Ānandagiri Ṭīkā — Praśna
Ānandagiri
समिद्ग्रहणं यथायोग्यं दन्तकाष्ठाद्युपहारोपलक्षणार्थम् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 तथाऽपीत्यस्य तपसेत्यतः पूर्वमन्वयः । विशेषत इत्यस्य पूर्वत्राप्यन्वयः । निष्कृष्टमर्थमाह – यद्विषय इति । अज्ञानाद्यर्थत्वाभावे हेतुमाह – प्रश्नेति ।
अत्रेतिशब्दोऽध्याहार्यः । सर्वप्रश्नानां निर्णयादज्ञानाद्यसम्भवादित्यर्थः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 परं ब्रह्मान्वेषमाणा इत्युपक्रान्तेऽस्मिन्ब्रह्मप्रकरणे प्रजापतिकर्तृकप्रजासृष्टिविषयप्रश्नप्रत्युक्त्योरसङ्गतिमाशङ्क्य प्रश्नप्रत्युक्तिरूपायाः श्रुतेस्तात्पर्यमाह – अपरविद्येति ।
तेषामसौ विरजो ब्रह्मलोक इति समुच्चितकार्यस्य ब्रह्मलोकस्याथोत्तरेणेति तद्गतेर्देवयानमार्गस्य चेह वक्ष्यमाणत्वादित्यर्थः । इदमुपलक्षणं केवलकर्मणां चेत्यपि द्रष्टव्यम् । केवलकर्मकार्यस्यापि चन्द्रलोकस्य तद्गतेः पितृयाणस्य च ’ तेषामेवैष ब्रह्मलोकः ’ ’प्रजाकामा दक्षिणं प्रतिपद्यन्ते ’ इति वक्ष्यमाणत्वादिति । यद्यपीदमपि परब्रह्मजिज्ञासावसरेऽसङ्गतमेव तथाऽपि केवलकर्मकार्यात्समुच्चितकर्मकार्याच्च विरक्तस्यैव तत्राधिकार इति ततो वैराग्यार्थमिदमुच्यते । यद्यपि मुखतः सृष्टिः प्रतीयते तथाऽपि तदुक्तौ प्रयोजनाभावात्सृष्ट्युक्तिव्याजेन परविद्याफलमेवात्रोच्यत इति भावः । प्रश्न इति प्रतिवचनं चेत्यपि द्रष्टव्यं ताभ्यामेव तदुक्तेरिति ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मै स होवाचेति प्रतिज्ञातं विशेषतो दर्शयति – तदपाकरणायेति । आद्यस्य सन्नित्यस्य प्रजाकामः सन्नित्यन्वयः । यथोक्तकारीति । ज्ञानकर्मसमुच्चयकारीत्यर्थः । तद्भावभावित इति । प्रजापतिरहं सर्वात्मेत्युपासनकालीनप्रजापतिभावनायुक्त इत्यर्थः । पूर्वकल्पीयतद्भावभावित एतत्कल्पादौ हिरण्यगर्भात्मना निर्वृतः प्रजापतिः सन्पश्चात्प्रजाकामः संस्तपो जन्मान्तरभावितं ज्ञानं श्रुतिप्रकाशितार्थविषयमतप्यतान्वालोचयच्चिन्तादिना तत्संस्कारमुद्बोध्य ज्ञानमुत्पादितवानित्यन्वयः । तत्र प्रथममादित्यचन्द्रोत्पादनेन तद्भावमापद्य पश्चाच्चन्द्रादित्यसाध्यसंवत्सरभावमापद्यैवमेव तदवयवायनद्वयमासपक्षाहोरात्रभावमापद्य ततस्तत्साध्यव्रीह्याद्यन्नभावं रेतोभावं चाऽऽपद्य तेन रेतसा प्रजाः सृजेयमित्येवं निश्चित्य प्रथमं रयिप्राणशब्दितचन्द्रसूर्यद्वन्द्वमुत्पादितवानित्याह – स एवमिति । रयिशब्देन धनवाचिना भोज्यजातं लक्षयित्वा भोज्यस्य सोमकिरणामृतयुक्तत्वात्तद्द्वारा सोमो लक्ष्यत इत्याह – रयिं चेति । एवं प्राणशब्देनापि । “अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्॥”(भ. गी. १५। १४) इति स्मृतेरग्नेः प्राणसम्बन्धादग्निर्भोक्ता लक्ष्यत इत्याह – प्राणं चेति । अग्नीषोमयोरण्डान्तर्गतत्वेनाण्डोत्पत्त्यनन्तरमुत्पत्तिरित्याशयेनाऽऽह – अण्डोत्पत्तीति । उद्यन्तं वावाऽऽदित्यमग्निरनुसमारोहतीति श्रुतेः सूर्याग्न्योरेकत्वमभिप्रेत्याग्निं सूर्यपदेनाऽऽह –
सूर्यचन्द्रमसाविति॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 रयिप्राणौ श्रुतिः स्वयमेव व्याचष्ट इत्याह – तत्राऽऽदित्य इति । प्रजापतेरेव संवत्सरादिप्रजापर्यन्तस्रष्टृत्वं वक्तुं रयिप्राणयोः संवत्सरस्रष्ट्रोः प्रजापत्युपादानत्वात्प्रजापत्यात्मत्वमाह – तदेतदेकमिति । कथमेकस्यात्ताऽन्नं चेति भेद इत्याशङ्क्य तस्यैव गुणभावविवक्षयाऽऽन्नत्वं प्राधान्यविवक्षया चात्तृत्वमिति भेद इत्याह – गुणेति । रयिप्राणयोः कथं प्रजापत्यात्मत्वमिति शङ्कते । कथमिति । तत्र रयेः सर्वात्मकत्वात्प्रजापतित्वमित्याह – रयिरिति । अमूर्तस्यापि वाय्वादेः केनचिदद्यमानत्वाद्रयित्वमित्यर्थः । ननु मूर्तामूर्तयोरत्रन्नयोरुभयोरपि रयित्वेऽन्नमेव रयिरिति कथमुक्तमित्याशङ्क्य मूर्तामूर्तत्वविभागमकृत्वा सर्वस्य गुणभावमात्रविवक्षया सर्वं रयिरित्युच्यते । यदोभे विभज्य गुणप्रधानभावेन विवक्ष्येते तदाऽमूर्तेन प्राणेन मूर्तस्याद्यमानत्वान्मूर्तस्यैव रयित्वमित्याह –
तस्मादिति ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 रयिशब्दितस्यान्नस्य प्रजापतित्वार्थं सर्वात्मत्वमुक्त्वा प्राणस्यापि तदर्थमेव सर्वात्मत्वमुच्यतेऽथाऽऽदित्य इतिवाक्येनेत्याह – तथेत्यादिना । यच्चाऽद्यं तदपि प्राणोऽतोऽत्ता प्राणोऽपि सर्वमेवेति सर्वात्मक इत्यर्थः । स्वप्रकाशेनेति । स्वकीयप्रकाशेन स्वप्रभयेत्यर्थः । अन्तर्भूतानिति । यद्यपि प्राणस्यात्तृत्वमुक्तं तथाऽपि रयिर्वा एतत्सर्वमित्यत्रामूर्तस्य प्राणस्यापि गुणभावविवक्षयाऽन्नत्वमुक्तमिति तथोक्तम् । स्वात्माभावभासरूपेष्विति । स्वात्मप्रभारूपेषु रश्मिष्वित्यर्थः । व्याप्तत्वादिति ।
सम्बद्धत्वादित्यर्थः ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 तस्य प्रत्यक्षत्वमाह – स एष इति । वैश्वानर इति । नरा जीवा विश्वे च ते नराश्च विश्वानराः स एव वैश्वानरः सर्वजीवात्मक इत्यर्थः । विश्वरूपः सर्वप्रपञ्चात्मक इति भेदः । उक्तं वस्त्विति ।
आदित्यस्योक्तं माहात्म्यमित्यर्थः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 विश्वरूपमित्यादिद्वितीयान्तानां सहस्ररश्मिरित्यादिप्रथमान्तानां सामानाधिकरण्येनान्वयायोगादध्याहारं कृत्वा वाक्यभेदेन व्याचष्टे –
स्वात्मानमित्यादिना ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 स मिथुनमुत्पादयत इत्युपक्रान्तं मिथुनमुपसंहरति – यश्चासाविति । यश्चासौ चन्द्रमा यश्चामूर्तः प्राणस्तदेकं मिथुनं सर्वं सर्वात्मकमित्यन्वयः । एतौ मे बहुधा प्रजाः करिष्यत इत्युक्तं तत्केन प्रकारेणेति पृच्छति – कथमिति । रयिप्राणयोः संवत्सरादिद्वारा प्रजास्रष्टृत्वमित्याह – उच्यत इति । तदेव मिथुनमेव संवत्सरः कालः । स च प्रजापतिः प्रजापत्यात्मकमिथुननिर्वर्त्यत्वादित्याह – तन्निर्वर्त्यत्वादिति । तदुपपादयति – चन्द्रेति । चन्द्रनिर्वर्त्यास्तिथय आदित्यनिर्वर्त्यान्यहोत्राणीति विभागः । तन्निर्वर्त्यत्वेऽपि कालस्य कथं तदात्मकतेत्याशङ्क्य कार्यकारणयोरभेदादित्याह – तदनन्यत्वादिति । न केवलं तिथ्यादिद्वारा चन्द्रादिनिर्वर्त्यत्वं संवत्सरस्य किं त्वयनद्वयद्वाराऽपीति वक्तुं तस्यायने इत्यादिवाक्यं तत्प्रश्नपूर्वकं व्याचष्टे – तत्कथमिति । चन्द्रादित्यनिर्वर्त्यत्वं कुतो हेत्वन्तरादित्यर्थः । केवलकर्मिणां लोकान्विदधद्दक्षिणेन याति । ज्ञानयुक्तकर्मवतां लोकान्विदधदुत्तरेण यातीत्यन्वयः । सवितेत्युपलक्षणं चन्द्रस्यापि । ज्येष्ठादिर्दक्षिणायनं मार्गशीर्षादिरुत्तरायणमिति श्रुतिषु प्रसिद्धेः ततश्च कर्मिणां लोकान्विधातुं तयोर्दक्षिणोत्तराभ्यां मार्गाभ्यां गमनात्तन्निमित्तत्वाच्चायनद्वयप्रसिद्धेस्तन्निर्वर्त्यत्वं तयोरयनयोरिति तद्द्वारा संवत्सरस्यापि तन्निर्वर्त्यत्वमित्यर्थः । चन्द्रादित्ययोः कथं लोकविधायकत्वमिति पृच्छति – कथमिति । चन्द्रादित्यनिर्वर्त्यदक्षिणोत्तरायणद्वारा लोकप्राप्तेः प्राप्यस्य लोकस्यापि चन्द्रादित्यात्मकत्वाच्च तयोस्तद्विधायकत्वमिति तद्ये ह वा इत्यादिवाक्येन परिहरति – तत्तत्रेति । इष्टं चेति । अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् । आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते ॥ वापीकूपतडागादि देवतायतनानि च । अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥ इति तयोर्भेदः । कृतमित्युपासत इति कृतशब्दोपरितनमितिशब्दमिष्टापूर्ते इति पूर्तशब्दोपर्याकृष्याऽऽदिशब्दपर्यायतया व्याचष्टे – इत्यादीति । दत्तमादिशब्दार्थः । कृतमेवोपासते कार्यमेवानुतिष्ठन्तीत्यर्थः । इदं च विशेषणं पुनरावृत्तौ हेतुतयोक्तम् । कृतरूपेष्ट्यादिजन्यत्वाच्चन्द्रस्यापि कृतत्वेनानित्यत्वात्पुनरावृत्तिरित्याह – कृतरूपत्वादिति । पुनरावृत्तौ मन्त्रवाक्यं प्रमाणयति –
इमं लोकमिति ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 अथेति । मार्गान्तरारम्भार्थोऽथशब्दः । प्रजापत्यात्मविषयेति । तत्तादात्म्यविषययेत्यर्थः । आदित्यमभिजयन्त इति पूर्वमन्वयार्थमुक्तमिदानीं व्याख्यानार्थमिति द्रष्टव्यम् । सामान्यमिति । समष्टिरूपमित्यर्थः । विद्यावतामिति । कर्मानधिकारिणामत एव केवलोपासनवतामित्यर्थः । कर्मिणां च ज्ञानवतामिति । समुच्चयवतामित्यर्थः । ननु केवलकर्मिणामप्यादित्यप्राप्तावपुनरावृत्तिर्भवष्यतीत्याशङ्क्य तेषामादित्यप्राप्तिरेव नास्तीति वक्तुमित्येष इति वाक्यं व्याचष्टे – इति यस्मादिति । तस्मात्तेषामादित्यप्राप्तिरनाशङ्क्येति शेषः । यद्वा तस्यायने इत्यारभ्येत्येष निरोध इत्यन्तं श्रुतिवाक्यमयनयो रयिप्राणत्वप्रतिपादनपरतया व्याख्येयम् । तथा हि । संवत्सरस्य रयिप्राणमिथुननिर्वर्त्यत्वे रयिप्राणरूपत्वं च वक्तव्यं तत्कथमिति पृच्छति – तत्कथमिति । तदवयवयोरयनयोस्तद्रूपत्वं वक्तुं तयोः प्रथमं प्रसिद्धमाह – तस्येति । प्रसिद्धिमेवाऽऽह – याभ्यामिति । एवमपि कथं तयोस्तदात्मकत्वमित्याह – कथमिति । दक्षिणायनस्य रयित्वं वक्तुं कर्मिणां रयिरूपचन्द्रनिर्वर्तकत्वमाह – तत्तत्रेति । लोकमिति । सोमरूपं शरीरमित्यर्थः । तस्य कर्मकृतत्वं पुनरावृत्त्या साधयति – कृतरूपत्वादिति । रयिरूपचन्द्रस्य दक्षिणायनद्वारा प्राप्यत्वात्तस्यायनस्य तदन्तर्भाव इति वक्तुं तस्य कर्मभिः प्राप्यत्वमाह – यस्मादिति । एवं च तस्य रयित्वं सिद्धमित्याह – एष इति । पितृयाणोपलक्षित इति । तत्प्राप्य इत्यर्थः । ततश्च तद्विशेषणस्यायनस्यापि रयित्वमित्यर्थः । इदानीमुत्तरायणस्य प्राणत्वमाह – अथेति । प्राणरूपादित्यप्रापकत्वादुत्तरायणस्य तस्यापि प्राणत्वमिति संवत्सरस्य रयिप्राणमिथुनात्मकत्वमिति तत्कार्यत्वं युक्तमिति भावः । अस्य कर्मसाध्यचन्द्रवैलक्षण्यमाह – एतद्वा इति । इतरत्सर्वं समानम् । अस्मिन्नर्थ इति ।
संवत्सरस्वरूप इत्यर्थः ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 इयं कल्पनेति । पञ्चधा कर्मसाध्यचन्द्रवैलक्षण्यकल्पनेत्यर्थः । जनयितृत्वादिति । संवत्सरात्मककालस्य सर्वजनकत्वादित्यर्थः । समानाधिकरणबहुव्रीहितया व्याख्याय व्याधिकरणबहुव्रीहिर्वेत्याह – आकरणं वेति । अवयविकरणमिति । अवयवित्वेन करणमित्यर्थः । पक्षद्वयेऽप्येक एवार्थः । द्युलोकादिति । आकाशरूपादन्तरिक्षलोकादित्यर्थः । अन्यथा स्वर्गलोकात्परस्य चतुर्थत्वेन तृतीयस्यामित्यनन्वयापत्तेः । उदकवन्तमिति । आदित्याज्जायते वृष्टिरिति स्मृतेरित्यर्थः । अन्य इत्यस्य पूर्वार्धगतेनाऽऽहुरित्यनेन संबन्धः । उ इति तुशब्दसमानार्थो निपातः । परे तु तमेव विचक्षणमाहुरित्यन्वयः । किमाहुरित्यत आह – सप्तचक्र इति । तस्मिन्विचक्षणे सप्तचक्राद्यात्मके सर्वमिदं जगदर्पितमित्याहुरित्यर्थः । मतद्वयेऽपि कीदृशोऽर्थभेद इत्यत आह – यदीति ।
पूर्वमत ऋतूनां पादत्वकल्पनया मासानामवयवत्वकल्पनयाऽऽदित्यात्मना संवत्सरः काल एवोक्तः । द्वितीये तु हेमन्तशिशिरौ पृथक्कृत्य षण्णामृतूनामरत्वकल्पनया संवत्सरस्य परिवर्तनगुणयोगेन चक्रत्वकल्पनया कालप्राधान्येन सर्वाश्रयत्वेन च स एवोक्तः । पक्षद्वयेऽपि गुणभेदेन कल्पनाभेदेन च भेदो न धर्मिभेद इत्यर्थः ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 कारणत्वे श्लोकोक्तं जगदाश्रयत्वं हेतुमाह – यस्मिन्निति । संवत्सरस्यापि मासाहोरात्ररूपव्यतिरेकेणौषध्यादिजनकत्वाभावात्तस्य मासाद्यात्मकत्वमाह – स एवेति । यथोक्तेति । संवत्सररूपो रयिप्राणमिथुनात्मक इत्यर्थः । शुक्लकृष्णयोरुभयोरपि दर्शपूर्णमासादिकर्मानुष्ठानदर्शनात्तस्मादेत ऋषय इत्यादि वाक्यमनुपपन्नमित्याशङ्क्य शुक्लस्य प्राणात्मत्वज्ञानस्तुतिपरतया व्याचष्टे – यस्मादिति । यस्मात्प्राणं सर्वमेव सर्वात्मकमेव पश्यन्ति यस्माच्च प्राणव्यतिरेकेण कृष्णपक्षस्तैर्न दृश्यते तस्मादित्यन्वयः । प्राणस्य शुक्लपक्षात्मकत्वात्कृष्णपक्षादिसर्वजगतः प्राणात्मत्वात्प्राणद्वारा कृष्णपक्षस्यापि शुक्लपक्षत्वे सति कृष्णे कुर्वन्तोऽपि प्रकाशात्मके शुक्ल एव कुर्वन्तीति शुक्लपक्षे प्राणत्वज्ञानस्य स्तुतिरित्यर्थः । एतत्स्तुत्यर्थमेव ज्ञानरहितान्निन्दति – इतरे त्विति । ये तु सर्वात्मानं प्राणं न पश्यन्त्यज्ञत्वात्तेषां शुक्लपक्षः प्राणत्वेनाज्ञायमानत्वादज्ञानात्मकः सन्कृष्णपक्षत्वमापद्यतेऽतः शुक्ले कुर्वन्तोऽप्यदर्शनात्मकत्वात्प्रकाशरहिते कृष्ण एव कुर्वन्तीति ते निन्द्यन्त इत्यर्थः । उक्तमर्थं श्रुत्यारूढं करोति –
