Ānandagiri Ṭīkā — Taittirīya
Ānandagiri
विवृतं ब्राह्मणे तत्स्यामदृश्यं ब्रह्म निर्भयम् ॥१॥ 【भाष्यम्】 【भाष्यम्】 यजुर्वेदशाखाभेदतैत्तिरीयकोपनिषदं व्याचिख्यासुर्भगवान्भाष्यकारस्तत्प्रतिपाद्यं ब्रह्म जगज्जन्मादिकारणत्वेन तटस्थलक्षणेन मन्दमतीन्प्रति सामान्येनोपलक्षितं, सत्यज्ञानादिना च स्वरूपलक्षणेन विशेषतो विनिश्चितं नमस्कारच्छलेन सङ्क्षेपतो दर्शयति – यस्माज्जातमिति । निमित्तोपादानत्वयोः पञ्चम्याः साधरण्यादुभयविधमपि हेतुत्वमविवक्षितम् । कार्यविलयस्य प्रकृतावेव नियतत्वाद्विशेषतः प्रकृतित्वमाह – यस्मिन्निति । कार्यधारणस्य निमित्ते धर्मादावपि प्रसिद्धत्वात्साधारणकारणत्वमाह – येनेति ।
ज्ञानात्मन इति स्वरूपलक्षणसूचनम् ॥१॥ 【भाष्यम्】 【भाष्यम्】 गुरुभक्तेर्विद्याप्राप्तावन्तरङ्गसाधनत्वं ख्यापयितुं गुरून्प्रणमति – यैरिति ।
पदानि च वाक्यानि च प्रमाणं चानुमानादि तद्विवेचनेन व्याख्याता इत्यर्थः ॥२॥ 【भाष्यम्】 【भाष्यम्】 चिकीर्षितं निर्दिशति – तैत्तिरीयकेति । व्युत्पन्नस्य पदेभ्य एव पदार्थस्मृतिसम्भवात्पदस्मारितपदार्थानां संसर्गस्यैव वाक्यार्थत्वात्सूत्रकारेणोपनिषत्तात्पर्यस्य निरूपितत्वाच्च व्यर्थः पृथग्व्याख्यारम्भ इत्याशङ्याह – विस्पष्टार्थेति ।
मन्दमतीनां स्वत एव निःशेषपदार्थस्मरणासम्भवादुपनिषद्गतानिःशेषपदार्थानां विशिष्य निःसंशयं ज्ञानं ये रोचयन्ते तेषामुपकारायेत्यर्थः ॥३॥ 【भाष्यम्】 【भाष्यम्】 कर्मविचारेणैवोपनिषदो गतार्थत्वादुपनिषत्प्रयोजनस्य निःश्रेयसस्य कर्मभ्य एव सम्भवात्पृथग्व्याख्यारम्भो न युक्त इत्याशङ्कामपनेतुं कर्मकाण्डार्थमाह – नित्यानीति । “अथाऽतो धर्मजिज्ञासा”(जै.सू. १।१।१) इति जैमिनिना धर्मग्रहणेन सिद्धवस्तुविचारस्य पर्युदस्तत्वान्नोपनिषदो गतार्थत्वमित्यर्थः । तानि च कर्माणि सञ्चितदुरितक्षयार्थानि । “धर्मेण पापमपनुदति”(म. ना. उ. २-१) इति श्रुतेर्न निःश्रेयसार्थानि । न केवलं जीवतोऽवश्यकर्तव्यान्यधिगतानि फलार्थिनां काम्यानि च । न तान्यपि निःश्रेयसार्थानि । “स्वर्गकामः”,“ पशुकामः” इत्यादिवन्मोक्षकामोऽदः कुर्यादित्यश्रवणात् । अतः संसार एव कर्माणां फलमित्यर्थः । कर्मकाण्डार्थमुक्त्वा तत्राविचारितमुपनिषदर्थमाह – इदानीमिति । कर्मणामुपादानेऽनुष्ठाने यो हेतुस्तन्निवृत्त्यर्थं ब्रह्मविद्याऽस्मिन्ग्रन्थ आरभ्यते । अतः सनिदानकर्मोन्मूलनार्थत्वादुपनिषदः कर्मकाण्डविरुद्धत्वान्न गतार्थत्वमित्यर्थः । कर्मानुष्ठाने हेतुर्नियोगस्तस्य प्रमाणसिद्धत्वान्न विद्यया विरोध इत्याशङ्क्याह – कर्महेतुरिति । अस्येदं साधनमित्येतावच्छास्त्रेण बोध्यते । यस्य यत्राभिलाषः स तत्र प्रवर्तते कामत एव । अतो न नियोगस्य प्रवर्तकसम्भावनापीत्यभिप्रायः । सति कामे प्रवृत्तिरित्यन्वय उक्तः । कामाभावे न प्रवृत्तिरिति व्यतिरेकमाह – आप्तेति । अभिलषितविषयप्राप्तिः कामनिवृत्तौ हेतुः । न विद्या । अतः कथं कर्महेतुपरिहाराय विद्यारम्भ इत्याशङ्क्याह – आत्मकामत्वे चेति । कामितविषयप्राप्त्या कामस्य तात्कालिकोपशममात्रं न तूच्छेदः । पुनर्विषयाकाङ्क्षादिदर्शनात् । आत्मकामनापि निरङ्कुशाऽऽत्मैव वस्तु नान्यत्ततोऽस्तीत्येवंरूपात्मकामत्वे सति भवति कामयितव्याभावादेव । आत्मानं ह्यद्वयानन्दरूपमजानन्नेव व्यतिरिक्तं विषयं पश्यन्कामयते । ततः कामस्याऽऽत्माविद्यामूलत्वादात्मविद्यैव तन्निवृत्तिहेतुरित्यर्थः । भवत्वात्मविद्या कामविरोधिनी कर्महेतुपरिहाराय ब्रह्मविद्या प्रस्तूयत इति कथमुक्तं तत्राह – आत्मेति । आनन्दमयं परमात्मानमादय श्रुतिरुदाहृता । एवं तावत्कर्मकाण्डेनागतार्थत्वात्कर्मभ्योऽसम्भाव्यमाननिःश्रेयसप्रयोजनत्वाच्चोपनिषदो व्याख्यारम्भं सम्भाव्य पुनरनारम्भवादिनोऽभिप्रायमुद्भावयति – काम्यप्रतिषिद्धयोरिति । आत्यन्तिकागामिशरीरानुत्पादे स्वरूपावस्थानं निःश्रेयसं, शरीरानुत्पादश्च हेत्वभावादेव सेत्स्यति किं ज्ञानार्थोपनिषदारम्भेणेत्यर्थः । मतान्तरमाह – अथवेति । यदेव स्वर्गसाधनं ज्योतिष्टोमादि तदेव मोक्षसाधनं , निरतिशयप्रीतेः स्वर्गपदार्थस्य मोक्षादन्यत्रासम्भवात्सति शरीरे क्लेशावश्यम्भावादित्यर्थः । ऐकभविकपक्षे आद्यं मतं प्रत्याख्याति – नेत्यादिना । यद्यपि वर्तमाने देहे काम्यं प्रतिषिद्धं च नाऽऽरभेत मुमुक्षुस्तथाऽपि सञ्चितस्यानेकस्य सम्भवाद्धेत्वभावोऽसिद्ध इत्यर्थः । प्रायणेनभिव्यक्तानि सर्वाण्येव कर्माणि सम्भूयैकं शरीरमारभन्ते , तत्र सर्वेषामुपभोगेन क्षयितत्वात्सञ्चितं कर्मैव नास्तीतिशङ्कानिराकरणायोक्तम् – विरुद्धफलानीति । स्वर्गनरकफलानां ज्योतिष्टोमब्रह्महत्यादीनामेकस्मिन्देहे भोगेन क्षयासम्भवात् प्रायेणास्य सर्वाभिव्यञ्चकत्वे प्रमाणाभावात्बलवता प्रतिबद्धस्य दुर्बलस्यावस्थानं सम्भवतीत्यर्थः । सम्भावनामात्रमेतन्नात्र प्रमाणमस्तीत्याशङ्क्याऽऽह – कर्मशेषेति । प्रेत्य स्वकर्मफलमनुभूय ततः शेषेण जन्म प्रतिपद्यन्त इति स्वर्गादवरोहतां कर्मशेषसद्भावं दर्शयतीत्यर्थः । सञ्चितकर्मसद्भावमङ्गीकृत्य देहान्तरारम्भो न भविष्यतीत्याह – इष्टेति । एतद्भाट्टानां सिद्धान्तविरुद्धमित्याह – नेति । मुमुक्षुणाऽनुष्ठितस्य नित्यादेः सञ्चितकर्मक्षयार्थत्वाभ्युपगमेऽपि नाभिमतसिद्धिरित्याह – यदि नामेति । यच्चोक्तं मुमुक्षुः काम्यानि वर्जयेदिति तदप्यसति विवेकबले दुर्घटम् । सति मूलाज्ञाने कामोद्भवस्य दुर्निवारत्वादित्याह – न च कर्महेतूनामिति । ननु कामो नाज्ञानमूलः । आत्मविदामपि कामदर्शनादित्यत आह – स्वात्मनि चेति । सर्व आत्मेति पश्यतां तत्त्वतो विषयाभावादेव कामानुपपत्तिः । अशनादिप्रवृत्तिनिमित्तं तु कामाभास एव । वास्तवाभिनिवेशाभावादित्यर्थः । तेषामप्यर्चिरादिमार्गेण ब्रह्मप्राप्तेः कामनाऽस्तीति नाऽऽशङ्कनीयमित्याह – स्वयं चेति । यच्चोक्तमकरणनिमित्तप्रत्यवायपरिहारार्थानि नित्यानीति तत्राऽऽह – नित्यानां चेति । आगामि दुःखं प्रत्यवाय उच्यते । तस्य भावरूपस्य नाभावो निमित्तम् । “पापः पापेन”(बृ. उ. ३ । २ । १३) इति श्रुतेः । निषिद्धाचरणनिमित्तत्वाद्दुःखस्येत्यर्थः । “अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति॥” इति शतृप्रत्ययादकरणस्यापि प्रत्यवायनिमित्तत्वमवगतमित्याशङ्क्याऽऽह – अतः पूर्वेति । यदि यथावन्नित्यनैनिमिकानुष्ठानमभविष्यत्तदा सञ्चितदुरितक्षयोऽभविष्यत् । न चायं विहितकार्षीदित्यतः प्रत्यवायो भविष्यतीति शिष्टैर्लक्ष्यते । यथा विचिकित्सञ्श्रोत्रिय इति । ततः शतृप्रत्ययस्यान्यथा व्युत्पन्नत्वान्न तद्बलादकरणे हेतुत्वमवगन्तुं शक्यत इत्यर्थः । ननु लक्षणहेत्वोः क्रियाया इति शतृप्रत्ययस्योभयत्र विधाने सति किमिति हेतुत्वमेव न गृह्यते , तत्राऽऽह – अन्यथेति । भावरूपस्य कार्यस्य भावरूपमेव कारणमिति प्रत्यक्षादिभिरवगतं , शतृप्रत्ययादभावस्य हेतुत्वाभिधाने सर्वप्रमाणविरोधः स्यादित्यर्थः । ननु त्वयाप्यकरणस्य प्रत्यवायलक्षणत्वमिष्टम् । भाट्टैश्चानुपलम्भस्याभावप्रमितिहेतुत्वमिष्यते । तार्किकैश्च प्रतिबन्धकाभावस्य तत्तत्प्रागभावस्य च तत्तत्कार्यव्यवस्थापकत्वमिष्यते । तत्कथं भावस्यैव कारणत्वम् । तदुक्तम् - “भावो यथा तथाऽभावः कारणं कार्यवन्मतः” इति । उच्यते । अस्माभिस्तावदभावस्य स्वरूपेण कारणं नेष्टम् । किन्तु तज्ज्ञानस्य प्रतवायगमकत्वमिष्टम् । तेन च रूपेण न प्रत्यवायजनकत्वमिष्यते । नित्याकरणज्ञाने प्रत्यवायाभावप्रसङ्गात् । भाट्टानामपि च केषाञ्चिज्ज्ञातस्य योग्यानुपलम्भस्याभावप्रतिमिहेतुत्वं , सत्तया तु प्रमितिहेतुत्वेऽभावप्रमायाः प्रत्यक्षत्वापातः । तार्किकाणामपि प्रतिबन्धकाभावस्य कारणत्वे अन्योन्याश्रयत्वप्रसङ्गान्न प्रामाणिकत्वम् । प्रागभावस्यापि ज्ञातरूपेण जन्यज्ञापकत्वमेव । यस्मादिदं प्राङ्नाऽसीत्तस्मादिदानीं जातमिति । न तु जनकत्वं प्रागभावस्य नियतप्राग्भावित्वेन कारणत्वे प्राक्कालस्य स्ववृत्तितापातः । प्राग्भावित्वमपि चान्यथासिद्धमित्युक्तं तत्त्वालोके । यस्मादकरणनिमित्तप्रत्यवायपरिहारार्थं न नित्यं कर्म किन्तु “कर्मणा पितृलोकः”(बृ. उ. १ । ५ । १६) “सर्व एते पुण्यलोका भवन्ति इति”(छा. उ. २ । २३ । १) श्रुतेः पितृलोकप्राप्तिफलम् , तस्मान्न यथोक्तचरितस्य शरीरानुत्पाद इत्याह – आयत्नत इति । द्वितीयमतमनूद्य दूषयति – यच्चोक्तमित्यादिना । विद्यासहितेनापि कर्मणाऽऽरभ्यश्चेन्मोक्षस्तर्ह्यनित्य एव । यत्कृतकं तदनित्यमिति व्याप्तिदर्शनादित्युक्तं तत्र व्याप्तिभङ्गं मन्वानः शङ्कते – यद्विनष्ठमिति । भावरूपत्वादिति । यद्भावरूपं कार्यं तदनित्यमिति व्याप्तेस्तव च मोक्षस्य निरतिशयप्रीतेर्भावत्वादनित्यत्वं स्यादेवेत्यर्थः । प्रध्वंसाभावस्य कार्यत्वमभ्युपगम्य यत्प्रध्वंसातिरिक्तकार्यं तदनित्यमिति व्याप्तिर्व्याख्यातैव । वस्तुतस्तु प्रध्वंसस्य कार्यत्वमपि नास्तीत्याह – प्रध्वंसेति । जन्याश्रयत्वं तावत्प्रध्वंसस्य न कार्यत्वम् । जनेर्नैरुक्तैर्भावविकारत्वाभ्युपगमात् । नापि प्रागसतः सत्तासमवायादिलक्षणम् । तदनभ्युपगमात् । नाप्युत्तरकालयोगः । कालेन सम्भन्धाभावात् । अवच्छेदावच्छेदकभावस्य