपेऽपि, क्षेत्रज्ञस्य किमायातम् इत्याशङ्क्य, उत्तरार्धं व्याचष्टे - इत्येवमिति । अभिज्ञानप्रकारमभिनयति - नाहमिति । ज्ञानफलं कथयति - स कर्मभिरिति । कर्मासम्बन्धं विदुषि विशदयति - तस्यापीति
॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 ईश्वरस्य कर्तृत्वभोक्तृत्वयोर्वस्तुतोऽभावे कर्मतत्फलसम्बन्धवैधुर्यं फलति, इत्याह - येषां त्विति । तस्मादित्युक्तमेव स्फुटयति - पूर्वैरिति । यदुक्तं किं मम कर्मणेति, तत्र त्वमज्ञो वा, तत्त्वविद्वा । यद्यज्ञः, तदा चित्तशुद्ध्यर्थं कुरु कर्म इत्याह - यदीति । द्वितीयं प्रत्याह - तत्त्वविदिति । कुरु कर्मेति सम्बन्धः । पूर्वैर्मूढैराचरितमित्येतावता किमिति विवेकवता मया तत्कर्तव्यम् इत्याशङ्क्याह - जनकादिभिरिति । ते तावत् एवं सम्पाद्य कर्म कृतवन्तो, न तदिदानीमप्रामाणिकत्वादनुष्ठेयम् , इत्याशङ्क्याह - पूर्वतरमिति
॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 तव कर्मतत्फलसम्बन्धाभावे, तथा ज्ञानवतश्च तदसम्बन्धे, ममापि किं कर्मणा इत्याशङ्क्य, कर्मणि कर्तृत्वाभिमानं, तत्फले स्पृहां चाकृत्वा, मुमुक्षुवत् त्वया कर्म कर्तव्यमेव, इत्याह - नाहमित्यादिना । नाहं कर्तेत्येवमादि एवमा परामृश्यते । तेन - पूर्वैेर्मुमुक्षुभिरनुष्ठितत्वेन हेतुनेत्यर्थः । कर्मैवेत्येवकारार्थमाह - नेत्यादिना । त्वं शब्दस्य क्रियापदेन सम्बन्धः । विज्ञानवतामपि कर्मादिविषये व्यामोहोपपत्तेः, सुतरामेव तव तद्विषये व्यामोहसम्भवात् , तदपोहार्थमाप्तवाक्यापेक्षणाद् , अस्ति कर्मणि वैषम्यम् , इत्युत्तरमाह - किं कर्मेति । ‘तत् ते कर्म’ (भ. गी. ४-१६) इत्यत्र अकारानुबन्धेनापि पदं छेत्तव्यम् । कर्मादिप्रवचनस्य प्रयोजनमाह - यज्ज्ञात्वेति । तत् कर्माकर्म चेति सम्बन्धः । अतः मेधाविनामपि यथोक्ते विषये व्यामोहस्य सत्त्वादित्यर्थः ।
॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 कर्मविशेषणमाक्षिपति - तत्रेति । मनुष्यलोकः सप्तम्यर्थः । कर्मणि महतो वैषम्यस्य विद्यमानत्वात् तस्य पूर्वैरनुष्ठितत्वेन पूर्वतरत्वेन च विशेषितत्वे, तस्मिन् प्रवृत्तिस्तव सुकरा, इति युक्तं विशेषणम् , इति परिहरति - उच्यत इति । कर्मणि देहादिचेष्टारूपे लोकप्रसिद्धे नास्ति वैषम्यम् , इति शङ्कते - कथमिति । बोद्धव्यसद्भावे हेतुमाह - यस्मादिति । त्रितयं प्रकृत्य अन्यतमस्य गहनत्ववचनमयुक्तमित्याशङ्क्य, अन्यतमग्रहणस्योपलक्षणार्थत्वमुपेत्य, विवक्षितमर्थमाह - कर्मादीनामिति
॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 कर्मणोऽकर्मणश्च प्रसिद्धत्वात् तद्विषये न किञ्चिद् बोद्धव्यम् , इति चोद्यमनूद्य निरस्यति - नचेति तत्र हेत्वाकाङूक्षापूर्वकमनन्तरं श्लोकमवतारयति - कस्मादिति । त्रिष्वपि कर्माकर्मविकर्मसु बोद्धव्यमस्तीति यस्मात् अध्याहारः, तस्माद् मदीयं प्रवचनमर्थवदिति योजना । प्रथमपादस्याक्षरोत्थमर्थं कथयति - कर्मणीत्यादिना । द्वितीयपादस्यापि शब्दप्रकाशितमर्थं निर्दिशति - अकर्मणि चेति । कर्माभावे यः कर्म पश्यतीति सम्बन्धः । प्रवृत्तेरेव कर्मत्वात् निवृत्तेस्तदभावत्वात् तत्र कथं कर्मदर्शनमित्याशङ्क्य, द्वयोरपि कारकाधीनत्वेनाविशेषमभिप्रोयाह - कर्तृतन्त्रत्वादिति । प्रवृत्ताविव निवृत्तावपि, कर्मदर्शनमविरुद्धमिति शेषः । ननु निवृत्तेर्वस्त्वधीनत्वात् कारकनिबन्धनाभावान्न तत्र कर्मदर्शनं युज्यते, तत्राह - वस्त्विति । क्रियाकारकफलव्यवहारस्य सर्वस्याविद्यावस्थायामेव प्रवृत्तत्वाद् वस्तुसंस्पर्शशून्यत्वात् प्रवृत्तिवन्निवृत्तावपि यः कर्म पश्यति, स मनुष्येषु बुद्धिमानिति सम्बन्धः । कर्मण्यकर्म अकर्मणि च कर्म पश्यतो बुद्धिमत्त्वं, युक्तत्वं समस्तकर्मकृत्त्वं च कथमित्याशङ्क्याह - इति स्तूयत इति । श्लोकस्य शब्दोत्थेऽर्थे दर्शिते, तात्पर्यार्थापरिज्ञानान्मिथो विरोधं शङ्क्तते - नन्विति । कथमिदं विरुद्धम् इत्याशङ्क्य, कर्मणीति विषयसप्तमी वा स्यात् अधिकरणसप्तमी वा इति विकल्प्य, आद्ये - अन्याकारं ज्ञानमन्यावलम्बनमिति स्पष्टो विरोधः स्याद् , इत्याह - नहीति । अन्यस्यान्यात्मतायोगात् कर्माकर्मणोरभेदासम्भवादकर्माकारं कर्मावलम्बनं ज्ञानम् अयुक्तमित्यर्थः । द्वितीयं दूषयति - तत्रेति । कर्मण्यधिकरणे ततो विरुद्धमकर्म कथमाधेयं द्रष्टा द्रष्टुमीष्टे । नहि कर्माकर्मणोर्मिथो विरुद्धयोराधाराधेयभावः सम्भवतीत्यर्थः । विषयसप्तमीमभ्युपेत्य सिद्धान्ती परिहरति - नन्वकर्मैवेति । लोकस्य मूढदृष्टेर्विवेकवर्जितस्य परमार्थतो ब्रह्म अकर्म अक्रियमेव सद् , भ्रान्त्या, कर्मसहितं क्रियावदिव प्रतिभातीत्यक्षरार्थः । परस्पराध्यसमभ्युपेत्योक्तम् - तथेति । यथा खल्वकर्म ब्रह्म कर्मवदुपलभ्यते तथा कर्म सक्रियमेव द्वैतमक्रिये ब्रह्मण्यधिष्ठाने संसृष्टं तद्वद् भातीत्यक्षरयोजना । कर्माकर्मणोरितरेतराध्यासे सिद्धे, सम्यग्दर्शनसिद्ध्यर्थं भगवतो वचनमुचितम् , इत्याह - तत्रेति । यथा, यत् , इन्दं रजतमिति प्रतिपन्नं, तत् , इदानीं शुक्तिशकलं पश्येति भ्रमसिद्धरजतरूपविषयानुवादेन तदधिष्ठानं शुक्तिमात्रमुपदिश्यते, तथा भ्रमसिद्धकर्माद्यात्मकविषयानुवादेन तदधिष्ठानं कर्मादिरहितं कूटस्थं ब्रह्म भगवता व्यपदिश्यते । तथाच भगवद्वचनमविरुद्धमित्यह - अत इति । इतश्चाध्यारोपितकर्माद्यनुवादपूर्वकं तदधिष्ठानस्य कर्मादिरहितस्य निर्विशोषस्य ब्रह्मणो भगवता बोध्यमानत्वान्न तत्र विरोधाशङ्कावकाशो भवतीत्याह - बुद्धिमत्त्वादीति । कूटस्थाद् ब्रह्मणोऽन्यस्य सर्वस्य मायामात्रत्वात् अन्यज्ञानाद् बुद्धिमत्त्वयुक्तत्वसर्वकर्मकृत्त्वानामनुपपत्तेः, अत्र च ‘स बुद्धिमान् ‘ इत्यादिना बुद्धिमत्त्वादिनिर्देशाद् ब्रह्मज्ञानादेव तदुपपत्तेः, सर्वविक्रियारहितब्रह्मज्ञानमेव विवक्षितमित्यर्थः । बोधशब्दस्य सम्यग्ज्ञाने प्रसिद्धत्वात् कर्माकर्मविकर्मणां स्वरूपं बोद्धव्यस्तीति वदता सम्यग्ज्ञानोपदेशस्य विवक्षितत्वादपि कूटस्थं ब्रह्मत्राभिप्रेतम् इत्याह - बोद्धव्यमिति चेति । फलवचनपर्यालोचनायामपि कूटस्थं ब्रह्मात्राभिप्रेतं प्रतिभाति इत्याह - नचेति । सम्यग्ज्ञानाधीनफलमत्र न श्रुतम् , इत्याशङ्क्याह - यज्ज्ञात्वेति । अध्यारोपापवादार्थं भागवद्वचनमविरुद्धम् , इत्युपपादितमुपसंहरति - तस्मादिति । ‘तद्विपर्यय’ इत्यत्र तच्छब्देन प्राणिनो गृह्यन्ते । विषयमप्तमीपरिग्रहेण परिहारमभिवाय, अधिकरणसप्तमीपक्षे दर्शित्ं दूषणमनङ्गीकारेण परिहरति - नचेति । व्यवहारभूमिरत्रेत्युच्यते । योग्यत्वे सत्यनुपलब्धेरित्यर्थः । अकर्माधिकरणं कर्म न सम्भवति इत्यत्र हेत्वन्तरमाह - कर्माभावत्वादिति । नहि तुच्छस्याधिकरणं क्कचिद् दृष्टमिष्टं चेत्यर्थः । निरूप्यमाणे कर्माकर्मणोरधिकरणाधिकर्तव्यभावासम्भवे फलितमाह - अत इति । शास्त्रपरिचयविरहिणामध्यारोपमुदाहरति - यथेति । कर्माकर्मणोरारोपितत्वमुक्तममृष्यमाणाः सन्नाशङ्कते - नन्विति । कर्म कर्मैवेत्यत्र अकर्म चाकर्मैवेति द्रष्टव्यम् । विमतं सत्यमव्यभिचारित्वाद् ब्रह्मवदित्यर्थः । तत्र कर्म तत्त्वतो नाव्यभिचारि, कर्मत्वात् , नौस्थस्य तटस्थवृक्षगमनवत् ,इत्यव्यभिचारित्वं कर्मण्यसिद्धमिति परिहरति - तन्नेति । अकर्म च तत्त्वतो नाव्यभिचारि, कर्माभावत्वाद्, दूरप्रदेशे चैत्रमैत्रादिषु गच्छत्स्वेव चक्षुषा सन्निधानविधुरेषु दृश्यमानगत्यभाववत् , इत्याह - दूरेष्विति । दूरत्वादेव विशेषतः सन्निकर्षविरहितेषु तेषु स्वरूपेण चक्षुः संनिकृष्टेषु चक्षुषा गत्यभावदर्शनादिति योजना । गातिरहितेषु तरुषु गतिदर्शनवत् प्रकृते ब्रह्मण्यविक्रिये कर्मदर्शनं, सक्रिये च द्वैतप्रपञ्चे गतिमत्सु चैत्रादिषु गत्यभावदर्शनवत् कर्माभावस्य विपरीतस्य दर्शनं येन हेतुना सम्भवति, तेन तस्य विपरीतदर्शनस्य निरसनार्थं भगवद्वचनमिति दार्ष्टान्तिकं निगमयति - एवमित्यादिना । ननु कर्मतदभावयोरारोपितत्वात् अविक्रियस्य ब्रह्मणो ज्ञानमत्राभिप्रेतं चेत् ‘अव्यक्तोऽयमचिन्त्योऽयं’(भ. गी. २-२५) ‘न जायते म्रियते’ (भ. गी. २ -१८) इत्यादिना पौनरुक्त्यं प्राप्तं, तत्रैव ब्रह्मात्मनो निर्विकारत्वस्योक्तत्वादिति, तत्राह - तदेतदिति । तदेतत् -आत्मनि शङ्कितं सक्रियत्वम् असकृदुक्तप्रतिवचनमपि निर्विकारात्मवस्त्वपेक्षया अत्यन्तविपरीतदर्शनं - मिथ्याज्ञानं, तेन भावितत्वं -तत्संस्कारप्रचयवत्त्वं, ततोऽतिशयेन मोहमापद्यमानो लोकः श्रुतमपि तत्त्वं विस्मृत्य पुनर्यत्किंचित्प्रसङ्गमापाद्य, सक्रियत्वमेव आत्मन श्चोदयतीति, पुनः पुनस्तत्त्वभूतमुत्तरं भगवानभिधत्ते । वस्तुनश्च दुर्विज्ञेयत्वात् पुनःपुनः प्रतिपादनं तत्तद्भ्रमनिराकरणार्थमुपयुज्यते । तथाच नास्ति पुनरुक्तिरित्यर्थः । असकृदुक्तप्रतिवचनमेवानुवदति - अव्यक्तोऽयमिति । कर्माभाव उक्त इति सम्बन्धः । उक्तस्य ‘न जायते म्रियते वा विपश्चित् ‘ (क. १.२. १८) इत्यादिश्रुतौ प्रकृतस्मृतावसङ्गत्वादिन्यायेन च प्रसिद्धत्वमस्ति, इत्याह - श्रुतीति । न केवलमुक्तः कर्माभावः, किन्तु, ‘सर्वकर्माणि मनसा संन्यस्य’ (भ. गी. ५-१३) इत्यादौ वक्ष्यमाणश्चेत्याह - वक्ष्यमाणश्चेति । ननु कर्मणो देहादिनिर्वर्त्यत्वेन त्रैविध्यात् कूटस्थस्वभावस्यात्मनोऽसङ्गत्वात् तद्व्यापाररूपस्य कर्मणोऽप्रसिद्धत्वान्न तस्मिन्नकर्मणि विपरीतस्य कर्मणो दर्शनं सिध्यति, इत्याशङ्क्याह - तस्मिन्निति । कर्मैव विपरीतं, तस्य दर्शनमिति यावत् । अहं कर्तेत्यात्मसमानाधिकरणस्य व्यापारस्यानुभवात् कर्मभ्रमस्तावत् आत्मन्यत्यन्तरूढोऽस्तीत्यर्थः । आत्मनि कर्मविभ्रमोऽस्तीत्यत्र हेतुमाह - यत इति । आत्मनो निष्क्रियत्वे कुतस्तस्मिन् यथोक्तो विभ्रमः सम्भवेत इत्याशङ्क्याह - देहेति । इदानीमात्मनि अकर्मभ्रममुदाहरति - तथेत्यादिना । यथा शुक्तौ स्वाभाविकमरूप्यत्वं, रूप्यत्वमारोपितं, तदभावोऽप्यारोप्याभावत्वात् आरोपपक्षपाती । तथा आत्मनोऽपि स्वाभाविकमविक्रियत्वं, सक्रियत्वं पुनरध्यस्तं, तदभावत्वात् , कर्मभावोऽप्यध्यस्त एवेति मन्वानः सन्नुपसंहरति - तत्रेदमिति । आत्मनि कर्मादिविभ्रमे लौकिके सिद्धे सति इदं - ‘कर्माणि’ इत्यादिवचनंं, तत्परिहारार्थं भगवानुक्तवानित्यर्थः । संप्रत्युक्तेऽर्थे श्लोकाक्षरसमन्वयं दर्शयितुं ‘कर्मणि’ इत्यादि व्याचिख्यासुर्भूमिकां करोति - अत्र चेति । व्यवहारभूमौ कार्यकरणाधिकरणं कर्म स्वेनैव रूपेण व्यवस्थितं सत् , आत्मन्यविक्रिये कार्यकरणारोपणद्वारेण सर्वैरारोपितमित्यत्र हेतुमाह - यत इति । अविवेकिनां तु कर्तुत्वाभिमानः सुतरामिति वक्तुमपिशब्दः । एवमात्मनि कर्मारोपमुपपाद्य प्रथमपादं व्याटष्टे - अत इति । आत्मानि कर्मरहिते कर्मारोपे दृष्टान्तमाह - नदीति । आरोपवशादात्मनिष्ठत्वेन कर्मणि सर्वलोकप्रसिद्धे कर्माभावं यः पश्येत् , स बुद्धिमानिति सम्बन्धः । अकर्मदर्शनस्य यथाभूतत्वं सम्यक्त्वम् । तत्र दृष्टान्तमाह - गत्यभावमिवेति । द्वितीयपादं व्याकरोति - अकर्मणि चेति । अध्यरोपमभिनयति - तूष्णीमिति । अकर्मणि कर्मदर्शने युक्तिमाह - अहङ्कारेति । पूर्वार्धेनोक्तमनूद्य, उत्तरार्धं विभजते - य एवमिति । आत्मनि कार्यकरणसङ्घातसमारोपद्वारेण तद्व्यापारमात्रे कर्मणि, शुक्तिकायामिव रजतसमारोपितविषये तदभावम् - अकर्म, वस्तुतो यो रजताभाववदनुभवति, अकर्मणि च सङ्घातव्यापारोपरमे तद्द्वारा स्वात्मनि ‘अहं तूष्णीमासे सुखम्’ इत्यारोपित गोचरे कर्म - अहङ्कारहेतुकं यस्तत्त्वतो मन्यते, स रूप्यतदभावविभागहीनशुक्तिमात्रवत् आत्ममात्रं कर्मतदभावविभागशून्यं कूटस्थं परमार्थतोऽवगच्छन् बुद्धिमान् इत्यादिस्तुतियोग्यतां गच्छति, इत्येवं स्वाभिप्रायेण श्लोकं व्याख्याय, अत्र वृत्तिकारव्याख्यानमुत्थापयति - अयमिति । अन्यथाव्याख्यानमेव प्रश्नद्वारा प्रकटयति - कथमित्यादिना । ईश्वरार्थेनानुष्ठाने फलाभववचनं व्याहतम् , इति मत्वाऽऽह - किलेति । नित्यानामकर्मत्वमप्रसिद्धम् इ्त्याशङ्क्य, फलराहित्यगुणयोगात् तेष्वकर्मत्वव्यवहारः सिध्यतीत्याह - गौण्येति । नित्यानामकारणं मुख्यवृत्त्यैवाकर्म वाच्यम् , इत्याह - तेषां चेति । तत्र कर्मशब्दस्य प्रत्यवायाख्यफलहेतुत्वगुणयोगाद् गौण्यैव वृत्त्या प्रवृत्तिरित्याह - तच्चेति । पातनिकामेवं कृत्वा श्लोकाक्षराणि व्याचष्टे - तत्रेत्यादिना अकर्मणि चेत्यादि व्याकरोति - तथेति । स बुद्धिमानित्यादि पूर्ववत् । परकीयं व्याख्यानं व्युदस्यति - नैतदिति । नित्यं कर्माकर्म, नित्याकरणं कर्मेति ज्ञानाद् दुरितनिवृत्त्यनुपपत्तेर्भगवद्वचनं वृत्तिकारमते बाधितं स्यादित्यर्थः । ‘धर्मेण पापमपनुदति’ (म. ना. उ. २-१) इति श्रूतेर्नित्यानुष्ठानाद् दुरितनिबर्हणप्रसिद्धेस्तदनुष्ठानस्य फलान्तराभावात् तदकर्मेति ज्ञात्वा अनुष्ठाने क्रियमाणे कथमशुभक्षयो नेति शङ्कते - कथमिति । ‘क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता’ (या. स्मृ. ३-३४) इति स्मरणात् कर्मणात्यन्तिकाशुभक्षयाभावेऽप्यङ्गीकृत्य परिहरति - नित्यानामिति । नित्यानुष्ठानादशुभक्षयेऽपि नास्मिन् प्रकरणे तद्विवक्षितं ; ‘यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ‘ (भ. गी. ४-१६) इति ज्ञानादशुभक्षयस्य प्रतिज्ञातत्वात् , नच तज्ज्ञानं फलाभावविषयमेषितव्यमित्याह - नत्विति । अशुभस्य फलाभावज्ञानकार्यत्वाभावान्न फलाभावज्ञानात् क्षयः सिध्यतीत्यर्थः । किञ्चातीन्द्रियोऽर्थः शास्त्रान्निश्चीयते । नच नित्यकर्मणां फलाभावज्ञानादशुभनिवृत्तिरित्यत्र शास्त्रमस्तीत्याह - नहीति । नित्याकरणं कर्मेति ज्ञानमपि, नाशुभनिवृत्तिफलत्वेन चोदितमस्तीत्याह - नित्यकर्मेति । भगवद्वचनमेवात्र प्रमाणमित्याशङ्क्याह - नचेति । साधारणमेव ‘यज्ज्ञात्वा’ इत्यादि भगवतो वचनं, नतु नित्यानां फलाभावं ज्ञात्वेति विशेषविषयमित्यर्थः । अशुभमोक्षणासम्भवप्रदर्शनेन कर्मण्यकर्मदर्शननिराकरणन्यायेन अकर्मणि कर्मदर्शनं निराकरोति - एतेनेति । नामादिषु फलाय ब्रह्मदृष्टिवत् अकर्मण्यपि फलार्थं कर्मदृष्टिविधानान्नाशुभमोक्षणानुपपत्तिरित्याशङ्क्य, आह - नहीति । अत्र हि श्लोके नित्यस्य कर्तव्यतामात्रं परमते विवक्षितम् । अतश्चाकर्मणि कर्मदर्शनं विधीयते तत्त्फलायेति कल्पना परस्य सिद्धान्तविरुद्धेत्याह - नित्यस्य त्विति । परमतेऽपि नित्यस्य कर्तव्यतामात्रमत्र श्लोके न विवक्षितं, किन्तु नित्यानुष्ठाने प्रवृत्तिसिद्ध्यर्थं नित्याकरणात् प्रत्यवायो भवतीति ज्ञानमपि कर्तव्यत्वेनात्र विवक्षितमेवेत्याशङ्य अह - नचेति । न तावत् प्रवृत्तिरस्य विज्ञानस्य फल, नियोगादेव तदुपपत्तेः । नापि फलान्तरम् अनुपलम्भात् ; अतोऽफलत्वादकरणात् प्रत्यवायो भवतीति ज्ञानं नात्र कर्तव्यत्वेन विवक्षितमित्यर्थः । किञ्चाकरणे कर्मदृष्टिविधावकरणस्यालम्बनत्वेन प्रधानत्वात् ज्ञेयत्वं वक्तव्यं, तच्च तुच्छत्वादनुपपन्नमित्याह- नापीति । अकरणस्यासतो नामादिवदाश्रयत्वेन दर्शनासम्भवेऽपि, सामानाधिकरण्येन इदं रजतमितिवद् दर्शनं भविष्यतीत्याशङ्क्याह - नापि कर्मेति । आदिशब्देन सर्वोत्कर्षादि गृह्यते । फलवत्त्वं स्तुतिर्वा सम्यग्ज्ञानस्य युक्तं, न मिथ्याज्ञानस्य, अनुपपत्तेरित्यर्थः । स्वप्ने मिथ्याज्ञानमपि फलवदुपलब्धमित्याशङ्क्य, मिथ्याज्ञानस्याशुभाविरोधित्वान्न तस्मात् तन्निवृत्तिरित्याह - मिथ्याज्ञानमेवेति । अशुभादेवाशुभानिवृत्तौ दृष्टान्तमाह - नहीति । अविवेकपूर्वकम् , इदं रजतमिति, सदसतोः सामानाधिकरण्यान्मिथ्याज्ञानं युक्तं, कर्माकर्मणोस्तु विवेकेन भासमानयोः सामानाधिकरण्याधीनं ज्ञानं -सिंहदेवदत्तयोरिव गौणं, न मिथ्याज्ञानमिति शङ्कते - नन्विति । कर्माकर्मेति दर्शने फलाभावो गुणः, अकर्म कर्मेति दर्शने तु फलाभावो गुणः, तन्निमित्तमिदं ज्ञानं गौणमित्याह - फलेति । यथोक्तज्ञानस्य गौपत्वेऽपि प्रामाणिकफलाभावान्न तद्नौणतोचितेति दूषयति - नेत्यादिना । कर्माकर्मेत्यादिगौणविज्ञानोपन्यासव्याजेन नित्याकर्मणः कर्तव्यतायाः विवक्षितत्वाद्नौणज्ञानस्याफलत्वमदूषणमित्याशङ्क्याह - नापीति । ज्ञानादशुभमोक्षणस्य श्रुतस्य हानिः, अश्रुतस्य नित्यानुष्ठानस्य कल्पनेत्यनेन व्यापारगौरवेण न कश्चिद्विशेषः सिध्यतीत्यर्थः । उक्तमेव प्रपञ्चयति - स्वशब्देनेति । नरकपातः स्यादतो विधेरेवानुष्ठेयानि तानीति शेषः । यथोक्तवाचकशब्दप्रयोगादेव अपेक्षितार्थसिद्धिसम्भवे भगवतो व्याजवचनकल्पनमनुचितमित्याह - तत्रेति । प्रकृते श्लोके वृत्तिकृतां व्याख्यानेन परमाप्तस्यैव भगवतो विप्रलम्भकत्वमापादितमिति तदीयं व्याख्यानमुपेक्षितव्यमिति फलितमाह - तत्रैवमिति । नित्यकर्मानुष्ठानसिद्ध्यर्थं व्याजरूपमिति भगवद्वचनमुचितमित्याशङ्क्य, स्वशब्देनापीत्यादिप्रागुक्तपरिपाट्या तदनुष्ठानबोधनसम्भवाद् मैवमित्याह - नचैतदिति । वस्तुशब्देन नित्यकर्मानुष्ठानमुच्यते । यथात्मप्रतिपादनं सुबोधत्वसिद्ध्यर्थं पौनःपुन्येन क्रियते, तथा नित्यानामपि कर्मणामनुष्ठानं ‘कर्मण्यकर्म’ (भ. गी. ४-१८) इत्यादिशब्दान्तरेणोच्यमानं सुबोधं स्यादिति भगवतः शब्दान्तरं युक्तमित्याशङ्क्य, तस्य नित्यानुष्ठानवाचकत्वाभावान्मैवमित्याह - नापीति । किञ्च, पूर्वमेव नित्यानुष्ठानस्य स्पष्टमुपदिष्टत्वान्न तस्य सुबोधनार्थं शब्दान्तरमपेक्षितमित्यह – कर्मण्येवेति । कर्माकर्मादिविज्ञानव्याजेन नित्याकर्मानुष्ठानकर्तव्यतायां तात्पर्यमित्येतन्निराकृत्य, कर्माकर्मादिदर्शनं गौणमिति पक्षे दूषणान्तरमाह - सर्वत्र चेति । लोके वेदे च यथा प्रशस्तं देवतादितत्त्वं, यच्च कर्तव्यमनुष्ठानार्हमग्निहोत्रादि, तदेव बोद्धव्यमित्युच्यते ; न निष्फलं काकदन्तादि । कर्मणि अकर्मदर्शनमकर्मणि च कर्मदर्शनं गौणत्वादेवाप्रशस्तमकर्तव्यं च । नातः तद् बोद्धव्यमिति वचनमर्हतीत्यर्थः । किञ्च, कर्मादेर्मायामात्रत्वाद् गौणमपि तद्विषयं ज्ञानं मिथ्याज्ञानमिति, न तस्य बोद्धव्यत्वसिद्धिरित्याह - नचेति । मिथ्याज्ञानस्य बोद्धव्यत्वाभावेऽपि तद्विषयस्य बोद्धव्यता सिध्येदित्याशङ्क्याह वस्त्वाभासत्वात् मैवमित्याह - तत्प्रत्युपस्थापितं वेति । यत्पुनरकरणस्य प्रत्यवायहेतुत्वम् , अकरणे गौण्या वृत्त्या कर्मशब्दप्रयोगे निमित्तमिति, तद् दूषयति - नापीति । अकरणात् प्रत्यवायो भवतीत्यत्र श्रृतिस्मृतिविरोधमभिदधाय, युक्तिविरोधमभिधाति - असत इति । असतः सद्रूपेण भवनमभवनं च निःस्वरूपत्वादनुपपन्नम् - निरस्तसमस्ततत्त्वस्य किञ्चित् तत्त्वाभ्युपगमे सर्वप्रमाणानामप्रामाण्यसद्रूपेण भवनमभवनं च निः स्वरूपत्वादनुपपन्नम् - निरस्तसमस्ततत्त्वस्य किञ्चित् तत्त्वाभ्युपगमे सर्वप्रमाणानामप्रामाण्य प्रसङ्गादित्याह - तच्चेति । यत्तु नित्यानां फलराहित्यं तत्राकर्मशब्दप्रयोगे निमित्तमिति, तन्निरस्यति - नचेति । न केवलं विध्युद्देशे स्वफलाभावान्नित्यानां विध्यनुपपत्तिः, अपितु धात्वर्थस्य क्लेशात्मकत्वात् तत्र श्रुतफलाभावे नैव विधिरवकाशमासादयेदित्याह - दुःखेति । दुःखरूपस्यापि धात्वर्थस्य साध्यत्वेन कार्यत्वात् तद्विषयो विधिः स्यादिति चेन्नेत्याह - दुःखस्य चेति । स्वर्गादिफलाभावेऽपि नित्यानामकरणनिमित्तनिरयनिरासार्थं दुःखरूपाणामपि स्यादनुष्ठेयत्वमित्याशङ्क्य आह - तदकरणे चेति । फलान्तराभावेऽपि मोक्षसाधनत्वाद् मुमुक्षुणा नित्यानि कर्माण्यनुष्ठेयानीत्याशङ्क्याह - स्वाभ्युपगमेति । वृत्तिकारव्याख्यानासद्भावे फलितमुपसंहरति - तस्मादिति । कोऽसौ यथाश्रुतोऽर्थः श्लोकस्येत्याशङ्क्य आह - तथाचेति
॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 उत्तरश्लोकमाकाङ्क्षापूर्वकमुपादत्ते - किं पुनरिति । समारम्भशब्दस्य कर्मविषयत्वं न रूढ्या, किन्तु व्युत्पत्त्येत्याह - समारभ्यन्त इतीति । कामसङ्कल्पवर्जितत्वे कथं कर्मणामनुष्ठानमित्याशङ्क्याह - मुधैवेति । उद्देश्यफलाभावे तेषामनुष्ठानं यादृच्छिकं स्यादित्याशङ्क्य, प्रवृत्तेन निवृत्तेन वा तेषामनुष्ठानं यादृच्छिकं स्यादिति विकल्प्य, क्रमेण निरस्यति - प्रवृत्तेनेत्यादिना । ज्ञानग्नीत्यादि विभजते - कर्मादाविति । यथोक्तज्ञानं योग्यमेव दहति, नायोग्यमिति विवक्षितत्वात् तस्मिन्नग्निपदम् । यथोक्तविज्ञानविरहिणामपि वैशेषिकादीनां पण्डितत्वप्रसिद्धिमाशङ्क्य, तेषां पण्डिताभासत्वं विवक्षित्वा विशिनष्टि - परमार्थत इति
॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 कर्मण्यकर्मदर्शनं पूर्वोक्तं स्तोतुमुत्तरश्लोकं प्रस्तौति - तदेतदिति । यथोक्तदर्शित्वं - पूर्वोक्तदर्शनसम्पन्नत्वम् । यथोक्तं ज्ञानं कूटस्थात्मदर्शनं, तेन स्वरूपभूतं सुखं साक्षादनुभूय, कर्मणि तत्फले च सङ्गमपास्य, विषयेषु निरपेक्षश्चेष्टते विद्वानित्याह - त्यक्त्वेत्यादिना । इष्टसाधनसापेक्षस्य कुतो निरपेक्षत्वमित्याशङ्क्य, विशिनष्टि - निराश्रय इति । यदाश्रित्येति यच्छब्देन फलसाधनमुच्यते । आश्रयरहितमित्यस्यार्थं स्पष्टयति - दृष्टेति । तेन ज्ञानवता पुरुषेण एवंभूतेन - त्यकत्वा कर्मफलासङ्गमित्यादिना विशेषितेनेत्यर्थः । ततः - ससाधनात् कर्मणः सकाशादिति यावत् । निर्गमासम्भवे हेतुमाह - लोकेत्यादिना ।
पूर्ववत् -ज्ञानोदयात् - प्रागवस्थायामिवेत्यर्थः । अभिप्रवृत्तोऽपि लोकदृष्ट्येति शेषः । नैव करोति किञ्चिदिति स्वदृष्ट्येति द्रष्टव्यम् ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 विवेकात् पूर्वं कर्मणि प्रवृत्तावपि, सति विवेके तत्र न प्रवृत्तिरित्याशङ्क्याङ्गीकरोति - यस्त्विति । विवेकात् पूर्वमभिनिवेशेन प्रवृत्तस्य विवेकानन्तरमभिनिवेशाभावात् प्रवृत्त्यसम्भवेऽपि जीवनमात्रमुद्दिश्य प्रवृत्त्याभास सम्भवतीत्यर्थः । सत्यपि विवेके तत्त्वसाक्षात्कारानुदयात् कर्मणि प्रवृत्तस्य कथं तत्त्यागः स्यादित्याशङ्क्याह - यस्तु प्रारब्धेति । त्यक्त्वा इत्यादि समनन्तरश्लोकमवतारयितुं भूमिकां कृत्वा, तदवतारणप्रकारं दर्शयति - स कुतश्चिदिति । लोकसङ्ग्रहादि, निमित्तं विवक्षितम् । कर्मपरित्यागासम्भवे सति तस्मिन् प्रवृत्तोऽपि नैव करोति किञ्चिदिति सम्बन्धः । कर्मणि प्रवृत्तो न करोति कर्मेति कथमुच्यते तत्राह - स्वप्रयोजनाभावादिति । कथं तहि कर्मणि प्रवर्तते तत्राह- लोकेति । प्रवृत्तेरर्थक्रियाकारित्वाभावं ‘पश्वादिभिश्चाविशेषात्’ इति न्यायेन व्यावर्तयति - पूर्ववदिति । कथं तर्हि विवेकिनामविवेकिनां च विशेषः स्यादित्याशङ्क्य, कर्मादौ सङ्गासङ्गाभ्यामित्याह - कर्मणीति । उक्तेऽर्थे समनन्तरश्लोकमवतारयति - ज्ञानाग्नीति । एतमर्थं दर्शयिष्यन्निमं श्लोकमाहेति योजना । आशिषां विदुषो निर्गतत्वे हेतुमाह - यतेति । चित्तवत् आत्मनः सन्यमनं कथम् इत्याशङ्क्याह - आत्मा बाह्य इति । द्वयोः संयमने सति अर्थसिद्धमर्थमाह - त्यक्तेति । सर्वपरिग्रहपरित्यागे देहस्थितिरपि दुःस्था स्यात् , इत्याशङ्र्याह - शरीरमिति । मात्रशब्देन पौनरुक्त्यादनर्थकं केवलपदम् , इत्याशङ्क्याह- तत्रापीति । शारीरं केवलमित्यादौ शारीरपदार्थं स्फुटीकर्तुमुभयथा सम्भावनया विकल्पयति - शारीरमिति । शरीरनिर्वर्त्यं शारीरमित्यस्मिन् पक्षे किं दूषणं शरीरस्थितिमात्रप्रयोजनं शारीरमित्यस्मिन् वा पक्षे किं फलम् इति पूर्ववादी पृच्छति - किञ्चात इति । शरीरनिर्वर्त्यं शारीरमित्यस्मिन् पक्षे सिद्धान्ती दूषणमाह - उच्यत इति । शरीरेण यन्निर्वर्त्यं, तत्किं प्रतिषिद्ध विहितं वा प्रथमे, विरोधः स्यादित्याह - यदेति । प्रतिषिद्धाचरणेऽपि नानिष्टप्राप्तिरित्युक्ते प्रतिषेधशास्रविरोधः स्यादित्यर्थः । द्वितीये, विहितकरणे सति अनिष्टप्राप्त्यभावादप्राप्ततिषेधः स्यादित्याह - शास्त्रीयं चेति । दृष्टप्रयोजनं कारीर्यादिकं कर्म, अदृष्टप्रयोजनं स्वर्गसाधनं ज्योतिष्टोमादिकं कर्मेति विभागः । शरीरनिर्वर्त्यं कर्म शारीरमभिमतम् , इति पक्षे दूषणान्तरमाह - शारीरमिति । वाचा मनसा चाकर्मणोऽनुष्ठाने संन्यासिनो भवत्येव किल्बिषप्राप्तिः, इत्याशङ्क्याह - तत्रापीति । वाङूमनसाभ्यां विहितानुष्ठाने वा, प्रतिषिद्धकरणे वा किल्बिषप्राप्तिः संन्यासिनः स्यात् , इति विकल्प्य, आद्ये जपध्यानविधिरोधः स्यादित्युक्त्वा, द्वितीयं दूषयति - प्रतिषिद्धेति । शरीरनिर्वर्त्यं कर्म शारीरमिति पक्षमेवं प्रतिक्षिप्य, द्वितीयपक्षे लाभं दर्शयति - यदा त्विति । अन्यत् देहस्थितिप्रयोजनात् कर्मणः सकाशाद् इति शेषः । तत्रापि विदुषः स्वदृष्ट्या न प्रवृत्तिरिति सूचयति - लोकेति । विद्वान् उक्तया रीत्या वर्तमानो नाप्नोति किल्बिषमित्यत्र विवक्षितमर्थमाह - एवंभूतस्येति । विधिनिषेधगम्यं कर्म देहस्थितिहेतुव्यतिरिक्तमकुर्वत इत्यर्थः । ‘शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्‘ (भ. गी. ४-२१) इत्यस्योक्तेन प्रकारेण परिग्रहे ‘शारीरं केवल’ मिति विशेषणद्वयं निर्दोषं सिध्यतीति फलितमाह - एवमिति
॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 सत्यपि विक्षेपके कर्मणि, कूटस्थात्मानुसन्धानस्य सिद्धे कैवल्यहेतुत्वे, विक्षेपाभावे सुतरां तस्य तद्देतुत्वसिद्धिरित्यभिप्रेत्याह - यः पुनरिति । पूर्वोक्तविपरीतत्वं लोकसङ्ग्रहादिनिरपेक्षत्वम् । तदेव वैपरीत्यं स्फोरयति - प्रागेवेति । ससाधनसर्वकर्मसंन्यासे शरीरस्थितिरपि कथम् इत्याशङ्क्याह - शरीरेति । तर्हि तथाविधचेष्टानिविष्टचेतस्तया सम्यग्ज्ञानबहिर्मुखस्य कुतो मुक्तिः इत्याशङ्क्य यथोपदिष्टचेष्टायामनादरात् नैवमित्याह - ज्ञाननिष्ठ इति । इति दर्शयितुमिमं श्लोकं प्राहेति पूर्ववत् । आशिषः प्रार्थनाभेदास्तृष्णाविशेषाः । परोत्कर्षामर्षपूर्विका स्वस्योत्कर्षाभिवाञ्छा विगता यस्मादिति व्युत्पत्तिमाश्रित्य विवक्षितमर्थमाह - निर्वैरेति । सङ्क्षेपतो दर्शितमर्थं विशदयति - य एवंभूत इति । तथाऽपि प्रकृतस्य यतेर्भिक्षाटनादौ कर्तृत्वं प्रतिभाति, तदभावे भिक्षाटनाद्यभावेन जीवनाभावप्रसङ्गादित्याशङ्क्याह - लोकेति । लौकिकैरविवेकिभिः सह व्यवहारस्य स्नानाचमनभोजनादिलक्षणस्य विदुषाऽपि सामान्येन दर्शनात् तदनुसारेण लौकिकैरध्यारोपितकर्तृत्वभोक्तृत्वाद् विद्वानपि लोकदृष्ट्या भिक्षाटनादौ कर्तृत्वमनुभवतीत्यर्थः । कथं तर्हि तस्याकर्तृत्वं तत्राह - स्वानुभवेनेति । यदृच्छेत्यादिपादत्रयं व्याख्याय, कृत्वाऽपीत्यादिचतुर्थपादं व्याचष्टे - स एवमिति । भिक्षाटनादिना प्रातिभासिकेन कर्मणा विदुषो बद्धत्वाभावेऽपि कर्मान्तरेण निबद्धत्वं भविष्यतीत्याशङ्क्याह - बन्धेति । ज्ञानाग्निदग्धत्वादित्येवं ‘शारीरं केवलम्’ (भ. गी. ४-२१)
इत्यादावुक्तस्यायमनुवाद इति योजना । यथोक्तस्य कर्मणो युत्तया महाविरोधाभ्युपगमसूचनार्थः अपिशब्दः ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वश्लोकेन सङ्गतिं दर्शयन् उत्तरश्लोकमुत्थापयति - त्यक्तेति । अन्नादेरित्यादिशब्देन पादुकाच्छादनादि गृह्यते । याचनादिनेत्यादिपदेन सेवाकृष्याद्युपादीयते । भिक्षाटनार्थमुद्योगात् प्राक्काले केनापि योग्येन निवेदितं भैक्ष्यमयाचितम् । अभिशस्तं पतितं च वर्जयित्वा सङ्कल्पमन्तरेण पञ्चभ्यः सप्तभ्यो वा गृहेभ्यः समानीतं भैक्ष्यम् असङ्क्लृप्तम् । सिद्धमन्नं भक्तजनैः स्वसमीपमुपानीतमुपपन्नम् । यदृच्छया - स्वकीयप्रयत्नव्यतिरेकेणेति यावत् । आदिशब्देन ‘माधूकरमसङ्क्लृप्तं प्राक्प्रणीतमयाचितम् । तत्तत्कालोपपन्नं च भैक्ष्यं पञ्चविधं स्मृतम् ॥ ‘ (सं. उ. ६५) इत्यादि गृृह्यते । आविष्कुर्वन्निदं वाक्यमाहेति योजनीयम् । यथोक्तस्यापि विद्यावतो मुक्तस्य भगवत्प्रीत्यर्थं कर्मानुष्ठानोपलम्भात् ततो बन्धारम्भः सम्भाव्येत, इत्याशङ्क्याह - यज्ञायेति । धर्माधर्मादीत्यादिशब्देन रागद्वेषादिसङ्ग्रहः । तस्य बन्धनत्वं करणव्युत्पत्त्या प्रतिपत्तव्यम् । यज्ञनिर्वृत्त्यर्थं - यज्ञशब्दितस्य भगवतो विष्णोर्नारायणस्य प्रीतिसम्पत्त्यर्थमिति यावत् । ज्ञानमेव वाञ्छतो ज्ञानस्य प्रतिबन्धकं कर्म परिशङ्कितं परिहरति - कर्मेति । समग्रेणेत्यङ्गीकृत्य व्याचष्टे - सहेत्यादिना
॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 गतसङ्गस्येत्यादिश्लोकस्य व्यवहितेन सम्बन्धं वक्तुं वृत्तं कीर्तयति - त्यक्त्वेति । अनेन श्लोकेन ‘नैव किञ्चित् करोति सः’ (भ. गी. ४-२०) इत्यत्र कर्माभावः प्रदर्शितः इति सबन्धः । कस्य कर्माभावप्रदर्शनम् इत्याशङ्क्याह - यः प्रारब्धेति । प्रारब्धकर्मा सन् योऽवतिष्ठते, तस्य कर्माभावः प्रदर्शितश्चेत् विरोधः स्यात् इत्याशङ्क्य, अवस्थाविशेषे तत्प्रदर्शनान्मैवमित्याह - यदेति । ननु ज्ञानवतः क्रियाकारकफलाभावदर्शिनः कर्मपरित्यागध्रौव्यात् कर्माभाववचनमप्राप्तप्रतिषेधः स्यात् , इत्याशङ्क्याह - आत्मन इति । लोकसङ्ग्रहादि निमित्तं प्रागेवोक्तम् । अविद्यावस्थायामिवेति पूर्ववदित्युक्तम् । एवं वृत्तमनूद्योत्तरश्लोकमवतारयति - यस्येति । अर्पणशब्दस्य करणविषयत्वं दर्शयन्नर्पणं ब्रह्मेति पदद्वयपक्षे सामानाधिकरण्यं साधयति - येनेति । यद्रजतं सा शुक्तिरितिवद् बाधायामिदं सामानाधिकरण्यमित्याह - तस्येति । तत्र दृष्टान्तमाह - यथेति । उक्तेऽर्थे पदद्वयमवतारयति - तद्वदुच्यत इति । उक्तमेवार्थं स्पष्टयति - यथा यदिति । समासशङ्कां व्यावर्तयति - ब्रह्मेति । पदद्वयपक्षे विवक्षितमर्थं कथयति - यदर्पणेति । ब्रह्म हविरिति पदद्वयमवतार्य व्याचष्टे - ब्रह्मेत्यादिना । यदर्पणबुद्ध्या गृह्यते तद्ब्रह्मविदो ब्रह्मैवेति यथोक्तं, तथेहापीत्याह - तथेति । अस्येति षष्ठी ब्रह्मविदमधिकरोति । पूर्ववदसमासमाशङ्क्य व्यावर्तयन् पदान्तरमवतार्य व्याकरोति - तथेति । प्रागुक्तासमासवदिति व्यतिरेकः । तत्र विवक्षितमर्थमाह - अग्निरपीति । ब्रह्मणेति पदस्याभिमतमर्थमाह - ब्रह्मणेति । कर्त्रा हूयत इति सम्बन्धः । कर्ता ब्रह्मणः सकाशाद् व्यतिरिक्तो नास्तीत्येतदभिमतम् , इत्याह - ब्रह्मैवेति । हुतमित्यस्य विवक्षितमर्थमाह - यत्तेनेति । ब्रह्मैव तेनेत्यादि भागं विभजते - ब्रह्मैवेत्यादिना । ‘ब्रह्म कर्म’ इत्याद्यवतार्य व्याकरोति - ब्रह्मेति । कर्मत्वं ब्रह्मणो ज्ञेयत्वात् प्राप्यत्वाच्च प्रतिपत्तव्यम् । एवं ब्रह्मार्पणमन्त्रस्याक्षरार्थमुक्त्वा तात्पर्यार्थमाह - एवमिति । निवृत्तकर्माणं संन्यासिनं प्रति कथमस्य मन्त्रस्य प्रवृत्तिः इत्याशङ्क्याह - निवृत्तेति । यथा बाह्ययज्ञानुष्ठानासमर्थस्याज्ञस्य सङ्कल्पात्मकयज्ञो दृष्टः, तथा ज्ञानस्य यज्ञत्वसम्पादनं स्तुत्यर्थं सुतरामुपपद्यते, तेन स्तुतिलाभात् कल्पनायाः स्वाधीनत्वाच्चेत्यर्थः । ज्ञानस्य यज्ञत्वसम्पादनमभिनयति - यदर्पणादीति । केन प्रमाणेनात्र यज्ञत्वसम्पादनमवगतम् इत्याशङ्क्य, अर्पणादीनां विशेषतो ब्रह्मत्वाभिधानानुपपत्त्या, इत्वाह - अन्यथेति । ज्ञानस्य यज्ञत्वे सम्पादिते फलितमाह - तस्मादिति । ‘आत्मैवेदं सर्वम्’ (छा. उ. ७-२५-२) इत्यात्मव्यतिरेकेण सर्वस्यावस्तुत्व प्रतिपाद्यमानस्य कर्माभावे हेत्वन्तरमाह - कारकेति । कारकबुद्धेस्तेष्वभिमानस्याभावेऽपि किमिति कर्म न स्याद् इत्याशङ्क्याह - नहीति । उक्तमेवान्वयव्यतिरेकाभ्यां द्राढयति - सर्वमेवेति । ‘इन्द्राय’ इत्यादिना शब्देन समर्पितो देवताविशेषः सम्प्रदानं कारकम् , आदि शब्दाद् व्रीह्यादिकरणकारकं तद्विषयबुद्धिमत् , कर्ताऽ स्मीत्यभिमानपूर्वकं भोक्ष्ये फलमस्येति फलभिसन्धिमच्च कर्म दृष्टमिति योजना । अन्वयमुक्त्वा व्यतिरेकमाह - नेत्यादिना । उपमृदिता क्रियादिभेदविषया बुद्धिर्यस्य तत्कर्म । तथा कर्तृत्वाभिमानपूर्वको भोक्ष्ये फलमस्येति योऽभिसन्धिस्तेन रहितं च न कर्म दृष्टमित्यन्वयः । तथाऽपि ब्रह्मविदो भासमानकर्माभावे किमायातम् इत्याशङ्क्याह - इदमिति । यदिदं ब्रह्मविदो दृश्यमानम् कर्म, तदहमस्मि ब्रह्मेति बुद्ध्या निराकृतकारकादिभेदविषयबुद्धिमत् । अतश्च कर्मैव न भवति । तत्त्वज्ञाने सति व्यापकं कारकादि, व्यावर्तमानं व्याप्यं कर्मापि व्यावर्तयति । तत्त्वविदः शरीरादिचेष्टा, कर्माभावः कर्मव्यापकरहितत्वात् सुषुप्तचेष्टावदित्यर्थः । ज्ञानवतो दृश्यमानं कर्म अकर्मैवेत्यत्र भगवदनुमतिमाह - तथाचेति । ब्रह्मविदो दृष्टं कर्म नास्तीत्युक्तेऽपि तत्कारणानुपमर्दात् पुनर्भविष्यति इत्याशङ्क्याह - तथाच दर्शयन्निति । अविद्वानिव विद्वानपि कर्मणि प्रवर्तमानो दृश्यते । तथाऽपि तस्य कर्म अकर्मैव इत्यत्र दृष्टान्तमाह - दृष्टा चेति । विद्वत्कर्मापि कर्मत्वाविशेषादितरकर्मवत् फलारम्भकमित्यपि शङ्का न युक्तेत्याह - तथेति । इदं कर्म एवं कर्तव्यम् , अस्य च फलं भोक्तव्यमितिमतिः, तत्पूर्वकाणि अतत्पूर्वकाणि च कर्माणि । तेषामवान्तरभेदसङ्ग्रसन्ग्रहार्थमादिपदम् । दार्ष्टान्तिकमाह - तथेति । सप्तम्या विद्वत्प्रकरणं परामृष्टम् । षष्ठ्यौ समानाधिकरणे । उक्तेऽर्थे पूर्ववाक्यमनुकूलयति - अत इति । ब्रह्मार्पणमन्त्रस्य स्वव्याख्यानमुक्त्वा, स्वयूथ्यव्याख्यानमनुवदति - अत्रेति । प्रसिद्धोद्देशेनाप्रसिद्धविधानस्य न्याय्यत्वादप्रसिद्धोद्देशेन प्रसिद्धविधानं कथम् इत्याशङ्क्याह - ब्रह्मैवेति । किलेत्यस्मिन् व्याख्याने सिद्धान्तिनोऽसम्प्रतिपत्तिं सूचयति । कर्तृकर्मकरणसम्प्रदानाधिकरणरूपेण पञ्चविेधेन ब्रह्मैव व्यवस्थितं कर्म करोतीत्यङ्गीकारात् तदप्रसिद्ध्यभावात् तदनुवादेनार्पणादिष्वविरुद्धः तद्दृष्टिविधिरित्यर्थः । दृष्टिविधिपक्षे सिद्धान्ताद्विशेषं दर्शयति - तत्रेति । अर्पणादिषु कर्तव्यां ब्रह्मबुद्धिं दृष्टान्ताभ्यां स्पष्टयति - यथेत्यादिना । दृष्टिविधाने विधेयदृष्टेर्मानसक्रियात्वेन सम्यग्ज्ञानत्वाभावात् प्रकरणभङ्गः स्यात् , इत्यभिप्रेत्य परिहरति - सत्यमेवमिति । विधित्सितदृष्टिस्तुतिपरमेव प्रकरणं, न ज्ञानस्तुतिपरम् , इत्याशङ्क्य, प्रकरणपर्यालोचनया ज्ञानस्तुतिरेवात्र प्रतिभातीति प्रतिपादयति - अत्र त्विति । किञ्च ब्रह्मार्पणमन्त्रस्यापि सम्यग्ज्ञानस्तुतौ सामर्थ्यं प्रतिभतीत्याह - अत्र चेति । ननु अर्पणादिषु ब्रह्मदृष्टिं कुर्वतामपि ब्रह्मविद्यैवात्र विवक्षितेति पक्षभेदासिद्धिरिति चेत् , तत्राह - ये त्विति । यथा ब्रह्मदृष्ट्या नामादिकमुपास्यं, तथाऽर्पणादिषु ब्रह्मदृष्टिकरणे सति अर्पणादिकमेव प्राधान्येन ज्ञेयमिति, ब्रह्मविद्या यथोक्तेन वाक्येन विवक्षिता न स्यादित्यर्थः । किञ्च ‘ब्रह्मैव तेन गन्तव्यम् ‘इति ब्रह्मप्राप्तिफलाभिधानादपि दृष्टिविधानमश्लिष्टमित्याह - नचेति । नचार्पणाद्यालम्बना दृष्टिर्ब्रह्म प्रापयति, ‘अप्रतीकालम्बनान् नयति’ (ब्र. सू. ४-३-१५) इति न्यायविरोधादितिभावः । दृष्टिविधानेऽपि नियोगबलादेन स्वर्गवददृष्टो मोक्षो भविष्यति, इत्याशङ्क्याह - विरुद्धं चेति । ज्ञानादेव कैवल्यमुक्त्वा मार्गान्तरापवादिन्या श्रुत्या विरुद्धं मोक्षस्याविद्यानिवृत्तिलक्षणस्य दृष्टस्य नैयोगिकत्ववचनमित्यर्थः । दृष्टिनियोगान्मोक्षो भवतीत्येतत् प्रकरणविरुद्धं च इत्याह- प्रकृतेति । तदेव प्रपञ्चयति - सम्यग्दर्शनं चेति । अन्ते च सम्यग्दर्शनं प्रकृतमिति सम्बन्धः । तत्र हेतुः - तस्यैवेति । सम्यग्ज्ञानेनोपक्रम्य तेनैवोपसंहारेऽपि मध्ये किञ्चिदन्यदुक्तमिति प्रकरणस्यातद्विषयत्वम् , इत्याशङ्क्याह - श्रेयानिति । प्रकरणे सम्यग्ज्ञानविषये सति अनुपपन्नो दर्शनविधिरिति फलितमाह - तत्रेति । ब्रह्मार्पणमन्त्रे परकीयव्याख्यानासम्भवे स्वकीयव्याख्यानं व्यवस्थितम् , इत्युपसंहरति - तस्मादिति
॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 ‘नाभुक्तं क्षीयते कर्म’ (ब्रह्मवैवर्तपुराणे ) इति स्मृतिमाश्रित्य शङ्कते - कस्मादिति । समस्तस्य - क्रियाकारकफलात्मकस्य द्वैतस्य ब्रह्ममात्रत्वेन बाधितत्वाद् ब्रह्मविदो ब्रह्ममात्रस्य कर्म प्रविलीयते सर्वम् , इति युक्तमित्याह- उच्यत इति । ब्रह्मविदो ब्रह्मैव सर्वक्रियाकारकफलजातं द्वैतमित्यत्र हेतुत्वेनानन्तरश्लोकमवतारयति - यत इति । सर्वस्य श्रेयःसाधनस्य मुख्यगौणवृत्तिभ्यां यज्ञत्वं दर्शयन्नादौ यज्ञद्वयमादर्शयति - दैवमेवेत्यादिना । प्रतीकमादाय दैवयज्ञं व्याचष्टे - देवा इति । सम्यग्ज्ञानाख्यं यज्ञं विभजते - ब्रह्माग्नाविति । तत्र ब्रह्मशब्दार्थं श्रृत्यवष्टम्भेन स्पष्टयति - सत्यमिति । यदजडम् अनृतविपरीतम् अपरिच्छिन्नं ब्रह्म, तस्य परमानन्दत्वेन परमपुरुषार्थत्वमाह - विज्ञानमिति । तस्य ज्ञानाधिकरणत्वेन ज्ञानत्वमौपचारिकम् , इत्याशङ्क्याह - यत्साक्षादिति । जीवब्रह्मविभागे कथमपरिच्छिन्नत्वम् इत्याशङ्क्य विशिनष्टि - य आत्मेति । परस्यैवात्मत्वं सर्वस्माद् देहादेरव्याकृतान्तात् आन्तरत्वेन साधयति - सर्वान्तर इति । विधिमुखं सर्वमेवोपनिषद्वाक्यं ब्रह्मविषयमादिशब्दार्थः । निषेधमुखं ब्रह्मविषयमुपनिषद्वाक्यमशेषमेवार्थतो निबध्नाति - अशनायेति । ब्रह्मण्यग्निशब्दप्रयोगे निमित्तमाह - स होमेति । बुद्ध्यारूढतया सर्वस्य दाहकत्वात् विलयस्य वा हेतुत्वादिति द्रष्टव्यम् । यज्ञशब्दस्यात्मनि त्वम्पदार्थे प्रयोगे हेतुमाह - आत्मनामस्विति । आधाराधेयभावेन वास्तवभेदं ब्रह्मात्मनोर्व्यावर्तयतिं - परमार्थत इति । कथं तर्हि होमः नहि तस्यैव तत्र होमः सम्भवति, इत्याशङ्क्याह - बुद्ध्यादीति । उपाधिसम्योगफलं कथयति - अध्यस्तेति । उपाध्यध्यासद्वारा तद्धर्माध्यासे प्राप्तमर्थं निर्दिशति - आहुतीति । इत्थम्भूतलक्षणां तृतीयामेव व्याकरोति - उक्तेति । अशनायादिसर्वसंसारधर्मवर्जितेन निर्विशेषेण स्वरूपेणेति यावत् । आत्मनो ब्रह्मणि होममेव प्रकटयति - सोपाधिकस्येति । अपर इत्यस्यार्थं स्फोरयति - ब्रह्मेति । उक्तस्य ज्ञानयज्ञस्य दैवयज्ञादिषु ‘ब्रह्मार्पणम्’ इत्यादिश्लोकैरूपक्षिप्यमाणत्वं दर्शयति - सोऽयमिति । उपक्षेपप्रयोजनमाह - श्रेयानिति
॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानस्य यज्ञत्वं सम्पाद्य पूर्वश्लोके स्थिते सति, अधुना तस्यैव ज्ञानस्य स्तुत्यर्थं यज्ञान्तरनिर्देशार्थमुत्तरग्रन्थप्रवृत्तिः, इत्याह - तत्रेति । सम्प्रति यज्ञद्वयमुपन्यस्यति - श्रोत्रादीनीति । बाह्यानां करणानां मनसि संयमस्यैकत्वात् कथं संयमाग्निष्विति बहुवचनम् इत्याशङ्क्याह - प्रतीन्द्रियमिति । सम्यमानां प्रत्याहाराधिकरणत्वेन व्यवस्थितानां मनोरूपाणां होमाधारत्वादग्नित्वं व्यपदिशति - संयमा इति । विषयेभ्योऽन्तर्बाह्यानीन्द्रियाणि प्रत्याहरन्तीति सम्यमयज्ञं सन्क्षिप्य दर्शयति - इन्द्रियेति । श्रोत्रादीन्द्रियाग्निषु शब्दादिविषयहोमस्य तत्तदिन्द्रियैस्तत्तद्विषयोपभोगलक्षणस्य सर्वसाधारणत्वमाशङ्क्य, प्रतिषिद्धान् वर्जयित्वा रागद्वेषरहितो भूत्वा प्राप्तान् विषयानुपभुञ्जते तैस्तैरिन्द्रियैः इति विवक्षितं होमं विशदयति- श्रोत्रादिभिरिति
॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 इन्द्रियाणां कर्माणि -श्रवणवदनादीनि, आत्मनि संयमो धारणाध्यानसमाधिलक्षणः । सर्वमपि व्यापारं निरुध्य आत्मनि चित्तसमाधानं कुर्वन्ति, इत्याह - विवेकेति
॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 यज्ञान्तरं कथयति - किञ्चेति । यज्ञषट्कमवतारयति - द्रव्येति । तत्र द्रव्ययज्ञान् पुरुषानुपादाय विभजते - तीर्थेष्विति ।
तपस्विनां यज्ञबुद्ध्या तपोऽनुतिष्ठन्तो नियमवन्त इत्यर्थः । प्रत्याहारादीत्यादिशब्देन यमनियमासनध्यानधारणासमाधयो गृह्यन्ते । यथाविधि प्रामुखत्वपवित्रपाणित्वाद्यङ्गविधिमनतिक्रम्येति यावत् । व्रतानां तीक्ष्णीकरणमतिदृढत्वम् ॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 प्राणायामपरायणाः सन्तो रेचकं पूरकं च कृत्वा कुम्भकं कुर्वन्तीत्याह - प्राणेति
॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 प्राणायामाख्यं यज्ञमुदाहरति - किञ्चेति । प्राणानां प्राणेषु होममेव विभजते - यस्येति । जितेषु वायुभेदेष्वजितानां तेषां होमप्रकारं प्रकटयति - ते तत्रेति । प्रकृतान् यज्ञानुपसंहरति - सर्वेऽपीति
॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 प्राणापानयोर्गती - श्वासप्रश्वासौ निरुध्य किं कुर्वन्ति इत्यपेक्षायामाह - किञ्चेति । प्राणापानगतिनिरोधरूपं कुम्भकं कृत्वा पुनःपुनर्वायुजयं कुर्वन्तीत्यर्थः । आहारस्य परिमितत्वं हितत्वमेध्यत्वोपलक्षणार्थम् । यथोक्तानां यज्ञानां मध्ये केनचिदपि यज्ञेन अविशेषितस्य पुरुषस्य प्रत्यवायं दर्शयति - नायमिति । कथं यथोक्तयज्ञानुष्ठायिनाम् अवशिष्टेन कालेन विहितान्नभुजां ब्रह्मप्राप्तिः इत्याशङ्क्य, मुमुक्षुत्वे सति चित्तशुद्धिद्वारा, इत्याह - मुमुक्षवश्चेदिति । तत्किमिदानीं साक्षादेव मोक्षो विविक्षितः तथाच गतिश्रुतिविरोधः स्याद् , इत्याशङ्क्य, गतिनिर्देशसामर्थ्यात् क्रममुक्तिः अत्राभिप्रेता, इत्याह - कालातीति । तृतीयं पादं व्याचष्टे - नायमिति ।
विवक्षितं कैमुतिकन्यायमाह - कुत इति । साधारणलोकाभावे पुनरसाधारणलोकप्राप्तिः दूरनिरस्ता इत्यर्थः । यथोक्तेऽर्थे बुद्धिसमाधानं कुरुकुलप्रधानस्य अर्जुनस्य अनायासलभ्यमिति वक्तुं कुरुसत्तम इत्युक्तम् ॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 यथोक्तयज्ञनिर्वर्तनानन्तरं क्षीणे कल्मषे किं स्यात् इत्याशङ्क्य आह - एवमिति । उक्तानां यज्ञानां वेदमूलकत्वेन उत्प्रेक्षानिबन्धनत्वं निरस्यति - एवमिति । आत्मव्यापारसाध्यत्वम् उक्तकर्मणामाशङ्क्य, दूषयति - कर्मजानिति । आत्मनो निर्व्यापारत्वज्ञाने फलमाह- एवमिति । कथं यथोक्तानां यज्ञानां वेदस्य मुखे विस्तीर्णत्वम् इत्याशङ्क्य आह - वेदद्वारेणेति । तेन अवगम्यमानत्वमेव उदाहरति - तद्यथेति । ‘एतद्ध स्म वै तत्पूर्वे विद्वांस आहुः’ (बृ. उ. ४-४-२२) इत्युपक्रम्य अध्ययनाद्याक्षिप्य, हेत्वाकाङ्क्षायामुक्तं - वाचि हीति । ज्ञानशक्तिमद्विषये क्रियाशक्तिमदुपंसहारः अत्र विवक्षितः, ‘प्राणे वा वाचं यो ह्येव प्रभवः स एवाप्ययः’ (एे. आ. ३-२-६) इति वाक्यम् आदिशब्दार्थः । ज्ञानशक्तिमतां क्रियाशक्तिमतां च अन्योन्योत्पत्तिप्रलयत्वात् तदभावे नाध्ययनादिसिद्धिः इत्यर्थः कर्मणाम् आत्मजन्यत्वाभावे हेतुमाह - निर्व्यापारोहीति । तस्य च निर्व्यापारत्वं फलवत्त्वात् ज्ञातव्यम् , इत्याह - अत इति । एवं ज्ञानमेव ज्ञापयन् उक्तं व्यनक्ति - नेत्यादिना
॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानयज्ञस्य द्रव्यज्ञात् प्रशस्यतरत्वे हेतुमाह - सर्वमिति । द्रव्यसाधनसाध्याद् इत्युपलक्षणं स्वाध्यायादेरपि । ततोऽपि ज्ञानयज्ञस्य श्रेयस्त्वाविशेषात् , द्रव्यमयादियज्ञेभ्यो ज्ञानयज्ञस्य प्रशस्यतरत्वं प्रपञ्चयति - द्रव्यमयो हिति । फलस्य -अभ्युदयस्येत्यर्थः । न फलारम्भकः -न कस्यचित्फलस्योत्पादकः । किन्तु नित्यसिद्धस्य मोक्षस्याभिव्यञ्जक इत्यर्थः । तस्य प्रशस्यतरत्वे हेत्वन्तरमाह - यत इति । सपस्तं कर्मेति अग्निहोत्रादिकमुच्यते । अखिलम् - अविद्यमानं खिलं - शेषः अस्येति, अनल्पम् । महत्तरमिति यावत् । सर्वम् अखिलम् - इति पदद्वयोपादानमसङ्कोचार्थम् । सर्वं कर्म ज्ञानेऽन्तर्भवति इत्यत्र छान्दोग्यश्रुतिं प्रमाणयति - यथेति । चतुरायके हि द्यूते कश्चिदायः चतुरङ्कस्सन् कृतशब्देनोच्यते - तस्मै विजिताय कृताय तादर्थ्येन अधरेयाः तस्मात् अधस्ताद्भाविनः त्रिद्व्येकाङ्काः त्रेताद्वापरकलिनामानः, संयन्ति - आयाः सङ्गच्छन्ते । चतुरङ्के खलु आये त्रिद् व्यकाङ्कानामायानाम् अन्तर्मावो भवति । महासंख्यायामवान्तरसङ्ख्यान्तर्भावावश्यम्भावात् । एवम् एनं विद्यावन्तं पुरुषं, सर्वं तदाभिमुख्येन समेति - सङ्गच्छते । किं तत्सर्वं यद्विदुषि पुरुषेऽन्तर्भवति, तदाह - यत्किञ्चिदिति । प्रजाः सर्वाः यत्किंचिदपि साधु कर्म कुर्वन्ति, तत्सर्वमित्यर्थः । एनमभिसमेतीत्युक्तं, तमेव विद्यावन्तं पुरुषं विशिनष्टि - यस्तदिति ।
किं तदित्युक्तं, तदेव विशदयति -यत्स इति । स रैक्को यत् तत्त्वं वेद, तत् तत्त्वं योऽन्योऽपि जानाति, तमेनं सर्वं साधु कर्म अभिसमेतीति योजना ॥ ३३ ॥ 【भाष्यम्】 【भाष्यम्】 कर्मयोगेऽनेकधा अभिहिते, सर्वस्व श्रेयःसाधनस्य कर्मात्मकत्वप्रतिपत्त्या केवलं ज्ञानम् अनाद्रियमाणम् अर्जुनमालक्ष्य, वृत्तानुवादपूर्वकम् उत्तरश्लोकस्य तात्पर्यमाह - ब्रह्मेत्यादिना । सिद्धेति । सिद्धं पुरुषार्थभूतम्पुरुषापेक्षित लक्षणं प्रयोजनं येषां यज्ञानां, तैः । अनन्तरोपदिष्टैरिति यावत् । प्रश्नपूर्वकं स्तुतिप्रकारं प्रकटयति - कथमित्यादिना । तद्विज्ञानं गुरुभ्यो विद्धि, गुरवश्व प्रणिपातादिभिरुपायैः आवर्जितचेतसोवदिष्यन्ति, इत्याह - तद्विद्धीति । उपदेष्टृत्वम् - उपदेशकर्तुत्वम् । परोक्षज्ञानमात्रेण न भवति, इत्याह - उपदेक्ष्यन्तीति । तदिति प्रेप्सितं ज्ञानसाधनं गृह्यते । येन विधिना इति शेषदर्शनात् । यद्वा, येन आचार्यावर्जनप्रकारेण तदुपदेशवशात् अपेक्षितं ज्ञानं लभ्यते, तथा तज्ज्ञानमाचार्येभ्यो लभस्व इत्यर्थः । तदेव स्फुटयति - आचार्या इति । एवमादिना इति आदिशब्देन शमादयो गृह्यन्ते, एवमादिना विद्धीति पूर्वेण सम्बन्धः । उत्तरार्धं व्याचष्टे- प्रश्रयेणेति । प्रश्रयः - भक्तिश्रद्धापूर्वको निरतिशयो नातिविशेषः । यथोक्तविशेषणं पूर्वोक्तेन प्रकारेण प्रशस्यतममित्यर्थः । विशेषणस्य पौनरुक्त्यपरिहारार्थम् अर्थभेदं कथयति - ज्ञानवन्तोऽपीति । ज्ञनिन इत्युक्त्वा पुनस्तत्त्वदर्शिन इति ब्रुवतो भगवतोऽभिप्रायमाह - ये सम्यगिति ।
बहुवचनं चैतत् आचार्यविषयं, बहुभ्यः श्रोतव्यं बहुधा चेतिसामान्यान्यायाभ्यनुज्ञानार्थम् । न त्वात्मज्ञानमधिकृत्य आचार्यवहुत्वं विवक्षितम् । तस्य तत्त्वसाक्षात्कारवदाचार्यमात्रोपदेशादेव उदयसम्भवात् ॥ ३४ ॥ 【भाष्यम्】 【भाष्यम्】 यद्येवं प्रशस्यतरमिदं ज्ञानं, तर्हि केनोपायेन तत्प्राप्तिः, इति पृच्छति - तदेतदिति । ज्ञानप्राप्तौ प्रत्यासन्नमुपायम् उपदिशति - उच्यत इति । तत्र निष्ठाप्रतिष्ठायै तदेव ज्ञानं पुनर्विशिनष्टि - येनेति । ‘यज्ज्ञात्वा’ इत्ययुक्तं, ज्ञाने ज्ञानायोगात् , इत्याशङ्क्य, प्राप्त्यर्थत्वमधिपूर्वस्य गमेरङ्गीकृत्य व्याकरोति - अधिगम्येति । इतश्च आचार्योपदेशलभ्ये ज्ञाने फलवति प्रतिष्ठावता भवितव्यम् , इत्याह - किञ्चेति । जीवे चेश्वरे चोभयत्र भूतानां प्रतिष्ठितत्वप्रतिनिर्देशे मेदवादानुमतिः स्याद् इत्याशङ्क्याह - क्षेत्रज्ञेति । मूलप्रमाणाभावे कथं तदेत्वदर्शनं स्याद् इत्याशङ्क्य आह - सर्वेति
॥ ३५ ॥ 【भाष्यम्】 【भाष्यम्】 विशिष्टैराचार्यैः उपदिष्टे ज्ञाने कार्यक्षमे प्राप्ते सति, समनन्तरवचनमपि योग्यविषयम् अर्थवद्भवति इत्याह - तथाचेति । अतः, तस्मिन्विशिष्टे ज्ञाने कार्यक्षमे त्वदीयमोहापोहहेतौ निष्ठावता भवितव्यम् , इति शेषः । पापकारिभ्यः सर्वेभ्यः सकाशात् अतिशयेन पापकारित्वम् एकस्मिन् असम्भावितमपि ज्ञानमाहात्म्यप्रसिद्यर्थमङ्गीकृत्य, ब्रवीति - अपिचेदिति । ब्रह्मात्मैक्यज्ञानस्य सर्वपापनिवर्तकत्वेन माहात्म्यम् इदानीं प्रकटयति - सर्वमिति । अधर्मे निवृत्तेऽपि धर्मप्रतिबन्धात् ज्ञानवतोऽपि न मोक्षः सम्भवति इत्याशङ्क्य आह – धर्मोऽपीति ।
इहेति अध्यात्मशास्त्रं गृह्यते ॥ ३६ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानस्य प्रकारान्तरेण प्रशम्सां प्रस्तौति - किञ्चेति । योग्यायोग्यविभागेन निवर्तकत्वानिवर्तकत्वविभागमुदाहरति - यथेति । दृष्टान्तानुरूपं दार्ष्टान्तिकमाचष्टे - ज्ञानाग्निरिति । योग्यविषयेऽपि दाहकत्वम् अग्नेः अप्रतिबन्धापेक्षया, इति विवक्षित्वा विशिनष्टि - सम्यक् इति । दार्ष्टन्तिकं व्याचष्टे - ज्ञानमेवेति । ननु ज्ञानं साक्षादेव कर्मदाहकं किमिति नोच्यते, नीर्बीजीकरोति कर्म इति किमिति व्याख्यानम् इत्याशङ्क्य, आह - नहीति । ज्ञानस्य स्वप्रमेयावरणाज्ञानापाकरणे सामर्थ्यस्य लोके दृष्टत्वात् अविक्रियब्रह्मात्मज्ञानमपि तदज्ञानं निवर्तयत् तज्जन्यकर्तृत्वभ्रमं कर्मबीजभूतं निवर्तयति । तन्निवृत्तौ च कर्माणि न स्थातुं पारयन्ति । नतु साक्षात्कर्मणां निवर्तकम् । ज्ञनमज्ञानस्यैव निवर्तकमिति व्याप्तेः तदनिवृत्तौ तु पुनरपि कर्मोद्भवसम्भवात् इत्यर्थंः । ज्ञानस्य साक्षात्कर्मनिवर्तकत्वाभावे फलितमाह - तस्मादिति । सम्यग्ज्ञानं मूलभूताज्ञाननिवर्तनेन कर्मनिवर्तकम् इष्टं चेत् , आरब्वफलस्यापि कर्मणो निवृत्तिप्रसङ्गात् ज्ञानोदयसमकालमेव शरीरपातः स्यात् इत्याशङ्क्य, आह - सामर्थ्यादिति । ज्ञानोदयसमसमयमेव देहापोहे तत्त्वदर्शिभिः उपदिष्टं ज्ञानं फलवत् इति भगवदभिप्रायस्य बाधितत्वप्रसङ्गात् आचार्यलाभान्याथानुपपत्त्या प्रवृत्तफलकर्मसम्पादकमज्ञानलेशं न नाशयति ज्ञानमित्यर्थः । कथं तर्हि प्रारब्धफलं कर्म नश्यति इत्याशङ्क्य, आह - येनेति । तर्हि कथं ज्ञानाग्निः सर्वकर्माणि भस्मसात् करोतीत्युक्तम् तत्राह - अत इति ।
ज्ञानादारब्धफलानां कर्मणां निवृत्त्यनुपपत्तेः अनारब्धफलानि यानि कर्माणि पूर्वं ज्ञानोदयात् अस्मिन्नेव जन्मनि कृतानि ज्ञानेन च सह वर्तमानानि, प्रचीनेषु चानेकेषु जन्मसु अर्जितानि, तानि सर्वाणि ज्ञानं कारणनिवर्तनेन निवर्तयतीत्यर्थः ॥ ३७ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञाने सत्यपि धर्माधर्मयोरुपलम्भात् कुतस्ततो निवृत्तिः इत्याशङ्क्य, ज्ञानस्य धर्माधर्मनिवर्तकत्वं दृष्टान्तेन दर्शयितुम् अनन्तरश्लोकमवतारयति - ज्ञानमिति । तत्पुनरात्मविषयं ज्ञानं सर्वेषां किमिति झटिति नोत्पद्यते तत्राह - तत्स्वयमिति ।
महता कालेन यथोक्तेन साधनेन योग्यतामापन्नः तदधिकृतः स्वयं तत् आत्मनि ज्ञानं विन्दतीति योजना । सर्वेषां झटिति ज्ञानानुदयो योग्यतावैधुर्यादिति भावः ॥ ३८ ॥ 【भाष्यम्】 【भाष्यम्】 ननु अन्येनैव परिशुद्धिकरेण केनचिदश्वमेधादिना परमपुरुषार्थसिद्धेः अलम् आत्मज्ञानेन, इत्याशङ्क्य, आह - यत इति । पृर्वोक्तेन प्रकारेण ज्ञानमाहात्म्यं यतः सिद्धम् , अतः तेन ज्ञानेन तुल्यं परिशुद्धिकरं परमपुरुषार्थौपयिकम् , इह - व्यवहारभूमौ, नास्तीत्यर्थः । ज्ञानलाभप्रयोजनमाह - ज्ञानमिति । न केवलं श्रद्धालुत्वमेवासहायं ज्ञानलाभे हेतुः, अपि तु तात्पर्यमपि, इत्याह - श्रद्धालुत्वेऽपीति । मन्दप्रस्थानत्वं - तात्पर्यविधुरत्वम् । नच तस्योपदिष्टमपि ज्ञानमुत्पत्तुमीष्टे । तेन तात्पर्यमपि तत्र कारणं भवति इत्याह - अत आहेति । अभियुक्तः - निष्ठावान् । उपासनादौ - इत्यादिशब्देन श्रवणादि गृह्यते । नच श्रद्धा तात्पर्यं च इत्युभयमेव ज्ञानकारणं, किन्तु संयतेन्द्रियत्वमपि । तदभावे श्रद्धादेः अकिञ्चित्करत्वात् इत्याशयेनाह - श्रद्धावानिति । उक्तसाधनानां ज्ञानेन सह ऐकान्तिकत्वमाह - य एवंभूत इति । ‘तद्विद्धि प्रणिपातेन’ (भ. गी. ४-३४) इत्यादौ प्रागेव प्रणिपातादेर्ज्ञानहेतोरुक्तत्वात् किमितीदानीं हेत्वन्तरमुच्यते तत्राह - प्रणिपातादिस्त्विति । तद्धि बहिरङ्गम् , इदं पुनरन्तरङ्गं, न च तत्र ज्ञाने प्रतिनियमः, मनसि अन्यथा कृत्वा बहिः अन्यथाप्रदर्शनात्मनो मायावित्वस्य सम्भवात् । विप्रलम्भकत्वादेरपि सम्भावनोपनीतत्वात् इत्यर्थः । मायावित्वादेः श्रद्धावत्त्वतात्पर्यादावपि सम्भवात् अनैकान्तिकत्वमविशिष्टम् , इत्याशङ्क्य, आह - नत्विति । नहि मायया विप्रलम्भेन वा श्रद्धातात्पर्यसंयमाभियोगतोऽनुष्टातुमर्हन्ति इत्यर्थः । उत्तरार्धं प्रश्नपूर्वकम् अवतार्य व्याकरोति - किम्पुनरित्यादिना । सम्यग्ज्ञानात् अभ्यासादिसाघनानपेक्षात् मेक्षो भवति इत्यत्र प्रमाणमाह - सम्यग्दर्शनादिति ।
शास्त्रशब्देन तमेव विदित्वा (श्वे.उ. ३ - ८), ‘ज्ञानादेव तु कैवल्यम्’ इत्यादि विवक्षितम् । न्यायस्तु ज्ञानादज्ञाननिवृत्तेः रज्ज्वादौ प्रसिद्धत्वात् आप्तज्ञानादपि निरपेक्षात् अज्ञानतत्कार्यप्रक्षयलक्षणो मोक्षः स्यात् , इत्येवं लक्षणः ॥ ३९ ॥ 【भाष्यम्】 【भाष्यम्】 कर्मयोगेन समाधियोगेन च सम्पन्नस्य ज्ञानोत्पत्तौ अन्तरङ्गं साधनमुपदिशति - येनेति । अज्ञात् अश्रद्दधानाच्च संशयचित्तस्य विशेषमादर्शयति - नायमिति । द्वितीयविभागविभजनार्थं भूमिकां करोति - अज्ञेति । अज्ञादीनां मध्ये संशयात्मानः यत् पापिष्ठत्वं, तत् प्रश्नद्वारा प्रकटयति - कथमिति । लोकद्वयस्य तत्प्रयुक्तसुखस्य च अभावे हेतुमाह - तत्रापीति । संशयचित्तस्य सर्वत्र संशयप्रवृत्तेर्दुर्निवारत्वादित्यर्थः । संशयस्यानर्थमूलत्वे स्थिते फलितमाह - तस्मादिति
॥ ४० ॥ 【भाष्यम्】 【भाष्यम्】 उतरश्लोकस्य पातनिकां करोति - अत्रेति । यथोक्तसाधनवान् उपदेशमपेक्ष्य अचिरेण ब्रह्म साक्षात्करोति । साक्षात्कृतब्रह्मत्वे अचिरेणैव मोक्षं प्राप्नोति इत्येषोऽर्थः सप्तम्या परामृश्यते । संशयस्याकर्तव्यत्वे हेतुमाह - पापिष्ठो हीति । उक्तं हेतुं प्रश्नपूर्वकमुत्तरश्लोकेन साधयति- कथमिति । श्रुतियुक्तिप्रयुक्तमैक्यज्ञानं तन्निवर्तकं इत्युत्तरमाह - ज्ञानेति । संशयरहितस्यापि कर्माणि अनर्थहेतवो भवन्तीत्याशङ्क्य, आह- योगेति । विषयपरवशस्य पुंसो योगायोगात् कुतो योगसंन्यस्तकर्मत्वम् इत्याशङ्क्य, आह - आत्मवन्तमिति । परमार्थदर्शनतः संशयोच्छित्तौ तदुच्छेदकज्ञानमाहात्म्यादेव कर्मणां च निवृत्तौ, अप्रमत्तस्य प्रातिभासिकानि कर्माणि बन्धहेतवो न भवन्ति इत्याह - न कर्माणीति । कर्मयोगादेव कर्मसंन्यासस्यानुपपत्तिम् आशङ्क्य आद्यं पादं विभजते - परमार्थेति । तच्च वैधसंन्यासपक्षे परोक्षम् , फलसंन्यासपक्षे तु अपरोक्षमिति विवेकः । यथोक्तज्ञानेन संन्यस्तकर्मत्वमेव, सति संशये न सिध्यति, संशयवतस्तदयोगात् , इति शङ्कते - कथमिति । द्वितीय पादं व्याकुर्वन् परिहरति - आहेत्यादिना । पाठक्रमादर्थक्रमस्य बलीयस्त्वात् आदौ द्वितीयं पादं व्याख्याय पश्चादाद्यं पादं व्याचक्षीत इत्याह - य एवमिति । सर्वमिदं प्रमादवतो विषयपरवशस्य न सिध्यति, इत्यभिसन्धाय, आत्मवन्तं व्याकरोति - अप्रमत्तमिति । ‘न कर्माणि’ इत्यादिफलोक्तिं व्याचष्टे - गुणचेष्टेति ।
‘अनिष्टादि’ इत्यादिशब्देन इष्टं मिश्रं च गृह्यते ॥ ४१ ॥ 【भाष्यम्】 【भाष्यम्】 यद्यपि संशयः सर्वानर्थहेतुत्वात् कर्तव्यो न भवति, तथाऽपि निवर्तकाभावे तदकरणमस्वाधीनमिति शङ्कते - कस्मादिति । श्लोकाक्षराणि व्याचष्टे - तस्मादित्यादिना । पापिष्ठमिति संशयस्य सर्वानर्थमूलत्वेन त्याज्यत्वं सूच्यते । विवेकाग्रहप्रसूतत्वादपि तस्यावहेयत्वम् , अविवेकस्यानर्थकरत्वप्रसिद्धेः, इत्याह - अविवेकादिति । नच तस्य चैतन्यवदात्मनिष्ठत्वात् अत्याज्यत्वं शङ्कितव्यम् , इत्याह - हृदीति । शोकमोहाभ्यामभिभृतस्य पुंसो मनसि प्रादुर्भवतः संशयस्य प्रबलप्रतिबन्धकाभावे नैव प्रध्वंसः सिध्येत् , इत्याशङ्क्याह - ज्ञानासिनेति । स्वाश्रयस्य संशयस्य स्वाश्रयेणैव ज्ञानेन समुच्छेदसम्भवात् किमिति स्वस्येति विशेषणम् इत्याशङ्क्य, आह - आत्मविषयत्वादिति । स्थाण्वादिविषयः संशयः, तद्विषयेण ज्ञानेन देवदत्तनिष्ठेन तन्निष्ठः व्यावर्त्यते । प्रकृते तु आत्मविषयः तदाश्रयश्च संशयः तथाविधेन ज्ञानेन अपनीयते । तेन विशेषणमर्थवदित्यर्थः । तदेव प्रपञ्चयति - न हीति । आत्माश्रयत्वस्य प्रकृते संशये सिद्धत्वेनाविवक्षितत्वात् , तद्विषयस्य तद्विषयेणैव तस्य तेन निवृत्तिर्विवक्षिता, इत्युपसंहरति - अत इति । संशयसमुच्छित्त्यनन्तरं कर्तव्यमुपदिशति - छित्त्वैनमिति । अग्निहोत्रादिकं कर्म भगवदाज्ञया क्रमेण करिष्यामि, युद्धात्पुनः उपरिरंस इव, इत्याशङ्क्याह- उत्तिष्ठेति । भरतान्वये महति क्षत्रियवंशे प्रसूतस्य समुपस्थितसमरविमुखत्वमनुचितमिति मन्वानः सन् आह - भारतेति ।
तत् अनेन योगस्य कृत्रिमत्वं भगवतोऽनीश्वरत्वं च निराकृत्य कर्मादौ अकर्मादिदर्शनाद् आत्मनः सम्यग्ज्ञानात् प्रणिपातादेर्बहिरङ्गात् अन्तरङ्गाच्च श्रद्धादेरुद्भूतात् , अशेषानर्थनिवृत्त्या ब्रह्मभावमभिदधता, सर्वस्मादुत्कृष्टे तस्मिन् असंशयानस्याधिकारादशेषदोषवन्तम् । संशयं हित्वा उत्तमस्य ज्ञाननिष्ठा, अपरस्य कर्मनिष्ठा, इति स्थापितम् ॥ ४२ ॥ 【भाष्यम्】 【भाष्यम्】
इत्यानन्दगिरिकृतगीताभाष्यटीकायां चतुर्थोऽध्यायः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मादित्यादिसमनन्तरश्लोकगततत्पदापेक्षितमर्थमाह - यस्मादिति । सतां कर्मणामस्मदादिषु फलारम्भकत्वोपलम्भाद् विदुष्यपि तेषां तद्भाव्यमनपवाधम् , इत्याशङ्क्य आह - ज्ञानाग्नीति । ननु सन्दिहानस्य तत्प्रतिबन्धात् न कर्मयोगानुष्ठानं, नापि तद्धेतुकज्ञानं, तत्रापि संशयावतारात् , इत्याशङ्क्य, आह - यस्माच्चेति । प्रष्टुरभिप्रायम् एवं प्रदर्श्य प्रश्नोपपत्तिमुक्त्वा प्रश्नमुत्थापयति - संन्यासमिति । तर्हि द्वयं त्वयानुष्ठेयमित्याशङ्क्य, तदशक्तेरुक्तत्वात् प्रशस्यतरस्यानुष्ठानार्थं तदिदम् इति निश्चित्य वक्तव्यम् , इत्याह - यच्छ्रेय इति । काम्यानां प्रतिषिद्धानां च कर्मणां परित्यागो मयोच्यते, न सर्वेषाम् , इत्याशङ्क्य, कर्मण्यकर्म (४ - १८) इत्यादौ विशेषदर्शनात् , मैवम् इत्याह - शास्त्रीयाणामिति । अस्तु तर्हि शास्त्रीयाशास्त्रीययोरशेषयोरपि कर्मणोः त्यागः, नेत्याह - पुनरिति । तर्हि कर्मत्यागः तद्योगश्च, इत्युभयमाहर्तव्यमित्याशङ्क्य, विरोधात् मैवम् इत्यभिप्रेत्य आह - अत इति । द्वयोः एकेन अनुष्ठानायोगस्योक्तत्वात् कर्तव्यत्वोक्तेश्च संशयो जायते । तमेव संशयं विशदयति - किं कर्मेति । प्रशस्यतरबुभुत्सा किमर्था इत्याशङ्क्य आह - प्रशस्यतरं चेति । तस्यैवानुष्ठेयत्वे प्रश्नस्य सावकाशत्वमाह - अतश्चेति । तदेव प्रशस्यतरं विशिनष्टि - यदनुष्ठानादिति । तदेकम् - अन्यतरत् , मेब्रूहीति । सबन्धः । उभयोरुक्तत्वे सति किमित्येकं वक्तव्यमिति नियुज्यते तत्राह - सहेति ।
कर्मतत्त्यागयोर्मिथो विरोधादित्यर्थः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वोत्तराध्याययोः सम्बन्धमभिदधानो वृत्तानुवादपूर्वकम् अर्जुनप्रश्नस्याभिप्रायं प्रदर्शयितुं प्रक्रमते - कर्मणीत्यादिना इत्यारभ्य कर्मण्यकर्मदर्शनमुक्त्वा तत्प्रशंसा प्रसारिता, इत्याह - स युक्त इति । ज्ञानवन्तं सर्वाणि कर्माणि लोकसङ्ग्रहार्थं कुर्वन्तं ज्ञानलक्षणेनाग्निना दग्धसर्वकर्माणं - कर्मप्रयुक्तबन्धविधुरं, विवेकवन्तो वदन्तीति, ज्ञानवतो ज्ञानफलभूतं संन्यासं विवक्षन् विविदिषोः साधनरूपमपि संन्यासं भगवान्विवक्षितवान् , इत्याह - ज्ञानाग्नीति । निराशीरित्यारभ्य शरीरस्थितिमात्रकारणं कर्म, शरीरस्थितावपि सङ्गरहितः सन् आचरन् , धर्माधर्मफलभागी न भवतीत्यपि पूर्वोत्तराभ्यामध्यायाभ्यां द्विविधं संन्यासं सूचितवान् , इत्याह - शारीरमिति । यदृच्छेत्यादावपि संन्यासः सूचितः तद्धर्मफलायोपदेशात् , इत्याह - यदृच्छेति । ज्ञानस्य यज्ञत्वसम्पादनपूर्वकं प्रशंसावचनादपि कर्मसंन्यासो दर्शितो ज्ञाननिष्ठस्य, इत्याह - ब्रह्मार्पणमिति । ज्ञानयज्ञस्तुत्यर्थं नानाविधान् यज्ञान् अनूद्य तेषां देहादिव्यापारजन्यत्ववचनेन आत्मनो निर्व्यापारत्वविज्ञनफलाभिलाषादपि यथोक्तमात्मानं विविदिषोः सर्वकर्मंसन्यासेऽधिकारो ध्वनित, इत्याह - कर्मजानिति । समस्तस्यैव अवशेषवर्जितस्य कर्मणो ज्ञाने पर्यवसानाभिधानाच्च जिज्ञासोः सर्वकर्मसन्यासः सूचितः, इत्याह – सर्वमिति । ‘तद्विद्धि’ इत्यादिना ज्ञानप्राप्त्युपायं प्रणिपातादि प्रदर्श्य, प्राप्तेन ज्ञानेनातिशयप्राहात्म्यवता सर्वकर्मणां निवृत्तिरेव, इति वदता च, ज्ञानार्थिनः संन्यासेऽधिकारो दर्शितो भगवता, इत्याह - ज्ञानाग्निरिति । ज्ञानेन समुच्छिन्नसंशयं तस्मादेव ज्ञानात्कर्माणि संन्यस्य व्यवस्थितमप्रमत्तं - वशीकृतकार्यकरणसङ्घातवन्तं प्रातिभासिकानि कर्माणि न निबध्नन्ति, इत्यपि द्विविधः संन्यासो भगवतोक्तः, इत्याह - योगेति । ‘कर्मणी’ त्यारभ्य ‘योगसंन्यस्तकर्माणम्’ इत्यन्तैरुदाहृतैर्वचनैः उक्तं संन्यासमुपसंहरति - इत्यन्तैरिति । तर्हि कर्मसंन्यासस्यैव जिज्ञासुना ज्ञानवता च आदरणीयत्वात् कर्मानुष्ठानम् अनादेयमापन्नमित्याशङ्क्य, उक्तमर्थान्तरमनुवदति - छित्त्वैनमिति । कर्मतत्त्यागयोरुक्तयोः एकेनैव पुुरुषेणानुष्ठेयत्वसम्भवात् न विरोधोऽस्ति इत्याशङ्क्य, युगपद्वा क्रमेण वा अनुष्ठानम् , इति विकल्प्य, आद्यं दूषयति उभयोश्चेति । द्वितीयं प्रत्याह - कालभेदेनेति । उक्तयोर्द्वयोरेकेन पुरुषेणानुष्ठेयत्वासम्भवे, कथं कर्तव्यत्वसिद्धिः इत्याशङ्क्याह - अर्थादिति । द्वयोरुक्तयोरेकेन युगपत्क्रमाभ्याम् अनुष्ठानानुपपत्तेरित्यर्थः । अन्यतरस्य कर्तव्यत्वे, कतरस्येति कुतो निर्णय द्वयोः संनिधानाविशेषात् इत्याशङ्क्य, आह - यत्प्रशस्यतरमिति । भगवता कर्मणां संन्यासो योगश्चोक्तः, नच तयो समुच्चित्यानुष्ठानम् । तेन अन्यतरस्य श्रेष्ठस्य अनुष्ठेयत्वे, तद्बुभुत्सया प्रश्नोपपत्तिः, इत्युपसंहरति - इत्येवमिति । नायं प्रष्टुरभिप्रायः, कर्मसंन्यासकर्मयोगयोर्भिन्नपुरुषानुष्ठेयत्वस्योक्तत्वात् , एकस्मिन्पुरुषे प्राप्त्यभावात् इति शङ्कते - नन्विति । चोद्यमङ्गीकृत्य परिहरति - सत्यमेवेति । कीदृशस्तर्हि प्रष्ठुरभिप्रायः येन प्रश्नप्रवृत्तिः इति पृच्छति - कथमिति । एकस्मिन्पुरुषे कर्मतत्त्यागयोः अस्ति प्राप्तिः, इति प्रष्टुरभिप्रायं प्रतिनिर्देष्टं प्रारभते - पूर्वोदाहृतैरिति । यथा ‘स्वर्गकामो यजेत’ इति स्वर्गकामोद्देशेन यागो विधीयते, नतु तस्यैवाधिकारो नान्यस्य इत्यपि प्रतिपाद्यते, वाक्यभेदप्रसङ्गात् ; तथा अनात्मवित् कर्ता संन्यासे पक्षे प्राप्तोऽनूद्यते, नचात्मवित्कर्तृकत्वमेव संन्यासस्य नियम्यते, वैराग्यमात्रेणाज्ञस्यापि संन्यासविधिदर्शनात् । तस्मात् कर्म तत्त्यागयोः अविद्वत्कर्तृकत्वमस्ति, इति मन्वानस्यार्जुनस्य प्रश्नः सम्भवतीति भावः । भवतु संन्यसस्य कर्तव्यत्वविवक्षा, तथापि कथं प्रशस्यतरबुभुत्सया प्रश्नप्रवृत्तिः इत्याशङ्क्य, आह - प्राधान्यमिति । तथापि कथमेकस्मिन्पुरुषे तयोरप्राप्तौ उक्ताभिप्रायेण प्रश्नवचनं प्रकल्प्यते तत्राह - अनात्मविदपीति । आत्मविदो विद्यासामर्थ्यात् कर्मत्यागध्रौव्यवत् इतरस्यापि सति वैराग्ये, तत्त्यागस्यावश्यकत्वात् तत्र कर्ताऽसौ प्राप्तः अत्रानूद्यते । तथाच कर्मतत्त्यागयोः एकस्मिन् अविदुषि प्राप्तेर्व्यक्तत्वात् उक्ताभिप्रायेण प्रश्नपवृत्तिरविरुद्धा इत्यर्थः । संन्यासस्य आत्मवित्कर्तृकत्वमेवात्र विवक्षित किं न स्यात् इत्याशङ्क्य, कर्त्रन्तरपर्युदासः संन्यासविधिश्च इत्यर्थभेदे वाक्यभेदप्रसङ्गात् मैवमित्याह - न पुनरिति । इतिशब्दः वाक्यभेदप्रसङ्गहेतुद्योतनार्थः । ततः किम् इत्याशङ्क्य, फलितमाह - एवमिति । कर्मानुष्ठानकर्मसंन्यासयोः अविद्वत्कर्तृकत्वमप्यस्ति, इत्येवंमन्वानस्यार्जुनस्य प्रशस्यतरविविदिषया प्रश्नो नानुपपन्न इति सम्बन्धः । तयोः समुच्चित्य अनुष्ठानसम्भवे कथं प्रशस्यतरविविदिषा इत्याशङ्क्य आह - पूर्वोक्तेनेति । उभयोश्चेत्यादौ उक्चप्रकारेण कर्मतत्त्यागयोर्मिथो विरोधात् न समुच्चित्यानुष्ठानं सावकाशमित्यर्थः । भवतु तार्हि यस्य कस्यचिदन्यतरस्यानुष्ठेयत्वमिति, कुत उक्ताभिप्रायेण प्रश्नप्रवृत्तिः इत्याशङ्क्य आह - अन्यतरस्येति । उभयप्राप्तौ समुच्चयानुपपत्तौ अन्यतरपरिग्रहे विशेषस्यान्वेष्यत्वात् उक्ताभिप्रायेण प्रशनोपपत्तिः इत्यर्थः । इतश्च अविद्वत्कर्तृकयोः संन्यासकर्मयोगयोः कतरः श्रेयान् इति प्रष्टुरभिप्रायो भाति, इत्याह - प्रतिवचनेति । किं तत्प्रतिवचनं कथं वा तन्निरूपणम् इति पृच्छति - कथमिति । तत्र प्रतिवचनं दर्शयति - संन्यासेति । तन्निरूपणं कथयति - एतदिति । तदुभयमिति निःश्रेयसकरत्वं कर्मयोगस्य श्रेष्ठत्वं च इत्यर्थः । गुणदोषविभागविवेकार्थं पृच्छति - किञ्चेति । अतः अस्मिन् आद्ये पक्षे किं दूषणम् अस्मिन्वा द्वितीये पक्षे किं फलम् इति प्रश्नार्थः । तत्र सिद्धान्ती प्रथमपक्षे दोषमादर्शयति - अत्रेत्यादिना । तदेवानुपपन्नत्वं व्यतिरेकद्वारा विवृणोति - यदीत्यादिना । निःश्रेयसकरत्वोक्तिरित्यत्र पारम्पर्येणेति द्रष्टव्यम् । विशिष्टत्वाभिधानमिति प्रतियोगिनोऽसहायत्वाद् अस्य च शुद्धिद्वारा ज्ञानार्थत्वात् इत्यर्थः । आत्मज्ञस्य कर्मसंन्यासकर्मयोगयोः असम्भवे दर्शिते, चोदयति - अत्राहेति । चोदयिता निर्धारणार्थं विमृशति - किमित्यादिना । अन्यतरासम्भवेऽपि सन्देहात् प्रश्नोऽवतरति इत्याह - यदा चेति । यस्य कस्यचिदन्यतरस्य असम्भवो भविष्यति इत्याशङ्क्य, कारणमन्तरेणासम्भवो भवन् अतिप्रसङ्गी स्यात् , इति मन्वानःसन् आह - असम्भव इति । आत्मविदः सकारणं कर्मयोगासम्भवं सिद्धान्ती दर्शयति - अत्रेति । सङ्ग्रहवाक्यं विवृण्वन् आत्मावित्त्वं विवृणोति - जन्मादीति । तस्य यदुक्तं निवृत्तमिथ्याज्ञानत्वं, तदिदानीं व्यनक्ति सम्यगिति । विपर्ययज्ञानमूलस्येत्यादिना उक्तं प्रपञ्चयति - निष्क्रियेति । यथोक्तसंन्यासमुक्त्वा ततो विपरीतस्य कर्मयोगस्याभावः प्रतिपाद्यत इति सम्बन्धः । वैपरीत्यं स्फोरयन् कर्मयोगमेव विशिनष्टि - मिथ्याज्ञानेति । मिथ्या च तत् अज्ञानं चेति अनाद्यनिर्वाच्यमज्ञानं, तन्मूलः अहं कर्ता इत्यात्मनि कर्तृत्वाभिमानः तज्जन्यः, तस्येति यावत् । यथोक्तं संन्यासमुक्त्वा यथोक्तकर्मयोगस्य असम्भवप्रतिपादने हेतुमाह - सम्यग्ज्ञानेति । कुत्र तदभावप्रतिपादनं तदाह - इहेति । उक्तं हेतुं कृत्वा आत्मज्ञस्य कर्मयोगासम्भवे फलितमाह - यस्मादिति । इह शास्त्रे तत्र तत्रेत्यादौ उक्तमेव व्यक्तीकर्तुं पृच्छति - केषु केष्विति । तानेव प्रदेशान्दर्शयति - अत्रेति । आत्मस्वरूपनिरूपणप्रदेशेषु संन्यासप्रतिपादनाद् आत्मविदः संन्यासो विवक्षितश्चेत् , तर्हि कर्मयोगोऽपि तस्य कस्मान्न भवति प्रकरणाविशेषात् , इति शङ्कते - ननु चेति । आत्मविद्याप्रकरणे कर्मयोगप्रतिपादनमुदाहरति - तद्यथेति । प्रकरणात् आत्मविदोऽपि कर्मयोगस्य सम्भवे फलितमाह - अतश्चेति । आत्मज्ञानोपायत्वेनापि प्रकरणपाठसिद्धौ ज्ञानादूर्ध्वं न्यायविरुद्धं कर्म कल्पयितुमशक्यमिति परिहरति - अत्रोच्यत इति । सम्यग्ज्ञानमिथ्याज्ञानयोः तत्कार्ययोश्च भ्रमनिवृत्तिभ्रमसद्भावयोः मिथो विरोधात्कर्तृत्वादिभ्रममूलं कर्म सम्यग्ज्ञानादूर्ध्वं न सम्भवतीत्यर्थः । आत्मज्ञस्य कर्मयोगासम्भवे हेत्वन्तरमाह - ज्ञानयोगेनेति । इतश्चात्मविदो ज्ञानादूर्ध्वं कर्मयोगो न युक्तिमान् , इत्याह - कृतकृत्यत्वेनेति । ज्ञानवतो नास्ति कर्म इत्यत्र कारणान्तरमाह - तस्येति । तर्हि ज्ञानवता कर्मयोगस्य हेयत्ववत् जिज्ञासुनापि तस्य त्याज्यत्वं, ज्ञानप्राप्त्या तस्यापि पुरुषार्थसिद्धेः, इत्याशङ्क्य, जिज्ञासोरस्ति कर्मयोगापेक्षा इत्याह - न कर्मणामिति । स्वरूपोपकार्यङ्गमन्तरेण अङ्गिस्वरूपानिष्पत्तेः । ज्ञानानार्थिना कर्मयोगस्य शुद्ध्यादिद्वारा ज्ञानहेतोरादेयत्वमित्यर्थः । तर्हि ज्ञानवतमपि ज्ञानफलोपकारित्वेन कर्मयोगो मृग्यताम् , इत्याशङ्क्य आह - योगारूढस्येति । उत्पन्नसम्यग्ज्ञानस्य कर्माभावे शरीरस्थितिहेतोरपि कर्मणोऽसम्भावत् न तस्य शरीरस्थितिः, तदस्थितौ च कुतो जीवन्मुक्तिः तदभावे च कस्योपदेष्टृत्वम् उपदेशाभावे च कुतो ज्ञानोदयः स्यात् इत्याशङ्क्य, आह - शारीरमिति । विदुषोऽपि शरीरस्थितिरास्थिता चेत् , तन्मात्रप्रयुक्तेषु दर्शनश्रवणादिषु कर्तृत्वाभिमानोऽपि स्यात् , इत्याशङ्क्य आह - नैवेति । तत्त्ववित् इत्यनेन च समाहितचेतस्तया करोमीति प्रत्ययस्य सदैव अकर्तव्यत्वोपदेशादिति सम्बन्धः । यत्तु विदुषः शरीरस्थितिनिमित्तकर्माभ्यनुज्ञाने तस्मिन्कर्तृत्वाभिमानोऽपि स्यादिति, तत्राह - शरीरेति । आत्मयाथात्म्यविदः तेष्वपि नाहं करोमीति प्रत्ययस्य नैव किञ्चित्करोमीत्यादौ अकर्तृत्वोपदेशात् न कर्तृत्वाभिमानसम्भावना इत्यर्थः । यथोक्तोपदेशानुसन्धानाभावे विदुषोऽपि करोमीति स्वाभाविकप्रत्ययद्वारा कर्मयोगः स्यात् , इत्याशङ्क्य, आह - आत्मतत्त्वेति । यद्यपि विद्वान् यथोक्तमुपदेशं कदाचित् नानुसन्धत्ते, तथापि तत्त्वविद्याविरोधात् मिथ्याज्ञानं तन्निमित्तं कर्म वा तस्य सम्भावयितुमशक्यमित्यर्थः । आत्मवित्कर्तृकयोः संन्यासकर्मयोगयोरयोगात् तयोर्निः श्रेयसकरत्वम् अन्यतरस्य विशिष्टत्वम् , इत्येतदयुक्तमिति सिद्धत्वात् द्वितीयं पक्षमङ्गीकरोति - यस्मादित्यादिना । तदीयाश्च कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वाभिधानमिति सम्बन्धः । ननु कर्मयोगेन शुद्धबुद्धेः संन्यासो जायमानः तस्यादुत्कृष्यते, कथं तस्मात्कर्मयोगस्योत्कृष्टत्ववाचोयुक्तिर्युक्ता इति तत्राह - पूर्वोक्तेति । वैलक्षण्यमेव स्पष्टयति - सत्येवेति । स्वाश्रमविहितश्रवणादौ कर्तृत्वविज्ञाने सत्येव पूर्वाश्रमोपात्तकर्मैकदेश - विषयसंन्यासात् कर्मयोगस्य श्रेयस्त्ववचनं ‘नैतादृशं ब्राह्मणस्यास्ति वित्तम् ‘(म.भा. १२ - १७५ .३७) इत्यादिस्मृतिविरुद्धम् , इत्याशङ्क्य, आह - यमनियमादीति । ‘आनृशंस्यं क्षमा सत्यमहिंसा दम आर्जवम् । प्रीतिः प्रसादो माधुर्यमक्रोधश्च यमा दश ॥ दानमिज्या तपो ध्यानं स्वाध्यायोपस्थनिग्रहौ । व्रतोपवासौ मौनं च स्नानं च नियमा दश ॥ ‘ इत्युक्तैर्यमनिय मैः अन्यैश्चाश्रमधर्मैः विशिष्टत्वेनानुष्ठातुमशक्यत्वात् , उक्तसंन्यासात्कर्मयोगस्य विशिष्टत्वोक्तिर्युक्ता इत्यर्थः । नहि कश्चिदिति न्यायेन कर्मयोगस्य इतरापेक्षया सुकरत्वाच्च तस्य विशिष्टत्ववचनं श्लिष्टमित्याह - सुकरत्वेन चेति । प्रतिवचनवाक्यार्थालोचनात्सिद्धमर्थमुपसंहरति - इत्येवमिति । संन्यासकर्मयोगयोर्मिथोविरुद्धयोः समुच्चित्यानुष्ठातुमशक्ययोः अन्यतरस्य कर्तव्यत्वे, प्रशस्यतरस्य तद्भावात् तद्भावस्य चानिर्धारितत्वात् , तन्निर्दिधारयिषया प्रश्नः स्यादिति, प्रश्नवाक्यार्थपर्यालोचनया प्रष्टुरभिप्रायो यथा पूर्वमुपदिष्टः, तथा प्रतिवचनार्थनिरूपणेनापि तस्य निश्चितत्वात् प्रश्नोपपत्तिः सिद्धा इत्यर्थः । ननु तृतीये यथोक्तप्रश्नस्य भगवता निर्णीतत्वात् नात्र प्रश्नप्रतिवचनयोः सावकाशत्वमित्याशङ्क्य, विस्तरेण उक्तमेव सम्बन्धं पुनः सङ्क्षेपतो दर्शयति - ज्यायसी चेदिति । साङ्ख्ययोगयोर्भिन्नपुरुषानुष्ठेयत्वेन निर्णीतत्वात् न पुनः प्रश्नयोग्यत्वमित्यर्थः । इतोऽपि न तयोः प्रश्नविषयत्वम् , इत्याह - नचेति । एवकारविशेषणात् ज्ञानसहिसंन्यासस्य सिद्धसाधनत्वं भगवतोऽभिमतम् । ‘छित्त्वैनं संशयं योगमातिष्ठ'(भ.गी.४ - ४२) इति च कर्मयोगस्य विधानात् तस्यापि सिद्धसाधनत्वमिष्टम् । ततश्च निर्णीतत्वात् न प्रश्नः तद्विषयः सिध्यतीत्यर्थः । केनाभिप्रायेण तर्हि प्रश्नः स्यात् इत्याशङ्क्य, ज्ञानरहितसंन्यासात् कर्मयोगस्य प्रशस्यतरत्वबुभुत्सया, इत्याह - ज्ञानरहित इति । एवं प्रश्ने प्रवृत्ते कर्मयोगस्य सौकर्यमभिप्रेत्य प्रशस्यतरत्वमभिधित्सुः भगवान् प्रतिवचनं किमुक्तवान् इत्याशङ्क्य, आह - संन्यास इति । उभयोरपि तुल्यत्वशङ्कां वारयति - तयोस्त्विति । कथं तर्हि ज्ञानस्यैव मोक्षोपायत्वं विवक्ष्यते तत्राह - ज्ञानोत्पत्तीति । तर्हि द्वयोरपि प्रशस्यत्वम् अप्रशस्यत्वं वा तुल्यम् , इत्याशङ्क्य, आह – उभाविति । ज्ञानसहायस्य कर्मसंन्यासस्य कर्मयोगापेक्षया विशिष्टत्वविवक्षया विशिनष्टि - केवलादिति
॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 प्रश्नमेवमुत्थाप्य, प्रतिवचनमुत्थापयति - स्वाभिप्रायमिति । निर्णयाय तद्वारेण परस्य संशयनिवृत्त्यर्थमित्यर्थः । यथा अनुष्ठीयमानानि कर्माणि संन्यासिनं न निबध्नन्ति, कृतानि च वैराग्येन्द्रियसंयमादिना निवर्तन्ते ; तथैव अनभिसंहितफलानि नित्यनैमित्तिकानि योगिनमपि न निबध्नन्ति, निवर्तयन्ति च सञ्चितं दुरितम् , इत्यभिप्रेत्य, आह - निर्द्वन्द्वो हीति । कर्मयोगिनो नित्यसंन्यासित्वज्ञानम् अन्यथाज्ञानत्वात् मिथ्याज्ञानम् , इत्याशङ्क्य, आह - एवंविध इति । कर्मिणोऽपि रागद्वेषाभावेन संन्यासित्वं ज्ञातुमुचितम् इत्यर्थः । रागद्वेषरहितस्य अनायासेन बन्धप्रध्वंससिद्धेश्च युक्तं तस्य संन्यासित्वम् , इत्याह - निर्द्वन्द्व इति
॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 कर्म हि बन्धकारणं प्रसिद्धं, तत्कथं निःश्रेयसकरं स्याद् इति शङ्कते - कस्मादिति । अकर्त्रात्मविज्ञानात्प्रागपि सर्वदा असौ संन्यासी ज्ञेयः, यो रागद्वेषौ क्कचिदपि न करोति, इत्याह - इत्याहेति । विवेकिनः तर्हि कथं वदन्ति इत्याकाङ्क्षायाम् , आह - एकमिति । संस्व्याम् आत्मसमीक्षाम् अर्हतीति साङ्ख्यं - संन्यासः, योगस्तु कर्मयोगः, तावुभावपि । पृथगित्यस्य अर्थमाह - विरुद्धेति । शास्त्रार्थविवेकशून्यत्वं बालत्वम् । उत्तरार्धमवतारयितुं भूमिकां करोति - पण्डितास्त्विति । ज्ञानिनो योगिनश्चेति शेषः । द्वयोः अविरुद्धफलत्वमेव प्रश्नपूर्वकं प्रकटयति - कथमित्यादिना । एकं साधनमनुष्ठितवतः द्वयोरपि फलं भवतीति विरुद्धम् , इत्याशङ्क्य आह - उभयोरिति । साङ्ख्ययोगयोः संन्यासकर्मानुष्ठानयोः तत्त्वज्ञानद्वारा निःश्रेयसफलत्वात् न विरुद्धफलत्वशङ्का इत्यर्थः । साङ्ख्यायोगयोः एकफलत्ववचनं प्रकरणाननुगुणम् , इति शङ्कते - नन्विति । अप्रकृतत्वमसिद्धम् , इति परिहरति - नैष दोष इति । संन्यासं कर्मणामित्यादिना संन्यासं कर्मयोगं चाङ्गीकृत्य प्रश्ने, संन्यासः कर्मयोगश्चेत्यादिना तथैव प्रतिवचने च, कथं साङ्ख्ययोगयोः एकफलत्वम् अप्रकृतं न भवति इत्युच्यते, तत्राह – यद्यपीति । प्रतिवचनमपि तदनुरूपमेव भगवता निरूपितमिति विशेषानुपपत्तिः, इत्याशङ्क्य, आह - भगवांस्त्विति । तदपरित्यागेन इत्यत्र तत्पदेन प्रष्ट्र प्रतिनिर्दिष्टौ कर्मंसंन्यासकर्मयोगौ उच्येते । साङ्ख्ययोगाविति शब्दान्तरवाच्यतया तयोरेव संन्यासकर्मयोगयोः अत्यागेन स्वाभिप्रेतं च विशेषं संयोज्य भगवान् प्रतिवचनं ददौ, इति योजना । यदुक्तं - स्वाभिप्रेतं च विशेषं संयोज्य - इति, तदेतत् व्याक्तीकरोति - तावेवेति । समबुद्धित्वादि इत्यादिशब्देन ज्ञानोपायभूतः शमादिः आदीयते । प्रकृतयोरेव संन्यासकर्मयोगयोः उपादाने फलितमाह - अत इति ।