इतर इति ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 रयिः पूर्ववदिति । रयिरन्नं चन्द्रमा इत्यर्थः । अह्नः प्राणत्वोक्तिप्रसङ्गादह्नि मैथुनं निषेधति – प्राणमिति । प्रकृतमिति ।
कुतो ह वा इमाः प्रजाः प्रजायन्त इति पृष्टमित्यर्थः । पूर्वोक्तं सर्वमेतदुपयोगितयोक्तं न तु साक्षात्प्रकृतमिति भावः ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 एवं क्रमेणेति । रयिप्राणसंवत्सरादिक्रमेण परिणम्य व्रीह्याद्यात्मना व्यवस्थितः सन्नन्नं वै प्रजापतिरन्नात्मको जातः प्रजापतिरित्यन्वयः । कथमिति । अन्नरूपत्वेऽपि तस्य कथं प्रजाजनकत्वमित्यर्थः । तत इति । भक्षितादन्नादित्यर्थः । रेत इति ।
शोणितस्याप्युपलक्षणं तुल्यत्वादिति ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 प्रजापतिव्रताचरणमात्रेण नादृष्टफलं चन्द्रलोकः प्राप्यते मूर्खाणामपि प्रसङ्गादत आह – इष्टापूर्तेति । चान्द्रमसो ब्रह्मलोक इत्यपरब्रह्मणः प्रजापतेरंशत्वाद्रयिरूपस्य चन्द्रस्य ब्रह्मलोकत्वमित्यर्थः । इष्टादिकारिणां तपआदिकमपि चन्द्रलोकप्राप्त्यर्थमपेक्षितमित्यत आह –
येषां तप इति ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 तेषामसौ विरज इत्यादिवाक्यं व्याचष्टे – यस्त्विति । उत्तरायण इति । तेन प्राप्य इत्यर्थः । प्राणात्मभावोऽपरब्रह्मतयाऽवस्थानमित्यर्थः । असौ केषां तेषामिति । तेषामसौ विरज इत्यत्र तेषामित्यनेन केषां निर्देश इति प्रश्नार्थः । न येषु जिह्ममित्यत्र जिह्मादिशब्दं व्यतिरेकप्रदर्शनेन व्याचष्टे – यथेत्यादिना । मायाग्रहणं तादृशानां दोषाणामुपलक्षणमिति वदन्वाक्यार्थं सङ्गृह्य दर्शयति – मायेत्येवमिति । भिक्षुष्विति परमहंसव्यतिरिक्तानां कुटीचकादीनां ग्रहणम् । तेषां ब्रह्मलोकादपि विरक्तत्वेन तत्रानर्थित्वात् । इतिशब्दार्थमाह –
इत्येषेति ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 प्रश्नान्तरस्य प्रथमप्रश्नेन सङ्गतिमाह – प्राणोऽत्तेति । अवधारयितव्यमिति । अत्ता विश्वस्य सत्पतिरित्यत्तृत्वस्यैषोऽग्निस्तपतीत्यारभ्यारा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् । प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायस इत्यादिना च प्रजापतित्वस्योत्तरत्र वक्ष्यमाणत्वादित्यर्थः । इदमुपलक्षणं पूर्वं गतिश्रवणेन विरक्तस्यापि चित्तैकाग्र्यं विना वक्ष्यमाणात्मज्ञानासिद्धेस्तदर्थे मन्दानां फलविशेषार्थं च प्राणोपासनार्थं प्रश्नद्वयारम्भः । तत्रापि श्रेष्ठत्वात्तृत्वप्रजापतित्वादिगुणनिर्धारणार्थं द्वितीयः प्रश्नः । तदुत्पत्त्यादिनिर्धारणपूर्वकं तदुपासनविधानार्थं तृतीयः प्रश्नः इत्यपि द्रष्टव्यम् । प्रजाशब्देन शरीरमेव गृह्यते न जीवस्तस्य प्राणधारकत्वेन तद्धार्यत्वाभावादित्याह – शरीरेति । विभक्तानामिति निर्धारणे षष्ठी । स्वमाहात्म्यख्यापनमिति ।
अवकाशदानादिकमाकाशादीनां माहात्म्यं तस्य ख्यापनं तस्य लोकान्प्रति प्रकटनं तत्प्रकाशयन्ते कुर्वन्तीत्यर्थः । पाकं पचतीतिवत् । अवकाशदानादिकं स्वस्वकार्यं सर्वलोकप्रकटनं यथा तथा कतरे कुर्वन्तीत्यर्थः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 एष देव इति । वक्ष्यमाणाभिवदनादिव्यवहारसिद्ध्यर्थं चेतनत्वं सम्भावयितुं देव इति विशेषणम् “अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्”(ब्र.सू. २।१।५) इति न्यायेनाऽऽकाशाद्यभिमानिदेवताग्रहणार्थम् । तच्च विशेषणं वाय्वादिष्वपि सर्वत्र सम्बध्यते । वाग्ग्रहणं कर्मेन्द्रियोपलक्षणार्थं चक्षुरादिग्रहणं ज्ञानेन्द्रियोपलक्षणार्थमिति मत्वाऽऽह – कर्मेन्द्रियेति । कार्यलक्षणाः शरीराकारेण परिणता आकाशादयः । करणलक्षणानीन्द्रियाणि । माहात्म्यमिति । आकाशादीनामवकाशदानादिरूपं शरीरधारणैकदेशात्मकं प्रकाश्यं स्वकार्यं प्रकाश्य सर्वलोकप्रकटं यथा तथा कृत्वाऽभिवदन्ति, अभितः सर्वतः कृत्स्नं शरीरधारणं प्रत्येकं वयमेव कुर्म इति वदन्तीत्यर्थः । बाणमिति ।
बवयोरभेदद्वाति कुत्सितं गन्धं वहतीति वा, विनाशं गच्छतीति वा देशाद्देशान्तरं गच्छतीति वा बणं बणमेव बाणं कार्यकरणसंघातं शरीरमित्यर्थः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 कथमेतदिति ।
एतदहमैवैतदित्याद्युक्तम् । एवं यथाभूतं कथमित्यर्थः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 उत्क्रान्तवानिवेति । अत्यन्तोत्क्रान्त्यभावादिवशब्दः । निरपेक्ष इति । स्वयमेवेत्यर्थः । दृष्टान्तेनेति ।
तद्यथेति वक्ष्यमाणेनेत्यर्थः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 सूर्यः सन्निति । तपतीत्यनुषङ्गः सन्तापयतीत्यर्थः । आवहप्रवहादीति ।
आवहादयः सप्त वायुगुणास्तथाभूतः सन्मेघाञ्ज्योतिश्चक्रादींश्च वहतीति शेषः । एष देवः पृथिवी सन्सर्वस्य जगतो धारयिता रयिश्चन्द्रः सन्सर्वं पुष्णातीत्यर्थः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 श्रद्धादीति । प्राणाच्छ्रद्धां खं वायुर्ज्योतिराप इत्यादिना वक्ष्यमाणषोडशकलात्मक इत्यर्थः । ब्रह्म चेति । ब्राह्मणजातिरित्यर्थः । चब्दार्थमाह – यज्ञादीति ।
अधिकृतं सर्वमेवेत्यन्वयः ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 किञ्चेति । यः प्रजापतिर्विराट्सोऽपि त्वमेवेत्यन्वयः । पितुर्गर्भे रेतोरूपेण मातुर्गर्भे पुत्ररूपेण यश्चरति पश्चात्तयोरेव प्रतिरूपः सन्सदृशः सन्यः प्रजायते स त्वमेव प्रजायस इत्यन्वयः । प्रतिशब्दार्थ उक्तः – प्रतिरूपः सन्निति । ननु प्राणस्य पुत्ररूपत्वमेवोक्तं न तु पितृमातृरूपत्वं तत्कस्मादत आह – प्रजापतित्वादेवेति । तस्य सर्वात्मत्वादित्यर्थः । निष्कृष्टार्थमाह – सर्वदेहेति । अत्रापि निष्कृष्टार्थमाह – भोक्ता हीति ।
अतस्तवैवेत्यतःशब्दाध्याहारेण योज्यम् ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 हविषां प्रापयितृतम इति । वह्निशब्दो वहनाद्वह्निरिति यौगिक इत्यर्थः । प्रथमा भवतीति । यज्ञादिदैवे कर्मणि प्रथमं नान्दीमुखश्राद्धस्यावश्यकर्तव्यत्वात्सा प्रथमेत्यर्थः । ऋष गताविति धातोर्ज्ञानार्थत्वादृषिशब्दस्य ज्ञानजनकचक्षुराद्यर्थत्वमित्यर्थः । अङ्गीरसभूतानामिति ।
प्राणाभावेऽङ्गानां शोषदर्शनात्तेषामङ्गिरसत्वमित्यर्थः । मुख्यप्राणस्याथर्वत्त्वं श्रुत्याऽभिहितं यद्यपि चक्षुरादीनामपि तदंशत्वादथर्वशब्दार्थत्वमिति भावः ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 इहेन्द्रशब्देन परमेश्वरत्वमुच्यते मघवानित्यनेन त्विन्द्र उक्त इति भेदमाह – इन्द्रः परमेश्वर इति । वीर्येण संहारसामर्थ्येनेत्यर्थः । सौम्येनेति ।
विष्ण्वादिरूपेणेत्यर्थः ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 असंस्कृत इति । संस्कारहीनो व्रात्य इति स्मृतेरित्यर्थः । अनेन स्वतःशुद्धत्वं विवक्षितमित्याह – स्वभावत एवेति । मातरिश्वेति । मातरिश्व न इत्यत्र नलोपश्छान्दस इत्यर्थः । वायोस्त्वमिति । पितेत्यनुषङ्गः । अस्मिन्व्याख्याने वायुमात्रपितृत्वादस्मदादिसर्वपितृत्वमनुक्तं स्यादत आह – अतश्चेति । अस्मदादिसर्वजनकत्वाद्वायोस्तज्जनकस्याऽऽकाशात्मनः प्राणस्य सर्वजनकत्वं सिद्धमित्यर्थः ॥१०-११ ॥ वाचि प्रतिष्ठितेति । वाच्यमानरूपा तनूः प्रतिष्ठिता । श्रोत्रे व्यानरूपा । चक्षुषि प्राणरूपा । मनसि समानरूपा । स प्राणस्तच्चक्षुः स व्यानस्तच्छ्रोत्रं सोऽपानः सा वाक्स समानस्तन्मन इति श्रुतेरित्यर्थः । उत्क्रमणेनेति ।
प्राणोत्क्रमणे सत्यपानाद्यात्मिका वागादिरूपा तनूरशिवा कार्यायोग्या स्यादित्यर्थः ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्म्य इति । ऋगादिमन्त्ररूपा ब्रह्म्यः श्रियः । ऋचः सामानि यजूंषि । सा हि श्रीरमृता सतामिति श्रुतेः । क्षात्र्यः प्रसिद्धा धनाद्यैश्वर्यरूपाः । अस्मिन्प्रश्ने निर्धारितं गुणं सङ्गृह्याऽऽह – इत्येवमिति ।
इदं वरिष्ठत्वादेरुपलक्षणम् ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 एवं प्रजापतित्वात्तृत्वादिगुणजातं निर्धार्य प्राणस्योत्पत्त्यादि निर्धारयंस्तदुपासनां विधातुं प्रश्नान्तरमवतारयति – अथेति । वैदर्भिप्रश्नानन्तरमित्यर्थः । प्राणैरिति । यैर्वागादिप्राणैराकाशादिभिश्च प्राणस्य तत्त्वमुपलब्धं तैरित्यर्थः । प्राणस्य पूर्वोक्तमहिमत्वादेवोत्पत्तिशङ्काभावात्कुत इति प्रश्नानुपपत्तिमाशङ्क्याऽऽह – अपि संहतत्वादिति । अनेकात्मकत्वात्सावयवत्वादित्यर्थः । शरीरग्रहणमिति । शरीरप्रवेश इत्यर्थः । प्रातिष्ठत इति ।
आङ्प्रश्लेषाद्दीर्घत्वम् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 विषमेति । विषमं दुर्घटं यथा तथा प्रश्नार्ह इत्यर्थः । अतिप्रश्नानिति । त्वदन्येषां प्रश्नानतिक्रान्तानन्यदीयप्रश्नागोचरान्सूक्ष्मप्रश्नान्प्रष्टव्यार्थानित्यर्थः । अतिशयेनेति ।
अपरब्रह्मापेक्षयाऽतिशयितमुख्यब्रह्मविदसि त्वमिति प्रोत्साहार्थं स्तौतीति भावः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 “दिव्यो ह्यमूर्तः पुरुषः, अक्षरात्परतः परः” (मु. उ. २ । १ । २) “एतस्माज्जायते प्राणः”(मु. उ. २ । १ । ३) इति मन्त्रावत्र संवादयितुं तद्गतविशेषणान्याह – परस्मादिति । अत्र दृष्टान्त इति । तस्यानृतत्वार्थं दृष्टान्त उच्यत इत्यर्थः । छायेति । प्रतिबिम्बादिरूपेत्यर्थः । एतस्मिन्निति । प्रकृते जनक आत्मनि ब्रह्मणीत्यर्थः । कथमायातीत्यस्योत्तरमाह – मनोकृतेनेति । संधिरार्षः । तदेव सक्त इति ।
अस्य कर्मणो मनो यस्मिन्फले निषक्तं संसक्त आसक्तः संस्तदेव फलं कर्मणा सहैतीति श्रुतौ च शरीरग्रहणं कर्मसाध्यमुक्तमित्यर्थः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मानां वा प्रविभज्येत्यस्योत्तरं दृष्टान्तेनाऽऽह – यथेति । इतरानिति ।
इतरांश्चक्षुरादीन्यथास्थानमक्ष्यादिगोलकस्थाने सन्निधत्ते सन्निधापयति । आत्मभेदान्मुख्यप्राणस्य वृत्तिभेदान्प्राणापानादीन्पाय्वादिषु नियुङ्क्त इति । अत्र श्रुत्या नेत्रादीनां चक्षुरादिस्थानानां स्पष्टत्वात्तानि नोक्तानीति द्रष्टव्यम् ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 यः कुर्वंस्तिष्ठति तं सन्निधत्ते विनियुङ्क्त इत्यर्थः । मध्य इति । प्राणापानयोर्मध्ये या नाभिस्तस्यां समानः प्रतितिष्ठतीत्यन्वयः । समानशब्दार्थमुक्तं श्रुत्यारूढं करोति – एष हीति । आत्माग्नाविति । अत्मनि शरीरेऽग्निर्जाठराग्निस्तस्मिन्नित्यर्थः । एवं हुतपदबलादन्नस्य हविष्ट्वं जाठराग्नेराहवनीयत्वं प्रक्षेपस्य होमत्वं चोक्त्वा शीर्षण्यसप्तद्वारान्निर्गतानां ज्ञानानामर्चिष्ट्वं वक्तुं तस्मादेता इति वाक्यं व्याचष्टे – तस्मादिति । प्राप्तादिति ।
अग्नेरौदर्याद्धेतोः प्राप्तपरिपाकादन्नरसादन्ननाडीद्वारा देहं प्राप्तं नाडीस्थानं हृदयं प्राप्तादन्नरसादिति शेषः । दर्शनद्वयं श्रवणद्वयं प्राणद्वयं मुखं चैकं रसनमिति सप्तार्चिषः । जाठराग्निपाकजन्यान्नरसबलेन दर्शनादीनां प्रवृत्तेस्तेषु तदर्चिष्ट्वारोप इत्यर्थः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 व्यानस्य नाडीरूपं स्थानं दर्शयितुं नाडीनामुत्पत्तिस्थानं वक्तुमाह – हृदीत्यादिना । हृदयस्य लिङ्गात्मस्थानत्वोक्तेः प्रयोजनं तु केचिद्योगिनो नाभिकन्दस्य नाड्युत्पत्तिस्थानत्वं वदन्ति तन्निराकरणं, तत्रैव लिङ्गात्मनः सञ्चरणार्था नाड्यः । नाडीभिः प्रत्यवसृप्येत्यादिश्रुतेः । ततश्च लिङ्गात्मनो हृदयस्थानत्वे तत्सञ्चारमार्गभूतनाडीनामपि तदेवोत्पत्तिस्थानमन्यथा प्रदेशान्तरस्थनाडीनां तन्मार्गत्वायोगाद्वासप्ततिसहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्त इति श्रुतेश्चेति । लिङ्गशरीरस्याऽऽत्मत्वमात्मोपाधित्वेन तद्योगादित्याह – आत्मना संयुक्त इति । यस्माल्लिङ्गात्मा हृदि वर्तते तत्सञ्चारमार्गभूतनाडीनामपि तदेव स्थानमित्याह – अत्रेति । नाडीनां शरीरविधारकत्वेन प्रसिद्धत्वं वक्तुमेतदिति विशेषणम् । तस्य स्पष्टत्वाद्भाष्ये न व्याख्यातम् । एकैकस्या नाड्याः शाखानाड्यः शतं शतं भवतीत्याह – तासामिति । ततश्च शतोत्तरमयुतं शाखानाड्य इत्यर्थः । शाखानाडीनां च प्रत्येकं द्व्यधिकसप्ततिसहस्राणि प्रतिशाखानाड्यः सन्तीत्याह – पुनरपीति । सप्ततिरितिपदस्य सङ्ख्याप्रधानत्वे सहस्राणीत्यस्य तेन सामानाधिकरण्यायोगात्षष्ठ्यन्ततया व्याचष्टे – सहस्राणामिति । प्रतिशाखेति । प्रतिशाखाभ्यो निर्गता अल्पशाखाः प्रतिशाखाः । द्वासप्ततिरित्यत्र वीप्सार्थमाह – प्रतिप्रतीति । प्रतिप्रतिनाडीशतमित्यनन्तरमेकैकस्या इत्यनुषङ्गः । तथा च प्रतिप्रतिनाडीशतमेकैकस्या नाड्याः प्रतिशाखानाडीनां द्वासप्ततिसहस्राणि भवन्तीत्यर्थः । तथा च मूलशाखाप्रतिशाखानाड्यो मिलित्वा द्वासप्ततिकोटयो द्वासप्ततिलक्षाणि दशसहस्रं च शतद्वयमेका च भवन्तीति द्रष्टव्यम् । एवं नाडीरुक्त्वा व्यानस्य तत्स्थानत्वमाह – अस्त्विति । सूक्ष्मासु नाडीषु विद्यमानस्य व्यानस्य कथं व्यापकत्वमित्याशङ्क्य नाडीनां सर्वदेहव्याप्तेस्तत्स्थस्यापि व्यानस्य तद्वारा व्याप्तिरित्याह – आदित्यादिवेति । यथाऽऽदित्याद्विनिर्गत्य रश्मयः सर्वतो गतास्तथा हृदयात्सर्वतोगामिन्यो नाड्यस्ताभिरिति योज्यम् । सामान्येन सर्वशरीरव्याप्तावपि विशेषस्थानमाह – सन्धीति । प्राणेति । उच्छ्वासनिश्वासयोः प्राणापानवृत्त्योरभावे व्यानवृत्तिरुद्भवतीत्यर्थः । वीर्यवदिति ।