सम्बन्धान्तरमूलकत्वदर्शनात् , तदुत्तरकालस्य प्रध्वंसावच्छेदकत्वं स्वभावश्चेदन्यावच्छेदकत्वं स्वभावो न स्यात् । तस्मादभावस्य निर्विशेषकत्वात्कार्यत्वं कल्पनामात्रपरमिति भावः । किञ्च , अभावस्य भावनिषेधमात्रस्वभावत्वाद्भावविरोधित्वाच्च न भावरूपो धर्मः सम्भवतीत्याह – भावेति । ननु अभावश्चतुर्विधः । तत्रानित्यः प्रागभावः । प्रध्वंसादयस्तु नित्याः ततः कथं निर्विशेषत्वमित्याशङ्क्याऽऽह – यथा हीति । विधिप्रत्ययस्यैकाकारत्वादेक एव भावोवच्छेदकभेदाद्भिन्न इव प्रकाशते जायते नश्यति चेति क्रियायोगात्संख्यागुणयोगाद्द्रव्यवदभावो विकल्प्यते । न तु तत्त्वतः सविशेष इत्यर्थः । इतश्च न तत्त्वतः सविशेष इत्याह – न हीति । विशेषणं हि विशेष्यान्वयि प्रसिद्धम् । प्रतियोगिना च विशेषणेन नाभावस्य सहभावोऽस्ति । घटप्रध्वंसस्य नित्यत्वे घटस्यापि नित्यत्वप्रसङ्गात् । घटसहभावित्वे च तदभावत्वव्याघाताद्भावाभावयोः सहानवस्थानरूपविरोधाभ्युपगमात् । ततः प्रतियोगिविशेषादभावः सविशेषः कार्यत्वादिधर्मवानिति विभ्रममात्रमित्यर्थः । एवं प्रध्वंसदृष्टान्तेन शङ्कितं नित्यत्वं परिहृत्य प्रकारान्तरेणाऽऽशङ्कां निषेधयति – विद्याकर्मेत्यादिना । विद्याकर्मणोः कर्ता नित्य इति साधनसान्तत्यात्साध्यसान्तत्यं न वाच्यम् । कर्तृत्त्वस्यानुपरमेऽनिर्मोक्षप्रसङ्गादुपरमे च साधनसान्तत्याभावान्मोक्षस्य विच्छित्तिः स्यादित्यर्थः । यस्मान्निःश्रेयसं ब्रह्मज्ञानं विना दुष्प्रापं तस्मादित्युपसंहारः । ब्रह्मविद्यायामुपनिषच्छब्दप्रसिद्धिरपि विद्याया एव निःश्रेयससाधनत्वे प्रमाणमित्याह – उपनिषदिति । निशातनात् शिथिलीकरणादित्यर्थः । अस्यां विद्यायां निमित्तभूतायां परं श्रेयो ब्रह्म जीवस्योपनिषण्णमात्मतयोपस्थितं भवतीत्यर्थः । एवमुपनिषदां व्याख्यारम्भं सम्भाव्य प्रतिपदव्याख्यामारभते – शं मुखमित्यादिना । शं नो भवत्त्विति । सुखकृद्भवत्वित्यर्थः । अध्यात्मप्राणकरणाभिमानिनीनां देवतानां सुखकृत्त्वं किमिति प्रार्थ्यते तत्राऽऽह – तामसु हीति । श्रवणं गुरुपादोपसर्पणपूर्वकं वेदान्तानां तात्पर्यावधारणम् । धारणं श्रुतस्याप्यविस्मरणं । उपयोगः शिष्येभ्यो निवेदनम् । अन्यद्ब्रह्मवायुश्चान्य इति नाऽऽशङ्कनीयमित्याह – परोक्षेति । ब्रह्मणे इति परोक्षेण “स ब्रह्म त्यदित्याचक्षत ”(बृ. उ. ३ । ९ । ९) इति श्रुतेः । वायुशब्देन च प्रत्यक्षतया निर्देशः । प्राणस्य प्रत्यक्षत्वादित्यर्थः । यद्यपि सूत्रात्मरूपेण वायुः परोक्षः तथाऽप्याध्यात्मिकप्राणवायुरूपेण ब्रह्मशब्दवाच्यत्वेऽप्यपरोक्षत्वमित्याह – किञ्चेति । बाह्यं चक्षुरादि रूपदर्शनाद्यनुमेयत्वाद्व्यवहितम् । प्राणस्त्वव्यवधानेन साक्षिवेद्यः सन्निहितश्च भोक्तुरिति चक्षुराद्यपेक्षया प्रत्यक्ष इत्यर्थः । बृहनाद्ब्रह्म । प्राणकृतेन ह्यशनादिना शरीरादेर्बृहणं प्रसिद्धमित्यर्थः । यथाराज्ञो दौवारिकं कश्चिद्राजदिदृक्षुराह – “त्वमेव राजा” इति तथा हार्दस्य ब्रह्मणो द्वारपं प्राणं हार्थं ब्रह्म दिदृक्षुर्मुमुक्षुराह – त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामिति । ब्रह्मवदनक्रिया प्राणदेवतास्तुत्यर्था । स्तुत्यन्तरमाह –
ऋतमित्यादिना ॥१॥ 【भाष्यम्】 【भाष्यम्】 इति प्रथमोऽनुवाकः ॥ लक्षणमिति । लक्षणं शास्त्रम् । ऋटुरषाणां मूर्धा । इचुयशानां ताल्वित्यादि । तस्यान्यत्रैव सिद्धत्वादिह कर्मव्युप्तत्तिरेव शिक्षाशब्दस्य ग्राह्या ।[रूपमिति] “चक्षिङः ख्याञ्” “वा लिटि ”(पा.सू. २।४।५५) इति सूत्रेण ख्याञादिष्टो यस्तस्येदं रूपं न “ख्या प्रकथेन ” इत्यस्य सोपसर्गस्य , प्रयोगानभिधानादित्यर्थः ॥
इति द्वितीयोऽनुवाकः ॥२॥ 【भाष्यम्】 【भाष्यम्】 यत्नोपरम इति । स्वरोष्मव्यञ्जनप्रमादो मा भूदित्यर्थः । अन्यथा विवक्षितार्थसिद्धिरेव न स्यात् । तदुक्तम् - “मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥”(पा.शि. ५२) इति । संहिता वर्णानां सन्निकर्षस्तद्विषयमुपासनं प्रथमं कथ्यत इत्याह – अधुनेति । सन्निधानाच्च स्वशाखासंहितैव ग्राह्या । शं नो मित्र इत्याशीर्वादः कृत्स्नोपनिषच्छेषः । संहितोपनिषच्छेषमशीर्वादान्तरमाह – तत्रेति । वस्तूपासनं हित्वा प्रथमतः शब्दोपासनविधाने हेतुरतः शब्देनोक्त इत्याह – यतोऽन्यर्थमिति । पञ्चस्विति सप्तमी तृतीयार्थे विपरिणेया । अधिकरणशब्दश्च विषयपर्यायः । पञ्चभिः पर्यायैः विशेषितं ज्ञानं वर्णेषु वक्तव्यम् । यथा विष्णुदर्शनं प्रतिमायामित्यर्थः । लोकेष्वधीति । लोकानाधिकृत्योपादाय ध्येयत्वमित्यर्थः । विद्याशब्देन विद्याप्रतिबद्ध आचार्यादिर्विवक्षितः । तथैव प्रजाशब्देन प्रजाप्रतिबद्धः प्रित्रादिर्विवक्षितः । अध्यात्ममिति । आत्मानं भोक्तारमधिकृत्य यद्वर्तते जिह्वादि तद्विवक्षितम् । सर्वत्र तत्तदभिमानीनि देवतैव ग्राह्या । अन्यस्योपास्यत्वासम्भवादिति । विधिशेषमर्थवादमाह – ता एता इति । संहितोपनिषदः कर्तव्या इत्युत्पत्तिविधिरुक्तः । कथं कर्तव्या इत्याकाङ्क्षायां विनियोगविधिमाह – अथ तासामित्यादिना । कर्तुरेकत्वादनुष्ठेयानां बहुत्वादवश्यम्भाविनि क्रमे विशेषनियमर्थोऽथशब्दः । “हृदयसाग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसः” इतिवत् । उपप्रदर्श्यन्ते परामृश्यन्ते । अविकारविधिप्रदर्शनाय, यथा षड्यागाः समुच्चिताः । फलसाधनमधिकारांशेनाभेदात् । तथा पञ्चोपनिषदः समुच्चिताः प्रजादिफलकामस्यानुष्ठेया इत्याह – यः कश्चिदित्यादिना ।
फलकामिनानुष्ठीयमानं संहितोपासनं कामितफलाय भवति । फलानभिसन्धिना त्वनुष्ठीयमानं ब्रह्मविद्यार्थं भवति । मेधाहीनेन ब्रह्मणोऽवगन्तुमश्यक्यत्वान्मेधाकामस्य जपोऽपि ब्रह्मविद्यार्थो भवति । श्रीविहीनेन सत्त्वशुद्ध्यर्थं यागाद्यनुष्ठातुं न शक्यत इति श्रीकामस्य होमोऽपि परम्परया ब्रह्मविद्योपयोगीति महत्तात्पर्यं विद्यासन्निधिसमाम्नातानां सर्वत्र द्रष्ठव्यम् ॥३॥ 【भाष्यम्】 【भाष्यम्】 इति तृतीयोऽनुवाकः ॥ अवान्तरतात्पर्यमभिप्रेत्याह – यश्छन्दसामित्यादिना । सम्बभूवेति जन्मवाचके पदे श्रूयमाणे किमिति “प्रजापतिर्लोकानभ्यतपत्”(छा. उ. २ । २३ । २) इत्यादिश्रुत्यन्तरानुसारेणाऽऽत्मज्ञानयोग्यकार्यश्रेष्ठत्वेन प्रतिभानं व्याख्यायते तत्राऽऽह । न हीति । पुरुषविपरिणाम इति । भूयासमित्युत्तमपुरुषस्य प्रकृतस्य प्रथमपुरुषत्वेन विपरिणामः कर्तव्य इत्यर्थः । अचेतनशब्दं प्रति प्रार्थना कथं कथं चेन्द्रशब्देनाभिधानमित्याशङ्क्य ब्रह्माभेदविवक्षयेत्यभिप्रेत्याह – ब्रह्मण इति । ब्रह्माभेदेन प्रार्थितदाने समर्थश्चेदोङ्कारः किमिति सर्वैर्नोपास्यत इत्याशङ्क्याह – मेधयेति । लौकिकप्रज्ञयेति । शालग्रामादिश्विव देवताबुद्ध्येत्यर्थः । नैतेष्वार्षेयादि मृग्यम् । ब्राह्मणोत्पन्नत्वात् । “वस निवासे , वस आच्छादने” इति धातुद्वयदुप्रत्ययः शीलेऽर्थे । वसुर्वसनशीलः । पराच्छादनशीलो वा वसुः । अतिशयेन वसुर्वसीयांस्तस्माद्वसीयसः । ईलोपश्छान्दसः । वसुमान्वसुशब्देन लक्ष्यत इत्यभिप्रेत्याऽऽह – वसुमत्तराद्वेति । पूर्वोक्तस्य प्रयोजनमाह – किञ्चेति । यदुक्तं “ब्रह्मचारिणो मामायन्तु” इति तत्र दृष्टान्तमाह – यथेति । इति चतुर्थोऽनुवाकः ॥ वृत्तानुवादपूर्वकमुत्तरानुवाकस्य सम्बन्धमाह – संहिताविषयमित्यादिना । व्याहृतीनां श्रद्धागृहीतत्वात्तत्परित्यागेनोपदिश्यमानं ब्रह्म न बुद्धिमारोहेदिति ततो व्याहृतिशरीरं हिरण्यगर्भाख्यं ब्रह्मान्तर्हृदये ध्येयत्वेनोपदिश्यत इत्यर्थः । मह इति व्याहृतावङ्गिब्रह्मदृष्टिः कर्तव्या । तत्र किं साम्यमित्यत आह – महद्धीति । यथा देवदत्तस्य पादादीन्यङ्गानि मध्यभागश्चाङ्गी , इतरेषामङ्गानामात्मा कथ्यते व्यापकत्वात् । तथा महोव्याहृतिर्हिरण्यगर्भस्य ब्रह्मणो मध्यभाग आत्मेति कल्प्यते । इतराश्च व्याहृतयः पादाद्यवयवत्वेन कल्प्यन्ते । प्रथमव्याहृतिः पादौ , द्वितीया बाहू , तृतीया शिर इत्यर्थः । व्याहृत्यवयवं ब्रह्मोपासीतेत्युत्पत्तिविधिरुक्तः । इदानीमङ्गविशेषविधिः कथ्यते – भूरिति वा अयं लोक इत्यादिना । तत्रैकैका व्याहृतिश्चतुष्प्रकाराऽवगन्तव्येति तात्पर्यमाह – अयं लोक इत्यादिना । एकैका व्य्याहृतयो यदा चतुष्प्रकाराश्चिन्त्यन्ते तदा षोडशकलः पुरुष उपासितो भवतीत्यभिप्रेत्य संक्षेपमाह – ता वा एता इति । स वेद ब्रह्मेति ब्रह्मवेदनं फलत्वेन न सङ्कीर्त्यतेऽधिकारविधिवाक्ये । किन्तु वक्ष्यमाणानु वाकेनास्मिन्नेव ब्रह्मोपासने गुणविधानं भविष्यतीति सूचयितुमित्याह – न तद्विशेषविवक्षुत्वादित्यादिना । यदि व्याहृत्यवयवमेव ब्रह्मोत्तरत्रोपास्यते तदैवोपासकस्य प्रथमव्याहृत्यात्मकेऽग्नौ प्रतिष्ठाभिधानं घटेत । तस्माद्व्याहृत्यात्मकदेवताप्राप्त्यभिधानं उपासनैकत्वे लिङ्गमाह – लिङ्गाच्चेति । किञ्चैकत्र प्रधानविद्याविधिरपरत्र गुणविधिरित्येवमनुवाकभेदे चरितार्थे नानन्यथासिद्धं भेदकं प्रमाणमुपलभ्यत इत्याह – विधायकाभावाच्चेति । विधायक इति । भिन्नविद्याबोधक इत्यर्थः । इति पञ्चमोऽनुवाकः ॥ तदुपलभ्यत्वादिति । ज्ञानाकारपरिणामिनि मनस्येवोपलभ्यत्वाद्ध्यायिभिरित्यर्थः । जडस्य मनसः प्रवृत्तिं दृष्ट्वा तदधिष्ठातृतया हिरण्यगर्भोऽनुमीयते । तस्य शास्त्रे सकलकरणाधिष्ठातृत्वेन प्रसिद्धत्वादिति तल्लिङ्गत्वमुक्तमित्यर्थः । स्वाराज्यं निरङ्कुशमैश्वर्यं जगत्स्रष्टुत्वादिलक्षणं न भवतीत्याह – अङ्गभूतानां देवानामिति । सावधिकमैश्वर्यमेवाऽऽह – आप्नोतीत्यादिना । इति षष्ठोऽनुवाकः ॥ प्रुथिव्यादेः कथं पाङ्क्तत्वमित्याकाङ्क्षायां पङ्क्त्याख्यस्य च्छन्दसः सम्पादनादित्याह – पञ्चसंख्येति । न केवलं पञ्चसंख्यायोगात्पङ्क्तिच्छन्दःसम्पादनं यज्ञत्वसम्पादनमपि कर्तुं शक्यत इत्याह – पाङ्क्तश्च यज्ञ इति । पत्नीयजमानपुत्रदैवमानुषवित्तैः पञ्चभिः सम्पाद्यत इति यज्ञः पाङ्क्त इत्यर्थः । “उत्कृष्टदृष्टिर्निकृष्टे फलवती” इति न्यायाद्बाह्यपाङक्तरूपेणाऽऽध्यात्मिकपाङ्क्तत्रयमवगन्तव्यमित्यभिप्रेत्याऽऽह – एकात्मतयेति । इति सप्तमोऽनुवाकः ॥ उत्तरोऽप्यनुवाकः प्रकारान्तरेण हिरण्यगर्भोपासनविषय इत्याह – यदेतदित्यादिना । नन्वोङ्कारस्य शब्दमात्रस्याचेतनत्वादहमनेनोपासित इति ज्ञानाभावात्कथं फलदातृत्व स्यादित्याशङ्क्याऽऽह – परापरेति । प्रतिमाद्यर्चन इव सर्वत्रेश्वर एव फलदातेति भावः । ओङ्कारे ब्रह्मत्वाध्यासे किं सादृश्यमित्यत आह – ओमितीदमिति । सर्वास्पदत्वमोङ्कारस्य ब्रह्मणा सादृश्यमित्यर्थः । शस्त्राणि गीतिरहिता ऋच उच्यन्ते । प्रतिगरमिति । ओऽथामोदैवेति शब्दमध्वर्युः प्रतिगृणाति होतुः शंसनं प्रति प्रतिशसनमुच्चारयतीत्यर्थः । प्रवक्ष्यन्निति । “वच परिभाषणे” इत्यस्य रूपं प्रथमव्याख्याने । द्वेतीये “वह प्रापणे” इयस्य द्रष्टव्यम् । इति अष्टमोऽनुवाकः ॥ वृत्तानुवादपूर्वकमुत्तरानुवाकमवतारयति – व्याहृत्यात्मन इत्यादिना । वेदविदां हि सर्वाः क्रिया ओङ्कारमुच्चार्य प्रवर्तन्ते ततस्तस्य श्रद्धागृहीतत्वात्तत्परिहारेणोपदिष्टं ब्रह्म न बुद्धिमारोहेदतस्तमादायैवोपासनं विधायत इत्यर्थः । पुनः पुनः स्वाध्यायप्रवचनग्रहणस्य तात्पर्यमाह – सर्वैरेतैरिति । किमिति तत्नतोऽनुष्ठेये तत्राऽऽह – स्वाध्यायाधीनमिति । त्रयाणामृषीणां मतभेदोपन्यासेन स्वाध्यायप्रवचनयोरेवादरं विवृणोति – सत्यमित्यादिना । इति नवमोऽनुवाकः ॥ व्यवहितानुवाकेन सम्बन्धमाह – विज्ञानादेवेत्यादिना । अपरविद्यासहकारितया तत्फलेनैव फलवत्त्वसिद्ध्यर्थमुत्तरानुवाकारम्भ इत्यर्थः । लौकिकसंव्यवहारो विवाहादिः । स्वाध्यायार्थ इति जपार्थः “ इषे त्वेति शाखां छिनत्ति” इतिवत् । अन्यत्र विनियोजकं श्रुत्यादिप्रमाणमपि नोपलभ्यत इत्याह – न चान्यार्थत्वमिति । अक्षितमसीत्यादिवदुपासनाविधिशेषत्वं वा वक्तुं न शक्यते । ज्ञानसाधनक्रियाविधेः प्रक्रान्तत्वादित्यर्थः । अहं वृक्षस्येतिमन्त्रस्यर्षिस्त्रिशङ्कुः , पङ्क्तिश्छन्दः , परमात्मा देवता , ब्रह्मविद्यार्थे जपे विनियोगः । न केवलमस्य जपो विद्यार्थः पूर्वोक्तानि कर्माण्यपीत्याह – ऋतं चेत्यादिना । इति दशमोऽनुवाकः ॥ उत्तरानुवाकस्य तात्पर्यमाह – वेदमनूच्येत्यादिना । विद्योत्पत्त्यर्थं नित्यनैमित्तिकान्यनुष्ठेयानीत्येको नियम उक्तः । प्रागेव चानुष्ठेयानीति नियमान्तरमाह – प्रागुपन्यासाच्च कर्मणामिति । संग्रहवाक्यं विवृणोति केवलेत्यादिना । अविद्यया कर्मणा मृत्युमधर्म तीर्त्वेति मन्त्रोऽपि विद्योत्पत्तेः प्रागेव कर्मानुष्ठानं सूचयतीत्यर्थः । “ऋतं च स्वाध्यायप्रवचने च”(तै.उ. १ । ९ । १) इत्यादिना पूर्वत्र कर्मानुष्ठानमुक्तमेवातः पौनरुक्त्यमित्याशङ्क्याऽऽह – ऋतादीनामिति । विचारमकृत्वा गुरुकुलान्न निवर्तितव्यम् । किन्त्वध्ययनविधेरर्थावबोधनद्वारेण पुरुषार्थपर्यवसायितासिद्ध्यर्थमक्षरग्रहणानन्तरमर्थावबोधे प्रयतितव्यमित्याह – ग्रन्थग्रहणादन्विति । “वेदमधीत्य स्नायात्” इति स्मृतिरप्येतच्छति विरुद्धेत्याह – अतोऽवगम्यत इति । वक्तव्यमिति । वचनार्हं परस्य हितमित्यर्थः । इत्येकादशोऽनुवाकः ॥ आद्यानुवाके केवलाया विद्याया निःश्रयससाधनत्वमुक्तमपि स्फुटीकर्तुं कर्मविधिमुपलभ्य प्रसङ्गात्पुनर्विचारयितुमुपक्रमते – अत्रैतच्चिन्त्यत इत्यादिना । विवेकार्थमिति पृथक्फलत्वज्ञापनार्थमित्यर्थः । “ भूतं भव्यायोपदिश्यते” इति न्यायेनाऽऽत्मज्ञानस्यापि कर्मकर्तृसंस्कारतया कर्मविधिशेषत्वाच्छुतस्यापि फलस्यार्थवादमात्रत्वात्कर्मभ्य एव परं श्रेय इति पूर्वः पक्षः । सिद्धान्तमाह – न नित्यत्वादित्यादिना । यद्यप्यध्ययनविधिप्रयुक्त्या कृत्स्नो वेदार्थं एकेन विचारितव्यस्तथाऽप्यध्ययनविधौ प्रतिवाक्याध्ययनं प्रतिवाक्यार्थविचारं च व्यापारभेदात्तत्प्रयुक्तऽभ्युदयकामस्य कर्मोपयोगिवाक्यार्थज्ञानवत्त्वमात्रेण कर्मण्यधिकारसम्भवाद्ब्रह्मसाक्षात्कारस्य तत्रानुपयोगित्वान्न समस्तवेदार्थज्ञानवतः कर्माधिकारे प्रमाणमस्तीत्याह – तच्च नेति । यद्यपि चाध्ययनविधिप्रयुक्त्या वेदान्तविचारोऽपि कृतो गुरुकुल एव तथाऽपि न समस्तवेदार्थज्ञानवतोऽधिकारः । उपासनासाध्यस्य ब्रह्मसाक्षात्कारस्य पृथग्भावादित्याह – श्रुतज्ञानेति । श्रुताद्गुरुकुले विचारिताद्वाक्यात्कर्मानुष्ठानोपयोगि यज्ज्ञानं तावन्मात्रेण कर्मण्यधिक्रियते न ब्रह्मसाक्षात्कारफलमुपासनमपेक्षते व्यतिरेकाभावादित्यर्थः । अध्ययनविधिव्यापारोपरमेऽनुष्ठेयं तथाभूतंब्रह्मोपासनमेव नास्ति, मानाभावादिति न वक्तव्यमित्याह – उपासनं चेति । एतच्च कर्ममीमांसान्यायाङ्गीकारमात्रेणोक्तम् । वस्तुतश्च श्रोतव्यविधिप्रयुक्त एवोपनिषद्विचारारम्भो भिन्नाधिकारः । कर्मकाण्डविचारोऽप्युत्तरविधिप्रयुक्त एवेति प्रकटार्थे प्रतिष्ठितम् । केवलं कर्म मोक्षसाधनमिति पक्षं निरस्य विद्यासमुच्चितं मोक्षसाधनमिति पक्षान्तरमाशङ्क्य निषेधत्ति एवं तर्हीत्यादिना । “न स पुनरावर्तते” (शरभोपनिषत्) इति वचनादारभ्योऽपि मोक्षो नित्य इति न शक्यं वक्तुम् । प्रसिद्धपदार्थयोग्यत्वमुपादाय वचनस्य संसर्गज्ञापकत्वात् । न चारभ्यस्य नित्यत्वे योग्यत्वं प्रसिद्धम् । अन्यथा वचनस्य कारकत्वप्रसङ्गात् । “अन्धो मणिमविन्दत्” इत्यादिष्वपि योग्यताकल्पनप्रसङ्गादित्याह – न ज्ञापकत्वादित्यादिना । कर्म प्रधानं विद्या चोपसर्जनमिति समुच्चयं निरस्य समसमुच्चयेऽप्यतिदिशति – एतेनेति । अनित्यत्वादिदोषप्रसङ्गेनेत्यर्थः । मोक्षेति । मोक्षस्य प्रतिबन्धहेतुरविद्याऽधर्मादिस्तन्निवर्तके विद्याकर्मणी न स्वरूपोत्पादके । ततः स्वरूपावस्थानस्य नित्यत्वम् । प्रध्वंसस्य च कृतकस्यापि नित्यत्वं प्रसिद्धमित्यर्थः । “भिद्यते हृदयग्रन्थिः”(मु. उ. २ । २ । ९) इत्यादिश्रुतेः केवलविद्यासाध्यैवाविद्यानिवृत्तिः न तत्र विद्यायाः सहकार्यपेक्षा कर्मफलं त्वन्यदेव प्रसिद्धमित्याह – न कर्मण इति । उत्पत्तिः पुरोडाशादेः । संस्कारो व्रीह्यादेः । विकारः सोमस्य । आप्तिर्वेदस्य । कर्मफलं प्रसिद्धम् । आत्मस्वरूपस्य तु मोक्षस्यानादित्वादनाधेयातिशयत्वादविकारत्वान्नित्याप्तत्वाच्च कर्मफलाद्वैपरीत्यमित्यर्थः । गतिश्रुतेरिति । अर्चिरादिगतिश्रवणाद्ब्रह्माण्डाद्बहिःस्थितब्रह्मप्राप्तिर्मोक्षः । ततो नित्याप्तत्वमसिद्धमित्यर्थः । गत्वा प्राप्तिः किं संयोगलक्षणा तादात्म्यलक्षणा वा , नोभयथाऽपीत्याह – न सर्वगतत्वादिति । गत्यादिश्रुतेस्तात्पर्यं शङ्कापूर्वकं दर्शयति – गत्यैश्वर्येत्यादिना । समुच्चयमभ्युपगम्य कर्मकार्यं किञ्चिन्मोक्षे न सम्भवतीत्युक्तम् । सोऽपि न सम्भवतीत्याह – विरोधाच्चेत्यादिना । यदि कर्त्रादिकारकभेदस्य सत्यत्वांशमपाबाध्य ब्रह्मज्ञानमुपदिश्यते तदा मिथ्यार्थत्वात्कर्मविधीनामप्रामाण्यं स्यादित्याह – विहितत्वादिति । शङ्कां विवृणोति – यदीत्यादिना । अध्ययनविधिगृहीतानां श्रुतीनां पुरुषार्थोपदर्शकत्वेन प्रामाण्यं वक्तव्यम् । न तु भेदस्य सत्यत्वेन । ततः प्रसिद्धिसिद्धं कारकादिभेदमर्थक्रियासमर्थमादाय प्रवृत्तानां प्रामाण्यं न विरुध्यत इत्याह – न पुरुषार्थेति । संग्रहवाक्यं विवृणोति – विद्योपदेशपरा तावदित्यादिना । पूर्वं सतमिथ्याविषयत्वेन विद्याकर्मणोर्विरोधमादाय समुच्चयो निरस्तः । इदानीं काम्यकामिविषयत्वेन विरोधमाह – अपि चेत्यादिना । समसमुच्चयं निरस्य गुणप्रधानभावेनापि समुच्चयं निरस्यति – विरोधादेव चेति । विद्या चेत्कर्माणि स्वफले नापेक्षते विरुद्धत्वात्त्रिदण्डिधर्मवदृतुगमनं कथं तर्हि विद्यासन्निधाने कर्माणां पाठ इत्यत आह – स्वात्मलाभेत्विति । कर्मणां विद्यासाधनत्वं श्रुत्वा गार्हस्थ्यमेवैकमनुष्ठेयमिति प्रत्यवतिष्ठन्ते कर्मजडाः – एवं तर्हीति । श्रुतिस्मृतिष्वाश्रमान्तराणामपि विहितत्वविशेषात्तदीयकर्मसु कर्मत्वाविशेषाच्च ग्राम्यधर्मरागिणामेवैतच्चोद्यमित्याह न कर्मनेकत्वादिति । असङ्कीर्णत्वादिति । हिंसाद्यमिश्रितत्वादित्यर्थः । इतश्च कर्मणो विद्यासाधनत्वेऽपि न गार्हस्थ्यमावश्यकमित्याह – जन्मान्तरेति । कामिनां गार्हस्थ्यस्यानुष्ठेयत्वेऽपि न सर्वैरनुष्ठेयत्वमित्यत्र हेत्वन्तरमाह – लोकार्थत्वाच्चेत्यादिना । गार्हस्थ्यस्यानावश्यकत्वेन वैकल्पिकमनुष्ठानमुक्तं तत्रातुल्यबलत्वेन विकल्पमाक्षिपतिकर्म प्रति श्रुतेरिति । जन्मान्तरकृतानुग्रहादिति परिहारभाष्यं विवृणोति – यदुक्तमित्यादिना । कर्मणि यत्नाधिकस्यान्यथासिद्धत्वात् विकल्पविघातकत्वं न सम्भवतीत्यर्थः । इदानीं गृहस्थाश्रमकर्माणां बहिरङ्गत्वं संन्यासाश्रमकर्मणां त्वन्तरङ्गविद्यासाधनत्वमिति विशेषं दर्शयितुं चोद्यमुद्भावयति – कर्मनिमित्तत्वादित्यादिना । शं नो मित्र इति । तदपरं ब्रह्म मामपरविद्यार्थिनमावीदरक्षदित्यर्थः । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां शीक्षावल्ल्यां द्वादशोऽनुवाकः ॥ असाधारण्येन परविद्योपसर्गशान्त्यर्थमाह – सह नाववत्विति । नावावयोस्तेजस्विनोरधीतं तेजस्व्यस्त्विति योजना । शान्तिद्वयस्यापौनरुक्त्यमाह – शं नो मित्र इति । इदानीं परविद्यार्थिनमप्यवतु साधारण्येन मया पूर्वं प्रर्थितत्वादित्यर्थः । ननु यथा पूर्वमाप्नोति स्वराज्यमित्यपरविद्याफलमुक्तं संसारगोचरमेव तथा परविद्याफलमुक्तं संसारगोचरमेव तथा परविद्याफलमपि “सोऽश्नुते सर्वान्कामान्”(तै. उ. २ । १ । १) इति सर्वविषयसाध्यानन्दान् संसारगोचरानेव दर्शयिष्यति कथमात्यन्तिकः संसाराभाव इत्यत आह – प्रयोजनं चास्या इति । सर्वकामशब्देन निरतिशयानन्दभिव्यक्तिर्विवक्षिता । सा च स्वभावानन्दानभिव्यक्तिरूपाविद्यानिवृत्तिरेवेति न संसारगोचरं फलमित्यर्थः । आद्यवाक्यस्यावान्तरतात्पर्यमाह – स्वयमेव चेति । विद्ययैव केवलया मोक्षः साधयितुं शक्यते ब्रह्मविदितिविशेषणात् । सम्बन्धज्ञानस्य पुरुषाकाङ्क्षाविषयतया परप्राप्तिः प्रयोजनं विद्याया इति ज्ञापनस्य वा कुत्रोपयोग इत्याशङ्क्य यज्ञादिपरित्यागेन वेदान्तश्रवणादावेव मुमुक्षुणा प्रवर्तितव्यामित्यत्रेत्याह – निर्ज्ञातयोर्हीति । परशब्देनोत्कृष्टमुच्यते कथं ब्रह्मेति व्याख्यायते तत्राऽऽह – न हीति । आप्नोतिशब्दस्यौपचारिकमर्थं दर्शयितुं शङ्कामुखेन मुख्यार्थो बाधकमाह – ननु सर्वगतमित्यादिना । परमार्थतो ब्रह्मस्वरूपस्यापि सतो जीवस्याविद्यया ब्रह्मस्वरूपस्यापि सतो जीवस्याविद्यया ब्रह्मानाप्त स्यादिति सम्बन्धः । भूतमात्राभिर्भूतांशैः कृता ये बाह्याः परिच्छिन्नाश्चान्नमयादयस्तदात्मत्वदर्शिन इत्यविद्याआ विक्षेपकत्वं स्वरूपमुक्तम् । परमार्थं ब्रह्मस्वरूपं नास्तीत्यभावदर्शनमावरणलक्षणं लिङ्गं यस्याः सा तथोक्ता । स्वरूपेप्यग्रहणविपर्ययौ भवत इत्यत्र दृष्टान्तमाह – प्रकृतेति । प्रकृतसंख्यापूरणस्य दशमस्य नवैव वयं वर्तामह इति विपर्ययः स्वरूपादर्शनं च यथेत्यर्थः । अदर्शननिमित्तामनाप्तिं विविच्य दर्शननिमित्तामाप्ति विवृणोति – तस्यैवमिति । आद्यं ब्राह्मणवाक्यं व्याख्यायोत्तरं मन्त्रं संक्षेपतोऽर्थकथनेनावतारयति – ब्रह्मविदाप्नोतीत्यादिना । सर्वतो व्यावृत्तो यः स्वरूपविशेषस्तत्समर्पणे समर्थस्य लक्षणस्याभिधानेन स्वरूपनिर्धारणायैषर्गुदाह्रियत इति सम्बन्धः । बृहत्त्वाद्ब्रह्मेति व्युत्पत्तिबलेनास्ति किमपि महद्वस्त्वित्यविशेषेण प्रतीयते । ततो लक्ष्योद्देशेन लक्षणविधानमिति प्रसिद्धिरुपपद्यते । अव्याकृतादि ब्रह्मशब्दवाच्यतया सजातीयं , घटादि विजातीयम् । तस्मात्सजातीयविजातीयव्यावर्तकतया सत्यादिलक्षणस्य लक्षणत्वप्रसिद्धिरुपपद्यते । लक्षणाभिधानद्वारेण स्वरूपविशेषप्रतिपादने तात्पर्यमिति वाक्यस्य व्यर्थतादोषः परिहृतः । पूर्वत्र ब्रह्मविदित्यनेनाविशेषेणोक्तं वेदनं यस्य ब्रह्मणस्तस्य यो वेद निहितं गुहायामित्यनेन प्रत्यगात्मतया वेदनं वक्तव्यमित्येवमर्था चर्गुदाह्रियत इत्याह – अविशेषेण चेति । आपातप्रतिपन्नं विशेषणविशेष्यभावमादाय पदानि विभजते – सत्यादीनि हि त्रीणीति । विशेषणार्थानीति । व्यावृत्त्यर्थानि । कुतो विशेषणविशेष्यभावप्रतीतिरित्यत आह – विशेषणविशेष्यत्वादेवेति । नीलं महत्सुगन्ध्युत्पलमित्यादौ सत्येव विशेषण विशेष्यभावे समानाधिकरणतयैकविभक्त्यन्तानि प्रसिद्धानेतान्यपि च तथाभूतानि नानार्थगतविशेषणविशेष्यभावनिबन्धनानीति गम्यत इत्यर्थः । विशेषणविशेष्यभावस्य फलमाह – एवं हीति । विशेषणविशेष्यभावमाक्षिपति – नन्विति । नीलत्वं व्यभिचरदुत्पलं रक्तमपि सम्भवतीति नीलं विशेषणं घटते न तथा सत्यत्वादिकं व्यभिचरद्ब्रह्मान्तरं लोके प्रसिद्धम् । ततः सजातीयस्य व्यवच्छेद्यस्याभावाद्विशेषणविशेष्यभावो न घटत इत्यर्थः । विशेषणविशेष्यभावस्य तात्पर्येणाप्रतिपाद्यत्वादव्याकृतादिशास्त्रीयब्रह्मपदार्थव्यवच्छेदेना निर्वाच्यविशेषणविशेष्यभावसम्भवात्तद्द्वारेण ब्रह्मलक्षणं विवक्षितमित्याह – नेति । संग्रहवाक्यं विवृणोति – नायं दोष इत्यादिना । सर्वत एवेति । सजातीयाद्विजातीयाच्च । यथा महाभूतत्वेन सदृशभावात्पृथिव्यादेर्विसदृशाच्चाऽऽत्मादेराकशस्य व्यावर्तकमवकाशदातृत्वमित्यर्थः।एतदुक्तं भवति – अतिव्याप्त्यादिरहितो व्यावर्तको धर्मो लक्षणमिति न्यायवैशेषिकमीमांसकाः ।ब्रह्मपदव्युत्पतिबलेन यदविशेषतः प्रतिपन्नं किञ्चिन्महदस्तीति तत्सत्यं ज्ञानमनन्तमनृतजडपरिच्छेदविरोधिस्वरूपमिति विशेषतः प्रतिपत्तव्यमिति विशेषावगतिशेषभूतं लक्षणं प्रमितिस्तु प्रमाणादेवेति । तार्किकाः पनर्लक्षणं केवलव्यतिरेक्यनुमानमाचक्षते तदा लक्षणादेव स्वभावविशेषप्रमितिः । यथा गुणवद्द्रव्यमिति लक्षणाद्गुणाश्रयत्वयोग्यस्वभावविशेषस्य प्रमितिः सामान्यप्रतिपन्नस्य द्रव्यपदाभिधेयस्य भवति । यद्वा व्यवहारसिद्धिः फलं गणवद्द्रव्यमिति व्यवहर्तव्यं गुणवत्त्वान्न यदेवं न तदेवं यथा रूपं तथा सत्यत्वादिमद्ब्रह्मेति व्यवहर्तव्यं सत्यत्वादिभावान्न यदेवं यथा घट इति । एतच्च खण्डनयुक्त्यसहमानमपि व्यवहाराङ्गं भवतीति नातीव सूक्ष्मेक्षिका कार्या । पुनर्विशेषविशेष्यभावपक्षमवलम्ब्याऽऽह – सत्यादिशब्दा इति । सत्यं ब्रह्मेत्युक्ते जाड्यव्यावृत्तिः परिच्छेदव्यावृत्तिश्च यद्यपि लभ्यते , जडस्य परिच्छिन्नस्य सर्वस्यानृतत्वाज्ज्ञानं ब्रह्मेत्युक्ते चानृतपरिच्छेदव्यावृत्तिर्लभ्यते स्वप्रकाशस्य बाधाविषयत्वात्परिच्छेदग्राहकप्रमाणाविषयत्वाच्च लक्षणमपि चैकैकं वैकल्पिकमदुष्टं तथाऽपि मन्दमतिव्युत्पादनाय स्यात्सत्यादिपदार्थव्याख्यानपूर्वकं प्रत्येकं व्यावर्त्यमाह – सत्यमिति यद्रूपेणेत्यादिना । भावसाधन इति । भावव्युत्पत्तिकः । क्रियासामान्यं यद्यप्यन्यत्र भाव उच्यते तथाऽप्यत्र निर्विशेषं चिन्मात्रं भावव्युत्पत्त्या लक्ष्यते सत्यादिशब्दसन्निधानादिति द्रष्टव्यम् । विशेषनिषेधः शेषाभ्यनुज्ञाविषय इति न्यायेन प्रासङ्गिकं स्वज्ञातृत्वे तात्पर्यमाशङ्क्य निषेधति – नान्यद्विजानातीत्यादिना । कर्तृत्वं कर्मत्वं चैकक्रियावच्छिन्नं धर्मद्वयं भिन्नाधिकरणं प्रसिद्धम् । स्वात्मनि च भेदाभावान्निरूपपत्तिके स्वज्ञातृत्वे तात्पर्यं कल्पयितुं न शक्यत इत्याह – स्वात्मनि चेति । सत्यादीनि व्यावृत्त्यर्थानीत्युक्तं तत्र शङ्कते – सत्यादीनामिति । प्रमाणान्तरसिद्धमुत्पलादि विशेष्यं दृष्टं ब्रह्म तु प्रमाणान्तरासिद्धम् । पदमात्रस्याप्रमाणत्वात्सत्यादीनां च व्यावृत्त्यर्थत्वादसदर्थं वाक्यं स्यादित्यर्थः । सिद्धत्वमात्रेण विशेष्यत्वे सम्भवति प्रमाणान्तरविशेषणमनर्थकं , केवलव्यतिरेकाभावात् । मिथ्यार्थस्य रज्जुसर्पादेः सदधिष्ठानत्वदर्शनात्प्रपञ्चस्यापि दृश्यत्वादिहेतुभिर्मिथ्यात्वेनावगतस्य सदधिष्ठानत्वं सम्भाव्यते , तस्य प्रपञ्चाधिष्ठानतया सम्भावितस्य स्वरूपविशेषलक्षणार्थमिदं वाक्यं ततो नासदर्थत्वमित्याह – न लक्षणार्थत्वादिति । विशेषणार्थत्वमभ्युपगम्याऽऽह – विशेषणार्थत्वेऽपि चेति । नीलं महदित्यादिविशेषणपदानि स्वार्थसमर्पणेन तद्विरुद्धव्यावर्तकानि प्रसिद्धानि , तथा सत्यशब्दोऽप्यबाधितसत्त्वे व्युत्पन्नो , ज्ञानशब्दः स्वप्रकाशे विषयसंवेदने , अनन्तोऽयमाकाश इत्यादावनन्तशब्दो व्यापके । ततः स्वार्थसमर्पणेन विरोधिव्यावर्तकत्वान्न व्यावृत्तिमात्रपर्यवसानमित्यर्थः । किञ्च विशेषणस्य व्यावर्तकत्वं सति व्यावर्त्ये घटतेऽतो विशेषणत्वानुपपत्त्यैव सदर्थत्वं वाच्यमित्याह – शून्यार्थत्वे हीति । यच्चोक्तं ब्रह्मशब्दोऽप्रसिद्धार्थ इति तत्राऽऽह – ब्रह्मशब्दोऽपीति । “बृह बृहि वृद्धौ” इति धातोर्ब्रह्मेति शब्दो निष्पन्नो वृद्धौ महत्त्वे वर्तते । तच्च महत्त्वं देशतः कालतो वस्तुतश्चानवच्छिन्नत्वं सङ्कोचकमानान्तराभावान्निरतिशयमहत्त्वसम्पन्ने धर्मिणि पर्यवस्यति । ततो वन्ध्यासुतादिशब्दविलक्षणो ब्रह्मशब्द इत्यर्थः । सत्यादिषु त्रिषु विशेषणेष्ववान्तरभेदमाह – तत्रानन्तेति। अनन्तमित्यनेन चाऽऽत्मैक्यं ब्रह्मण उक्तमित्यभिप्रेत्यैक्ये शास्त्रतात्पर्य दर्शयति – तस्माद्वावा इत्यादिना । ब्रह्मण आत्मैक्यं चेद्विवक्षितं तर्हि ज्ञानशब्दस्य भावसाधनत्वव्याख्यानं हीयेतेत्याह – एवं तर्हीति । इतश्च भावव्युत्पत्तिरसङ्गतेत्याह – अनित्यत्वप्रसङ्गाच्चेति । वत्तिमदन्तःकरणोपहितत्वेनाऽऽत्मनो ज्ञातृत्वं न स्वतः , कार्यत्वं च ज्ञानस्यान्तःकरणवृत्त्युपहितत्वेन तत आत्माभिन्नत्वेऽपि ब्रह्मणो न ज्ञानकर्तृत्वं नापि कार्यत्वं प्रसज्यत इत्याह – न स्वरूपेति । नित्यं चेज्ज्ञानं तर्हि तत्र कर्तृत्वभावे कथं सर्वज्ञत्वमित्यत आह – सर्वभावानां चेति । संविदव्यवधानमेव हि विषयस्य सिद्धिः । सर्व च संवित्स्वभावेन ब्रह्मणाऽव्यवहितमिति सर्वज्ञं ब्रह्मोपचर्यत इत्यर्थः । नित्यं ज्ञानं ब्रह्मणि विद्यत इत्यत्र मन्त्रसम्भतिमाह – मन्त्रवर्णाच्चेति । ब्रह्म अनित्यं ज्ञानत्वाल्लौकिकज्ञानवदित्यादि चोद्यमप्युक्तन्यायेन निरस्तमित्याह – विज्ञातृस्वरूपेति । लौकिकज्ञानस्य करणादिसापेक्षत्वादनित्यत्वम् । आत्मस्वरूपं तु ज्ञानं न करणादिसापेक्षं सकलकरणव्यापारोपरमेऽपि सुषुप्ते भावादन्यथा सुषुप्तिसिद्ध्यनुपपत्तेः परामर्शासम्भवप्रसङ्गादतः श्रुतितात्पर्यगम्येऽर्थे न सामान्यतो दृष्टस्य प्रवेश इति भावः । आत्मनः स्वरूपभूतं ज्ञानं कारकसाध्यं धात्वर्थत्वादिति चासिद्धमित्याह – अत इति । नित्यात्मस्वरूपत्वादेवेत्यर्थः । अत एव चेति । नित्यत्वादेव ज्ञानस्य न तत्र कर्तृत्वमपि ब्रह्मण आपादयितुं शक्यते । लौकिकनित्यज्ञानविलक्षणत्वादेव च ज्ञानशब्दवाच्यमपि ब्रह्म न भवतीत्याह – तस्मादेव चेति । कथं तर्हि विज्ञानं ब्रह्मेति प्रयोगस्तत्राऽऽह – तथाऽपीति । शब्दस्य प्रवृत्तिहेतवो जात्यादिधर्मा गौः शुक्ल इत्यादौ ; तदभावच्छब्दान्तरेणापि वाच्यं न भवतीत्याह – तथेति । तथा सत्यशब्देनापि न वाच्यं ब्रह्मेति शेषः । एतस्फुटयति – सर्वविशेषेति । सत्ता यस्यास्ति तत्सत्यमिति लोकरूढिः । सत्ता चानुगतरूपं सामान्यं व्यावृत्ताः सत्ताविशेषः । स चायमनुवृत्तव्यावृत्ताभावो न वस्तु परस्परापेक्षसिद्धत्वादतो यस्मिन्नयं व्यावृत्तानुवृत्तभावः कल्पितस्तदव्यावृत्ताननुगतं ब्रह्म लक्ष्यत इत्यर्थः । एवमेकैकस्य शब्दस्यार्थमुक्त्वा वाक्यार्थमाह – एवं सत्यादीति । यद्यपि सत्यादिशब्दानां ब्रह्मणा मुख्योऽन्वयस्तथाऽपि अरुणैकहायन्यादिवत्पार्ष्णिकान्वयेनेतरेतरसन्निधावन्योन्यस्य वृत्तिनियामका भवन्ति । ज्ञानेन विशेषणात्सत्यशब्दो न जडे कारणे वर्तते । सत्येन विशेषणाज्ज्ञानशब्दो न विषयसापेक्षे ज्ञाने वर्तते । ज्ञानेन विशेषणान्नानन्तशब्दो ज्ञातृव्यतिरिक्ते वर्तते । ततश्च सत्यादिशब्देन यल्लौकिकं वाच्यं तद्विलक्षणेन भवितव्यमिति सम्भावयन्तः सकललौकिकाध्यासाधिष्ठानं ब्रह्मत्वेन लक्षयन्तीत्यर्थः । ततः किं फलतीत्यत आह – अतः सिद्धमिति । वाचकशक्त्या बोधकत्वानङ्गीकारादवाच्यत्वं सकलानिष्टव्यवच्छेदेनैकस्यैव लक्ष्यत्वाभ्युपगमाच्च गुणगुण्यादिसंभेदरूपवाक्यार्थवैलक्षण्यं च ब्रह्मणः सिद्धमित्यर्थः । बुद्धौ कार्ये यदनुगतं परमं व्योमाव्याकृताख्यं तस्मिन्निहितमिति सप्तमीद्वयं वैयधिकरण्येन व्याख्यातम् । व्योमशब्दस्य भूताकाशे रूढिं परित्यज्य किमित्यव्याकृतविषयत्वं व्याख्यायते तत्राह – तद्धीति । भूताकाशस्य कार्यत्वेनापरत्वादव्याकृताकाशस्य कारणत्वेन परमत्वविशेषणसम्भवाच्छाखान्तरे शतपथे चाक्षरेण ब्रह्मणा सामीप्यावगमादव्याकृतं व्योमशब्देन लक्ष्यत इत्यर्थः । एवं पराभिप्रायेण व्याख्यात स्वाभिप्रायं व्याचष्टे – हार्दमेव त्विति । हृदयावच्छिन्ने भूतकाशे या गृहा तस्यां बुद्धौ साक्षितया निहितमभिव्यक्तं ब्रह्मेति व्याख्यानं युक्तम् । द्रष्टृभेदेन ब्रह्मण आपरोक्ष्यलाभात् । अन्यथा समष्टिरूपेऽव्याकृते मायातत्त्वेऽवस्थितं ब्रह्मेत्युक्ते ब्रह्मणः पारोक्ष्यं प्रसज्येत , पारोक्ष्येण च ज्ञानं नापरोक्षसंसाराध्यासनिवर्तकम् । तस्मादपरोक्षद्रष्टृचैतन्याभेदेन ब्रह्मणः स्वहृदये प्रत्यक्षताया विवक्षितत्वाद्धृदयाकाशमेव विज्ञानशेषभूतं विवक्षितमित्यर्थः । यदुक्तं भूताकाशस्य परमत्वानुपपत्तिरिति तत्राऽऽह । यो वा इति । ननु निहितशब्दः स्थितिं ब्रूते कथं विविक्ततया स्फुटतयोपलम्भाभिप्रायेण व्याख्यायते तत्राऽऽह – न हीति । अन्यथेति । उपलम्भव्यतिरेकेण । अविद्यावस्थायां ये सुखविशेषा हिरण्यगर्भाद्युपाधिषु भोग्यत्वेनाभिमतास्तेषां सर्वेषां ब्रह्मानन्दाव्यतिरेकाद्ब्रह्मीभूतो विद्वान्सर्वानेवाऽऽनन्दानश्नुत इत्युपचारेण बहुवचनमित्यर्थः । वृत्तमनुवदत्युत्तरग्रन्थावतारणाय – सर्व एवेत्यादिना । आकाशादिकारणत्वाभिधानेनाऽऽनन्त्यप्रपञ्चः क्रियत इति समनन्तरग्रन्थतात्पर्यं दर्शयितुं पूर्वोक्तेष्वर्थविशेषमनुवदति – तत्र चेति । वस्तुत आनन्त्यं व्याख्यातुं वस्तुनोऽन्तवत्त्वं तावदाह – भिन्नं हीत्यादिना । विस्तरेणोक्तमानन्त्यं संक्षिप्याऽऽह – तस्मात्सिद्धमिति । देशतोऽनवच्छिन्नस्याऽऽकाशस्य कारणत्वाद्व्यापकत्वान्निरतिशयमात्मनो देशत आनन्त्यमकार्यत्वाच्च कालत आनन्त्यं तद्यतो व्यावर्तेत तस्य पृथगसत्त्वात्कार्यस्योपादानादन्यत्र सत्त्वायोगाद्वस्तुतोऽप्यानन्त्यं सिद्धमित्यर्थः । अत इति । निरतिशयानन्त्यादेव सत्यत्वमपि सिद्धमन्तवत एव रज्जुसर्पादिवदसत्यत्वादित्यर्थः । एवं सृष्टिवाक्यतात्पर्यमुक्त्वा पदानि विभजते – तस्मादित्यादिना । अन्त्यकार्यपर्यन्तं परमात्मनः सर्वत्रोपादानत्वादाकाशभावापन्नात्परमात्मन एव वायुः सम्भूतोऽत एव तद्गुणस्योत्तरत्रानुवृत्तिर्गुणशब्दप्रयोगोऽपि भेदकल्पनया तत्तन्त्रत्वाभिप्रायेण न वैशैषिकपक्षवत्तत्त्वभेदाभिप्रायेण तत्त्वतो भेदे प्रमाणाभावादिति द्रष्टव्यम् । पुरुषग्रहणस्य तात्पर्यमाह – सर्वेषामपीति । शक्तत्वादिति विधिनिषेधविवेकसामर्थ्योपेतत्वादित्युक्तम् । तत्रैतरेयकश्रुतिसम्भतिमाह – पुरुषे त्वेवेति । ब्राह्मण्यादिजातिमति मनुष्यादिदेह आविस्तरामतिशयेन प्रकट आत्मा ज्ञानातिशयदर्शनादित्यर्थः । मर्त्येन ज्ञानकर्मादिसाधनेनाक्षयफलं प्राप्तुमिच्छतीत्यर्थः । येन विवेकज्ञानेन पुरुषस्य प्राधान्यं विवक्षितं तत्पश्वादीनां नास्तीत्याह – अथेतरेषामिति । कोशपञ्चकोपन्यासस्य तात्पर्यमाह – स हीत्यादिना । पक्षपुच्छशब्दप्रयोगात्सुपर्णाकारक्लृप्तिं दर्शयति । उत्तरत्र तत्कल्पनया बाह्यविषयासङ्गव्यपोहेन बुद्धेरात्मनि स्थिरीकरणार्थं नोपासनविधानमिह विवक्षितम् । उपक्रमोपसंहारयोर्ब्रह्मात्मैकत्वप्रतिपादनेनैवोपक्षयान्मध्ये ग्रन्थस्योपासनविधौ तात्पर्येण च वाक्यभेदप्रसङ्गादत एवाङ्गे स्तुतिः परार्थत्वादिति न्यायेन यथा प्रयाजादिषु फलश्रवणमर्थवादस्तथाऽन्नमयादिप्रतिपत्तेरपि फलश्रवणमर्थवाद एव , तत्तद्बुद्धिस्थिरीकारस्य पूर्वपूर्वबुद्धिविलापनेनाऽऽत्मनः प्रतिपत्तिशेषत्वादिति द्रष्टव्यम् । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां द्वितीयब्रह्मवल्ल्यां प्रथमोऽनुवाकः॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यां द्वितीयोऽनुवाकः॥ वृत्तानुवादपूर्वंकमानन्दवल्ल्यास्तात्पर्यमाह – संहितादीत्यादिना । पूर्वपूर्वकोशस्योत्तरोत्तरः कोश एवाऽऽत्मेति व्याख्यातमापातदर्शनेन , तदसत् । आत्मशब्दस्यामुख्यार्थत्वप्रसङ्गात्प्रकृतपरामर्शकैतच्छब्दकोपाच्च । अतः सर्वकोशाध्यासाधिष्ठानभूतश्चिदात्मैवात्राऽऽत्मशब्देन विवक्षित इति तात्पर्यमाह – तथा स्वाभाविकेनेति । अर्थादिति । आत्मशब्दसामर्थ्यात्कल्पितस्याधिष्ठानत्वानुपपत्तेश्चेत्यर्थः । आसाधारणादिति । व्यावृत्तस्वरूपात् । अपक्रम्य तत्राऽऽत्मबुद्धिं हित्वेत्यर्थः । साधारणमिति । सर्वेन्द्रियसाधारणम् । प्राणकृतेनाशनादिना सर्वेषां पुष्ट्यादिदर्शनादित्यर्थः । सर्वभूतानामात्मेति । सूत्रात्मना पूर्वस्य य आत्मा चिद्धातुरेष एव तस्य प्राणमयस्याऽऽत्मेति योजना । यजुःशब्देन बाह्यो यजुर्वेद उच्यते । तस्य कथमान्तरं मनोमयं प्रति शिरस्त्वमित्याशङ्क्याऽऽह – मनसो हीति । यद्यपि यजुःशब्दो बाह्ये शब्दराशौ रूढस्तथाऽपि श्रुतेरनतिशङ्कनीयत्वात्तत्प्रामाण्याद्विशिष्टमनोवृत्तिर्यजुः सङ्केतविषयभूता यजुर्वेदमधीमह एतत्क्रमका वर्णा यजुर्वेदतयाऽध्येतव्या इत्येवं सङ्कल्परूपा ग्राह्येत्यर्थः । श्रुत्यनुग्राहिकां युक्तिमप्याह – एवं चेति । अन्यथेति । शब्दानां घटादिद्बाह्यद्रव्यत्वे मनोविषयत्वासम्भवान्मनसो बाह्येऽर्थेऽस्वातन्त्र्यान्मनसो जपो न स्यादित्यर्थः । इतश्च मनोवृत्तित्वं मन्त्राणां वच्यमित्याह – मन्त्रावृत्तिश्चेति । शब्दानां घटादिवद्बाह्यद्रव्यत्वे मन्त्राणां घटादिवदावृत्तिर्नोपपद्यते क्रियैव ह्यावर्त्यते । आवृत्तिसिद्ध्यनुपपत्त्या क्रियात्वं वाच्यमित्युक्तं तत्रान्यथाऽप्युपपत्तिमाशङ्कते – अक्षरविषयेति । मन्त्रेभ्यः स्मृतेरन्यत्वादन्याऽऽवृत्तिर्गौणी प्रसज्यतेऽतो नान्यथाऽप्युपपत्तिरित्युक्तमेतत्स्फुटयति – त्रिः प्रथमामित्यादिना । सामिधेन्यः समिधो यदाऽध्वर्युणा हूयन्ते तदा “प्र वो वाजा अभिद्यवः”(शतपथब्राह्मणम् १।४।१।७) इत्येकादशर्चं सूक्तं होता शम्सति तासां चर्चां मध्ये प्रथमामृचं सूक्तस्यान्त्यां चर्चं होता त्रिरनुब्रूयादित्यावृत्तिः श्रूयत इत्यर्थः । मन्त्राणां मनोवृत्तित्वमुक्त्वा मनोवृत्तीनां सदा चिद्व्याप्तत्वेनैव सिद्धेश्चिदात्मतामाह – तस्मादिति । मन्त्राणां मनोवृत्तित्वेत्तित्वेनाऽऽवृत्तिर्घटत इत्युक्तम् । परम्परया चिदात्मत्वेन नित्यत्वमपि घटत इत्यह – एवं चेति । चैतन्यरूपत्वे सति । अन्यथेति । स्वप्रकाचिदात्मत्वानङ्गीकारे रूपादिवद्विषयत्वादनित्यत्वमपि प्रसज्येत । कालिदासादिवाक्यानामप्येतेन न्यायेन नित्यत्वापाताद्युक्त्याभासमेतत् । अस्त्वनित्यत्वमिति न वाच्यमित्याह – नैतदुक्तमिति । “वाचा विरूपनित्यया”(तै.सं.