Atharvaveda Paippalāda — Kāṇḍa 10
Tradição Védica (Ṛṣis)
अनुवाक ४ ॥ काण्ड १० हा अम्ब तेजने धेनो लम्बनस्तनि । न तद् विदो यद् इच्छसि यद् उ वित्तं न तद् घसः
पुत्रो यस् ते पृश्निबाहुस् तम् उ त्वं सामनं कृधि । अथो दुहितरं नप्त्रीम् अथो त्वं सामना भव
असामे कुरमे नैगूरस्य स्वसः । अराते निरृते अमते स्नुहिते
परेत कस्तुपकं वः पुनर् ददामि । यो वो न वेद तं हत तस्यात्त परिशिश्न्यम्
तस्यात्त पुत्रान् भ्रातॄंश् च तस्य गोष्ठं वितावत । यश् च सतो नास्तिवाकी यश् चासाव् अहविर्गृहः । दुर्णाम्नीस् तत्र गच्छत तत्र सर्वाः परेतन
परि धामानीत्य् एका
अन्तश्चरां कोशेचराम् अथो गोष्ठावचारिणीम् । अथो याः स्वप्ने पश्यामस् ता इतो नाशयामसि
कण्वा या गर्दभीव निभसत् सूकरीव । तस्यै प्रतिप्रवर्तय तप्तम् अश्मानम् आसनि
यो मर्या अभिगच्छात् स्त्रियं कस्तुपस्तोपिनीम् । कस्तुपम् अस्या आच्छिद्य- -अथैनां चातयातै परमां चित् परावतम्
या भद्रा या शिवा योर्जा पयसा सह । अग्निष् टा अस्माकं गृहे गार्हपत्यो नि यच्छतु
इदं वो देवः सविता- -इदं देवो बृहस्पतिः । इदं वो विश्वे देवा अवसानम् अयुक्षत
परि प्रागाद् देवो अग्नी रक्षोहामीवचातनः । सेधन् विश्वा अप द्विषो दहन् रक्षांसि विश्वहा
परीमे गाम् अनेषत पर्य् अग्निम् अहृषत । देवेष्व् अक्रत श्रवः क इमाꣳ आ दधर्षति
त्वयीन्द्रियं त्वयि वर्चस् त्वं धर्मपतिर् भव । त्वम् उत्तरो भ्रातृव्येभ्यस् तव लक्ष्मीः पयस्वती
तवैताम् अश्विना हवं तव राष्ट्रं दिवि श्रितम् । त्वम् आयुष्मान् सपत्नहा- -उत्तरो द्विषतो भव
तीक्ष्णशृङ्ग ऋषभः समुद्र इवाक्षितोदकः । त्वं सहस्रवीर्यस् तव बाहू गवां पती
भ्रातृव्यश् च सपत्नश् च यस् त्वामित्रो जिघांसति । श्रियं त्वं सर्वेषां तेषाम् आदायोग्रो वि धारय
त्वं वशी सत्याकूतः सत्यधर्मा गवेषणः । नाष्ट्रास् त्वं सर्वास् तीर्त्वा भ्रातृव्याणां श्रियं वृह
तुभ्यं सं यन्तु बलयस् तुभ्यं शुल्कः प्र वीयताम् । तुभ्यं विराट् पयो दुहां त्वां वाञ्छन्तु विशो महीः
वाञ्छतु त्वा बृहद् राष्ट्रं त्विषिस् ते मुख आहिता । त्वं देवानां भव प्रियस् त्वयि गावो अधिश्रिताः
त्वयीन्द्रियं त्वयि वर्चस् त्वयि यज्ञो अधिश्रितः । तवा यन्तु हवं देवास् त्वं प्रियो बृहस्पतेः
अग्नीषोमा पवमानौ विराड् देवी पयस्वती । अतन्द्रं सर्वे रक्षन्तु राष्ट्रं ते नपवाद्यम्
अग्निर् इव तृणं प्र दह- -ओघः कूलम् इवा रुज । श्रियं भ्रातृव्याणाम् आ दत्स्व- -आण्डीकम् इवाधि पुष्करात्