अथ यः प्राणापानयोः सन्धिः स व्यान इत्युक्त्वा यानि वीर्यवन्ति कर्मणि बलवता पुरुषेण साध्यानि धनुरायमनादीनि तान्यप्राणन्ननपानन्करोतीति श्रुत्यन्तरोक्तेरित्यर्थः ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 इदानीमुदानस्य स्थानं वदन्केनोत्क्रमत इत्यस्योत्तरमाह – या त्विति । उभाभ्यां समप्रधानाभ्यामिति ।
अनेन पुण्याधिक्ये देवलोकं पापाधिक्ये नरकलोकं नयतीति पूर्वं व्याख्यातं भवति ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 कथं बाह्यमभिधत्ते कथमध्यात्ममित्यस्योत्तरमाह – आदित्य इति । या देवता प्रसिद्धेति । अग्निदेवता पृथिव्येव यस्याऽऽयतनमग्निर्लोक इति श्रुतेरग्निसम्बद्धावगमादित्यर्थः । अवष्टभ्येत्यनन्तरमध्याहारेण वाक्यं पूरयति – अध एवापकर्षणेनेति । वृत्तार्थं स्तम्भादेरूर्ध्वमुखेन निखातस्य परितो विद्यमानरज्जुभिरध एवापकर्षणेन पतनाभाववदध एवापकर्षणेन शरीरस्य पतनाभावः सिध्यतीत्यर्थः । अनुग्रहमिति । शरीरधारणलक्षणमित्यर्थः । अन्यथेति । पृथिवीदेवताया विधारणाकरणे गुरुत्वादपानेनाध आकर्षणाच्च सावकाशे भूम्यादिपतनप्रतिबन्धकाभावस्थले पतेदित्यर्थः । अन्तरा यदाकाश इति वाक्यं व्याचष्टे – यदेतदिति । यदिति क्लीबत्वं छान्दसमित्याह – य आकाश इति । मञ्चस्थवदिति । मञ्चाः क्रोशन्तीत्यत्र मञ्चशब्देन मञ्चस्था यथा लक्ष्यन्ते तथाऽऽकाशशब्देन तत्स्थो वायुर्लक्ष्यत इत्यर्थः । स समान इति । सामानाढिकर्ण्यमनुग्राह्यानुग्राहकयोरभेदोपचारादित्याह – समानमनुगृह्णान इति । एवमुत्तरत्राप्यनुग्रहे हेतुमाह – समानस्येति । शरीरान्तराकाशस्थत्वं समानस्य द्यावापृथिविव्यन्तराकाशस्थत्वं बाह्यवायोरित्यन्तराकाशस्थत्वं तयोस्तुल्यमित्यर्थः । वायुर्व्यान इत्यत्र त्वन्तराकाशस्थत्वं विशेषरहितं वायुसामान्येन समुच्चीयत इति न पूर्वाभेद इत्याह –
सामान्येनेति ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 तेजो ह वा इति वाक्यं व्याचष्टे – यद्बाह्यमिति । पूर्वमादित्यात्मकं विशेषतेज उक्तमत्र तेजःसामान्यमुच्यत इति न पौनरुक्त्यमित्याह – सामान्यं तेज इति । एवमादित्यादिना रूपेण मुख्यप्राणस्य प्राणापानसमानोदानव्यानानुग्राहकत्वोक्त्याऽध्यात्मं प्राणादिवृत्त्यनुग्राहकत्वमुक्तम् । आदित्याग्न्याकाशसामान्यवायुतेजोरूपी सन्बाह्यमधिदैवमादित्यादिकं धारयतीत्युक्तम् । तद्रूपेणावस्थानमेव तद्धारणं प्राणापानाद्यनुग्रहेण चक्षुराद्यनुग्रहोक्तेस्तद्वारा तद्ग्राह्याधिभूतविधारकत्वमुक्तम् । स प्राणस्तच्चक्षुः सोऽपानः सा वाक्स व्यानस्तच्छ्रोत्रं स समानस्तन्मनः स उदानः स वायुरिति श्रुत्यन्तरे चक्षुरादीनां प्राणाद्यात्मत्वोक्तेश्चक्षुराद्यनुग्राहकत्वोक्त्या चक्षुरादिरूपाध्यात्मविधारकत्वं चोक्तमिति कथं बाह्यमभिधत्ते कथमध्यात्ममित्यस्योत्तरमुक्तमिति द्रष्टव्यम् । तेजस उदानवाय्वनुग्राहकत्वं व्यतिरेकप्रदर्शनेन साधयति – यस्मादिति । तस्मात्तेजःस्वभाव उत्क्रान्तिकृदप्युदानवायुर्बाह्यतेजोनुगृहीतः सन्नेव शरीरे वर्तते तस्माज्जीवजीवनहेतुकर्मोपरमे बाह्यतेजोऽनुग्रहाभावेनोपशान्ततेजा मुमूर्षुर्भवतीत्यन्वयः । स्वाभाविकमिति । जाठराग्निकृतं हस्तादिना स्वशरीरस्पर्शे सत्युष्णत्वेनोपलभ्यमानं तेज इत्यर्थः । भवत्युत्पद्यत इति भवः शरीरमित्यर्थः । शरीरान्तरप्रतिपत्तिरात्मनोऽक्रियस्य न भवतीति शङ्कते – कथमिति । इन्द्रियोपाधिवशादियाह – सहेति ।
मनसि सम्पद्यमानैरिन्द्रियैः सह शरीरान्तरं प्रतिपद्यत इति पूर्वेणान्वयः ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 उक्तशरीरान्तरप्राप्तिमेवोत्क्रान्तिक्रमप्रदर्शनेन सपष्टीकर्तुं यच्चित्त इत्यादि वाक्यं तदपेक्षिताध्याहारं कुर्वन्व्याचष्टे – मरणेति । यच्चित्त इति । यदेव देवतिर्यगादिशरीरं सम्यगिति चित्ते यस्य स यच्चित्त इत्यर्थः । प्राणं प्रत्यागमनं लोकव्यवहारेण प्रथयति – तदेति । तेजसा तेजोऽनुगृहीतयोदानवृत्त्येत्यर्थः । एवम्भूतो भोक्तोदानसंयुक्तः प्राणः कं नयतीत्यपेक्षायां तमेव भोक्तारं नयतीति वदन्वाक्यार्थमाह – स एवमिति । एवकारस्य तमेवेत्यन्वयः । यथासङ्कल्पितमिति ।
कर्मज्ञानादिसाधनानुष्ठानदशायां सङ्कल्पितं मरणकाले वासनारूपेण पुनरभिव्यक्तं लोकं देवादिशरीरमित्यर्थः ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 एवं प्राणस्वरूपं निर्धार्य तदुपासनं विधत्ते – यः कश्चिदिति । उत्पत्त्यादिभिर्यथोक्तविशेषणैर्विशिष्टम् । आत्मनः प्राणो जायते, मनःकृताभ्यां धर्माधर्माभ्यां शरीरं गृह्णाति । अात्मानं च पञ्चधा विभज्य पायूपस्थयोरपानं स्वस्वरूपं प्राणं चक्षुःश्रोत्रियोः, नाभौ समानम्, नाडीसमूहे व्यानम्, उदानं च सुषुम्नायां स्थापयति । उदानेनोत्क्रामति, बाह्यैः प्राणापानव्यानसमानोदानानुग्राहकैरादित्यपृथिवीदेवताकाशवायुतेजोरूपैरधिदैवमादित्यादिकमादित्यादिकृतानुग्रहैरध्यात्मं चक्षुर्वाक्श्रोत्रमनस्त्वक्चक्षुरादिग्राह्यमधिभूतं च धारयति । स एवोदानवृत्त्या भोक्त्रा च युक्तो भोक्तारं लोकान्तरं नयति । स एव च वरिष्ठः प्रजापतिरत्ता चेत्येवं प्राणं वेदेत्यर्थः । ऐहिकफलमुक्त्वाऽऽमुष्मिकफलमाह – पतित इति । अमृतत्वं च नात्र मुख्यं किन्तु प्राणसायुज्यमेवेत्याह – प्राणेति ।
इदं तु कामिनः, निष्कामस्य तु चित्तैकाग्र्यम् । तच्छुद्धिद्वारा मुख्यमेवामृतत्वं भवतीति द्रष्टव्यम् ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 आयतिमिति ।
आयातिमित्यर्थः । ह्रस्वत्वं छान्दसम् ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 एवं कर्मविद्यागतिश्रवणेन विरक्तस्य प्राणविद्यया चित्तैकाग्र्यतच्छुद्धिमतोऽत एव साधनचतुष्टयवतो मुख्याधिकारिणः परविद्योक्त्यर्थं प्रश्नत्रयमारभते – अथ हैनमिति । पूर्वविद्ययैवामृतत्वोक्तेरुत्तरप्रश्नारम्भो व्यर्थ इत्यत आह – प्रश्नत्रयेणेति । संसारमिति । अतो न तन्मुख्यममृतत्वमित्यर्थः । तस्य संसारत्वे व्याकृतत्वं हेतुमाह – व्याकृतविषयमिति । व्याकृताश्रयं तदन्तर्गतमित्यर्थः । साध्यसाधनलक्षणमिति । साध्यसाधनसम्बन्धेन लक्ष्यतेऽभिव्यजत उत्पद्यत इति तथा । यद्वाऽपरब्रह्मणः प्राणस्य साध्यसाधनोभयात्मकत्वाद्वा तथा । तस्मादनित्यमित्यतोऽपि संसारत्वमित्यर्थः । वक्ष्यमाण आत्मा तु न तथेत्याह – असाध्येत्यादिना । अतीन्द्रियविषयमिति । इन्द्रियविषयत्वमतिक्रान्तमित्यव्याकृतमकार्यमित्यर्थः । तत्र हेतुः – अप्राणमिति । प्राणागोचरत्वेन तदात्मककर्मेन्द्रियागोचरत्वं मनोगोचरत्वेन ज्ञानेन्द्रियागोचरत्वमुक्तम् । सुखरूपतामाह – शिवमिति । निवृत्तानर्थत्वमाह – शान्तमिति । तत्र भावविकाररहितत्वं हेतुमाह – अविकृतमिति । अनेनोत्पत्तिपरिणामवृद्धयो निषिद्धाः । अक्षरमित्यपक्षयविनाशौ निषिद्धौ । उत्पत्तिनिषेधेन तदनन्तरभाव्यस्तित्वं निषिद्धम् । अत्र सर्वत्र हेतुः । सत्यमिति । कालत्रयेऽप्येकरूपमित्यर्थः । तत्र “अथ परा यया तदक्षरमधिगम्यते”(मु. उ. १ । १ । ५) इत्यादि वाक्यं मानमाह – परविद्यागम्यमिति । दिव्यो ह्यमूर्तः पुरुष इति मन्त्रमप्याह – पुरुषाख्यमिति । कथं पुरुषशब्दोदितं पूर्णत्वं बाह्याभ्यन्तरवस्तुभेदादत आह – सबाह्येति । स एव बाह्याभ्यन्तरात्मकस्तद्व्यतिरेकेण तदुभयं नास्तित्यर्थः । प्रश्नत्रयमिति । यद्यपि पञ्चमः प्रश्नोऽपरविद्याविषय एव प्रणवोपासनविषयत्वात्तथाऽपि तस्य क्रममुक्तिफलत्वेन निर्विशेषात्मन्येव सविशेषब्रह्मप्राप्तिद्वारा पर्यवसनात्सोऽपि परविषय एवेति भावः । एवं सामान्येन प्रश्नत्रयस्यापि सम्बन्धमुक्त्वा चतुर्थप्रश्नस्य प्रातिस्विकसम्बन्धमाह – तत्रेति । यस्मादित्यस्य किंलक्षणं वा तदक्षरमिति तच्छब्देनान्वयः । उक्तमिति । यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपास्तथाऽक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्तीति मन्त्रेणेत्यर्थः । एतद्विवक्षयेति । मन्त्रोक्तार्थविस्तारानुवादित्वादस्य ब्राह्मणस्येति भावः । अत्राक्षरस्वरूपस्यैव विवक्षितत्वात्तन्निर्णयार्थं कानि स्वपन्तीत्यादिप्रश्नो जागरितादिना धर्मिविशेषनिर्धारणार्थः, अन्यथा तेषामात्मधर्मत्वशङ्कायां तन्निर्विशेषत्वनिर्णयासिद्धेः । भावानां स्वरूपविभागादिविवक्षा तु ताः पुनः पुनरुदयतः प्रचरन्तीति दृष्टान्तबलाद्यत्रैकीभावस्ततो विभागेन निर्गमनमित्यक्षर एकीभूतानां पृथिव्यादिकार्यकरणानामक्षराद्विभागप्रतीतेस्तावन्मात्रेण भाष्य उक्तेति द्रष्टव्यम् । तत्राऽऽद्यप्रश्नेन जागरितस्य धर्मी पृष्टः । स्वप्ने यस्य व्यापारोपरमे जागरितं नास्ति स तस्य धर्म इति निश्चेतुं शक्यत्वात् । द्वितीयेनावस्थात्रयेऽपि शरीररक्षणं कस्य धर्म इति पृष्टम् । जाग्रतोऽनुपरतव्यापारस्य प्राणस्य देहरक्षकत्वोपपत्तेः । तृतीयेन स्वप्नस्य धर्मी पृष्टः । चतुर्थेन सुषुप्तिधर्मी, सुखमहमस्वाप्समिति सुप्तोत्थितस्य परामर्शे सुखस्य सुषुप्तिसम्बन्धावगमात् । पञ्चमप्रश्नेनावस्थात्रयविनिर्मुक्तमवस्थात्रयपर्यवसानभूमिरूपं तुरीयमक्षरं पृष्टमिति विवेकः । कार्येति । कार्यं शरीरं प्राणो वा, करणानि मनआदीनि । पदार्थानुक्त्वा वाक्यार्थं पिण्डीकृत्याऽऽह – तत्किमिति । तत्पदं पूर्वापरयोः सम्बध्यते । प्रसन्नमिति । विषयसम्पर्ककालुष्यराहित्यम् । निरायासेति । निरायासेन विक्षेपाभावमात्रेण लक्ष्यतेऽभिव्यज्यते निर्वातस्थापितदीपालोकवदनाबाधं विनाशरहितं सत्यमात्मस्वरूपमित्यर्थः । एतदिति । सुषुप्ते प्रकाशमानं सुखमहमस्वाप्समितिपरामर्शमूलभूतमित्यर्थः । तस्मिन्काल इति । यद्यपि पञ्चमेन प्रश्नेन तुरीयं पृच्छ्यते न सुषुप्तिस्तथाऽपि संसारदशायां सर्वोपाधिरहिततुरीयावस्थाभावेन विवेकत एव तस्य प्रदर्शनीयत्वात्तत्सुषुप्तावज्ञाने सत्यपीतरोपाधिराहित्येन तत्रैव सर्वोपाधिविवेककरणेन तुरीयप्रदर्शनस्य सुकरत्वात्तस्मिन्काले तुरीयप्रदर्शनार्थं सर्वसम्प्रतिष्ठोक्तेति – सम्यगेकीभूता इति । तदात्मभावप्राप्त्या विलयं गता इत्यर्थः । मधुनि रसवदिति । यथा नानापुष्परसा मधुन्येकी भवन्ति तद्वदित्यर्थः । विवेकाभावमात्रेण दृष्टान्तावुक्तौ, तत्र सर्वात्मना लयाभावादित्याह – विवेकानर्हा इति । पूर्वं विवेकानर्हाः सन्तः पञ्चात्सम्प्रतिष्ठिता इत्यर्थः । न चानेनापि प्रश्नेनाविद्यावासनाभिरविविक्तः सौषुप्त एव पृष्ट इति शङ्क्यम् । पर आत्मन्यक्षरे सम्प्रतिष्ठानादेष हि द्रष्टेत्याद्यज्ञानप्रतिबिम्बितस्य भोक्तुरपि सम्प्रतिष्ठाया अभिधास्यमानत्वादच्छायमित्यज्ञानाभावोक्तेश्च तुरीयमेव पृष्टमिति भावः । ननु कार्यकारणव्यतिरिक्ते सम्प्रतिष्ठानाधिकरणे सामान्येन कस्मिंश्चिदवगते कस्मिन्सम्प्रतिष्ठिता इति विशेषप्रश्नो घटते । न च तस्यावगतिरस्ति । न च सम्प्रतिष्ठानस्य साधिकरणत्वेन सामान्येनाधिकरणावगतिरस्तीति वाच्यम् । तत्तदुपादानानामेवाचेतनानां तदधिकरणत्वेन तदतिरिक्तस्य चेतनस्यासिद्धिरिति शङ्कते । नन्विति । दात्रं नाम सस्यादिलवणार्थः शस्त्रविशेषः । स्वात्मनीति । सोपादान इत्यर्थः । सुषुप्तपुरुषाणां करणानामिति । सुषुप्तपुरुषाणां यानि करणानि तेषामित्यर्थः । एष हि द्रष्टेत्यादिना पुरुषाणामप्येकीभावस्य वक्ष्यमाणत्वाद्वा पुरुषाणामित्युक्तम् । अस्मिन्पक्षे करणानां चेति चकारो द्रष्टव्यः । प्रष्टुः शङ्कायाः कुतः प्राप्तिरित्यन्वयः । संहतानां परार्थत्वेन व्यापृतत्वात्संहतत्वेन हेतुना परस्मिंश्चेतने सामान्येनावगते प्रष्टुर्विशेषप्रश्नो युक्त इत्याह – युक्तैव त्विति । स्वाम्यर्थानि सङ्घाताभिमान्यर्थानीत्यर्थः । आशङ्कानुरूप इति । मनसि विद्यमानाशङ्कानुरूपो वाचिकः प्रश्न इत्यर्थः । अत्र सम्प्रतिष्ठानविशिष्ट आत्मा न पृष्टः किन्तु तदुपलक्षितः केवल आत्मा पृष्ट इति व्याक्यतात्पर्यमाह – अत्र त्विति ।
