Atharvaveda Paippalāda — Kāṇḍa 12
Tradição Védica (Ṛṣis)
अनुवाक १ ॥ काण्ड १२ अग्निस् तक्मानम् अप बाधताम् इतः सोमो ग्रावा मरुतः पूतदक्षाः । वेदिर् बर्हिः समिधः शोशुचाना अप रक्षांस्य् अमुया धमन्तु
अयं यो रुरो अभिशोचयिष्णुर् विश्वा रूपाणि हरिता कृणोति । तस्मै ते ऽरुणाय बभ्रवे तपुर् मघाय नमो ऽस्तु तक्मने
तक्मन् सार्थिनम् इच्छस्व वशी सन् मृडयासि नः । अथेहि यत्र ते गृहा अनिनूर्त्तेषु दस्युषु
यः पुरुषः पारुषेयो ऽवध्वंस इवारुणः । तक्मानं विश्वधावीर्य- -अधराञ्चं परा सुव
अधराञ्चं प्र हिणोमि मनस् कृत्वा तक्मने । शकम्भरस्य मुष्टिहा पुनर् गच्छ महावृषान्
महावृषान् मूजवत ओक एधि परेत्य । व्रतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमाः
ओको अस्य मूजवन्त ओको अस्य महावृषाः । याज् जातस् तक्मं ताद् असि बलिहिकेषु न्योचरः
तक्मन् व्याल विगद व्यङ्ग भूरि यावय । दासीं निष्टक्वरीम् इच्छ तां वज्रेण सम् अर्पय
गिरिं गच्छ गिरिजासि गिरौ ते माहिषो गृहः । दासीम् इच्छ प्रफर्व्यं तां तक्मन् वीव धूनुहि
यस् त्वं शीतो अथो रूरः सह कासावीवियः । भिमास् ते तक्मन् हेतयस् ताभि स्म परि वृङ्धि नः
तक्मन् भ्रात्रा बलासेन स्वस्रा कासिकया सह । पाम्ना भ्रातृव्येण नश्येतो मरटाङ् अभि
गन्धारिभ्यो मूजवद्भ्यः काशिभ्यो मगधेभ्यः । जने प्रियम् इव शेवधिं तक्मानं परि दध्मसि
नार्कविन्दान् नार्विदालान् नान्नदीं वर्तकावतीम् । व्रतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमाः
अन्यक्षेत्रे न रमते सहस्राक्षो अमर्त्यः । अभूद् उ प्रार्थस् तक्मा स गमिष्यति बलिहिकाम्
अदो गच्छ मूजवतस् ततो वा घ परस्तरम् । मा स्मातो अभ्यैर् नः पुनस् तत् त्वा तक्मन्न् उप ब्रुवे
परस्मैव त्वं चर परमस्यां परावति । यथा नो नान्तम् आयसि यथा नो नाभिशोचया
यथेयम् उर्वी पृथिवी वृद्धैव गर्भम् आदधे । एवा दधामि ते गर्भं तस्मै त्वाम् अवसे हुवे
पर्वताद् दिवो योनेर् गात्राद् गात्रात् समाशृतम् । रेतो देवस्य देवस्य त्सरौ पर्णम् इवा धाम्
विष्णुर् योनिं कल्पयतु त्वष्टा रुपाणि पिंशतु । आ सिञ्चतु प्रजापतिर् धाता गर्भं दधातु ते
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । गर्भं युवम् अश्विनास्यामा धत्तं पुष्करस्रजा
गर्भं ते राजा वरुणो गर्भं देवो बृहस्पतिः । गर्भं त इन्द्रश् चाग्निश् च गर्भं धाता दधातु ते
गर्भो अस्य् ओषधीनां गर्भो वनस्पतीनाम् । गर्भो विश्वस्य भूतस्य सो अग्ने गर्भम् एह धाः
येनौषधयो गर्भिनीः पशवो येन गर्भिनः । तेषां गर्भस्य यो गर्भस् तेन त्वं गर्भिणी भव
वि ते ग्रन्थिं चृतामसि धाता गर्भं दधातु ते । आ योनिं पुत्रो रोहतु जननं प्रति जायताम्
जनिष्ट हि महिया आ योनिं सम् इहासरत् । अथा सोम इव भक्षणम् आ गर्भः सीदत्व् ऋत्वियम्
धातः श्रेष्ठेन रूपेण- -अस्या नार्या गवीन्योः । पुमांसं पुत्रम् आ धेहि दशमे मासि सूतवे
सवितः श्रेष्ठेन रूपेण (…)
विष्णोः श्रेष्ठेन (…)
त्वष्टः श्रेष्ठेन (…)
भगः श्रेष्ठेन रूपेण- -अस्या नार्या गवीन्योः । पुमांसं पुत्रम् आ धेहि दशमे मासि सूतवे