अश्व इव रथम् आ दत्स्व सिंह इव पुरुषं हर । हस्तीव नड्वलान् भङ्धि भ्रातृव्याणां श्रियं वृह
उत् ते कृणोतु कश्यपो ब्रह्म देवैर् अभिष्टुतम् । आप्रीतम् अविराधुकम्
एतं खदिरम् आ हर- -अथो तेजनम् आ हर । उतैतं पर्णम् आ हर- -आ हरानडुहो बलम्
इध्मान् देवैः समाभृतांस् तांस् ते प्रादाद् बृहस्पतिः । तान् आ धेहि समाहिते ऽग्नौ सूर्याभिचक्षणे
तेभिष् ट्वम् उत्तरो भव भ्रातृव्याणां श्रियं वृह । अथो एषां पयो हर
आदित्या रुद्रा वसव ऋषयो भूतकृतश् च ये । श्रियं च क्षत्रम् ओजश् च तुभ्यं देवा असाविषुः
वसुर् असीन्द्रनामा- -आयुष्माञ् छतशारदः । स इन्द्र इव देवेषु त्विषीमान् विश आ वद
इदं राष्ट्रं प्रथतां गोभिर् अश्वैर् इदं राष्ट्रम् अन्नेनेरया रसेन । अस्मै षड् उर्वीर् उप सं नमन्तु सप्तहोत्रा हत शत्रून् सचित्ताः
इमे राजान इषुभिर् घ्नन्तु शत्रून् इमे राजानः समित्यान्यान् वधेयुः । इमे राजानः पृतनाः सहन्ताम् अहं ब्रह्मा वि मृधो हन्मि सर्वाः
इदं राष्ट्रं क्रतुमद् वीरवज् जिष्णूग्रम् इदं राष्ट्रं गर्द्नुमच् चित्रघोषम् । अस्मै राष्ट्राय बलिम् अन्ये हरन्त्व् अहं देवेभ्यो हविषा विधेयम्
यदि युद्धं यद्य् ऋतितं वो अस्ति देवैनसाद् यदि वा पित्र्येण । येनर्त्तीया धेनवो अस्तु तस्मा अहं देवेभ्यो हविषा जुहोमि
यद् वः क्रूरं मनसो यच् च वाचो देवैनसाद् यदि वा पित्र्येण । आप इव दुःष्वप्न्यम् अप तत् स्वपध्वम् अथानन्दिनः सुमनसः सम् एत
अपाम् इव वेगः प्र शृणीत शत्रून् दिशोदिशो रभमाणः सम् एत । एकव्रता वि धनं भजध्वं पुरोहितेन वो राष्ट्रं प्रथयन्तु देवाः
सम्यग् वो राष्ट्रं सह वो मनांसि समीचीनाः पशवो विश्वरूपाः । समीचीनानां वो अहम् अस्मि ब्रह्मा सम्यञ्चो देवा हवम् आ यन्तु म इमम्
यथापः समुद्राय समीचीर् वहथ श्रियम् । एवा राष्ट्राय मे देवाः सम्यञ्चो वहत श्रियम्
संसृष्टं वो राष्ट्रं पशुभिर् गोभिर् अश्वैः संसृष्टम् अन्नेनेरया रसेन । मया ब्रह्मणा प्रथमानाश्वो वसीयांसः सदम् उग्रा भवाथ
बहुर् युवा प्रमृणो धृष्णुर् अस्तु बहुः कुमारः प्रतिरूपः पितॄणाम् । सत्यं वदन्तः समितिं चरन्तो मित्रं गृह्णाना जरसो यन्तु सख्यम्
इह क्षत्रं द्युम्नम् उत राष्ट्रं समैत्व् इहेन्द्रियं पशुभिः संविदानम् । अवधुन्वाना अप्रियान् यांश् च द्विष्म इदं राष्ट्रं प्रथतां सर्वदैव
इदं राष्ट्रम् इषुमद् वीरवज् जिष्णूग्रम् इदं राष्ट्रं पशुमद् ब्रह्मवृद्धम् । इदं राष्ट्रं हतशत्रु जिष्णु
सपत्नसाहं प्रमृणम् इदं राष्ट्रं दृढम् उग्रम् । साढामित्रम् अभिमातिषाहं सर्वा जिगाय पृतना अभिष्टि