भवन्तीत्यनन्तरं पृष्टमिति शेषः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 यत्त्वया पृष्टं तच्छृण्वित्यन्वयः । तस्यैवार्कस्य ता मरीचय इत्यन्वयः । विकीर्यन्त इति । दशदिक्षु क्षिप्यन्त इत्यर्थः । स्वप्नेऽपि चक्षुरादिव्यापारोपलब्धेरेकीभावोऽसिद्ध इत्याशङ्क्य वासनामयेन्द्रियव्यापरोपलब्धावपि बाह्यशब्दादिश्रवणादिव्यापाराभावेन तं साधयितुं तेनेति वाक्यं व्याख्याति – यस्मादिति । श्रोत्रादीनामेकीभावो नाम स्वस्वव्यापारं विहाय मनस्तन्त्रतयाऽवस्थानमात्रं न तु मुख्यमेकत्वं तेषां मनःप्रकृतिकत्वाभावेनाप्रकृतौ तदनुपपत्तेरित्यभिप्रेत्येवकारः प्रयुक्तः । नेयायत ।
इणो गत्यर्थस्य यङन्तस्य रूपमेतन्न गच्छतीत्यर्थः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 कानि स्वपन्तीत्यस्य सविषयाणि बाह्यकारणानि स्वपन्त्युपरमन्तेऽतस्तेषामेव जागरणं धर्म इत्युत्तरमुक्त्वा कानि जाग्रतीत्यस्योत्तरमाह – सुप्तवत्स्विति । प्राणानामग्नित्वं गौणमित्याह – अग्नय इवेति । अपानस्य गार्हपत्यत्वे यद्गार्हपत्यात्प्रणीयते प्रणयनादितीदं वाक्यं व्यवहितापि हेतुत्वेन योजयति – यस्मादिति । प्रणायनादिति पदं गार्हपत्यविशेषणमित्याह – प्रणयनो गार्हपत्य इति । तत्सदृशमाहवनीयः प्राण इति वाक्यं सादृश्याभिध्यानपूर्वं व्याचष्टे – तथेति । गार्हपत्यत्वेनोक्तेऽपानेऽन्तर्गच्छति सति बहिर्गच्छन्प्राणस्ततो निर्गच्छत इव लक्ष्यत इति प्राण आवहनीय इत्यर्थः । परित्यक्तं व्यानोऽन्वाहार्यपचन इति वाक्यमिदानीं व्याचष्टे – व्यानस्त्विति ।
छान्दोग्ये गायत्रीविद्यायां तस्य वा एतस्य हृदयस्य पञ्च देवसुषय इत्युपक्रभ्याथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रमित्यनेन व्यानस्य दक्षिणसुषितो निर्गमनमुक्तमित्यस्यानाहार्यपचनसादृश्यं दक्षिणदिक्सम्बन्धित्वं व्यानस्येति व्यानोऽन्वाहार्यपचन इत्यर्थः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 अत्र चेति । अग्निहोत्रस्य होता होमस्य कर्ता, ऋत्विगुच्यते उत्तरवाक्येनेति शेषः । अत्रोच्छ्वासनिश्वासयोराहुतित्वस्य पूर्वमसिद्धत्वेन सिद्धवन्निर्देशायोगात्स समान इति तच्छब्दानन्वयाच्च वाक्यत्रयं कृत्वाऽन्वयत्रयेण योजयति – यद्यस्मादिति । उच्छ्वासनिश्वासावित्यनन्तरमाहुती इति पदं भाष्येऽध्याहृत्यैतावुच्छ्वादनिश्वादावाहुती आहवनीयाधिकरणाग्निहोत्राहुतीव द्वित्वसाम्यादेवेत्येकोऽन्वयः । अनन्तरं भाष्ये तुशब्दश्चार्थे । श्रुतिगत इतिशब्दस्तस्मादित्यर्थे । यस्मादेतावाहुती यस्माच्चैतौ समं नयति शरीरस्थितिभावाय साम्येन नयति प्रवर्तयति यो वायुर्यथाऽग्निहोत्रे होमकर्ताऽऽहुतिद्वयमाहवनीयं प्रति समं नयति प्रापयति तद्वत्तस्मादाहुत्योर्नेतृत्वात्स वायुर्होतेति यच्छब्दहोतृशब्दाध्याहारेण द्वितीयोऽन्वयः । कोऽसौ वायुरिति तद्विशेषप्रश्ने स होता वायुः स समान इति तृतीयोऽन्वय इति विभागः । ननु प्राणाग्नय इत्यत्र सर्वेषां प्राणानामग्नित्वोक्तेः कथमिह समानस्य हेतृत्वमुच्यत इत्याशङ्क्योक्तम् – अग्निस्थानीयोऽपीति । अग्नित्वेनोक्तोऽपीति भावः । होता चेति । चकारोऽवधारणे, होतैवेत्यर्थः । आहुतिनेतृत्वाद्धोतृत्वे स्थितेऽग्नित्वोक्तिश्छत्रिन्यायेनाग्न्यनग्निसमुदाये लाक्षणिकीत्यर्थः । अवस्थात्रयवर्तिनामुच्छ्वासनिश्वासप्राणानां चाग्निहोत्रावयवत्वसम्पादानस्य नोपासनं प्रयोजनं निर्विशेषात्मप्रकरणत्वात्तद्विध्यदर्शनाच्च, किं त्विन्द्रियाण्युपरमन्ते प्राणा जाग्रतीत्येवं त्वम्पदार्थशोधनरूपस्य ज्ञानस्य स्तुतिरेवेत्याह – अतश्चेति । सर्वदेति । वाजसनेयके हि वाक्चितः प्राणश्चितश्चक्षुश्चित इत्यादिना सर्वप्राणव्यापारेषु प्रत्येकमग्निचितत्वदृष्टिं विधायैवन्दृष्टिमतः सर्वाणि भूतान्तस्य स्वापकालेऽपि चयनं कुर्वन्तीति सा दृष्टिः स्तुता तद्वदिहापीत्यर्थः । अत्र हीति । अत्र मनो यजमानः कल्प्यत इति व्यवहितान्वयः । तत्कल्पनायां हेतुद्वयमाह – यजमानवदिति । हेतुद्वयं साधयति । जाग्रत्स्विति । अत्र स्वप्नकाले विषयान्करणानि चोपसंहृत्य मनो जागर्ति, प्राधान्येन स्वव्यापारं कुर्वद्वर्तते । अग्निहोत्रफलं स्वर्गं जिगमिषुर्यजमान इव सुषुप्तिकाले स्वर्गरूपब्रह्म जिगमिषु च मन इत्यन्वयः । भाष्ये यजमान इत्यनन्तरमिवशब्दो द्रष्टव्यः । हवावशब्देन तत्प्रसिद्धमित्युक्तम् । इष्टेति । उदाननिमित्तकमरणान्तरं यागादिफलप्राप्तेस्तस्य तन्निमित्तत्वात्कारणे कार्योपचारादुदान इष्टफलत्वेन कल्प्यत इत्यर्थः । न केवलं मरणद्वारा यागफलप्रापकत्वमुदानस्य किं त्वेतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति श्रुतेः सर्वयागफलानामपि ब्रह्मात्मकत्वात्तद्ब्रह्मप्रापकत्वादपि । अहरहरिष्टफलप्रापकत्वमुदानस्येति प्रश्नपूर्वकमाह – कथमिति । स्वर्गमिवेति ।
स्वर्गमेवेत्यर्थः । स्वर्गयागफलात्मकस्वरूपमेव ब्रह्माक्षरं गमयतीत्यर्थः । यद्यप्यहरहर्ब्रह्मप्राप्तिर्न यागसाध्या यागरहितानामपि तत्प्राप्तेस्तथाऽपि ब्रह्मण एव सर्वयागफलत्वेन तत्प्रापकस्योदानस्येष्टफलप्रापकत्वमस्तीति भावः । न चोदानस्य कथं तत्प्रापकत्वमिति शङ्क्यम् । तस्य सुषुम्नानाडीचारित्वेन स मनस्तन्नाडीं प्रवेशयंस्तद्गतं ब्रह्म प्रापयतीत्युपपत्तेः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 ननु गार्हपत्यो वा एषोऽपान इत्यारभ्य मनो ह वाव यजामान इत्यन्तेन ग्रन्थेन विद्वानकर्मी न भवतीति स्तूयत इत्युक्तमस्त्वेवं तत्राग्निहोत्रादिकर्मप्रतीतेरुदानस्य यागफलस्थानीयत्वोक्तेस्तु न तत्फलत्वं तत्र कर्माप्रतीतेरत आह – एवं विदुष इति । विद्वत्तेति । श्रोत्रादीनि स्वप्न उपरमन्ते प्राणा एव जाग्रतीत्येवंरूपा विद्येत्यर्थः । अस्याश्च विद्याया जागरणं श्रोत्रादिबाह्येन्द्रियधर्मः शरीररक्षणं प्राणधर्मो नाऽऽत्मधर्म इत्येवं त्वम्पदार्थविवेकरूपत्वात्स्तोतव्यत्वोपपत्तिः । अत एव प्राणजगरणस्याविद्वत्साधारणत्वात्कथं विद्वत्तास्तुतिरित्यपि शङ्का निरस्ता तस्यैवम्भूतविवेकाभावादिति । ननु विद्याप्रकरणत्वादस्य विदुषः श्रोत्राद्युपरमादिकं सर्वं भवतीति विधीयतां किं स्तुत्येत्याशङ्क्य विद्वदविद्वत्साधारण्येन स्वयमेव भवतो न विधेयत्वमित्याह – न हीति । विद्वत्तास्तुतिरेवेति । श्रोत्रादिकं परे देवे मनस्येकी भवति प्राणाग्नयो जाग्रतीत्यत्र पदार्थविवेकरूपं ज्ञानं विवक्षितं तज्ज्ञानं गार्हपत्यो वा एषोऽपान इत्यादिना स्यूयत उक्तप्रकारेणेत्यर्थः । तृतीयप्रश्नोत्तरत्वेन कतर एष इत्यादि सर्वः पश्यन्तीत्यन्तं व्याचष्टे – उपरतेष्वित्यादिनाऽन्तराल इत्यन्तेन । अनेकेति । विषयविषयाद्यनेकभावगमनमित्यर्थः । इदं च महत्वव्याख्यानम् । स्वप्नद्रष्टुर्जीवस्य स्वातन्त्र्ये वक्तव्ये देवशब्दितमनसस्तदुक्तिः स्वप्नो मनोधर्मो नाऽऽत्मधर्म आत्मनि तु तदारोपमात्रं लोकस्येति ख्यापनार्थेति शङ्कापरिहाराभ्यामाह – नन्विति । मनउपाधिकृतमिति । बाह्येन्द्रिययुक्तमनउपाधिकृतं जागरणं केवलमनउपाधिकृतः स्वप्न इत्यर्थः । स्वप्नस्य धीशब्दवाच्यमनःपरिणामत्वात् । स्वप्नो भूत्वेतिश्रुतौ सामानाधिकरण्यनिर्देश इति द्रष्टव्यम् । नन्वियं श्रुतिर्विभूत्यनुभवेन मनःस्वातन्त्र्यं वक्तुं न शक्नोति श्रुत्यन्तरविरोधापत्तेः । अतोऽत्र देवशब्देन क्षेत्रज्ञ एवोच्यते । तस्यैव स्वतः स्वातन्त्र्यमिति शङ्कते । मन इति । स्वयञ्ज्योतिष्ट्वमिति । स्वयञ्ज्योतिष्ट्वबोधकश्रुतिरित्यर्थः । अन्यथा द्वितीयसत्वेऽपि दीपादीनामिव वास्तवस्य तस्य बाधाभावादित्यत्र किं मनसः सत्त्वे ज्योतिरन्तरस्य मनसो विद्यमानत्वादात्मनः स्वयंज्योतिष्ट्वबोधनं न शक्यमिति श्रुतेः कार्यस्य बोधनस्य बाधोऽभिप्रत उत तद्बोधनरूपकार्यसिध्यर्थं मनसोऽभावोऽपि विवक्षितः श्रुतौ । ततश्च तत्सत्त्वे श्रुत्यर्थबाध इति वा । नाऽऽद्यः । मनसि सत्यप्येवं तर्हीति वक्ष्यमाणरीत्या मनसो दृश्यत्वेन ज्योतिष्ट्वायोगेनाऽऽत्मन एव स्वयंज्योतिष्ट्वस्य बोधयितुं शक्यत्वादित्याह – तन्नेति । न द्वितीयः, तदानीं मनसोऽभावस्तु श्रुत्यर्थ एव न भवतीत्याह – श्रुत्यर्थेति । आत्मनि ज्योतिष्ट्वबोधनात्मकव्यवहारस्य प्राकाश्यादिसापेक्षत्वात्तस्मिन्सत्येव तद्बोधसाधने मनआदौ च सत्येव तद्बोधयितुं शक्यते नान्यथेति मनआद्यभावो न श्रुतौ विवक्षितः, तथा सति तद्बोधनाशक्तेरित्याह – यस्मादिति । तत्र मानमाह – यत्र वेति । द्वितीयाभावे व्यवहारो नास्तीत्यत्रापि मानमाह – मात्रेति । दृश्यं मात्राशब्दार्थः । असंसर्ग इति च्छेदः । दृश्यासंसर्गे सुषुप्तौ विशेषविज्ञानाभावोक्त्या द्वितीयाभावे व्यवहारो नास्तीत्यर्थः । अतो न द्वितीयः कल्पः सम्भवतीत्याह – अत इति । ननु यदि स्वयंज्योतिष्ट्वबोधनार्थं मनआद्यभावो नापेक्षितो जागरितेऽपि तर्हि तद्बोधनसम्भवादत्रेति स्वप्नवाचिविशेषणमनर्थकमिति शङ्कते – नन्विति । किं विशेषणबलान्मनसोऽभावः सिषाधयिषित उत विशेषणस्य गतिमात्रं पृच्छ्यते । नाऽऽद्यः । मनसोऽभावाङ्गीकारेऽप्यन्तर्हृदयाकाशस्य तत्कृतपरिच्छेदस्य च श्रुतिसिद्धत्वेन त्वन्मतेऽपि तत्र स्वयंज्योतिष्ट्वबोधनासम्भवाद्विशेषणानर्थक्यं तुल्यमित्याह – अत्रोच्यत इति । परिच्छेदोऽधिकोन्नत इति तरपः प्रयोगः । स्वयंज्योतिष्ट्वमिति । तद्बोधनमित्यर्थः । यथाश्रुते वास्तवस्य तस्य बाधस्यानाशङ्क्यत्वादिति । यद्यपि स्वप्नेऽन्तर्हृदयाकाशसत्त्वात्सम्यक्स्वयंज्योतिष्ट्वं बोधयितुं न शक्यमिति दोषस्तुल्यस्तथाऽपि स्वप्ने मनसोऽभावेन तद्बोधनप्रतिबन्धकस्याभावाददूरविप्रकर्षेण स्वयंज्योतिष्ट्वं स्वप्ने बोधयितुं शक्यमिति तद्विशेषणमर्थवदिति शङ्कते – सत्यमिति । स्यादित्यन्तरं तथाऽपीति शेषः । केवलतयेति । मनसोऽभावेनेत्यर्थः । भारस्येति । प्रतिबन्धकस्येत्यर्थः । शेषबोधनं तु सुषुप्ते भविष्यतीत्यभिप्रायः । एवं तर्हि सुषुप्ते सर्वस्याप्यभावमाश्रित्य सम्यग्बोधनं विवक्षणीयं न च तत्सम्भवति । तत्रापि बहुप्रतिबन्धकस्य विद्यमानत्वादित्याह – न तत्रापीति । सुषुप्तेऽपीत्यर्थः । तत्रापीति । स्वप्नेऽपीत्यर्थः । सुषुप्ते चेत्सर्वभारापनयः स्यात्तदा स्वप्नेऽर्धभारापनयाभिप्रायो वर्णयितुं शक्यते न च तदस्ति । अतोऽत्रेति विशेषणं तदाऽप्यनर्थकमित्यर्थः । तर्हि विशेषणस्य गतिर्वक्तव्येति द्वितीयं शङ्कते – कथं तर्हीति । अत्रैष देवः स्वप्ने महिमानमनुभवतीत्यथर्वशाखावाक्यार्थकथनावसरे काण्वश्रुतिगतविशेषणस्य गतिर्न वक्तव्या प्रकृतानुपयोगादिति सिद्धान्त्येकदेशी कश्चिन्मन्दः शङ्कते – अन्येति । सर्ववेदान्तप्रत्ययन्यायेनाथर्वश्रुत्यविरोधेनैकवाक्यतया श्रुत्यर्थस्य वर्णनीयत्वात्तदविरोधोऽपि वक्तव्य इति पूर्ववाद्याह – नार्थैकत्वस्येति । तर्हि काण्वश्रुतिरर्थाभावात्त्यज्यतामत आह – श्रुतेर्यथार्थेति । स्वाध्यायोऽध्येतव्य इत्यध्ययनविधेरर्थावबोधफलकत्वात्तुल्यं च साम्प्रदायिकमिति न्यायाच्चाक्षरमात्रस्याप्यानर्थक्यायोगादित्यर्थः । एवमेकदेशिनि दूषिते सिद्धान्त्युत्तरमाह – एवं तर्हीति । तर्ह्यादावेव मुख्यश्रुत्यर्थ उच्यतां किं पूर्वोक्तरीत्या पक्षान्तराशङ्कातन्निराकरणाभ्यामित्याशङ्क्य पाण्डित्याभिमानवतो यथावदर्थबोधेऽनधिकारात्तस्य तदभिमानावतारचिकीर्षया तदीयनानापक्षा निराकृता इति वक्तुं सर्वमभिमानं निरस्येत्याद्युक्तम् । स्वयंज्योतिष्ट्वश्रुतेरनतिशङ्क्यत्वात्तद्बलात्स्वप्नादौ हृदयाकाशादिसत्वेऽपि तत्सम्बन्धप्रतीत्यभावाद्विद्यमानस्याप्यविद्यमानतुल्यत्वेनाऽऽत्मनः केवलत्वात्प्रकाशदर्शनाच्च स्वयञ्ज्योतिष्ट्वमिति बोधनीयं मनसोऽभाववादिनाऽप्येवं मनसि सत्यपि तस्य वासनामयगजतुरगादिविषयतया परिणामाद्दृश्यत्वाच्च द्रष्टुस्ततो भेदेन विवेकतः श्रुत्या स्वप्रकाशत्वं बोध्यत इत्याह – यथेत्यादिना । मनसीति । सत्यपीति शेषः । ननु मनश्चेदविद्यादिनिमित्तवशाद्गजतुरगादिरूपेणाभिव्यक्तवासनावत्तर्हि जाग्रतीव तस्याहन्तयैव प्रतीतिः स्यान्नेदन्तयाऽत आह – कर्मनिमित्तेति । तथा प्रतीतिं विना स्वप्ने भोगासिद्धे स्वप्नभोगप्रदकर्मनिमित्तवशाज्जाग्रति गजादीनामिदन्तयाऽनुभवेन तद्वासनानामपि तथैव अनुभवार्हत्वेन तद्वासनारूपाविद्यावशाच्च वासनाश्रयस्य मनस इदन्तयैव वस्त्वन्तरवत्प्रतीतिरित्यर्थः । इदं च विशेषणं मनसो विषयत्वेन विषयित्वासम्भवाद्विषयिण आत्मन एव प्रकाशरूपत्वमिति