अधि स्कन्द वीरयस्व गर्भम् आ धेहि योन्याम् । वृषाणं वृष्ण्यावन्तं प्रजायै त्वा नयामसि
यद् वेद राजा वरुणो वेद देवो बृहस्पतिः । इन्द्रो यद् वृत्रहा वेद तं गर्भकरणं पिब
वि जिहीष्व बार्हत्सामे गर्भस् ते योनिम् आ शयाम् । ददन् ते पुत्रं देवाः सोमपाम् उभयाविनम्
सोमस्य त्व र्त्वियेन- -उपैमि गर्भकृत्वने । ततस् ते पुत्रो जायतां कर्तवै वीर्येभ्यः
जायस्वाग्ने ऽश्वत्थाद् अस्मै क्षत्रायौजसे । उग्र आपतिकाद् अधि यो वृक्षाꣳ अधिरोहति
विबाधं चित् सहमानं त्वाम् अग्ने जनयामसि । जातां जनिष्यमाणां सपत्नान् प्र णुदस्व मे
अश्वत्थस्यारोहस्य वृक्षस्यारणयः कृताः । ततो जाताय ते ऽजनि वीडुजम्भाग्निर् अग्नये
तं जातं जातवेदसम् आ दधाम्य् अमर्त्यम् । पावकम् अग्निम् ऊतये शुचिमन्तं विषासहिम्
उत् तनुष्व धनुः प्रति मुञ्चस्व वर्म जहि शत्रून् वीर्या ते कृणोमि । अत्र रध्यन्तु य उ ते सपत्नास् त्वम् एकवृषो भव
वृषभं त्वा सजातानां सपत्नानां विषासहिम् । हन्तारं शत्रूणां कृण्मो विराजं गोपतिं गवाम्
समुद्रो ऽस्य् अपां ज्येष्ठ इन्द्रो देवेषु वृत्रहा । व्याघ्रं सिंहं त्वा कृण्मो दमितारं पृतन्यताम्
इन्द्र इव दस्यून् अधरान् कृणुष्व- -उग्र इव वातो विशृणन् सपत्नान् । ते शुष्यन्त्व् अप दावाद् इव- -अग्नेः पर्यवीवरथा एनान्
सं वृश्चैनांस् ते शुष्यन्तु वृश्चैनान् मोपजां शिषः । सपत्नान् सर्वांस् तृढ्वा त्वम् एकवृषो भव
त्वम् उग्रस् त्वं बली त्वम् एधि विवाचनम् । त्वं पृतन्यतः पूर्वः सपत्नाꣳ अव दूनुष्व
असपत्नः सपत्नहा- -इन्द्र इवारिष्टो अक्षितः । अधः सपत्नास् ते पदोः सर्वे सन्त्व् अभिष्ठिताः
म्लायन्तु ते खातमूलाः सपत्ना अग्निम् एषां निर् ह्वयामि शरीरात् । हविषैषाम् अपि दधामि प्राणांस् तथैभ्यो अमुचिः कृताः
अभिवर्धम् अभिभवं सपत्नक्षयणं हविः । राष्ट्राय तुभ्यं कृण्मः सपत्नेभ्यः पराभवन्
यो नः स्वो यो अरणो ऽरातियति पूरुषः । इध्मस्येव प्रक्षायकस् तस्य मोच्छेषि किं चन
असपत्नम् इति द्वे
त्वया पूर्वम् आथर्वाणो जघ्नू रक्षांस्य् ओषधे । त्वया जघान कश्यपस् त्वया कृण्वो अगस्त्यः
त्वया वयम् अप्सरसो गन्धर्वांश् चातयामसि । अजशृङ्ग्य् अज रक्षः सर्वान् गन्धेन नाशय
नदीं यन्त्व् अप्सरसो अपान्तारम् इव श्वसन् । गुल्गुलू पीला नलद्य् औक्षगन्धिः प्रमन्दिनी
यत्रामर्त्या अप्स्व् अन्तः समुद्रे तुरूर् नीली तुर्वशी पुण्डरीका । तत् परेता अप्सरसः प्रतिबुद्धा अभूतन
यत्र प्रेङ्खो गन्धर्वाणां दिवि बद्धो हिरण्ययः । (…)
गन्धर्वाणाम् अप्सरसाम् आनर्तम् इति सङ्गमम् । (…)
यत्राश्वत्था न्यग्रोधा महारुक्माः शिखण्डिनः । (…)
यत्र वो ऽक्षा हरिता अर्जुना आघाटाः ककर्यः संवदन्ति । तत् परेता अप्सरसः प्रतिबुद्धा अभूतन
इयं वीरुच्छिखण्डिनो गन्धर्वस्याप्सरापतेः । भिनत्तु मुष्काव् अपि यातु शेफः
एयम् अगन्न् ओषधिर् वीरुधां वीर्यावती । अजशृङ्ग्य् अराटकी तीक्ष्णशृङ्गी व्य् ऋषतु
अपेतेतो अप्सरसो गन्धर्वा यत्र वो गृहाः । तीक्ष्णशृङ्ग्य् अराटक्य् अजशृङ्गी व्य् ऋषतु