औदुम्बरेण मणिना पुष्टिकामाय वेधसा । पशूनां सर्वेषां स्फातिं गोष्ठे मे सविता करत्
यो नो अग्निर् गार्हपत्यः पशूनाम् अधिपा असत् । औदुम्बरो वृषा मणिः सं मा सृजतु पुष्ट्या
करीषिणीं फलवतीं स्वधाम् इरां च नो गृहे । औदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे
यद् द्विपाच् च चतुष्पाच् च यान्य् अन्नानि ये रसाः । गृह्णे ऽहं तेषां भूमानं बिभ्रद् औदुम्बरं मणिम्
पुष्टिं पशूनां परि जग्रभाहं चतुष्पदां द्विपदां यच् च धान्यम् । पयः पशूनां रसम् ओषधीनां बृहस्पतिः सविता मे नि यच्छात्
अहं पशूनाम् अधिपा असानि मयि पुष्टं पुष्टपतिर् दधातु । मह्यम् औदुम्बरो मणिर् द्रविणानि नि यच्छतु
उप मौदुम्बरो मणिः प्रजया च धनेन च । इन्द्रेण जिन्वतो मणिर् आ मागन् सह वर्चसा
देवो मणिः सपत्नहा धनसा धनसातये । पशोर् अन्नस्य भूमानां गवां स्फातिं नि यच्छतु
यथाग्रे त्वं वनस्पते पुष्ट्या सह जज्ञिषे । एवा धनस्य मे स्फातिम् आ दधातु सरस्वती
आ मे धनं सरस्वती पयस्फातिं च धान्यम् । सिनीवाल्य् उता वहाद् अयं चौदुम्बरो मणिः
त्वं मणीनाम् अधिपा वृषासि त्वयि पुष्टं पुष्टपतिर् जजान । त्वयीमे वाजा द्रविणानि सर्वा- -उदुम्बर स त्वम् अस्मत् सहस्व- -आराद् अरातिम् अमतिं क्षुधं च
ग्रामणीर् असि ग्रामणीथ्याया अभिषिक्तो अभि मा सिञ्च वर्चसा । तेजो ऽसि तेजो मयि धारयाधि रयिर् असि रयिं मयि धेहि
पुष्टिर् असि पुष्ट्या मा सम् अङ्धि गृहमेधी गृहपतिं मा कृणु । औदुम्बर स त्वम् अस्मासु रयिं सर्ववीरं नि यच्छ रायस्पोषाय प्रति मुञ्चे अहं त्वाम्
अयम् औदुम्बरो मणिर् वीरो वीराय बध्यते । स नः सनीं मधुमतीं कृणोतु रयिं च नः सर्ववीरं नि यच्छात्
अनुवाक १ ॥ भगस्य राज्ञः सुमतिं गमेम यं हवन्ते बहुधा मानुषासः । कर्म कृण्वानो भगम् आ वृणीते स नो जनेषु सुभगां कृणोतु
भगं पुरस्तात् प्रतिबुध्यमानाः पश्येम देवीम् उषसं विभातीम् । प्रतीची शुभ्रा द्रविणेन साकं भगं वहन्त्य् अदितिर् न ऐतु
भगो नो अद्य स्विते दधातु देवानां पन्थाम् अभि नो नयेह । अर्वाची भद्रा सुमतिर् न ऐत्व् अधा भगेन समिधो नो अस्तु
भगेन वाचम् इषितां वदानि सरस्वतीं मधुमतीं सुवर्चाः । भगेन दत्तम् उप मेदम् आगन् यथा वर्चस्वान् समितिम् आवदानि
भगो मा गोष्व् अवतु भगो मावतु धान्ये । अक्षेषु स्त्रीषु मा भगो भगो मावतु वर्चसा
भगो मा सायम् अवतु भगो मावतु रात्र्या । भगो निपद्यमानेषु प्रातर् मा भग आ गमत्
भगो मा प्रातर् अवतु भगो मध्यन्दिनं परि । अपराह्णे वयं भगं वास इव परि दध्महे