वक्तुम् । जाग्रत्यादित्यादिकार्यज्योतिषां चक्षुरादिकरणज्योतिषां च सत्त्वेन तत्सङ्कीर्णत्वेनाऽऽत्मनः स्वयञ्ज्योतिष्ट्वं दुर्बोधं स्वप्ने तु तदभावात्सुबोधमिति वक्तुं सर्वकार्येत्यादि विशेषणम् । स्वप्न आदित्यादिकार्यकरणज्योतिषां भासमानत्वेऽपि तेषां वासनामात्रत्वाद्दृश्यत्वाच्च विषयप्रकाशनासामर्थ्यमिति वक्तुं वासनाभ्य इत्यादि विशेषणम् । एतैश्च विशेषणैः स्वप्न एवैवम्भूते स्वयंज्योतिष्ट्वस्य बोधयितुं शक्यत्वादन्यत्रासम्भवादत्रायमितिश्रुतौ स्वप्नविशेषणग्रहणमर्थवदित्युक्तमिति द्रष्टव्यम् । स्वयंज्योतिष्ट्वमिति । सिद्धमिति शेषः । अतः काण्वश्रुतौ स्वप्ने मनसोऽभावविवक्षाकारणाभावेन तद्विरोधाभावादत्र देवशब्देन परे देवे मनस्येकीभवतीत्युक्तम् । मन एवोच्यत इत्युक्तमुपसंहरति – तस्मादिति । नन्विन्द्रियाणामुपरतत्वाद्विषयसंबन्धाभावात्कथं मनसो महिमानुभव इति शङ्कते – कथमिति । पूर्वं ज्ञातस्यैव स्वप्ने ज्ञानात्तस्य वासनामात्रत्वमतो नेन्द्रियापेक्षेत्याह – उच्यत इति । यदिति । यन्मित्रं पुत्रं वा पूर्वं दृष्टवांस्तदेव दृष्टं पुत्रमित्रादिविषयवासनासमुद्भूतं मित्रं पुत्रं वाऽविद्यया पश्यतीति दृष्टवानित्यादिपदाध्याहारेण वाक्यं योज्यम् । अन्यथा पुत्रमिति द्वितीयाया यच्छब्दस्य चानन्वयः स्यादिति । चक्षुरभावेन दर्शनायोगान्मन्यत इत्युक्तम् । तथेति । अत्रापि योऽर्थः श्रुतस्तमेव श्रुतमर्थमित्यध्याहारेणैव श्रुतिर्योज्या । देशो नदीतीरादिः । दिक्प्राच्यादिरिति भावः । प्रत्यनुभूतं प्रतिवारमनुभूतं पुनः पुनरनेकदिनेष्वनेकस्वप्नेष्वनुभवतीत्यर्थः । जन्मान्तरदृष्टमिति व्याख्याने हेतुमाह – अत्यन्तेति । अनुभुतं चेत्यस्य प्रत्यनुभूतमित्यनेन पुनरुक्तिमाशङ्क्याऽऽह – केवलेनेति । पूर्वमिन्द्रियद्वारकानुभव उक्त इत्यपौनरुक्त्यमित्यर्थः । सर्वदर्शने हेतुमाह –
सर्व इति ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 कस्यैतत्सुखं भवतीत्यस्योत्तरं तदपेक्षितं वदन्नाह – स यदेति । पित्ताख्येनेति । इदमुपलक्षणं चिद्रूपेण ब्रह्मण चेत्यपि द्रष्टव्यम् । तन्मनः प्राणमेवोपश्रयत इति श्रुत्यन्तरेण प्राणशब्दिते ब्रह्मणि तस्य लयाभिधानात् । तिरस्कृतेति । वासनाभिव्यक्तौ द्वारं स्वप्नभोगप्रदं कर्म यत्तत्तिरस्कृतं तत्रोपरतं भवति तेजःशब्दितब्रह्मचैतन्यसम्बन्धादित्यर्थः । रश्मय इति । वासना इत्यर्थः । अविशेषविज्ञानेति । सामान्यचैतन्यरूपेणेत्यर्थः । चेतनाशब्दितसामान्यवृत्तिरूपेण वा । अनेन सुषुप्त उक्त इत्याह – तदेति । नन्वथैतत्सुखं भवतीत्ययुक्तं जन्यसुखस्य तदानीमसम्भवात्स्वरूपसुखस्य पूर्वमपि समत्वेन तदा भवतीत्यनुपपत्तेरित्याशङ्क्य स्वरूपसुखमेव विशेषविज्ञानरूपविक्षेपाभावे निर्वातस्थदीपप्रभावत्सम्यक्प्रकाशते तदपेक्षमेतद्वचनमित्याह – यद्विज्ञानमिति ।
विज्ञानरूपं स्वरूपसुखमित्यर्थः ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 अनेनाऽऽनन्दमयकोशशब्दितमनभिव्यक्तमनआदिवासनावदज्ञानं सुषुप्तधर्मीत्युक्तं पञ्चमप्रश्नस्योत्तरं तुरीयस्वरूपं विवेकसौकर्याद्विविच्यात्रैवोच्यत इत्याह – एतस्मिन्निति । अन्यथेति । पूर्वमन्यथा विभाव्यमानमित्यर्थः । मात्रानुप्रवेशेनेति ।
मात्राणां विवेकतोऽक्षरेऽनुप्रवेशेनेत्यर्थः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 आपोमात्रा इत्यत्र विभक्त्यलोपश्छान्दसः । स्थूलानि चेति । पञ्चीकृतानि चेत्यर्थः । ततश्च पञ्चीकरणमेतत्छ्रुतिसिद्धमित्युक्तमन्यथाऽऽकाशाकाशमात्रयोः पृथगुक्त्यनुपपत्तेरिति । यद्यपि मन्तव्यादयो मनआदिचतुष्टयविषया अपि द्रष्टव्यादिविषया एव न पृथक्तथाऽपि मन्तव्यत्वादिरूपेण पृथगिति पृथङ्निर्दिष्टा इति द्रष्टव्यम् । प्रकाशविशिष्टा या त्वगिति । त्वगाश्रयं चर्म तत्प्रकाशनिर्भास्यं च तदेवेत्यर्थः । पृथिवी चेत्यादिना विधारयितव्यं चेत्यन्तेनाऽऽत्मव्यतिरिक्तं तदुपाधिभूतं सर्वं चोक्तमित्याह –
सर्वं हीति ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 एष हि द्रष्टेत्यादिनोपहितस्वरूपमुच्यत इत्याह – अतः परमिति । द्रष्टेति । उपाधिकृतमपि द्रष्टृत्वादिकमुपाधिव्यतिरिक्तेऽनुपहित आत्मन्यारोपितं स्फटिके लौहित्यवदस्तीत्युपाधिभिन्नोऽप्यात्मा द्रष्टेत्यादिनोक्तः । विज्ञानात्मेत्यत्र द्रष्टेत्यादाविव कर्तृवाचकतृचोऽभावाद्विज्ञानं यज्ञं तनुत इत्यादाविव बुद्धेरभिधाने पौनरुक्त्यमाशङ्क्याऽऽह – विज्ञानमिति । करणभूतमिति । विज्ञानमय इत्यादावित्यर्थः । एष हीति हिशब्दश्चशब्दार्थकः स च सम्प्रतिष्ठित इति क्रियनुकर्षणार्थ इति वदन्द्रष्टुरात्मनः पृथिव्यादिवत्स्वरूपेणाक्षरे लयो न सम्भवतीत्याशङ्क्योपाधिलय उपहितरूपाभावमेवास्य लय इत्याह –
स चेति ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 एवं जाग्रदादीनामन्यधर्मत्वोक्त्या शोधिततुर्यात्मानुवादेन तस्याक्षरैक्याभिधानपुरःसरं तज्ज्ञानस्य फलमुच्यत उत्तरवाक्येनेत्याह – तदेकत्वेति । वक्ष्यमाणलक्षणमक्षरं प्रतिपद्यत इत्येवंरूपं फलमाहेत्यन्वयः । उत्तरवाक्यमिति शेषः । उक्तमर्थः श्रुत्यक्षरारूढमाह – एतदुच्यत इति । स इत्यस्यार्थमाह – सर्वेति । अत्राधिकारिणो दुर्लभत्वं स यो ह वा इत्यनेनोक्तम् । स यः कश्चिदेवापूर्ववत्तदच्छायादिविशेषणमक्षरं वेदयत इत्येकं वाक्यं समापनीयम् । यस्तु वेदयते स सर्वज्ञ इति वाक्यान्तरं कार्यमन्यथा यच्छब्दद्वयानन्वयात् । आद्यवाक्येऽच्छायादिविशेषणत्रयेण कारणसूक्ष्मस्थूलशरीरत्रयनिराकरणेनावस्थात्रयनिराकरणेनावस्थात्रयराहित्यमनूद्यते । लोहितादिगुणवर्जितमित्यनेन तद्गुणकस्थूलशरीरवर्जितमिति प्रतीतेः । शुभ्रमित्यनेन तमेव तुरीयमनूद्य तस्याक्षरसामानाधिकरण्येनैक्यमुक्तमिति विवेकः । अत्राक्षरमित्यनेनाक्षरं पुरुषं वेद सत्यं स बाह्याभ्यन्तरो ह्यजोऽप्राणो ह्यमनाः शुभ्र इति मन्त्रोक्तानि सर्वाणि विशेषणान्यात्मोपलक्षणान्यात्मोपलक्षणार्थं सङ्गृहीतानीत्याह – सत्यमित्यादिना । यस्तु सर्वत्यागीत्यत्रापि वाक्ये वेदयत इत्यस्यानुषङ्गः । अत्र सर्वज्ञ इत्यनेन कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति प्रतिज्ञातं सर्वविज्ञानमुक्तम् । सर्वात्मत्वस्य ज्ञानजन्यत्वेऽनित्यत्वं स्यादत आह – पूर्वमिति । एवं चाऽऽरोपनिवृत्तिद्वाराऽभूततद्भावो विवक्षित इत्याह –
सर्वो भवतीति ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 अग्न्यादिभिरिति ।
ततश्च चक्षुश्च द्रष्टव्यं चेत्यत्रापि चक्षुरादिभिर्देवा अप्युपलक्षिताः इति व्याख्यातम् ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】
इत्यानन्दज्ञानविरचितप्रश्नोपनिषद्भाष्यटीकायां चतुर्थः प्रश्नः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 एवं चतुर्थप्रश्नेनोत्तमाधिकारिणः पदार्थशोधनपूर्वकवाक्यार्थज्ञानेनाक्षरप्राप्तिमुक्त्वाऽत्रानधिकारिणो मन्दवैराग्यवत ओमित्येवं ध्यायत आत्मानं प्रणवो धनुदित्यादिमन्त्रसूचितं ब्रह्मलोकप्राप्तिद्वारा क्रमेणाक्षरप्राप्त्यर्थमोङ्कारोपासनं वक्तुं पञ्चमप्रश्नमवतारयति – अथ हैनमिति । इदानीमिति । गार्ग्यप्रश्ननिर्णयानन्तरमित्यर्थः । परेति । अपरब्रह्मलोकप्राप्तिक्रमेण परब्रह्मलोकप्राप्तिसाधनत्वेनेत्यर्थः । तदद्भुतमिवेति । तदिति क्रियाविशेषणं तादृशमभिध्यानमिति, तेन विशेषणेनाद्भुतत्वं दुष्करत्वं भातीत्यर्थः । अभिध्यानेन तत्पूर्वकालीने प्रत्याहारधारणे सूचिते इत्याह – बाह्येति । भक्त्याऽऽदरेणोपचारेणेवाऽऽवेशित आरोपितो ब्रह्मभावो यस्मिन्नोङ्कारे तस्मिन्समाहितचित्त इत्यन्वयः । अनेन धारणोक्ता । ध्यानशब्दार्थमाह – आत्मेति । सन्तानाविच्छेद इत्यविच्छिन्नसन्तान इत्यर्थः । प्रत्ययान्तरेण विजातीयप्रत्ययेनाखिलीकृतोऽनन्तरितः । चित्तस्याऽऽत्मविषयस्यैव सत एकदेशेन विक्षेपं वारयति – निर्वातेति । ध्यानेनैव यमादिसाधनजातमपि सूचितमित्याह – सत्येति । कतममितिडतमचोऽर्थं बहुषु निर्धारणं दर्शयति – अनेके हीति ।
ओङ्काराभिध्यानं ध्यानत्वाद्दहराद्युपासनवदपरप्राप्तिसाधनमेवोत परप्राप्तिसाधनमपीति प्रष्टुरभिप्रायः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 तदभिप्रायज्ञः पिप्पलादोऽपरालम्बनतया ध्यानं चेदपरप्राप्तिमात्रसाधनं परालम्बनत्वेन चेत्क्रमेण परप्राप्तिसाधनमित्युत्तरमाह – एतद्वा इति । एतद्यच्छब्दयोर्नपुंसकयोरोङ्कारविशेषणत्वायोगाद्ब्रह्मविशेषणत्वमाह – एतद्ब्रह्मेति । किं तद्ब्रह्मेत्यत आह – परं चेति । यदेतत्परं चापरं च ब्रह्मास्ति तदुभयमोङ्कार इति वाक्यान्वय इत्यर्थः । न चैवं ब्रह्मोद्देशेनोङ्कारत्वविधाने ब्रह्मण्योङ्कारदृष्टिः प्रसज्येतेति शङ्क्यम् । ब्रह्मदृष्टिरुत्कर्षादिति न्यायेन लोकेषु सामोपासीतेत्यादाविव निकृष्ट ओङ्कार एव ब्रह्मदृष्टिः सिध्यतीति भावः । तयोर्भेदात्कथमैक्यमित्याशङ्क्योपचारादित्याह – ओङ्कारप्रतीकत्वादिति । अनेन सामानाधिकरण्येनोङ्कारस्य प्रतीकत्वमुपदिश्यत इति भावः । ननु किं प्रतीकोपदेशेन साक्षादेव ब्रह्माभिधीयतामत आह – परं हीति । शब्दादीति । शब्दादिभिः साक्षाद्बोधनानर्हमित्यर्थः । आदिशब्देनानुमानादि गृह्यते । प्रवृत्तिनिमित्तस्य धर्मस्य लिङ्गस्य चाभावादिति तत्र हेतुमाह – सर्वेति । न शक्यमित्यवगाहितुमित्यन्वयः । तर्हीन्द्रियैर्मनसा वा तद्ग्रहोऽस्त्वित्यत आह – अतीन्द्रियेति । मनसेतीन्द्रियैर्वेत्यपि द्रष्टव्यम् । तर्हि तथाविधस्योङ्कारेऽप्यावेशासम्भवात्किञ्चिद्विशेषमारोप्याऽऽवेशो वक्तव्यः । अत एव सूर्यान्तर्गतत्वं विशेषं वक्ष्यति ओङ्कारतादात्म्यं च तत्कथं निर्विशेषलाभोऽत आह – ओङ्कारे त्विति । प्रसीदतीति । तदुपासनेन चित्तस्य नैर्मल्ये सति निर्विशेषं स्वयमेव प्रकाशत इत्यर्थः । तत्र मानमाह – शास्त्रेति । अन्यथा परब्रह्मार्थिनस्तदुक्तिवैयर्थ्यादित्यर्थः । तथाऽपरं चेति । प्रसीदतीत्यन्वयः । तस्मादिति । प्रतीकत्वादित्यर्थः । तस्मादेवं विद्वानिति । ब्रह्मत्वाद्ब्रह्मत्वार्हमिति विद्वानित्यर्थः । एतेनैवेत्यनन्तरमायतेनालम्बनेनेति पदद्वयं प्रमादतो गलितमिति द्रष्टव्यम् । तस्य पदस्य पिण्डितार्थमाह – ओङ्कारेति । न त्वेतच्छब्दार्थकथनमेतदिति द्रष्टव्यम् । अभिध्यानस्याऽऽयतनत्वाभावादितीतरोपासनावदस्याप्युपासनत्वात्परप्रापकत्वं न सम्भवतीत्यत आह – नेदिष्ठमिति ।
मनआद्यपेक्षयेदं नेदिष्ठं समीपवर्त्यन्तरङ्गं श्रेष्ठमालम्बनमेतदालम्बनं श्रेष्ठमेतदालम्बनं परमित्यादिश्रुतेरित्यर्थः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 नेदिष्ठत्वमेव संस्तुवन्नुत्तरवाक्येण साधयति – स यदीति । विकलस्यापि फलजनकत्वान्नेदिष्ठत्वमित्यर्थः । सकलेति । अकारादिमात्रात्रयात्मक ओङ्कारः स चोपासितव्य इति न जानाति किं त्वकारमात्रमुपासितव्यं जानातीत्यर्थः । तथाऽप्येकदेशज्ञानवैगुण्यतया दुर्गतिं न गच्छति किं तर्ह्योङ्काराभिध्यानप्रभावात्तदेकदेशध्यानप्रभावाद्विशिष्टामेव गतिं गच्छतीत्यन्वयः । तात्पर्यार्थमुक्त्वेदानीमक्षरार्थमाह – यद्यप्येवमिति । यदिशब्दो यद्यपीत्यर्थे व्याख्यातः । एवं च स तेनैवेत्यतः प्राक्तथाऽपीति पदं द्रष्टव्यम् । एकमात्रमिति । एकमात्रात्मजमोङ्कारमकारमित्यर्थः । एकमात्राविशिष्टेत्यत्राप्येकमात्रात्वविशिष्टेत्यर्थः । ओङ्कारेति । तदवयवेत्यर्थः । एकमात्राप्रधानप्रधानीभूतमात्राद्वयं कृत्स्नमोङ्कारमिति केचिद्व्याचक्षते । दीपिकायां वाचस्पत्ये चाकारमात्रमित्येवं व्याख्यातम् । सम्भोधित इति । तन्मात्राध्यानेन तन्मात्रासाक्षात्कारवानित्यर्थः । पृथिव्यां किमभिसम्पद्यत इति कर्माऽऽकाङ्क्षते । किमिति । मनुष्यलोकमितिपदमिहाकृष्यऽऽकाङ्क्षां पूरयति – मनुष्यलोकमिति । मनुष्यशरीरमित्यर्थः । पृथिव्यां मनुष्यलोकस्यैव नियमात्तदुक्तिवैयर्थ्यमत आह – अनेकानि हीति । पश्वादीनि हीत्यर्थः । तर्हि तस्य नियमेन कथं मनुष्यत्वप्राप्तिरत आह – तत्र तमिति । ऋग्वेदरूपा हीति । पृथिव्यकारः स ऋग्वेद इति श्रुतेरकारस्य तद्रूपत्वमित्यर्थः । अभिध्याताऽकाररूपा मात्रा ऋग्वेदरूपेत्यन्वयः । तेनेति । येनर्ग्वेदरूपत्वं तस्य तेनर्चो मनुष्यलोकमुपनयन्त इत्यर्थः । वीतश्रद्ध इति । श्रद्धाविरहितः सन्नित्यर्थः । योगभ्रष्ट इति ।
