Atharvaveda Paippalāda — Kāṇḍa 16
Tradição Védica (Ṛṣis)
काण्ड १६ अन्तकाय मृत्यवे नम इह- -अयम् अस्तु पुरुषः सहासुना । सूर्यस्य भागे अमृतस्य लोके प्राणा अपाना इह ते रमन्ताम्
उद् एनं भगो अग्रभीद् उद् एनं सोमो अंशुमान् । उद् एनं मरुतो देवा उद् इन्द्राग्नी स्वस्तये
इह ते ऽसुर् इह प्राण इहायुर् इह ते मनः । उत् त्वा निरृत्याः पाशेभ्यो दैव्या वाचा भरामसि
उत् क्रामातो माव पत्था मृत्योः पड्वीशम् अवमुञ्चमानः । मा च्छित्था अस्माल् लोकाद् अग्नेः सूर्यस्य संदृशः
तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्व् अमृतान्य् आपः । सूर्यस् ते तन्वे शं तपात् त्वां मृत्युर् दयतां मा प्र मेष्ठाः
उद्यानं ते पुरुष नावयानं जीवातं ते दक्षतातिं कृणोतु । आ हि रोहेमम् अमृतं सुखं रथम् अथ जिर्विर् विदथम् आ वदासि
मा ते मनस् तत्र गान् मा तिरो भून् मा जीवेभ्यः प्र मदो मानु गाः पितॄन् । विश्वे देवा अभि रक्षन्तु त्वेह
मा गतानाम् आ दीधीथा ये नयन्ति परावतम् । उद् आ रोह तमसो ज्योतिर् एह्य् आ ते हस्तं रभामहे
श्यामश् च त्वा शबलश् च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ । अर्वाङ् एहि मा वि दीध्यो माति तिष्ठः पराङ्मनाः
मैतं पन्थाम् अनु गा भीम एष येन पूर्वं नयथ तं ब्रवीमि । तम एतत् पुरुष मा प्र पत्था भयं परस्ताद् अभयं ते अर्वाक्
रक्षन्तु त्वाग्नयो ये अप्स्व् अन्ता रक्षतु त्वा मनुष्या यम् इन्धते । वैश्वानरो रक्षतु जातवेदा दिव्यस् त्वा मा प्र धाग् विद्युता सह
रक्षतु त्वा पृथिवी रक्षतु द्यौस् सूर्यश् च त्वा रक्षतां चन्द्रमाश् च । मा त्वा क्रव्याद् अभि मंस्त- -आरात् संकसुकाच् चर
अन्तरिक्षं रक्षतु देवहेत्या बोधश् च त्वा प्रतीबोधश् च रक्षताम् । अस्वप्नश् च त्वानवद्राणश् च रक्षतां गोपायंश् च त्वा रक्षतां जागृविश् च
ते त्वा रक्षन्तु ते त्वा गोपायन्तु ते त्वांहसस् पान्तु । तेभ्यो नमस् तेभ्यः स्वाहा
जीवेभ्यस् त्वा समुदे वायुर् इन्द्रो धाता दधातु सविता त्रायमाणः । मा त्वा प्राणो बलं हासीद् असुं ते ऽनु ह्वयामसि
मा त्वा जम्भः संहनुर् मा तमो विदन् मा जिह्वा बर्हिः प्रमयुः कथा स्याः । उत् त्वादित्या वसवो भरन्तु- -उद् इन्द्राग्नी स्वस्तये
अयं देवा इहैवास्त्व् अयं मामुत्र गाद् इतः । इमं सहस्रवीर्येण मृत्योर् उत् पारयामसि
उत् त्वा मृत्योर् अपीपरं सं धमन्तु वयोधसः । मा त्वा व्यस्तकेश्यो मा त्वाघरुदो रुदन्
आहार्षं त्वाविदं त्वा पुनर् आगाः पुनर्णवः । सर्वाङ्ग सर्वं ते चक्षुः सर्वम् आयुश् च ते ऽविदम्
उत् त्वा द्यौर् उत् पृथिव्य् उत् प्रजापतिर् अग्रभीत् । उत् त्वा मृत्योर् ओषधयः । सोमराज्ञीर् अपीपरन्
यावत् ते ज्योतिर् अभूद् अप त्वत् तमो अक्रमीत् । अप त्वन् मृत्युं निरृतिम् अप यक्ष्मं नि दध्मसि
आ रभस्वेमाम् अमृतस्य श्नुष्टिम् अच्छिद्यमाना जरदष्टिर् अस्तु ते । असुं त आयुः पुनर् आ भरामि रजस् तमो मोप गा मा प्र मेष्ठाः
जीवतां ज्योतिर् अभ्य् एहि लोकम् आ त्वा हरामि शतशारदाय । द्राघीय आयुः प्रतरं ते कृणोम्य् अव मुञ्चन्तु मृत्युपाशा अशस्तीः
वातात् ते प्राणम् अविदं सूर्याच् चक्षुर् अहं परि । यत् ते मनस् त्वयि तद् धारयामि सं वित्स्वाङ्गैर् वद जिह्वयालपन्
प्राणेन त्वां द्विपदां चतुष्पदाम् अग्निम् इव जातम् अभि सं धमामि । नमस् ते मृत्यो चक्षुषे नमः प्राणाय ते ऽकरम्
अयं जीवतु मा मृत- -इमं सम् ईरयामसि । कृणोम्य् अस्मै भेषजं मृत्यो मा पुरुषं वधीः
जीवलां नघारिषां जीवन्तीम् ओषधीम् अहम् । त्रायमाणां सहमानां सहस्वतीम् अरुन्धतीम् इह हुवे ऽस्मा अरिष्टतातये
अधि ब्रूहि मा रभथाः सृजेमं तवैव सन्त् सर्वहाया इहास्तु । भवाशर्वौ मृडतं शर्म यच्छतम् अपसिध्य दुरितं धत्तम् आयुः
देवानां हेतिः परि त्वा वृणक्तु पारयामि रजस उत् त्वा मृत्योर् अपीपरम् । आराद् अग्निं क्रव्यादं निरूहन् जिवातवे ते परिधिं दधामि
अस्मै मृत्यो अधि ब्रूहि- -इमं दयस्वोद् इतो ऽयम् एतु । अरिष्टः सर्वाङ्गः सुश्रुज् जरसा शतहायनात्मना भुजम् अश्नवत्
यत् ते नियानं रजसं मृत्यो अनवधरिष्यम् । पथ इमं तस्माद् रक्षन्तो ब्रह्मास्मै वर्म कृण्मसि
कृणोमि ते प्राणापानौ जरां मृत्युं कृणुतां दीर्घम् आयुः स्वस्ति । वैवस्वतेन प्रहितान् यमदूतांश् चरत आराद् अप सेधामि सर्वान्
आराद् अरातिं निरृतिं परो ग्राहिं क्रव्यादः पिशचान् । रक्षो यत् सर्वं दुर्भूतं तत् तम इवाप हन्मसि
अग्नेष् टे प्राणम् अमृताद् आयुष्मतो मनवे जातवेदसः । यथा न रिष्या अमृतः सजूर् असस् तत् ते कृणोमि तद् उ ते सम् ऋध्यताम्
शिवे ते स्तां द्यावापृथिवी असन्तापे अधिश्रियौ । शं ते सूर्य आ तपति शं वातो वातु ते हृदे । शिवा अभि क्षरन्तु त्वा- -आपो दिव्याः पयस्वतीः शिवास् ते सन्त्व् ओषधीः
उत् त्वाहार्षम् अधरस्याद् उत्तरां पृथिवीम् अभि । तत्र त्वादित्यौ रक्षतां सूर्याश् चन्द्रमसा उभा
यत् ते वासः परिधानं यां नीविं कृणुषे त्वम् । शिवं ते तन्वे तत् कृण्मः संस्पर्शे ऽध्रूक्ष्णम् अस्तु ते
यत् क्षुरेण मर्चयता सुतेजसा वप्ता वपसि केशश्मस्रु । शुम्भं मुखं मैनम् आयुः प्र मोषीः
शिवौ ते स्तां व्रीहियवाव् अबलासाव् अदोमधौ । एतौ यक्ष्मं वि बाधेते एतौ मुञ्चतो अंहसः
यद् अश्नासि यत् पिबसि धान्यं कृष्याः पयः । आद्यं यद् अनाद्यं सर्वं ते अन्नम् अविषं कृणोमि
अह्ने च त्वा रात्रये च- -उभाभ्यां परि दध्मसि । अरायेभ्यो जिघत्सुभ्य इमं नः परि रक्षत
शतं ते ऽयुतं हायना द्वे युगे त्रीणि चत्वारि सन्तु । इन्द्राग्नी विश्वे देवा अनु मन्यन्ताम् अहृणीयमानाः
शरदे त्वा हेमन्ताय वसन्ताय ग्रिष्माय परि दध्मसि । वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः
मृत्युर् ईशे द्विपदां मृत्युर् ईशे चतुष्पदाम् । तस्मात् त्वा मृत्योर् गोपतेर् उद् धरामि स मा मृथाः
सो ऽरिष्ट न मरिष्यसि न मरिष्यसि मा बिभेः । न वै तत्र प्र मीयन्ते नो यन्त्य् अधरं रजः
सर्वो वै तत्र जीवति गौर् अश्वः पुरुषः पशुः । यत्रेदं ब्रह्म क्रियते परिधिर् जीवनाय कम्
परि त्वा पातु समानेभ्यो ऽभिचारात् सबन्धुभ्यः । अमम्रिर् भवामृतो ऽतिजीवो मा ते हासिषुर् असवः शरीरम्
विश्वे त्वा देवा अमृतेन बिभ्रत्व् अधिवक्ता पशुपतिष् टे अस्तु । अनामयत् सविता ते कृणोत्व् आ त्वा प्राणो विशतु जीवनाय
ये मृत्यव एकशतं या नाष्ट्रातिजीव्या । मुञ्चन्तु तस्मात् त्वा देवा अग्नेर् वैश्वानराद् अधि
अनुवाक १ ॥ रक्षोहणं वाजिनम् आ जिघर्मि मित्रं प्रथिष्ठम् उप यामि शर्म । शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम्
अयोदंष्ट्रान् अर्चिषा वावृधानान् उप स्पृश जातवेदः समिद्धः । आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृष्ट्वापि धत्स्वासन्
उभोभयाविन्न् उप देहि दंष्ट्रा हिंस्रः शिशानो ऽवरं परं च । उतान्तरिक्षे परि याह्य् अग्ने जम्भैः सं धेह्य् अभि यातुधानान्
अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर् हरसा हन्त्व् एनम् । प्र पर्वाणि जातवेदः शृणीहि क्रव्यात् क्रविष्णुर् वि चिनोत्य् एनम्
यज्ञैर् इषूः संनममानो अग्ने वाचा शल्याꣳ अशनिभिर् दिहानः । ताभिर् विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ध्य् एषाम्
यत्रेदानीं पश्यसि जातवेदस् तिष्ठन्तम् अग्न उत वा चरन्तम् । उतान्तरिक्षे पतन्तं यातुधानं तमसा विध्य सर्वा शिशानः
उतारब्धाच् छृणीहि जातवेद उतारेभाणाद् ऋष्टिभिर् यातुधानात् । अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास् तम् अदन्त्व् एनीः
इह प्र ब्रूहि यतमः सो अग्ने यो यातुधानो य इदं शृणोति । तम् आ रभस्व समिधा यविष्ठ नृचक्षसश् चक्षुषे रन्धयैतम्
तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः । हिंस्रं रक्षांस्य् अभि शोशुचानं मा त्वा दभन् यातुधाना नृचक्षः
नृचक्षा रक्षः प्रति पश्य विक्षु तस्य त्रीणि प्रति शृणीह्य् अग्रा । तस्याग्ने पृष्टीर् हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च
त्रिर् यातुधानः प्रसितिं त एत्व् ऋतं यो अग्ने अनृतेन हन्ति । तम् अर्चिषा स्फूर्जयञ् जातवेदः समक्षम् एनं गृणते नि वृङ्धि
यद् अग्ने अद्य मिथुना शपातो यद् वाचस् तृष्टं जनयन्त रेभाः । मन्योर् मनसः शरव्या जायते या तया विध्य हृदये यातुधानान्
परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि । परार्चिषा मूरदेवाञ् छृणीहि परासुतृपः शोशुचतः शृणीहि
पराद्य देवा वृजिनं शृणन्तु प्रत्यग् एनं शपथा यन्तु सृष्टाः । वाचास्तेनं शरव ऋच्छन्तु मर्मन् विश्वयैतु प्रसितिं यातुधानः
सनाद् अग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः । अनु दह सहमूरान् क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः
यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः । यो अघ्न्याया भरति क्षीरम् अग्ने तेषां शीर्षाणि हरसापि वृश्च
संवत्सरीणं पय उस्रियायास् तस्य मासीद् यातुधानो नृचक्षः । पीयूषम् अग्ने यतमस् तितृप्सात् तं प्रत्यञ्चम् अर्चिषा विध्य मर्मन्
विषं गवां यातुधानाः पिबन्त्व् आ वृश्चन्ताम् अदितये दुरेवाः । परैणान् देवः सविता ददातु परा भागम् ओषधीनां जयन्ताम्
त्वं नो अग्ने अधराद् उदक्तस् त्वं पश्चाद् उत रक्षा पुरस्तात् । प्रति त्ये ते अजरासस् तपिष्ठा अघशंसं शोशुचतो दहन्तु
पश्चात् पुरस्ताद् अधराद् उदक्तः कविः काव्येन परि पाह्य् अग्ने । सखा सखायम् अजरो जरिम्णे अग्ने मर्त्याꣳ अमर्त्यस् त्वं नः
तद् अग्ने चक्षुः प्रति धेहि रेभे शफारुजं येन पश्यसि यातुधानम् । अथर्ववज् ज्योतिषा दैव्येन [भत्त्. अथर्वव(ज्) सत्यं धूर्वन्तम् अचितं न्य् ओष
परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि । धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावताम्
वि ज्योतिषा बृहता भात्य् अग्निर् आविर् विश्वानि कृणुते महित्वा । प्रादेवीर् मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे
अग्नी रक्षांसि सेधति शुक्रशोचिर् अमर्त्यः । शुचिः पावक ईड्यः
अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः । तपिष्ठैर् अजरो दह
ये ते शृङ्गे अजरे जातवेदस् तिग्मशोची ब्रह्मसंशिते । ताभ्यां दुर्हार्दम् अभिदासन्तं किमीदिनं प्रत्यञ्चं यातुधानं जातवेदो वि निक्ष्व
विषेण भङ्गुरावतः सम् इन्द्र रक्षसो दह । अग्ने शुक्रेण शोचिषा तपुरग्रेभिर् अर्चिभिः
प्रत्य् अग्ने मिथुना दह यातुधाना किमीदिना । सं त्वा शिशामि जागृह्य् अदब्धं विप्र मन्मभिः
प्रत्य् अग्ने हरसा हरः शृणीहि विश्वतः प्रति । यातुधानस्य रक्षसो बलं वि रुज वीर्यम्
सादान्वेयं प्र मृण रक्ष इन्द्र यातुधानक्षयणैर् मूरैः । एताव् अग्ने मिथुना यातुधाना विष्वञ्चौ म्रुक्तौ हरसा शयाताम्
बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु
इन्द्रासोमा तपतं रक्ष उब्जतं न्य् अर्पयतं वृषणा तमोवृधः । परा शृणीहि तम् अचितो न्य् ओषतं हतं नुदेथां नि शिशीतम् अत्रिणः
इन्द्रासोमा सम् अघशंसम् अभ्य् अघं तपुर् ययस्तु चरुर् अग्निवाꣳ इव । ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तम् अनवायं किमीदिने
इन्द्रासोमा दुष्कृतो वव्रे अन्तर् अनारम्भणे तमसि प्र विध्यतम् । यथैषां नातः पुनर् एकश् चनोदयत् तद् वाम् अस्तु सहसे मन्युमच् छवः
इन्द्रासोमा वर्तयतं दिवस् पर्य् अग्नितप्तेभिर् युवम् अश्महन्मभिः । तपुर्वधेभिर् अजरेभिर् अत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम्
इन्द्रासोमा प्र हरतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् । उत् तक्षतं स्वर्यं पर्वतेभ्यो येन रक्षो ववृधानं निजूर्वथः
इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना । यां वां होत्रां परि हिणोमि मेधया- -इमा ब्रह्माणि नृपतीव जिन्वतम्
प्रति स्मरेथां तुजयद्भिर् एवैर् हतं द्रुहो रक्षसो भङ्गुरावतः । इन्द्रासोमा दुष्कृते मा सुगं भूद् यो मा कदा चिद् अभिदासति द्रुहुः
यो मा पाकेन मनसा चरन्तम् अभिचष्टे अनृतेभिर् वचोभिः । आप इव काशिना संगृभीता असन्न् अस्त्व् असत इन्द्र वक्ता
ये पाकशंसं विहरन्त एवैर् ये वा भद्रं दूषयन्ति स्वधाभिः । अहये वा तान् प्रददातु सोम आ वा दधातु निरृतेर् उपस्थे
यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस् तनूनाम् । रिपु स्तेन स्तेयकृद् दभ्रम् एतु नि ष हीयतां तन्वा तना च
परः सो अस्तु तन्वा तना च तिस्रः पृथिवीर् अधो अस्तु विश्वाः । प्रति शुष्यति यशो अस्य देवा यो मा दिवा दिप्सति यश् च नक्तम्
सुविज्ञानं चिकितुषे जनाय सच् चासच् च वचसी पस्पृशाते । तयोर् यत् सत्यं यतरद् ऋजीयस् तद् इत् सोमो ऽवति हन्त्य् आसत्
न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् । हन्ति रक्षो हन्त्य् आसद् वदन्तम् उभाव् इन्द्रस्य प्रसितौ शयाते
यदि वाहम् अनृतदेवो अस्मि मोघं वा देवाꣳ अप्यूहे अग्ने । किम् अस्मभ्यं जातवेदो हृणीषे द्रोघवाचस् ते निरृथं सचन्ताम्
अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस् ततप पूरुषस्य । अधा स वीरैर् दशभिर् वि यूया यो मा मोघं यातुधानेत्य् अह
यो मायातुं यातुधानेत्य् आह यो मा रक्षाः शुचिर् अस्मीत्य् आह । इन्द्रस् तं हन्तु महता वधेन विश्वस्य जन्तोर् अधमस् पदीष्ट
प्र या जिगाति खर्गलेव नक्तम् अप द्रुहुस् तन्वं गूहमाना । वव्राꣳ अनन्ताꣳ अव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः
वि तिष्ठध्वं मरुतो विक्ष्व् इच्छत गृभायत रक्षसः सं पिनष्टन । वयो ये भूत्वा पतयन्ति नक्तभिर् ये वा रिपो दधिरे देवे अध्वरे
एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवो ऽदाभ्यम् । शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजद् अशनिं यातुमद्भ्यः
प्र वर्तय दिवो अश्मानम् इन्द्र सोमशितं मघवन् सं शिशाधि । प्राक्तो अपाक्तो अधराद् उदक्तो अभि जहि रक्षसः पर्वतेन
इन्द्रो यातूनाम् अभवत् पराशरो हविर्मथीनाम् अभ्य् आविवासताम् । अभीद् उ शक्रः परशुर् यथा वनं पात्रेव भिन्दन्त् सत एति रक्षसः
उलूकयातुं शुशुलूकयातुं जहि श्वयातुम् उत कोकयातुम् । सुपर्णयातुम् उत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र
मा नो रक्षो अभि नड् यातुमावताम् अपोच्छतं मिथुना या किमीदिना । पृथिवी नः पार्थिवात् पात्व् अंहसो अन्तरिक्षं दिव्यात् पात्व् अस्मान्
इन्द्र जहि पुमांसं यातुधानम् उत स्त्रियं मायया शाशदानाम् । विग्रीवासो मूरदेवा रुदन्तु मा ते दृशन् सूर्यम् उच्चरन्तम्
प्रति चक्ष्व वि चक्ष्व- -इन्द्रश् च सोम जागृतम् । रक्षोभ्यो वधम् अस्यतम् अशनिं यातुमद्भ्यः
अनुवाक २ ॥ या बभ्रवो याश् च शुक्रा रोहिणीर् उत पृश्नयः । असिक्नीः कृष्णा ओषधीः सर्वा अच्छा वदामसि
त्रायन्ताम् इमं पुरुषं यक्ष्माद् देवेषिताद् अधि । यासां द्यौष् पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव
आपो ऽग्रं दिव्या ओषधयस् । तास् ते यक्ष्मम् एनस्यम् अङ्गादङ्गाद् अनीनशन्
प्रस्तृणती स्तम्बिनीर् एकशृङ्गाः प्रतन्वतीर् ओषधीर् आ वदामि । अंशुमतीः काण्डिनीर् या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीर् उग्राः पुरुषजीवनीः
यद् वः सहः सहमाना वीर्यं यच् च वो बलम् । तेनेमम् अस्माद् यक्ष्मात् पुरुषं मुञ्चन्तौषधीः
जीवलां नघारिषां जीवन्तीम् ओषधीम् उत । अरुन्धतीम् उन्नयन्तीं पुष्पां मधुमतीं हुवे
इहा यन्तु प्रचेतसो मेदिनीर् वचसो मम । यथेमं पारयामसि पुरुषं दुरिताद् अधि
अग्नेर् घासो अपां गर्भो या रोहन्ति पुनर्णवाः । ध्रुवाः सहस्रनाम्नीर् भेषजीः सन्त्व् आभृताः
अवकोल्वा उदकात्मान ओषधयः । व्यजृषन्ती दुरितं तीक्ष्णशृङ्ग्यः
उन्मुञ्चन्तीर् विवरुणा उग्रा या विषदूषनीर् अथो बलासनाशनीः । रक्षोनाशनीः कृत्यादूषणीश् च यास् ता इहा यन्त्व् ओषधीः
शिवास् ते सन्त्व् ओषधीर् अपक्रीताः सहीयसीर् वीरुधो या अभिष्टुताः । अपां सरस्वतीं ज्येष्ठां त्रायन्ताम् अस्माकं गाम् अश्वं पुरुषं पशुम्
मधुमन् मूलं मधुमद् अग्रम् आसां मधुमन् मध्यं वीरुधां बभूव । मधुमत् पर्णं मधुमत् पुष्पम् आसां मधोः संभूता अमृतस्य भक्षो घृतम् अन्नं दुह्रते गोपुरोगवम्
यावतीः कीयतीश् चेमाः पृथिव्याम् अध्य् ओषधीः । ता नः सहस्रपर्ण्यो मृत्योर् मुञ्चन्त्व् अंहसः
वैयाघ्रो मणिर् वीरुधां त्रायमाणो ऽभिशस्तिपाः । अमीवाः सर्वा रक्षांस्य् अप हन्त्व् अधि दूरम् अस्मत्
सिंहस्येव स्तनथोर् ओषधीनाम् अग्नेर् इव विजन्त आभृताभ्यः । गवां यक्ष्मः पुरुषाणां वीरुद्भिर् अतिनुत्तो नाव्या एतु स्रोत्याः
मुमुचाना ओषधयो अग्नेर् वैश्वानराद् अधि । भूमिं संतन्वतीर् इत यासां राजा वनस्पतिः
याश् चाहं वेद वीरुधो याश् च पश्यामि चक्षुषा । अज्ञाता जानीमश् च या यासु विद्मसि संभृतम् । सर्वाः समग्रा ओषधीर् बोधन्तु वचसो मम
या रोहन्त्य् आङ्गिरसीः पर्वतेषु समेषु च वीरुधो विश्वभेषजीः । ता नो मयस्वतीः शिवा ओषधीः सन्तु शं हृदे
अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः । व्रीहिर् यवश् च भेषजौ दिवस् पुत्राव् अमर्त्यौ
उज् जीहीध्वे स्तनयत्य् अभिक्रन्दन्त्य् ओषधीः । यदा वः पृश्निमातरः पर्जन्यो रेतसावति
तस्यामृतस्येमं बलं पुरुषं पारयामसि । अथो कृणोमि भेषजं यथासच् छतहायनः
वराहो वेद वीरुधं नकुलो वेद भेषजीः । गन्धर्वाः सर्पा या विदुस् ता इहा यन्त्व् ओषधीः
याः सुपर्णा आङ्गिरसीर् दिव्या या रघटो विदुः । वयांसि हंसा या विदुर् याश् च सर्वे पतत्रिणः । मृगा या विदुर् ओषधीस् ता अस्मा अवसे हुवे
यावतीनाम् ओषधीनां गावः प्राश्नन्त्य् अघ्न्या यावतीनाम् अजावयः । तावतीर् विश्वभेषजीर् आ भरामि त्वाम् अभि
यावतीषु मनुष्या भेषजं भिषजो विदुः । तावतीस् तुभ्यम् आभृताः शर्म यच्छन्त्व् ओषधीः
पुष्पवतीः प्रसूमतीः फलिनीर् अफला उत । संमातर इव दुह्राम् अस्मा अरिष्टतातये
उत् त्वाहार्षं पञ्चशलाद् उत् त्वा दशशलाद् उत । उत् त्वा यमस्य पड्वीशाद् ओषधीभिर् अपीपरम्
इन्द्रस्य प्रथमो रथो देवानाम् अपरो रथो वरुणस्य तृतीय इत् । अहीनाम् अपमा रथ स्थाणुम् आरद् अथा रिषत्
दर्भः शोचिस् तरूणकम् अश्वस्य वारः पुरुषस्य वारः । रथस्य बन्धुरम् अहीनाम् अरसं विषं वार् इद् उग्रम्
अव श्वेत पदा जहि पूर्वेण चापरेण च । उदप्लुतम् इव दार्व् अहीनाम् अरसं विषं वार् इद् उग्रम्
अरंघसो निमज्य- -उन्मज्य पुनर् अब्रवीत् । उदप्लुतम् इव दार्व् अहीनाम् अरसं विषं वार् इद् उग्रम्
पैद्वो हन्ति कषर्णीलं पैद्वः श्वित्रम् उतासितम् । पैद्वो रथर्व्याः शिरः सं बिभेद पृदाक्वाः
पैद्व प्रेहि प्रथमो अनु त्वा वयम् एमसि । अहीन् व्य् अस्यतात् पथो येन स्मा वयम् एमसि
इदं पैद्वो अजायत- -इदम् अस्य परायणम् । इमान्य् अर्वतः पदा- -अहिघ्न्यो वाजिनीवतः
संयतं न वि ष्परद् व्यात्तं न सं यमत् । अस्मिन् क्षेत्रे द्वाव् अही स्त्री च पुमांश् च ता उभा अरसा
अरसास इहाहयो ये अन्ति ये च दूरके । घनेन हन्मि वृश्चिकम् अहिं दण्डेनागतम्
अघाश्वस्येदं भेषजम् उभयोः स्वजस्य च । इन्द्रो मह्यम् अघायन्तम् अहिं पैद्वो अरुन्धयत्
पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्नः । इमे पश्चात् पृदाकवः प्रदीध्यत आसते
नष्टासवो नष्टविषा हता इन्द्रेण वज्रिणा । जघानेन्द्रो जघ्निमा वयम्
हतास् तिरश्चिराजयो निपिष्टासः पृदाकवः । दर्विं करिक्रतं श्वित्रं दर्भेष्व् असितं जहि
कैरातिका कुमारिका सखा खनति भेषजम् । हिरण्ययीभिर् अभ्रिभिर् गिरीणाम् उप सानुषु
आयम् अगन् युवा भिषक् पृश्निहापराजितः । स वै स्वजस्य जम्भन उभयोर् वृश्चिकस्य च
इन्द्रो मे ऽहीन् अजम्भयन् मित्रश् च वरुणश् च । वातापर्जन्योभा
पैद्वो मे ऽहीन् अजम्भयत् पृदाकूंश् च पृदाक्वः । स्वजान् तिरश्चिराजीन् कसर्णीलान् दशोनशीन्
इन्द्रो जघान प्रथमो जनितारम् अहे तव । तेषां वस् तृह्यमाणानां कः स्वित् तेषाम् असद् रसः
सं हि शीर्षाण्य् अग्रभं पौञ्जिष्ट इव कर्वरम् । सिन्धोर् मध्यं परेत्य व्य् अनिजम् अहेर् विषम्
अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः । हतास् तिरश्चिराजयो निपिष्टासः पृदाकवः
ओषधीनाम् अहं वृण उर्वरीर् इव साधुया । नयाम्य् अर्वतीर् इव- -अहे निर् ऐतु ते विषम्
यद् अग्नौ सूर्ये विषं पृथिव्याम् ओषधीषु यत् । कान्दाविषं कनिक्लकं निर् ऐत्व् ऐतु ते वहिः
अङ्गादङ्गात् प्र च्यावय हृदयं परि वर्जय । अधा विषस्य यत् तेजो अवाचीनं तद् एतु ते
अग्ने त्रायस्व विमदं नयेमं पुनर् धेहि जीवसे जातवेदः । मा ते हेडांसि दुरिताव गन्म माहिर् वधीद् विषतः पुरुषं नः
ये अग्निजा ओषधिजा अहीनां ये अभ्रजा विद्युत आ बभूवुः । तेषां जातानि बहुधा बहूनि तेभ्यः सर्पेभ्यो नमसा विधेम
तौदी नामासि कन्या घृताची नाम वा असि । अधस्पदेन ते पदोर् आ ददे विषदूषणम्
आरे अभूद् विषम् अरौद् विषे विषम् अप्राग् अपि । अग्निर् अहेर् निर् अधाग् विषं सोमो निर् अणयीत् । दंष्टारम् अन्व् अगाद् विषम् अहिर् अमृत
अनुवाक ३ ॥ कुतस् तौ जातौ कतमः सो अर्धः कस्माल् लोकात् कतरस्याः पृथिव्याः । वत्सौ विराजः सलिलाद् उदैतां तौ त्वा पृच्छामि कतरेण दुग्धा
यो ऽक्रन्दयत् सलिलं महित्वा योनिं कृत्वा त्रिभुजं शयानम् । वत्सः कामदुघो विराजो गुहा चक्रे तन्वः पराचीः
यानि चत्वारि बृहन्ति येषां चतुर्थं वियुनक्ति वाचम् । ब्रह्मैनद् विद्यात् तपसा विपश्चिद् यस्मिन्न् एकं युज्यते यस्मिन्न् एकम्
बृहतः परि सामानि षष्ठात् पञ्चाधि निर्मिता । बृहद् बृहत्या निर्मितं कुतो ऽधि बृहती मिता
बृहती परि मात्राया मातुर् मात्राधि निर्मिता । माया हि जज्ञे मायाया मायाया मातली परि
वैश्वानरस्य प्रतिमोपरि द्यौर् यावद् रोदसी विबबाधे अग्निः । ततः षष्ठाद् आमुतो यन्ति स्तोमा उद् इतो यन्त्य् अभि षष्ठम् अह्नः
षट् ट्वा पृच्छाम ऋषयः कश्यपेदं त्वं हि युक्तं युयुक्षे योग्यं च । विराजम् आहुर् ब्रह्मणः पितरं तां नो वि धेह्य् ऋतुथा सखिभ्यः
यां प्रच्युताम् अनु यज्ञाः प्रच्युवन्त उपतिष्ठन्त उपतिष्ठमानाम् । तस्या व्रजे प्रसवे यक्षम् एजति सा विराड् ऋषयः परमे व्योमन्
अप्राणैति प्राणेन प्राणतीनां विराट् स्वराजम् अभ्य् एति पश्चात् । विश्वं मृशन्तीम् अभिरूपां विराजं पश्यन्ति त्वे न त्वे पश्यन्त्य् एनाम्
को विराजो मिथुनत्वं प्र वेद क ऋतून् क उ कल्पम् अस्याः । क्रमान् को अस्या बहुधा विदुग्धान् को अस्या धाम कतिधा व्युष्टीः
इयम् एव सा या प्रथमा व्यौच्छत् साप्स्व् अन्तश् चरति प्रविष्टा । वधूर् जिगाय नवगज् जनित्री महान्तो अस्यां महिमानो अन्तः
छन्दःपक्षे उषसा पेपिशाने समानीं योनिम् अनु सं चरेते । सूर्यपत्नी सं चरतः प्रजानती केतुमती अजरे भूरिरेतसा
ऋतस्य पन्थाम् अनु तिस्र आगुस् त्रयो घर्मा अनु रेत आगुः । प्रजाम् एका जिन्वत्य् ऊर्जम् एका राष्ट्रम् एका रक्षति देवयूनाम्
अग्नीष्टोमम् अदधुर् या तुरीयासीद् यज्ञस्य पक्षाम् ऋषयः कल्पयन्तः । गायत्रीं त्रिष्टुभं जगतीम् अनुष्टुभं बृहदर्कीं यजमानाय स्वर् आभरन्तः
पञ्च व्युष्टीर् अनु पञ्च दोहा गां पञ्चनाम्नीम् ऋतवो ऽनु पञ्च । पञ्च दिशः पञ्चदशेन क्ल्̥प्तास् ता एकमूर्ध्नीर् अभि लोकम् एकम्
षड् जाता भूता प्रथमज र्तस्य षड् उ सामानि षडहं वहन्ति । षड्योगं सीरम् अनु सामसाम षड् आहुर् द्यावापृथिवी षड् उर्वीः
षड् आहुः शीतान् षड् उ मास उष्णान् ऋतून् नो ब्रूत यतमो ऽतिरिक्तः । सप्त सुपर्णाः कवयो नि षेदुः सप्त छन्दांस्य् अनु सप्त दीक्षाः
सप्त होमाः समिधो ह सप्त मधूनि सप्तर्तवो नु सप्त । सप्ताज्यानि परि भूतम् आयन् सप्त होतार ऋतुथा यजन्ति ताः सप्तगृध्रा इति शुश्रवाहम्
अष्टौ धामानि प्रथमज र्तस्य- -अष्टेन्द्रर्त्विजो दैव्या ये । अष्टयोनिर् अदितिर् अष्टपुत्रा अष्टमीं रात्रिम् अभि हव्यम् एति
इत्थं श्रेयो मन्यमानेदम् आगां युष्माकं सख्ये अहम् अस्मि शेवा । समानजन्मा क्रतुर् अस्तु वः शिवः स नः सर्वाः सं चरति प्रजानन्
केवलीन्द्राय दुदुहे हि गृष्टिर् वशं पीयूषं प्रथमं दुहाना । अथातर्पयच् चतुरश् चतुर्धा देवान् मनुष्याꣳ असुरान् उतर्षीन्
अष्टेन्द्रस्य षड् यमस्य ऋषीणां सप्त सप्तधा । अपो मनुष्यान् ओषधीस् तान् उ पञ्चानु सेचिरे
को नु गौः क एकर्षिः किम् उ साम का आशिषः । यक्ष्मं पृथिव्याम् एकवृद् एकर्तुः कतमो नु सः
एको गौर् एक एकर्षिर् एकं सामैकधाशिषः । यक्ष्मं पृथिव्याम् एकवृद् एकर्तुर् नाति रिच्यते
प्राणाय नमो यस्य सर्वम् इदं वशे । यो भूतः सर्वस्येश्वरो यस्मिन् सर्वं प्रतिष्ठितम्
नमस् ते प्राण क्रन्दाय नमस् ते स्तनयित्नवे । नमस् ते अस्तु विद्युते नमस् ते प्राण वर्षते
यत् प्राण ऋताव् आगते अभिक्रन्दत्य् ओषधीः । प्र वीयन्ते गर्भं दधते अथो बह्वीर् वि जायन्ते
यत् प्राण स्तनयित्नुना- -अभिक्रन्दत्य् ओषधीः । सर्वं तदा प्र मोदते यद् उ किं च भूम्याम् अधि
यदा प्राणो अभ्यक्रन्दीद् वर्षेण स्तनयित्नुना । पशवस् तत् प्र मोदन्ते महो वै नो भविष्यति
अभिवृष्टा ओषधयः प्राणेन सम् अवादिरन् । आयुर् वै नः प्रातीतरत् सर्वा नः सुरभीर् अकः
नमस् ते प्राण प्राणते नमो अस्त्व् अपानते । प्रतीचीनाय ते नमः पराचीनाय ते नमः सर्वस्मै त इदं नमः
नमस् ते अस्त्व् आयते नमो अस्तु परायते । नमस् ते प्राण तिष्ठत आसीनायोत ते नमः
या ते प्राण प्रिया तनू या वा ते प्राण प्रेयसी । अथो यद् भेषजं तव तस्य नो धेहि जीवसे
प्राणः प्रजा अनु वस्ते पिता पुत्रम् इव प्रियम् । प्राणो ह सर्वस्येश्वरो यच् च प्राणति यच् च न
प्राणो मृत्युः प्राणो अमृतं प्राणं देवा उपासते । प्राणो ह सत्यवादिनम् उत्तमे लोक आ दधत्
प्राणो विराट् प्राणो देष्ट्री प्राणं सर्वा उपासते । प्राणो ऽग्निश् चन्द्रमाः सूर्यः प्राणम् आहुः प्रजापतिम्
प्राणापानौ व्रीहयवाव् अनड्वान् प्राण उच्यते । यवे ह प्राण आहितो अपानो व्रीहिर् उच्यते
अपानति प्राणति पुरुषो गर्भे अन्तः । यदा त्वं प्राण जिन्वस्य् अथ स जायते त्वत्
प्राणम् आहुर् मातरिश्वानं वातो ह प्राण उच्यते । प्राणे ह भूतं भव्यं च प्राणे सर्वं समाहितम्