भगं देवेभ्यस् परि भगं मनुष्येभ्यः । दिवस् पृथिव्या अहम् अन्तरिक्षाद् भगं वृणे । सो अग्ने रमता मयि स मा प्रावतु वर्चसा
भगं वृणाना वध्वं वहन्ति वनिं प्रयन्तो भगम् इद् धवन्ते । भगेन दत्तम् उप मेदम् आगन् विश्वं सुभूतं द्रविणानि भद्रा
भगेन देवाः समगन्महि य इमा विश्वा भुवनाभिवस्ते । प्रयच्छन्न् एति बहुधा वसूनि स नो दधातु यतमद् वसिष्ठम्
वातो भगो वरुणो वायुर् अग्निः क्षेत्रस्य पत्नी सुहवा नो अस्तु । हिरण्याक्षो अतिपश्यो नृचक्षाः सर्वैः साकं सचमानो न एहि
उद् एहि देव सूर्य सह सौभाग्येन । सहर्षभस्य वाजेन सहावतंकरणेन
हिरण्ययेनेत्य् एका
गोभिष् ट्वा पात्व् ऋषभो वृषा त्वा पातु वाजिभिः । वायुष् ट्वा ब्रह्मणा पात्व् इन्द्रस् त्वा पात्व् इन्द्रियैः
सोमस् त्वा पात्व् ओषधीभिर् नक्षत्रैः पातु सूर्यः । माद्भिष् ट्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु
तिस्रो दिवस् तिस्रः पृथिवीस् त्रीण्य् अन्तरिक्षाणि चतुरः समुद्रान् । त्रिवृतं स्तोमं त्रिवृत आप आहुस् तास् त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः
त्रीन् नाकांस् त्रीन् समुद्रांस् त्रीन् ब्रध्नांस् त्रीन् वैष्टपान् । त्रीन् मातरिश्वनस् त्रीन् सूर्यान् गोप्तॄन् कल्पयामि ते
घृतेन त्वा सम् उक्षाम्य् अग्न आज्येन वर्धयन् । अग्नेश् चन्द्रस्य सूर्यस्य मा प्राणं मायिनो दभन्
मा वः प्राणं मा वो ऽपानं मा हरो मायिनो दभन् । भ्राजन्तो विश्ववेदसो देवा दैव्येन मावत
प्राणेनाग्निं सं दधति वातः प्राणेन संहितः । प्राणेन विश्वतोमुखं सूर्यं देवा अजनयन्
आयुषायुष्कृतां जीव- -आयुष्मां जीव मा मृथाः । प्राणेनात्मन्वतां जीव मा मृत्योर् उप गा वशम्
देवानां निहितं निधिं यम् इन्द्रान्वविन्दन् पथिभिर् देवयानैः । आपो हिरण्यं जुगुपुस् त्रिवृद्भिस् तास् त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः
त्रयस्त्रिंशद् देवतास् त्रीणि च वीर्याणि प्रियायमाणा जुगुपुर् अप्स्व् अन्तः । अस्मिंश् चन्द्रे अधि यद् धिरण्यं तेनायं कृणवद् वीर्याणि
ये देवा दिव्य् एकादश स्थ ते देवासो हविर् इदं जुषध्वम्
ये देवा अन्तरिक्ष एकादश स्थ (…)
ये देवाः पृथिव्याम् एकादश स्थ ते देवासो हविर् इदं जुषध्वम्
असपत्नं पुरस्तात् पश्चान् नो ऽभयं कृतम् । सविता मा दक्षिणत उत्तरान् मा शचीपतिः
दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्व् अग्नयः । इन्द्राग्नी रक्षतां मा पुरस्ताद् अश्विनाव् अभितः शर्म यच्छताम् । तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म
