Atharvaveda Paippalāda — Kāṇḍa 14
Tradição Védica (Ṛṣis)
अनुवाक २ ॥ काण्ड १४ एन्द्रो बाहुभ्याम् अभरच् चिकित्वान् अपो देवीर् वरुणाय प्रजानन् । तम् आदित्या अभ्य् अषिञ्चन्त सर्वे राजानम् उग्रं बृहते रणाय ता न आपो राजसूया अवन्तु
हिरण्यवर्णा इति चतस्रः
अपो देवीर् मधुमतीर् अगृह्णत- -ऊर्जस्वती राजसूया मयोभुवः । याभिर् मित्रावरुणाव् अभ्यसिञ्चन् ताः (…)
वरुणेन प्रेषिता यन्ति शुभ्रा उत्सं देवीर् दधते या हिरण्ययम् । या ब्रह्मणा पुनते संविदानास् ताः (…)
अपः समुद्राद् दिवम् उद् वहन्ति दिवस् पृथिवीम् अभि याः सृजन्ति । याभिर् ईशाना मरुतश् चरन्ति ताः (…)
या अमृतं बिभ्रति या मधु प्रियं या अगृभ्णन् ऋषयो देवसख्ये । याभिर् इन्द्रम् अत्य् अनयन्न् अरातीस् ताः (…)
या जीवधन्या धनम् उत्पृणन्ति देवायते दाशुषे मर्त्याय । यासां पयो अक्षितम् अक्षितानां ताः (…)
हिरण्यौपशा ध्वजनीः पुनाना याः समुद्रम् अभ्यर्चन्ति धेनवः । याः पर्जन्यो वहत्य् अन्तरिक्षे ताः (…)
रथन्तरे बृहति गीयमाने क्षत्रं जिन्वन्ति प्र तिरन्त्य् आयुः । याभिस् त्रयान् वाजिनो वाजयन्ति ताः (…)
याभिः सह वृत्रहा सोमम् इन्द्रो वसोर् ईशानो अपिबत् सुतस्य । याः सप्त ऋषयः कवयः पुनन्ति ताः (…)
सप्त ऋषयो भरतम् अभ्य् अषिञ्चन्न् आस्मिन् राष्ट्रम् अदधुर् दक्षिणावत् । प्रजायै मनुम् असुमवन्त देवास् ताः (…)
याभिर् यज्ञं प्राञ्चम् उक्षयन्ति धीरा याभिः सोमं मधुपृचं पुनन्ति । याभिर् इदं जीवति विश्वम् एजत् ताः (…)
यासां स्तोका मधुमया बभूवुर् घृतं संज्ञानं मधु पिन्वते याः । याः सोम आपः प्रणयन्ति ब्रह्मणा ताः (…)
यासां पदोर् आज्यं वाजिनं तु सोमस्य प्रसवम् अनु याः पवन्ते । अन्तर्वतीस् तरुणवत्सा घृताचीस् ता न आपो राजसूया अवन्तु
अजीजनन्त मतयः स्वर्विद आ ब्रह्मणा सूक्तधेयान्य् अगुः । असूषुत राजसूयाः पयांसि प्रासावीद् देवः सविता भुवनानि विश्वा
सोमो राजा भवो राजा पशुपतिः पशूनां वरुणो धृतव्रतः । ये राजसूये असूयन्त देवास् ते ते क्षत्रं दधत्व् आयुर् ओजः
आस्थाद् उद् अस्थाद् अजनिष्ट विप्रो मृधो व्य् आस्थद् अशसीत बाहू । आरे अवाधिष्ट निरृतिं पराचैः समपृक्त रश्मिभिः सूर्यश् च
अपश्यं त्वावरोहन्तं दिवतः पृथिवीम् इव । अपश्यम् अस्यन्तं रुद्रं नीलग्रीवं शिखण्डिनम्
दिव उग्रो ऽवारुक्षत् प्रत्य् अष्ठाद् भूम्याम् अधि । जनासः पश्यतेमं नीलग्रीवं विलोहितम्
एष ऐत्य् अवीरहा रुद्रो जलाषभेषजी । वि ते क्षेपम् अनीनशद् वातीकारो व्य् एतु ते
नमस् ते भव भामाय नमस् ते भव मन्यवे । नमस् ते अस्तु बाहूभ्याम् उतो त इषवे नमः