आथर्वणीर् आङ्गिरसीर् दैवीर् मनुष्यजाश् च याः । सर्वाः प्र मोदन्त ओषधीर् यदा त्वं प्राण जिन्वसि
यदा प्राणो अभ्यवर्षीद् वर्षेण पृथिवीं महीम् । ओषधयः प्र मोदन्ते अथो याः काश् च वीरुधः
यस् ते प्राणेदं वेद यस्मिंश् चासि प्रतिष्ठितः । सर्वे अस्मै बलिं हरान् अमुष्मिंल् लोक उत्तमे
यथा प्राण बलिहृतस् तुभ्यं सर्वाः प्रजा इमाः । एवा तस्मै बलिं हरान् यस् त्वा शुश्राव शुश्रुवुः
अन्तर्गर्भश् चरति देवतास्व् आभूतो भूतः स उ जायते पुनः । स भूतं भव्यं भुवनं भविष्यत् पिता पुत्रं प्र विवेशा शचीभिः
एकं पदं नोत् खिदति सलिलाद् धंस उत्पतन् । यद् अङ्ग स तम् उत्खिदेन् नैवाद्य न श्वो न रात्री नाहः स्यान् न प्रज्ञायैति किं चन
अष्टाचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चात् । अर्धेनेदं परि बभूव विश्वं यद् अस्यार्धं कतमः स केतुः
यो अस्य विश्वजन्मन ईशे सर्वस्य चेष्टतः । अन्येषु क्षिप्रधन्वने तस्मै प्राण नमो ऽस्तु ते
यो अस्य सर्वजन्मन ईशे विश्वस्य चेष्टतः । अतन्द्रो ब्रह्मणा धीरः प्राणो माम् अभि रक्षतु
ऊर्ध्वः सुप्तेषु जागार ननु तीर्यङ् नि पद्यते । न सुप्तम् अस्य सुप्तेष्व् अनु शुश्राव कश् चन
प्राण मा मत् पर्यावृतो न मद् अन्यो भविष्यसि । अपां गर्भम् इव जीवसे प्राण बध्नामि त्वा मयि
अनुवाक ४ ॥ साहस्रस् त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत् । भद्रं दात्रे यजमानाय शिक्षन् बार्हस्पत्य उस्रियस् तन्तुम् आतान्
अपां यो अग्रे प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी । पिता वत्सानां पतिर् अघ्न्यानां साहस्रे पोषे अपि नः कृणोतु
पुमान् अन्तर्वान् स्थविरः पयस्वान् वसोः कबन्धम् ऋषभो बिभर्ति । तम् इन्द्राय पथिभिर् देवयानैर् हुतम् अग्निर् वहतु जातवेदाः
देवानां भाग उपनाह एषो अपां रस ओषधीनां घृतस्य । सोमस्य द्रप्सम् अवृणीत शक्रो बृहन्न् अद्रिर् अभवद् यच् छरीरम्
पिता वत्सानां पतिर् अघ्न्यानाम् अथो पिता महतां गर्गराणाम् । वत्सो जरायुः प्रतिधुक् पीयूष आमिक्षा घृतं तद् व् अस्य रेतः
सोमस्य पूर्णं कलशं बिभर्षि त्वष्टा रूपाणां जनिता पशूनाम् । शिवास् ते सन्तु प्रजन्व इमा न्य् अस्मभ्यं स्वधिते यच्छ या अमूः
इन्द्रस्यौजो वरुणस्य बाहू अश्विनोर् अंसौ मरुताम् इयं ककुत् । बृहस्पतिसंभृतम् एतम् आहुर् ये धीरासः कवयो ये मनीषिणः
आज्यं बिभर्ति घृतम् अस्य रेतः साहस्रः पोषस् तम् उ यज्ञम् आहुः । इन्द्रस्य रूपम् ऋषभो वसानः सो अस्मां देवाः शिव ऐतु दत्तः
दैवीर् विशः पयस्वान् आ तनोषि त्वाम् इन्द्रं त्वां सरस्वन्तम् आहुः । सहस्रं स एकमुखा ददाति यो ब्राह्मण ऋषभम् आ जुहोति
बृहस्पतिः सविता ते मनो दधौ त्वष्टुर् वायोः पर्य् आत्मा त आभृतः । अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष् टे द्यावापृथिवी अभूताम्
य इन्द्र इव देवेष्व् एति गोषु विवावदत् । तस्य ऋषभस्याङ्गानि ब्रह्मा सं स्तौतु भद्रया
पार्श्वे आस्ताम् अनुमत्या भगस्यास्ताम् अनूवृजौ । अष्ठीवन्ताव् अब्रवीन् मित्रो ममैतौ केवलाव् इति
भसद् आसीद् आदित्यानां श्रोणी आस्तां बृहस्पतेः । पुच्छं वातस्य देवस्य तेन धूनोत्य् ओषधीः
क्रोड आसीज् जामिशंसस्य सोमस्य कलशो धृतः । उत्थातुर् अब्रुवन् पदो यद् ऋषभं व्यकल्पयन्
गुदा आसन् सिनीवाल्याः सूर्यायास् त्वचम् अब्रुवन् । देवाः संगत्य यत् सर्व ऋषभं व्यकल्पयन्
ते कुष्ठिकाः सरमायै कूर्मेभ्यो अदधुः शफान् । ऊबध्यम् अस्य कीटेभ्यश् श्ववर्तेभ्यो अधारयन्
शृङ्गाभ्यां रक्ष ऋषत्य् अरातिं हन्ति चक्षुषा । शृणोति भद्रं कर्णाभ्यां गवां यः पतिर् अघ्न्यः
शतयाजं स यजते नैनं दुन्वन्त्य् अग्नयः । जिन्वन्ति सर्वे तं देवा यो ब्राह्मण ऋषभम् आ जुहोति
ब्राह्मणाय वृषभं दत्त्वा वरीयः कृणुते मनः । पुष्टिं सो अघ्न्यानां स्वे गोष्ठे वि पश्यतु
गावः सन्तु प्रजाः सन्त्व् अथो अस्तु तनूबलम् । सर्वं तद् अनु मन्यन्तां देवा ऋषभदायिने
अयं पिपान इन्द्रियं रयिं बिभर्ति चेतनीम् । अयं धेनुं सुदुघां नित्यवत्सां वशं दुहे विपश्चितं पुरो दिवः
पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो न आगन् । प्रजाम् अस्मभ्यं दधद् रयिं च रायस्पोषम् उपसत्वा सदेम
एतं वो युवानं परि दध्मो अत्र तेन क्रीडन्तीश् चरत वशाꣳ अनु । मा नो हिंसिष्ट जनुषा सुभागा रायश् च पोषैर् अभि नः सचध्वम्
उपेहोपपर्चनो ऽस्मिन् गोष्ठ उप पृञ्चतु । उप ऋषभस्य यद् रेत उपेन्द्र तव वीर्यम्
अयं प्रतिसरो मणिर् वीरो वीराय बध्यते । वीर्यावान्त् सपत्नहा शूरवीरः परिपाणः सुमङ्गलः
अयं मणिः सपत्नहा सुवीरः सहस्वान् वाजी सहमान उग्रः । प्रत्यक् कृत्या दूषयन्न् एतु वीरः
अनेनेन्द्रो मणिना वृत्रम् अहन्न् अनेनासुरान् पराभावयन् मनीषी । अनेन द्यावापृथिवी उभे अजयद् अनेनाजयत् प्रदिशश् चतस्रः
अयं स्राक्त्यो मणिः प्रतीवर्तः प्रतिसरः । ओजस्वान् विमृधो मणिः सो अस्मान् पातु विश्वतः
तद् अग्निर् आह तद् उ सोम आह बृहस्पतिः सविता तद् इन्द्रः । ते ते देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैर् अजन्तु
अन्तर् दधे द्यावापृथिवी उताहर् उत सूर्यम् । उतेमं ब्रह्मणस्पतिं ते ते देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैर् अजन्तु
ये स्राक्त्यं मणिं जना वर्माणि कृण्वते । सूर्यो दिवम् इवारुह्य वि कृत्या बाधते वशी
स्राक्त्येन मणिन ऋषिणेव मनीषिणा । अजैषं सर्वाः पृतना वि मृधो हन्मि रक्षसः
याः कृत्या आङ्गिरसीर् याः कृत्या आसुरीर् उत । कृत्या याः स्वयंकृता या उ चान्येभिर् आभृताः । उभयीस् ताः परा यन्तु परावतं नवतिं नाव्या अति
अस्मै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः । प्रजापतिः परमेष्ठी विराड् वैश्वानर ऋषयश् च सर्वे
उत्तमो अस्य् ओषधीनाम् अनड्वान् जगताम् इव व्याघ्रः श्वपदाम् इव । यम् ऐच्छामावदाम तं प्रतिस्पाशनम् अब्रुवन्
स इद् व्याघ्रो भवत्य् अथो सिंहो अथो वृषा सर्वा दिशो वि राजति यो बिभर्तीमं मणिम्
नैनं घ्नन्त्य् अप्सरसो न गन्धर्वा न मर्त्याः । सर्वा दिशो वि राजाति यो बिभर्तीमं मणिम्
कश्यपस् त्वाम् असृजत कश्यपस् त्वां समैरयत् । अबिभस् त्वेन्द्रो मानुषे बिभ्रत् संश्रेषिणे ऽजयत्
मणिं सपत्नजम्भनं वर्म देवा अबध्नत । यस् त्वा कृत्याभिर् यस् त्वा दीक्षाभिर् यस् त्वा यज्ञैर् जिघांसति । प्रत्यक् त्वम् इन्द्र तं जहि वज्रेण शतपर्वणा
अयम् इद् वै प्रतीवर्तः सहस्वान् सञ्जयो मणिः । प्रजां धनं च रक्षतु परिपाणः सुमङ्गलः
असपत्नं नो अधराद् असपत्नं न उत्तरात् । इन्द्रासपत्नं नः पश्चाज् ज्योतिः शूर पुरस् कृधि
ऐन्द्राग्नं वर्म बहुलं यद् उग्रं विश्वे देवा नाति विध्यन्ति सर्वे । तत् ते तन्वं त्रायतां सर्वतो बृहद् आयुष्मान् जरदष्टिर् यथासत्
आ त्वारुक्षद् देवमणिर् मह्या अरिष्टतातये । इमं मेथिम् अभिसंविशध्वं तनूपानं त्रिवरूथम् ओजसे
अस्मिन्न् इन्द्रो नि दधातु नृम्णम् इमं देवासो अभिसंविशध्वम् । दीर्घायुत्वाय शतशारदाय- -आयुष्मान् जरदष्टिर् यथासत्
इन्द्रो बध्नातु ते मणिं जिगीवाꣳ अपराजितः सोमपा अभयङ्करो वृषा । स त्वा रक्षतु सर्वदा दिवा नक्तं च विश्वतः
अनुवाक ५ ॥ इन्द्रो मन्थतु मन्थिता शक्रः शूरः पुरन्दरः । यथा हनाम सेनाम् अमित्राणां सहस्रशः
पूतिरज्जुर् उपध्मानी पूतिं सेनां कृणोत्व् अमूम् । अग्निं धूमं परादृश्य हृत्स्व् आ दधतां भयम्
परुषान् अमून् परुषाह्वः कृणोतु हन्त्य् एनान् वधको वधैः । क्षिप्रं शर इव भज्यन्तां बृहज्जालेन संजिताः
अमून् अश्वत्थ नि शृणीहि खादामून् खदिराजिरम् । ताजद्भङ्ग इव भज्यन्तां बृहज्जालेन संजिताः
अन्तरिक्षं जालम् आसीज् जालदण्डा दिशो महीः । तेनाभिदाय सेनाम् इन्द्रो दस्यून् अपावपत्
बृहत् ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य । तेना न्य् उब्ज मघवन्न् अमित्रान् शश्वतीभ्यः समाभ्यः
बृहत् ते जालं बृहतश् शक्रस्य वाजिनीवतः । तेना शतं सहस्रम् अयुतं जघान- -इन्द्रो दस्यूनाम् अभिधाय सेनाम्
अयं लोको जालम् आसीच् छक्रस्य महतो महान् । तेनाहम् इन्द्रजालेन तमसामून् अभि दधामि सर्वान्
सेदिर् उग्रावर्तिर् आर्तिश् चानपवाचना । श्रमस् तन्द्रीश् च मोहश् च तैर् अमून् अभि दधामि सर्वान्
मृत्यवे अमून् प्र यच्छामि मृत्युपाशैर् अमी सिताः । मृत्योर् ये अघला दूतास् तेभ्य एनान् प्रति नयामि बद्ध्वा
मृत्युदूता अमून् नयत यमदूता अपोम्भत । परः सहस्रा हन्यन्तां तृणेढ्व् एनान् मत्यं भवस्य
साध्या एकं जालदण्डम् उद्यत्य यन्त्य् ओजसा । रुद्रा द्वितीयं वसवस् तृतीयम् आदित्यैर् एक उद्यतः
विश्वे देवा उपरिष्टाद् उब्जन्तो यन्त्व् ओजसा । मध्येन घ्नन्तो यन्तु सेनाम् अङ्गिरसो वधैः
वनस्पतीन् वानस्पत्यान् ओषधीर् उत वीरुधः । द्विपाच् चतुष्पाद् इष्णामि यथा सेनाम् अमूं हनत्
गन्धर्वाप्सरसो देवान् सर्पान् पुण्यजनान् पितॄन् । दृष्टान् अदृष्टान् इष्णामि यथा सेनाम् अमूं हनत्
मृत्युपाशा इमे युक्ता यान् आक्रम्य न मुच्यसे । अमुष्या हन्तु सेनाया इदं कूटं सहस्रशः
घर्मः समिद्धो अग्निना- -अयं होमः सहस्रहा । भवश् च पृश्निबाहुः शर्व सेनाम् अमूं हतम्
मृत्योर् ओषम् आ पद्यन्तां क्षुधं सेदिं वधं भयम् । इन्द्रश् चाक्षुजालाभ्यां शर्व सेनाम् अमूं हतम्
पराजिताः प्र त्रसतामित्रा जिता धावत ब्रह्मणा । बृहस्पतिप्रणुत्तानां मामीषां मोचि कश् चन
अव पद्यन्ताम् एषाम् आयुधानि मा शकन् प्रतिधाम् इषुम् । अथैषां बहु बिभ्यताम् इषवो घ्नन्तु मर्मणि
सम् एनान् क्रोशतां द्यावापृथिवी उभे सम् अन्तरिक्षं सह देवताभिः । मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो ऽपिघ्नाना उप यन्तु मृत्युम्
दिशश् चतस्रो ऽश्वतर्यो देवरथस्य पुरोडाशाः शफा अन्तरिक्षम् उद्धिः
द्यावापृथिवी पक्षसी ऋतवो ऽभीशवो वाक् परिरथ्यम्
अहोरात्रे चक्रे मासा अराः संवत्सरो अधिष्ठानम्
विराड् ईषाग्नी रथमुखम् इन्द्रः सव्यष्ठाश् चन्द्रमाः सारथिः
इतो जयेतो वि जयस्व जय सं जय स्वाहा
दिवस् पृथिव्या अन्तरिक्षात् समुद्राद् अग्नेर् वातान् मधुकशा हि जज्ञे । तां चायित्वामृतं वसानां हृद्भिः प्रजाः प्रति नन्दन्ति सर्वाः
पश्यन्त्य् अस्याश् चरितं पृथिव्यां पृथङ् नरो बहुधा मीमांसमानाः । अग्नेर् वातान् मधुकशा हि जज्ञे मरुताम् उग्रा नप्तिः
महद् विश्वरूपं पयो अस्याः समुद्रस्योत त्वा रेत आहुः । यत ऐति मधुकशा रराणा तत् प्राणस् तद् अमृतं निविष्टम्
मातादित्यानां दुहिता वसूनां प्राणः प्रजानाम् अमृतस्य नाभिः । हिरण्यवर्णा मधुकशा घृताची महद् भर्गश् चरति मर्त्येषु
मधोः कशाम् अजनयन्त देवास् तस्या गर्भो अभवद् विश्वरूपम् । तं जातं तरुणं पिपर्ति माता स जातो विश्वा भुवनाभि वस्ते
कस् तौ प्र वेद क उ तौ न आह याव् अस्या स्तनौ सहस्रधाराव् अक्षितौ । ऊर्जं दुहाते अनपस्फुरन्तौ
कस् तं प्र वेद क उ तं चिकेत यो अस्या हृदः कलशः सोमधानो अक्षितः । ब्रह्मा सुमेधाः सो अस्मिन् मदेत
हिङ्करिक्रती बृहती वयोधा उच्चैर्घोषाभि याति या व्रता । त्रीन् घर्मान् अभि वावशाना मिमाति मायुं पयते पयोभिः
याम् आपीनाम् उप सीदन्त्य् आपो यां शक्वरा वृषभा यां स्वराजः । ते वर्षन्ति ते वर्षयन्ति तद् विदे कामम् ऊर्जम् आपः
स्तनयित्नुस् ते वाक् प्रजापते वृषा शुष्मं क्षिपसि भूम्याम् अधि । अग्नेर् वातान् मधुकशा हि जज्ञे मरुताम् उग्रा नप्तिः
यथा सोमः प्रातःसवने अश्विनोर् भवति प्रियः । एवा मे अश्विना वर्च आत्मनि ध्रियताम्
यथा सोमो द्वितीयसवन इन्द्राग्न्योर् भवति प्रियः । एवा म इन्द्राग्नी वर्चः (…)
यथा सोमस् तृतीयसवन ऋभूणां भवति प्रियः । एवा म ऋभवो वर्च आत्मनि ध्रियताम्
मधु जनिषीय मधु मंसिषीय । पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा
सं माग्ने वर्चसा सृज सं प्रजया सम् आयुषा । विद्युर् मे अस्य देवा इन्द्रो विद्यात् सह ऋषिभिः
यद् गिरिष्व् इति पाञ्चर्चिकी
यथा मधु मधुकृतः संभरन्ति मधाव् अधि । एवा मे अश्विना बलम् ओजश् च ध्रियताम्
यथा मक्षा इदं मधु न्यञ्जन्ति क्षणाव् अधि । एवा मे अश्विना वर्चस् तेजश् च ध्रियताम्
अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती । यथा वर्चस्वतीं वाचम् आ वदानि जनाꣳ अनु
वृषा शुष्मं क्षिपसि भूम्यां दिवो मधोः कशया पृथिवीम् अनक्षि । तां जातां पशव उप जीवन्ति सर्वे तेनो सेषम् ऊर्जं पिपर्ति
पृथिवी दण्डो अन्तरिक्षं गर्भो द्यौः कशा विद्युत् प्रकशः । मधोः कशासि घृताची हिरण्ययो बिन्दुः
उर्व्य् असि प्रभ्व्य् अस्य् अम्भो ऽसि नभो ऽसि महो ऽसि । अम्भो मा कृणु नभो मां कृणु महो मा कृणु
समुद्रो ऽस्य् अक्षितो अपरिमितः सहस्रसनिः सहस्रं मा गच्छतु । यो वै मधुकशायाः सप्त मधूनि वेद सप्त मधुमतीन्
मधुमन्तं लोकं जयति मध्व् अस्याहार्यं भवति । यद् वीध्रे स्तनयति प्रजापतिर् एव तत् प्रजाभ्यः प्रादुर् भवति
तस्मात् प्राचीनोपवीतस् तिष्ठेत् प्रजापते ऽनु मा बुध्यस्वेति । अन्व् एनं प्रजापतिर् अनु प्रजा बुध्यन्ते य एवं वेद