ये ऽप्स्व् अन्तर् अग्नयः प्रविष्टा म्रोको मनोहा खनो निर्दाह आत्मदूषिस् तनदूषिः । इदं तान् अति सृजामि निर् एनो निर् अनृतं सृजामि
अभूत्या सत्वाय निर् दुष्वप्न्यं सृजामि । वसिष्ठारुन्धती मा पातां प्रजापतेः प्रस्तरो बृहस्पतेः केशाः
अदब्धं चक्षुः सुश्रुतौ कर्णाव् अक्षितौ मे प्राणापानौ । हृदया जरसं मा मा हासीर् मध्य मा रिषम्
आपो मा शुन्धन्तु दुष्कृताद् दुरिता यानि चकृम । अयाम शुद्धा उदितस् तनूभिः
वैश्वानरो रश्मिभिर् नः पुनातु वातः प्राणेनेषिरो नमोभिः । द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये मा पुनीताम्
पुनन्तु माग्नयो गार्हपत्याः पुनन्तु मा धृष्ण्या देवहूताः । पुनन्तु मा शक्वरीः सोमपृष्ठाः पवमानासो अज्रिणः
यः पोता स पुनातु मा बृहद्भिर् देव सवितः । वर्षिष्ठैर् द्याम् इवोपरि
ब्रह्मसवैः पुनातु मा राजसवैः पुनातु मा । शतं पवित्रा वितता तिरश्चा तेभिर् मा देवः सविता पुनातु
शतं च मा पवितारः पुनन्तु सहस्रं च प्रस्रवणेष्व् आपः । आप इव पूतो ऽस्म्य् अग्निर् इव सुवर्चाः सूर्य इव सुचक्षाः
उरूणसाव् असुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनाꣳ अनु । ताव् अस्मभ्यं दृशये सूर्याय पुनर् दाताम् असुम् अद्येह भद्रम्
अगन्म देवाः स्वः स्वर् अगन्म- -अगन्म ज्योतिर् ज्योतिर् अगन्म । महेन्द्रो ऽसि परमेष्ठी सुमित्र विश्वतोमुख मा ते युयोम संदृशः
उद्यन्न् अद्य चित्रमहः सपत्नान् मे ऽव जहि । दिवैनान् रश्मिभिर् जहि रात्र्येनांस् तमसा वधीस् ते यन्त्व् अधमं तमः
सूर्यस्यावृतम् अन्वावर्ते दक्षिणाम् अन्वावृतम् । अग्नेस् तेजसा तेजस्वी भूयासम् इन्द्रस्येन्द्रियेणेन्द्रियावान् भूयासम्
इदम् अहम् अग्नेस् तेजसा- -इन्द्रस्येन्द्रियेण सोमस्य द्युम्नेन विश्वेषां देवानां क्रतूनाम् । अमुष्यामुष्यायणस्य- -अमुष्याः पुत्रस्य वर्चस् तेज इन्द्रियं प्राणम् आयुर् नि वेष्टयामि
(…) आयुर् नि यच्छेत्
इदम् अहम् अग्नेस् तेजसा- -इन्द्रस्येन्द्रियेण सोमस्य द्युम्नेन विश्वेषां देवानां क्रतूनाम् । अमुष्यामुष्यायणस्य- -अमुष्याः पुत्रस्य वर्चस् तेज इन्द्रियं प्राणम् आयुर् आ दाय
अभूत्या एनं पाशे सित्वा दुष्वप्न्येन संसृज्य मृत्योर् व्यात्त आसन्न् अपि दधामि
यो नः स्वो यो अरणो भ्रातृव्यश् च जिघांसति । इन्द्रश् च तस्याग्निश् च मर्म स्कन्धेषु विन्दताम्
यो मा शयानं जाग्रतं यश् च सुप्तं जिघांसति । इन्द्रश् च तस्याग्निश् च बाहू मर्मणि वृश्चताम्