साङ्ख्ययोगौ इत्यादिश्लोकव्याख्यानसमाप्तिः इतिशब्दार्थः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 यदुक्तं संन्यासकर्मयोगयोर्निःश्रेयसकरत्वं, तद् आक्षिपति - संन्यासेति । तत्र उत्तरत्वेन उत्तरश्लोकमवतारयति - इति प्राप्त इति । केचिदेव तयोरेकफलत्वं पश्यन्ति इत्याशङ्य, तेषामेव सम्यग्दर्शित्वं, नेतरेषाम् , इत्याह - एकमिति । तिष्ठत्यस्मिन् , न च्यवते पुनः इति व्युत्पत्तिमाश्रित्य आह - मोक्षाख्यमिति । योगशब्दार्थमाह - ज्ञानप्राप्तीति । ये हि जिज्ञासवः सर्वाणि कर्माणि भगवत्प्रीत्यर्थत्वेन तेषां फलाभिलाषमकृत्वा ज्ञानप्राप्तौ बुद्धिशुद्धिद्वारेण उपायत्वेन अनुतिष्ठन्ति, ते अत्र योगाः विवक्ष्यन्ते । अच्प्रत्ययस्य मत्वर्थत्वं गृहीत्वा, उक्तं - योगिन इति । सर्वोऽपि द्वैतप्रपञ्चो न वस्तुभूतः, मायाविलासत्वात् , आत्मा तु, अविक्रियो अद्वितीयो वस्तुसन् इति प्रयोजकज्ञानं परमार्थज्ञानं, तत्पूर्वकसंन्यासद्वारेण कर्मिभिरपि तदेव स्थानं प्राप्याम् , इत्येकफलत्वं संन्यासकर्मयोगयोः अविरुद्धं, इत्याह - तैरपीति । फलैकत्वे फलितमाह - अत इति
॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 प्रश्नपूर्वकं श्लोकान्तरमवतारयति - एकस्यापीति । कर्मानुष्ठानाभावे बुद्धिशुद्ध्यभावात् परमार्थसंन्यासस्य सम्यग्ज्ञानात्मनो न प्राप्तिः इति व्यतिरेकमुपन्यस्य, अन्वयमुपन्यस्यति - योगेति । पारमार्थिकः सम्यग्ज्ञानात्मकः । सामग्र्यभावे कार्यप्राप्तिरयुक्ता, इति मत्वा आह - दुःखमिति । योगयुक्तत्वं व्याचष्टे - वैदिकेनेति । ईश्वरस्वरूपस्य सविशेषस्येति शेषः । ब्रह्मेति व्याख्येयं पदम् उपादाय व्याचष्टे - प्रकृत इति । तत्र ब्रह्मशब्दप्रयोगे हेतुमाह - परमात्मेति । लक्षणशब्दो गमकविषयः । संन्यासे ब्रह्मशब्दप्रयोेगे तैत्तिरीयकश्रुतिं प्रमाणयति - न्यास इति । कथं संन्यासे हिरण्यगर्भवाची ब्रह्मशब्दः प्रयुज्यते द्वयोरपि परत्वाविशेषात् , इत्याह - ब्रह्मा हीति । ब्रह्मशब्दस्य संन्यासविषयत्वे फलितं वाक्यार्थमाह - ब्रह्मेत्यादिना । नद्याः स्रोतांसीव निम्नप्रवणानि कर्मभिः अतितरां परिपक्ककषायस्य करणानि सर्वतो व्यापृतानि निरस्तशेषकूटस्थप्रत्यगात्मान्वेषणप्रवणानि भवन्ति इति । कर्मयोगस्य परमार्थसंन्यासप्राप्त्युपायत्वे फलितमाह - अत इति
॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 यदि यथोक्तज्ञानपूर्वकसंन्यासद्वारा कर्मिणामपि श्रेयेऽवाप्तिरिष्टा, तर्हि संन्यासस्यैव श्रेयस्त्वं प्राप्तम् , इति चोदयति - एवं तर्हीति । संन्यासस्य श्रेष्ठत्वे कर्मयोगस्य प्रशस्यत्ववचनमनुचितम् , इत्याह - कथं तर्हिति । पूवोक्तमेव अभिप्रायं स्मारयन् परिहरति - श्रृण्विति । कर्मयोगस्य विशिष्टत्ववचनं तत्रेति परामृष्टम् । तदेव कारणं कथयति - त्वयेत्यादिना । केवलं विज्ञानरहितमिति यावत् । तयोरन्यतरः कः श्रेयानिति इतिशब्दोऽध्याहर्तव्यः । त्वदीयं प्रश्नमनुसृत्य तदनुगुणं प्रतिवचनं ज्ञानमनपेक्ष्य, तद्रहितात् केवलादेव संन्यासात् योगस्य विशिष्टत्वमिति यथोक्तम् , इत्याह- तदनुरूपमिति । ज्ञानापेक्षः संन्यासः तर्हि कीदृक् इत्याशङ्क्याह - ज्ञानेति । तर्हि कर्मयोगे कथं योगशब्दः संन्यासशब्दो वा प्रयुज्यते तत्राह - यस्त्विति । तादर्थ्यात् परमार्थज्ञानशेषत्वात् इति यावत् । तदेव तादर्थ्यं प्रश्नपूर्वकं प्रसाधयति - कथमित्यादिना । आदौ नित्याद्यनुष्ठानवतो रजस्तमोमलाभ्याम् अकलुषितं सत्त्वं सिध्यति, इत्याह - विशुद्धेति । बुद्धिशुद्धौ, कार्यकरणसङ्घातस्यापि स्वाधीनत्वं भवति, इत्याह - विजितेति । तस्य यथोक्तविशेषणवतो जायते सम्यग्दर्शित्वम् , इत्याह - सर्वभूतेति । सम्यग्दर्शिनः तर्हि कर्मानुष्ठानं कुतस्त्यं तदनुष्ठाने वा कुतो बन्धविश्लेषसिद्धिः इत्याशङ्क्य, आह - स तत्रेति । सम्यग्दर्शनं सप्तम्यर्थः
॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 ननु पारिव्राज्यं परिगृह्य श्रवणादिसाधनम् असकृदनुतिष्ठतो लब्धसम्यग्बोधस्यापि यथापूर्वं कर्माणि उपलभ्यन्ते । तानि च बन्धहेतवो भविष्यन्ति, इत्याशङ्क्य, श्लोकान्तरम् अवतारयति - यदा पुनरिति । सम्यग्दर्शनप्राप्त्युपायत्वेन यदा पुनः अयं पुरुषो योगयुक्तत्वादिविशेषणः सम्यग्दर्शी सम्पद्यते, तदा प्रातिभासिकीं प्रवृत्तिम् अनुसृत्य कुर्वन्नपि न लिप्यत इति योजना । योगेन - नित्यनैमित्तिककर्मानुष्ठानेन, इति यावत् । कर्माणि अङ्गीकृत्य तैः अस्य विदुषो बन्धो नास्ति इत्युक्तम् । इदानीं वस्तुतः तस्य कर्माण्येव न सन्ति, इत्याह - नचेति ।
॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 लोकदृष्ट्या विदुषोऽपि कर्माणि सन्ति, इत्याशङ्क्य, स्वदृष्ट्या तदभावमभिप्रेत्य, आह - नैवेति सार्धं समनन्तरश्लोकम् आकाङ्क्षापूर्वकम् उत्थापयति - कदेत्यादिना । चक्षुरादिज्ञानेन्द्रियैः वागादिकर्मेन्द्रियैः प्राणादिवायुभेदैः अन्तःकरणचतुष्टयेन च तत्तच्चेष्टानिर्वर्तनावस्थायां तत्तदर्थेषु सर्वा प्रवृत्तिः इन्द्रियाणामेव, इत्यनुसन्दधानः नैव किञ्चित्करोमीति विद्वान् प्रतिपद्यते, इत्यर्थः । यथोक्तस्य विदुषः विध्यभावेऽपि विद्यासामर्थ्यात् प्रतिपत्तिकर्मभूतं कर्मसंन्यासं फलात्मकम् अभिलषति - यस्येति । अज्ञस्येव विदुषोऽपि कर्मसु प्रवृत्तिसम्भवात् , कुतः संन्यासे अधिकारः स्याद् इत्याशङ्क्य, आह - नहीति
॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 तर्हि विद्वानिव, अविद्वानपि कर्मणि न प्रवर्तेत, पापोपहतिसम्भवात् , इत्याशङ्क्य, आह - यस्त्विति ।
यथा भृत्यः स्वाम्यर्थं कर्माणि करोति न स्वफलमपेक्षते, तथैव यो अविद्वान् मोक्षेऽपि सङ्गं त्यक्त्वा भगवदर्थमेव सर्वाणि कर्माणि करोति, न स स्वकर्मणा बध्यते । नहि पद्मपत्रम् अम्भसा सम्बध्यते, तद्वत् इत्यर्थः ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 केवलशब्दस्य प्रत्येकं सम्बन्धे प्रयोजनम् आह - सर्वव्यापारेष्विति । कर्मणः चित्तशुद्धिफलत्वे तादर्थ्येन कर्मानुष्ठानमेव तव कर्तव्यमिति, यस्मादित्यस्यापेक्षितं वदन् फलितम् आह - तस्मादिति
॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 विदुषः तर्हि कृतेन कर्मणा किं स्याद् इत्याशङ्क्य, आह - केवलमिति । अज्ञस्य ईश्वरार्पणबुद्ध्या अनुष्ठितं कर्म बुद्धिशद्धिफलम् , इत्यत्रैव हेतुमाह - यस्मादिति । युक्तः सन् फलं त्यक्त्वा कर्म कुर्वन् मोक्षाख्यां शान्तिं यस्यादाप्नोति, तस्माच्च त्वया सङ्गं त्यक्त्वा कर्म कर्तव्यम् , इति योजन । विपक्षे दोषमाह - अयुक्त इति । युक्तत्वं व्याकरोति - ईश्वरायेति । फलं परित्यज्य कर्म कुर्वन् , इति शेषः । नैष्ठिकी शान्तिः इत्येतदेव विशदयति - सत्त्वेति । द्वितीयम् अर्धं विभजते - यस्त्विति । असमाधाने दोषात् अर्जुनस्य नियोगं दर्शयति - अतस्त्वमिति
॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 इतश्च सङ्गं त्यक्त्वा कर्मानुष्ठानं त्वया कर्तव्यम् , इत्याह - यस्माच्चेति । सर्वकर्मपरित्यागे प्राप्तं मरणं व्यावर्तयति - आस्त इति । वृत्तिं लभमानोऽपि शरीरतापेन आध्यात्मिकादिना तप्यमानः तिष्ठति इति चेत् , नेत्याह - सुखमिति । कार्यकरणसङ्घातपारवश्यं पर्युदस्यति - वशीति । आसनस्य अपेक्षितम् अधिकरणं निर्दिशति - नवेति । देहसम्बन्धामिमानाभासवत्त्वम् आह - देहीति । मनसा सर्वकर्मसन्यासेऽपि लोकसङ्ग्रहार्थं बहिः सर्वं कर्म कर्तव्यम् , इति प्राप्तं प्रत्याह - नैवेति । तान्येव सर्वाणि कर्माणि परित्याज्यानि विशिनष्टि - नित्यमिति । तेषां परित्यागे हेतुमाह - तानीति । यदुक्तं सुखमास्त इति, तद् उपपादयति - त्यक्तेति । जितेन्द्रियत्वं कायवशीकारस्यापि उपलक्षणम् । द्वे श्रोत्रे, द्वे चक्षुषी, द्वे नासिके, वागेका, इति सप्त शीर्षण्यानि शिरोगतानि शब्दाद्युपलब्धिद्वाराणि । अथापि कथं नवद्वारत्वम् अधोगताभ्यां पायूपस्थाभ्यां सह, इत्याह - अर्वागिति । शरीरस्य पुरसाम्यं स्वामिना पौरैश्च अधिष्ठितत्वेन दर्शयति - आत्मेत्यादिना । यद्यपि देहे जीवनत्वात् देहसम्बन्धाभिमानाभासवान् अवतिष्ठते, तथापि प्रवासीव परगेहे तत्पूजापरिभवादिभिरप्रहृष्यन् अविषीदन् व्यामोहादिरहितश्च तिष्ठति, इति मत्वा, आह - तस्मिन्निति । विशेषणम् आक्षिपति - किमिति । तदनुपपत्तिमेव दर्शयति - सर्वो हीति । सर्वसाधारणे देहावस्थाने, संन्यस्य देहे तिष्ठति विद्वान् , इति विशेषणम् अकिञ्चित्करमिति फलितमाह - तत्रेति । विशेषणफलं दर्शयन् उत्तरम् प्राह - उच्यत इति । किमविवेकिनं प्रति विशेषणानर्थक्यं चोद्यते ! किं वा विवेकिनं प्रति इति विकल्प्य, आद्यम् अङ्गीकरोति - यस्त्विति । अज्ञत्वं देहित्वे हेतुः । तदेव देहित्वं स्फुटयति - देहेति । सङ्घातात्मदर्शिनोऽपि देहे स्थितिप्रतिभासः स्याद् , इति चेत् नेत्याह - नहीति । द्वितीयं दूषयति - देहादीति । गृहादिषु देस्यावस्थानेन आत्मावस्थानभ्रमव्यावृत्त्यर्थं देहे विद्वान् आस्त इति विशेषणम् उपपद्यते ; विवेकवतो देहे अवस्थानप्रतिभाससम्भवात् इत्यर्थः । ननु विवेकिनो देहावस्थानप्रतिभानेऽपि वाङ्मनोदेहव्यापारात्मनां कर्मणां तस्मिन् प्रसङ्गाभावात् , तत्त्यागेन कुतः तस्य देहेऽवस्थानम् उच्यते तत्राह - परकर्मणां चेति । ननु विवेकिनो दिगाद्यनवच्छिन्नबाह्याभ्यन्तराविक्रियब्रह्मात्मतां मन्यमानस्य कुतो देहे अवस्थानम् आस्थातुं शक्यते तत्राह - उत्पन्नेति । तत्र हेतुमाह - प्रारब्धेति । यदि प्रारब्धफलं धर्माधर्मात्मकं कर्म तस्योपभुक्तस्य शेषात् अनुपभुक्ताद्देहादिसंस्कारोऽनुवर्तते तदनुवृत्त्या च तत्रैव देहे विशेषविज्ञानम् अवस्थानविषयम् उपपद्यते ; अतो विवेकवतः संन्यासिनो देहे अवस्थानव्यपदेशः सम्भवति, इत्यर्थः । अविद्वत्प्रत्ययापेक्षया विशेषणासम्भवेऽपि विद्वत्प्रत्ययापेक्षया विशेषणम् अर्थवत् , इति उपसंहरति - देह एवेति । देहे स्वावस्थानविषयो विद्वत्प्रत्ययः, तदविषयश्चाविद्वत्प्रत्ययः, तयो एवं भेदे विद्वत्प्रत्ययापेक्षया विशेषणम् अर्थवत् , इति उपसंहरन्नेव हेतुं विशदयति - विद्वदिति । आरोपितकर्तृत्वाद्यभावेपि स्वगतकर्तृत्वादि दुर्वारम् , इति आशङ्कामनूद्य, दूषयति - यद्यपीत्यादिना । क्रियासु प्रवर्तयन् आस्त इति पूर्वेण सम्बन्धः, पूर्वस्यापि शतुः एवमेव सम्बन्धः । कर्तृत्वं कारयितृत्वं च आत्मनो न, इत्यत्र विचारयति - किमिति । यत्कर्तृत्वं कारयितृत्वं च, तत्किं देहिनः स्वात्मसमवायि सदेव संन्यासात् न भवतीत्युच्यते यथा गच्छतो देवदत्तस्य स्वगतैव गतिः, तत्स्थित्या त्यागान्न भवति, अथवा स्वारस्येन कर्तृत्वं कारयितृत्वं च आत्मनो नास्तीति वक्तव्यम् ; आद्ये सक्रियत्वं, द्वितीय कूटस्थत्वमित्यर्थः । द्वितीयं पक्षमाश्रित्य उत्तरमाह - अत्रेति । उक्तेऽर्थे वाक्योपक्रमम् अनुकूलयति - उक्तं हीति । तत्रैव वाक्यशेषमपि संवादयति - शरीरस्थोऽपीति । स्मृत्युक्तेऽर्थे श्रुतिमपि दर्शयति - ध्यायतीवेति ।
उपाधिगतैव सर्वा विक्रिया, न आत्मनि स्वतो अस्ति, इत्यर्थः ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 तर्हि फले सक्तिं त्यक्त्वा, सर्वैरपि कर्तव्यमिति कर्मसंन्यासस्य निरवकाशत्वम् इत्याशङ्क्य, अविदुषः सकाशाद् विदुषो विशेषं दर्शयति - यस्त्विति । आत्मनो यदुक्तं कारयितृत्वं नास्तीति, तत्प्रपञ्चयति - नेत्यादिना । यद्यपि लोकस्य कर्तृत्वं न सृजति, इति नास्ति कारयितृत्वं, तथापि रथशकटादीनि कुर्वन् भवति कर्ता, इत्याशङ्य, आह - न कर्माणीति । तथापि भोजयितृत्वेन विक्रियावत्त्वं दुष्परिहरम् , इत्याशङ्क्य, आह - न कर्माणीति । कस्य तर्हि प्रवर्तकत्वं तदाह - स्वभावस्त्विति । कुर्विति कर्तृत्वं लोकस्य न सृजति आत्मा, इति सम्बन्धः । रथादीनां कर्मत्वं साधयति - ईप्सितेति । आत्मनो देहादिस्वामित्वेन प्रभुत्वम् । रथादिकृतवतो लोकस्य रथादिफलेन सम्बन्धमपि न सृजति आत्मा, इत्यात्मनो भोजयितृत्वं प्रत्याचष्टे - नापीति । चतुर्थपादं शङ्कोत्तरत्वेन अवतारयति - यदीत्यादिना । स्वभाववादस्तर्हि, इत्याशङ्क्य, व्याकरोति - अविद्यालक्षणेति । प्रकृतेः विद्याभावत्वं व्युदसितुं ‘माया’ इत्युक्तम् । सा च सप्तमे वक्ष्यते । तेन प्रधानविलक्षणा, इत्याह - दैवी हीति
॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वार्धगतानि अक्षराणि व्याख्याय आकाङ्क्षापूर्वकम् उत्तरार्धमवतार्थ व्याचष्टे - किमर्थमित्यादिना
॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 कर्तृत्वभोक्तृत्वैश्वर्याणि आत्मनः अविद्याकृतानि इत्युक्तम् । इदानीमीश्वरे संन्यस्तसमस्तव्यापारस्य तदेकशरणस्य दुरितं सुकृतं वा तदनुग्रहार्थं भगवान् आदत्ते, मदेकशरणो मत्प्रीत्यर्थं कर्म कुर्वाणो दुष्कृताद्यनुमोदनेन अनुग्राह्यो मयेति प्रत्ययभाक्त्वात् , इत्याशङ्क्य, सोऽपि परमार्थतो न अस्य अस्ति अविक्रियत्वात् , इत्याह - परमार्थतस्त्विति । तर्हि सर्वेषाम् अनाद्यज्ञानावृतज्ञानत्वात् व्यामोहाभावाच्च कुतः संसारनिवृत्तिः इति तत्राह - ज्ञानेनेति । सर्वमिति पूर्णत्वमुच्यते । ज्ञेयस्यैव वस्तुनः तत्परमिति विशेषणम् । तद्व्याचष्टे - परमार्थतत्त्वमिति
॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मिन् परमार्थतत्त्वे परस्मिन् ब्रह्मणि, बाह्यं विषयमपोह्य, गता - प्रवृत्ता श्रवणमनननिदिध्यासनैः असकृदनुष्ठितैर्बुद्धिः - साक्षात्कारलक्षणा, येषां ते, तथा, इति प्रथमविशेषणं विभजते - तस्मिन्निति । तर्हि बोद्धा - जीवः, बोद्धव्यं - ब्रह्म इति, जीवब्रह्मभेदाभ्युपगमः नेत्याह - तदात्मान इति । कल्पितं बोद्धृबोद्धव्यत्वं वस्तुतस्तु न भेदोऽस्ति इति अङ्गीकृत्य व्याचष्टे - तदेवेति । ननु देहादौ आत्माभिमानमपनीय ब्रह्मण्येव ‘अहमस्मि’ इत्यवस्थानं तत्तदनुष्ठीयमानकर्मप्रतिबन्धात् न सिध्यति, इत्याशङ्क्य, विशेषणान्तरमादत्ते - तन्निष्ठा इति । तत्र निष्ठाशब्दार्थं दर्शयन् विवक्षितम् अर्थमाह - निष्ठेत्यादिना । तथापि पुरुषार्थान्तरापेक्षाप्रतिबन्धात् कथं यथोक्ते ब्रह्मण्येव अवस्थानं सेद्धुं पारयति तत्राह - तत्परायणाश्चेति । यथोक्तानामधिकारिणां परमपुरुषार्थस्य उक्तब्रह्मानतिरेकात् नान्यत्रासक्तिः, इति तात्पर्यार्थमाह - केवलेति । ननु यथोक्तविशेषणवतां वर्तमानदेहपातेऽपि देहान्तरपरिग्रहव्यग्रतया कुतो यथोक्ते ब्रह्मण्यवस्थानम् आस्थातुं शक्यते तत्राह - ते गच्छन्तीति । सति संसारकारणे दुरितादौ, संसारप्रसरस्य दुर्वारत्वात् न अपुनरावृत्तिसिद्धिः, इत्याशङ्क्य, आह - ज्ञानेति । उक्तविशेषसम्पत्त्या दर्शितफलशालित्वम् आश्रमान्तरेष्वसम्भावितम् , इति मन्वानः विशिनष्टि - यतय इति
॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 विदुषां विविदिषूणां च अन्तरङ्गाणि विद्यापरिपाकसाधनानि इति उपदिदिक्षुः उत्तरश्लोकस्य अपेक्षितं पूरयति - यत्परमिति । विद्या - वेदार्थविज्ञानम् , इत्यङ्गीकृत्य विनयं व्याचष्टे - विनय इति । उपशमः - निरहङ्कारत्वम् - अनौद्धत्यम् । पदार्थम् एवमुक्त्वा वाक्यार्थं दर्शयति - विद्वानिति । ‘गवि’ इत्यादि अनूद्य वाक्यार्थं कथयति- विद्येति । हस्त्यादौ पण्डिताः ‘समदर्शिन’ इति उत्तरत्र सम्बन्धः । तत्र तत्र प्राणिभेदेषु तत्तद्गुणैः तत्तन्निमित्तसंस्कारैश्च संस्पृष्टत्वसम्भवात् न ब्रह्मणः समत्वम् , इत्याशङ्क्य आह - सत्त्वादीति । ‘तज्जैश्च’ इत्यत्र तच्छब्देन सत्त्वमेव गृह्यते । सात्त्विकसंस्कारैरिव राजससंस्काररैपि सर्वथैवासंस्पृष्टं ब्रह्म इत्याह - तथेति । राजसैरिव तामसैरपि संस्कारैः ब्रह्म अत्यन्तमेव अस्पृष्टम् , इत्याह - तथा तामसैरिति । ब्रह्मणोऽद्वितीयत्वं कूटस्थत्वमसङ्गत्वं च उक्तेऽर्थे हेतुः, इति मत्वा समशब्दार्थमाह - सममिति । समदर्शित्वमेव पाण्डित्यम् , तद्व्याचष्टे - ब्रह्मेति
॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 यद् अपुनरावृत्तिसाधनं तत्त्वज्ञानं, तदेव प्रश्नद्वारेण विवृणोति - येषामित्यादिना । स्मृतेर्गतिम् अग्रे वदिष्यन् निर्दोषत्वं समत्वदर्शिनां विशदयति - इहैवेति । सर्वेषां चेतनानां साम्ये प्रवणमनसां ब्रह्मलोकगमनमन्तरेण तस्मिन्नेव देहे परिभूतजन्मनाम् अशेषदोषराहित्ये हेतुमाह - निर्दोषं हीति । वर्तमानो देहः सप्तम्या परिगृह्यते । तानेव समदर्शिनो विशिनष्टि - येषामिति । ननु ब्रह्मणो निर्दोषत्वमसिद्धं, दोषवत्सु श्वपाकादिषु तद्दोषैर्दोषवत्त्वोपलम्भसम्भवात् , तत्राह - यद्यपीति । यस्मात् तत् निर्दोषं, तस्मात् तस्मिन्ब्रह्मणि स्थितैःनिर्दोषैः सर्गो जितः, इति सम्बन्धः । ब्रह्मणो गुणभूयस्त्वात् अल्पीयान्दोषोऽपि स्यात् इत्याशङ्क्य, आह - नापीति । चेतनस्य गुणविशेषविशिष्टत्वमनिष्टं निर्गुणत्वश्रवणात् इत्ययुक्तम् , इच्छादीनां परिशेषाद् आत्मधर्मत्वस्य कैश्चित् निश्चितत्वात् , इत्याशङ्क्य, आह - वक्ष्यति चेति । आत्मनो निर्गुणत्वे वाक्यशेषं प्रमाणयति - अनादित्वादिति । चकारः, वक्ष्यतीत्यनेन सम्बन्धार्थः । गुणदोषवशाद् आत्मानो भेदाभावेऽपि भेदः अन्त्यविशेषेभ्यो भविष्यति, इति प्रसङ्गात् आशङ्क्य, दूषयति - नापीति । प्रतिशरीरम् आत्मभेदसिद्धौ तद्धेतुत्वेन तेषां सत्त्वं, तेषां च सत्त्वे प्रतिशरीरम् आत्मनो भेदसिद्धिः, इति परस्पराश्रयत्वमभिप्रेत्य हेतुमाह - प्रतिशरीरमिति । आत्मानो भेदकाभावे फलितमाह - अत इति । समत्वमेव व्याकरोति - एकं चेति । ब्रह्मणो निर्विशेषत्वेन एकत्वाज्जीवानां च भेदकाभावेन एकत्वस्योक्तत्वाद् एकलक्षणत्वात् एकत्वं जीवब्रह्मणोः एष्टव्यम् , इत्याह - तस्मादिति । जीवब्रह्मणो एकत्वे जीावानां ब्रह्मवत् निर्देषत्वं सिध्यति, इत्याह - तस्मान्नेति । तच्छब्दार्थमेव स्फोरयति - देहादीति । यदि सर्वसत्त्वेषु समत्वदर्शनमदुष्टमिष्टं, तर्हि कथं गौतमसूत्रम् इत्याशङ्क्य, आह - देहादिसङ्घातेति । सूत्रस्य यथोक्ताभिमानवद्विषयत्वे गमकमाह - पूजेति । यदि वा चतुर्वेदानामेव सप्तां पूजया वैषम्यं, यदि वा चतुर्वेदानां षडङ्गविदां च पूजया साम्यं, तदा, तेषाम् उक्तपूजाविषयाणां केषाञ्चित् मनोविकारसम्भवे कर्ता प्रत्यवैति, इति अविद्वद्विषयत्वं सूत्रस्य प्रतिभाति, इत्यर्थः । तत्रैव च अनुभवम् अऩुकूलत्वेन उदाहरति - दृश्यते हीति । देहादिसङ्घाताभिमानवतां गुणदोषसम्बन्धसम्भवात् तद्विषयं सूत्रम् , इत्युक्तम् । इदानीं ब्रह्मात्मदर्शनाभिमानवतां गुणदोषासम्बन्धात् न तद्विषय सूत्रम् , इत्यभिप्रेत्याह - ब्रह्म त्विति । इतश्च नेदं सूत्रं ब्रह्मविद्विषयम् , इत्याह - कर्मीति । तत्रैव पूजापरिभवसम्भवात् इत्यर्थः । ननु यत्र समत्वदर्शनं, तत्रैव तु इदं सूत्रं, नतु कर्मिणि अकर्मिणि वा इति विभागोऽस्ति, तत्राह - इदं त्विति । समत्वदर्शनस्य संन्यासिविषयत्वेन प्रस्तुतत्वे हेतुमाह - सर्वकर्माणीति ।
आऽध्यायपरिसमाप्तेः ‘सर्वकर्माणि’ इत्यारभ्य तत्र तत्र सर्वकर्मसंन्यासाभिधानात् तद्विषयम् इदं समत्वदर्शनं गम्यते । तत्र तन्निरहङ्कारे निरवकाशं सूत्रमित्यर्थः ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 सात्त्विकेषु राजसेषु तामसेषु च सत्वेषु समत्वदर्शनम् अनुचितम् , इति शङ्कते - नन्विति । सर्वत्र समदर्शिनः तच्छब्देन परामृश्यन्ते । तेषां दोषवत्त्वाद् अभोज्यान्नत्वम् इत्यत्र प्रमाणमाह - समासमाभ्यामिति । समानाम् - अध्ययनादिभिः समानधर्मकाणां, वस्रालङ्कारादिपूजया विषमे प्रतिपत्तिविशेषे क्रियमाणे सति, असमानाञ्च असमानधर्मकाणां - कस्यचित् एकवेदत्वम् , अपरस्य द्विवेदत्वमित्यादिधर्मवतां, प्रागुक्तया पूजया समे प्रतिपत्तिविशेषे, पूजयिता पुरुषविशेषं ज्ञात्वा प्रतिपत्तिमकुर्वन् , धनात् धर्माच्च हीयते । तेन सात्त्विके राजसतामसयोश्च समबुद्धिं कुर्वन् प्रत्यवैति, इत्यर्थः । उत्तरत्वेन उत्तरश्लोकमवतारयति - न ते दोषवन्त इति । स्मृत्यवष्टम्भेन सर्वसत्त्वेषु समत्वदर्शिनां दोषवत्त्वमुक्तं कथं नास्ति इति, प्रतिज्ञामात्रेण सिध्यति, इति शङ्कते - कथमिति । ननु हर्षविषादनिमित्तत्वं प्रियाप्रिययोः सिद्धम् , इति कथं तत्प्राप्त्या हर्षोद्वेगौ न कर्तव्यौ इति नियुज्यते, तत्राह - देहेति । विदुषोऽपि प्रियाप्रियप्राप्तिसामर्थ्यादेव हर्षविषादौ दुर्वारौ, इत्याशङ्क्य, आह - न केवलेति । अद्वितीयात्मदर्शनशीलस्य व्यतिरिक्तप्रियाप्रियप्राप्त्ययोगात् न तन्निमित्तौ हर्षविषादौ इत्यर्थः । इतोऽपि विदुषो हर्षविषादावसम्भावितौ इत्याह - किञ्चेति ।
निर्दोषे ब्रह्मणि प्रागुक्ते दृढप्रतिपत्तिः, संमोहेन हर्षादिहेतुना रहितः, यथोक्ते सर्वदोषरहिते ब्रह्मणि ‘अहं अस्मि’ इति विद्यावान् , अशेषदोषशून्ये तस्मिन्नेव ब्रह्मणि स्थितः तदनुरोधात् कर्माणि अमृष्यमाणः नैव हर्षविषादभागी भवितुमलमित्यर्थः ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 ननु - इष्टानिष्टप्राप्तिभ्यां हर्षविषादौ विद्वानपि कुर्वन् निर्दोषे ब्रह्मणि कथं स्थितिं लभेत इत्याशङ्क्य, आकाङ्क्षितं पूरयन् उत्तरश्लोकमुत्थापयति - यस्मादिति । आत्मज्ञाननिष्ठावतो विदुषो हर्षविषादनिमित्ताभावात् न तौ उचितौ, इत्याह - स्थिरबुद्धिरिति । यावद्यावत् विषयेषु रागरूपमावरणं निवर्तते, तावत्तावत् आत्मस्वरूपसुखमभिव्यक्तं भवति, इत्याह - बाह्येति । न केवलम् असक्तात्मा शमवशादेव सुखं विन्दते, किन्तु ब्रह्मसमाधिना समाहितान्तःकरणः सुखमनन्तं प्राप्नोति, इत्याह - स ब्रह्मेति । तत्र पूर्वार्धं व्याचष्टे - बाह्याश्चेति । समाधिसम्यग्ज्ञानद्वारा निरतिशयसुखप्राप्तिमुत्तरार्धव्याख्यानेन कथयति - ब्रह्यणीत्यादिना । शब्दादिविषयविमुखस्य अनन्तसुखाप्तिसम्भवात् तदर्थिना, प्रयत्नेन विषयवैमुख्यं कर्तव्यम् , इति शिष्यशिक्षार्थम् आह - तस्मादिति
॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 शब्दादिविषयप्रीतिप्रतिबन्धात् न कस्यचिदपि ब्रह्मणि स्थितिः सिध्येत् , इत्याशङ्क्य, आह - किञ्चेति । न केवलं पूर्वोक्तरीत्या ब्रह्मणि स्थितो हर्षविषादरहितः, किन्तु विधान्तरेणापि इत्यर्थः । वैराग्यार्थमेव वैषयिकाणि सुखानि दूषयति - ये हीति । ननु विषयेन्द्रियसम्प्रयोगसम्प्रसूतेषु भोगेषु जन्तूमाम् अभिरुचिदर्शनात् कुतस्तेषां दुःखयोनित्वम् इत्याशङ्क्य, अविवेकिनां तेष्वासङ्गेऽपि न विवेकिनाम् , इत्याह - आद्यन्तवन्त इति । यस्मात् आधिव्याधिजरामरणादिसहितेभ्यः समागमनादिक्लेशरूपभागिभ्यश्च विषयेन्द्रिय - सम्बन्धेभ्यो भोगाः सुखलवानुभवा जायन्ते, तस्मात् ते दुःखहेतवो भवन्ति, इति योजना । अविद्याकार्यत्वात् दुःखानां कुतो भोगजन्यत्वम् इत्याशङ्क्य, भोगानाम् अविद्याप्रयुक्तत्वात् तन्निबन्धनत्वं दुःखानां युक्तम् , इत्यभिप्रेत्य आह - अविद्येति । भोगानां दुःखयोनित्वे मानवमनुभवम् उपन्यस्यति - दृश्यन्ते हीति । ऐहिकानां भोगानां दुःखनिमित्तत्वेऽपि न आमुष्मिकाणां तथात्वम् , अनुभवाभावात् , इत्याशङ्क्य, अवधारणसामर्थ्यसिद्धमर्थम् आह - यथेति । पूर्वार्धस्य अक्षरार्थमुक्त्वा तात्पर्यार्थमाह - नेत्यादिना । इतश्च विषयेभ्यः सकाशात् इन्द्रियाणि निवर्तयित्व्यानि, इत्याह - न केवलमिति । आद्यन्तवत्त्वे मध्यक्षणवर्तित्वेन क्षणभङ्गुरत्वात् उपेक्षणीयत्त्वं भोगानां सिध्यति । अस्ति हि तेषां क्षणभङ्गुरत्वं क्षणिकविषयाकारमनोवृत्तिव्यङ्ग्यत्वात् , इति मन्वानः सन् आह - अत इति । बुद्धिपूर्वकारिणां विवेकवतां भोगेषु उपेक्षोपलब्धेश्च तेषामाभासत्वं प्रतिभाति, इत्याह - न तेष्विति । प्रतीकोपादानमाद्यमिदं पुनर्व्याख्यानमिति, न पुनरुक्तिः । ननु केषाञ्चिद् भोगेष्वभिरुचिः उपलभ्यते, तत्राह - अत्यन्तेति
॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 तत्रैव हेत्वन्तरपरत्वेन उत्तरश्लोकमुदाहरति - इतश्चेति । विषयेभ्यः सकाशात् इन्द्रियाणि, इति शेषः । प्रसिद्धं हि कामक्रोधोद्भवस्य वेगस्य दुर्निवारत्वं, येन मातरमपि चाधिरोहति, पितरमपि हन्ति, तमवश्यं परिहर्तव्यं दर्शयति - शक्नोतीति । यथोक्तं वेगं बहिरनर्थरूपेण परिणामात्प्रागेव देहान्तरुत्पन्नं यः सोढुं क्षमते, तं स्तौति - स युक्त इति । मरणसीमाकरणस्य तात्पर्यमाह - मरणेति । प्रसिद्धौ हि शब्दः । तत्र हेतुमाह - अनन्तेति । व्याध्युपहतानां वृद्धानां च कामादिवेगो न भवति, इत्याशङ्क्य, आह - यावदिति । कामक्रोधोद्भवं वेगं व्याख्यातुम् आदौ कामं मनोविकारविशेषत्वेन व्याचष्टे - काम इति । कथमस्य मनोविकारविशेषत्वं तदाह - इन्द्रियेति । कामः, गार्धिः, तृष्णा इति पार्यांयाः सन्तः शब्दाः मनोविकारविशेषे पर्यवस्यन्ति, इत्यर्थः । क्रोधश्च मनोविकारविशेषः तद्वतः, तृष्णा इति पर्यायाः सन्तः शब्दाः मनोविकारविशेषे पर्यवस्यन्ति, इत्यर्थः । क्रोधश्च मनोविकारविशेषः तद्वत् , इत्याह - क्रोधश्चेति । तमेव क्रोधं स्पष्टयति - आत्मन इति । एवं कामक्रोधौ व्याख्याय, तयोरुत्कटत्वावस्थात्मनो वेगस्य ताभ्यामुत्पत्तिमुपन्यस्यति - ताविति । यथोक्तवेगावगमोपायमुपदिशति - रोमाञ्चनप्रहृष्टनेत्रेत्यादिना ।
उभयविधवेगं यो जीवन्नेव सोढुं शक्नोति, तं पुरुषधौरेयत्वेन स्तौति - तमित्यादिना ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 उत्तरश्लोकस्य तात्पर्यमाह - अयं चेति । श्रेयोमार्गप्रतिपक्षत्वं कष्टतमत्वे हेतुः, तत्रैव हेत्वन्तरमाह - सर्वेति । प्रयत्नाधिक्यस्य कर्तव्यत्वे हेतुं सूचयति - दुर्निवार्य इति । यथा अन्तरेव सुखं न बाह्यविषयैः, तथा अन्तरेव ज्योतिर्न श्रोत्रादिभिः । अतो विषयान्तरविज्ञानरहितः, इत्याह - तथेति । यथोक्तविशेषणसमाधिमान् जीवन्नेव मुक्तिमधिगच्छति, इत्याह - स योगीति । आत्मनि अन्तः - सुखमिति वाह्यविषयनिरपेक्षत्वं विवक्षितम् । अन्तरारामत्वं च स्त्र्यादिविषयापेक्षामान्तरेण क्रीडाप्रयुक्तफलभाक्त्वम् मतम् । इन्द्रियादिजन्यप्रकाशशून्यत्वम् आत्मज्योतिष्ट्वम् इष्टम् । यथोक्तविशेषणसम्पन्नः समाहितश्च जीवन्नेव ब्रह्मभावं प्राप्नोति । ब्रह्मणि परिपूर्णे निर्वृतिं - सर्वानर्थनिवृत्त्युपलक्षितां स्थितिमनतिशयानन्दाविर्भावलक्षणां, प्राप्नोति, इत्याह - य ईदृश इति
॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानस्य अत्यन्तमन्तरङ्गमात्मनिष्ठत्वं दर्शयन् प्रकृतं ब्रह्मविदमेव विशिनष्टि - कथम्भूतश्चेति । यज्ञादिनित्यकर्मानुष्ठानात् पापादिलक्षणं कल्मषं क्षीयते, ततश्च श्रवणाद्यावृत्तेः सम्यग्दर्शनं जायते ततो मुक्तिरप्रयत्नेन भवति, इत्याह - लभन्त इति । ज्ञानप्राप्त्युपायान्तरं दर्शयति - छिन्नेति ।
श्रवणादिना संशयनिरसनं कार्यकरणनियमनं च, दयालुत्वेन अहिंसकत्वम् इत्येतदपि सम्यग्ज्ञानप्राप्तौ कारणमित्यर्थः । अक्षरव्यास्व्यानं स्पष्टत्वात् न व्याख्यायते ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 मुक्तिहेतोर्ज्ञानस्य साधनान्तरमाह - किञ्चेति । ननु - दर्शितविशेषणवतां मृतानामेव मोक्ष, नतु जीवताम् - इति चेत् ; न, इत्याह - अभित इति । अस्मादादीनामपि तर्हि प्रभूतकामादिप्रभावविधुराणां किमिति मोक्षो न भवति इत्याशङ्क्य, सम्यग्दर्शनवैशेष्याभावात् , इत्याह - विदितेति । उक्तेऽर्थे श्लोकाक्षराणामन्वयमाचष्टे - कामक्रोधेत्यादिना
॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वं कामक्रोधयोर्वेगः सोढव्यो दर्शितः । सम्प्रति तावेव त्याज्यौ इत्याह - किञ्चेति । वृत्तम् अनूद्य उत्तरश्लोकत्रयस्य तात्पर्यार्थम् आह - सम्यग्दर्शनेति । ईश्वरार्पितसर्वभावेनेति । भगवति परस्मिन् ईश्वरे समर्पितः, सर्वेषां - देहेन्द्रियमनसाम् , भावः - चेष्टाविशेषः, न क्कचिदपि बहिः तेषां व्यापारः, तेन इत्यर्थः । कर्मयोगस्य तत्फलस्य च अभिधानानन्तरमिति अथशब्दार्थः ।
॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 स्वतो बाह्यानां विषयाणां कुतो बहिष्करणम् इत्याशङ्क्य, आह - श्रोत्रादीति । तेषां बहिष्करणं कीदृक् इत्याशङ्क्य, आह - तानिति विषयप्रावण्यं परित्यज्य, चक्षुरपि भ्रुवोर्मध्ये विक्षेपपरिहारार्थं कृत्वा, प्राणापानौ नासाभ्यन्तरचरणशीलौ समौ - न्यूनाधिकंवर्जितौ कुम्भकेन निरुद्धौ कृत्वा, करणानि सर्वाणि एवं संयम्य प्राणायामपरो भत्वा, किं कुर्यात् इत्यपेक्षायाम् , आह - यतेन्द्रियेति । इन्द्रियादिसंयमं कृत्वा मोक्षमेव अपेक्षमाणो मननशीलः स्यात् , इत्यर्थः । ज्ञानातिशयनिष्ठस्य सर्वदा इच्छादिशून्यस्य सन्यासिनो मुक्तेः अनायाससिद्धत्वात् न तस्य किञ्चिदपि कर्तव्यम् अस्ति, इत्याह - विगतेति । पूर्वार्धाक्षराणि व्याकरोति - यतेत्यादिना । द्वितीयार्धाक्षराणि व्याचष्टे - विगतेत्यादिना
॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 प्रसिद्धं भोक्तारं व्यवच्छिनत्ति - सर्वलोकेति । ‘ततो ह्यस्य बन्धविपर्ययौ’ (ब्र. सू. ३-२-५) इति न्यायेन सर्वफलदातृत्वं दर्शयति - सुहृदमिति । उक्तेश्वरज्ञाने फलं कथयति - ज्ञात्वेति । यज्ञेषु तपस्सु च द्विधा भोक्तृत्वं व्यनक्ति - कर्तृरूपेणेति । हिरण्यगर्भादिव्यवच्छेदार्थं विशिनष्टि - महान्तमिति । स्वपरिकरोपकारिणं राजानं व्यावर्तयति - प्रत्युपकारेति । ईश्वरस्य ताटस्थ्यं व्युदस्यति - सर्वभूतानामिति । तर्हि तत्र तत्र व्यवस्थितकर्मतत्फलसंसर्गित्वं स्यात् , इत्याशङ्क्य, आह - सर्वकर्मेति । न च तस्य बुद्धितद्वृत्तिसम्बन्धोऽपि वस्तुतोऽस्ति, इत्याह - सर्वप्रत्ययेति । यथोक्तेश्वरपरिज्ञानफलम् आभिदधाति - मां नारायणमिति ।
तदेवं कर्मयोगस्य अमुख्य सन्यासापेक्षया प्रशस्तत्वेऽपि ततो मुख्यसंन्यासस्य आधिक्यात् तद्वतो बुद्धिशुद्ध्यादियुक्तस्य कामक्रोधोद्भवं वेगम् इहैव सोढुं शक्तस्य शमदमादिमतो योगाधिकृतस्य त्वम्पदार्थाभिज्ञस्य परमात्मानं प्रत्यक्त्वेन जानतो मुक्तिः इति सिद्धम् ॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】
इति आनन्दगिरिकृतटीकायां पञ्चमोऽध्यायः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 अधिकारिणो यथोक्तस्य कर्तव्याभावे ज्ञातव्यमपि नास्ति, इत्याशङ्क्य, परिहरति - एवमित्यादिना । स्तुतिपरं वाक्यम् अक्षरयोजनार्थम् उदाहरति - अनाश्रित इति । कर्मफलेऽभिलाषो नास्ति, इत्येतावता कथं तदनाश्रितत्ववाचोयुक्तिः इत्याशङ्क्य व्यतिरेकमुखेन विशदयति - यो हीति । ‘कार्यम्’ इत्यादि व्याकरोति - एवंभूतः सन्निति । कथं कर्मिणः संन्यासित्वं योगित्वं च कर्मित्वविरोधात् , इत्याशङ्क्य, आह - ईदृश इति । स्तुतेः अत्र विवक्षितत्वात् नानुपपत्तिः चोदनीया, इति मन्वानः सन् , आह - इत्येवमिति । ‘न निरग्निः’ (भ. गी. ६-१) इत्यादेः अर्थम् आह - न केवलमिति । अग्नयो गार्हपत्याहवनीयान्वहार्थपचनप्रभृतयः । ननु - अनग्नित्वे सिद्धम् अक्रियत्वम् अग्निसाध्यत्वात् क्रियाणाम् , तथा च ‘न निरग्निः’ (भ. गी. ६-१) इत्येतावतैव अपेक्षितसिद्धेः ‘न चाक्रियः’ (भ. गी. ६-१) इत्यनर्थकम् , अर्थपुनरुक्तेः - इति, तत्र आह - अनग्नीति
॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 ध्यानयोगप्रस्तावानन्तरं तद्योग्यताहेतुकर्मणः स्तुतिं भगवान् उक्तवान् , इत्याह - श्रीभगवानिति । पूर्वोत्तराध्याययोः सङ्गतिम् अभिदधानो वृत्तम् अनूद्य, अध्यायान्तरम् अवतारयति - अतीतेति । सम्यग्दर्शनप्रकरणे ध्यानयोगस्य प्रसङ्गाभावं व्युदस्यति - सम्यगिति । सङ्ग्रहविवरणयोः अतीतानन्तराध्याययोः युक्तं हेतुहेतुमत्त्वम् , इति भावः । अध्यायसम्बन्धम् अभिधाय ‘अनाश्रितः कर्मफलम् ‘ इत्यादिश्लोकद्वयस्य तात्पर्यम् आह - तत्रेति । कर्मयोगस्य संन्यासहेतोः मर्यादां दर्शयितुम् , साङ्गं च योगं विचारयितुम् अध्याये प्रवृत्ते सति, इति सप्तम्यर्थः । संन्यासिना कर्तव्यं कर्म, इत्येवं प्रतिभासं व्युदस्यति - गृहस्थेनेति । कर्तव्यत्वं स्तुतियोग्यत्वम् अतश्शब्दार्थः । समुच्चयवादी सीमाकरणम् आक्षिपति - नन्विति । यावज्जीवश्रतिवशात् ध्यानारोहणसामर्थ्ये सत्यपि कर्मानुष्ठानस्य दुर्वारत्वात् , इति हेतुम् आह - यावतेति । भार्यावियोगादिप्रतिबन्धात् यावज्जीवश्रुतिचोदितकर्माननुष्ठानवत् वैराग्यप्रतिबन्धादपि तदननुष्ठानसम्भवात् भगवतो विशेषवचनाच्च न यावज्जीवं कर्मानुष्ठानप्रसक्तिः, इति परिहरति - नारुरुक्षोरिति । उक्तमेवार्थं व्यतिरेकद्वारेण विवृणोति - आरुरुक्षोरित्यादिना । आरोढुम् इच्छति इति - आरुरुक्षुः, इत्यत्र आरोहणेच्छा विशेषणम् , आरोहणं कृतवान् इति - आरूढः, इत्यत्र पुनः इच्छाविषयभूतम् आरोहणं विशेषणम् । एवं शमकर्मविषययोः भेदेन विशेषणं मर्यादाकरणानङ्गीकरणे विरुद्धम् आपद्यते । तयोरेवं विभागकरणं च भागवतं सीमानङ्गीकारे न युज्येत, इत्यर्थः । विशेषणविभागकरणयोः अन्यथा उपपत्तिम् आशङ्कते - तत्रेति । व्यवहारभूमिः सप्तम्यर्थः । षष्ठी निर्धारणे । भवतु अधिकारिणां त्रैविध्यम् , तथापि प्रकृते विशेषणादौ किमायातम् इत्याशङ्क्य, तृतीयापेक्षया तदुपपत्तिः, इत्याह - तानपेक्ष्येति । आरुरुक्षोः आरूढस्य च भेदे ‘तस्यैव ‘इति प्रकृतपरामर्शानुपपत्तिः, इति दूषयति - न तस्येति । यदि अनारुरुक्षुं पुरुषम् अपेक्ष्य ‘अारुरुक्षोः’ इति विशेषणम् , तस्य च कर्म आरोहणकारणम् , अनारूढं च पुरुषम् अपेक्ष्य ‘आरूढस्य’ इति विशेषणम् , तस्य च शमः संन्यासः योगफलप्राप्तौ कारणम् , इति विशेषणविभागकरणयोः उपपत्तिः ; तदा आरुरुक्षोः आरूढस्य च भिन्नत्वात् प्रकृतपरामर्शिनः तच्छब्दस्यानुपपत्तेः न युक्तम् विशेषणाद्युपपादनम् , इत्यर्थः । किञ्च योगम् आरुरुक्षोः तदारोहणे कारणं कर्म इत्युक्त्वा पुनः ‘योगारूढस्य’ इति योगशब्दप्रयोगात् यो योगं पूर्वम् आरुरुक्षुः आसीत् , तस्यैव अपेक्षितं योगम् आरूढस्य तत्फलप्राप्तौ कर्मसंन्यासः शमशब्दवाच्यो हेतुत्वेन कर्तव्य इति वचनात् आरुरुक्षोः आरूढस्य च अभिन्नत्वप्रत्यभिज्ञानात् ऩ तयोर्भिन्नत्वं शङ्कितुं शक्यम् , इत्याह - पुनरिति । यत्तु - यावज्जीवश्रुतिविरोधात् योगारोहणसीमाकरणं कर्मणोऽनुचितम् - इति, तत्राह - अत इति । पूर्वोक्तरीत्या कर्मतत्त्यागयोः विभागोपपत्तौ श्रुतेः अन्यविषयत्वात् योगम् आरूढस्य मुमुक्षोः जिज्ञासमानस्य नित्यनैमित्तिककर्मस्वपि परित्यागसिद्धिः, इत्यर्थः । इतश्च यावज्जीवं कर्म कर्तव्यं न भवति, इत्याह - योगेति । संन्यासिनो योगभ्रष्टस्य विनाशशङ्कावचनात् न यावज्जीवं कर्म कर्तव्यं प्रतिभाति, इत्यर्थः । ननु - योगभ्रष्टशब्देन गृहस्थस्यैव अभिधानात् तस्यैव अस्मिन्नध्याये योगविधानात् योगारोहणयोग्यत्वे सत्यपि यावज्जीवं कर्म कर्तव्यम् - इति, नेत्याह - गृहस्थस्येति । तेनापि मुमुक्षुणा कृतस्य कर्मणो मोक्षातिरिक्तफलानारम्भकत्वात् योगभ्रष्टोऽसौ छिन्नाभ्रमिव नश्यति, इति शङ्का सावकाशा, इत्याशङ्क्य, आह - अवश्यं हीति । अपौरुषेयात् निर्दोषात् वेदात् फलदायिनी कर्मणः स्वाभाविकी शक्ति अवगता । ब्रह्मभावस्य च स्वतस्सिद्धत्वात् न कर्मफलत्वम् । अतो मोक्षातिरिक्तस्येव फलस्य कर्मारम्भकमिति कर्मिणि योगभ्रष्टेऽपि कर्मगतिं गच्छति इति निरवकाशा शङ्का, इत्यर्थः । ननु - मुमुक्षुणा काम्यप्रतिषिद्धयोः अकरणात् कृतयोश्च नित्यनैमित्तिकयोः अफलत्वात् - कथं तदीयस्य कर्मणो नियमेन फलारम्भकत्वम् तत्र आह - नित्यस्य चेति । चकारेण नैमित्तिकं कर्म अनुकृष्यते । वेदप्रमणकत्वेऽपि नित्यनैमित्तिकयोः अफलत्वे दोषम् आह - अन्यथेति । कर्मणोऽनुष्ठितस्य फलारम्भकत्वध्रौव्यात् गृहस्थो योगभ्रष्टोऽपि कर्मगतिं गच्छतीति न तस्य नाशाशङ्का, इति शेषः । इतोऽपि गृहस्थो योगभ्रष्टशब्दवाच्यो न भवति, इत्याह - न चेति । ज्ञानं कर्म च इत्युभयम् , ततो भ्रष्टोऽयं नश्यति इति वचनम् , गृहस्थे कर्मिणि सति नार्थवद् भवितुम् अलम् , तस्य कर्मनिष्ठस्य कर्मणो विभ्रंशे हेत्वभावात् तत्फलस्य आवश्यकत्वात् , इत्यर्थः । कृतस्य कर्मणो मुमुक्षुणा भगवति समर्पणात् कर्तरि फलानारम्भकत्वात् अस्ति विभ्रंशकारणम् , इति शङ्कते - कर्मेति । राजाराधनबुद्ध्या धनधान्यादिसमर्पणस्य अधिकफलहेतुत्वोपलम्भात् ईश्वरे समर्पणं न भ्रंशकारणम् , इति दूषयति - नेत्यादिना । अधिकफलहेतुत्वेऽपि मोक्षहेतुत्वम् इष्यताम् , इति शङ्कते - मोक्षायेति । तदेव चोद्यं विवृणोति - स्वकर्मणामिति । सहकारिसामर्थ्यात् तस्य फलान्तरं प्रति उपायत्वासिद्धिः, इति हेतुं सूचयति - योगेति । ध्यानसहितस्य संन्यासस्य मोक्षौपयिकत्वे कुतो योगभ्रष्टम् अधिङ्कृत्य नाशाशङ्का, इत्याशङ्क्य, आह - योगाच्चेति । सहकार्यभावे सामग्र्यभावत् फलानुपपत्तेः युक्ता नाशाशङ्का, इत्यर्थः । ध्यानसहितम् ईश्वरे कर्मसमर्पणं मोक्षाय, इत्यत्र प्रमाणाभावात् गृहस्थो योगभ्रष्टशब्दवाच्यो न भवति, इति दूषयति - नेति । गृहस्थस्य योगभ्रष्टशब्दवाच्यत्वाभावे हेत्वन्तरम् आह - एकाकीति । न खलु एतानि विशेषणानि गृहस्थसमवायीनि सम्भवन्ति । तेन तस्य ध्यानयोगविध्यभावात् न तं प्रति योगभ्रष्टशब्दवचनम् उचितम् , इत्यर्थः । एकाकित्ववचनं गृहस्थस्यापि ध्यानकाले स्त्रीसहायत्वाभावाभिप्रायेण भविष्यति, इत्याशङ्क्य, अग्निहोत्रादिवत् ध्यानस्य पत्नीसाधनत्वाभावात् अप्राप्तप्रतिषेधात् मैवम् इत्याह - न चात्रेति । विशेषणान्तरपर्यालोचनयापि नायम् एकाकिशब्दो गृहस्थपरो भवितुम् अर्हति, इत्याह - न चेति । किञ्च गृहस्थस्यैव एकाकित्वादि विवक्षित्वा ध्यानयोगविधौ तं प्रति उभयभ्रष्टप्रश्नो नोपपद्यते, इत्याह - उभयेति । न हि गृहस्थं प्रति उभयस्मात् ज्ञानात् कर्मणश्च विभ्रष्टत्वम् उपेत्य प्रष्टुं युज्यते, तस्य ज्ञानाद् भ्रंशेऽपि कर्मणः तदभावात् अनुष्ठीयमानकर्मभ्रंशेऽपि प्रागनुष्ठितकर्मवशात् फलप्रतिलम्भात् । अतः यथोक्तप्रश्नालोचनया न गृहस्थं प्रति ध्यानविधानोपपत्तिः इत्यर्थः । ननु - भगवता संन्यासस्य प्रतिषिद्धत्वात् गृहस्थस्यैव योगविधानात् तस्यैव योगभ्रष्टशब्दवाच्यत्वम् , इति शङ्कते - अनाश्रित इत्यनेनेति । भगवद्वाक्यं न प्रतिषेधपरम् , इति परिहरति - न ध्यानेति । स्तुतिपरत्वमेव स्फोरयति - न केवलमिति । सत्त्वशुद्ध्यर्थम् अनुतिष्ठन् , इति सम्बन्धः । वाक्यस्य उभयपरत्वम् आशङ्क्य वाक्यभेदप्रसङ्गात् मैवमित्याह - न चेति । इतोऽपि भगवतः संन्यासाश्रमप्रतिषेधोऽभिप्रेतो न भवति, इत्याह - न च प्रसिद्धमिति । तस्य प्रसिद्धं संन्यासित्वं योगित्वं च, इति सम्बन्धः । प्रसिद्धत्वमेव व्याकरोति - श्रुतीति । इतोऽपि संन्यासाश्रमं भगवान् न प्रतिषेधति, इत्याह - स्ववचनेति । विरोधमेव साधयति - सर्वकर्माणीत्यादिना । ‘अनाश्रितः’ (भ. गी. ६-१) इत्यादिवाक्यस्य यथाश्रुतार्थत्वानुपपत्तेः स्तुतिपरत्वम् उपपादितम् उपसंहरति - तस्मादिति । कर्मफलसंन्यासित्वम् , अत्र मुनिशब्दार्थः । यदुक्तं - संन्यासित्वं योगित्वं च गृहस्थस्य गौणम् - इति, तद् उत्तरार्धयोजनया प्रकटयितुम् उत्तरार्धम् उत्थापयति - कर्मयोगस्येति । कर्मयोगस्य परमार्थसंन्यासेन कर्तृद्वारकं साम्यम् उक्तं व्यक्तीकरोति - योहीति । त्यक्तानि सर्वाणि कर्माणि साधनानि च येन, स तथोक्तः, तस्य भावः तत्ता, तया । सर्वकर्मविषयं तत्फलविषयं च सङ्कल्पं त्यजति, इत्यर्थः । सङ्कल्पत्यागे तत्कार्यकामत्यागः, तत्त्यागे तज्जन्यप्रवृत्तित्यागश्च सिद्ध्यति, इति अभिसन्धाय विशिनष्टि - प्रवृत्तीति । कर्मिण्यपि यथोक्तसङ्कल्पसंन्यासित्वम् अस्ति, इत्याह - अयमपीति । तदपरित्यागे व्याकुलचेतस्तया कर्मानुष्ठानस्यैव दुश्शकत्वात् , इत्यर्थः । उक्तमेव साम्यं व्यक्तीकुर्वन् व्यतिरेकं दर्शयति - इत्येतमिति । फलसङ्कल्पापरित्यागे किमिति समाधानवत्ताभावः तत्र आह - फलेति । व्यतिरेकमुखेन उक्तम् अर्थम् , अन्वयमुखेन उपसंहरति - तस्मादिति । हिशब्दार्थस्य ‘यस्मात् ‘ इत्युक्तस्य ‘तस्मात् ‘ इत्यनेन सम्बन्धः । कर्मिणं प्रति यथोक्तविधौ हेतुहेतुमद्भावम् अभिप्रेत्य, द्वितीयविधौ हेतुमाह - चित्तविक्षेपेति ।
॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 उत्तरश्लोकस्य तात्पर्यं दर्शयितुं व्यावर्त्यम् आशङ्कां दर्शयति - ननु चेति । प्रसिद्धिमपरित्यज्य अप्रसिद्धिः उपदीयमाना प्रसिद्धिविरुद्धा, इति चोद्यं दूषयति - नैष दोष इति । उभयस्य - साग्नौ सक्रिये च संन्यासित्वस्य योगित्वस्य च, इत्यर्थः । गुणवृत्त्या उभयसम्पादनं प्रश्नपूर्वकं प्रकटयति - तत् कथं इत्यादिना । सम्भवति मुख्ये संन्यासित्वादौ किमिति गौणम् उभयम् अभीष्टम् इत्याशङ्य, मुख्यस्य कर्मिणि असम्भवात् गौणमेव स्तुतिसिद्ध्यर्थं तत् इष्टम् , इत्यभिप्रेत्य, आह - न पुनरिति । चित्तव्याकुलत्वहेतुकामनात्यागात् चित्तसमाधानसिद्धेः योगित्वं कर्मिणोऽपि युक्तम् , संन्यासित्वं तु तस्य विरुद्धम् , इति शङ्कमानं प्रति उक्ते अर्थे श्लोकम् अवतारयति - इत्येतमिति । परमार्थसंन्यासं प्राहुः, इति सम्बन्धः । इति इत्थं संन्यासस्य प्रारमाणिकाभ्युपगतत्वादिति, इतिशब्दो योज्यः । योगं फलतृष्णां परित्यज्य समाहितचेतस्तया, इति शेषः भाविन्या वृत्त्या मुनेर्योगम् आरोढुम् इच्छोः इष्यमाणस्य योगारोहणस्य कर्महेतुश्चेद् अपेक्षितम् योगम् आरूढस्यपि तत्फलप्राप्तौ तदेव कारणं भविष्यति तस्य कारणत्वे क्लृप्तशक्तित्वात् , इत्याशङ्क्य, आह - योगारूढस्येति । अनारूढस्य इत्येतस्यैव अर्थम् स्फुटयति - ध्यानेति । मुनित्वं कर्मफलसंन्यासिनि औपचारिकम् , इत्याह - कर्मफलेति । साधनं चित्तशुद्धिद्वारा ध्यानयोगप्राप्तीच्छायाम् , इति शेषः । ‘तस्य’ इति प्रकृतस्य कर्मिणो ग्रहणम् । एवकारो भिन्नक्रमः शमशब्देन सम्बध्यते । कस्य अन्ययोगव्यवच्छेदेन शमो हेतुः इति, तत्र आह - योगारूढत्वस्येति । सर्वव्यापारोपरमरूपोपशमस्य योगारूढत्वे कारणत्वं विवृणोति - यावद्यावदिति । सर्वकर्मनिवृत्तौ आयासाभावात् वशीकृतस्य इन्द्रियग्रामस्य चित्तसमाधाने योगारूढत्वं सिध्यति, इत्यर्थः । सर्वकर्मोपरमस्य पुरुषार्थसाधनत्वे पौराणिकीं सम्मतिम् आह - तथा चेति ।
एकता सर्वेषु भूतेषु वस्तुनो द्वैताभावोपलक्षितत्वम् , इति प्रतिपत्तिः । समता - तेष्वेव औपाधिकविशेषेऽपि स्वतो निर्विशेषत्वधीः । सत्यता - तेषामेव हितवचनम् । शीलम् - स्वभावसम्पत्तिः । स्थितिः - स्थैर्यम् । दण्डनिधानम् - अहिंसनम् । आर्जवम् - अवक्रत्वम् । क्रियाभ्यः सर्वाभ्यः सकाशात् उपरतिश्च इति, एतदुक्तं सर्वं यथा - यादृशम् , एतादृशं नान्यद् ब्राह्मणस्य वित्तम् - पुमर्थसाधनम् , अस्ति । तस्मात् एतदेव अस्य निरतिशयं पुरुषार्थसाधनम् , इत्यर्थः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वश्लोके पूर्वोत्तरार्धाभ्याम् उक्तम् अनुवदति - एवमिति परमार्थसंन्यासस्य कर्मयोगान्तर्भावे कर्मयोगस्यैव सदा कर्तव्यत्वम् आपद्येत, तेन इतरस्यापि कृतत्वसिद्धेः, इत्याशङ्क्य, उक्तानुवादपूर्वकम् उत्तरश्लोकतात्पर्यम् आह - ध्यानयोगस्येति । सर्वेषाम् अपि सङ्कल्पानां योगारोहणप्रतिबन्धकत्वम् अभिप्रेत्य सर्वसङ्कल्पसंन्यासी इत्यत्र विवक्षितम् अर्थम् आह - सर्वानिति । सर्वसङ्कल्पसन्यासेऽपि सर्वेषां कामानां कर्मणां च प्रतिबन्धकत्वसम्भवे कुतो योगप्राप्तिः इत्याशङ्क्य, आह - सर्वेति । सर्वसङ्कल्पपरित्यगे यथोक्तविध्यनुष्ठानम् , अयत्नसिद्धम् इति मन्वानः सन् आह - सङ्कल्पेति । मूलोन्मूलने च तत्कार्यनिवृत्तिः अयत्नसुलभा, इति भावः । तत्र प्रमाणम् आह - सङ्कल्पमूल इति । तत्र अन्वयव्यतिरेकौ अभिप्रेत्य उक्तम् उपपादयति - कामेति । सर्वसङ्कल्पाभावे कामाभाववत् कर्माभावस्य सिद्धत्वेऽपि कर्मणां कामकार्यत्वात् तन्निवृत्तिप्रयुक्तामपि निवृत्तिम् उपन्यस्यति - सर्वकामेति । यदुक्तं कर्मणां कामकार्यत्वम् , तत्र श्रृतिस्मृती प्रभाणयति - स यथेति । स पुरुषः स्वरूपम् अजानन् यत्फलकामो भवति, तत्साधनम् अनुष्ठेयतया बुद्धो धारयति, इति तत्क्रतुकर्भवति । यच्च अनुष्ठेयतया गृह्णाति, तदेव कर्म बहिरपि करोति, इति कामाधीनं कर्म उक्तम् , इति श्रुत्यर्थः । कामजन्यं कर्म, इति अन्वयव्यतिरेकसिद्धम् , इति द्योतयितुं स्मृतौ ‘हि’ शब्दः । न्यायमेव दर्शयति - नहि सर्वसङ्कल्पेति । स्वापादौ अदर्शनात् , इत्यर्थः । नित्यनैमित्तिककर्मानुष्ठानं दुरनिरस्तम् , इति वक्तुम् ‘अपि’ शब्दः । श्रुतिस्मृतिन्यायसिद्धम् अर्थम् उपसंहरति - तस्मादिति
॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 योगप्राप्तौ कारणकथनानन्तरं तत्प्राप्तिकालं दर्शयितुं श्लोकान्तरम् अवतारयति - अथेति । समाधानावस्था ‘यदा’ इत्युच्यते । अत एवोक्तं समाधीयमानचित्तो योगी, इति । शब्दादिषु कर्मसु च अनुषङ्गस्य योगारोहणप्रतिबन्धकत्वात् तदभावस्य तदुपायत्वं प्रसिद्धम् , इति द्योतयितुं ‘हि’ इत्युक्तम् । तत्र हेतुम् आह - आत्मैव हीति । उद्धरणापेक्षाम् आत्मनः सूचयति - संसारेति । संसारात् ऊर्ध्वं हरण कीदृक् इत्याशङ्क्य, आह - योगारूढतामिति । योगप्राप्तौ अनास्था तु न कर्तव्या, इत्याह - नात्मानमिति । योगप्राप्त्युपायश्चेत् नानुष्ठीयते, तदा योगाभावे सम्सारपरिहारासम्भवात् आत्मा अधो नीतः स्यात् , इत्यर्थः । ननु - आत्मानं सम्सारे निमग्नं तदीयो बन्धुः तस्मात् उद्धरिष्यति ; नेत्याह - आत्मैव हीति । कुतोऽवधारणम् अन्यस्यापि प्रसिद्धस्य बन्धोः सम्भवात् , तत्र आह - न हीति । अन्यो बन्धुः सन् अपि सम्सारमुक्तये न भवति, इत्येतत् उपपादयति - बन्धुरपीति । ‘स्नेहादि’ इति आदिशब्दात् तदनुगुणप्रवृत्तिविषयत्वं गृह्यते । आत्मातिरिक्तिस्यापि शत्रोः अपकारिणः सुप्रसिद्धत्वात् अवधारणम् अनुचितम् , इत्याशङ्क्य, आह - योऽन्य इति
॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 योगारूढस्य किं स्यात् इत्याशङ्क्य, आह - यदैवमिति । योगारोहस्य दृष्टादृष्ठोपायैः अवश्यकर्तव्यतायै मुक्तिहेतुत्वम् , तद्विपर्ययस्य अधःपतनहेतुत्वं च, दर्शयति - अत इति । एकस्यैव आत्मनो मिथो विरुद्धं बन्धुत्वं रिपुत्वं च लक्षणभेदम् अन्तरेण अयुक्तम् , इति चोदिते, वशीकृत सङ्घातस्य आत्मानं प्रति बन्धुत्वम् , इतरस्य शत्रत्वम् , अविरोधं दर्शयति - बन्धुरित्यादिना । वशीकृतसङ्घातस्य विक्षेपाभावात् आत्मनि समाधानसम्भवात् , उपपन्नम् आत्मानं प्रति बन्धुत्वम् , इति साधयति - तस्येति । अवशीकृतसङ्घातस्य पुनर्विक्षेपोपपत्तेः आत्मनि समाधानायोगात् आत्मानं प्रति शत्रुभावे प्रसिद्धशत्रुवत् आत्मैव शत्रुत्वेन वर्तेत, इति उत्तरार्धं व्याकरोति - अनात्मन इति । दृष्टान्तं व्याचष्टे - यथेति । उक्तदृष्टान्तवशात् अवशोकृतसङ्घातः स्वस्य हितानाचरणात् आत्मानं प्रति शत्रुरेव, इति दार्ष्टान्तिकम् आह - तथेति
॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 उक्तम् अनूद्य प्रश्नपूर्वकं श्लोकान्तरम् अवतारयति - आत्मैव इत्यादिना । कथं संयतकार्यकरणस्य बन्धुरात्मा इति, तत्र आह - जितात्मन इति । जितकार्यकरणसङ्घातस्य प्रकर्षेण उपरतबाह्याभ्यन्तरकरणस्य परमात्मा विक्षेपेण पुनः पुनः अनभिभूयमानो निरन्तरं चित्ते प्रथते, इत्यर्थः । जितात्मानं संन्यस्तसमस्तकर्माणम् अधिकारिणं प्रदर्श्य, योगाङ्गानि दर्शयति - शीतेति । समः स्यात् , इति अध्याहारः । पूर्वार्धं व्याचष्टे - जितेत्यादिना । न केवलं तस्य परमात्मा साक्षात् आत्मभावेन वर्तते, किन्तु शीतोष्णादिभिरपि नासौ चाल्यते तत्वज्ञानात् , इति उत्तरार्धं विभजते - किञ्चेति । तेषु, समः स्यात् इति सम्बन्धः
॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 चित्तसमाधानमेव विशिष्टफलं चेत् इष्टम् , तर्हि कथम्भूतः समाहितो व्यवह्रियते, तत्र आह - ज्ञानेति । परोक्षापरोक्षाभ्यां ज्ञानविज्ञानाभ्यां सञ्जातः अलंप्रत्ययः यस्य अन्तःकरणे, सोऽक्रियो हर्षविषादकामक्रोधादिरहितो योगी, युक्तः, समाहित इति व्यवहारभागी भवति, इति पदत्रयव्याख्यानेन दर्शयति - ज्ञानमित्यादिना । स च योगी परमहंसपरिव्राजकः सर्वत्र उपेक्षाबुद्धिः अनतिशयवैराग्यभागी, इति कथयति - स योगीति
॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 पदच्छेदः पदार्थोक्तिः इति व्याख्यानाङ्गं सम्पादयति - सुहृदितीति । अरिर्नाम परोक्षम् अपकारकः, प्रत्यक्षम् अप्रियो द्वेष्यः, इति विभागः । समबुद्धिः इति व्याचष्टे - कः किमिति । प्रथमो हि प्रश्नो जातिगोत्रादिविषयः, द्वितीयो व्यापारविषयः । उक्तप्रकारेण अव्यापृतबुद्धित्वे सर्वोत्कर्षो वा सर्वपापविमोक्षो वा सिध्यति, इत्याह - विशिष्यत इति । पाठद्वयेऽपि सिद्धम् अर्थं सङ्गृह्य कथयति - योगारूढानामिति
॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 योगारूढस्य प्रशस्तत्वम् अभ्युपेत्य योगस्य अङ्गान्तरं दर्शयति - किञ्चेति । आदरनैरन्तर्यदीर्घकालत्वं विशेषणत्रयं योगस्य सूचयति - सततमिति । तस्यैव पञ्च अङ्गानि उपन्यस्यति - रहसि इत्यादिना । सर्वदा इति आदरदीर्धकालयोः उपलक्षणम् । प्रत्यगात्मानं व्यावर्तयति - अन्तःकरणमिति । गिरिगुहादौ इति आदिशब्देन योगप्रतिबन्धकदुर्जनादिविधुरो देशो गृह्यते । विशेषणद्वयस्य तात्पर्यम् आह - रहसीति । योगं युञ्जानस्य संन्यासिनो विशेषणान्तराणि दर्शयति - यतेति । सति संन्यासित्वे किमिति अपरिग्रहग्रहणम् अर्थपुनरुक्तेः, इत्याशङ्क्य कौपीनाच्छादनादिष्वपि सक्तिनिवृत्त्यर्थम् , इत्याह - संन्यासित्वेऽपीति
॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 यथोक्तविशेषणवतो योगारूढेषु उत्तमत्वे योगानुष्ठाने प्रयतितव्यम् , इति अङ्गाभिधानानन्तरं प्रधानम् अभिदधाति - अत एवमिति । विविक्तत्वं द्वेधा विभजते - स्वभावत इति । आसनस्य अस्थैर्ये तत्र उपविश्य योगम् अनुतिष्ठतः समाधानायोगात् योगासिद्धिः, इति अभिसन्धाय विशिनष्टि - अचलमिति । आस्यते अस्मिन् , इति व्युत्पत्तिम् अनुसृत्य, आह - आसनमिति । ‘आत्मन’ इति परकीयासनव्युदासार्थम् । पतनभयपरिहारार्थं नात्युच्छ्रितम् इत्युक्तम् । नाप्यतिनीचम् , इति भूतलपाषाणादिसंश्लेषे वातक्षोभाग्निमान्द्यादिसम्भावितदोषनिरासार्थम् । चैलम् - वस्रम् , अजिनम् - चर्म पशूनाम् , तच्च मृगस्य, कुशाः - दर्भाः, ते च उत्तरे यस्मिन् उपरिष्टात् आरभ्य तत्तथोक्तम् । प्रथमञ्चैलम् , ततोऽजिनम् , ततश्च कुशाः, इति प्रतिपन्नपाठक्रमम् आपातिकं क्रमम् अतिक्रम्य, आदौ कुशाः ततोऽजिनम् , ततः चैलम् इति क्रमं विवक्षित्वा, आह - विपरीतोऽत्रेति
॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 योगं योगाङ्गनि च उपदिश्य उत्तरसन्दर्भस्य तात्पर्यम् आह - अथेति । योगस्वरूपकतिपयतदङ्गप्रदर्शनानन्तर्यम् अथशब्दार्थः । विहारादीनाम् इति आदिशब्देन यथोक्ताऽऽसनादिगतावान्तरभेदग्रहणम् । तत्फलादि च इति आदिशब्देन योगफलसम्यग्ज्ञानं च तत्फलं कैवल्यं ततो भ्रष्टस्य आत्यन्तिकाविनष्टत्वम् इत्यादि गृह्यते । एवं समुदायतात्पर्ये दर्शिते, किं आसीनः शयानः तिष्ठन् गच्छन् कुर्वन् वा युञ्जीत इत्यपेक्षायाम् , अनन्तरश्लोकतात्पर्यम् आह - तत्रेति । निर्धारणे सप्तमी । प्रथमम् योगानुष्ठानस्य प्रधानम् , ‘आसीनः सम्भवात्’ (ब्र.सू. ४-१-७) इति न्यायात् , इति यावत् । योगं युञ्जानस्य इतिकर्तव्यताकलापं पृच्छति - कथमिति । सर्वेभ्यो विषयेभ्यः सकाशात् प्रत्याहृत्य मनसो यत् एकस्मिन्नेव ध्येये विषये सामाधानम् , यत् चित्तस्य इन्द्रियाणां च बाह्यक्रियाणां संयमनं, तत् उभयं कृत्वा योगम् अनुतिष्ठेत् , इत्याह - सर्वेति । आसने यथोक्ते स्थित्वा यथोक्तया रीत्या योगानुष्ठानस्य प्रश्नपूर्वकं फलम् आह - स किमर्थमित्यादिना
॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 यथोक्तम् आसनं सम्पाद्य किं कर्तव्यम् इति प्रश्नपूर्वकं कर्तव्यं तत् निर्दिशति - प्रतिष्ठाप्येति । समत्वम् - ऋजुत्वम् , कायः - शरीरमध्यम् ‘अचलम् ‘ विशेषणम् अवतार्य तस्य तात्पर्यम् आह - सममिति । कार्यकरणयोः विषयपारवश्यशून्यत्वम् अचलत्वं स्थैर्यम् । किमिति इवशब्दलोपः अत्र कल्प्यते स्वनासिकाग्रसम्प्रेक्षणमेव योगाङ्गत्वेन अत्र विधित्सितं किं न स्यात् इत्याशङ्क्य, आह - नहीति । तर्हि किमत्र विवक्षितम् इति प्रश्नपूर्वकम् आह - किं तर्हि इति । दृष्टिसन्निपातः - दृष्टेः - चक्षुषः, रूपादिविषयप्रवृत्तिराहित्यम् । कथम् असौ अनायासेन सिध्यति तत्र आह - स चेति । समाधानस्य प्राधान्येन अत्र विवक्षितत्वात् दृष्टेः बहिर्विषयत्वेन तद्भङ्गप्रसङ्गात् तस्या विषयेभ्यो व्यावृत्त्य अन्तरे च सन्निपातो विवक्षितो भवति, इत्यर्थः । तथापि कथं स्वनासिकाग्रसम्प्रेक्षणम् अत्र श्रुतम् अविवक्षितम् इत्याशङ्क्य, आह - स्वनासिकेति । तत्रैव मनःसमाधाने का हानिः इत्याशङ्क्य, वाक्यशेषविरोधात् मैवम् , इत्याह - आत्मनि हीति । किं तर्हि ‘सम्प्रेक्ष्य’ इत्यादौ विवक्षितम् इत्याशङ्क्य, आह - तस्मादिति । दक्षिणेतरचक्षुषोः या दृष्टिः तस्या बाह्याद्विषयात् वैमुख्येन अन्तरेव सन्निपतनम् अत्र स्वकीयं नासिकाग्रम् नासिकान्तं सम्प्रेक्ष्येति विवक्षितम् , इत्यर्थः । तत्रैव उत्तरम् अपि विशेषणम् अनुकूलम् इत्याह - दिशश्चेति । अनवलोकयन् आसीत इति उत्तरत्र सम्बन्धः, अन्तरान्तरा दिशाम् अवलोकनमपि योगप्रतिबन्धकम् , इति तत्प्रतिषेधः
॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 उक्तम् अनूद्य अनन्तरश्लोकस्य पुनरुक्तम् अर्थम् आह - बाह्येति । विशेषणान्तरम् आह - किञ्चेति । उपसंहृत्य योगनिष्ठो भवेत् , इति शेषः । मनोवृत्युपसंहारे ध्यानमपि न सिध्येत् , तस्य तद्वृत्यावृत्तिरूपत्वात् , इति आशङ्क्य आह - मच्चित्त इति । विषयान्तरविषयमनोवृत्त्युपसंहारेण आत्मन्येव तन्नियमनात् न ध्यानानुपपत्तिः, इत्यर्थः । मच्चित्तत्वेनैव मत्परस्य सिद्धत्वात् मत्पर इति पृथग्विशेषणम् अनर्थकम् , इत्याशङ्क्य, आह - भवतीति । अन्तःकरणशुद्धिः योगस्य अवान्तरफलम्
॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 योगं युञ्जानस्य विशेषणान्तराणि दर्शयति - किञ्चेति । अन्तःकरणस्य प्रशान्ति रागद्वेषादिदोषराहित्यम् , तस्याश्च प्रकर्षः रागादिहेतोरपि निवृत्तिः । विगतभयत्वम् - सर्वकर्मपरित्यागे शास्त्रीयनिश्चयवशात् निःसन्दिग्धबुद्धित्वम् । भिक्षाभुक्यादि इति आदिशब्देन त्रिषवणस्नानशौचाऽऽचमनादि गृह्यते । मनः संयमस्य लोकं प्रति असाधारणत्वं दर्शयति - नियतेति । शान्तिशब्दितोपरतेः सर्वसंसारनिवृत्तिपर्यवसायित्वं मत्वा विशिनष्टि - निर्वाणेति । यथोक्तायाः मुक्तेः ब्रह्मस्वरूपावस्थानात् अनर्थान्तरत्वं आह - मत्संस्थामिति । मदधीनां - मदात्मिकां इत्यर्थः
॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 सम्प्रति परमफलकथनपरत्वेन अनन्तरश्लोकं आदत्ते - अथेति । योगस्वरूपं तदङ्गम् आसनं अपि तत् कर्तृविशेषणम् इत्यस्य अर्थस्य प्रकथनानन्तरं इति अथ शब्दार्थः । आत्मानं युञ्जन् इति सम्बन्धः । आत्मशब्दः मनोविषयः । यथोक्तः विधिः आसनादिः । उक्तविशेषणत्रयद्योतनार्थं सदा इत्युक्तम् । योगी - ध्यायी संन्यासीत्यर्थः । आहारादि इत्यादि शब्देन विहारजागरितादि च उच्यते । आत्मसंमितं अन्नपरिमाणम् अष्टग्रासादि । आहारनियमे शतपथश्रुतिं प्रमाणयति - यदुह वा इति । तदन्नं भुज्यमानं यदुह वा इति प्रसिद्ध्या अनूदितं अवति - अनुष्ठानयोग्यताम् आपाद्य अनुष्ठानद्वारेण भोक्तारं रक्षति । न पुनः तत् अन्नं अस्य अनर्थाय भवति इत्यर्थः । यत्पुनः आत्मसंमितात् भूयः - अधिकतरं शास्त्रमतिक्रम्य भुज्यते, तत् आत्मानं हिनस्ति भोक्तुः अनर्थाय भवति । यच्च अन्नं कनीयः - अल्पतरं शास्त्रनिश्चयाभावात् अद्यते तत् अन्नं अनुष्ठानयोग्यतादिद्वारा न रक्षितुं क्षमते । तस्मात् अत्यधिकम् अत्यल्पञ्च अन्नं योगमारुरुक्षता त्याज्यम् इत्यर्थः । श्रुतिसिद्धमर्थं निगमयति - तस्मात् इति । नेत्यादेः व्याख्यानान्तरमाह - अथवेति । किं तत् अन्नपरिमाणं योगशास्त्रोक्तं, यत् अधिकं न्यूनं वा अभ्यवहरतः योगानुपपत्तिः इत्याशङ्क्य आह - उक्तं हीति । ‘ पूरयेदशनेनार्धं तृतीयमुदकेन तु । वायोस्सञ्चरणार्थाय चतुर्थमवशेषयेत् ॥ '' इति वाक्यम् आदिशब्दार्थः । यथा अत्यन्तमश्नतः अनश्नतश्च योगः न सम्भवति तथा अत्यन्तं स्वपतः जाग्रतश्च न योगस्सम्भवति, इत्याह - तथेति
॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 अन्नस्य नियतत्वम् अर्धम् अशनस्य इत्यादि, विहारस्य नियतत्वं योजनान्न परं गच्छेत् इत्यादि, कर्मसु चेष्टायाः नियतत्वं वाङ्नियमादि, रात्रौ प्रथमतः दशघटिकापरिमिते काले जागरणम् , मध्यतः स्वपनम् , पुनरपि दशघटिकापरिमिते जागरणम् इति स्वप्नावबोधयोः नियतकालत्वम् । एवं प्रयतमानस्य योगिनो भवतः योगस्य फलम् आह - दुःखहेति । सर्वाणि इति आध्यात्मिकादिभेदभिन्नानि, इत्यर्थः । यथोक्तयोगमन्तरेणापि स्वप्नादौ दुःखनिवृत्तिरस्ति, इति विशिनष्टि - सर्वेति । विशुद्धविज्ञानद्वारा, इति शेषः
॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 आहारनिद्रादिनियमविरहिणो योगव्यतिरेकम् उक्त्वा तन्नियमवतो योगान्वयं व्याचष्टे - कथं पुनरित्यादिना । विशेषेण संयतत्वमेव सङ्क्षिपति - एकाग्रतामिति । आत्मन्येव इति एवकारार्थं कथयति - हित्वेति । केवलत्वम् - अद्वितीयत्वम् । तस्य आत्मस्थितिं विवृणोति - स्वात्मनीति । चित्तस्य हि कल्पितस्य आत्मैव तत्त्वम् । तत्पुनः अन्यतः सर्वतो निवारितम् अधिष्ठाने निमग्नं तिष्ठति, इति भावः । तस्याम् अवस्थायां सर्वेभ्यो विषयेभ्यो व्यावृत्ततृष्णो युक्तो व्यवह्रियते, इत्याह - निःस्पृह इति
॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 सफलस्य साङ्गस्य योगस्य उक्त्यनन्तरम् , ‘यदा हि’ (भ. गी. ४-७) इत्यादौ उक्तकालानुवादेन युक्तं लक्षयितुं अनन्तरश्लोकप्रवृत्तिं दर्शयति - अथ अधुनेति । उपमा - योगिनः चित्तस्थैर्यस्य उदाहरणम् , इत्यर्थः । उपमाशब्दस्य प्रदीपविषयत्वसिद्ध्यर्थं करणव्युत्पत्तिं दर्शयति - उपमीयत इति । योगिनः - यथोक्तविशेषणवतः चित्तस्थैर्यस्य, इति शेषः
॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 चकारस्य सम्बन्धमाह - यस्मिंश्चेति । कालस्तु पूर्ववत् । कर्मकारकत्वेन निर्दिष्टम् आत्मानं तत्पदार्थत्वेन व्याचष्टे - परमिति । आत्मनि इत्यस्य त्वम्पदार्थविषयत्वमाह - एवेति । परमात्मानं प्रतीच्येव तद्भावेन अपरोक्षीकुर्वन् अतुष्टिहेत्वभावात् तुष्यत्येव इत्यर्थः । तस्मिन् काले योगसिद्धिः भवति इति शेषः
॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 द्विविधः समाधिः सम्प्रज्ञातः असम्प्रज्ञातश्च । ध्येयैकाकारसत्ववृत्तिः भेदेन कथञ्चित् ज्ञायमाना सम्प्रज्ञातः समाधिः । कथमपि पृथक् अज्ञायमाना सैव सत्ववृत्तिः असम्प्रज्ञातः समाधिः । तत्र सामान्येन समाधिलक्षणमभिधाय असम्प्रज्ञातस्य सामधेः अधुना लक्षणं विवक्षन् आह - एवमिति । काले समाध्युपलक्षिते । एवकारः तुष्यति इत्यनेन सम्बध्यते । इन्द्रियनिरपेक्षस्वानुभवगम्यत्वोक्तेः ‘अतीन्द्रिय ‘मिति पुनरुक्तम् , इत्याशङ्क्य, आह - अविषयेति । पदच्छेदः - न चेत्यादि । अपेक्षितपूरणम् - आत्मस्वरूप इति । तस्मात् तत्त्वत इति सम्बन्धः । नैव इति एवकारसम्बन्धोक्तिः । चकारः सप्तम्या सम्बन्धनीयः । इति पूर्ववत् सम्बन्धः
॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 योगसिद्धिकालं प्रकारान्तरेण प्रकटयति - किञ्चेति । बुद्धिशब्दः स्वानुभवविषयः । आत्मलाभात् न परं विद्यते, इति स्मृत्वा व्याचष्टे - यम् आत्मलाभमिति । लाभान्तरम् - पुरुषार्थभूतम् , ततः - तस्मात् , आत्मलाभादिति यावत् । तं विद्यात् इति उत्तरत्र सम्बन्धः । यस्मिन् इत्याद्यवतारयति - किञ्चेति । अपरिपक्वयोगो यथा दर्शितेन दुःखेन प्रच्याव्यते न चैवं विचाल्यते यस्मिन् स्थितो योगी, तं योगं विद्यात् , इति पूर्ववत्
॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकारान्तरेण प्रकृतं योगं विशिनष्टि - किञ्चेति । दुःखसंयोगस्य वियोगः वियोगसंज्ञितो युज्यते, स कथं योगसंज्ञितः स्यात् इत्याशङ्क्य, आह - विपरीतेति । इयं हि योगावस्था समुत्खातनिखिलदुःखभेदा, इति दुःखसंयोगभावो योगसंज्ञाम् अर्हति, इत्यर्थः । उपसंहृते योगफले किमिति पुनः योगस्य कर्तव्यत्वम् उच्यते तत्र आह - योगफलमिति । प्रकारान्तरेण योगस्य कर्तव्यत्वोपदेशारम्भः अत्र अन्वारम्भः । योगं युञ्जानः तत्क्षणात् उक्तां संसिद्धिं अलभमानः संशयानो निवर्तेत इति, तन्निवृत्त्यर्थं पुनः कर्तव्योपदेशः अर्थवान् , इति मत्वा, आह - निश्चयेति । तयोः साधानविधानमेव अक्षरयोजनया साधयति - स यथेति । इह जन्मनि जन्मान्तरे वा सेत्स्यति, इति अध्यवसायेन योक्तव्यः - कर्तव्यः
॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 तं विद्यात् इत्याद्यपेक्षितं पूरयन् अवतारयति - यत्रेति । तमिति आत्मावस्थाविशेषं परामृशति । केन क्रमेण कर्तव्यत्वम् इत्यपेक्षायाम् , आह - सङ्कल्पेति । सङ्कल्पः - शोभनाध्यासः । सर्वान् इत्युक्त्वा पुनः अशेषत इति पुनरुक्तिः, इत्याशङ्क्य, आह - निर्लेपेनेति । तथा शेषो न भवति, तथा सर्वेषां कामानां शोभनाध्यासाधीनानां त्यागस्य योगानुष्ठानशेषत्ववत् विवेकयुक्तेन मनसा करणसमुदायस्य सर्वतो नियमनमपि तत्र शेषत्वेन कर्तव्यम् , इत्याह - किञ्चेति
॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 इतश्च योगस्य कर्तव्यत्वम् , इति प्रतिजानीते - किञ्चेति । कामत्यागद्वारेण इन्द्रियाणि प्रत्याहृत्य किं कुर्यादिति शङ्कितारं प्रति आह - शनैः शनैरिति । सहसा विषयेभ्यः सकाशात् उपरमे मनसो न स्वास्थ्यं सम्भवति, इत्यभिप्रेत्य, आह - न सहसेति । तत्र साधनं धैर्ययुक्ता बुद्धिः, इत्याह - कयेत्यादिना । भूम्यादीः अव्याकृतपर्यन्ताः प्रकृतीः अष्ट पूर्वत्र पूर्वत्र धारणं कृत्वा उत्तरोत्तरक्रमेण प्रविलापयेत् , इति भावः । अव्यक्तम् आत्मनि प्रविलाप्य, आत्ममात्रनिष्ठं मनो विधाय, चिन्तयितव्याभावात् अतिस्वस्थो भवेत् , इत्याह - आत्मेति । तत्र संस्थितिमेव मनसो विवृणोति - आत्मैवेति । योगविधिम् उपक्रम्य, किमिदम् उक्तम् इत्याशङ्क्य, आह - एष इति । यत् मनसो नैश्चल्यम् , इति शेषः
॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 शब्दादेः मनसो नियमनं कथम् इत्याशङ्क्य, आह - तत्तन्निमित्तमिति । याथात्म्यनिरूपणम् - क्षयिष्णुत्वदुःखसंमिश्रत्वाद्यालोचनम् , तेन तत्र तत्र वैराग्यभावनया तत्तत् आभासीकृत्य ततस्ततो नियम्य एतन्मनः, इति सम्बन्धः । मनोवशीकरणेन उपशमे किं स्यात् इत्याह - एवमिति । योगाभ्यासः - विषयविवेकद्वारा मनोनिग्रहाद्व्यावृत्तिः, प्रशान्तम् - आत्मन्येव प्रलीनम् , इति यावत्
॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 ननु मनसः शब्दादिनिमित्तानुरोधेन रागद्वेषवशात् अत्यन्तचञ्चलस्य अस्थिरस्य तत्र तत्र स्वभावेन प्रवृत्तस्य कुतो नैश्चल्यं नैश्चिन्त्यं च इति, तत्र आह - तत्रेति । योगप्रारम्भः सप्तम्यर्थः । एवं शब्देन ‘मनसैव’ इत्यादिः उक्तप्रकारो गृह्यते । स्वाभाविको दोषो मिथ्याज्ञानाधीनो रागादिः । मनस्तद्वृत्त्योः अभावे स्वरूपभूतसुखाविर्भावस्य स्वापादौ प्रसिद्धिं द्योतयितुं ‘हि ‘शब्दः । मोहादिक्लेशप्रतिबन्धात् योगिनि यथोक्तसुखाप्राप्तिम् आशङ्क्य, मनोविलयम् उपेत्य परिहरति - शान्तेति । तस्य अस्मदादिविलक्षणत्वम् आह - ब्रह्मभूतमिति । अस्मदादेरपि स्वतो ब्रह्मभूतत्वेन तुल्यं जीवन्मुक्तत्वम् , इत्याशङ्क्य, आह - ब्रह्मैवेति । धर्माधर्मप्रतिबन्धात् अयुक्ता यथोक्तसुखप्रप्तिः, इत्याशङ्क्य उक्तम् - अकल्मषमिति
॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 उत्तमं सुखं योगिनो भवति इत्युक्तम् , तदेव स्फुटयति - युञ्जन्निति । क्रमः यथोक्तो ‘मनसैवेन्द्रियग्रामम् ‘ इत्यादिः । योगान्तरायः - रागद्वेषादिः, सदा आत्मानं युञ्जन्निति सम्बन्धः । पापपदं उपलक्षणं पुण्यस्यापि । संस्पर्शः - तादात्म्यम् ऐकरस्यम् । उत्कर्षः - विषयासंस्पर्शः
॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वभूतान्यपि तद्विशेषणत्वेन पश्यति चेत् न शुद्धवस्तुज्ञानमिति न अविद्यानिवृत्तिः, इत्याशङ्क्य, आह - सर्वभूतानीति । उक्ते दर्शने चित्तसमाधानम् उपायन्दर्शयति - योगेति । विषमेषु उपाधिषु तदनुरोधात् विषममेव दर्शनं तदुपदर्शितदर्शनप्रतिबन्धकं प्रत्युदस्यति - सर्वत्रेति
॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 योगम् अनुतिष्ठतो ब्रह्मभूतस्य सर्वानर्थनिवृत्तिनिरतिशयसुखप्राप्तिलक्षणो द्विविधोमोक्षः हेतुना केन स्यात् इति शङ्कमानं प्रति आह - इदानीमिति । स्वम् आत्मानम् ईक्षते, इति सम्बन्धः । तत्र एकत्वदर्शनम् अनुवदति - यो मामिति । तत्फलम् इदानीम् उपन्यस्यति - तस्येति । ज्ञानानुवादभागं विभजते - यो मामिति । तत्फलोक्तिभागं व्याचष्टे - तस्यैवमिति । अनेकत्वदर्शिनोऽपि ईश्वरो नित्यत्वात् न प्रणश्यति, इत्याशङ्क्य आह - नेति । अहम् परमानन्दः, न तं प्रति परोक्षो भवामि, इत्यर्थः । ‘स च’ इत्यादि व्याचष्टे - विद्वानिति । विद्वानिव अविद्वानपि ईश्वरस्य न नश्यति, इत्याशङ्क्य, उक्तम् - नेत्यादिना । अविदुषश्च स्वरूपेण सतोऽपि व्यवहितत्वात् अविद्यया, नष्टप्रायता इत्यर्थः । ईश्वरस्य विदुषश्च परस्परम् अपरोक्षत्वे हेतुम् आह - तस्य चेति । आत्मैकत्वेऽपि कथं मिथोऽपरोक्षत्वम् , तत्र आह - स्वात्मेति । विद्वदीश्वरयोः एकत्वानुवादेन विद्याफलं विवृणोति - यस्माच्चेति । तस्मात् एकत्वदर्शनार्थं प्रयतितव्यम् , इति शेषः
॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 उक्तस्य एकत्वज्ञानस्य फलविकल्पत्वशङ्कां शिथिलयति - एतस्येति । रागादिरहितस्य यमनियमादिसंस्कारवतः स्वैरप्रवृत्त्यसम्भवेऽपि, ताम् अङ्गीकृत्य ज्ञानं स्तौति - सर्वथेति । प्रतिभासतोऽपि यथेष्टचेष्टाऽङ्गीकारे कुतो ज्ञानवतो नित्यमुक्तत्वम् , प्रातीतिकदुराचारप्रतिबन्धात् , इत्याशङ्क्य, आह - न मोक्षमिति
॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वार्धेन अनूद्य उत्तरार्धेन फलविधिः, इति मत्वा आह - इत्येतदिति । उपमेव - औपम्यम् , आत्मा च तत् औपम्यञ्च, तेन । सर्वभूतेषु यः समं पश्यति इत्युक्ते तदेव समदर्शनं प्रश्नपूर्वकं विवृणोति - किमित्यादिना । विकल्पार्थत्वं वारयति - वाशब्द इति । उपदर्शितसमदर्शनफलम् अभिलषति - न कस्यचिदिति । किमपेक्षया तस्य परमत्वम् तत्र आह - सर्वेति
॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】 स्वैराचरणस्य अप्रतिबन्धकत्वकथनात् परपीडनस्य योगिनः सम्यग्दर्शनं प्रति अप्रतिबन्धकत्वप्रसक्तौ उक्तम् - किञ्चेति । अन्यदपि कि़ञ्चित् उच्यते परमयोगिनो निर्देशद्वारा योगमाहात्म्यम् , इत्यर्थः । “ मनश्चञ्चलमस्थिरम् “, इत्युपश्रृत्य निर्विशेषे चित्तस्थैर्यं दुश्शकम् इति मन्वानः तदुपायबुभुत्सया पृच्छति, इति प्रश्नम् उत्थापयति - एतस्येति । तत्प्राप्त्युपायं शुश्रूषुः, इति सम्बन्धः ।
॥ ३३ ॥ 【भाष्यम्】 【भाष्यम्】 कृष्णपदपरिनिष्पत्तिप्रकारं सूटयति - कृष्ण इतीति । कथं कर्षकत्वं आप्तकामस्य भगवतः सम्भवति इत्याशङ्क्य आह - भक्तेति । ऐहिकामुष्मिकसर्वसम्पदां आकर्षणशीलत्वाच्च इति द्रष्टव्यम् । प्रमथ्नाति क्षोभयति । तदेव क्षोभकत्वं प्रकटयति - विक्षिपतीति । दुर्निवारत्वं अभिप्रेतात् विषयात् आक्रष्टुं अशक्यत्वं विशेषणान्तरमाह - किञ्चेति । अवच्छेद्यत्वं विशेषणान्तरमाह - किञ्च दृढम् इति । तन्तुनागः वरुणपाशशब्दितः जलचारी पदार्थः अत्यन्तदृढतया छेत्तुमशक्यत्वेन प्रसिद्धः विवक्षितः । वायोरित्युक्तं व्यनक्ति - यथेति
॥ ३४ ॥ 【भाष्यम्】 【भाष्यम्】 मनसश्चञ्चलत्वेऽपि तन्निग्रहद्वारा योगस्थैर्यं सम्पाद्यताम् , इत्याशङ्क्या, आह - प्रसिद्धमिति कुत्र संशयराहित्यम् तत्र आह - मन इति । कथं तर्हि मनोनिरोधो भवति, तत्र आह - किन्तु इति । अभ्यासस्वरूपं सामान्येन निदर्शयति - अभ्यासो नामेति । कस्याञ्चित् चित्तभूमौ इति अविशेषितः ध्येयो विषयो निर्दिश्यते, समानप्रत्ययावृत्तिः विजातीयप्रत्ययानन्तरिता इति शेषः । चित्तस्येति षष्ठी प्रत्ययस्य तद्विकारत्वद्योतनार्था । वैराग्यस्वरूपं निरूपयति - वैराग्यमिति । तेषु वैतृष्ण्यं वैराग्यं नाम, इति सम्बन्धः । तत्र हेतुं सूचयति - दोषेति । विषयेषुतृष्णाविषयेषु दोषदर्शनम् अभ्यस्यते । तेन वैतृष्ण्यं जायते । तेन निगृह्यमाणं निर्दिशति - विक्षेपेति । तस्मिन् गृहीते - निरुद्धे मनोनिरोधेऽस्य किं स्यात् इत्यपेक्षायाम् आह - एवमिति । अभ्यासहेतुकवैराग्यद्वारा चित्तप्रचारनिरोधे निरुद्धवृत्तिकं मनोविषयविमुखम् अन्तर्निष्ठं भवति, इत्यर्थः
॥ ३५ ॥ 【भाष्यम्】 【भाष्यम्】 प्रश्नम् अङ्गीकृत्य प्रतिवचनम् उत्थापयति - श्रीभगवानिति । व्यतिरेकोपन्यासपरं पूर्वार्धम् अनूद्य व्याकरोति - असंयतेति । पूर्वोक्तान्वयव्याख्यानपरम् उत्तरार्धं व्याचष्टे - यस्त्वित्यादिना । अन्तःकरणस्य स्ववशत्वे सिद्धेऽपि वैराग्यादौ आस्थावता भवितव्यम् , इत्याह - यततेति । उपायो वैराग्यादिपूर्वको मनोनिरोधः
॥ ३६ ॥ 【भाष्यम्】 【भाष्यम्】 संयतात्मनो योगप्राप्तिः सुलभा, इत्युक्त्वा, व्यतिरेकं दर्शयति - यः पुनरिति । तर्हि ततो बहिर्मुखत्वमेव आत्यन्तिकं संवृत्तम् , इत्याश्क्य, आह - श्रद्धयेति । तर्हि योगमार्गम् आश्रयते नेत्याह - योगादिति । मरणकाले व्याकुलेन्द्रियस्य ज्ञानसाधनानुष्ठानावकाशाभावात् युक्तं ततश्चलितमानसत्वम् , इत्याशङ्क्य, आह - भ्रष्टेति । गम्यत इति गतिः - पुरुषार्थः, सामान्यप्रश्नम् अन्तर्भाव्यविशेषप्रश्नो द्रष्टव्यः
॥ ३७ ॥ 【भाष्यम्】 【भाष्यम्】 प्रश्नान्तरम् उत्थापयति - तत्रेत्यादिना । मनोनिरोधस्य दुःखसाध्यत्वम् आशङ्क्य परिहृते सति, प्रष्टा पुनः अवकाशं प्रतिलभ्य उवाच, इति सम्बन्धः । लोकद्वयप्रापककर्मसम्भवे कुतो योगिनो नाशाशङ्का इत्याशङ्क्य, आह - योगाभ्यासेति । तथापि योगानुष्ठानपरिपाकपरिप्राप्तिसम्यग्दर्शनसामर्थ्यात् मोक्षोपपत्तौ कुतः तस्य नाशाशङ्का इति चेत् , मैवम् , अनेकान्तरायवत्त्वात् योगस्य इह जन्मनि प्रायेण संसिद्धेः असिद्धिः, इत्यभिसन्धाय आह - योगसिद्धीति । अभ्युदयनिःश्रेयसबहिर्भावो नाशः । योगमार्गे तत्फलस्य सम्यग्दर्शनस्य अदर्शनात् , इति शेषः । प्रश्नमेव विवृणोति - कच्चिदिति । प्रशस्तप्रश्नार्थत्वं कच्चिदित्यस्य अङ्गीकृत्य व्याचष्टे - किमिति । उभयविभ्रष्टत्वं स्पष्टयति - कर्मेत्यादिना । वायुना छिन्नमु - विशकलितम् अभ्रं यथा नश्यति तद्वत् , इत्याह - छिन्नेति । नाशाशङ्कनिमित्तम् आह - निराश्रय इति । कर्ममार्गरूपावष्टम्भाभावेपि ज्ञानमार्गावष्टम्भः तस्य भविष्यति, इत्याशङ्क्य आह - विमूढः सन् इति । नहि कर्मिणं प्रति इयम् आशङ्का युक्ता, अभिलाषं त्यक्त्वा ईश्वरे समर्प्य वा कर्म अनुतिष्ठतः, निरुपचारेण तद्भ्रंशवचनासम्भवात् । सर्वकर्मसंन्यासिनः तु विहितानां त्यागात् ज्ञानोपायाच्च विच्युतेः अनर्थप्राप्तिशङ्का युक्ता इति भावः
॥ ३८ ॥ 【भाष्यम्】 【भाष्यम्】 यथोपदर्शितसंशयापाकरणार्थम् अर्जुनो भगवन्तं प्रेरयन् आह - एतदिति । मत्तोऽन्यः कश्चित् ऋषिर्वा देवो वा त्वदीयं संशयं छेत्स्यति इत्याशङ्क्य, आह - त्वदन्य इति । अन्यस्य संशयछेत्तुः अभावे फलितम् आह - अत इति ।
॥ ३९ ॥ 【भाष्यम्】 【भाष्यम्】 योगिनो नाशाशङ्कां परिहरन् उत्तरम् आह - भगवानिति । यदुक्तम् उभयभ्रष्टो योगी नश्यति, इति, तत्र आह - पार्थेति । तत्र हेतुम् आह - नहीति । योगिनो मार्गद्वयात् विभ्रष्टस्य ऐहिको नाशः - शिष्टगर्हालक्षणो न भवतीति श्रद्धादेः सद्भावात् , तथापि कथम् आमुष्मिकनाशशून्यत्वम् इत्याशङ्क्य, तद्रूपनिरूपणपूर्वकं तदभावं प्रतिजानीते - नाशो नामेति । तत्र हेतुभागं विभजते - नहीत्यादिना । उभयभ्रष्टस्यापि श्रद्धेन्द्रियसंयमादेः सामिकृतश्रवणादेश्च भावात् उपपन्नं शुभकृत्त्वम् । तातेति कथं पुत्रस्थानीयशिष्यः सम्बोध्यते पितुरेव तातशब्दत्वात् , इत्याशङ्क्य, आह - तनोतीति । तेन पुत्रस्थानीयस्य शिष्यस्य तातेति सम्बोधनम् अविरुद्धम् , इत्यर्थः । न गच्छति कुत्सितां गतिम् , कल्याणकारित्वात् , इति नाशाभावः
॥ ४० ॥ 【भाष्यम्】 【भाष्यम्】 तत्र श्लोकेन उत्तरम् आह - प्राप्येति । कथं संन्यासी इति विशेष्यते तत्त्र आह - सामर्थ्यादिति । कर्मणि व्यापृतस्य कर्मिणो योगमार्गप्रवृत्त्यनुपपत्तेः, तत्प्रवृत्तावपि फलाभिलाषविकलस्य ईश्वरे समर्पितसर्वकर्मणः तद्भ्रंशाशङ्कानवकाशात् , इत्यर्थः । समानां नित्यत्वं मानुषसमाविलक्षणत्वम् । वैराग्याभावविवक्षया विभूतिमतां गृहे जन्म, इति विशिष्यते