जाया वेद वो अप्सरसो गन्धर्वाः पतयो यूयम् । अप क्रामत् पुरुषाद् अमर्त्या मर्त्यं मा सचध्वम्
भीमा इन्द्रस्य हेतयः शतमृष्टीर् अयस्मै । ताभिर् गन्धर्वान् अभैद्यान् अवकादान् व्य् ऋषतु
अवकादाꣳ अभिशोचो भित्सु द्योतयमामकान् । गन्धर्वान् सर्वान् ओषधे प्र णुदस्व परा णय
उन्मादयन्तीर् अभिशोचयन्तीर् मुनिं नग्नं कृण्वतीर् मोघहासिनम् । अप्सरसो रघटो याश् चरन्ति गन्धर्वपत्नीर् अजशृङ्ग्य् आशये
श्वेतीकृण्वानः पुरुषं विश्वा रूपाणि बोभुवत् । श्वेवैकं कपिर् इवैकं कुमारः सर्वकेशकः । प्रियो दृशे भूत्वा गन्धर्वः सचते स्त्रियं तम् इतो नाशयामसि
यो वै वशां देवयते पचते वाहुताममा । मृत्योः स बध्यते पाशे देवानां च यमस्य च
दक्षिणां सूर्याम् अदितिं वदन्ति वशां वाचं कल्पयन्तः समानीम् । सप्त ऋषयो नि दधुर् वाचम् एतां सरस्वती मृडया कल्पयन्तः
इमां वशां वाचम् आहुर् वशेति तिस्रो वशा अतिहिताः सधस्थे । तासाम् अग्नौ मनसैकां जुहोमि तां नः स्वाद्वीं भूतपतिः कृणोतु
स्वद्वीं न एतां सविता कृणोतु स्वद्वीं न एतां जनिता पशूनाम् । जुहुध्य् अग्ने वयुनानि विद्वांस् तां नः स्वाद्वीं भूतपतिः कृणोतु
इदं तृतीयं वशिनी वशाशि महिम्ने त्वा गर्भो अभ्य् आ विवेश । उशती त्वम् उशतो गच्छ देवान् सत्याः सन्तु यजमानस्य कामाः
इयम् अम्भसा वाजसुतस्तभे गौर् यस्याम् इन्द्रो वरुणस् तित्विषाते । नृम्णम् अनृम्णं सचत इयम् आगन् धीरः पशुर् वीर्यम् आ विवेश
वशा ससूव स्थविरं विपश्चितं वशा ससूव वष्कयं दिविस्पृशन् । वशा ससूव तरुणं विभाजने वशा ससूव संजितं धनानाम्
यत् प्रोक्षणम् अपतद् बर्हिषस् परि दक्षिणतो वेद्या इन्द्रियावत् । वशा संभूत्याधि गौर् अमीमेत् तस्याः पीवो अभवद् वर्मवाससम्
नमो महिम्न उत चक्षुषे वां वशर्षभो मनसा तत् कृणोमि । देवाꣳ अपीतं पथिभिः शिवेभिर् मा नो हिंसिष्टं हरसा दैव्येन
वशाम् अस्कन्दद् ऋषभस् तिष्ठन्तीम् अधि तन्तुषु । गर्भं तम् अद्य को वेद यतिधा सो अकल्पयत्
रूपम् एकः पर्य् अभवद् राजा नामैक उच्यते । पतीरूपस्यैको रूपं रूपम् एकः सुकृत्वनाम्
प्रजापतिः परमेष्ठी मृत्युर् विश्वानरः स्वः । सरस्वानस्या यज्ञस्य वशाया अधि जज्ञिरे
यस्य गृह आदायेत वशा देवकृतं हविः । निधानम् अस्या एष्यं दुहित्रे पत्याम् इव
नास्याः सकृद् अभि तिष्ठेन् नास्य श्लोणा गृहे स्यात् । वशा कन्येव दुर्मङ्का- -अपचित्या विजानता
नैनां रक्षेद् ब्राह्मणेभ्यो नामा वि ग्लापयाति च । यतीं न प्रत्यावर्तयेद् यस्य गोषु वशा स्यात्
नास्या वशाम् आ रुन्धेद् देवा मनुष्या उत । वशं यद् अन्वैद् ब्रह्मणा तस्माद् एषाभवद् वशा
वशं कृण्वाना वशिनीयम् आगन् पदं कल्याण्य् अवपश्यमाना । अनिष्ट्येष्टिम् अभिजायमाना यज्ञस्य मात्राम् अभिकल्पमाना
इन्द्रवन्तस् ते मरुतस् तुरीयं भेजिरे वशे । तुरीयम् आदित्या रुद्रास् तुरीयं वसवो वशे
तुरीय भाज आदित्यान् वशायाः कवयो विदुः । अथास्याः पथ्यैका तनुश् चतस्रश् चक्ल्̥पे दिशः
वशा पन्थाम् अन्व् अपश्यन् नाकपृष्ठं स्वर्विदाम् । आदित्या एनाम् अन्व् आयन्न् ऋषयश् च तपस्विनः