याम् इषं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे । शिवां गिरिश तां कृणु मा हिंसीः पुरुषान् मम
शिवेन वचसा त्वा गिरिशाच्छा वदामसि । यथा नः सर्वम् इज् जगद् अयक्ष्मं सुमनो असत्
या त इषुः शिवतमा शिवं बभूव ते धनुः । शिवा शरव्या या तव तया नो मृड जीवसे
या ते रुद्र शिवा तनूर् अघोरापापकाशिनी । तया नस् तन्वा शन्तमया गिरिशन्ताभि चाकश
असौ यस् ताम्रो अरुण उत बभ्रुर् विलोहितः । ये चेमे अभितो रुद्रा दिक्षु श्रिताः सहस्रशो ऽवैषां हेड ईमहे
अदृशं त्वावरोहन्तं नीलग्रीवं विलोहितम् । उत त्वा गोपा अदृशन्न् उत त्वोदाहार्यः । उतो त्वा विश्वा भूतानि तस्मै दृष्टाय ते नमः
नमो ऽस्तु नीलशिखण्डाय सहस्राक्षाय वाजिने । अथो ये अस्य सत्वानस् तेभ्यो ऽहम् अकरं नमः
नमांसि त आयुधाय- -अनातताय धृष्णवे । उभाभ्याम् अकरं नमो बाहुभ्यां तव धन्वने
प्र मुञ्च धन्वनस् पर्य् उभयोर् आत्न्योर् ज्याम् । याश् च ते हस्त इषवः परा ता भगवो वप
अवतत्य धनुस् त्वं सहस्राक्ष शतेषुधे । निशीर्य शल्यानां मुखा शिवो नः शम्भुर् आ चर
विज्यं धनुः शिखण्डिनो विशल्यो बाणवाꣳ उत । अनेशन्न् अस्येषवः शिवो अस्य निषङ्गतिः
परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः । अथो य इषुधिस् तव- -आरे अस्मिन् नि धेहि तम्
या ते हेतिर् मीढुष्टम हस्ते बभूव ते धनुः । तया त्वं विश्वतो अस्मान् अयक्ष्मया परि भुज
सुपार्श्वा कामदुघा न आगञ् छतौदना पयसा पिन्वमाना । ऊर्जं दुहाना अनपस्फुरन्ती यजमानस्य प्र तिरन्त्य् आयुः
गृभ्णामि मेध्याम् उशतीं स्वस्तय ऊर्जस्वतीम् अनमीवां स्वाध्याम् । विश्वो लोको मम देवेष्व् अस्तु शतौदनां श्रद्दधानः पचामि
बधान देवीम् अभि धेहि मुञ्जतीं शतौदनां कामदुघा ह्य् एषा । मैनां हिंसीर् अश्मना जहृषाणो ऽप्य् एतु देवाꣳ अति गच्छति द्विषः
आ रभस्व ब्रह्मणा वैश्वदेवीं शतौदनां शतपाप्मानो अस्याः । समर्पयन्न् अश्मना पर्वतेन स्वर्गं लोकम् अधि रोहयैनम्
धृष्णु ह्य् एनां विकृता विकृन्तन्न् अपघ्नंश् चर्मेरया सं सृजैनाम् । विराजो दुहितेरया समक्ता कामं कामं यजमानाय दुहाम्
यथापरु विशसन्नाति मंस्थाः कृणुष्वा मे नावधेयानि पृथक् । अगन् देवान् मानुषी या पुराभूच् छतौदना पुरुरूपा सुवर्णा
द्विपाद् द्विहस्तः पुरुषो महादमो वनस्पतिं बिभर्ति सायकाग्रम् । तेन परूंषि प्रविद्वान् अघ्न्यायाः शतौदनां देवीं शतधा व्य् अस्य
एतं ब्रध्नं चर्मणः कृन्त साधु तम् उ प्रमाय शतधा व्य् अस्य । सम् उत् सृजन्न् अवधानानि सर्वा रायस्पोषं यजमानाय धेहि
ऋचा कुम्भीम् अध्य् अग्नौ श्रयामि भूम्यां त्वा भूमिम् अधि धारयामि । अपो मांसं बिभ्रती मा व्यथिष्ठा मा त्वा वधिषुर् मेनिभिः पिशाचाः