२-६-१२) इति श्रुत्या नित्यत्वस्याऽऽवेदितत्वाद्वेदा नित्यत्वं युक्तं न भवतीत्यर्थः । वेदानां जडते स्वप्रकाशेनाऽऽत्मनैकत्वं न सम्भवति जडाजडयोर्विरोधादतो मनोवृत्तिव्यापकचिदात्मत्वं सूचितमित्यर्थः । साक्षितया मनसि भवो मानसीनोऽक्षरे परमे व्योपकल्पे ब्रह्मणि ऋचो विधिनिषेधरूपा निषेदुस्तादात्म्येन व्यवस्थिता इति च मन्त्रवर्ण एकत्वं दर्शयतीत्यर्थः । अतिदेष्टव्यविशेषान्कर्तव्यविशेषानिदमेवं कर्तव्यमित्युपदिशतीत्यर्थः । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यां तृतीयोऽनुवाकः॥ वाङ्मनसयोर्वाङ्मनसगोचरत्वं नोपपद्यते स्वात्मनि वृत्तिविरोधादतो वाङ्मनोविशिष्टान्मनोभयाद्वाचो मनसा सह निवर्तन्त इत्यर्थः । तस्य च मनोमयस्य ब्रह्मण उपासनफलभूतमाधिदैविकमानन्दं विद्वान्न बिभेति गर्भवासादिदुःखादित्यर्थः । तथाऽध्यवसायलक्षणं लौकिकमपि विज्ञानं ग्राह्यमित्यर्थः । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यां चतुर्थोऽनुवाकः॥ प्रथमजत्वादिति । हिरण्यगर्भाभेदेनेत्यर्थः । आनन्दमयः परमात्मेति वृत्तिकारैरुक्तं तन्निषेधेन व्याचष्टे – कार्यत्मप्रतीतिरित्यादिना । संक्रामतीत्येतदतिक्रामतीत्यभिप्रायेण व्याख्यातम् । प्राप्त्यभिप्रायं कस्मान्न व्याख्यायत इत्यत आह – न चाऽऽत्मन एवेति । अन्नमयादीनामतिक्रमणीयतया प्रकृतत्वादेकस्य कर्तृत्वकर्मत्वासम्भवाच्च प्राप्तिः संक्रमणं न भवतीत्यर्थः । आनन्दमयस्य परमात्मत्वासम्भवे हेत्वन्तराण्याह – शिरादीत्यादिना । आनन्दमयस्य परमात्मत्वविवक्षायां मन्त्रे तस्यैवासत्त्वाशङ्का वक्तव्या । तदसम्भवाच्च नाऽऽनन्दमयः परमात्मतया प्रतिपाद्यत इत्याह – मन्त्रोदाहरणानुपपत्तेश्चेति । न हि मन्त्रोदाहरणमुपपद्यत इति सम्बन्धः । विशिष्टस्य विशेषणकार्यत्वात्सुख्यहमित्युपलभ्यमानो भोक्ताऽऽनन्दमय इत्युक्तम् । कथं तस्य विज्ञानमयादान्तरत्वमित्यत आह – स चेति । कर्त्रपेक्षया भोक्तृत्वस्योत्तरभावित्वं प्रसिद्धमेव श्रुत्योक्तमित्यर्थः । एतत्स्फुटयति – ज्ञानकर्मणोर्हीति । शरीरादिभ्य आनन्दसाधनेभ्यः सकाशात्साध्येनाऽऽनन्देन विशिष्टोऽन्तरतमः प्रसिध्यतीत्यर्थः । किञ्च प्रियं च तत्साधनं चोद्दिश्य कर्ता विज्ञानकर्मणी अनुतिष्ठति । तत उद्देश्यत्वादस्याऽऽन्तर्यं सिद्धमित्याह – विद्याकर्मणोरिति । प्रियादिविशिष्टस्य स्वप्ने साक्षिणोपलभ्यत्वाच्च न मुख्यात्मत्वमित्याह – प्रियादिवासनेति । यदुक्तं ज्ञानकर्मणोः फलभूत आनन्दमय इति तस्य साध्यत्वमौपाधिकं स्वमतानुसारेणाऽऽह – आनन्द इति । परमिति । कथं तर्हि विषयसुखस्य क्षणिकत्वं सातिशयत्वं च व्यञ्चकवृत्तिनिबन्धनमित्याह – तद्वृत्तिविशेषेति । ब्रह्मण आनन्दस्वभावत्व एव किं प्रमाणमित्यत आह – वक्ष्यति चेति । अन्तःकरणशुद्ध्युत्कर्षादेवाऽऽनन्दस्य सातिशयत्वमित्यत्र लिङ्गमाह – एवं चेति । यदि विषयविशेषजन्यत्वेनाऽऽनन्दोत्कर्षस्तदा निष्कामस्य विषयविशेषोपभोगासम्भवादानन्दोत्कर्षो न श्राव्येत । आत्मस्वभावस्यैवाऽऽनन्दस्य व्यञ्जकान्तःकरणशुद्ध्युत्कर्षादेवोत्कर्षं इत्येवं तु सत्यकामहतत्वोत्कर्षादुत्कर्षुः सम्भाव्यत इत्यर्थः । उक्तप्रकारेण विषयानन्दस्य सातिशयत्वे सति तद्विशिष्टस्याऽऽनन्दमयस्याब्रह्मत्वं सिद्धम् । सतिशयत्वेन प्रतिशरीरं भिन्नत्वात् । ब्रह्म तु तदध्यासाधिष्ठानमद्वितीयमित्याह – एवं चेति । एतस्मिन्नप्यर्थ इति । आनन्दमयस्य प्रतिष्ठाभूतब्रह्मप्रकाशनपर इत्यर्थः । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यां पञ्चमोऽनुवाकः॥ आनन्दमयस्य प्रकाशकोऽयं श्लोक इति केचन तान्प्रत्याह – तं प्रतीति । सविशेषतया प्रत्यक्षत्वादित्यर्थः । सर्वेषां साधरणत्वाच्च ब्रह्मणो व्यवहार्यत्वं सर्वान्प्रति भवेन्न च दृश्यते ततोऽपि नास्तित्वाशङ्का जायत इत्यर्थः । आकशादिकारणत्वादिति । भूतविशिष्टसर्वजीवकारणत्वादित्यर्थः । कस्य सामर्थ्येन प्राप्तं प्रश्नान्तरमित्यत आह – असद्ब्रह्मेतीति । चेच्छब्दात्पाक्षिकसत्त्वावगमसामर्थ्यादित्यर्थः । सत्त्वं चेदुपपन्नं ब्रह्मणस्तावतैव सत्यत्वं सिध्यति सतो बाधासम्भवादित्यर्थः । एवमर्थतेति । सत्त्वोपपादनेन सत्यवस्तुविषयतेत्यर्थः । ब्रह्मणः सत्त्वसाधनं नामसत्त्वव्यावृत्तिरेवेत्यभिप्रेत्यासत्त्वशङ्कामुद्भावयति – तत्रासदेवेति । विप्रतिपन्नमाकाशादि सत्पूर्वकं कार्यत्वादघटवदिति लौकिकव्याप्त्यवष्टम्भेन सत्कारणं तावत्सिद्धम् । तस्य च देशादिकारणत्वेन देशाद्यनवच्छिन्नत्वाद्ब्रह्मपदवाच्यत्वं सिद्धम् । तस्य विशेषतोऽनुपलम्भेनासच्छङ्का जायते । सा कारणत्वेन व्यावर्त्यतेऽनेन तु कारणत्वात्सत्त्वं साध्यत आश्रयासिद्धिप्रसङ्गादिति भावः । इतोऽपि जगदुपादाने नासत्त्वाशङ्का कार्येत्याह – न चासत इति । न्यायत इति । आसदन्वयादर्शनादिति युक्तित इत्यर्थः । अवमसत्त्वाशङ्कां निरस्याचेतनत्वाशङ्कां प्रधानवादिनः प्रसङ्गान्निराचष्टे – तद्यदीति । यद्यपि साङ्ख्यमते चेतनस्य निर्विकारत्वात्कामयितृत्वमसिद्धं तथाऽपि लौकिकव्याप्तिबलेन कामयितृत्वादचेतनत्वशङ्का निवर्त्यत इत्याह – न हीति । तर्हि लौकिकव्याप्तिबलेनैवानाप्तकामत्वमपि प्राप्त मित्याशङ्क्याऽऽह – कामयितृत्वादित्यादिना । जीवानामनाप्तानन्दत्वं परवशत्वान्न तदस्ति ब्रह्मण इत्यर्थः । कथंभूतास्तर्हि ब्रह्मणः कामा इत्याशङ्कायामाह – सत्यज्ञानलक्षणा इति । सत्यज्ञान– नं लक्षणं स्वरूपं येषां ते तथोक्ताः । एतदुक्तं मवति , मायाप्रतिबिम्बितं हि ब्रह्म जगतः कारण मायापरिणामैरेव कामैः कामयितृ । तेषां च परिणामानामविद्याद्यनभिभूतचिद्व्याप्तत्वात्सत्यज्ञानात्मकत्वं ब्रह्मतादात्म्याच्चाधर्मद्यननुस्पृष्टत्वेन शुद्धत्वम् । ततो जोवकामवैलक्षण्यं सिद्धमिति । तर्हि ब्रह्मणः कामाः पुण्यकारिणामप्यनिष्टफलप्राप्त्यनुकूलाः स्युः स्वातन्त्र्यादित्याशङ्क्याऽऽह – तेषां त्विति । कामस्य शरीरादिसम्बन्धजन्यत्वप्रसिद्धेर्ब्रह्मणः शरीरादिमत्त्वप्रसङ्ग इति नाऽऽशङ्कनीयमित्याह – साधनान्तरानपेक्षत्वाच्चेति । कामसंस्कारवत्या मायया ब्रह्मतादात्म्यात्तत्परिणामानां कामानां ब्रह्मतादात्म्यान्न शरीरादिनिमित्तापेक्षाऽस्तीत्यर्थः । तद्द्वारेणैवेति । नामरूपशक्त्यात्मकमायापरिणामद्वारेणैव । नामरूपशक्त्यात्मिका जडरूपा मायाऽङ्गीकृता चेत्तर्हि सा प्रधानवत्पृथक्सतीत्यद्वैतहानिरित्याशङ्क्याऽऽह – न हीति । आत्मातिरिक्तं किं स्वतः सिध्यति परतो वा नाऽऽद्यः । जाड्यहानेरतिरेकहानेश्च । न द्वितीयः । प्रमासंसर्गानिरूपणात् । न च भिन्नदेशकालयोः संयोगादि सम्भवति विषयविषयिभावो वा । नियामकगवेषणात् । न च स्वभाव एव सम्बन्धः । द्वयोः स्वभावयोः सम्बन्धत्वेनैवोपक्षये सम्बन्ध्यभावप्रसङ्गात् । न हि स्वात्मानं प्रति स्वस्यैव सम्बन्धित्वमात्माश्रयापातात् । तथाविधार्थाभावे व्यवहारमात्रप्रवर्तकत्वे च मिथ्याव्यवहारापातादनिर्वचनीयवाद एव पर्यस्यतीति भावः । यस्मादात्मातिरिक्तं वस्तु न सम्भाव्यते तस्मादात्मतादात्म्येनैव नामरूपयोः सिद्धिरित्याह – अत इति । तर्हि ब्रह्मणः सप्रपञ्चताप्रसङ्ग इति न वाच्यमित्याह – न ब्रह्मेति । न ब्रह्म तादात्म्यकमजडत्वात्तत्परिहारेणापि सिद्धिसम्भवादित्यर्थः । कथं तर्हि ते ब्रह्मात्मके तत्राऽऽह – ते तदिति । स्वप्नावबुद्धनभोभक्षणवदारोपितस्यानुभवप्रत्याख्यानेन सिद्ध्यसम्भवादनुभाव्ये नामरूपे अनुभवात्मकब्रह्मात्मके कथ्येते न त्वैक्याभिप्रायेणेत्यर्थः । न केवलं ब्रह्मणो बहुरूपत्वं मायोपाधिकं सर्वव्यवहारास्पदत्वं चेत्याह – ताभ्यामिति । प्रवेशस्यानिर्वाच्यताद्योतनेन जीवस्य ब्रह्मात्मतायां प्रवेशवाक्यस्य तात्पर्यं दर्शयितुं विचारमारभते – तत्रैतच्चिन्तमित्यादिना । विमर्शे सति क्त्वाश्रुत्यनुरोधात्स्रष्टुरेव प्रवेश इत्युक्तं सिद्धान्तिना । पूर्ववाद्याह – ननु न युक्तमिति । सृष्टिप्रवेशक्रिययोः पूर्वापरकालीनत्वसम्भवे सति कर्त्रैक्यं क्त्वाश्रुत्या बोध्येत न तु प्रवेशस्योत्तरकालता सम्भवति । सृष्टिसमय एवोपादानस्य कार्यात्मनाऽवस्थितत्वादित्यर्थः । एतदेव विवृणोति – कारणमेव हीति । अप्रविष्टे यथा मठादौ देवदत्तस्य प्रवेशो दृष्टस्तथा कार्योत्पत्तेरूर्ध्वं पृथक्प्रवेशो न सम्भवतीत्यर्थः । सिद्धान्त्येकदेशिनां मतमुद्भाव्य पूर्ववादी दूषयति – यथा घट इत्यादिना । स्रष्टुरन्यस्य वा प्रवेशो न सम्भवतीति चेत्कथं तर्हि प्रवेशो वाच्य इति सिद्धान्त्येकदेश्याह – कथमिति । नास्त्येवेति न वक्तव्यमित्याहयुक्तश्चेति । स एवाऽऽह गतिं – सावयवमेवेति । पूर्ववादी दूषयतो – नाशून्यत्वादिति । कार्यात्मना परिणतस्य ब्रह्मणो नामरूपात्मकं कारमेव देशस्तद्वतिरेकेण न ह्यन्यः प्रदेशोऽस्तीति । यत्कारणमेव कार्याकारेण परिणतं तत्प्रति कार्यविशेषो जीवात्मा प्रवेक्ष्यतीति न शङ्कनीयमित्याह – कारणमेव चेदिति । कार्यविशेषस्य प्रवेशमङ्गीकृत्य दूषणमुक्तं स न सम्भवति श्रुतिविरोधादित्याह– – तदेवेति । कारणपरामर्शकेन तच्छब्देन कार्यमुपलक्ष्य कारान्तरस्य तत्र विधीयतेऽप्राप्तदेशसम्भवात् । अतो न श्रुतिविरोध इति सिद्धान्तैकदेशिमतमुद्भाव्य दूषयति – कार्यान्तरमेवेत्यादिना । कारणवाचकेन तच्छब्देन कार्यलक्षणायामविवक्षितलक्षणा चेत्प्रसज्येत तर्हि कारणपर एव तच्छब्दोऽस्त्वित्याह्यन्यः सिद्धान्तैकदेशी – बाह्येति । अस्मिन्पक्षे प्रवेशश्रुतेर्मुख्यार्थो