पदेपदे कल्पयन्त आदित्याङ्गिरसो यजुः । ईडाना अन्व् आयन् वशान् तदैडं सामोच्यते
वशेडा वशानुमतिर् वशाम् आहुः सरस्वतीम् । विराजं मन्यन्ते वशां वाग् वशा पृथिवी वशा
वशा देष्ट्री सिनीवाली वशोषा निरृतिर् वशा । वशायां मृत्युम् अविशद् आ मृत्युम् अविशद् वशा
अग्निर् वाग् उदकं चक्षुर् मनो वातो वशी वशा । तन्वं को अस्यास् तं वेद ययोदक्रामद् एकया
यां चक्षुषा मनसा संविदाना हृदा पश्यन्ति कवयो मनीषिनः । तस्याः प्रजाधिपतिः पशूनां वशा राज्ञा नांतवेषा सृष्टिः
को वशाया ऊधो वेद क उल्बं च जरायु च । स्तनान् अस्याः को वेद क इ तद् वेद यद् दुहे
अहम् अस्या ऊधो वेद- -अहम् उल्बं च जरायु च । स्तनान् अस्या अहं वेद- -अथो तद् वेद यद् दुहे
नैनाꣳ अहं रक्षेयं दद्याम् एव स्याच् च मे । स्तना ह्य् अस्या अहं वेद क्षीरम् उल्बं च जरायु च
कृत्तिर् योनिर् अधिवासो जरायु पाण्डम् उल्बं नाभिर् उष्णीषम् अस्याः । आ जरसं धयतु मातरं वशी ब्रह्मभिः क्ल्̥प्तः स ह्य् अस्य बन्धुः
अनुवाक १ ॥ इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री । अहन्न् अहिम् अन्व् अपस् ततर्द प्र वक्षणा अभिनत् पर्वतानाम्
अहन्न् अहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष । वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रम् अव जग्मुर् आपः
वृषायमाणो ऽवृणीत सोमं त्रिकद्रुकेष्व् अपिबत् सुतस्य । आ सायकं मघवादत्त वज्रम् अहन्न् एनं प्रथमजाम् अहीनम्
यद् इन्द्राहन् प्रथमजाम् अहीनाम् आन् मायिनाम् अमिनाः प्रोत मायाः । आत् सूर्यं जनयन् द्याम् उषासं तादीत्ना शत्रुं न किला विवित्से
अहन् वृत्रं वृत्रतरं व्यंसम् इन्द्रो वज्रेण महता वधेन । स्कधांसीव कुलिशेना विवृक्णा- -अहिः शयद् उपपृक् पृथिव्याः
अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तु विबाधम् ऋजीषम् । नातारीद् अस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः
अपाद् अहस्तो अपृतन्यद् इन्द्रम् आस्य वज्रम् अधि सानौ जघान । वृष्णो वध्रिः प्रतिमानं बभूषन् पुरुत्रा वृत्रो अशयद् व्यस्तः
नदं न भिन्नम् अमुया शयानं मनो रुहाणा अति यन्त्य् आपः । याश् चिद् वृत्रो महिना पर्यतिष्ठत् तासाम् अहिः पत्सुतःशीर् बभूव
निचावया अभवद् वृत्रपुत्र- -इन्द्रो अस्या अव वधर् जभार । उत्तरा सूर् अधरः पुत्र आसीद् दानुः शये सहवत्सा न धेनुः
अतिष्ठन्तीनाम् अनिवेशनानां काष्ठानां मध्ये निहितं शरीरम् । वृकस्य निण्यं वि चरन्त्य् आपो दीर्घं तम आशयद् इन्द्रशत्रुः
दासपत्नीर् अहिगोपा अतिष्ठन् निरुद्धा आपः पणिनेव गावः । अपां बिलम् अपिहितं यद् आसीद् वृत्रं जघन्वाꣳ अप तद् ववार
अश्व्यो वारो अभवस् तद् इन्द्र सृके यत् त्वा प्रत्यहन् देव एकः । अजयो गा अजयः शूर सोमम् अवासृजः सर्तवे सप्त सिन्धून्
नास्मै विद्युन् न तन्यतुः शिषेध न याम्यहम् अकिरद् ध्रादुनिं च इन्द्रश् च यद् युयुधाते अहिश् च- -उतापरीभ्यो मघवा वि जिग्ये
अहेर् यातारं कम् अपश्य इन्द्र हृदि यत् ते जघ्नुषो भीर् अगच्छत् । नव च यन् नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि
इन्द्रो यातो ऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः । सेद् उ राजा क्षयति चर्षणीणाम् अरान् न नेमिः परि ता बभूव
यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् । यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः
यः पृथिवीं व्यधमानाम् अदृंहद् यः पर्वतान् प्रकुपिताꣳ अरम्णात् । यो अन्तरिक्षं विममे वरीयो यो द्याम् अस्तभ्नात् स (जनास इन्द्रः)
यो हत्वाहिम् अरिणात् सप्त सिन्धून् यो गा उदाजद् अपधा वलस्य । यो अश्मनोर् अन्तर् अग्निं जजान संवृक् समत्सु स (जनास इन्द्रः)
येनेमा विश्वा च्यवना कृतानि यो दासं वर्णम् अधरं गुहाकः । श्वघ्नीव यो जिगीवाꣳल् लक्षम् आदद् अर्यः पुष्टानि स (…)
यं स्मा पृच्छन्ति कुह सेति घोरम् उतेम् आहुर् नैषो अस्तीत्य् एनम् । सो अर्यः पुष्टीर् विज इवा मिनाति श्रद् अस्मै धत्त स (…)
यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः । युक्तग्राव्णो यो ऽविता सुशिप्रः सुतसोमस्य स (…)
यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः । यः सूर्यं य उषसं जजान यो अपां नेता स (…)
यं क्रन्दसी संयती विह्वयते परे ऽवर उभया अमित्राः । समानं चिद् रथम् आतस्थिवांसा नाना हवेते स (…)
यस्मान् न र्ते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते । यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत् स (…)
यः शश्वतो मह्य् एनो दधानान् अबुध्यमानान् सर्वा जघान । यः शर्धते नानुददाति शृध्यां यो दस्योर् हन्ता स (…)
यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्य् अन्वविन्दत् । ओजायमानं यो अहिं जघान दानुं शयानं स (…)
यः शम्बरं पर्यचरच् छशीबिर् यो वा वृकस्य नापिबत् सुतम् । अन्तर् गिरौ यजमानं बहुं जनं यस् तं नासूरुक्षु स (…)
यः सप्तरश्मिर् वृषभस् तुविष्मान् अवासृजत् सर्तवे सप्त सिन्धून् । यो रौहिणम् अस्फुरद् वज्रबाहुर् द्याम् आरोहन्तं स (…)
द्यावा चिद् अस्मै पृथिवी नमेते शुष्माच् चिद् अस्य पर्वता भयन्ते । यः सोमपा निचितो वज्रबाहुर् यो वज्रहस्तः स (…)
यः सुन्वन्तम् अवति यः पचन्तं यः शंसन्तं यः शशमानम् ऊती । यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः
यः सुन्वते पचते दुध्र आ चिद् वाजं ददर्षि स किलासि सत्यः । वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथम् आ वदेम
जातो व्यख्यत् पित्रोर् उपस्थे भुवो न वेद जनितुः परस्य । तविष्यमाणो न्व् ओजो अख्यद् व्रता देवानां स जनास इन्द्रः
यः सोमकामो हर्यश्व आसु यस्माद् रेजन्ते भुवनानि विश्वा । यो जघान शम्बरं यश् च शुष्णं य एकवीरः स जनास इन्द्रः
शं न इन्द्राग्नी भवताम् अवोभिः शं न इन्द्रावरुणा रातहव्या । शम् इन्द्रासोमा स विताय शं योः शं न इन्द्रापूषणा वाजसातौ
शं नो भगः शम् उ नः शंसो अस्तु शं नः पुरुन्धिः शम् उ सन्तु रायः । शं नः सत्यस्य सूयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु
शं नो धाता शम् उ धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः । शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु
शं नो अग्निर् ज्योतिरनीको अस्तु शं मित्रावरुणाव् अश्विना शम् । शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः
शं नो द्यावापृथिवी पूर्वहूतौ शम् अन्तरिक्षं दृशये नो अस्तु । शं न ओषधीर् वनिनो भवन्तु शं नो रजसः पतिर् अस्तु जिष्णुः
शं न इन्द्रो वसुभिर् देवो अस्तु शम् आदित्येभिर् वरुणः सुशंसः । शं नो रुद्रो रुद्रेभिर् जलाषः शं नस् त्वष्टा ग्नाभिर् इह शृणोतु
शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शम् उ सन्तु यज्ञाः । शं नः स्वरूणां मितयो भवन्तु शं नः प्रस्वः शम् व् अस्तु वेदिः
शं नः सूर्य उरुचक्षा उद् एतु शं नो भवन्तु प्रदिशश् चतस्रः । शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शम् उ सन्त्व् आपः
शं नो अदितिर् भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः । शं नो विष्णुः शम् उ पूषा नो अस्तु शं नो भवित्रं शम् व् अस्तु वायुः
शं नो देवः सविता त्रायमानः शं नो भवन्तूषसो विभातीः । शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिर् अस्तु शम्भुः
शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शम् उ सन्तु गावः । शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु
शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिर् अस्तु । शम् अभिषाचः शम् उ रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः
शं नो अज एकपाद् देवो अस्तु शम् अहिर् बुध्न्यः शं समुद्रः । शं नो अपां नापत् पेरुर् अस्तु शं नः पृश्निर् भवतु देवगोपाः
आदित्या रुद्रा वसवो जुषन्ताम् इदं ब्रह्म क्रियमाणं नवीयः । शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः
ये देवानाम् ऋत्विजो यज्ञियासो मनोर् यजत्रा अमृता ऋतज्ञाः । ते नो रासन्ताम् उरुगायम् अद्य यूयं पात स्वस्तिभिः सदा नः
तद् अस्तु मित्रावरुणा तद् अग्ने शं योर् अस्मभ्यम् इदम् अस्तु शस्तम् । अशीमहि गातुम् उत प्रतिष्ठां नमो दिवे बृहते सादनाय
अग्नाव् अग्निश् चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एषः । तस्मै जुहोमि हविषा घृतेन मा देवानां यूयवद् भागधेयम्
युक्तो वह जातवेदः पुरस्ताद् अग्ने विद्धि क्रियमाणं यथेदम् । त्वं भिषग् भेषजस्यापि कर्ता त्वया गाम् अश्वं पुरुषं सनेम
तथा त्वम् अग्ने कृणु जातवेदो ऽनेन विद्वान् हविषा यविष्ठ । पिशाचो अस्य यतमो जघास यथा सो अस्य परिधिष् पताति
यो ऽस्य दिदेव यतमो जघास यथा सो अस्य परिधिष् पताति । तथा त्वम् अग्ने कृणु जातवेदो विश्वेभिर् देवैः सह संविदानः
अक्ष्यौ नि विध्य हृदयं नि विध्य जिह्वां नि तृन्धि प्र दतः शृणीहि । पिशाचो अस्य यतमो जघास- -अग्ने यविष्ठ प्रति तं शृणीहि
यद् अस्य हृतं विहृतं यत् पराभृतम् आत्मनो जग्धम् उत यत् पिशाचैः । तद् अग्ने विद्वान् पुनर् आ भर त्वं शरीरे प्राणम् असुम् एरयास्य