ऊर्ध्व प्रेहि मा सं विक्था व्य् अस्य रजो अन्तरम् । रक्षांसि सर्वा तीर्त्वा- -अथा रोह दिवं त्वम्
दिवं प्रेहि शतौदने सहस्रस्यायनं भव । अयुतं प्रयुतं भव- -अक्षितिर् भवतात् त्वं स्वर्गं लोकम् आरुहः
शतौदनां शतधा भक्षयन्ति शतं रोहान् रोहति यो ददाति । वामदेव्यं नौधसम् अस्याः पक्षौ तृतीये नाके अधि विष्टपि श्रिता
शतौदनां शतधा कल्पमाना शतं रूपाणि कृणुते स्वर्यती । सा नो देवी सुहवा शर्म यच्छत्व् अथो मृडातीदृशे
शतौदना द्वादशाहेन संमिता शतं पृष्ठानि ससृजे स्वर्यती । सर्वान् यज्ञान् परियती परस्तात् सा दातारं रायस्पोषे दधातु
अभि प्रेहि शतौदन ईजानान् सोमसत्वनः । यज्ञांस् त्वं सर्वान् आप्त्वा कामप्रस्यायनं भव
अभि प्रेहि शतौदने यज्ञेनायज्वनस् तर । आ देवयून् अरूरुहो यत्रादस् त्रिदिवं दिवः
ईरापदी प्रथमा शतौदना सत्यं ह मध्यम् अमृतं शिरस् तव । उभे देवी रोदसी आ पृणासि
ऋतं ह श्रोणी उत सक्थौ तन्वा- -ओजो ह बाहू उत तद् बलाय कम् । अनुष्ठु जठरम् आद् उ पार्श्वे सर्वाꣳल् लोकां छतौदना समाप
चक्षुष्मती प्रथमा शतौदना सूर्यो ह चक्षुर् उत चन्द्रमास् तव । विश्वैर् देवैर् ऋतुभिः संविदाना सा दातारं तृप्त्या तर्पयासि
शतं पयांसि शतम् अस्या वत्साः शतधा पक्वां वि भजन्त्य् एनाम् । सप्त लोका दिव्य् आर्पिता ये तां जिगेथ प्रथमा शतौदने
सहस्रेण शतमाना यद् एषि लोकां जिगेथ प्रथमा शतौदने । सर्ववेदसम् उत वाजपेयं सर्वाꣳल् लोकां छतौदना समाप
इन्द्रः पपात प्रथमः शतौदनां सप्त ऋषिभ्यः सुमनस्यमानः । तयासुराणां बलम् ओज आ ददे तया रुरोह विष्टपो देवलोकान्
विश्वामित्रो ऽयं जमदग्निर् अत्रिर् भरद्वाजो गोतमो ऽयं वसिष्ठः । इदं पक्वं कश्यपसप्तमाः प्राश्नन्तु प्रथमाः शतौदनाम्
ज्योतिष्मती प्रथमा शतौदना त्रीणि ज्योतींषि कृणुते स्वर् यती । तां दातार उप जीवन्ति यत्र तत्र देवैः सधमादं मदन्ति
छन्दःपक्षा बृहती शतौदना त्रीणि च्छन्दांसि ससृजे स्वर् यती । ऋतूणाम् अधिराजं संवत्सरं पतिम् अस्या विन्दन्
अतिक्रम्याग्निष्टोमम् अतिरात्रं शतौदने । यज्ञांस् त्वं सर्वान् आप्त्वा चित्यम् अग्निं व्य् अश्नुहि
अश्वमेध्यम् अतिक्रम्य द्वादशाहं शतौदने । त्रिरात्रं साह्नम् आप्त्वा वाजपेयेन कल्पते
ये सहस्रैर् ईजाना अग्निहोत्रहुतश् च ये । यज्ञैर् ये सर्वैर् ईजानास् तान् आप्नोति शतौदना
शं ते परूंषि सुभगे दधामि शं ते मांसान्य् अत्तथा भवन्ति । अस्थि यत् ते शमिता शशार तत् ते त्वष्टा विहृतं निष् कृणोतु
ये यज्ञेन जिता लोका या नु च्छन्दांसि भेजिरे । सर्वांस् ताꣳल् लोकान् आप्नोति यो ददाति शतौदनाम्