एकदेशज्ञानविकल इत्यर्थः । अनेन न हि कल्याणकृत्कश्चिदिति गीतावाक्यसंवादः सूचितः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 द्विमात्रेण विशिष्टमिति । द्वितीयमात्रत्वेन विशिष्टमोङ्कारं तद्गतमुकारमित्यर्थः । न तु मात्राद्वयमकारस्य पूर्वमेवोक्तत्वादत एव द्वितीयमात्रारूपमिति वक्ष्यति । श्रुतौ तृतीया द्वितीयार्थे, ओङ्कारमभिध्यायीतेत्युपक्रमादिति भावः । अत्राभिध्यानं तादात्म्याभिमानपर्यन्तमिति वक्तुं मनसि सम्पद्यत इति वाक्यं तत्र साक्षान्मनःसम्पत्तेः । साधनत्वेन वा फलत्वेन वाऽनन्वयान्मनःशब्देन तत्परिणामस्वप्नादिलक्षणद्वारा स्वप्नयजुराद्यात्मत्वेन श्रुत्यन्तरे श्रुतोङ्कार एव लक्ष्यत इत्याह – स्वप्नात्मक इति ।
उकारे सम्पत्तिपर्यन्तमभिध्यानं यः करोतीति वाक्यार्थ इत्यर्थः । अत्र केचित्स यदीत्यादिर्यः पुनरित्यन्तं न स्तुतिः । किं तूक्तफलायाकारे विश्वाभिन्नविराडुपासनमुकारे तैजसाभिन्नहिरण्यगर्भोपासनं च विवक्षितमित्याहुः । तन्मते मनःशब्देनाण्डपरिणामस्वप्नाभिमानी हिरण्यगर्भ उच्यत इति वक्तुं स्वप्नात्मक इत्यादिविशेषणानीति बोध्यम् । दीपिकायां तु मात्राद्वयस्य मिलितस्योपासनं मनसि सम्पत्तिश्च मनस्यैकाग्रतया चिन्तनमिति च व्याख्यातम् ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 एवमोङ्कारं स्तुत्वा तदुपासनं परब्रह्मविषयं विधत्ते – यः पुनरिति । विज्ञानविशिष्टेनेति । विज्ञानविषयीकृतेनेत्यर्थः । मात्रात्रयात्मकज्ञानेनेति यावत् । पूर्ववदत्रापि त्रिमात्रेणेत्यत्र तृतीया मात्रा मकार उच्यत इति भ्रमं वारयितुमोमित्येतेनैवाक्षरेणेत्युक्तम् । पूर्वत्र तत्तन्मात्राप्रधान ओङ्कार एवोच्यत इति मत इहैवेदं विशेषणमनुपपन्नं पूर्वत्राप्योङ्कारस्यैवोक्तत्वादिति तन्मतमनुपपन्नमिव भातीति त्रिमात्रेणेति तृतीयाश्रवणादोङ्कारो न प्रतीकं तथा सति विषयत्वेन कर्मतया द्वितीया स्यात्किं त्वभिध्यायकत्वेन करणत्वमेव तृतीयाबलादिति भ्रमं वारयति – प्रतीकेनेति । तस्य कर्मत्वेऽपि कारकत्वेनाभिध्यानक्रियानिर्वर्तकत्वेन हेतुत्वात्तन्मात्रविवक्षया तृतीयोपपद्यत इत्यर्थः । एवं व्याख्याने हेतुमाह – प्रतीकत्वेनेति । अभेदेति । प्रतीकत्वे ह्यधिष्ठानाध्यस्यमानस्योस्तादात्म्यारोपादभेदश्रवणमुपपद्यते करणत्वे तु न तदुपपद्यत इत्यर्थः । अनेकश इति । ओङ्कारमभिध्यायीत स यद्येकमात्रमभिध्यायीतेति द्विवारं श्रुतेत्यर्थः । अन्यथेत्यस्य बाध्येतेत्यनेनान्वयः । अथ यदि द्विमात्रेण यः पुनरेतं त्रिमात्रेणेति च तृतीयाऽपि द्विवारं श्रुता हेतुत्वापेक्षया करणत्वेन स्वरसा च कारकविभक्तित्वात्ततस्तस्या अपि बाधो न युक्त इति शङ्कते – यद्यपीति । द्वितीयाद्वयस्यापि कर्मत्वे स्वारस्यादुपक्रमस्थत्वाच्च तस्यैव प्राबल्यमित्याह – तथाऽपीति । प्रकृतेति । प्रक्रमानुरोधादित्यर्थः । किञ्च द्वितीयाद्वयमुक्ता भेदश्रुतिः । एतेनैवाऽऽयतनेनैकतरमन्वेति । आयतनेनैवान्वेतीत्यालम्बनवाच्यायतनश्रुतिद्वयं चेति बहुश्रुत्यनुरोधेन तृतीयाद्वयं त्याज्यमित्याह – त्यजेदेकमिति । तृतीयमात्रारूप इति । यद्यपि मात्रात्रयध्यानान्मात्रात्रयरूपित्वमेव तस्य तथाऽपि तृतीयमात्राया एवेहासाधारण्यात्तत्प्राधान्येन निर्देश इति बोध्यम् । तृतीयमात्ररूप इति सप्तम्यन्तपाठे तत्सूर्यविशेषणं मकारस्याऽऽदित्यात्मकत्वादिति । हिरण्यगर्भस्य जीवघनत्वमनागतावेक्षणन्यायेनोपपादयति – स हिरण्यगर्भ इति । लिङ्गरूपेणेति । समष्टिलिङ्गरूपेणेत्यर्थः । तस्मिन्हीति । समष्टिलिङ्गात्मनि हिरण्यगर्भे व्यष्टिलिङ्गाभिमानिनः सर्वे जीवा गोत्वसामान्ये खण्डमुण्डादय इव संहता इत्यर्थः । इदानीं वाक्यं योजयति – स विद्वानिति ।
स विद्वानिदानीं ध्यायमानः पश्चाद्ब्रह्मलोकं प्राप्तः । तत्र ब्रह्मलोके स्थावरजङ्गमेभ्यः पराज्जीवघनात्परं पुरुषं पश्यति ततो मुक्तो भवतीत्यन्वयः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 तत्र यः पुनरेतमित्यादिनोक्तेऽर्थे आद्यं मन्त्रं योजयति – तिस्र इति । मृत्युगोचर इति । प्रत्येकं ब्रह्मदृष्टिं च विना तदुपासकानां मृत्य्वनतिक्रमादित्यर्थः । ब्रह्मदृष्ट्या संश्लिष्टत्वेन च सम्भूय च प्रयुक्ताश्चेन्नायं दोष इत्याह – किञ्चेति । जाग्रदिति । जाग्रत्पुरुषो वैश्वानराभिन्नो विश्वस्तस्थानं स्थूलशरीरं जागरितं च । स्वप्नपुरुषस्तु हिरण्यगर्भाभिन्नस्तैजसस्तत्स्थानं लिङ्गशरीरं स्वप्नश्च । सुषुप्तावीश्वरात्मा प्राज्ञस्तत्स्थानमव्याकृतं सुषुप्तिश्च । तेषामकारादितादात्म्येन यदभिध्यानं तल्लक्षणासु योगक्रियासु प्रयुक्तास्वन्योन्यसक्ता अनविप्रयुक्तास्तिस्रो मात्राः प्रयुक्ताश्चेन्न कम्पत इत्यन्वयः । अनेन सर्वात्मके परब्रह्मणीश्वर ओङ्काराभेदेन ध्यानमुक्तम् । यथोक्तेति । तिस्रो मात्रा इति श्लोकोक्तविभाग इत्यर्थः । कुतो वेति ।
चलनं विक्षेपः स्वस्य सर्वात्मत्वेन स्वव्यतिरिक्ताभावाच्चलनं न सम्भवतीति कुतो हेतोः कस्मिन्वा विषये चलेदित्यर्थः ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 अपरब्रह्मप्राप्त्यर्थं य ओङ्कारः प्रयुक्तस्तेनैव न पृथक्प्रयुक्तः परमपि प्राप्नोति ब्रह्मलोक उत्पन्ननिर्विशेषब्रह्मसाक्षात्कारेणोक्तस्योङ्कारस्य क्रममुक्तिफलत्वादित्याह – तेनैवेति ।
येनापरमन्वेति तेनैव परमप्यन्वेतीत्येवकारार्थ इत्यर्थः । तदप्योङ्कारेणेत्यायतनविशेषणार्थं पुनरोङ्कारग्र्हणमिति न पुनरुक्तिरिति बोध्यम् ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 गताः कालाः पञ्चदश प्रतिष्ठाः कर्मणि विज्ञानमयश्चेति मन्त्रे कर्मभिः सह षोडशकालानां परस्मिंल्लयमुक्त्वा यथा नद्यः स्यन्दमाना इति मन्त्रेण दृष्टान्तोक्तिद्वारा परप्राप्तिरुक्ता तन्मन्त्रयोर्विस्तराभिधानार्थं षष्ठं प्रश्नमारभते – अथ हैनमिति । तस्य पूर्वेण सङ्गतिमुक्तार्थानुवादपूर्वकमाह – समस्तमित्यादिना । अक्षरस्य कारणत्वसिद्ध्यर्थे प्रलयेऽपि तस्मिन्नेव लयमाह – सामर्थ्यादिति । लयाधारत्वेन कारणत्वमाह – तत इति । तदुक्तेः प्रयोजनमाह – जगत इति । यद्यप्यद्वितीयात्मज्ञानान्मुक्तिर्न कारणज्ञानात्तथाऽपि तस्य कारणत्वे तद्व्यतिरेकेण कार्याभावात्तदद्वितीयत्वज्ञानं सिध्यतीति तादृशात्मज्ञानात्परं श्रेय इति । आत्मा वा इदमेक एव । स एतमेव पुरुषं ब्रह्म ततममपश्यत् । प्रज्ञानं ब्रह्म । स एतेन प्रज्ञेनाऽऽत्मनाऽमृतः समभवत् । सदेवैकमेवाद्वितीयमित्युपक्रम्याऽऽचार्यवान्पुरुषो वेद, अथ सम्पत्स्ये, तमेवैकं जानथ । अमृतस्यैष सेतुः, अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवदित्यादिषु निश्चितमित्यर्थः । इहापि तादृगात्मज्ञानादेव सर्वात्मभावः श्रेय उक्त इत्याह – अनन्तरमिति । वृत्तमनूद्य वर्तिष्यमाणमाह – वक्तव्यमिति । तदर्थोऽयमिति । तस्य शरीरान्तस्थत्वोक्तिद्वारा तस्य प्रत्यगात्मत्वज्ञानार्थमित्यर्थः । प्रश्नमिति । प्रष्टव्यमित्यर्थः । अज्ञाने कारणमिति । अज्ञानसम्भावनायां कारणमित्यर्थः । अप्रत्ययमिति । अविश्वासमित्यर्थः । अन्यथा सन्तमिति । ज्ञानिनं सन्तमन्यथा कुर्वन्नज्ञानिनं कुर्वन्नारोपयन्नित्यर्थः । कथं ते नावक्ष्यमित्यनेन सूचितमर्थमाह – अत इति । समूलो वा इत्यनेन सूचितमाह – अनृतं चेति । स्वरूपेण शल्यत्वाभावादाह – विज्ञेयत्वेनेति ।
यावज्जिज्ञासितं न ज्ञायते तावत्तद्धृदि शल्यवद्भासत इति शल्यमिवेत्युक्तम् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 पुरुषस्य षोडशकलत्वं न साक्षात्सावयवत्वेन किन्तु कलाजनकत्वे तदुपाधिमत्त्वादिति वक्तुं यस्मिन्नेता इति वाक्यमिति तत्तात्पर्यमाह – षोडशकलाभिरिति । ननु केवल आत्मा प्रदर्श्यतां किं वक्ष्यमाणकलोक्त्येत्यत आह – तदुपाधीति । तथैव स प्रदर्शनीय इत्यत्र हेतुमाह – अत्यन्तेति । अविद्याविषया इति । अविद्याधीना इत्यर्थः । कालत्रयेऽपि तासां चैतन्यरूपाधिष्ठानाव्यतिरेकाद्रज्जुसर्पवन्मृषात्वमित्यविद्याविषयत्वं साधयति – चैतन्येति । चैतन्याव्यतिरेकेण लक्ष्यमाणत्वं हेतुं विज्ञानवादिभ्रान्त्या दृढीकरोति – अत एवेति । घृतं यथाऽग्निसंयोगाद्द्रवावस्थां प्रतिपद्यत एवमहमाकारमालयविज्ञानमेव वासनावशाद्विषयाकारेण जायत इति वदतां तेषां भ्रमो विषयस्य चैतन्याव्यतिरेके प्रत्ययं गमयति, अन्यथा तथाभ्रमानुपपत्तेरित्यर्थः । विषयाणां चैतन्याव्यतिरेकेण प्रतीतिनियमादेव विषयविज्ञानरूपेण चैतन्याभावे सुषुप्त्यादौ शून्यभ्रमो जातः केषाञ्चिदिति तदीयभ्रान्त्याऽपि चैतन्याव्यतिरिक्तप्रतीतिं दृढी करोति – तन्निरोध इति । चैतन्यस्यानित्यस्य कलारोपाधिष्ठानत्वं न सम्भवति कलाकार्यत्वादिति नैयायिकपक्षोक्तिव्याजेन शङ्कते – घटादीति । भूतधर्म इति । देहाकारेण संहतभूतधर्म इत्यर्थः । चैतन्यस्याऽऽरोपाधिष्ठानत्वसिद्ध्यर्थं नित्यत्वमेकत्वं च वदंस्तान्निराकरोति – अनपायेति । प्रत्यवभासत इति । नानात्वेन कार्यत्वेन चेति शेषः । सत्यं ज्ञानमिति । तथा च श्रुतिविरोधात्ते पक्षा हेया इत्यर्थः । किञ्च ज्ञानकाले विषयाणां सद्भावनियमाभावाद्विषयकाले च ज्ञानस्य सद्भावनियमात्तयोर्भेदं इति विज्ञानवादिपक्षं निराकुर्वन्नव्यभिचारादेव ज्ञानस्य नित्यत्वं साधयन्नैयायिकादिपक्षमपि निराकरोति – स्वरूपेति । घटज्ञानकाले घटाभावसम्भवाद्विषयाणां ज्ञानव्यभिचारित्वं ज्ञानस्य तु विषयकालेऽवश्यम्भावनियमादव्यभिचारित्वमित्यर्थः । पटकाले घटज्ञानमपि नास्तीति घटज्ञानस्यापि पटविषयव्यभिचारित्वं तुल्यमित्याशङ्क्य स्वरूपेत्युक्तम् । ज्ञानस्य विषयविशिष्टत्वरूपेणैव व्यभिचारः । विषयस्य तु स्वरूपेणैवेति विशेष इत्यर्थः । ज्ञानस्याव्यभिचारित्वमुपपादयति – यथा यथेति । ननूत्पन्नविनष्टादेर्मेरुगुहान्तर्वर्तिनश्चाज्ञायमानत्वाज्ज्ञानस्यापि ज्ञेयाव्यभिचारोऽसिद्ध इत्याशङ्क्य तस्याज्ञाने तत्सद्भावासिद्धेस्तथाभूतपदार्थोऽसिद्ध इत्याह – वस्तुतत्त्वेति । अनुपपत्तिमेव दृष्टान्तेति स्फुटी करोति – रूपं चेति । ज्ञेयस्य ज्ञानव्यभिचारित्वं ज्ञानकाले सत्त्वनियमाभावरूपं स्पष्टमित्याह – व्यभिचरति त्विति । घटज्ञानकाले कदाचिद्घाटाभावादित्यर्थः । पटकाले घटज्ञानस्यापि व्यभिचारस्तुल्य इत्याशङ्क्य विशिष्टरूपेण व्यभिचारेऽपि स्वरूपेणाव्यभिचारं पूर्ववत्सूचितमाह – न व्यभिचरतीति । ज्ञानमित्यस्येहाप्यनुषङ्गः । पूर्ववाक्ये द्वितीयान्तमिह तु प्रथमान्तमिति विशेषः । भावादिति । स्वरूपेणेत्यर्थः । ज्ञानस्य स्वरूपेण सत्तामेव ज्ञेयान्तरस्य ज्ञेयत्वादेव साधयति – न हीति । स्वरूपेणाप्यभावं शङ्कते – सुषुप्त इति । किं तदानीं ज्ञेयाभावेन ज्ञानाभावः साध्यत उत ज्ञानस्यादर्शनाद्वाऽऽद्येऽपि ज्ञेयस्य व्यङ्ग्यत्वात्तदभावाद्व्यञ्जकाभाव इति वोत तयोरैक्यादेकाभाव इतराभाव इति । नाऽऽद्यो व्यभिचारादित्याह – न ज्ञेयेति । व्यङ्ग्यज्ञानैककल्पस्य व्यङ्ग्याभावेऽभाव उच्यत आलोकस्य प्रत्यक्षसिद्धत्वान्नैवमिति ज्ञानानुमेयत्ववादिनं प्रति दृष्टान्तान्तरमाह – न हीति । वैनाशिकमते विज्ञानव्यतिरिक्ताकालोकाद्यभावान्न तत्र व्यभिचार इति शङ्कते – वैनाशिक इति । कल्पयत्येवेति । उक्तव्यभिचारस्थलाभावेन व्यभिचाराभावादित्यर्थः । एवमपि ज्ञानाभावकल्पकस्य ज्ञेयाभावस्य ज्ञानमङ्गीक्रियते न वा ।