अपां त्वा पाने यतमो ददम्भ- -ओदने मन्थे यदि वोत लेहे । तद् आत्मना प्रजया पिशाचा वि यातयन्ताम् अगदो ऽयम् अस्तु
क्षीरे त्वा मांसे यतमो ददम्भ- -अकृष्टपच्ये अशने धान्ये यः । तद् आत्मना प्रजया पिशाचा वि यातयन्ताम् अगदो ऽयम् अस्तु
आमे सुपक्वे शबले विपक्वे य इमं पिशाचो अशने ददम्भ । तम् इन्द्रो वाजी वज्रेण हन्तु भिनत्तु सोमः शिरो अस्य धृष्णुः
दिवा त्वा नक्तं यतमो ददम्भ क्रव्याद् यातुः शयने पिशाचः । तद् अग्ने विद्वान् प्र दह क्षिणीह्य् अप्य् एनं धेहि निरृतेर् उपस्थे
सोमस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर् बलेन सवितुः सवेन । अग्नेर् होत्रेण प्र णुदे पिशाचान् यविष्ठस्य ब्रह्मणा जातवेदसः
क्रव्यादम् अग्ने रुधिरं पिशाचं मनोहनं जहि जातवेदः सहोभिः । श्रद्धेमं ब्रह्म जुषतां दक्षिणायुर् यथा जीवात्य् अगदो भवाति
पुनस् त्वा प्राणः पुनर् ऐत्व् आयुः पुनश् चक्षुः पुनर् ऐतु श्रोत्रम् । अपघ्ना नो दुरितानि विश्वा शतं हिमाः सर्ववीरा मदेम
पुनर् अस्मै मनो धेहि पुनर् आयुः पुनर् बलम् । अपानाम् अस्य प्राणं च- -अग्ने वर्धय जीवसे
चक्षुः सूर्य पुनर् देहि वात प्राणं सम् ईरय । शरीरम् अस्य मांसान्य् अग्ने सं भारया त्वम्
सम् आ भर जातवेदो यज् जग्धं यत् पराभृतम् । गात्राण्य् अस्य कल्पय पुनर् आ प्यायताम् अयम्
सोमस्येव जातवेदो अंशुर् आ प्यायताम् अयम् । अग्ने विरप्सिनं मेध्यम् अयक्ष्मं कृणु जीवसे
सं मा सिञ्चन्तु मरुत इत्य् एका
वि मुञ्चामि ब्रह्मणा जातवेदसम् अग्निं होतारम् अजरं रथस्पृतम् । सर्वा देवानां जनिमानि विद्वान् यथाभागं वहतु हव्यम् अग्निः
ये पुमांसो यातुधान या स्त्रियो यातुधान्यः । बलवद् इन्द्रस्य वज्रेण- -अवाचीनान् अव हन्मि तान्
यं शपामो य उ नः शपाति यं द्विष्मो य उ द्वेषत् पिशाचः । क्रव्यादम् अग्ने महता वधेन तम् अत्रापि प्र दह जातवेदः
य आरेभे यस्य वा घास्य् अप्सरा यः कृण्वेन संविदो यातुमावान् । उलूकयातुं भृमलो यस्य यातुस् तम् (…)
य आददे यस्य वा घासि पित्र्या स्तेन श्वयातुर् उत संभिधेहिभिः । यः पताद् रोधनस्याधिदेवनं क्रव्यात् पिशाचः क्रविषस् तितृप्सन् उलूकयातुं भृमलो यस्य यातुस् तम् (…)
यः पुरुषेणेयते रथेन क्रव्याद् यातुः पिशुनः पिशाचः । वैश्वानरेण सयुजा सूर्येण तम् (…)
यो नो वलिं मृगयां यश् च नः कृषिं परितिष्ठाद् यातुभिर् यश् च नः शपात् । अस्ता रुद्रः श्रथत्व् आयुर् अस्य तम् (…)
मा यातुमान् विदत मृडितारम् अलोका अस्मै प्रदिशो भवन्तु । सम् एनं तपतां रोदसी उभे तम् अत्रापि प्र दह जतवेदः
ज्योतिष्मतीस् तपना याश् च रोचना प्रत्योषन्तीस् तन्वो यास् ते अग्ने । ताभिर् मे मर्माण्य् अभितो ददस्व मा त्वा दभन् यातुधाना नृचक्षः
आपो देवीः पिशाचानाम् अप नह्यन्त्व् आस्यम् । यथेमं ममात्मानम् अनाधृष्य पुनः पतान्
सदं पुष्पे सदं फले सदम् इन्द्राभिरक्षिते । सदा पिशाचा म्रियन्तां मैषाम् उच् छेषि कश् चन
ये पतन्तो यातुधाना दिवानक्तम् उपाचरान् । रात्री मा तेभ्यो रक्षत्व् अह्न आत्मानं परि ददे
इमं बध्नामि ते मणिं दीर्घायुत्वाय तेजसे । दर्भं सपत्नजम्भनं द्विषतस् तपनं हृदः