न लभ्येतेत्याह – न बहिष्ठेति । अन्यस्य वेदान्तिनो मतमुद्भाव्य दूषयति – जल इत्यादिना । एवं सिद्धान्तैकदेशीयं निरस्य पूर्ववाद्युपसंहरति – एवं तर्हीति । नैवास्ति प्रवेशो ब्रह्मणस्ततोऽन्यस्यापि प्रवेशो न सम्भवतीत्युक्तमित्याह – न चेति । इतरस्यापि प्रवेशः कल्पयितुं न शक्यत इत्याह – तदेवानुप्राविशदिति । सा च श्रुतिः स्रष्टुः प्रवेशमाह । सा चास्माकं मीमांसकानां प्रमाणं ततस्तद्विरोधेनान्यस्य प्रवेशकल्पनाऽयुक्तेति भावः । तर्हि श्रुतिशरणतयैव ब्रह्मण एव प्रवेश उच्य्यतामित्याशङ्क्याऽऽह – न चेति । तस्मादन्धो मणिमविन्ददितिवदर्थशून्यमेवेदं वाक्यमिति निगमयति – हन्तेति । शक्तिगोचरस्यार्थस्यासम्भवादर्थशून्यत्वं तात्पर्यगोचरस्य वा नाऽऽद्यः । आकाशादेरविप्रकृष्टदेशेऽपि जलेऽमूर्तस्य प्रतिबिम्बभाववदमूर्तस्यापि ब्रह्मणोऽनिर्वाचाविद्यासु प्रतिबिम्बितस्य सृष्ट्युत्तरकालमन्तःकरणादिषु प्रतिबिम्बभावसम्भवादित्याह – नेति । न द्वितीय इत्याह – अन्यार्थत्वादिति । एतत्स्फुटयति – किमर्थमित्यादिना । अतः परमिति । बुद्धिगुहाप्रवेशादनन्तरमानन्दमय एव विशिष्टोऽर्थो विशेष्यस्य चिद्धातोर्लिङ्गं विशिष्टस्य विशेष्याव्यभिचारदर्शनात्तदधिगमद्वारेणाऽऽनन्दविवृद्ध्यवसान आत्मा ब्रह्मरूपोऽस्यामेव गुहायामधिगन्तव्य इत्यभिप्रेत्य जले सूर्यप्रवेशवदनिर्वाच्यः प्रवेशोऽभिधीयत इत्यर्थः । बुद्धिगुहायामेव ब्रह्मण उपलब्धिसम्भवात्तत्रैव प्रवेशोऽभिधित्सित इत्याह – न हीति । नन्वन्यत्रोपलब्ध्यनर्हं ब्रह्म बुद्धौ वा कथमुपलभ्यत इत्याशङ्क्योपधेर्योग्यताविशेषासम्भवादित्याह – विशेषेति । सन्निकर्षादीति । अन्तःकरणसंसर्गादेव देहघटादिषु चैतन्याभिव्यक्तिर्न स्वतः । अन्तःकरणं चाव्यवधानेनैव चैतन्याभिव्यञ्चकमन्वयव्यतिरेकाभ्यामित्यर्थः । यथा चास्वच्छस्वभावके घटादौ मुखं न प्रतिबिम्बते जलादौ स्वच्छस्वभावके प्रतिबिम्बते तथा सत्त्वप्रधानस्यान्तःकरणस्य प्रसादस्वाभाव्याद्घटते तत्र ब्रह्मोपलब्धिरित्याह – अवभासात्मकत्वाच्चेति । किञ्च यथा जाड्यसाम्येऽपि तमोलक्षणावरणाभिभवसमर्थ आलोकोऽङ्गीक्रियते तथा जाड्यसाम्येऽप्यन्तःकरणस्यैव प्रत्ययाकारपरिणतस्याज्ञानलक्षणावरणाभिभवसामर्थ्यमङ्गीकर्तव्यमित्याह – यथा चेति । निलानं गृहप्रासादादिमूर्तसन्निवेशविशेषोऽवयवसंस्थानविशेषराहित्यमनिलयनम् । अनिरुक्तत्वाद्यमूर्तंधर्मश्चेद्ब्रह्मण एव किं न स्यादित्यत आह – त्यदनिरुक्तानिलयनानीति । “तत्सत्यमित्याचक्षत”(तै. उ. २ । ६ । १) इत्यस्योपपत्तिमाह – यस्मादिति । पदानि व्याख्याय प्रकृतानुप्रश्ननिराकरणे प्रकरणस्य तात्पर्यं “सोऽकामयत”(तै. उ. २ । ६ । १) इत्यादेर्दर्शयति – अस्ति नास्तीत्यादिना । तस्या बुद्धिगुहायाः अहं कर्ता भोक्तेत्यादयस्त एवावभासविशेषास्तैर्व्यज्यमानं विशिष्टस्य विषयत्वेऽपि स्वरूपस्याविषयत्वादित्यर्थः । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां द्वितीयब्रह्मवल्ल्यां षष्ठोऽनुवाकः॥ सुकृतमिति । क्तप्रत्ययः सुष्ठु क्रियत इति कर्माभिधायकोऽपि च्छान्दस्या प्रक्रियया सुष्ठु करोतीति कर्तरि व्याख्यातः । एकार्थवृत्तित्वेनेति । एकप्रयोजनसाधनत्वेन परस्परायत्ततेत्यर्थः । अन्यत्रेति । गृहप्रासादादिषु स्वतन्त्रं गृहाद्यनारभ्यं स्वामिनमन्तरेण संहननस्यादर्शनात्कर्यकरणसङ्घातेऽपि विलक्षणः स्वामी शरीरोपचयादिभिरुपचयादिरहितोऽवगम्यते । स च चेतनत्वेन भेदाभावाद्ब्रह्मैवेति तदस्तित्वसिद्धिरित्यर्थः । दासोऽयं तस्य देवस्य ममाऽऽराध्यः परमेश्वर इति भेदं विद्वान्कथमज्ञ इत्युव्यते तत्राऽऽह – असौ योऽयमिति । यथा चन्द्रभेदं पश्यन्नप्यविद्वानुच्यतेऽतत्त्वदर्शित्वात्तथेत्यर्थः । कथं तर्हि तस्य भयसम्भावनेत्यत आह – उच्छेदेति । संहर्ता हि परमेश्वरो मां संहरिष्यति नरके वा निक्षेप्स्यतीति पश्यतो भयं भवतीत्यर्थः । ब्रह्मैवोच्छेदहेतुः कुत इत्यत आह – अनुच्छेद्यो हीति । उच्छेदहेतोरप्युच्छेदत्वेऽनवस्थाप्रसङ्गान्नित्यत्वं वक्तव्यं तच्च ब्रह्मणो नान्यस्य सम्भाव्यत इत्यर्थः । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यां सप्तमोऽनुवाकः॥ तच्च भयकारणं ब्रह्माऽऽनन्दरूपमुक्तं यदेष आकाश आनन्दो न स्यादिति । तत्राऽऽनन्दश्च लोके जन्यः प्रसिद्धस्ततो विचारमारभते – तस्यास्येत्यादिना । ब्रह्मानन्दस्य चेन्मीमांसा प्रस्तुता किमर्थस्तर्हि सार्वभौमानन्दाद्युपन्यासस्तत्राऽऽह – तत्र लौकिक इत्यादिना । लौकिक आनन्दः क्वचित्काष्ठां प्राप्तः सातिशयत्वात्परिमाणवदिति ब्रह्मानन्दानुमानार्थो लौकिकोपन्यास इत्यर्थः । विषयेभ्यो व्यावृत्ता व्यावृत्तविषया अविषयब्रह्मात्मैकत्वदर्शिनस्तद्बुद्धिगोचर इत्यर्थः । प्रकारान्तरेण ब्रह्मानन्दानुगममाह – लौकिकोऽपीत्यादिना । मनुष्यगन्धर्वानन्दस्योत्कृष्टत्वे निमित्तमाह – ते ह्यन्तर्धानादीति । प्रथममकामहताग्रहणस्य तात्पर्यमाह – प्रथममिति । यदि प्रथमपर्याय एवाकामहतो गृह्येत तदा तस्यैव सार्वभौमानन्देन तुल्य आनन्दः स्यात्तदा च व्याघातो भवेत् । मानुषानन्दे निस्पृहो मानुषानन्दभोगभागी चेति । ततो मनुष्यगन्धर्वानन्देन तुल्यमानन्दं तस्य दर्शयितुं प्रथमपर्याये तदग्रहणमित्यर्थः । अवृजिनत्वमपापत्वं यथोक्तकारित्वं तत्साधुपदाल्लभ्यत इत्यर्थः । त्रयस्त्रिंशत् - अष्टौ वसव , एकादश रुद्रा , द्वादशाऽऽदित्या , इन्द्रः , प्रजापतिश्चेति । यदर्थं मीमांसाऽऽरब्धा तस्य निरतिशयानन्दस्य सिद्धौ वाक्यतात्पर्यं दर्शयितुमाह – तस्याकामहतत्वेति । तस्य ब्रह्मणो हिरण्यगर्भस्य आनन्दस्तदुपासकप्रत्यक्षो यस्य मात्रा स एष परमानन्दः स्वाभाविक इति सम्बन्धः । हिरण्यगर्भानन्दस्य मात्रात्वे श्रुत्यन्तरं प्रमाणयति – एतस्यैवेति । न केवलं हिरण्यगर्भानन्द एव मात्रा यश्च प्रागुपन्यस्तः सार्वभौमाद्यानन्दः स एष यस्य मात्रा प्रविभक्ता नानात्वमापन्ना सती यत्र निरतिशयानन्देऽकामहतब्रह्मवित्प्रत्यक्षे कैवल्य एकतां गतेति योजना । अकामहतप्रत्यक्षत्वाभिधानाद्भेदप्रातिं निरस्यति – आनन्दानन्दिनोश्चेति । प्रत्यक्षत्वाभिधानमज्ञानसंशयादिव्यवधानाभावाभिप्रायं न तु विषयविषयिभावाभिप्रायम् । “अदृश्येऽनात्म्ये”, “उदरमन्तरं कुरुत”(तै. उ. २ । ७ । १) इत्यादिना निषेधादित्यर्थः । मीमांसया निरतिशयानन्दं ब्रह्मास्तीति निर्धारितम् । तस्याकामहतप्रत्यक्षत्वाभिधानादभेदसिद्धिः । न हि परमानन्दः परस्य प्रत्यक्षो भवति । तस्मान्निरतिशयानन्दब्रह्मैकत्वं जीवस्य “ब्रह्मविदाप्नोति परम्”(तै. उ. २ । १ । १) इत्युपक्रान्तं मीमांसया च सिद्धमुपसंह्रियत इत्यर्थः । आदित्यग्रहणस्याऽऽधिदैविकोपाधिलक्षणार्थस्याविवक्षितत्वं दर्शयितुं चोद्यमुद्भावयति – नन्विति । “य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः” (बृ. उ. ५ । ५ । २) इत्यादौ श्रुत्यन्तरे मण्डलस्थस्य दक्षिणाक्षिस्येनैक्यस्य प्रसिद्धत्वादिहाप्यादित्यस्थेनैक्यनिर्देशे दक्षिणाक्षिग्रहणं युक्तमित्यर्थः । अध्यात्ममधिदवतं च लिङ्गात्मोपासनविवक्षायां तथा तद्विवक्षितमित्याह – न परेति । य एव चिद्धातुर्निरतिशयानन्द उत्कृष्टोपाधौ प्रतिबिम्बितः स एव निकृष्टोपाधौ शिरःपाण्यादिमति पुरुषे प्रतिमिम्बित इति परमानन्दमपेक्ष्य समत्वं विशिष्टयोः स्वभावैक्यं विवक्षितमित्यर्थः । वृत्तानुवाचपूर्वकमुत्तरग्रन्थमवतारयति – अस्ति नास्तीति । सन्दिग्धं सप्रयोजनं च विचारमर्हति । अत्र च कस्मिन्पक्षे को दोषः को वा लाभ इत्याह – किं तत इति । उभयत्रानुपपतिं संशयकारणमाह – यद्यन्यः स्यादिति । चोद्यमुखेन संशयव्यावुत्तिं प्रयोजनमाह – यद्युभयथेत्यादिना । एतदेव मम विचारारम्भकस्य स्वस्त्ययनं कल्याणं यन्मामेकत्ववादिनं त्वमात्थ ब्रूषेऽप्रतिपन्नवस्तुवादित्वादनेकत्ववादिनोऽप्येकस्य वस्तुनः समतत्वादनेकवस्तुवादिनश्च बहवः प्रतिपक्षः सन्ति ममेत्यर्थतोऽपि कल्याणमनेकत्वस्यान्योन्याश्रयादिदोषदुष्टत्वात्पूर्वपक्षनिराकरणेन सिद्धान्तोपपत्तेश्चेत्यर्थः । विचारारम्भमुपपाद्य सिद्धान्तमुपक्रमते – स एव तु स्यादिति । औपाधिकभेदभिन्नोऽप्येवंवित्स्वतः पर एव स्यादित्यर्थः । अविद्याध्यारोपिताब्रह्मत्वव्यावृत्तिरेव ब्रह्मप्राप्तिर्विवक्षितेति फलवाक्यस्यैवमर्थता कथमवगम्यते न पुनरप्राप्तप्राप्तिरित्याह – कथमिति । परिहरति – विद्यामात्रेति । अन्यथाऽप्युपपतिं शङ्कते – मार्गेति । गन्तुः स्वतो ग्रामत्वाभावेऽपि यथा मार्गज्ञानोपदेशः सार्थकस्तथा जीवस्य स्वतो ब्रह्मत्वाभावेऽपि विद्योपदेशः , अभ्यासद्वारेण ब्रह्मप्राप्तिहेतुत्वादित्यर्थः । त्वं ग्रामोऽसीति न तत्रोपदेशः । अत्राभेदोपदेशः प्रतीयतेऽत उपदेशवैषम्यान्न दृष्टान्तो युक्त इत्याह – न वैधर्म्यादिति । यदि विदुषः सकाशादन्य ईश्वरो भयहेतुर्नास्ति का तर्हि गतिर्व्यतिरिक्तेश्वरदर्शनस्येत्याशङ्क्याऽऽह – अन्यस्य चेति । कल्पितभेदविशिष्टरूपेणेश्वरस्याविद्याकृतत्वे मिथ्यात्वे सति विद्यया तत्रावस्तुत्वदर्शनमुपपद्यते । ईश्वरो मम प्राशास्तेति मिथ्यैतद् , यतस्तस्य मम चैकात्म्यमेव परमार्थमिति विद्वदृष्ट्या विशिष्टस्यासत्त्वमित्यर्थः । दृष्टान्तेन वैषम्यं शङ्कते – नैवमिति । यथा चन्द्रैकत्वदर्शनाद्द्वितीयश्चन्द्रो न गृह्यते नैवं ब्रह्मविदा न गृह्यते व्यतिरिक्तेश्वरः । प्रतिनियतप्रपञ्चावभासस्य भोजनादिप्रवृत्त्यनुपपत्त्या जीवन्मुक्तस्याप्यभ्युपगमात्प्रपञ्चप्रतिनियमस्य चेश्वराधीनत्वाभ्युपगमादित्यर्थः । यद्यपि जागरे व्यतिरेकाभासदर्शनं विदुषस्तथाऽपि न तद्भयकारणं न हि मायावी स्वविरचितव्याघ्राभासाद्बिभेति । अविदुषोऽपि व्यतिरेकदर्शनं न सदातनमित्याह – न सुप्तेति । सुषुप्ते व्यतिरेकाग्रहणमसत्त्वसाधकं न भवतीत्याह – सुषुप्त इति । यथेषुकार इष्वासक्तमनस्तया तद्व्यतिरिक्तं विद्यमानमपि न पश्यति सुषुप्तेऽपि निद्रासुखासक्ततया सदपि द्वितीयं न पश्यति न त्वाभावादित्यर्थः । अनासक्तस्य तद्व्यतिरिक्तादर्शनेऽपि तद्दर्शनमेवास्ति सुषुप्ते तु न किञ्चिदज्ञासिषमिति प्रत्ययात्सुखस्याप्यात्मतादाम्त्यदज्ञानस्य च व्यक्तिरिक्तत्व निर्वचनादतस्तात्त्विकद्वितीयाभावादेवाग्रहणमित्याह – न सर्वग्रहणादिति । सुषुप्ते चेदनुपलम्भादसत्त्वं तर्हि जाग्रत्स्वप्नयोरुपलम्भाद्द्वैतस्य सत्त्वं किं न स्यादित्याह – जाग्रदिति । अनात्मादावात्मत्वादिबुद्धिरविद्या तद्भाव एव द्वैतोपलम्भान्नोपलम्भमात्रं सत्त्वसाधकमन्यथा शुक्तिरूप्यादेरपि सत्त्वप्रसङ्गादित्याह – नाविद्येति । पूर्ववाद्याह – सुषुप्त इति । सुषुप्ते द्वितीयस्याग्रहणमपि लयरूपाविद्याकृतं न तु भेदाभावनिबन्धनमतो यदुक्तं सुषुप्ते सर्वात्मकब्रह्मभूतो जीवः स्वव्यतिरिक्तमभावादेव न पश्यतीति तदसदित्यर्थः । सतोऽपि द्वितीयस्याविद्यावशादग्रहणमिति कोऽर्थः । किं ग्रहणप्रागभवो जायत उताप्रकाशारोपः किंवाऽग्रहणाकाराविकृतस्वरूपावस्थानम् नाऽऽद्यः । प्रागभावस्यानादित्वाभ्युपगमात् । न द्वितीयः । परैर्द्वितीयस्यास्वप्रकाशतास्वाभाव्याभ्युपगमेनाप्रकाशारोपानभ्युपगमादप्रकाशारोपे च सर्वस्य स्वप्रकाशब्रह्मात्मतया अभ्युपगन्तव्यत्वेनास्मत्समीहितसिद्धिप्रसङ्गात् । न तृतीय इत्याह – न स्वाभाविकत्वादिति । अविकृतस्वरूपावस्थानं नाविद्याकार्यमनागन्तुकत्वादित्यर्थः । एतत्स्फुटयति – द्रव्यस्य हीत्यादिना । सन्मात्रं द्रव्यमुच्यते स्वातन्त्र्यसिद्ध्यभिप्रायेण , न वैशेषिकाभिप्रायेण क्रियावद्गुणवत्समवायिकारण द्रव्यं मानाभावादिति द्रष्टव्यम् । अविक्रियेति । विक्रियाभावोपलक्ष्यं स्वरूपमनपेक्ष्य सिद्धत्वादित्यर्थः । ग्रहणादिविक्रिया न स्वाभाविकी परापेक्षत्वात्स्फटिकलौहित्यवदित्यर्थः । यदुक्तमनपेक्ष्य सिद्धत्वादविक्रियत्वमिति तत्स्फुटयति – यद्दीति। एवं स्वमते चित्सत्ताव्यतिरिक्तेश्वरस्य भयहेतोरभावादभयं विदुषः सम्भवतीत्युपपाद्य द्वैतीयपक्षे तदसम्भवमाह – येषामिति । सतोऽन्यस्य स्वरूपे स्थिते नष्टे वा मा भूद्ध्वंसो व्याघातादनवस्थानाच्च तर्ह्यसत एव । भयस्योत्पादेऽभयप्राप्तिर्भविष्यतीत्याशङ्क्याऽऽह – न चासत इति । व्यतिरिक्तेश्वरस्य सत्तामात्रेण न भयहेतुत्वं किन्तु प्राणिकृतधर्माधर्माद्यपेक्षस्य , मुक्तस्य तु तदभावादभयं भविष्यतीत्याशङ्क्य नैतत्साङ्ख्येन वाच्यम् । अधर्मादेरपि सतस्तेनात्यन्तासत्त्वानङ्गीकारान्नैयायिकादिमतेऽपि सति हेतौ कार्यात्यन्ताभावस्य दुखधारणत्वात्तेनापि न वाच्यमित्याह – न तस्यापीति । किञ्च सच्चेदसत्त्वमापद्यतेऽधर्मादिकं तर्ह्यात्मन्यपि कः प्रश्वासस्तस्मात्स्वभाववैपरीत्यं सतोऽसत्त्वगमनं कस्यापि मते न घटत इत्याह – सदसतोरिति । स्वमतं निगमयति – एकत्वपक्ष इति । अविद्याकल्पितं भयं विद्यया निवर्तत इति वदता विद्याविद्ययोरात्मधर्मत्वमिष्टं ततो धर्मोत्पादविनाशयोर्विकारित्वमनित्यत्वं च प्रसज्येतेति शङ्कते – विद्याविद्ययोरिति । कल्पितयोर्विद्याविद्ययोरात्मनि भयाभयहेतुत्वसम्भवान्नाऽऽत्मधर्मत्वे प्रमाणमस्ति प्रत्युत वेद्यत्वाद्रूपादिवदात्मधर्मत्वं नास्तीत्यनुमातुं शक्यत इत्याह – न, प्रत्यक्षत्वादिति । चिन्मात्रतन्त्राऽनादिरनिर्वाच्याऽविद्याऽन्तःकरणरूपेण परिणमते तच्चान्तःकरणं तामससात्त्विकावस्थाभेदेन भ्रान्तिसम्यग्ज्ञानाकारेण परिणमते तस्मिन्प्रतिबिम्बितश्चिद्धातुः स्वोपाधिधर्मेणैव भ्रान्तः सम्यग्दर्शीति च व्यवह्रियते न तत्त्वतो विद्याविद्यावत्त्वमित्याह – ते च पुनरिति । उक्तन्यायेन ब्रह्मवित्तत्वतो ब्रह्माभिन्न इत्युक्तम् । तत्र परोक्तमुद्भाव्य निरस्यति – अभेदे एतमित्यादिना । नाऽऽनन्दमयः परमात्मा न च तत्र प्रवेशः संक्रमणं किंत्वविषयब्रह्मात्मताज्ञानेनाऽऽनन्दमयस्याऽऽत्मतया भ्रान्तिगृहीतस्यातिक्रमणं बाधोऽत्र विवक्षित इत्यर्थः । अन्यथा वेति । नीडे पक्षिप्रवेशवद्वेत्यर्थः । यद्यप्यन्नमये मुख्यं संक्रमणं न सम्भवति तथाऽपि मनोबुद्ध्योर्बहिर्विषये प्रवृत्तयोस्ततो व्यावृत्त्य स्वरूपेऽवस्थानं संक्रमणं दृष्टं तथा दुःखिन आनन्दमयस्य स्वरूपेऽवस्थानं संक्रमणं भविष्यतीत्याह – मनोमयस्येति । स्वरूपावस्थानस्यानागन्तुकत्वात्प्रक्रमविरोधाच्च न तन्मुख्यं संक्रमणमित्याह – नेति । ज्ञानमात्रत्वे वा संक्रमणस्य किं फलतीत्यत आह – ज्ञानमात्रत्वे चेति । मुख्यासम्भवे गौणार्थग्रहण न्याय्यमेवातोऽधिष्ठानयाथात्म्यप्रतिपत्त्या विशिष्टस्याध्यस्तस्य बाधनमेव संक्रमणं फलतीति भावः । इतश्च न मुख्यं संक्रमणमन्वेषणीयमित्याह – वस्त्वन्तराभावाच्चेति । संक्रमणस्यौपचारिकत्वं व्याख्याय प्रकरणस्य महत्तात्पर्यमुपसंहारच्छलेनाऽऽह – तस्मादिति । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यामष्टमोऽनुवाकः॥ साध्वसाधुनी स्तः प्रकाशेते चेति सत्प्रकाशमात्रमात्मतत्त्वमेव तयोः स्वरूपं ततोऽतिरिक्तं यदर्थनर्थहेतुत्वं नामविशेषरूपं तन्न वस्तु सत्प्रकाशान्यत्वेनासत्त्वादप्रकाशमानत्वाच्चेत्यभिप्रेत्याऽऽह – स्वेन विशेषरूपेणेति । आत्मैवाविद्यया साध्वसाधुरूपेण प्रतिपन्न आसीत् । इदानीं तु ये साध्वसाधुनी ममार्थनर्थहेतू बभूवतुस्ते आत्मैवेति ज्ञानेन स्वात्मानं साध्वसाधुकरणेन प्रीणयत्येव लोकदृष्ट्या निष्पद्यमाने पुण्यपापे दृष्ट्वा हृष्यति च विद्वान्न बिभेतीत्याह – स्पृणुत एवेति । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यां नवमोऽनुवाकः॥ अधीहीति । अध्यापय स्मारय । “इक् स्मरणे” इति धातुपाठादित्यर्थः । ब्रह्मोपलब्धाविति । लक्ष्यत्वमर्थविवेकाय द्वाराणि शरीरादिचेष्टान्यथानुपपत्त्या हि साक्षिभूतश्चिद्धातुर्विविच्यत इति भावः । न केवलं त्वमर्थज्ञानं वाक्यार्थज्ञानसाधनं किन्तु तत्पदार्थज्ञानमपीत्यभिप्रेत्य तदर्थस्य ब्रह्मणो लक्षणमुक्तवानित्यर्थः । सावशेषोक्तेरिति । पदार्थोपलक्षणस्यैवाभिधानादखण्डवाक्यार्थस्याप्रतिपादनात्पदार्थभेदज्ञानाच्च पुरुषार्थासम्भवात् “उदरमन्तरं कुरुत”(तै. उ. २ । ७ । १) इति निन्दितत्वादतो वाक्यार्थावगतिपर्यन्तं तात्पर्येण लक्ष्यपदार्थविचारणं आवृत्त्याऽनुष्ठितवानित्यर्थः । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां तृतीयभृगुवल्ल्यां प्रथमोऽनुवाकः॥ वृत्तानुवादपूर्वंकमुत्तरवल्लीसम्बन्धमाह – सत्यं ज्ञानमित्यादिना । तप इति । पदार्थविवरणं वाक्यार्थज्ञानसाधनमित्यर्थः । स च तपस्तप्त्वेति । कुत्रेदं पित्रोक्तं लक्षणं क्वेदं लक्षणं वर्तते पूरिपूर्णं भवतीत्येकाग्रेण चेतसां पर्यालोच्यान्नं ब्रह्मेति व्यजानात् । अद्यते भुज्यत उपलभ्यते सर्वैरिति सर्वप्रतिपत्तृसाधारणं स्थूलदेहकारणं भूतपञ्चकं विराट्संज्ञकमन्नशब्देनोच्यते । तस्य स्थूलभौतिककारणत्वात् । “यतो वा इमानि भूतानि”(तै.उ. ३-१-१) इतिलक्षणस्य यत्र योजयितुं शक्यत्वात्तद्ब्रह्मेति प्रतिपन्नवानित्यर्थः । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां भृगुवल्ल्यां द्वितीयोऽनुवाकः॥ विराज उत्पत्तिदर्शनाच्छ्रुतिस्मृतिषु लक्षणं तत्र सम्पूर्णं न भवतीति पुनस्तपोऽतप्यत । विचार्य च तत्कारणं क्रियाशक्तिविशिष्टतया प्राणशब्दलक्ष्यं हिरण्यगर्भं सङ्कल्पाध्यवसायशक्तिविशिष्टतया च मनोविज्ञानशब्दलक्ष्यं ब्रह्मेति व्यजानात् । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां भृगुवल्ल्यां तृतीयोऽनुवाकः॥ शीक्षावल्ली प्रथमोऽनुवाकः द्वितीयोऽनुवाकः तृतीयोऽनुवाकः चतुर्थोऽनुवाकः पञ्चमोऽनुवाकः षष्ठोऽनुवाकः सप्तमोऽनुवाकः अष्टमोऽनुवाकः नवमोऽनुवाकः दशमोऽनुवाकः एकादशोऽनुवाकः द्वादशोऽनुवाकः ब्रह्मानन्दवल्ली प्रथमोऽनुवाकः द्वितीयोऽनुवाकः तृतीयोऽनुवाकः चतुर्थोऽनुवाकः पञ्चमोऽनुवाकः षष्ठोऽनुवाकः सप्तमोऽनुवाकः अष्टमोऽनुवाकः नवमोऽनुवाकः भृगुवल्ली प्रथमोऽनुवाकः द्वितीयोऽनुवाकः तृतीयोऽनुवाकः चतुर्थोऽनुवाकः पञ्चमोऽनुवाकः षष्ठोऽनुवाकः सप्तमोऽनुवाकः अष्टमोऽनुवाकः नवमोऽनुवाकः दशमोऽनुवाकः
Using this in academic work? Get formal citation
Ānandagiri (2026). Ānandagiri Ṭīkā — Taittirīya. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/anandagiri-tika-taittiriya
Ānandagiri. "Ānandagiri Ṭīkā — Taittirīya." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/anandagiri-tika-taittiriya.
Ānandagiri. "Ānandagiri Ṭīkā — Taittirīya." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/anandagiri-tika-taittiriya.