अनुवाक ६ ॥ यां कल्पयन्ति वहतौ वधूम् इव विश्वरूपां हस्तकृतां चिकित्सवः । साराद् एत्व् अप नुदाम एनान्
शीर्षण्वतीं पयस्वतीं कर्णिनीं कृतां कृत्याकृता संभृतां विश्वरूपाम् । प्रत्यक् प्रति प्र हिण्मसि यश् चकार तम् ऋच्छतु
शूद्रकृता राजकृता स्त्रीकृता ब्रह्मभिः कृता । जाया पत्या नुत्तेव कर्तारं बन्धुम् ऋच्छतु
अनयाहम् ओषध्येत्य् एका
कृत्याः सन्तु कृत्याकृते शपथाः शपथीव्ने । प्रत्यक् प्रति प्र हिण्मसि यश् चकार तम् ऋच्छतु
प्रतीचीन आङ्गिरसो ऽध्यक्षो नः पुरोहितः । प्रतीचीः कृत्या आकृत्य- -अमुं कृत्याकृतं जहि
यस् त्वोवाच परेहीति प्रतिकूलम् उदाय्यम् । तं कृत्ये ऽभि नि वर्तस्व मास्मान् इच्छो अनागसः
यस् ते परूंषि संदधौ रथस्येव विभुर् धिया । तं गच्छ तत्र ते +ऽयनम् अज्ञातस् ते ऽयं जनः
ये त्वा कृत्या आलेभिरे विद्वला अभिचारिणः । विद्मेदं कृत्यादूषणं प्रतिवर्त्म पुनःसरं तेन त्वा स्नपयामसि
यद् दुर्भगां प्रस्नपितां मृतवत्साम् उपेयिम । अपैतु सर्वं मत् पापं द्रविणं मोप तिष्ठतु
यत् ते पितृभ्यो ददतो यज्ञे वा नाम जगृहुः । संदेश्यात् सर्वस्मात् पापाद् इमा मुञ्चन्तु त्वौषधीः
देवैनसात् पित्र्यान् नामग्राहात् संदेश्याद् अभिनिष्कृतात् । मुञ्चन्तु त्वा वीरुधो वीर्येण ब्रह्मण ऋग्भिः पयस ऋषीणाम्
यथा वातश् च्यावयति भूम्या रेणुम् अन्तरिक्षाच् चाभ्रम् । एवास्मत् सर्वं दुर्भूतं ब्रह्मनुत्तम् अपायति
अप क्राम नानदती विनद्धा गर्दभीव । कर्तॄन् नक्षस्वेतो नुत्ता ब्रह्मणा वीर्यावता
अयं पन्थापि नयामि त्वा कृत्ये प्रहितां प्रति त्वा प्र हिण्मः । तेनाभि याहि भुञ्जत्य् अनस्वतीव वाहिनी विश्वरूपा कुरूटिनी
पराक् ते ज्योतिर् अपथं ते अर्वाग् अन्यत्रास्मद् अयना कृणुष्व । परेणेहि नवतिं नाव्या अति दुर्गा स्रोत्या मा क्षनिष्ठाः परेहि
वात इव वृक्षं नि मृणीहि पादय मा गाम् अश्वं पुरुषम् उच् छिष एषाम् । कर्तॄन् निवृत्येतः कृत्ये अप्रजास्त्वाय बोधय
यां ते चक्रुर् बर्हिषि यां श्मशाने कृत्यां क्षेत्रे वलगं वा निचख्नुः । अग्नौ वा त्वा गार्हपत्ये ऽभिचेरुः पाकं सन्तं धीरतरा अनागसं तद् इतो नाशयामसि
उपाहृतम् अनुबुद्धं निखातं वैरं त्सार्य् अन्व् अविदाम कर्तॄन् । तद् एतु यत आगतं तत्राश्व इव वर्ततां हन्तु कृत्याकृतः प्रजाम्
स्वायसा असयः सन्ति नो गृहे विद्म ते कृत्ये यतिधा परूंषि
उत् तिष्ठैव परेहीतो अज्ञाते किम् इहेच्छसि । ग्रीवास् ते कृत्ये पादौ च- -अपि कर्त्स्यामि निर् द्रव
इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजापती । सोमो राजाधिपा मृडिता च- -ऋतस्य नः पतयो मृडयन्तु
भवाशर्वाव् अस्यतां पापकृत्वने कृत्याकृते दुष्कृते विद्युतं देवहेतिम्
यद्य् एयथ द्विपदी चतुष्पदी कृत्याकृता संभृता विश्वरूपा । सेतो ऽष्टापदी भूत्वा पुनः परेहि दुच्छुने
अभ्यक्ताक्ता स्वरंकृता सर्वं भरन्ती दुरितं परेहि । जानीहि कृत्ये कर्तारं दुहितेव पितरं स्वम्
परेहि कृत्ये मा तिष्ठो विद्धस्येव पदं नय । मृगः स मृगयुस् त्वं न त्वा निकर्तुम् अर्हति
मर्त्यो मृत्युः स्वयंकृतं यं चकाराचित्त्या । हस्ताभ्याम् आत्मने वधम्
उत हन्ति पूर्वासिनं प्रत्यादायापर इष्वा । उतो पूर्वस्य निघ्नतो वि हन्त्य् अपरः प्रति
एतद् धि शृणु मे वचो अथेहि यत एयथ । यस् त्वा चकार तं पुनः
अनागोहत्यं वै भीमं कृत्ये मा नो गाम् अश्वं पुरुषं वधीः
यत्रयत्रासि निहिता ततस् त्वोत्थापयामसि । पर्णाल् लघीयसी भव
यदि स्थ तमसावृता जालेनाभिहिता यूयम् । सर्वाः संलुप्येतः कृत्याः पुनः कर्त्रे प्र हिण्मसि
कृत्याकृतं मूलकृतम् अभिनिष्कारिणः प्रजाम् । मृणीहि कृत्ये मोच् छिषो अमुं कृत्याकृतं जहि
यथा सूर्यस् तमसो मुच्यते परि रात्रिं जहात्य् उषसश् च केतून् । एवाहं सर्वं दुर्भूतं हस्तीव रजो दुरितं जहामि
उपमितः प्रतिमितो ऽथो परिमितश् च याः । शालाया विश्ववाराया नद्धानि वि चृतामसि
यत् ते नद्धं विश्ववारे पाशो ग्रन्थिश् च यः कृतः । बृहस्पतिर् इवाहं बलं वाचा वि स्रंसयामि तत्
आ ययाम सं बबर्ह ग्रन्थिं चकार ते दृढम् । परूंषि विद्वां शस्तेव- -इन्द्रेण वि चृतामसि
संदंशानां पलदानां परिष्वञ्जल्यस्य च । सर्वा मानस्य पत्न्या ते नद्धानि वि चृतामसि
वंशानां ते नहनानि प्राणाहस्य तृणस्य च । पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि
यानि ते अन्तः शिक्यान्य् आबेधू रण्याय कम् । प्र ते तानि वि चृतामसि शिवा मानस्य पत्नि न उद्धिता तन्वे भव
हविर्धानम् अग्निशालं पत्नीनां सदनं सदः । सदो देवानाम् असि देवि शाले
अक्षुम् ओपशं विततं सहस्राक्षं विषूवति । अपिनद्धम् अभिहितं ब्रह्मणा वि चृतामसि
यश् च त्वा प्रति गृह्णाति येन चासि मिता त्वम् । उभौ मानस्य पत्नि तौ जीवतां जरदष्टी
अमुत्रैनम् आ गच्छताद् दृढा नद्धा परिष्कृता । तस्यास् ते वि चृतामस्य् अङ्गमङ्गं परुष्परुः
अग्निम् अन्तश् छादयसि पुरुषान् पशुभिः सह । विजावति प्रजावति वि ते पाशांश् चृतामसि
ऊर्जस्वती घृतवती पृथिव्यां निमिता मिता । विश्वान्नं बिभ्रती शाला मा हिंसीः प्रतिगृह्णतः
यस् त्वा पूर्वो निमिमाय संजभार वनस्पतीन् । प्रजायै चक्रे त्वा शाले परमेष्ठी प्रजापतिः
नमस् तस्मै नमो दात्रे शालापतये च कृण्मसि । नमो ऽग्नये प्रचरते पुरुषाय च ते नमः
गोभ्यो अश्वेभ्यो नमो यच् छालायां विजायते । अन्तरा द्यां च पृथिवीं च यद् व्यचस् तेन शालां प्रति गृह्णामि त इमाम्
यद् अन्तरिक्षं रजसो विमानं तत् कृण्व उदरं शेवधिभ्यः । यच् छालां प्रति गृणामि तस्मै
तृणैर् आवृता पलदान् वसाना रात्रीव शाला जगतो निवेशनी । मिता पृथिव्यां तिष्ठति हस्तिनीव पद्वती
या द्विपक्षा चतुष्पक्षा षट्पक्षा या निमीयते । अष्टापक्षां दशपक्षां शालां मानस्य पत्नीम् अग्निर् गर्भ इवा शये
इटस्य ते वि चृताम्य् अपिनद्धम् अपोर्णुवन् । वरुणेन समुब्जितां मित्रः प्रातर् व्य् उब्जतु
कुलाये ऽधि कुलायां कोशे कोशः समुब्जितः । तत्र मर्तो वि जायते यस्माद् विश्वं प्रजायते
चतुःस्रक्तिं परिचक्रां कविभिर् निमितां मिताम् । इन्द्राग्नी रक्षतः शालाम् अमृतौ सोम्यं सदः
मा नः पाशान् प्रति मुचो गुरुर् भारो लघुर् भव । वधूम् इव त्वा शाले यत्रकामं भरामसि
इमा आपः प्र हराम्य् अयक्ष्मा यक्ष्मनाशनीः । गृहान् अभि प्र सीदाम्य् अमृतेन सहाग्निना
प्रतीचीं त्वा प्रतीचीनः शाले प्रैम्य् अहिंसतीम् । अग्निर् ह्य् अन्तर् आपश् च- -ऋतस्य प्रथमोभा
स्वाहा देवेभ्यः स्वाह्येभ्यः प्राच्या दिशः शालाया नमो महिम्ने
स्वाहा देवेभ्यः स्वाह्येभ्यो दक्षिणस्या दिशः शालाया नमो महिम्ने
स्वाहा देवेभ्यः स्वाह्येभ्यः प्रतीच्या दिशः शालाया नमो महिम्ने
स्वाहा देवेभ्यः स्वाह्येभ्य उदीच्या दिशः शालाया नमो महिम्ने
स्वाहा देवेभ्यः स्वाह्येभ्यो ध्रुवाया दिशः शालाया नमो महिम्ने
स्वाहा देवेभ्यः स्वाह्येभ्य ऊर्ध्वाया दिशः शालाया नमो महिम्ने
स्वाहा देवेभ्यः स्वाह्येभ्यो दिशोदिशः शालाया नमो महिम्ने
अनुवाक ७ ॥ अरातीयोर् भ्रातृव्यस्य दुर्हार्दो द्विषतः शिरः । प्र वृश्चामीदम् ओजसा
वर्म मह्यम् अयं मणिः फालाज् जातः करिष्यति । तृप्तो मन्थेन मागमद् रसेन सह वर्चसा
यत् त्वा शिक्वः परावधीत् तक्षा हस्तेन वास्या । आपस् त्वा तस्माज् जीवलाः पुनन्तु शुचयः शुचिम्
हिरण्यस्रग् अयं मणिर् दुहानो वस्व् अक्षितम् । श्रद्धां यज्ञं महो दधद् गृहे वसतु नो ऽतिथिः ॥ [भत्त्. नोतिथिः
तस्मै घृतं सुरां मध्व् अन्नम् अन्नं क्षदामहे । स नः पितेव पुत्रेभ्यः श्रेयःश्रेयश् चिकित्सतु देवेभ्यो मणिर् एत्य
यम् अबध्नाद् बृहस्पतिर् मणिं फालं घृतश्चुतम् उग्रं खदिरम् ओजसे । तेन त्वं द्विषतो जहि
तम् अग्निः प्रत्य् अमुञ्चत- -आज्याय रसाय कं सो अस्मा आज्यं दुहे । भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि
यम् अबध्नाद् बृहस्पतिर् मणिं फालं घृतश्चुतम् उग्रं खदिरम् ओजसे । तेन त्वं द्विषतो (…)
तम् इन्द्रः प्रत्य् अमुञ्चत- -ओजसे वीर्याय कं सो अस्मै बलम् इद् दुहे । (…)
तं सूर्यः प्रत्य् अमुञ्चत तेनेमा अजयद् दिशः सो अस्मै वर्च इद् दुहे । (…)
तं सोमः प्रत्य् अमुञ्चत द्रविणाय रसाय कम् । सो अस्मै मह इद् दुहे (…)
तं बिभ्रच् चन्द्रमा मणिम् असुराणां पुरो ऽजयद् दानवानां हिरण्ययीः सो अस्मै तेज इद् दुहे (…)
तं राजा वरुणो मणिं प्रत्य् अमुञ्चत शंभुवं सो अस्मै राज्यं दुहे (…)
तं त्वष्टा प्रत्य् अमुञ्चत प्रजाभ्यो वीर्याय कं सो अस्मै रूपम् इद् दुहे (…)
तं बिभ्रत् सविता मणिं तेनेदम् अजयत् स्वः सो अस्मै सूनृतां दुहे (…)
तम् आपो बिभ्रतीर् मणिं सदा धावन्त्य् अक्षिताः स आभ्यो अमृतं दुहे (…)
तेनेमां मणिना कृषिम् अश्विनाव् अभि रक्षतः स भिषग्भ्यां पयो दुहे (…)
यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे सो अस्मै वाचम् इद् दुहे (…)
तं देवा बिभ्रतो मणिं सर्वाꣳल् लोकान् युधाजयन् स एभ्यो जितम् इद् दुहे (…)
तम् इमं देवता मणिं तुभ्यं दधतु भर्तवे स उ ते भूतिम् इद् दुहाम् । भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि
अन्तर्देशा अबध्नत प्रदिशस् तम् अबध्नत । प्रजापतिसृष्टो मणिर् द्विषतो मे अधराꣳ अकः
ऋतवस् तम् अबध्नत- -आर्तवास् तम् अबध्नत । संवत्सरस् तं बद्ध्वा सर्वं भूतं वि राजति
अथर्वाणो अबध्नत- -आथर्वाणा अबध्नत । अङ्गिरसस् तं बद्ध्वा दस्यूनां बिबिधुः पुरः
तं धाता प्रत्य् अमुञ्चत स भूतान्य् अकल्पयत् । तेन त्वं द्विषतो जहि
यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम् । स त्वायं मणिर् आगमत् सह गोभिर् अजाविभिर् अन्नेन प्रजया सह
(…) । (…) आगमन् मधोर् घृतस्य धारया किलालेन श्रिया सह
यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम् । स त्वायं मणिर् आगमद् ओजसा तेजसा सहसा भूत्या द्रविणेन श्रिया सह
यस्य लोका इमे त्रयः पयो दुग्धम् उपासते । स त्वायम् अभि रक्षतु मणिः श्रैष्ठ्याय मूर्धतः
स त्वायं शतदक्षिणो मणिः श्रैष्ठ्याय जिन्वतु । यं देवाः पितरो मनुष्या उपजीवन्ति सर्वदा
यस्मै त्वा यज्ञवर्धन मणे प्रत्यमुचं शिवम् । तं त्वं शतदक्षिण मणे श्रैष्ठ्याय जिन्वतात्
असपत्नः सपत्नहा सपत्नान् मे अधराꣳ अकः । उत्तरं द्विषतस् त्वा मणिः कृणोतु देवजाः
मणिं सहस्रवीर्यं ब्रह्मणा तेजसा सह प्रति मुञ्चामि ते शिवम् । स त्वायम् अभि रोहतु देवैः फालमणिः सह
यथा बीजम् उर्वरायां कृष्टे फालेन रोहति । एवास्मिन् प्रजा पशवो अन्नमन्नं वि रोहतु
एतम् इध्मं समाभृतं जुषाणो अग्ने प्रति हर्य होमम् । तस्मिन् विदेम सुमतिं स्वस्ति चक्षुः प्राणं प्रजां पशून् जातवेदसि ब्रह्मणा
क्षा चासि क्षमा चासि तस्यास् ते भूतं च सुभूतं चेति मुखे । ताभ्यां ते विधेयं ताभ्यां ते नमस् ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र । मातेव पुत्रं पितेव सूनुम् अयं ते अस्मि तं मा मुमुग्धि ग्राह्या बन्धेभ्यो विमदं नयेमम्
भूमिश् चासि भूतिश् चासि तस्यास् ते भुवनं च सुभूतिश् च (…)
पृथ्वी चासि पृथिवी चासि तस्यास् ते भविष्यच् चाभविष्यच् च (…)
क्षेम्या चासि क्षितिश् चासि तस्यास् ते कं च नाकं च (…)
दृढा चासि शिथिरा चासि तस्यास् ते स्वश् च स्वर्गश् च (…)
अमितिश् चासि निरृतिश् चासि तस्यास् ते मित्रं च मैत्रं च (…)
शितिपृष्ठा चासि विधून्वाना चासि तस्यास् ते विन्दच् च विन्दमानं च (…)
सुहिता चासि सुहितिश् चासि तस्यास् ते वित्तिश् च सुवित्तिश् च (…)
वप्सा चासि वप्सती चासि तस्यास् ते सुवच् च प्रसुवच् च (…)
अप्सराश् चासि सदान्वा चासि तस्यास् ते स्वं च स्वावं च (…)
पृश्निश् चासि पृषती चासि तस्यास् ते यच्छच् च प्रयच्छच् च (…)
विश्वभृच् चासि विश्वरूपा चासि तस्यास् ते ददच् च प्रददच् च (…)
गिरन्ती चासि गरर्गृच् चासि तस्यास् ते वृन्दं च संवृन्दानं च (…)
गुर्वी चासि गुरुभृच् चासि तस्यास् ते दोहश् च दुहानं च (…)
दितिश् चास्य् अदितिश् चासि तस्यास् ते पयश् च पयस्वच् च (…)
जूर्णा चासि जरन्ती चासि तस्यास् ते दक्षश् च दक्षमाणं च (…)
प्रतिष्ठा चासि प्रतिष्ठती चासि तस्यास् त ओजश् च तेजश् च (…)
लोकिनी चासि लोककृच् चासि तस्यास् ते श्रवश् च स्रवस्युश् च (…)
उर्वी चासि प्रभवी चासि तस्यास् ते कुर्वच् च संस्कुर्वाणं च (…)
नीची चास्य् उत्ताना चासि तस्यास् ते रोहच् च विरोहच् च (…)
रोहिणी चासि सुरोहिणी चासि तस्यास् ते ऽन्नं चान्नाद्यं च (…)
सरा चासि सरस्वती चासि तस्यास् ते ब्रह्म च क्षत्रं च (…)
वसुभृच् चासि वसुमती चासि तस्यास् ते सूनृता चेरा च (…)
महश् चासि महस्वती चासि तस्यास् ते कामश् च तृप्तिश् च (…)
सर्वा चासि सर्वं च त इदं तस्यास् ते विश्वं च विश्वे च देवा इति मुखे । ताभ्यां ते विधेयं ताभ्यां ते नमस् ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र । मातेव पुत्रं पितेव सूनुम् अयं ते अस्मि तं मा मुमुग्धि ग्राह्या बन्धेभ्यो विमदन् नयेमम्
अनुवाक ८ ॥ यद् देवा देवहेडनं देवासश् चकृमा वयम् । आदित्यास् तस्मान् नो यूयम् ऋतस्यर्तेन मुञ्चत