॥ ४१ ॥ 【भाष्यम्】 【भाष्यम्】 योगभ्रष्टस्य लोकद्वयेऽपि नाशाभावे किं भवति इति पृच्छति - किन्त्विति । श्रद्धावैराग्यादिकल्याणाधिक्ये पक्षान्तरम् आह - अथेति । योगिनामिति कर्मिणां ग्रहणं मा भूत् , इति विशिनष्टि - धीमतामिति । ब्रह्मविद्यावतां शुचीनां दरिद्राणां कुलेजन्म दुर्लभादपि दुर्लभं प्रमादकारणाभावात् , इत्याह - एतद्धीति । किमपेक्ष्य अस्य जन्मनो दुःखलभ्यादपि दुःखलभ्यतरत्वम् तदाह - पूर्वमिति । यद्यपि विभूतिमतामपि शुचीनां गृहे जन्म दुःखलभ्यम् , तथापि तदपेक्षया इदं जन्म दुःखलभ्यतरम् , यत् ईदृशं शुचीनां दरिद्राणां विद्यावताम् , इति विशेषणोपेते कुले लोके जन्म वक्ष्यमाणम् , इत्यर्थः
॥ ४२ ॥ 【भाष्यम्】 【भाष्यम्】 तर्हि यथोक्तजन्मनि साधनानुष्ठानम् अन्तरेणैव बुद्धिसम्बन्धः स्यात् , इत्याशङ्क्य, आह - यतते चेति । प्रयत्नः श्रवणाद्यनुष्ठानविषयः
॥ ४३ ॥ 【भाष्यम्】 【भाष्यम्】 यत् उत्तमतरं जन्म उक्तम् , तस्य उत्तमत्वे हेत्वन्तरम् आह - यस्मादिति । बुद्ध्येति आत्मविषयया, इति शेषः । पूर्वस्मिन् देहे भवम् - तत्र अनुष्ठितसाधनविशेषयुक्तम् , इत्यर्थः । तत्र कोमुतिकन्यायं सूचयति - जिज्ञासुरिति । पूर्वार्धं विभजते - यः पूर्वेति । तस्मात् , न इच्छया तस्य प्रवृत्तिः, इति शेषः । योगभ्रष्टस्य अधर्मादिप्रतिबन्धेऽपि तर्हि पूर्वाभ्यासवशात् बुद्धिसम्बन्धः स्यात् , इत्याशङ्क्य, आह - नेत्यादिना । यदि योगभ्रष्टेन योगाभ्यासजनितसंस्कारप्राबत्यात् प्रबलतराधर्मभेदरूपं कर्म न कृतं स्यात् , तदा तेन संस्कारेण वशीकृतः सन् इच्छादिरहितोऽपि बुद्धिसम्बन्धभाक् भवति इत्यर्थः । विपक्षे योगसंस्कारस्य अभिभूतत्वात् न कार्यारम्भकत्वम् , इत्याह - अधर्मश्चेदिति । योगजसंस्कारस्य अधर्माभिभूतस्य कार्यम् अकृत्वैव अभिभावकप्राबल्ये प्रणाशः स्यात् , इत्याशङ्क्य, आह - तत्क्षयेत्विति । कालव्यवधानात् निवृत्तिं शङ्कित्वा उत्कम् - नेति । तृणजलायुकादृष्टान्तश्रुत्या संस्कारस्य दीर्घतायाः समाधिगतत्वात् , इति भावः । कॊमुतिकन्यायोक्तिपरम् उत्तरार्धं विभजते - जिज्ञासुरपीत्यादिना । अत्रापि ‘संन्यासी’ इति विशेषणं पूर्ववत् अवधेयम् , इत्याह - सामर्थ्यादिति । न हि कर्मी कर्ममार्गे प्रवृत्तः ततो भ्रष्टः शङ्कितुं शक्यते, अतः संन्यासी पूर्वोक्तैः विशेषणैः विशिष्टो योगभ्रष्टोऽभीष्टः । सोऽपि वैदिकं कर्म तत्फलं च अतिवर्तते, किमुत योगं बुद्ध्वा तन्निष्ठः - सदा अभ्यासं कुर्वन् कर्म तत्फलं च अतिवर्तत इति वक्तव्यम् , इति योजना । योगनिष्ठस्य कर्मतत्फलातिवर्तनं ततोऽधिकफलावाप्तिः विवक्ष्यते
॥ ४४ ॥ 【भाष्यम्】 【भाष्यम्】 यदि पूर्वसंस्कारः अस्य इच्छाम् उपनयन् न प्रवर्तयति, तथा च प्रवृत्तिः अनिच्छया स्यात् , इत्याशङ्क्य आह - पूर्वेति । स हि योगभ्रष्टः समनन्तरजन्मकृतसंस्कारवशात् उत्तरस्मिन् जन्मनि अनिच्छन्नपि योगं प्रत्येव आकृष्टो भवति, इत्यर्थः । योगनिष्ठस्य श्रेष्ठत्वे हेत्वन्तरं वक्तुम् उत्तरश्लोकम् अवतारयति - कुतश्चेति । मृदुप्रयत्नोऽपि क्रमेण मोक्ष्यते चेत् अधिकप्रयत्नस्य क्लेशहेतोः अकिञ्चित्करत्वम् , इत्याशङ्क्य, हेत्वन्तरमेव प्रकटयति - प्रयत्नादिति । तत्र - योगविषये प्रयत्नातिरेके सति, इत्यर्थः । ततः - सञ्चितसंस्कारसमुदायात् , इति यावत् । समुत्पन्नसम्यग्दर्शनवशात् प्रकृष्टा गतिः संन्यासिना लभ्यते, तेन शीघ्रं मुक्तिम् इच्छन् अधिकप्रयत्नो भवेत् , अल्पप्रयत्नस्तु चिरेणैव मुक्तिभागी, इत्यर्थः
॥ ४५ ॥ 【भाष्यम्】 【भाष्यम्】 योगस्य सर्वस्मात् उत्कर्षात् अवश्यकर्तव्यत्वाय योगिनः सर्वाधिक्यं साधयति - तपस्विभ्य इति । योगिनो ज्ञानिनश्च पर्यायत्वात् कथं तस्य ज्ञानिभ्यः अधिकत्वम् इत्याशङ्क्य, आह - ज्ञानमिति । योगिनः सर्वाधिकत्वे फलितम् आह - तस्मादिति
॥ ४६ ॥ 【भाष्यम्】 【भाष्यम्】 सम्यग्ज्ञानद्वारा मोक्षहेतुत्वं योगस्य उक्तम् अनूद्य योगिनः सर्वाधिकत्वम् आह - यस्मादिति । ननु आदित्यो विराडात्मा सूत्रं कारणम् अक्षरम् इत्येषाम् उपासका भूयांसो योगिनो गम्यन्ते, तेषां कतमः श्रेयान् इष्यते तत्र आह - योगिनामिति । यो भगवन्तं सगुणं निर्गुणं वा यथोक्तेन चेतसा श्रद्दधानः सन् , अनवरतम् अनुसन्धत्ते स युक्तानां मध्ये अतिशयेन युक्तः - श्रेयान् , ईश्वरस्य अभिप्रेतः, न हि तदीयो अभिप्रायः अन्यथा भवितुम् अर्हति, इत्यर्थः । तदनेन अध्यायेन कर्मयोगस्य संन्यासहेतोः मर्यादां दर्शयता, साङ्गं च योगं विवृण्वता, मनोनिग्रहोपायोपदेशेन योगभ्रष्टस्य आत्यन्तिकनाशशङ्कावकाशं शिथिलयता, त्वम्पदार्थाभिज्ञस्य ज्ञाननिष्ठत्वोक्त्या वाक्यार्थज्ञानात् मुक्तिः, इति साधितम्
॥ ४७ ॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमत्परमहंस - परिव्राजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानान्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने षष्ठोऽध्यायः ॥ परमेश्वरस्य वक्ष्यमाणविशेषणत्वं सकलजगदायतनत्वादिनानाविधविभूतिभागित्वम् , तत्र आसक्तिः - मनसः विषयान्तरपरिहारेण तन्निष्ठत्वम् । मनसः भगवत्येव आसक्तौ हेतुमाह - योगमिति । विषयान्तरपरिहारे हि गोचरम् आलोच्यमाने भगवत्येव प्रतिष्ठितं भवति इत्यर्थः । तथापि स्वाश्रये पुरुषः मनः स्थापयति, नान्यत्र, इत्याशङ्क्य, अाह - मदाश्रय इति । योगिनः यद् ईश्वराश्रयत्वेन तस्मिन्नेव आसक्तमनसस्त्वम् उपन्यस्तम् , तद् उपपादयति - यो हीति । ईश्वराख्याश्रयस्य प्रतिपत्तिमेव प्रकटयति - हित्वेति । अस्तु योगिनः त्वदाश्रयप्रतिपत्त्या मनसः त्वय्येव आसक्तिः, तथापि मम किमायातम् इत्याशङ्क्य, द्वितीयार्धं व्याचष्टे - यस्त्वमेवमिति । एवंभूतः - यथोक्तध्याननिष्ठपुरुषवदेव मय्यासक्तमनाः यः त्वं, स त्वं तथाविधस्सन् , असंशयम् - अविद्यमानः संशयः यत्र ज्ञाने तद् यथा स्यात् , तथा, मां समग्रं ज्ञास्यसि इति सम्बन्धः । समग्रं इत्यस्य अर्थमाह - समस्तमिति । विभूतिः - नानाविधैश्वर्योपायसम्पत्तिः, बलं - शरीरगतं सामर्थ्यम् , शक्तिः - मनोगतं प्रागल्भ्यं, ऐश्वर्यम् - ईशितव्यविषयम् ईशनसामर्थ्यम् , आदिशब्देन ज्ञानेच्छादयः गृह्यन्ते । असंशयमिति पदस्य क्रियाविशेषणत्वं विशदयन् क्रियापदेन सम्बन्धं कथयति - संशयमिति । विना संशयं भगवत्तत्त्वपरिज्ञानमेव स्फोरयति - एवमेवेति । भगवत्तत्त्वे ज्ञातव्ये, कथं मम ज्ञानमुदेष्यति न हि त्वामृते तदुपदेष्टा कश्चिदस्ति, इत्याशङक्य, आह - तच्छृण्विति
॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 कर्मसंन्यासात्मकसाधनप्रधानं त्वम्पदार्थप्रधानं च प्रथमषट्कं व्याख्याय, मध्यमषट्कम् उपास्यनिष्ठं तत्पदार्थनिष्ठं च व्याख्यातुम् आरभमाणः, समनन्तराध्यायम् अवतारयति - योगिनामिति । अतीताध्यायान्ते मद्गतेन अन्तरात्मना यो भजते मां इति प्रश्नबीजं प्रदर्श्य, कीदृशं भगवतस्तत्त्वम् कथं वा मदूगतान्तरात्मा स्यात् इति अर्जुनस्य प्रश्नद्वये जाते, स्वयमेव भगवान् अपृष्टम् एतद्वक्तुम् इच्छन् उक्तवान् इत्यर्थः । इदं - अपरोक्षं ज्ञानं चैतन्यम् । तस्य सविज्ञानस्य प्रतिलम्भे किं स्यात् इत्याशङ्क्य, आह - यज्ज्ञात्वेति । इदमा चैतन्यस्य परोक्षत्वं व्यावर्त्यते । तदेव सविज्ञानमिति विशेषणेन स्फुटयति । अनवशेषेण तद्वेदनफलोपन्यासेन श्रोतारं तच्छ्रवणप्रवणं करोति - तद्ज्ञानमिति । एकविज्ञानेन सर्वविज्ञानश्रुतिमाश्रित्य उत्तरार्धतात्पर्यमाह - यद्ज्ञात्वेति । भगवत्तत्त्वज्ञानस्य विशिष्टफलत्वमुक्त्वा फलितमाह - अत इति
॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञास्यसि इत्युक्त्या परोक्षज्ञानशङ्कायां तन्निवृत्यर्थं तदुक्तिप्रकारमेव विवृणोति - तच्चेति । सहस्रशब्दस्य बहुवाचकत्वम् उपेत्य व्याकरोति - अनेकेष्विति । सिद्धये - सत्त्वशुद्धिद्वारा ज्ञानोत्पत्त्यर्थम् इत्यर्थः । सिद्ध्यर्थं यतमानानां कथं सिद्धत्त्वम् इत्याशङ्क्य आह - सिद्धा एवेति । सर्वेषामेव तेषां ज्ञानोदयात् तस्य सुलभत्वम् , इत्याशङ्क्य, आह - तेषामिति
॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानस्य दुर्लभत्वं प्रश्नपूर्वकं प्रकटयति - कथमित्यादिना । भूमिशब्दस्य व्यवहारयोग्यस्थूलपृथिवीविषयत्वं व्यावर्तयति - भूमिरितीति । तत्र हेतुमाह - भिन्नेति । प्रकृतिसमभिव्याहारात् गन्धतन्मात्रं स्थूलपृथिवीप्रकृतिः, उत्तरविकारो भूमिरिति उच्यते, न विशेष इत्यर्थः । भूमिशब्दवत् अबादिशब्दानामपि सूक्ष्मभूतविषयत्वम् आह - तथेति । तेषामपि प्रकृतिसमानाधिकृतत्वाविशेषात् , तन्मात्राणां पूर्वपूर्वप्रकृतीनाम् उत्तरोत्तरविकारणां न विशेषत्वासिद्धिः इत्यर्थः । मनःशब्दस्य सङ्कल्पविकल्पात्मककरणविषयत्वम् आशङ्क्य, आह - मन इतीति । न खलु अहङ्काराभावे सङ्कल्पविकल्पयोः असम्भवात् तदात्मकं मनः सम्भवति इत्यर्थः । निश्चयलक्षणा बुद्धिः इति अभ्युपगमात् बुद्धिशब्दस्य निश्चयात्मककरणविषयत्वम् आशङ्क्य, आह - बुद्धिरितीति । न हि हिरण्यगर्भसमष्टिबुद्धिरूपम् अन्तरेण व्यष्टिबुद्धिः सिद्ध्यति इत्यर्थः । अहङ्कारस्य अभिमानविशेषणात्मकत्वेन अन्तःकरणप्रभेदत्वं व्यावर्तयति - अहङ्कार इति । अविद्यासंयुक्तमिति - अविद्यात्मकम् इत्यर्थः । कथं मूलकारणस्य अहङ्कारशब्दत्वम् इत्याशङ्क्य, उक्तमर्थं दृष्टान्तेन स्पष्टयति - यथेत्यादिना । मूलकारणस्य अहङ्कारशब्दत्वे हेतुमाह - प्रवर्तकत्वादिति । तस्य प्रवर्तकत्वं प्रपञ्चयति - अहङ्कार एवेति । सत्येव अहङ्कारे, ममाकरो भवति, तयोश्च भावे, सर्वा प्रवृत्तिः इति प्रसिद्धम् इत्यर्थः । उक्तां प्रकृतिम् उपसंहरति - इतीयमिति । इयमिति अपरोक्षा, साक्षिदृश्या इति यावत् । ऐश्वरी तदाश्रया तदैश्वर्योपाधिभूता । प्रक्रियते महदाद्याकारेण इति प्रकृतिः त्रिगुणं जगदुपादानं प्रधानमिति मतं व्युदस्यति - मायेति । तस्याः तत्कार्याकारेण परिणामयोग्यत्वं द्योतयति - शक्तिरिति । अष्टधेति । अष्टभिः प्रकारैः इति यावत्
॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानार्थं प्रयत्नस्य, तद्द्वारा ज्ञानलाभस्य, तदुभयद्वारेण मुक्तेश्च, दुर्लभत्वाभिधानस्य श्रोतृप्ररोचनं फलम् , इति मत्वा आह - श्रोतारमिति । आत्मनः सर्वात्मकत्वेन परिपूर्णत्वम् अवतारयन् आदौ अपरां प्रकृतिम् उपन्यस्यति - आहेति । अचेतनवर्गम् एकीकर्तुं प्रकृतेः अष्टधा परिणामम् अभिधाय, विकारावच्छिन्नकार्यकल्पं चेतनवर्गम् एकीकर्तुं पुरुषस्य चैतन्यस्य अविद्याशक्त्यवच्छिन्नस्यापि प्रकृतित्वं कल्पयितुम् उक्तां प्रकृतिम् अनूद्य दर्शयति - अपरेति । निकृष्टत्वं स्पष्टयति - अनर्थकरीति । अनर्थकत्वमेव स्फोरयति - संसारेति । कथञ्चिदपि अनन्यत्वव्यावृत्यर्थः तुशब्दः । अन्याम् अत्यन्तविलक्षणाम् , इति यावत् । अन्यत्वमेव स्पष्टयति - विशुद्धामिति । प्रकृतिशब्दस्य अत्र प्रयुक्तस्य अर्थान्तरम् आह - ममेति । प्रकृष्टत्वमेव भोक्तृत्वेन स्पष्टयति - जीवभूतामिति । प्रकृत्यन्तरात् अस्याः प्रकृतेः अवान्तरविशेषम् आह - ययेति । न हि जीवरहितं जगद् धारयितुम् शक्यम् इत्याशयेन आह - अन्तरिति
॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 उक्तप्रकृतिद्वये कार्यलिङ्गकम् अनुमानं प्रमाणयति - एतद्योनीनीति । प्रकृतिद्वयस्य जगत्कारणत्वे कथम् ईश्वरस्य जगत्कारणत्वं तदुपगदतम् इत्याशङ्क्य आह – अहमिति । एतद्योनीनि इत्युक्ते समनन्तरप्रकृतजीवभूतप्रकृतौ एतच्छब्दस्य अव्यवधानात् प्रवृत्तिम् आशङ्क्य, व्याकरोति - एतदिति । सर्वाणि चेतनाचेतनानि, जनिमन्ति इत्यर्थः । सर्वभूतकारणत्वेन प्रकृतिद्वयम् अङ्गीकृतं चेत् , कथम् अहमित्याद्युक्तम् इत्याशङ्क्याह - यस्मादिति । मम प्रकृती - परमेश्वरस्य उपाधितया स्थिते, इत्यर्थः । तर्हि, प्रकृतिद्वयं कारणम् ईश्वरश्च, इति जगतः अनेकविधकारणाङ्गीकरणं स्यात् , इत्याशङ्क्य, आह - प्रकृतीति । अपरप्रकृतेः अचेतनत्वात् परप्रकृतेः चेतनत्वेऽपि किञ्चिंज्ञत्वात् ईश्वरस्यैव सर्वकारणत्वं युक्तम् , इत्याह - सर्वज्ञेति
॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 नान्यदस्ति परम् , इत्यत्र हेतुम् आह - मयीति । परतरशब्दार्थम् आह - अन्यदिति । स्वातन्त्र्यव्यावृत्त्यर्थम् अन्तरशब्दः । निषेधफलं कथयति - अहमेवेति । सर्वजगत्कारणत्वेन सिद्धम् अर्थं द्वीतीयार्धव्याख्यानेन विशदयति - यस्मादिति । अतो (यथा) दीर्घोषु तिर्यक्षु च पटघटितेषु तन्तुषु पटस्य अनुगतिः अवगम्यते, तद्वत् मय्येव अनुगतं जगत् , इत्याह - दीर्घेति । यथा च मणयः सूत्रे अनुस्यूताः तेनैव ध्रियन्ते तदभावे विप्रकीर्यन्ते, तथा मयैव आत्मभूतेन सर्वं व्याप्तं ततो निष्कृष्टं विनष्टमेव स्यात् इति श्लोकोक्तं दृष्टान्तम् आह - सूत्र इति
॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 प्रधानात् परतः अक्षरात् पुरुषवत् परमात्मनोऽपि परात् अन्यत् - परं स्यात् , इत्याशङ्क्य, प्रकृतिद्वयद्वारा सर्वकारणत्वम् ईश्वरस्य उक्तम् उपजीव्य परिहरति - यतः तस्मादिति । रसोऽहमिति कथम् तत्र आह - तस्मिन्निति । अप्सु यो रसः - सारः, तस्मिन् मयि मधुररसे कारणभूते प्रोताः आप इतिवत् , उत्तरत्र सर्वत्र व्याख्यानं कर्तव्यम् , इत्याह - एवमिति । उक्तम् अर्थं दृष्टान्तं कृत्वा प्रभास्मि इत्यादि व्याचष्टे - यथेति । चन्द्रादित्ययोः या प्रभा, तद्भूते मयि तौ प्रोतौ, इत्यर्थः । तत्र वाक्यार्थं कथयति - तस्मिन्निति । प्रणवभूते तस्मिन् वेदानां प्रोतत्ववत् आकाशे यः सारभूतः शब्दः तद्रूपे परमेश्वरे प्रोतम् आकाशम् , इत्याह - तथेति । ‘पौरुषं नृषु’ इति भागं पूर्ववत् विभजते - तथेत्यादिना । पुरुषत्वमेव विशदयति - यत इति । पुंस्त्वसामान्यात्मके परस्मिन् ईश्वरे प्रोताः तद्विशेषाः, तदुपादानत्वेन तत्स्वभावत्वात् , इत्यर्थः
॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 अबादीनां रसादिषु प्रोतत्वप्रतीतेः ‘त्वय्येव सर्वं प्रोतम् ‘ इति अयुक्तम् , इति मत्वा पृच्छति - केनेति । तत्र उत्तरम् उत्तरग्रन्थेन दर्शयति - उच्यत इति । सारो मधुरो हेतुः, इति यावत् । ‘मयि सर्वमिदं प्रोतम् ’ [भ.गी.७ - ७] इत्यस्यैव परिमाणार्थं प्रकारान्तरम् आह - पुण्य इति । पृथिव्यां पुण्यशब्दितो यः सुरभिगन्धः, सोऽहमस्मि, इत्यत्र वाक्यार्थं कथयति तस्मिन्निति । कथं पृथिव्यां गन्धस्य पुण्यत्वम् तत्र आह- पुण्यत्वमिति । यत्तु पृथिव्यां गन्धस्य स्वाभाविकं पुण्यत्वं दर्शितं, तत् अबादिषु रसादेरपि स्वाभाविकपुण्यत्वस्य उपलक्षणार्थं, इत्याह - पृथिव्यामिति । प्रथमोत्पन्नाः पञ्चापि गुणाः पुण्या एव, सिद्धादिभिरेव भोग्यत्वात् , इति भावः । कथं तर्हि गन्धादीनाम् अपुण्यत्वप्रतिभानम् तत्र आह - अपुण्यत्वं त्विति । तदेव स्फुटयति - संसारिणामिति । गन्धादयः स्वकार्यैः भूतैः सह परिणममानाः प्राणिनां पापादिवशात् अपुण्याः सम्पद्यन्ते, इत्यर्थः । यच्च अग्नेः तेजः, तद्भूते मयि प्रोतः अग्निः, इत्याह - तेज इति । जीवनभूते च मयि सर्वाणि भूतानि प्रोतानि इत्याह - तथेति । जीवनशब्दार्थं आह - येनेति । अन्नरसेन अमृताख्येन, इत्यर्थः । ‘तपश्चास्मि’ इत्यादेः तात्पर्यार्थम् आह - तस्मिन्निति । चित्तैकाग्र्यम् अनाशकादि वा तपः, तदात्मनि ईश्वरे प्रोताः तपस्विनः, विशेषणाभावे विशिष्टस्य वस्तुनः अभावात् , इत्यर्थः
॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 ननु - सर्वाणि भूतानि स्वकारणे प्रोतानि, कथं तेषां त्वयि प्रोतत्वम् तत्र आह - बीजमिति । बीजान्तरापेक्षया अनवस्थां वारयति - सनातनमिति । चैतन्यस्य अभिव्यञ्जकं तत्वनिश्चयसामर्थ्यं बुद्धिः, तद्वतां या बुद्धिः तद्भूते मयि सर्वे बुद्धिमन्तः प्रोता भवन्ति, इत्याह - किं चेति । प्रागल्भ्यवतां यत् प्रागल्भ्यं तद्भूते मति तद्वन्तः प्रोताः, इत्याह - तेज इति । तद्धि प्रागल्भ्यम् , यत् पराभिभवसामर्थ्यं परैश्च अप्रधृष्यत्वम्
॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 यच्च बलवतां बलम् , तद्भूते मयि तेषां प्रोतत्वम् , इत्याह - बलमिति । काम - क्रोधादिपूर्वकस्यापि बलस्य अनुमतिं वारयति - तच्चेति । कामरागयोः एकार्थत्वम् आशङ्क्य अर्थभेदम् आवेदयति - कामः - तृष्णा, इत्यादिना । विशेषणसामर्थ्यसिद्धं व्यावर्त्य दर्शयति - न तु इति । शास्रार्थाविरुद्धकामभूते मयि तथाविधकामवतां भूतानां प्रोतत्वं विवक्षित्वा, आह - किं चेति । धर्माविरुद्धं कामम् उदाहरति - यथेति
॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 प्राणिनां त्रैविध्ये हेतुं दर्शयन् वाक्यार्थम् आह - ये केचिदिति । तर्हि पितुरिव पुत्राधीनत्वं त्वत्तः जायमानात् तदधीनत्वं तवापि स्यात् , इति विक्रियावत्त्वदूष्यत्वप्रसक्तिः, इत्याशङ्क्य, आह - यद्यपीति । मम परमार्थत्वात् तेषां कल्पितत्वात् न तदूगुणदोषौ मयि स्याताम् , इत्यार्थः तेषामपि तद्वदेव स्वतन्त्रतासम्भवात् किमिति कल्पितत्वम् इत्याशङ्क्य, आह - ते पुनरिति । त्रिविधानां भावानां न स्वातन्त्र्यम् , ईश्वरकार्यत्वेन तदधीनत्वात् । तथा च, कल्पितस्य अधिष्ठानसत्तााप्रतीतिभ्याम् एव तद्वत्वात् तन्मात्रत्वसिद्धिः, इत्यर्थः
॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 चिदानन्दयोः अभिव्यञ्जकानां भावानाम् ईश्वरात्मत्वाभिधानात् अन्येषाम् अतदात्मत्वप्राप्तौ उक्तम् - किञ्चेति । सति ईश्वरस्य स्वातन्त्र्ये नित्यशुद्धत्वादौ च, कुतो जगतः तदात्मकस्य संसारित्वम् इत्याशङ्क्य, तदज्ञानात् इत्याह - एवंभूतमपीति । यदि अप्रपञ्चः अविक्रियश्च त्वम् , कस्मात् त्वाम् आत्मभूतं स्वयम्प्रकाशं सर्वो जनः तथा न जानाति इति मत्वा, शङ्कते - तच्चेति । श्लोकेन उत्तरम् आह - उच्यत इति । ‘एभ्यः परम् ‘ इति अप्रपञ्चकत्वम् उच्यते, ‘अव्ययम् ‘ इति सर्वविक्रियाराहित्यम्
॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 कथं दुरत्ययत्वेन तदत्ययः स्यात् इति, तत्र आह - मामेवेेति । प्रधानस्येव स्वातन्त्र्यं मायाया व्युदस्यति - देवस्येति । स्वातन्त्र्ये मायात्वानुपपत्तिं हिशब्दद्योतितां हेतूकरोति - यस्मादिति । अनुभवसिद्धा सा न अकस्मात् अपलापम् अर्हति, इत्याह - एषेति । जगतः तत्त्वप्रतिपत्तिप्रतिबन्धभूताः गुणाः सत्वादयः । ‘मम’ इति प्रागुक्तमेव मायायाः सम्बन्धम् अनूद्यविधित्सितं दुरत्ययत्वं विभजते - दुःखेनेति । ‘मामेव’ इत्यादि व्याचष्ठे - तत्रेति । तस्मिन् मायारूपे यथोक्तरीत्या दुरत्यये सति, इति यावत् । ‘मामेव’ इति एवकारेण मायाया वेद्यकोटिनिवेशाभावः विवक्ष्यते । सर्वात्मना - कर्मानुष्ठानादिव्यग्रतामन्तरेण, इत्यर्थः । मायातिक्रमे मोहातिक्रमो भवति, इति मत्वा विशिनष्टि - सर्वेति । मायातत्प्रयुक्तमोहयोः अतिक्रमेऽपि कथं पुरुषार्थसिद्धिः इति आशङ्क्य, आह - संसारेति
॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 यथोक्तानादिसिद्धमायापारवश्यपरिवर्जनायोगात् जगतः न कदाचिदपि तत्त्वबोधसमुदयसम्भावना, इति आशङ्कते - कथं पुनरिति । भगवदेकशरणतया तत्त्वज्ञानद्वारेण मायातिक्रमः सम्भवति, इति परिहरति - उच्यत इति । भगवन्निष्ठाया मायातिक्रमहेतुत्वे तदेकनिष्ठत्वमेव सर्वेषाम् उचितम् , इति पृच्छति - यदीति । पापकारित्वेन अविवेकभूयस्तया हिंसाऽनृतादिभूयस्त्वात् भूयसां जन्तूनां न भगवन्निष्ठत्वसिद्धिः, इत्याह - उच्यत इति । मौढ्यं पापकारित्वे हेतुः । अत एव निकर्षः । सम्मुषितमिव - तिरस्कृतम् , ज्ञानम् - स्वरूपचैतन्यम् येषाम् इति, ते तथा
॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 ये त्वां भजन्ते, ते किं सर्वे मायां तरन्ति नैवम् , प्रार्थनावैचित्र्यात् इत्याह - चतुर्विधा इति । आपन्नः तन्निवृत्तिम् इच्छन् , इति शेषः । तत्त्वविदिति । शाब्दज्ञानवान् आत्मतत्त्वसाक्षात्कारमात्रार्थी मुमुक्षुः, इत्यर्थः
॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 केषां तर्हि तन्निष्ठता सुकरा इति, तत्र आह - ये पुनरिति । ते भजन्ते भगवन्तम् , इति शेषः । चतुर्विधानां तेषां सुकृतिनां भगवदभिमुखानां तुल्यत्वम् आशङ्क्य, आह - तेषामिति । तस्य विशिष्यमाणत्वे हेतुम् आह - प्रियो हीति । नित्ययुक्तत्वं भगवति आत्मनि सदा समाहितचेतस्त्वम् । असारे संसारे भगवानेव सारः, ‘सोऽहमस्मि’ इति एकस्मिन् अद्वितीये स्वस्मात् अत्यन्तमभिन्ने भगवति भक्तिः स्नेहविशेषः अस्येति, एकभक्तिः । तस्य आधिक्ये हेतुं विवृणोति - प्रियो हीत्यादिना । भगवतो ज्ञानिनश्च परस्परं प्रेमास्पदत्वे प्रसिद्धिं प्रमाणयति - प्रसिद्धं हीति । आत्मनो ज्ञानिनं प्रति प्रियत्वेऽपि भगवतो वासुदेवस्य कथं तं प्रति प्रियत्वम् , इत्याशङ्क्य, आह - तस्मादिति । अहं ज्ञानिनो निरुपाधिकप्रेमास्पदं, परमपुरुषार्थत्वेन आत्मत्वेन च गृहीतत्वात् , इत्यर्थः । ज्ञानिनोऽपि भगवन्तं प्रति प्रियत्वं प्रकटयति - स चेति
॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वेषां भगवदभिमुखत्वात् उत्कर्षेऽपि ज्ञानिनि तदतिरेकम् अङ्गीकृत्य विशेषणम् , इ्त्याह - उदारा इति । किं तत्र प्रमाणम् इत्याशङ्क्य, ईश्वरज्ञानम् , इत्याह - मे मतमिति । ज्ञानी तु आत्मैव इत्यत्र हेतुम् आह - आस्थित इति । सर्वशब्दस्य ज्ञानिव्यतिरिक्तविषयत्वम् आह - त्रयोऽपीति । ज्ञानिव्यतिरिक्तानां भगवदभिमुखत्वेऽपि ज्ञानाभावापराधात् न भगवत्प्रीतिविषयता, इत्याशङ्क्य, आह - न हीति । कस्तर्हि ज्ञानवति विशेषः । तत्र आह - ज्ञानी त्विति । तमेव विशेषं प्रश्नपूर्वकं प्रकटयति - तत्कस्मादित्यादिना । सर्वमात्मानं पश्यतोऽपि तस्य तव कथं यथोक्तो निश्चयः स्यात् इत्याशङ्क्य, आस्थित इत्येतत् व्याकरोति - आरोढुमिति । आरोहे हेतुं सूचयति - स ज्ञानीति । आरोढुं प्रवृत्तत्वमेव स्फुटयति - मामेवेति
॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानी चेत् अत्यर्थम् ईश्वरस्य प्रियो भवति, तर्हि विशेषणसामर्थ्यात् इतरेषाम् अप्रियत्वं प्राप्तम् , इति शङ्कते - न तर्हीति । तेषां भगवन्तं प्रति प्रियत्वम् , अत्र विवक्षितम् , इत्याह - नेति । अत्यर्थमिति विशेषणस्य तर्हि किं प्रयोजनम् इति पृच्छति - किं तर्हीति । ज्ञानवत्वं प्राक्तनेष्वपि जन्मसु सम्भावितम् , इत्याशङ्क्य, आह - प्राप्तेति । ज्ञानवतो भगवत्प्रतिपत्तिं प्रश्नद्वारा विवृणोति - कथमिति । यथोक्तज्ञानस्य तद्वतश्च दुर्लभत्वं सूचयति - य एवमिति । महत् - सर्वोत्कृष्टम् आत्मशब्दितं वैभवम् अस्य, इति महात्मा । महात्मत्वे फलितम् आह - अत इति । तत्र वाक्योपक्रमानुकूल्यं कथयति - मनुष्याणामिति
॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 उत्तरश्लोकस्य गतार्थत्वं परिहरति - ज्ञानीति । ज्ञानार्थसंस्कारः - वासना तत्तज्जन्मनि पुण्यकर्मानुष्ठानजनिता बुद्धिशुद्धिः, तदाश्रयाणां - तद्वताम् अनन्तानां जन्मनाम् , इति यावत् । कामैः नानाविधैः अपहृतविवेकविज्ञानस्य देवतान्तरनिष्ठत्वमेव प्रत्यग्भूतपरदेवताप्रतिपत्त्यभावे कारणम् , इत्याह - कामैरिति । देवतान्तरनिष्ठत्वे हेतुम् आह - तं तमिति । प्रसिद्धो नियमः जपोपवासप्रदक्षिणनमस्कारादिः । नियमविशेषाश्रयणे कारणम् आह - प्रकृत्येति
॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 किमिति तर्हि सर्वेषां प्रत्यग्भूते भगवति यथोक्तज्ञानं नोदोति इत्याशङ्क्य, ‘न माम् ‘ इत्यत्र उक्तं हृदि निधाय, ज्ञाानानुदये हेत्वन्तरम् आह - आत्मैवेति । तत्तद्देवताप्रसादात् कामिनामपि सर्वेश्वरे सर्वात्मके वासुदेवे क्रमेण भक्तिर्भविष्यति, इत्याशङ्क्य, आह - तेषां चेति
॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 आराधितदेवताप्रसादात् फलप्राप्तौ किम् ईश्वरेण इत्याशङ्क्य, तस्य सर्वज्ञस्य कर्मफलविभागाभिज्ञस्य तत्तद्देवताधिष्ठातृत्वात् तस्यैव फलदातृत्वम् , इत्याह - सर्वज्ञेनेति । ‘एको बहूनां यो विदधाति कामान् ‘ इत्यादिश्रुतिम् आश्रित्य हि, तान् इति पदद्वयं व्याचष्टे - यस्मादिति । हितान् इत्येकं पदम् इति पक्षं प्रत्याह - हितानिति । मुख्यत्वसम्भवे किमिति औपचारिकत्वम् इत्याशङ्क्य, आह - न हीति
॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 स्वभावतः - जन्मान्तरीयसंस्कारवशात् , इत्यर्थः । भगवद्विहितया स्थिरया श्रद्धया संस्काराधीनया देवताविशेषम् आराधयतोऽपि भगवदनुग्रहादेव फलप्राप्तिः, इत्याह - यो यां इति । ईहते - निर्वर्तयति, इत्यर्थः । कामफलस्य विनाशित्वे किमिति कामनिष्ठत्वं जन्तूनाम् इत्याशङ्क्य, प्रज्ञामान्द्यादित्याह - अल्पेति । किं तर्हि साधनम् अनन्तफलाय इत्याशङ्क्य, भगवद्भक्तिरित्याह - मद्भक्ता इति । अक्षरार्थम् उक्त्वा श्लोकस्य तात्पर्यार्थमाह - एवमिति । देवताप्राप्तौ चेति शेषः । मामेव इत्यादौ देवताविशेषं प्रपद्यन्ते अन्तवत्फलाय इति वक्तव्यम् । उक्तवैपरीत्ये कारणम् अविवेकातिरिक्तं नास्ति इत्यभिप्रेत्य आह - अहो खल्विति
॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 प्रेक्षापूर्वकारिणि कामानां हितत्वाभावे हेतुमाह - यस्मादिति । किञ्च, ये कामिनः ते न विवेकिनः, ततश्च अविवेकपूर्वकत्वात् कामानां कुतो हितत्वाशङ्का इत्याह - अविवेकिन इति । कामानाम् आनन्त्यफलत्वेन हितत्वम् आशङ्क्य, आह - अत इति। तेषाम् अविवेकपूर्वकत्वम् अतश्शब्दार्थः । तुशब्दः अवधारणार्थः । प्रकाशस्य तर्हि कादाचित्कत्वं भगवति प्राप्तम् , नेत्याह - नित्येति । कथं तर्हि भगवन्तम् आगन्तुकप्रकाशं मन्यन्ते तत्र अबुद्धय इति उत्तरम् । तद्विवृणोति - परमिति । परम् , अनुत्तमम् इति विशेषणद्वयं सोपाधिकनिरूपाधिकभावार्थम्
॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 भगवद्भजनस्य उत्तमफलत्वेऽपि प्राणिनां प्रायेण तन्निष्ठत्वाभावे प्रश्नपूर्वकं निमित्तं निवेदयति - किं निमित्तमित्यादिना । अप्रकाशम् , शरीरग्रहणात् पूर्वम् इति शेषः । इदानीम् - लीलाविग्रहपरिग्रहावस्थायाम् , इत्यर्थः । ‘त्रिभिर्गुणमयैः’ इति अनौपाधिकरूपस्य अप्रतिपत्तौ कारणम् उक्तम् , अत्र तु सोपाधिकस्यापि, इति विशेषं गृहीत्वा व्याचष्टे - नाहमिति । तर्हि भगवद्भक्तिः अनुपयुक्ता, इत्याशङ्क्य, आह - केषांचिदिति । सर्वस्य लोकस्य न प्रकाशोऽहम् , इत्यत्र हेतुम् आह - योगेति । अनाद्यनिर्वाच्याज्ञानाच्छन्नत्वादेव मद्विषये लोकस्य मौढ्यम् , ततश्च मदीयस्वरूपविवेकाभावात् मन्निष्ठत्वराहित्यम् , इत्याह- अत एवेति मायया भगवान् आवृतश्चेत् तस्यापि लोकस्येव ज्ञानप्रतिबन्धः स्यात् इत्याशङ्क्य, आह - ययेति । न हि इयं माया, मायाविनो विज्ञानं प्रतिबध्नाति, मायात्वात् , लोकिकमायावत् , अथवा, न, ईश्वरः, मायाप्रतिबद्धज्ञानः, मायावित्वात् , लौकिकमायाविवत् इत्यर्थः ।
॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 अविवेकरूपम् अज्ञानं भगवन्निष्ठाप्रतिबन्धकम् उक्तम् । तस्मिन्नपि निमित्तं प्रश्नपूर्वकम् अनाद्यज्ञानम् उपन्यस्यति - तदीयम् अज्ञानम् इत्यादिना । लोकस्य मायाप्रतिबद्धविज्ञानत्वादेव भगवदाभिमुख्यशून्यत्वम् , इत्याह - मान्त्विति । कालत्रयपरिच्छिन्नसमस्तवस्तुपरिज्ञाने प्रतिबन्धो न ईश्वरस्य अस्ति, इति द्योतनार्थः तुशब्दः । ‘मां तु’ इति लोकस्य भगवत्तत्वविज्ञानप्रतिबन्धं द्योतयति । तर्हि त्वद्भक्तिः विफला, इत्याशङ्क्य, आह- मद्भक्तमिति । तर्हि सर्वोऽपि त्वद्भक्तिद्वारा त्वां ज्ञास्यति, नेत्याह - मत्तत्त्वेति । विवेकवतो मद्भजनम् , न तु विवेकशून्यस्य सर्वस्यापि, इत्यर्थः
॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 भगवतो मायाप्रतिबद्धज्ञानत्वाभावेन सर्वज्ञत्वम् अप्रतिबद्धं सिद्धम् , इत्याह - यत इति । विशेषम् आकाङ्क्षापूर्वकं निक्षिपति - केनेति । विशेषापेक्षायामिति । द्वन्द्वशब्देन गृहीतयोरपि इच्छाद्वेषयोः ग्रहणं द्वन्द्वशब्दार्थोपलक्षणार्थम् , इत्यभिप्रेत्य आह - तावेवेति । तयोः अपर्यायम् एकत्र अनुपपत्तिं गृहीत्वा विशिनष्टि- यथाकालमिति । न च तयोः अनधिकरणं किञ्चिदपि भूतं संसारमण्डले सम्भवति, इत्याह - सर्वभूतैरिति । तथापि कथं तयोः मोहहेतुत्वम् इत्याशङ्क्य, आह - तत्रेति । तयोः आश्रयः सप्तम्यर्थः । उक्तमेवार्थं कैमुतिकन्यायेन प्रपञ्चयति - नहीति । पूर्वभागानुवादपूर्वकम् उत्तरभागेन फलितम् आह - अत इति । प्रत्यगात्मनि अहङ्कारादिप्रतिबन्धप्रभावतः ज्ञानोत्पत्तेः असम्भवः अतश्शब्दार्थः । कुलप्रसूत्यभिमानेन स्वरूपशक्त्या च युक्तस्यैव यथोक्तप्रतिबन्ध - प्रतिविधानसामर्थ्यम् इति द्योतनार्थम् , भारत! परन्तप! इति सम्बोधनद्वयम् । तत्त्वज्ञानप्रतिबन्धे प्रकृतम् अवान्तरकारणम् उपसंहरति - मोहेति । जायमानभूतानां मोहपरतन्त्रत्वे फलितम् आह - यत इति । भगवत्तत्त्वविज्ञानप्रतिबन्धकं मूलाज्ञानातिरिक्तं प्रश्नद्वारेण उदाहरति - केनेत्यादिना । पुनश्शब्दात् प्रतिबन्धकान्तरविवक्षा गम्यते । अपरोक्षम् अवान्तरप्रतिबन्धकम् इदमा गृह्यते । भगवतत्त्ववेदनाभावे तन्निष्ठत्ववैधुर्यं फलति, इत्याह - अत एवेति
॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 तुशब्दद्योत्यम् अर्थम् आह - पुनरिति । उक्तार्थमात्रसिध्यर्थं समाप्तप्रायम् , इत्युक्तम् । प्रकृतोपयोगं पुण्यस्य कर्मणो दर्शयितुं विशिनष्टि - सत्त्वेति । उभयविधशुद्धेः द्वन्द्वनिमित्तमोहनिवृत्तिफलम् आह - ते द्वन्द्वेति । मोहनिवृत्तेः भगवन्निष्ठापर्यन्तत्वम् आह - भजन्त इति । तेषां नानापरिग्रहवतां भगवद्भजनप्रतिहतिम् आशङ्क्य, आह - दृढेति
॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 यदि सर्वाणि भूतानि जन्म प्रतिपद्यमानानि संमूढानि सन्ति भगवत्तत्त्वपरिज्ञानशून्यानि भगवद्भजनपराङ्मुखानि, तर्हि शास्त्रानुरोधेन भगवद्भजनम् उच्यमानम् अधिकार्यभावात् अनर्थकम् आपद्येत, इति शङ्कते - के पुनरिति । अनेकेषु जन्मसु सुकृतवशात् अपाकृतदुरितानां द्वन्द्वप्रयुक्तमोहविरहिणां ब्रह्मचर्यादिनियमवतां भगवद्भजनाधिकारित्वात् न शास्त्रविरोधोऽस्ति, इति परिहरति - उच्यत इति । सम्प्रति सगुणस्य सप्रपञ्चस्य मध्यमानुग्रहार्थं ध्येयत्वम् आह - मामाश्रित्येति । जरादिसंसारनिवृत्त्यर्थं निर्गुणं निष्प्रपञ्चं माम् उत्तमाधिकारिणो जानन्ति इत्युक्तम् ‘मामेव ये प्रपद्यन्ते’ (भ. गी. ७-१४) इत्यादौ, इत्याह - जरेति । मध्यमाधिकारिणः प्रति आह - मामेति । परमेश्वराश्रयणं नाम विषयविमुखत्वेन भगवदेकनिष्ठत्वम् , इत्याह - मत्समाहितेति । प्रयतनं भवनन्निष्ठासिद्ध्यर्थं बहिरङ्गाणां यज्ञादीनाम् , अन्तरङ्गाणाञ्च श्रवणादीनाम् अनुष्ठानम् । प्रागुक्तं जगदुपादानं परं ब्रह्म । कथं ब्रह्म विदुः इत्यपेक्षायाम् , समस्ताध्यात्मवस्तुत्वेन सकलकर्मत्वेन च तद्विदुः इत्याह - कृत्स्नमिति
॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 यथोक्तानाम् अधिकारिणां भगवद्भजनफलं प्रश्नद्वारा दर्शयति - ते किमर्थमिति । जरामरणादिलक्षणो यो बन्धः तद्विश्लेषार्थं भगवद्भजनम् , इत्यर्थः । न केवलं भगवन्निष्ठानां सर्वाध्यात्मिककर्मात्मकब्रह्मवित्त्वमेव, किन्तु अधिभूतादि सहितं तद्वेदित्वमपि सिध्यति, इत्याह - साधिभूतेति । अध्यात्मम् , कर्म, अधिभूतम् , अधिदैवम् , अधियज्ञश्च इति पञ्चकम् एतद्ब्रह्म ये विदुः, तेषां यथोक्तज्ञानवतां समाहितचेतसाम् आपदवस्थायामपि भगवत्तत्त्वज्ञानम् अप्रतिहतं तिष्ठति, इत्याह - प्रयाणेति ।
अपि, च, इति निपाताभ्याम् , तस्याम् अवस्थायां करणग्रामस्य व्यग्रतया ज्ञानासम्भवेऽपि मयि समाहितचित्तानाम् उक्तज्ञानवतां भगवत्तत्त्वज्ञानम् अयत्नलभ्यम् , इति द्योत्यते । तद् अनेन सप्तमेन उत्तमम् अधिकारिणं प्रति ज्ञेयं निरूपयता तदर्थमेव सर्वात्मकत्वादिकम् उपदिशता प्रकृतिद्वयद्वारेण सर्वकारणत्वात् इति च वदता तत्पदवाच्यं तल्लक्ष्यं च उपक्षिप्तम् ॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने सप्तमोऽध्यायः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 यदुक्तं ‘ते ब्रह्म तद्विदुरिति’ तत् किम् सोपाधिकंनिरुपाधिकं वाब्रह्मशब्दस्य उभयत्रापि सम्भवात् , इति मत्वा आह - किं तदिति । यच्चोक्तं ‘कृत्स्नमध्यात्ममिति’ तत्र आत्मानं - देहम् , अधिकृत्य तस्मिन् अधिष्ठाने तिष्ठति इति अध्यात्मशब्देन श्रोत्रादिकरणग्रामो वा प्रत्यग्भूतं ब्रह्मैव वा विवक्षितम् इत्याह - किमध्यात्ममिति । ‘विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च’ (तै. उ. २-५-१) इति श्रुतौ कर्मणःद्वैविध्यनिर्धारणात् ‘कर्म चाखिलम्’ (भ. गी. ७-२९) इत्यत्र कीदृक् कर्म गृहीतम् इति पृच्छति - किमिति । ‘क्षराक्षराभ्याङ्कार्यकारणाभ्याम् ‘ अतीतस्य भगवतः न किञ्चित् वेद्यमस्ति इति सूचयति - पुरुषोत्तम इति । साधिभूताधिदैवम् इत्यत्र अधिभूतशब्देन पृथिव्यादिषु भूतेषु वर्तमानं किञ्चिदेव, किं वा समस्तमेव कार्यम् , इति निर्दिधारयिषया पृच्छति - अधिभूतमिति । अधिदैवमिति च दैवतविषयमनुध्यानं वा दैवतेषु आदित्यमण्डलादिषु वर्तमानं चैतन्यं वा जिघृक्षितम् इति प्रश्नान्तरं प्रस्तॊति - अधिदैवमिति
॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 सप्तमाध्यायान्ते ‘येषान्त्वन्तगतं पापम् ‘ इत्यादिना येषां ब्रह्मादीनाम् अनुसन्धानम् उक्तम् , यच्च प्रयाणकाले भगवतः स्मरणं दर्शितम् , तदिदं जिज्ञासमानः सन् पृच्छति, इति प्रश्नसमुदायम् अवतारयति - ते ब्रह्म इति । प्रश्नबीजानि - तद्विषयभूतानि ब्रह्मादीनि वस्तूनि, इति यावत् । बुभुत्सितविषयप्रतिलम्भानन्तरं तेषां प्रश्नद्वारा निर्णयार्थम् आह - अत इति । ‘साधियज्ञं च’ (भ. गी. ७-३०) इत्यत्र अधियज्ञशब्देन यज्ञम् अधिकृतो विज्ञानात्मा वा परदेवता वा इति प्रश्नान्तरं प्रकरोति - अधियज्ञ इति । स च, कथम् - केन प्रकारेण ब्रह्मत्वेन चिन्तनीयः, किं तादात्म्येन किं वा अत्यन्ताभेदेन इत्याह - कथमिति । सर्वथापि स किं अस्मिन् देहे वर्तते ततो बहिर्वा देहे चेत् सः, कोऽत्र - बुद्ध्यादिः तद्व्यतिरिक्तो वा इति जिज्ञासया ब्रूते - कोऽत्रेति । ‘अधियज्ञः कथं कोऽत्र’ इति न प्रश्नभेदः, कथम् इति तु प्रकारभेदविवक्षया, इति द्रष्टव्यम् । यत्तु समाहितचित्तानामुक्तम् ; यत् प्रयाणकालेऽपि भगवदनुसन्धानं सिध्यति इति, तत् अयुक्तम् , उत्क्रमणदशायां करणग्रामवैयग्र्यात् चित्तसमाधानानुपपत्तिः, इत्यभिप्रेत्य, आह - प्रयाणेति
॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 तत्र प्रश्नत्रयं निर्णेतुं भगवद्वचनम् उदाहरति - अक्षरमिति । ‘किं तत् ब्रह्म’ (भ. गी. ८-१) इति प्रश्नस्य प्रतिवचनम् - अक्षरं ब्रह्म परममिति । तत्र अक्षरशब्दस्य निरुपाधिके परस्मिन् आत्मनि अविनाशित्वव्याप्तिमत्वसम्बन्धात् प्रवृत्तिं व्युत्पादयति - अक्षरमित्यादिना । कथं पुनः अक्षरशब्दस्य यथोक्ते परमात्मनि वृद्धप्रयोगम् अन्तरेण व्युत्पत्त्या प्रवृत्तिः आश्रीयते व्युत्पत्तेः अर्थान्तरेऽपि सम्भवात् , इत्याशङ्क्य, द्यावापृथिव्यादिविषयनिरङ्कुशप्रशासनस्य परस्मात् अन्यस्मिन् असम्भवात् तथाविधप्रशासनकर्तृत्वेन श्रुतम् अक्षरं ब्रह्मैव, इत्याह - एतस्येति । ‘रूढिर्योगम् अपहरति’ इति न्यायात् ओङ्कारे वर्णसमुदायात्मनि अक्षरशब्दस्य रूढ्या प्रवृत्तिः आश्रयितुम् उचिता, इत्याशङ्क्य, आह - ओङ्कारस्येति । प्रतिवचनोपक्रमे प्रक्रान्तम् अोङ्काराख्यम् अक्षरमेव उत्तरत्र विशेषितं भविष्यति, इत्याशङ्क्य, परमविशेषणविरोधात् न तस्य प्रक्रमः सम्भवति, इत्याह - परममिति चेति । किम् अध्यात्मम् इति प्रश्नस्य, उत्तरं ‘स्वभावोऽध्यात्मम्’ इत्यादि । तद्व्याचष्टे - तस्यैवेति । स्वकीयो भावः - स्वभावः श्रोत्रादिकरणग्रामः, स च आत्मनि देहे, अहंप्रत्ययवेद्यो वर्तते, इति अमुं प्रतिभासं व्यावर्त्य, स्वभावपदं गृह्णाति - स्वो भाव इति । एवं विग्रहपरिग्रहे ‘स्वभावोऽध्यात्मम् उच्यते’ इत्यस्य अयम् अर्थो निष्पन्नो भवति, इति अनुवादपूर्वकं कथयति - स्वभाव इति । तस्यैव परस्य इत्यादिना उक्तं न विस्मर्तव्यम् , इति विशिनष्टि - परमार्थेति । परमेव हि ब्रह्म देहादौ प्रविश्य प्रत्यगात्मभावम् अनुभवति ‘तत्सृष्ट्वा तदेवानुप्राविशत् ‘ (तै.उ. २ - ६ - १) इति श्रुतेः. इत्यर्थः । ‘किं कर्म’ इति प्रश्नस्य उत्तरम् उपादत्ते - भूतेति । भूतान्येव भावाः, तेषाम् उद्भवः - समुत्पत्तिः, तां करोतीति, व्युत्पत्तिं सिद्धवत्कृत्य, विधान्तरेण व्युत्पादयति - भूतानामिति । भावः - सद्भावः - वस्तुभावः । अत एव भूतवस्तूत्पत्तिकर इति वक्ष्यति । वैदिकं कर्म अत्रउक्तविशेषणं कर्मशब्दितम् इति विसर्गशब्दार्थं दर्शयन् विशदयति - विसर्ग इत्यादिना । कथं पुनः यथोक्तस्य यज्ञस्य सर्वेषु भूतेषु सृष्टिस्थितिप्रलयहेतुत्वेन तदुद्भवकरत्वम् इत्याशङ्क्य, ‘अग्नौ प्रास्ताहुतिः’ (मनु. ३-७६) इत्यादिस्मृतिम् अनुस्मृत्य, आह - एतस्माद्धीति
॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 व्याख्यातप्रश्नसप्तकस्य प्रतिवचनं भागवतम् अवतारयति - एषामिति । क्रमेण कृतानां प्रश्नानां क्रमेणैव प्रतिवचने प्रष्टुः अभीष्टप्रतिपत्तिसौकर्यं सिध्यति, इति बुध्यमानो विशिनष्टि - यथाक्रममिति । सम्प्रतिप्रश्नत्रयस्य उत्तरम् आह - अधिभूतमिति । ‘अधिभूतं च किं प्रोक्तम् ’ (भ. गी. ८-१) इत्यस्य प्रतिवचनम् - अधिभूतं क्षरो भाव इति । तत्र अधिभूतपदम् अनूद्य वाच्यम् अर्थं कथयति - अधिभूतमित्यादिना । तस्य निर्देशम् अन्तरेण निर्ज्ञातुम् अशक्यत्वात् प्रश्नद्वारा तन्निर्दिशति - कोऽसाविति । कार्यमात्रम् अत्र सङ्गृहीतम् , इति वक्तुं उक्तमेव व्यनक्ति - यत्किञ्चिदिति । ‘अधिदैवं किम् ’ (भ. गी. ८-१) इति प्रश्ने, ‘पुरुषश्च’ इत्यादि प्रतिवचनम् । तत्र पुरुषशब्दम् अनूद्य मुख्यम् अर्थं तस्य उपन्यस्यति - पुरुष इति । तस्यैव सम्भावितम् अर्थान्तरम् आह - पुरि शयनाद्वेति । वैराजं देहम् आसाद्य आदित्यमण्डलादिषु दैवतेषु अन्तरवस्थितो लिङ्गात्मा व्यष्टिकरणानुग्राहकोऽत्र पुरुषशब्दार्थः । स च अधिदैवतम् इति स्फुटयति - आदित्येति । ‘अधियज्ञः कथम् ’ (भ. गी. ८-२) इत्यादिप्रश्नं परिहरन् अधियज्ञशब्दार्थम् आह - अधियज्ञ इति । कथम् उक्तायां देवतायाम् अधियज्ञशब्दः स्यात् , इत्याशङ्क्य, श्रुतिम् अनुसरन् आह - यज्ञो वा इति । परैव देवता अधियज्ञशब्देन उच्यते । सा च ब्रह्मणः सकाशात् अत्यन्ताभेदेन प्रतिपत्तव्या, इत्याह - स हि विष्णुरिति । शास्त्रीयव्यवहारभूमिः ‘अत्र’ इत्युक्ता,देहसामानाधिकरण्याद्वा, ‘अत्र’ इत्यस्य व्याख्यानम् - अस्मिन् इति । किम् अधियज्ञो बहिः अन्तर्वा देहादौ इति सन्देहो माभूत् , इत्याह - देह इति । ननु यज्ञस्यदेहाधिकरणत्वाभावात् कथं तथाविधयज्ञाभिमानिदेवतात्वं भगवता विवक्ष्यते तत्र आह - यज्ञो हीति । एतेन तस्य बुद्ध्यादिव्यतिरिक्तत्वम् उक्तम् अवधेयम् । न हि परा देवता दर्शितरीत्या अधियज्ञशब्दिता बुद्ध्यादिषु अन्तर्भावम् अनुभावयितुम् अलम् । देहान् बिभ्रतीति - देहभृतः सर्वे प्राणिनः, तेषामेव वरः - श्रेष्ठः । युक्तं हि भगवता साक्षादेव प्रतिक्षणं संवादं विदधानस्य अर्जुनस्य सर्वेभ्यः श्रैष्ठ्यम्
॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 यत्तु - ‘प्रयाणकाले च’ (भ. गी. ८-२) इत्यादि - चोदितम् , तत्र आह - अन्तकाले चेति । ‘मामेव’ इति अवधारणेेन अध्यात्मादिविशिष्टत्वेन स्मरणं व्यावर्त्यते । विशिष्टस्मरणे हि चित्तविक्षेपात् न प्रधानस्मरणमपि स्यात् । न च मरणकालेकार्यकरणपारवश्यात् भगवदनुस्मरणासिद्धिः, सर्वदैव नैरन्तर्येण आदरधिया भगवति समर्पितचेतसः तत्कालेऽपि कार्यकरणजातम् अगणयतो भगवदनुसन्धानसिद्धेः । शरीरे तस्मिन् अहंममाभिमानाभावात् , इति यावत् । प्रयाति इत्यत्रप्रकृतशरीरम् अपादानम् ‘ब्रह्म वेद ब्रह्मैव भवति’ इत्यादि श्रुुतिम् आश्रित्य, आह- नास्तीति । व्यासेध्यं संशयमेव अभिनयति - याति वेति
॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 कथं पुनः अन्तकाले परवशस्य नियतविषयस्मृतिः भवितुमुत्सहते, तत्राह - सदा इति । देवादिविशेषः तस्मिन् इति सप्तम्यर्थः । भावः - भावना - वासना, सः भावः भावितः सम्पादितः, येन पुंसा, सः तथाविधः सन् यं यं भावं स्मरति, तं तम् एव देहत्यागादूर्ध्वं गच्छति, इति सम्बन्धः
॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 अन्तकाले भगवन्तं अनुध्यायतः भगवत्प्राप्तिनियमवत् अन्यस्यापि तत्काले देवादिविशेषं ध्यायतः देहं त्यजतः तत् प्रप्तिः अवश्यंभाविनी, इति दर्शयति - न इत्यादिना । भगवदनुसन्धानं कर्तव्यम् उक्त्वा, तेन सह स्वधर्ममपि कुरु युद्धम् इति उपदिशता भगवता समुच्चयः ज्ञानकर्मणोः अङ्गीकृतो भाति, इत्याशङ्क्य, आह - मयीति । मनोबुद्धिगोचरं क्रियाकारकफलजातं सकलमपि ब्रह्मैव, इति भावयन् , युध्यस्व इति ब्रुवता क्रियादिकलापस्य ब्रह्मातिरिक्तस्य अभावाभिलापात् नात्र समुच्चयो विवक्षितः, इत्यर्थः । उक्तरीत्या स्वधर्मम् अनुवर्तमानस्य प्रयोजनम् आह – मामेवेति । उक्तसाधनवशात् फलप्राप्तौ प्रतिबन्धाभावं सूचयति - असंशय इति
॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 सततभावना प्रतिनियतफलप्राप्तिनिमित्तान्त्यप्रत्ययहेतुः, इति अङ्गीकृत्य अनन्तरश्लोकम् अवतारयति - यस्मादिति । विशेषणत्रयवतः भगवदनुस्मरणस्य भगवत्प्राप्तिहेतुत्व तस्मात् इत्युच्यते । सर्वेषु कालेषु आदरनैरन्तर्याभ्यां सह, इति यावत् । भगवदनुस्मरणेे विशेषणत्रयसाहित्यं यथाशास्त्रमिति द्योत्यते । अभ्यासं विभजते - मयीति । न हि चित्तसमर्पणस्य विषयभूतं भगवतोऽर्थान्तरं वस्तुसदस्ति, इति मन्वानो विशिनष्टि - चित्तेति । अन्तराळकालेऽपि विजातीयप्रत्ययेषु विच्छिद्य विच्छद्य जायमानेष्वपि सजातीयप्रत्ययावृत्तिः अयोगिनोऽपि स्यात् इत्याशङ्क्य, आह - विलक्षणेति । अभ्यासाख्येन योगेन युक्तत्वं चेतसो विवृणोति - तत्रैवेति । तृतीयया परामृष्टोऽभ्यासयोगः सप्तम्यापि परामृश्यते । ननु - प्राकृतानां चेतस्तथा, इत्याशङ्क्य, विशिनष्टि - योगिन इति । तच्चेत् चेतः विषयान्तरं परामृशेत् , न तर्हि परमपुरुषार्थ प्रप्तिहेतुः स्यात् , इत्याशङ्क्य, आह - नान्यगामिनेति । प्रामादिकं विषयान्तरपारवश्यम् अभ्यनुज्ञातुंताच्छील्यप्रत्ययः । तेन तात्पर्यात् अपरामृष्टार्थान्तरेण परमपुरुषनिष्ठेन, इत्यर्थः । तदेव पुरुषस्य निरतिशयत्वम् , यत् अपरामृष्टाखिलानर्थत्वम् अनतिशयानन्दत्वं च । तच्च प्रागेव व्याख्यातम् , नेह व्याख्यानम् अपेक्षते । ‘यश्चासावादित्ये’ (तै. उ. २-८-५) इत्यादिश्रुतिम् अनुसृत्य, आह - दिवीति । तत्र विशेषतोऽभिव्यक्तिरेव भवनम् । पूर्वोक्तेन चेतसा यथोक्तं पुरुषम् अनुचिन्तयन् याति तमेव, इति सम्बन्धः । अनुचिन्तयन् इत्यत्र अनुशब्दार्थं व्याचष्ठे - शास्त्रेति । चिन्तयन् इति व्याकरोति - ध्यायन्निति
॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 इतश्च पूर्वश्लोकार्थानुष्ठायी भगवन्तम् अन्तकाले प्रप्नोति, इत्याह - किञ्चेति । कान्तदर्शित्वम् - अतीतादेरशेषस्य वस्तुनो दर्शनशालित्वम् । तेन निष्पन्नम् अर्थम् आह - सर्वज्ञमिति । चिरन्तनम् - आदिमतः सर्वस्य कारणत्वात् अनादिम् , इत्यर्थः । सूक्ष्मम् आकाशादि, ततः सूक्ष्मतरम् , तदुपादानत्वात् , इत्यर्थः । यो यथोक्तम् अनुचिन्तयेत् , स तमेव अनुचिन्तयन् याति, इति पूर्वेणैव सम्बन्ध इति योजना । ननु - विशिष्टजात्यादिमतो यथोक्तम् अनुचिन्तनं फलवद्भवति, न तु अस्मदादीनाम् , इत्याशङ्क्य़, आह - यः कश्चिदिति । ‘फलमत उपपत्तेः’ (ब्र. सू. ३-२-३८) इति न्यायेन आह - सर्वस्येति । ‘एतदप्रमेयं ध्रुवम् ‘ (बृ० उ० ४ - ४ - २०) इति श्रुतिम् आश्रित्य आह - अचिन्त्यरूपमिति । न हि परस्य किञ्चिदपि रूपादि वस्तुतोऽस्ति, ‘अरूपवदेव हि ‘ (ब्र. सू. ३ - २ - १४) इति न्यायात् । कल्पितमपि न अस्मदादिभिः शक्यते चिन्तयितुम् , इत्याह - नास्येति । मूलकारणात् अज्ञानात् तत्क्रार्यच्च परस्तात् - उपरिष्टात् व्यवस्थितं परमार्थतोऽज्ञानतत्कार्यास्पृष्ठम् इत्याह - तमस इति
॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 पुरुषम्अनुचिन्तयन्निति सम्बन्धः । चकारात् कया वा नाड्या उत्क्रामन् , इति अनुकृष्यते । तत्र ध्यानद्वारा प्राप्यस्य पुरुषस्य विशेषणानि दर्शयति - उच्यत इति । कदा तदनुस्मरणे प्रयत्नातिरेकोऽभ्यर्थ्यते, तत्र आह - प्रयाणकाल इति । कथं तदनुस्मरणम् इति उपकरणकलापप्रेक्ष्यमाणं प्रति आह - मनसेति । योऽनुस्मरेत् , स किम् उपैति तत्र आह - स तमिति । मरणकाले क्लेशबाहुल्येऽपि प्राचीनाभ्यासादासादितबुद्धिवैभवो भगवन्तम् अऩुस्मरन् यथास्मृतमेव देहाभिमानविगमनानन्तरम् उपागच्छति, इत्यर्थः । भगवदनुस्मरणस्य साधनं ‘मनसैवानुद्रष्टव्यम् ‘ इति श्रृत्युपदिष्टम् आचष्टे - मनसेति । तस्य चञ्चलत्वात् न स्थैर्यम् ईश्वरे सिध्यति, तत्कथं तेत तदनुस्मरणम् इत्याशङ्क्य, आह - अचलेनेति । ईश्वरानुस्मरणे प्रयत्नेन प्रवर्तितं विषयविमुखम् , तस्मिन्नेव अनुस्मरणयोग्यपौनःपुन्येन प्रवृत्त्या निश्चलीकृतम् , ततः चलनविकलम् , तेन, इति व्याचष्टे - अचलेनेति । सम्प्रति अऩुस्मरणाधिकारिणं विशिनिष्टि - भक्त्येति । परमेश्वरे परेण प्रेम्णा सहितो विषयान्तरविमुखोऽनुस्मर्तव्यः, इत्यर्थः । योगबलमेव स्फोरयति - समाधिजेति । योगः - समाधिः, चित्तस्य विषयान्तरवृत्तिनिरोधेन परस्मिन्नेव स्थापनम् । तस्य बलम् - संस्कारप्रचयो ध्येयैकाग्र्यकरणम् । तेन, तत्रैव स्थैर्यम् , इत्यर्थः । चकारसूचितम् अन्वयम् अन्वाचष्टे - तेन चेति । यत्तु कया नाड्या उत्क्रामन् याति, इति, तत्र आह - पूर्वमिति । चित्त हि स्वभावतो विषयेषु व्यापृतं, तेभ्यो विमुखीकृत्य हृदये पुण्डरीकाकारे परमात्मस्थाने यत्नतः स्थापनीयम् । ‘अथ यदिदमस्मिन् ब्रह्मपुरे ‘ इत्यादिश्रुतेः, तत्र चित्तं वशीकृत्य आदौ, अनन्तरं कर्तव्यम् उपदिशति - तत इति । इडापिङ्गले दक्षिणोत्तरे नाड्यौ हृदयान्निस्सृते निरुध्य, तस्मादेव हृदयाग्रात् ऊर्ध्वगमनशीलया सुषुम्नया नाड्या हार्द प्राणम् आनीय, कण्ठावलम्बितस्तनसदृशं मांसखण्डं प्राप्य, तेन अध्वना भ्रुवोर्मध्ये तम आवेश्य अप्रमादवान् ब्रह्मरन्ध्रात् विनिष्क्रम्य ‘कविं पुराणम् ‘ इत्यादिविशेषणं परमपुरुषम् उपगच्छति, इत्यर्थः । ‘भूमिजयक्रमेण ‘ इत्यत्र भूम्यादीनां पञ्चानां भूतानाम् , जयः - वशीकरणाम् - तस्य तस्य भूतस्य स्वाधीनचेष्टावैशिष्ट्यम् , तद्द्वारेण, इति एतदुच्यते । ‘स तम् ‘ इत्यादि व्याचष्टे - स एवमिति
॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 इतश्च भगवदनुस्मरणं सफलत्वात् अनुष्ठेयम् , इत्याह - किञ्चेति । अविषये प्रतीचि ब्रह्मणि वेदार्थविदामपि कथं वचनम् इत्याशङ्क्य, अविषयत्वम् अत्यक्त्वैव इति मत्वा, श्रुतिम् उदाहरति - तद्वेति । तथापि तस्मिन् अविषये सर्वविशेषशून्ये वचनम् अनुचितम् इत्याशङ्क्य, आह - सर्वेति । न केवलं विद्वदनुभवसिद्धं यथोक्तं ब्रह्म, किन्तु मुक्तोपसृप्यतया मुक्तानामपि प्रसिद्धम् , इत्याह - किञ्चेति । केषां पुनः संन्यासित्वम् तदाह - वीतरागा इति । ज्ञानार्थं ब्रह्मचर्यविधानादपि ब्रह्म ज्ञेयत्वेन प्रसिद्धम् इत्याह - यच्चेति । कथं तर्हि यथोक्तं ब्रह्म मम ज्ञातुं शक्यम् इति आकुलितचेतसम् अर्जुनं प्रति आह - तत्ते पदमिति
॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 येन केनचित् मन्त्रादिना ध्यानकाले भगवदनुस्मरणे प्राप्ते सति,अभिधानत्वे नियन्तुं स्मर्तव्यत्वेन प्रकृतपरमपुरुषस्य त्रैविद्यवृद्धप्रसिद्ध्या प्रामाणिकत्वम् आह - पुनरपीति । उपायः - वक्ष्यमाण ओङ्कारः । श्रोत्रादीनां कुत्र द्वारत्वम् तत्र आह - उपलब्धाविति । तेषां संयमनम् - विषयेषु प्रवृत्तानां दोषदर्शनद्वारा तेभ्यो वैमुख्यापादनम् । कोऽयं मनसो हृदये निरोधः तत्र आह - निष्प्रचारमिति । मनसो विषयाकारवृत्तिं निरुध्य हृदि वशीकृतस्य कायं दर्शयति - तत्रेति । ‘ऊर्ध्वम् ‘ इत्यत्रापि हृदयात् इति सम्बध्यते । सर्वाणि उपलब्धिद्वाराणि श्रोत्रादीनि सन्निरुध्य, वायुमपि सर्वतो निगृह्य हृदयम् आनीय,ततो निर्गतया सुषुम्नया कण्ठभ्रूमध्यललाटक्रमेण प्राणं मूर्धनि आधाय योगधारणाम् आरूढोब्रह्म व्याहरन् , मां च तदर्थम् अनुस्मरन् , परमां गतिं याति, इति सम्बन्धः
॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 ‘वक्ष्यमाणेन उपायेन’ इत्युक्तं व्यक्तीकुर्वन् ओङ्कारद्वारा ब्रह्मोपासनं श्रुत्युक्तम् अनुक्रामति - सयो हेति । सत्यकामेन अभिध्यानफलं जिज्ञासुना भगवन्निति पिप्पलादः सम्बोध्य अभिमुखीक्रियते ।निपातौ तु प्रसिद्धम् अर्थमेव द्योतयन्तौ अभिध्यानस्य फलवत्वेन कर्तव्यत्वम् आवेदयतः । मनुष्येषु मध्ये सः, यो अधिकृतः मनुष्यः, तत् - प्रसिद्धम् अभिध्यानं यथा सिद्ध्यति, तथा सर्ववेदसारभूतम् ओङ्कारम् आभिमुख्येन ध्यायीत । तच्च अभिध्यानम्‘आप्रायणा ‘दिति न्यायेन मरणान्तम् अनुष्ठेयम् । स चैवम् अनुतिष्ठन्प्रकृतेन अभिध्यानेन लोकानां जेतव्यानां बहुत्वात् , कतमं लोकं जयति इति प्रश्नं पृष्टवते सत्यकामाय पिप्पलादनामा किल आचार्यः प्रतिवचनं प्रोवाच । तत्र प्रथमम् अभिध्येयम् ओङ्कारं परापरब्रह्मत्वेन महीकरोति - एतद्वा इति । त्रिमात्रेण - अकारोकारमकारात्मकेन, इति यावत् । योऽभिध्यायीत, तमेव यथाभिध्यातं पुरुषम् अधिगच्छति, इत्यादिवचनेन उपासनम् ओङ्कारस्य उक्तम् , इत्यर्थः । प्रश्नश्नुतिवत् कठवल्ली च तत्रैवार्थे प्रवृत्ता, इत्याह - अन्यत्रेति । अव्यवधानेन उपनिषदाम् , व्यवधानेन च कर्मश्रुतीनां परस्मिन् आत्मनि पर्यवसानं दर्शयति- सर्व इति । तपसामपि सर्वेषां चित्तशुद्धिद्वारा तत्रैव पर्यवसानम् , इत्याह - तपांसीति । तस्यैव च ज्ञानार्थम् अष्टाङ्गं ब्रह्मचर्य तत्र तत्र विहितम् , इत्याह - यदिच्छन्त इति । तस्य पदनीयस्य ब्रह्मणः सङ्क्षेपेण कथनम् ओङ्कारद्वारकम् , इति कथयति - ओमित्येतदिति । उदाहृतवचनानां तात्पर्यं दर्शयति- परस्येति । तस्य वाचकरूपेण वा तस्यैव प्रतीकरूपेण वा विवक्षितस्य उपासनं यथोक्तैः वचनैः उक्तम् , इति सम्बन्धः । ननु - परस्मिन् ब्रह्मणि तत्वमस्यादिवाक्यादेव प्रतिपत्तिः अधिकारिणो भविष्यति, किमिति उपासनम् ओङ्कारस्य उपन्यस्यते तत्र आह - परेति । यद्यपि विशिष्टाधिकारिणो विनैव उपासनं ब्रह्मणि प्रतिपत्तिः उत्पद्यते, तथापि मन्दानां मध्यमानां च तद्धीहेतुत्वेन ओङ्कारो विवक्षितः । तच्च उपासनं ब्रह्मदृष्ट्या श्रुतिभिरुपदिष्टम् , इत्यर्थः । तस्य क्रममुक्तिफलत्वात् अनुष्ठेयत्वं सूचयति - कालान्तरेति । भवत्वेवं श्रुतीनां प्रवृत्तिः, तावता प्रकृते किमायातम् इत्याशङ्क्य, आह - उक्तं यदिति । तदेव इहापि वक्तव्यम् , इति उत्तरेण सम्बन्धः । उपासनमेव उपास्योपन्यासद्वारा स्फोरयति - कविमित्यादिना । पूर्वोक्तरूपेणेति - अभिधानत्वेन प्रतीकत्वेन च, इत्यर्थः । श्रौतस्य उपासनस्य अनूद्यमानस्य सोपस्करत्वं सङ्गिरते - योगेति । तर्हि कथम् - ‘अनन्यचेताः सततम् ‘ इत्यादि वक्ष्यते तत्र आह - प्रसक्तेति । ओङ्कारोपसनं प्रसक्तम् , तदनन्तरं तत्फलम् अनुप्रसक्तम् , तद् - द्वारा च अपुनरावृत्त्यादि वक्तव्यकोटिनिविष्टम् , इत्यर्थः । इत्येवमर्थ इति । एकं च तत् अक्षरं च इति एकाक्षरम् - अोमित्येवंरूपम् , तत्कथंब्रह्मेति विशिष्यते तत्र आह - ब्रह्मण इति । ‘यः प्रयाति’ (भ. गी. ८-५) इति मरणम् उक्त्वा ‘त्यजन् देहम् ‘ इति ब्रुवता पुनरुक्तिः आश्रिता स्यात् , इत्याशङ्क्य,विशेषणार्थं विवृणोति- देहेेति । एवम् ओङ्कारम् उच्चारयन् अर्थं च अभिध्यायन् ध्याननिष्ठः स पुमान् , इत्यर्थः । परमामिति गतिविशेषणं क्रममुक्तिविवक्षया द्रष्टव्यम्
॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 यथोक्तयोगधारणार्थं प्रवृत्तो मूर्धनि प्राणम् आधाय - धारयन् किं कुर्यात् इत्याशङ्क्य, अनन्तरश्लोकम् अवतारयति - तत्रैवेति । सततम् , नित्यश इति विशेषणयोः अपुनरुक्तत्वम् आह - सततमित्यादिना । उक्तमेव अपौनरूक्त्यं व्यक्तीकरोति - नेत्यादिना । जितासुः इच्छया देहं त्यजति, तदितरस्तु कर्मक्षयेणैव इति विशेषं विवक्षयन् आह- यत इति । अनन्यचेतसम् - समाहितचेतसं प्रति, ईश्वरस्य सौलभ्यम्एवमित्युच्यते
॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 ननु - वायुनिरोधविधुराणाम् उदीरितया रीत्या स्वेच्छाप्रयुक्तोत्क्रमणासम्भवात् दुर्लभा परमा गतिः आपतेत् इति, तत्र आह - किं चेति । इतश्च भगवदनुस्मरणे प्रयतितव्यम् , इत्यर्थः । ईश्वरोपगमनं न सामीप्यमात्रम् , इति व्याचष्टे - मद्भावमिति । पुनर्जन्मनः अनिष्टत्वं प्रश्नद्वारा स्पष्टयति - किमित्यादिना । महात्मत्वम् - प्रकृष्टसत्ववैशिष्ट्यम् । यतयः तस्मिन्नेव ईश्वरे समुत्पन्नसम्यग्दर्शिनो भूत्वा, इति शेषः । भगवन्तम् उपगतानाम् अपुनरावृ्त्तौ, ततो विमुखानाम् अनुपजातसम्यग्धियां पुनरावृत्तिः अर्थसिद्धा, इत्याह - ये पुनरिति
॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 किं त्वां प्राप्ताः त्वय्येव अवतिष्ठन्ते किं वा पुनरावर्तन्ते चन्द्रलोकादिव इति सन्देहात् पृच्छति - तवेति । तत्र उत्तरश्लोकेन निश्चयं दर्शयति - उच्यत इति । एतेन भूरादिलोकचतुष्टयं प्रविष्टानां पुनरावृत्तावपि जनआदिलोकत्रयं प्राप्तानाम् अपुनरावृत्तिः, इति विभागोक्तिः अप्रामाणिकत्वादेव हेया, इत्यवधेयम् । तर्हि तद्वदेव ईश्वरं प्राप्तानामपि पुनरावृत्तिः शङ्क्यते नेत्याह- मामिति । यावत्सम्पातश्रुतिवत् ईश्वरं प्राप्तानां निवृत्ताविद्यानां पुनरावृत्तिः अप्रामाणिकी, इत्यर्थः । यस्य स्वाभाविकी वंशप्रयुक्ता च शुद्धिः तस्यैव उक्ते अर्थे बुद्धिरुदेति, इति मत्वा सम्बुद्धिद्वयम्
॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 ‘अपामसोमममृता अभूम’ (ऋक् संं. ६ - ४ - ११)इति श्रुतेः स्वर्गादिगतानामपि समानैव अनावृत्तिः, इत्याशङ्क्यते - किं पुनरिति । अर्थवादश्रुतौ कर्मिणाम् अमृतत्वस्य आपेक्षिकत्वं विवक्षित्वा परिहरति- उच्यत इति । यथोक्ताहोरात्रावयवमासर्त्वयनसंवत्सरावयवशतसङ्ख्यायुरवच्छिन्नत्वात् प्रजापतेः तदन्तर्वर्तिनामपि लोकानां यथायोग्यकालपरिच्छिन्नत्वेन पुनरावृत्तिः, इत्यभिप्रेत्य व्याचष्टे - सहस्रेत्यादिना । अक्षरार्थम् उक्त्वा, तात्पर्यार्थम् आह - यत इति
॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मलोकसहितानां पुनरावृत्तौ हेतुं प्रश्नद्वारा दर्शयति - ब्रह्मेति । उक्तमेव हेतुम् आकाङ्क्षापूर्वकम् उत्तरश्लोकेन साधयति - कथमित्यादिना । अव्यक्तम् अव्याकृतम् इतिशङ्कां वारयति - अव्यक्तमित्यादिना । जातिप्रतियोगिभूता व्यक्तीः व्यावर्तयति - स्थावरेति । असदुत्पत्तिप्रसक्तिं प्रत्यादिशति - अभिव्यज्यन्त इति । पूर्वोक्तम् अव्यक्तसंज्ञकं स्वापावस्थं ब्रह्म प्रजापतिशब्दितम् , तस्मिन्निति यावत्
॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 यत् प्रजापतेः अहः, तद् युगसहस्रपरिमितम् , या च तस्य रात्रिः सापि तथा, इति कालविदाम् अभिप्रायम् अनुसृत्य ब्राह्मस्य अहोरात्रस्य कालपरिमाणं दर्शयित्वा तत्रैव विभज्य कार्यं कथयति - प्रजापतेरिति । समनन्तरवाक्यम्इदमा परामृश्यते । रात्र्यागमे प्रलयम् अनुभवतः अहरागमे च प्रभवं प्रतिपद्यमानस्य प्रणिवर्गस्य तुल्यं पारवश्यम् , इत्याशयवान् आह - अह्न इति
॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 ननु - प्रबोधकाले ब्रह्मणः, यो भूतग्रामो भूत्वा, तस्यैव स्वापकाले विलीयते,तस्माद् अन्यो भूयो ब्रह्मणो अहरागमे भूत्वा, पुनः रात्र्यागमे परवशो विनश्यति । तदेवं प्रत्यवान्तरकल्पंभूतग्रामविभागो भवेत् , इत्याशङ्क्य, अनन्तरश्लोकतात्पर्यम् आह - अकृतेति । प्रतिकल्पं प्राणिनिकायस्य भिन्नत्वे सति अकृताभ्यागमादिदोषप्रसङ्गात् तत्परिहारार्थं भूतग्रामस्य प्रतिकल्पम् ऐक्यम् आस्थेयम् , इत्यर्थः । यदि स्थावरजङ्गमलक्षणप्राणिनिकायस्य प्रतिकल्पम् अन्यथात्वम् , तदा एकस्य बन्धमोक्षान्वयिनोऽभावात् काण्डद्वयात्मनो बन्धमोक्षार्थस्य शास्त्रस्य प्रवृत्तिः अफला प्रसज्येत । अतः तत्साफल्यार्थमपि प्रतिकल्पं प्राणिवर्गस्य नवीनत्वानुपपत्तिः, इत्याह - बन्धेति । कथं पुनः भूतसमुदायः अस्वतन्त्रः सन् अवशो भूत्वा प्रविलीयते तत्र आह - अविद्यादीति । आदिशब्देन अस्मितारागद्वेषाभिनिवेशा गृह्यन्ते । यथोक्तंक्लेशपञ्चकं मूलं प्रतिलभ्य धर्माधर्मात्मककर्मराशिः उद्भवति । तद्वशादेव अस्वतन्त्रो भूतसमुदायो जन्मविनाशौ अनुभवति, इत्यर्थः । प्राणिनिकायस्य जन्मनाशाभ्यसोक्तेःअर्थम् आह - इत्यत इति । संसारे विपरिवर्तमानानां प्राणिनाम् अस्वातन्त्र्यात् अवशानामेव जन्ममरणप्रबन्धात् अलम् अनेन संसारेण, इति वैतृष्ण्यं तस्मिन् प्रदर्शनीयम् । तदर्थं च इदं भूतानाम्अहोरात्रम् आवृत्तिवचनम् , इत्यर्थः । परशब्दस्य व्यतिरिक्तविषयत्वे तुशब्देन वैलक्षण्यम् उक्त्वा पुनः अन्यशब्दप्रयोगात् पौनरुक्त्यम् , इत्याशङ्क्य, आह - व्यतिरिक्तत्व इति । तुनाद्योतितं वैलक्षण्यम् अन्यशब्देन प्रकटितम् । यतो भिन्नेष्वपि भावभेदेषु सालक्षण्यम् आलक्ष्यते, ततश्च अव्यक्तात् भिन्नत्वेऽपि ब्रह्मणः तेन सादृश्यम् आशङ्क्यते, तन्निवृत्त्यर्थम् अन्यपदम् , इत्यर्थः । यद्वा परशब्दस्य प्रकृष्टवाचिनो भावविशेषणार्थत्वे पुनरुक्तिशङ्कैव नास्ति, इति द्रष्टव्यम् । अनादिभावस्य अक्षरस्य अविनाशित्वाम् अर्थसिद्धं समर्थयते - यः स भाव इति । सर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति, स तु विनाशहेत्वभावान्न विनष्टम् अर्हति, इत्यर्थः
॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 ‘अक्षरं ब्रह्म परमम् ‘ इत्युपक्रम्य, तदनुपयुक्तं किमिदम् अन्यदुक्तम् , इत्याशङ्क्य वृत्तम् अनूद्य अनन्तरग्रन्थसङ्गतिम् आह - यदुपन्यस्तमिति । अक्षरस्वरूपे निर्दिदिक्षिते, तस्मिन् पूर्वोक्तयोगमार्गस्य कथम् उपयोगः स्यात् , इत्याशङ्क्य, तत्प्राप्त्युपायत्वेन इत्याह - अनेनेति । गन्तव्यमिति योगमार्गोक्तिः उपयुक्ता, इति शेषः । पूर्वोक्ताम् अव्यक्तात् इति सम्बन्धः । यथोक्ते अव्यक्ते भावे श्रुतिसंमतिम् आह - अव्यक्त इति । तस्य परमगतित्वं साधयति- यं प्रप्येति । योऽसौ अव्यक्तो भावोऽत्र दर्शितः, सः ‘येनाक्षरं पुरुषं वेद सत्यम् ‘ (मु.उ. १-२-१३) इत्यादिश्रुतौ अक्षर इत्युक्तः । तं चाक्षरं भावम् , परमां गतिम् , ‘पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः’ (क. उ. १-३-११) इत्याद्याः श्रुतयो वदन्ति, इत्याह - योऽसाविति । परमपुरुषस्य परमगतित्वम् उक्तं व्यनक्ति - यं भावमिति । ‘तद्विष्णोः परमं पदम्’ (क. उ. १-३-९) इति श्रुतिम् अत्र संवादयति - तद्धामेति
॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 परस्य पुरुषस्य सर्वकारणत्वं सर्वव्यापकत्वं च विशेषणद्वयम् उदाहरति - यस्येति । निरतिशयत्वं विशदयति- यस्मादिति । तुशब्दः अवधारणार्थः । भक्तिः - भजनं सेवा प्रदक्षिणप्रणामादिलक्षणा, तां व्यावर्तयति - ज्ञानेति । उक्ताया भक्तेः विषयतो वैशिष्ट्यम् आह - अनन्ययेति । कोऽसौ पुरुषः यद्विषया भक्तिः तत्प्राप्तौ पर्याप्ता, इत्याशङ्क्य, उत्तरार्धं व्याचष्टे - यस्येति । कथम् भूतानां तदन्तस्थत्वम् तत्र आह - कार्यं हीति । ‘स पर्यगात्’ (ई उ. ८) इति श्रुुतिम् आश्रित्य आह - येनेति
॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 ननु अव्यक्तात् अतिरिक्तस्य तद्विलक्षणस्य परमपुरुषस्य प्राप्तौ कश्चित् असाधारणो हेतुः एषितव्यः, यस्मिन् प्रेक्षापूर्वकारी तत्प्रेक्षणा प्रवृत्तो निर्वृणोति, तत्र आह - तल्लब्धेरिति । योगिन इति ध्यायिनां कर्मिणां च तन्त्रेण अभिधानम् , इत्याह - योगिन इति । कथं कर्मिषु योगशब्दो वर्तताम् , इत्याशङ्क्य, अनुष्ठानगुणयोगात् इत्याह- कर्मिणस्त्विति । गुणतो योगिन इति सम्बन्धः । तत्रैव वाक्योपक्रमस्य आनुकूल्यम् आह - कर्मयोगेनेति । अवशिष्टानि अक्षराणि व्याचक्षाणो वाक्यार्थम् आह - यत्रेति । योगिनो ध्यायिनोऽत्र विवक्षिताः, आवृतौ अधिकृता योगिनः कर्मिण इति विभागः । काल - प्राधान्येन मार्गद्वयोपन्यासम् उपक्रम्य तमेव प्रधानीकृत्य देवयानं पन्थानम् अवतारयति - तं कालमिति
॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 ननु ज्ञानायत्ता परमपुरुषप्राप्तिः उक्ता । न च ज्ञानं मार्गम् अपेक्ष्य फलाय कल्पते, विदुषो गत्युत्क्रान्तिनिषेधश्रुतेः । तथा च मार्गोक्तिः अयुक्ता, इत्याशङ्क्य, सगुणशरणानां तदुपदेशो अर्थवान् , इत्यभिप्रेत्य आह - प्रकृतानामिति । वक्तव्य इति, यत्र काले इत्याद्युच्यत इति सम्बन्धः । स चेद्वक्तव्यः, तर्हि किमिति अध्यात्मादिभावेन सविशेषं ब्रह्म ध्यायतां फलाप्तये मूर्धन्यनाडीसम्बद्धे देवयाने पथि उपास्यत्वाय वक्तव्ये कालो निर्दिश्यते तत्र आह - विवक्षितेति । सोऽर्थो मार्गः, तदुक्तिशेषत्वेन कालोक्तिः इत्यर्थः । पितृयाणमार्गोपन्यासः तर्हि किमिति क्रियते तत्र आह- आवृत्तीति । मार्गान्तरस्य आवृत्तिफलत्वात् , अस्य च अनावृत्तिफलत्वात् तदपेक्षया महीयान् अयम् , इति स्तुतिर्विवक्षिता इति भावः । यथोपक्रमं व्याख्याय यथाश्रुतं व्याख्याति - अथवेति । कथं तर्हि देवतानां अतिनेत्रीणां ग्रहणे कालप्राधान्येन निर्देशः श्लिष्यते तत्र आह - भूयसां त्विति । मार्गद्वयेऽपि कालाद्यभिमानिन्यो देवताः कालशब्देन उच्यन्ते । कालाभिमानिनीनां भूयस्त्वात् कालशब्देन सर्वासां देवतानाम् उपलक्षणत्वं विवक्षित्वा कालकथनम् इत्यर्थः । यथा आम्राणां भूयस्त्वात् विद्यमानेष्वपि द्रुमान्तरेषु आम्रैरेव वनं निर्दिश्यते, तद्वत् इति उदाहरणम् आह - आम्रेति । ननु मार्गचिह्नानां भोगभूमीनां वा तत्तच्छब्दैः उपादानसम्भवे किमिति देवताग्रहणम् इत्याशङ्क्य, ‘अतिवाहिकस्तल्लिङ्गात्’ (ब्र.सू. ४-३-४) इति न्यायेन उत्तरम् आह - इति स्थित इति । तेषाम् अग्न्यादीनां समीपम् , इति सामीप्ये ‘तत्र’ इति सप्तमी । ब्रह्म कार्योपाधिकम् , परं वा ब्रह्म परम्परया मुक्त्यालम्बनम् । अत एव ‘क्रमेण’ इत्युक्तम् । निर्गुणम् अप्रपञ्चं ब्रह्मस्मि, इति विद्यावतो व्यवच्छिनत्ति - ब्रह्मोपासनेति । ननु ब्रह्मशब्दस्य मुख्यार्थत्वार्थं परब्रह्मविदामेव इयं गतिः उच्यते, न बादर्यधिकरणविरोधात् इत्याह - न हीति
॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकृतं देवयानं पन्थानं स्तोतुं पितृयाणम् उपन्यस्यति- धूम इति । अत्रापि मार्गचिह्नानि भोगभूमीश्च व्यवच्छिद्य आतिवाहिकदेवताविषयत्वं धूमादिपदानां विभजते - धूमेत्यादिना । तत्रेति सप्तमी पूर्ववदेव सामीप्यार्था, ‘इष्टादि’ इत्यादिशब्देनपूर्तदत्तेगृह्येते । ‘कृतात्ययेऽनुशयवान् ‘(ब्र. सू. ३ - १ - ८) इति न्यायं सूचयति - तत्क्षयादिति
॥२५॥ 【भाष्यम्】 【भाष्यम्】 आरोहावरोहयोः अभ्यासवाचिना पुनश्शब्देन संसारस्य अनादित्वं सूच्यतेे । रात्र्यादौ मृतानां ब्रह्मविदाम् अब्रह्मप्राप्तिशङ्कानिवृत्त्यर्थम् अभिमानिदेवताग्रहणाय मार्गयोः नित्यत्वम् आह - शुक्लेति । ज्ञानप्रकाशकत्वात् - विद्याप्रप्यत्वात् अर्चिरादिप्रकाशोपलक्षितत्त्वाच्च, शुक्ला देवयानाख्या गतिः । तदभावात् - ज्ञानप्रकाशकत्वाभावात् धूमाद्यप्रकाशोपलक्षितत्वात् अविद्याप्राप्यत्वाच्च, कृष्णा पितृयाणलक्षणा गतिः । तयोर्गत्योः श्रुतिस्मृतिप्रसिद्ध्यर्थो हिशब्दः । जगच्छब्दस्य ज्ञानकर्माधिकृतविषयत्वेन सङ्कोचे हेतुम् आह - न जगत इति । अन्यथा ज्ञानकर्मोपदेशानर्थक्यात् , इत्यर्थः । तयोर्नित्यत्वे हेतुम् आह - संसारस्येति । मार्गयोः यावत्संसारभावित्वे फलितम् आह - तत्रेति । क्रममुक्तिः - अनावृतिः । भूयः - भोक्तव्यकर्मक्षये शेषकर्मदशात् , इत्यर्थः
॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 गतेः उपास्यत्वाय तद्विज्ञानं स्तौति - नैते इति । योगस्य मोहापोहकत्वे फलितम् आह - तस्मादिति । ज्ञानप्रकारम् अनुवदति - संसारायेति । मोक्षाय - क्रममुक्त्यर्थम् इत्यर्थः । योगी ध्याननिष्ठः गतिमपि ध्यायन् नैव मुह्यति, केवलं कर्मं दक्षिणमार्गप्रापकं कर्तव्यत्वेन न प्रत्येति इत्यर्थः । योगस्य अपुनरावृत्तिफलत्वे नित्यकतंव्यत्वं सिद्धम् इति उपसंहरति - तस्मादिति
॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 ‘इदं विदित्वा’ इत्यत्र इदंशब्दार्थमेव स्फुटयति- सप्तेति । यद्यपि ‘किं तद्ब्रह्म’ (भ. गी. ८-१) इत्यादौ, ‘अधियज्ञः कथं कोऽत्र’ (भ. गी. ८-२) इत्यत्र प्रश्नद्वयंप्रतिभासानुसारेण कश्चित् उक्तम् , तथापि प्रतिवचनालोचनायां द्वित्वप्रतीत्यभावात् प्रकारभेदविवक्षया चशब्दद्वयस्य प्रतिनियतत्वात् न सप्तेति विरुध्यते । न च इदं वेदनम् आपातिकं किन्तु अनुष्ठानपर्यन्तम् इत्याह - सम्यगिति । प्रकृतो ध्याननिष्ठः योगी इत्युच्यते । ऐश्वरम् - विष्णोः परमं पदम् , तदेव तिष्ठति अस्मिन् अशेषम् इति स्थानम् । योगानुष्ठानात् अशेषफलातिशायि मोक्षलक्षणं फलं क्रमेण लब्धुं शक्यम् इति भावः । तदनेन सप्तप्रश्नप्रतिवचनेन योगमार्गं दर्शयता ध्येयत्वेन तत्पदार्थो व्याख्यातः
॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने अष्टमोऽध्यायः ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 श्रद्धाविवृद्ध्यर्थं योगं स्तौति - श्रृण्विति । पवित्रपाणित्वप्राङ्मुखत्वादिसाहित्यम् अध्ययनस्य सम्यक्त्वम् । अङ्गोपाङ्गोपेतत्वम् अनुष्ठानस्य साद्गुण्यम् । तपसां सुतप्तत्वं मनोबुद्ध्याद्यैकाग्र्यपूर्वकत्वम् । दानस्य च सम्यकत्वं देशकालपात्रानुगुणत्वम् । अतीतेन आगामिनोऽध्यायस्य अगतार्थत्वं वक्तुं वृत्तमनुवदति - अष्टम इति । नाडी - सुषुम्नाख्या । धारणाख्येन अङ्गेन युक्ता योगो धारणायोगः । सगुणः - सर्वद्वारसंयमनादिगुणः, तेन सहित इत्यर्थः । तत्फलोक्त्यर्थम् अनन्तराध्यायारम्भम् आशङ्क्य, आह - तस्य चेति । ‘अग्निरर्चिः’ इत्यादिना उपलक्षितेन क्रमवता, देवयानेन पथा इति यावत् । ज्ञानानन्तरमेव यथोक्तफललाभात् अलम् अनेन मार्गेण, इत्याशङ्क्य, आह - कालान्तर इति । अर्चिरादिमार्गेण ब्रह्मप्राप्तौ मुक्तेः मार्गायत्तत्वात् ‘न तस्य’ इत्यादिश्रुतिविरोधः स्यात् , इत्याशयेन शङ्कते - तत्रेति । वृत्तोऽर्थः सप्तम्यर्थः । उक्ताशङ्कानिवृत्त्यर्थम् अनन्तराध्यायम् उत्थापयति - तदाशङ्केति । सम्प्रयुक्तत्वेन अपरोक्षत्वाभावेऽपि पूर्वोत्तरग्रन्थालोचनया बुद्धिसन्निधानात् इदंशब्देन ब्रह्मज्ञानं गृहीतम् ; इत्याह - तद् - बुद्धाविति । प्रकृतात् ध्यानात् ज्ञानस्य वैशिष्ट्यावद्योती तुशब्दः, इत्याह - तुशब्दइति । निपातार्थमेव स्फुटयति - इदमेवेति । तस्मिन्नर्थे संवादकत्वेन श्रृतिस्मृती दर्शयति - वासुदेव इति । अद्वैतज्ञानवत् द्वैतज्ञानमपि केषाञ्चित् मोक्षहेतुः, इत्याशङ्क्य, आह - नान्यदिति । द्वैतज्ञानं मोक्षाय न क्षमम् , इत्यत्र श्रुतिम् उदाहरति - अथेति । अविद्याप्रकरणोपक्रमार्थः अथशब्दः । अतः - अद्वैतात् , अन्यथा - भिन्नत्वेन, इत्यर्थः । विदुः, तत्त्वमिति शेषः । द्वैतस्य दुर्निरूपत्वेन कल्पितत्वात् तज्ज्ञानं रज्जुसर्पादिज्ञानतुल्यत्वात् न क्षेममिति शेषः । द्वैतस्य दुर्निरूपत्वेन कल्पितत्वात् तज्ज्ञानं रज्जुसर्पादिज्ञानतुल्यत्वात् न क्षेमप्राप्तिहेतुः, इति चकारार्थः । असूया - गुणेषु दोषाविष्करणम् , तद्रहिताय, ज्ञानाधिकृताय इत्यर्थः । ज्ञानम् - ब्रह्मचैतन्यं, तद्विषयं वा प्रमाणज्ञानम् , तस्य तेनैव विशेषितत्वानुपपत्तिम् आशङ्क्य, व्याकरोति - अनुभवेति । विज्ञानम् - अनुभवः - साक्षात्कारः, तेन सहितम् इत्यर्थः । उक्तज्ञानं प्राप्तस्य किं स्यात् इत्याशङ्क्य, आह - यज्ज्ञानमिति
॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मविद्या विद्यानां राजा श्रेष्ठा इत्यत्र हेतुमाह - दीप्तीति । कुतो ब्रह्मविद्याया विद्यान्तरेभ्यो दीप्त्यतिशयवत्त्वम् तदाह - दीप्यते हीति । दृश्यते हि विद्वदन्तरेभ्यो लोके पूजातिरेको ब्रह्मविदाम् , इति भावः । उत्कृष्टतमं शुद्धिकारणं ब्रह्मज्ञानम् , इत्येतत् उपपादयति - अनेकेति । तत्र च श्रुतिस्मृती प्रमाणयितव्ये । न शास्त्रेैकगम्यम् इदं ज्ञानम् , किन्तु प्रत्यक्षप्रमेयम् इत्याह - किञ्चेति । प्रत्यक्षम् , अवगमो मानम् अस्मिन् इति तथा, यद्वा अवगम्यत इति अवगमः फलम् , प्रत्यक्षः अवगमः अस्य, इति दृष्टफलकत्वं ज्ञानस्य उच्यते । धर्म्यम् इत्येतद् व्याकरोति - अनपेतमिति । धर्मस्येव तस्य क्लेशसाध्यत्वम् आशङ्क्य, आह - एवमपीति । तत्र रत्नविषयं विवेकज्ञानं सम्प्रयोगात् उपदेशापेक्षात् अनायासेन दृष्टम् , तथा इदं ब्रह्मज्ञानम् , इत्याह - तथेति । ‘अव्ययम् ‘ इति विशेषणम् आशङ्कापूर्वकं विवृणोति - तत्रेत्यादिना । व्यवहारभूमिः सप्तम्यर्थः । ज्ञानस्य अक्षयफलत्वे फलितमाह - अत इति
॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 तदाभिमुख्यसिद्धये तज्ज्ञानं स्तौति - तच्चेति । आत्मज्ञानतत्फलयोः नास्तिकानेव विशिनष्टि - पापेति । उक्तानाम् आत्मम्भरीणां भगवत्प्राप्तिसम्भावनाभावात् ‘ अप्राप्य माम् ‘ इति अप्रसक्तप्रतिषेधः स्यात् , इत्याशङ्क्य, आह- मत्प्राप्ताविति
॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मज्ञानाख्ये धर्मे श्रद्धावतां तन्निष्ठानां परमपदप्राप्तिमुक्त्वा, ततो विमुखानां संसारप्राप्तिम् आह - ये पुनरिति । सोपाधिकस्य व्याप्त्यसम्भवम् अभिप्रेत्य विशिनष्टि - ममेति । अनवच्छिन्नस्य भगवद्रूपस्य निरुपाधिकत्वमेव साधयति - करणेति । व्याप्यव्यापकत्वेन जगतो भगवतश्च परिच्छेदमाशङ्क्य, आह - तस्मिन्निति । तथापि भगवतो भूतानाञ्च आधाराधेयत्वेन भेदः स्यात् , इत्याशङ्क्य, आह - नहीति । निरात्मकस्य व्यवहारानर्हत्वे फलितमाह - अत इति । ईश्वरस्य भूतात्मत्वे तेषु स्थितिः स्यात् , इत्याशङ्क्य, आह - तेषामिति । तस्य तेषु स्थित्यभावं व्यवस्थापयति - मूर्तवदिति । संश्लेषाभावेऽपि किमिति न आधेयत्वम् , अत आह - नहीति
॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 स्तुतिनिन्दाभ्यां ज्ञाननिष्ठां महीकृत्य ज्ञानं व्याख्यातुमारभते - स्तुत्येति । भूतानाम् ईश्वरे नैव स्थितिः, इत्यत्र हेतुमाह - पश्येति । आत्मनोऽसङ्गत्वं स्वरूपम् , इत्यत्र प्रमाणमाह - तथा चेति । असङ्गश्चेत् ईश्वरः, तर्हि कथं ‘मत्स्थानि भूतानि’ (भ. गी. ५-५) इत्युक्तम् , कथञ्च तथोक्त्वा ‘न च भत्स्थानि’ इति तद्विरुद्धमुदीरितम् , इत्याशङ्क्य, आह - इदञ्चेति । तर्हि भूतसम्बन्धः स्यात् , इति नेत्याह - नचेति । यथोक्तेन न्यायेन - असङ्गत्वेन, इति यावत् । असङ्गतया वस्तुतो भूतासम्बन्धेऽपि कल्पनया तदविरोधात् न मिथो विरोधोऽस्ति, इति भावः । आत्मनः सकाशात् आत्मनोऽन्यत्वायोगात् कुतः सम्बन्धोक्तिः इत्याशङ्क्य, आह - असाविति । (विभज्येति) । यथा लोको वस्तुतत्त्वमजानन् भेदम् आरोप्य ‘ममायम् ‘ इति सम्बन्धमनुभवति, न तथा इह सम्बन्धव्यपदेशः, आत्मनि स्वतो भेदाभावात् । अतो भेदे असत्येव लोके सम्बन्धबुद्धिदर्शनम् अनुसरन् भगवान् आत्मनो देहादिसङ्घातं विभज्य अहङ्कारं तस्मिन् आरोप्य ‘असौ ममात्मा’ इति भेदं व्यपदिशति । तथा च सङ्घातस्य ‘मम’ इति व्यपदेशात् ततो नि(कृ)ष्कृष्टस्य स्वरूपस्य आत्मशब्देन निर्देशात् न भूतस्थोऽसौ, इत्यर्थः । पूर्वोक्तासङ्गत्वाङ्गीकारेणैव आत्मा भूतानि भावयति, इत्याह - तथेति
॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 परमेश्वरस्य भूतेषु स्थित्यभावेऽपि भूतानां तत्र स्थितिः आस्थिता, इति, कुतोऽसङ्गत्वम् तत्राह - अत एवेति । ‘न च ‘ इत्यत्र चकारः अवधारणार्थः । सृष्टिस्थितिसंहाराणां असङ्गात्माधारत्वं ‘मया ततमिदम्‘ (भ. गी. ९-४) इत्यादि श्लोकद्वयेन उक्तोऽर्थः । तं दृष्टान्तेन उपपादयन् आदौ दृष्टान्तमाह, इति योजना । ‘सदा’ इति उत्पत्तिस्थितिसंहारकालो गृह्यते । आकाशादेः महतोऽन्याधारत्वं कथम् इत्याशङ्क्य, आह - महानिति । यथा सर्वगामित्वात् परिमाणतो महान् वायुः आकाशे सदा तिष्ठति, तथा आकाशादीनि महान्त्यपि सर्वाणि भूतानि आकाशकल्पे पूर्णे प्रतीचि असङ्गे परस्मिन् आत्मनि संश्लेषमन्तरेण स्थितानि, इत्यर्थः
॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकृतिशब्दस्य स्वभाववचनत्वं व्यावर्तयति - त्रिगुणात्मिकामिति । सा च अपरेयं, इति प्रागेव सूचिता, इत्याह - अपरामिति । तस्याश्च ईश्वराधीनत्वेन अस्वातन्त्र्यमाह – मदीयामिति । प्रळयकाले भूतानि यथोक्तां प्रकृतिं यान्ति चेत् उत्पत्तिकालेऽपि ततस्तेषाम् उत्पत्तेः ईश्वराधीनत्वं भूतसृष्टेः न स्यात् , इत्याशङ्क्य, आह - पुनरिति
॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 आकाशे वाय्वादिस्थितिवत् आकाशादीनि भूतानि स्थितिकाले परमेश्वरे स्थितानि चेत् , तर्हि प्रळयकाले ततोऽन्यत्र तिष्ठेयुः, इत्याशङ्क्य, आह - एवमिति । भूतसमुदायस्य अविद्यास्मितादिदोषपरवशत्वे हेतुम् आह - स्वभाववशादिति
॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 तर्हि कीदृशी प्रकृतिः सा च कथं सृष्टौ उपयुक्ता, इत्याशङ्क्य, आह - एवमिति । संसारस्य अनादित्वद्योतनार्थं पुनः पुनः इत्युक्तम् । ‘तत्र’ इति सप्तम्या परमेश्वरो निरुच्यते । ईश्वरस्य फलासङ्गाभावात् कर्तृत्वाभिमानाभावाच्च कर्यासम्बन्धवत् ईश्वरात् अन्यस्यापि तदुभयाभावः धर्माद्यसम्बन्धे कारणम् , इत्याह- अतोऽन्यस्येति । यदि कर्मसु कर्तृत्वाभिमानो वा कस्यचित् कर्मफलसङ्गो वा स्यात् , तत्राह - अन्यथेति
॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 यदि प्रकृतं भूतग्रामं स्वभावात् अविद्यातन्त्रं विषमं विदाधासि, तर्हि तव विषमसृष्टिप्रयुक्तं धर्मादिमत्त्वम् इति अनीश्वरत्वापत्तिः इति शङ्कते - तर्हिति । तृतीयाद्वयं समानाधिकरणम् , इति अभ्युपेत्य व्याचाष्टे - मयेत्यादिना । प्रकृतिशब्दार्थम् आह - ममेति । तस्या अपि ज्ञानत्वं व्यावर्तयति- त्रिगुणेति । पराभिप्रेतं प्रधानं व्युदस्यति - अविद्येति । साक्षित्वे प्रमाणम् आह - तथा चेति । मूर्तित्रयात्मना भेदं वारयति- एक इति । अखण्डं जा़ड्यं प्रत्याह - देव इति । आदित्यवत् ताटस्थ्यं प्रत्यादिशति - सर्वभूतेष्विति । किमिति तर्हि सर्वैः नोपलभ्यते तत्र आह - गूढ इति । बुद्ध्यादिवत् परिच्छिन्नत्वं व्यवच्छिनत्ति - सर्वव्यापीति । तर्हि नभोवत् अनात्मत्वम् नेत्याह - सर्वभूतेति । तर्हि तत्र तत्र कर्मतत्फलसम्बन्धित्वं स्यात् , तत्र आह - कर्मेति । सर्वाधिष्ठानत्वम् आह - सर्वेति । सर्वेषु भूतेषु सत्तास्फू्र्तिप्रदत्वेन सन्निधिः वासः अत्र उच्यते । न केवलं कर्मणामेव अयम् अध्यक्षः अपि तु तद्वतामपि, इत्याह - साक्षीति । दर्शनकर्तृत्वशङ्कां शातयति - चेतेति । अद्वितीयत्वम् - केवलत्वम् । धर्माधर्मादिराहित्यम् आह - निर्गुण इति । किं बहुना सर्वविशेषशून्य इति चकारार्थः । उदासीनस्यापि ईश्वरस्य साक्षित्वमात्रं निमित्तीकृत्य जगदेतत् पौनःपुन्येन सर्गसंहारौ अनुभवति, इत्याह - हेतुनेति । कार्यवत् कारणस्यापि साक्ष्यधीना प्रवृत्तिः, इति वक्तुं व्यक्ताव्यक्तात्मकम् इत्युक्तम् । ‘सर्वावस्थासु’ इत्यनेन सृष्टिस्थितिसंहारावस्था गृह्यन्ते । तथापि जगतः सर्गादिभ्यो भिन्ना प्रवृत्तिः स्वाभाविकी, न ईश्वरायत्ता, इत्याशङ्क्य, आह - दृशीति । न हि दृशि व्याप्यत्वं विना जडवर्गस्य कापि प्रवृत्तिः, इति हिशब्दार्थः । तामेव प्रवृत्तिम् उदाहरति - अहमित्यादिना । भोगस्य विषयोपलम्भाभावे असम्भवात् नानाविधां विषयोपलब्धिं दर्शयति - पश्यामीति । भोगफलं इदानीं कथयति - सुखमिति । विहितप्रतिषिद्धाचरणनिमित्तं सुखन्दुःखं च, इत्याह - तदर्थमिति । न च विमर्शपूर्वकं विज्ञानं विना अनुष्ठानम् , इत्याह - इदमिति । इत्याद्या प्रवृत्तिः, इति सम्बन्धः । सा च प्रवृत्तिः सर्वा दृक्कर्मत्वम् उररीकृत्यैव इत्युक्तं निगमयति - अवगतीति । तत्रैव च प्रवृत्तेः अवसानम् , इत्याह - अवगत्यवसानेति । परस्य अध्यक्षत्वमात्रेण जगच्चेष्टा, इत्यत्र प्रमाणमाह - यो अस्येति । अस्य - जगतः, यो अध्यक्षः - निर्विकारः, स परमे - प्रकृष्टे, हार्दे व्योम्नि स्थितः, दुर्विज्ञेय इत्यर्थः । ईश्वरस्य साक्षित्वमात्रेण स्रष्टृत्वे स्थिते फलितमाह - ततश्चेति । किं निमित्ता परस्य इयं सृष्टिः न तावत् भोगार्था, परस्य परमार्थतो भोगासम्बन्धित्वात् तस्य सर्वसाक्षिभूतचैतन्यमात्रत्वात् । न चान्यो भोक्ता, चेतनान्तराभावात् ईश्वरस्य एकत्वात् अचेतनस्य अभोक्तृत्वात् । न च स्रष्टुः अपवर्गार्था, तद्विरोधित्वात् । नैवं प्रश्नो वा तदनुरूपं प्रतिवचनं वा युक्तम् , परस्य मायानिबन्धने सर्गे तस्य अनवकाशत्वात् , इत्यर्थः । परस्य आत्मनः दुर्विज्ञेयत्वे श्रुतिम् उदाहरति - को अद्धेति । तस्मिन् प्रवक्तापि संसारमण्डले नास्ति, इत्याह - क इहेति । जगतः सृष्टिकर्तृत्वेन परस्य ज्ञेयत्वम् आशङ्क्य कूटस्थत्वात् ततो न सृष्टिर्जाता, इत्याह - कुत इति । नहि इयं विविधा सृष्टिः अन्यस्मादपि कस्माच्चित् उपपद्यते, अन्यस्य वस्तुनो अभावात् , इत्याह- कुत इति । कथं तर्हि सृष्टिः इत्याशङ्क्य, अज्ञानाधीना, इत्याह - दर्शितं चेति
॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 ईश्वरे स्रष्टृत्वं ओदासीन्यं च विरुद्धम् , इति शङ्कते - तत्रेति । पूर्वग्रन्थः सप्तम्यर्थः । विरोधपरिहारार्थम् उत्तरश्लोकम् अवतारयति - तदिति । विपर्यस्तबुद्धित्वं भगवदवज्ञायां कारणम् , इत्याह - मूढा इति । भगवतो मनुष्यदेहसम्बन्धात् तस्मिन् विपर्यासः सम्भवति, इत्याह - मानुषीमिति । अस्मदादिवत् देहतादात्म्याभिमानं भगवतो व्यावर्तयति - मनुष्येति । भगवन्तम् अवजानताम् अविवेकमूलाज्ञानं हेतुमाह - परमिति । ईश्वरावज्ञानात् किं भवति इत्यपेक्षायां तदवज्ञानप्रतिबद्धबुद्धयः शोच्या भवन्ति, इत्याह - ततश्चेति । भगवदज्ञानादेव हेतोः अवजानन्तः, ते - जन्तवः, वराकाः - शोच्याः, सर्वपुरुषार्थबाह्याः स्युः इति सम्बन्धः । तत्र हेतुं सूचयति - तस्येति । प्रकृतस्य भगवतः अवज्ञानम् अनादरणं निन्दनं वा, तस्य भावनं पौनःपुन्यम् , तेन आहताः तज्जनितदुरितप्रभावात् प्रतिबद्धबुद्धयः इत्यर्थः
॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वाध्यक्षः सर्वभूताधिवासो नित्यमुक्तश्चेत् त्वम् , तर्हि किमिति त्वामेव आत्मत्वेन भेदेन वा सर्वे न भजन्ते तत्राह - एवमिति । भगवन्निन्दापराणां न काचिदपि प्रार्थना अर्थवती, इत्याह - वृथेति । ननु भगवन्तं निन्दन्तोऽपि नित्यं नैमित्तिकं वा कर्म अनुतिष्ठन्ति, तदनुष्ठानाच्च तेषां प्रार्थनाः सार्था भविष्यन्ति, इति ; नेत्याह - तथेति । परिभवः - तिरस्करणम् , अवज्ञानं - अनादरणम् । तेषामपि शास्त्रर्थज्ञानवतां तद्द्वारा प्रार्थनार्थवत्वं, इत्याशङ्क्य, आह - तथा मोघेति । तथापि यौक्तिकविवेकवशात् तत्प्रार्थनासाफल्यं, इत्याशङ्क्य, आह - विचेतस इति । न केवलम् उक्तविशेषणवत्वमेव तेषां, किन्तु वर्तमानदेहपातात् अनन्तरं तत्तदतिक्रूरयोनिप्राप्तिश्च निश्चिता, इत्याह - किञ्चेति । मोहकरीं इति प्रकृतिद्वयेऽपि तुल्यं विशेषणम् , छिन्धि भिन्धि, पिब खाद, इति प्राणिहिंसारूपो रक्षसां स्वभावः, असुराणां स्वभावस्तु न देहि, न जुहुधि, परस्वमेव अपहर, इत्यादिरूपः, मोहः -मिथ्याज्ञानम् । उक्तमेव स्फुटयति - छिन्धीति
॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 भगवन्तम् अवजानतां प्रश्नपूर्वकं शोच्यत्वं विशदयति - कथमिति । महान् - प्रकृष्टः, यज्ञादिभिः शोधितः, आत्मा - सत्वं, येषाम् , इति व्युत्पत्तिमाश्रित्य, आह - अक्षुद्रेति । तुशब्दः अवधारणे । प्रकृतिं विशिनष्टि - शमेति । अनन्यस्मिन् - प्रत्यग्भूते मयि परस्मिन्नेव, मनः येषाम् इति व्युत्पत्या व्याकरोति - अनन्यचित्ता इति । अज्ञाते सेवानुपपत्तेः शास्त्रोपपत्तिभ्याम् आदौ ज्ञात्वा ततः सेवन्ते, इत्याह - ज्ञात्वेति । अव्ययम् - अविनाशिनम्
॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 के पुनः भगवन्तं भजन्ते तानाह - ये पुनरिति । तत्प्रकारम् आह - सततमिति । “ सर्वदा “ इति श्रवणावस्था गृह्यते । कीर्तनं - वेदान्तश्रवणं प्रणवजपश्च, व्रतं - ब्रह्मचर्यादि, नमस्यन्तः - माम्प्रति चेतसा प्रह्वीभवन्तः, भक्त्या - परेण प्रेम्णा, नित्ययुक्ताः सन्तः - सदा सम्युक्ताः
॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 भजनप्रकारं पृच्छति - कथमिति । देवतान्तरध्यानत्यागम् अपिशब्दसूचितं दर्शयति - अन्याम् इति । अन्ये - ब्रह्मनिष्ठा इति यावत् । ज्ञानयज्ञमेव विभजते - तच्चेति । उत्तमाधिकारिणाम् उपासनम् उक्त्वा, मध्यमानाम् अधिकारिणाम् उपासनप्रकारम् आह - केचिच्चेति । तेषामेवाहं यज्ञः स्मार्तः किंच स्वधाहं पित्ुभ्यो यद्दीयते तत्स्वधा । तथाहमोउषधं सर्वप्र्राणिभिर्यदद्यते । प्रकारान्तरेण उपासनम् उदीरयति - केचिदिति । बहुप्रकारेण अग्नयादित्यादिरूपेण, इति यावत्
॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 उपासनप्रकारभेदप्रतिपित्सया पृच्छति - ते केनेति । तत्प्रकारभेदोदीरणार्थं श्लोकम् अवतारयति - उच्यत इति । इज्यते पूज्यते परमेश्वरः अनेन, इति, प्रकृते ज्ञाने यज्ञशब्दः । ‘ईश्वरञ्च’ इति चकारः अवधारणे । क्रतुयज्ञशब्दयोः अपौनरुक्त्यं दर्शयन् व्याचष्टे - श्रौत इति । क्रियाकारकफलजातं भगवदतिरिक्तं नास्ति, इति समुदायार्थः
॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 भगवदेकविषयम् उपासनं तर्हि न सिद्ध्यति, इति शङ्कते - यदि इति । प्रकारभेदमादाय ध्यायन्तोऽपि भगवन्तमेव ध्यायन्ति, तस्य सर्वात्मकत्वात् , इत्याह - अत आहेति । पवित्रम् - पूयते अनेन, इति व्यत्पत्या परिशुद्धिकारणं पुण्यं कर्म, इत्याह - पावनम् इति । वेदितव्ये ब्रह्मणि वेदनसाधनम् ओङ्कारः, तत्र प्रमाणम् ऋगादि । चकारात् अथर्वाङ्गिरसो गृह्यते
॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 इतश्च भगवतः सर्वात्मकत्वम् अनुमन्तव्यम् , इत्याह - किञ्चेति । गम्यत इति प्रकृतिविलयान्तं कर्मफलं गतिः इत्याह - कर्मेति । पोष्टा - कर्मफलस्य प्रदाता । कार्यकारणप्रपञ्चस्य अधिष्ठानम् इत्याह - निवास इति । शीर्यते दुःखम् अस्मिन् इति व्युत्पत्तिम् आश्रित्य आह - शरणमिति । प्रभवति अस्मात् जगत् इति व्युत्पत्तिम् आदाय उक्तम् - उत्पत्तिरिति । कारणस्य कथम् अव्ययत्वम् इत्याशङ्क्य आह - यावदिति । कारणम् अन्तरेणापि कार्यं कदाचित् उदेष्यति, किं कारणेन इत्याशङ्क्य आह - न हीति । माभूत् तर्हि संसारदशायामेव कदाचित् कार्योत्पत्तिः इत्याशङ्क्य आह - नित्यं चेति । कारणव्यक्तेः नाशम् अङ्गीकृत्य तदन्यतमव्यक्तिशून्यत्वं पूर्वकालस्य नास्तीति सिद्धवत्कृत्य विशिनष्टि - बीजेति
॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 भगवतः सर्वात्मकत्वे हेत्वन्तरम् आह - किञ्चेति । “आदित्यात् जायते वृष्टिः“ (मनुः - ३ - ७६ ॥ ) इति स्मृतिम् अवष्टभ्य व्याचष्टे - कैश्चिदिति । वर्षोत्सर्गनिग्रहौ एकस्य एकस्मिन् काले विरुद्धौ इत्याशङ्क्य आह - अष्टभिरिति । ऋतुभेदेन वर्षस्य निग्रहोत्सर्गौ एककर्तृकौ अविरुद्धौ इत्यर्थः । यस्य कारणस्य सम्बन्धित्वेन यत्कार्यम् अभिव्यज्यते, तदिह सत् इत्युच्यते, कारणसम्बन्धेन अनभिव्यक्तं कारणमेव अनभिव्यक्तनामरूपं असत् इति व्यवह्रियते । तदेतत् आह - सदिति । शून्यवादं व्युदस्यति - न पुनरिति । भगवतः अत्यन्तासत्वे कार्यकारणकल्पना निरधिष्ठाना न तिष्ठति इत्यर्थः । तर्हि यथाश्रुतं कार्यस्य सत्वं कारणस्य च असत्वम् आस्थेयम् इत्याशङ्क्य, वाशब्देन निषेधति - कार्येति । न हि कार्यस्य आत्यन्तिकं सत्वम् , वाचारम्भणश्रुतेः (छा.उ. ६ - १ - ४ - ६, ६ - ४ - ४ - १ - ४) नापि इतरस्य आत्यन्तिकम् असत्वम् “कुतस्तु खलु “ (छा.उ.६ - २ - २) इत्यादि श्रृतेः इत्यर्थः । उक्तै ज्ञानयज्ञैः भगवदभिनिविष्टबुद्धीनां किं फलम् इत्याशङ्क्य, सद्यो वा क्रमेण वा मुक्तिः इत्याह - य इति
॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 भगवद्भक्तानाम् अपि निष्कामानाम् एव मुक्तिः इति दर्शयितुं सकामानां पुंसां संसारम् अवतारयति - ये पुनरिति । तिस्त्रः विद्याः अधोयते, विदन्ति इति वा त्रैविद्याः - वेदविदः । तदाह - ऋगिति । वस्वादि इति आदिशब्देन सवनद्वयेशानादित्यरुद्राश्च गृह्यन्ते । शुद्धकिल्बिषाः - निरस्तपापाः, इति यावत्
॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 इतश्च सर्वात्मत्वे भगवतो न विवदितव्यम् इत्याह - किञ्चेति । तर्हि स्वर्गप्राप्तिरपि भगवत्प्राप्तितुल्या इत्याशङ्क्य आह - ते तमिति । पुण्येस्वर्गप्राप्तिहेतौ, इति यावत् । प्रसिद्ध्यर्थो हिशब्दः । त्रयाणाम् - हौत्रादीनां वेदत्रयविहितानां धर्माणां समाहारः त्रिधर्मम् , तदेव त्रयीधर्म्यम् तदनुप्रपन्नाः । तदनुगताः, इति यावत् । गमनागमनद्वारा कामितफलाप्तिश्चेत् इष्टमेव चेष्टितम् , इत्याशङ्क्य, आह - गतेति
॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 येभ्यः अन्यो न विद्यते इति व्युत्पत्तिम् आश्रित्य आह - अपृथगिति । कार्यस्य इव कारणे तादात्म्यं व्यावर्तयति - परमिति । अहमेव वासुदेवः सर्वात्मा, न मत्तः अन्यत्किञ्चित् अस्ति इति ज्ञात्वा, तमेव प्रत्यञ्चं सदा ध्यायन्ते इत्याह - चिन्तयन्त इति । प्राकृतान् व्यावर्त्य मुख्यान् अधिकारिणः निर्दिशति - संन्यासिन इति । पर्युपासते - परितः - सर्वतः अनवच्छिन्नतया पश्यन्ति, इत्यर्थः । नित्याभियुक्तानाम् - नित्यम् - अनवरतम् आदरेण ध्याने व्यापृतानाम् इत्याह - सततेति । योगश्च क्षेमश्च योगक्षेमम् । तत्र अपुनरुक्तम् अर्थम् आह - योग इति । किमर्थं परमार्थदर्शिनां योगक्षेमं वहसि इत्याशङ्क्य, आह - ज्ञानी त्विति । अतः तेषां योगक्षेमं वहामि, इति सम्बन्धः । सम्यग्दर्शननिष्ठानामेव योगक्षेमं वहति भगवान् इति विशेषणम् अमृष्यमाणः शङ्कते - नन्विति । अन्येषामपि भक्तानां भगवान् योगक्षेमं वहति इत्येतद् अङ्गीकरोति - सत्यमिति । तर्हि भक्तेषु ज्ञानिषु च विशेषो नास्ति इति पृच्छाति - किन्त्विति । तत्र विशेषं प्रतिज्ञाय विवृणोति - अयमित्यादिना । योगक्षेमम् उद्दिश्य स्वयम् ईहन्ते - चेष्टां कुर्वन्ति, इति यावत् । आत्मविदां स्वार्थं योगक्षेमम् उद्दिश्य चेष्टाभावं स्पष्टयति - न हीति । गुद्धिः - अपेक्षा, कामना । ताम् इत्येतत् । ज्ञानिनां तर्हि सर्वत्र अनास्था इत्याशङ्क्य, आह - केवलमिति । तेषां तदेकशरणत्वे फलितम् आह - अत इति । इतिशब्दो विशेषशब्देन सम्बध्यते
॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 फलम् अनभिसन्धाय त्वामेव आराधयतां सम्यग्दर्शननिष्ठानाम् अत्यन्तनिष्कामाणां कथं योगक्षेमौ स्याताम् इत्याशङ्क्य आह - ये पुनरिति । तेषां योगक्षेमं वहामि इति उत्तरत्र सम्बन्धः । देवतान्तरयाजिनां भगवद्याजिभ्यो विशेषम् आह- अविधीति । तद्व्याकरोति - अविधिरिति
॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 तत्तत् देवतात्मना परस्यैव आत्मनः स्थित्यभ्युपगमात् देवतान्तरपराणामपि भगवच्छरणत्वाविशेषात् तदेकनिष्ठत्वम् अकिञ्चित्करमिति मन्वानः शङ्कते - नन्विति । उक्तम् अङ्गीकृत्य परिहरति - सत्यमित्यादिना । प्रभुरेव च इत्युक्तं विवृणोति - मत्स्वामिको हीति । तत्र पूर्वाध्यायगतवाक्यं प्रमाणयति - अधियज्ञोऽहमिति । तथापि देवतान्तरयाजिनां यजनम् अविधिपूर्वकम् इति कुतस्सिद्धम् तत्र आह - तथेति । ममैव यज्ञेषु भोक्तृत्वे प्रभुत्वे च सति, इति यावत् । तयोः भोक्तृप्रभ्वोः भावः तत्वम् । तेन - भोक्तृत्वेन प्रभुत्वेन च, माम् यथावत् यतो न जानन्ति, अतो भोक्तृत्वादिना मम अज्ञानात् मय्यनर्पितकर्माणः च्यवन्ते कर्मफलात् इत्याह - अतश्चेति
॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 ननु वस्वादित्येन्द्रादिज्ञानपूर्वकमेव तद्भक्ताः - तद्याजिनः भवन्तीति, कथम् अविधिपूर्वकं तेषां यजनम् इति शङ्कते - कस्मादिति । देवतान्तरयाजिनां यजनम् अविधिपूर्वकम् इत्यत्र हेत्वर्थत्वेन श्लोकम् उत्थापयति - उच्यत इति । सर्वेषां द्विविधानां यज्ञानां वस्वादिदेवतात्वेन अहमेव भोक्ता, स्वेन अन्तर्यामिरूपेण प्रभुश्च, अहमेव इति प्रसिद्धमेतत् इति हिशब्दः । देवतान्तराराधनस्य अन्तवत् फलम् उक्त्वा, भगवदाराधनस्य अनन्तफलत्वम् आह - यान्तीति । भगवदाराधनस्य अनन्तफलत्वे देवतान्तराराधनं त्यक्त्वा भगवदाराधनमेव युक्तम् , आयाससाम्यात् , फलातिरेकाच्च, इत्याशङ्क्य, आह - समानेऽपीति । अज्ञानाधीनत्वेन देवतान्तराराधनवतां फलतो न्यूनतां दर्शयति - तेनेति
॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 यदि अन्यदेवताभक्ताः भगवत्तत्वाज्ञानात् कर्मफलात् च्यवन्ते, तर्हि तेषां देवतान्तर यजनम् अकिञ्चित्करम् इत्याशङ्क्य, आह - येऽपीति । देवतान्तरयाजिनाम् अनावृत्तिफलाभावेऽपि तत्तद्देवतायागानुरूपफलप्राप्ति ध्रौव्यात् न तत् अकिञ्चित्करम् , इत्यर्थः । देवतान्तरयाजिनाम् आवश्यकं तत्फलम् आशङ्कापूर्वकम् उदाहरति - कथमित्यादिना । नियमः - बल्युपहारप्रदक्षिणप्रह्वीभावादिः, इत्यर्थः । यद्धि पुष्पादिकं भक्तिपूर्वकं मदर्थम् अर्पितम् , तेन अयं शुद्धचेताः तपस्वी माम् आराधयति इति अहम् अवधारयामि, इत्याह- पत्रमित्यादिना ।
॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 अनन्तफलत्वात् भगवदाराधनमेव कर्तव्यम् , इत्युक्तम् । सुकरत्वाच्च तथा, इत्याह - न केवलमिति । भगवदाराधनस्य सुकरत्वमेव प्रश्नपूर्वकं प्रपञ्चयति - कथमित्यादिना । हवनस्य स्वतस्त्वं वारयति - श्रौतमिति । मत्समर्पणम् , तत्सर्वं मह्यं समर्पय, इत्यर्थः
॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 तदाराधनस्य सुकरत्वे तदेव आवश्यकम् इत्याह - यत इति । स्वतः - शास्त्रादृते प्राप्तम् , गमनादि इति यावत् । यदश्नासि - यं कञ्चित् भागं भुङ्क्षे । भगवदर्पणबुद्द्या सर्वकर्म कुर्वतो जीवन्मुक्तस्य प्रारब्धकर्मावसाने विदेहकैवल्यमावश्यकम् , इत्याह - शुभेत्यादिना । भगवदर्पणकरणात् मुक्तिः संन्यासयोगाच्च, इति साधनद्वयशङ्कां शातयति सोऽयमिति
॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 किम् अतो भवति तदाह - एवम् इति । तर्हि, भगवद्भजनम् अकिञ्चित्करम् , इत्याशङ्क्य, आह - अग्निवदिति । तत् प्रपञ्चयति - यथेति । भक्तान् अभक्तांश्च अनुगृह्ण्तः । अननुगृह्ण्तश्च भगवतो न कथं रागादिमत्वम् इत्याशङ्क्य, आह - ये भजन्तीति । ये वर्णाश्रिमादिधर्मैः मां भजन्ति ते तेनैव भजनेन अचिन्त्यमाहात्म्येन परिशुद्धबुद्धयः मयि - मत्सपीपे, वर्तन्ते - मदभिव्यक्तियोग्यचित्ता भवन्ति । तुशब्दः अस्य विशेषस्य द्योतनार्थः । तेषु च समीपे तेषाम् अहमपि स्वभावतो वर्तमानः तदनुग्रहपरो भवामि । यथा व्यापकम् अपि सावित्रं तेजः स्वच्छे दर्पणादौ प्रतिफलति, तथा परमेश्वरः अवर्जनीयतया भक्तिनिरस्तसमस्तकलुषसत्त्वेषु पुरुषेषु सन्निधत्ते, दैवीं प्रकृतिम् आश्रिताः मां भजन्ति, इत्युक्तत्वात् - इत्यर्थः
॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 भगवतो रागद्वेषवत्वेन अनीश्वरत्वमाशङ्क्य, परिहरति - रागेत्यादिना । सभ्यग्वृत्त एव भगवद्भक्तो ज्ञातव्यः, इत्यत्र हेतुम् आह - सम्यगिति
॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 प्रकृतां भगवद्भक्तिं स्तुवन् , पापीयसाम् अपि तत्र अधिकारः अस्ति, इति सूचयति - श्रृणु इति । भगवन्तं भजमानस्य कथं दुराचारता परित्यक्ता भवति, इत्याशङ्क्य, आह - क्षिप्रमिति । सति दुराचारे कथं धर्मचित्तत्वम् तदाह - शश्वदिति । उपशमः - दुराचारात् उपशमः । किमिति त्वद्भक्तस्य दुराचारात् उपरतिः उच्यते दुराचारोपहतचेतस्तया किमित्यसौ न नङ्क्ष्यति इत्याशङ्क्य, आह - श्रृणु इति
॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 हेत्वर्थमेव प्रपञ्चयति - उत्सृज्येति । “ न मे भक्तः प्रणश्यति “ इत्यत्र हेतुम् आचक्षाणः भक्त्यधिकारे जातिनियमो नास्ति, इत्याह - मां हीति
॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】 इतश्च भगवद्भक्तिः विधातव्या, इत्याह - किञ्चेति । यदि पापयोनिः पापाचारश्च त्वद्भक्त्या परां गतिं गच्छति, तर्हि किम् उत्तमजातिनिमित्तेन संन्यासादिना, किं वा सद् - वृत्तेन, इत्याशङ्क्य, आह - किं पुनरिति । उत्तमजातिमतां ब्रह्मणादीनां अतिशयेन परा गतिः यतो लभ्यते, अतः भगवद्भजनं तैः एकान्तेन विधातव्यम् , इत्याह - यत इति । मनुष्यदेहातिरिक्तेषु पश्वादिदेहेषु भगवद्भजनयोग्यता भावात् , प्राप्ते मनुष्यत्वे तद्भजने प्रयतितव्यम् , इत्याह - दुर्लभमिति
॥ ३३ ॥ 【भाष्यम्】 【भाष्यम्】 ईश्वरभजने इतिकर्तव्यतां दर्शयति - मन्मना इति । एवं भगवन्तं भजमानस्य मम किं स्यात् इत्याशङ्क्य, आह - मामेवेति । समाधाय भगवत्येव, इति शेषः । एवमात्मानमित्येतद् विवृणोति - अहं हीति । अहमेव परम् अयनं तव - इति मत्परायणः, तथाभूतः सन् , मामेव आत्मानम् एष्यसि इति सम्बन्धः । तदेवं मध्यमानां ध्येयं निरूप्य, नवमेन अधमानां आराध्याभिधानमुखेन निजेन पारमार्थिकेन रूपेण प्रत्यक्त्वेन ज्ञानं परमेश्वरस्य परम् आराधनम् , इत्यभिदधता, सोपाधिकं तत्पदवाच्यम् , निरुपाधिकं च तत्पदलक्ष्यम् व्याख्यातम्
॥ ३४ ॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने नवमोऽध्यायः ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 भगवद्भक्तेः इत्थम्भावं पृच्छति - कथमिति । प्रकृष्टत्वं वचसः स्पष्टयति - निरतिशयेति । तदेव वचः विशिनष्टि - यत्परममिति । सकृदुक्तेः अर्थसिद्धेः सकृदुक्तिः अनर्थिका, इत्याशङ्क्य, आह - प्रीयमाणायेति । ततो वक्ष्यामि तुभ्यम् , इति पूर्वेण सम्बन्धः । हितम् - दुर्विज्ञेयं तत्त्वज्ञानम्
॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 अध्यायद्वये सिद्धम् अर्थ सङ्क्षेपतोऽनुभाषते - सप्तमेति । तत्त्वं सोपाधिकं निरुपाधिकञ्च । विभूतयः - सविशेषनिर्विशेषरूपप्रतिपत्त्युपयोगिन्यः । उत्तराध्यायस्य अध्यायद्वयेन सम्बन्धं वदन् अध्यायान्तरम् अवतारयति - अथेति । वक्तव्याः सविशेषध्याने निर्विशेषप्रतिपत्तौ च शेषत्वेन, इति शेषः । ननु सविशेषं निर्विशेषं च भगवतो रूपं प्रागेव तत्र तत्र उक्तम् । तत्किमिति पुनः उच्यते, तत्र आह - उक्तमपीति । तद्यदि तत्र तत्र तत्त्वम् उक्तम् , तयापि पुनर्वक्तव्यं दुर्ज्ञेयत्वात् , इति यतः मन्यते, अतः इति योजना । इन्द्रादयः भृग्वादयश्च भगवत्प्रभावं न विन्दन्ति इत्यत्र प्रश्नपूर्वकं हेतुम् आह - कस्मादिति । निमित्तत्वेन उपादानत्वेन च यतः देवानां भगवानेव हेतुः, ततः तद्विकाराः ते न तस्य प्रभावं विदुः इत्यर्थः
॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 कश्चित् अन्योऽपि परमं वचः मह्यं वक्ष्यति । तेन च मम तत्त्वज्ञानं भविष्यति । अतः भगवद्वचनम् अकिञ्चित्करम् , इति शङ्कित्वा परिहरति - किमर्थमित्यादिना । कोऽसौ प्रभावः भगवतः यं बहवो न विदुः, इत्यपेक्षायां पारमार्थिकं प्रभावं तदधीनफलं च कथयति - यो मामिति । पदद्वयापौनरुक्त्यम् आह - अनादित्वमिति
॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 इतश्च कश्चिदेव भगवत्प्रभावं वेत्ति इत्याह - किञ्चेति । इतश्चाहं मुमुक्षुभिः आराध्यत्वसिद्धये बन्धमोक्षसाधनं पुरस्कृत्य अशेषं जगत्प्रकृत्यधिष्ठातृत्वलक्षणं सोपाधिकं भगवत्प्रभावम् अभिधत्ते- बुद्धिरिति । सूक्ष्मादि इत्यादिशब्देन सूक्ष्मतरः सूक्ष्मतमश्च अर्थो गृह्यते । उक्तं सामर्थ्यं बुद्धिः, इत्यस्मिन् अर्थे प्रसिद्धिं प्रमाणयति - तद्वन्तमिति । आत्मादीति । तदवबोधवन्तं हि ज्ञानिनं वदन्ति । अन्तः करणस्य उपशमः विषयेभ्यो व्यावृत्तिः इति शेषः
॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 भगवतो लोकमहेश्वरत्वे हेत्वन्तरम् आह - अतश्चेति । यथाशक्तीति । पात्रे श्रद्धया स्वशक्तिं अनतिक्रम्य अर्थानां देशकालानुगुण्येन प्रतिपादनम् इत्यर्थः । उक्तानां बुद्ध्यादीनां साश्रयाणां ईश्वरात् उत्पत्तिं प्रतिजानीते - भवन्तीति । नानाविधत्वे हेतुमाह - स्वकर्मेति । कथञ्चिदपि तेषाम् आत्मव्यतिरेकेण अभावात् मत्त एव इ्त्युक्तम्
॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 तथेति मनूनामपि पूर्वत्वेन आद्यत्वम् अनुकृष्यते । के ते मनवः तत्र आह- सावर्णा इतीति । प्रसिद्धाः पुराणेषु, प्रजानां पालकाः, स्वयम् ईश्वराश्च इति शेषः । महर्षीणां मनूनां च तुल्यं विशेषणम् - ते चेति । मयि - सर्वज्ञे सर्वेश्वरे, गता - भावना येषां, ते तथा । भावनाफलम् आह - वैष्णवेनेति । वैष्णव्या शक्त्या अधिष्ठितत्वेन ज्ञानैश्वर्यवन्तः, इत्यर्थः । तेषां जन्मनो वैशिष्ट्यम् आचष्टे - मानसा इति । मन्वादीनेव विशिनष्टि- येषामिति । विद्यया जन्मना च सन्ततिभूता मन्वादीनाम् अस्मिन् लोके सर्वाः प्रजाः, इत्यर्थः
॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 न केवलं भगवतः सर्व प्रकृतित्वमेव, किन्तु सर्वज्ञत्व - सर्वेश्वरत्वरूपम् अधिष्ठातृत्वम् अपि, इत्याह - किञ्चेति । आद्या भृग्वादयो वसिष्ठान्ताः सर्वज्ञाः विद्यासम्प्रदायप्रवर्तकाः । सोपाधिकं प्रभावं भगवतो दर्शयित्वा तज्ज्ञानफलम् आह - एतामिति । बुद्ध्याद्युपादानत्वेन विविधा भूतिः - भवनम् वैभवम् सर्वात्मकत्वम् , तदाह - विस्तारमिति । ईश्वरस्य तत्तदर्थसम्पादनसामर्थ्यं योगः, तदाह - आत्मन इति । योगः - तत्फलम् ऐश्वर्यं सर्वज्ञत्वं सर्वेश्वरत्वं च मदीयं शक्तिज्ञानलेशम् आश्रित्य मन्वादयो भृग्वादयश्च ईशते जानते च तदाह - अथवेति । यथा तौ विभूतियोगौ तथा वेदनस्य निरङ्कुशत्वं दर्शयति - यथावदिति । सोपाधिकं ज्ञानं निरूपाधिकज्ञाने द्वारम् , इत्याह - सोऽविकम्पेनेति । उक्ते अर्थे प्रतिबन्धाभावम् आह - नास्मिन् इति
॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 प्रभवति अस्मात् , इति प्रभवः सर्वप्रकृतिः सर्वात्मा, इत्याह - उत्पत्तिरिति । सर्वज्ञात् सर्वेश्वरात् मत्तो निमित्तात् , सर्वम् - स्थितिनाशादि भवति । मया च अन्तर्यामिना प्रेर्यमाणं सर्वं यथास्वं मर्यादाम् अनतिक्रम्य चेष्टते । तदाह - मत्त इति । इत्थं मम सर्वात्मत्वं सर्वप्रकृतित्वं सर्वेश्वरत्वं सर्वज्ञत्वं च महिमानं ज्ञात्वा मय्येव निष्ठावन्तो भवन्ति, इत्याह - इत्येवमिति । संसारासारताज्ञानवतां भगवद्भजने अधिकारं द्योतयति - अवगतेति । परमार्थतत्त्वे पूर्वोक्तरीत्या ज्ञाते प्रेमादरौ अभिनिवेशाख्यौ भवतः । तेन संयुक्तत्वं च भगवद्भजने भवति हेतुः, इत्याह - भावेति
॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 कथं तावक विभूत्त्यैश्वर्यज्ञानम् उक्तयोगस्य हेतुः इति मत्वा पृच्छति - कीदृशेनेति । उक्तज्ञानमाहात्म्यात् प्रतिष्ठिता भगवन्निष्ठा सिध्यति, इत्याह - उच्यत इति । ईश्वरात् प्रतीचः प्रगुक्तात् अन्यत्र चित्तप्रचारराहित्यं भगवद्भजनोपायम् आह - मयीति । चक्षुरादीनां भगवति अप्राप्तिः, तदगोचरत्वात् तस्य, इत्याशङ्क्य, आह - मय्युपसंहृतेति । भगवदतिरेकेण जीवनेऽपि न आदरः । तदपि मय्येव अर्पितं भक्तानाम् , इत्याह - अथवेति । आचार्येभ्यः श्रुत्वा, वादकथया परस्परं भगवन्तं सब्रह्मचारिणो बोधयन्ति । तदपि भगवद्भजनसाधनम् , इत्याह - बोधयन्त इति । आगमोपपत्तिभ्यां भगवन्तमेव विशिष्टधर्माणं शिष्येभ्यो गुरवो व्युपदिशन्ति । तदपि भगवद्भजनमेव, इत्याह - कथयन्त इति । भक्तानां तुष्टिरती स्वरसतः स्याताम् इत्याह - तुष्यन्तीति । मनोरथपूर्त्या रतिप्राप्तौ कामुकसम्मतम् उदाहरणम् आह - प्रियेति
॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 न केवलम् उक्तमेव भगवद्भजने साधनम् , साधनान्तरं च अस्ति, इत्याह - किञ्चेति । पुत्रादिलोकत्रयहेत्वर्थित्वेन वा गर्भदासत्वेन वा, प्रत्यहं जीवनोपायसिद्धये वा, भजनम् इति शङ्कित्वा दूषयति - किमित्यादिना । प्रागुक्तां ज्ञानाख्यां भक्तिं स्नेहेन कुर्वताम् इत्यर्थः । तेभ्योऽहं तत्त्वज्ञानं प्रयच्छामि, इत्याह - ददामीति । उक्तबुद्धिसबन्धस्य फलम् आह - येनेति । ध्यानजन्यप्रकर्षकाष्ठागतान्तःकरणपरिणामे निरस्ताशेपविशेषभगवद्रूपप्राप्तिहेतौ बुद्धियोगे प्रश्नपूर्वकम् उक्तान् अधिकारिणो दर्शयति -
के ते इति ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 यदुक्तं ‘सोऽविकम्पेन’ (भ. गी. १०-७) इत्यादि, तदर्थं भूमिकां कृत्वा, तद् इदानीम् उदाहरति - ये यथोक्तेति । नित्याभियुक्तानाम् - अनवरतं भगवति ऐकाग्र्यसम्पन्नानाम् , इत्यर्थः । केवलचैतन्यस्य जडबुद्धिवृत्तेरिव अज्ञानाद्यनाशकत्वम् आशङ्क्य, विशिनष्टि - आत्मेति । तस्य आशयः - तन्निष्ठो वृत्तिविशेषः । वाक्योत्थबुद्धिवृत्त्यभिव्यक्तः चिदात्मा सहायसामर्थ्यात् अज्ञानादिनिवृत्तिहेतुः, इत्यर्थः । बुद्धीद्धबोधस्य अज्ञानादिनिवर्तकत्वम् उक्त्वा, बोधेद्धबुद्धेः तन्निवर्तकत्वम् , इति पक्षान्तरम् आह - ज्ञानेति । देहाद्यव्यक्तान्तानात्मवर्गातिरिक्तवस्तु आह - विवेकेति । भगवति सदा विहितया भक्त्या, तस्य प्रसादः - अनुग्रहः, स एव स्नेहः, तेन आसेचनद्वारा अस्य उत्पत्तिम् आह - भक्तीति । मय्येव भावनायाम् अभिनिवेशो वातः, तेन प्रेरितोऽयं जायते । न हि वातप्रेरणम् अन्तरेण दीपस्य उत्पत्तिः, इत्याह - मद्भावनेति । ब्रह्मचर्यम् अष्टाङ्गम् । आदिशब्देन शमादिग्रहः । तेन हेतुना आहितसंस्कारवति या प्रज्ञा, तथाविधवर्तिनिष्ठश्च अयम् , न हि वर्त्यतिरेकेण निर्वर्त्यते, तदाह – ब्रह्मचर्येति । न च आधाराद् ऋते दीपस्य उत्पत्तिः, अदृष्टत्वात् , इत्याह - विरक्तेति । यद् विषयेभ्यो व्यावृत्तं चित्तं रागाद्यकलुषितम् , तदेव निवातम् अपवरकम् । तत्र स्थितत्वम् अस्य दर्शयति - विषयेति । भास्वतेति विशेषणं विशदयति - नित्येति । सदातनं चित्तैकाग्र्यम् , तत्पूर्वकन्ध्यानम् , तेन जनितं सम्यग्दर्शनं फलम् , तदेव भाः तद्वता तत्पर्यन्तेन, इत्यर्थः । तेन अज्ञाने सकार्ये निवृत्ते, भगवद्भावः स्वयमेव प्रकाशीभवति इति मत्वा, व्याख्यातममेव पदम् अनुवदति - ज्ञानेति
॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 भगवत्प्राप्तेः बुद्धिसाध्यत्वे सति अनित्यत्वापत्तेः त्वमपि भक्तेभ्यः बुद्धियोगं ददासि इत्ययुक्तम् , इति शङ्कते - किमर्थमिति । तेषां बुद्धियोगं किमर्थं ददासि इति सम्बन्धः । भगवत्प्राप्तिप्रतिबन्धकनाशको बुद्धियोगः, तेन नास्ति तत्प्राप्तेः अनित्यत्वम् , इत्याशङ्क्य आह - कस्येति । भक्तानां तत्प्राप्तिप्रतिबन्धकं विविच्य दर्शयति - इत्याकाङ्क्षायामिति । अविवेको नाम अज्ञानम् । ततो जातं मिथ्याज्ञानम् । तदुभयम् एकीकृत्य तमो विवक्ष्यते । न च तन्नाशकत्वं जडस्य कस्यचित् तदन्तर्भूतस्य युक्तम् । तेन अहं नाशयामि, इत्युक्तम् । धामशब्दस्य स्थानवाचित्वं व्यावर्तयन् व्याचष्टे - तेज इति । तस्य चैतन्यस्य परमत्वं जन्मादिराहित्येन कौटस्थ्यम् । प्रकृष्टम् पावनम् - अत्यन्तशुद्धत्वम् उच्यते । यदेवंलक्षणं पर ब्रह्म, तद्भवानेव, नान्यः इत्यर्थः । कुतः त्वम् एवम् अज्ञासीः इत्याशङ्क्य, आप्तवाक्यात् , इत्याह - पुरुषमिति । दिवि - परमे व्योम्नि भवतीति दिव्यः, तं सर्वप्रपञ्चातीतम् दीव्यति - द्योतते इति देवः, स चादिः सर्वमूलत्वात् , अत एव अजः, तं त्वां सर्वगतम् आहुः इति सम्बन्धः
॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 निरस्ताशेषविशेषं निरूपाधिकं सोपाधिकं च सर्वात्मत्वादि भगवतो रूपम् , तद्धीफलं च श्रुत्वा, निरुपाधिकरूपस्य प्राकृतबुद्ध्यनवगाह्योक्तिपूर्वकं मन्दानुग्रहार्थं सर्वदा सर्वबुद्धिग्राह्य सोपाधिकं रूपं विस्तरेण श्रोतुम् इच्छन् पृच्छति, इत्याह - यथोक्तामिति । परं ब्रह्म भवान् लक्ष्यनिर्देशः । तस्य लक्षणार्थं परं धाम इत्यादि विशेषणत्रयम् । ऋषिग्रहणेन गृहीतानामपि नारदादीनां विशिष्टत्वात् पृथक् ग्रहणम् । असितो देवलस्य पिता । किम् अन्यैः । त्वं स्वयमेव आत्मानम् उक्तरूपं मह्यम् उक्तवान् इत्याह - स्वयञ्चेति
॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 उक्तविशेषणं त्वाम् ऋषयः सर्वे यस्मात् आहुः, तस्मात् तद्वचनात् तवोक्तं ब्रह्मत्वम् युक्तम् , इत्याह - ईदृशमिति । ऋषिभिः त्वया च उक्तत्वात् उक्तम् सर्वं सत्यमेव इति मम मनीषा इत्याह - सर्वमिति । किं तत् इत्याशङ्क्य आत्मरूपं इत्याह - यन्मां इति । देवादिभिः सर्वैः उच्यमानतया त्वद्रूपे विशिष्टवक्तृग्रहणं अनर्थकम् इत्याशङ्क्य आह - नहीति । प्रभवो नाम प्रभावः निरूपाधिकस्वभावः, यदा देवादीनामपि दुर्विज्ञेयं तव रूप, तदा का कथा मनुष्याणां इत्यर्थः
॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मानं निरुपाधिकं रूपम् । न च तव सोपाधिकमपि रूपं अन्यस्य गोचरे तिष्ठति इत्याह - निरतिशयेति । पुरुषश्चासौ उत्तमश्च इति क्षराक्षरातीतपूर्णचैतन्यरूपत्वम् सम्बोधनेन बोध्यते । सर्वप्रकृतित्वम् सर्वकर्तृत्वञ्च कथयति - भूतानि इति । सर्वेश्वरत्वं आह - भूतानाम् इति । उक्तं ते सोपाधिकं रूपं देवादीनाम् आराध्यताम् अधिगच्छति इत्याह - देवेति । जगतः सर्वस्य स्वामित्वेन पालयितृत्वम् आह - जगदिति
॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 कश्चिदेव महता कष्टेन अनेकजन्मसंसिद्धः जानाति त्वदनुगृहीतः त्वद्रूपम् इत्यभिप्रेत्य आह - यतः इति । स्वयमेव - उपदेशम् अन्तरेण इत्यर्थः । आत्मना प्रत्यक्त्वेन अविषयतया इति यावत् । यस्मात् अस्मादृशां अगोचरः तव आत्मा जिज्ञासितश्च, तस्मात् त्वयैव तद्रूपं वक्तव्यं इत्याह - वक्तुमिति । दिव्यत्वं अप्राकृतत्वम् । सम्प्रति अन्वयं अन्वाचष्टे - आत्मन इति । वक्तव्याः विभूतीः विशिनष्टि - याभिरिति । यद्द्वारा लोकान् पूरयित्वा वर्तसे ताः विभूतीः अशेषेण वक्तुं अर्हसि इत्यर्थः
॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 किमर्थं विभूतीः श्रोतुं इच्छसि इत्याशङ्क्य, ध्यानसौकर्यप्रकारप्रश्नेन फलं कथयति - कथमिति । योगः नाम ऐश्वर्यं तत् अस्य अस्तीति योगो हे योगिन् , अहं स्थविष्टमातिः त्वां केन प्रकारेण सततं अनुसन्दधानः विशुद्धबुद्धिर्भूत्वा निरूपाधिकं त्वां विजानीयां इति प्रश्नः । प्रश्नानन्तरं प्रस्तौति - केषु केषु इति । चेतनाचेतनभेदात् उपाधिबहुत्वाच्च बहुवचनम्
॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकृतं प्रशनं उपसंहरति - विस्तरेणेति । अर्दतेः गतिकर्मणः जनार्दनेति रूपम् , तत् व्युत्पादयति - असुराणाम् इति । प्रकारान्तरेण शब्दार्थं व्युत्पादयति - अभ्युदयेति । ननु पूर्वमेव सप्तमे नवमे च विभूतिः ऐश्वर्यञ्च ईश्वरस्य दर्शितम् , तत्किमिति श्रोतुं इष्यते तत्राह - भूय इति । अमृतम् - अमृतप्रख्यमित्यर्थः
॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 प्रष्टारं विस्रम्भयितुं भगवान् उक्तवान् इत्याह - श्री भगवानिति । हन्त इति अनुमतिं व्यावर्त्य जिज्ञासावच्छिनं कालं दर्शयति- इदानीम् इति । दिवि भवत्वम् - अप्राकृतत्वं - अस्मदगोचरत्वम् । वाक्यान्वयं द्योतयति - यास्ता इति । सर्वविभूतीनां वक्तव्यत्वप्राप्तौ उक्तम् - यत्रेति । किमिति अनवशेषतः विभूतयः न उच्यन्ते तत्राह - अशेषतस्त्विति । तत्र हेतुः यतः इति
॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 आशेरते अस्मिन् विद्याकर्मपूर्वप्रज्ञा इति आशयः - हृदयम् , सर्वेषां भूतानां हृदये अन्तःस्थितो यः प्रत्यगात्मा सः अहमेव इति वाक्यार्थम् आह - सर्वेषाम् इति । यस्तु मन्दो मध्यमो वा परमात्मानम् आत्मत्वेन ध्यातुं नालम् , तं प्रति आह - तदशक्तेनेति । वक्ष्यमाणादित्यादिषु परस्य न ध्येयत्वम् अन्यदेव कारणं किञ्चित् तत्र तत्र ध्येयम् इत्याशङ्क्य आह - यस्मात् इति । सर्वकारणत्वेन सर्वज्ञत्वेन सर्वेश्वरत्वेन च परस्य ध्येयत्वम् अत्र ईप्सितम् , नान्यस्य कस्यचित् कारणस्य आदित्यादिषु ध्येयता, इत्यर्थः
॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 विभूतिप्रदर्शने प्रस्तुते सति आदावेव पारमार्थिकं पारमेश्वरं रूपं दर्शयितुं श्रोतुः अर्जुनस्य मनस्समाधानार्थं यतते - तत्रेति । सोपाधिकमपि काल्पनिकं परस्य रूपं पश्चात् वक्ष्यमाणं श्रोतुं चित्तसमाधानं कर्तव्यम् एव, इत्याह - तावदिति । तत्र तत्र प्रधानत्वेन परस्य ध्येयत्वम् । एवंशब्दार्थमेव दर्शयति - आदित्यानाम् इत्यादिना
॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 उक्तध्यानाशक्तेभ्यो वक्तव्यं विभूतियोगम् उपदिशति - एवञ्चेति । मन्त्रब्राह्मणसमुदायानाम् ऋगादीनां मध्ये सामवेदोऽस्मि इति ध्यानान्तरम् उदाहरति - वेदानामिति । सङ्घाते जीवधिष्ठिते यावत् पञ्चत्वं सर्वत्र व्यापिनी चैतन्याभिव्यञ्जिका, इति शेषः
॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 पुरोहितेषु बृहस्पतेः मुख्यत्वे हेतुम् आह - स हीति
॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 एकम् इति । ओङ्कारस्य ब्रह्मप्रतीकत्वेन तदभिधानत्वेन च प्रधानत्वम् उच्यते । जपयज्ञस्य यज्ञान्तरेभ्यो हिंसादिराहित्येन प्राधान्यम् उपेत्य आह - यज्ञानामिति । शिखरवताम् - उच्छ्रितानां पर्वतानां मध्ये, मेरुः अहं इत्युक्तेऽपि, स्थितिशीलानां तेषामेव हिमवान् - पर्वतराजोऽस्मि, इति अर्थभेदं गृहीत्वा आह - स्थितिमतामिति
॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 “ सर्ववृक्षाणाम् " इत्यत्र सर्वशब्देन वनस्पतयो गृह्यन्ते ॥ २६, २७ ॥ प्रजनयतीति व्युत्पत्तिम् आश्रित्य आह - प्रजनयितेति । सर्पा नागाश्च जातिभेदात् भिद्यन्ते ॥ २८, २९, ३०, ३१ ॥ अहमादिश्च इति आदौ उक्तमेव पुनः इह उच्यते । तथा च न पुनरुक्तिः इत्याशङ्क्य, आह - भूतानां इति । सर्गशब्देन सृज्यन्त इति सर्वाणि कार्याणि गृह्यन्ते । अध्यात्मविद्येति । आत्मनि अन्तःकरणपरिणतिः अविद्यानिवर्तिका गृहीता । प्रवदतां सम्बन्धो वादः - वीतरागकथा तत्त्वनिर्णयावसाना । यदा प्रवदतामिति लक्षणया कथाभेदोपादानं तदा निर्धारणे षष्ठी इत्याह - प्रवक्तृ इति
॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वहरशब्दस्य मुख्यं अर्थान्तरं आह - अथवेति । भाविकल्याणानां इत्युक्तमेवस्पष्टयति - उत्कर्षेति । कीर्तिः - धार्मिकत्वनिमित्ता ख्यातिः । श्रीः - लक्ष्मीः, कान्तिः - शोभा । वाक् - वाणी सर्वस्य प्रकाशिका, स्मृतिः - चिरानुभूतस्मरणशक्तिः, मेधा - ग्रन्थधारणशक्तिः, धृतिः - धैर्यम् , क्षमा - मानापमानयोः अविकृतचित्तता - स्त्रीषु कीर्त्यादीनां उत्तमत्वं उपपादयति - यासामिति
॥ ३४ ॥ 【भाष्यम्】 【भाष्यम्】 वेदानां सामवेदोऽस्मि इत्युक्तम् । तत्रावान्तरविशेषमाह- बृहदिति । छन्दसां मध्ये गायत्री नाम यच्छन्दः तदहम् इति अयुक्तम् , छन्दसां ऋग्भ्यः अतिरेकेण स्वरूपासम्भावत् । इत्याशह्क्य, आह - गायत्र्यादि इति । द्विजातेः द्वितीयजन्मजननीत्वात् इत्यर्थः । मार्गशीर्षः - मृगशीर्षेण युक्ता पौर्णमासी अस्मिन् इति मार्गशीर्षः मासः सोऽहम् पक्वसस्याढ्यत्वात् इत्याह - मासानामिति । वसन्तः रमणीयत्वादिति शेषः ।
॥ ३५ ॥ 【भाष्यम्】 【भाष्यम्】 द्यूतं उक्तलक्षणम् सर्वस्वापहारकारणम् अन्यायापदेशेन पराभिप्रेतम् निघ्नताम् , स्वाभिप्रेतं वा सम्पादयतां इत्याह - छलस्येति । तेजः अप्रतिहताज्ञा, उत्कर्षः जयः, व्यवसायः फलहेतुः उद्यमः, धर्मज्ञानवैराग्यादि सत्त्वकार्यं सत्त्वम्
॥ ३६ ॥ 【भाष्यम्】 【भाष्यम्】 उशना - शुक्रः, कविशब्दोेऽत्र योगिकः न रूढः पौनरुक्त्यात्
॥ ३७ ॥ 【भाष्यम्】 【भाष्यम्】 अदान्तान् उत्पथान् पथि प्रवर्तयतां दण्डः अहं उत्पथप्रवृत्तौ निग्रहे हेतुः इत्यर्थः । नीतिः न्यायः धर्मस्य जयोपायस्य प्रकाशकः । मौनं वाचं यमत्वम् उत्तमा वा चतुर्थाश्रमवृत्तिः । श्रवणादिद्वारा परिपक्वसमाधिजन्यं सम्यक् ज्ञानं ज्ञानम्
॥ ३८ ॥ 【भाष्यम्】 【भाष्यम्】 जाड्यमात्रप्रतिबिम्बितं चैतन्यं बीजम् । किमिति स्थावरं जङ्गमं वा त्वदतिरेकेण न भवतीति तत्राह - मयेति । तस्यापि स्वरूपेण सत्त्वमाशङ्क्य उक्तम् - शून्यं हीति । आत्मनः अपकर्षात् इत्यर्थः । मयैव सच्चिदानन्दस्वरूपेण सर्वस्य सिद्धेः । इति अतश्शब्दार्थः
॥ ३९ ॥ 【भाष्यम्】 【भाष्यम्】 दिव्यानां विभूतीनां परिमितत्वशङ्कां वारयति - नेत्यादिना । तदेव उपपादयति - न हि इति । कथं तर्हि विभूतेः विस्तरो दर्शितः तत्राह- एष त्विति
॥ ४० ॥ 【भाष्यम्】 【भाष्यम्】 अनुक्त अपि परस्य विभूतीः सङ्ग्रहीतुं लक्षणमाह - यद्यदिति । वस्तु - प्राणिजातं, श्रीमत् - समृद्धिमद्वा कान्तिमद्वा सप्राणं बलवदूर्जितं तदाह - उत्साहेति । सम्भवति अस्मादिति सम्भवः तेजसः चैतन्यस्य ईश्वरशक्तेर्वा अंशः तेजोंशः सम्भवः अस्य इति तेजोंश सम्भवात् । तदाह - तेजस इति
॥ ४१ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वेषां सुगमत्वाय अवयवशः विभूतिमुक्त्वा भक्तानुग्रहार्थं साकल्येन तमाह - अथवेति । पक्षान्तरपरिग्रहार्थं अथवेत्युक्तम् । बहुधा विस्तीर्णेन एतेन संज्ञातेन सावशेषेण तव शक्तस्य न किञ्चित् फलं स्यात् इत्याह - बहुनेति । न हि विभूतिषु उक्तासु ज्ञातासु सर्वं ज्ञायते कासाञ्चिदेव विभूतीनां उक्तत्वात् इत्यर्थः । तर्हि केनोपदेशेन अल्पाक्षरेण सर्वोऽर्थो ज्ञातुं शक्यते । तत्राह - अशेषत इति । विशेषतः स्तम्भनं विधरणं सर्वभूतस्वरूपेण सर्वप्रपञ्चोपादानशक्त्युपाधिकेन एकेन पादेन कृत्स्नं जगत् विधृत्य स्थितोऽस्मि इति सम्बन्धः । तत्रैव श्रुतिं प्रमाणयति - तथा चेति । तदनेन भगवतः नानाविधाः विभूतीः ध्येयत्वेन ज्ञेयत्वेन च उपदिश्यन्ते । सर्वप्रपञ्चात्मकं ध्ये रूपं दर्शयित्वा “त्रिपादस्यामृतं दिवि“ इति प्रपञ्चाधिकं निरुपाधिकं तत्त्वं उपदिशता परिपूर्णसच्चिदानन्दैकतानः तत्पदलक्ष्योऽर्थो निर्धारितः
॥ ४२ ॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने दशमोऽध्यायः तेन तेन आत्मना भगवदनुसन्धानार्थम् उक्ताः विभूतीः अनुवदति- भगवत इति । परस्य सोपाधिकं निरुपाधिकं च चिद्रूपं ध्येयत्वेत ज्ञेयत्वेन च उक्तम् , इत्यर्थः । सोपाधिकम् ऐश्वरं रूपम् अशेषजगदात्मकं विश्वरूपाख्यम् अधिकृत्य, अध्यायान्तरम् अवतारयन् अनन्तरप्रश्नोपयोगित्वेन वृत्तं कीर्तपति- तत्र चेति । यदेतत् अशेषप्रपञ्चात्मकम् अखिलस्य एतस्य जगतः कारणं सर्वज्ञं सर्वैश्वर्यवद्रूपम् उक्तम् , तदिदं श्रुत्वा तस्य साक्षात्कारं यियाचिषः आदौ पृष्टवान् इत्याह- श्रुत्वा इति । मयि करुणां निमित्तीकृत्य उपकारः - अनुग्रहः । तदर्थम् इति वचसो विशेषणम् । निरतिशयत्वं परमपुरुषार्थसाधनत्वम् । अशोच्यान् इत्यादि त्वम्पदार्थप्रधानवाक्यम् । मोहस्यायमिति आत्मसाक्षिकत्वं दर्शयति । अविवेकबुद्धिः - अज्ञानविपर्यासात्मिका
॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 सप्तमादारभ्य तत्पदार्थनिर्णयार्थमपि भगवदुक्तं वचः मया श्रुतम् , इत्याह- किञ्चेति । त्वत्तः भूतानाम् उत्पत्तिप्रलयौ, त्वत्तः श्रुतौ इत्याभ्यां सम्बध्यते, महात्मनः तव भावः - माहात्म्यम् । पारमार्थिकं सोपाधिकं वा सर्वात्मत्वादिरूपं श्रुतम् , इति परिणम्य अनुवृत्तिं द्योतयितुम् , अपि च इत्युक्तम्
॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 त्वदुक्ते अर्थे विश्वासाभावात् न तस्य दिदृक्षा । किन्तु कृतार्थीबुभूषया इत्याह- एवमेतदिति । येन प्रकारेण सोपाधिकेन निरुपाधिकेन च इत्यर्थः । यदि मम आप्तत्वं निश्चित्य मद्वाक्यं ते मानं तर्हि किमिति मदुक्त दिदृक्षते कृतार्थीबुभूषया इत्युक्तं मत्वा आह- तथापीति । चतुर्भुजादिरूपनिवृत्त्यर्थमाह- एेश्वरमिति ।
तत् व्याचष्टे ज्ञानेत्यादिना ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 द्रष्टुं अयोग्ये कुतो दिदृक्षा इत्याशङ्क्य आह- मन्यसे इति । प्रभवति सृष्टिस्थितिसंहारप्रवेशप्रशासनेभ्यः इति प्रभुः । लक्षणया योगशब्दार्थमाह- योगिन इति । ततः इत्यादि व्याचष्टे- यस्मादिति
॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 अर्जुनं अतिभक्तं सखायं प्रार्थितप्रतिश्रवणेन आश्वासयितुमाह- एवमिति
॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 दिव्यानि रूपाणि पश्य इत्युक्तम् । तान्येव लेशतः अनुक्रामति- पश्यादित्यान् इति । तान् मरुतः तथा पश्य इति सम्बन्धः । नानाविधानि इत्युक्तम् , तदेव स्फुटयति- बहूनि इति । अदृष्टपूर्वाणि - पूर्व अदृष्टानि । नानावर्णाकृतीनि इत्युक्तम् व्यनक्ति- आश्चर्याणि इति
॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 न केवलं आदित्यवस्वाद्येव मद्रूपं त्वया द्रष्टुं शक्यम् , किन्तु समस्तं जगदपि मद्देहस्थं द्र्ष्टुं इच्छसि इत्याह - नेत्यादिना । सप्तमीद्वयं मिथः सम्बध्यते । समासान्तर्गतापि सप्तमी -तत्रैवान्विता ।यदि इच्छसि तर्हि इहैव पश्य इति सम्बन्धः
॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 सप्रपञ्चं अनवच्छिन्नं मां स्वचक्षुषा न शक्नोषि द्रष्टुं इत्याह- न तु इति । कथं तर्हि त्वां द्रष्टुं शक्नुयाम् इत्याशङ्क्य आह- येनेति । दिव्यस्य चक्षुषः वक्ष्यमाणयोगशक्त्यनिशयदर्शने विनियोगं दर्शयति- तेनेति
॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 मन्यसे यदि इत्युक्तं अनुवदति- किन्तु इति । इमं वृत्तान्तं धृतराष्ट्राय सञ्जयो निवेदितवात् इत्याह- सञ्जय इति । मदीयं विश्वरूपाख्यं रूपं न प्राकृतेन चक्षुषा निरीक्षितुं क्षमम् । किन्तु दिव्येन इत्यादि यथोक्तप्रकारः । अनन्तरं - दिव्यचक्षुषः प्रदानात् इति शेषः । हरति अविद्यां सकार्यां इति हरिः । यत् ईश्वरस्य मायोपहितस्य परमम् उत्कृष्टं रूपम् तत् दर्शयाम्बभूव इत्याह- परमम् इति
॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 तदेव रूपं विशिनाष्टि- अनेकेति । दिव्यानि आभरणादीनि - हारकेयूरादीनि भूषणानि, उद्यतानि - उच्छ्रितानि
॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 उक्तरूपवन्तं भगवन्तं प्रकारान्तरेण विशिनष्टि- किञ्चेति । “अर्जुन इति“ अध्याहारेऽपि पदसङ्घटनासम्भवात्
॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 सा कथञ्चित् सदृशी सम्भवति, न तु भवत्येव, इति विवक्षित्वा आह- यदि वेति
॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 ननु प्रकृष्टस्य भगवतो रूपस्य दीप्तिः अस्ति न वा न चेत् काष्ठादिसाम्यम् ; यदि अस्ति, कीदृशी सा इति आशङ्क्य, आह- या पुनरिति । सा यदि स्यात् , तद्भासः सदृशी सा, इति योजना । असम्भाविताभ्युपगमार्थो यदिशब्दः । स्याच्छब्दो निश्चयार्थः । न केवलम् उक्तमेव अर्जुनो दृष्टवान् ; किन्तु, तत्रैव - विश्वरूपे सर्वं जगत् , एकस्मिन् अवस्थितम् अनुभूतवान् , इत्याह- किञ्चेति । तदा - विश्वरूपस्य भगवद्रूपस्य दर्शनदशायाम् , इत्यर्थः
॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 विश्वरूपधरस्य भगवतः, तस्मिन् एकोभूतजगतश्च उक्तविशेषणस्य दर्शनानन्तरं किम् अकरोत् इत्यपेक्षायाम् आह- तत इति । आश्चर्यबुद्धिर्विस्मयः, रोम्णां हृष्टत्वं पुलकितत्त्वं, प्रकर्षो भक्तिश्रद्धयोरतिशयः
॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 भूतविशेषसङ्घेषु देवानाम् अन्तर्भावेऽपि पृथक् करणम् उत्कर्षात् । ब्रह्मणः सर्वदेवतात्मत्वेऽपि तेभ्यो भेदकथनं तदुत्पादकत्वात् , इति मत्वा आह- किञ्चेति । ऋषीणाम् उरगाणां च किञ्चित् वैषम्यात् पृथक्त्वम् । दिव्यान् इति उभयेषां विशेषणम्
॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 कथं भगवन्तं प्रति अर्जुनो भाषितवान् इति पृच्छति- कथमिति । तत्प्रश्नम् अपेक्षितं पूरयन् अवतारयति- यत् त्वयेति । यत्र भगवद्देहे सर्वम् इदं दृष्टम् , तमेव विशिनष्टि- अनेकेति । आदिशब्देन मूलम् उच्यते । नान्तं न मध्यम् इत्यत्रापि पश्यामि इत्यस्य प्रत्येकं सम्बन्धं सूचयति- नान्तं पश्यामि इति
॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 परिच्छिन्नत्वं व्यावर्तयति- सर्वत इति । दुर्निरीक्ष्यं पश्यामि - इति अधिकारिभेदान् अविरुद्धम् । पुरतो वा पृष्ठतो वा पार्श्वतो वा न अस्य दर्शनम् , किन्तु सर्वत्र, इत्याह- समन्तत इति । दीप्तिमत्वं दृष्टान्तेन स्पष्टयति- दीप्तेति
॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 विश्वरूपवन्तं भगवन्तम् एव प्रकारान्तरेण प्रपञ्चयति- किञ्चेति । कुतो ब्रह्मणो ज्ञातव्यत्वम् तत्र आह- त्वमस्य इति । निष्प्रपञ्चस्य ब्रह्मणो ज्ञेयत्वे हेत्वन्तरम् आह- किञ्चेति । अविनाशित्वात् , तवैव ज्ञातव्यत्वात् अतिरिक्तस्य नाशित्वेन हेयत्वात् , इत्यर्थः । ज्ञानकर्मात्मनो धर्मस्य नित्यत्वम् - वेदप्रमाणकत्वम् । ‘धर्मसंस्थापनार्थाय सम्भवामि’ (भ. गी. ४-८) इत्युक्तत्वात् गोप्ता - रक्षिता
॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 सप्रपञ्चे भगवद्रूपे प्रकृते, प्रकरणविरुद्धं त्वम् अक्षरम् इत्यादि निरुपाधिकवचनम् , इत्याशङ्क्य, आह- इत एवेति । योगशक्तिः - ऐश्वर्यातिशयः । न क्षरति इति निष्प्रपञ्चत्वम् उच्यते । परमपुरुषार्थत्वात् परमार्थत्वाच्च ज्ञातव्यत्वम् । यस्मिन् द्यौः पृथिवी इत्यादौ प्रपञ्चायतनस्यैव ततो निकृष्टस्य ज्ञातव्यत्वश्रवणात् । भगवतो विश्वरूपाख्यं रूपमेव पुनर्विवृणोति- किञ्चेति । हुतम् अश्नाति इति हुताशः - वह्निः
॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकृतभगवद्रूपस्य व्याप्तिं व्यनक्ति- द्यावापृथिव्योरिति । तस्यैव भयङ्करत्वम् आचष्टे - दृष्ट्वेति
॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 असुरसङ्घाः इति पदञ्छित्वा भूभारभूता दुर्योधनादयः त्वां विशन्ति इत्यपि वक्तव्यम् । उभयोरपि सेनयोः अवस्थितेषु योद्धुकामेषु अवान्तरविशेषम् आह- तत्रेति । समरभूमौ समागतानां द्रष्टुकामानां नारदप्रभृतीनां विश्वविनाशम् आशङ्कमानानां तं परिजिहीर्षतां स्तुतिपदेषु भगवद्विषयेषु प्रवृत्तिप्रकारं दर्शयति- युद्धे इति
॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 अमी हीत्यादिसमनन्तरग्रन्थस्य तात्पर्यम् आह- अथेति । तं भगवन्तं पाण्डवजयम् ऐकान्तिकं दर्शयन्तं पश्यन् अर्जुनो ब्रवीति, इत्याह- तं पश्यन् इति । विश्वरूपस्यैव प्रपञ्चनार्थम् अनन्तरग्रन्थजातम् , इति दर्शयति- किञ्चेति । दृश्यमानस्य भगवद्रूपस्य विस्मयकरत्वे हेत्वन्तरम् आह- किञ्चेति । ते एव - उक्ताः रुद्रादयः सर्वे विस्मयम् आपन्नाः त्वां पश्यन्ति - इति सम्बन्धः
॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 भयेन लौकिकवत् अहमपि व्यथितः - व्यथाम् पीडाम् देहेन्द्रियप्रचलनम् प्राप्तोऽस्मि, इत्याह- तथेति
॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 लोकत्रयं प्रव्यथितम् , इत्युक्तम् उपसंहरति- यस्मादिति । ईदृशं यस्मात् ते रूपम् , तस्मात् तं दृष्ट्वा - इति योजना । अर्जुनस्य विश्वरूपदर्शनेेन व्यथितत्वे हेतुम् आह - तत्रेति
॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 दृश्यमानेऽपि भगवद्देहे, परितोषाद्यभावे कारणान्तरं प्रश्नपूर्वकम् आह- कस्मादिति । दृष्ट्वैव - इति एवकारेण प्राप्तिः व्यावर्त्यतेदृष्ट्वैव इति एवकारेण प्राप्तिः व्यावर्त्यते
॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 न केवलं दुर्योदनादीनामेव पराजयः, किं तु भीष्मादीनामपि, इत्याह- किं चेति
॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 अस्माकं जयं परेषां पराजयं च (दिदृक्षन्तं) दिदृक्षुं त्वां पश्यामि इत्याह- येभ्य इति । तत्र हेतुत्वेन श्लोकम् अवतारयति- यत इति । भगवद्रूपस्य उग्रत्वे हेत्वन्तरम् आह- किञ्चेति । प्रविष्टानां मध्ये केचित् - इति सम्बन्धः
॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 उभयोरपि सेनयोः अवस्थितानां राज्ञां भगवन्मुखप्रवेशं निदर्शनेन विशदयति- कथमित्यादिना
॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 प्रवेशप्रयोजनम् , तत्प्रकारविशेषञ्च उदाहरणान्तरेण स्फोटयति- ते किमर्थम् इत्यादिना
॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 भगवत्प्रवृत्तिमेव प्रत्याय्य, तदीयभासां प्रवृत्तिं प्रकटयति- किञ्चेति
॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 योद्धुकामानां राज्ञां भगवन्मुखप्रवेशप्रकारं प्रदर्श्य तस्यां दशायां भगवतः, तद्भासां च प्रवृत्तिप्रकारं प्रत्याययति- त्वं पुनरिति । उपदेशं शुश्रूषमाणेन उपदेशकर्तुः प्रह्वीभवनं कर्तव्यम् , इति सूचयति- नमोऽस्त्विति । क्रौर्यत्यागम् अर्थयते - प्रसादमिति । त्वमेव मां जानीषे, किमर्थम् इत्थम् इदानीम् अर्थयसे मदीयां चेष्टां दृष्ट्वा तथैव प्रतिपद्यस्व, इत्याशङ्क्य आह- न हीति
॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 भगवद्रूपस्य अर्जुनेन दृष्टपूर्वत्वात् तस्य तस्मिन् न जिज्ञासा, इत्याशङ्क्य, आह- यत इति । स्वयं यदर्था च स्वप्रवृत्तिः, तत्सर्वं भगवान् उक्तवान् , इत्याह- श्री भगवानिति । कालः - क्रियाशक्त्युपहितः परमेश्वरः, अस्मिन् इति वर्तमानयुद्धोपलक्षितत्वं कालस्य विवक्षितम् - लोकसंहारार्थं त्वत्प्रवृत्तावपि न असौ अर्थवती, प्रतिपक्षाणां भीष्मादीनां मत्प्रवृत्तिं विना संहर्तुम् अशक्यत्वात् , इत्याशङ्क्य, आह- ऋतेऽपीति
॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】 यशोलाभम् अभिनयति- भीष्मेति । किं तेन अपुमर्थेन इति आशङ्क्य आह- पुण्यैरिति । राज्यभोेगे अपेक्षिते, किम् अनपेक्षितेन इत्याशङ्क्य आह- जित्वेति । भीष्मादिषु अतिरथेषु सत्सु, कुतो जयाशङ्का इति आशङ्क्य आह- मयैवैते इति । तर्हि मृतमारणार्थं न मे प्रवृत्तिः, तत्र आह- निमित्तेति । सव्यसाचीपदं विभजते- वामेनेति
॥ ३३ ॥ 【भाष्यम्】 【भाष्यम्】 तव अौदासीन्येऽपि प्रतिकूलानीकस्थाः मत्प्रातिकूल्यादेव न भविष्यन्ति, इत्येवं यस्मान् निश्चितम् , तस्मात् त्वदौदासीन्यम् अकिञ्चित्करम् , इत्याह- यस्मादिति । उत्तिष्ठ - युद्धाय उन्मुखी भव, इत्यर्थः । ‘मया एव’ इत्यादिना उक्तम् प्रपञ्चयति- द्रोणं चेति । किमिति कतिचिदेव अत्र द्रोणादयो गण्यन्ते तत्र आह- येष्विति । द्रोणादिषु कुतः शङ्का इत्याशङ्क्य, द्वयोः शङ्कानिमित्तम् आह- तत्रेत्यादिना । जयद्रथेऽपि शङ्कानिमित्तम् आह- तथेति । दिव्यास्त्रसम्पन्नः इति सम्बन्धः । तत्र शङ्कायां कारणान्तरम् आह- यस्येति । कर्णेऽपि तत्कारणत्वं कथयति- कर्णेऽपीति । पूर्ववदेव सम्बन्धः । हेत्वन्तरम् आह- वासवेति । सा खलु अमोघा पुरुषम् एकम् अत्यन्तसमर्थं घातयित्वैव निवर्तते । जन्मनापि तस्य शङ्कनीयत्वम् आह- सूर्येति । कुन्ती हि कन्यावस्थायां मन्त्रप्रभावं ज्ञातुम् आदित्यम् आजुहाव । ततः तस्यामेव अवस्थायाम् अयम् उद् - बभूव, तदाह- कानीन इति । एतदेव अभिप्रेत्य कर्णग्रहणम् इत्याह- यत इति । उक्तेषु अन्युेषु च न त्वया शङ्कितव्यम् , इत्याह- मयेति
॥ ३४ ॥ 【भाष्यम्】 【भाष्यम्】 पराजयभयात् करिष्यति सन्धिम् , इति बुद्ध्या सञ्जयो राज्ञे वृत्तान्तम् उक्तवान् , इत्याह- सञ्जय इति । पूर्वोक्तवचनम् - कालोऽस्मि, इत्यादि । विश्वरूपदर्शनदशायाम् अर्जुनस्य भगवता संवादवचनं किमिति सञ्जयो राज्ञे व्यजिज्ञपत् इति आशङ्क्य, तदुक्तेः तात्पर्यम् आह- अत्रेति । तमेव अभिप्रायं प्रश्नद्वारा विशदयति- कथम् इत्यादिना । तर्हि सञ्जयवचनं श्रुत्वा, किमिति राजा सन्धिं न कारयामास इति आह- तदपीति
॥ ३५ ॥ 【भाष्यम्】 【भाष्यम्】 किं तत् अर्जुनो भगवन्तं प्रति सगद्गदं वचनम् उक्तवान् इति, तदाह- अर्जुन इति । विषयविशेषणत्वम् एव व्यनक्ति- युक्त इति । भगवतो हर्षादिविषयत्वं युक्तम् इत्यत्र हेतुम् आह- यत इति । तव प्रकीर्त्या हर्षवत् अनुरागं च गच्छति जगत् , इत्याह- तथेति । तच्चेति अनुरागगमनम् । रक्षःसु जगदेकदेशभूतेषु प्रतिपक्षेषु, कुतो जगतो भवति हर्षानुरागौ, इत्याशङ्क्य, आह- किं चेति । इतश्च जगतो भगवति हर्षादि युक्तम् , इत्याह- सर्व इति
॥ ३६ ॥ 【भाष्यम्】 【भाष्यम्】 महात्मत्वम् - अक्षुद्रचेतस्त्वम् । गुरुतरत्वात् नमस्कारादियोग्यत्वम् आह- गुरुतरायेति । तत्रैव हेत्वन्तरम् आह- यत इति । महात्मत्वादिहेतूनांं मुक्तानां फलम् आह- अत इति । तत्रैव हेत्वन्तराणि सूचयति- हे अनन्तेति । अनवच्छिन्नत्वं, सर्वदेवनियन्तृत्वं, सर्वजगदाश्रयत्वं च तव नमस्कारादियोग्यत्वे कारणम् , इत्यर्थः । तत्रैव हेत्वन्तरम् आह- त्वमिति । तत्र मानम् आह- यदिति । कथम् एकस्यैव सदसद्रूपत्वम् तत्र आह- ते इति । कथं सतोऽसतश्च अक्षरं प्रति उपाधित्वम् तदाह- यद्द्वारेणेति । तत्परं यदित्येतत् व्याचष्टे- परमार्थतस्त्विति । अनन्तत्वादिना भगवतो नमस्कारादियोग्यत्वम् उक्तम्
॥ ३७ ॥ 【भाष्यम्】 【भाष्यम्】 उक्ते अर्थे हेत्वर्थत्वेन उत्तरश्लोकम् अवतारयति- भगवत इति । जगतः स्रष्टा पुरुषो हिरण्यगर्भः, इति पक्षं प्रत्याह- पुराण इति । स्रष्टृत्वं निमित्तमेव, इति तटस्थेश्वरवादिनः । तान्प्रति उक्तम्- त्वमेवेति । महाप्रलयादौ इति आदिपदम् अवान्तरप्रलयार्थम् । ईश्वरस्य उभयथा कारणत्वं सर्वज्ञत्वेन साधयति- किञ्चेति । वेद्यवेदितृभावेन अद्वैतानुपपत्तिम् आशङ्क्य आह- यच्चेति । मुक्त्यालम्बनस्य ब्रह्मणोऽर्थान्तरत्वम् आशङ्कित्वा उक्तम्- परं चेति । यत् परमं पदं, तदपि च त्वमेव, इति सम्बन्धः । तस्य पूर्णत्वम् आह- त्वयेति । व्याप्यव्यापकत्वेन भेदं शङ्कित्वा, कल्पितत्वात् तस्य मैवम् , इत्याह- अनन्तेति
॥ ३८ ॥ 【भाष्यम्】 【भाष्यम्】 सम्प्रति जगत्स्रष्टृत्वादिनापि तद्योग्यत्वम् अस्ति, इति स्तुतिद्वारा दर्शयति- पुनरपीति । पितामहः - ब्रह्मा, तस्य पिता सूत्रात्मा अन्तर्यामी च, इत्याह- ब्रह्मणोऽपीति । सर्वदेवताः त्वमेव इत्युक्ते फलितम् आह- नम इति । सहस्रकृत्वः इति कृत्वसुचो विवक्षितम् अर्थम् आह- बहुश इति । पुनरुक्तितात्पर्यम् आह- पुनश्चेति । श्रद्धाभक्त्योः अतिशयात् कृतेऽपि नमस्कारे परितोषाभावो बुद्धेः - आत्मनो अलंप्रत्ययराहित्यं, तद्दर्शनार्थं पुनरुक्तिः इत्यर्थः
॥ ३९ ॥ 【भाष्यम्】 【भाष्यम्】 तस्य सर्वात्मत्वे हेत्वन्तरम् आह- किं चेति । कश्यपादिः इति आदिशब्देन विरड्दक्षादयो गृह्यन्ते । यस्यां दिशि सविता उदेति, सा पूर्वा दिक् उच्यते । तस्यां व्यवस्थितम् सर्वं त्वमेव । तस्मै ते - तुभ्यं नमो अस्तु, इत्याह- नम इति । अथशब्दः समुच्चये । पश्चादपि स्थितं सर्वं त्वमेव । तस्मै ते - तुभ्यं नमो अस्तु इत्याह- अथेति । किं बहुना यावन्त्यो दिशः, तत्र सर्वत्र यत् वर्तते तत् अशेषं त्वमेव । तस्मै तुभ्यं प्रह्वीभावः स्यात् इति आह- नमोऽस्त्विति । फलितं सर्वात्मत्वं सूचयति- हे सर्वेति । वीर्यविक्रमयोः न पौनरुक्त्यम् , इत्याह- वीर्यमित्यादिना । वीर्यवतो विक्रमाव्यभिचारात् अर्थपौनरुक्त्यम् आशङ्क्य, आह- वीर्यवानिति । भगवति लोकतो विशेषम् आह- त्वं त्विति । उक्तं सर्वात्मत्वं प्रपञ्चयति- सर्वमिति । सप्रपञ्चत्वं वारयति- त्वयेति
॥ ४० ॥ 【भाष्यम्】 【भाष्यम्】 विधान्तरेण भगवन्तं स्तुत्या नमस्कुर्वन् अभिमुखीकरोति- तथेति । इदंशब्दार्थम् आह- विश्वरूपमिति । न हि इदमित्यस्य महिमानमित्यस्य च सामानाधिकरण्यम् , लिङ्गव्यत्ययात् , इत्याह- तवेति । पाठान्तरसम्भावनायां सामानाधिकरण्योपपत्तिम् आह- तवेत्यादिना । ‘यदुक्तवान् अस्मि, तद् अहं क्षामये त्वाम् ‘ इति सम्बन्धः
॥ ४१ ॥ 【भाष्यम्】 【भाष्यम्】 अज्ञाननिमित्तम् अपराधं क्षमापयति- यत इति । यत् अयुक्तम् उक्तम् , तत् क्षन्तव्यम् इत्येव न, किन्तु यत् परिहासार्थं क्रीडादिषु त्वयि तिरस्करणं कृतम् , तदपि सोढव्यम् , इत्याह- यच्चेति । विहरणम् - क्रीडा, व्यायामोवा । शयनम् - तल्पादिकम् । आसनम् - आस्थायिका, सिंहासनादेः उपलक्षणम् । एतेषु विषयभूतेषु, इति यावत् । एकशब्दो रहसि स्थितम् एकाकिनं कथयति, इत्याह- परोक्षः सन् इति । प्रत्यक्षम् , परोक्षं वा तदसत्करणं - परिभवनं यथा स्यात् तथा, यत् मया त्वम् असत्कृतोऽसि, तत् सर्वमिति योजनम् अङ्गीकृत्य, आह- तच्छब्द इति । क्षमा कारयितव्या, इत्यत्र अपरिमितत्वं हेतुम् आह- अप्रमेयमिति
॥ ४२ ॥ 【भाष्यम्】 【भाष्यम्】 गुणाधिक्यात् पूजार्हत्वम् । धर्मात्मज्ञानसम्प्रदायप्रवर्तकत्वेन शिक्षयितृत्वात् गुरुत्वम् । गुरूणामपि - सूत्रादीनां गुरुत्वात् गरीयस्त्वम् । तदेव प्रश्नद्वारा साधयति- कस्मादिति । ईश्वरान्तरं तुल्यं भविष्यति इत्याशङ्क्य, आह- न हीति । ईश्वरभेदे प्रत्येकं स्वातन्त्र्यात् तदैकमत्ये हेत्वभावात् , नानामतित्वे च एकस्य सिसृक्षायाम् अन्यस्य सञ्जिहीर्षासम्भवात् व्यवहारलोपात् अयुक्तम् ईश्वरनानात्वम् इत्यर्थः । अभ्यधिकासत्वं कैमुतिकन्यायेन दर्शयति- त्वत्सम इति । तत्र हेतुम् अवतार्य, व्याकरोति- अप्रतिमेत्यादिना
॥ ४३ ॥ 【भाष्यम्】 【भाष्यम्】 वाचनिकं मदीयम् अपराधजातं त्वया क्षन्तव्यम् इत्युक्तम् ; इदानीं मदीयो योऽपराधो न त्वया गृहीतव्यः, गृहीतोऽपि सोढव्यः, इत्याह- यत इति । प्रसादनानन्तरं भगवता कर्तव्यं प्रार्थयते- त्वं पुनरिति । प्रिय इव प्रियायाः, इति इवकारोऽनुषज्यते । ‘ प्रियायार्हसि’ इति छान्दसः सन्धिः । क्षन्तुं मदपराधजातम् , इति शेषः
॥ ४४ ॥ 【भाष्यम्】 【भाष्यम्】 निरतिशयप्रभावं हेतूकृत्य अप्रतिमेत्यादिना, प्रसादये प्रणामपूर्वकं त्वाम् , इत्याह - यत इति । हेतूक्तिपूर्वकं विश्वरूपोपसंहारं प्रार्थयते- अदृष्टेति । हृषितः - हृष्टः, तुष्टः - इति यावत् । भयेन - तद्देतुविकृतदर्शनेन, इत्यर्थः ।
॥ ४५ ॥ 【भाष्यम्】 【भाष्यम्】 तदेव दर्शय इत्युक्तम् । किं तत् इत्यापेक्षायाम् आह- किरीटिनमिति । चक्रं हस्ते यस्य, तम् - इति व्युत्पत्तिं गृहीत्वा, आह- चक्रेति । मदीयेच्छा फलपर्यन्ता कर्तव्या, इ्त्याह- यत इति । चतुर्भुजत्वे कथं सहस्रबाहुत्वम् तत्र आह- वार्तमानिकेनेति । सति विश्वरूपे, कथं पूर्वरूपभाक्त्वम् तत्र आह- उपसंहृत्येति
॥ ४६ ॥ 【भाष्यम्】 【भाष्यम्】 भगवत्प्रसादैकोपायलभ्यं तद्दर्शनम् , इत्याशयेन आह- मयेति
॥ ४७ ॥ 【भाष्यम्】 【भाष्यम्】 अर्जुनेन ‘स्थाने हृषीकेश’ (भ. गी. ११-३६) इत्यादिना उक्तस्य भगवतो वचनम् अवतारयति- अर्जुनमिति । तच्छब्देन प्रकृतं दर्शनं परामृश्यते । वेदाध्ययनात् पृथक् यज्ञाध्ययनग्रहणं पुनरुक्तेः अयुक्तम् , इत्याशङ्क्य, आह- न वेदेति । न च - वेदाध्ययनग्रहणादेव यज्ञविज्ञानमपि गृहीतम् , अध्ययनस्य अर्थावबोधान्तत्वात् - इति वाच्यम् ; तस्य अक्षरग्रहणान्ततया वृद्धैः साधितत्वात् , इति भावः । श्लोकपूरणार्थम् असंहितकरणम् । त्वत्तोऽन्येन, मदनुग्रहविहीनेन इति शेषः
॥ ४८ ॥ 【भाष्यम्】 【भाष्यम्】 विश्वरूपदर्शनम् एवं स्तुत्वा, यदि अस्मात् दृश्यमानात् बिभेषि, तर्हि तदुपसंहरामि, इत्याह- मा ते व्यथेति । बहुविधम् अनुभूतत्वम् अभिप्रेत्य ईदृक् , इत्युक्तम् इदमिति प्रत्यक्षयोग्यत्वम् । तदेव इत्युक्तम् इदमिति
॥ ४९ ॥ 【भाष्यम्】 【भाष्यम्】 तदिदं वृत्तं राज्ञे सूतो निवेदितवान् , इत्याह- सञ्जय इति । तथाभूतं वचनं - “ मया प्रसन्नेन “ इत्यादि । चतुर्भुजं रूपम् । किं, तस्य रूपस्य परिचितपूर्वस्य प्रदर्शनेन प्रसन्नदेहत्वेन च अर्जुनं प्रति आश्वासनं भगवतो युक्तम् इत्यत्र हेतुम् आह- महात्मेति ।
॥ ५० ॥ 【भाष्यम्】 【भाष्यम्】 एवं भगवदाश्वासितः सन् अर्जुनः तं प्रति उक्तवान् , इत्याह- अर्जुन इति
॥ ५१ ॥ 【भाष्यम्】 【भाष्यम्】 उपास्यत्वाय विश्वरूपं स्तोतुं भगवदुक्तिम् उत्थापयति- भगवानिति । त्वद् - व्यतिरिक्तानाम् इदं रूपं द्रष्टुम् अशक्यम् इत्येतत् विशदयति- देवादयः इति
॥ ५२ ॥ 【भाष्यम्】 【भाष्यम्】 वेदादिषु उपायेषु सत्स्वपि भगवान् उक्तरूपो न शक्यो द्रष्टुम् इत्याह- नाहमिति । तर्हि दर्शनायोग्यत्वात् द्रष्टुम् अशक्यत्वम् इत्याशङ्क्य आह- दृष्टवान् इति
॥ ५३ ॥ 【भाष्यम्】 【भाष्यम्】 दर्शनोपायाभावात् दुर्दर्शत्वम् इति शङ्क्यते- कस्मादिति । न भक्तिमात्रं तत्र हेतुः, इति तुशब्दार्थं स्फुटयति- किमित्यादिना । अनन्यां भक्तिमेव व्यनक्ति- सर्वैरिति
॥ ५४ ॥ 【भाष्यम्】 【भाष्यम्】 केन उपायेन तर्हि द्रष्टुं शक्यो भगवान् इति पृच्छति- कथमिति । शास्त्रीयज्ञानद्वारा तद्दर्शनं सफलं सिध्यति, इत्याह- उच्यत इति । मत्कर्मकृदित्युक्ते, मत्परमत्वम् आर्थिकमिति पुनरुक्तिः, इत्याशङ्क्य आह- करोतीति । भगवानेव परमा गतिः इति निश्चयवतः तत्रैव निष्ठा सिध्यति, इत्याह- तथेति । न तत्रैव सर्वप्रकारैः भजनम् , धनादिस्नेहाकृष्टत्वात् , इत्याशङ्क्य आह- सङ्गेति । द्वेषपूर्वकानिष्टाचरणं वैरम् , अनपकारिषु तदभावेऽपि भवत्येव अपकारिषु इति शङ्कित्वा आह- आत्मन इति । एतच्च सर्वं सङ्क्षिप्य अनुष्ठानार्थम् उक्तम् । एवम् अनुतिष्ठतो भगवत्प्राप्तिः अवश्यं भाविनी, इत्युपसंहरति- अयमिति । तदेवं भगवतो विश्वरूपस्य सर्वात्मनः सर्वज्ञस्य सर्वेश्वरस्य मत्कर्मकृदित्यादिन्यायेन क्रममुक्तिफलम् अभिध्यानम् अभिवदता तत्पदवाच्योऽर्थो व्यवस्थापितः
॥ ५५ ॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने एकादशोऽध्यायः ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 भक्त्या तु इति विशेषणात् अन्येषाम् अहेतुत्वम् आशङ्क्य आह- अधुनेति । समुच्चित्य - सङ्क्षिप्य, पुञ्जीकृत्य इति यावत् । एवं शब्दार्थम् उक्त्वा तम् अनूद्य सततयुक्ताः इति भागं विभजते- एवमिति । ये भक्ताः इति अनूद्य व्याचष्टे- अनन्येति । मन्दमध्यमाधिकारिणः सगुणशरणान् उक्त्वा निर्गुणनिष्ठान् उत्तमाधिकारिणो निर्दिशति - ये चेति । यथा विशेषितम् - अनिर्देश्यम् सर्वत्रगम् अचिन्त्यम् कूटस्थम् इत्यादिवक्ष्यमाणविशेषणविशिष्टम् , इत्यर्थः । न क्षरति, अश्नुते वा, इति अक्षरम् अव्यक्तम् इत्येतत् व्याचष्टे - निरस्तेति । करणागोचरत्वं व्यतिरेकद्वारा स्फोरयति - यद्धीति । यथाविशेषितम् इत्युक्तं स्पष्टयति - शिष्टैश्चेति । पूर्वार्धगतक्रियापदस्य अनुषङ्गम् सूचयति - तदिति । सर्वे तावत् एते योगम् - समाधिम् विन्दन्ति, इति योगविदः । के पुनः अतिशयेन एषां मध्ये योगविदो योगिनः इति पृच्छति - के अतिशयेनेति
॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 अशोच्यान् इत्यादिषु विभूत्यध्यायावसानेषु अध्यायेषु निरुपाधिकस्य ब्रह्मणो ज्ञेयत्वेन अनुसन्धानम् उक्तम् इति, वृत्तं कीर्तयति - द्वितीयेति । अतिक्रान्तेषु तत्तदध्यायेषु सोपाधिकस्यापि ब्रह्मणो ध्येयत्वेन प्रतिपादनम् कृतम् इत्याह - सर्वेति । सर्वस्यापि प्रपञ्चस्य योगः - घटना जन्मस्थितिभङ्गप्रवेशनियमनाख्या, तत्र ऐश्वर्यम् - सामर्थ्यम् , तेन सर्वत्र ज्ञेये प्रतिबन्धविधुरया ज्ञानशक्त्या विशिष्टस्य सत्वाद्युपहितस्य भगवतो ध्यानम् तत्र तत्र पसङ्गमापाद्य, मन्दमध्यमयोः अनुग्रहार्थम् उक्तम् , इत्यर्थः । एकादशे वृत्तम् अनुवदति - विश्वरूपेति । अध्यायान्ते भगवदुपदेशम् अनुवदति - तच्चेति । अतीतानन्तरश्लोकेन उक्तम् अर्थं परामृशति - मत्कर्मकृदिति । यथाधिकारं तारतम्योपेतानि साधनानि नियन्तुम् अध्यायान्तरम् अवतारयन् आदौ प्रश्नम् उत्थापयति - अत इति । सोपाधिकध्यानस्य निरुपाधिकज्ञानस्य च उक्तत्वात् इत्यर्थः । विमुक्ता - त्यक्ता रागाद्याख्या क्लेशनिमित्तभूता तिमिरशब्दितानाद्यज्ञानकृता दृष्टिः अविद्या मिथ्याधीः यस्य, तम् , इति विशिनष्टि - विमुक्तेति । नित्ययुक्तत्वं माधयति - अतीतेति । तत्र उक्तो योऽर्थः ‘मत्कर्मकृदि’ त्यादि, तस्मिन् निश्चयेन अयनम् - आयः, गमनम् , तस्य नियमेन अनुष्ठानम् , तेन, इत्यर्थः । उपासते - मयि स्मृतिं सदा कुर्वन्ति इत्यर्थः । उक्तोपासकानां युक्ततमत्वं व्यनक्ति - नैरन्तर्येणेति । तदेव स्फुटयति - अहोरात्रमिति । अह्नि च - रात्रौ च अतिमात्रम् - अतिशयेन मामेव विषयान्तरविमुक्ताः चिन्तयन्ति, इत्यर्थः
॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 किम् अनयोः योगयोर्मध्ये सुशक्यो योगो वा पृच्छ्यते किं वा साक्षात् मोक्षहेतुः इति विकल्प्य क्रमेण उत्तरं भगवान् उक्तवान् इत्याह - श्रीभगवानिति । यदि द्वितीयाः, तथाविधयोगस्य वक्ष्यमाणत्वात् न प्रष्टव्यता, इत्याह- ये त्वक्षरेति । यदि आद्यः, तत्र आह - ये त्विति । सर्वयोगेश्वराणां - सर्वेपां योगम् अधितिष्ठतां योगिनाम् , इत्यर्थः । अव्यक्तत्वम् अनिर्देश्यत्वे हेतुः, इत्याह - अव्यक्तत्वादिति । यतोऽव्यक्तम् , अतः अनिर्देश्यम् , इति योजना । निरुपाधिकेऽक्षरे कथम् उपासना इति पृच्छति - उपासनमिति । शास्रतोऽक्षरं ज्ञात्वा, तदुपेत्य, आत्मत्वेन उपगम्य, आसते तथैव तिष्ठन्ति - पूर्णचिदेकतानम् अक्षरम् आत्मनामेव सदा भावयन्ति, इत्येतत् इह विवक्षितम् , इत्याह - यथेति । अव्यक्तत्वम् एव अचिन्त्यत्वेऽपि हेतुः, इत्याह - यद्धि इति । कूटस्थशब्दस्य उक्तार्थत्वं वृद्धप्रयोगतः साधयति - कूटरूपमिति । आदिपदम् अनृतार्थम् । प्रकृते किं तद् अनृतं कूटशब्दितम् , इत्याशङ्क्य, आह - तथा चेति । उक्तरीत्या कूटशब्दस्य अनृतार्थत्वे सिद्धे, यदू अनेकस्य संसारस्य बीजं निरूप्यमाणं नानाविधदोषोपेतम् , ‘तद्धेदं तर्ह्यव्याकृतम्', (बृ. उ. १-४-७) ‘मायां तु प्रकृतिम्’ (श्वे.उ. ४ - १०) ‘मम माया’ (भ. गी. ७-१४) , इत्यादौ मायाशब्दिततया प्रसिद्धम् अविद्यादि, तदिह कूटशब्दितम् इत्यर्थः । तत्र अवस्थानं केन रूपेण इत्याशङ्कायाम् आह - तदध्यक्षतया इति । कूटस्थशब्दस्य निष्क्रियत्वम् अर्थान्तरम् आह - अथवेति । पूर्वम् उपजीव्य अनन्तरविषेषणद्वयप्रवृत्तिम् आह- अत एवेति
॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 वक्ष्यामः तदुपरिष्टात् - इत्युक्तं प्रश्नपूर्वकं प्रकटयति - किमित्यादिना । पूर्वेभ्यः फलतो विशेषार्थः तुशब्दः । कथम् अक्षरम् उपासते तदुपासने वा किं स्यात् इति तदाह - सन्नियम्येति । तुल्या हर्षविषादरागद्धेषादिरहिता सम्यग्ज्ञानेन अज्ञानस्य अपनीतत्वात् । क्रमपरम्परापेक्षयोः असम्भवं विवक्षित्वा, आह - ते य इति । सर्वेभ्यो भूतेभ्यो हिते रताः - सर्वेभ्यो भूतेभ्यो हितमेव चिन्तयन्तः, तदेव आचरन्ति । ज्ञानवतां यथाज्ञानं भगवत्प्राप्तेः अर्थसिद्धत्वात् अनुवादमात्रम् , इत्याह - न त्विति । ज्ञानिनो भगवत्प्राप्तिः सिद्धा एव, इत्यत्र प्रमाणम् आह - ज्ञानी त्विति । ज्ञानवतां भगवत्प्राप्तौ त एव युक्ततमाः वक्तव्याः, कथं सगुणब्रह्मोपासकान् युक्ततमान् उक्तवान् असि इति आशङ्क्य, आह - न हीति
॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 अक्षरोपासनस्य दुष्करत्वात् , उपासनान्तरस्य सुकरत्वात् , इत्यभिप्रेत्य आह - क्लेश इति । अधिक एव इतरेभ्यो द्वैतदर्शिभ्यः कामिभ्यः, इति शेषः । तेषां क्लेशस्य अधिकतरत्वे हेतुम् मत्वा, विशिनष्टि - देहेति । अव्यक्तम् - अत्यन्तसूक्ष्मम् , निर्विशेषम् अक्षरम् , तस्मिन् आसक्तम् - अभिनिविष्टं चेतो येषां, तेषाम् - इति यावत् । अक्षरोपासकानां क्लेशस्य अधिकतरत्वे भगवानेव हेतुम् आह - अव्यक्तेति । दुःखम् - दुःखेन, कृच्छ्रेण इति यावत् । अतः देहाभिमानत्यागात् , इत्यर्थः । ते कथं वर्तन्ते तत्र आह - अक्षरेति
॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 सगुणोपासकेष्वपि कथम् इत्याह - किं त्विति । यदि अक्षरोपासकाः माम् एव आप्नुवन्ति इति विशिष्यन्ते, तत् किं सगुणोपासकाः त्वां न आप्नुवन्ति न, तेषामपि क्रमेण मत्प्राप्तेः इत्याह - ये त्विति । तुशब्द शङ्कानिवृत्त्यर्थः
॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 तेषां भगवद्ध्यायिनां किं फलति इति शङ्काम् अनुभाष्य, फलम् आह - तेषां इत्यादिना । समुद्धर्ता - सम्यक् ऊर्ध्वं नेता, ज्ञानावष्टम्भदानेन इत्यर्थः । मृत्युः - अज्ञानम् मरणाद्यनर्थहेतुत्वात् । तेन कार्यतया युक्तः संसारः
॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 मनोबुद्ध्योः भगवति अवस्थापने प्रश्नपूर्वकं फलम् आह- तत इति । भगवन्निष्ठस्य तत्प्राप्तौ प्रतिबन्धाभावं सूचयति- संशयोऽत्रेति
॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 भगवदुपासना विशिष्टफला इत्येवं यतः सिद्धम् , अतो भगवन्निष्ठायां प्रयतितव्यम् , इत्याह- यत इति । असंहिताकरणं श्लोकपूरणार्थम् । मतप्रदर्शनपूर्वकं भगवत्प्राप्तौ उपायान्तरम् आह - अथेत्यादिना । एकम् आलम्बनं - स्थूलं प्रतिमादि । समाधानं ततः अभ्यन्तरे विश्वरूपे चित्तैकाग्र्यम्
॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 द्वैताभिनिवेशात् अभ्यासाधीने योगेऽपि सामर्थ्याभावे पुनः, उपायान्तरम् आह - अभ्यासेऽपीति । अभ्यासयोगेन विना, भगवदर्थं कर्माणि कुर्वाणस्य किं स्यात् इति आशङ्क्य आह - अभ्यासेनेति । सिद्धिः - ब्रह्मभावः । अपिः उक्तव्यवधिसूचनार्थः
॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 भगवत्कर्मपरत्वम् अपि अशक्यम् , इति शङ्कते - अथेति । बहिर्विषयाकृष्टचेतस्त्वात् , इत्यर्थः । तर्हि भगवत्प्राप्त्युपायत्वेन, संयतचित्तो, भूत्वा कर्मफलसंन्यासं कुरु, इत्याह- मद्योगमिति
॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 त्यागस्य विशिष्टत्वे हेतुम् आह - एवमिति । प्रीणातु भगवान् , इति तस्मिन् कर्मसंन्यासपूर्वकम् , इत्यर्थः । पूर्वविशेषणवतः - नियतचित्तस्य पुंसः यथोक्तत्यागात् , इत्यर्थः । ‘अनन्तरमेव’ इत्युक्तं व्यनक्ति - न त्विति । ननु, कर्मफलत्यागस्य सद्यः शान्तिकरत्वे, सम्यग्धीरेव तथा इति श्रुतिस्मृतिप्रसिद्धिः विरुध्येत, तत्र आह - अज्ञस्येति दीर्घेण कालेन आदरनैरन्तर्यानुष्ठितात् ध्यानात् वस्तुसाक्षात्कारद्वारा संसारदुःखोपशान्तेः तथाविधात् ध्यानात् त्यागस्य विशिष्टत्वोक्तेः तदीयस्तुतिः अत्र इष्टा, इत्याह - अतश्चेति । तत्र हेतुम् आह - सम्पन्नेति । सम्पन्नानि प्राप्तानि साधनानि अक्षरोपासनादीनि । तेषां मध्ये पूर्वपूर्वस्य अनुष्ठानाशक्तौ उत्तरोत्तरस्य अनुष्ठेयत्वेन उपदेशातु, त्यागे च उपदेशपर्यवसानात् , इत्यर्थः । त्यागे विशिष्टत्ववचनस्य केन साधर्म्येण तं प्रति स्तुतित्वम् इति पृच्छति - केनेति । उत्तरम् आह - यदेति । अमृतत्वम् उक्तम् ‘अथ मर्त्योऽमृतो भवति’ (बृ.उ. ४ - ४ - ७), (क. उ. ६ - १४, १५) इति शेषात् , इति शेषः । कामप्रहाणस्य अमृतत्वार्थत्वम् ‘अथाकामयमानः’ (बृ.उ. ४-४-६) इत्यादावपि सिद्धम् , इत्याह - तदिति । कामत्यागस्य अमृतत्वहेतुत्वेऽपि, कथं कर्मफलत्यागस्य तद्धेतुत्वम् इत्याशङ्क्य आह - कामाश्चेति । कर्मफलत्यागादेव शान्तिश्चेत् , ज्ञाननिष्ठा उपेक्षिता, इत्याशङ्क्य आह - तत्त्यागे चेति । तथापि कथम् अज्ञस्य कर्मफलत्यागस्तुतिः इत्याशङ्क्य आह - इति सर्वेति । विद्यावतः त्यागवत् , अविद्वत्त्यागस्यापि त्यागत्वाविशेषात् विशिष्टत्वोक्तिः युक्ता, इति स्तुतिम् उपसंहरति - इति तत्सामान्यादिति । किमर्था स्तुतिः इत्याशङ्क्य, त्यागे रूचिम् उत्पाद्य प्रवर्तयितुम् इत्याह - प्ररोचनार्थेति । त्यागस्तुतिं दृष्टान्तेन स्पष्टयति - यथेति । फलत्यागः श्रेयोहेतुश्चेत् , कर्मत्यागादपि फलत्यागसिद्धेः, अलं कर्मानुष्ठानेनः इत्याशङ्क्य आह - एवं कर्मेति । फलाभिलाषं त्यक्त्वा कर्मानुष्ठानस्य अर्पितस्य ईश्वरे, श्रेयोहेतुतया विवक्षितत्वात् न अनुष्ठानानर्थक्यम् , इत्यर्थः
॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 उत्तरश्लोकतात्पर्यम् आह - इदानीमिति । ज्ञानं - शब्दयुक्तिभ्याम् आत्मनिश्चयः अभ्यासः - ज्ञानार्थश्रवणाभ्यासः, निश्चयपूर्वकः ध्यानाभ्यासो वा । तस्य विशिष्यमाणत्वे साक्षात्कारहेतुत्वं हेतुः । सर्वेषां भूतानां मध्ये यो दुःखहेतुः, तं विद्वानपि द्वेष्ट्येव, इत्याशङ्क्य आह – आत्मनः इति । तत्र हेतुः - सर्वाणीति । ‘सर्वभूतानाम् ‘ इति उभयतः सम्बध्यते । मम - प्रत्ययर्जितः, देहेऽपि इति शेषः । वृत्तस्वाध्यायकृताहङ्कारात् निष्क्रान्तत्वम् आह - निर्गतेति
॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 सम्प्रति ‘अद्वेष्टा’ इत्याद्यवतारयितुं वृत्तं कीर्तयति - अत्र चेति । आत्यन्तिकोऽभेदः, न तर्हि ईश्वरे मनःसमाधानरूपो योगः अत्यन्ताभेदे ध्या भावात् , न च अत्यन्ताभेदे कर्मानुष्ठानं, तत्फलत्यागो वा, परस्परं तदयागात् , इत्यर्थः भगवदुक्तिसामर्थ्यादपि कर्मयोगादि न अभेददृष्टिमतो भवति, इत्याह - अथेति । अक्षरोपासकस्य कर्मयोगायोगवत् कर्मयोगिनोऽक्षरोपासनानुपपत्तिरपि दर्शिता, इत्याह - तथेति । अक्षरोपासकाः सम्यग्धीनिष्ठाः यथाज्ञानं भगवन्तमेव आप्नुवन्ति । न तथा कर्मिणः साक्षात् तदाप्तौ उचिताः । तथा च कर्मिणो न अक्षरोपासनसिद्धिः, इत्यर्थः । इतश्च अक्षरोपासनं कर्मानुष्ठानं च न एकत्र युक्तम् , इत्याह - अक्षरेति । ननु अक्षरोपासकव अन्येषामपि ईश्वरात्मत्वाविशेषात् कतुः तदधीनत्वम् तत्र आह - यदीति । कर्मयोगस्य अक्षरोपास्तेश्च युगपत् एकत्र अयोगे हेत्वन्तरम् आह - यस्माच्चेति । ‘कुरु कर्मैव’ इत्यादौ इति शेषः । किं च अक्षरोपासको वाक्यात् ईश्वरम् आत्मानं वेति । नासौ क्रियायां गुणत्वेन कर्तृत्वम् अनुभवति । गुणत्वेश्वरत्वयोः एकत्र व्याघातात् , अतोऽपि न अक्षरोपासनं कर्मानुष्ठानं च एकत्र युक्तम् , इत्याह - न चेति । अक्षरोपास्तिकर्मयोगयोः एकत्र पर्यायायोगे फलितम् आह- तस्मादिति । अज्ञानां कर्मिणां वक्ष्यमाणधर्मजातस्य साकल्येन अयोगात् अक्षरनिष्ठानामिव इदम् उच्यते, अविरुद्धांशस्य तु सर्वार्थत्वम् इष्टमेव, इत्यर्थः । अक्षरोपासकस्य ज्ञानवतो विशेषणान्तराणि आह - सन्तुष्ट इति । सततम् इति सर्वत्र सम्बध्यते । कार्यकरणसङ्घातः स्वभावशब्दार्थः । स्थिरत्वं कृतर्कादिना अनभिभवनीयत्वम् । मद्भक्तः - मद्भजनपरः ज्ञानवान् इति यावत् । ज्ञानवतो भगवत्प्रियत्वे प्रमाणम् आह - प्रियो हीति । किमर्थं तर्हि पुनरुच्यते तत्र आह- तदिहेति
॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 उद्वेगादिराहित्यमपि ज्ञानवतो विशेषणम् , इत्याह - यस्मादिति । न केवलम् उद्वेगं प्रति अपादानत्वमेव संन्यासिनोऽनुपपन्नम् , किं तु तत्कर्तृत्वमपि, इत्याह - तथेति । असहिष्णुता, परकीयप्रकर्षस्य इति शेषः । त्रासः तस्करादिदर्शनाधीनः उद्धिग्नत्वम् अचेतनात् , चेतनाधीनस्य लोकादिति गतत्वात् , इति यावत्
॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 निरपेक्षत्वादिकमपि ज्ञानिनो विशेषणम् इत्याह - अनपेक्ष इति । आदिपदम् अपेक्षणीयसर्वसङ्ग्रहार्थम् , प्रतिपत्तव्येषु प्रतिपत्तुं, कर्तव्येषु कर्तुं च इत्यर्थः । परैः ताडितस्यापि गता व्यथा - भयम् अस्य, इति व्युत्पत्तिम् आश्रित्य आह - गतेति । न च क्षमी इत्यनेनैव पौनरुक्त्यम् ; प्रत्युत्पन्नायामपि व्यथायाम् अपकर्तृषु अनपकर्तृत्वं क्षमित्वम् , इति अभ्युपगमात्
॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 ‘सर्वारम्भपरित्यागी’ इत्यनेन विहितकाम्यत्यागस्य उक्तत्वात् , विहितात् अन्यत्र मा सङ्कोचीति विशिनष्टि - शुभाशुभेति
॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 द्वेषहर्षादिराहित्यमपि ज्ञानिनो लक्षणम् इत्याह - किञ्चेति । सम इति । अद्वेष्टेत्यादिना द्वेषादिविशेषाभावः उक्तः, सम्प्रति सर्वत्रैव अविकृतचित्तत्वम् उच्यते । सर्वत्र - चेतने स्त्र्यादौ, अचेतने च चन्दनादौ, इत्यर्थः
॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 देहस्थितिमात्रफलेन अन्नादिना ज्ञानिनः सन्तुष्टत्वे स्मृतिं प्रमाणयति - तथा चेति । नियतनिवासराहित्यमपि ज्ञानवतो विशेषणम् , इत्याह - किञ्चेति ‘न कुड्यां नोदके सङ्गो न चैले न त्रिपुष्करे । नागारे नासने नान्ने यस्य वै मोक्षवित्तु सः ॥ ‘ इति स्मृतिम् उक्तेऽर्थे प्रमाणयति - नेत्यादिना । पुनः पुनः भक्तेः ग्रहणम् अपवर्गमार्गस्य परमार्थज्ञानस्य उपायत्वार्थम्
॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 वाग्यतत्वादिविशेषणमपि ज्ञाननिष्ठस्य अस्ति, इत्याह - किञ्चेति । निन्दा - दोपसङ्कीर्तनम् । स्तुतिः - गुणगणनम् । चतुर्थपारदस्य तात्पर्यम् आह - प्रियो हीति । यद्यपि यथोक्तं धर्मजातं ज्ञानवतो लक्षणम् , तथापि जिज्ञासूनां ज्ञानोपायत्वेन यत्नात् अनुष्ठेयम् , इति वाक्यार्थम् उपसंहरति यस्मादिति । तदेवं सोपाधिकाभिध्यानपरिपाकात् निरुपाधिकम् अनुसन्दधानस्य ‘अद्वेष्टा सर्वभूतानाम् ‘ इत्यादिधर्मविशिष्टस्य मुख्यस्य अधिकारिणः श्रवणाद्यावर्तयतः तत्वसाक्षात्कारसम्भवात् , ततो मुक्त्युपपत्तेः, तद्धेतुवाक्यार्थधोविष(योऽन्व) ययोग्यः तत्पदार्थो अनुसन्धेयः, इति सिद्धम्
॥ २० ॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचितेश्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने द्वादशोऽध्यायः ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 ‘अद्वेष्टा’ इत्यादिधर्मजातं ज्ञानवतो लक्षणम् उक्तम् तत् उपपादितम् अनूद्य, उपसंहारश्लोकम् अवतारयति - अद्वेष्टेत्यादिना । तत्र द्र्ष्टृत्वेन सङ्घातदृश्यात् अन्यम् आत्मानं निर्दिशति - इदमिति । उक्तम् - प्रत्यक्षदृश्यविशिष्टं किञ्चित् इति शेषः । शरीरस्य आत्मनः अन्यत्वं क्षेत्रनामनिरुक्त्या ब्रूते - क्षतेति । क्षयः - नाशः । क्षरणम् - अपक्षयः । यथा क्षेत्रे बीजम् उप्तं फलति, तद्वद् इत्याह - क्षेत्रवद्वेति । क्षेत्रपदात् उपरिस्थितम् इतिपदं क्षेत्रशब्दविषयम् , अन्यथा वैयर्थ्यात् , इत्याह - इतिशब्द इति । क्षेत्रमित्येवम् अनेन क्षेत्रशब्देन इत्यर्थः । दृश्यं देहम् उक्त्वा ततः अतिरिक्तं द्रष्टारम् आह - एतदिति । स्वाभाविकं ‘मनुष्योऽहम् ‘ इति ज्ञानम् , अौपदेशिकम् ‘देहो नाऽत्मा दृष्यत्वात् ‘ इत्यादिविभागशः - स्वतोऽतिरिक्तत्वेन इत्यर्थः । क्षेत्रमित्यत्र इतिशब्दवत् अत्रापि इतिशब्दस्य क्षेत्रज्ञशब्दविषयत्वम् आह - इतिशब्द इति । क्षेत्रज्ञ इत्येवम् - क्षेत्रज्ञशब्देन तं प्राहुः इति सम्बन्धः । प्रवक्त़ृन् प्रश्नपूर्वकम् आह - क इत्यादिना
॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 प्रथममध्यमयोः षट्कयोः तत्त्वंपदार्थौ उक्तौ । अन्तिमस्तु षट्कः वाक्यार्थनिष्ठः सम्यग्धीप्रधानः अधुना आरभ्यते । तत्र क्षेत्राध्यायम् अन्तिमषट्काद्यम् अवतितारयिषुः व्यवहितं वृत्तं कीर्तयति- सप्तम इति । प्रकृतिद्वयस्य स्वातन्त्र्यं वारयति - ईश्वरस्येति । भूमिरित्यादिना उक्ता सत्वादिरूपा प्रकृतिः अपरा इत्यत्र हेतुमाह - संसारेति । इतस्त्वन्या इत्यादिना उक्तां प्रकृतिम् अनुक्रामति - परा चेति । परत्वे हेतुं मूचयनि - ईश्वरात्मिकेति । किमर्थम् ईश्वरस्य प्रकृतिद्वयम् इत्याशङ्क्य, कारणत्वार्थम् इत्याह - याभ्यामिति । वृत्तम् अनूद्य, वर्तिष्यमाणाध्यायारम्भप्रकारम् आह - तत्रेति । व्यवहितेन मवन्धम् उक्त्वा, अव्यवहितेन तं विवक्षुः अव्यवहितम् अनुवदति - अतीतेति । निष्ठा उक्ता इति सम्बन्धः । निष्ठामेव व्याचष्टे - यथेति । वर्तन्ते - धर्मजातम् अनुतिष्ठन्ति, तथा पूर्वोक्तेन प्रकारेण सर्वमुक्तम् इति योजना । अव्यवहितमेव अनूद्य तेन उत्तरस्य सम्बन्धं सङ्गिरते - केनेति । तत्वज्ञानोक्तेः उक्तार्थेन समुच्चयार्थः चकारः । जीवानां सुखदुःखादि भेदभाजां प्रतिक्षेत्रं भिन्नानां न अक्षरेण ऐक्यम् , इत्याशङ्क्य, संसारस्य आत्मधर्मत्वं निराकृत्य सङ्घातनिष्ठत्वं वक्तुं, सङ्घातोत्पत्तिप्रकारम् आह - प्रकृतिश्चेति । भोगश्च अपवर्गश्च अर्थौ, तयोरेव कर्तव्यतया, इति यावत् । ननु अनन्तरश्लाके शरीरनिर्देशात् तस्य उत्पत्तिः वक्तव्या, किमिति सङ्घातस्य उच्यते तत्राह - सोऽयमिति । उक्तेऽर्थे भगवद्वचनम् अवतारयति - तदेतदिति । यः सर्वक्षेत्रेषु एकः क्षेत्रज्ञः, तं मामेव विद्धि, इति सम्बन्धं सूचयति - सर्वेति । तत्तत्क्षेत्रोपाधिकभेदभाजः तत्तच्छब्दधीगोचरस्य कथं तद्विपरीतब्रह्मत्वधीः इत्याशङ्क्य, आह - ब्रह्मादीति । उत्तरार्धं विभजते - यस्मादिति । तदेव विशिनष्टि - क्षेत्रेति । न च भेदविषयत्वात् न सम्यग्ज्ञानं तद् , इति युक्तम् , तस्य विवेकज्ञानस्य वाक्यार्थज्ञानद्वारा मोक्षौपयिकत्वेन सम्यक्त्वसिद्धेः इति भावः । जीवेश्वरयोः एकत्वमुक्तम् आक्षिपति - नन्विति । जीवेश्वरयोः एकत्वे, जीवस्य ईश्वरे वा, तस्य जीवे वा, अन्तर्भावः नाद्यः, जीवस्य परस्मात् अन्यत्वाभावे संसारस्य निरालम्बनत्वानुपपत्त्या परस्यैव तदाश्रयत्वप्रसङ्गात् इत्यर्थः । ‘अनश्नन्नन्यो अभिचाकशीति’ (श्वे. उ. ४-६) इति श्रुतेः, न तस्य संसारिता, इत्याशङ्क्य, द्वितीयं दूषयति - ईश्वरेति । जीवे चेत् ईश्वरः अन्तर्भवति, तदापि ततः अन्यसंसार्यभावात् तस्य च संसारः अनिंष्टः, इति संसारः जगति अस्तङ्गच्छेत् , इत्यर्थः । प्रसङ्गद्वयस्य इष्टत्वं निराचष्टे- तच्चेति । संसाराभावे ‘तयोरन्यः पिप्पलं स्वाद्वत्ति’ (श्वे. उ. ४-६) इत्यादिबन्धशास्रस्य तद्धेतु कर्मविषयकर्मकाण्डस्य च आनर्थक्यम् , ईश्वराश्रिते च संसारे तदभाक्तृत्वश्रुतेः ज्ञानकाण्डस्य मोक्षतद्धेतुज्ञानार्थस्य आनर्थक्यम् , अतो न प्रसङ्गयोः इष्टता इत्यर्थः । संसाराभावप्रसङ्गस्य अनिष्टत्वे हेत्वन्तरम् आह - प्रत्यक्षादीति । तत्र प्रत्यक्षविरोधं प्रकटयति - प्रत्यक्षेणेति । आदिशब्दोपात्तम् अनुमानविरोधम् आह - जगदिति । विमतं विचित्रहेतुकम् , विचित्रकार्यत्वात् , प्रासादादिवत् , इत्यर्थः । प्रत्यक्षानुमानागमविरोधात् अयुक्तम् ऐक्यम् इति उपसंहरति- सर्वमिति । ऐक्येऽपि संसारित्वम् अविद्यातः, विद्यातः असंसारित्वम् , इति विभागात् न अनुपपत्तिः, इति उत्तरम् आह - नेत्यादिना । तयोः स्वरूपतः विलक्षणत्वे श्रुतिम् आह - दूरमिति । अविद्या, या च विद्या इति प्रसिद्धे, एते विद्याविद्ये दूरं विपरीते, अत्यन्तविरुद्धे इत्यर्थः । विषूची नानागती भिन्नफले इत्यर्थः । स्वरूपतो विरोधवत् फलतोऽपि सोऽस्ति इत्याह - तथेति । फलभेदोक्तिमेव व्यनक्ति - विद्येति । तयोः द्विधा विलक्षणत्वे वेदव्यासस्यापि सम्मतिम् आह - तथा चेति । उक्ते अर्थे भगवतोपि सम्मतिम् उदाहरति - इहचेति । द्वयोरपि निष्ठयोः तुल्यं उपादेयत्वम् इति शङ्कां शातयति - अविद्या चेति । अविद्या कार्या हातव्या इत्यत्र श्रुतीः उदाहरति - श्रुतयस्तावदिति । इहेति - जीवदवस्था उच्यते, चेच्छब्दः विद्योदयदौर्लभ्यद्योती, अवेदीत् - अहं ब्रह्म इति विदितवान् इत्यर्थः । अथ - विद्यानन्तरमेव, सत्यम् - अवितथम् , पुनरावृत्तिवर्जितं कैवल्यं स्यात् इत्याह - अथेति । अविद्यविषयेऽपि श्रुतिम् आह - न चेदिति । जन्ममरणादिरूपा संसृतिः ‘वनष्टिः, तस्य महत्त्वम् - सम्यग्ज्ञानं विना निवर्तयितुम् अश्क्यत्वम् । विद्याविषये श्रुत्यन्तरम् आह - तमेवमिति । परमात्मानं प्रत्यक्त्वेन यः साक्षात्कृतवान् , स देही जीवन्नेव मुक्तो भवति इत्यर्थः । विद्यां विनापि हेत्वन्तरतः मुक्तिम् आशङ्क्य, आह - नेति । भयहेतुम् अविद्यां निराकर्वती, तज्जं भयमपि निरस्यति विद्या, इत्यत्र वाक्यान्तरमाह - विद्वानिति । अविद्याविषये वाक्यान्तरमाह - अविदुष इति । प्रतीचि एकरसे स्वल्पमपि भेदं मन्यमानस्य भेददृष्ट्यनन्तरमेव संसारध्रौव्यम् , इत्यर्थः । तत्रैव श्रुत्यन्तरम् आह - अविद्यायामिति । तन्मध्ये तत्परवशतया स्थिताः तत्त्वम् अजानन्तः देहाद्यभिमानवन्तः मूढाः संसरन्ति, इत्यर्थः । विद्याविषये श्रुत्यन्तरम् आह - ब्रह्मेति । अविद्याविषये श्रुत्यन्तरम् आह - अन्योसाविति । भेददृष्टिम् अनूद्य तन्निदानं अविद्या, इत्याह - नेति । स च मनुष्याणां पशुवत् देवादीनां प्रेष्यतां प्राप्नोति, इत्याह - यथेति । विद्याविषये वाक्यान्तरम् आह - आत्मविदिति । इदं सर्वं प्रत्यग्भूतं पूर्ण व्रह्म, इत्यर्थः । ‘ज्ञानादेव तु कैवल्यम् ‘ इत्यत्र श्रृत्यन्तरम् आह - यदेति । न खलु आकाशं चर्मवत् मानवो वेष्टयितुम् ईष्टे, तथा परमात्मानां प्रत्यक्त्वेन अननुभूय न मुच्यत इत्यर्थः । आदिशब्देन अनुक्ता विद्याविद्याफलभेदार्थाः श्रुतयो गृह्यन्ते । तासां भूयस्त्वेन प्रामाण्यं सूचयति - सहस्रश इति । विद्याविद्याविषये स्मृतीः उदाहरति- स्मृतयश्चेति । तत्र अविद्याविषयं वाक्यम् आह - अज्ञानेनेति । विद्याविषयं वाक्यद्वयं दर्शयति - इहेत्यादिना । विद्याफलम् अनर्थध्वस्तिः, अविद्याफलम् अनर्थाप्तिः, इत्येतद् अन्वयव्यतिरेकाख्यन्यायादपि सिध्यति, इत्याह - न्यायतश्चेति । तत्रैव पुराणसम्मतिम् आह- सर्पानिति । उदपानाम् - कूपम् , यथा आत्मज्ञाने विशिष्टं फलं स्यात् तथा पश्य, इति योजना । न्यायतश्च इति अन्वयव्यतिरेकाख्यं न्यायम् उक्तं विवृणोति - तथा चेति । तत्र आदौ अन्वयम् आचष्टे- देहादिष्विति । अनाद्यानिर्वाच्याविद्यावृतः चिदात्मा देहादौ अनात्मनि आत्मबुद्धिम् आदधाति, तद्युक्तः रागादिना प्रेर्यते, तत्प्रयुक्तश्च कर्म अनुतिष्ठति, तत्कर्ता च यथाकर्म नूतनं देहम् आदत्ते, पूरातनं त्यजति ; इत्येवम् अविद्यावत्वे संसारित्वं सिद्धम् , इत्यर्थः । व्यतिरेकम् इदानीं दर्शयति - देहादीति । श्रुतियुक्तिभ्यां भेदे ज्ञाते रागादिध्वस्त्या कर्मोपरमात् अशेषसंसारासिद्धिः, इति अविद्याराहित्ये बन्धध्वस्तिः, इत्यर्थः । उक्तान्वयादेः अन्यथासिद्धिं शिथिलयति - इति नेति । उक्तम् अन्वयादिवादिना, केनचिदपि न्यायतः न शक्यं प्रत्याख्यातुम् तदन्यथासिद्धिसाधकाभावात् , इत्यर्थः । अन्वयादेः अनन्यथासिद्धत्वे चोद्यमपि प्राचीनं प्रतिनीतम् , इत्याह - तत्रेति । ज्ञानाज्ञानयोः उक्तन्यायेन स्वरूपभेदे कार्यभेदे च स्वारस्येन परापरयोः एक्येऽपि बुद्ध्याद्युपाधिभेदात् आविद्यकम् आत्मनः संसारित्वम् आभासरूपं प्रातिभासिकं सिध्यति, इत्यर्थः । आत्मनो ब्रह्मता स्वतश्चेद् , अहमिति आत्मभावेन ब्रह्मतापि भायात् , इत्याशह्क्य, आह - यथेति । देहाद्यतिरिक्तत्वस्य आत्मनः वैदिकपक्षे स्वतस्त्वेऽपि, तस्मिन् अहमिति भात्येव, तदतिरिक्तत्वं न भाति, किन्तु अविद्यातः देहाद्यात्मत्वमेव विपरीतं भासते ; तथा आत्मनो ब्रह्मत्वे स्वाभाविकत्वेऽपि तस्मिन् भात्येव, ब्रह्मत्वं न भाति, अविद्यातः अब्रह्मत्वमेव तु अस्य भास्यति, इत्यर्थः । आत्मनः देहाद्यात्मत्वम् आविद्यं भाति इत्युक्तम् अनुभवेन स्पष्टयति - सर्वेति । अतस्मिन् तद्बुद्धिः अविद्याकृता इत्यत्र दृष्टान्तम् आह - यथेति । पुरःस्थिते वस्तुनि स्थाणौ अविद्यया पुमानिति निश्चयो जायते, तथा देहादौ अनात्मनि आत्मधीः अविद्यातो निश्चिता, इत्यर्थः । देहात्मनोः ऐक्यज्ञाने देहधर्मस्य जरादेः आत्मनि, आत्मधर्मस्य च चैतन्यस्य देहे विनिमयः स्यात् , इत्याशङ्क्य, आह - न चेति । स्थाणौ पुरुषत्वं भ्रान्त्या भाति इति एतावता पुरुषधर्मः - शिरःपाण्यादिः न स्थाणोः भवति, तद्धर्मो वा वक्रत्वादिः न पुंसो दृश्यते, मिथ्याध्यस्ततादात्म्यात् वस्तुतो धर्माव्यतिकरात् , इति । दृष्टान्तम् उक्त्वा दार्ष्टन्तिकम् आह - तथेति । जरादेः अनात्मधर्मत्वेऽपि सुखादेः आत्मधर्मत्वम् इति केचित् , तान्प्रति आह - सुखेति । कामसङ्कल्पादिश्रुतेः अनात्मधर्मत्वज्ञानात् , इत्यर्थः । किञ्च, विमतः, न आत्मधर्मः अविद्याकृतत्वात् , जरादिवत् । न च हेत्वसिद्धिः, अतस्मिन् तद् - बुद्धिविषयत्वेन स्थाणौ पुरुषत्ववत् अविद्याकृतत्वस्य उक्तत्वात् , इति मत्वा आह - अविद्येति । स्थाणौ पुरुषत्ववत् आविद्यत्वं देहादेः अयुक्तम् , दृष्टान्तदार्ष्टान्तिकयोः वैषम्यात् , इति शङ्कते - नेति । तदेव प्रपञ्चयति - स्थाण्वित्यादिना । ज्ञेयस्य ज्ञेयान्तरे अध्यासात् , अत्र च उभयोः ज्ञेयत्वस्य व्यापकस्य व्यावृत्त्या व्याप्याध्यासस्यापि व्यावृत्तिः इत्यर्थः । देहात्मबुद्धेः भ्रमत्वाभावे फलितम् आह - अत इति । उपाधिधर्माणां सुखादीनाम् उपहिते जीेवे वस्तुत्वम् अयुक्तम् , अतिप्रसङ्गात् , इति परिहरति - नेत्यादिना । अतिप्रसङ्गमेव प्रकटयति - यदीति । ज्ञेयस्य ज्ञेयान्तरे अध्यासात् , अत्र च उभयोः ज्ञेयत्वस्य व्यापकस्य व्यावृत्त्या व्याप्याध्यासस्यापि व्यावृत्तिः इत्यर्थः । सुखादिः आत्मधर्मो न इति पक्षेऽपि नास्ति विशेषहेतुः, इत्याशङ्क्य, आह - नेति । तदेव अनुमानं साधयति - अविद्येति । विमतम् , न आत्मधर्मः, आगमायित्वात् , संसारवत् , इति अनुमानान्तरम् आह - हेयत्वादिति । आदिशब्दात् दृश्यत्वजडत्वादि गृह्यते । सुखादीनां जरादिवद् आत्मधर्मत्वाभावे, तस्य वस्तुतः असंसारिता, इति फलितम् आह - तत्रेति । आरोपितेन अधिष्ठानस्य वस्तुतः अस्पर्शे दृष्टान्तम् आह - यथेति । पराभिन्नस्य आत्मनः संसारित्वम् अध्यस्तम् इति स्थिते, यत् परस्य संसारित्वापादनम् , तत् अयुक्तम् इत्याह - एवं चेति । आत्मनि संसारस्य अारोपितत्वात् तदभिन्ने परस्मिन् न आशङ्का तस्य अयुक्ता इत्येतद् उपपादयति - न हीति । स्याणौ पुरुषनिश्चयवत् आत्मनो देहाद्यात्मत्वनिश्चयस्य अध्यस्तता, इति अयुक्तम् , दृष्टान्तस्य ज्ञेयमात्रविषयत्वात् , इतरस्य ज्ञेयज्ञातृविषयत्वात् , इति उक्तम् अनुवदति - यत्त्विति । वैषम्यं दूषयति - तदसदिति । तर्हि केन साधर्म्यम् , इति पृच्छति - कथमिति । अभीष्टं साधर्म्यं दर्शयति - अविद्येति । तस्य उभयत्र अनुगतिम् आह - तन्नेति । ज्ञेयान्तरे ज्ञेयस्य आरोपनियमात् ज्ञातरि न आरोपः स्यात् , इत्याशङ्क्य आह - यत्त्विति । नायं नियमः, ज्ञातरि जराद्यारोपस्य उक्तत्वात् , इत्याह - तस्यापीति । ज्ञेयस्यैव ज्ञेयान्तरे अध्यासनियमस्य इति यावत् । अतो ज्ञातरि न आरोपव्यभिचारशङ्का, इत्यर्थः । आत्मनि अविद्याध्यासे, तत्र अविद्यायाः स्वाभाविकत्वात् तदधीनं संसारित्वमपि तथा स्यात् , इति शङ्कते - अविद्यावत्त्वादिति । का अविद्या विपरीतग्रहादिर्वा, अनाद्यनिर्वाच्याज्ञानं वा नाद्यः ; विपरीतग्रहादेः तमश्शब्दितानिर्वाच्याज्ञानकार्यत्वात् तन्निष्ठस्य आत्मधर्मत्वायोगात् , इत्याह - नेत्यादिना । तदेव प्रपञ्चयति - तामसो हीति । आवरणात्मकत्वम् - वस्तुनि सम्यक्प्रकाशप्रतिबन्धकत्वम् । विपरीतग्रहणादेः अविद्याकार्यत्वं विद्यापोह्यत्वेन साधयति - विवेकेति । न च कारणाविद्या अनाद्यनिर्वाच्या आत्मधर्मः स्यात् , इति युक्तम् , अनिर्वाच्यत्वादेव तस्याः तद्धर्मत्वस्य दुर्वचत्वात् , इति भावः । किञ्च, विपरीतग्रहादेः अन्वयव्यतिरेकाभ्यां दोषजन्यत्वावगमादपि न आत्मधर्मता, इत्याह - तामसे चेति । तमश्शब्दिताज्ञानोत्थवस्तुप्रकाशप्रतिबन्धकः तिमिरकाचादिदोषः, तस्मिन् सति अज्ञानं मिथ्याधीः संशयश्च इति त्रयस्य उपलम्भात् , असति तस्मिन् अप्रतीतेः, अन्वयव्यतिरेकाभ्यां विपरीतज्ञानादेः दोषाधीनत्वाधिगमात् न केवलात्मधर्मता, इत्यर्थः । दोषस्य निमित्तत्वात् भावकार्यस्य उपादाननियमात् अनिर्वाच्याविद्यायाश्च असम्मतेः तस्यैव विपर्ययादेः उपादानत्वम् , इति चोदयति - अत्राहेति । विपरीतग्रहादेः दोषोत्थत्वं सप्तम्यर्थः । अग्रहादित्रितयम् अविद्या । विपर्ययादेः सत्योपादानत्वे सत्यत्वप्रसङ्गात् न आत्मा तदुपादानम् , किन्तु दोषस्य चक्षुरादिधर्मत्वग्रहणात् अग्रहणादेरपि दोषत्वात् करणधर्मत्वे, करणम् अविद्योत्थम् अन्तःकरणम् । न च - तद्धेतुः अविद्या असिद्धा इति - वाच्यम् ; अज्ञोऽहमिति अनुभवात् , स्वापे च अज्ञानपरामर्शात् तदवगमात् कार्यलिङ्गकानुमानात् आगमाच्च तत्प्रसिद्धेः, इति परिहरति - नेत्यादिना । सङ्गृहीतचोद्यपरिहारयोः चोद्यं विवृणोति - यत्त्विति । अविद्यावत्त्वेऽपि ज्ञातुः असंसारित्वात् उत्खातदंष्ट्रोरगवत् अविद्या किं करिष्यति इत्याशङ्क्य, आह - तदेवेति । मिथ्याज्ञानादिमत्वमेव आत्मनः संसारित्वम् इति स्थिते, फलितम् आह - तत्रेति । न करणे चक्षुषि इत्यादिना उक्तमेव परिहारं प्रपञ्चयति - तन्नेत्यादिना । तिमिरादिदोषः तत्कृतो विपरीतग्रहादिश्च न ग्रहीतुः आत्मनः अस्ति इत्यत्र हेतुमाह - चक्षुष इति । तद्गतेन अञ्जनादिसंस्कारेण तिमिरादौ पराकृते देवदत्तस्य ग्रहीतुः दोषाद्यनुपलम्भात् न तस्य तद्धर्मत्वम्ः अतो विमतं तत्वतः न आत्मधर्मः, दोषवत्त्वात् तत्कार्यत्वाद्वा, सम्मतवत् , इत्यर्थः । किञ्च विपरीतग्रहादिः, तत्त्वतो न आत्मधर्मः, वेद्यत्वात् , सम्प्रतिपन्नवत् , इत्याह - संवेद्यत्त्वाच्चेति । किञ्च, यत् वेद्यम् , तत् स्वातिरिक्तवेद्यम् , यथा दीपादि, इति व्याप्तेः विपरीतग्रहादीनामपि वेद्यत्वात् अतिरिक्तवेद्यत्वे, संवेदिता न सवेद्यधर्मवान् , वेदितृत्वात् , यथा देवदत्तो न स्वसंवेद्यरूपादिमान् , इति अनुमानान्तरम् आह - संवेद्यत्वादेवेति । किञ्च, विपरीतग्रहादयः, तत्वतो न आत्मधर्माः, व्यभिचारित्वात् , कृशत्वादिवत् , इत्याह - सर्वेति । उक्तमेव विवृण्वन् आत्मनो विपरीतग्रहादिः स्वाभाविको वा आगन्तुको वा इति विकल्प्य, आद्यं दूषयति - आत्मन इति । अतो निर्मोक्षः अविद्यात़ज्जध्वस्तेः असद्भावात् , इति भावः । आगन्तुकोऽपि स्वतश्चेदमुक्तिः, परतश्चेत् तत्राह - अविक्रियस्येति । विभुत्वाद् अविक्रियत्वाद् अमूर्तत्वाच्च आत्मा व्योमवत् न केनचित् संयोगविभागौ अनूभवति, न हि विक्रियाभावे व्योम्नि वस्तुतः संयोगविभागौ, असङ्गत्वाच्च आत्मनः तदसंयोगात् न परतोऽपि तस्मिन् विपरीतग्रहादि, इत्यर्थः । तस्य आत्मधर्मत्वाभावे, फलितम् आह - सिद्धमिति । आत्मनो निर्धर्मकत्वे भगवदनुमतिम् आह - अनादित्वादिति । ईश्वरत्वे सति आत्मनः असंसारित्वे विधिशास्रस्य अध्यक्षादेश्च आनर्थक्यात् तात्त्विकमेव तस्य संसारित्वम् , इति शङ्कते - नन्विति । विद्यावस्थायाम् अविद्यावस्थायां वा शास्त्रानर्थक्यम् , इति विकल्प्य आद्यं प्रत्याह - न सर्वैरिति । विदुषो मुक्तस्य संसारतदाधारत्वयोः अभावस्य सर्ववादिसम्मतत्वात् तत्र शास्त्रानर्थक्यादि चोद्यं मयैव न प्रतिविधेयम् इत्यर्थः । सङ्ग्रहवाक्य विवृणोति - सर्वैरिति । अभिप्रायाज्ञानात् प्रश्ने स्वाभिप्रायम् आह - कथमित्यादिना । तर्हि मुक्तान्प्रति विधिशास्त्रस्य अध्यक्षादेश्च आनर्थक्यम् , इत्याशङ्क्य आह - न चेति । नहि व्यवहारातीतेषु तेषु गुणदोषशङ्का, इत्यर्थः । द्वेैतिनां मते, मुक्तात्मस्विव अस्मत्पक्षेऽपि क्षेत्रज्ञस्य ईश्वरत्वे, तं प्रति च शास्त्राद्यानर्थक्यम् विद्यावस्थायाम् आस्थितमिति, फलितम् आह - तथेति । द्वितीयं दूषयति - अविद्येति । तदेव दृष्टान्तेन विवृणोति - यथेति । एवम् - अद्वेैतवादिनामपि विद्योदयात् प्राक् अर्थवत्वं शास्त्रादेः, इति शेषः । द्वैेतिभिः अद्वैतिनां न साम्यम् , इति शंकते - नन्विति । अवस्थयोः वस्तुत्वे तन्मते शास्त्राद्यर्थवत्त्वं फलितम् आह - अत इति । सिद्धान्ते तु न अवस्थयोः वस्तुता, इति वैषम्यम् आह - अद्वैतिनामिति । व्यावहारिकं द्वैतं तन्मतेऽपि स्वीकृतम् , इत्याशङ्क्य, आह - अविद्येति । कल्पितद्वैतेन व्यवहारात् न तस्य वस्तुता, इत्यर्थः । बन्धावस्थायाः वस्तुत्त्वाभावे दोषान्तरम् आह- बन्धेति । आत्मनः तत्वतः अवस्थाभेदः द्वैतिनामपि नास्ति, इति परिहरति - नेति । अनुपपत्तिं दर्शयितं विकल्पयति - यदीति । तत्र अद्यं दूषयति - युगपदिति । द्वितीयेऽपि क्रमभाविन्योः अवस्थयोः निर्निमित्तत्वं सनिमित्तत्वं वा, इति विकल्प्य, अद्ये सदा प्रसङ्गात् बन्धमोक्षयोः अव्यवस्था स्यात् ; इत्याह - क्रमेति । कल्पान्तरं निरस्यति - अन्येति । बन्धमोक्षावस्थे, न परमार्थे, अस्वाभाविकत्वात् , स्फटिकलौहित्यवत् , इति स्थिते, फलितम् आह - तथा चेति । वस्तुत्वम् इच्छता अवस्थयोः वस्तुत्वोपगमात् , इत्यर्थः । इतश्च अवस्थयोः न वस्तुत्वम् , इत्याह - किञ्चेेति । अवस्थयोः वस्तुत्त्वम् इच्छता तयोः यौगपद्यायोगात् वाच्ये क्रमे, बन्धस्य पूर्वत्वं मुक्तेश्च पाश्चात्यम् इति स्थिते, बन्धस्य आदित्वकृतं दोषम् आह - बन्धेति । तस्याश्च अकृताभ्यागमकृतविनाशनिवृत्तये अनादित्वं एष्टव्यम् अन्तवत्त्वञ्च मुक्त्यर्थम् आस्थेयम् ; तच्च यत् अनादिभावरूपं तत् नित्यम् , यथा आत्मा, इति व्याप्तिविरुद्धम् , इत्यर्थः । मोक्षस्य पाश्चात्यकृतं दोषम् आह - तथेति । सा हि ज्ञानादिसाध्यात्वात् आदिमती, पुनरावृत्त्यनङ्गीकारात् अनन्ता च । तच्च यद् सादिभावरूपम् तद् अन्तवत् , यथा पटादि, इति व्याप्त्यन्तरविरुद्धम् , इत्यर्थः । किञ्च, क्रमभाविनीभ्याम् अवस्थाभ्याम् आत्मा सम्बध्यते, न वा, प्रथमे, पूर्वावस्थया सहैव उत्तरावस्थां गच्छति चेद् , उत्तरावस्थायामपि पूर्वावस्थावस्थानाद् अनिर्मोक्षः ; यदि पूर्वावस्थां त्यक्त्वा उत्तरावस्थां गच्छति, तदा पूर्वत्यागोत्तराप्त्योः आत्मनः सातिशयत्वात् नित्यत्वानुपपत्तिः, इत्याह - न चेति । आत्मनः अवस्थाद्वयसम्बन्धो नास्ति इति, द्वितीयम् अनूद्य दूषयति - अथेत्यादिना । तर्हि, पक्षद्वयेऽपि दोषाविशेषात् न अद्वैतमतानुरागे हेतुः, इत्याशङ्क्य, अविद्याविषये च इत्युक्तं विवृणोति - न चेति । तदेव स्फुटयति - अविदुषां हीति । फलम् - भोक्तृत्वम् , कर्तृत्वम् - हेतुः यद्वा फलम् - देहविशेषः. हेतुं - अदृष्टम् ; तयोः अऩात्मनोः ‘भोक्ताहम् ‘ ‘कर्ताहम् ‘ ‘मनुष्योऽहम् ‘ इत्याद्यात्मदर्शनम् अधिकारकारणम् , तेन अविद्बद्विषयं विधिनिषेधशास्त्रम् इत्यर्थः । विदुषामपि ‘मनुष्योऽहम् ‘ इत्यादिव्यवहारात् तद्विषयं शास्त्रं किं न स्यात् इत्याशङ्क्य, आह - नेति । भोक्तृत्वकर्तृत्वाभ्यां ब्राह्मण्यादिमतः देहात् धर्माधर्माभ्यां च आत्मनः अन्यत्वं पश्यतः न विधिनिषेधाधिकारित्वम् , उक्तफलादौ आत्मीयाभिमानासम्भवात् , इत्यर्थः । आत्मनः देहादेः अन्यत्वदर्शिनः न देहादौ आत्मधीः, इत्येतद् उपपादयति - न हीति । विदुषो न विधिनिषेधाकारिता, इत्युक्तम् उपसंहरति - तस्मादिति । शास्त्रस्य अविद्वद्विषयत्वमिव विद्वद्विषयत्वमपि मन्तव्यम् , उभयोरपि शास्त्रथवणाविशेषात् , इत्याशङ्क्य, आह - न हीति । तत्रस्थः - यस्मिन् देशे देवदत्तः स्थितः, तत्रैव वर्तमानः सन् , इत्यर्थः । ननु, देवदत्ते नियुक्ते विष्णुमित्रोऽपि कदाचित् नियुक्तोऽस्मि इति प्रतिपद्यते, सत्यम् , नियोगविषयात् नियोज्यात् आत्मनो विवेकाग्रहणात् नियोज्यत्वभ्रान्तेः, इत्याह - नियोगेति । अविवेकिनो नियोगधीः भवति इति दृष्टान्तम् उक्त्वा, फले हेतौ च आत्मदृष्टिविशिष्टस्य अविदुषः सम्भवत्येव विधिनिपेधाधिकारित्वम् इति दार्ष्टान्तिकम् आह - तथेति । विधिनिषेधशास्रम् अविद्वद्विषयम् इति वदता शास्त्रानर्थक्यं समाहितम् , सम्प्रति शास्त्रस्य विद्वद्विषयत्वेनैव अर्थवत्वं शक्यसमर्थनम् इति शङ्कते - नन्विति । प्रकृतिः - अवद्या, ततो जातो यो देहादौ अभिमातात्मा सम्बन्धः विद्योदयात् प्राक् अनुभूतः, तदपेक्षया विधिना प्रवर्तितोऽम्मि, निपेधेन नवर्तितोऽस्मि, इति विधिनिषेधविषया सत्यामपि विद्यायां धीः युक्तैव, इत्यर्थः । विदुषोऽपि पूर्वम् आविद्यं सम्बन्धम् अपेक्ष्य विधिनिषेधविषयां धियम् उक्तामेव व्यक्ताकरोति - इष्टेति । ननु, अविदुषः मिथ्याभिमानवत् न विदुषः सोऽनुवर्तते, तथा च अविद्यासम्बन्धापेक्षया न युक्ता विदुषो यथोक्ता धीः इति तत्राह - यथेति । पिता, पुत्रो, भ्राता, इत्यादीनां मिथः अन्यत्वदृष्टावपि अन्योन्यनियोगार्थस्य निषेधार्यस्य च धीः इष्टा, ‘अथानः सम्पत्तिर्यदा पैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोकः’ (बृ. उ. १-५-१७) इत्यादिसम्प्रत्तिश्रुत्या अशेषानुष्ठानस्य पुवकार्यता प्रतिपादनात् । पुत्रञ्च अधिकृत्य विधिनिषेध प्रवृत्तौ तस्य तदशक्तौ पितुः तदर्था धोः उपगता । तथा भ्रात्रादिष्वपि द्रष्टव्यम् । एवं विदुषः हेतुफलाभ्याम् अन्यत्वदर्शनेऽपि प्राक्कालीनाविद्यदेहादिसम्बन्धात् अविरुद्धा विधिनिषेधा धीः, इत्यर्थः । पुत्रादीनां मिथ्याभिमानात् मिथः नियोगधीः युक्ता, तत्त्वदर्शिनस्तु तदभावात् न देहादिसम्बन्धाधीना नियोगधीः इति परहरति - नेत्यादिना । किञ्च ‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ‘ इति सर्वापेक्षाधिकरणे सम्यग्ज्ञानस्य अदृष्टसाध्यत्वोक्तेः विधिनिषेधार्थानुष्ठानं सम्यग्ज्ञानात्पूर्वमिति, कुतो विदुषः तदनुष्ठानम् इत्याह - प्रतिपन्नेति । सति अदृष्टे सम्यग्धीदृष्टेः, असति च अशुद्धबुद्धेः तदभावात् , अन्वयव्यतिरेकाभ्याम् , विविदिषावाक्याच्च विधिनिषेधानुष्ठानात् पूर्वं न सम्यग्धीः, इत्याह - न पूर्वमिति । विधिनिषेधयोः विद्वद्विषयत्वायोगे फलितम् आह - तस्मादिति । शास्त्रस्य अविद्वद्विषयत्वेन उक्तम् अर्थवत्त्वम् आक्षेपसमाधिभ्यां प्रपञ्चयितुम् आक्षिपति - नन्विति । चकारात् ऊर्ध्वम् अप्रवृत्तिरिति सम्बध्यते । आत्मनो देहाद्व्यतिरेकं पश्यतां देहाद्यभिमानरूपाधिकारहेत्वभावात् विधितो यागादौ अप्रवृत्तिः, निषेधाच्च अभक्ष्यभक्षणादेः न निवृत्तिः । अतः तेषां प्रवृत्तिनिवृत्त्योः अभावे, देहादौ आत्मत्वम् अनुभवतामपि न ते युक्ते तेषां पारलौकिकभोक्तृप्रतिपत्त्यभावात् , इत्यर्थः । विदुषाम् अविदुषां च प्रवृत्तिनिवृत्त्यभावे फलितम् आह- अत इति । आत्मनो देहाद्यतिरेकं परोक्षम् अपरोक्षं च देहाद्यात्मत्वं पश्यतः शास्त्रानुरोधादेव प्रवृत्तिमिवृत्त्युपपत्तेः न शास्त्रानर्थक्यम् , इति उत्तरम् आह - नेत्यादिना । प्रसिद्धिः अत्र शास्त्रीया अभिमता । एतदेव विवृण्वन् ब्रह्मविदो वा, नैरात्म्यवादिनो वा, परोक्षज्ञानवतो वा, प्रवृत्तिनिवृत्ती विवक्षसि, इति विकल्प्य, आद्यं दूषयति - ईश्वरेति । न निवर्तते च इत्यपि द्रष्टव्यम् । द्वितीयं निरस्यति - तथेति । पूर्ववत् अत्रापि सम्बन्धः । तृतीयम् अङ्गीकरोति - यथेति । विधिनिषेधादीनां प्रसिद्धिं अनुरुन्धानः सन् इति यावत् । चकारात् निवर्नते च इति अऩुकृष्यते । ब्रह्मविदं नैरात्म्यवादिनं च त्यकत्वा देहाद्यतिरिक्तम् आत्मानां परोक्षम् , अपरोक्षं च देहाद्यात्मत्वं पश्यतः, विधिनिषेधाधिकारित्वे सिद्धे फलम् आह - अत इति । विधान्तरेण शस्रार्थानर्थक्य चोदयति - विवेकिनामिति । दृष्टा हि तेषां विधिनिषेधयोः अप्रवृत्तिः, न हि देहादिभ्यो निष्कृष्टं आत्मानं दृष्टवतां तयोः अधिकारः, तेन तान् प्रति शास्त्रं न अर्थवत् । न च देहाद्यात्मत्वदृशः तत्र अधिक्रियन्ते, तेषां ‘यद्यदाचरति’ (भ. गी. ३-२१) इति न्यायेन विवेकिनः अनुगच्छतां विध्यादौ अप्रवृत्तेः ; अतः अधिकार्यभावात् विध्यादिशास्त्रस्य तदनुसारिशिष्टाचारस्य च आनर्तक्यम् , इत्यर्थः । किं सर्वेषां विवेकित्वात् अधिकार्यभावात् आनर्थक्यं शास्त्रस्य उच्यते किं वा कस्यचिदेव विवेकित्वेऽपि तदनुवर्त्तित्वात् अन्येषाम् अप्रवृत्तेः आनर्थक्यं चोद्यते तत्र प्रथमं प्रत्याह - न कस्यचिदिति । ‘मनुष्याणां सहस्रेषु’ (भ. गी. ७-३) इति न्यायेन उक्तमेव स्फुटयति - अनेकेष्विति । तत्र अनुभवानुरोधेन दृष्टान्तम् आह - यथेति । द्वितीयं दूषयति - न चेति । किञ्च, विवेकिनाम् अप्रवृत्तौ अन्येषामपि अप्रवृत्तिः, इति आशङ्कां निरसितुम् , श्येनादौ तदप्रवृत्तावपि इतरप्रवृत्तेः, इत्याह - अभिचरणादौ चेति । अविवेकिनां रागादिशरा प्रवृत्त्यास्पदं सर्वं सङ्ग्रहीतुम् आदिपदम् । इतश्च विवेकिनां प्रवृत्त्याभावेऽपि न अज्ञस्य अप्रवृनिः, इत्याह - स्वाभाव्याच्चेति । प्रवृत्तेः स्वभावाख्याज्ञानकार्यत्वे भगवद्वाक्यम् अनुकुलयति - स्वभावस्त्विति । प्रवृत्तेः अज्ञानजत्वे विधिनिषेधाधीन वृत्तिनिवृत्त्यात्मक सन्धम्य अविद्यामात्रत्वात् अविद्वद्विषयत्वं शास्त्रस्य सिद्धम् , इति फलितम् आह - तस्मादिति । दृष्टमेव अनुमरन् अविद्वान् , यथादृष्टः ; तद्विषयः - तदाश्रयः संसारः, तथा च प्रवृत्तिनिवृत्त्यात्मकसंसारस्य अविद्वद्विषयत्वात् तद्धेतुविधिशास्रस्यापि तद्विषयत्वाम् , इत्यर्थः । ननु, अविद्या क्षेत्रज्ञं आश्रयन्ती स्वकार्यं संसारमपि तस्मिन् आधत्ते, तेन तस्यैव शास्राध्रिकारित्वम् ; नेत्याह - नेति । अविद्यादेः शुद्घे क्षेत्रज्ञे वस्तुतः असम्बन्धेऽपि, तस्मिन् आरोपितं तमेव दुःखीकरोति, इति, अत्राह - न चेति । तदेव दृष्टान्तेन स्पष्टयति - न हीति । क्षेत्रज्ञस्य वस्तुतः अविद्याऽसम्बन्धे भगववृचोऽपि द्योतकम् , इत्याह - अत इति । क्षेत्रज्ञेश्वरयोः ऐक्ये किमिति असौ आत्मानम् अहमिति बुध्यमानोऽपि स्वस्य ईश्वरत्वम् ईश्वरोऽस्मि इति न बुध्यते, तत्राह - अज्ञानेनेति । आरमनो वस्तुतः संसारासंस्पर्शे विद्वदनुभवविरोधः स्यात् , इति, चोदयति - अथेति । एवमिति - आभिजात्यादिवैशिष्ट्यम् उक्तम् । इदमा क्षेत्रकलत्रादि । पण्डितानामपि प्रतीलं संसारित्वम् इति शेषः । किं पाण्डित्यं देहादौ आत्मदर्शनम् किं वा कूटस्थात्मदृष्टिः आहो संसारित्वादिधीः इति विकल्प्य आद्यं निराकुर्वन् आह - श्रृण्विति । तच्च वस्तुतः असंसारित्वाविरोधि । प्रातिभासिकं तु संसारित्वम् इष्टम् , इति शेषः । द्वितीयं दूषयति - यदीति । न हि कूटस्थात्मविषयं संसारित्वं प्रतीयते, येन वस्तुतः असंसारित्वां विरुध्येत ; कूटस्थात्मधीविरुद्धायाः संसारित्वबुद्धेः अनवकाशित्वात् , इत्यर्थः । आत्मानम् अक्रियं पश्यतोऽपि कुतो भोगकर्मणी न स्याताम् इत्याशङ्क्य, आह - विक्रियेति । अविक्रियात्मबुद्धेः भोगकर्मकाङ्क्षयोः अभावे, कस्य शास्त्रे प्रवृत्तिः, इत्याशङ्क्य आह - अथेति । फलार्थित्वाभावात् विदुषः न कर्मणि प्रवृत्तिः इत्येवं स्थिते सति अनन्तरम् अविद्वान् फलार्थित्वात् तदुपाये कर्मणि प्रवर्त्तते शास्त्राधिकारी, इत्यर्थः । विदुषः वैधप्रवृत्त्यभावेऽपि निषेधाधीननिवृत्तेरपि दुर्वचत्वात् तस्य निवृत्तिनिष्ठत्वासिद्धिः, इत्याशङ्क्य, आह - विदुष इति । तृतीयम् उत्थापयति - इदं चेति । सिद्धान्तात् अविशेषम् आशङ्क्य, क्षेत्रस्य क्षेत्रज्ञात् वस्तुतो भिन्नत्वेन तद्विषयत्वाङ्गीकारात् , मैवम् , इत्याह- क्षेत्रं चेति । अहन्धीवेद्यस्य आत्मनो वस्तुतः संसारित्वस्वीकाराच्च सिद्धान्तात् भेदो अस्ति, इत्याह - अहन्त्विति । संसारित्वमेव स्फोरयति - सुखीति । संसारित्वास्य वस्तुत्वे तदनिवृत्त्या पुमर्थासिद्धिः, इत्याशङ्क्य, आह - संसारेति । कथं तदुपरमस्य हेतुं विना कर्तव्यत्वम् इत्याशङ्क्य, आह - क्षेत्रेति । क्षेत्रं ज्ञात्वा ततो निष्कृष्टस्य क्षेत्रज्ञस्य ज्ञानं कथं संसारोपरतिम् उत्पादयेत् इत्याशङ्क्य, आह - ध्यानेनेति । संसारित्वम् आत्मनो बुध्यमानस्य तद्रहितात् ईश्वरात् अन्यत्वम् इति वक्तुम् इतिशब्दः । तदेव अन्यत्वम् उपपादयति - यश्चेति । मम संसारिणः असंसारीश्वरत्वं कर्तव्यम् इत्येवं यो बुध्यते, यो वा तथाविधं ज्ञानं तव कर्तव्यम् इति उपदिशति ; स क्षेत्रज्ञात् ईश्वरात् अन्यो ज्ञेयः अन्यथा उपदेशानर्थक्यात् , इत्यर्थः । आत्मा संसारी परस्मात् आत्मनः अन्यः, तस्य ध्यानाधीनज्ञानेन ईश्वरत्वं कर्तव्यम् , इत्येतद् ज्ञानं पाण्डित्यम् , इति मतं दूषयति - एवमिति । ‘अयमात्मा ब्रह्म’ (बृ. उ. २-५-१९) इति आत्मनो ब्रह्मत्वश्रुतिविरोधात् , इत्यर्थः । ननु, संसारस्य वस्तुत्वाङ्गीकारात् तत्प्रतीत्यवस्थायां कर्मकाण्डस्य अर्थवत्त्वम् , संसारित्वनिरासेन आत्मनो ब्रह्मत्वे ध्यानादिना साधिते, मोक्षावस्थायां ज्ञानकाण्डस्य अर्थवत्त्वम् , तत्कथं यथोक्तज्ञानवान् पण्डितापसदत्वेन आक्षिप्यते तत्राह - संसारेति । करोमि इति मन्यमानो यः, स पण्डितापसद इति पूर्वेण सम्बन्धः । कर्मकाण्डं हि कल्पितं संसारित्वम् अधिकृत्य साध्यसाधनसम्बन्धं बोधयत् अर्थवत् इष्टम् । ज्ञानकाण्डमपि तथापिधं संसारित्वं पराकृत्य अखण्डैकरसे प्रत्यग्ब्रह्मणि पर्यवस्यदु अर्थवत् भवेत् , इत्यर्थः । किं च, आत्मनः शास्त्रसिद्धं ब्रह्मत्वं त्यक्त्वा अब्रह्मत्वं कल्पयन् आत्महा भूत्वा लोकद्वयबहिर्भूतः स्यात् , इत्याह - आत्महेति । ननु, ‘क्षेत्रज्ञं चापि मां विद्धि’ इत्यनेन सर्वत्र अन्तर्यामी परः जीवादन्यः निरुच्यते, न जीवस्य ईश्वरत्वम् अत्र प्रतिपाद्यते । तत् कथम् इत्थम् आक्षिप्यते तत्राह - स्वयमिति । किञ्च, तत्वमसीतिवत् प्रसिद्धक्षेत्रज्ञानुवादेन अप्रसिद्धं तस्य ईश्वरत्वम् इह उपदेशतः धृतं तस्य हानिम् , अश्रुतस्य च जीवेश्वेरयोः तात्विकभेदस्य कल्पनां कुर्वन् कथं व्यामूढो न स्यात् इत्याह - श्रुतेति । ननु, केचन व्याख्यातारः यथोक्तं पाण्डित्यं पुरस्कृत्य क्षेत्रज्ञे चापि इत्यादिश्लोकं व्याख्यातवन्तः ; तत्कथम् उक्तपाण्डित्यम् आस्थातुः व्यासू़टत्वम् तत्राह - तस्मादिति । ‘क्षेत्रज्ञं चापि’ इत्यत्र क्षेत्रज्ञेश्वरयोः ऐक्यं स्वाभीष्टं स्पष्टयितुं प्रत्युक्तमेव चोद्यम् अनुद्रवति - यत्तूक्तमिति । तात्त्विकम् एकत्वम् , अतात्त्विकं संसारित्वम् , इत्यङ्गीकृत्य उक्तमेव समाधिं स्मारयति - एताविति । ईश्वरस्य संसारित्वं संमार्यभावेन संसाराभावश्च इत्युक्तौ दोषौ, विद्याविद्ययोः वैलक्षण्येऽपि कथं प्रत्युक्तौ, इति दृच्छति- कथमिति । कल्पितसंसारेण कल्पनाधिष्ठानम् अद्वयं वस्तु वस्तुतो न सम्बद्धम् , इति परिहरति- अविद्येति । तद्विषयम् - कल्पनास्पदम् अधिष्ठानम् , इति यावत् । कल्पितेन अधिष्ठानस्य वस्तुतः असंस्पर्शे दृष्टान्तं स्मारयति- तथा चेति । ईश्वरस्य नंसारित्वाप्रसङ्गं प्रकटोकृत्य प्रसङ्गान्तरनिरासम् अनुस्मारयति - संसारिण इति । न तावद् अविद्य संसारं संसारिणं च कल्पयति स्वतन्त्रा, तत्वव्याधातात् ; पारतन्त्र्ये च आश्रयान्तराभावात् क्षेत्रज्ञस्य तद्वत्त्वे संसारित्वम् , इति शङ्कते - नन्विति । न च अविद्यावत्त्वम् अविद्याकृतम् अनवस्थानात् , इति भावः । यत्तु - उत्खातर्दष्ट्वोरगवत् अविद्या किं करिष्यति - इति, तत्राह - तत्कृतं चेति । अविद्यातज्जयोः ज्ञेयत्वात् न आत्मधर्मता इति उत्तरम् आह - नेत्यादिना । तदेव प्रपञ्चयति - यावदिति । ज्ञेयस्य क्षेत्रधर्मत्वेऽपि क्षेत्रद्वारा क्षेत्रज्ञस्य तत्कृतदोषवत्ता, इत्याशङ्कय, आह - न चेति । क्षेवस्यापि ज्ञेयत्वात् न तेन चितः वस्तुतः स्पर्शोऽस्ति, इति उपपादयति - यदीति । धर्मर्धामत्वेन संसर्गेऽपि ज्ञेयत्वे का क्षतिः इत्याशङ्क्य, आह - यदीति । आत्मधर्मस्य आत्मना ज्ञेयत्वे, स्वस्यापि ज्ञेयत्वापत्त्या कर्तृकर्मविरोधः स्यात् , इत्यर्थः । किं च, विमतम् , न क्षेत्रज्ञाश्रितम् , तद्वेद्यत्वात् , रूपादिवत् , इत्यह - कथं वेति । किं च, ‘महाभूतानि’ इत्यादिना ज्ञेयमात्रस्य क्षेत्रान्तर्भावात् न अविद्यादेः ज्ञातृधर्मता इत्याह - ज्ञेयं चेति । किञ्च, ‘एतद्यो वेत्ति’ (भ. गी. १३-१) इत्युक्तत्वात् क्षेत्रज्ञस्य ज्ञातृत्वनिर्णयात् , न नत्र ज्ञेयं किञ्चित् प्रविशति, इत्याह - ज्ञातैवेति । क्षेत्रक्षेत्रज्ञयोः एवंस्वाभाव्ये सिद्धेसिद्धं क्षेवधर्मत्वम् अविद्यादेः, इति फलितम् आह - इत्यवधारित इति । विरोधाच्च न क्षेत्रज्ञधर्मत्वम् अविद्यादेः, इत्याह - क्षेत्रज्ञेति । विरूद्धवादित्वे मूलं दर्शयति - अविद्येति । मात्रपदस्य व्यावर्त्य मानयुक्त्याख्यम् अवष्टम्भान्तरम् इति वक्तुं केवलपदम् । यया अविद्यया विरुद्धमपि निर्वोढुं शक्यते, तस्याः स्वातन्त्र्याभावात् चितः अन्यस्य अविद्यमानत्वेन अतदाश्रयत्वात् , -तस्याः विद्यास्वभावतया तदाश्रयत्वव्याघातात् , आश्रयजिज्ञासया पृच्छति - अत्राहेति । आश्रयमात्रं पृच्छ्यते तद्विशेषो वा प्रथमे, प्रश्नस्य अनवकाशत्वं मत्वा आह - यस्येति । अविद्या दृश्या अदृश्या वा दृश्यत्वे, पारतन्त्र्यात् किञ्चिन्निष्ठत्वेनैव तदूदृष्टेः न आश्रयमात्रं प्रष्टव्यम् , अदृश्यत्वे वा, अप्रकाशत्वाद् असिद्धिरेव स्यात् , इत्यर्थः । द्वीतीयम् आलम्बते - कस्येति । अविद्यायाः दृश्यमानत्वात् आश्रयविशेषस्य आत्मनोऽपि स्वानुभवसिद्धत्वात् प्रश्नस्य निरवकाशता, इति उत्तरम् आह - अत्रेति । प्रश्नानर्थक्यं प्रश्नद्वारा स्फोरयति - कथमित्यादिना । तथापि कथं प्रश्नासिद्धिः तत्राह - न चेति । तदेव दृष्टान्तेन स्पष्टयति - नहीति । दृष्टान्तदार्ष्टान्तिकयोः वैषम्यं चोदयति - नन्विति । अज्ञानाश्रयस्य परोक्षत्वेऽपि प्रश्ननैरर्थक्यम् , इ्त्याह - अप्रत्यक्षेणेति । अविद्यावतः अप्रत्यक्षत्वेऽपि तेन अविद्यासम्बन्धे सिद्धेप्रष्टुः तव प्रश्नानर्थक्यसमाधिः न कश्चित् , इत्यर्थः । अबुद्धपराभिसन्धिः शङ्कते - अविद्याया इति । अविद्यावतः तत्परिहारात् न अन्येन प्रयतितव्यम् , इत्याह - यस्येति । ममैव अविद्यावत्वात् तत्परिहारे मया प्रयतितव्यम् , इति शह्कते - नन्विति । तर्हि प्रश्नानर्थक्यम् , इति सिद्धिान्ती स्वाभिसन्धिम् आह - जानासीति । आत्मानम् अविद्यावन्तं जानन्नपि तद्बिषयाध्यक्षाभावत् पृच्छामि, इति शङ्कते - जानामीति । अविद्यावतः अप्रत्यक्षत्वं वदता - तस्य ‘अहमविद्यावान् ‘ अविद्याकार्यावत्त्वात् , व्यतिरेकेण मुक्तात्मवत, इति अनुमेयत्वं इष्टम् , इति अभ्युपेत्य दूषयति - अनुमानेनेति । आत्मनः अविद्यासम्बन्धग्रहे का अनुपपत्तिः इति आशङ्क्य, ज्ञातैव आत्मा स्वस्य अविद्यासम्बन्धं बुध्यते अन्यो वा ज्ञाता इति विकल्प्य, आद्यं दूषयति - न हीति । तत्काले स्वस्य अविद्यां प्रति ज्ञातृत्वावस्थायाम् , इति यावत् । अविद्यां विषयत्वेन गृहेत्वा तज्ज्ञातृत्वेनैव उपयुक्तस्य आत्मनः तस्याः स्वात्मनि कुतः सम्बन्धज्ञातृत्वम् एकस्य कर्मकर्तृत्वविरोधात् , इत्याह - अविद्याया इति । दीतीयं निरस्यति - न चेति । यो ग्रहीता, स न सम्भवति, इति सम्बन्धः । तद्विषयमिति । ज्ञातुः अविद्यायाश्च सम्बन्धः तच्छब्दार्थः । अनवस्थामेव प्रपञ्चयति - यदीति । आत्मनः स्वपरज्ञेयत्वायोगात् तस्मिन् अविद्यासम्बन्धस्य अप्रामाणिकत्वात् नित्यानुभवगम्यत्वे स्थिते, फलितं आह - यदि पुनरिति । यदा च एवं, तदा इत्यध्याहार्यम् । ज्ञातुः आत्मनः न किञ्चिद् - दुष्यति इति, एतद् अमृष्यमाणः शङ्कते - नन्विति । किं ज्ञातृत्वं ज्ञानक्रियाकर्तृत्वम् ज्ञानस्वरूपत्वं वा नाद्यः, तदनभ्युपगमात् तत्प्रयुक्तदोषाभावात् । द्वीतीये ज्ञातृत्वस्य औपचरिकत्वात् न तत्कृतो दोषोऽस्ति, इत्याह - नेत्यादिना । असत्यामपि क्रियायां क्रियोपचारं दृष्टान्तेन स्फुटयति - यथेति । आत्मनि वस्तुतः विक्रियाभावे भगवदनुमतिं दर्शयति - यथात्रेति । गीताशास्त्रं सप्तम्यर्थः । स्वत एव आत्मनि क्रियाद्यात्मत्वाभावः भगवता शास्त्रे यथोक्तः, तथैव व्याख्यातम् अस्माभिः, इति सम्बन्धः । कथं तर्हि क्रियादिः आत्मनि भाति तत्राह - अविद्येति । यथा वस्तुतो नास्ति आत्मनि क्रियादिः, उपचारात्तु भाति, तथा तत्र तत्र अतीतप्रकरणेषु भगवता कृतो यत्नः, इत्याह - तथेति । न केवलम् अतीतेष्वेव प्रकरणेषु वास्तवक्रियाद्यभावात् आत्मनि आद्यासिकी तद्धीः उक्ता, किन्तु वक्ष्यमाणप्रकरणेष्वपि तथैव भगवदभिप्रायदर्शनं भविष्यति, इत्याह - उत्तरेषु चेति । आत्मनि वास्तवक्रियाद्यभावे अध्यासाच्च तत्सिद्धौ, कर्मकाण्डस्य अविद्वदधिकारित्वप्राप्तौ, ‘विद्वान् यजेत’ ‘ज्ञात्वा कर्मारभेत’ इत्यादिशास्रविरोधः स्यात् , इति शङ्क्ते - हन्तेति । शास्रस्य व्यतिरेकविज्ञानाभिप्रायत्वात् अशनायाद्यतीतात्मधीविधरस्यैव कर्मकाण्डाधिकारिता, इति अङ्गीकरोति - सत्यमिति । कथम् अज्ञस्यैैव कर्मधिकारित्वम् उपपन्नम् इत्याशङ्क्य, आह - एतदेव चेति । ज्ञानिनः ज्ञाननिष्ठायामेव अधिकारः, निष्ठान्तरे तु अज्ञस्यैव, इति उपसंहारप्रकरणे विशेषतः भविष्यति, इत्याह - सर्वेति । तदेव अनुक्रामति - समासेनेति । जीवब्रह्मणोः ऐक्याभ्युपगमे न किञ्चिद् अवद्यम् , इति उपसंहरति - अलमिति
॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 दृश्यानां दुःखादीनां भेदकानां यावद्देहभाविनाम् अनात्मधर्मत्वसिद्धये द्रष्टारं देहात् अन्यम् उक्त्वा, साङ्ख्यानामिव तन्मात्रेण मुक्तिनिवृत्तये तस्य सर्वदेहेषु ऐक्योक्तिपूर्वकं स्वेन परमार्थेन अक्षरेण ऐक्यं वृत्तम् अनूद्य प्रश्नद्वारा दर्शयति- एवमित्यादिना । यथोक्त - लक्षणम् - दृश्यात् देहात् निष्कृष्टं द्रष्टारम् इत्यर्थः । च, अपि इति निपातौ जीवस्य अक्षरत्वज्ञानस्य देहात् अन्यत्वज्ञानेन समुच्चयार्थौ भिन्नक्रमौ ; न क्षेत्रज्ञं साङ्ख्यवत् दृशयात् अन्यमेव विद्धि ; किन्तु मां चापि विद्धि इति सम्बध्यते । वक्ष्यमाणेऽर्थे श्रोतुः मनःसमाधानार्थं सूत्रितवाक्यार्थोपायविवरणप्रतिज्ञाम् अभिप्रेत्य आह - यन्निर्दिशष्टमिति । ‘इदं शरीरम् ‘ इति यन्निर्दिष्टं तच्छरीरं तच्छब्देन परामृशति, प्रकृतार्थत्वात् तस्य इति योजना । तत् क्षेत्रं ज्ञातव्यम् इति अध्याहारः । यच्चेति - येन रूपेण रूपवदिति, तदेव क्षेत्रं विषेष्यते । तस्य क्षेत्रस्य स्वकीयाः धर्माः जन्मादयः, तैर्विशिष्टस्य ज्ञेयत्वे हेयत्वं फलति । चशब्दपञ्चकस्य इतरेतरसमुच्चयार्थत्वम् आह - चशब्देति । विकारित्वेनापि हेयत्वं सूचयति - यद्विकारीति । यत् कार्यंम् , तत् सर्वं यस्मात् उत्पद्यते, तत् कारणत्वात् ज्ञातव्यम् , इत्याह - यत इति । क्षेत्रमिव क्षेत्रज्ञं ज्ञातव्यं दर्शयति- स चेति । स ज्ञातव्य इति सम्बन्धः । चक्षुराद्युपाधिकृतदृष्ट्यादिशक्तिवशात् तस्य ज्ञातव्यत्वं सूचयति - ये प्रभाव इति । तेन उक्तेन प्रभावेण तस्य ज्ञातव्यता इति शेपः । कथं यथा विशेषितं क्षेत्रं क्षेत्रज्ञो वा शक्यो ज्ञातुम् इत्याशङ्क्य, भगवद्वाक्यात् इत्याह - तदिति
॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 एवं श्लोकद्वयं व्याख्याय श्लोकान्तरम् अवतारयति - इदमिति । कुत्र सङ्ग्रहोक्तिः उपयुज्येते तत्राह - व्याचिख्यासितस्येति । प्रतिपत्तिसौकर्यार्थं सङ्ग्रहेक्तिः अर्थवती, इत्यर्थः । न केवलम् आप्तोक्तेरेव क्षेत्रादियाथात्म्यं सम्भावितम् , किन्तु वेदवाक्यादपि, इत्याह - छन्दोभिश्चेति । ऋगादीनां चतुर्णाणपि वेदानां नानाप्रकारत्वं शाखाभेदात् इष्टम् । न केवलं श्रुतिस्मृतिसिद्धम् उक्तं याथात्म्यम् , किन्तु यौक्तिकं च, इत्याह - किञ्चेति । कानि तानि सूत्राणि इत्याशङ्क्य आह - आत्मेत्येवेति । आदिपदेन ‘ब्रह्मविदाप्नोति परम् ‘, ‘अथ योऽन्यां देवताम् ‘ इत्यादीनि विद्याविद्यासूत्राणि उक्तानि । आत्मेति क्षेत्रज्ञोपादानम् , तच्च क्षेत्रोपलक्षणम् , तच्च क्षेत्रज्ञोपादानम् । ‘अथातो ब्रह्मजिज्ञासा’ (ब्र. सू. १-१-१) इत्यादीन्यपि सूत्राणि अत्र गृहीतानि अन्यथा छन्दोभिः इत्यादिना पौनरुक्त्यात् , इति मत्वा विशिनष्टि - हेतुमद्भिरिति
॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 श्लोकान्तरस्य तात्पर्यमाह - तदित्यादिना । विवक्षितम् - जिज्ञासितम् इत्यर्थः । स्तुतिफलमाह - श्रोत्रिति । क्षेत्रादियाथात्म्यस्तुत्या प्रलोभिताय, किं तत् इति जिज्ञासवे यथोद्देशं क्षेत्रं निर्दिशति स्तुत्येति महत्वे हेतुमाह- सर्वेति । भूतशब्देन स्थूलानामपि विशेषाभावात् ग्रहे का हानिः इत्याशङ्क्य, आह - स्थूलानीति । अहङ्कारः - अहंप्रत्ययलक्षण इति सम्बन्धः । भूतानां प्रतीतिकत्वेन अभिमानमात्रात्मत्वं मत्वा अहङ्कारं, विशिनष्टि - महाभूतेति । ‘महतः परम् ‘ इत्यादौ प्रसिद्धं महच्छब्दार्थम् अहङ्कारहेतुमाह - अहङ्कारेति । ईश्वरशक्तिः इत्युक्ते चैतन्यमपि शङ्क्येत, तदर्यमाह - ममेति । अवधारणरूपम् अर्थमेव स्फुटयति - एतावत्येवेति । पञ्चतन्मात्राणि अहङ्कारः महत् अव्याकृतम् इति अष्टधा भिन्नत्वम् । मूलप्रकृत्या सह तन्मात्रादिभेदानां समुच्चयः चकारार्थः । दश इन्द्रियाण्येव विभज्य व्युत्पादयति - श्रोत्रेत्यादिना । तदेव प्रश्नद्वारा स्फुटयति - किन्तदिति । शब्दादिविषयशब्देन स्थूलानि भूतानि गृह्यन्ते । उक्तेषु तन्मात्रादिषु तन्त्रान्तरीयसंमतिमाह - तानीति । ‘मूलप्रकृतिरविकृतिः महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारः’ इति पठन्ति
॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 उपलब्धजातीयस्य उपलभ्यमानस्य आदानेच्छायां हेतुमाह - सुखेति । इतिशब्दः हेत्वर्थः । सुखहेतुत्वात् तस्मिन् इच्छा, इत्यर्थः । इच्छां सुखतद्धेतुविषयत्वेन व्याख्याय आत्मधर्मत्वं तस्य व्युदस्यति - सेयमिति । तथापि कथं क्षेत्रान्तर्भूतत्वम् तत्राह - ज्ञेयत्वादिति । इच्छावत् द्वेषोऽपि धर्मः बुद्धेः, इत्याह - तथेति । कोऽसौ द्वेषः यस्य बुद्धिधर्मत्वम् , तत्राह - यज्जातीयमिति । तस्यापि इच्छावत् क्षेत्रान्तर्भावमाह सोऽयिमिति । इच्छाद्वेषवत् बुद्धिधर्मः सुखमपि, इत्याह - तथेति । तस्यापि स्वरूपोक्त्या क्षेत्रान्तःपातित्वमाह - अनुकूलमिति । दुःखस्यापि स्वरूपोक्त्या क्षेत्रमध्यवर्तित्वमाह - दुःखमिति । देहेन्द्रियात्मवादौ व्युदसितुं क्षेत्रान्तर्भूतमेव सङ्घातं विभजते - देहेति । विज्ञानवादं प्रत्याह - तस्यामिति । तप्ते लोहपिण्डे वह्रेः अभिव्यक्तिवत् उक्तसंहतौ बुद्धिवृत्तिः अभिव्यज्यते । तत्र च अग्निः अभिव्यक्तः लोहपिण्डमेव अग्निबुद्ध्या ग्राहयति । तथा आत्मचैतन्यं बुद्धिवृत्तौ अभिव्यक्तं तामेव आत्मतया बोधयति । अतः तदाभासानुविद्धा सैव चेतना इत्युच्यते । सा च मुख्यचेतनं प्रति ज्ञेयत्वात् अतद्रूपत्वात् क्षेत्रमेव इत्यर्थः । धृतिस्वरूपोक्त्या क्षेत्रत्वं तस्या दर्शयति - धृतिरित्यादिना । ननु - अऩ्येऽपि सङ्कल्पादयो मनोधर्माः सन्ति, ते किमिति अत्र क्षेत्रत्वेन नोच्यन्ते तत्राह - सर्वेति । तस्य उपलक्षणार्थत्वे हेतुमाह - यत इति । इच्छादिवत् अस्मिन्नवसरे सङ्कल्पादीनामपि दर्शितत्वं सिद्धवत्कृत्य, प्रकरणविभागार्थं यतो भगवदुक्तं क्षेत्रमुपसंहरति, अतः युक्तम् इच्छादिग्रहस्य सर्वानु्क्तबुद्धिधर्मोपलक्षणार्थत्वम् इत्यर्थः । विरक्तस्य ज्ञानाधिकाराय वैराग्यार्थं क्षेत्रं व्याख्यातम् , इति अनुवदति - यस्येति । क्षेत्रभेदजातस्य व्यष्टिदेहविभागस्य सर्वस्य इत्यर्थः । संहतिः - समष्टिशरीरम्
॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 अव्यक्ताहङ्कारादीनां त्रैगुण्याभिमानादिधर्मकत्वं प्रसिद्धमिति, शब्दादीनामेव ग्रहणे कर्मेन्द्रियाणां विषयानुक्तेः वैरूप्यप्रसङ्गात् , क्षेत्रनिरूपणस्य च प्रकृतत्वात् , स्वरूपनिर्देशेनैव तत्क्षेत्रं ‘यच्च यादृक्चे’ ति व्याख्यातम् । इदानीम् इच्छादीनाम् आत्मविकारत्वनिवृत्तये क्षेत्रविकारत्वनिरूपणेन ‘यद्विकारि’ इत्येतन्निरूपयन् मतान्तरनिवृत्तिपरत्वेन श्लोकमवतारयति - अथेति । सर्वज्ञोक्तिविरोधात् हेयं वैशेषिकं मतम् इति मत्वा उक्तम् - भगवानिति । अमानित्वादिनिष्ठस्य अन्तर्धियो ज्ञानम् , इति नियमार्थमाह - अमानित्वमिति । मानः - तिरोहितोऽवलेपः । स च आत्मनि उत्कर्षारोपहेतुः, सोऽस्य इति मानी, न मानी अमानी, तस्य भावः अमानित्वम् , इति व्याकरोति - अमानित्वमित्यादिना । प्रतियोगिमुखेन अदम्भित्वं विवृणोति- अदम्भित्वमिति । वाङ्मनोदेहैः अपीडनं प्राणिनाम् - अहिंसनम् , तदेव अहिंसा इत्याह - अहिंसेति । परापराधस्य चित्तविकारकारणस्य प्राप्तावेव अविकृतचित्तत्वेन अपकारसहिष्णुत्वं क्षान्तिः, इत्याह- क्षान्तिरिति । अवक्रत्वम् - अकौटिल्यम् , यथाहृदयव्यवहारः सदा एकरूपप्रवृत्तिनिमित्तत्वं च, इत्यर्थः । ‘उपनीय तु यः शिष्यम् ‘ इत्यादिना उक्तम् आचार्यं व्यवच्छिनत्ति - मोक्षेति । शुश्रूषादि, इति आदिपदं नमस्कारादिविषयम् । बाह्यम् आभ्यन्तरं च द्विप्रकारं शौचम् क्रमेण विभजते - शौचमित्यादिना । मनसो रागादि मलानाम् , इति सम्बन्धः । तदपनयोपायम् उपदिशति - प्रतिपक्षेति । रागादिप्रतिकूलस्य भावनाविषयेषु दोषदृष्ट्या वृत्तिः, तया इति यावत् । स्थिरभावमेव विशदयति - मोक्षेति । आत्मनो नित्यसिद्धस्य अनाधेयातिशयस्य कुतो विनिग्रहः तत्राह - आत्मन इति
॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 ननु - उक्ते क्षेत्रे, क्षेत्रज्ञो वक्तव्यः, तं हित्वा किमिति अन्यत् उच्यते तत्राह - क्षेत्रज्ञ इति । ‘अनादिमत् ‘ इत्यादिना वक्ष्यमाणविशेषणं क्षेत्रज्ञं स्वयमेव भगवान् विवक्षितविशेषणसहितं ‘ज्ञेयं यत्तत् ‘ इत्यादिना वक्ष्यति, इति सम्बन्धः । किमिति क्षेत्रज्ञो वक्ष्यते तत्राह - यस्येति । ‘ज्ञेयं यत्तत् ‘ इत्यतः प्राक्तनग्रन्थस्य तात्पर्यमाह - अधुनेति । अमानित्वादिलक्षणं विदधाति, इति उत्तरत्र सम्बन्धः । ज्ञानसाधनसमुदायबोधनं कुत्र उपयुज्यते तत्राह - यस्मिन्निति । योग्यमविकृतमेव विवृणोति - यत्पर इति । ‘एतज्ज्ञान ‘मिति वचनात् कथमिदं ज्ञानसाधनम् इत्याशङ्क्य, आह - तमिति । तद्विधानस्य वक्तृद्वारा दार्ढ्यं सूचयति - भगवानिति । दृष्टादृष्टेषु अनेकार्थेषु रागे तत्प्रतिबद्धं ज्ञानं नोत्पद्येत, इति मत्वा व्याकरोति - इन्द्रियेति । आविर्भूतो गर्वः अहङ्कारः, तदभावोऽपि ज्ञानहेतुः, इत्याह - अनहङ्कार इति । इन्द्रियार्थेषु वैराग्यम् उक्तम् उपपादयति - जन्मेति । प्रत्येकं दोषोनुदर्शनमित्युक्तम् , तत्र जन्मनि दोषानुदर्शनं विशदयति - जन्मनीति । यथा जन्मनि दोषानुसधानम् , तथा मृत्यौ दोषस्य सर्वमर्मनिकृन्तनादेः आलोचनं कार्यम् , इत्याह - तथेति । जन्मनि मृत्यौ च दोषानुसन्धानवत् , जरादिष्वपि दोषानुसन्धानं कर्तव्यम् , इत्याह - तथेति । व्याधिषु दोषस्य असह्यतारूपस्य अनुसन्धानम् , दुःखेषु त्रिविधेष्वपि दोषानुसन्धानं प्रसिद्धम् । व्याख्यानान्तरमाह - अथवेति । यथा जन्मादिषु दुःखान्तेषु दोषदर्शनम् उक्तम् , तथा तेष्वेव दुःखाख्यदोषस्य दर्शनं स्फुटयति - दुःखमित्यादिना । कथं जन्मादीनां बाह्येन्द्रियग्राह्याणां दुःखत्वम् तत्राह - दुःखेति । जन्मादिषु दोषानुदर्शनकृतं फलमाह - एवमिति । वैराग्ये सति आत्मदृष्ट्यर्थं करणानां त दाभिमुख्येन प्रवृत्तिरिति, वैराग्यफलमाह - तत इति । जन्मदिदुःखदोषानुदर्शनम् ज्ञानहेतुषु किमिति उपसङ्ख्यातम् इत्याशङ्क्य, वैराग्यद्वारा धीहेतुत्वात् इत्याह - एवमिति
॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 न केवलम् अमानित्वादीन्येव ज्ञानस्य अन्तरङ्गसाधनानि, किन्तु वैराग्यादीन्यपि तथाविधानि सन्ति, इत्याह - किञ्चेति । ननु - असक्तिरेव अभिष्वङ्गाभावः, तथा च पुनरुक्तिः ‘इत्याशङ्क्य’ अभिष्वङ्गोक्तिद्वारा निरस्याति- अभिष्वङ्गोनामेति । अन्यस्मिन्नेष पुत्रादौ अनन्यत्वधिया तद्गते सुखादौ आत्मनि तद्भावनाख्यं सक्तिविशेषमेव उदाहरति - यथेति । उक्तविशेषणयोः आकाङ्क्षाद्बारा विषयमाह - क्वेत्यादिना । उक्तविशेषणयोः ज्ञानशब्दस्य उपपत्तिमाह - तच्चेति । सदा हर्षविषादशून्यभनस्त्वमपि ज्ञानहेतुः, इत्याह - नित्यं चेति । तदेव विभजते- इष्टेति । तस्य ज्ञानहेतुत्वं निगमयति - तच्तचैदिति
॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानस्य अन्तरङ्गमेव हेत्वन्तरम् आह - किञ्चेति । अनन्ययोगमेव सङ्क्षिप्तं व्यनक्ति - नेत्यादिना । उक्तधीद्वारा जाताया भक्तेः भगवति स्थैर्यं दर्शयति - नेति । तत्रापि ज्ञानशब्दः तद्धेतुत्वात् , इत्याह - सा चेति । देशस्य विविक्तत्वं द्विविधमुदाहरति- विविक्त इति । तदेव स्पष्टयति - अरण्येति । उक्तदेशसेवित्वं कथं ज्ञाने हेतुः तत्राह - विविक्तेष्विति । आत्मादि, इति आदिशब्देन परमात्मा वाक्यार्थश्च उच्यते । ननु - अरतिविषयत्वेन अविशेषतो जनसंसन्मात्रं किमिति न गृह्यते तत्राह - तस्या इति । सन्तः सङ्गस्य भेषजम्"
इति उपलम्भात् इत्यर्थः ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 साधनान्तरमाह - किञ्चेति आत्मादि, इति आदिशब्दः अनात्मार्थः । तद्विषयं ज्ञानं विवेकः तन्नित्यत्वम् - तत्रैव निष्ठावत्त्वम् , विवेकनिष्ठो हि वाक्यार्थज्ञानसमर्थो भवति । तेषां भावनापरिपाको नाम यत्नेन साधितानां प्रकर्षपर्यन्तत्वम् । तन्निमित्तं तत्त्वज्ञानम् - ऐक्यसाक्षात्कारः । तत्फलालोचनं किमर्थम् इत्याशङ्क्य, आह - तत्त्वेति । प्रवृत्तिः स्यादिति । अतः तत्त्वज्ञानार्थदर्शनम् अर्थवत् , इति शेषः । ज्ञानस्य अन्तरङ्गहेतुम् उक्तम् उपसंहरति - एतदिति । किमिति तस्य विज्ञेयत्वम् इत्याशङ्क्य, आह - परिहरणायेति । तत्र हेतुः - संसारेति । तस्य प्रवृत्तिः - उत्पत्तिः, तद्धेतुत्वात् मानित्वादि त्याज्यम् , ज्ञाते च त्याज्यत्वे तेन तस्य ज्ञेयता, इत्यर्थः । इतिशब्दः साधनाधिकारसमसाप्त्यर्थः
॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 साधनान्तरमाह - किञ्चेति । अमानित्वादोनां ज्ञानत्वमुक्त्वा ज्ञातव्यमवतारयति - ज्ञेयमिति । प्रश्नद्वारा ज्ञेयप्रवचनस्य फलमुक्त्वा प्ररोचनं कृत्वा तेन श्रोतुः आभिमुख्यमापादयितुं प्ररोचनफलोक्तिपरम् अनन्तरवाक्यम् , इत्याह - किमित्यादिना । तदेव विशिनष्टि - अनादिमदिति । आदिमत्वराहित्यम् अव्याकृतस्याप्यस्ति, अतो विशेषं दर्शयति - किं तदिति । भोक्तुरपि भोग्यात् परत्वम् , इत्यतो विशिनष्टि - ब्रह्मेति । ‘अनादि’ इत्येकं पदम् , ‘मत्परम् ‘ इति चापरम् , इति पदच्छेदात् न पुनरुक्तिरिति मतान्तरम् उत्थापयति - अत्रेति । एकपदत्वसम्भवे किमिति पदद्वयम् इत्याशङ्क्य आह - बहुव्रीहिणेति । आदिः अस्य नास्तीति यो बहुव्रीहिणा उक्तः अर्थः, तस्मिन् आदिमत्वनिषेधे, नास्ति मतुपः अर्थवत्वमिति । मतुबानर्थक्यम् अनिष्टं स्यात् , इति मत्वा पदं छिन्दन्ति, इति पूर्वेण सम्बन्धः । आदिः अस्य नास्तीति, ‘अनादि’ इत्युक्त्वा ‘प्तत्परम् ‘ इति उच्यमाने कोऽर्थः स्यात् इत्याशङ्क्य, आह - अर्थेति । उक्तव्याख्यानस्य अयुक्तत्वात् नायं पुनरुक्तिसमाधिः, इत्याह - सत्यमिति । अर्थासम्भवं समर्थयते - ब्रह्मण इति । तथापि विशिष्टशक्तिमत्वं किं न स्यात् इत्याशङ्क्य, आह - विशिष्टेति । तथापि मतुपो बहुव्रीहिणा तुल्यस्यार्थस्य कथं नान र्थक्यम् तत्राह - तस्मादिति । अनादिमत्परं ब्रह्म, इत्यत्र पक्षान्तरं प्रतिक्षिप्य स्वपक्षः समर्थितः, सम्प्रति ब्रह्मणो ब्रह्मत्वादेव कार्यकारणात्मकत्वप्राप्तौ उक्तानुवादद्वारा ‘न सत् ‘ इत्यादि अवतारयति - अमृतत्वेति । सत् - कार्यम् , अभिव्यक्तनामरूपत्वात् , असत् - कारणम् , तद्विपर्ययात् , इति विभागः । ज्ञेयप्रवचनम् अनिर्वाच्यविषयत्वात् प्रक्रमप्रतिकूलम् , इति आक्षिपति - नन्विति । निर्विशेषस्य वस्तुनो ज्ञेयत्वात् तद्विषयं प्रवचनं प्रक्रमानुकूलम् इति, उत्तरमाह - नेत्यादिना । अनिर्वाच्यत्वेन ‘न सत्तन्नासत् ‘ इति उच्यमाने कथमिदम् अनुरूपम् इति पृच्छति - कथमिति । ब्रह्मात्मप्रकाशस्य सिद्धत्वात् तदर्थं विधिमुखेन उपदेशायोगात् अध्यस्ततद्धर्मनिवृत्तये निषेधद्वारा उपदेशस्य वेदान्तेषु प्रसिद्धेः आरोपितविशेषनिषेधरूपम् इदं प्रवचनमुचितम् , इति परिहरति - सर्वास्विति । ज्ञेयस्य ब्रह्मणो विधिमुखोपदेशायोगे हेतुमाह - वाच इति । ब्रह्मणः अस्तिशब्दावाच्यत्वे नरविषाणवत् नास्तित्वम् , इति अऩिष्टमाशङ्कते - ननु इति । एवम् उक्तेऽपि ब्रह्मणि किमायातम् इत्याशङ्क्या, आह - अथेति । ज्ञेयस्य अस्तिशब्दावाच्यत्वे व्याघातश्च, इत्याह - विप्रतिषिद्धं चेति । अस्तिशब्दावाचयत्वात् अवस्तु ब्रह्म इत्यत्र अप्रयोजकत्वम् आह - न तावदिति । नास्तिबुद्धिविषयत्वमेव अवस्तुत्वे निमित्तम् । अतः तदभावात् ब्रह्मणः नावस्तुता, इत्येतदेव व्यक्तीकर्तुं चोदयति - नन्विति । सर्वासां धियां अस्तिधीत्वेन नास्तिधीत्वेन वा अऩुगतत्वे अन्यतरधीगोचरत्वाभावे ब्रह्मणोऽनिर्वाच्यत्वम् दुर्वारम् , इति फलितमाह - तत्रेति । ब्रह्मणो घटादिवैलक्षण्यात् - उभयबुद्ध्यविषयत्वेऽपि न अनिर्वाच्यता, इत्याह - नेत्यादिना । घटादेः । इन्द्रियग्राह्यस्य उभयबुद्धिविषयत्वेऽपि ब्रह्मणः तदग्राह्यस्य ऩोभयधीविषयत्वम् तथाऽपि नानिर्वाच्यत्वम् , सच्चिदेकतानस्य शब्दप्रमाणात् अविषयत्वेन दृष्टत्वात् , इति उक्तमेव प्रपञ्चयति - यद्धीति । परीक्तं विरोधम् अनुवदति - यत्त्विति । श्रुत्यवष्टम्भेन निराचष्टे - न विरुद्धमिति । सापि विरुद्धार्थत्वात् न मानम् , बोधकस्य अविरोधापेक्षत्वात् , इति शङ्कते - श्रुतिरिति । तस्या विरुद्धार्थत्वेन अप्रामाण्ये दृष्टान्तमाह - यथेति । प्राचीनवंशं करोति, इति पारलौकिकफलयज्ञानुष्ठानार्थं शालानिर्माणं प्रस्तुत्य, ‘को हि तद्वेद’ इत्याद्या परलोकसत्वे सन्दिहाना यथा वि्रुद्धार्था श्रुतिरप्रमाणम् , एवं विदिताविदितान्यत्वश्रुतिरपि इत्यर्थः । नेयं श्रुतिः विरुद्धत्वेन अमानतया हातव्या, ब्रह्मणि अद्वितीये प्रत्यक्ताप्रतिपादनेन मानत्वात् , इति उत्तरमाह - न विदितेति । यत्तु विरुद्धार्थत्वे ‘को हि’ इति िउदाहृतम् ; तदसत् , अर्थवादस्य विधिशेषस्य स्वार्ते अतात्पर्यात् , इत्याह - यदीति । यत्र जात्यादिमत्वं तत्र वाच्यत्वं यथा गवादौ, न ब्रह्मणि जतिमत्वम् , अतः तस्यावाच्यत्वात् निषेधेनैव बोध्यत्वम् , इत्याह- उपपत्तेश्चेति । नीच्यत इति निषेधेनैव तस्य उपदेश इति शेषः । जात्यादिमतोऽर्थस्यैव वाच्यत्वम् तत्रैव सङ्गतिग्रहात् इति प्रपञ्चयति - सर्वो हीति । अश्रुतस्य, जात्यादिद्वारेण अज्ञातसङ्गतेर्वा शब्दस्य न बोधकत्वम् , अदृष्टेः, इत्याह - नान्यथेति । जात्यादेः सच्छब्दविषयत्वम् उदाहरति - तद्यथेत्यादिना । ब्रह्मणस्तु ‘अगोत्रमवर्णम् ‘ इत्यादिश्रुतेः जात्यादिमत्वाम्भावात् न शब्दवाच्यता, इत्याह- नत्विति । ‘केवलो निर्गुणश्च’ (श्वे. उ. ६-११) इति श्रुतेः गुणद्वारा ब्रह्मणो न वाच्यता, इत्याह - नापीति । निष्क्रियत्वे मानमाह - निष्कलमिति । ब्रह्मणः अद्वितीयत्वस्य अशेषोपनिषत्सु सिद्धत्वात् द्विनिष्ठस्य सम्बन्धस्य तस्मिन्नसिद्धेः न तद् - द्वारापि तस्य वाच्यता, इत्याह- न चेति । ब्रह्मणि अभिधावृत्या शब्दाप्रवृत्तौ हेत्वन्तराण्याह - अद्वयत्वादिति । ब्रह्मणोऽवाच्यत्वे श्रुतिमपि संवादयति- यत इति
॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 उत्तरग्रन्थमवतारयति - यथोक्तेति । अमानित्वादीनां ज्ञानत्वम् आक्षिपति - नन्विति । वस्तुपरिच्छेदकत्वात् ज्ञानत्वम् आशङ्क्य, आह - नहीति । परिच्छेदकत्वात् ज्ञानत्वम् , ज्ञानत्वात् परिच्छेदकत्वम् , इति अन्योन्याश्रयात् , इत्यभिप्रेत्य, आह - सर्वत्रेति । स्वार्थस्यैव ज्ञानं परिच्छेदकम् , इत्येतत् व्यतिरेकद्वारा विशदयति - नहीति । त्र्यतिरेकदृष्टान्तमाह - यथेति । अमानित्वादीनां ज्ञानत्वमाक्षिप्तं प्रतिक्षिपति - नैष दोष इति । तत्र हेतुत्वेन उक्तं स्मारयति - ज्ञानेति । तेषु ज्ञानशब्दे हेत्वन्तरमाहृ - ज्ञानेति । उक्तप्रवृत्या चेतनास्तित्वसिद्धावपि कथं क्षेत्रज्ञास्तित्वम् इत्याशङ्क्य, चेतनस्यैव क्षेत्रोपाधिना क्षेत्रज्ञत्वात् चेतनास्तित्वं तदस्तित्वमेव, इत्याह - क्षेत्रज्ञश्चेति । तस्य क्षेत्रोपाधित्वेऽपि कथं पाणिपादाक्षिशिरोमुखादिमत्वम् इत्याशङ्क्य आह - क्षेत्रं चेति । अतश्च उपाधितः तस्मिन् विशेषोक्तः, इति शेषः । कथं तर्हि ‘न सत्तन्नासन् ‘ इति निर्विशेषोक्ति इत्याशङ्क्य, आह - क्षेत्रेति । पाणिपादादिमत्वम् औपाधिकं मिथ्या चेत् , ज्ञेयप्रवचनाधिकारे कथं तदुक्तिः इत्याशङ्क्य, आह - उपाधीति । मिथ्यारूपमपि ज्ञेयवस्तुज्ञानोपयोगि इत्यत्र वृद्धसंमतिमाह - तथा हीति । पाणिपादादीनाम् अन्यगतानाम् आत्मधर्मत्वेन आरोप्य व्यपदेशे को हेतुः इति, चेत् , तत्राह - सर्वत्रेति । ज्ञेयस्य ब्रह्मणः, शक्तिः - सन्निधिमात्रेण प्रवर्तनसामर्थ्यम् , तत् सत्त्वं निमित्तीकृत्य स्वकार्यवन्तो भवन्ति पाण्यादयः इति कृत्वा, इति योजना । ‘सर्वतोऽक्षि’ (भ. गी. ३-१३) इत्यादौ उक्तमतिदिशति - तथेति । तत् ज्ञेयं यथा सर्वतः पाणिपादम् इति व्याख्यातं तथा, इति उक्तमेव स्फुटयति - सर्वत इति । ‘सर्वतोऽक्षि’ इत्यादेः अक्षरार्थमाह - सर्वतोऽक्षीति । अक्षिश्रवणवत्वम् अवशिष्टज्ञानेन्द्रियवत्त्वस्य, पाणिपादमुखवत्वं च अविशिष्टकर्मेन्द्रयवत्त्वस्य मनोबुद्ध्यादिमत्त्वस्य च उपलक्षणम् । एकस्य सर्वत्र पाण्यादिमत्वं साधयति - सर्वमिति
॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वविशेषरहितस्य अवाङ्मनसगोचरस्य अदृष्टेः दृष्टेश्च विपरीतस्य, प्रप्ते बह्मणः शून्यत्वे, प्रत्यक्त्वेन इन्द्रियप्रवृत्त्यादिहेतुत्वेन कल्पितद्वैतस्यत्तास्फूर्तिप्रदत्वेन, ईश्वरत्वेन च सत्त्वं दर्शयन् आदौ देहादीनां प्रवृत्तिमतां स्थादिवत् अचेतनानां प्रेक्षापूर्वकप्रवृत्तिमत्वात् चेतनाधिष्ठितत्त्वम् अनुमिमानः, तत्प्रत्यक्चेतनं ब्रह्म, इत्याह - सच्छब्देति । तदस्तित्वमिति तच्छब्दः ज्ञेयब्रह्मार्थः । तदाशङ्केति । तच्छब्देन असत्वमुच्यते । ननु - सर्वदेहेषु पाणिपादम् अस्येति, कथं पाणीनां च पादानां च देहस्थत्वेन आत्मधर्मत्वम् तत्राह - सर्वेति । करणप्रवृत्तिः रथादिप्रवृत्तिवत् प्रेक्षापूर्वकप्रवृत्तित्वात् चेतनाधिष्ठातृपूर्विका, इत्यर्थः । इन्द्रियविशेषणीभूतसर्वशब्दात् ज्ञेयोपाधित्वन्यायाविशेषाच्च अत्र बुद्ध्यादेरपि ग्रहणम् , इत्याह - अन्तःकरणे चेति । श्रोत्रादीनां ज्ञेयोपाधित्वस्य मनोबुद्धिद्वारात्वादपि तयोः इह ग्रहणम् , इत्याह - अपि चेति । तयोरपि इह उपादाने फलितमाह - इत्यत इति । अक्षरार्थमुक्त्वा वाक्यार्थमाह - सर्वेति । उपाधिद्वारा कल्पितव्यापारवत्वे मानमाह- ध्यायतीति । कल्पितमेव अस्य व्यापारवत्वम् , न वास्तवम् , इत्यत्र भगवतोऽपि संमतिम् आकाङ्क्षाद्वारा दर्शयति - कस्मादित्यादिना । सर्वकरणराहित्ये फलमाह - अत इति । साक्षादेव ज्ञेयस्य वेगवद्विहरणादिक्रियावत्ताया मान्त्रवर्णिकत्वात् , कुतोऽस्य करणव्यापारैः अव्यापृतत्वम् इत्याशङ्क्य, अनुवादपूर्वकं मन्त्रस्य प्रकृतानुगुणत्वमाह - यस्त्विति । करणगुणानुगुण्यभजनमन्तरेण साक्षादेव जवनादिक्रियावत्त्वप्रदर्शनपरत्वे मन्त्रस्य मुख्यार्थत्वं स्यात् , इत्याशङ्क्य, तदसम्भावत् नैवम् इत्याह - अन्ध इति । अर्थवादस्य श्रुते अर्थे तात्पर्याभावात् न प्रकृतप्रतिकूलता, इत्यर्थः । सर्वकरणराहित्यं तदूव्यापारराहित्यस्य उपलक्षणम् , इत्यङ्गीकृत्य, उक्तमेव हेतुं कृत्वा वस्तुतः सर्वसङ्गविवर्जितत्वम् आह - यस्मादिति । वस्तुतः सर्वसङ्गाभावेऽपि सर्वाधिष्ठानत्वम् आह - यद्यपीति । स्वसत्तामात्रेण अधिष्ठानतया सर्वं पुष्णाति, इत्येतत् उपपादयति - सदिति । विमतम् , सति कल्पितम् , प्रत्येकं सदनुविद्धधीबोध्यत्वात् , प्रत्येकं चन्द्रभेदानुविद्धधीबोध्यचन्द्रभेदवत् , इत्यर्थः । सर्वं सदास्पदम् , इत्ययुक्तम् , मृगतृष्णिकादीनां तदभावात् , इत्याशङ्क्य, आह - नहीति । तेषामपि कल्पितत्वे निरधिष्ठानत्वायोगात् निरूप्यमाणे तदधिष्ठानं सदेवेति, सर्वस्य सति कल्पितत्वम् अविरुद्धम् , इत्यर्थः । सर्वाधिष्ठानत्वेन, ज्ञेयस्य ब्रह्मणः अस्तित्वमुक्तम् उपसंहरति - अत इति । इतश्च ज्ञेयं ब्रह्मास्ति, इत्याह - स्यादिदं चेति । नहि तस्य उपलब्धृत्वं असत्वे सिध्यति, इत्यर्थः
॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 आरोपादृते साक्षादेव ज्ञेयस्य पाण्यादिमत्त्वमाशङ्क्य, आह - उपाधीति । ‘बहिः’ इति व्याख्येयमादाय व्याचष्टे - त्वगिति । भूतेभ्यो बहिः - बाह्यविषयाद्यात्मकम् , इत्यर्थः । कथम् अनात्मन एव आत्मत्वम् कल्पनया इत्याह - आत्मत्वेनेति । अन्तःशब्दार्थमाह - तथेति । भूतानां - चराचराणाम् , अन्तः मध्ये, प्रत्यग्भूतमित्यर्थः । द्वितीयं पादमवतार्थ व्याचष्टे - बहिरित्यादिना । यत् मध्ये भूतात्मकं नानाविधदेहात्मना भासमानम् , तदपि ज्ञेयान्तर्भूतं तत्त्वं सत् , इत्यर्थः । कथं चराचरात्मनो भूतजातस्य ज्ञेयत्वम् तत्राह - यथेति । अधिष्ठाने रजज्वां कल्पितसर्पादेः अन्तर्भाववत् देहाभासस्यापि ज्ञेयान्तर्भावात् , नासत्त्वं मध्येज्ञेयस्य शङ्कितव्यम् , इत्यर्थः । सर्वात्मकं चेत् ज्ञेयम् , सर्वैः इदमिति । किमिति । न गृह्येत इति शङ्कते - यदीति । इदमिति । ग्राह्यत्वयोग्यत्वाभावात् , नेत्याह - उच्यतइति । सर्ववस्त्वात्मना भासते, तदयोग्यत्वं कथम् इत्याशङ्क्य आह - सत्यमिति । सूक्ष्मत्वेऽपि किं स्यात् इत्याशङ्क्य, आह - अत इति । सूक्ष्मत्वम् - अतीन्द्रियत्वम् । तस्य अविज्ञेयत्वे कुतः तज्ज्ञानान्मुक्तः तत्राह - अविदुषामिति । विशेषणफलमाह- विदुषां त्विति । तेषामात्मत्वेन ज्ञातं चेत् , तथं दूरस्थत्वम् इत्याशङ्क्य, आह - अविज्ञाततयेति । कथं तर्हि तस्य प्रत्यक्त्वम् तत्राह - अन्तिके चेति । विद्वदविद्वदूभेदापेक्षया ‘दूरात्सुदूरे तदिहान्तिके च’ (मु. उ. ३-१-७) इति श्रुतिः । तदर्थः अत्र प्रसङ्गात् अनूदित इत्यर्थः
॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 इतोपि ज्ञेयं ब्रह्मास्ति, इत्याह- किञ्चेति । तद्धि प्रतिदेहं नभोवत् एकम् , तद् - भेदेमानाभावात् , भिन्नत्वे च घटवत् अनात्मत्वापातात् अतः अद्वितीयम् , सर्वत्र प्रत्यग्भूतं ज्ञेयं नास्तीति अतिसाहसम् इत्याह - अविभक्तं चेति । कथं तर्हि देहादेः भेदधीः इत्याशङ्क्य कल्पनया इत्याह - भूतेष्विति । तत्र हेतुः- देहेष्विति । कार्याणां स्थितिहेतुत्वाच्च ज्ञेयमस्ति, इत्याह - भूतेति । निमित्तोपादानतया तेषां प्रलये प्रभवे च कारणत्वाच्च तदस्ति, इत्याह - प्रलयेति । तहि कार्यकारणत्वस्य वस्तुत्वात् नाद्वैतम् , इत्याशङ्क्य, आह - यथेति
॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञेयस्यास्तित्वे हेत्वन्तरमाह- किञ्चेति । तर्हि किं तस्य रूपम् इति पृच्छति - किं तर्हीति । तत्रोत्तरम् - ज्योतिषामिति । सूर्यादीनां च प्रकाशकत्वात् अस्ति ज्ञेयं ब्रह्म, इत्याह - ज्योतिषामिति । तदेव उपपादयति - आत्मेति । तत्र श्रुतिद्वयं प्रमाणयति - येनेति । उक्तेऽर्थे वाक्यशेषमपि दर्शयति - स्मृतेश्चेति । ज्ञेयस्य अतमस्त्वेपि तमःस्पृष्टत्वम् आशङ्क्य उक्तम् - तमस इति । उत्तरार्धस्य तात्पर्यमाह - ज्ञानादेरिति । उत्तम्भनम् - उद्दीपनम् - प्रकटीकरणम् , इति यावत् । ज्ञानम् अमानित्वादि, करणव्युत्पत्त्या, इति शेषः । ज्ञानगम्यम् - ज्ञेयमिति पुनरुक्तिं शङ्कित्वा उक्तम् - ज्ञेयमिति । उक्तत्रयस्य बुद्धिस्थतया प्राकट्यं प्रकटयति - तदेतदिति । तत्र अनुभवं अनुकूलयति - तत्रैवेति
॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 इतोऽपि ज्ञेयस्यास्तित्वम् , इत्याह - किञ्चेति । हेत्वन्तरमेव स्फोरयितुं शङ्कते - सर्वत्रेति । न तत् तमो मन्तव्यम् , इत्याह - नेति । पूर्वाधं विभजते - इत्येवमिति । वक्तव्यान्तरे सति, किमिति त्रितयमेव सङ्क्षिप्य उपसंहृतम् , तत्राह - एतावानिति । उत्तरार्धम् आकाङ्क्षाद्वारा अवतारयति - अस्मिन्निति । ईश्वरे समर्पित सर्वात्मभावमेव अभिनयति - यत्पश्यतीति । विज्ञाय - लब्ध्वा, इत्यर्थः
॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 त्वमर्थशुद्ध्यर्थं सविकारं क्षेत्रम् , पदवाक्यार्थविवेकसाधनं च अमानित्वादि, तत्पदार्थ च शुद्धम् , तद्भावोक्त्यर्थं उक्त्वा तेषां फलम् उपसंहरति- यथोक्तेति । ‘स च यो यत्स्वभावश्च’ इति उद्दिष्टं व्याचष्टे - प्रकृतिमिति । ईश्वरस्य अपरा प्रकृतिः अत्र प्रकृतिशब्देन उक्ता, परा तु प्रकृतिः जीवाख्या पुरुषशब्देन विवक्षिता, इति व्याकरोति - ईश्वरस्येति । तयोरनादित्वं व्युत्पादयति - नेत्यादिना । तत्र युक्तिमाह - नित्यत्वादीश्वरस्येति । ईश्वरस्य उक्तप्रकृतिद्वयवत्वं कथम् इत्याशङ्क्य, आह - प्रकृतीति । तस्य जगज्जन्मादौ स्वातन्त्र्यमेव ईश्वरत्वम् , न प्रकृतिद्वयवत्वम् , इत्याशङ्क्य, आह - याभ्यामिति । प्रकृत्योः अनादित्वं कुत्रोपयुक्तम् इत्याशङ्क्य, आह - ते इति । मतान्तरमाह - नेत्यादिना । तयोर्मूलकारणत्वाभावे कस्य तदेष्टव्यम् इत्याशङ्क्या, आह - तेन हीति । प्रकृत्योरेव मूलकारणत्वे श्रुतिस्मृतिसिद्धम् ईश्वरस्य तथात्वं न स्यात् , इत्याह - यदीति । प्रकृतिद्बयस्य कार्यत्वपक्षं प्रत्याह - तदसदिति । किं च प्रकृतिद्वयमनपेक्ष्य ईश्वरस्य संसारहेतुत्वे स्वातन्त्र्यात् मुक्तानामपि ततः संसाराप्तेः अनिषेधात् मोक्षशास्त्राप्रामाण्यात् न तस्यैव संसारहेतुता, इत्याह - संसारस्येति । निर्निमित्तत्वं प्रकृतिद्वयापेक्षामृते परस्यैव निमित्तत्वम् , इति यावत् । किं च कार्यत्वे प्रकृत्योः तदुदयात्पूर्वं बन्धाभावे तद्विश्लेषात्मनो मोक्षस्याभावात् कदाचित् उभयाभावे पुनस्तदप्रसङ्गात् न प्रकृतिद्वयस्य कार्यता, इत्याह - बन्धेति । प्रकृत्योः मूलकारणत्वे नानुपपत्तिः, इत्याह - नित्यत्व इति । स्वपक्षे दोषाभावं प्रश्नपूर्वकं प्रपञ्चयति - कथमित्यादिना । सङ्क्षवः - सत्ताप्रापको हेतुः । प्रकृतेरनादित्वे विकाराणां गुणानां च तस्कार्यत्वात् आत्मनो निर्विकारत्वं निर्गुणत्वं च सिध्यति, इति भावः
॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 ‘प्रकृतिम् ‘इत्यादि वक्ष्यमाणम् अनन्तरपूर्वग्रन्थसम्बन्धि, इत्याशङ्क्य व्यवहितेन सम्बन्धर्थं व्यवहितमनुवदति - तत्रेति । तयोश्च प्रकृत्योः उक्तं भूतकारणत्वम् इत्याह - एतदिति । भूतानामिव प्रकृत्योरपि प्रकृत्यन्तरापेक्षया अनवस्थानात् , न भूतयोनिता, इति शङ्क्ते - क्षेत्रेति । तत्र अकृताभ्यागमादिवारणाय बन्धस्य निदानज्ञानार्थम् आत्मनो विक्रियावत्वादिदोषनिरासार्थं च प्रकृतिपुरुषयोः अनादित्वं क्षेत्रत्वेनोक्तानां प्रकृतिं प्रति विकारभावं च दर्शयति - अयमर्थ इति । पुरुषस्य अनादित्वकृतं बन्धहेतुत्वमाह - पुरुष इति । पूर्वार्धं व्याचष्टे - कार्यमित्यादिना । ज्ञानेन्द्रियपञ्चकम् , कर्मेन्द्रियपञ्चकम् , मनः, बुद्धिः, अहङ्कारश्च इति त्रयोदश करणानि । तथापि, भूतानां विषयाणां च ग्रहणात् कथं तेषां प्रकृतिकार्यता इत्याशङ्क्य, आह - देहेति । तथापि, गुणानां इहाग्रहणात् न प्रकृतिकार्यत्वम् , तत्राह - गुणाश्चेति । उक्तरीत्या निष्पन्नमर्थमाह - एवमिति । पाठान्तरमनूद्य व्याख्यापूर्वकम् अर्थाभेदमाह - कार्येत्यादिना । व्याख्यान्तरमाह - अथवेति । एकादश इन्द्रियाणि, पञ्चविषया इति षोडशसङ्ख्याकविकारः अत्र कार्यशब्दार्थः, महान् , अहङ्कारः, भूततन्मात्राणि, मूलप्रकृतिः इत्यर्थः । उत्तरार्धस्य तात्पर्यम् आह - पुरुषश्चेति । तस्य परमात्मत्वं व्यवच्छिनत्ति - जीव इति । तस्य प्राणधारणनिमित्तस्य तदर्थं चेतनत्वमाह - क्षेत्रज्ञ इति । तस्य अनौपाधिकत्वं वारयति - - भोक्तेति । तयोः संसारकारण्त्वम् उपपादयितुं शङ्कते - कथमिति । अन्वयव्यतिरेकाभ्यां तयो तथात्वम् इत्याह - अत्रेति । तत्र व्यतिरेकं दर्शयति- कार्येति । न हि नित्यमुक्तस्यात्मनः स्वतः संसारोऽस्ति, इत्यर्थः । इदानीम् अन्वयमाह - यदेति । अन्वयादिफलम् उपसंहरति- अत इति । आत्मनोऽविक्रियस्य संसरणं नोचितम् , इत्याक्षिपति - कः पुनरिति । सुखदःखान्यतरसाक्षात्कारो भोगः, स च अविक्रियस्यैव द्रष्टुः संसारः, तथाविधभोक्तृत्वम् अस्य संसारित्वम् , इति उत्तरमाह - सुखेति । श्लोकव्याख्यासमाप्तौ इति शब्दः
॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 विकाराणां गुणानां प्रकृतेश्च स्वरूपम् आकाङ्क्षाद्वारा निर्णेतुम् उत्तरश्लोकपूर्वार्धं पातयति - के पुनरिति । निमित्तं वक्तुम् आदौ संसारित्वमस्य अविद्यौक्याध्यासात् , इत्याह - पुरुष इति । यस्मात् प्रकृतिम् आत्मत्वेन गतः, तस्मात् भुङ्कते, इति योजना । गुणविषयं भोगम् अभिनयति - सुखीति । अविद्यायाः भोगहेतुत्वात् किं कारणान्वेषणया, इत्याशङ्क्य, आह - सत्यामपीति । सङ्गस्य जन्मादौ संसारे प्रधानहेतुत्वे मानमाह - स यथेति । उक्ते अर्थे द्वितीयार्धमवतार्य व्याचष्टे - तदेतदित्यादिना । साध्याहारं योजनान्तारमाह - अथवेति । सदसद्योनीः विविच्य व्याचष्टे - सद्योनय इति । योनिद्वयनिर्देशात् मध्यमवर्तिन्यो मनुष्ययोनयोऽपि ध्वनिता इत्याह - सामर्थ्यादिति । सङ्गस्य संसारकारणत्वे, ऩ अविद्यायाः तत्कारणत्वम् , एकस्मादेव हेतोः तदुपपत्तेः, इत्याशङ्क्य, आह - एतदिति । अविद्या उपादानम् , सङ्गो निमित्तम् , इति उभयोरपि कारणत्वं सिध्यति, इत्यर्थः । द्विविधहेतूक्तेः विवक्षितं फलमाह - तच्चेति । सासङ्गस्य अज्ञानस्य स्वतोऽनिवृत्तेः तन्निवर्तकं वाच्यम् , इत्याशङ्क्य, आह - अस्येति । वैराग्ये सति संन्यासः, तत्पूर्वकं च ज्ञानं सासङ्गाज्ञाननिवर्तकम् ; इत्यर्थः । उक्ते ज्ञाने मानमाह - गीतेति । अध्यायादौ च उक्तं ज्ञानम् , उदाहृतम् , इत्याह- तच्चेति । तदेव ज्ञानं ‘यज्ज्ञात्वा’ इत्यादिना ‘न सत्तन्नासत् ‘ इत्यन्तेन अन्यनिषेधेऩ, ‘सर्वतः पाणिपादम् ‘ इत्यादिना च अतद्धर्माध्यासेन उक्तम् , इत्याह - यज्ज्ञात्वेति
॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 श्लोकान्तरं प्रश्नोत्तरत्वेन अवतारयति- यदिति । कार्यकारणानां व्यापारवतां समीपे स्थितः सन्निधिमात्रेण तेषां साक्षी इत्येवमर्थत्वेन उपद्रष्टा इति पदं व्याचष्टे - समीपस्थ इति । लोकिकस्येव द्रष्टुः अस्यापि स्वव्यापारविशिष्टतया निष्क्रियत्वविरोधमाशङ्क्य, आह - स्वयमिति । स्वाव्यापारादृते सन्निधिरेव द्रष्ट्रत्वम् । दृष्टान्तेन स्पष्टयति - यथेति । उपद्रष्टा इत्यस्य अर्थान्तरमाह - अथवेति । बहूनां द्रष्टृत्वेऽपि कस्य उपद्रष्ट्वत्वम् तत्राह - तेषामिति । उपोपसर्गस्य सामीप्यार्थत्वेन प्रत्यगर्थत्वात् , तत्रैव सामीप्यावसानात् , प्रत्यगात्मा च द्रष्टा च इति, उपद्रष्टा सर्वसाक्षी, प्रत्यगात्मा इत्यर्थः । उक्तमेव व्यनक्ति - यत इति । यथा यजमानस्य ऋत्विजां च यज्ञकर्मणि गुणं दोषं वा सर्वयज्ञाभिज्ञः सन् उपद्रष्टा विषयीकरोति, तथा अयमात्मा चिन्मात्रस्वभावः सर्वं गोचरयतीति, उपद्रष्टेति पक्षान्तरमाह – यज्ञेति । ‘अनुमन्ता च’ इत्येतत् व्याकरोति - अनुमन्तेति । ये स्वयं कुर्वन्तो व्यापारयन्तो भवन्ति. तेषु कुर्वत्सु सत्सु, याः तेपां क्रियाः, तासु पार्श्वस्थस्य परितोषः अनुमननम् । तच्च अनुमोदनं, तस्य सन्निधिमात्रेण कर्ता यः, सोऽनुमन्ता इत्यर्थः । व्याख्यान्तरमाह - अथवेति । तदेव स्फुटयति - कार्येति । अर्थान्तरमाह - अथवेत्यादि । भर्ता इति पदमादाय, किं भरणं नाम इति पृच्छति - भर्तेति । तद्रूपं निरूपयन् आत्मनो भर्तृत्वं साधयति - देहेति । भोक्ता इत्युक्ते क्रियावत्वे प्राप्ते, भोगः चिदवसानता इति न्यायेन विभजते - अग्नीति । विशेषणान्तरमादाय व्याचष्टे - महेश्वर इति । परमात्मत्वम् उपपादयति - देहादीनामिति । अविद्यया कल्पितानाम् , इति सम्बन्धः । परमत्वम् - प्रकृष्टत्वम् , सः पूर्वेक्तविशेषणवान् , इति यावत् परमात्मशब्दस्य प्रकृतात्मविषयत्वे श्रुतिमनुकूलयति - अन्त इति । तस्य ताटस्थ्यं प्रश्नद्वारा प्रत्याचष्टे- क्वेति । कस्मात् परत्वम् तदाह - अव्यक्तादिति । तत्रैव वाक्यशेषानुकूल्यम् आह - उत्तम इति । सोऽस्मिन् देहे परः पुरुषः, इति सम्बन्धः । शोधितार्थयोः ऐक्यज्ञानं प्रागुक्तं फलोक्त्या स्तौति - क्षेत्रज्ञं चेति
॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकृतस्यैव मोक्षहेतोर्ज्ञानस्य साक्षान्निर्देशाय उत्तरश्लोकम् उत्थापयति - तस्येति । यथोक्तप्रकारेण - जीवेश्वरादि सर्वकल्पनाधिष्ठानत्वेन, इत्यर्थः, साक्षादपरोक्षत्वेन, इति यावत् । यथोक्ताम् - अनादिं अनिर्वाच्यां, सर्वानर्थोपाधिभूताम् , इत्यर्थः । विद्ययाप्रागुक्तैकत्वगोचरया प्रकृतिम् अविद्यारूपां सकार्याम् अभावमापादितां यो वेत्ति, इति सम्बन्धः सर्वप्रकारेण - विहितेन निषिद्धेन च इत्यर्थः । पुनर्नकारः अन्वयार्थः । निपातसूचितं न्यायमाह - अपीति । ‘न स भूयोऽभिजायते’ इत्युक्तमाक्षिपति- नन्विति । ज्ञानोत्पत्त्यनन्तरं जन्माभावस्योक्तत्वात् पुनर्देहारम्भमुपेत्य नाक्षेपः स्यात् , इत्याशङ्क्य, आह - यद्यपीति । तथापि स्युस्त्रीणि जन्मामि इति सम्बन्धः । वर्तमानदेहे ज्ञानात्पूर्वोत्तरकालानां कर्मणआं फलमदत्वा नाशायोगात् जन्मद्वयमावश्यकम् । अतीतानेकदेहेष्वपि कृतकर्मणां ‘नाभुक्तं क्षीयते कर्म’ इत्येव स्मृतेः अदत्वा फलमनाशात् अस्ति तृतीयमपिजन्म, इत्याह - प्रागिति । फलदानं विनापि कर्मनाशे दोषमाह- कृतेति । न युक्त इति कृत्वा फलमदत्वा कर्मनाशो न, इति शेषः । विमतानि कर्माणि, फलमदत्वा न क्षीयन्ते, वैदिककर्मत्वात् , आरब्धकर्मवत् , इति मत्वा आह- यथेति । नाशो न ज्ञानात् इति शेषः । ननु अनारब्धकर्मणां ज्ञानात् नाशो युक्तः अप्रवृत्तफलत्वात् । आरब्धकर्मणां तु प्रवृत्तफलत्वेन बलवत्वात् न ज्ञानात् तन्निवृत्तिः इति । नेत्याह - न चेति । अज्ञानोत्थत्वेन ज्ञानविरोधित्वाविशेषात् प्रवृत्ताप्रवृत्तफलत्वम् अनुपयुक्तम् इति भावः । कर्मणां फलमदत्वा नाशाभावे फलितमाह - तस्मादिति । ननु - कर्मणां बुहुत्वात् तत्फलेषु जन्मसु कुतः त्रित्वम् आरम्भककर्मणां त्रिप्रकारकत्वात् इति चेत् , न, अनारब्धत्वेन एक प्ररारत्वसम्भवात् , तत्राह - संहतानीति । नास्ति ज्ञानस्य ऐकान्तिकफलत्वम् इति शेषः । उक्तकर्मणां जन्मानारम्भकत्वे प्रागुक्तं दोषम् अनुभाष्य, तस्य अतिप्रसञ्जकत्वमाह - अन्यथेति । सर्वत्रेति - आरब्धकर्मस्वपि, इति यावत् । फलजनकत्वानिश्चयः अनाश्वासः । कर्मणां जन्मानारम्भकत्वे कर्मकाण्डानर्थक्यं दोषान्तरमाह - शास्रेति । अनारब्धकर्मणां सत्यपि ज्ञाने जन्मान्तरारम्भकत्वध्रौव्ये फलितमाह- इत्यत इति । श्रुत्यवष्टभेन परिहरति - नेत्यादिना । ज्ञानात् अनारब्धकर्मदाहे भगवतोऽपि संमतिमाह - इहापीति । ज्ञानाधीनसर्वकर्मदाहे ‘सर्वधर्मान् परित्यज्य’ (भ. गी. १८-६६) इति वाक्यशेषोऽपि प्रमाणीभवति, इत्याह - वक्ष्यति चेति । ज्ञानात् अनारब्धाशेषकर्मक्षये युक्तिरपि वक्तुं शक्या इत्याह - उपपत्तेश्चेति । तामेव विवृणोति - अविद्येति । अज्ञस्य अविद्यास्मितारागद्वेषाभिनिवेशाख्यक्लेशात्मकानि सर्वानर्थबीजानि, तानि निमित्तीकृत्य यानि धर्माधर्मकर्माणि तानि जन्मान्तरारम्भकाणि । यानि तु विदुषो विद्यादग्धक्लेशबीजस्य प्रतिभासमात्रशरीराणि कर्माणि न तानि शरीरारम्भकाणि दग्धपटवत् अर्थक्रियासामर्थ्याभावात् इत्यर्थः । प्रतीतमात्रदेहानां कर्माभासानां न फलारम्भकता, इत्यस्मिन्नर्थे भगवतोऽपि संमतिमाह - इहापीति । तत्त्वज्ञानादूर्ध्वं प्रातीतिकक्लेशानां कर्मद्वारा देहानारम्भकत्वे वाक्यान्तरमपि प्रमाणयति - बीजानीति । ज्ञानानन्तरभाविकर्मणां ज्ञानेन दाहमङ्गीकरोति - अस्त्विति । विरोधिग्रस्तानामेव उत्पत्तिः इति हेतुमाह - ज्ञानेति । अस्मिन् जन्मनि जन्मान्तरे वा ज्ञानात् पूर्वभाविकर्मणां न ततो दाहः, विगेधिन विना प्रवृत्तेः, इत्याह - नत्विति । श्रुतिस्मृतिविरोधात् नैवमिति परिहरति - नेत्यादिना । सर्वशब्दश्रुतेः सङ्कोचं शङ्कते - ज्ञानेति । प्रकारणादिसङ्कोचकाभावान् नैवमित्याह - नेति । आक्षेपदशायाम् उक्तमनुमानम् अनुवदति - यत्त्विति । आभासात्वात् इदमसाधकम् इति दूषयति - तदसदिति । व्याप्त्यादिसत्वे कथम् आभाप्तत्वम् इति पृच्छति - कथमिति । प्रवृत्तफलत्वोपाधिना हेतोर्व्याप्तिभङ्गात् आभासत्वधीः इत्याह - तेषामिति । तदेव प्रपञ्चयति - यथेत्यादिना । धनुपः सकाशात् इषुर्मुक्तो बलवत्प्रतिबन्धकाभावे मध्ये नं पतति । तथा प्रबलप्रतिबन्धकं विना प्रवृत्तफलानां कर्मणां भोगादृते न क्षयः । न च तत्त्वज्ञानं तादृक् प्रतिबन्धकम् , उत्पत्तावेव पूर्वप्रवृत्तेन कर्मणा प्रतिबद्धशक्तित्वात् इत्यर्थः । यत्र ज्ञानेन अदाह्यत्वम् , तत्र प्रवृत्तफलत्वम् , इत्यन्दयेऽपि, यत्र अप्रवृत्तफलत्वम् , तत्र ज्ञानदाह्यत्वम् , इति न व्यतिरेकसिद्धिः, इत्याशङ्क्य आह - स एवेति । प्रवृत्तौ निमित्तभूतोऽनारब्धो वेगोऽनेनेति विग्रहः । स्वाश्रयस्थानि - साभासान्तःकरणानष्ठानि, इति यावत् । विमतानि, तत्त्वधीनिमित्तनिवृत्तीनि, तत्कृतकारणनिवृत्तित्वात् रज्जुसर्पदिवत् , इति व्यतिरेकसिद्धिः, इति भावः । विदुषो वर्तमानदेहपाते देहहेत्वभावात् तत्त्वधीः ऐकान्तिकफला, इति उपसंहरति - पतित इति
॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 घ्यानाख्यं साधनं किं रूपम् इति पृच्छति- ध्यानं नामेति । तद्रूपं वदन् उत्तरमाह - शब्दादिभ्य इति । एकाग्रतया उपसहृत्य, इति सम्बन्धः । यच्चिन्तनं प्रत्यक्चेतयितरि, इति पूर्वेणान्वयः । किं तच्चिन्तनम् इत्युक्ते दृष्टान्तद्वारा श्रुत्यवष्टम्भेन ध्यानं प्रपञ्चयति - तथेति । विवक्षितध्यानानुरोधेन इति यावत् , आत्मानं पश्यन्ति परमात्मतया इति शेषः । केचिदिति उत्तमाधिकारिणो गृह्यन्ते । मध्यमाधिकारिणो निर्दिशति - अन्य इति । साख्यशब्दितं साधनं किन्नाम इत्युक्ते, विचारजन्यं ज्ञानम् , तदेव ज्ञानं हेतुतया योगतुल्यत्वात् योगशब्दितम् , इत्याह - साङ्ख्यमिति । अधमान् अधिकारिणः सङ्गिरते - कर्मेति । चित्तैकाग्रा्यं योगः, तादर्थ्यं कर्मणः शुद्धिहेतोरस्ति । तेन गौण्या वृत्त्या योगशब्दितं कर्म, इत्याह - गुणत इति । अपरे ‘पश्यन्त्यात्मानमात्मना’ इति पूर्ववत् अनुषङ्गमङ्गीकृत्य आह - तेनेति
॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 ‘ज्ञेयं यत्तत्‘ (भ. गी. १३-१२) इत्यादिना तत्पदार्थः त्वम्पदार्थश्च अनन्तरमेव शोधितौ, तयोरैक्यं च ‘क्षेत्रज्ञं चापि मां विद्धि’ (भ. गी. १३-२) इत्युक्तम् । इदानीं तद् - दृष्टिहेतून् यथाधिकारं कथयति - अत्रेति । अधमतमान् अधिकारिणो मोक्षमार्गे प्रवृत्तिं प्रतिलम्भयति - अन्ये त्विति । आचार्याधीनां श्रुतिमेव अभिनयति - इदमिति । उपासनमेव विवृणोति - श्रद्दधाना इति । परोपदेशात् प्रवृत्तानामपि प्रवृत्तेः साफल्यमाह- तेऽपीति । तेषां मुख्याधिकारित्वं व्यावर्तयति - श्रुतीति । ‘तेऽपि’ इति अपिना सूचितमर्थम् आह - किमिति
॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 क्षेत्रक्षेत्रज्ञसम्बन्धमुक्तम् आक्षिपति- कः पुनरिति । क्षेत्रज्ञस्य क्षेत्रण सम्बन्धः संयोगो वा समवायो वा इति विकल्प्य, आद्यं दूषयति - न तावदिति । द्वितीयं निरस्यति - नापीति । वास्तवसम्बन्धाभावेऽपि तयोरध्यासस्वरूपः सोऽस्ति, इति परिहरति - उच्यत इति । भिन्नस्वभावत्वे हेतुमाह - विषयेति । इतरेतरवत् , क्षेत्रे क्षेत्रज्ञे वा तद्धर्मस्य क्षेत्रानधिकरणस्य क्षेत्रज्ञगतस्य चैतन्यस्य क्षेत्रज्ञानाधारस्य च क्षेत्रनिष्ठस्य जाड्यादेः आरोपरूपो योगस्तयोः, इत्याह - इतरेति । तढु निमित्तमाह - क्षेत्रेति । अविवेकात् आरोपितसंयोगे दृष्टान्तमाह - रज्ज्विति । उक्तं सम्बन्धं निगमयति - सोऽयमिति । तस्य निवृत्तियोग्यत्वं सूचयति- मिथ्येति । कथं तर्हि मिथ्याज्ञानस्य निवृत्तिः इत्याशङ्क्य, आह - यथेति । योऽयं विज्ञानमयः प्राणेषु इत्यादि त्वम्पदार्थविषयं शास्त्रमनुसृत्य विवेकज्ञानमापाद्य महाभूतादिधृत्यन्तात् क्षेत्रात् उफद्रष्ट्टत्वादिलक्षणं प्रागुक्तं क्षेत्रज्ञं मुञ्जेषीकान्यायेन विविच्य सर्वोपाधिविनिर्मुक्तं ब्रह्म स्वरूपेण ज्ञेयं योऽनुभवति, तस्य मिथ्याज्ञानमपगच्छति, इति सम्बन्धः । कथमस्य निर्विशेषत्वम् क्षेत्रज्ञस्य सविशेषत्वहेतोः सत्त्वात् , इत्याशङ्क्य, आह - क्षेत्रं चेति । बहुदृष्टान्तोक्तेः बहुविधत्वं क्षेत्रस्यद्योत्यते । उक्तज्ञानात् मिथ्याज्ञानापगमे हेतुमाह- यथोक्तेति । तथापि कथं पुरुषार्थसिद्धिः कालान्तरे तुल्यजातीयमिथ्याज्ञानोदयसं भवात् , इत्याशङ्क्य, आह- तस्येति । सम्यग्ज्ञानात् अज्ञानतत्कार्यनिवृत्त्या मुक्तिः, इति स्थिते, फलितमाह- य एवमिति
॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 ऐक्यधीः मुक्तिगेतुः, इति प्रागुक्तमनूद्य प्रश्नपूर्वक जिज्ञासितहेतुपरत्वेन श्लोकमवतारयति - क्षेत्रेति । सर्वस्य प्राणिजातस्य क्षेत्रक्षेत्रज्ञसम्बन्धाधीना यस्मादुत्पत्तिः, तस्मात् क्षेत्रज्ञात्मकपरमात्मातिरेकेण प्राणिनिकायस्याभावात् , ऐक्यज्ञानादेव मुक्तिः, इत्याह - कस्मादिति । सर्वत्र परस्य एकत्वात् न उत्कर्षापकर्षवत्वम् , इत्याह - सममिति । परमत्वम् ईश्वरत्वं च उपपादयति- देहेति । आत्मा - जीवः, तमित्यादिना अन्वयोक्तिः आश्रयनाशात् आश्रितस्यापि नाशमाशङ्क्य, आह - तं चेति । अविनश्यन्तमिति विशिनष्टि, इति सम्बन्धः । उभयत्र विशेषणद्वयस्य तात्पर्यमाह - भूतानामिति । नाशानाशाभ्यां वैलक्ष्ण्येऽपि कथमत्यन्तवैलक्षण्यम् सविशेषत्वभिन्नत्वयोः तुल्यत्वात् , इति शङ्कते - कथमिति । भूतानां संविशेषत्वादिभावेऽपि परस्य तदभावात् आत्यन्तवैलक्षण्यम् , इति वक्तुं जन्मनो भावविकारेषु आदित्वमाह - सर्वेषामिति । तत्र हेतुमाह - जन्मेति । न हि जन्म अन्तरेण उत्तरे विकारा युज्यन्ते, जन्मवतः तदुपलम्भात् , इत्यर्थः । विनाशानन्तरभाविनोऽपि विकारस्य कस्यचिदुपपत्तेः न तस्य अन्त्यविकारत्वम् , इत्याशङ्क्य आह - विनाशादिति । तस्य अन्त्यविकारत्वे सिद्धे फलितमाह - अत इति । तेषां जन्मादीनां कार्याणि कादाचित्कमत्वानि तदधिकरणानि, तैः सह इति यावत् । परमेश्वरस्य भूतेभ्यः अत्यन्तवैलक्षण्यमुक्तम् उपसंहरति - तस्मादिति । निर्विशेषत्वम् - सर्व भावविकारविरहितत्वं कूटस्थात्वम् । एकत्वम् - अद्वितीयत्वम् । ‘यः पश्यति’ इत्यादि व्याचष्टे - य एवमिति । उक्तविशेषणम् ईश्वरं ‘पश्यन्नेव पश्यति’ इत्युक्तमाक्षिपति - नन्विति । ईश्व रपराडमुखस्य अनात्मनिष्ठस्य तद्दर्शित्वेऽपि विपरीतदर्शित्वात् ईश्वरप्रवणस्यैव यसम्क् दर्शित्वम् , इति विवक्षित्वा विशेषणम् इति परिहरति- सत्यमिति । उक्तमेव दृष्टान्तेन विवृणोति - थथेत्यादिना । ‘यः पश्यति’ इत्यादेः अर्थमुपसंहरति - इतरे इति । परवस्तु निष्ठेभ्यः व्यतिरिक्ता इत्यर्थः
॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 उत्तरग्रन्थमवतारयितुं व्यवहितम् वृत्तं कीर्तयति - नेत्यादिना । अविद्या अनाद्यनिर्वाच्यमज्ञानम् , मिथ्याज्ञानं तत्संस्कारश्च आदिशब्दार्थः । व्यवहितमनूद्य अव्यवहितमनुवदति - जन्मेति । व्यवधानाव्यवधानाभ्यां सर्वानर्थमूलत्वात् अज्ञानस्य, तन्निवर्तकं सम्यग्ज्ञानं वक्तव्यम् , इत्याह - अत इति । तस्य असकृदुक्तत्वात् उक्तार्थप्रवृत्तिः वृथा, इत्याशङ्क्य अतिसूक्ष्मार्थस्य शब्दभेदेन पुनः पुनर्वचनम् अधिकारिभेदानुग्रहाय, इति मत्वा आह - उक्तमिति । ‘न हिनस्त्यात्मनात्मानम् ‘ इति यथाश्रुतमादाय चोदयति - नन्विति । ‘न पृथिव्याम् ‘ इति प्रप्तिद्वारा निषेधवत् ‘नान्तरिक्षे न दिवि’ इति प्राप्त्यभावाच्च अयं निषेधो मुख्यो नेष्यते, तथा इहापि प्राप्तिं विना निषेधो न युक्तिमान् , इत्याह - यथेति । अज्ञानाम् आत्मनैव आत्महिसासम्भवात् विदुषां तदभावोक्तिः युक्ता, इति समादत्ते - नैष दोष इति । सङ्ग्राहवाक्यं विवृणोति - सर्वो हीति । अनात्मशब्दो देहादिविषयः अविदुषाम् आरोपितात्महन्तृत्वं निगमयति - इत्यात्महेति । तथापि पारमार्थिकस्य आत्मनो हननाभावात् न तेषां सर्वेषाम् आत्महन्तृत्वम् , इत्याशङ्क्य आह - यस्त्विति । उक्तरीत्या सर्वेषाम् अविदुषाम् आत्महन्तृत्वं सिद्धम् , इति उपसंहरति - सर्व इति । आत्मनैव आत्महननम् अविदुषां दृष्टम् , तदिह विद्वद्विषये शक्यं निषेद् - धुम् , इत्याह - यस्त्वितर इति । आरोपानारोपाभ्याम् , इत्यर्थः । उभयथापीति । आरोपानारोपाभ्याम् , इत्यर्थः । ज्ञानात् अनर्थभ्रंशे पूर्वोक्तपरमानन्दप्राप्त्या परितृप्तत्वं युक्तम् , इत्याह - तत इति
॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकृतसम्यग्ज्ञानेन किम् इत्यपेक्षायां तत्फलोक्त्या तस्यैव स्तुत्या तद्धेतौ पुरुषं प्रवर्तयितुं श्लोकान्तरम् इत्याह - यथोक्तस्येति । यस्मादित्यस्य ततःशब्देन सम्बन्धः । सर्वभूतेषु तुल्यतयावस्थितं पूर्वोक्तलक्षणमीश्वरं निर्विशेषं पश्यन् आत्मानमात्मना यस्मात् न हिनस्ति, ततः - तस्मात् , मोक्षाख्यां परां गतिं याति, इति योजना । तत्र पादत्रयेण ज्ञानात् अज्ञानध्वस्त्या ध्वस्तिरनर्थस्य उक्ता । अज्ञानमिथ्याज्ञानयोः आवरणयोर्नाशे सर्वोत्कृष्टां गतिं परमपुरुषार्थं परमानन्दमनुभवति विद्वान् , इति चतुर्थपादार्थः । प्रकृतिशब्दस्य स्वभाववाचित्वं व्यावर्तयति - प्रकृतिरिति । मायाशब्दस्य संवित्पर्यायत्वं प्रत्याह - त्रिगुणेति । उक्ता परस्य शक्तिः - माया, इत्यत्र श्रुतिसंमतिमाह - मायां त्विति । अन्येन केनचित् क्रियमाणानि न भवन्ति कर्माणि, इति एवकारार्थमाह - नान्येनेति । किं तत् अन्यत् निषेध्यम् इत्युक्ते, साङ्ख्याभिप्रेता प्रधानाख्या प्रकृतिः, इत्याह - महदादीति । सर्वप्रकारत्वम् - काम्यत्वनिषिद्धत्वादिना प्रकारबाहुल्यम् । आत्मानम् उक्तविशेषणं यः पश्यति, इति पूर्वेण सम्बन्धः । ‘स पश्यति’ (भ. गी. १३-२७) इति अयुक्तम् , पुनरुक्तेः, इत्याशङ्क्य, आह - स परमार्थेति । आत्मनां प्रतिदेहं भिन्नत्वे तेषु समदर्शनम् अयु्क्तम् , इत्युक्तस्य कः समाधिः इत्याशङ्क्य, आह - निर्गुणस्येति
॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 श्लोकान्तरं शङ्कोत्तरत्वेन अवतारयितुं अनुवदति - सर्वेति । प्रतिदेहं धर्माधर्मादिमत्वेन आत्मनो भेदभानात् न सम्यग्दर्शनम् , इति शङ्कते - तदिति । स्वगुणैः - सुखदुःखादिभिः, स्वकर्मभिश्च - धर्माधर्माख्यैः वैलक्षण्यात् प्रतिदेहं भेदे, तद्विशिष्टेषु आत्मसु कथं साम्येन दर्शनम् इत्येतदाशङ्क्य, परिहरति इत्याह - एतदिति । उपदेशजनितं प्रत्यक्षदर्शनमनुवदति - आत्मैवेति । भूतानां विकाराणां नानात्वं प्रकृत्या सह आत्ममात्रतया प्रलीनं पश्यति । नहि भूतपृथक्त्वं सत्यां प्रकृतौ, केवले परस्मिन् विलापयितुं शक्यत इत्यर्थः । परिपूर्णात् आत्मन एव प्रकृत्यादेः विशेषान्तस्य स्वरूपलाभम् उपलभ्य तन्मात्रतां पश्यति, इत्याह - तत एवेति । उक्तमेव विस्तारं श्रत्यवष्टम्भेन स्पष्टयति - आत्मत इति । ब्रह्मसम्पत्तिर्नाम पूर्णत्वेन अभिव्यक्तिः, अपूर्णत्वहेतोः सर्वस्य आत्मसाकृतत्वात् , इत्याह - ब्रह्मैवेति । ज्ञानसमानकालैव मुक्तिः, इति सूचयति - तदेति
॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 प्रकृतेर्विकाराणां च साङ्ख्यवत् पुरुषात् अन्यत्वप्रसक्तौ प्रत्याह - पुनरपीति । अनादित्वमेव साधयति - आदिरिति । तधापि किं स्यात् इत्याशङ्क्य, कार्यवत्वकृतव्ययाभावः सिध्यति, इत्याह - यद्धीति । तथापि गुणापकर्षद्वारको व्ययो भविष्यति, नेत्याह - तथेति । निरवयवत्वादेव सावयवद्वारकस्य निर्गुणत्वात् गुणद्वारकस्य च व्ययस्याभावेऽपि स्वभावतो व्ययः स्यात् , इत्याशङ्क्य, आह - परमात्मेति । परमात्मनः स्वतः परतो वा व्ययाभावे फलितमाह - यत इति । स्वमहिमप्रतिष्ठस्य कथं शरीरस्थत्वम् तत्राह - शरीरेष्विति । सर्वगतत्वेन सर्वात्मत्वेन च देहादौ स्थितोऽपि स्वतो देहाद्यात्मना वा न करोति कूटस्थत्वात् , देहादेश्च कल्पितत्वात् इत्यर्थः । कर्तृत्वाभावेऽपि भोक्तृत्वं स्यात् , इत्याशह्क्य, आह - तदकरणादिति । तदेव उपपादयति - यो हीति । परस्य कर्तृत्वादेरभावे कस्य तदिष्टम् इति पृच्छति - कः पुनरिति । परस्मात् अन्यस्य कस्यचित् जीवस्य कर्तृत्वादि, इति आशङ्कामनुवदति - यदीति । तस्मिन् पक्षे प्रक्रमभङ्गः स्यात् , इति दूषयति - तत इति । ईश्वरातिरिक्तजीवानङ्गीकारात् नोपक्रमविरोधोऽस्ति, इति शङ्कते - अथेति । तर्हि प्रतीतकर्तृत्वादेः अधिकरणं वक्तव्यम् ; इति पूर्ववादी आह - क इति । परस्यैव कर्तृत्वाद्याधारत्वात् नास्तिं वक्तव्यम् , इत्याशङ्क्य, आह - परो वेति । नास्तीति वाच्यम् , इति पूर्वेण सम्बन्धः । नहि कर्तृत्वादिभावत्वे परस्य अस्मदादिवत् ईश्वरत्वम् , इति भावः । परस्य अन्यस्य वा कर्तृत्वादौ अविशिष्टे ‘शरीरस्थोऽपि’ इत्यादि श्रुतिमूलमपि ज्ञातुं वक्तुं च अशक्यत्वात् त्याज्यमेवेति परीक्षकसंमत्या उपसंहरति - सर्वथेति । परस्य वस्तुनः अकर्तुः अभोक्तुश्च अविद्यया तदारोपात् आदेयमेव भगवन्मतम् , इति परिहरति - तत्रेति । तमेव परिहारं प्रपञ्चयति - अविद्येति । व्यावहारिके कर्तृत्वादौ इष्टे परमार्थिकमेव किं नेष्यते तत्राह - नत्विति । वास्तवकर्तृत्वाद्यभावे लिङ्गम् उपन्यस्यति - अत इति
॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 परिपूर्णत्वेन सर्वात्मत्वे प्राप्तम् आत्मनो देहादि, तेन कर्तृत्वादिना तद्वत्त्वम् , दृष्टं हि यवित्रस्यापि पञ्चगव्यादेः अववित्रसंसहीत् तद्दोषेण दुष्टत्वभ् , इत्याशङ्कामनूद्य, उत्तरत्वेत श्लोक्मवतारयति - एकस्येति । सूक्ष्मभावात् - अप्रतिहतस्वभावात् , इत्यर्थः । न सम्बध्यते, पङ्कादिभिः इति शेषः ॥ कर्तृत्वाभावात् न लिप्यत इत्युक्तम् , तत्र दृष्टान्तमाह - यथेति । सर्वत्र - देहादौमतम् - स्थितमपि, आकाशम् - खम् , यथा सौक्ष्मत्वात् असङ्गस्वभावत्वात् , देहादिगतकर्तृत्वादिभिः न लिप्यते - न सम्बध्यते तथा सर्वत्र - सर्वस्मिन् , अवस्थित आत्मा देहे देहधर्मैः न लिप्यते, इत्यर्थः
॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】 दृष्टान्तेन विवक्षितमर्थं दर्शयति - रवीति । उभयविधमर्थमेव स्फुटयति- रविवदिति
॥ ३३ ॥ 【भाष्यम्】 【भाष्यम्】 ‘न करोति न लिप्यते च’ (भ. गी. १३-३१) इत्यत्र द्रष्टृत्वेन दृश्यधर्मशून्यत्वं हेतुमाह - किं चेति । अध्यायार्थं सकलम् उपसंहरति - समस्तेति । विशेषं - कौटस्थ्यपरिणामादिलक्षणम् । तदेवम् अमानित्वादिनिष्ठतया क्षेत्रक्षेत्रज्ञयाथात्म्यविज्ञानवतः सर्वानर्थनिवृत्या परिपूर्णपरमानन्दाविर्भावलक्षणपुरुषार्थसिद्धिः, इति सिद्धम्
॥ ३४ ॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने त्रयोशोऽध्यायः ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वोक्तेन अर्थेन अस्य अध्यायस्य समुच्चयार्थः चकारः । ‘परम् ‘ इत्यस्य भाविकालार्थत्वं व्यावर्तयितुं सङ्गतिम् आह - परमिति । ‘ भूयः’ शब्दस्य अधिकार्थत्वम् इह नास्ति ; इत्याह - पुनरिति । पुनःशब्दार्थमेव विवृणोति - पूर्वेष्विति । पूनरुक्तिः तर्हि इत्याशङ्क्य सूक्ष्मत्वेन दुर्बोधत्वात् पुनर्वचनम् अर्थवत् इत्याह - तच्चेति । विशेष्यं प्रश्नद्वारा निर्दिशति - किं तदिति । निर्धारणार्थां षष्ठीम् आदाय तस्य प्रकर्षं दर्शयति - सर्वेषामिति । ‘परम् ‘ ‘उत्तमम् ‘ इति पुनरुक्तिम् आशङ्क्य, विषयफलभेदात् मैवम् , इत्याह - उत्तमेति । ज्ञानं ज्ञेयम् इत्यादौ ज्ञानशब्देन अमानित्वादीनाम् उक्तत्वात् , तन्मध्ये च ज्ञानस्य साध्यत्वेन उत्तमत्वात् न तस्य वक्तव्यता, इति आशङ्क्य आह - ज्ञानानामिति । न अमानित्वादीनां, ‘ग्रहणम् ‘ इति शेषः । इतिशब्दात् ऊर्ध्वं पूर्ववदेव शेषो द्रष्टव्यः यथोक्तज्ञानापेक्षया कुतः तज्ज्ञानस्य प्रकर्षः तत्र आह - तानि इति । स्तुतिफलम् आह - श्रोतृबुद्धीति । ज्ञानं ज्ञात्वा - ज्ञानस्य ज्ञेयत्वोपगमात् अनवस्था, इत्याशङ्क्य आह - प्राप्येति । मुनिशब्दस्य चतुर्थाश्रमविषयत्वे तन्मात्रादेव ज्ञानायोगात् कुतः तेषां मुक्तिः इति आशङ्क्य आह - मननेति । सिद्धेः ज्ञानत्वं पराम् इति विशेषणात् व्यावर्त्य, मुक्तित्वम् आह - मोक्षाख्यामिति । देहाख्यस्य बन्धनस्य अध्यक्षत्वम् आह - अस्मादिति
॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 क्षेत्रक्षेत्रज्ञसंयोगस्य सर्वोत्पत्तिनिमित्तत्वम् अज्ञातं ज्ञापयितुम् अध्यायान्तरम् अवतारयन् , अध्याययोः उत्थाप्योत्थापकत्वरूपां सङ्गतिम् आह - सर्वमिति । विधान्तरेण अध्यायारम्भं सूचयति - अथवेति । तदेव वक्तुम् उक्तम् अनुवदति - ईश्वरेति । प्रकृतिस्थत्वम् - पुरुषस्य प्रकृत्या सह ऐक्याध्यासः । तस्यैव गुणेषु - शब्दादिविषयेषु सङ्गः - अभिनिवेशः । षड्विधाम् आकाङ्क्षां निक्षिप्य, तदुत्तरत्वेन अध्यायारम्भे पूर्ववदेव पूर्वाध्यायसम्बन्धसिद्धिः, इत्याह - कस्मिन्निति । कथं ज्ञानाश्रयणम् तद्धेतुश्रवणादिसामग्रीसम्पत्तिद्वारा, इत्याह - ज्ञानेति । साधर्म्ये गोगवययोरिव, विद्वदीश्वरयोः अपि भेदः स्यात् , इति आशङ्क्य, आह - मत्स्वरूपतामिति । साधर्म्यस्य मुख्यत्वे भेदध्रौव्यात् गीताशास्त्रविरोधः, इत्याह - न त्विति । ज्ञानस्तुतये तत्फलस्य विवक्षितत्वाच्च न अत्र सारूप्यम् इष्टम् , इत्याह - फलेति । सारूप्ये धीफलं हित्वा ध्यानफलम् अप्रस्तुतं प्रसज्येत, इत्यर्थः । ईश्वरात्मतां गतानामेव अवान्तरसर्गादौ जन्माद्यभावेऽपि महासर्गादौ तद्भविष्यति, इत्याशङ्क्य, आह- सर्गेऽपीति
॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानफलस्य कर्मफलवैलक्षण्यम् आह - अस्याश्चेति । स्वरूपत्वेन स्वभूतत्वं वारयति - मदीयेति । ईश्वरीं चिच्छक्तिं व्यावर्तयति - त्रिगुणात्मिकेति । साङ्ख्यीयप्रकृतिरपि मदीया, इति व्यावर्तिता । योनिशब्देन सर्वाणि भवनयोग्यानि कार्याणि प्रति उपादानत्वम् अभिप्रेतम् , इत्याह - सर्वभूतानाम् इति । प्रकृतेः महत्वं साधयति - सर्वेति । सर्वकार्यव्याप्तिम् आदाय, योनावेव ब्रह्मशब्दः । लिङ्गवैषम्यात् महद्ब्रह्म इति अर्थान्तरं किञ्चित् , इत्याशङ्क्य आह - योनिरिति । तस्मिन्नित्यादि व्याचष्टे - तस्मिन्निति । ईदृशस्य क्षेत्रक्षेत्रज्ञसंयोगस्य भूतकारणत्वम् इति वक्तुम् उपक्रम्य, किमिदम् अन्यत् आदर्शितम् , इत्याशङ्क्य आह - क्षेत्रेति । गर्भशब्देन उक्तसंयोगस्य फलं दर्शयति - सम्भव इति । ‘आदिकर्ता स भूतानाम् ‘ इति स्मृत्या हिरण्यगर्भकार्यत्वावगमात् भूतानां, कथं यथोक्तगर्भाधाननिमित्तत्वम् इत्याशङ्क्य आह - हिरण्यगर्भेति
॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानस्तुत्या तदभिमुखाय अवहितचेतसे विवक्षितम् अर्थम् आह - क्षेत्रेति । ननु, कथम् उक्तकारणानुरोधेन हिरण्यगर्भोद्भवम् अभ्युपेत्य भूतानाम् उत्पत्तिः उच्यते देवादिजातिविशेषेषु देहविशेषाणां कारणान्तरस्य सम्भवात् ; तत्र आह - सर्वयोनिष्विति । तत्र तत्र हेत्वन्तरप्रतिभासे, कुतोऽस्य हेतुत्वम् इत्याशङ्क्य, तद्रूपेण अस्यैव अवस्थानात् , इत्याह - सर्वावस्थामिति
॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 सत्त्वादिषु कथं गुणशब्दप्रवृत्तिः इत्याशङ्क्य, परतन्त्रत्वात् इत्याह - गुणा इति । रूपादिष्विव गुणशब्दः सत्त्वादिषु द्रव्याश्रितत्वं निमित्तीकृत्य किं न स्यात् इत्याशङ्क्य, प्रकृत्यात्मकानां तेषां सर्वाश्रयत्वात् नैवम् इत्याह - न रूपादिवदिति । गुणानां प्रकृतेश्च पृथगुक्तेः अन्यत्वे, कुतः तेषां प्रकृत्यात्मत्वम् इत्याशङ्क्य आह - न च गुणेति । अत्यन्तभेदे गवाश्ववत् तद्भावासम्भवात् , इत्यर्थः । भेदाभेदे च तद्भावासम्भावत् , विशेषात् कुतः तेषु गुणपरिभाषा इत्याशङ्क्य आह - तस्मादिति । क्षेत्रज्ञं प्रति नित्यपारतन्त्र्ये हेतुम् आह - अविद्येति । के गुणाः इत्यस्य उत्तरम् उक्तम् । कथं बध्नन्ति इत्यस्य उत्तरम् आह - क्षेत्रज्ञम् इति । तदेव उपपादयति - तम् आस्पदीकृत्येति । प्राकृतानां गुणानां प्रकृत्यात्मकत्वम् आह - ते चेति । सम्भवति अस्मादिति सम्भवः । प्रकृतिः सम्भवो येषां, ते तथा इति । साङ्ख्यीयां प्रकृतिं प्रधानाख्यां व्यावर्तयति - भगवदिति । इवकारानुबन्धेन नितरां बध्नन्ति - स्वविकारवत्तया उपदर्शयन्ति इति क्रियापदं व्याख्याय, महाबाहुशब्दं व्याचष्टे - महान्ताविति । देहवन्तम् - देहम् आत्मानं मन्यमानं देहस्वामिनम् इत्यर्थः । कूटस्थस्य कथं बध्यमानत्वम् इत्याशङ्क्य ‘कुर्यान्मेरावणुधियं’ इति न्यायेन मायामाहात्म्यम् इदम् , इत्याह - अव्ययमिति । स्वतो धर्मतो वा व्ययराहित्यम् इत्यपेक्षायाम् आह - अव्ययत्वं चेति । ‘लिप्यते न स पापेन’ (भ. गी. ५-१०) इत्यनेन विरुद्धम् इदं निबध्नन्ति इति वचनम् , इति शङ्कते - नन्विति । इवकारानुबन्धेन क्रियापदं व्याचक्षाणैः अस्माभिः अस्य चोद्यस्य परिहृतत्वात् नैवम् , इत्याह - परिहृतमिति
॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 एवं क्षेत्रक्षेत्रज्ञसंयोगात् जगदुत्पत्तिं दर्शयता ब्रह्मैव अविद्यया संसरति इत्युक्तम् , इदानीम् अध्यायादौ उक्तम् आकाङ्क्षाद्वयं पूर्वम् अनूद्य अनन्तरश्लोकेन उत्तरम् आह - के गुणा इति । केन द्वारेण तत् आत्मानं निबध्नाति इति पृच्छति - कथमिति । सुखसङ्गेन बध्नाति, इति उत्तरम् । तदेव विवृणोति - सुखी अहम् इत्यादिना । मुख्यसुखस्य अभिव्यञ्जकसत्त्वपरिणामः अत्र विषयसम्भूतं सुखम् उच्यते । संश्लेषापादनमेव विशदयति - मृषैवेति । किमिति मृषैवेति विशेषणम् सङ्गस्य वस्तुत्वसम्भावत् , इत्याशङ्क्य, आह - सैषेति । ननु इच्छा सङ्गो अभिनिवेशश्च इति एकः अर्थः । तत्र इच्छादेः आत्मधर्मत्वात् किम् अविद्यया इत्याशङ्क्य, मनोधर्मत्वात् इच्छादेः न आत्मधर्मता, इत्याह - न हीति । इच्छादेः अनात्मधर्मत्वे किं प्रमाणम् इत्याशङ्क्य, आह - इच्छादि चेति । तस्य आत्मधर्मत्वासम्भवे फलितम् आह - अत इति । सञ्जयतीव ; सत्त्वमिति शेषः । इवकारप्रयोगे हेतुम् आह - अविद्ययेति । तस्याः वस्तुतः न आत्मसम्बन्धः, तथापि सम्बन्ध्यन्तराभावात् , अस्वातन्त्र्याच्च आत्मधर्मत्वम् आपाद्य, दृष्टत्वम् आचष्टे - स्वकीयेति । वृत्तिमदन्तःकरणस्य विषयत्वात् आत्मनः साधकत्वेन तद्विषयत्वेऽपि तदविवेकरूपाविद्या, इति तस्त्वरूपम् आह - विषयेति । यथोक्ताविद्यामाहात्म्यम् इदं यत् अस्वरूपे अतद्धर्मे च सक्तिसम्पादनम् इत्याह - अस्वेति । तदेव स्फुटयति - सक्तमिवेति । प्रकारान्तरेण सत्त्वस्य निबन्धनत्वम् आह - तथेति । ज्ञायते अनेन इति सत्त्वपरिणामो ज्ञानम् । तेन ज्ञानी अहम् इति विपरीताभिमानेन सत्त्वम् आत्मानं निबध्नाति, इत्याह - ज्ञानमित्यादिना । विपक्षे दोषम् आह - आत्मेति । स्वाभाविकत्वेन प्राप्तत्वात् , तत्र स्वतः संयोगात् , तद्द्वारा बन्धे च तन्निवृत्त्यनुपपत्तेः न आत्मधर्मत्वम् इत्यर्थः । ज्ञानैश्वर्यादावपि क्षेत्रधर्मे सङ्गस्य पूर्ववत् आविद्यकत्वं सूचयति - सुख इवेति । पापादिदोषहीनस्यैव अत्र शास्त्रे अधिकारः, इति द्योतयति - अनघेति
॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 किंलक्षणो गुणः केन बध्नाति इति अपेक्षायाम् , आह - तत्रेति । निर्धारणार्थतया सप्तमीं व्याचष्टे - तत्र सत्त्वादीनामिति । पुनः तत्र इति अनुवादमात्रम् । निर्मलत्वम् - स्वच्छत्वम् , आवरणवारणक्षमत्वम् । तस्मात् प्रकाशकम् - चैतन्याभिव्यञ्जकम् , निरुपद्रवमिति - निर्मलं सत् सुखस्य अभिव्यञ्जकम् , इत्यर्थः । रजस्तर्हि किंलक्षणम् कथं वा पुरुषं निबध्नाति इति आशङ्क्य, आह - रज इति । रज्यते - संसृज्यते अनेन पुरुषः दृश्यैः, इति रागः, असौ आत्मा अस्य, इति रागात्मकं रजो जानीहि, इत्याह - रञ्जनादिति । समुद्भवति अस्मात् , इति समुद्भवः । तृष्णा च आसङ्गश्च तृष्णासङ्गौ, तयोः समुद्भवः, तम् इति विग्रहं गृहीत्वा, कार्यद्वारा रजोविवक्षुः, तृष्णासङ्गयोः अर्थभेदम् आह - तृष्णेत्यादिना । रजसो लक्षणं उक्त्वा निबन्धृत्वप्रकारम् आह - तद्रज इति । कर्मसङ्गं विभजते - दृष्टेति । अकर्तारमेव पुरुषं करोमि इत्यभिमानेन प्रवर्तयति इत्यर्थः
॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 तमस्तर्हि किंलक्षणम् कथं वा पुरुषं निबध्नाति तत्र आह - तमस्त्विति । गुणानां प्रकृतिसम्भवत्वाविशेषेऽपि तमसो अज्ञानजत्वविशेषणं, तद्विपरीतस्वभावानापत्तेः, इति मत्वा आह - अज्ञानादिति । मुह्यति अनेन, इति मोहनम् ; विवेकप्रतिबन्धकम् इति, कार्यद्वारा तमो निर्दिशति - मोहनमित्यादिना । लक्षणम् उक्त्वा तमसो बन्धनकरत्वं दर्शयति - प्रमादेति । कार्यान्तिरासक्ततया चिकीर्षितस्य कर्तव्यस्य अकरणं - प्रमादः, निरीहतया उत्साहप्रतिबन्धस्तु - आलस्यम् , स्वापः - निद्रा । ताभिः आत्मानम् अविकारमेव तमोऽपि विकारयति, इत्यर्थः
॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 सुखे साध्ये विषये समुत्कृष्यते सत्त्वम् , इत्याह - सत्त्वमिति । ‘सञ्जयति’ इत्यस्य अर्थम् आह - संश्लेषयति इति । कर्मणि साध्ये रजः समुत्कृष्यते, इत्याह - रज इति । प्रमादे प्राधान्यं तमसो दर्शयति - ज्ञानमिति
॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 उक्तानां मध्ये कस्मिन् मार्गे कस्य गुणस्य उत्कर्षः तत्र आह - पुनरिति । सत्त्वाभिवृद्धिमेव विवृणोति - तदेति । रजस्तमसोः तिरोधानदशायाम् , इति यावत् । रजसो वृद्धिप्रकारं, तत्कार्यं च कथयति - तथेति । तमसोऽपि विवृद्धिं, तत्कार्यं च निर्दिशति - तम इति
॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 इतरेतराविरोधेन वा सत्त्वादयो गुणाः युगपत् उत्कृष्यन्ते विरोधेन वा क्रमेण वा इति, सन्देहात् पृच्छति - उक्तमिति । सत्त्वोत्कर्षार्थिनाम् इतराभिभवार्थं क्रमपक्षम् आश्रित्य उत्तरम् आह - उच्यत इति । उत्तरश्लोकत्रयस्य आकाङ्क्षां दर्शयति - यदेति । सत्त्वोद्भवलिङ्गदर्शनार्थम् अनन्तरं श्लोकम् उत्थापयति - उच्यत इति । सर्वद्वारेषु इत्यादिसप्तमी निमित्ते नेतव्या । उत्तशब्दो अपिशब्दपर्यायोऽपि अतिशयार्थः
॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 उपक्रमपर्यायस्य आरम्भस्य विषयं पृच्छति - कस्येति । काम्यानि निषिद्धानि च लौकिकानि कर्माणि विषयत्वेन निर्दिशति - कर्मणामिति । अनुपशमः, बाह्यान्तःकरणानाम् , इति शेषः । लोभाद्युपलम्भात् रजोवृद्धिः बोद्धव्या, इति भावः
॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 अतिशयेन उद्भूतस्य रजसो लिङ्गम् आह - रजस इति । उद्भूतस्य तमसो लिङ्गम् आह - अप्रकाश इति । सर्वथैव ज्ञानकर्मणोः अभावो विशेषणाभ्याम् उक्तः - तत्कार्यमिति । तच्छब्दो दर्शिताविवेकार्थः । प्रमादो व्याख्यातः । मोहो वेदितव्यस्य अन्यथा वेदनम् । तस्यैव मौढ्यान्तम्म् आह - अविवेक इति । अविवेकातिशयादिना प्रवृद्धं तमो ज्ञेयम् , इति भावः
॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 तत्र सत्त्वगुणवृद्धिकृतफलविशेषम् आह - यदेति । मलरहितान् - रजस्तमसोः अन्यतरस्य उद्भवो मलम् , तेन रहितान् , आगमसिद्धान् ब्रह्मलोकादीन् इत्यर्थः
॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 सात्त्विकादीनां भावानां पारलौकिकं फलविभागम् उदाहरति - मरणेति । सङ्गः - सक्तिः, रागः, तृष्णा, तद्बलात् अनुष्ठानद्वारा लभ्यमानम् ; इत्यर्थः । गौणम् - सत्त्वादिगुणप्रयुक्तम् , इति यावत् । रजस्समुद्रेके मृतस्य फलविशेषम् दर्शयति - रजसीति । जायते, शरीरं गृह्णाति, इत्यर्थः । यथा सत्त्वे रजसि च प्रवृद्धे मृतो ब्रह्मलोकादिषु मनुष्यलोके च, देवादिषु मनुष्येषु च जायते, तथैव इत्याह - तद्वदिति
॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 रजश्शब्दस्य राजसे कर्मणि कुतो वृत्तिः तत्र आह - कर्मेति । दुःखमेव - दुःखबहुलम् , कथम् इत्थं व्याख्यायते तत्र आह - कारणेति । पापमिश्रस्य पुण्यस्य रजोनिमित्तस्य कारणत्वात् तदनुरोधात् फलमिति रजोनिमित्तं यथोक्तं युक्तम् , इत्यर्थः । अज्ञानम् अविवेकप्रायं दुःखं तामसाधर्मफलम् , इत्याह - तथेति
॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 भावानां फलम् उक्त्वा, सात्त्विकादीनां कर्मणां फलम् आह - अतीतेति । सुकृतस्य - शोभनस्य, कृतस्य पुण्यस्य इत्यर्थः । सात्त्विकस्य - अशुद्धिरहितस्य इति यावत् । सात्त्विकं - सत्त्वेन निर्वृत्तं निर्मलं - रजस्तमस्समुद्भवात् मलात् निष्क्रान्तम् । विहितप्रतिषिद्धज्ञानकर्मणि सत्त्वादीनां लक्षणानि सङ्क्षिप्य दर्शयति - किञ्चेति । ज्ञानं सर्वकरणद्वारकम् । अज्ञानं - विवेकाभावः
॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 सात्त्विकादिज्ञानकर्मफलानि उक्त्वा, अनुक्तसङ्ग्रहार्थं सामान्येन उपसंहरति - किं चेति । वक्ष्यमाणफलद्वारापि सत्त्वादिज्ञानम् , इत्यर्थः । सत्त्वगुणस्य वृत्तं - शोभनं ज्ञानं कर्म वा, तत्र तिष्ठन्ति इति तथा । राजसाः - रजोगुणनिमित्ते ज्ञाने, कर्मणि वा निरताः
॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 सम्यग्ज्ञानोक्तिपरं श्लोकं व्याख्यातुं प्रतीकम् आदत्ते - नान्यमिति । सत्त्वादिकार्यविषयस्य गुणशब्दस्य विवक्षितम् अर्थम् आह - कार्येति । विद्यानन्तर्यम् अनुशब्दार्थः । अक्षरार्थम् उक्त्वा, पूर्वार्धस्य आर्थिकम् अर्थम् आह - गुणा एवेेति । सर्वावस्थाः, तत्तत्कार्यकरणाकारपरिणताः, इति यावत् । सर्वकर्मणाम् - कायिकवाचिकमानसानां, विहितप्रतिषिद्धानाम् इत्यर्थः । परं - व्यतिरिक्तम् । व्यतिरेकमेव स्फोरयति - गुणेति । निर्गुणबह्मात्मानम् , इत्यर्थः । मद्भावं - ब्रह्मात्मताम् , असौै प्राप्नोति । ब्रह्मभावो अस्य अभिव्यज्यते, इत्यर्थः
॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 ‘कस्मिन् गुणे कथम् ’इत्यादिप्रश्नान् प्रत्याख्याय, गुणेभ्यो मोक्षणं कथम् इति प्रत्याख्यानार्थं, वृत्तानुवादपूर्वकं मिथ्याज्ञाननिवर्तकं सम्यग्ज्ञानं प्रस्तौति - पुरुषस्येत्यादिना । पुरुषस्य या गतिः, सा च इति शेषः । मोक्षः - गुणेभ्यो विश्लेषपूर्वको ब्रह्मभावः । यथोक्तान् इत्येतदेव व्याचष्ठे - मायेति । माया एव उपाधिः, तद्भूतान् - तदात्मनः सत्त्वादीन् अनर्थरूपान् , इत्यर्थः । एभ्यः समुद्भवन्ति समुद्भवाः देहस्य समुद्भवाः, तान् इति व्युत्पत्तिं गृहीत्वा व्याचष्टे - देहोत्पत्तीति । यो विद्वान् अविद्यामयान् गुणान् जीवन्नेव अतिक्रम्य स्थितः, तमेव विशिनष्टि - जन्मेति । पुरस्तात् विस्तरेण उक्तस्य प्रसङ्गात् अत्र सङ्क्षिप्तस्य सम्यग्ज्ञानस्य फलम् उपसंहरति - एवमिति
॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 अनर्थव्रातरूपम् अपोह्य विद्वान् ब्रह्मत्वं प्राप्नोति इत्येतत् प्रश्नद्वारा विवृणोति - कथमित्यादिना । ये व्याख्याताः सत्त्वादयो गुणाः, तत्परिणामभूतान् अध्यासान् अतिक्रान्तः सन् , कैर्लिङ्गैः ज्ञातो भवति, इति तानि वक्तव्यानि सिद्ध्यर्थं पूर्वम् अनुष्ठेयानि, पश्चात् अयत्नलभ्यानि लिङ्गानि, कानि तानि इति पृच्छति - कैरिति । यथेष्टचेष्टाव्यावृत्त्यर्थं प्रश्नान्तरं - किमाचार इति । ज्ञानस्य गुणात्ययोपायस्य उक्तत्वात् उपायप्रकारजिज्ञासया प्रश्नान्तरं - कथमिति
॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 सम्यग्धीफलं गुणातिक्रमपूर्वकम् अमृतत्वम् उक्तं श्रुत्वा, मुक्तस्य लक्षणं वक्तव्यम् , इति प्रकृतं विवक्षित्वा, प्रश्नम् उत्थापयति - जीवन्नेवेति । तानि सम्यग्दर्शी न द्वेष्टि, इत्युक्तमेव स्पष्टयितुं निषेध्यम् असम्यग्दर्शिनो द्वेषं तेषु प्रकटयति - ममेत्यादिना । सम्यग्दर्शिनः सम्प्रवृत्तेषु प्रकाशादिषु द्वेषाभावम् उपसंहरति - तदेवमिति । न निवृत्तानि इत्यादि व्याचष्टे - यथा चेति । तेषाम् अनात्मीयत्वं सम्यक् पश्यन् आत्मानुकूलप्रतिकूलतारोपणेन न उद्विजते तेभ्यश्च न स्पृहयति, इत्यर्थः । स्वानुभवसिद्धं गुणातीतस्य लक्षणम् उक्तम् इत्याह - एतन्नेति । परप्रत्यक्षत्वाभावं प्रपञ्चयति - न हीति । आश्रयो विषयः
॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 प्रश्नस्वरूपम् अनूद्य, तदुत्तरं दर्शयति - गुणातीतस्येति । पृष्टो भगवान् इति सम्बन्धः । किं वृत्तस्य त्रिधा प्रयोगदर्शनात् प्रश्नद्वयार्थम् इत्युपलक्षणं प्रश्नत्रयार्थम् इति द्रष्टव्यम् । उत्तरम् अवतार्य, अनन्तरश्लोकतात्पर्यम् आह - यत्तावदिति । दृष्टान्तं व्याचष्टे - यथेति । उपेक्षकस्य पक्षपाते तत्त्वायोगात् , इत्यर्थः । आत्मवित् आत्मकौटस्थ्यज्ञानेन आसीनो निवृत्तकर्मत्वाभिमानः अप्रयतमानो भवति इति दार्ष्टान्तिकम् आह - तथेति । गुणातीतत्वोपायमार्गः ज्ञानमेव । शब्दादिभिः विषयैः अस्य कूटस्थत्वज्ञानात् प्रच्यवनम् आशङ्क्य आह - गुणैरिति । उपनतानां विषयाणां रागद्वेषद्वारा प्रवर्तकत्वम् इत्येतत् प्रपञ्चयति - तदेतदिति । योऽवतिष्ठति, सः गुणातीतः - इति उत्तरत्र सम्बन्धः । अवपूर्वस्य तिष्ठतेः आत्मनेपदे प्रयोक्तव्ये, कथं परस्मैपदम् इत्याशङ्क्य आह - छन्दोभङ्गेति । पाठान्तरे तु बाधितानुवृत्तिमात्रम् अनुष्ठानम् । करणाकारपरिणतानां गुणानां विषयाकारपरिणतेषु तेषु प्रवृत्तिः, न मम - इति पश्यन् अचलतया कूटस्थदृष्टिम् आत्मनो न जहाति इत्याह - नेङ्गत इति
॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 कैः लिङ्गैः इत्यादि परिहृत्य, द्वितीयं प्रश्नं परिहरति - अथेति । विद्वद्दृष्ट्या प्रियाप्रिययोः असम्भवेऽपि लोकदृष्टिम् आश्रित्य आह - प्रियं चेति । प्रियाप्रियग्रहणेन गृहीतानां काञ्चनादीनां ब्राह्मणपरिव्राजकवत् पृथग्ग्रहणम् । निन्दा दोषोक्तिः । आत्मसंस्तुतिः - आत्मनो गुणकीर्तनम्
॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 गुणातीतस्य लिङ्गान्तरम् आह - किं चेति । तयोः समत्वं रागद्वेषानुत्पादकतया । स्वकीयत्वाभिमानानास्पदत्वं प्रसन्नत्वम् । स्वास्थ्यात् अप्रच्युतिः अविक्रियत्वम् । मानः - सत्कारः । तिरस्कारः - अपमानः । परदृष्ट्या यौ सखिशत्रू तयोः पक्षयोः निर्विशेषः - न कस्यचित् पक्षे तिष्ठति इत्याह - तुल्य इति । विदुषो मित्रादिबुद्ध्यभावात् तुल्यो मित्रारिपक्षयोः इति अयुक्तम् , इत्याशङ्क्य आह - यद्यपीति । सर्वकर्मत्यागे देहधारणमपि निमित्ताभावात् न स्यात् , इत्याशङ्क्य आह - देहेति । उक्तविशेषणो गुणातीतो ज्ञातव्यः, इत्याह - गुणेति । यदुक्तम् उपेक्षकत्वादि, तत् विद्योदयात् पूर्वं यत्नसाध्यं विद्याधिकारिणा ज्ञानसाधनत्वेन अनुष्ठेयं, उत्पन्नायां तु विद्यायां जीवन्मुक्तस्य उक्तधर्मजातं स्थिरीभूतं स्वानुभवसिद्धलक्षणत्वेन तिष्ठति, इति उक्ते धर्मजाते विभागं दर्शयति - उदासीनवदित्यादिना
॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 इतश्च गुणातीतः शक्यो ज्ञातुम् , इत्याह - किं चेति । मच्छब्दस्य संसारिविषयत्वं व्यावर्तयति - ईश्वरमिति । तत्रैव नारायणशब्दात् मूर्तिभेदो व्यावर्त्यते । तस्य ताटस्थ्यं व्यवच्छिनत्ति - सर्वेति । मुख्यामुख्याधिकारिभेदेने विकल्पः । भक्तियोगस्य यादृच्छिकत्वं व्यवच्छेत्तुम् ‘अव्यभिचारेण’ इत्युक्तम् । तद्व्याचष्टे - नेति । भजनं - परमप्रेमा । स एव युज्यते अनेन इति योगः । सेवते - पराक्चित्ततां विना सदा अनुसन्दधाति, इत्यर्थः । सः भगवदनुग्रहकृतसम्यग्धीसम्पन्नो विद्वान् जीवन्नेव इत्यर्थः
॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 प्रश्नद्वयम् एवं परिहृत्य, तृतीयं प्रश्नं परिहरति - अधुनेति । ब्रह्मशब्दस्य असति बाधके मुख्यार्थदग्रणम् अभिप्रेत्य आह - परमात्मन इति । तं प्रति प्रत्यगात्मनो यत् प्रतिष्ठात्वं तत् उपपादयति - प्रतितिष्ठतीति । यत् ब्रह्म प्रत्यगात्मनि प्रतितिष्ठति, तत् किंविशेषणम् इत्यपेक्षायाम् उक्तम् - अमृतस्येत्यादि । तत्र अमृतशब्देन अव्ययशब्दस्य पुनरुक्तिं परिहरति - अविकारिण इति । नित्यत्वम् - अपक्षयराहित्यम् । तेन पूर्वाभ्याम् अपौनरुक्त्यम् । प्रसिद्धार्थस्य धर्मशब्दस्य ब्रह्मणि अनुपपत्तिम् आशङ्क्य, आह - ज्ञानेति । अथ इन्द्रियसम्बन्धोत्थं सुखं व्यावर्तयितुम् ‘ऐकान्तिकस्य’ इत्युक्तम् । अक्षरार्थम् उक्त्वा, वाक्यार्थम् आह - अमृतादीति । प्रतिष्ठा यस्मात् इति पूर्वेण सम्बन्धः । तस्मात् प्रत्यगात्मा परमात्मतया निश्चीयते सम्यग्ज्ञानेन, इति योजना । अस्य श्लोकस्य, पूर्वश्लोकेन एकवाक्याताम् आह - तदेतदिति । विवक्षितं वाक्यार्थं प्रपञ्चयति - ययेति । सा शक्तिः ब्रह्मैव, इति कथं सामानाधिकरण्यम् तत्र आह - शक्तीति । व्याख्यान्तरम् आह - अथवेति । विशेषणानि पूर्ववत् अपौनरुक्त्यानि नेतव्यानि । तदनेन अध्यायेन क्षेत्रक्षेत्रज्ञसंयोगस्य संसारकारणत्वं पञ्चप्रश्ननिरूपणद्वारेण च सम्यग्ज्ञानस्य सकलसंसारनिवर्तकत्वम् , इत्येतत् उपपादयता मुमुक्षोः यत्नसाध्यं गुणैः अचाल्यत्वादि मुक्तस्य अयत्नसिद्धं लक्षणम् इति निर्धारितम्
॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने चतुर्दशोऽध्यायः
॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 विद्वान् ब्रह्मैव इत्यत्र हेतुं पृच्छति - कुत इति । तत्र उत्तरम् आह - उच्यत इति । नाशसम्भावनायै वृक्षरूपकं बन्धहेतोः दर्शयति - ऊर्ध्वमूलमिति । कथं कालतः सूक्ष्यत्वम् तदाह - कारणत्वादिति । तदेव कथं कार्यापेक्षया नियतपूर्वभावित्वात् , इत्याह - नित्यत्वादिति । सर्वव्यापित्वाच्च उत्कर्षं सम्भावयति - महत्वाच्चेति । ऊर्ध्वं - उच्छ्रितं - उत्कृष्टम् इति यावत् । तस्य कूटस्थस्य कथं मूलत्वम् इत्याशङ्क्य, आह - अव्यक्तेति । स्मृतिमूलत्वेन श्रुतिमुदाहरति - श्रुतेश्चेति । अवाञ्च्यः - निकृष्टाः, शाखा इव महादाद्या यस्य, सः, तथा प्रकृते संसारवृक्षे पुराणसंमतिम् आह - पुराणे चेति । अव्यक्तं - अव्याकृतं, तदेव मूलं, तस्मात् प्रभवनं - प्रभवः यस्य, स तथा । तस्यैव मूलस्य अव्यक्तस्य अनुग्रहात् - अतिदृढत्वात् ,उत्थितः - संवर्धितः । तस्य लौकिकवृक्षसाधर्म्यम् आह - बुद्धीत्यादिना । वृक्षस्य हि शाखाः स्कन्धात् उद्भवन्ति, संसारस्य च बुद्धेः सकाशात् नानापरिणामा जायन्ते । तेन बुद्धिरेव स्कन्धः तन्मयः - तत्प्रचुरः, अयं संसारतरुः । इन्द्रियाणामन्तराणि - छिद्राणि कोटराणि यस्य, स तथा । महान्ति भूतानि - पृथिव्यादीनि आकाशान्तानि, विशाखाः स्तम्भा यस्य स तथा । आजीव्यत्वं उपजीव्यत्वम् । ब्रह्मणा अधिष्ठितो वृक्षः ब्रह्मवृक्षः ॥ तथापि ज्ञानं विना छेत्तुं अशक्यतया सनातनः - चिरन्तनः एतच्च ब्रह्मणः परस्य आत्मनः, वनं - वननीयं, सम्भजनीयम् । अत्र हि ब्रह्म प्रतिष्ठितम् , तस्य वृक्षस्य संसाराख्यस्य तदेव ब्रह्म सारभूतम् ।अथवा अस्य ब्रह्मवृक्षस्य अनवच्छिन्नस्य संसारमण्डलस्य तदेतत् ब्रह्म, वनमिव वनं - वननीयं - सम्भजनीयम् । न हि ब्रह्मातिरिक्तं संसारस्य आस्पदम् अस्ति ब्रह्मैव अविद्यया संसराति इति अभ्युपगमात् इत्यर्थः । “अहं ब्रह्म“ इति दृढज्ञानेन उक्तं संसारवृक्षं छित्वा प्रतिबन्धकाभावात् आत्मनिष्ठो भूत्वा, पुनरावृत्तिरहितं कैवल्यं प्राप्नोति, इत्याह - एतदिति । अधःशाखम् , इत्येतद् व्याचष्टे - महदिति । आदिशब्देन इन्द्रियादिसङ्ग्रहः । संसारवृक्षस्य अतिचञ्चलत्वे प्रमाणमाह - प्राहुरिति । क्षणध्वंसिनः अव्ययत्वं विरुद्धम् इत्याशङ्क्य, आह - संसारेति । तदेवोपपादयति - अनादीति । छादनं - रक्षणम् , प्रावरणं वा । कर्मकाण्डानि खलु आरोहावरोहफलानि नानाविधार्थवादयुक्तानि संसारवृक्षं रक्षन्ति, तन्निष्ठं दोषं च आवृण्वन्ति । ते तानि छन्दांसि पर्णानीव भवन्ति इति अर्थः । तदेव प्रपञ्चयति - यथेति । उक्तेऽर्थे हेतुमाह - धर्मेति । कर्मकाण्डानां वेदानां इति शेषः । कर्मब्रह्माख्यसर्ववेदार्थस्य तत्र अन्तर्भावम् उपेत्य व्याचष्टे - वेदार्थेति । समूलसंसारवृक्षज्ञाने अमूलं हित्वा मूलमेव निष्कृष्य ज्ञातुं शक्यमिति तज्ज्ञानार्थं प्रयतितव्यं इति मत्वा तज्ज्ञानस्तुतिः अत्र विवक्षिता इत्याह - न हीति
॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 भक्तियोगेन गुणात्यये दर्शिते, नाशित्वे तेषां,विना ज्ञानेन अनत्ययात् अनाशित्वेन,तेनापि तदयोग्यत्वात् न ज्ञानं गुणात्ययहेतुः इति आशङ्कां निरस्य, साक्षादेव श्रवणादिहेतुं संन्यासं विधित्सुः ब्रह्मत्वस्य परमपुरुषार्थतां विवक्षुः अध्यायान्तरमारभते - यस्मादिति । कर्मिणो ज्ञानिनश्च शास्त्रे अधिकृताः । तत्र कर्मिणां कर्मानुकूलं फलं ईश्वरायत्तम् , “फलमत उपपत्तेः“ (ब्र. सू. ३ - २ - ३७) इति न्यायात् । ज्ञानिनामपि तत् फलम् ईश्वरायत्तमेव, “ततो ह्यस्य बन्धविपर्ययौ “ (ब्र. सू.३ - २ - ५) इत्युक्तत्वात् । यस्मात् एवं, तस्मात् , ये भक्त्याख्येन योगेन मामेव सेवंते, ते मत्प्रसादद्वारा ज्ञानं प्राप्य तेन गुणातीताः मुक्ताः भवन्तीति स्थितम् , इत्यर्थः । ये तु आत्मनः तत्त्वमेव सन्देहाद्यपोहेन जानन्ति ते तेन ज्ञानेन गुणातीताः सन्तः मुक्तिं गच्छन्तीति किमु वक्तव्यम् , इति अर्थसिद्धमर्थम् आह - किमुवक्तव्यमिति । आत्मतत्त्वाज्ञानं यतः संसारहेतुः, ज्ञानं मोक्षानुुकूलम् , अतः अर्जुनेन किं तत् इति अपृष्टमपि तत्त्वं भगवान् उक्तवान् , प्रश्नाभावेऽपि तस्य तद्व्युत्पादनाभिमानात् इत्याह - अत इति । तत्त्वे विवक्षिते किमिति संसारो वर्ण्यते तत्र आह - तत्रेति । अध्यायादिः सप्तम्यर्थः । वैराग्यमपि किमिति मृग्यते तत्र आह - विरक्तस्येति । इति वैराग्याय संसारवर्णनम् , इति शेषः । अवयवसम्बन्धिनी अपरा - प्रागुक्तात् अतिरिक्ता कल्पना इति यावत् । आमनुष्यलोकात्आविरिञ्चेेः इति अधश्शब्दार्थमाह - मनुष्यादिभ्य इति । तस्मादेव आरभ्य आसत्यलोकात् इति ऊर्ध्वशब्दार्थम् आह - यावदिति । शाखाशब्दार्थं दर्शयति - ज्ञानेति । तेषां हेत्वनुगुणत्वेन बहुविधत्वं सूचयति - यथेति । प्रत्यक्षाणां शब्दादिविषयाणां प्रवालत्वं शाखासु पल्लवत्वम् । अङ्कुरत्वं स्फोरयति - देहादीति । “ऊर्ध्वमूलम्“ इत्यत्र संसारवृक्षस्य मूलमुक्तं, किमिदानीम् “अधश्च मूलानि“ इति उच्यते तत्र आह - संसारेति । अनुप्रविष्टत्वम् - सर्वेषु लिङ्गेषु अनुगततया सन्ततत्वम् , अविच्छिन्नत्वम् । रागादीनां कर्मफलजन्यत्वं प्रकटयति - कर्मेति । कर्मणां रागादीनां मिथो हेतुहेतुमत्त्वम् । तेषां तथात्वेनअनवच्छिन्नतया प्रवृत्तिः विशेषतो मनुष्यलोेके भवति इत्यत्र हेतुमाह - अत्र हीति । कर्मव्युत्पत्त्या प्राणिनिकायो लोकः । मनुष्यश्चासौ लोकश्च इति अधिकृतो ब्राह्मण्यादिविशिष्टो देहो मनुष्यलोकः
॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 यथा पूर्वं वर्णितं, यथा च लोके प्रसिद्धम् तथा अस्य रूपमिह शास्त्रात् अनुमीयते । तथा च अस्य ज्ञानापनोद्यत्वं युक्तम् इत्याह - यथेति । तस्य अप्रमितत्वे हेतुं आह - स्वप्नेति । तस्य स्वप्नदिसमत्वे दृष्टनष्टस्वरूपत्वं हेतुं करोति - दृष्टेति । इति अमेयता इति शेषः । तमेव अमेयत्वं हेतुं कृत्वा अवसानमपि तस्य न भाति इत्याह - अत एवेति । ज्ञानं विना भ्रान्तिवासनाकर्मणाम् अन्योन्यनिमित्तत्वात् न अवसानमस्ति इत्यर्थः । इदम्प्रथमत्वमपि नास्य परिच्छेत्तुं शक्यम् इत्याह - तथेति । आद्यन्तवत् मध्यमपि नास्य प्रामाणिकम् इत्याह - मध्यमिति । संसारवृक्षस्य अश्वत्थशब्दितस्य क्षणभङ्गुरस्य स्वयमेव उच्छेदसम्भवात् तदुच्छेदार्थं न प्रयतितव्यम् , इत्याशङ्क्य आह - अश्वत्थमिति । व्युत्थानं - वैराग्यपूर्वकं पारिव्राज्यम् । दृढीकृतत्वमेव विवेकपूर्वकत्वेन स्फुटयति - पुनः पुनरिति
॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 पुनः पुनः रागादिना प्रवृत्तत्वेन अनादित्वात् न संसारवृक्षः स्वयम् उच्छिद्यते, न च उच्छेत्तुं शक्यते केनापि, इत्याशङ्क्य, आह - यस्त्विति । उद्धृत्य किं कर्तव्यम् तदाह - तत इति । पश्चात् - अश्वत्थात् ऊर्ध्वं व्यवस्थितम् इत्यर्थः । किं तत्पदम् यदन्विष्य ज्ञातव्यम् , तदाह - यस्मिन्निति । येन सर्वं पूर्णं पूर्षु वा शयानं पुरुषं, प्रपद्ये - शरणं गतोऽस्मि, इत्यर्थः । विवर्तवादानुरोधिनं दृष्टान्तम् आह - ऐन्द्रेति
॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 परिमार्गणपूर्वकं वैष्णवं पदं गच्छताम् अङ्गान्तराणि आकाङ्क्षापूर्वकं कथयति - कथमित्यादिना । मानः - अहङ्कारः, मोहस्तु अविवेकः, जितसङ्गदोषाः - शत्रुमित्रसन्निधावपि द्वेषप्रीतिवर्जिताः इत्यर्थः । तत्परत्वं - श्रवणादिनिष्ठत्वम् । संन्यासिनः - वैराग्यद्वारा त्यक्तसर्वकर्माण इत्यर्थः । आदिशब्देन तद्धेतुपरिग्रहः ।मोहवर्जितत्वं - उक्तहेतुतः सञ्जातसम्यग्धीत्वम्
॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 तच्चेत्पदं वेद्यं, कुर्तुः अन्यत्कर्म इति द्वैतापातः, अवेद्यं चेत् अपुमर्थत्वात् प्रेप्सितत्वासिद्धिः इत्याशङ्क्य आह - तदेवेति
॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 जीवस्य परांशत्वेऽपि कथं उक्तदोषसमाधिः इत्याशङ्क्य, प्रतिबिम्बपक्षमादाय दृष्टान्तेन प्रत्याचष्टे- यथेति । अवच्छेदपक्षमाश्रित्य दृष्टान्तान्तरेण उक्तदोषसमाधिं दर्शयति - यथावेति । आक्षेपसमाधिमुपसंहरति - अत इति । परस्य निरवयवत्वात् तदंशत्वं जीवस्यायुक्तमिति शङ्कते - नन्विति । तस्य निरवयवत्वं साधयति - सावयवत्वे चेति । वस्तुतो निरंशस्यापि परस्य कल्पनया जीवः अंशः भविष्यति इति परिहरति - नैष दोष इति । वस्तुतस्तु जीवस्य न अंशत्वं परमात्मना तावन्मात्रतायाः दर्शितत्वात् इत्याह - दर्शितश्चेति । यदि परस्य अंशत्वेन कल्पितो जीवः वस्तुतः तदात्मैव, न तर्हि तस्य संसारित्वं उत्क्रान्तिर्वेति शङ्कते - कथमिति । जीवस्य संसरणम् उत्क्रमणञ्च उपपादयितुं उपक्रमते - उच्यत इति
॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 उक्तमनूद्य आक्षिपति - यद्गत्वेति । तत्र प्रसिद्धिं प्रमाणयति - संयोगा इति । गमनस्य आगमनान्तत्वप्रसिद्धेः अयुक्तंयद्गत्वेत्यादि, इत्युपसंहरति - कथमिति । आक्षेपं परिहरति - श्रृण्विति । भगवत्प्राप्तेः निवृत्यन्तत्वाभावःसप्तम्यर्थः । जीवस्य उत्क्रान्तिः न ईश्वरस्य इत्याशङ्क्य, ईश्वरशब्दार्थमाह - देहादीति । उत्क्रान्त्यनन्तरभाविनी गतिः इत्येतत् अर्थवशात् इत्युक्तम् । अवशिष्टानि श्लोकाक्षराणि आचष्टे - यदाचेति
॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 स्वस्थाने स्थितानां इन्द्रियाणां जीवेन आकर्षणस्य कालं पृच्छति - कस्मिन्निति । मनःषष्ठानि इन्द्रियाण्येव प्रश्नद्वारा विशेषतो दर्शयति - कानीति
॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 सन्निहिततमत्वेन दर्शनयोग्यमपि विषयपारवशात् आत्मानं सर्वे न पश्यन्ति, इति भगवतोऽनुक्रोशं दर्शयति - एवंभूतमिति । तर्हि केषाम् आत्मदर्शनम् तदाह - ये तु पुनरिति
॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 शरीरमित्यादिश्लोके देहात् आत्मनः अतिरेकं उक्त्वा, श्रोत्रं चक्षुः इत्यादौ स्वाभिलषिते विषये यथायथं करणानां प्रवर्तकत्वात् तेभ्यः अतिरिक्तश्च आत्मा इत्युक्तम् । तर्हि तं उत्क्रान्त्यादि कुर्वन्तं स्वरूपत्वात् किमिति सर्वे न पश्यन्ति इत्याशङ्क्य, आह - एवमिति । असंस्कृतात्मत्वं प्रकटयति - तपसेति । दुश्चरितात् अविरतिफलं कथयति - अशान्तेति । अशुद्धबुद्धीनां - अविवेकिनां सदपि श्रवणादि न फलवत् , इति मत्वा आह - प्रयत्नमिति
॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानचक्षुश्शब्देन न्यायानुगृहीतं शास्त्रं ज्ञानसाधनमुक्तम् । तत् किं इदानीं शास्त्रमात्रेण न्यायानुगृहीतेन आत्मानं पश्यन्ति नेत्याह - केचित्विति । प्रयत्नः - श्रवणमननात्मकः । शास्त्रादिप्रमाणैः यतन्तोऽपि, इति सम्बन्धः । जीवात्मत्वे न चिद्रूपत्वं उक्त्वा तदीयचैतन्येन आदित्यादीनां अवभासकत्वाच्च ब्रह्मणः चिद्रूपत्वं इत्याह - यदादित्येति । चिद्रूपस्यैव ब्रह्मणः सर्वात्मकत्वप्रतिपादकत्वेन श्लोकं व्याचष्टे - यदित्यादिना । आदित्यादौ तत्र तत्र स्थितं ब्रह्मचैतन्यज्योतिः सर्वावभासकं इत्यर्थः । ब्रह्मण सर्वज्ञत्वेन चिद्रूपत्वं अत्र विवक्षितम् , इति व्याख्यान्तरं आह - अथवेति । चैतन्यज्योतिषः सर्वत्र अविशेषात् आदित्यादिगतत्वविशेषणं अयुक्तमिति शङ्कते - नन्विति । सर्वत्र सत्वेऽपि क्वचिदेव अभिव्यक्तिविशेषात् विशेषणमिति परिहरति - नैष दोष इति । तदेव प्रपञ्चयति - आदित्यादिष्विति । सर्वत्र चैतन्यज्योतिषः तुल्यत्वेऽपि क्वचिदेव अभिव्यक्त्या विशेषणोपपत्तिं दृष्टान्तेन स्पष्टयति - यथाहीति
॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 अनन्तरश्लोकचतुष्टयस्य वृ्त्तानुवादद्वारा तात्पर्यार्थमाह - यत्पदमिति । ईश्वरो हि पृथिवीदेवतारूपेण पृथिवीं प्रविश्य भूतशब्दितं जगत् ऐश्वरेणैव बलेन बिभर्ति । ततो गुर्वी अपि पृथिवी विदीर्य न अधो निपतति इत्यत्र प्रमाणमाह - तथा चेति । परस्यैव हिरण्यगर्भात्मना अवस्थानात् न मन्त्रयोः अन्यपरता इति भावः । देवतात्मना द्यावापृथिव्योः उग्रत्वम् उद्धरणसामर्थ्यम् , तथापि ईश्वरायत्तमेव स्वरूपधारणं, तदपेक्षया दुर्बलत्वात् इति द्रष्टव्यम् । ईश्वरस्य सर्वात्मत्वे हेत्वन्तरमाह - किञ्चेति । रसात्मकसोमरूपतापत्तावपि, कथं ओषधीः ईश्वरः सर्वाः पुष्णाति इत्याशङ्क्य आह - सर्वेति
॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 इतश्च सर्वात्मत्वंप्रकृतपदस्य युक्तम् इत्याह - किञ्चेति । परस्यैव जाठरात्मना स्थितौ श्रुतिं प्रमाणयति - अयमिति । बाह्यं भौमं अग्निं व्यावर्तयति - योऽयमिति । देहान्तरारम्भकं तृतीयं भूतं व्यवच्छिनत्ति - येनेति । जाठरात्मना परः स्थितश्चेत् तस्य देहाश्रितत्वं सिद्धम् इति न पृथक् वक्तव्यम् इत्याशङ्क्य, “पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद“ इति श्रुतिमाश्रित्य आह - प्रविष्ट इति । परस्य जाठरात्मनः अन्नपाके सहकारिकारणमाह - प्राणेति । संयुक्तत्वं - सन्धुक्षितत्वम् । अन्नस्य चातुर्विध्यं प्रकटयति - भोज्यमिति । भोक्तरि वैश्वानरदृष्टिः, भोज्ये सोमदृष्टिः एवं भोक्तृभोज्यरूपं सर्वं जगत् अग्नीषोमात्मना भुक्तिकाले ध्यायतो भोक्तुः अन्नकृतो दोषो न इति प्रासङ्गिकं सफलं ध्यानं दर्शयति - भोक्तेति
॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 भगवतः सर्वात्मत्वे हेत्वन्तरमाह - किञ्चेति । अहमेवेति अहंशब्देन परो लक्ष्यते, भूत्वा पचामि इति सम्बन्धः । प्राणिनां स्मृतिज्ञानयोः तदुपायस्य च भगवदधीनत्वे भगवतो वैषम्यं स्यात् इत्याशङ्क्याह - येषामिति । स्मृतिः जन्मान्तरादौ अनुभूतस्य परामर्शः । देशकालस्वभावविप्रकृष्टस्यापि ज्ञानम् अनुभवः । धर्माधर्माभ्यां विचित्रं कुर्वतः न ईश्वरस्य वैषम्यम् इति भावः । वेदवेद्यं परं ब्रह्म भगवतः अन्यदिति शङ्कां वारयति - वेदैरिति । वेदान्तानां पौरुषेयत्वं परिहरति - वेदेति । तदर्थसम्प्रदायप्रवर्तकत्वार्थं तदर्थयाथातथ्यज्ञानवत्वमाह - वेदार्थेति
॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 इतश्च सर्वात्मत्वेन सर्वव्यवहारास्पदत्वम् ईश्वरस्य इत्याह - किञ्चेति । प्राणिजातं ब्रह्मादिपुत्तिकान्तम् । आत्मतया बुद्धौ संनिविष्टत्वं - तद्गुणदोषाणाम् अशेषेण - द्रष्टृत्वम् । अतः बुद्धिमध्यस्थस्य गुणदोषद्रष्टृत्वात् इति यावत् । मत्तः - सर्वकर्माध्यक्षात् जगद्यन्त्रसूत्रधारात् इत्यर्थः । क्षराक्षरोपाधिभ्यां परमात्मना चराशित्रयम् । उक्तेन सर्वात्मत्वेन अशुद्ध्यादिदोषप्रसक्तौ उक्तम् - द्वाविमाविति । पुरुषोपाधित्वात् पुरुषत्वं न साक्षात् इति विवक्षितत्वात् आह - पुरुषाविति । परं पुरुषं व्यावर्तयति - भगवत इति । तत्र कार्यलिङ्गकम् अनुमानं सूचयति - क्षराख्यस्येति । मायाशक्तिं विना भोक्तॄणां कर्मादिसंस्कारादेव उक्तकार्योत्पत्तिः इत्याशङ्क्य, तस्य निमित्तत्वेऽपि मायाशक्तिः उपादानम् इति मत्वा आह - अनेकेति । कामकर्मादीति आदिशब्देन ज्ञानं गृह्यते । प्रकृतिं पुरुषं चैवेति प्रकृतयोः इह ग्रहणम् इति शङ्काम् आकाङ्क्षाद्वारा वारयति - कौ ताविति । कूटशब्दार्थमुक्त्वा तेन स्थितस्य कूटस्थतेति सम्पिण्डितार्थमाह - अनेकेति । तस्य कथम् अक्षरत्वं विना ब्रह्मज्ञानं अनाशादित्याह - संसारेति
॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 उत्तरश्लोकानां तात्पर्यं वक्तुं वृत्तं कीर्तयति - भगवत इति । विशिष्टोपाधिः आदित्यादिः । सम्प्रति अध्यायसमप्तेः उत्तरसन्दर्भस्य तात्पर्यमाह - अथेति । न केवलं निरुपाधिकात्मस्वरूपनिर्धारणाय उत्तरग्रन्थः, किन्तु सर्वस्यैव गीताशास्त्रस्य अर्थनिर्णयार्थमित्याह - तत्रेति । जडवर्गस्य अन्यत्वकृतं स्वातन्त्र्यं निरस्यति - स एवेति । लोकत्रयं इति उपलक्षणम् , सर्वं जगदपि विवक्षितम् । चैतन्यमेव बलं तत्र - शक्तिः - माया तयेति यावत् । जगद्धारणे परस्य व्यापारान्तरं वारयति - स्वरूपेति । न च अस्य अन्यो धारयिता, स्वतः अचलत्वात् इत्याह - अव्यय इति । “संयुक्तमेतत् क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः“ इति श्रुत्यर्थं गृहीत्वा आह - ईश्वर इति
॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 कार्यकारणाख्यौ राशी दर्शयित्वा राश्यन्तरं दर्शयति - आभ्यामिति । वैलक्षण्यफलमाह - क्षरेति । उपाधिद्वयकृतगुणदोषास्पर्शे फलितमाह - नित्येति । आभ्यां क्षराक्षराभ्यामिति यावत् । उत्तमः, अन्यः इति पदद्वयं वस्तुतः सर्वथैव क्षराक्षरात्मत्वाभावदृष्ट्यर्थम् । यस्मादित्यस्य अपेक्षितं निक्षिपति - अत इति । उत्तमः पुरुषः इति वाक्यशेषः
॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 किञ्च लोकवेदयोः भगवतो नामप्रसिद्ध्या सिद्धम्अप्रपञ्चत्वं इत्याह - यथेति । अश्वकर्णादिवत् अस्य नाम्नः रूढत्वात् अर्थविशेषाभावात् भगवतोऽपिलौकिकेश्वरवत् ईश्वरत्वं सातिशयम् इति, नेत्याह - तस्येति । भगवन्तं जानतः सर्ववित्त्वं, तस्यैव सर्वात्मना मेयत्वादित्याह - स सर्वविदिति । सर्वात्मनि मय्येव आसक्तचित्तत्वेन इत्यर्थः
॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मनः अप्रपञ्चत्वं ज्ञानफलोक्त्या स्तौति - अथेति । यथोक्तविशेषणं सर्वात्मत्वादिविशेषणोपेतमिति यावत् । क्षराक्षरातीतत्वं यथोक्तप्रकारः । संमोहवर्जितः - संमोहेन देहादिषु आत्मात्मीयत्वबुद्ध्या रहितः इत्यर्थः । सर्वस्यां गीतायां शास्त्रशब्दे वक्तव्ये कथमस्मिन् अध्याये तत्प्रयोगः स्यात् इत्याशङ्क्य, आह - यद्यपीति । संनिहितम् अध्यायं स्तोतुमपि कुतः तत्र शास्त्रशब्दः तदर्थाभावात् । तत्राह - सर्वो हीति । गीताशास्रार्थस्य सर्वस्य अत्र सङ्क्षिप्तत्वादेव केवलं शास्त्रशब्दो न भवति, किन्तु वेदार्थस्यापि सर्वस्य अत्र समाप्तेः युक्तं शास्त्रपदं इत्याह - नेति । तत्र गमकमाह - यस्तमिति । भगवत्तत्त्वज्ञाने कृतकृत्यता इत्येतत् उपपादयति - विशिष्टेति । “नान्यथा“ इत्युक्तं प्रपञ्चयति - न चेति । सत्यपि तत्त्वज्ञाने कर्मणां कर्तव्यत्वात् न कर्तव्यसमाप्तिः इति आशङ्क्याह - सर्वमिति । तत्त्वज्ञाने कृतार्थतेति तत्र मनोरपि संमतिमाह - एतद्धीति । भारतेति सम्बोधनतात्पर्यमाह - यत इति । तदनेन आत्मनो देहाद्यतिरिक्तत्वं चिद्रूपत्वं सर्वात्मत्वं कार्यकारणविनिर्मुक्तत्वेन अप्रपञ्चत्वं तस्य अखण्डैकरसब्रह्मात्मत्वज्ञानात् अशेषपुरुषार्थपरिसमाप्तिरित्युक्तम्
॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने पञ्चदशोऽध्यायः
॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 अध्यायार्थमनूद्य उपसंहारश्लोकं अवतारयति - अस्मिन्निति । अतीते च अध्याये “कर्मानुबन्धीनि अधश्च मूलानि अनुसन्ततानि" इत्यत्र कर्मव्यङ्ग्याः वासनाः संसारस्य अवान्तरमूलत्वेन उक्ताः । ताः मनुष्यदेहे प्राग्भवीयकर्मानुसारेण व्यज्यमानाः सात्त्विकादिभेदेन दैव्यादिप्रकृतित्रयत्वेन विभक्ताः विस्तितीर्षुः भगवान् उक्तवान् इत्याह - भगवानिति । अभीरुता - शास्त्रोपदिष्टे अर्थे सन्देहं हित्वा अनुष्ठाननिष्ठत्वम् । परवञ्चना - परस्य व्याजेन वशीकरणम् । माया - हृदये अन्यथा कृत्वा बहिः अन्यथा व्यवहरणम् । अनृतं - अयथादृष्टकथनम् । आदिपदेन विप्रलम्भादिग्रहः उक्तं अर्थं सङ्क्षिप्य आह - शुद्धेति । एषा इति अभयाद्या ज्ञानादिस्थित्यन्ता त्रिधा उक्ता इति यावत् । तामेव सात्त्विकीं प्रकृतिं प्रकटयति - यत्रेति । ज्ञाने कर्मणि वा अधिकृतानां अभीरुताद्या या प्रकृतिः सा तेषां तत्र सात्त्विकी सम्पत् इत्यर्थः । महाभाग्यानां अत्युत्तमा दैवी सम्पत् उक्ता । सम्प्रति सर्वेषां यथासम्भवं सम्पदं व्यपदिशति - दानमिति । बाह्यकरणविशेषे कारणम् आह - अन्तःकरणस्येति । देवयज्ञादिः इति आदिशब्देन पितृयज्ञो भूतयज्ञो मनुष्ययज्ञश्च इति त्रयम् उक्तम् । बह्मयज्ञस्य स्वाध्यायेन पृथक्करणात्
॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 व्यवहितेन सम्बन्धं वदन् अध्यायान्तरम् अवतारयति- दैवीति । दैवी सूचिता, “राक्षसीं आसुरीं चैव प्रकृतिं मोहिनीम्" इत्यादौ इति शेषः । प्रकृतीनां विस्तरेण दर्शनं कुत्र उपयोगि इति आशङ्क्य, विभज्य उपयोगं आह - संसारेति । त्यागशब्देन दानं कस्मात् न उच्यते तत्र आह - पूर्वमिति । लज्जा - अकार्यनिवृत्तिहेतुगर्हानिमित्ता मनोवृत्तिः
॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 दैवीं सम्पदमभिजातस्य विशेषणान्तराणि दर्शयति - किं चेति । व्यावर्त्यं कीर्तयति - नेति । अध्यात्माधिकारात् इति शेषः । क्षमाऽक्रोधयोः एकार्थत्वेन पौनरुक्त्यं आशङ्क्य परिहरति - उत्पन्नायाम् इति । तयोः एवं विशेषात् अपौनरुक्त्यं फलति इति आह - इत्थम् इति । वृत्तिविशेषमेव विशदयति - येनेति । शौचस्य द्वैविध्यमेव प्रकटयति - मृज्जलेत्यादिना । नैर्मल्यमेव स्फोरयति - मायेति । उक्तम् उपसंहरति - एवमिति । अतिमानित्वाभावमेव व्यनक्ति - आत्मनः इति । कस्य एतानि विशेषणानि इति अपेक्षायां आह - भवन्तीति । साधकस्य मनुष्यदेहस्थस्यैव कथं दैवीं सम्पदं अभिलक्ष्य जातत्वम् इति आशङ्क्य आह - दैवीति
॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 दैवी सम्पदं प्राप्तस्य विशेषणान्तराणि अपि सन्ति इति आह - किञ्चेति । उत्सेकः - मदः महदवधीरणाहेतुः । आत्मनि उत्कृष्टत्वाध्यारोपः अतिमानः । क्रोधस्तु कोपापरपर्यायः स्वपरापकारप्रवृत्तिहेतुः नेत्रादिविकारलिङ्गः अन्तःकरणवृत्तिविशेषः । परुषः निष्ठुरः प्रत्यक्षरूक्षवाक् , तस्य भावः पारुष्यम् । तत् उदाहरति - यथेति । तां अभिजातस्य दम्भादीनि अज्ञानान्तानि भवन्ति इति अनुषज्यते
॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 आदेयत्वेन दैवीं सम्पदं उक्त्वा हेयत्वेन आसुरीं सम्पदं आह - अथेति । कार्यं फलविभागः । आसुरी इति उपलक्षणं राक्षसी चेति द्रष्टव्यं इत्याह - तथेति । फलविभागे सम्पदोः एवं उक्ते, प्रतीत्य अर्जुनस्य अभिप्रायं, भगवतो वचनं इत्याह - तत्रेति । तत्र आभिजात्यं हेतुं करोति - पाण्डवेति
॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 निर्दयानां रक्षसां सम्पत् तृतीया अस्ति, सा कस्मात् न उक्ता इति आशङ्क्य आसुर्यां अन्तर्भावात् इत्याह - द्वाविति । भूतानां द्वैविध्ये मानत्वेन उदूगीथब्राह्मणम् उदाहरति - द्वया हेति । सम्पद्द्वययुतेभ्यः अतिरिक्तानां अपि प्राणिभेदानां सम्भवात् कुतः भूतानां द्वित्वनियतिः इति आशङ्क्य आह - सर्वेषामिति
॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 वर्जनीयां आसुरीं सम्पदं विवृणोति - प्रवृत्तिं चेति । तां विहितां प्रवृत्तिं न जानन्ति इत्यर्थः । तां च निषिद्धां क्रियां न जानन्ति इति सम्बन्धः । न शौचम् इत्यादेः तात्पर्यं आह - अनाचारा इति । शौचसत्ययोः आचारान्तर्भावेऽपि बाह्मणपरिव्राजकन्यायेन पृथक् उपादानम्
॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 ननु अध्यायशेषेण आसुरसम्पद्दर्शनं अयुक्तं, तस्याः त्याज्यत्वेनपङ्कप्रक्षालनन्यायावतारात् इति आशङ्क्य आह - प्रत्यक्षीकरणेनेति । शास्त्रैकगम्यम् अदृष्टं निमित्तीकृत्यप्रकृत्यधिष्ठात्रात्मकेन ब्रह्मणा रहितं जगत् इष्यते चेत् , कथं तदुत्पत्तिः इति आशङ्क्य आह - किं चेति । किमन्यत् इत्यादेः आक्षेपस्य तात्पर्यं आह - न किञ्चिदिति
॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 आसुराणां जनानां विशेषणान्तराण्यपि सन्ति इत्याह - किं चेति । विद्यते इत्याहुः इति पूर्वेण सबन्धः । यथा उक्ता दृष्टिः ब्रह्मदृष्टिवत् इष्टैव इति आशङ्क्य आह - एतामिति । प्राक् उपदिष्टां एतां लोकायतिकदृष्टिं अवलम्ब्य इति यावत् । नष्टस्वभावत्वं एव स्पष्टयति - विभ्रष्टेति । विषयबुद्धेः अल्पत्वं दृष्टमात्रोद्देशेन प्रवृत्तत्वम् । जगतः प्राणिजातस्य इति यावत्
॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 तानेव दुराचारान् आसुरान् प्रकारान्तरेण विशिनष्टि - ते चेति
॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 एषः कामोपभोगः परं अयनं सुखस्य इति एतावत् , पारत्रिकं तु नास्ति सुखं इति निश्चयवन्तः इत्याह - एतावदिति
॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 तानेव विधान्तरेण विशिनष्टि - किं चेति । चिन्तां - आत्मीययोगक्षेमोपायालोचनात्मिकां अपरिमेयविषयत्वात् परिमातुं अशक्यां आश्रिताः इति सम्बन्धः । आसुरानेव पुनः विशिनष्टि - आशेति । अशक्योपायार्थविषयाः अनवगतोपायार्थविषयाः वा प्रार्थनाः आशाः, ताः पाशः इव पाशाः, तेषां शतैः बद्धाः इव, श्रेयसः प्रच्याव्य इतः ततः नीयमानाः इत्याह - आशा एवेति
॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 तेषां अभिप्रायोऽपि विवेकविरोधी इत्याह - ईदृशश्चेति । द्रव्यं गोहिरण्यादि । इदं - अन्यत् बुद्धौ प्रार्थ्यमानत्वेन विपरिवर्तमानं इति एतत्
॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 यथोक्ते मदभिप्राये प्रतिबन्धकः शत्रुः अपि न सम्भवति इत्याह - असाविति । त्वत्तो विहीनानां त्वया परिभवेऽपि, त्वत्तुल्यानां शत्रूणां परिभवो निश्चितो न भवति इति आशङ्क्य आह - सर्वथेति । ऐश्वर्यातिरेकेऽपि कुतः तेषां भोगसामर्थ्यम् इति आशङ्क्य आह - अहमिति । सिद्धत्वमेव स्फुटयति - सम्पन्न इति । बलवान् - ओजस्वी । सुखी - रोगरहितः
॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 विद्यावृत्तधनाभिजनैः मत्तुल्यः नास्ति इत्याह - आढ्यः इति । तथापि यागदानाभ्यां तत्फलेन वा कश्चित् अधिकः भविष्यति इति आशङ्क्य आह - किञ्चेति । न च तेषां एषः अभिप्रायः साधीयान् इत्याह - इत्येवमिति
॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 उक्तप्रकारविपर्ययेण कृत्याकृत्यविवेकविकलानां किं स्यात् इति अपेक्षायां आह - अनेकेति । कामाः - विषयाः, तेषां भोगेषु - तत्प्रयुक्तेषु उपभोगेषु इति यावत्
॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 ननु तेषामपि केषाञ्चित् वैदिके कर्मणि यागदानादौ प्रवृत्तिप्रतिपत्तेः अयुक्तं वैतरण्यादौ पतनं इति चेत् , तत्र आह - आत्मेति
॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 आसुरीसम्पदं अभिजातैः अधर्मजातमेव सञ्चीयते, प्रवृत्तैरपि वैदिके कर्मणि, नैव पुण्यं इति उक्तम् । ब्रह्मज्ञानात् पुनः आसुराः दूरादेव उद्विजन्ते इति आह - अहङ्कारमिति । अहङ्कारमेव स्फोरयति - विद्यमानैरिति । अध्यारोपितवैशिष्ट्यविषयत्वात् अहङ्कारस्य अविद्यामूलत्वेन अविद्यात्मत्वं आह - अविद्याख्य इति । विवेकिभिः तस्य अतियत्नादेव हेयत्वं सूचयति - कष्टतम इति । तदेव स्पष्टयति - सर्वेति । तं संश्रिताः इति सम्बन्धः । कर्याकरणसामर्थ्यं उक्तविशेषणं बलम् । अहङ्कार एव महदवधीरणापर्यन्तत्वेन परिणतः दर्पः । तं व्याकरोति - नामेत्यादिना । अन्यांश्च दोषान् मात्सर्यादीन् । न केवलं उक्तमेव तेषां विशेषणम् , किन्तु कष्टतमं अस्ति विशेषणान्तरं इति आह - किञ्चेति । यद्यपि ईश्वरं प्रति द्वेषः तेषां सम्भाव्यते, तथापि कथं स्वदेहे परदेहेषु च तं प्रति द्वेषः न हि तत्र भोक्तारं अन्तरेण ईश्वरस्य अवस्थानम् इति आशङ्क्य आह- तद्बुद्धीति । तेषां ईश्वरं प्रति द्वेषमेव प्रकटयति - मच्छासनेति । ईश्वरस्य शासनं - श्रुतिसमृतिरूपं तदतिवर्तित्वं - तदुक्तार्थज्ञानानुष्ठानपराङ्मुखत्वम्
॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 तेषां उक्तविशेषणवतां आसुराणां किं स्यात् इति तत् आह - तानिति । भगवतः नैर्घृण्यप्रसङ्गं प्रत्यादिशति - अधर्मेति
॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 ननु तेषामपि क्रमेण बहूनां जन्मनां अन्ते श्रेयः भविष्यति न इति आह - आसुरीमिति । तेषां ईश्वरप्राप्तिशङ्काभावे कथं तन्निषेधः स्यात् इति आशङ्क्य आह - मामित्यादिना । यस्मात् आसुरी सम्पत् अनर्थपरम्परया सर्वपुरुषार्थपरिपन्थिनी, तस्मात् यावत् पुरुषः स्वतन्त्रः न काञ्चित् पारवश्यकरीं योनिम् आपन्नः, तावदेव तेन असौ परिहरणीया इति समुदायार्थः
॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 कथं आत्मनः नित्यस्य नाशशङ्का इति, तत्र आह - कस्मैचिदिति । त्रिविधमपि सामान्यतः दर्शितं आकाङ्क्षाद्वारा विशेषतः दर्शयति - किं तदिति । तस्मात् इति व्याचष्टे - यत इति । कामादित्यागे सति, अनर्थाचरणश्रेयःप्रतिबन्धनिवृत्ती स्यातां इति भावः
॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 कथं आसुरी सम्पत् अनन्तभेदवती पुरुषायुषेणापि परिहर्तुं शक्येत इति आशङ्क्य आह - सर्वस्या इति । सङ्क्षेपोक्तिफलं आह - यस्मिन्निति । कामादौ त्रिविधे सर्वस्य आसुरसम्पद्भेदस्य अन्तर्भावेऽपि, कथं असौ परिह्रियते तत्र आह - यत्परिहारेणेति । कामादिपरिहारेण आसुरीसम्पद्भेदपरिहारेऽपि कथं सर्वानर्थपरिवर्जनं इति आशङ्क्य आह - यन्मूलमिति । न केवलं श्रेयः समाचरन् आसुरीं च सम्पदं वर्जयन् मोक्षमेव सम्यग्धीद्वारा लभते किन्तु लौकिकमपि सुखं इतिअपेः अर्थः
॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 शिष्यते - अनुशिष्यते बोध्यते अनेन अपूर्वः अर्थः इति शास्त्रम् । तच्च विधिनिषेधात्मकम् इति उपेत्य व्याचष्टे - कर्तव्येति । कामस्य करणं कामकारः, तस्मात् हेतोः इति उपेत्य कामाधीना शास्त्रविमुखस्य प्रवृत्तिः इति आह - कामेति । कामाधीनप्रवृत्तेः सदा पुमर्थयोग्यस्य सर्वपुरुषार्थसिद्धिः इत्याह - नापीति
॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 आसुर्याः सम्पदः वर्जने श्रेयसश्च करणे किं कारणम् तत् आह - सर्वस्येति । तस्य कारणत्वं साधयति - शास्त्रेति । उक्तं उपजीव्य अनन्तरश्लोकं प्रवर्तयति - अत इति । शास्त्रात् ऋते कर्मणः निष्फलत्वे फलितं आह - तस्मादिति । कर्तव्याकर्तव्यौ धर्माधर्मौ तत्र शास्त्रस्य प्रमाणत्वेऽपि मम किं कर्तव्यं इति आशङ्क्य आह - अत इति । स्वकर्म - क्षत्रियस्य युद्धादि । इतिशब्दः अध्यायसमाप्त्यर्थः । तत् अनेन अध्यायेन प्रागभवीयकर्मवासनानुसारेण अभिव्यज्यमानसात्त्विकादिप्रकृतित्रयविभागेन दैवी आसुरी इति सम्पद्द्वयं आदानहानाभ्यां उपदिश्य कामक्रोधलोभान् अपहाय पुरुषर्थिना शास्त्रश्रवणेन तदुक्तकारिणा भवितव्यमिति निर्धारितम्
॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमत्परमहंस - परिव्राजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - वि रचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने षोडशोऽध्यायः
॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 यजन्ते इति यागग्रहणं दानादेः उपलक्षणम् । यदि वेदोक्तं विधिम् अपश्यन्तः तम् उत्सृजन्ति, कथं तर्हि श्रद्धघानाः यागादि कुर्वन्ति न हि मानं विना श्रद्धया यागादि कर्तुं शक्यम् इति आशङ्क्य आह - श्रुतीति । ननु शास्त्रीयं विधिं पश्यन्तोऽपि केचित् तम् उपेक्ष्य स्वोत्प्रेक्षया यागादि कुर्वन्तः दृश्यन्ते, तेषाम् इह ये शास्त्रविधिमुत्सृज्य इति ग्राहः भविष्यति न इत्याह - ये पुनरिति । तेषाम् अत्र अपरिग्रहे प्रश्नपूर्वकं हेतुम् आह - कस्मादिति । शास्त्रज्ञानं तदुपेक्षावतां ग्रहेऽपि विशेषणम् अविरुद्धम् इति आशङ्क्य व्याघातात् मा एवम् इति आह - देवादीति । अश्रद्धधानतया तत् उत्सृज्य इति सम्बन्धः । शास्त्रोक्तं विधिम् अधिगच्छतामपि, तम् अवधीर्य, स्वेच्छया देवपूजादौ प्रवृत्तानाम् आसुरेष्वेव अन्तर्भावः, यस्मात् अनन्तराध्याये सिद्धः, तस्मात् आस्तिकाधिकारे तेषां प्रसङ्गो नास्ति इति उपसंहरति - यस्मादिति । पूर्वोक्ताः शास्त्रानभिज्ञाः । वृद्धव्यवहारानुसारिणः इति यावत् । तैः श्रद्धया क्रियमाणं कर्म कुत्र पर्यवस्यति इति पृच्छति - तेषामिति । का निष्ठा इति एतत् विवृणोति - सत्त्वमिति । कार्याणां कारणैः व्यपदेशम् आश्रित्य तात्पर्यम् आह - एतदिति
॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 आस्तिकानां नास्तिकानां च शास्त्रैकचक्षुषां गतिः उक्ता । सम्प्रति आस्तिकानामेव शास्रानभिज्ञानां गतिं जिज्ञासया पृच्छति इति आह - तस्मादिति । किमिति श्रद्धात्रैविध्यं प्रश्नानुपयुक्तम् उच्यते, तत्राह - यस्यामिति । श्राद्धपूर्विकायां क्रियायाम् इति यावत् । श्रद्धात्रैविध्ये हेतुम् आह - सा स्वभावजेति । स्वभावशब्दार्थं प्रकृतोपयोगितया कथयति - जन्मान्तरेति । कथं त्रिविधा इति अपेक्षायाम् आह - सात्त्विकीत्यादिना । कथम् उक्ता श्रद्धा स्वभावजा इति तत्र आह - तामिति
॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 विशेषनिष्ठम् उत्तरं सामान्येन वक्तुं न शक्यम् , इति आशयेन परिहरति - सामान्येति । प्राचीनकर्मोद्बोधिता त्रिविधा वासना स्वभावशब्दिता त्रिविधायाः श्रद्धायाः निमित्तम् इत्युक्तम् । इदानीम् उपादानं तस्याः दर्शयति - सत्त्वमिति । विशिष्टचित्तोपादाना श्रद्धा तत्त्रैविध्ये त्रिविधा इति पूर्वार्धस्य अर्थः । कथं निष्ठायाः सात्त्विकादिप्रश्नद्वारा श्रद्धायाः त्रैविध्यनिरूपणम् उपयुक्तम् इति मन्वानः शङ्कते - यद्येवमिति । श्रद्धेयं विषयम् अभिध्यायन् तया तत्रैव वर्तते इति मन्वानः परिहरति - उच्यते इति । श्रद्धामयत्वं प्रश्नपूर्वकं कथयति - कथमिति । श्रद्धा खलु अधिकृते पुरुषे प्राचुर्येण प्रकृता इति तस्य श्रद्धामयत्वसिद्धिः इत्यर्थः
॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 तथापि कथं सत्त्वादिनिष्ठा यथोक्तस्य पुरुषस्य ज्ञातुं शक्या इति आशङ्क्य आह - ततश्चेति । अधिकृतस्य पुरुषस्य श्रद्धाप्रधानत्वात् इति यावत् । देवाः - वस्वादयः, यक्षाः - कुबेरादयः, रक्षांसि नैर्ऋतादयः । स्वधर्मात् प्रच्युताः विप्रादयः देहपातात् ऊर्ध्वं वायुदेहम् आपन्नाः प्रेताः । एभ्यश्च यथायथम् आराध्यदेवादयः सात्त्विकराजसतामसान् प्रकामान् प्रयच्छन्तीति सामर्थ्यात् अवगन्तव्यम्
॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 ननु सत्त्वादिनिष्ठाः शास्त्रेण ज्ञातुं शक्यन्ते, कुतः, कार्यलिङ्गकानुमानेन इति, तत्र आह - एवमिति । सत्त्वादिनिष्ठानां जन्तूताम् अवान्तरविशेषं प्रचुरत्वाप्रचुरत्वरूपं दर्शयति - तत्रेत्यादिना । राजसानां तामसानां च प्राचुर्यं प्रश्नद्वारा विवृणोति - कथमित्यादिना । कामश्च काम्यमानविषयः । रागश्च तद्विषयभोगाभिलाषः । तत्कृतं - तत्प्रयुक्तं तन्निमित्तमिति यावत्
॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 रजोनिष्ठान् प्राधान्येन प्रदर्श्य, तमोनिष्ठान् प्राधान्येन दर्शयति - कर्शयन्तः इति । कथं शरीरादिसाक्षिणम् ईश्वरं प्रति कृशीकरणं प्राणिनां प्रकल्प्यते तत्राह - मदनुशासनेति । तेषां विपर्यासनिश्चयवतां परिज्ञानं कुत्र उपयुज्यते तत्राह - परिहरणार्थमिति
॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 कथम् एतेषां प्रत्येकं त्रैविध्यम् तत्र आह - तेषाम् इति
॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 उत्तरश्लोकपूर्वार्धतात्पर्यम् आह - आहाराणामिति । रस्यादिवर्गस्य सात्त्विकपुरुषप्रियत्वं, कट्वादिवर्गस्य राजसप्रियत्वं, यातयामादिवर्गस्य तामसप्रियत्वमिति दर्शनं कुत्र उपयुज्यते तत्र आह - रस्येति । श्लोकोत्तरार्धतात्पर्यम् आह - तथेति । आहारत्रैविध्यवत् इति यावत् । सात्त्विकप्रीतिविषयम् आहारविशेषम् उदाहरति - आयुरिति । आयुः - जीवनं, सत्त्वं - चित्तस्थैर्यम् , वीर्यं वा, बलं - कार्यकरणसामर्थ्यं, आरोग्यं - नीरोगता, सुखं - अन्तः आह्लादः, प्रीतिः - परेषामपि सम्पन्नानां दर्शनात् परमः हर्षः, तासां विवर्धनाः, विवर्धयन्तीति व्युत्पत्तेः । रसोपेताः - रसयितव्याः सरसाः । देहे चिरकालस्थायित्वं - चिरशरीरोपकारहेतुत्वमु
॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 राजसप्रीतिविषयम् आहारविशेषं दर्शयति - कट्विति । कटुः - तिक्तः, कटुकस्य तीक्ष्णशब्देन उक्तत्वात् । रूक्षः - न स्नेहः, विदाही - सन्तापकः । अतिशब्दस्य सर्वत्र योजनमेव अभिनयति - अतिकटुरिति । दुःखं - तात्कालिकी पीडा, इष्टवियोगजं दुःखं - शोकः, आमयः - रोगः
॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 तामसप्रियम् आहारम् उदाहरति - यातयाममिति । ननु निर्वीर्यं यातयामम् उच्यते, न पुनः सामिपक्वमिति न इत्याह - निर्वीर्यस्येति
॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 तत्र सात्त्विकं यज्ञं ज्ञापयति - अफलेति । फलाभिसन्धिं विना यज्ञस्वरूपमेव भाव्यम् इति बुद्ध्या शास्त्रतः अनुष्ठीयमानः यज्ञः सात्त्विकः इत्यर्थः
॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 हानादानार्थम् आहारत्रैविध्यम् एवं विभज्य क्रमप्राप्तं यज्ञत्रैविध्यं कथयति - अथेति । राजसं यज्ञं हानार्थं दर्शयति - अभिसन्धायेति । स्वर्गादि उद्दिश्य, धार्मिकत्वख्यापानार्थं च यत् यजनं क्रियते, तं यज्ञं रजसा निर्वृत्तं त्याज्यम् अवगच्छ इत्यर्थः
॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 तामसं यज्ञं हानार्थमेव उदाहरति - विधीति
॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 तत्र शारीरं तपः निर्दिशति - देवेति । देवाः - ब्रह्मविष्णुशिवादयः, द्विजाः - पूज्यत्वात् द्विजोत्तमाः, गुरवः - पित्रादयः, प्राज्ञाः - पण्डिताः विदितवेदितव्याः, तेषां पूजनं - प्रणामशुश्रूषादि । शौचं - मृज्जलाभ्यां शरीरशोधनम् । आर्जवं - ऋजुत्वं, विहितप्रतिषिद्धयोः एकरूपप्रवृत्तिनिवृत्तिमत्वं, ब्रह्मचर्यं - मैथुनासमाचरणं, अहिंसा - प्राणिनाम् अपीडनम् । शरीरमात्रनिर्वर्त्यत्वम् अस्य तपसः सम्भवति इति मत्वा विशिनष्टि - शरीरेति । कथं कर्त्रादि - साध्यत्वे तपसः शारीरत्वम् शारीरत्वे वा कथं कर्त्रादिसाध्यत्वम् इति आशङ्क्य आह - पञ्चेति
॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 सात्त्विकादिभावं निरूपयितुं सर्वस्य तपसः स्वरूपं त्रिविधं निरूपयति - अथेति । सम्प्रति वाङ्मयं तपो व्यपदिशति - अनुद्वेगकरमिति । सत्यं - यथादृष्टार्थवचनं, प्रियं - श्रुतिसुखं, हितं - परिणामपथ्यम् । प्रियहितयोः विधान्तरेण विभागम् आह - प्रियेति । कथम् अत्र विशेषणविशेष्यत्वम् तदाह - अनुद्वेगेति । विशेषणानां धर्माणाम् अनुद्वेगकरत्वादीनां विशेष्येण वाक्येन समुदितानां परस्परमपि समुच्चयद्योती चकारः इत्याह - विशेषणेति । किमिति वाक्यम् एतैः विशेष्यते किमिति वा तेषां मिथः समुच्चयः तत्र आह - परेति । यद्यपि वाक्यमात्रस्य अविशेषितस्य वाङ्मयतपस्त्वानुपपत्तिः, तथापि सत्यवाक्यस्य वाक्यविशेषणान्तराभावेऽपि वाङ्मयत्वम् इति आशङ्क्य आह - तथेति । तथापि परिणामपथ्यं वक्यमात्रं तथा भविष्यति, न इत्याह - तथा हितेति । कीदृक् तर्हि तपः वाङ्मयमिति प्रश्नपूर्वकं विशदयति - किं पुनरिति । विशिष्टे वाङ्मये तपसि दृष्टान्तम् आह - यथेति । प्राङ्मुखत्वं पवित्रपाणित्वम् इत्यादिविधानम् अनतिक्रम्य स्वाध्यायस्य आवर्तनमपि वाङ्मये तपसि अन्तर्भवति इत्याह - स्वाध्यायेति । वाक् प्राचुर्येण प्रस्तुता अस्मिन् इति वाङ्मयं वाकप्रधानम् इत्यर्थः
॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 मानसं तपः सङ्क्षिपति - मनः इति । प्रशान्तिफलमेव व्यनक्ति - स्वच्छतेति । मनसः स्वाच्छ्यम् अनाकुलता नैश्चिन्त्यम् इत्यर्थः । सौमनस्यं - सर्वेभ्यः हितैषित्वम् अहिताचिन्तनं च । तत् कथं गम्यते तत्र आह - मुखादीति । तस्य स्वरूपम् आह - अन्तःकरणस्येति । ननु मौनं वाङ्नियमनं वाङ्मये तपसि अन्तर्भवति । तत् कथं मानसे तपसि व्यपदिश्यते तत्र वाचः संयमस्य कार्यत्वात् , मनस्संयमस्य कारणत्वात् , कार्येण कारणग्रहणात् , मानसे तपसि मौनम् उक्तम् इत्याह - वागिति । यद्वा मौनं मुनिभावः, मनसः आत्मनो मनसः विनिग्रहः निरोधः । नन्वेवं मौनस्य मनोनिग्रहस्य च मनःसंयमत्वेन एकत्वात् पौनरुक्त्यम् नेत्याह - सर्वत इति । भावस्य हृदयस्य संशुद्धिः, रागादिमलविकलता इति व्याचष्टे - परैरिति । मानसं - मनसा प्रधानेन निर्वर्त्यम् इति अर्थः
॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 त्रिविधस्य तपसः यथासम्भवं सात्त्विकादिभावेन तत् त्रैविध्यम् आकाङ्क्षाद्वारा निक्षिपति - यथोक्तमिति । त्र्यधिष्ठानं - देहवाङ्मनोनिर्वर्त्यम् इत्यर्थः । समाहितैः - सिद्ध्यसिद्ध्योः निर्विकारैः इति यावत्
॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 राजसं तपः निर्दिशति - सत्कारेति । साधुकारमेव आस्फोरयति । साधुरिति- दम्भेन चैव - नास्तिक्येन, केवलधर्मध्वजित्वेन इत्यर्थः । तत् इह प्रोक्तं - अस्मिन्नेव लोके फलप्रदम् इत्यर्थः । कादाचित्कफलत्वं - क्षणिकफलत्वम् । अध्रुवं - अनियतं, अनैकान्तिकफलम् इति यावत्
॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 तामसं तपः सङ्गृह्णाति - मूढेति । मूढः अत्यन्ताविवेकी, तस्य ग्राहो नाम आग्रहः - अभिनिवेशः, तेन इत्याह - अविवेकेति । आत्मनः - स्वस्य देहादेः इत्यर्थः
॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 क्रमप्राप्तं दातस्य गुणनिमित्तभेदम् आह - इदानाीमिति । दातव्यम् इति एवं मनः कृत्वा - ‘दानमेव मया भाव्यं, न फलम् ‘ इति अभिसन्धाय इत्यर्थः
॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 राजसतामसदानविभजनं स्पष्टार्थम् ॥ २१ - २२ ॥ ‘ओमिति ब्रह्म’ (तै. उ. १-८-१) इत्यादिश्रुतेः ओमिति तावत् ब्रह्मणः नामनिर्देशः । ‘तत्त्वमसि’ (छा. उ. ६-८-७) इति श्रुतेः तत् इत्यपि ब्रह्मणः नामनिर्देशः । ‘सदेव सोम्येदम् ‘ इति श्रुतेः सदित्यपि तस्य नाम इति मत्वा आह - ओमिति । कथं निर्देशेन तेषां विधानम् इति आशङ्क्य आह - निर्दिश्यत इति । यज्ञादीनां वैगुण्यप्रतीतिकाले यथोक्तनाम्नाम् अन्यतमोच्चारणात् अवैगुण्यं सिध्यतीति भावः । कर्मसाद्गुण्यकारणं त्रिविधनाम स्तौति - ब्राह्मणाः इति । पूर्वं - सर्गादौ निर्माणं च प्रजापतिकर्तृकम्
॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 विहितानां कर्मणां प्रमादयुक्ते वैगुण्ये कथं परिहारः स्यात् इति आशङ्क्य आह - यज्ञेति । यस्मात् ब्राह्मणादीनां कारणं, यस्माच्च ब्रह्मणः निर्देशः, तस्मात् इति उपसंहरति - तस्मादिति । ब्रह्मवादिनाम् इत्यत्र ब्रह्म वेदः
॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 ओंशब्दस्य विनियोगम् उक्त्वा तच्छब्दस्य विनियोगम् आह - तदित्यादिना
॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 वृत्तम् अनूद्य अनन्तरश्लोकतात्पर्यम् आह - ओन्तच्छब्दयोरिति
॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकारान्तरेण सच्छब्दस्य विनियोगम् आह - यज्ञे इति । नामत्रयोच्चारणेन साद्गुण्यं सिद्ध्यति इति प्रकरणार्थम् उपसंहरति - तदेतदिति
॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 तस्य असत्त्वं साधयति - मत्प्राप्तीति । ऐहिकामुष्मिकं वा फलम् अश्रद्धितेनापि कर्मणा सम्पत्स्यते । कुतः अस्य असत्त्वमिति आशङ्क्य आह - न चेति । तस्य उभयविधफलाहेतुत्वे हेतुम् आह - साधुभिरिति । निन्दन्ति हि साधवः श्रद्धारहितं कर्म । अतः न एतत् उभयफलौपयिकम् इत्यर्थः । तत् अनेन शास्त्रानभिज्ञानामपि श्रद्धावतां श्रद्धया सात्त्विकत्वादित्रैविध्यभाजां राजसतामसाहारादित्यागेन सात्त्विकाहारादिसेवया सत्त्वैकशरणानां प्राप्तमपि यज्ञादिवैगुण्यं ब्रह्मनामनिर्देशेन परिहरतां परिशुद्धबुद्धीनां श्रवणादिसामग्रीसञ्जाततत्त्वसाक्षात्कारवतां मोक्षोपपत्तिरिति स्थितम्
॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमत्परमहंस - परिव्राजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवदुगीताशाङ्करभाष्यव्याख्याने सप्तदशोऽध्यायः
॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 अश्रद्धान्वितस्यापि कर्मणः नामत्रयोच्चारणात् अवैगुण्ये श्रद्धाप्राधान्यं न स्यात् इति आशङ्क्य आह - तत्र चेति । सप्तमीभ्यां प्रकृतं यज्ञादि गृह्यते । सर्वं यज्ञादि सगुणम् इति शेषः । पूर्वैः अध्यायैः विस्तरेण यतस्ततः विक्षिप्ततया उक्तम् अर्थं सुखप्रतिपत्त्यर्थं सङ्क्षेपेण उपसंहृत्य अभिधातुम् अध्यायान्तरम् अवतारयति - सर्वस्यैवेति । उपसंहृत्य वक्तव्यः इति सम्बन्धः । किञ्च उपनिषत्सु यतस्ततः विस्तृतस्य अर्थस्य बुद्धिसौकर्यार्थम् अस्मिन् अध्याये सङ्क्षिप्ताभिधानं कर्तव्यम् , उपनिषदां गीतानां च एकार्थत्वात् इत्याह - सर्वश्चेति । कथं सर्वोऽपि शास्त्रार्थः अस्मिन् अध्याये सङ्क्षिप्य उपसंह्रियते तत्र आह - सर्वेषु हीति । ननु वेदार्थश्चेत् अशेषतः अत्र उपसञ्जिहीर्षितः, तर्हि किमिति ‘त्यागेनैके’ ‘संन्यासयोगात् ‘ इति वेदार्थैकदेशविषयं प्रश्नप्रतिवचनम् तत्र आह - अर्जुनस्त्विति । पृथक् अनयोः तत्त्वं वेदितुम् इच्छामि इति विशेषणात् अपृथगर्थः तयोः अस्तीति गम्यते । बुभुत्सितस्य प्रष्टव्यत्वात् एकदेशे तद्भावात् उक्तप्रश्नोपपत्तिः इति भावः
॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 पक्षद्वयोपन्यासेन संन्यासत्यागशब्दयोः अर्थभेदं कथयति - काम्यानाम् इति । तत् किम् इदानीं संन्यासत्यागशब्दयोः आत्यन्तिकं भिन्नार्थत्वम् तदा प्रसिद्धिविरोधः स्यात् इति अशङ्क्य अवान्तरभेदेऽपि न आत्यन्तिकभेदः अस्ति इत्याह - यदीति । पुत्राभावात् वन्ध्यायाः तत्त्यागायोगवत् , नित्यनैमित्तिककर्मणाम् अफलानां फलत्यागानुपपत्तेः उक्तः त्यागशब्दार्थः न सिद्ध्यति इति शङ्कते - नन्विति । नित्यनैमित्तिककर्मफलस्य वन्ध्यापुत्रसादृश्याभावात् तत्त्यागसम्भवात् उक्तः त्यागशब्दार्थः सम्भवति इति समाधत्ते - नैष दोष इति । भगवता तेषां फलवत्त्वम् इष्टम् इत्यत्र वाक्यशेषम् अनुकूलयति - वक्ष्यतीति । तर्हि संन्यासिनाम् असंन्यासिनां च नित्याद्यनुष्ठायिनाम् अविशेषेण तत्फलं स्यात् इति चेत् , नैव इत्याह - न त्विति । वक्ष्यति इति अनुकर्षणं चकारार्थः । प्रसक्तस्य वचसः अर्थं प्रकृतोपयोगित्वेन सङ्गृह्य स्मारयति - संन्यासिनाम् इति
॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 ननु पूर्वेषु अध्यायेषु तत्र तत्र संन्यासत्यागयोः उक्तत्वात् किमिति पुनः तौ पृचछ्यते ज्ञाते तदयोगात् । तत्राह - तत्र तत्रेति । न निर्लुण्ठितार्थौ - न निष्कृष्टार्थौ न विविक्तार्थौ इत्यर्थः । बुभुत्सया प्रश्नस्य प्रवृत्तत्वात् , प्रष्टुः अभिपायं प्रश्नेन प्रतिपद्य भगवान् उत्तरम् उक्तवान् इत्याह - अत इति । काम्यानि वर्जयित्वा नित्यनैमित्तिकानि फलाभिलापात् ऋते, कर्तव्यानि इति अक्तं पक्षं प्रतिपक्षनिरासेन द्रढयितुं विप्रतिपत्तिम् आह - त्याज्यमिति । कर्मणः सर्वस्य दोषवत्त्वे हेतुम् आह - बन्धेति । दोषवत् इत्येतत् दृष्टान्तत्वेन व्याचष्टे - अथवेति । कर्मणि अनधिकृतानाम् अकर्मिणामेव कर्म त्याज्यं, कर्मिणां तत्त्यागे प्रत्यवायात् , इति आशङ्क्य आह - अधिकृतानामिति । न हि तेषामपि कर्म त्यजतां प्रत्यवायः, हिंसादियुक्तस्य कर्मणः अनुष्ठाने परं प्रत्यवायात् इति भावः । साङ्ख्यादिपक्षसमाप्तौ इतिशब्दः । मीमांसकपक्षमाह - तत्रैवेति । कर्माधिकृतेष्वेव इति यावत् । कर्म नित्यं नैमित्तिकं च । काम्पानां कर्मणाम् इति आरभ्य श्लोकाभ्यां कर्मिणः अकर्मिणः अधिकृतान् अनधिकृतांश्च अपेक्ष्य दर्शितविकल्पानां प्रवृत्तिः इति आशङ्क्य आह - कर्मिणः इति । एवकारव्यवच्छेद्यम् आह - न त्विति । तदेव स्फुटयति - ज्ञानेति । कर्माधिकृतानां ज्ञाननिष्ठातः विभक्तनिष्ठावत्त्वेन पूर्वोक्तानामपि शास्त्रार्थोपसंहारे पुनः विचार्यत्ववत् ज्ञाननिष्ठानाम् अपि विचार्यत्वम् अत्र अविरुद्धम् इति शङ्कते - नन्विति । साङ्ख्यानां - परमार्थज्ञाननिष्ठानां, न अत्र विचार्यता इति उत्तरम् आह - न तेषामिति । ननु तेषामपि स्वात्मनि क्लेशदुःखादि पश्यतां तदनुरोधेन राजसकर्मत्यागसिद्धेः विचार्यत्वम् न इत्याह - न कायेति । तत्र क्षेत्राध्यायोक्तं हेतूकरोति - इच्छादीनामिति । स्वात्मनि साङ्ख्यादीनां क्लेशाद्यप्रतिपत्तौ फलितम् आह - अत इति । ननु तेषां क्लेशाद्यदर्शनेऽपि स्वात्मनि कर्माणि पश्यतां तत्त्यागः युक्तः, तेषां कायक्लेशादिकरत्वात् । न इत्याह- नापीति । अज्ञानां मोहमाहात्म्यात् नियतमपि कर्म त्यक्तुं शक्यं, न तत्त्वविदां, स्वात्मनि कर्मादर्शनेन तत्त्यागे हेत्वभावात् , इति मत्वा आह - मोहादिति । कथं तर्हि तेषाम् आत्मनि कर्माणि अपश्यतां प्राप्त्यभावे तत्त्यागः संन्यासः तत्र आह - गुणानामिति । अविवेकप्राप्तानां कर्मणां, त्यागः तत्त्वविदाम् इत्युक्तं स्मारयन् , अप्राप्तप्रतिषेधं प्रत्यादिशति - सर्वेति । तत्त्वविदाम् अत्र अविचार्यत्वे फलितम् आह - तस्मादिति । ये अनात्मविदः, ते एव इति उत्तरत्र सम्बन्धः । कर्मणि अधिकृतानाम् अनात्मविदां कर्मत्यागसम्भावनां दर्शयति - येषां चेति । तन्निन्दा कुत्र उपयुक्ता इति आशङ्क्य आह - कर्मिणामिति । किञ्च परमार्थसंन्यासिनां प्रशस्यत्वोपलम्भात् न निन्दाविषयत्वम् इत्याह - सर्वेति । किञ्च अत्रापि ‘सिद्धिं प्राप्तो यथा’ (भ. गी. १८-५०) इत्यादिना ज्ञाननिष्ठायाः वक्ष्यमाणत्वात् तद्वतां न इह विचार्यत इत्याह - वक्ष्यतीति । कर्माधिकृतानामेव अत्र विवक्षितत्वं, न ज्ञाननिष्ठानाम् , इति उपसंहरति - तस्मादिति । ननु संन्यासशब्देन सर्वकर्मसंन्यासस्य ग्राह्यत्वात् तथाविधसंन्यासिनाम् इह विवक्षितत्वं प्रतिभाति तत्र आह - कर्मेति । संन्यासशब्देन मुख्यस्यैव संन्यासस्य ग्रहणम् , गौणमुख्ययोः मुख्ये कार्यसंप्रत्ययात् , अन्यथा तदसम्भवे हेतूक्तिवैयर्थ्येति, अप्राप्ततिषेधात् , इति शङ्कते - सर्वेति । नेदं हेतुवचनं सर्वकर्मसन्यांससम्भवसाधकं, कर्मफलत्यागस्तुतिपरत्वात् इति परिहरति - नेत्यादिना । एतदेव दृष्टान्तेन स्पष्टयति - यथेति । दृष्टान्तेऽपि यथाश्रुतार्थत्वं किं न स्यात् इति आशङ्क्य आह - यथोक्तेति । न हि फलत्यागादेव ज्ञानं विना मुक्तिः युक्ता, मुक्तेः ज्ञानैकाधीनत्वासाधकश्रुतिस्मृतिविरोधात् , ‘अद्वेष्टा’ (भ. गी. १२-१३) इत्यादिना च अनन्तरमेव ज्ञानसाधनविधानानर्थक्यात् । अतः त्यागस्तुतिरेव अत्र ग्राह्या इत्यर्थः । दृष्टान्तगतम् अर्थं दार्ष्टान्तिके योजयति - तथेति । प्रागुक्तपक्षापवादविवक्षया हेतूक्तेः मुख्यार्थत्वमेव किं न स्यात् इति आशङ्क्य तदपवादे हेत्वभावात् मैवम् इत्याह - न सर्वेति । न च इयमेव हेतूक्तिः तदपवादिका, अन्यथासिद्धेः उक्तत्वात् इति भावः । मुख्यसंन्यासापवादासम्भवे संन्यासत्यागविकल्पस्य कथं सावकाशता इति आशङ्क्य आह - तस्मादिति । ज्ञाननिष्ठान् प्रति उक्तविकल्पानुपपत्तौ, कुत्र तेषाम् अधिकारः तत्र आह - ये त्विति । संन्यासिनां विकल्पानर्हत्वेन ज्ञाननिष्ठयाम् एव अधिकारस्य भूयस्सु प्रदेशेषु साधितत्वात् न साधतीयत्वापेक्षा इत्याह - तथेति
॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 तमेव निश्चयं दर्शयितुम् आदौ त्यागगतम् अवान्तरविभागम् आह - त्यागो हीति । ननु त्यागसंन्यासयोः उभयोरपि प्रकृतत्वाविशेषे त्यागस्यैव अवान्तरविभागाभिधाने संन्यासस्य उपेक्षितत्वम् आपद्येत न इत्याह - त्यागेति । सात्विकः राजसः तामसश्च इति उक्ते अर्थे त्रैविध्येऽपि स्वयमेव निश्चयसम्भवात् किम् अत्र भागवतेन निश्चयेन इति आशङ्क्य आह - यस्मादिति । भगवतः अन्येन उक्तविभागे तत्त्वानिश्चयात् भागवतनिश्चयस्य श्रोतव्यता इति निगमयति - तस्मादिति
॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 कर्माधिकतान् प्रत्येव उक्तविकल्पप्रवृत्तावपि कुतो निर्धारणसिद्धिः तत्र आह - तत्रेति । यज्ञादीनां कर्तव्यत्वे हेतुम् आह - यज्ञ इति । न केवलम् अत्याज्यं, किन्तु कर्तव्यमेव इत्याह - कार्यमिति । प्रतिज्ञातम् एवं विभज्य हेतुं विभजते - कस्मादिति ।
॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 तमेव भगवतः निश्चयं विशेषतः निर्धारयितुं प्रश्नपूर्वकम् अनन्तरश्लोकप्रवृत्तिं दर्शयति - कः पुनरिति । प्रतिज्ञातम् अर्थम् उपसंहरति - एतान्यपीति । उपसंहारश्लोकाक्षराणि व्याकरोति - एतानीत्यादिना । अक्षरार्थम् उक्त्वा तात्पर्यार्थमाह - निश्चयमिति । प्रकृतार्थोपसंहारे गमकमाह - एतान्यपीति । अपिशब्दस्य विवक्षितम् अर्थं दर्शयति - सासङ्गस्येति । व्यावर्त्यं कीर्तयति - न त्विति । एतान्यपि इत्यादिवाक्यं न नित्यकर्मविषयम् इति मतम् उपन्यस्यति - अन्य इति । न चेत् इदं नित्यकर्मविषयं, किंविषयं तर्हि इत्याशङ्क्य, वाक्यमवतार्य व्याकरोति- एतानीत्यादिना । नित्यानाम् अफलत्वम् उपेत्य यत् चोद्यं तत् अयुक्तम् इति दूषयति- तदसदिति । यत्तु काम्यान्यपि कर्तव्यानि इति तत् निरस्यति- नित्यान्यपीति । किञ्च काम्यानां भगवता निन्दितत्वात् न तेषु मुमुक्षोः अनुष्ठानम् इति आह - दूरेणेति । किञ्च मुमुक्षोः अपेक्षितमोक्षापेक्षया विरुद्धफलत्वात् काम्यकर्मणां न तेषु तस्य अनुष्ठानम् इत्याह - यज्ञार्थादिति । काम्यानां बधहेतुत्वं निश्चितम् इति अत्रैव पूर्वोत्तरवाक्यानुकूल्यं दर्शयति - त्रैगुण्येति । किञ्च पूर्वश्लोके यज्ञादिनित्य कर्मणां प्रकृतत्वात् एतच्छब्देन सन्निहितवाचिना परामर्शात् काम्यकर्मणां च ‘काम्यानां कर्मणां’ इति व्यवहितानां सन्निहितपरामर्शकैतच्छब्दाविषयत्वात् न काम्यक्रर्माणि ‘एतान्यपि’ इति व्यपदेशम् अर्हन्ति इत्याह- दूरेति
॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 ननु कश्चित् नियतमपि कर्म त्यजन् उपलभ्यते तत्र आह - मोहादिति । अज्ञानं - पावनत्वापरिज्ञानम् । अज्ञस्य नित्यकर्मपरित्यागः मोहात् , इति एतत् उपपादयति - नियतं चेति । नित्यकर्मत्यागस्य मोहकृतत्वे कुतः तामसत्वम् इति आशङ्क्य आह - मोहश्चेति
॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 नित्यकर्मणाम् अवश्यकर्तव्यत्वम् उक्तम् उपजीव्य अपेक्षितं पूरयन् अनन्तरश्लोकम् अवतारयति - तस्मादिति । ननु मोहं विनैव दुःखात्मकं कर्म कायक्लेशभयात् त्यजति । करणानि हि कार्यं जनयन्ति च । तथा च न तत्त्यागः तामसो युक्तः । तत्र आह - दुःखमित्येवेति । यत् कर्म दुःखात्मकम् अशक्यम् असाध्यम् इत्येव आलोच्य ततो निवर्तते, देहस्य इन्द्रियाणां च क्लेशात्मनो भयात् त्यजति, सः तत् त्यक्त्वा - रजोनिमित्तं त्यागं कृत्वापि, न तत्फलं मोक्षं लभते, किन्तु कृतेनैव राजसेन त्यागेन तदनुरूपं नरकं प्रतिपद्यते इत्याह - दुःखमित्येवेत्यादिना
॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 इतश्च नित्यकर्मत्यागः न अज्ञस्य सम्भवति इत्याह - किं चेति । कर्तव्यम् इत्येव इति एवकारेण नित्यस्य भाव्यान्तरं निषिध्यते । नित्यानां विध्युद्देशे फलाश्रवणात् , तेषां फलं त्यक्त्वा इति अयुक्तम् , इति आशङ्क्य आह- नित्यानामिति । फलं त्यकत्वा इत्यस्य विधान्तरेण तात्पर्यम् आह - अथवेति । न हि विधिना कृतं कर्म अनर्थकं, विध्यानर्थक्यात् । तेन श्रौतफलाभावेऽपि नित्यं कर्म विधितः अनुतिष्ठन् , आत्मानम् अजानन् अनुपहतमनस्त्वोक्त्या तस्मिन् कर्मणि आत्मसंस्कारं फलं कल्पयति, तदकरणे प्रत्यवायस्मृत्या तत्करणं, कर्तुः आत्मनः तन्निवृत्तिं करोति इति वा नित्ये कर्मणि उक्तां कल्पनाम् अनु निष्पादितफलकल्पनां च ‘फलं त्यक्त्वा’ इति अस्य भगवान् निवारयति इत्यर्थः । नित्यकर्मसु फलत्यागोक्तेः सम्भवे फलितमाह - अत इति । कर्मतत्फलत्यागस्य त्यागसंन्यासशब्दाभ्यां प्रकृतस्य, ‘त्यागो हि’ (भ. गी. १८-४) इति त्रैविध्यं प्रतिज्ञाय, प्रतिज्ञानुरोधे द्वे विधे व्युत्पाद्य, तृतीयां विधां तद्विरोधेन त्र्युत्पादयतः भगवतः अकौशलम् आपतितम् इति शङ्कते - नन्विति । प्रक्रमप्रतिकूलम् उपसंहारवचनम् अनुचितम् इति अत्र दृष्टान्तम् आह- यथेति । पूर्वोत्तरविरोधेन प्रप्तम् अकौशलं प्रत्यादिशति - नैष दोष इति । कर्मत्यगफलत्यागयोः त्यागत्वेन सादृश्यात् , कर्मत्यागनिन्दया तत्फलत्यागस्तुत्यर्थम् इदं वचनम् इति उपगमात् न विरोधः अस्ति इति उक्तमेव व्यक्तीकुर्वन् आदौ त्यगसामान्यं विशदयति - अस्तीति । सति सामान्ये निर्देशस्य स्तुत्यर्थत्वं समर्थयते - तत्रेति
॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 कर्मत्यागः तामसः राजसश्च इति द्विविधः दर्शितः । सम्प्रति सात्त्विकं त्यागं प्रश्नपूर्वकं वर्णयति - कः पुनरिति । काम्यकर्मणि त्याज्यत्वेन द्वेषम् अभिनयति - किमिति । उभयत्र द्वेषं प्रीतिं च न करोति इति सामान्येन उक्तं कर्तारं प्रश्नपूर्वकं विशेषतः निर्दिशति - कः पुनरिति । त्यागी इति उक्तं त्यागिनम् अभिव्यनक्ति - पूर्वोक्तेनेति । कर्मणि सङ्गस्य तत्फलस्य च त्यागेन इति यावत् । उक्तमेव त्यागिनं विवृणोति - यः कर्मणि इति । तत्फलं त्यक्त्वा इति सम्बन्धः । काम्ये निषिद्धे च कर्मणि बन्धहेतुः इति न द्वेष्टि, नित्ये नैमित्तिके च मोक्षहेतुः इति न प्रीयते । तत्र कालविशेषं पृच्छति - कदेति । नित्यादिकर्मणा फलाभिसन्धिवर्जितेन क्षपितकल्मषस्य सत्त्वं - यथार्थग्रहणसामर्थ्यम् उद्बुध्यते, तेन समावेशदशायाम् उक्तप्रीतिद्वेषयोः अभावः भवति इत्याह - उच्यते इति । अत एवेति - समुद्बुद्धयथार्यग्रहणसमर्थसमाविष्टत्वात् इत्यर्थः । छिन्नसंशयत्वमेव विशदयति - आत्मेति । परं निःश्रेयसं तस्य च साधनं सम्यग्ज्ञानमेव इति योजना । न द्वेष्टि इत्यादिना श्लोकेन उक्तम् अर्थं सङ्क्षिप्य अनुवदति - योऽधिकृत इति । पूर्वोक्तप्रकारेण इति कर्मणि तत्फले च सङ्गत्यागेन इत्यर्थः । कर्मात्मयोगस्य अनुष्ठानेन संस्कृतात्मा सन् क्रमेण श्रवणाद्यनुष्ठानद्वारेण कूटस्थं ब्रह्म प्रत्यक्त्वेन सम्बुद्धः इति सम्बन्धः । परस्य निष्क्रियत्वे हेतुम् आह - जन्मादीति । उक्तज्ञानवतः सर्वकर्मत्यागद्वारा मुक्तिभाक्त्वं दर्शयति - स सर्वेति
॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 एवं पूर्वापरविरोधं पराकृत्य अनन्तरश्लोकतात्पर्यम् आह - यस्त्विति । फलरागादिना इति आदिशब्देन कर्मस्वरूपासङ्गः गृह्यते । अन्तःकरणं अकलुषीक्रियमाणम् इति छेदः । विशुद्धे अन्तःकरणे किं स्यात् इति आशङ्क्य आह- विशुद्धमिति । मलविकलत्वं विशुद्धत्वं, संस्क्रियमाणत्वं - प्रसन्नत्वम् इति भेदः । क्रमेण - श्रवणाद्यावृत्तिद्वारेण इत्यर्थः । तन्निष्ठा इति आत्मज्ञाननिष्ठा उक्ता । विवेकिनोऽपि देहधारितया देहभृत्त्वाविशेषे कर्माधिकारः स्यात् इति आशङ्क्य आह - न हीति । कर्तृत्वाधिकारः तत्पूर्वकं कर्मानुष्ठानं तस्मात् इति यावत् । ज्ञानवतः देहधारणेऽपि तदभिमानित्वाभावः अतःशब्दार्थः । अज्ञस्य सर्वकर्मत्यागायोगम् उक्तं हेतूकृत्य फलितमाह - तस्मादिति । कर्मानुष्ठायिनः त्यागित्वोक्तिः अयुक्ता इति आशङ्क्य आह - कर्म्यपीति । कर्मिणापि फलत्यागेन त्यागित्ववचनं फलत्यागस्तुत्यर्थम् इत्यर्थः । कस्य तर्हि सर्वकर्मत्यागः सम्भवति इति आशङ्क्य विवेकवैराग्यादिमतः देहाभिमानहीनस्य इत्युक्तं निगमयति - तस्मादिति
॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मज्ञानवतः सर्वकर्मत्यागसम्भावनाम् उक्त्वा तद्धीनस्य तदसम्भवे हेतुवचनत्वेन अनन्तरश्लोकम् अवतारयति - यः पुनरिति । न बाधितम् आत्मनि कर्तृत्वविज्ञानम् अस्य इति अज्ञः, तथा तस्य भावः तत्ता, तयेति यावत् । एवम् अर्थं दर्शयितुम् अज्ञस्य सर्वकर्मसंन्यासासम्भवे हेतुम् आह इति योजना । यस्मात् इत्यस्य तस्मात् इत्युत्तरेण सम्बन्धः । सर्वकर्मत्यागो नाम तदनुष्ठानेऽपि तत्फलाभिसन्धित्यागः स च अमुख्यसंन्यासः । तस्य फलम् आह - अनिष्टमिति । मुख्ये तु संन्यासे सर्वकर्मत्यागे सम्यग्धीद्वारा सर्वसंसारोच्छित्तिरेव फलम् इत्याह - न त्विति । पादत्रयं व्याकरोति - अनिष्टमित्यादिना । तिर्यगादीत्यादिपदम् अवशिष्टनिकृष्टयोनिसङ्ग्रहार्थं, देवादीत्यादिपदम् अवशिष्टोत्कृष्टयोनिग्रहणाय इति विभागः । फलशब्दं व्युत्पादयति- बाह्येति । करणद्वारकम् अनेकविधत्वम् उकत्वा मिथ्यात्वम् आह - अविद्येति । तत्कृतत्वेन दृष्टिमात्रदेहत्वे दृष्टान्तमाह - इन्द्रेति । प्रतीतितः रमणीयत्वं सूचयति - महामोहेति । अविद्योत्थस्य अविद्याश्रितत्वात् आत्माश्रितत्वं वस्तुतः नास्ति इति आह - प्रत्यगिति । उक्तं फलं कर्मिणाम् इष्यते चेत् अमुख्यसंन्यासफलोक्तिपरत्वं पादत्रयस्य कथम् इष्टम् इति आशङ्क्य आह - अपरमार्थेति । फलाभिसन्धिविकलानां कर्मिणां देहपातात् ऊर्ध्वं कर्मानुरोधिफलम् आवश्यकम् इत्यर्थः । कर्मिणामेव सताम् अफलाभिसन्धीनाम् अमुख्यसंन्यासित्वात् तदीयामुख्यसंन्यासस्य फलम् उक्त्वा चतुर्थपादं व्याचष्टे- न त्विति । अमुख्यसंन्यासम् अनन्तरप्रकृतं व्यवच्छिनत्ति - परमार्थेति । तेषां प्रधानं धर्मम् उपदिशति - केवलेति । क्वचित् देशे काले वा नास्ति यथोक्तं फलं तेषामिति सम्बन्धः । तर्हि परमार्थसंन्यासः अफलत्वात् न अनुष्ठीयेत इति आशङ्क्य तस्य मोक्षावसायित्वात् मैवम् इत्याह - न हीति
॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 उक्ताधिकारिणः सर्वकर्मसंन्यासासम्भवेऽपि फलाभावे कुतः तस्य कर्तव्यता इति शङ्कते - किं पुनरिति । गौणस्य मुख्यस्य वा संन्यासस्य फलं पिपृच्छिषितम् इति विकल्पयति - उच्यत इति । कर्मार्थानाम् अधिष्ठानादीनाम् अप्रामाणिकत्वाशङ्काम् आदौ उद्धरति- पञ्चेति । उत्तरत्र इति अधिष्ठानादिषु वक्ष्यमाणेषु इत्यर्थः । वस्तूनां तेषामेव वैषम्यं दिदर्शयिषितं न हि चेतस्समाधानात् ऋते ज्ञातुं शक्यते । साङ्ख्यशब्दं व्युत्पादयति - ज्ञातव्या इति । आत्मा त्वम्पदार्थः, तत्पदार्थः ब्रह्म, तयोः ऐक्यधीः तदुपयोगिनश्च श्रवणादयः पदार्थाः, ते सङ्ख्यायन्ते - व्युत्पाद्यन्ते । कृतान्तशब्दस्य वेदान्तविषयत्वं विभजते - कृतमित्यादिना । वेदान्तस्य तत्त्वधीद्वारा कर्मावसानभूमित्वे वाक्योपक्रमानुकूल्यं दर्शयति - यावानिति । उदपाने - कूपादौ यावान् अर्थः - स्नानादिः, तावान् अर्थः समुद्रे सम्पद्यते । अतः यथा कुपादिकृतं कार्य सर्वं समुद्रे अन्तर्भवति तथा सर्वेषु वेदेषु कर्मार्थेषु यावत् फलं तावत् ज्ञातवतः ब्राह्मणस्य ज्ञाने अन्तर्भवति । ज्ञानं प्राप्तस्य कर्तव्यानवशेषात् इत्यर्थः । तत्रैव वाक्यान्तरम् अनुक्रामति - सर्वमिति । उदाहृतवाक्ययोः तात्पर्यम् आह- आत्मेति । आत्मज्ञाने सति सर्वकर्मनिवृत्तावपि कथं वेदान्तस्य कृतान्तत्वम् इति आशङ्क्य आह - अत इति । तानि मद्वचनतः निबोध इति पूर्वेण सम्बन्धः
॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 ननु अपरमार्थसंन्यासवत् अविशेषात् अज्ञानां परमार्थसंन्यासोऽपि किं न स्यात् त्यागस्य सुकरत्वात् । तत्र आह - अतः परमार्थेति । तस्य सम्यग्दर्शनात् अविद्यानिवृत्तौ तदारोपितक्रियाकारकादिनिवृत्तेः इति हेत्वर्थः । विद्यावतः सर्वकर्मसंन्यासित्वसम्भावनाम् उक्त्वा एवकारव्यावर्त्यं दर्शयति - न त्विति । अविदुषः अशेषकर्मणां तद्धेतूनां च रागादीनां त्यागायोगे कारकेषु अधिष्ठानादिषु आत्मत्वदर्शनं हेतुम् आह - क्रियेति । कथम् अधिष्ठानादीनां क्रियाकर्तृतत्वम् कथं वा अविदुषः तेषु आत्मत्वधीः इति आशङ्क्य अनन्तरश्लोकचतुष्टयस्य तात्पर्यम् आह - तदेतदिति । प्रतीकम् आदाय व्याकरोति - अधिष्ठानमिति । उपाधिलक्षणः - बुद्ध्यादिः उपाधिः, तल्लक्षणः - तत्स्वभावः, बुद्ध्याद्यनुविधायी - तद्धर्मान् आत्मनि पश्यन् उपहितः तत्प्रधानः इत्यर्थः । तत्र कार्यलिङ्गकम् अनुमानं सूचयति - शब्दादीति । ज्ञानेन्द्रियाणि पञ्च, पञ्च कर्मेन्द्रियाणि, मनः, बुद्धिश्च, इति द्वादशसङ्ख्यत्वम् । चेष्टायाः विविधत्वात् नानाप्रकारकत्वम् । तदेव स्पष्टयति - वायवीया इति । पृथक्त्वं - असङ्कीर्णत्वम् । न हि प्राणापानादिचेष्टानां मिथः सङ्करः अस्ति । दैवमेव इति विशदयति - आदित्यादीति
॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 कर्मार्थानि अधिष्ठानादीनि मानमूलत्वात् ज्ञेयानि, इति उक्तम् इदानीं प्रश्नपूर्वकं विशेषतः तानि निर्दिशति - कानीत्यादिना । पञ्चानाम् अधिष्ठानादीनाम् उक्तानां सर्वकर्मसिद्ध्यर्थत्वं स्फुटयति - शरीरेति । ननु जीवनकृतं निमोषोन्मेपादि कर्मान्तरं साधारणम् अस्ति । तत् कथं राशिद्वयकारणम् इति, तत्र आह - यच्चेति । अधिष्ठानादीनां कर्ममात्रहेतुत्वं प्रतिज्ञाय, शरीरादित्रिविधकर्महेतुत्वोक्तिः अयुक्ता इति शङ्कते - नन्विति । पूर्वापरविरोधं परिहरति - नैष दोषः इति । ननु जीवनकृतानि स्वाभाविकानि कर्माणि दर्शनादीनि विधिनिषेधबाह्यत्वात् न देहादिनिर्वर्त्यानि इति आशङ्क्य आह - तदङ्गतयेति । तस्य देहादित्रयस्य प्रधानस्य अङ्गं चक्षुरादि, तन्निष्पाद्यत्वेन जावनकृतं दर्शनादि प्रधानकर्मणि अन्तर्भूतम् इति त्रैविध्यम् अविरुद्धम् इत्यर्थः । देहाद्यारभ्ये त्रिविधे कर्मणि सर्वकर्मान्तर्भावेऽपि कथं पञ्चानामेव अधिष्ठानादीनां तत्र हेतुत्वम् , फलोपभोगकाले कारणान्तरापेक्षासम्भवात् इति आशङ्क्य, जन्मकालभाविनः भोगकालभावितश्च सर्वस्य कारणस्य तेष्वेव अन्तर्भावात् मैव इत्याह - फलेति
॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 क्रियाकर्तृत्वम् अधिष्ठानादीनाम् आपाद्य, अविदुषः तेषु आत्मदृष्टिम् अनुवदति - तत्रेति । तत्पदपरामर्शयोग्यं प्रकृतं सर्वं कर्म । प्रतीकम् आदाय पूर्वेण सह अक्षरार्थं कथयति - एवमिति । अधिष्ठानादीनाम् उक्तरीत्या कर्तृत्वे सति अन्यगतं कर्तृत्वम् आन्मनः, यत अध्यारोप्य पश्यति, अतः दुर्मतिरिति आत्मनि कर्तृत्वं पश्यन् इत्याह- तत्रैवमिति । कर्तारम् इत्यादि व्याचष्टे - तत्रेत्यादिना । तेषु अधिष्ठानादिषु, तैः अधिष्ठानादिभिः आरोपितात्मभावैः इत्यर्थः । अकर्तारम् आत्मानं कर्तारं पश्यति इत्यत्र प्रश्नद्वारा हेतुम् आह - कस्मादिति । ननु शास्त्रसंस्कृतबुद्धिरेव अतिरिक्तात्मवादी कर्तृत्वं तस्य अनुमन्यते । नासौ कर्तृत्वम् आत्मनि पश्यन्नपि भवति अकृतबुद्धिः । तत्र आह - योऽपीति । तस्यापि शास्त्रीपूर्वकम् आचार्योपदेेशेन तदनुसारिन्यायैश्च अनाहितबुद्धित्वात् अकृतबुद्धित्वं सिद्धम् इत्यर्थः । कौटस्थ्यम् आत्मनः तत्त्वं - याथात्म्यं कर्मणोऽपि तत्त्वं - अविद्याकृताधिष्ठानादिकृतत्वेन आत्मास्पर्शित्वम् । आत्मकर्मणोः तत्त्वदर्शनाभावः अतःशब्दर्थः । दुष्टत्वं स्पष्टीकर्तुं दुर्मतित्वं विवृणोति - जननेति । अहं कर्ता इति आत्मदर्शनवतोऽपि न अविदुषः तद्दर्शनम् अस्तीति, अत्र दृष्टान्तम् आह - यथेति । तिमिरोपहतचक्षुः अनेकं चन्द्रं पश्यन्नपि, तत्त्वतः न तं पश्यति । एवम् अविद्वान् आत्मानं कर्तारं पश्यन्नपि तत्त्वतः न तं पश्यति इत्यर्थः । अधिष्ठानादिषु अविद्यया सम्बद्धात्मनः स्वात्मनि तद्गतक्रियारोपे दृष्टान्तमाह - यथा वेति । अन्येषु - वाहकेषु पुरुषेषु धावनकर्तृषु वाहने स्थितः स्वात्मानं प्रधावनकर्तारम् अविवेकात् अभिमन्यते । तथा अधिष्ठानादिषु क्रियाकर्तृषु तद्गतं स्वात्मानं कर्तारं मन्यमानः दुर्मतिः इत्यर्थः
॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 अहं कर्ता इति आत्मनि कर्तृत्वप्रत्ययाभावे कुत्र कर्तृत्वधीः इति आशङ्क्य आह- एते इति । कथं तर्हि कर्तृत्वधीः आत्मनि इति आशङ्क्य, अधिष्ठानादीनां तद्व्यापाराणां च साक्षित्वात् इति आह - अहं त्विति । आत्मनः न स्वतः अस्ति क्रियाशक्तिमत्त्वम् इति अत्र प्रमाणम् आह - अप्राणो हीति । नापि तस्य स्वतः ज्ञानशक्तिमत्त्वम् इति आह - अमना इति । उपाधिद्वयासम्बन्धे शुद्धत्वं फलितम् आह - शुभ्र इति । कारणसम्बन्धात् अशुद्धिम् आशङ्क्य उक्तं - अक्षरादिति । कार्यकारणयोः आत्मास्पर्शित्वेन पार्थक्ये, सद्वितीयत्वम् आशङ्क्य, तयोः अवस्तुत्वात् मैवम् इत्याह - केवल इति । जन्मादि सर्वविक्रियारहितत्वेन कौटस्थ्यम् आह - अविक्रिय इति । बुद्धिर्यस्येत्यादि व्याचष्टे - बुद्धिरिति । न अनुशायिनी - न अनुशयवती, न क्लेशशालिनी इत्यर्थः । द्वितीयपादस्य अक्षरार्थम् उक्तवा वाक्यार्थमाह - इदमिति । पापं कर्म इदमा परामृश्यते । लोकानां प्राणसम्बन्धाभावे कुतः हिंसा इति आशङ्क्य आह - प्राणिनः इति । विरुद्धार्थोक्त्या स्तुतिरपि न युक्ता इति शङ्कते - नन्विति । विरोधं परिहरति - न एषः दोष इति । लौकिकदृष्टिमवष्टभ्य हत्वापीति निर्देशं विशदयति - देहादीति । तात्त्विकीं दृष्टि आस्थाय न हन्ति इत्यादिनिर्देशम् उपपादयति - यथेति । नाहं कर्ता, किन्तु कर्तृतद्व्यापारयोः साक्षी क्रियाज्ञानशक्तिमदुपाधिद्वयविनिर्मुक्तः शुद्धः सन् कार्यकारणासम्बद्धः अद्वितीयः अविक्रियः इत्येवं पारमार्थिकदृष्टेः यथादर्शितत्वं द्रष्टव्यम् । ‘हत्वापि’ इत्येतत् ‘न हन्ति’ इत्यादि च उभयं दृष्टिद्वयावष्टम्भात् उपपन्नम् इति उपसंहरति - तदुभयमिति । केवलमेव आत्मानं कर्तारं पश्यन् दुर्मतिः इत्यत्र आत्मविशेषणसमर्पककेवलशब्दसामर्थ्यात् आत्मनः विशिष्टस्य कर्तृत्वम् इति शङ्कते - नन्विति । आत्मनः वैशिष्ट्यायोगात् न विशिष्टस्यापि कर्तृत्वम् इति दूषयति- नैष दोष इति । अविक्रियस्वाभाव्येऽपि कथम् आत्मनः असंहतत्वम् इति आशङ्क्य आह - विक्रियेति । अधिष्ठानादिभिः आत्मनः संहननेऽपि न कर्तृत्वम् अविक्रियस्य क्रियान्वयव्याघातात् इत्याह- संहत्येति । संहतत्वानुपपत्तिं व्यक्तीकरोति - न त्विति । असंहतत्वे फलितम् आह - इति नेति । कथं तर्हि केवलत्वम् आत्मनि केवलशब्दात् उक्तम् तदाह - अत इति । अकर्तृत्वम् आत्मनः अभ्युपपन्नं, न अस्य अविक्रियत्वम् उपैति इति आशङ्क्य आह - अविक्रियत्वं चेति । तत्र स्मृतिवाक्यानि उदाहरति - अविकार्योऽयमिति । ‘नायं हन्ति न हन्यते’ (भ. गी. २-१९) इत्यादिवाक्यम् आदिशब्दार्थः । उक्तवाक्यानाम् आत्माविक्रियत्वे तात्पर्यं सूचयति - असकृदिति । ‘निष्कलं निष्क्रियं शान्तम् इत्यादिवाक्यं श्रुतौ आदिशब्दार्थः । यानि वाक्यानि तैः आत्मनः अविक्रियत्वं दर्शितम् इति योजना । न्यायतश्च तत् दर्शितम् इति पूर्वेण सम्बन्धः न्यायमेव दर्शयति - निरवयवमिति । न तावत् आत्मा स्वतः विक्रियते निरवयवत्वात् आकाशवत् , नापि परतः असङ्गस्य अकार्यस्य पराधीनत्वायोगात् इत्यर्थः । किं च आत्मनः स्वनिष्ठा वा विक्रिया अधिष्ठानादिनिष्ठा वा न आद्यः । स्वनिष्ठविक्रियानुपपत्तेः आत्मनः दर्शितत्वात् इति आशयेन आह - विक्रियावत्त्वेति । सा च अयुक्ता इति उक्तम् इति शेषः । द्वितीयं दूषयति - नेत्यादिना । अधिष्ठानादिकृतमपि कर्म तद्योगात् आत्मनि आगच्छति इति आशङ्क्य, तदागमनं वास्तवम् आविद्यं वा इति विकल्प्य आद्यं दूषयति - नहीति । द्वितीयं निरस्यति - यत्त्विति । आत्मनि अविद्याप्रापितं कर्म न आत्मीयम् इति एतत् दृष्टान्ताभ्याम् उपपादयति - यथेत्यादिना । आत्मनः अविक्रियत्वेन कर्तृत्वाभावे फलितम् आह - तस्मादिति । ननु प्रागेव आत्मनः अविक्रियत्वं प्रतिपादितम् । तत् इह कस्मात् उच्यते तत्र आह - नायमिति । शास्त्रादौ प्रतिज्ञातं हेतुपूर्वकं सङ्क्षिप्य उक्त्वा मध्ये तत्र तत्र प्रसङ्गं कृत्वा प्रसारितां कर्माधिकारनिवृत्तिम् इह उपसंहरति इति सम्बन्धः । प्रतिज्ञातस्य हेतुना उपपादितस्य अन्ते निगमनं किमर्थम् इति आशङ्क्य आह- शास्त्रार्थेति । कर्माधिकारो विदुषः न, इति स्थिते, तस्य देहाभिमानाभावे सति, अविद्योत्थसर्वकर्मत्यागसिद्धेः अनिष्टम् इष्टं मिश्रं चेति त्रिविधं कर्मफलं संन्यासिनां न, इति प्रागुक्तं युक्तमेव, इति परमप्रकृतम् उपसंहरति - एवं चेति । ये पुनः अविद्वासंः देहाभिमानिनः, तेषां त्रिविधं कर्मफलं सम्भवत्येव, इति हेतुवचनसिद्धम् अर्थं निगमयति - तद्विपर्ययाच्च इति । अधिष्ठानादिकृतं कर्म न आत्मकृतम् , अविदुषामेव कर्माधिकारः, देहाभिमानित्वेन तत्त्यागायोगात् , देहाभिमानाभावात्तु विदुषां कर्माधिकारनिवृत्तिः, इति उपसंहृतम् अर्थं सङ्क्षिप्य आह - इत्येष इति । उक्तश्च गीतार्थः वेदार्थत्वात् उपादेयः इत्याह - स एष इति । कथम् अयम् अर्थः वेदार्थोऽपि प्रतिपत्तुं शक्यते तत्र आह - निपुणेति । भाष्यकृता मानयुक्तिभ्यां विभज्य अनुक्तत्वात् न अस्य अर्थस्य उपादेयत्वम् इति आशङ्क्य आह - तत्रेति
॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 विपरीतदृष्टेः दुर्मतित्वं शिष्ट्वा सम्यग्दृष्टेः सुमतित्वं प्रश्नपूर्वकम् आह - कः पुनरित्यादिना । शास्त्रार्थोपसंहारानन्तर्यम् अथ इत्युक्तम् । इदानीमिति प्रवर्तकोपदेशापेक्षावस्था उक्ता । कर्मणां येषु विदुषां न अधिकारः, अविदुषां च अधिकारः, तेषाम् इत्यर्थः । ज्ञानशब्दस्य करणव्युत्पत्त्या ज्ञानमात्रार्थत्वम् आह - ज्ञानमिति । ज्ञेयशब्दस्यापि तद्वदेव ज्ञातव्यमात्रार्थत्वम् आह- तथेति । उपाधिलक्षणत्वं - तत्प्रधानत्वम् उपहितत्वम् । तस्य अवस्तुत्वार्थं अविद्याकल्पितविशेपणम् । एतदेव त्रयं सर्वकर्मप्रवर्तकम् इत्याह - इत्येतदिति । सर्वकर्मणां प्रवर्तकम् इति अध्याहर्तव्यम् । चोदनेति क्रियायाः प्रवर्तकं वचनम् इति भाष्यानुसारेण चोदनाशब्दार्थम् आह - प्रवर्तिकेति । सर्वकर्मणाम् इति पूर्वेणसम्बन्धः । त्रैविध्यं ज्ञानादिना प्राक् उक्तम् । कर्मणां चोदना इति विग्रहः । तेषां सर्वकर्मप्रवर्तकत्वम् अनुभवेन साधयति - ज्ञानादीनामिति । हानोपादानादि इति आदिपदेन उपेक्षा विवक्षिता । करणम् इत्यादेः तात्पर्यम् आह - तत इति । ज्ञानादीनां प्रवर्तकत्वात् इत्यर्थः । उक्तेऽर्थे श्लोकभागम् अवतारयति - इत्येतदिति । बाह्यम् अन्तस्थं च द्विविधं करणं करणव्युत्पत्त्या कथयति - करणमिति । उक्तलक्षणं कर्मैव स्फुटयति - कर्तुरिति । स्वतन्त्रो हि कर्ता । स्वातन्त्र्यं च कारकाप्रयोज्यस्य तत्प्रयोक्तृत्वम् इत्याह - कर्तेति । कथम् उक्ते त्रिविधे कर्म सङ्गृह्यते तत्राह - कर्मेति । कर्मणो हि प्रसिद्धं कारकाश्रयत्वम् इति भावः
॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 कर्तुः ईप्सिततमं कर्म इति यत् तत् परिभाष्यते, तत् न अत्र कर्मशब्दवाच्यम् इति आह - नेति । गुणातिरेकेण विधान्तरं ज्ञानादिषु न इति निर्धारयितुम् अवधारणम् इति आह - गुणेति । ज्ञानादीनां प्रत्येकं गुणभेदप्रयुक्ते त्रैविध्ये प्रमाणम् आह - प्रोच्यत इति । न तु कापिलं पातञ्जलम् इत्यादि शास्त्रीं विरुद्धार्थत्वात् अप्रमाणं, कथम् इह प्रमणीक्रियते तत्र आह - तदपीति । विषयविशेषे विरोधेऽपि प्रकृते अर्थे प्रामाण्यम् अविरुद्धम् इत्यर्थः । यद्यपि कापिलादयः गुणवृत्तिविचारे गौणव्यापारस्य भोगादेः निरूपणे च निपुणाः, तथापि कथं तदीयं शास्त्रम् अत्र प्रमाणीकृतं इति आशङ्क्य आह - ते हीति । ज्ञानादिषु प्रत्येकम् अवान्तरभेदः वक्ष्यमाणः अर्थः तस्य तन्त्रान्तरेऽपि प्रसिद्धिकथनं स्तुतिः, तादर्थ्येन कापिलादिमतोपादानम् इह उपयोगि इत्यर्थः । तृतीयपादस्य अविरुद्धार्थत्वं निगमयति- नेति । यथावत् इत्यादि व्याचष्टे - यथान्यायमिति
॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 अनन्तरश्लोकदशकतात्पर्यमाह - अथेति । ज्ञानादिप्रस्तावानन्तर्यम् अथशब्दार्थः । इदानीं - प्रस्तुतज्ञानाद्यवान्तरभेदापेक्षायाम् इत्यर्थः । तेषां गुणभेदात् त्रैविध्ये हेतुम् आह - गुणात्मकत्वात् इति । वक्तव्यः - वक्ष्यमाणश्लोकनवकेन इति शेषः । एवं स्थिते प्रथमम् अवान्तरभेदप्रतिज्ञा क्रियते इत्याह - इत्यारभ्यत इति । तत्र सात्त्विकं ज्ञानम् उपन्यस्यति - सर्वेति । भूतानि - कार्यकारणात्मकानि उपाधिजातानि । अद्वितीयम् अखण्डैकरसं प्रत्यगात्मभूतम् अबाधितं तत्त्वं ज्ञेयत्वेन विवक्षितम् इत्याह - एकमिति । विवक्षितम् अव्ययत्वं सङ्क्षिपति - कूटस्थेति । प्रतिदेहम् अविभक्तम् इति उक्तं व्यनक्ति - विभक्तेष्विति । तत् ज्ञानम् इत्यादि व्याकरोति - अद्वैतेति
॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानादीनां प्रत्येकं ज्ञातव्यं प्रतिज्ञाय, ज्ञानत्रैविध्यार्थं श्लोकत्रयम् अवतारयति - ज्ञानस्येति । प्रतिदेहम् अन्यत्वेन भिन्नात्मनः येन ज्ञानेन जानाति, तत् ज्ञानं राजसम् इति व्याचष्टे - भेदेनेति । पृथक्त्वं पृथग्विधत्वं च पुनरुक्तम् इति आशङ्क्य, हेतुहेतुमत्त्वेन विभागं विवक्षित्वा आह - भिन्नेति । ज्ञानस्य ज्ञानकर्तृत्वम् अयुक्तम् इति आशङ्क्य, आह - येनेति
॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 द्वैतदर्शनान्यपि कानिचित् भवन्ति सत्वनिर्वृत्तानि सम्यञ्चि, इति आशङ्क्य आह - यानीति । तेषाम् असम्यक्त्वे हेतुम् आह - राजसानीति । सक्तत्वमेव व्यनक्ति - एतावानिति । एकस्मिन् कार्ये ज्ञानस्य सक्तत्वमेव दृष्टान्तेन साधयति - यथेत्यादिना । यत् निर्युक्तिकत्वं, तदेव ज्ञानस्य आभासत्वे कारणम् इत्याह - अहैतुकत्वादिति । स्वरूपतो विषयतश्च आभासत्वं फलतो वा इत्याह - अल्पेति । तामसं ज्ञानम् उक्तलक्षणम् इत्यत्र अनुभवं प्रमाणयति - तामसानां हीति
॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 तत्र सात्त्विकं कर्म निरूपयति - नियतमिति
॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 त्रिविधं कर्म वक्तुम् अनन्तरश्लोकत्रयम् इत्याह - अथेति । राजसं कर्म निर्दिशति - यत्त्विति । फलप्रेप्सुना कर्त्रा यत् कर्म क्रियते, तत् राजसम् इति उत्तरत्र सम्बन्धः । तत्त्वज्ञानवता निरंहङ्कारेण, साहङ्कारेण तु अज्ञेन क्रियते कर्म इति विवक्षां वारयति - साहङ्कारेणेति । तत्त्वाज्ञानवता निरहङ्कारेण कृतं कर्म अपेक्ष्य, साहङ्कारेण अज्ञेन कृतम् एतत् कर्म इति न विवक्ष्यते चेत् तर्हि किम् अत्र विवक्षितम् इति पृच्छति - किं तर्हि इति । यो हि दुरितरहितः श्रोत्रियः लोकात् अनपेतः तस्य यत् अहङ्कारवर्जितं कर्म, तदपेक्षया इदं साहङ्कारेण कृतं कर्म इति उक्तम् इत्याह - लौकिकेति । ननु तत्त्वज्ञानवतः निरहङ्कारस्य कर्मकर्तृत्वम् अपेक्ष्य साहङ्कारेण इत्यादि किं न इष्यते तत्र आह - यो हीति । विशेषणान्तरवशादेव तत्त्वविदः निवारितत्वात् न तदपेक्षं इदं विशेषणम् इत्यर्थः । साहङ्कारस्यैव राजसे कर्मणि कर्तृत्वम् इत्येतत् कैमुतिकन्यायेन साधयति - सात्त्विकस्येति । ननु आत्मविदः अन्यस्य निरहङ्कारत्वायोगात् कथं तदपेक्षया साहङ्कारेण इति उक्तम् तत्र आह - लोक इति
॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 सम्प्रति तापसं कर्म उदाहरति- अनुबन्धमित्यादिना
॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 इदानीं कर्तृत्रैविध्यं ब्रुवन् आदौ सात्त्विकं कर्तारं दर्शयति - मुक्तेति । साङ्गो नाम फलाभिसन्धिर्वा कर्तृत्वाभिमानो वा । नाहं वदनशीलः - कर्ता अहमिति वदनशीलः न भवति इत्यर्थः । धारणं - धैर्यम् । क्रियमाणस्य कर्मणः यदि फलानभिसन्धिः, तर्हि न अनुष्ठानविश्रम्भः सम्भवेत् , इति आशङ्क्य आह - केवलमिति । फलरागादिना इति आदिशब्देन कर्मरागः गृह्यते । अयुक्तः इति छेदः
॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 राजसं कर्तारं कथयति - रागीति । कर्मविषयः रागः, कर्मफलप्रेप्सुरिति फलरागस्य पृथक् कथनात् । स्वाभिप्रायाप्रकटीकरणपूर्वकं परपीडनं परविच्छेदनं तेन स्वार्थपरः इत्यर्थः
॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 दीर्घं सूत्रयितुं शीलम् अस्य इति व्युत्पत्तिं गृहीत्वा विवक्षितम् अर्थ आह - कर्तव्यानामिति । एवं क्रियमाणे सति अनिष्टम् इदं कथञ्चित् आपद्येत ; यदा पुनः एवं क्रियते तदा तु अनिष्टमेव सम्भावनोपनीतम् इति चिन्तापरम्परायां मन्थरप्रवृत्तिः इत्यर्थः । तदेव स्पष्टयति - यदद्येति
॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानादीनां प्रत्येकं त्रैविध्यम् उक्त्वा, वृत्तिमत्त्याः बुद्धेः तद्वृत्तेश्च धृत्याख्यायाः त्रैविध्यं सूचयति - बुद्धेरिति । सूत्रविवरणं प्रतिजानीते- प्रोच्यमानमिति । अर्जुनस्य धनञ्जयत्वं व्युत्पादयति - दिगिति
॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 तत्रादौ सात्त्विकीं बुद्धिं निर्दिशति - प्रवृत्तिं चेति । प्रवृत्तिः आचरणमात्रम् अनाचरणमात्रं च निवृत्तिः इति किं न इष्यते तत्र आह - बन्धेति । यस्मिन् वाक्ये बन्धमोक्षौ उच्यते, तस्मिन्नेव प्रवृत्तिनिवृत्त्याोः उक्तत्वात् , कर्ममार्गस्य बन्धहेतुत्वात् , मोक्षहेतुत्वाच्च संन्यासमार्गस्य, तावेव अत्र ग्राह्यौ इत्यर्थः । करणाकरणयोः निर्विषयत्वायोगात् विषयापेक्षाम् अवतार्य योग्यं विषयं निर्दिशति- कस्येति । अनिष्टसाधनं भयम् , इष्टसाधनम् अभयम् इति विभजते - भयेति । बन्धादिमात्रज्ञानस्य बुद्ध्यन्तरेऽपि सम्भवात् विशेषणम् । ननु बुद्दिशब्दितस्य ज्ञानस्य प्रागेव त्रैविध्यप्रतिपादनात् किमिति बुद्धेः इदानीं त्रैविध्यं प्रतिज्ञाय व्युत्पाद्यते तत्र आह - ज्ञानमिति । तर्हि ज्ञानेन गतत्वात् न पुनः धृतिः व्युत्पादनीया इति आशङ्क्य आह - धृतिरपीति । विशेषशब्देन ज्ञानात् व्यावृत्तिः इष्टा
॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 कार्याकार्ययोः धर्माघर्माभ्यां पौनरुक्त्यं परिहरति - पूर्वोक्ते इति । पूर्वश्लोके कार्याकार्यशब्दाभ्यां दृष्टादृष्टार्थानां कर्मणां करणाकरणे निर्दिष्टे । तयोरेव अत्र ग्रहणात् न धर्माधर्माभ्यां पूर्वपर्यायाभ्यां गतार्थता इति अर्थः । या (सा) बुद्धिः, यया बुद्ध्या बोद्धा निर्णयेन न जानाति इत्यर्थः
॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 धर्मशब्दो नपुम्सकलिङ्गोऽपि इति अभिप्रेत्य धर्मम् इति उक्तम् । तमसावृता - अविवेकेन वेष्टिता इत्यर्थः । कार्याकार्यादीन् उक्तान् अनुक्तांश्च सङ्ग्रहीतुं सर्वार्थान् इत्युक्तम् । तत् व्याचष्टे - सर्वानेवेति । विपरीतांश्चेति चकारम् अवधारणे गृहीत्वा विपरीतानेव इत्युक्तम्
॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】 इदनीं धृतित्रैविध्यं व्युत्पिपादयिषुः आदौ सात्विकीं धृतिं व्युत्पादयति - धृत्येति । निर्दिष्टानां चेष्टानां कथं धृत्या धारणम् तत्र आह- ताः इति । तदेव अनुभवेन साधयति - धृत्या हीति । ध्रियते अनया इति धृतिः - यत्नविशेषः तया धृत्या धार्यमाणाः मिथोपदिष्टाः चेष्टाः शास्त्रम् अतिक्रम्य न अर्थान्तरावगाहिन्यः भवन्ति इति अर्थः । धृतिमेव समाध्यविनाभूतत्वेन विशिनष्टि - योगेनेति । ननु धृतेः नियमेन समाध्यनुगतत्वं कथम् उक्तक्रियाधारणोपयोगी इति आशङ्क्य आह - एतदिति । उक्तक्रियाः धारयमाणो योगेन ब्रह्मणि समाधानेन ऐकाग्र्येण अव्यभिचारिण्या अविनाभूतया धृत्या धारयति । अन्यथा तदविनाभावाभावे नियमेन तद्धारणासिद्धेः इत्यर्थः
॥ ३३ ॥ 【भाष्यम्】 【भाष्यम्】 राजसीं धृतिं दर्शयति - यया त्विति । तेषां धारणप्रकारम् अभिनयति - मनसीति । फलाकाङ्क्षीति कस्य विशेषणम् तत्र आह - यः पुरुष इति
॥ ३४ ॥ 【भाष्यम्】 【भाष्यम्】 तमासीं धृतिं व्याचष्टे - ययेति । शोकं - प्रियवियोगनिमित्तं सन्तापम् । विषण्णतां - इन्द्रियाणां ग्लानिम् । विषयसेवा कुमार्गप्रवृत्तेः उपलक्षणम् उक्तम् । स्वप्नादि मदान्तं सर्वमेव कर्तव्यतया आत्मनः बहु मन्यमानः - मनसि नित्यमेव कुर्वन् दुर्मेधाः न विमुञ्चति, किन्तु धारयत्येव इति योजना
॥ ३५ ॥ 【भाष्यम्】 【भाष्यम्】 वृत्तम् अनूद्य अनन्तरश्लोकतात्पर्यम् आह - गुणेत्यादिना । क्रियाकारकाणां गुणतः त्रैविध्योक्त्यनन्तरं फलस्य सुखस्य त्रैविध्योक्त्यवसरे सति, इति आह - इदानीमिति । हेयोपादेयभेदार्थं त्रैविध्यम् । समाधानं - ऐकाग्र्यं मम वचनात् इति शेषः । यत्र इति उभयत्र सम्बध्यते । तत् त्रिविधं सुखमिति पूर्वेण सम्बन्धः
॥ ३६ ॥ 【भाष्यम्】 【भाष्यम्】 तत्र सात्त्विकं सुखम् आदेयत्वेन दर्शयति - यत्तदिति । प्रथमसन्निपातं विभजते - ज्ञानेति । कुतः तस्य दुःखात्मकत्वम् तत्र आह - अत्यन्तेति । दुःखात्मकत्वे दृष्टान्तम् आह - विषमिवेति । ज्ञानादिपरिपाकावस्था परिणामः, तस्मिन् सति ततो जातम् इति योजना । तत्रैव हेत्वन्तरम् आह - आत्मन इति । आत्मबुद्धिशब्दस्य अर्थान्तरम् आह - आत्मविषयेति । अन्तःकरणनैर्मल्याद्वा सम्यग्ज्ञानप्रकर्षाद्वा जातत्वात् इति तच्छब्दार्थः
॥ ३७ ॥ 【भाष्यम्】 【भाष्यम्】 राजसं सुखं हेयत्वाय कथयति - विषयेति । बलं - सङ्घातसामर्थ्यं, वीर्यं - पराक्रमकृतं यशः, रूपं - शरीरसौन्दर्यं, प्रज्ञा - श्रुतार्थग्रहणसामर्थ्यं, मेधा - गृहीतार्थस्य अविस्मरणेन घारणशक्तिः, धनं - गोहिरण्यादि, उत्साहस्तु - कार्यं प्रति उपक्रमादिः, एतेषां नाशकत्वात् वैषयिकं सुखं विषसमम् इति अर्थः । तत्रैव हेत्वन्तरम् आह - अधर्मेति
॥ ३८ ॥ 【भाष्यम्】 【भाष्यम्】 तामसं सुखं त्यागार्थमेव उदाहरति - यदग्रे चेति । अनुबन्धशब्दार्थम् आह - अवसानेति । मोहनं - मोहकरम् । तदुत्पत्तिहेतुम् आह - निद्रेति
॥ ३९ ॥ 【भाष्यम्】 【भाष्यम्】 क्रियाकारकफलात्मनः संसारस्य प्रत्येकं सात्त्विकादिभेदेन त्रैविध्यम् उक्त्वा संसारान्तर्भूतमेव किञ्चित् गुणत्रयास्पृष्टमपि क्वचित् भविष्यति इति आशङ्क्य आह - अथेति । संसारस्य सर्वस्यैव गुणत्रयसंस्पृष्टत्वं प्रकरणम् । अन्यद्वा अप्राणि इत्यत्र अप्राणिशब्देन प्रसिद्ध्या स्थावरादि गृह्यते
॥ ४० ॥ 【भाष्यम्】 【भाष्यम्】 सम्प्रति वर्णचतुष्टयस्य अनुष्ठेयं धर्मजातम् असङ्कीर्णम् इति सूत्रम् उपन्यस्यति- ब्राह्मणेति । उपनयनसंस्कारवत्त्वे सति वेदाधिकारित्वं समानम् इति त्रयाणां समासकरणम् । इतरेषाम् असमासे हेतुम् आह - शूद्राणाम् इति । एकजातित्वम् उपनयनवर्जितत्वम् । कर्मणाम् असङ्कीर्णत्वेन व्यवस्थापकं प्रश्नपूर्वकं प्रकटयति - केन इत्यादिना । स्वभावप्रभवैः गुणैः इत्यस्य अर्थान्तरम् आह - अथवेति । उक्तव्यवस्थायां कार्यदर्शनं प्रमाणयति - प्रशान्तीति । स्वभावशब्दस्य अर्थान्तरम् आह - अथवेति । किमिति गुणाभिव्यक्तेः उक्तवासनाधीनत्वम् तत्र आह - गुणेति । ननु ऩास्ति गुणप्रादुर्भावस्य निष्कारणत्वं, प्रकृतिजैः गुणैः इति प्रकृतेः गुणकारणत्वाभिधानात् , अतः आह - स्वभाव इति । वासना कारणम् इति गुणव्यक्तेः निमित्तकारणत्वं विवक्षितम् । प्रकृतिस्तु उपादान इति भावः । उक्तम् उपसंहरति - एवमिति । स्वभावप्रभवैः सत्त्वादिगुणैः ब्राह्मणादीनां कर्माणि प्रविभक्तानि इति उक्तम् आक्षिपति- नन्विति । शास्त्रस्य धर्मविभागहेतोः सत्त्वादिविशेषापेक्षयैव विभागज्ञापकत्वात् उभयत्र विभागहेतुत्वोक्तिः अविरुद्धा इति परिहरति - नैष दोष इति
॥ ४१ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकरणार्थम् उपसंहृतम् अनुवदति - सर्व इति । तस्य अनेकात्मत्वेन हेयत्वं सूचयति - क्रियेति । निर्गुणात् आत्मनः वैलक्षण्याच्च तस्या हेयता, इति आह - सत्त्वेति । अनर्थत्वाच्च तस्य त्याज्यत्वम् , अनर्थत्वं च अविद्याकल्पितत्वेन, अवस्तुनो वस्तुवत् भानात् इत्याह - अविद्येति । न केवलम् अष्टादशे संसारो दर्शितः, किन्तु पञ्चदशेऽपीत्याह - वृक्षेति । चकारात् उक्तः संसारः अनुकृष्यते । संसारध्वस्तिसाधनं सम्यक् ज्ञानं च तत्रैव उक्तम् इत्याह - असङ्गेति । वृत्तम् अनूद्य अनन्तरसन्दर्भतात्पर्यम् आह - तत्र चेति । उक्तः निवर्तयिषितः संसारः सतिसप्तम्या परामृश्यते । सर्वो हि संसारो गुणत्रयात्मकः । न च गुणानां प्रकृत्यात्मकानां संसारकारणीभूतानां निवृत्तिः युक्ता, प्रकृतेः नित्यत्वात् इति आशङ्कायां, स्वधर्मानुष्ठानात् तत्त्वज्ञानोत्पत्त्या गुणानाम् अज्ञानात्मकानां निवृत्तिर्यथा भवति, तथा स्वधर्मजातं वक्तव्यम् इति उत्तरग्रन्थप्रवृत्तिः इत्यर्थः । तत्तद्वर्णप्रयुक्तधर्मजातानुपदेशे च उपसंहारप्रकरणप्रकोपः स्यात् , इति आह - सर्वश्चेति । उपसंहृते गीताशास्त्रे यद्यपि सर्वो वेदार्थः स्मृत्यर्थश्च सर्वः उपसंहृतः, तथापि मुमुक्षुभिः अनुष्ठेयम् अस्ति वक्तवयम् अवशिष्टम् इति आशङ्क्य आह - एतावानिति । अनुष्ठेयपरिमाणनिर्धारणवत् उक्तशङ्कानिवर्तनं शास्त्रार्थोपसंहारश्च इति एतत् उभयं चकारार्थः । ‘अन्तःकरणोपशमः - शमः', दमः - बाह्यकरणोपरतिः इत्यक्तं स्मारयति- यथेति । त्रिविधं तपः सप्तदशे दर्शितम् इत्याह - तप इति । शौचमपि बाह्यान्तरभेदेन प्रागेव उक्तम् इत्याह - शौचमिति । क्षमा नाम आक्रुष्टस्य ताडितस्य वा मनसि विकारराहित्यम् । ज्ञानं - शास्त्रीयपदार्थज्ञानम् । विज्ञानं शास्त्रार्थस्य स्वानुभवायत्तत्वापादनम् । त्रिधा व्याख्यातं स्वभावशब्दार्थम् उपेत्य आह - यदुक्तमिति
॥ ४२ ॥ 【भाष्यम्】 【भाष्यम्】 प्रविभक्तानि कर्माण्येव प्रश्नद्वारा विविच्य दर्शयति - कानीत्यादिना । शौर्यमिति । शूरस्य भावः विक्रमः - बलवत्तरानपि प्रहर्तुम् प्रवृत्तिः । प्रागल्भ्यं - परैः अघर्षणीयत्वम् । महत्यामपि विपदि देहेन्द्रियोत्तम्भनी चित्तवृत्तिः धृतिः इति व्याचष्टे - सर्वावस्थास्विति । दक्षस्य भावमेव विभजते- सहसेति । स्वभावस्तु पूर्ववत्
॥ ४३ ॥ 【भाष्यम्】 【भाष्यम्】 वैश्यशूद्रयोः कर्म विवक्षया अनुवदति - कृषीति । स्पष्टार्थः
॥ ४४ ॥ 【भाष्यम्】 【भाष्यम्】 मोक्षोपायेषु शमदिषु सात्त्विकेषु ब्राह्मणधर्मेषु क्षत्रियादीनाम् अनधिकारात् ब्राह्मणानामेव मोक्षः, न क्षत्रियादीनाम् , इति आशङ्क्य आह - स्वे स्वे इति । यथा स्वे कर्मणि अभिरतस्य बुद्धिशुद्धिद्वारा ज्ञाननिष्ठायोग्यतया प्राप्तज्ञानस्य मोक्षोपपत्तेः ब्राह्मणातिरिक्तस्यापि ज्ञानवतः मुक्तिः इति मत्वा पूर्वार्धं व्याचष्टे - स्वे स्वे इत्यादिना । संसिद्धिशब्दस्य मोक्षार्थत्वं गृहीत्वा स्वधर्मनिष्ठत्वमात्रेण तल्लाभे, तादर्थ्येन संन्यासादिविधानानर्थक्यम् इति मन्वानः शङ्कते - किमिति । न तावन्मात्रेण साक्षान्मोक्षः, ज्ञाननिष्ठायोग्यता वा इति परिहरति - नेति । तर्हि कथं स्वधर्मनिष्ठस्य संसिद्धिरिति पृच्छति - कथं तर्हि इति । उत्तरार्धेन उत्तरम् आह - स्वकर्मेति । तत् श्रृणु - तं प्रकारम् एकाग्रचेता भूत्वा श्रुत्वा, अवधारय इत्यर्थः
॥ ४५ ॥ 【भाष्यम्】 【भाष्यम्】 शमादिपरिचर्यान्तकर्मणां विभज्य उक्तानाम् अभ्युदयं फलम् आदौ उपन्यस्यति- एतेषामिति । स्वभावतः - विहितत्वादेव मोक्षापेक्षाम् अन्तरेण अनुष्ठानात् इत्यर्थः । तत्र प्रमाणम् आह - वर्णाः इति । शेषशब्देन भुक्तकर्मणः अतिरिक्तं कर्म अनुशयशब्दितम् उच्यते । प्रत्येकं देशादिभिः विशिष्टशब्दः सम्बध्यते । आदिशब्देन ‘तद्यथा आम्रे फलार्थे निर्मिते छायागन्धौ अनूत्पद्येते, एवं धर्मं चर्यमाणम् अर्थाः अनूत्पद्यन्ते । न धर्म हानिः भवति । ‘ इति स्मृतिः गृह्यते । इतश्च उक्तानां कर्मणां स्वर्गफलत्वं युक्तम् इत्याह - पुराणे चेति । उक्तं हि - “यस्तु सम्यक् करोत्येवं गृहस्थः परमं विधिम् । तद्वर्णबन्धमुक्तोऽसौ लोकान् आप्नोत्यनुत्तमान्“ इति । “ यस्त्वेतां नियतः चर्यां वानप्रस्थश्चरेन्मुनिः । स दहत्यग्निवद्दोषान् जयेल्लोकांश्च शाश्वतान् ॥“ इति । “मोक्षाश्रमो यश्चरते यथोक्तं शुचिः सुसङ्कल्पितबुद्धियुक्तः । अनिन्धनज्योतिरिव प्रशान्तं स ब्रह्मलोकं श्रयते द्विजातिः ॥ “ इति च । “सर्व एते पुण्यलोका भवन्ति" इति श्रुतिः चकारार्थः । यदि पुनः मोक्षापेक्षया उक्तानि कर्माणि अनुष्ठीयेरन् , तदा मोक्षफलत्वं तेषां सेत्स्यति इत्याह- कारणान्तरादिति । तदेव कारणान्तरं, यत् मोक्षापेक्षया तेषाम् अनुष्ठानम् । तमेव प्रकारं स्फुटयति - यत इति । यतःशब्दार्थं यस्मात् इत्युक्तं व्यक्तीकरोति - यस्मादिति । प्राणिनाम् उत्पत्तिः यस्मात् - ईश्वरात् तेषां चेष्टा च यस्मात् अन्तर्यामिणः, येन च सर्वं व्याप्तं, मृदा इव घटादि, कार्यस्य कारणातिरिक्तस्वरूपाभावात् , तं स्वकर्मणा अभ्यर्च्य मानवः संसिद्धिं विन्दति इति सम्बन्धः । न हि ब्राह्मणादीनां यथोक्तधर्मनिष्ठया साक्षात् मोक्षः लभ्यते, तस्य ज्ञानैकलभ्यत्वात् । किन्तु, तन्निष्ठानां शुद्धबुद्धीनां कर्मसु फलम् अपश्यताम् ईश्वरप्रसादासादितविवेकवैराग्यवतां संन्यासिनां ज्ञाननिष्ठायोग्यतावतां ज्ञानप्राप्त्या मुक्तिः इति अभिप्रेत्य आह - केवलमिति
॥ ४६ ॥ 【भाष्यम्】 【भाष्यम्】 ननु युद्धादिलक्षणं स्वधर्मं कुर्वन्नपि हिंसाधीनं पापं प्राप्नोति तत् कथं स्वधर्मः श्रेयान् इति तत्र आह - स्वभावेति । स्वकीयं वर्णाश्रमं निमित्तीकृत्य विहितं स्वभावजम् इति अधस्तात् उक्तम् इत्याह - यदुक्तमिति । विग्रहात्मकमपि विहितं कर्म कुर्वन् पापं न आप्नोति इति अत्र दृष्टान्तम् आह - यथेति
॥ ४७ ॥ 【भाष्यम्】 【भाष्यम्】 स्वधर्मानुष्ठानस्य बुद्धिशुद्ध्यादिद्वारा मोक्षावसायित्वात् , तदनुष्ठानम् आवश्यकम् इत्याह - यत इति । तत् विहितत्वात् ऩिर्देषमपि हिंसात्मकतया सदोषम् इत्यत्र हेतुम् आह - त्रिगुणेति । सत्त्वादिगुणत्रयारब्धतया हिंसादिदोषवदपि कर्म विहितम् अत्याज्यम् इत्यर्थः । कर्मणां दोषवत्त्वं प्रपञ्चयति - सर्वेति । आरम्भशब्दस्य कर्मव्युत्पत्त्या स्वपरसर्वकर्मार्थत्वे कर्मणां प्रकृतत्वं हेतुम् आह - प्रकरणादिति । दोषेण इत्यादि व्याचष्ठे - ये केचिदिति । ते सर्वे दोषेण आवृताः इति सम्बन्धः । सर्वकर्मणां दोषावृतत्वे हिशब्दोपात्तं यस्मात् इत्युक्तं हेतुमेव अभिनयति - त्रिगुणात्मकत्वमिति । स्वभावनियतस्य कर्मणः दोषवत्त्वात् , तत्त्यागद्वारा परधर्मम् आतिष्ठमानस्यापि नैव दोषात् विमोकः सम्भवति । न च परधर्मः अनुष्ठातुं शक्यते भयावहत्वात् । न च तर्हि कर्मणः अशेषतः अननुष्ठानमेव, अज्ञस्य अशेषकर्मत्यागायोगात् । अतः सहजं कर्म सदोषमपि न त्याज्यम् इति वाक्यर्थम् आह- सहजस्येति । सहजं कर्म सदोषमपि न त्यजेत् इत्यत्र विचारम् अवतारयति - किमिति । न हि कश्चिदिति न्यायात् इति शेषः । दोषः - विहितनित्यत्यागे प्रत्यवायः । सन्दिग्धस्य सप्रयोजनस्य विचार्यत्वात् , उक्ते सन्देहे प्रयोजनं पृच्छति - किं चात इति । तत्र आद्यम् अऩूद्य फलं दर्शयति - यदीति । अशक्यार्थानुष्ठानस्य गुणत्वेन प्रसिद्धत्वात् । प्रसिद्धं हि महोदधिम् अगस्त्यस्य चुलुकीकृत्य पिबतो गुणवत्त्वम् । तदाह - एवं तर्हि इति । अशेषकर्मत्यागस्य गुणवत्त्वेऽपि प्रागुक्तन्यायेन तदयोगात् तस्य अशक्यानुष्ठानता इति शङ्कते - सत्यमिति । चोद्यमेव विवृण्वन् आद्यं विभजते - किमिति । सत्त्वादिगुणवत् आत्मनः नित्यप्रचलितत्वेन अशेषतः तेन न कर्म त्यक्तुं शक्यम् ; नापि रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञानां क्षणध्वंसिनां स्कन्धानाम् इव क्रियाकारकभेदाभावात् कारकस्यैव आत्मनः क्रियात्वम् इत्युक्ते कर्म अशेषतः त्यक्तुं शक्यम् , उभयत्रापि स्वभावभङ्गात् इत्याह - उभयथेति । पक्षद्वयानुरोधेन अशेषकर्मत्यागायोगे, वैशेषिकः चोदयति - अथेति । कदाचित् आत्मा सक्रियः, निष्क्रियश्च कदाचित् , इति स्थिते फलितम् आह - तत्रेति । उक्तमेव पक्षं पूर्वोक्तपक्षद्वयात् विशेषदर्शनेन विशदयति - अयं त्विति । आगमापायित्वे क्रियायाः, तद्वतः द्रव्यस्य कथं स्थायिता इति अशङ्क्य, आह - शुद्धमिति । क्रियाशक्तिमत्त्वेऽपि क्रियावत्त्वाभावे कथं कारकत्वम् क्रियां कुर्वत् कारणं कारकम् इति अभ्युपगभात् इति आशङ्क्य, आह - तदेवेति । क्रियाशक्तिमदेव कारकं न क्रियाधिकरणं, परस्पराश्रयात् इत्यर्थः । वैशेषिकपक्षे दोषाभावात् अस्ति सर्वैः स्वीकार्यता इति उपसंहरति - इत्यस्मिन्निति । भगवन्मतानुसारित्वाभावात् अस्य पक्षस्य त्याज्यता इति दूषयति- अयमेवेति । भगवन्मताननुसारित्वम् अस्य अप्रामाणकम् इति शङ्कते- कथमिति । भगवद्वचनम् उदाहरन् परपक्षस्य तदनुगुणत्वाभावम् आह - यत इति । परेषामपि मतम् एतदनुगुणमेव किं न स्यात् इति आशङ्क्य, आह - काणादानां हीति । भगवन्मतानुगुणत्वाभावेऽपि न्यायानुगुणत्वेन दोषरहितं काणादानां मतम् उपादेयमेव तर्हि काणादमतविरोधात् उपेक्ष्यते भगवन्मतम् इति शङ्कते - अभागवतत्वेऽपि इति । न्यायवत्त्वम् असिद्धम् इति दूषयति - उच्यत इति । सर्वप्रमाणानुसारिणः मतस्य न तद्विरोधिता इति आक्षिपति - कथमिति । वैशेषिकमतस्य सर्वप्रमाणविरोधं प्रकटयन् आदौ तन्मतम् अनुवदति- यदीति । असतः जन्म, सतश्च नाशः इति स्थिते फलितम् आह - तथा चेति । उक्तमेव वाक्यं व्याकरोति - अभाव इति । सदेव असत्त्वम् आपद्यते इत्युक्तं व्याचष्टे - भावश्चेति । इति मतमिति शेषः । तत्रैव अभ्युगमान्तरम् आह - तत्रेति । प्रकृतं मतं सप्तम्यर्थः । इति अभ्युपगम्यते इति शेषः । परकीयम् अभ्युपगमं दूषयति - न चेति । एवमिति - परपरिभाषानुसारेण इत्यर्थः । अदर्शनात् - उत्पत्तेः अपेक्षायाश्च इति शेषः । कथं तर्हि त्वन्मतेऽपि घटादीनां कारणापेक्षाणाम् उत्पत्तिः, न हि भावानां कारणापेक्षा उत्पत्तिर्वा युक्ता, इति तत्राह - भावेति । धटादीनाम् अस्मत्पक्षे प्रागपि कारणात्मना सतामेव अव्यक्तनामरूपाणाम् अभिव्यक्तिसामग्रीम् अपेक्ष्य पृथक् अभिव्यक्तिसम्भवात् न किञ्चित् अवद्यम् इत्यर्थः । असत्कार्यवादे दोषान्तरम् आह - किञ्चेति । परमते मानमेयव्यवहारे क्वचिदपि विश्वासः न कस्यचित् इत्यत्र हेतुमाह - सत्सदेवेति । न हि सत् तथैव इति निश्चितं, तस्यैव पुनः असत्त्वप्राप्तेः इष्टत्वात् , न च असत् तथैवेति निश्चयः, तस्यैव सत्त्वप्राप्तेः उपगमात् । अतः यत् मानेन सत् असद्वा निर्णीतं तत् तथेति विश्वासाभावात् मानवैफल्यम् इत्यर्थः । इतश्च असत्कार्यवादः न युक्तिमान् इत्याह - किञ्चेति । तदेव हेत्वन्तरं स्फोरयितुं परमतम् अनुवदति - उत्पद्यत इतीति । परकीयं वचनमेव व्याचष्टे - प्रागिति । सम्बद्धं सत् इति अनेन कारणसम्बन्धे सति कार्यस्य सत्तासम्बन्धः भवति इति उक्तम् । तदेव स्फुटयति - कारणेति । परमतमेव अनुभाष्य दूषयति - तत्रेति । कार्यस्य असतोऽपि कारणं सम्भवति । तस्य च कार्येण सम्बन्धः सिद्ध्यति इति आशङ्क्य आह - न हीति । असत्त्वादेव असतः सम्बन्धाभावे करणस्य सतोऽपि न तेन सम्बन्धः अनुमातुं शक्यते ; सदसतोः सम्बन्धाभावात् इत्यर्थः । कार्यस्य अत्यन्तासत्त्वानभ्युपगमात् कारणसम्बन्धः स्यात् इति शङ्कते - नन्विति । सतामेव द्व्यणुकादीनां कारणसम्बन्धं शङ्कितं दूषयति - न सम्बन्धादिति । अनभ्युपगममेव विशदयति - नहीति । सदेव कारणं कार्याकारम् आपद्य कार्यव्यवहारं निर्वहति इति अभ्युपगमात् नास्ति सम्बन्धानुपपत्तिः इति आशङ्क्य अपराद्वान्तात् मैवम् इत्याह - न चेति । कार्यस्य कारणसम्बन्धात् पूर्वं सत्त्वाभावे परिशेषसिद्धम् अर्थं दर्शयति - ततश्चेति । तत्र च अनुपपत्तिः उक्ता इति शेषः । सम्बन्धिनोः सदसतोरेव असंयोगेऽपि समवायः सदसतोः सम्भवेत् इति, तस्य नित्यत्वात् अन्यतरसम्बन्धाभावेऽपि स्थितेः आवश्यकत्वात् इति शङ्कते - नन्विति । सदसतोः मिथः सम्बन्धस्य अदृष्टत्वात् न इति निराचष्टे - न वन्ध्येति । घटादिप्रागभावस्य अत्यन्ताभावत्वाभावात् वन्ध्यापुत्रादिविलक्षणतया स्वकारणसम्बन्धः सिध्यति इति आशङ्क्य आह - घटादेरिति । उभयत्र अभावस्वभावाविशेषेऽपि, कस्याचित् कारणसम्बन्धः, न इतरस्य, इति विशेषे, हेत्वभावात् न प्रागभावस्य कारणसम्बन्धः सम्भवति इत्यर्थः । घटादिप्रागभावस्य सप्रतियोगिकत्वं, वन्ध्यापुत्रादेः नैवम् इति विशेषम् आशङ्क्य दूषयति- एकस्येति । प्रागभावस्येव प्रध्वंसाभावादेरपि सप्रतियोगिकत्वाविशेषे स्वकारणेन सम्बन्धाविशेषः स्यात् इत्यर्थः । प्रागभावप्रध्वंसाभावयोः विशेषाभावे फलितम् आह - असति चेति । कपालशब्दः धटकारणीभूतमृदवयवविषयः । सर्वः व्यवहारः घटाश्रितः जन्मनाशादिव्यवहारः । प्रध्वंसाभावस्तु घटस्यैव अभावत्वे सत्यपि न घटत्वम् आपद्यते । नापि कारणेन संबध्यते । न च उत्पत्त्यादिव्यवहारयोग्यः भवति, इति एतत् अयुक्तं, प्रागभावेन अस्य विशेषाभावात् इत्याह - न त्विति । असमञ्जसम् इत्यनेन इतिशब्दः सम्बध्यते । असमञ्जसान्तरम् आह - प्रध्वंसादीति । अन्योन्याभावात्यन्ताभावौ अदिपदार्थौ । क्कचित् इति देशकालयोः ग्रहणम् । व्यवहारः जन्मादिरेव । प्रागभावः न उत्पत्त्यादिव्यवहारयोग्यः, अभावत्वात् , प्रध्वंसादिवत् इत्यर्थः । प्रागभावस्य घटभावानभ्युपगमात् अनुमानं सिद्धसाधनम् इति शङ्कते - नन्विति । अभावस्य भावापत्त्यनभ्युपगमे भावस्यैव भावापत्तिः इति अनिष्टं स्यात् इति दूषयति - भावस्यैवेति । तस्य तदापत्तेः अयोग्यत्वे दृष्टान्तम् आह - यथेति । अभावस्य भावापत्तिः अनिष्टा इति दार्ष्टान्तिकं स्पष्टयति - एतदपीति । आरम्भवादोक्तं दोषं परिणामवादेऽपि सञ्चारयति - साङ्ख्यस्येति । धर्मः - परिणामः । असतः अपूर्वपरिणामस्य उत्पत्तेः, सतश्च पूर्वपरिणामस्य नाशात् , असत् असदेव, सच्च सदेव इति व्यवस्था अत्रापि दुर्घटा इत्यर्थः । ननु कार्यं कारणात्मना प्रागपि सदेव अव्यक्तं कारकव्यापारात् व्यज्यते । तेन व्यक्त्यव्यक्त्योः जन्मनाशव्यवहारात् मतान्तरात् विशेषसिद्धिः । तत्र आह - अभिव्यक्तीति । कारकव्यापारात् प्राक् अनभिव्यक्तिवत् अभिव्यक्तेः सत्त्वम् असत्त्वं वा सत्त्वे कारकव्यापारवैयर्थ्यात् तद्विषयप्रमाणविरोधः । द्वितोये पक्षान्तरवत् अत्यन्तासतः तन्निर्वर्त्यत्वायोगे स एव दोषः । कारकव्यापारात् ऊर्ध्वं व्यक्तिवत् अव्यक्तेरपि सत्त्वे स एव दोषः । असत्त्वेऽपि सतो असत्त्वानङ्गीकारात् मानमेयव्यवहारे न क्कापि विश्वासः । सत् सदेव, असत् असदेव इति अनिर्धारणात् इत्यर्थः । साङ्ख्यपक्षप्रतिक्षेपन्यायेन पक्षान्तरमपि प्रतिक्षिप्तम् इत्याह - एतेनेति । कारणस्यैव कार्यरूपापत्तिः उत्पत्तिः । तस्यैव तद्रूपत्यागेन स्वरूपापत्तिः नाशः इति एतदपि न । पूर्वरूपे स्थिते नष्टे च, परस्य पररूपापत्तेः अनुपपत्तेः । न च प्राप्तं रूपं स्थितेन नष्टेन वा त्यक्तुं शक्यम् इत्यर्थः । आरम्भवादे परिणामवादे च उत्पत्त्यादिव्यवहारानुपपत्तौ परिशेषायातं दर्शयति- पारिशेष्यादिति । एकस्य अनेकविधविकल्पानुपपत्तिम् आशङ्क्य, आह - अविद्ययेति । अस्यापि मतस्य भगवन्मतानुरोधित्वाभावात् अविशिष्टा त्याज्यता इति आशङ्क्य आह - इतीदमिति । उक्तमेव भगवन्मतं विशदयति - सत्प्रत्ययस्येति । सत् एकमेव वस्तु स्यात् इति शेषः । इतरेषां विकारप्रत्ययानां रजतादिधीवत् अर्थव्यभिचारात् , अविद्यया तदेव सद्वस्तु अनेकधा विकल्प्यते इत्याह - व्यभिचाराच्चेति । इति मतं श्लोके दर्शितम् इति सम्बन्धः । आत्मनश्चेत् अविक्रियत्वं भगवता इष्टं, तर्हि सर्वकर्मपरित्यागोपपत्तेः, सहजस्यापि कर्मणः त्यागसिद्धिः इति शङ्कते - कथमिति । किं कार्यकारणात्मनां गुणानाम् अकल्पितानां कल्पितानां वा कर्म धर्मत्वेन इष्टम् द्विधापि निश्शेषकर्मत्यागः विदुषः अविदुषो वा न आद्यः इत्याह - यदीत्यादिना । अविद्यारोपितमेव गुणशब्दितकार्यकारणारोपद्वारा कर्म इति शेषः । द्वितीयं प्रति आह - विद्वांस्त्विति । आरोपशेषवशात् विदुषोऽपि न अशेषकर्मत्यागसिद्धिः इति आशङ्क्य, आह - अविद्येति । तामेव अनुपपत्तिं दृष्टान्तेन स्पष्टयति - न हीति । विदुषः अशेषकर्मत्यागे पाञ्चमिकमपि वचः अनुकूलम् इत्याह - एवं चेति । अविदुषः सर्वकर्मत्यागायोगे च प्रकृताध्यायस्थमेव वाक्यम् अनुगुणम् इति आह - स्वे स्वे इति । वाक्यान्तरमपि तत्रैव अर्थे युक्तार्थम् इत्याह - स्वकर्मणेति