यो मा चरन्तं तिष्ठन्तम् आसीनं च जिघांसति । इन्द्रश् च तस्मिन्न् अग्निश् च दुरितं प्रति मुञ्चताम्
यो मा चक्षुषा मनसा यश् च वाचा जिघांसति । इन्द्रश् च तस्मा अग्निश् च- -एनांसि वहताम् इतः
यः पिशाचो यातुधानः क्रव्याद् यो मा जिघांसति । इन्द्रश् च तस्याग्निश् च मूर्धानं प्रति विध्यताम्
यो मा ब्रह्मणा तपसा यश् च यज्ञैर् जिघांसति । इन्द्रश् च तस्याग्निश् च हृदये ऽधि नि विध्यताम्
यो मे ब्रह्म यो मे तपो बलं श्रेष्ठं जिघांसति । इन्द्रश् च तस्मा अग्निश् च क्रुद्धौ दिग्धाभिर् अस्यताम्
यो मे अन्नं यो मे रसं वाचं श्रेष्ठां जिघांसति । इन्द्रश् च तस्मा अग्निश् च- -आच्छम्बट्कारम् अस्यताम्
यो मे तन्तुं यो मे प्रजां चक्षुः श्रोत्रं जिघांसति । इन्द्रश् च तस्मा अग्निश् च हेतिं देवेषु विन्दताम्
यो मे गोभ्य इरस्यत्य् अश्वेभ्यः पुरुषेभ्यः । इन्द्रश् च तस्मा अग्निश् च ज्यानिं देवेषु विन्दताम्
यो मे भूतिम् अनामयद् वित्तम् आयुर् जिघांसति । इन्द्रश् च तस्मा अग्निश् च दिवो अश्मानम् अस्यताम्
यो मे वेश्म यो मे सभां श्रियं श्रेष्ठां जिघांसति । इन्द्रश् च तस्याग्निश् च कृत्यां वि तनुतां गृहे
यो मे मृत्युम् असमृद्धिम् अह्ना रात्र्या चेच्छति । इन्द्रश् च तस्याग्निश् च- -अर्चिषा दहतां स्वम्
यो मे प्राणं यो मे ऽपानं व्यानं श्रेष्ठं जिघांसति । इन्द्रश् च तस्याग्निश् च प्राणं प्राणहनौ हताम्
यो मा देवजनैः सर्पैर् विद्युता ब्रह्मणाभ्यमात् । अगस्त्येन मेदिना- -इन्द्रश् चाग्निश् च तं हताम्
तं सत्यौजाः प्र दहत्व् अग्निर् वैश्वानरो वृषा । यो मा दुरस्यन्न् ईक्षातै यश् च दिप्सति विद्वलः
यो मा दिप्साद् अदिप्सन्तं यश् च दिप्सति दिप्स तम् । वैश्वानरस्य दंष्ट्रयोर् अग्नेर् अपि दधामि तम्
अभि तं द्यावापृथिवी संतपतां तप्ते घर्मे न्युच्यताम् । निरृत्या वध्यतां पाशे यो नः पापं चिकित्सति
प्रत्यग्वधेन प्रच्युतान् भ्रातृव्यान् घोरचक्षसः । इन्द्राग्नी एनान् वृश्चतां मैषाम् उच् छेषि कश् चन
प्रत्यग्वध प्रत्यग् जहि भ्रातृव्यान् द्विषतो मम । अपानान् प्राणां संछिद्य द्विषतस् पातयाधरान्
अग्ने ये मा जिघांसन्त्य् अग्ने ये च द्विषन्ति मा । अग्ने ये मोपतप्यन्ते तेषां प्रियतमं जहि
एतं द्विषन्तम् अवधिषम् अन्धेन तमसावृतम् । एतं मृत्यो ऽभि पद्यस्व मा ते मोचि महोदरः
द्यावापृथिवी सं नह्येथां मम राष्ट्राय जयन्ती अमित्रेभ्यो हेतिम् अस्यन्ती
वाता पवमानौ सं नह्येथां मम राष्ट्राय जयन्ताव् अमित्रेभ्यो हेतिम् अस्यन्तौ
इन्द्राग्नी सं नह्येथां (…)
मित्रावरुणा सं (…) (…)