ऋतस्यार्तेनादित्या यजत्रा मुञ्चतेह नः । यज्ञं यद् यज्ञवाहसः शिक्षन्त उपारिम
मेदस्वता यजमानाः स्रुचाज्येन जुह्वतः । अकामा विश्वे वो देवाः शिक्षन्तो नोप शेकिम
यद् विद्वांसो यद् अविद्वांस एनांसि चकृमा वयम् । [भत्त्. एनाय तस्मान् न इह मुञ्चत विश्वे देवाः सजोषसः
यदि जाग्रद् यदि स्वपन्न् एन एनस्यो ऽकरम् । भूतं मा तस्माद् भव्यं च द्रुपदाद् इव मुञ्चताम्
द्रुपदाद् इव मुमुचानः स्विन्नः स्नात्वा मलाद् इव । पूतं पवित्रेणाज्यं विश्वान् मुञ्चन्तु मैनसः
यद् यामं चक्रुर् निखनन्तो अग्रे कार्षीवणा न विदो न विद्यया । वैवस्वते राजनि तज् जुहोम्य् अधा यज्ञियं मधुमन् नो अस्तु
वैवस्वतः कृणवद् भेषजानि मधुभागो मधुना सं सृजाति । मातुर् यद् एन इषितं न आगन् यद् वा पितापराद्धो जिहीडे
यदीदं मातुर् यदि वा पितुर् नो भ्रातुः पुत्राद् रेषत एन आगन् । यावन्तो अस्याः पितरः सचन्ते तेषां सर्वेषां शिवो अस्तु मन्युः
अपमित्यम् अप्रतीतं यद् अस्मि यमस्य येन बलिना चरामि । इदं तद् अग्ने अनृणो भवामि जीवन्न् एनः प्रति ददामि सर्वम्
इहैव सन्तः प्रति दध्म एतज् जीवा जीवेभ्यो नि हराम एनत् । अपमित्य धान्यं यज् जघास- -अग्निर् मा तस्माद् अनृणं कृणोतु
अनृणा अस्मिन्न् अनृणाः परस्मिन् तृतीये नाके अनृणाः स्याम । ये देवयाना उत पितृयाणाः सर्वान् पथो अनृणाः क्षयेम
यद् धस्ताभ्यां चकृमा किल्बिषम् अक्षम् अक्तुम् उपलिप्समानाः । उग्रंपश्ये उग्रजितौ तद् अद्य- -अप्सरसाम् अनु दत्ताम् ऋणं नः
उग्रंपश्ये राष्ट्रभृतः किल्बिषं यद् अक्षवृत्तम् अनु दत्तं नस् तत् । ऋणान् नो न ऋणम् एर्त्समानो यमस्य लोके अधिरज्जुर् आयत्
यस्मा ऋणं यस्य जायाम् उपैमि यं याचमानो अभ्यैमि देवाः । ते वाचं वादिषुर् मोत्तरां मद् देवपत्नी अप्सरसाव् अधीतम्
यद् अदीव्यन्न् अहम् ऋणं कृणोम्य् अदास्यन्न् अग्न उत संगृणामि । वैश्वानरो अधिपा नो वसिष्ठ उद् इन् नयाति सुकृतस्य लोकम्
वैश्वानरः पावया नः पवित्रैर् यत् संगरम् अभिधावाम्य् आशाम् । अनाजानन् मनसा याचमानो यत् तत्रैनो अप तत् सुवामि
वैश्वानराय प्रति वेदयाम एतद् यद् गृणं संगरो देवतासु । स एतान् पाशान् विचृतं प्र वेद- -अथ पक्वेन सह सं भवेम
यद् अन्तरिक्षं पृथिवीम् उत द्यां यन् मातरं पितरं वा जिहिंसिम । अग्निर् मा तस्माद् एनसो गार्हपत्यः प्र मुञ्चतु
भूमिर् मातादितिर् नो जनित्रं भ्रातान्तरिक्षम् अभिशस्त्या नः । द्यौर् नः पिता पित्र्याच् छं भवाति जामिम् ऋत्वा माव पत्सि लोकात्
यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः । अश्लोणा अङ्गैर् अह्रुताः स्वर्गे अत्रा पश्येम पितरौ च पुत्रान्
विषाणा पाशाꣳ अधि वि ष्यतु त्वद् य उत्तमा अधमा वारुणा ये । यद् दारुणा बध्यसे यच् च रज्ज्वा यद् भूम्यां बध्यसे यच् च वाचा
उदगातां भगवती विचृतौ नाम तारके । प्रेहामृतस्य यच्छतां प्र यद् बद्धकमोचनम्
वि जिहीष्व लोकं कृणु बद्धान् मुञ्चासि बद्धकम् । योन्या इव प्रच्युतो गर्भः पथः सर्वाꣳ अनु क्षया
तं प्रजानन् प्रति गृह्णातु विद्वान् प्रजापतिः प्रथमजा ऋतस्य । अस्माभिर् दत्तं जरसः परस्ताद् अच्छिन्नं तन्तुम् अनु सं चरेम
ततं तन्तुम् अन्व् एके चरन्ति येषां दत्तम् अयनं पित्र्येण । अबन्ध्व् एके ददतः प्र यच्छान् दातुं चेच् छिक्षान् स स्वर्ग एषाम्
अन्वारभेथाम् अनुसंरभेथाम् एतं लोकं श्रद्दधानाः सचन्ते । यद् वां पूर्तं प्रविष्टम् अग्नौ तस्य गुप्तये दम्पती सं श्रयेथाम्
देवाः पितरः पितरो देवा । यो ऽस्मि सो ऽस्मि सो ऽयम् अस्मि
स पचामि स यजामि स यजते ऽस्य । शं म इष्टम् अस्तु शुनं शान्तं शिवं कृतं तस्मान् मा यवम्
नाके राजन् प्रति तिष्ठ तत्रैतत् प्रति तिष्ठतु । विद्धि पूर्तस्य नो राजन् स देव सुमना भव
अपास्माद् ब्राह्मणीसन्धाम् अपधारान् नि दध्मसि । इन्द्राग्नी नः सवेदसाव् अर्णवाद् अधि मुञ्चताम्
नमस् ते ब्राह्मणीसन्धे परेहि यत एयथ यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तं ते प्र सुवामि तम् अधि प्र सूताः
अपारं त्वाहुर् अर्णवम् अनिनायां न ये विदुः । यस् ते वेदोदरम् आस्यं महत् साक्षाद् वेद मुखं तव नियाजं तव ते विदुः
इन्द्रेण क्ल्̥प्ता योनिर् नरको अस्याः कुलायम् । महान् समुद्रो रजसो विमानः स्वर्गे लोके अपि नः कृणोतु
तस्यौदनस्य बृहस्पतिः शिरो ब्रह्म मुखं सूर्याचन्द्रमसाव् अक्ष्यौ बृहद्रथन्तरे श्रोत्रे । अग्निर् आस्यं विद्युज् जिह्वा मरुतो दन्ताः पवमानः प्राणः
ओषधयो लोमानि वनस्पतयः केशाः समुद्रो मूत्रम् अश्विना प्रपदे । चरुं पञ्चबिलम् उखं घर्मम् अभीन्धे
चक्षुर् मुसलं काम उलूखलं दितिः शूर्पम् अदितिः शूर्पग्राही वातो अपाविनक् । गावस् तण्डुला अश्वाः कणा मशकास् तुषाः कब्रु फलीकरणाः श्यामम् अयो लोहितम् अयो ऽस्य मांसम्
त्रपु भस्मार्जुनम् अस्थीनि हरितं वर्णः पुष्कलं गन्धः । खलः पात्रम् उष्टारौ बाहू स्फ्याव् अंसौ गुदा वरत्रा ईषानूक्यं युगानि जत्रवः
ऋतं हस्ताभिषेचनं कुल्योपसेचनम् आर्तवाः पक्तारो अग्निः प्राशीता ब्राह्मणः प्रतिग्रहीता
तस्यौदनस्य भूमिः कुम्भी द्यौर् अपिधानं शिरो ऽभ्रम् ऊष्मा नीहारो बृहद् आयवनं रथन्तरं दर्विः । दिशः पार्श्वे सीताः पर्शवः सिकता ऊबध्यं पललम् उपस्तरणम् अहोरात्रे विक्रमणे ओदनस्य
वर्षं प्रोक्षणं मरुतः पर्यैन्धत किष्करवः परिधयः । ऋचा कुम्भ्य् अधिधीयत आर्त्विज्येन प्रेष्यते ब्रह्मणा प्रति गृह्यते
य एतस्यौदनस्यैवं महिमानं विद्यात् । नाल्प इति ब्रूयान् नानुपसेचन इति नेदं च किं चेति
यावद् दाताभिमनस्येत् तं नातिवदेत् । ओदनेन यज्ञवचः सर्वे लोकाः समाप्याः
यस्मिन् समुद्रो द्यौर् भूमिस् त्रयो ऽवरपरं श्रिताः
ब्रह्मवादिनो वदन्ति प्रत्यञ्चम् ओदनं प्राशीः पराञ्चां त्वम् ओदनं प्राशीस् त्वाम् ओदना इति । कस्यैनं शीर्ष्णा प्राशीः
(…) । कस्यैनं मुखेन प्राशीः
(…) । कस्यैनम् अक्षीभ्यां प्राशीः
(…) । कस्यैनं श्रोत्राभ्यां प्राशीः
(…) । कस्यैनम् आस्येन प्राशीः
(…) । कस्यैनं जिह्वया प्राशीः
(…) । कस्यैनं दन्तैः प्राशीः
(…) । कस्यैनं प्राणैः प्राशीः
(…) । कस्यैनम् उरसा प्राशीः
(…) । कस्यैनं व्यचसा प्राशीः
(…) । कस्यैनं पृष्ठेन प्राशीः
(…) । कस्यैनम् उदरेण प्राशीः
(…) । कस्यैनं वस्तिना प्राशीः
(…) । कस्यैनम् ऊरुभ्यां प्राशीः
(…) । कस्यैनम् अष्ठीवद्भ्यां प्राशीः
(…) । कस्यैनं पद्भ्यां प्राशीः
(…) । कस्याम् एनं प्रतिष्ठायां प्राशीः
ब्रह्मवादिनो वदन्ति प्रत्यञ्चम् ओदनं प्राशीः पराञ्चां त्वम् ओदनं प्राशीस् त्वाम् ओदना इति । कस्यैनं हस्ताभ्यां प्राशीः
ततश् चैनम् अन्येन शीर्ष्णा प्राशीर् येनैतम् अग्रे प्राश्नन् । शिरस् ते वि पतिष्यतीत्य् एनम् आह
ततश् चैनम् अन्येन मुखेन प्राशीर् येनैतम् अग्रे प्राश्नन् । शिरस् ते वि ह्वरिष्यतीत्य् एनम् आह
ततश् चैनम् अन्याभ्याम् अक्षीभ्यां प्राशीर् याभ्याम् एतम् अग्रे प्राश्नन् । अन्धो भविष्यसीत्य् एनम् आह
ततश् चैनम् अन्याभ्यां श्रोत्राभ्यां प्राशीर् याभ्याम् एतम् अग्रे प्राश्नन् । बधिरो भविष्यसीत्य् एनम् आह
ततश् चैनम् अन्येनास्येन प्राशीर् येनैतम् अग्रे प्राश्नन् । वाक् ते ऽप क्रमिष्यतीत्य् एनम् आह
ततश् चैनम् अन्यया जिह्वया प्राशीर् येनैतम् अग्रे प्राश्नन् । जिह्वा ते पूर्वा मरिष्यतीत्य् एनम् आह
ततश् चैनम् अन्यैर् दन्तैः प्राशीर् यैर् एतम् अग्रे प्राश्नन् । दन्तास् ते शत्स्यन्तीत्य् एनम् आह
ततश् चैनम् अन्यैः प्राणैः प्राशीर् यैर् एतम् अग्रे प्राश्नन् । प्राणस् त्वा हास्यतीत्य् एनम् आह
ततश् चैनम् अन्येनोरसा प्राशीर् येनैतम् अग्रे प्राश्नन् । कृष्या न रात्स्यसीत्य् एनम् आह
ततश् चैनम् अन्येन व्यचसा प्राशीर् येनैतम् अग्रे प्राश्नन् । राजयक्ष्मस् त्वा हनिष्यतीत्य् एनम् आह
ततश् चैनम् अन्येन पृष्ठेन प्राशीर् येनैतम् अग्रे प्राश्नन् । विद्युत् त्वा हनिष्यतीत्य् एनम् आह
ततश् चैनम् अन्येनोदरेण प्राशीर् येनैतम् अग्रे प्राश्नन् वरुणस् त्वा हनिष्यतीत्य् एनम् आह
ततश् चैनम् अन्येन वस्तिना प्राशीर् येनैतम् अग्रे प्राश्नन् । अप्सु मरिष्यसीत्य् एनम् आह
ततश् चैनम् अन्याभ्याम् ऊरुभ्यां प्राशीर् याभ्याम् एतम् अग्रे प्राश्नन् । ऊरू ते ऽव पत्स्येते इत्य् एनम् आह
ततश् चैनम् अन्याभ्याम् अष्ठीवद्भ्यां प्राशीर् याभ्याम् एतम् अग्रे प्राश्नन् । स्रामो भविष्यसीत्य् एनम् आह
ततश् चैनम् अन्याभ्यां पद्भ्यां प्राशीर् याभ्याम् एतम् अग्रे प्राश्नन् । सर्पस् त्वा हनिष्यतीत्य् एनम् आह
ततश् चैनम् अन्यस्यां प्रतिष्ठयां प्राशीर् यस्याम् एतम् अग्रे प्राश्नन् । अप्रतिष्ठानो भविष्यसीत्य् एनम् आह
ततश् चैनम् अन्याभ्यां हस्ताभ्यां प्राशीर् याभ्याम् एतम् अग्रे प्राश्नन् । ब्राह्मणं हनिष्यसीत्य् एनम् आह
तम् अहं न प्रत्यञ्चं न पराञ्चं नाहम् ओदनं न माम् ओदनः । ओदन एवौदनं प्राशीद् बृहस्पतिना शीर्ष्णा
(…) (…) प्राशीद् ब्रह्मणा मुखेन
(…) (…) प्राशीत् सूर्याचन्द्रमसाभ्याम् अक्षीभ्याम्
(…) (…) प्राशीद् बृहद्रथन्तराभ्यां श्रोत्राभ्याम्
(…) (…) प्राशीद् अग्नेर् आस्येन
(…) (…) प्राशीद् विद्युता जिह्वया
(…) (…) प्राशीन् मरुद्भिर् दन्तैः
(…) (…) प्राशीत् सप्तऋषिभिः प्राणैः
(…) (…) प्राशीत् पृथिव्योरसा
(…) (…) प्राशीद् अन्तरिक्षेण व्यचसा
(…) (…) प्राशीद् दिवा पृष्ठेन
(…) (…) प्राशीद् वरुणस्योदरेण
(…) (…) प्राशीत् समुद्रेण वस्तिना
(…) (…) प्राशीन् मित्रावरुणयोर् ऊरुभ्याम्
(…) (…) प्राशीद् ऋतस्याष्ठीवद्भ्याम्
(…) (…) प्राशीत् सवितुः पद्भ्याम्
(…) (…) प्राशीद् अस्यां प्रतिष्ठायां प्राशीत्
तम् अहं न प्रत्यञ्चं न पराञ्चं नाहम् ओदनं न माम् ओदनः । ओदन एवौदनं प्राशीत् सत्यस्य हस्ताभ्याम्
त एनं प्राशिषुस् त एनम् आरूरुहन् त एनम् अजीगमन् । एतस्माद् वै लोका लोकांस् त्रयस्त्रिंशतं प्रजापतिर् निर्मिमीत
तस्य गुप्तये यज्ञान् असृजन्त देवाः । ये त्रयस्त्रिंशत् प्रजापतिसृष्टाः पुण्यलोकाः । ते ऽस्य सर्वे ऽभिजिता अवरुद्धा भवन्ति य एवं वेद
एष वा ओदनः सर्वाङ्गः सर्वात्मा सर्वपरुः सर्वपात् सर्वपृष्ठः । सर्वाङ्गः सर्वात्मा सर्वपरुः सर्वपात् सर्वपृष्ठो भवति य एवं वेद
य एवं विदुष उपद्रष्टा भवत्य् उपद्रष्टा प्राणं रुणद्धि । न च प्राणं रुणद्ध्य् अथ सर्वस्वं जीयते
न च सर्वस्वं जीयते ऽथैनम् आहाप्रतिष्ठानो ऽनायतनो मरिष्यसीति । अप्रतिष्ठान एवानायतनो म्रियते य एवं विदुष उपद्रष्टा भवति
अनुवाक ९ ॥ केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ । केनाङ्गुलीः पेशिनीः केन खानि केनोच्छृङ्खौ मध्यतः कः प्रतिष्ठाः
कस्मान् नु गुल्फाव् अधराव् अकृण्वन्न् अष्ठीवन्ता उत्तरौ पूरुषस्य । निरृत्य जङ्घे नि दधुः क्व स्विज् जानुनोः सन्धी क इमौ जजान
चतुष्टयं युज्यते संहितान्तं जानुभ्याम् ऊर्ध्वं शिथिरं कबन्धम् । श्रोणी यद् ऊरु क उ तज् जजान याभ्यां कुसिन्धं सुधृतं बभूव
कति देवाः कतमे त आसन् य उरश् चिक्युर् अग्रियं पूरुषस्य । कति स्तनौ नि दधुः कः कफोडौ कति स्कन्धान् कति पृष्टीर् अचिन्वन्
को अस्य बाहू सम् अभरद् वीर्यं कृणवाद् इति । अंसौ को अस्य तद् देवः कुसिन्ध आ दधाद् अधि
मस्तिष्कम् अस्य यतमो ललाटं कृकाटिकां प्रथमो यः कपालम् । चित्वा चित्यं पुरुषस्य हन्वोर् दिवं रुरोह कतमः स देवः
कः सप्त खानि वि ततर्द शीर्ष्णि कर्णाव् इमाव् अक्षणी नासिके मुखम् । येषां पुरुत्रा विजयस्य मह्मनि चतुष्पादो द्विपादो यन्ति यामम्
हन्वोर् हि जिह्वाम् अदधात् पुरूचीम् अधा महीम् अधि शिश्राय वाचम् । स आ वरीवर्ति महिना व्योमन्न् अपो वसानः क उ चित् प्र वेद
मूर्धानम् अस्य संसीव्य- -अथर्वा हृदयं च यत् । मस्तिष्काद् ऊर्ध्वं प्रैरयत् पवमानो ऽधि शीर्ष्णः
तद् वा अथर्वणः शिरो देवकोशः समुब्जितः । तत् प्राणो अभि रक्षतु श्रियम् अन्नम् अथो मनः
प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्र्यः । आनन्दम् उग्रो नन्दांश् च तान् उद् वहति पूरुषः
आर्तिर् अवर्तिर् निरृतिः कुतो नु पुरुषे ऽमतिः । राद्धिः समृद्धिर् अव्यृद्धिर् मतिर् उदितयः कुतः
को अस्मिन्न् आपो अदधाद् विषूवृतः पुरूच्युतः सिन्धुसृत्याय जाताः । तीव्रारुणा लोहिनीस् ताम्रधूम्रा ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः
को अस्मिन् प्राणम् अदधात् को अपानं व्यानम् उ । समानम् अस्मिन् को देवो ऽधि शिश्राय पूरुषे
को अस्मिन् रूपम् अदधात् को मह्मानं च नाम च । गातुं को अस्मिन् कः केतुं कश् चरित्राणि पूरुषे
को अस्मिन् रेतो अदधात् तन्तुर् आ तायताम् इति । मेधां को अस्मिन्न् अध्य् औहत् को बाणं को नृतो दधौ
को वाससा पर्य् अदधात् को अस्यायुर् अकल्पयत् । बलं को अस्मै प्रायच्छत् को अस्याकल्पयज् जवम्
को अस्मिन् यज्ञम् अदधाद् एको अग्रे अधि पूरुषे । को अस्मिन् सत्यं को ऽनृतं को मृत्युं को ऽमृतं दधौ
केनापो अन्व् अतनुत केनाहर् अकृणोद् रुचे । उषसं केनान्वैन्ध केन सायंभवं ददे