द्विषतस् तापयन् हृदः शत्रूणां तापयन् मनः । दुर्हार्दः सर्वांस् त्वं दर्भ घर्म इवाभीत् सुतापयन्
घर्म इवाभितपन् दर्भ द्विषतो नितपन् मणे । हृदः सपत्नानां भिन्धि- -इन्द्र इव विरुजं वलम्
भिन्धि दर्भ सपत्नानां हृदयं द्विषतां मणे । उद्यं त्वचम् इव भूम्याः शिर एषां वि पातय
भिन्धि दर्भ सपत्नान् मे भिन्धि मे पृतनायतः । भिन्धि मे सर्वान् दुर्हार्दो भिन्धि मे द्विषतो मणे
छिन्धि दर्भ सपत्नान् मे छिन्धि मे पृतनायतः । छिन्धि मे सर्वान् दुर्हार्दश् छिन्धि मे द्विषतो मणे
वृश्च दर्भ सपत्नान् मे वृश्च मे पृतनायतः । वृश्च मे सर्वान् दुर्हार्दो वृश्च मे (द्विषतो मणे)
कृन्त दर्भ सपत्नान् मे कृन्त मे पृतनायतः । कृन्त मे सर्वान् दुर्हार्दः कृन्त मे द्विषतो मणे
पिंश दर्भ सपत्नान् मे पिंश मे पृतनायतः । पिंश मे सर्वान् दुर्हार्दः पिंश मे द्विषतो मणे
विध्य दर्भ सपत्नान् मे विध्य मे पृतनायतः । विध्य मे सर्वान् दुर्हार्दो विध्य मे द्विषतो मणे
निक्ष दर्भ सपत्नान् मे निक्ष मे पृतनायतः । निक्ष मे सर्वान् दुर्हार्दो निक्ष मे द्विषतो मणे
तृन्धि दर्भ सपत्नान् मे तृन्धि मे पृतनायतः । तृन्धि मे सर्वान् दुर्हार्दस् तृन्धि मे द्विषतो मणे
भङ्धि दर्भ सपत्नान् मे भङ्धि मे पृतनायतः । भङ्धि मे सर्वान् दुर्हार्दो भङ्धि मे द्विषतो मणे
मृण दर्भ सपत्नान् मे मृण मे पृतनायतः । मृण मे सर्वान् दुर्हार्दो मृण मे द्विषतो मणे
मन्थ दर्भ सपत्नान् मे मन्थ मे पृतनायतः । मन्थ मे सर्वान् दुर्हार्दो मन्थ मे द्विषतो मणे
पिण्ढि दर्भ सपत्नान् मे पिण्ढि मे पृतनायतः । पिण्ढि मे सर्वान् दुर्हार्दः पिण्ढि मे द्विषतो मणे
ओष दर्भ सपत्नान् मे ओष मे पृतनायतः । ओष मे सर्वान् दुर्हार्द ओष मे द्विषतो मणे
दह दर्भ सपत्नान् मे दह मे पृतनायतः । दह मे सर्वान् दुर्हार्दो दह मे द्विषतो मणे
जहि दर्भ सपत्नान् मे जहि मे पृतनायतः । जहि मे सर्वान् दुर्हार्दो जहि मे द्विषतो मणे
यत् ते दर्भ जरामृत्यू स ते मर्मसु वर्म ते । तेनेमं वर्मिणं कृत्वा सपत्नान् जहि वीर्यैः
शतं ते दर्भ वर्माणि सहस्रं वीर्याणि ते । तम् अस्मै विश्वे त्वां देवा जरसे भर्तवा अदुः
त्वाम् आहुर् देववर्म त्वां दर्भ ब्रह्मणस्पतिम् । त्वाम् इन्द्रस्याहुर् वर्म त्वं राष्ट्राणि रक्षसि
सपत्नक्षयणं दर्भं द्विषतस् तपनं हृदः । मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते
यत् समुद्रो अभ्यक्रन्दत् पर्जन्यो विद्युता सह । ततो हिरण्ययो बिन्दुस् ततो दर्भो अजायत
Using this in academic work? Get formal citation
Tradição Védica (Ṛṣis) (2026). Atharvaveda Paippalāda — Kāṇḍa 12. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-12
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 12." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-12.
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 12." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-12.