आद्ये न ज्ञानाभावसिद्धिस्तस्यैवाभावज्ञानस्य सत्त्वादित्याह – येनेति । येन ज्ञेयाभावज्ञानेन तदभावं ज्ञानाभावं कल्पयेत्तस्य ज्ञानस्याभावः केन कल्प्यते न केनापि कल्पयितुं शक्य इत्यर्थः । न द्वितीय इत्याह – तदभावस्यापीति । ज्ञेयाभावस्याप्यज्ञातस्य ज्ञानाभावकल्पकत्वासम्भवादवश्यं ज्ञेयत्वात्तज्ञानाभावे तदनुपपत्तेः कल्पनानुपपत्तेर्ज्ञानानङ्गीकारपक्षो न युक्त इत्यर्थः । आद्यकोटौ द्वितीयकल्पं शङ्कते – ज्ञेयेति । वैनाशिकमतेऽप्यभावस्य ज्ञेयत्वाभ्युपगमाद्बुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं च तदिति प्रतिसङ्ख्याऽप्रतिसङ्ख्या निरोधाकाशरूपत्रयव्यतिरिक्तस्यैव क्षणिकत्वेन निरोधशब्दितस्याभावस्य नित्यत्वाङ्गीकारेण तदविज्ञानसन्ततेर्नित्यत्वाङ्गीकारेण त्वया तदाऽपि तदभावो वक्तुं न शक्यत इत्याह – न सुषुप्त इति । अस्तित्वमिति । तथा च ज्ञानस्यादर्शनमसिद्धं सुषुप्तेऽपि तदङ्गीकारादित्यर्थः । ननु ज्ञेयाभावेन तन्निरूप्यस्य ज्ञानस्यादर्शनमित्युच्यते मया सुषुप्ते च स्वस्यैव स्वज्ञेयत्वाज्ज्ञानदर्शनमुपपद्यतेऽस्मन्मते । त्वन्मते तु स्वज्ञेयत्वानङ्गीकारात्सुषुप्ते चान्यस्याभावान्निरूपकाभावान्न ज्ञानदर्शनास्तित्वमुपपद्यत इति शङ्कते – तत्रापीति । अभावस्थले ज्ञानज्ञेययोर्भेदस्य साधितत्वात्तद्दृष्टान्तेन सर्वत्र ज्ञानज्ञेययोर्भेदसाधनान्न स्वज्ञेयत्वं ज्ञानस्येत्याह – न भेदस्येति । अभावरूपो ज्ञेयो विषयो यस्य तस्य ज्ञानस्याभावरूपो यो ज्ञेयस्तद्व्यतिरेकादित्यर्थः । अभावस्थले भेदेऽपि न सर्वत्रेत्याशङ्क्य न्यायस्य तुल्यत्वान्न तदन्यथा कर्तुं शक्यमित्याह – न हीति । ज्ञानस्य स्वव्यतिरिक्तज्ञेयत्वनियमपक्षेऽनवस्थां वैनाशिकः शङ्कते – ज्ञानस्येति । ज्ञेयस्य स्वव्यतिरिक्तज्ञेयत्वनियमाङ्गीकारादस्मन्मते च ज्ञानस्य ज्ञेयत्वानङ्गीकारान्न दोष इत्याह – न तदिति । सर्वस्य वस्तुजातस्य विभागोऽसङ्करो ज्ञानं ज्ञानमेव न ज्ञेयं ज्ञेयमपि ज्ञेयमेव न कदाचिदपि ज्ञानमित्येवंरूपस्तस्योपपत्तेरित्यर्थः । अथवा द्विभागोपपत्तेरिति च्छेदः । ज्ञानज्ञेयरूपभागद्वयमेव राशिद्वयमेवाङ्गी क्रियते न तृतीयो ज्ञानविषयकज्ञानरूपो भावराशिरङ्गी क्रियत इत्यर्थः । तामेवाऽऽह – यदा हीति । यस्मिन्पक्षे ज्ञेयं सर्वं स्वव्यतिरिक्तस्य कस्यचिज्ज्ञानस्य ज्ञेयमित्यङ्गी क्रियत इति ज्ञेयपदावृत्त्या स्वव्यतिरिक्तस्येतिपदाध्याहारेण च यदा हीति वाक्यं योज्यम् । अवैनाशिकैरिति च्छेदः । तद्विषय इति । ज्ञानविषयकज्ञानात्मक इत्यर्थः । तर्हि त्वत्पक्षे ज्ञानात्मकस्य ब्रह्मणः सर्वज्ञत्वं न स्यात्स्वेन स्वस्याज्ञानादिति शङ्कते – ज्ञानस्येति । ज्ञातुं योग्यस्य सर्वस्याज्ञाने हि सर्वज्ञत्वहानिः, अन्यथा शशविषाणादेरज्ञानात्सर्वज्ञत्वं कस्यापि मते न स्यादतो नास्मन्मते तस्य दोषस्य प्राप्तिः किन्तु वैनाशिकस्यैव, तेन ज्ञानस्यावश्यज्ञेयत्वाङ्गीकारात्स्वेन स्वस्य ज्ञेयत्वस्य सिद्धं हीति पूर्वग्रन्थे दूषितत्वादन्यज्ञेयत्वस्य चानङ्गीकारात्सर्वज्ञत्वायोगादित्याह – सोऽपीति । तर्हि तव मते कथं सर्वज्ञत्वनिर्वाह इत्याशङ्क्यास्मन्मते तस्य मायिकत्वेन तदनिर्वाहेऽपि न दोष इत्याह – किं तदिति । वस्तुतस्तु सर्वस्य व्यवहारहेतुज्ञानवत्वं सर्वज्ञत्वं तत्तु ज्ञानस्यापि स्वप्रकाशत्वेन स्वव्यवहारहेतुत्वादस्ति ज्ञातुं योग्यं सर्वज्ञानाद्वा तदस्तीति भावः । पूर्वोक्तानवस्थादोषोऽपि तस्यैवेत्याह – अनवस्थेति । ननु तेन स्वेनैव ज्ञेयत्वाङ्गीकारान्नानवस्थेत्यत आह – स्वात्मना चेति । सिद्धं हीत्यत्र स्वज्ञेयत्वासम्भवस्योक्तत्वात्परिशेषादन्यज्ञेयत्वे तस्य तस्याप्येवमित्यनवस्थाऽनिवार्येत्यर्थः । ज्ञानस्याज्ञेयत्वे तद्व्यवहारासिद्धर्ज्ञानान्तरज्ञेयत्वे चानवस्था तवापि स्यादिति शङ्कते – समान एवेति । स्वप्रकाशत्वेन स्वव्यवहारसिद्धेर्ज्ञानभेदस्यैवास्माभिरनङ्गीकारादनवस्थायाः प्रसक्तिरेव नास्तीति परिहरति – न ज्ञानस्येति । एकत्वपक्षे भेदप्रतीतिमुपपादयति – नामरूपेति । एवं च चैतन्यस्यैकत्वेन नित्यत्वाज्जगद्भिन्नत्वेन तस्य सत्यत्वाच्चाधिष्ठानत्वोपपत्तेस्तस्मिन्कलानामध्यारोप आत्मप्रतिपत्त्यर्थमिहोच्यत इत्याह – तथा चेहेति । चैतन्यस्य नित्यत्वेनाधिष्ठानत्वे सतीह श्रुताविदं कलानामध्यारोपणमुच्यत इत्यर्थः । ननु चैतन्यस्य न नित्यत्वं परिच्छेदश्रुतेः परिच्छिन्नस्य च घटादिवदनित्यत्वादिति शङ्कते – नन्विति । शरीरान्तःस्थत्वं प्रत्यक्त्वविवक्षयोच्यते न परिच्छेदविवक्षया तथा सत्युत्तरवाक्यविरोधादित्याह – नेति । अयोग्यत्वादपि सोऽर्थो न विवक्षित इत्याह – कलेति । स्वोत्पत्तेः पूर्वं स्वस्याभावात्तत्कालीनपुरुषं परिच्छेत्तुं न शक्नोतीत्यर्थः । बीजकार्यस्य वृक्षस्य कार्यं फलं स्वकारणवृक्षकारणं बीजमभ्यन्तरीकरोतीति दृष्टमिति नायोग्यत्वमिति शङ्कते – बीजवृक्षादिवदिति । तद्विवृणोति – यथेति । दृष्टाने बीजव्यक्तिभेदादविरोधेऽपीह पुरुषव्यक्त्यैक्यात्कारणत्वाभ्यन्तरीभावयोर्विरोध इत्याह – नेति । ननु कारणीभूतबीजस्यैव वृक्षफलतदन्तर्गतबीजरूपेण परिणामात्तयोः कारणकार्ययोर्बीजयोरैक्यमाशङ्क्यैवमपि तस्य सावयवत्वाद्वृक्षवत्फलाकारेण परिणतावयवेभ्यो भिन्नावयवानामेव तदन्तर्गतबीजरूपेण परिणामात्तयोर्भेदेनाऽऽधाराधेयभावः स्यादिह तु निरवयवत्वान्न तथात्वमित्याह – सावयवत्वाच्चेति । आद्यं हेतुं विवृणोति – दृष्टान्त इति । श्रूयत इति । यस्मिन्नेताः षोडश कला इति यच्छब्दोक्तस्यैव पुरुषस्यान्तःशरीरे सोम्य स पुरुष इति तच्छब्देनाभिधानादित्यर्थः । द्वितीयं हेतुं विवृणोति – बीजेति । निरवयवश्चेति । तथा चैकदेशेन कलादिरूपेण परिणाम एकदेशेन तत्रावस्थानं बीजवन्न सम्भवतीत्यर्थः । किञ्च कलानां सावयवत्वेन परिच्छेदात्पुरुषस्य तद्विपरीतत्वादपरिच्छिन्नस्य न परिच्छिन्नाधारकत्वं सम्भवतीत्याह – सावयवाश्चेति । यद्वा सावयवत्वेन कार्यतया मृषात्वान्निरवयवतया परमार्थसत्यपुरुषाधारत्वं नोपपद्यत इत्याह – सावयवाश्चेति । नन्वाकाशकार्यशरीर आकाशस्यापरिच्छिन्नस्याभ्यन्तरीभावो दृष्ट इत्याशङ्क्य तस्यापि शरीराकारेणावस्थानमेव च्छिद्रादिविशिष्टस्यैव शरीरत्वान्न तु तदन्तःस्थत्वमित्याह – एतेनेति । युक्त्यसहमपि वचनप्रामाण्यादङ्गीकार्यमिति शङ्कते – किं दृष्टान्तेनेति । वचनस्यापि वस्तुनोऽन्यथाकरणे सामर्थ्याभावाद्वस्तुस्वरूपाविरोधेनैव बोधकत्वादन्यथा विचारवैयर्थ्याद्विरुद्धार्थो न बोधार्ह इत्याह – वचनस्येति । तर्ह्यन्तःशरीर इति श्रुतेः कथमुपपत्तिरित्याशङ्क्य पुरुषस्य शरीरोपादानत्वेन तदनुस्यूतस्य तदन्तर्गतवत्प्रतीतेस्तदभिप्रयेयं श्रुतिरिति सदृष्टान्तमाह – तस्मादिति । अण्डेति । अण्डकारणस्य व्योम्नो यथा तदनुस्यूतत्वेन तदन्तर्गतत्वप्रतीतिस्तद्वदित्यर्थः । यद्वा लोकभ्रमसिद्धं परिच्छिन्नत्वमनूद्यते श्रुत्येत्याह – उपलब्धीति । तत्राभिव्यक्तेर्वा तदन्तर्गतत्वव्यपदेश इत्याह –
उपलभ्यते चेति ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 ननु यस्मिन्नेताः षोडश कलाः प्रभवन्तीत्यनेनाध्यारोपस्योक्तत्वात्स ईक्षामित्यादिना पुनः सृष्टिकथनमधिकमित्यत आह – यस्मिन्निति । अत इति । क्रमप्रतिपत्त्यर्थं स ईक्षामित्याद्युच्यत इत्यर्थः । तत्प्रतिपत्तिश्च कलोत्पत्तिप्रतिपत्तिसौकर्यार्थं विपर्ययेण तु क्रमोऽत उपपद्यते चेति न्यायेन कार्यस्य स्वस्वकारणक्रमेणापवादसौकर्यार्थं चेत्यर्थः । ईक्षणोक्तेः प्रयोजनमाह – चेतनेति । सृष्टीति । सृष्टिः प्राणादेः सृष्टिः, तस्या उत्क्रान्त्यादि फलं, क्रमः प्राणाच्छ्रद्धामित्याद्युक्तानन्तर्यम् । आदिशब्देन लोकेषु नाम चेत्याधाराधेयविशेषो गृह्यते । नन्वीक्षणोक्त्या न चेतनपूर्वकत्वसिद्धिर्न्यायेन चेतनस्याकर्तृत्वेनाहेतुत्वेऽचेतनस्य प्रधानादेर्विक्रियावत्वेन हेतुत्वे च सतीक्षणस्यान्यथा नेयत्वादिति साङ्ख्याः शङ्कते – नन्वात्मेति । अकर्तेत्यस्य तत्रेदमित्यनेनान्वयः । आत्माऽकर्ता तत्र तथा सतीदं कर्तृत्ववचनमनुपपन्नमित्यर्थः । किञ्च तस्य कर्तृत्वाङ्गीकारेऽपि कर्तुः कुलालादेरिव सहकारिसाधनान्तराभावादात्मनो दुःखाद्यनर्थहेतुप्राणादिसंसारकर्तृत्वानुपपत्तेश्चानुपपन्नं स्रष्टृत्ववचनमित्याह – आत्मनोऽपीति । कर्तृत्वेऽपीत्यपिशब्दान्वयः । तर्हि किं कर्त्रत आह – प्रधानमिति । कर्त्रिति । क्रियाशक्तिमदतः प्रवर्तत इत्यन्वयः । ननु प्रधानस्याचेतनस्य प्रयोजनापेक्षाभावात्प्रवृत्त्यनुपपत्तिरित्यत आह – पुरुषार्थमिति । पुरुषस्य चेतनस्य भोगापवर्गरूपमर्थं प्रयोजनमुद्दिश्य प्रवर्तते वत्सविवृद्ध्यर्थमचेतनस्य धेनुदेहगतक्षीरस्य सस्यादिविवृद्ध्यर्थमम्बुनश्चाचेतनस्य प्रवृत्तिदर्शनादित्यर्थः । ननु प्रधानस्याप्येकत्वेन सहकार्यभावात्कारणत्वानुपपत्तावगत्या चेतनस्यैव कथञ्चित्कर्तृत्वं वाच्यमित्यत आह – सत्त्वादिति । सत्त्वादिगुणत्रयस्य साम्यावस्था प्रधानमिति साङ्ख्यमतम् । तत्र सत्त्वादिगुणैरनेकात्मके प्रधाने कारणे सति पुरुषस्य कर्तृत्ववचनमगतेरभावादनुपपन्नमित्यन्वयः । यदि चेतनानधिष्ठितस्याचेतनस्य प्रवृत्तिर्न दृष्टेति मन्यसे तर्हि परमाणुकारणवादोऽस्तु तत्रेश्वरस्याधिष्ठातुः सत्त्वादित्याह – ईश्वरेच्छेति । अत्रापि सत्स्वित्यस्यानुपपन्नमिति पूर्वेणान्वयः । तर्हीक्षणश्रवणस्य का गतिरत आह – तस्मादिति । पुरुषार्थेनेति । पुरुषस्य भोगापवर्गार्थेनेत्यर्थः । मुख्य ईक्षितरि विद्यमानेन नियतक्रमेण प्रवर्तमानत्वेन गुणेन योगादैक्षतेति गौणः प्रयोगो माणवके पैङ्गल्यगुणयोगेनाग्निशब्दप्रयोगवदित्यर्थः । नन्वेवमपीक्षितरि प्रधाने पुरुषशब्दः कथमत आह – यथा राज्ञ इति । तद्वदिति । पुरुषस्य भोगापवर्गकारिणि प्रधाने पुरुषशब्द औपचारिक इत्यर्थः । स्वतोऽकर्तुरप्यात्मनो मायोपाधिककर्तृत्वं सम्भवतीति हृदि निधाय प्रथममापाततः प्रतिबन्द्या परिहरति – नेति । बुद्धिः कर्त्री भोक्ता पुरुष इति वदद्भिः साङ्ख्यैरात्मनो भोक्तृत्वमुक्तमित्यर्थः । श्रुतिप्रामाण्यादिति । श्रुत्युक्तजगत्कर्तृत्वमविकारिणोऽपि कथञ्चिन्निर्वाह्यमित्यर्थः । साङ्ख्यः प्रतिबन्दिपरिहारं शङ्कते । तत्त्वान्तरेति । भोगो नाम सुखदुःखानुभवः स च पुरुषस्य स्वरूपभूत इति न तत्त्वान्तरापत्तिलक्षणपरिणाम इत्यर्थः । परिणामो हि पूर्वरूपपरित्यागेन रूपान्तरापत्तिः । सा च सजातीयरूपान्तरापत्तौ विजातीयरूपान्तरापत्तौ वाऽनित्यत्वादिकमावहेदेवेति भोज्याविवेकोपाधिकं भोक्तृत्वमङ्गीकर्तव्यम् । तेन तदात्मककर्तृत्वेऽपि तुल्यमित्यभिप्रेत्य मुख्यपरिहारमाह – नेति । एकस्य वस्तुतोऽसहायस्याकर्तुराप्तकामस्यापीत्यपरेर्थः । उपाधिकृतकर्तृत्वसम्भवादविद्यारूपसहायस्य सम्भवाद्भ्रान्त्या स्वस्माद्भिन्नजीवानामनाप्तकामानां सम्भवात्तत्पुरुषार्थार्थं स्रष्टृत्वं तथाविधिस्याप्युपपद्यत इति नाचेतनस्य चेतनाधिष्ठितस्य तद्युक्तमिति भावः । नामरूपेति । अनभिव्यक्तनामरूपेत्यर्थः । बन्धमोक्षादीत्यादिशब्देन तत्साधनमुच्यते । मोक्षस्यापि बन्धप्रतियोगित्वेन सोपाधिकत्वमुक्तम् । परमार्थस्य श्रुत्येकगम्यत्वमाह – सर्वेति । एवम्भूतस्याऽऽत्मनो न स्रष्ट्रुत्वमित्याह – तत्रेति । कल्पयित्वेति । कल्पयितुं प्रवृत्ता इत्यर्थः । पुरुषस्य निर्विशेषत्वेन तस्मिन्वस्तुतः कर्तृत्वाद्ययोगात्तदारोपितमेवेति कल्पयितुं प्रवृत्ता अपि सर्वविरोधनिरासकागमप्रमाणैकशरणत्वाभावात्प्रत्यक्षादिविरोधापत्त्याऽऽरोपितत्वाङ्गीकाराच्च त्रस्यन्तः सर्वे परमार्थत एवेच्छन्ति । तत्राप्यचेतनस्य भोक्तृत्वायोगात्तन्मात्रमात्मनोऽङ्गीकुर्वन्ति । कर्तृत्वादिकं तु प्रधानस्याङ्गीकुर्वन्तीत्यर्थः । तर्हि कस्य तार्किकस्य मतं ग्राह्यमित्याशङ्क्य न कस्यापीत्याह – इत्येवमिति । तर्हि तस्य को दोष इत्याशङ्क्य भोक्तृत्वाङ्गीकारे तथैव तस्यैव कर्तृत्वमपि स्यादित्यन्यैः शिक्षिताः सन्तः स्वमतात्प्रच्यवन्त इत्याह – अन्येति । कृतायाः शिक्षिताया बुद्धेर्विषया अधीनाः शिक्षितबुद्धय इत्यर्थः । तर्हि साङ्ख्यशिक्षकस्य तार्किकस्य मतं ग्राह्यमत आह – तथेति । तस्यापि साङ्ख्येन शिक्षितत्वान्न तदपि ग्राह्यमित्यर्थः । तर्हि त्वया तार्किकमतं किमर्थं दूष्यते । परस्परमेव तैर्दूषितत्वात्तव तद्वदेव द्वेषादिमत्त्वप्रसङ्गाच्चेत्यत आह – अत इति । विरोधोद्भवकारणमिति । पारमार्थिकतया भेददर्शनमित्यर्थः । संरक्षितेति । भेददर्शनस्य परस्परोक्तदोषग्रस्तत्वादद्वैतमेव निर्दुष्टमिति निश्चितबुद्धिः सन्निर्वाति सर्वविकल्पेभ्यः उपशान्तो भवतीत्यर्थः । दोषप्रदर्शनं किञ्चित्क्रियत इति यदुक्तं तदेव प्रपञ्चयन्कर्तृत्वादेरारोपितत्वमेव परेणापि वक्तव्यमित्याह – किञ्चेत्यादिना । तत्राऽऽदौ भोक्तृत्वकर्तृत्वयोर्विशेषस्य वक्तुमशक्यत्वात्तयोराश्रयव्यवस्था न सम्भवतीत्याह – भोक्तृत्वेति । आशयमविद्वाञ्शङ्कावसरोक्तं विशेषं शङ्कते – नन्विति । स्वात्मस्थी विक्रियत इति । चिद्रूपेण विक्रियत इत्यर्थः । तत्त्वन्तरेति । अनेकत्वाशुद्ध्यादियुक्तस्वविलक्षणमहदादिरूपेणेत्यर्थः । पुरुषस्य चिद्रूपेणैव परिणामान्न रूपान्तरापत्तिरशुद्ध्यादिकं वा । प्रधानस्य त्वाकारान्तरेण परिणामात्पूर्वरूपत्यागादशुद्ध्यादिकं स्यादित्यर्थः । किञ्चिद्रूपेण परिणाम आगन्तुको वा न वा । आद्य आगन्तुकविशेषवत्त्वेनानित्यत्वाद्यापत्त्या प्रधानादविशेषः । भोगानन्तरं पुनः स्वरूपावस्थानान्नानित्यत्वादिदोषश्चेत्प्रधानस्यापि प्रलये तथात्वाङ्गीकारान्न तयोर्विशेषः स्यादिति दूषयति – नासाविति । सङ्ग्रहवाक्यं विवृणोति – प्रागिति । अस्यां कल्पनायामिति । चिद्रूपेण तत्त्वान्तररूपेण विक्रियाकल्पनायामपि विचार्यमाणेऽर्थतो न कश्चिदपि विशेषो लभ्यत इति तयोर्विशिष्टविक्रियेति वाङ्मात्रेणैव कल्प्यत उच्यत इत्यर्थः । द्वितीयं शङ्कते – अथेति । चिन्मात्र एवेति । न त्वागन्तुकं रूपान्तरमित्यर्थः । तर्हि कर्मजन्यः कादाचित्को भोगो न सिध्येदित्याह – न तर्हीति । एतद्दोषपरिहारायाऽऽगन्तुकं परिणाममङ्गीकृत्य भोगकालीनविक्रियामात्रं भोगः स च पुरुषस्यैव