केनेमां भूमिम् और्णोत् केन पर्य् अभवद् दिवम् । केनाभि मह्ना पर्वतान् केन कर्माणि पूरुषः
केन देवाꣳ अनु क्षियति केन दैवीर् अजनयद् दिशः । केनेदम् अन्यन् नक्षत्रं केन सत् क्षत्रम् उच्यते
केन पर्जन्यम् आप्नोति केन सोमं विचक्षणम् । केनेमम् अग्निं पुरुषः केन संवत्सरं ममे
केनेयं भूमिर् निहिता केन द्यौर् उत्तरा हिता । केनेदम् ऊर्ध्वं तिर्यक् च- -अन्तरिक्षं व्यचो हितम्
ब्रह्मणा भूमिर् निहिता ब्रह्म द्याम् उत्तरां दधौ । ब्रह्मेदम् ऊर्ध्वं तिर्यक् च- -अन्तरिक्षं व्यचो हितम्
केन श्रोत्रियम् आप्नोति केनेमं परमेष्ठिनम् । केन यज्ञश् च श्रद्धा च केनास्मिन् निहितं मनः
ब्रह्म श्रोत्रियम् आप्नोति ब्रह्मेमं परमेष्ठिनम् । ब्रह्म यज्ञश् च श्रद्धा च ब्रह्मास्मिन् निहितं मनः
क इदम् अस्थ्य् असृजत क इदं मांसं सम् अभरत् । क इमां त्वचं च लोम च क इदं रूपं सम् ऐरयत्
ब्रह्मास्थ्य् असृजत ब्रह्म मांसं सम् अभरत् । ब्रह्म त्वचं च लोम च ब्रह्म रूपं सम् ऐरयत्
क इदं चक्षुर् असृजत कः प्राणं खेष्व् आवयत् । क इदं मनश् च वाचं च क इमां सम् अभरत् पुरम्
ब्रह्म चक्षुर् असृजत ब्रह्म खे प्राणम् आवयत् । ब्रह्म मनश् च वाचं च ब्रह्म सम् अभरत् पुरम्
नैनं चक्षुर् जहाति न प्राणो जरसः पुरः । पुरं यो ब्रह्मणो वेद यस्मात् पुरुष उच्यते
यो वै तां ब्रह्मणो वेद- -अमृतेनावृतां पुरम् । तस्मै ब्रह्म च ब्राह्म्याश् च- -आयुष् प्राणं प्रजां ददुः
अष्टाचक्रा नवद्वारा देवाणां पूर् अयोध्या । तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः
तस्मिन् हिरण्यये कोशे त्र्यरे त्रिप्रतिष्ठिते । तस्मिन् यद् अन्तर् आत्मन्वत् तद् वै ब्रह्मविदो विदुः
प्रभ्राजमानां हरिणीं यशसा संपरीवृताम् । पुरं हिरण्मयीं ब्रह्मा विवेशापराजिताम्
अयं ते वरणो मणिः सपत्नक्षयणः कृतः । तेना रभस्व त्वं शत्रून् प्र मृणीहि दुरस्यतः
ऐनाञ् छृणीहि प्र मृणा रभस्व मणिस् ते अस्तु पुरएता पुरस्तात् । अवारयन्त वरणेन देवा अभ्याचारम् असुराणां श्वःश्वः
आ त्वारक्षद् वरणो विश्वभेषजः सहस्राक्षो हरितो हिरण्ययः । यस् ते शत्रून् अधरान् पातयासि पूर्वस् तान् दभ्नुहि य उ त्वा द्विषन्ति
अयं ते कृत्यां विततां पौरुषेयम् अयं वधम् । अयं ते सर्वं पाप्मानं वरणो वारयिष्यते
वरणो वारयाता इदं देवो वनस्पतिः । यक्ष्मः प्रविष्टो यो ऽस्मिन् तम् उ देवा अवीवरन्
स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावाद् अजुष्टाम् । परिक्षवाच् छकुनेः पापवादाद् अयं मणिर् वरणो वारयातै
अरात्या मा निरृत्या अभिचाराद् अथो भयात् । मृत्योर् ओजीयसो वधात् त्वं वरण वारय
वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धवः । असूर्तं रजो ऽप्य् अगुस् ते यन्त्व् अधमं तमः
यन् मे माता यन् मे पिता भ्रातरो यच् च मे स्वा यद् एनश् चकृमा वयम् । तस्मान् नो वारयिष्यते ऽयं देवो वनस्पतिः
अरिष्टो ऽहम् अरिष्टगुर् आयुष्मान् सर्वपूरुषः । तं मायं वरणो मणिः परि पातु दिशोदिशः
अयं मे वरण उरसि राजा देवो वनस्पतिः । स मे क्षत्रं च राष्ट्रं च पशून् ओजश् च मे दधत्
इमं बिभर्मि वरणम् आयुष्माञ् छतशारदः । स मे शत्रून् वि बाधताम् इन्द्रो दस्यून् इवासुरान्
यथा वातो वनस्पतीन् जीर्णान् भनक्त्य् ओजसा । एवा सपत्नांस् त्वं भङ्धि पूर्वाञ् जातान् उतापरान् वरणस् त्वाभि रक्षतु
यथा वातेन प्रक्षीणा वृक्षाः शेरे न्यर्पिताः । (एवा सपत्नांस्) त्वं सर्वान् प्र क्षिणीहि न्यर्पय पूर्वाञ् जातान् उतापरान् वरणस् (त्वाभि रक्षतु)
यथा वातश् चाग्निश् च सर्वान् प्सातो वनस्पतीन् । एवा सपत्नांस् त्वं प्साहि पूर्वाञ् जातान् उतापरान् वरणस् त्वाभि रक्षतु
तांस् त्वं प्र छिन्धि वरण पुरा दिष्टात् पुरायुषः । य इमं पशुषु दिप्सन्ति ये चास्य राष्ट्रदिप्सवः
यथा सूर्यो अतिभाति यथास्मिन् तेज आहितम् । एवा सपत्नांस् त्वं सर्वान् अति भाहि श्वःश्वो वरणस् त्वाभि रक्षतु
यथा यशः पृथिव्यां यथास्मिञ् जातवेदसि । एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु तेजसा मा सम् उक्षतु यशसा सम् अनक्तु माम्
यथा यशो अग्निहोत्रे वषट्कारे यथा यशः । (…)
यथा यशः सोमपीथे मधुपर्के यथा यशः । (…)
यथा यशः कन्यायां यथास्मिन् संभृते रथे । (…)
यथा यशश् चन्द्रमस्य् आदित्ये च नृचक्षसि । (…)
यथा यशः प्रजापतौ यथास्मिन् परमेष्ठिनि । (…)
यथा देवेष्व् अमृतं यथैषु सत्यम् आहितम् । एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु तेजसा मा सम् उक्षतु यशसा सम् अनक्तु माम्
अनुवाक १० ॥ अस्य वामस्य पलितस्य होतुस् तस्य भ्राता मध्यमो अस्त्य् अश्नः । तृतीयो भ्राता घृतपृष्ठो अस्य- -अत्रापश्यं विश्पतिं सप्तपुत्रम्
सप्त युञ्जन्ति रथम् एकचक्रम् एको अश्वो वहति सप्तनामा । त्रिनाभि चक्रम् अजरम् अनर्वं यस्मिन्न् इमा विश्वा भुवनानि तस्थुः
इमा रथम् अधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्य् अश्वाः । सप्त स्वासरो अभि सं नवन्त यत्र गवां निहिता सप्त नामा
को ददर्श प्रथमं जायमानम् अस्थन्वन्तं यद् अनस्था बिभर्ति । भूम्या असुर् असृग् आत्मा क्व स्वित् को विद्वांसम् उप गात् प्रष्टुम् एतत्
पाकः पृच्छामि मनसाविजानन् देवानाम् एना निहिता पदानि । वत्से बष्कये ऽधि सप्त तन्तून् वि तत्निरे कवय ओतवा उ
अचिकित्वांश् चिकितुषश् चिद् अत्र कवीन् पृच्छामि विद्मने न विद्वान् । वि यस् तस्तम्भ षड् इमा रजांस्य् अजस्य रूपे किम् अपि स्विद् एकम्
इह ब्रवीतु य ईम् अङ्ग वेद- -अस्य वामस्य निहितं पदं वेः । शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदापुः
माता पितरम् ऋत आ बभाज धीत्य् अग्रे मनसा सं हि जग्मे । सा बीभत्सुर् गर्भरसा निविद्धा नमस्वन्त इद् उपवाकम् ईयुः
युक्ता मातासीद् धुरि दक्षिणाया अतिष्ठद् गर्भो वृजनीष्व् अन्तः । अमीमेद् वत्सो अनु गाम् अपश्यद् विश्वरूप्यं त्रिषु योजनेषु
तिस्रो मातॄस् त्रीन् पितॄन् बिभ्रद् एक ऊर्ध्वस् तस्थौ नेम् अव ग्लापयन्ति । मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचम् अविश्वमिन्वाम्
द्वादशारं नहि तज् जराय वर्वर्ति चक्रं परि द्याम् ऋतस्य । आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश् च तस्थुः
पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् । अथेमे अन्य उपरि विचक्षणं सप्तचक्रे षडर आहुर् अर्पितम्
पञ्चारे चक्रे परिवर्तमाने तस्मिन्न् आ तस्थुर् भुवनानि विश्वा । तस्य नाक्षस् तप्यते भूरिभारः सनाद् एव न छिद्यते सनाभिः
सनेमि चक्रम् अजरं वि वावृत उत्तानायां दश युक्ता वहन्ति । सूर्यस्य चक्षू रजसैत्य् आवृतं यस्मिन्न् आ विश्वा भुवनान्य् आर्पिता
साकंजानां सप्तथम् आहुर् एकजं षड् इद् यमा ऋषयो देवजा इति । तेषाम् इष्टानि विहितानि धामशः स्थात्रे रेजन्ते विकृतानि रूपशः
स्त्रियः सतीस् ताꣳ उ मे पुंस आहुः पश्यद् अक्षण्वान् न वि चेतद् अन्धः । कविर् यः पुत्रः स ईम् आ चिकेत यस् ता विजानात् स पितुष् पितासत्
अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौर् उद् अस्थात् । सा कद्रीची कं स्विद् अर्धं परागात् सा क्व स्वित् सूते नहि यूथे अस्मिन्
अवः परेण पितरं यो अस्य- -अनुवेद पर एनावरेण । कवीयमानः क इह प्र वोचद् देवं मनः कुतो अधि प्रजातम्
ये अर्वाञ्चस् ताꣳ उ पराच आहुर् ये पराञ्चस् ताꣳ उ अर्वाच आहुः । इन्द्रश् च या चक्रथुः सोम तानि धुरा नि युक्ता रजसो वहन्ति
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते । तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभि चाकशीति
यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे । तस्येद् आहुः पिप्पलं स्वाद्व् अग्रे तन् नोन् नशद् यः पितरं न वेद
यत्रा सुपर्णा अमृतस्य भक्षम् अनिमेषं विदथाभिस्वरन्ति । इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकम् अत्रा विवेश
यद् गायत्रे अधि गायत्रम् आहितं त्रैष्टुभाद् वा त्रैष्टुभं निरतक्षत । यद् वा जगज् जगत्य् आहितं पदं य इत् तद् विदुस् ते अमृतत्वम् आनशुः
गायत्रेण प्रति मिमीते अर्कम् अर्केण साम त्रैष्टुभेन वाकम् । वाकेन वाकं द्विपदा चतुष्पदा- -अक्षरेण मिमते सप्त वाणीः
जगता सिन्धुं दिव्य् अस्कभायद् रथन्तरे सूर्यं पर्य् अपश्यत् । गायत्रस्य समिधस् तिस्र आहुस् ततो मह्ना प्र रिरिचे महित्वा
उप ह्वये सुदुघां धेनुम् एतां सुहस्तो गोधुग् उत दोहद् एनाम् । श्रेष्ठं सवं सविता साविषन् नो ऽभीद्धो घर्मस् तद् उ षु प्र वोचम्
हिंकृण्वती वसुपत्नी वसूनां वत्सम् इच्छन्ती मनसाभ्य् आगात् । दुहाम् अश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय
गौर् अमीमेद् अभि वत्सं मिषन्तं मूर्धानं हिङ्ङ् अकृणोन् मातवा उ । सृक्वाणं घर्मम् अभि वावशाना मिमाति मायुं पयते पयोभिः
अयं स शिङ्क्ते येन गौर् अभीवृता मिमाति मायुं ध्वसनाव् अधि श्रिता । सा चित्तिभिर् नि चकार मर्त्यं विद्युद् भवन्ती प्रति वव्रिम् औहत
विद्युद् दद्राणां सलिलस्य पृष्ठे युवानं सन्तं पलितो जगार । देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः सम् आन
अनच् छये तुरगातु जीवम् एजद् ध्रुवं मध्य आ पस्त्यानाम् । जीवो मृतस्य चरति स्वधाभिर् अमर्त्यो मर्त्येना सयोनिः
अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् । स सध्रीचीः स विषूचीर् वसान आ वरीवर्ति भुवनेष्व् अन्तः
य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुग् इन् न तस्मात् । स मातुर् योना परिवीतो अन्तर् बहुप्रजा निरृतिम् आ विवेश
द्यौर् नः पिता जनिता नाभिर् अत्र बन्धुर् नो माता पृथिवी महीयम् । उत्तानयोश् चम्वोर् योनिर् अन्तर् अत्रा पिता दुहितुर् गर्भम् आधात्
पृच्छामि त्वा परम् अन्तं पृथिव्याः पृच्छामि त्वा भुवनस्य नाभिम् । पृच्छामि त्वा वृष्णो अश्वस्य रेतो वाचः पृच्छामि परमं व्योम
इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः । अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायां वाचः परमं व्योम
सप्तार्धगर्भा भुवनस्य रेतो विष्णोस् तिष्ठन्ति प्रदिशो विधर्मणि । ते धीतिभिर् मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः
न वि जानामि यद् इवेदम् अस्मि निण्यः सन्नद्धो मनसा चरामि । यदा मागन् प्रथमजा ऋतस्य- -आद् इद् वाचो अश्नुवे भागम् अस्याः
अपाङ् प्राङ् एति स्वधया गृभीतो ऽमर्त्यो मर्त्येना सयोनिः । ता शश्वन्ता विषूचीना वियन्ता न्य् अन्यं चिक्युर् न चि चिक्युर् अन्यम्
ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । यस् तन् न वेद किम् ऋचा करिष्यति य इत् तद् विदुस् त इमे सम् आसते
ऋचः पदं मात्रया कल्पयन्तो ऽर्धर्चेन चाक्ल्̥पुर् विश्वम् एजत् । त्रिपाद् ब्रह्म पुरुरूपं वि चष्टे तेन जीवन्ति प्रदिशश् चतस्रः
सूयवसाद् भगवती हि भूया अथो वयं भगवन्तः स्याम । अद्धि तृणम् अघ्न्ये विश्वदानीं पिब शुद्धम् उदकम् आचरन्ती
गौरीर् मिमाय सलिलानि तक्षत्य् एकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूवुषी सहस्राक्षरा भुवनस्य पङ्क्तिस् तस्याः समुद्रा अधि वि क्षरन्ति
अथापाद् एति प्रथमा पद्वतीनां कस् तद् वां मित्रावरुणा चिकेत । गर्भो भारं भरत्य् आ चिद् अस्य ऋतं पिपर्त्य् अनृतं नि पाति
कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवम् उत् पतन्ति । ता आववृत्रन्त् सदनाद् ऋतस्य- -आद् इद् घृतेन पृथिवीं व्य् ऊदुः
अनुवाक ११ ॥ द्यौर् जवेना पृथिवी वरिम्णान्तरिक्षं महित्वापो भूम्ना । देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतो ब्राह्मणेभ्यो निर् वपामि
ऋषिभ्यस् त्वा र्षेयेभ्यस् त्वा (निर् वपामि)
जुष्टतमं वह्नितमं पप्रितमं सस्नितमम् ऊर्जो भागम् अक्षितम् अक्षितये निर् वपामि
वसवस् त्वा गायत्रेण छन्दसा निर् वपन्तु
रुद्रास् त्वा त्रैष्टुभेन छन्दसा निर् वपन्तु
आदित्यास् त्वा जागतेन छन्दसा निर् वपन्तु
इदम् अभिराव्णाम् इदम् अभिगत्वराणाम् इदम् अभिमन्यूनाम्
यथा कूपः शतखाः सहस्रखा नोपदस्यति । एवेदं मोप दसत् तीर्थम् अश्विनोर् इव
यो नो द्वेषन् मनसा यश् च वाचा दैव्ये लोक उत मानुषे यः । ग्राव्णा हन्तु महता तस्य सर्वम् इन्द्रो देवो मघवाञ् छचीपतिः
वीरुत्सु वस्त्रं परिजायैतद् ऊर्जा सोम पुनर् आ विशेह नः । दृंहस्व बाह्वो अम्ब धृष्व मा रिषो अग्निश् चैतत् सनिष्यथ
देवीर् आप ऊर्जो भागाय वो ऽक्षिता अक्षितय आ सिञ्चामि
अक्रव्यादा तन्वा जातवेदो या ते स्वर्गा तपसा सयोनिः । तयौदनम् अभिश्राम्यैतं तया नो अग्ने महि शर्म यच्छ
सोमस्यांशुभिर् यतम् अद्ध्वम् अदित्याः पृष्ठे सीदत । ये त ओदन देवयाने लोके विदुः पात्रं दारुमयं मनुष्याः । तेषाम् एधि पात्रमात्रः स्वर्गः पृथिवीं विद्म तव पात्रम्
एतास् त्वौदनोप यन्त्व् आपो घृतश्चुतः पयसा वर्धयन्तीः । स्तभ्नासि स्वः पृथिवीम् उत द्याम् उतान्तरिक्षं स्वधया पूरयासि
यावन्तास् तण्डुलास् त र्तस्य विष्ठास् तावन्तो यज्ञास् त र्तस्य दोहाः । तावती स्वधा घृतपृष्ठो मे अस्तु- -ऊर्जं दुहां मधुपृचं व्योमन्