॥ ४८ ॥ 【भाष्यम्】 【भाष्यम्】 इतश्च विहितं कर्म दोषवदपि कर्तव्यं, प्रकारान्तरासम्भवात् , इति उक्तानुवादपूर्वकं कथयति- स्वभावेत्यादिना । न हि कृमिः विषजः विषनिमित्तं मरणं प्रतिपद्यते । तथा अयम् अधिकृतः पुरुषः दोषवदपि विहितं कर्म कुर्वन् पापं न आप्नोति इति उक्तम् इत्यर्थः । तर्हि दोषरहितमेव भिक्षाटनादि सर्वैः अनुष्ठीयताम् । अतः न पापप्राप्त्याशङ्का इति आशङ्क्य आह - परेति । उक्तम् इति अनुवर्तते । तर्हि पापप्राप्तिशङ्कां परिहर्तुम् अकर्मनिष्ठत्वमेव सर्वेषां स्यात् इति आशङ्क्य, ज्ञानाभावात् नैवम् इत्याह - अनात्मज्ञ इति । पूर्ववत् अत्रापि सम्बन्धः । प्रकारान्तरासम्भवकृतं फलम् आह - अत इति । सह जायते इति सहजं - स्वभावनियतं नित्यं कर्म । साधनानि उपदिशन् नैष्कर्म्यसिद्धिं व्यपदिशति - असक्तेति । पुत्रादिविषये चेतसः सङ्गाभावेऽपि तस्य अस्वाधीनत्वम् आशङ्क्य, आह- जितात्मेति । असक्तिम् उक्त्वा स्पृहाभावं वदता पुनरुक्तिः इष्टा इति आशङ्क्य, आह- देहेति । उक्तम् अनूद्यतत्फलं लम्भयति - य एवमिति । कर्मणां निर्गतौ हेतुम् आह - निष्क्रियेति । सम्यग्ज्ञानार्थत्वेन नैष्कर्म्यसिद्धिशब्दं व्याख्याय अर्थान्तरम् आह - नैष्कर्म्यस्येति । प्रकर्षमेव प्रकटयति - कर्मजेति । संन्यासस्य श्रुतिस्मृत्योः सम्यग्दर्शनत्वाप्रसिद्धेः अयुक्तं तादात्म्यम् इति आशङ्क्य, पक्षान्तरम् आह - तत्पूर्वकेणेति । संन्यासात् नैष्कर्म्यप्राप्तिः इत्यत्र वाक्योपक्रमानुकूल्यम् आह - तथा चेति
॥ ४९ ॥ 【भाष्यम्】 【भाष्यम्】 विदुषः सर्वकर्मत्यागेऽपि, न अविदुषः तथा, इति, उक्तम् । इदानीम् उक्तम् अनूद्य अनन्तरश्लोकतात्पर्यम् आह - या च कर्मजेति । चः अवधारणार्थः भिन्नक्रमः, वक्तव्यः इत्यत्र सम्बध्यते । सिद्धिम्प्राप्तः इति उक्तमेव कस्मात् अनूद्यते तत्र आह - तदनुवाद इति । उत्तरमेव प्रश्नपूर्वकं स्फोरयति - किं तदित्यादिना । ज्ञाननिष्ठाप्राप्तिक्रमस्य विस्तरेण उक्तौ दुर्बोधत्वम् आशङ्क्य परिहरति - किमिति । चतुर्थपादस्य पूर्वेण असङ्गतिम् आशङ्क्य, आह - यथेति । निष्ठायाः सापेक्षत्वात् प्रतिसम्बन्धि प्रतिनिर्देष्टव्यम् इत्याह - कस्येति । या ब्रह्मज्ञानस्य परा निष्ठा, सा प्रकृतस्य ज्ञानस्य निष्ठा इत्याह - ब्रह्मेति । तस्य परा निष्ठा न प्रसिद्धा इति कृत्वा साधनानुष्ठानाधीनतया साध्या इति मत्वा पृच्छति - कीदृशीति । प्रसिद्धम् आत्मज्ञानम् अनुरुध्य ब्रह्मज्ञाननिष्ठा सुज्ञाना इत्याह - यादृशमिति । तत्रापि प्रसिद्धिः अप्रसिद्धा इति शङ्कते - कीदृगिति । अर्थेनैव विशेषो हि इति न्यायेन उत्तरम् आह - यादृशः इति । तस्मिन्नपि विप्रतिपत्तेः अप्रसिद्धिम् अभिसन्धाय पृच्छति - कीदृशः इति । भगवद्वाक्यानि उपनिषद्वाक्यानि च आश्रित्य परिहरति - यादृशः इति । न जायते म्रियते वेत्यादीनि वाक्यानि । कूटस्थत्वम् असङ्गत्वम् इत्यादि न्यायः । ज्ञानस्य विषयाकारत्वात् , आत्मनश्च अविषयत्वात् अनाकारत्वाच्च तदाकारज्ञानायोगात् , आत्मप्रसिद्धावपि न आत्मज्ञानप्रसिद्धिः इति शङ्कते - नन्विति । आकारवत्त्वम् आत्मनः श्रुतिसिद्धम् इति सिद्धान्ती शङ्कते- नन्वादित्येति । उक्तवाक्यानाम् अन्यार्थत्वदर्शनेन पूर्ववादी परिहरति - नेत्यादिना । सङ्ग्रहवाक्यं प्रपञ्चयति - द्रव्येति । इतश्च आकारवत्त्वम् आत्मनः नास्ति इति आह- अरूपमिति । यत् आत्मनः विषयत्वाभावात् तद्विषयं ज्ञानं न सम्भवति इति उक्तं तत् उपपादयति- अविषयत्वाच्चेति । आत्मनः अविषयत्वे श्रुतिम् उदाहरति - नेत्यादिना । सन्दृशे - सम्यग्दर्शनविषयत्वाय, अस्य - आत्मनः, रूपं न तिष्ठति इत्यर्थः । तदेव करणागोचरत्वेन उपपादयति - नेति । शब्दादिशून्यत्वाच्च आत्मा विषयः न भवति, इत्याह - अशब्दमिति । आत्मनः विषयत्वाकारवत्त्वयोः अभावे फलितम् आह - तस्मादिति । ज्ञानस्य आत्माकारत्वाभावे सति आत्मज्ञानमिति व्यपदेशासिद्धिः इति एकदेशी शङ्कते - कथं तर्हीति । का अत्र अनुपपत्तिः इति आशङ्क्य आह - सर्वं हीति । आत्मनोऽपि तर्हि विषयत्वेन ज्ञानस्य तदाकारत्वं स्यात् इति आशङ्क्य आह - निराकारश्चेति । आत्मनो विषयत्वराहित्यं चकारार्थः । आत्मवत् तज्ज्ञानस्यापि तर्हि निराकारत्वं भविष्यति इत्यत्र आह - ज्ञानेति । तच्छब्देन आत्मज्ञानं गृह्यते । तस्य भावना - पौनःपुन्येन अनुसन्धानम् । तस्याः निष्ठा - समाप्तिः आत्मसाक्षात्कारदार्ढ्यंम् । न च एतत् सर्वम् आत्मनः ज्ञानस्य वा निराकारत्वे सिध्यति इत्यर्थः । ज्ञानात्मनोः साम्योपन्यासेन सिद्धान्ती समाधत्ते- नेत्यादिना । यथोक्तसाम्यानुसारात् आत्मचैतन्याभासव्याप्ता ज्ञानपरिणामवती बुद्धिः । साभासबुद्धिव्याप्तं मनः साभासमनो व्याप्तानि इन्द्रियाणि । साभासेन्द्रियव्याप्तः स्थूलः देहः । तत्र लौकिकभ्रान्तिं प्रमाणयति - अत इति । आत्मदृष्टेः देहमात्रे दृष्टत्वात् , तत्र चैतन्याभासव्याप्तिः इन्द्रियद्वारा कल्प्यते । इन्द्रियेषु च तद्दृष्टिदर्शनात् चैतन्याभासवत्त्वं मनोद्वारा सिद्ध्यति । मनसि च आत्मदृष्टेः चैतन्याभासवत्त्वं बुद्धिद्वारा लभ्यते । बुद्धौ च आत्मदृष्टेः अज्ञानद्वारा चैतन्याभाससिद्धिः इत्यर्थः । देहे लौकिकम् आत्मत्वदर्शनं न्यायाभावात् उपेक्षितम् इति आशङ्क्य, आह- देहेति । तथापि कथम् इन्द्रियाणां न्यायहीनम् आत्मत्वम् इष्टम् इत्याशङ्क्य, आह - तथेति । तथापि मनसः यत् आत्मत्वं, तत् न्यायशून्यम् इति आशङ्क्य, आह - अन्य इति । बुद्धेः आत्मत्वम् अपि न्यायोपेतम् इति सूचयति - अन्ये बुद्धीति । देहादौ बुद्ध्यन्ते परम् आत्मत्वबुद्धिः, न अन्यत्र, इति ऩियमं वारयति - ततोऽपीति । तत्र हि साभासे अन्तर्यामिणि कारणोपासकानाम् आत्मत्वधीः अस्ति इत्यर्थः । बुद्ध्यादौ देहान्ते लौकिकपरीक्षकाणां आत्मत्वभ्रान्तौ साधारणं कारणम् आह - सर्वत्रेति । आत्मज्ञानस्य लौकिकपरीक्षकप्रसिद्धत्वादेव विधिविषयत्वमपि परेष्टं परास्तम् इत्याह - इत्यत इति । ज्ञानस्य विधेयत्वाभावे, किं कर्तव्यं द्रष्टव्यादिवाक्यैः इति आशङ्क्य, आह - किं तर्हिति । आत्मज्ञानस्य अविधेयत्वे प्रागुक्तं अतःशब्दितं हेतुं विवृणोति - अविद्येति । देहेन्द्रियमनोबुद्ध्यव्यक्तैः उपलभ्यमानैः सह उपलभ्यते चैतन्यम् । न अन्यथा तेषाम् उपलम्भः जडत्वात् इत्यत्र विज्ञानवादिभ्रान्तिं प्रमाणयति- अत एवेति । सर्वं ज्ञेयं ज्ञानव्याप्तमेव ज्ञायते । तेन ज्ञानातिरिक्तं नास्त्येव वस्तु । संमतं हि स्वप्नदृष्टं वस्तु ज्ञानातिरिक्तं नास्ति इति ते भ्राम्यन्ति इत्यर्थः । ज्ञानस्यापि ज्ञेयत्वात् ज्ञातृ वस्त्वन्तरम् एष्टव्यम् इति आशङ्क्य, आह - प्रमाणान्तरेति । ज्ञानस्य स्वेनैव ज्ञेयत्वोपगमेन अतिरिक्तप्रमाणनिरपेक्षतां च प्रतिपन्नाः इति सम्बन्धः । ब्रह्मात्मनि ज्ञानस्य सिद्धत्वेन अविधेयत्वे फलितम् आह - तस्मादिति । यत्नः अत्र भावना । ब्रह्मणः तज्ज्ञानस्य च अत्यन्तप्रसिद्धत्वे, कथं ब्रह्मणि अन्यथा प्रथा लौकिकानाम् इत्यत्र आह - अविद्येति । यथाप्रतिभासं दुर्विज्ञेयत्वादिरूपमेव ब्रह्म किं न स्यात् तत्र आह - बाह्येति । गुरुप्रसादः - शुश्रूषया तोषितबुद्धेः आचार्यस्य करुणातिरेकादेव ‘तत्त्वं बुध्यतां’ इति निरवग्रहः अनुग्रहः । आत्मप्रसादस्तु - अधिगतपदशक्तिवाक्यतात्पर्यस्य श्रौतयुक्त्यनुसन्धानात् आत्मनः मनसः विषयव्यावृत्तस्य, प्रत्यगेकाग्रतया तत्प्रावण्यम् इति विवेकः । आत्मज्ञानस्य आत्मद्वारा प्रसिद्धत्वे वाक्योपक्रमं प्रमाणयति- तथा चेति । आत्मनः निराकारत्वात् तस्मिन् बुद्धः अप्रवृत्तेः सम्यग्ज्ञानानिष्ठा न सुसम्पाद्या इति मतम् उपस्थापयति - केचित्त्विति । बहिर्मुखानाम् अन्तर्मुखानां वा ब्रह्मणि सम्यक् ज्ञाननिष्ठा दुःसाध्या इति विकल्प्य आद्यम् अनूद्य अङ्गीकरोति - सत्यमिति । पूर्वपूर्वविशेषणम् उत्तरोत्तरविशेषणे हेतुत्वेन योजनीयम् । द्वितीयं दूषयति - तद्विपरीतानामिति । अद्वैतनिष्ठानां द्वैतविषये सम्यग्बुद्धेः अतिशयेन दुःसम्पाद्यत्वे हेतुम् आह - आत्मेति । तद्व्यतिरेकेण वस्त्वन्तरस्य असत्त्वं कथम् इति आशङ्क्य आह - यथा च इति । अद्वैतमेव वस्तु, द्वैतं तु आविद्यकं, न अन्यया तात्त्विकम् इति एतत् एवमेव यया स्यात् तथा उक्तवन्तः वयं तत्र तत्र अध्यायेषु इति योजना । अन्तर्निष्ठानाम् अद्वैतदर्शिनां द्वैतं नास्ति सद्बुद्धिः इत्यत्र भगवतोऽपि संमतिम् आह - उक्तञ्चेति । परमतं निराकृत्य प्रकृत उपसंहरन् आत्मनः निराकारत्वे ज्ञानस्य तदालम्बनत्वे किं कारणम् इति आशङ्क्य आह - तस्मादिति । ननु आत्मा कथञ्चित् सम्यग्ज्ञानक्रियासाध्यश्चेत् तस्य हेयोपादेयान्यतरकोटिनिवेशात् प्राप्तं स्वर्गादिवत् क्रियासाध्यत्वेन अप्रसिद्धत्वम् । न, इत्याह - नहीति । आत्मत्वादेव प्रसिद्धत्वेन प्राप्तत्वात् अनात्मवत् तस्य हेयोपादेयत्वयोः अयोगात् न क्रियासाध्यता इत्यर्थः । आत्मनश्चेत् ऋते क्रियाम् असिद्धत्वं, तदा सर्वप्रवृत्तीनाम् अभ्युदयनिःश्रेयसार्थानाम् आत्मार्थत्वायोगात् अर्थिनः अभावे स्वार्थत्वम् अप्रामाणिकं स्यात् इत्याह - अप्रसिद्धे हीति । ननु प्रवृत्तीनां स्वार्थत्वं देहादीनाम् अन्यतमस्य अर्थित्वेन तादर्थ्यात्, इति आशङ्क्य घटादिवत् अचेतनस्य अर्थित्वायोगात् न एवम् इत्याह - न चेति । ननु प्रवृत्तीनां फलावसायितया सुखदुःखयोः अन्यतरार्थत्वात् न स्वार्थत्वम् तत्राह - न चेति । प्रवृत्तीनां सुखदुःखार्थत्वेऽपि तयोः स्वार्थत्वासिद्धेः अर्थित्वेन आत्मा सिध्यति इत्यर्थः । किञ्च सर्वापेक्षान्यायात् आत्मावगत्यवसानः सर्वः व्यवहारः । न च आत्मनि अप्रसिद्धे यज्ञादिव्यवहारस्य तज्ज्ञानार्थत्वं, तेन आत्मप्रसिद्धिः एष्टव्या इत्याह - आत्मेति । ननु आत्मा अप्रसिद्धेऽपि प्रमाणद्वारा प्रसिध्यति । यत् सिध्यति, तत् प्रमाणादेव इति न्यायात् । तत्राह - तस्मादिति । मानमेयादिसर्वव्यवहारस्य आत्मावगत्यत्वोपगमात् प्रागेव प्रमाणप्रवृत्तेः, आत्मप्रसिद्धेः एष्टव्यत्वात् इत्यर्थः । आत्मावगतेः एवं स्वाभाविकत्वे विवेकवताम् आरोपनिवृत्त्या ज्ञाननिष्ठा सुप्रसिद्धा इति उपसंहरति - इत्यात्मेति । ननु अनाकारामेव अनुमिमीमहे बुद्धिम् इति वदताम् अनाकारं अप्रत्यक्षम् इच्छतां प्राक् अर्थावगतेः अप्रसिद्धमेव ज्ञानम् न, इत्याह - येषामिति । सुखादिवत् ऩित्यानुभवगम्यं ज्ञानं न अनुमेयं विषयावगत्या तदनुमितौ इतरेतराश्रयात् इति भावः । इतश्च ज्ञानं प्रसिद्धम् , अन्यथा तत्र जिज्ञासाप्रसङ्गात् । न च ज्ञाने जिज्ञासा प्रसिद्धा । प्रसिद्धे च तदयोगात् , इत्याह - जिज्ञासेति । तदेव प्रपञ्चयति - अप्रसिद्धं चेदिति । दृष्टान्तमेव व्याचष्टे- यथेति । दार्ष्टान्तिकं विवृणोति - तथेति । इष्टापत्तिं निराचष्टे - न चेति । ज्ञानस्य ज्ञानान्तरेण ज्ञेयत्वम् एतच्छब्दार्थः । अनवस्थापत्तेः इत्यर्थः । ज्ञाने जिज्ञासानुपपत्तौ फलितम् आह - अत इति । प्रसिद्धेऽपि, ज्ञाने, ज्ञातरि आत्मनि किम् आयातम् तदाह - ज्ञातापीति । ज्ञानस्य, विना ज्ञातारम् , अपर्यवसानात् इत्यर्थः । ज्ञानस्य प्रसिद्धत्वे तव भावनापर्यायः विधिः नास्ति इत्याह - तस्मादिति । कुत्र तर्हि प्रयत्नाख्या भावना इति आशङ्क्य, आह - किं त्विति । अविषये निराकारे च आत्मनि ज्ञाननिष्ठायाः दुस्सम्पाद्यत्वाभावे फलितं निगमयति - तस्मादिति
॥ ५० ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानप्राप्तियोग्यतावतः जातसम्यग्धियः तत्फलप्राप्तौ मुक्तौ उक्तायां, वक्तव्यशेषः नास्ति इति आशङ्क्य, आह - पूर्वोक्तेनेति । क्रमाख्यं वस्तु तत् उच्यते । पृष्टं उपायभेदम् उदाहरति - बुद्ध्येति । अध्यवसायः - ब्रह्मात्मत्वनिश्चयः । मायारहितत्वं - संशयविपर्ययशून्यत्वम् । शब्दादिसमस्तविषयत्यागे देहस्थितिरपि दुःस्था स्यात् इति आशङ्क्य, आह - सामर्थ्यादिति । विषयमात्रत्यागे देहस्थित्यनुपपत्तेः ज्ञाननिष्ठाऽसिद्धिप्रसङ्गात् इत्यर्थः । देहस्थित्यर्थत्वेन अनुज्ञातेषु अर्थेषु प्राप्तं रागादि ज्ञाननिष्ठाप्रतिबन्धकं व्युदस्यति - शरीरेति । परित्यज्य विविक्तसेवी स्यात् इति सम्बन्धः
॥ ५१ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मज्ञानस्य परां निष्ठां प्रतिष्ठापिताम् अनूद्य श्लोकान्तरं पृच्छति - सेयमिति । या इयं ब्रह्मज्ञानस्य परा निष्ठा - समारोपितातद्धर्मनिवृत्तिद्वारा ब्रह्मणि परिसमाप्तिः ज्ञानसन्तानरूपा उच्यते, सा कार्या सुसम्पाद्या इति यत् उक्तं तत् कथं केन उपायेन इति प्रश्नार्थः । चित्तैकाग्र्यप्रसादार्थं विविक्तसेवित्वं व्याकरोति - अरण्येति । निद्रादिदोषनिवृत्त्यर्थं लघ्वाशित्वं विशदयति - लघ्विति । लघु - परिमितं हितं मेध्यं च अशितुं शीलम् अस्य इति तथा उच्यते । विशेषणयोः तात्पर्यं विवृणोति - विविक्तेति । निद्रादीति आदिशब्दात् आलस्यप्रमादादयः बुद्धिविक्षेपकाः विवक्षिताः । वक्ष्यमाणध्यानयोगयोः उपायत्वेन विशेषणान्तरं विभजते - वाक् चेति । वागादिसंयमस्य आवश्यकत्वद्योतनार्थं स्यात् इत्युक्तम् । संयतवागादिकरणग्रामस्य अनायासेन कर्तव्यम् उपदिशति - एवमिति । मन्त्रजपादि इति आदिपदेन प्रदक्षिणप्रणामादयः ध्यानयोगप्रतिबन्धकाः गृहीताः । उक्तयोरेव ध्यानयोगयोः उपायत्वेन उक्तं विरागभावं विभजते - दृष्टेति । सम्यक्त्वमेव व्यनक्ति - नित्यमिति
॥ ५२ ॥ 【भाष्यम्】 【भाष्यम्】 बुद्धेः वैशारद्यं यत्नेन कार्यकरणनियमनं, देहस्थितिहेत्वतिरिक्तविषयत्यागः, देहस्थित्यर्थेष्वपि तेषु रागद्वेषवर्जनम् , उपायभेदे सिद्धे, सन्ति उपायान्तराण्यपि यत्नसाध्यानि इत्याह - तत इति । नित्यं ध्यानयोगपरत्वे समुच्चितं कारणान्तरं विवृणोति - अहङ्करणमिति । सामर्थ्यमात्रे बलशब्दात् उपलभ्यमाने किमिति विशेषवचनम् इति आशङ्क्य आह - स्वाभाविकत्वेनेति । उक्ते अर्थं मानम् आह- हृष्ट इति । वैराग्यशब्देन लब्धस्यापि कामत्यागस्य पुनः वचनं प्रकृष्टत्वख्यापनार्थम् । अहङ्कारादित्यागे परिग्रहप्राप्त्यभावात् तत्त्यागोक्तिः अयुक्ता इति आशङ्क्य, आह - इन्द्रियेति । परिग्रहाभावे ममत्वविषयाभावात् निर्ममत्वं कथम् इति आशङ्क्य, आह - देहेति । अहङ्कारममकारयोः अभावेन प्राप्ताम् अन्तःकरणोपरतिम् अनुवदति - अत एवेति । उक्तम् अनूद्य जीवन्नेव असौ ब्रह्म भवति इति फलितम् आह - यः संहृतेति । ज्ञाननिष्ठपदात् ऊर्ध्वं सशब्दो द्रष्टव्यः । ब्रह्मणः भवनम् अनुसन्धानपरिपाकपर्यन्तं साक्षात्करणं तदर्थम् इति यावत्
॥ ५३ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञाननिष्ठस्य यतेः विशेषणान्तरं समुच्चिनोति - किं चेति । न शोचतीत्यादौ तात्पर्यम् आह - ब्रह्मभूतस्येति । प्राप्तव्यपरिहार्याभावनिश्चयात् इत्यर्थः । स्वभावानुवादम् उपपादयति - न हीति । तस्य अप्राप्तविषयाभावात् नापि परिहार्यापरिहारप्रयुक्तः शोकः, परिहार्यस्यैव अभावात् इत्यर्थः । पाठान्तरे तु, रमणीयं प्राप्य न प्रमोदते तदभावात् इत्यर्थः । विवक्षितं समदर्शनं विशदयति - आत्मेति । ननु सर्वेषु भूतेषु आत्मनः समस्य निर्विशेषस्य दर्शनम् अत्र अभिप्रैतं किं न इष्यते तत्र आह- नात्मेति । उक्तविशेषणवतः जीवन्मुक्तस्य ज्ञाननिष्ठा प्रागुक्तक्रमेण प्राप्ता सुप्रतिष्ठिता भवति इत्याह - एवंभूतः इति । श्रवणमननिदिध्यासनवतः शमादियुक्तस्य अभ्यस्तैः श्रवणादिभिः ब्रह्मात्मनि अपरोक्षं मोक्षफलं ज्ञानं सिद्ध्यति इत्यर्थः । आर्तादिभक्तत्रयापेक्षया ज्ञानलक्षणा भक्तिः चतुर्थी इत्युक्ता । तत्र सप्तमस्थवाक्यम् अनुकूलयति - चतुर्विधा इति
॥ ५४ ॥ 【भाष्यम्】 【भाष्यम्】 अपेक्षितं पूरयन् उत्तरश्लोकम् अवतारयति - अनेनेति । ‘बुद्ध्या विशुद्धया’ (भ. गी. १८-५१) इत्यादिः अत्र क्रमः ब्रह्मप्राप्तः जीवन्नेव निवृत्ताशेषानर्थः निरतिशयानन्दं ब्रह्म आत्मत्वेन अनुभवन् इत्यर्थः । अध्यात्मं - प्रत्यगात्मा, तस्मिन् प्रसादः - सर्वानर्थनिवृत्त्या परमानन्दाविर्भावः, सः लब्धो येन जीवन्मुक्तेन, सः तथा । तदेव ज्ञानं भक्तिपराधीनं विवृणोति - यावानिति । आकाशकल्पत्वम् अनवच्छिन्नत्वम् असङ्गत्वं च । चैतन्यस्य विषयसापेक्षत्वं प्रतिक्षिपति - अद्वैतमिति । ये तु द्रव्यबोधात्मत्वम् आत्मनः मन्यन्ते, तान् प्रति उक्तं - चैतन्यमात्रेति । आत्मनि तन्मात्रेऽपि धर्मान्तरम् उपेत्य धर्मधर्मित्वं प्रत्याह - एकरसमिति । सर्वविक्रियाराहित्योक्त्या कौटस्थ्यम् आत्मनः व्यवस्थापयति - अजमिति । उक्तविक्रियाभावे तद्धेत्वज्ञानासम्बन्धं हेतुम् आह - अभयमिति । तत्त्वज्ञानम् अनूद्य तत्फलं विदेहकैवल्यं लम्भयति - तत इति । तत्त्वज्ञानस्य तस्मात् अनन्तरप्रवेशक्रियायाश्च भिन्नत्वं प्राप्तं प्रत्याह - नात्रेति । भिन्नत्वाभावे का गतिः भेदोक्तेः, इति आशङ्क्य, औपचारिकत्वम् आह- किं तर्हीति । प्रवेशः इति शेषः । ब्रह्मप्राप्तिरेव फलान्तरम् इति आशङ्क्य ब्रह्मात्मनोः भेदाभावात् न ज्ञानातिरिक्ता तत्प्राप्तिः इत्याह - क्षेत्रज्ञं चेति । ज्ञाननिष्ठया परया भक्त्या माम् अभिजानाति इत्युक्तम् आक्षिपति - नन्विति । विरुद्धत्वं स्फोरयितुं पृच्छति - कथमिति । विरोधस्फुटीकरणं प्रतिजानीते- उच्यते इति । तत्र ज्ञानस्य उत्पत्तिरेव विषयाभिव्यक्तिः इत्याह - यदेति । एवकारनिरस्यं दर्शयति - न ज्ञानेति । इति आवयोः सिद्धम् इति शेषः । ज्ञानस्य उत्पत्तेरेव विषयाभिव्यक्तित्वे कथं प्रकृते विरोधधीः इति आशङ्क्य आह - ततश्चेति । विरुद्धमिति शेषः । शङ्कितं विरोधं निरस्यति - नैष दोष इति । उक्तमेव हेतुं प्रपञ्चयति - शास्त्रेति । यो हि शास्त्रानुसारी आचार्योपदेशः, तेन ज्ञानोत्पत्तिः । ‘आचार्यवान् पुरुषो वेद’ (छा. उ. ६-१४-२) इति श्रुतेः । तस्याश्च परिपाकः संशयादिप्रतिबन्धध्वंसः तत्र हेतुभूतम् उपदेशस्यैव सहकारिकारणं यत् बुद्धिशुद्ध्यादि, तत् अपेक्ष्य, तस्मादेव उपदेशात् जनितं यत् ऐक्यज्ञानं तस्य कारकभेदबुद्धिनिबन्धनानि यानि सर्वाणि कर्माणि, तेषां संन्यासेन सहितस्य, फलरूपेण स्वात्मन्येव सर्वप्रकल्पनारहिते यत् अवस्थानं, सा ज्ञानस्य परा निष्ठा इति व्यवह्रियते प्रामाणिकैः इति अर्थः । यदि यथोक्ता परा ज्ञानष्ठिा, कथं तर्हि सा चतुर्थी भक्तिः इति उक्ता इति, तत्राह - सेयमिति । यथोक्तया भक्त्या भगवत्तत्त्वज्ञानं सिद्ध्यति इत्याह - तयेति । तत्त्वज्ञानस्य फलम् आह - यदनन्तरमिति । ज्ञाननिष्ठारूपायाः भगवद्भक्तेः तत्त्वज्ञानानतिरेकात् तत्फलस्य च अज्ञाननिवृत्तेः तन्मात्रत्वात् भेदोक्तेश्च औपचारिकत्वात् प्रकृतं वाक्यम् अविरुद्धम् इति उपसंहरति - अत इति । औपदेशिकैक्यज्ञानस्य सर्वकर्मसंन्याससहितस्य स्वरूपावस्थानात्मकस्य परमपुरुषार्थौपयिकत्वम् इति अस्मिन् अर्थे मानम् आह - अत्र चेति । तदेव शास्त्रम् उदाहरति - विदित्वेत्यादिना । दर्शितानि वाक्यानि - ‘सर्वकर्माणि मनसा’ (भ. गी. ५-१३) इत्यादीनि । ननु एषां वाक्यानाम् अविवक्षितार्थत्वत् नास्ति स्वार्थे प्रामाण्यम् इति आशङ्क्य अध्ययनविध्युपात्तत्वात् वेदवाक्यान्तं तदनुरोधित्वाच्च इतरेषां नैवम् इत्याह - न चेति । तथापि ‘सोऽरोदीत् ‘ इत्यादिवत् न स्वार्थे मानता इति आशङ्क्य आह - न चार्थवादत्वमिति । इतश्च मुमुक्षोः अपेक्षितमोक्षौपयिकज्ञाननिष्ठस्य संन्यासे अधिकारः, न कर्मनिष्ठायाम् इत्याह - प्रत्यगिति । ज्ञाननिष्ठस्य कर्मनिष्ठा विरुद्धा इत्यत्र दृष्टान्तम् आह - न हीति । ज्ञाननिष्ठास्वरूपानुवादपूर्वकं कर्मनिष्ठया तस्याः सहभावित्वं विरुद्धम् इति दार्ष्टान्तिकम् आह - प्रत्यगात्मेति । कथं ज्ञानकर्मणोः विरोधधीः इति आशङ्क्य, कर्मणां ज्ञाननिवर्त्यत्वस्य श्रुतिस्मृतिसिद्धत्वात् इत्याह - पर्वतेति । अन्तरवान् उभयोः एकधर्मिनिष्ठत्वेन साङ्कर्याभावसम्पादकभेदवान् इत्यर्थः । ज्ञानकर्मणोः असमुच्चये फलितम् उपसंहरति - तस्मादिति
॥ ५५ ॥ 【भाष्यम्】 【भाष्यम्】 ननु समाधिसाध्येन परमभक्त्यात्मकेन ज्ञानेन किम् अपूर्वम् अवाप्यते तत्र आह - तत इति । भक्त्या समाधिजन्यया मां ब्रह्म आभिमुख्येन प्रत्यक्तया जानाति व्याप्नोति इत्यर्थः । यद्यपि कस्यचित् कर्मानुष्ठायिनः बुद्धिशुद्धिद्वारा कैवल्यं सिद्ध्यति, तथापि पापबाहुल्यात् कर्मानुष्ठायिनोऽपि कस्यचित् बुद्धिशुद्ध्यभावे, कैवल्यासिद्धिः इति आशङ्क्य, आह - सर्वकर्माणीति । सर्वशब्दानुरोधात् ईश्वराराधनस्तुतिपरत्वेन श्लोकं व्याचष्टे - प्रतिषिद्धान्यपीति । नित्यनैमित्तिकवत् इति अपेः अर्थः । निषिद्धाचरणस्य प्रामादिकत्वं व्यावर्तयति - सदेति । अनुतिष्ठन् वैष्णवं पदम् आप्नोति इति सम्बन्धः । पापकर्मकारिणः यथोक्तपदप्राप्तौ, पापस्यापि मोक्षफलत्वम् उपगतं स्यात् , इत्यत्र आह - मद्व्यपाश्रय इति । तस्यैव तात्पर्यम् आह - मयीति । तर्हि ज्ञानस्य मोक्षहेतुत्वम् उपेक्षितं स्यात् , इत्यत्र आह - सोऽपीति । प्रसादः - अनुग्रहः - सम्यग्ज्ञानोदयः । पदं - पदमीयम् उपनिषत्तात्पर्यगम्यम् , अव्ययम् - अक्षयरहितम्
॥ ५६ ॥ 【भाष्यम्】 【भाष्यम्】 तर्हि ज्ञाननिष्ठस्यैव मोक्षसम्भवात् , न कर्मानुष्ठानसिद्धिः इति आशङ्क्य, आह - स्वकर्मणेति । तामेव सिद्धिप्राप्तिं विशिनष्टि - ज्ञानेति । ज्ञाननिष्ठायोग्यतायै स्वकर्मानुष्ठानं भगवदर्चनरूपं कर्तव्यम् इत्यर्थः । ज्ञाननिष्ठायोग्यतापि किमर्था इति आशङ्क्य, ज्ञाननिष्ठासिद्ध्यर्था इत्याह - यन्निमित्तेति । ज्ञाननिष्ठापि कुत्र उपयुक्ता इत्यत्र आह - मोक्षेति । स्वकर्मणा भगवदर्चनात्मनः भक्तियोगस्य परम्परया मोक्षफलस्य कार्यत्वेन विधेयत्वे विध्यपेक्षितां स्तुतिम् अवतारयति - स भगवदिति । ज्ञाननिष्ठा कर्मनिष्ठा इति उभयं प्रतिज्ञाय तत्र तत्र विभागेन प्रतिपादितम् । किमिति इदानीं कर्मनिष्ठा पुनः स्तुत्या कर्तव्यतया उच्यते तत्र आह- शास्त्रार्थेति । तत्र तत्र उक्तस्यैव कर्मानुष्ठानस्य प्रकरणवशात् इह उपसंहारः । स च शास्त्रीार्थनिश्चयस्य दृढतां द्योतयति इत्यर्थः । आश्रयशब्दार्थम् आह - अनन्येति
॥ ५७ ॥ 【भाष्यम्】 【भाष्यम्】 परमेश्वरप्रसादस्य एवं माह्यत्म्यं यतः सिद्धं, तत्मात् तत्प्रसादार्थं भवता प्रयतितव्यम् इत्याह - यस्मादिति । भगवत्प्रसादात् आसादितसम्यग्ज्ञानादेव मुक्तिः, न कर्ममात्रात् इति ज्ञानं विवेकबुद्धिः । किम् अतः भवति तत् आह - मच्चित्तः इति । भीत्यापि प्रवर्तेत इति मन्वानः विपर्यये दोषम् आह - अथ चेदिति
॥ ५८ ॥ 【भाष्यम्】 【भाष्यम्】 स्वातन्त्र्ये सति भीतेः अवकाशः नास्ति इति आशङ्क्य आह - इदं चेति
॥ ५९ ॥ 【भाष्यम्】 【भाष्यम्】 इतश्च त्वया युद्धात् न वैमुख्यं कर्तुम् उचितम् इत्याह - यस्माच्चेति । स्वभावजेन स्वेन कर्मणा निबद्धः त्वम् इति सम्बन्धः
॥ ६० ॥ 【भाष्यम्】 【भाष्यम्】 अर्जुनशब्दस्य उक्तार्थत्वे श्रुतिम् उदाहरति - अहश्चेति । ‘अहश्च कृष्णम् अहरर्जुनं च विवर्तेते रजसी वेद्याभिः । ‘ इत्यत्र किञ्चित् अहः तावत् कृष्णं - अस्वच्छं कलुषितमिव लक्ष्यते, किञ्चित् पुनः अहः अर्जुनं - अतिस्वच्छं शुद्धस्वभावम् उपलभ्यते । एवम् अर्जुनशब्दस्य शुक्लशब्दपर्यायतया प्रयोगदर्शनात् उक्तार्थत्वम् उचितम् इत्यर्थः । यन्त्रारूढानीव इति कथम् उच्यते तत्राह - इव शब्द इति । तदेव प्रपञ्चयति - यथेति ।
दारुमयानि यन्त्राणि यथा लौकिकः मायावी मायया भ्रामयन् वर्तते, तथा ईश्वरोऽपि सर्वाणि भूतानि भ्रामयन्नेव हृदये तिष्ठति इत्यर्थः ॥ ६१ ॥ 【भाष्यम्】 【भाष्यम्】 इतोऽपि त्वया युद्धं कर्तव्यमेव, इत्याह - यस्मादिति । ईश्वरः सर्वाणि भूतानि प्रेरयति चेत् प्राप्तकैवल्यस्यापि पुरुषकारस्य आनर्थक्यम् इति आशङ्क्य आह - तमेवेति । सर्वात्मना - मनोवृत्त्या वाचा कर्मणा च इत्यर्थः । ईश्वरस्य अनुग्रहात् तत्त्वज्ञानोत्पत्तिपर्यन्तात् इति शेषः । मुक्ताः तिष्ठन्ति अस्मिन् इति स्थानम्
॥ ६२ ॥ 【भाष्यम्】 【भाष्यम्】 शास्त्रम् उपसंहर्तुम् इच्छन् आह - इति ते ज्ञानमिति । ज्ञानं - करणव्युत्पत्त्या गीताशास्त्रीं, यथा इच्छसि, तथा कुरु, ज्ञानं कर्म वा यत् इष्टं तत् अनुतिष्ठ इत्यर्थः
॥ ६३ ॥ 【भाष्यम्】 【भाष्यम्】 किमर्थम् इच्छन् पुनः पुनः अभिदधासि इति आशङ्क्य आह - न भयादिति । हितमिति साधारणनिर्देशे, कथं परमम् इत्यादिविशेषणम् इति आशङ्क्य आह - तद्धीति
॥ ६४ ॥ 【भाष्यम्】 【भाष्यम्】 गीताशास्त्रस्य पौर्वापर्येण विमर्शनद्वारा तात्पर्यार्थं प्रतिपत्तुम् असमर्थं प्रति आह - भूयोऽपीति । उत्तरार्धं व्याचष्टे - तत्रेति । एवम् उक्तया रीत्या वर्तमानः त्वं तस्मिन्नेव वासुदेवे भगवति अर्पितसर्वभावः मामेव आगमिष्यसि इति सम्बन्धः । सत्यप्रतिज्ञाकरणे हेतुम् आह - यत इति । इदानीं वाक्यार्थं श्रेयोऽथिनां प्रवृत्त्युपयोगित्वेन सङ्गृह्णाति - एवमिति ।
॥ ६५ ॥ 【भाष्यम्】 【भाष्यम्】 तदेव प्रश्नद्वारा विवृणोति - किं तदित्यादिना । धर्मविशेषणात् अधर्मानुज्ञां वारयति - धर्मेति । ज्ञाननिष्ठेन मुमुक्षुणा धर्माधर्मयोः त्याज्यत्वे श्रुतिस्मृती उदाहरति - नाविरत इति । ‘मामेकं’ इत्यादेः तात्पर्यम् आह - न मत्तः अन्यदिति । अर्जुनस्य क्षत्रियत्वात् उक्तसंन्यासद्वारा ज्ञाननिष्ठायां मुख्यानधिकारेऽपि तं पुरस्कृत्य अधिकारिभ्यः तस्य उपदिदिक्षितत्वात् अविरोधम् अभिप्रेत्य आह - अहं त्वेति । उक्तेऽर्थे दाशमिकं वाक्यम् अनुकूलयति - उक्तं चेति । ईश्वरस्य त्वदीयबन्धनिरसनद्वारा त्वत्पालयितृत्वात् न ते शोकावकाशः अस्ति इत्याह - अत इति पूर्वापरालोचनातः गीताशास्त्रं व्याख्याय उपसंहृत्य, तत्तात्पर्यार्थं निर्धारितम् अपि विचारद्वारा निर्धारयितुं विचारम् अवतारयति - अस्मिन्निति । किंशब्दार्थमेव त्रेधा विभजते - ज्ञानमिति । निमित्ताभावे संशयस्य आभासत्वात् न निरस्यतेति मत्वा पृच्छति - कुत इति । तत्तदर्थावद्योतकानेकवाक्यदर्शनं तन्निमित्तम् इत्याह - यज्ज्ञात्वेति । कर्मणाम् अवश्यकर्तव्यत्वोपलम्भात् तेभ्योऽपि निःश्रेयसप्राप्तिः भाति इत्याह - कर्मण्येवेति । तथापि समुच्चप्रापकं नास्ति इति आशङ्क्य, आह - एवमिति । सत्यां सामग्र्यां कार्यम् अवश्यंभावि इति उपसंहरति - इति भवेदिति । सन्दिग्धं सफलं च विचार्यम् इति स्थितेः, असति फले सन्दिग्धमपि न विचार्यम् इति बुद्ध्या पृच्छति - किं पुनरिति । प्रत्येकं ज्ञानकर्मणोः समुच्चितयोर्वा मुक्तिं प्रति परमसाधनता इति अवधारणमेव विचारफलमिति परिहरति - नन्विति । सन्देहप्रयोजनयोः विचारप्रयोजकयोः भावात् विचारद्वारा परममुक्तिसाधनं निर्धारणीयम् इति निगमयति - अत इति । एवं विचारम् अवतार्य सिद्धान्तं सङ्गृह्णाति - आत्मेति । सङ्ग्रहवाक्यं विवृण्वन् आदौ आत्मज्ञानापोह्याम् अविद्यां दर्शयति- क्रियेति । आश्रयोक्त्या तदनादित्वम् आह - आत्मनीति । तमेव अविद्याम् अनाद्यविद्योत्थाम् अनर्थात्मिकां प्रपञ्चयति - ममेति । अनाद्यविद्याकार्यत्वात् प्रवाहरूपेण अनादित्वम् अस्याः विवक्षित्वा विशिनष्टि - अनादीति । तत्र कारणाविद्यानिवर्तकत्वम् आत्मज्ञानस्य उपन्यस्यति- अस्या इति । ननु न इदम् उत्पन्नं ज्ञानं निवर्तयति, अविरोधेन उत्पन्नत्वात् । न च अनुत्पन्नम् , अलब्धात्मकस्य अर्थक्रियाकारित्वाभावत् । तत्र आह - उत्पद्यमानम् इति । कथं तस्य कारणाविद्यानिवर्तकत्वम् इति आशङक्य कार्याविद्यानिवर्तकत्वदृष्टेः इत्याह - कर्मेति । आत्मज्ञानस्य इत्यादिसङ्ग्रहवाक्ये तुशब्दद्योत्यविशेषाभावात् तदानर्थक्यम् आशङ्क्य, आह - तुशब्द इति । पक्षद्वयव्यावर्तकत्वम् एव अस्य स्फुटयति - नेत्यादिना । इतश्च कर्मासाध्यता मुक्तेः इत्याह - अकार्यत्वाच्चेति । ‘एष नित्यो महिमा’ इति श्रुतेः नित्यत्वेन मोक्षस्य अकार्यत्वात् न तत्र हेत्वपेक्षा इति उपपादयति - न हीति । ज्ञानेनापि मोक्षः न क्रियते चेत् , तर्हि केवलमपि ज्ञानं मुक्त्यनुपयुक्तम् इति, कुतः तस्य हेतुत्वधीः इति आशङ्कते- केवलेति । ज्ञानानर्थक्यं दूषयति - नेति । तदेव प्रपञ्चयति - अविद्येति । यत् उक्तम् अविद्यानिवर्तकज्ञानस्य कैवल्यफलावसायित्वं दृष्टम् इति, तत्र दृष्टान्तम् आह - रज्ज्वादीति । उक्ते विषये तमोनिवर्तकप्रकाशस्य कस्मिन् फले पर्यवसानम् तत्र आह- विनिवृत्तेति । प्रदीपप्रकाशस्य सर्पभ्रमनिवृत्तिद्वारा रज्जुमात्रे पर्यवसानवत् आत्मज्ञानस्यापि तदविद्यानिवृत्त्यात्मकैवल्यावसानमिति दार्ष्टान्तिकम् आह - तथेति । ज्ञात्रादीनां ज्ञाननिष्ठाहेतूनां कर्मान्तरे प्रवृत्तिसम्भवात् , कर्मसहितैव सा कैवल्यावसायिनी, इति चेत् तत्र आह - दृष्टार्थायामिति । कर्मसाहित्यं, ज्ञाननिष्ठायाः, दृष्टान्तेन साधयन् आशङ्कते - भुजीति । भुजिक्रिायाः लौकिक्याः, वैदिक्याश्च अग्निहोत्रादिक्रियायाः सहानुष्ठानवत् अग्निहोत्रादिक्रियायाः ज्ञाननिष्ठायाश्च साहित्यम् इत्यर्थः । भुजिफले तृप्त्याख्ये प्राप्तेऽपि, स्वर्गादौ च अग्निहोत्रादौ अर्थित्वदृष्टेः युक्तं तत्र साहित्यम् । न तथा मुक्तिफलज्ञाननिष्ठालाभे, स्वर्गादौ तद्धेतौ वा कर्मणि अर्थित्वम् । तेन ज्ञाननिष्ठाकर्मणोः न साहित्यम् इति परिहरति - नेत्यादिना । सङ्ग्रहवाक्यं विवृणोति - कैवल्येति । ज्ञाने फलवति लब्धे, फलान्तरे तद्धेतौ च न अर्थिता, इत्यत्र दृष्ठान्तम् आह - सर्वत इति । सर्वत्र सम्प्लुतं व्याप्तम् उदकम् इति समु्द्रोक्तिः । तत्फलं स्नानादि । तस्मिन् प्राप्ते, न तडागादिनिर्माणक्रियायां, तदधीने च स्नानादौ कस्यचित् अर्थित्वम् , तथा प्रकृतेऽपि, इत्यर्थः । निरतिशयफले ज्ञाने लब्धे, सातिशयफले कर्मणि न अर्थित्वम् इत्येतत् दृष्टान्तेन स्फुटयति- न हीति । कर्मणः सातिशयफलत्वम् उक्तम् उपजीव्य फलितम् आह- तस्मान्नेति । ज्ञानकर्मणोः साहित्यासम्भवमपि पूर्वोक्तं निगमयति - न चेति । न हि प्रकाशतमसोरिव मिथः विरुद्धयोः तयोः साक्षात् एकस्मिन् फले साहित्यम् इत्यर्थः । ननु ज्ञानमेव मोक्षं साधयत् आत्मसहायत्वेन कर्म अपेक्षते, करणस्य उपकरणापेक्षत्वात् । तत्र आह - नापीति । ज्ञानम् उत्पत्तौ यज्ञाद्यपेक्षमपि, न उत्पन्नं फले तदपेक्षम् । स्वोत्पत्तिनान्तरीयकत्वेन मुक्तेः तन्मात्रायत्तत्वात् इत्यर्थः । यत् उक्तम् इतिकर्तव्यत्वेन ज्ञानं कर्मापेक्षम् इति, तत्र आह - अविद्येति । ज्ञानस्य अज्ञाननिवर्तकत्वात् , तत्र कर्मणः विरुद्धतया सहकारित्वायोगात् न फले तदपेक्षा इत्यर्थः । कर्मणोऽपि ज्ञानवत् अज्ञाननिवर्तकत्वे कुतः विरुद्धता इति आशङ्क्य, आह - न हीति । केवलस्य समुच्चितस्य वा कर्मंणः मोक्षे साक्षात् अनन्वये फलितम् आह - अत इति । केवलं ज्ञानं मुक्तिसाधनम् इति उक्तम् । तत् निषेधयन् आशङ्कते - नेत्यादिना । निषेध्यम् अनूद्य नञर्थम् आह - यत्तावदिति । नित्यानुष्ठानस्य आवश्यकत्वात् न केवलज्ञानस्य कैवल्यहेतुता इत्यर्थः । कैवल्यस्य च नित्यत्वात् इत्यस्य व्यावर्त्यं दर्शयति - नन्विति । यदि नित्यनैमित्तिककर्माणि श्रौतानि, अकरणे प्रत्यवायकारीणि अवश्यानुष्ठेयानि, एवं तर्हि तेभ्यः समुच्चितेभ्यः असमुच्चितेभ्यश्च मोक्षः न इति उक्तत्वात् केवलज्ञानस्य च अतद्धेतुत्वात् अनिबन्धना मुक्तिः न सिध्येत् इत्यर्थः । कैवल्यस्य च इत्यादि व्याकुर्वन् अनिर्मोक्षप्रसङ्गं प्रत्यादिशति- नैष दोष इति । मुक्तेः नित्यत्वेन अयत्नसिद्धेः न तदभावशङ्का इत्युक्तं प्रपञ्चयति - नित्यानामिति । काम्यकर्मवशात् इष्टशरीरापत्तिं शङ्कित्वा उक्तम् - काम्यानां चेति । आरब्धकर्मवशात् तर्हि देहान्तरं न इत्याह - वर्तमानेति । तर्हि देहान्तरं शेषकर्मणा स्यात् , इति आशङ्क्य कर्माशयस्य ऐकभविकत्वात् न इत्याह - पतितेऽस्मिन् इति । रागादिना कर्मान्तरं, ततः देहान्तरं च भविष्यति इति आशङ्क्य आह - रागादीनां चेति । आत्मनः स्वरूपावस्थानम् इति सम्बन्धः । अतीतासङ्ख्यजन्मभेदेषु अर्जितस्य कर्मणः नानाफलस्य अनारब्धस्य भोगेन विना अक्षयात् , ततः देहान्तरारम्भात् , ऐकभविकत्वस्य अप्रामाणिकत्वात् न मुक्तेः अयत्नसिद्धता इति चोदयति - अतिक्रान्तेति । न उक्तकर्मनिमित्तं देहान्तरं शङ्कितव्यम् इत्याह - नेति । नित्यनैमित्तिककर्माणि श्रौतानि अवश्यम् अनुष्ठेयानि । तदनुष्ठाने च महान् आयासः । ततः दुःखोपभोगः । तस्य उक्तानारब्धकर्मफलभोगत्वोपगमात् न ततः देहान्तरम् इत्याह- नित्येति । नित्यादिना दुरितनिवृत्तावपि अविरोधात् न सुकृतनिवृत्तिः, ततः देहान्तरम् इति आशङ्क्य, सुकृतस्य नित्यादेः अन्यत्वे अनारब्धत्वे च, न्यायविरुद्धस्य तस्य असिद्धत्वात् ततः देहान्तरायोगात् नित्यादेः अनन्यत्वे च न तस्य फलान्तरम् इति मत्वा, यथा प्रायश्चित्तम् उपात्तदुरितनिबर्हणार्थं, न फलान्तरापेक्षं, तथा इदं सर्वमपि नित्यादिकर्म उपात्तपापनिराकरणार्थं तस्मिन्नेव पर्यवस्यत् न देहान्तरारम्भकम् इति पक्षान्तरम् आह - प्रायश्चित्तवदिति । तथापि प्रारब्धवशादेव देहान्तरं शङ्क्यते, नानाजन्मारम्भकाणामपि तेषां यावदधिकारन्यायेन सम्भवात् , इति आशङ्क्य आह - आरब्धानां चेति । पूर्वार्जितकर्मणाम् एवं क्षीणत्वेऽपि, कानिचित् अपूर्वकर्माणि देहान्तरम् आरभेरन् इति आशङ्क्य आह - अपूर्वाणां चेति । विना ज्ञानं कर्मणैव मुक्तिः इति पक्षं श्रुत्यवष्टम्भेन निराचष्ठे- नेत्यादिना । विद्यते अयनाय इति श्रुतेः इति सम्बन्धः । एवकारार्थं विवृण्वन् नेत्यादिभागं व्याकरोति - अन्यइति । “यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ।“ इति श्रुतिम् अर्थतः अनुवदति - चर्मवदिति । श्रौतार्थे स्मृतिं संवादयति - ज्ञानादिति । किञ्च त्वदीयन्यायस्य अनुग्राह्यमानहीनत्वेन आभासतया पुण्यकर्मणाम् अनारब्धफलानां क्षयाभावे देहान्तरारम्भसम्भावत् न ज्ञानं विना मुक्तिः इत्याह - अनारब्धेति । तथाविधानां कर्मणां नास्ति सम्भावना इति आशङ्क्य अह - यथेति । अनारब्धफलपुण्यकर्माभावेऽपि कथं मोक्षानुपपत्तिः इति तत्र आह - तेषां चेति । इतश्च कर्मक्षयानुपपत्त्या मोक्षानुपपत्तिः, इति तत्र आह - धर्मेति । ‘कर्मणा पितृलोकः’ (बृ. उ. १-५-१६) इति श्रुतिम् आश्रित्य कर्माक्षये हेत्वन्तरम् आह - नित्यानामिति । स्मृत्यापि यथोक्तम् अर्थं समर्थयति - वर्णा इति । प्रेत्य कर्मफलम् अनुभूय, ततः शेषेण विशिष्टजात्यादिभाजः जन्म प्रतिपद्यन्ते इति एतदादिपदार्थः । यत्तु नित्यानुष्ठानायासदुःखभोगस्य तत्फलभोगत्वम् इति तत् इदानीम् अनुवदति- ये त्विति । नित्यानि अनुष्ठीयमानानि आयासपर्यन्तानि इति शेषः । तथापि नित्यानां काम्यानामिव स्वरूपातिरिक्तं फलम् आशङ्क्य विध्युद्देशे तदश्रवणात् , मैवम् इत्याह - न त्विति । विध्युद्देशे फलाश्रुतौ तत्कामायाः निमित्तस्य अभावात् न नित्यानि विधीयेरन् इति आशङ्क्य आह - जीवनादीति । न नित्यानां विध्यसिद्धिः इति शेषः । अनुभाषितं दूषयति- नेत्यादिना । तदेव विवृण्वन् निषेध्यम् अनूद्य नञर्थम् आह- यदुक्तमिति । अप्रवृत्तानाम् इत्यादिहेतुं प्रपञ्चयति - न हीति । कर्मान्तरारब्धेऽपि देहे दुरितफलं नित्यानुष्ठानायासदुःखं भुज्यतां का अनुपपत्तिः इति आशङ्क्य आह - अन्यथेति । यत् उक्तं दुःखफलविशेषानुपपत्तिश्च स्यात् इति, तत् उपपादयति - तस्येति । सम्भावितानि तावत् अनन्तानि सञ्चितानि दुरितानि । तानि च नानादुःखफलानि । यदि तानि नित्यानुष्ठानायासरूपं दुःखं, तन्मात्रफलानि कल्प्येरन् , तदा तेषु एवं कल्प्यमानेषु सत्सु, नित्यस्य अनुष्ठितस्य आयासम् आसादयतः यः दुरतिकृतः दुःखविशेषः न तत्फलं दुरितफलानां दुःखानां बहुत्वात् , अतः नित्यं कर्म यथाविशेषितं दुरितकृतदुःखविशेषफलकम् इति अयुक्तम् इत्यर्थः । किञ्च नित्यानुष्ठानायासदुःखमात्रफलानि चेत् दुरितानि कल्प्यन्ते, तदा द्वन्द्वशब्दितरागादिबाधस्य रोगादिबाधायाश्च दुरितनिमित्तत्वानुपपत्तेः, सुकृतकृतत्वस्य च असम्भवात् अनुपपत्तिरेव उदीरितबाधायाः स्यात् इत्याह - द्वन्द्वेति । इतश्च नित्यानुष्ठानायासदुःखमेव दुरितफलम् इति अयुक्तम् इत्याह - नित्येति । दुःखमिति न शक्यते कल्पयितुम् इति पूर्वेण सम्बन्धः । यदि तदेव तत्फलं, न तर्हि शिरसा पाषाणवहनादिदुःखं दुरितकृतं, न च तत्कारणं सुकृतं, दुःखस्य अतत्कार्यत्वत् , अतः तत् आकस्मिकं स्यात् इत्यर्थः । नित्यानुष्ठानायासदुःखम् उपात्तदुरितफलम् इति एतत् अप्रकृतत्वाच्च अयुक्तं वक्तुम् इति आह - अप्रकृतं चेति । तदेव प्रपञ्चयितुं पृच्छति - कथमिति । तत्र आदौ प्रकृतम् आह - अप्रसूतेति । तथापि कथम् अस्माकम् अप्रकृतवादित्वम् तत्र अाह - तत्रेति । प्रसूतफलत्वम् अप्रसूतफलत्वम् इति प्राचीनदुरितगतविशेषानुपगमात् अविशेषेण सर्वस्यैव तस्य प्रसूतफलत्वात् नित्यानुष्ठानायासदुःखफलत्वसम्भवात् न अप्राकृतवादिता इति शङ्कते - अथेति । पूर्वोपात्तदुरितस्य अविशेषेण आरब्धफलत्वे विशेषणानर्थक्यम् इति परिहरति - ततः इति । दुरितमात्रस्य आरब्धफलत्वेन अनारब्धफलस्य तस्य उक्तफलविशेषवत्त्वानुपपत्तेः इत्यर्थः । पूर्वोपात्तदुरितम् आरब्धफलं चेत् , भोगेनैव तत्क्षयसम्भवात् तन्निवृत्त्यर्थं नित्यं कर्म न विधातव्यम् इति दोषान्तरम् आह - नित्येति । इतश्च नित्यानुष्ठानायासदुःखं न उपात्तदुरितफलम् इत्याह - किञ्चेति । तदेव स्फोरयति- श्रुतस्येति । यथा व्यायामगमनादिकृतं दुःखं न अन्यस्य दुरितस्य इष्यते, तत्फलत्वसम्भवात् , तथा नित्यस्यापि श्रुत्युक्तस्य अनुष्ठितस्य आयासपर्यन्तस्य फलान्तरानुपगमात् , अनुष्ठानायासदुःखमेव चेत् फलं, तर्हि तस्मादेव तद्दर्शनात् तस्य न दुरितफलत्वं कल्प्यं, नित्यफलत्वसम्भवात् इत्यर्थः । दुःखफलत्वे नित्यानाम् अननुष्ठानमेव श्रेयः स्यात् इति आशङ्क्य आह - जीवनादिति । नित्यानां दुरितफलत्वानुपपत्तौ हेत्वन्तरम् आह - प्रायश्चित्तवदिति । दृष्टान्तं प्रपञ्चयति - यस्मिन्निति । तथा जीवनादिनिमित्ते विहितानां नित्यानां दुरितफलत्वासिद्धिः इति शेषः । सत्यं प्रायश्चित्तं न निमित्तस्य पापस्य फलम् । किन्तु तदनुष्ठानायासदुःखं तस्य पापस्य फलम् इति शङ्कते - अथेति । प्रायश्चित्तानुष्ठानायासदुःखस्य निमित्तभूतपापफलत्वे, जीवनादिनिमित्तनित्याद्यनुष्ठानायासदुःखमपि जीवनादेरेव फलं स्यात् , न उपात्तदुरितस्य, इति परिहरति - जीवनादीति । प्रायश्चित्तदुःखस्य तन्निमित्तपापफलत्ववत् जीवनादिनिमित्तकर्मकृतमपि दुःखं जीवनादिफलम् इति अत्र हेतुम् आह - नित्येति । इतश्च नित्यानुष्ठानायासदुःखमेव उपात्तदुरितफलम् इति अशक्यं वक्तुम् इति आह - किञ्चेति । काम्यानुष्ठानायासदुःखमपि दुरितफलम् इति उपगमात् प्रसङ्गस्य इष्टत्वम् आशङ्क्य आह - तथाचेति । विहितानि तावत् नित्यानि । न च तेषु फलं श्रुतम् । न च विना फलं विधिः । तेन दुरितनिबर्हणार्थानि नित्यानि, इति अर्थापत्त्या कल्प्यते । न च सा युक्ता । काम्यानुष्ठानादपि दुरितनिवृत्तिसम्भवात् इत्यर्थः । किञ्च नित्यानि अनुष्ठानायासातिरिक्तफलानि, विहितत्वात् , काम्यवत् , इति अनुमानात् न तेषां दुरितनिवृत्त्यर्थता इति आह - एवमिति । काम्यादिकर्म दृष्टान्तयितुम् एवम् इत्युक्तम् । स्वोक्तिव्याघाताच्च नित्यानुष्ठानात् दुरितफलभोगोक्तिः अयुक्ता इत्याह - विरोधाच्चेति । तदेव प्रपञ्चयति - विरुद्धं चेति । इदंशब्दार्थमेव विशदयति - नित्येति । अन्यस्य कर्मणः दुरितस्य इति यावत् । स एवेति । यदनन्तरं यत् भवति, तत् तस्य कार्यम् इति नियमात् इत्यर्थः । इतश्च नित्यानुष्ठाने दुरितफलभोगः न सिध्यति इति आह - किञ्चेति । काम्यानुष्ठानस्य नित्यानुष्ठानस्य च यौगपद्यात् नित्यानुष्ठानायासदुःखेन दुरितफलभोगवत् काम्यफलस्यापि भुक्तत्वसम्भवात् इति हेतुम् आह - तत्तन्त्रत्वादिति । नित्यकाम्यानुष्ठानयोः यौगपद्येऽपि, नित्यानुष्ठानायासदुःखात् अन्यदेव काम्यानुष्ठानफलं, श्रुतत्वात् इति शङ्कते - अथेति । काम्यानुष्ठानफलं नित्यानुष्ठानायासदुःखात् भिन्नं चेत् , तर्हि काम्यानुष्ठानायासदुःखं नित्यानुष्ठानायासदुःखं च मिथः भिन्नं स्यात् इत्याह - तदनुष्ठानेति । प्रसङ्गस्य इष्टत्वम् आशङ्क्य निराचष्टे - न चेति । दृष्टविरोधमेव स्पष्टयति - न हीति । आत्मज्ञानवत् अग्निहोत्रादीनां मोक्षे साक्षात् अन्वयः न इत्यत्र अऩ्यदपि कारणम् अस्ति इत्याह - किञ्चान्यदिति । तदेव कारणं विवृणोति - अविहितमिति । यत् कर्म मर्दनभोजनादि, तत् न शास्त्रेण विहितं निषिद्धं वा, तत् अनन्तरफलं, तथा अनुभावत् इत्यर्थः । शास्त्रीयं कर्म तु न अनन्तरफलं, आनन्तर्यस्य अचोदितत्वात् । अतः ज्ञाने दृष्टफले न अदृष्टफलं कर्म सहकारि भवति नापि स्वयमेव दृष्टफले मोक्षे कर्म प्रवृत्तिक्षमम् , इति विवक्षित्वा आह - न त्विति । शास्त्रीयस्य अग्निहोत्रादेरपि फलानन्तर्ये स्वर्गादीनाम् अनन्तरम् अनुपलब्धिः विरुद्ध्येत । ततः तेषु अदृष्टेऽपि तथाविधफलापेक्षया प्रवृत्तिः अग्निहोत्रादिषु न स्यात् इत्याह - तदेति । किञ्च नित्यानाम् अग्निहोत्रादीनां न अदृष्टं फलं, तेषामेव काम्यानां तादृक् फलम् , न च हेतुं विना अयं विभागः भावी, इत्याह - अग्निहोत्रादीनामिति । फलकामित्वमात्रेणेति । न स्यात् इति पूर्वेण सम्बन्धः । यानि नित्यानि अग्निहोत्रादीनि, यानि च काम्यानि, तेषाम् उभयेषामेव कर्मस्वरूपविशेषाभावेऽपि नित्यानां तेषाम् अनुष्ठानायासदुःखमात्रेण क्षयः, न फलान्तरम् अस्ति । तेषामेव काम्यानाम् अङ्गाद्याधिक्याभावेऽपि फलकामित्वम् अधिकारिणि अस्ति इति एतावन्मात्रेण स्वर्गादिमहाफलत्वम् इति अयं विभागः न प्रमाणवान् इत्यर्थः । उक्तविभागायोगे फलितम् आह- तस्मान्नेति । काम्यवत् नित्यानामपि पितृलोकाद्यदृष्टफलवत्त्वे दुरितनिवृत्त्यर्थत्वायोगात् तादर्थ्येन आत्मविद्यैव अभ्युपगन्तव्या इत्याह - अतश्चेति । शुभाशुभात्मकं कर्म सर्वम् अविद्यापूर्वकं चेत् अशेषतः तर्हि तस्य क्षयकारणं विद्या इति उपपद्यते । न तु सर्वं कर्म अविद्यापूर्वकम् इति सिद्धम् , इति आशङ्क्य आह – अविद्येति । तत्र हिशब्दद्योतितां युक्तिं दर्शयति - तथेति । इतश्च अविद्वद्विषयं कर्म इति आह - अविद्वदिति । अधिकारिभेदेन निष्ठाद्वयम् इत्यत्र वाक्योपक्रमम् अनुकूलयन् , आत्मनि कर्तृत्वं कर्मत्वं च आरोपयन् , न जानाति आत्मानम् इति वदता कर्म अज्ञानमूलम् इति दर्शितम् इति आह - उभाविति । आत्मानं याथार्थ्येन जानन् कर्तृत्वादिरहितः भवति इति ब्रुवता, कर्मसंन्यासे ज्ञानवतः अधिकारित्वं सूचितम् इति आह - वेदेति । निष्ठाद्वयम् अधिकारिभेदेन बोद्धव्यम् इति अत्रैव वाक्यन्तरम् आह - ज्ञानेति । ‘न बुद्धिभेदं जनयेत् ‘ इत्यत्र च अविद्यामूलत्वं कर्मणः सूचयता कर्मनिष्ठा अविद्बद्विषया अनुमोदिता इत्याह - अज्ञानामिति । यत् उक्तं विद्वद्विषया संन्यासपूर्वेिका ज्ञाननिष्ठा इति, तत्र ‘तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । ‘ इत्यादि वाक्यम् उदाहरति - तत्त्ववित्त्विति । तत्रैव वाक्यान्तरं पठति - सर्वेति । विदुषः ज्ञाननष्ठा इत्यत्रैव पाञ्चमिकं वाक्यान्तरम् आह- नैवेति । तत्रैव अर्थसिद्धम् अर्थं कथयति - अज्ञ इति । मन्यते इति सम्बन्धः । अज्ञस्य चित्तशुद्ध्यर्थङ्कर्म, शुद्धचित्तस्य कर्मसंन्यासः ज्ञानप्राप्तौ हेतुः इत्यत्र वाक्यान्तरम् आह - आरुरुक्षोरिति । यथोक्ते विभागे साप्तमिकं वाक्यम् अनुगुणम् इति आह - उदाराः इति । एवं त्रयीधर्म इत्यादि नावमिकं वाक्यम् अविद्वद्विषयं कर्म इत्यत्र प्रमाणयति - अज्ञा इति । विदुषः संन्यासपूर्विका ज्ञाननिष्ठा इति अत्रैव नावमिकं वाक्यान्तरम् आह - अनन्या इति । माम् इति एतत् व्याचष्टे- यथोक्तमिति । तेषां सततयुक्तानाम् इत्यादि दाशमिकं वाक्यं तत्रैव प्रमाणयति - ददामीति । विद्यावतामेव भगवत्प्राप्तिनिर्देशात् इतरेषां तदप्राप्तिः सूचिता इति अर्थसिद्धम् अर्थम् आह - अर्थादिति । ननु भगवत्कर्मकारिणां युक्ततमत्वात् , कर्मिणोऽपि भगवन्तं यान्ति इति आशङ्क्य आह - भगवदिति । ये मत्कर्मकृत् इत्यादिन्यायेन भगवत्कर्मकारिणः, ते यद्यपि युक्ततमाः, तथापि कर्मिणः अज्ञाः सन्तः न भगवन्तं सहसा गन्तुम् अर्हन्ति इत्यर्थः । तेषाम् अज्ञत्वे गमकं दर्शयति - उत्तरोत्तरेति । चित्तसमाधानम् आरभ्य फलत्यागपर्यन्तं पाठक्रमेण उत्तरोत्तरं हीनसाधनोपादानात् अभ्याससामर्थस्य भगवत्कर्मकारित्वाभिधानात् भगवत्कर्मकारिणाम् अज्ञत्वं विज्ञातम् इत्यर्थः । ‘ये त्वक्षरमनिर्देश्यं’ (भ. गी. १२-३) इत्यादिवाक्यावष्टम्भेन विद्वद्विषयत्वं संन्यासपूर्वकज्ञाननिष्ठायाः निर्धारयति- अनिर्देश्येति । उक्तसाधनाः तेन ते संन्यासपूर्वकज्ञाननिष्ठायाम् अधिक्रियेरन् इति शेषः । किञ्च त्रयोदशे यानि अमानित्वादीनि चतुर्दशे च प्रकाशं च प्रवृत्तिं च इत्यादीनि यानि, पञ्चदशे च यानि असङ्गत्वादीनि उक्तानि, तैः सर्वैः साधनैः सहिताः भवन्ति अनिर्देश्याक्षरोपासकाः । ततोऽपि ते ज्ञाननिष्ठायामेव अधिक्रियेरन् इत्याह - क्षेत्रेति । निष्ठाद्वयम् अधिकारिभेदेन प्रतिष्ठाप्य, ज्ञाननिष्ठानाम् अनिष्टम् इष्टं मिश्रम् इति त्रिविधं कर्मफलं न भवति, किन्तु मुक्तिरेव । कर्मनिष्ठानां तु त्रिविधं कर्मफलं न मुक्तिः, इति शास्त्रार्थविभागम् अभिप्रेतम् उपसंहरति - अधिष्ठानादीति । यत् उक्तम् अविद्याकामबीजं सर्वं कर्म इति, तत् न, शास्त्रावगतस्य कर्मणः अविद्यापूर्वकत्वानुपपत्तेः इति आक्षिपति - अविद्येति । दृष्टान्तेन समाधत्ते - नेति । तत्र अभिमतां प्रतिज्ञां विभजते - यद्यपीति । उक्तं दृष्टान्तं व्याचष्टे- यथेति । अविद्यादिमतः ब्रह्महत्यादि कर्म इत्यत्र हेतुम् आह - अन्यथेति । दार्ष्टान्तिकं गृह्णाति - तथेति । तान्यपि अविद्यादिमतः भवन्ति इति अविद्यादिपूर्वकत्वं तेषाम् एषितव्यम् इत्यर्थः । पारलौकिककर्मसु देहाद्यतिरिक्तात्मज्ञानं विना प्रवृत्त्ययोगात् , न तेषाम् अविद्यापूर्वकता इति शङ्कते - व्यतिरिक्त इति । सत्यपि व्यतिरिक्तात्मज्ञाने, पारमार्थिकात्मज्ञानाभावात् , मिथ्याज्ञानादेव नित्यादिकर्मसु प्रवृत्तेः अविद्यापूर्वकत्वं तेषाम् अप्रतिहतम् इति परिहरति- नेत्यादिना । कर्मणः चलनात्मकत्वात् न आत्मकर्तृकत्वम् । तस्य निष्क्रियत्वात् देहादिसङ्घातस्य तु सक्रियत्वात् तत्कर्तृकं कर्म युक्तम् । तथापि सङ्घाते अहमभिमानद्वारा अहं करोमि इति आत्मनः मिथ्याधीपूर्विका कर्मणि प्रवृत्तिः दृष्टा । तेन अविद्यापूर्वकत्वं तस्य युक्तम् इत्यर्थः । यदुक्तं देहादिसङ्घाते अहमभिमानस्य भिथ्याज्ञानत्वं, तत् आक्षिपति - देहादीति । अहन्धियः गौणत्वे, तत्पूर्वककर्मस्वपि गौणत्वापत्तेः, आत्मनः अनर्थाभावात् , तन्निवृत्त्यर्थं हेत्वन्वेषणं न स्यात् इति दूषयति - नेति । एतदेव प्रपञ्चयन् आदौ चोद्यं प्रपञ्चयति - आत्मीयेति । तत्र श्रुत्यवष्टम्भेन दृष्टान्तम् आह- यथेति । दर्शितश्रुतेः आत्मीये पुत्रे अहंप्रत्ययः गौणः, यथा सङ्घातेऽपि आत्मीये अहंप्रत्ययः तथा युक्तः इत्यर्थः । भेदधीपूर्वकत्वं गौणधियः लोके प्रसिद्धम् इत्याह - लोके च इति । लोकवेदानुरोधेन आत्मीये सङ्घाते अहन्धारपि गौणः स्यात् , इति दार्ष्टान्तिकम् आह - तद्वदिति । मिथ्याधियोऽपि भेदधीपूर्वकत्वसम्भवात् आत्मनि अहन्धियः मिथ्यात्वमेव किं न स्यात् इति आशङ्क्य आह- नैवायमिति । भेदधीपूर्वकत्वाभावे कथं मिथ्याधीः उदेति इति आशङ्क्य आह- मिथ्येति । अधिष्ठानारोप्ययोः विवेकाग्रहात् तदुत्पत्तिः इत्यर्थः । देहादौ अहन्धियः गौणता इति चाद्ये विवृते, तत्कार्येष्वपि इत्यादि परिहारं विवृणोति - नेत्यादिना । हेतुभागं विभजते - यथेति । सिंहः देवदत्तः इति वाक्यं, देवदत्तः सिंहः इव इति उपमया, देवदत्तं क्रौर्याद्यधिकरणं स्तोतुं प्रवृत्तम् । ‘अग्निः माणवकः’ इत्यपि वाक्यं, माणवकः अग्निः इव इति उपमया, माणवकस्य पैङ्गल्याधिकरणस्य स्तुत्यर्थमेव । न तथा ‘मनुष्यः अहं’ इति वाक्यस्य अधिकरणस्तुत्यर्थता भाति इत्यर्थः । देवदत्तमाणवकयोः अधिकरणत्वं कथम् इति आशङ्क्य आह - क्रौर्येति । किञ्च गौणशब्दं तत्प्रत्ययं च निमित्तं कृत्वा सिंहकार्यं न किञ्चित् देवदत्ते साध्यते । नापि माणवके किञ्चित् अग्निकार्यम् । मिथ्याधीकार्यं तु अनर्थम् आत्मा अनुभवति । अतः न देहादौ अहं धीः गौणी, इत्याह - न त्विति । इतोऽपि देहादौ न अहन्धीः गौणी इत्याह - गौणेति । यः देवदत्तः माणवको वा गौण्याः धियः विषयः, तं परः न एषः सिंहः, न अयम् अग्निः इति जानाति । न एवम् अविद्वान् आत्मनः सङ्घातस्य च सत्यपि भेदे, सङ्घातस्य अनात्मत्वं प्रत्येति । अतः न संङ्घाते अहंशब्दप्रत्ययौ गौणौ इत्यर्थः । सङ्घाते तयोः गौणत्वे दोषान्तरं समुच्चिनोति - तथेति । तथा सति, आत्मनि कर्तृत्वादिप्रतिभासासिद्धिः इति शेषः । गौणेन कृतं, न मुख्येन कृतम् , इति उदाहरणेन स्फुटयति - न हीति । यद्यपि देवदत्तमाणवकाभ्यां कृतं कार्यं मुख्याभ्यां सिंहाग्निभ्यां न क्रियते, तथापि देवदत्तगतक्रौर्येण मुख्यसिंहस्य, माणवकनिष्ठपैङ्गल्येन मुख्याग्नेरिव च सङ्घातगतेनापि जडत्वेन आत्मनः मुख्यस्य किञ्चित् कार्यं कृतं भविष्यति, इति आशङ्क्य आह - न चेति । देहादौ अहन्धियः गौणत्वायोगे हेत्वन्तरम् आह - स्तूयमानाविति । देवदत्तमाणवकयोः सिंहाग्निभ्यां भेदधीपूर्वकं तद्व्यापारवत्त्वाभावधीवत् आत्मनोऽपि मुख्यस्य सङ्घातात् भेदधीद्वारा तदीयव्यापारराहित्यम् आत्मनि दृष्टं स्यात् इत्यर्थः । व्यावर्त्यं दर्शयति - न पुनरिति । सङ्घाते अहन्धियः मिथ्याधीत्वेऽपि न तत्कृतम् आत्मनि कर्तृत्वं, किन्तु आत्मीयैः ज्ञानेच्छाप्रयत्नैः अस्य कर्तृत्वं वास्तवम् , इति मतम् अनुवदति - यच्चेति । ज्ञानादिकृतमपि कर्तृत्वं मिथ्याधीकृतमेव, ज्ञानादीनां मिथ्याधीकार्यत्वात् , इति दूषयति - न तेषामिति । तदेव प्रपञ्चयति - मिथ्येति । मिथ्याज्ञानं निमित्तं कृत्वा, किञ्चित् इष्टं, किञ्चित् अनिष्टम् इति आरोप्य तद्द्वारा अनुभूते तस्मिन् , प्रेप्साजिहासाभ्यां क्रियां निर्वर्त्य, तया इष्टम् अनिष्टं च फलं भुक्त्वा, तेन संस्कारेण तत्पूर्विकाः स्मृत्यादयः स्वात्मनि क्रियां कुर्वन्ति इति, युक्तं कर्तृत्वस्य मिथ्यात्वम् इत्यर्थः । अतीतानागतजन्मनोरिव वर्तमानेऽपि जन्मनि कर्तृत्वादिसंसारस्य वस्तुत्वम् आशङ्क्य आह- यथेति । विमतौ कालौ अविद्याकृतसंसारवन्तौ, कालत्वात् , वर्तमानकालवत् , इत्यर्थः । संसारस्य अविद्याकृतत्वे फलितम् आह - ततश्चेति । तस्य आविद्यत्वेन विद्यापोह्यत्वे हेत्वन्तरम् आह - अविद्येति । कुतः अस्य अविद्याकृतत्वं, धर्माधर्मकृतत्वसम्भवात् इति आशङ्क्य आह - देहादीति । आत्मनः धर्मादिकर्तृत्वस्य आविद्यत्वात् , न अविद्यां विना कर्मिणां देहाभिमानः सम्भवति । अतश्च आत्मनः सङ्घाते अहमभिमानस्य आविद्या विद्यमानता इत्यर्थः । आत्मनः देहाद्यभिमानस्य आविद्यकत्वम् अन्वयव्यतिरेकाभ्यां साधयन् , व्यतिरेकं दर्शयति - नहीति । अन्वयं दर्शयन् व्यतिरेकम् अनुवदति- अजानन्निति । पुत्रे पितुः अहन्धीवत् आत्मीये देहादौ अहन्धीः गौणी इति उक्तम् अनुवदति - यस्त्विति । तत्र दृष्टान्तश्रुतेः गौणात्मविषयत्वम् उक्तम् अङ्गीकरोति - स त्विति । तर्हि देहादावपि तथैव स्वकीये स्यात् अहन्धीः गौणी इति आशङ्क्य आह - गौणेनेति । न हि स्वकीयेन पुत्रादिना गौणात्मना पितृभोजनादिकार्यं क्रियते । तथा देहादेरपि गौणात्मत्वे, तेन कर्तृत्वादिकार्यम् आत्मनः न वास्तवं सिद्ध्यति इत्यर्थः । गौणात्मना मुख्यात्मनः नास्ति वास्तवं कार्यम् इत्यत्र दृष्टान्तम् आह- गौणेति । न हि गौणसिंहेन देवदत्तेन, मुख्यसिंहकार्यं क्रियते । नापि गौणाग्निना माणवकेन मुख्याग्निकार्यं दाहपाकादि । तथा देहादिना गौणात्मना मुख्यात्मनः न वास्तवं कार्यं कर्तृत्वादि कर्तुं शक्यम् इत्यर्थः । स्वर्गकामादिवाक्यप्रामाण्यात् , आत्मनः देहाद्यतिरेकज्ञानात् , तस्य च केवलस्य अकर्तृत्वात् , तत्कर्तव्यं कर्म गौणैरेव देहाद्यात्मभिः सम्पाद्यते । न हि सत्येव श्रौतातिरेकज्ञाने, देहादौ आत्मत्वम् आत्मनो मुख्यं युक्तम् , इति चीदयति - अदृष्टेति । न देहादीनाम् आत्मत्वं गौणं, तदीयात्मत्वस्य आविद्यत्वेन मुख्यत्वात् , अतः न गौणात्मभिः आत्मकर्तव्यं कर्म क्रियते, किन्तु मिथ्यात्मभिः, इति परिहरति - नाविद्येति । तदेव विवृण्वन् नञर्थं स्फुटयति - न च गौणाः इति । कथं तर्हि देहादिविषयात्मत्वप्रथा इति आशङ्क्य अविद्याकृता इत्यादिहेतुं विभजते - कथं तर्हीति । देहादीनाम् अनात्मनामेव सताम् आत्मत्वं मिथ्याप्रत्ययकृतम् , इत्यत्र अन्वयव्यतिरेकौ उदाहरति - तद्भाव इति । उक्ते अन्वये, शास्त्रीयसंस्कारशून्यानाम् अनुभवं प्रमाणयति - अविवेकिनाम् इति । व्यतिरेकेऽपि दर्शिते शास्त्राभिज्ञानाम् अनुभवम् अनुकूलयति - न त्विति । अन्वयव्यतिरेकाभ्याम् अनुभवानुसारिणां सिद्धम् अर्थम् उपसंहरति- तस्मादिति । तत्कृत एव देहादौ अहम्प्रत्ययः इति शेषः । किञ्च व्यवहारभूमौ भेदग्रहस्य गौणत्वव्यापकत्वात् , तस्य प्रकृते अभावात् , न देहादौ अहंशब्दप्रत्ययौ गौणौ इत्याह – पृथगिति । अदृष्टविषयचोदनाप्रामाण्यात् , कर्तुः आत्मनः व्यतिरेकावधारणात् , तस्य देहादौ अहमभिमानस्य गौणता, इत्युक्तम् अनुवदति - यत्त्विति । श्रुतिप्रामाण्यस्य अज्ञातार्थविषयत्वात् , मानान्तरसिद्धे व्यतिरिक्तात्मनि चोदनाप्रामाण्याभावात् , न तदवष्टम्भेन देहादौ आत्माभिमानस्य गौणता, इति उत्तरम् आह - न तदिति । श्रुतिप्रामाण्यस्य अदृष्टविषयत्वं स्पष्टयति - प्रत्यक्षादीति । अज्ञातार्थज्ञापकं प्रमाणम् , इति स्थितेः, न ज्ञाते श्रुतिप्रामाण्यम् , इत्याह - अदृष्टेति । अज्ञातसाध्यसाधनसम्बन्धबोधिनः शास्त्रस्य अतिरिक्तात्मनि औदासीन्ये फलितम् आह - तस्मादिति । अन्वयव्यतिरेकाभ्यां दृष्टः मिथ्याज्ञाननिमित्तः देहादिसङ्घाते अहंप्रत्ययः, तस्य इति यावत् । अन्यविषयत्वात् चोदनायाः, न अतिरिक्तात्मविषयता, इति उक्तम् । इदानाीं तद्विषयत्वाङ्गीकारेऽपि न तत् निर्वोढुं शक्यं प्रत्यक्षविरोधात् इत्याह- न हीति । अपौरुषेयायाः श्रुतेः असम्भावितदोषायाः मानान्तरविरोधेऽपि प्रामाण्यम् अप्रत्याख्येयम् , इति अभिप्रेत्य आह - यदीति । स्वार्थं बोधयन्त्याः श्रुतेः अविरोधापेक्षत्वात् , विरुद्धार्थवादित्वे, तत्परिहाराय, विवक्षितम् अर्थान्तरम् अविरुद्धं तस्याः स्वीकर्तव्यम् , विरोधे तत्प्रामाण्यानुपपत्तेः, इत्याह - तथापीति । अविरोधम् अवधार्य श्रुत्यर्थकल्पना न युक्ता, इति व्यावर्त्यम् आह - नत्विति । अविद्यावत्कर्तृकं कर्म इति त्वया उपगमात् उत्पन्नायां विद्यायाम् अविद्याभावे तदधीनकर्तुः अभावात् , अन्तरेण कर्तारम् अनुष्ठानासिद्धौ कर्मकाण्डाप्रामाण्यम् इति अध्ययनविधिविरोधः स्यात् , इति शङ्कते - कर्मण इति । कर्मकाण्डश्रुतेः विद्योदयात् पूर्वं व्यावहारिकप्रामाण्यस्य तात्त्विकप्रामाण्याभावेऽपि सम्भावत् , ब्रह्मकाण्डश्रुतेश्च तात्त्विकप्रामाण्यस्य ब्रह्मविद्याजनकत्वेन उपपन्नत्वात् न अध्ययनविधिविरोधः इति परिहरति - न ब्रह्मेति । कर्मकाण्डश्रुतेः तात्त्विकप्रामाण्याभावे, ब्रह्मकाण्डश्रुतेरपि तदसिद्धिः, अविशेषात् , इति शङ्कते - कर्मेति । उत्पन्नायाः ब्रह्मविद्यायाः बाधकाभावेन प्रमाणत्वात् , तद्धेतुश्रुतेः तात्विकं प्रामाण्यम् , इति दूषयति - न बाधकेति । ब्रह्मविद्यायाः बाधकानुपपत्तिं दृष्टान्तेन साधयति - यथेति । देहादिसङ्घातवत् इति अपेः अर्थः । लौकिकावगतेरिव आत्मावगतेरपि फलाव्यतिरेकम् उदाहरणेन स्फोरयति - यथेति । कर्मविधिश्रुतिवत् इति उक्तं दृष्टान्तं विघटयति - न चेति । अनादिकालप्रवृत्तस्वाभाविकप्रवृत्तिव्यक्तीनां प्रतिबन्धेन यागाद्यलौकिकप्रवृत्तिव्यक्तीः जनयति कर्मकाण्डश्रुतिः । तज्जननं च चित्तशुद्धिद्वारा प्रत्यगात्माभिमुख्यप्रवृत्तिम् उत्पादयति । तथा च कर्मविधिश्रुतीनां पारम्पर्येण प्रत्यगात्मज्ञानार्थत्वात् तात्त्विकप्रामाण्यसिद्धिः इत्यर्थः । ऩनु एवमपि श्रुतेः मिथ्यात्वात् धूमाभासवत् अप्रामाण्यम् , इति चेत् , न, इत्याह - मिथ्यात्वेऽपि इति । स्वरूपेण असत्यत्वेऽपि सत्योपेयद्वारा प्रामाण्यम् , इत्यत्र दृष्टान्तम् आह - यथेति । मन्त्रार्थवादेतिहासपुराणानां श्रुते अर्थे प्रामाण्याभावेऽपि शेषिविध्यनुरोधेन प्रामाण्यवत् , प्रकृतेऽपि, श्रुतेः स्वरूपेण असत्यायाः विषयसत्यतया सत्यत्वे प्रामाण्यम् अविरुद्धम् इत्यर्थः । वाक्यस्य शेषिविध्यनुरोधेन प्रामाण्यं न अलौकिकम् , इत्याह - लोकेऽपिति । कर्मकाण्डश्रुतीनाम् उक्तरीत्या परम्परया प्रामाण्येऽपि, साक्षात् प्रामाण्यम् उपेक्षितम् , इति आशङ्क्य आह - प्रकारान्तरेति । आत्मज्ञानोदयात् प्रागवस्था प्रकारान्तरम् । तत्र स्थितानां कर्मश्रुतीनाम् अज्ञातं सम्बन्धबोधकत्वेन साक्षादेव प्रामाण्यम् इष्टम् , इत्यर्थः । ज्ञानात् पूर्वं कर्मश्रुतीनां व्यावहारिकप्रामाण्ये दृष्टान्तम् आह- प्रागिति । प्रातीतिककर्तृत्वस्य आविद्यकत्वेऽपि श्रुतिप्रामाण्यम् अप्रत्यूहम् इत्युक्तम् । सम्प्रति कर्तृत्वस्य प्रकारान्तरेण पारमार्थिकत्वम् उत्थापयति - यत्त्विति । स्वव्यापाराभावे सन्निधिमात्रेण कुतः मुख्यं कर्तृत्वम् इति आशङ्क्य दृष्टान्तम् आह - यथेति । स्वयम् अयुध्यमानत्वे कथं तत्फलवत्त्वम् इति आशङ्क्य, प्रसिद्धिवशात् इत्याह - जित इति । कायिकव्यापाराभावेऽपि कर्तृत्वस्य मुख्यत्वे दृष्टान्तमाह - सेनापतिरिति । तस्यापि फलवत्त्वं राजवत् अविशिष्टम् , इत्याह - क्रियेति । अन्यकर्मणा अन्यस्य सन्निहितस्य मुख्ये कर्तृत्वे वैदिकम् उदाहरणम् आह - यथा चेति । कथम् ऋत्विजां कर्म यजमानस्य इति आशङ्क्य आह - तत्फलस्येति । स्वव्यापारादृते सन्निधेरेव अन्यव्यापारहेतोः मुख्यकर्तृत्वे दृष्टान्तान्तरम् आह- यथा वेति । क्रियां कुर्वत् कारणं कारकम् इति अङ्गीकारविगेधात् न एतत् इति दूषयति - तदसदिति । कारकविशेषविषयत्वेन अङ्गीकारोपपत्तिः इति शङ्कते - कारकमिति । स्वव्यापारम् अन्तरेण न किञ्चिदपि कारकम् इति परिहरति - न राजेति । दर्शनमेव विशदयति - राजेति । यथा राज्ञः युद्धे योधयितृत्वेन धनदानेन च मुख्यं कर्तृत्वं, तथा फलभोगेऽपि मुख्यमेव तस्य कर्तृत्वम् , इत्याह - तथेति । यत् उक्तम् , ऋत्विक्कर्म यजमानस्य इति, तत्र आह - यजमानस्यापीति । स्वव्यापारादेव मुख्यं कर्तृत्वम् इति स्थिते फलितम् आह - तस्मादिति । तदेव प्रपञ्चयति - यदीति । तर्हि सन्निधानादेव मुख्यं कर्तृत्वं राजादीनाम् उपगतम् इति न इत्याह - न तथेति । राजादीनां स्वव्यापारवत्त्वे पूर्वोक्तं सिद्धम् इत्याह - तस्मादिति । राजप्रभृतीनां सन्निधेरेव कर्तृत्वस्य गौणत्वे जयादिफलवत्त्वस्यापि सिद्धं गौणत्वम् , इत्याह - तथा चेति । तत्र पूर्वोक्तं हेतुत्वेन स्मारयति- नेति । अन्यव्यापारेण अन्यस्य मुख्यकर्तृत्वाभावे फलितम् उपसंहरति- तस्मादिति । कथं तर्हि त्वया आत्मनि कर्तृत्वादि स्वीकृतम् न हि बुद्धेः तत् इष्टम् , कर्ता शास्त्रार्थवत्त्वात् इति न्यायात् । तत्र आह - भ्रान्तीति । कर्तृत्वादि आत्मनि भ्रान्तम् इति एतत् उदाहरणेन स्फोरयति - यथेति । मिथ्याज्ञानकृतम् आत्मानि कर्तृत्वादि, इत्यत्र व्यतिरेकं दर्शयति - न चेति । उक्ताव्यतिरेकफलं कथयति - तस्मादिति । संसारभ्रमस्य अविद्याकृतत्वे सिद्धे परमप्रकृतम् उपसंहरति- इति सम्यक् इति ।
॥ ६६ ॥ 【भाष्यम्】 【भाष्यम्】 वृत्तम् अनूद्य अनन्तरश्लोकतात्पर्यम् आह- कर्मयोगेति । हिताय इति एतदेव व्याचष्ठे - संसारेति । कदाचन इति सर्वैः सम्बध्यते । प्रतिषेधसामर्थ्यसिद्धम् अर्थं कथयति- भगवतीति । अर्थसिद्धे अर्थे स्मृत्यन्तरम् अनुसृत्य मेधावित्वम् अन्तर्भावयति - तत्रेति । विकल्पदर्शनात् तेषु उक्तेषु विशेषणेषु मेधावित्वमपि प्रविशति इत्यर्थः । विकल्पपक्षे कथम् अधिकारिप्रतिपत्तिः इति, तत्राह - शुश्रूषेति । ताभ्यां युक्ताय भगवति असूयारहिताय तपस्विने वाच्यम् इति सम्बन्धः । तद्युक्ताय - शुश्रूषाभक्त्यनसूयासहिताय इत्यर्थः । तपस्वित्वं मेधावित्वं वा निरपेक्षम् अधिकारिविशेषणम् इति शङ्कां शातयति - शुश्रुषेति । भगवद्विषयासूयाराहित्ये तात्पर्यं सूचयति- भगवतीति । कस्मै तर्हि वाच्यम् एतत् इति आशङ्क्य, पूर्वोक्तसर्वगुणसम्पन्नाय, इत्याह - गुरुशुश्रूषेति ।
अनुक्तेतरविशेषणोपलक्षणार्थम् उभयग्रहणम् । मेधाविनः तपस्वित्वं न अतीव अपेक्षते । सर्वमन्यत् बाधकाभावात् अपेक्षितमेव इति भावः ॥ ६७ ॥ 【भाष्यम्】 【भाष्यम्】 शास्त्रीतात्पर्यार्थं विचारद्वारा निर्धार्य अनन्तरश्लोकम् अवतारयति - सर्वमिति । प्रकृते खलु अष्टादशाध्याये गीताशास्त्रीार्थं सर्वं प्रतिपत्तिसौकर्यार्थम् उपसंहृत्य, अन्ते च सर्वधर्मान् परित्यज्य इत्यादौ विशेषतः तस्य सङ्क्षेपेण उपसंहारं कृत्वा सम्प्रदायविधिवचनस्यावसरे सति इदानीम् इति योजना । किमिति विस्तरेण उपसंहृतः शास्त्रार्थः सङ्क्षिप्य उपसंह्रियते तत्राह - शास्त्रार्थेति । सङ्क्षेपविस्तराभ्याम् उक्तः अर्थः सर्वेषां दृढतया बुद्धिम् अधिरोहति इत्यर्थः । परमत्वं ग्रन्थस्य निरतिशयपुरुषार्थसाधनत्वम् इत्याह- परममिति । गोप्यत्वम् अस्य रहस्यार्थविषयत्वात् । यथोक्तसंवादस्य ग्रन्थतः अर्थतश्च भक्तेषु स्थापने दृष्टान्तम् आह - यथेति । मयि - वासुदेवे भगवति, अनन्यभक्ते त्वयि यथा मया ग्रन्थः अर्थतः स्थापितः, तथा मद्भक्तेषु अन्येष्वपि यः ग्रन्थम् इमं स्थापयिष्यति, तस्य इदं फलम् इति उत्तरत्र सम्बन्धः । न अभक्ताय इति भक्तेः अधिकारिविशेषणत्वोक्तेः मद्भक्तेषु इति पुनः भक्तिग्रहणम् अनर्थकम् इति आशङ्क्य आह - भक्तेरिति । शुश्रूषादिसहकारिराहित्यं केवलशब्दार्थः । यद्यपि मात्रशब्देन सूचितम् एतत् , तथापि इतरेण स्फुटीकृतम् इति अविरोधः । प्रश्नपूर्वकम् अभिधानप्रकारम् अभिनयति - कथम् इत्यादिना । भगवति भक्तिकरणप्रकारं प्रकटयति - भगवत इति । यच्छब्दापेक्षितं पूरयति - तस्येति । माम् एष्यत्येव इति अन्वयं गृहीत्वा व्याचष्ठे - मुच्यत एवेति
॥ ६८ ॥ 【भाष्यम्】 【भाष्यम्】 शास्त्रसम्प्रदायप्रवृत्त्यर्थम् उत्तरश्लोकप्रवृत्तिं दर्शयति - सम्प्रदायस्येति । यः इति अध्यापकः निर्दिश्यते । ननु सर्वेषां मुक्तिसाधनानां ध्यानस्य श्रेष्ठत्वात् , तन्निष्ठस्य मुमुक्षोः नास्ति विद्यासम्प्रदाने प्रवृत्तिः, इति तत्राह - किं चेति । इतश्च विद्यासम्प्रदानं मुमुक्षुणा यथोक्तविशेषणवते कर्तव्यम् इत्यर्थः । वर्तमानेषु मध्ये ततः अन्यः नास्त्येव प्रियकृत्तमः । नापि आतीतेषु तादृक् कश्चित् आसीत् इति शेषः । तस्मात् विद्यासम्प्रदायकर्तुः सकाशात् इत्यर्थः । ध्याननिष्ठस्य श्रेष्ठत्वेऽपि स्वसम्प्रदायप्रवक्तुः श्रेष्ठतमत्वात् उचिता विद्यासम्प्रदाने प्रवृत्तिः इति भावः
॥ ६९ ॥ 【भाष्यम्】 【भाष्यम्】 यथोक्तस्य शास्त्रस्य योऽपि अध्येता, तेन इदं कृतं स्यात् इति सम्बन्धः, तदेव आह- अध्येष्यते इति । तेन इदं कृतम् इत्यत्र इदंशब्दार्थं विशदयति - ज्ञानेति । तेन अहम् इष्टः स्याम् इति सम्बन्धः । चतुर्विधानां यज्ञानां मध्ये ज्ञानयज्ञस्य ‘श्रेयान् द्रव्यमयात् यज्ञात् ज्ञानयज्ञः’ (भ. गी. ४-३३) इति विशिष्टत्वाभिधानात् , तेन अहम् इष्टः स्याम् इति अध्ययनस्य स्तुतिः अभिमता इत्याह - विधीति । पक्षान्तरम् आह - फलेति । फलविधिमेव प्रकटयति - देवतादीति । यद्धि ज्ञानयज्ञस्य फलं कैवल्यं तेन तुल्यम् अस्य अध्येतुः सम्पद्यते । तच्च देवताद्यात्मत्वम् इत्यर्थः । कथम् अध्ययनादेव सर्वात्मत्वं फलं लभ्यते ‘तस्मात्सर्वमभवत् ‘ इति श्रुतेः । तत्राह - तेनेति । तेन अध्येत्रा ज्ञानयज्ञतुल्येन अध्ययनेन भगवान् इष्टः । तथा च तज्ज्ञानात् उक्तं फलम् अविरुद्धम् इत्यर्थः
॥ ७० ॥ 【भाष्यम्】 【भाष्यम्】 सम्प्रदायवक्तुः सर्वाधिकं फलं ‘स वक्ता विष्णुरित्युक्तो न स विश्वाधिदैवतम् । ‘इति न्यायेन उक्त्वा सम्प्रति अध्येतुः विवक्षितं फलम् आह - योऽपीति । प्रवक्तुः अध्येतुश्च फलम् उक्त्वा श्रोतुः इदानीं फलं कथयति - अथेति
॥ ७१ ॥ 【भाष्यम्】 【भाष्यम्】 तमेव व्याचष्टे - किम् एतदिति । द्वितीयं किम्पदं पूर्वस्य व्याख्यानतया सम्बध्यते । कच्चित् इति द्वितीयं प्रश्नं विभजते - किं प्रणष्ट इति । मोहप्रणाशस्य प्रसङ्गं दर्शयति - यदर्थ इति
॥ ७२ ॥ 【भाष्यम्】 【भाष्यम्】 आचार्येण शिष्याय, यावत् अज्ञानसंशयविपर्यासः, तावत् अनेकधा उपदेष्टव्यम् इति दर्शयितुं भगवन् अर्जुनं पृष्टवान् इत्याह- शिष्यस्येति । प्रष्टुः अभिप्रायं प्रकटयति - तदग्रहण इति । शिष्यश्चेत् उक्तं गृहीतुं न ईष्टे, तर्हि तं प्रति औदासीन्यम् आचार्यस्य उचितम् , तस्य मन्दबुद्धित्वात् , इति आशङ्क्य, आह - यत्नान्तरमिति । कच्चिदिति कोमलप्रश्ने । प्रेमोपदिष्टात्मज्ञानस्य अज्ञानसन्देहविपर्यासरहितस्य पृष्टस्य भगवदनुग्रहप्राप्तिकथनेन भगवन्तं परितोषयिष्यन् अर्जुनः विज्ञापितवान् इत्याह - अर्जुन इति । अज्ञानोत्थस्य अविवेकस्य नष्टत्वमेव स्पष्टयति - समस्त इति । स्वयञ्ज्योतिषि प्रतीचि ब्रह्मणि अविद्याभ्रमं विद्या अपनयति । न अविदितं प्रकाशयति इति मत्वा आह- स्मृतिश्चेति । स्मृतिलाभे किं स्यात् इति चेत् तत् आह - यस्या इति । मोहनाशे स्मृतिप्रतिलम्भे च असाधारणं कारणम् आह - त्वत्प्रसादादिति । प्रकृतेन प्रश्नप्रतिवचनेन लब्धम् अर्थं कथयति - अनेनेति । यत् उक्तं स्मृतिप्रतिलम्भात् अशेषतः हृदयग्रन्थीनां विप्रमोक्षः स्यात् इति तत्र प्रमाणम् आह - तथा चेति । ज्ञानात् अज्ञानतत्कार्यनिवृत्तौ श्रुत्यन्तरमपि संवादयति - भिद्यते इति । भगवदनुग्रहात् अज्ञानकृतमोहदाहानन्तरम् आत्मज्ञाने प्रतिलब्धे त्वदाज्ञाप्रतीक्षः अहम् इति उत्तरार्धं व्याकरोति - अथेति । तव वचनं करिष्ये अहम् इत्यत्र तात्पर्यम् आह - अहमिति ।
॥ ७३ ॥ 【भाष्यम्】 【भाष्यम्】 वासुदेवस्य - सर्वज्ञस्य, कृतार्थस्य पार्थस्य - पृथासुतस्य अर्जुनस्य महात्मनः - अक्षुद्रबुद्धेः सर्वाधिकारिगुणसम्पन्नस्य सम्यञ्चं वादं - संवादं, गुरुशिष्यभावेन प्रश्नप्रतिवचनाभिधानम् इमं - अनुक्रान्तम् अद्भुतं - विस्मयकरं, रोमाणि हृष्यन्ति पुलकीभवन्ति अनेन इति रोमहर्षणं - आह्लादकरं यथोक्तं श्रुतवान् अस्मि इति आह - इत्येवमिति
॥ ७४ ॥ 【भाष्यम्】 【भाष्यम्】 शास्त्रीार्थे समाप्ते सति, अस्याम् अवस्थायां सञ्जयवचनं कुत्र उपयुक्तम् इति तत् आह - परिसमाप्त इति । एतत्पदं संवादपरत्वात् पुल्लिङ्गत्वेन नेतव्यम् इत्याह - एतमिति । परमपुरुषार्थोपयिकत्वात् परत्वम् । परं गुह्यम् अतिशयेन गुह्यं रहस्यम् इति वा । योगः - ज्ञानं कर्म च, तदर्थत्वात् अयं संवादः योगः उक्तः । अथवा चित्तवृत्तिनिरोधस्य योगस्य अङ्गत्वात् अयं संवादः योगः इत्याह - संवादमिति । योगानाम् ईश्वरः योगेश्वरः, तदनुग्रहहेतुत्वात् योगतत्फलयोः, ततः साक्षात् - अव्यवधानेन श्रुतवान् , न परम्परया, इत्याह - योगेश्वरादिति ।
स्वयं - स्वेन परमेश्वरेण अतिरस्कृतानैश्वर्यरूपेण, कथयतः - व्याचक्षाणात् इत्यर्थः ॥ ७५ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकृष्टं संवादं कथम् अश्रौषीः इति चेत् तत्र आह - तं चेति । यथोक्तं संवादं भगवतः श्रुत्वा किम् उपेक्षसे न इत्याह - राजन्निति । पुण्यत्वं साधयति - श्रवणादपीति
॥ ७६ ॥ 【भाष्यम्】 【भाष्यम्】 यत्तु विश्वरूपाख्यं रूपं स्वगुणम् अर्जुनाय भगवान् दर्शितवान् ध्यानार्थं, तत् इदानीं स्तौति- तच्चेति
॥ ७७ ॥ 【भाष्यम्】 【भाष्यम्】 कथं सर्वेषां योगानाम् ईश्वरः भगवान् इति तत्र आह- तत्प्रभवत्वादिति । राज्ञः धृतराष्ट्रस्य स्वपुत्रेषु विजयाशां शिथिलीकृत्य, पाण्डवेषु जयप्राप्तिम् ऐकान्तिकीम् उपसंहरति - इत्येवमिति । उपायोपेयभावेन निष्ठाद्वयस्य प्रतिष्ठापितत्वात् , कर्मनिष्ठा परम्परया ज्ञाननिष्ठाहेतुः, ज्ञाननिष्ठा तु साक्षादेव मोक्षहेतुः इति शास्त्रार्थम् उपसंहर्तुम् इति इत्युक्तम्
॥ ७८ ॥ 【भाष्यम्】 【भाष्यम्】 काण्डत्रयात्मकं शास्त्रं पदवाक्यार्थगोचरम् ।
आदिमध्यान्तषट्केषु व्याख्याया गोचरीकृतम् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 सङ्क्षेपविस्तराभ्यां यो लक्षणैरुपपादितः ।
सोऽर्थोन्तिमेन सङ्क्षिप्य लक्षणेन विवक्षितः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 गीताशास्त्रमहार्णवोत्थममृतं वैकुण्ठकण्ठोद्भवं श्रीकण्ठापरनामवन्मुनिकृतं निष्ठाद्वयद्योतितम् । निष्ठा यत्र मतिप्रसादजननी साक्षात्कृतं कुर्वती
मोक्षे पर्यवसास्यति प्रतिदिनं सेवध्वमेतदुबुधाः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 प्राचामाचार्यपादानां पदवीमनुगच्छता ।
गीताभाष्ये कृता टीका टीकतां पुरुषोत्तमम् ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंस - परिव्राजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवदुगीताशाङ्करभाष्यव्याख्याने अष्टादशोऽध्यायः ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 द्वयोरपि कृष्णार्जुनयोः नरनारायणयोः संवादस्य प्रामाण्यार्थं परमम् उत्कर्षं दर्शयति - किं बहुनेति । प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः
Using this in academic work? Get formal citation
Ānandagiri (2026). Ānandagiri Ṭīkā — Gītā Bhāṣya. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/anandagiri-tika-gita-bhashya
Ānandagiri. "Ānandagiri Ṭīkā — Gītā Bhāṣya." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/anandagiri-tika-gita-bhashya.
Ānandagiri. "Ānandagiri Ṭīkā — Gītā Bhāṣya." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/anandagiri-tika-gita-bhashya.