न प्रधानस्येति भोगसदसत्त्वविशेषमात्रेण शङ्कते – भोगकाल इति । तत्रापि किं भोगकालीनविक्रियामात्रं भोग उत तत्कालीनचिन्मात्रगतविक्रिया भोग इति विकल्प्याऽऽद्ये भोगकाले प्रधानस्यापि सुखाद्याकारेण विक्रियावत्त्वाद्भोगः स्यादित्याह – नेति । द्वितीयं शङ्कते – चिन्मात्रस्यैवेति । चिन्मात्रस्यैव विक्रियेत्येवकारेण धर्म्यन्तरगतविक्रियानपेक्षा चैतन्यविक्रिया भोग इत्युच्यते वा चैतन्यमात्रगता तदसाधारणा विक्रिया भोग इति वा । नाऽऽद्यः । सुखादिरूपप्रधानविक्रियां विना भोगासिद्धेः । न द्वितीयः । चैतन्यासाधारणविक्रियैव भोग इत्यत्र हेत्वभावात्स्वासाधारणविक्रिया भोग इति वक्तव्यम् । तथा चातिप्रसङ्गः । सर्वस्यापि स्वासाधारणविक्रियावत्त्वात् । भोगकालीनासाधारणविक्रियावत्त्वं तु प्रधानस्याप्यस्ति । तत्कालीनसुखादिविक्रियावत्त्वादिति दूषयति – औष्ण्येति । ननु भोगकालीन साधारणविक्रियैव भोगः । न चाग्न्यादेस्तत्काले नियमेन विक्रियाऽस्ति । न च प्रधानस्यापि प्रसङ्ग इष्टापत्तिरिति शङ्कते – प्रधानेति । भोक्ता हि शेषी, उभयोरपि भोक्तृत्वे शेषशेषिभावो न स्यादित्याह – नेति । ननु भोगः सत्त्वगुणप्रधानचेतोरूपेण परिणतप्रकृतेरेव धर्मस्तस्या विक्रियोपपत्तेर्न पुरुषस्य तस्याविक्रियत्वात् । न च तस्य भोगाभावप्रसङ्गस्तस्य तथाविधचित्तप्रतिबिम्बितत्वमात्रेण भोक्तृत्वव्यपदेश इति शङ्कते – भोगधर्मवतीति । सत्त्वाङ्गिनीति । सत्वगुणोऽङ्गी प्रधानं यस्य तस्मिंश्चेतसीत्यर्थः । तर्हि चित्तगतभोगेन चैतन्ये विशेषो जायते वा न वेति विकल्प्य न द्वितीय इत्याह – नेति । किञ्चास्मिन्पक्षे स्वकीयशास्त्रप्रणयनं च व्यर्थं स्यादित्याह – भोगरूपश्चेदिति । आद्ये स विशेषः सत्यो वाऽसत्यो वेति विकल्प्य सत्यविशेषवत्त्वे पुरुषस्य विकारित्वं स्यादिति मनसि सन्निधायास्याऽऽरोपितविशेषवत्त्वमस्तीत्याद शङ्कते – अविद्येति । अनर्थेति । भोगरूपेत्यर्थः । तर्हि भोक्तृत्वविशेषवत्कर्तृत्वादिविशेषस्य प्रधानादेश्चाऽऽरोपत्वमेवाङ्गीकर्तुं युक्तं नार्धवैशसमस्मदुक्तरीत्या बन्धमोक्षव्यवहारसिध्युपपत्तेः । तथा कल्पनायां प्रयोजनाभावात्प्रमाणाभावात्प्रत्युत सर्वश्रुतिविरोधापत्तेश्चेत्याह – परमार्थत इति । पुरुषाद्वस्त्वन्तरं च प्रधानमित्यन्वयः । उक्तदोषजातं साङ्ख्यस्य मतं मोक्षकामिणा नाऽऽदर्तव्यमिति ज्ञापनार्थमुक्तं न तु द्वेषपक्षपातादित्याशयेनाऽऽह – इति नाऽऽदर्तव्येति । आत्मैकत्वपक्षेऽपि निरसनीयबन्धाभावाच्छास्त्रप्रणयनानर्थक्यमिति शङ्कते – एकत्वेऽपीति । किमात्मैकत्वनिश्चयवन्तं प्रति तस्याऽऽनर्थक्यमुच्यते तद्विपरीतं प्रति वेति विकल्प्याऽऽद्यं प्रति प्रणयनाभावादानर्थक्यदोषाभावमाह – नाभावादिति । दोषापादनाभावादित्यर्थः । सङ्ग्रहवाक्यं विवृणोति – न ह्यात्मैकत्व इति । निश्चित इति शेषः । तदभावे शास्त्रप्रणेत्राद्यभाव इयं कल्पनैवार्हवदनर्थकं चेति विकल्पनैवानुपपन्नेत्यर्थः । नैवानुपपन्नेति पाठे तु तदभाव इत्यनेनैकत्वनिश्चयाभावोऽभिधीयते । तदानीं निरसनीयबन्धादिसत्वादियं कल्पना बन्धनिवृत्त्यर्थं शास्त्रप्रणयनकल्पना नानुपपन्नेति योज्यम् । किञ्च अात्मैकत्वनिश्चये जाते तन्निश्चयजनकत्वेन शास्त्रार्थवत्त्वस्य स्वानुभवसिद्धत्वात्तेनेयं शङ्का कर्तुमपि न शक्येत्याह – अभ्युपगत इति । प्रमाणार्थ इति । प्रमाणस्य शास्त्रस्यार्थः प्रयोजनमित्यर्थः । एकत्वनिश्चयवन्तं प्रति शास्त्रानर्थक्यकल्पनाभावः श्रुत्याऽप्युक्त इत्याह – तदभ्युपगमे चेति । अत्राभ्युपगमो निश्चयः । एकत्वनिश्चयाभावदशायां तु निरसनीयारोपितबन्धसत्त्वान्नाऽऽनर्थक्यं तदपि श्रुत्योक्तमित्याह – शास्त्रप्रणयनेति । अनेन द्वितीयकल्पो निरस्तः । श्रुतिगतं यत्रपदं व्याचष्टे – अन्यत्रेति । अथर्वणीयमन्त्रोपनिषदि द्वे विद्ये वेदितव्ये इत्युपक्रम्यापरविद्या ऋग्वेदादिरूपा परा त्वदृश्यत्वादिगुणकप्रत्यस्तमितसर्वद्वैतवस्तुविषयेत्युक्त्या विद्याविद्ययोर्विषयभेदः शास्त्रस्याऽऽदावेव सूचित इत्याह – अत्र चेति । अद्वैतवादे सर्वशङ्कानां श्रुतिप्रामाण्येनैव निरासात्तार्किकोत्प्रेक्षितशङ्काशूकस्यापि नात्र प्रवेश इत्युपसंहरति – अत इति । राजप्रमाणेति । प्रमाणराजेत्यर्थः । राजदन्तादित्वात्परनिपातः । वेदान्तप्रमाणमेव राजेव राजा तद्बाहवस्तदुक्तन्यायास्तैर्गुप्त आत्मैकत्वमेव विषय इव देश इव देशो रक्षणीयत्वात्स तार्किकभटैर्योधैर्न प्रवेश्य इत्यन्वयः । पूर्ववाद्युक्तं दोषं निराकरोति – एतेनेति । उपाधिकृता अनेकाः शक्तयः साधनानि च तत्कृतस्य भेदस्यानेकत्वस्य सत्त्वादित्यर्थः । आत्मेति । आत्मनो योऽनर्थः संसारस्तत्कर्तृत्वमित्यर्थः । आदिशब्देनाऽऽप्तकामत्वेन प्रयोजनापेक्षानुपपत्तिः सङ्गृहीता । कल्पनया स्वव्यतिरिक्तस्य जीवस्य सत्त्वात्तस्य संसारो नाऽऽत्मनः । तदीयकर्मफलदानार्थं चाऽऽप्तकामस्यापि सृष्ट्यादिप्रवृत्तिः सम्भवति । सर्वव्यवहारस्यापि स्वप्नतुल्यत्वाद्वा स्वप्न इव सर्वमप्युपपद्यत इति सूत्रभाष्यादावेव परिहृत इत्यर्थः । साङ्ख्येन स्वपक्षे पुरुषशब्दस्येक्षणस्य चोपपत्तिरुक्ता तामनूद्य निराकरोति – यस्त्विति । यजमानः प्रस्तर इत्यादावुपचारो दृष्ट इत्याशङ्क्याऽऽह – तत्र हि गौणीति । प्रधानपक्षे न केवलमीक्षणश्रुत्यनुपपत्तिर्वस्तुतस्तस्य स्रष्टृत्वमपि न सम्भवतीत्याह – इह त्विति । मुक्तान्वर्जयित्वा बद्धान्प्रत्येव प्रवृत्तिः कर्तृकर्माद्यपेक्षया बन्धमोक्षादिशब्दितभोगापवर्गार्था व्यवस्थिता प्रवृत्तिर्नोपपद्यत इत्यर्थः । अनेन पुरुषार्थं प्रयोजनमुररीकृत्य प्रधानं प्रवर्तत इति यदुक्तं शङ्कावसरे तन्निरस्तम् । ईश्वरकारणवादे तु न कोऽपि दोष इत्याह –
यथोक्तेति ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 एवं परपक्षं निराकृत्य प्रकृतश्रुतिव्याख्यानं कुर्वन्स प्राणमसृजतेत्यस्य तात्पर्यार्थमाह – ईश्वरेणेवेति । राज्ञेवेत्यर्थः । अक्षरार्थं प्रश्नपूर्वकमाह – कथमिति । हिरण्यगर्भाख्यमिति । हिरण्यगर्भ इत्याख्या येनोपाधिनाऽऽत्मनो भवति तं बुद्ध्यभिन्नं सर्वप्राणं समष्टिप्राणमित्यर्थः । यथाश्रुते कस्मिन्नहमुत्क्रान्त इत्यादिनाऽऽत्मन उत्क्रान्त्याद्युपाधिसृष्टेः प्रस्तुतत्वाद्धिरण्यगर्भस्य जीवस्यातथात्वादुपक्रमविरोधापत्तेः । हिरण्यगर्भाख्यमित्युक्तिस्त्वात्मनो हिरण्यगर्भादिसंसारिभावोऽप्येतदुपाधिक इति सूचयितुमिति बोध्यम् । तस्य समष्टित्वमाह – सर्वेति । अन्तरात्मानमिति । सर्वस्थूलशरीरान्तरत्वादात्मबुद्धिगोचरत्वाच्चान्तरात्मा स इत्यर्थः । तत इत्यानन्तर्यार्थेयं पञ्चमी । एवमुत्तरत्रापि । न च भूतकार्यत्वात्प्राणस्य कथं ततः पूर्वकालीनत्वमिति वाच्यम् । सत्यम् । सूक्ष्मभूतसृष्ट्यन्तरं प्राणमसृजतेति कल्पनीयत्वात् । न चैतदन्तरं भूतसृष्ट्युक्तिविरोधशङ्का । तस्याः पञ्चीकृतस्थालभूतविषयत्वोपपत्तेः । अत एव भोगसाधनाधिष्ठानानीत्युक्तम् । सूक्ष्माणां तथात्वायोगात् । न चैवमपि स्थूलभूतसृष्ट्यनन्तरमिन्द्रियमनःसृष्ट्युक्तिविरोधः । भूतारब्धदेहाधिष्ठितानामेव तेषां कार्यक्षमत्वेन तेषां तदनन्तरत्वोक्तिरिति भावः । भोगसाधनाधिष्ठानत्वं भूतानां तत्कारणत्वादित्याह – कारणभूतानीति । तेषां भूतानां लक्षणतया खं शब्दगुणमित्यादिनाऽसाधारणगुणा उक्ताः । पूर्वपूर्वगुणानुवृत्तिस्तु पूर्वपूर्वस्योत्तरोत्तरोपादानत्वसूचनार्थं स्थौल्यतारतम्यसिद्ध्यर्थं चोक्तेति बोध्यम् । वायुमिति । श्रुतौ वायुरित्यादिप्रथमा द्वितीयार्थाः । प्राणमसृजतेति द्वितीययोपक्रमात् । तैरेवेति । अपञ्चीकृतावस्थायामित्यर्थः । तस्य चेश्वरमिति । नियामकमित्यर्थः । सङ्कीर्यमाणानामिति । अविशुद्धसत्त्वतया पापाचरणेन तैः पापैः सङ्कीर्यमाणानां सङ्करपरिहाराय चित्तशुद्धिसाधनं तपोऽसृजतेत्यर्थः । फलमिति । लोक्यते भुज्यत इति लोकः फलमित्यर्थः । नाम चेति । ब्राह्मणादिनाम्नोक्तव्यवहारासङ्करार्थमित्यर्थः । नन्वीश्वरसृष्टत्वोक्त्या कलानां सत्यत्वमङ्गीकर्तव्यम् । आरोपे शुक्तिरजतादौ सृष्टत्वव्यवहारभावादित्याशङ्क्याङ्कुल्यवष्टम्भनेत्रमर्दनादिना प्रयत्नेन सृष्टस्य द्विचन्द्रमशकमक्षिकादेरारोपत्वदर्शनात् । अथ रथान्रथयोगान्पथः सृजत इति सृष्टत्वेनोक्तस्वप्नपदार्थस्य च भ्रमत्वदर्शनान्मैवमित्याह – एवमेता इति । अविद्याकामकर्मादिदोषरूपं यद्बीजं तदपेक्षया तत्साधनीकृत्येत्यर्थः । तैमिरिकशब्दो नेत्रेऽङ्गुल्यवष्टम्भाद्युपलक्षणार्थः । एवमात्मप्रतिपत्त्यर्थमप्यारोपमुक्त्वा तदपवादमवतारयति –
पुनस्तस्मिन्नेवेति ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 ग्रामादिवद्भेदेन गन्तव्यत्वभ्रमं वारयति – आत्मभाव इति । अस्तशब्देन नाशो नाभिधीयते भेदकोपाधिनामरूपयोर्नाशेऽपि स्वरूपस्य समुद्रात्मना विद्यमानत्वादित्याह – नामरूपतिरस्कारमिति । पूर्वरूपतिरस्कारमित्यर्थः । तद्वस्त्विति । नामरूपनाशानन्तरं परिशिष्टमुदकलक्षणं वस्तु समुद्र इत्येवोच्यत इत्यन्वयः । पुरुषस्येति कर्मणि षष्ठी । पुरुषं स्वात्मरूपम् । परितः सर्वं स्वरूपत्वेन पश्यत इत्यर्थः । द्रष्टुरित्युक्त आगन्तुकस्य दर्शनस्य कर्ता प्रतीयत इत्यत आह – दर्शनस्य कर्तुः स्वरूपभूतस्येति । स्वरूपत्वे दर्शनस्य तत्र कर्तृत्वानुपपत्तेस्तदर्थकतृच्प्रत्ययविरोध इत्याशङ्क्यार्कः सर्वतः स्वप्रकाशक इत्यत्र यथा कर्त्रर्थकस्य प्रत्ययस्योपचरितत्वं तद्वदिहापीत्याह – यथाऽर्क इति । नदीनामिवेति । इवशब्दस्तथाशब्दार्थे । यथा नदीनां समुद्रोऽयनं तथा पुरुषोऽयनमित्यन्वयः । अस्तगमनस्वरूपमाह – भिद्यते इति । नामरूपभेद एवास्तगमनमिहेत्यर्थः । यथास्वमिति । यस्य यत्स्वरूपं प्राणाद्यात्मकं तदपि भिद्यत इत्यन्वयः । पुरुष इत्येवं प्रोच्यत इत्यस्यार्थमाह – भेदे चेति । यदनष्टमिति । कलानां हि रूपमारोप्याधिष्ठानोभयात्मकं सत्यानृतमिथुनरूपं, तत्राऽऽरोप्यस्य नामरूपात्मकस्य भेदेऽधिष्ठानात्मकं रूपं पुरुषात्मनोच्यत इत्यर्थः । यथा समुद्रस्वरूपभूतं जलं मेघैराकृष्याभिवृष्टं गङ्गादिनामरूपोपाधिना समुद्राद्भिन्नमिव व्यवह्रियमाणं तदुपाधिविगमे समुद्रस्वरूपमेव प्रतिपद्यत एवमविद्याकृतनामरूपोपाधिवशादात्मनो भिन्नमिव स्थितं सर्वं जगद्विद्ययाऽविद्याकृतनामरूपविगमे ब्रह्ममात्रतयाऽवशिष्यत इत्यर्थः । एवं प्राणादिकलोपाधिक आत्मन उत्क्रमणादिशब्दितमरणादिव्यवहार इत्युक्तेः प्रयोजनं प्राणादिनिवृत्तावुत्क्रमणादिसर्वसंसारधर्मरहितात्मस्वरूपावस्थानरूपं दर्शयितुं स एष इति वाक्यं व्याचष्टे –
य एवं विद्वानित्यादिना ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 परिवारा इति । नाभेः परितो नाभौ नेम्यां च प्रोतास्तिर्यक्काष्ठविशेषा इत्यर्थः । यथाप्रवेशिता इति । यथावत्सम्यक्प्रवेशिता इत्यर्थः । माङोऽर्थं व्यतिरेकप्रदर्शनेन स्पष्टयति –
न चेदिति ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 शिष्याणां कृतार्थताबुद्धिजननार्थं तानित्यदि वाक्यं व्याचष्टे –
तानेवमिति ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकिरणेनेति । प्रक्षेपेणेत्यर्थः । अतः पितृत्वं तवेति । “जनकश्चोपनेता च यश्च विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः” ॥ इति स्मृतेरित्यर्थः । योऽस्माकमितिहेतूक्तेस्तात्पर्यं वदन्पितृत्वोक्तिमात्रेण विद्यानिष्क्रयार्थं किं दत्तमित्यपेक्षायां स्वशरीरमेव परिचारकतया दासभावेन गुरवे दत्तमित्याह – इतरस्मादिति ।
पितृत्वादेव किं पूज्यतरत्वं परिचार्यत्वं स्वामित्वं किमु वक्तव्यमित्यर्थः । अत एव वाजसनेयके मां चापि सह दास्यायेतीत्युक्तमिति भावः ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】
इत्यानन्दज्ञानविरचितप्रश्नोपनिषद्भाष्यटीकायां षष्ठः प्रश्नः ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदानन्दज्ञानविरचिताऽऽथर्वणप्रश्नोपनिषद्भाष्यटीका समाप्ता ॥ प्रथमः प्रश्नः द्वितीयः प्रश्नः तृतीयः प्रश्नः चतुर्थः प्रश्नः पञ्चमः प्रश्नः षष्ठः प्रश्नः
Using this in academic work? Get formal citation
Ānandagiri (2026). Ānandagiri Ṭīkā — Praśna. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/anandagiri-tika-prashna
Ānandagiri. "Ānandagiri Ṭīkā — Praśna." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/anandagiri-tika-prashna.
Ānandagiri. "Ānandagiri Ṭīkā — Praśna." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/anandagiri-tika-prashna.