यम् ओदनं पचामि श्रद्दधानः पात्रीपूरं घृतपृष्ठं जुषाणः । स मे मा क्षेष्ट सदम् अश्यमानो यमस्य लोके परमे व्योमन्
ओदनः पात्रेण सह दक्षिणया ब्राह्मणेभ्यो दत्तो अमृतत्वे दधाति । सूर्यस्य ध्राजीर् अनु रश्मीन् आगन् दिवस् पृष्ठान् शकुन इव रोहन्
सं प्राणेन प्राणभृतं सृजामि सं वीर्येण पयसाशिषा च । आस्तावं गच्छ सुकृतां यत्र लोकं ते त्वा प्राश्नन्तु दक्षिणतो निषद्य
अग्निष्टोमेन सरथं हि याह्य् अथोक्तम् अतिरात्रं च गच्छ । द्विरात्रमात्रस् त्र्यहं व्य् अश्नुह्य् अथा रोह चतूरात्रं रथम् इव
चतूरात्रेण कल्पमानो हि याह्य् अथ सप्तरात्रं दशरात्रं च गच्छ । द्वादशाहं परिभूय विश्वत एकविंशत्या वि मृधो नुदस्व
एकविंशत्या वि मृधो हि याह्य् अथैकचत्वारिंशतोप याह्य् एकम् । त्रयस्त्रिंशतामृतो भूत्वा त्रिमास्यम् ओदनान्व् आरभस्व
इदावत्सरं च परिवत्सरं च ब्रध्नस्य विष्टपि परमे व्योमन् । नाकेन नाकम् अभि सं भवौदन
साध्या नयन्तु मुखतो ममैतम् आदित्या रुद्रा वसवः सचेतसः । विश्वे देवा ऋतुभिः संविदाना इमं रक्षन्तु सदम् अप्रमादम्
इदावत्सरं च परिवत्सरं च संवत्सरम् अहोरात्राणि मासः । सूर्यस्याग्नेश् चन्द्रमसो ऽनुभूतिं वातस्याभूतिम् अन्व् आभवौदन
यम् ईडते पितरो यं च देवाः पुरोहितं तपसा ब्रह्मणा च । स्वधाम् ऊर्जम् अक्षितिम् आ जुहोमि वाते देवे पवमाने बृहस्पतौ
चतुर्धेत्य् ओदनः कल्पमान ऊर्जा देवान् स्वधा पितॄन् । शरीरं मनुष्यान् आशितंभवो ब्राह्मणान् सो ऽस्माकम् अस्तु परमे व्योमन्
अयं पन्था ओदन देवयानो अनारुद्धो मृत्युना तेन याहि । अदब्धः स्वतो निहितः सुकृद्भिर् ब्रह्मणा शिष्टः प्रशिषा यमस्य सो (ऽस्माकम् अस्तु परमे व्योमन्)
यत्र ते गृहा ओदन तत् परेहि यत्रापां तद् उ गच्छन्त्व् आपः । यत्र योनिम् ओदनं ब्राह्मणा विदुः सो अस्माकम् अस्तु परमे व्योमन्
हुतं ते वाचि हुतम् अस्तु चक्षुषि हुतं विज्ञाने हुतम् अस्तु ते बले । श्रोत्रे प्राणे ते हुतं प्रजामृतत्वे ते हुतं कामे च हुतम् अस्तु ते
यद् वाग्नेयो यदि वास्यैन्द्रो यदि मारुतो यदि वैश्वदेवः । यस् ते अग्निर् नृमणा नाम हृद्यस् तस्मिन्न् एष सुहुतो अस्त्व् ओदनः सो अस्माकम् अस्तु परमे व्योमन्
य आविवेश नृमणा मनुष्याꣳ अग्नीनाम् अग्निः प्रथमो वयोधाः । तस्मिन्न् एषः (…)
या ते तनूर् अपचक्राम मृत्योर् देवानां सख्यम् अभि जीवलोकम् । अप्सुचरा गह्वरेष्ठा महित्वा तस्याम् एषः सुहुतो अस्त्व् ओदनः सो अस्माकम् अस्तु परमे व्योमन्
अहेडमानाभ्य् एहि नो गृहं संकाशं भद्रे सुमना अघोराः । प्रति त्वा वर्षवृद्धम् एतु
एषा नः स्वधा नवगज् जनित्र्य् अमृतेष्व् अमृताहुताभूत् । तान् नो गोपाय सदम् अप्रमादम् आस्माकम् ऐतोर् अनु रक्ष जागृहि
ये नो निधिम् अभिदासन्त्य् एतं प्रवाहं प्रोढं यमराज्ये । राजा तेषां वरुण इन्द्रियाण्य् अभि तिष्ट्ःअतु हरसा दैव्येन । एतं सधस्थाः परि वो ददाम्य् अनुख्याता यज्ञपतिर् यद् आयत्
य आखिदन्ति विखिदन्ति दत्तं वि गृह्णते दक्षिणा नीयमानाः । तान् इन्द्रो देवो मघवाञ् छचीपतिर् अग्निमेदी प्रदहन्न् एतु शक्रः । बृहस्पतिर् वरुणः सोम इन्द्रो ममैव दत्तं केवलं कृण्वन्तु
शीर्षक्तिं शीर्षामयं कर्णशूलं तृतीयकम् । सर्वं शीर्षण्यं ते रोगं बहिर् निर्मन्त्रयामहे
कर्णाभ्यां ते कङ्कूषेभ्यः शुक्तिवल्गं विलोहितम् । (…)
यः कृणोति प्रमोतम् अन्धं कृणोति पूरुषम् । (…)
यस्य हेतोः प्रच्यवते यक्ष्मो नासत आस्यतः । (…)
शीर्षरोगम् अङ्गरोगं विश्वाङ्गीनं विसल्पकम् । सर्वं शीर्षण्यं ते रोगं बहिर् निर्मन्त्रयमहे
यस्य भीमः प्रतीकाश उद्वेपयति पूरुषम् । तक्मानं शीतं रूरं च तं ते निर् मन्त्रयामहे
य ऊरू अनुसर्पत्य् अथो ये ऽनु गवीनिके । बलासम् अन्तर् अङ्गेभ्यो बहिर् निर्मन्त्रयामहे
यदि कामाद् अपकामाद् धृदयाज् जायते परि । हृदो बलासम् अङ्गेभ्यो बहिर् निर्मन्त्रयामहे
हरिमाणं ते अङ्गेभ्यो यक्ष्मोधाम् अन्तरात्मनः । यक्ष्मं ते सर्वम् अङ्गेभ्यो बहिर् निर्मन्त्रयामहे
आसो बलासो भवतु मूत्रं भवत्व् आमयत् । यक्ष्माणां सर्वेषां विषं निर् अवोचम् अहं त्वत्
बहिर् बिलं निर् द्रवतु कहावाहं तवोदरात् । यक्ष्माणां सर्वेषां विषं निर् अवोचम् अहं त्वत्
उदरात् ते परि क्लोम्नो नाभ्या हृदयाद् अधि । यक्ष्मोधाम् अन्तरात्मनो बहिर् निर् मन्त्रयामहे
याः सीमानं विरुजन्ति मूर्धानं प्रत्यर्षणीः । अहिंसन्तीर् अनामया निर् द्रवन्ति बहिर् बिलम्
या हृदयम् उपसर्पन्त्य् अनुतन्वन्ति कीकसाः । (…)
याः पार्श्वे उपर्षन्त्य् अनुनिक्षन्ति पृष्टीः । (…)
यास् तिरश्चीर् उपर्षन्त्य् अर्षणीर् वक्षणाभ्यः । (…)
या गुदा अनुसर्पन्त्य् आन्त्राणि योपयन्ति च । (…)
या मज्ज्ञो अनुसर्पन्ति परूंषि विरुजन्ति च । अहिंसन्तीर् अनामया निर् द्रवन्ति बहिर् बिलम्
ये अङ्गानि मदयन्ति यक्ष्मासो रोपणासः । यक्ष्माणां सर्वेषां विषं निर् अवोचम् अहं त्वत्
विसल्पकस्य विद्रधस्य वातीकारस्य वालजेः । यक्ष्माणां सर्वेषां विषं निर् अवोचम् अहं त्वत्
पादाभ्यां ते कुल्फाभ्यां जङ्गाभ्यां जानुभ्याम् ऊरुभ्यां श्रोणिभ्यां परि भंससः । अनूक्याद् अर्षणीर् उष्णिहाभ्यो ग्रीवाभ्यः स्कन्धेभ्यश् शीर्ष्णो रोगम् अनीनशम्
सं ते शीर्ष्णः कपालानि हृदयस्य च यो विदुः । उद्यन् सूर्य आदित्यो ऽङ्गरोगम् अनीनशत्
अनुवाक १२ ॥ सपत्नहनम् ऋषभं घृतेन कामं शिक्षामि हविषाज्येन । नीचैः सपत्नान् मम पादय त्वम् अभिष्टुतो महता वीर्येण
यन् मे मनसो न प्रियं न चक्षुषो यन् मे हृदये नाभिनन्दति । तद् दुष्वप्न्यं प्रति मुञ्चामि सपत्ने कामं तुष्टुवान् उद् अहं भिदेयम्
दुष्वप्न्यं काम दुरितं च काम- -अप्रजस्ताम् अस्वकृताम् अवर्तिम् । उग्र ईशानः प्रति मुञ्च तस्मिन् यो अस्मभ्यम् अंहूरणा चिकित्सात्
सा ते काम दुहिता धेनुर् उच्यते याम् आहुर् वाचं कवयो विराजम् । तया सपत्नान् परि वृङ्धि ये मम पर्य् एनान् प्राणः प्रजाः पशवो जीवनं वृणक्तु
कामस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर् बलेन सवितुः सवेन । अग्नेर् होत्रेण प्र णुद सपत्नान् शम्बीव नावम् उदकेषु धीरः
अध्यक्षो वाजी मम काम उग्रः कृणोतु मह्यम् असपत्नम् एव । विश्वे देवा मम नाथं भवन्तु सर्वे देवा हवम् आ यन्तु म इमम्
इदम् आज्यं घृतवज् जुषाणाः कामज्येष्ठा इह मादयन्ताम् । कृण्वन्तु मह्यम् असपत्नम् एव
इन्द्राग्नी काम सरथं हि भूत्वा नीचैः सपत्नान् मम पादयाथ । तेषां पन्नानाम् अधमा तमांस्य् अग्ने वास्तून्य् अनुनिर्दहा त्वम्
जहि त्वं काम मम ये सपत्ना अन्धा तमांस्य् अव पादयैनान् । अनिन्द्रिया अरसाः सन्तु सर्वे यथा न जिवात् कतमच् चनैषाम्
अवधीत् कामो मम ये सपत्ना उरुं लोकम् अकरन् मह्यम् एधतुम् । मह्यं नमन्तां प्रदिशश् चतस्रो मह्यं षड् उर्वीर् घृतम् आ वहन्तु
यत् ते काम शर्म त्रिवरूथम् उद्भिद् ब्रह्म वर्म विततम् अनतिव्याध्यं कृतम् । तेन सपत्नान् परि वृङ्धि ये मम पर्य् एनान् प्राणः प्रजाः पशवो जीवनं वृणक्तु
अधराञ्चः प्र प्लवन्तां छिन्ना नौर् इव बन्धनात् । न सायकप्रणुत्तानां पुनर् अस्ति निवर्तनम्
अग्निर् यव इन्द्रो यवः सोमो यवः । यवयावानो देव यावयन्त्व् अमुम् आमुष्यायणम् अमुष्याः पुत्रं जीवलोकान् मृतलोकं गतासुम्
असर्ववीरश् चरति प्रणुत्तो मित्राणां द्वेष्यः परिवर्ग्यः स्वानाम् । उत पृथिव्याम् अव स्यन्ति विद्युत उग्रो देवः प्र मृणत् सपत्नान्
च्युता चेयं बृहत्य् अच्युता च विद्युद् बिभर्ति स्तनयित्नूंश् च सर्वान् । तेषाम् आदित्यो द्रविणेन तेजसा- -उद्यन् सपत्नान् नुदतां मे सहस्वान्
यथा देवा असुरान् प्राणुदन्त येन- -इन्द्रो दस्यून् अधमं तमो बबाधे । तथा त्वं काम मम ये सपत्नास् तान् अस्माल् लोकात् प्र णुदस्व सर्वान्
येन देवा असुरान् प्राणुदन्त विश्वहा येनेन्द्रो दस्यून् अधमं तमो बबाधे । तेन त्वं काम मम ये सपत्नास् तान् अस्माल् लोकात् प्र णुदस्व दूरम्
कामो जज्ञे प्रथमो नान्यत् पुरा नैनं देवा आपुः पितरो नोत मर्त्याः । ततस् त्वम् असि ज्यायान् विश्वहा महांस् तस्मै ते काम नाम इत् कृणोमि
न वै वातश् चन कामम् आप नाग्निः सूर्यो नोत चन्द्रमाः । (…)
न वा आपश् चन कामम् आपुर् नाहोरात्राणि विहितानि यन्ति । (…) ॥
न वै पुण्यजनाश् चन कामम् आपुर् न गन्धर्वाप्सरसो न सर्पाः । ततस् त्वम् असि ज्यायान् विश्वहा महांस् तस्मै ते काम नम इत् कृणोमि
यावती द्यावापृथिवी वरिम्णा यावद् आपः सिष्यदुर् यावद् अग्निः । ततस् त्वम् असि ज्यायान् विश्वहा महांस् तस्मै ते काम नम इत् कृणोमि
यावतीर् दिशः प्रदिशो विषूचीर् यावतीर् आशा अभिचक्षणा दिवः । ततस् त्वम् असि ज्यायान् विश्वहा महांस् तस्मै ते काम नम इत् कृणोमि
यावतीर् भृङ्गा जत्वः कुरूरवो यावतीर् वघा वृक्षसर्प्यः । ततस् त्वम् असि ज्यायान् विश्वहा महांस् तस्मै ते काम नम इत् कृणोमि
यास् ते शिवास् तण्वस् काम भद्रा याभिः सत्यं भवति यद् वृणीते । ताभिष् ट्वम् अस्मान् उप सं विशस्व- -अन्यत्र पापीर् अप वेशया धियः
यौ ते मातोन्ममार्ज जातायाः पतिवेदनौ । दुर्णामा तत्र मा गृधद् अलिंश उत वत्सपः
पलालानुपलालौ शर्कुं कोकं मलिम्रुचं पलीजकम् । आश्लेषं वव्रिवाससम् ऋक्षग्रीवं प्रमीलिनं मुष्कयोर् अप हन्मसि
मा सं वृतो मोप सृप ऊरू माव सृपो ऽन्तरा । कृणोम्य् अस्यै भेषजं बजं दुर्णामचातनम्
दुर्णामा च सुनामा च- -उभौ संवृतम् इच्छतः । अरायम् अप हन्मसि सुनामा स्त्रैणम् इच्छताम्
यः कृष्णः केश्य् असुर स्तम्बजा उत तण्डिकः । अरायान् अस्या भंससो मुष्कयोर् अप हन्मसि
अनुजिघ्रं प्रमृशन्तं क्रव्यादम् उत रेरिहम् । अरायं श्वकिष्किणं बजः पिङ्गो अनीनशत्
यस् त्वा सुप्तां त्सरति यश् च दिप्सति जाग्रतीम् । छायाम् इव प्र तान् सूर्यः परिक्रामम् अनीनशत्
यस् त्वा सुप्तां निपद्यते भ्राता भूत्वा पितेव च । बजस् त्वं सहताम् इतः क्लीबरूपं तिरीटिनम्
यः कृणोत्य् अवतोकां मृतवत्साम् इमां स्त्रियम् । तम् ओषधे त्वं नाशय- -अस्याः कमलम् अञ्जिवम्
ये शालाः परिनृत्यन्ति सायं गर्दभनादिनः कुसूला ये च कुक्षिलाः ककुभाः सरमाः सुमाः । तान् ओषधे त्वं गन्धेन विषूचीनान् वि नाशय
ये कुकुन्धाः कुकूरभाः कृत्तीर् दूर्शानि बिभ्रति । क्लीबा इव प्रनृत्यन्तो घोषां ये कुर्वते वने तान् इतो नाशयामसि
येषां पश्चात् प्रपदे पुरः पार्ष्णी पुरो मुखम् । खलजाः शकधूमजा उरुण्डा ये च मट्मटाः कुम्भमुष्का अयाशवः । तान् अस्या ब्रह्मणस्पते प्रतीबोधेन नाशय
ये सूर्यं न तितिक्षन्त आतपन्तम् अमुं दिवः । अरायान् बस्तवासिनो दुर्गन्धींल् लोहितास्यान् मककान् नाशयामसि
ये सूर्यात् परिसर्पन्ति स्नुषेव श्वशुराद् अधि । बजश् च तेषां पिङ्गश् च हृदये ऽधि नि विध्यताम्
य आत्मानम् अतिमात्रम् अंश आधाय बिभ्रति । स्त्रीणां श्रोणिप्रतोदिन इन्द्र रक्षांसि नाशय
ये पूर्वे वध्वो यन्ति हस्ते शृङ्गाणि बिभ्रतः । आपाकेस्थान् प्रहासिन स्तम्बे ये कुर्वते ज्योतिस् तान् इतो नाशयामसि
पर्यस्ताक्षाः प्रचङ्कशा स्त्रैणाः सन्तु पण्डगाः । अव भेषज पातय य इमां संविवृत्सत्य् अपतिः स्वपतीं स्त्रियम्
उद्धर्षिणं मुनिकेशं जम्भयन्तं मरीमृशम् । उपेषन्तम् उदुम्बलं तुण्डेनम् उत शालुडम् । पदा प्र विध्य पार्ष्ण्या स्थालीं गौर् इव स्यन्दना
यस् ते गर्भं प्रतिमृशाज् जातं वा मारयाति ते । पिङ्गस् तम् उग्रधन्वा कृणोतु हृदयाविधम्
ये अम्नो जातान् मारयन्ति सूतिका अनुशेरते । स्त्रीभागान् पिङ्गो गन्धर्वान् अभ्रं वात इवाजतु
परिशिष्टं धारयतं यद् धितं माव पादि तत् । गर्भं त उग्रौ रक्षतां भेषजौ नीविभार्यौ
परिपाणं पुरुषाणां रक्षसाम् असि चातनम् । अरायान् सर्वान् दुर्णाम्नो यातुधानान् विषूचीनान् वि नाशय
पवीनसात् तङ्गल्वाच् छायकाद् उत नग्नकात् । प्रजायै पत्ये त्वा पिङ्गः परि पातु किमीदिनः
द्व्यास्याश् चतुरक्षाः पञ्चपादाद् अनङ्गुलेः । वृन्दाद् अभि प्रसर्पतः परि पाहि वरीवृतात्
य आमं मांसम् अदन्ति पौरुषेयं च ये क्रविर् गर्भान् खादन्ति केशवाः । अरायान् अस्या भंससो मुष्कयोर् अप हन्मसि
पिङ्ग रक्ष जायमानं पुमांसं मा स्त्रियं क्रन् । आण्डादो गर्भं मा दभन् बाधस्वेतः किमीदिनः
अप्रजास्त्वं मार्तवत्सम् आद् रोदम् अघम् आवयम् । वृक्षाद् इव स्रजं कृत्वा- -अप्रिये प्रति मुञ्च तत्
पिङ्ग जहि यातुधानान् दुर्गन्धींल् लोहितास्यान् । त्वया प्रणुत्ताः क्रव्यादो विष्वञ्चो यन्तु निर्हताः
अनुवाक १३ ॥ उच्छिष्टे नामरूपाण्य् उच्छिष्टे लोक आहितः । उच्छिष्ट इन्द्रश् चाग्निश् च विश्वम् अन्तः समाहितम्
उच्छिष्टे द्यावापृथिवी विश्वं भूतं समाहितम् । आपः समुद्र उच्छिष्टे चन्द्रमा वात आहितः
सन्न् उच्छिष्टे ऽसंश् चोभौ मृत्युर् वाजः प्रजापतिः । लौक्या उच्छिष्ट आयत्ता व्रश् च द्रश् चापि श्रीर् मयि
दृढो दृंह स्थिरो न्यो ब्रह्म विश्वसृजो दश । नाभिम् इव सर्वतश् चक्रम् उच्छिष्टे देवता हिता
ऋक् साम यजुर् उच्छिष्ट उद्गीथः प्रस्तुतं स्थितम् । हिङ्कार उच्छिष्टे स्वरः साम्नो मेडिश् च तन् मयि