भवाशर्वा सं (…) (…)
अश्विना सं नह्येथां मम राष्ट्राय जयन्ताव् अमित्रेभ्यो हेतिम् अस्यन्तौ
मरुतः सं नह्यध्वं मम राष्ट्राय जयन्तो ऽमित्रेभ्यो हेतिम् अस्यन्तः
पितरः सं नह्यध्वं मम राष्ट्राय जयन्तो ऽमित्रेभ्यो हेतिम् अस्यन्तः
सूर्याचन्द्रमसौ सं नह्येथां मम राष्ट्राय जयन्ताव् अमित्रेभ्यो हेतिम् अस्यन्तौ
अहोरात्रे सन् नह्येथां मम राष्ट्राय जयन्ती अमित्रेभ्यो हेतिम् अस्यन्ती
गन्धर्वाप्सरसः सं नह्यध्वं मम राष्ट्राय जयन्तो ऽमित्रेभ्यो हेतिम् अस्यन्तः
सर्पपुण्यजनाः सं (…)
वनस्पतयः सं (…)
वानस्पत्याः सं नह्यध्वं मम राष्ट्राय जयन्तो ऽमित्रेभ्यो हेतिम् अस्यन्तः
ओषधयः सं नह्यध्वं मम राष्ट्राय जयन्त्यो ऽमित्रेभ्यो हेतिम् अस्यन्त्यः
वीरुधः सं नह्यध्वं मम राष्ट्राय जयन्त्यो ऽमित्रेभ्यो हेतिम् अस्यन्त्यः
बृहस्पते सं नह्यस्व मम राष्ट्राय जयन्न् अमित्रेभ्यो हेतिम् अस्यन्
प्रजापते सं (…)
परमेष्ठिन् सं नह्यस्व मम राष्ट्राय जयन्न् अमित्रेभ्यो हेतिम् अस्यन्
उदारा उद् ईर्ध्वं विश्वानि भूतानि सं नह्यध्वं मम राष्ट्राय जयन्त्य् अमित्रेभ्यो हेतिम् अस्यन्ति
अग्नी रक्षिता स इमां सेनां रक्षतु । अनुष्ठातर् अनु तिष्ठ सर्वे वीरा भवन्तु मे
इन्द्रो रक्षिता (…)
सोमो रक्षिता (…)
वरुणो रक्षिता (…)
वायू रक्षिता (…)
त्वष्टा रक्षिता (…)
धाता रक्षिता (…)
सविता रक्षिता (…)
सूर्यो रक्षिता (…)
चन्द्रमा रक्षिता स इमं सेनां रक्षतु । अनुष्ठातर् अनु (…)
अहा रक्षितृ तद् इमां (…) । अनुष्ठातर् अनु (…)
रात्री रक्षित्री सेमां (…) । अनुष्ठात्र्य् अनु (…)
इन्द्राणी रक्षित्री (…)
वरुणानी रक्षित्री सेमां (…)
सिनीवाली रक्षित्री (…)
समुद्रो रक्षिता स इमां (…) । अनुष्ठातर् अनु (…)
पर्जन्यो रक्षिता (…)
बृहस्पती रक्षिता (…)
प्रजापती रक्षिता (…)
परमेष्ठी रक्षिता स इमां सेनां रक्षतु । अनुष्ठातर् अनु तिष्ठ सर्वे वीरा भवन्तु मे
विश्वे देवा रक्षितारस् त इमां सेनां रक्षन्तु । अनुष्ठातारो अनु तिष्ठत सर्वे वीरा भवन्तु मे
Using this in academic work? Get formal citation
Tradição Védica (Ṛṣis) (2026). Atharvaveda Paippalāda — Kāṇḍa 10. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-10
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 10." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-10.
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 10." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-10.