इषिरा योषा युवतीर् दमूना रात्री देवस्य सवितुर् भगस्य । अश्वक्षता सुहवा संभृतश्रीर् आ पप्रौ द्यावापृथिवी महित्वा
अव विश्वान्य् अरुहद् गभीरा- -उद्वर्षिष्ठम् अरुहद् अश्रमिष्ठा । उशती रात्र्य् अनु सानु भद्राद् वि तिष्ठते मित्र इव स्वधाभिः
नर्ये वन्द्ये सुभगे सुजात आ चागन् रात्रि सुमना इह स्याम् । अस्मांस् त्रायस्व नर्याणि जाता- -अश्व्या यानि गव्यानि पुष्टा
सिंहस्य रात्र्य् उशती पिशस्य व्याघ्रस्य द्वीपिनो वर्च आ ददे । अश्वस्य ब्रध्नं पुरुषस्य मायं पुरु रूपाणि कृणुषे विभाती
शिवां रात्रिम् अह्नि सूर्यं च हिमस्य माता सुहवा नो अस्तु । अस्य स्तोमस्य सुभगे नि बोध येन त्वा वन्दे विश्वासु दिक्षु
स्तोमस्य नो विभावरि रात्रि राजेव जोषसै । असाम सर्ववीरा भवाम सर्ववेदसो व्युच्छन्तीर् अनूषसः
शम्या ह नाम दधिषे मम दिप्सन्ति ये धना । रात्रीह तान् असद् अप- -अथ स्तेनो न विद्यते अथ रिपुर् न विद्यते
भद्रासि रात्रि चमसो न पिष्टो विश्वं गोरूपं युवतिर् बिभर्षि । चक्षुष्मती मे मृशती वपूंषि प्रादित्यान् दिव्यान् रुक्माꣳ अमुक्थाः
यो अद्य स्तेन आयत्य् अघायुर् मर्त्यो रिपुः । रात्री तस्य प्रतीत्य प्र ग्रीवा प्र शिरो हनत्
प्र पादौ न यथायति प्र हस्तौ न यथाशिषत् । यो मलिम्लर् उपायति स संपिष्टो अपायति । अपायति स्व् अपायति शुष्के स्थाणाव् अपायत
अन्धं रात्रि तिष्ठधूमम् अशीर्षाणम् अहिं कृणु । अक्षौ वृकस्य निर् जह्य् आ स्तेनं द्रुपदे जहि
ये ते रात्र्य् अनड्वाहस् तीक्ष्णशृङ्गाः स्वाशवः । तेभिर् नो अद्य पारय- -अति दुर्गाणि विश्वहा
रात्रिं रात्रिम् अरिष्यन्तस् तरेम तन्वा वयम् । गम्भीरम् अप्लवा इव न तरेयुर् अरातयः
यथा शाम्याकः प्रपतन् प्रेदिवान् नानु विद्यते । एवा रात्रि प्र पातय यो अस्माꣳ अभ्य् अघायति
अप स्तेनं वासोमथं गोअजम् उत तस्करम् । अथो यो अर्वतः शिरो +ऽभिधाय निनीषति
यद् अद्य रात्रि सुभगे विभजन्त्य् अयोवसु । यद् एह्य् अस्मान् भ्राजय- -अथेद् अन्यान् उपायसि
उषसे नः परि देहि सर्वान् रात्र्य् अनागसः । उषा नो अह्न आ भजाद् अहस् तुभ्यं विभावरि
Using this in academic work? Get formal citation
Tradição Védica (Ṛṣis) (2026). Atharvaveda Paippalāda — Kāṇḍa 14. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-14
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 14." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-14.
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 14." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-14.