ऐन्द्राग्नं पावमानं महानाम्नीर् महाव्रतम् । उच्छिष्टे यज्ञस्याङ्गान्य् अन्तर् गर्भ इव मातरि
राजसूयं वाजपेयम् अग्निष्टोमस् तदध्वरः । अर्काश्वमेधा उच्छिष्टे जीवबर्हिर् मदिन्तमः
अग्न्याधेयम् अथो दीक्षा कामप्रश् छन्दसा सह । उत्सन्ना यज्ञाः सत्त्राण्य् उच्छिष्टे ऽधि समाहिताः
अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः । दक्षिणेष्टं पूर्तं च- -उच्छिष्टे ऽधि समाहिताः
एकरात्रस् त्रिरात्रश् च सद्यःक्रीः प्रक्रीर् उक्थ्यः । ओतं निहितम् उच्छिष्टे यज्ञस्याणूनि विद्यया
चतूरात्रः पञ्चरात्रः षड्रात्रश् चोभयः सह । षोडशी सप्तरात्रश् च- -उच्छिष्टाज् जज्ञिरे सर्वे ये यज्ञा अमृते हिताः
प्रतिहारो निधनं विश्वजिच् चाभिजिच् च यः । साह्नातिरात्रा उच्छिष्टे द्वादशाहो ऽपि तन् मयि
सूनृता संनतिः क्षेमः स्वधोर्जामृतं सहः । उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तृप्यन्तु
नव भूमीः समुद्राश् च- -उच्छिष्टे ऽधि श्रिता दिवः । आ सूर्यो भात्य् उच्छिष्टे अहोरात्रे च तन् मयि
उपहव्यं विषूवन्तं ये च यज्ञा गुहा हिताः । बिभर्ति भर्ता विश्वस्य- -उच्छिष्टो जनितुः पिता
पिता जनितुर् उच्छिष्टो असोः पौत्रः पितामहः । स ख्येति विश्वस्येशानो वृषा भूम्याम् अतिघ्न्यः
ऋतं सत्यं तपो दीक्षा श्रमो धर्मश् च कर्म च । भूतं भविष्यद् उच्छिष्टे वीर्यं लक्ष्मीर् बलं बले
समृद्धिर् ओज आकुतिः क्षत्रं राष्ट्रं षड् उर्व्यः । संवत्सरो ऽध्य् उच्छिष्ट इडा प्रैषा ग्रहा हविः
चतुर्होतार आप्रियश् चतुर्मास्यानि निविदः । उच्छिष्टे यज्ञा होत्राश् च पशुबन्धास् तद् इष्टयः
अर्धमासाश् च मासाश् च- -आर्तव ऋतुभिः सह । उच्छिष्टे घोषिणीर् आपः स्तनयित्नुः श्रुतिर् मही
शर्कराः सिकता अश्मान ओषधयो वीरुधस् तृणा । अभ्राणि विद्युतो वर्षम् उच्छिष्टे संश्रिता श्रिता
राद्धिः प्राप्तिर् व्याप्तिः समाप्तिर् मह एधतुः । अत्याप्तिर् उच्छिष्टे भूतिर् आहिता निहिता हिता
यच् च प्राणति प्राणेन यच् च पश्यति चक्षुषा । उच्छिष्टाज् जज्ञिरे सर्वे दिवि देवा दिविश्रितः
प्राणापानौ चक्षुः श्रोत्रम् अक्षितिश् च क्षितिश् च या । (…)
देवाः पितरो मनुष्या गन्धर्वापसरश् च ये । (…)
ऋचः सामानि छन्दांसि पुराणं यजुषा सह । (…)
अथर्वाङ्गिरसो ब्रह्म सर्पपुण्यजनाश् च ये । (…)
आनन्दाश् च प्रमोदाश् च- -अभीमोदमुदश् च ये । उच्छिष्टाज् जज्ञिरे सर्वे दिवि देवा दिविश्रितः
यन् मन्युर् जायाम् आवहत् संकल्पस्य गृहाद् अधि । क आसञ् जन्याः के वराः क उ ज्येष्ठवरो ऽभवत्
तपश् चैवास्तां कर्म च- -अन्तर् महत्य् अर्णवे । त आसन् जन्यास् ते वराः स उ ज्येष्ठवरो ऽभवत्
दश साकम् अजायन्त देवा देवेभ्यः परः । यो वै तां विद्यान् नामथा स वा अद्य महद् वदेत्
प्राणापाणौ चक्षुः श्रोत्रम् अक्षितिश् च क्षितिश् च या । व्यानोदानो वाङ् मनस् ते वा आकूतिम् आ वहन्
अजाता आसन्न् ऋतवो ऽथो धाता बृहस्पतिः । इन्द्राग्नी अश्विना तर्हि कं ते ज्येष्ठम् उपासत
तपश् चैवास्तां कर्म च- -अन्तर् महत्य् अर्णवे । तपो ह जज्ञे कर्मणस् तं ते ज्येष्ठम् उपासत
कुत इन्द्रः कुतः सोमः कुतो अग्निर् अजायत । कुतस् त्वष्टा सम् अभवद् धाता सम् अभवत् कुतः
इन्द्राद् इन्द्रः सोमात् सोमो अग्नेर् अग्निर् अजायत । त्वष्टा ह जज्ञे त्वष्टुर् धाता धातुर् अजायत
ये त आसन् दश जाता देवा देवेभ्यः परः । पुत्रेभ्यो लोकं दत्त्वा कस्मिन् ते लोक आसते
येतो भूमिः पुर्वासीद् याम् अद्धातय इद् विदुः । के तस्यां देवा आसते कस्मिन्न् उ साधिश्रिता
कुतः केशान् कुतः स्नाव कुतो अस्थीन्य् आभरत् । अङ्गा पर्वाणि मज्जानं को मांसं कुत आभरत्
यदा केशान् अस्थि स्नाव मांसं मज्जानम् आभरत् । शरीरं कृत्वा पादवत् कं लोकम् अनु प्राविशत्
संसिचो नाम ते देवा ये संभारैः समभरन् । सर्वं संसिच्य मर्त्यं देवाः पुरुषम् आविशन्
शिरो हस्ताव् अथो बाहू जिह्वां ग्रीवाश् च कीकसाः । पृष्टीर् बर्जह्ये पार्श्वे कस् तत् सम् अदधाद् ऋषिः
ऊरू पादाव् अष्ठीवन्तौ श्रोणी हस्ताव् अथो मुखम् । त्वचा प्रावृत्य तत् सर्वं संधा सम् अदधान् मही
यत् तच् छरीरम् अपयत् संधया संहितं महत् । येनेदम् अद्य रोचते को अस्मिन् वर्णम् आभरत्
सर्वे देवा उपाशिक्षन् तद् उ जानाद् वधूः सती । ईशा वशस्य या जाया सास्मिन् वर्णम् आभरत्
यदा त्वष्टा व्यतृणत् पिता त्वष्टुर् य उत्तरः । गृहं कृत्वा मर्त्यं देवाः पुरुषम् आविशन्
स्वप्नो वै तन्द्रीर् निरृतिः पाप्मानो नाम देवताः । जरा खालित्यं पालित्यं शरीरम् अनु प्राविशन्
स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञो यशो महः । बलं च क्षत्रम् ओजश् च शरीरम् अनु प्राविशन्
भूतिश् च वा अभूतिश् च रातयो ऽरातयश् च याः । क्षुधश् च सर्वास् तृष्णाश् च शरीरम् अनु प्राविशन्
निन्द्याश् च वा अनिन्द्याश् च यश् च हन्तेति नेति च । शरीरं श्रद्धा दक्षिणा- -अश्रद्धा चानु प्राविशन्
विद्याश् च वा अविद्याश् च यच् चान्यद् उपदेश्यम् । शरीरं ब्रह्म प्राविशद् ऋचः सामाथो यजुः
आनन्दा नन्दाः प्रमुदो ऽभीमोदमुदश् च ये । हसो नरिष्टा नृत्तानि शरीरम् अनु प्राविशन्
आलापाश् च प्रलापाश् च- -अभीलापलपश् च ये । शरीरं सर्वे प्राविशन्न् आयुजः प्रयुजो युजः
प्राणापानौ चक्षुः श्रोत्रम् अक्षितिश् च क्षितिश् च या । व्यानोदानौ वाङ् मनः शरीरेन त ईयन्ते
आशिषश् च प्रशिषश् च संशिषो विशिषश् च याः । चित्तानि सर्वे संकल्पाः शरीरम् अनु प्राविशन्
त्वराश् च वै धृतयश् च- -ईडाशीः सूनृतेरा । शरीरं सर्वे प्राविशन्न् ऋतरीर्ष्यायुधो मृधः
आस्नेयीश् च वास्तेयीश् च त्वरणाः कृपणाश् च याः । गुह्याः शुक्रिया या स्थूला बीभत्सुर् असाधयन्
अस्थि कृत्वा समिधं तद् अष्टापो असादयन् । रेतः कृत्वाज्यं देवाः पुरुषम् आविशन्
या आपो याश् च देवता या विराड् ब्रह्मणा सह । शरीरं ब्रह्म प्राविशच् छरीरे ऽधि प्रजापतिः
सूर्यश् चक्षुर् वातः प्राणं पुरुषस्य वि भेजिरे । अथास्येतरम् आत्मानं देवाः प्रायच्छन्न् अग्नये
तस्माद् वै विद्वान् पुरुषम् इदं ब्रह्मेति मन्यते । सर्वा ह्य् अस्मिन् देवताः शरीरे ऽधि समाहिताः
यदैभ्य स्थानम् अङ्गेषु पिता लोकाꣳ अकल्पयत् । शरीरं सर्वा देवता यथाङ्गम् अनु प्राविशन्
अङ्गमङ्गं शरीरस्य सर्वे देवा अनु प्राविशन् । पिता ह्य् एभ्यः प्रायच्छत् तं लोकम् अपराजितम्
तं लोकम् अपराजितं सर्वे देवा अनु प्राविशन् । प्रजापतिर् यम् आभरच् छरीरं बहुधा हितम्
अनुवाक १४ ॥ अग्ने जायस्वादितिर् नाथितेयं ब्रह्मौदनं पचति पुत्रकामा । सप्तऋषयो भूतकृतस् ते त्वा मन्थन्तु प्रजया सहेह
कृणुत धूमं वृषणः सखायो ऽद्रोघाविता वाचम् अच्छ । अयम् अग्निः पृतनाषाट् सुवीरो येन देवा असहन्त शत्रून्
अग्ने ऽजनिष्ठा महते वीर्याय ब्रह्मौदनाय पक्तवे जातवेदः । सप्तर्षयो भूतकृतस् ते त्वाजीजनन्न् अस्मै रयिं सर्ववीरं नि यच्छ
समिद्धो अग्ने समिधा समिध्यसे विश्वान् देवान् यज्ञियाꣳ एह वक्षः । तेभ्यो हव्यं श्रपयञ् जातवेदः स्वर्गं लोकम् अधि रोहयैनम्
त्रेधा भागो निहितो जातवेदो यः पुरो वो देवानां पितॄणाम् उत मर्त्यानाम् । अंशां जानीध्वं वि भजामि तं वो यो देवानां सा इमं पारयाति
अग्ने सहस्वान् अभिभूर् अभीद् असि नीचो न्युब्ज द्विषतः सपत्नान् । इयं मात्रा मीयमाना मिता च सजातांस् ते बलिहृतः कृणोतु
साकं सजातैः पयसा सहैध्य् उद् उब्जैनं महते वीर्याय । ऊर्ध्वो नाकस्याधि रोह विष्टपः स्वर्गो लोक इति यं वदन्ति
इयं मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना । अधि गच्छेम सुकृताम् उलोकम्
एतौ ग्रावाणौ सयुजा युङ्धि चर्मणि निर् भिन्ध्य् अंशून् यजमानाय साधु । अवघ्नती नि जहि ये पृतन्यव ऊर्ध्वां प्रजाम् उद्धरन्त्य् उद् ऊह
गृहाण ग्रावाणौ सुकृता वीर हस्त आ ते देवा यज्ञिया यज्ञम् अगुः । त्रयो वरा यतमांस् त्वं वृणीषे तास् ते समृद्धीर् इह राधायामि
उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस् तुषैः । श्रिया समानान् अति सर्वान्त् स्याम- -अधस्पदं द्विषतस् पादयेम
इयं ते धीतिर् इदम् उ ते जनित्रं गृह्णातु त्वाम् अदितिः शूरपुत्रा । परा पुनीहि य इमां पृतन्यवो अस्मै रयिं सर्ववीरं नि यच्छ
परेहि नारि पुनर् एहि क्षिप्रम् अपां त्वा गोष्ठो अध्य् अरुक्षद् भराय । तासां गृह्णीताद् यतमा यज्ञिया असन् विभाज्य धीरीतरा जिहीतात्
एमा अगुर् योषितः शुम्भमाना उत् तिष्ठ नारि तवसं रभस्व । सुपत्नी पत्या प्रजावत्या त्वा- -अगन् यज्ञः प्रति कुम्भं गृभाय
ऊर्जो भागो निहितो यः पुरा व ऋषिप्रशिष्टाप आ हरैताः । अयं यज्ञो नाथविद् गातुवित् प्रजाविद् उग्रः पशुमद् वीरविद् वो अस्तु
अग्ने चरुर् यज्ञियस् त्वाध्य् अरुक्षच् छुचिस् तपिष्ठस् तपसा तपैनम् । आर्षेया दैवा अभिसंगत्य भागम् इमं तपिष्ठा ऋतुभिस् तपन्तु
शुद्धा आपो योषितो यज्ञिया इमा आपश् चरुम् इव सर्पन्तु शुभ्राः । ददत् प्रजा बहुलान् पशून् मे पक्तौदनस्य सुकृताम् एतु लोकम्
ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस् तण्डुला यज्ञिया इमे । अपः प्र विशतु प्रति गृह्णातु वश् चरुर् इमं पक्त्वा सुकृताम् एतु लोकम्
अभ्यावर्तस्व प्रजया सहैनां प्रत्यङ् एनं देवताभिः सहैधि । स्वर्गं लोकम् अभि सं वहैनम् आदित्यो देवः परमं व्योम
उरुः प्रथस्व महता महिम्ना सहस्रपृष्ठः सुकृतस्य लोके । पितामहाः पितरः प्रजोपज- -अहं पक्त्वा पञ्चदशस् ते अस्मि
सहस्रपृष्ठः शतधारो अक्षितो ब्रह्मौदनो देवयानः स्वर्गः । अमूंस् त आ दधामि प्रजया रेषय- -एनं बलिहाराय मृडतां मह्यम् एव
उद् एहि वेदिं प्रजया वर्धयैनं नुदस्व रक्षः प्रतरं धेह्य् एनम् । श्रिया समानान् अति सर्वान्त् स्याम- -अधस्पदं द्विषतः पादयेम
ऋतेन तष्टा मनसा हितेयं ब्रह्मौदनस्य निहिता वेदिर् अग्रे । अंशध्रीं शुद्धाम् उप धेहि नारि तत्रौदनं सादय दैवानाम्
अदितेर् हस्तां स्रुचम् एतां द्वितीयां सप्तर्षयो भूतकृतो याम् अकृण्वन् । सा गात्राणि विदुष्य् ओदनस्य दर्विर् वेद्याम् अध्य् एनं चिनोतु
शृतं त्वा हविर् उप सीदन्तु दैवा निसृप्याग्ने पुनर् एनं प्र सीद सोमेन पूतो जठरे सीद ब्रह्मणाम् आर्षेयास् ते मा रिषन् प्राशितारः
सोम राजन् संज्ञानम् आ वपैभ्यः सुब्राह्मणा यतमे त्वोपसीदान् । ऋषीन् आर्षेयांस् तपसो ऽधि जातान् ब्रह्मौदने सुहवा जोहवीमि
इमा आपो मधुमतीर् घृतश्च्युतो ब्रह्मणां हस्तेषु प्र पृथक् सादयामि । यत्काम इदम् अभिषिञ्चामि वो ऽहम् इन्द्रो मरुत्वांस् तद् अदाद् इदं मे
इदं मे ज्योतिर् अमृतं हिरण्यं पक्वं क्षेत्रात् कामदुघा म एषा । इदं धनं नि दधे ब्राह्मणेषु कृण्वे पन्थां पितृषु यः स्वर्गः
अग्नौ तुषाꣳ आ वप जातवेदसि परः कम्बूकान् उप मृढ्य् एतान् । एतं शुश्रुम गृहराजस्य भागम् अथो विद्म निरृतेर् भागधेयम्
श्राम्यतः पचत एधि सुन्वतः स्वर्गं लोकम् अधि रोहयैनम् । येन रोहात् परम् आपद्य यद् वयः
बभ्रेर् अध्वर्यो मुखम् एतद् वि मृड्ढ्य् आज्याय लोकं कृणुहि प्रजानन् । घृतेन गात्रानु सर्वा वि मृड्ढि कृण्वे पन्थां पितृषु यः स्वर्गः
बभ्रे रक्षः समदम् आ वपैभ्यो ब्राह्मणा यतमे त्वोपसीदान् । पुरीषिणः प्रथमानाः पुरस्ताद् आर्षेयास् ते मा रिषन् प्राशितारः
आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणाम् अप्य् अस्त्य् अत्र । अग्निर् मे गोप्ता मरुतश् च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम्
यज्ञं दुहानं सदम् इत् प्रपीनं पुमांसं धेनुं सदनं रयीणाम् । प्रजामृतत्वम् उत दीर्घम् आयू रायश् च पोषम् उप त्वा सदेम
वृषभो ऽसि स्वर्ग ऋषीन् आर्षेयान् गच्छ । सुकृतां लोके सीद तन् नौ संकृतम्
सम् आ चिनुष्वानुसंप्रेह्य् अग्ने पथः कल्पय देवयानान् । एभिः सुकृतैर् अनु प्र ज्ञेष्म यज्ञे नाके तिष्ठन्तम् अधि सप्तरश्मौ
येन देवा ज्योतिषा द्याम् उदायन् ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम् । तं त्वा पचामि ज्योतिषां ज्योतिर् उत्तमं स नस् तं धेहि सुकृताम् उलोके
प्राच्यै त्वा दिशे निर् वपामि शतधारम् अपक्षुधम् । स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजाः पुराणाः
दक्षिणायै त्वा (…)
प्रतीच्यै त्वा (…)
उदीच्यै त्वा (…)
ध्रुवायै त्वा (…)
ऊर्ध्वायै त्वा (…)
दिवे त्वा (…)
अन्तरिक्षाय त्वा (…)
पृथिव्यै त्वा (…)
पशुभ्यस् त्वा (…)
मनुष्येभ्यस् त्वा (…) ॥पितृभ्यस् त्वा (…) ॥ऋषिभ्यस् त्वा (…) ॥आर्षेयेभ्यस् त्वा (…) ॥अङ्गिरोभ्यस् त्वा (…) ॥आङ्गिरसेभ्यस् त्वा (…) ॥अथर्वभ्यस् त्वा (…) ॥आथर्वणेभ्यस् त्वा (…) ॥वनस्पतिभ्यस् त्वा (…) ॥वानस्पत्येभ्यस् त्वा (…) ॥ वीरुद्भ्यस् त्वा (…) ॥ओषधीभ्यस् त्वा (…) ॥ऋतुभ्यस् त्वा (…) ॥आर्तवेभ्यस् त्वा (…) ॥लोकेभ्यस् त्वा (…) ॥लौक्येभ्यस् त्वा (…) ॥लोकानां त्वाध्यक्षेभ्यः (…) ॥देवेभ्यस् त्वा (…) ॥दैव्येभ्यस् त्वा (…) ॥ सर्वाभ्यस् त्वा देवताभ्यो निर् वपामि शतधारम् अपक्षुधम् । स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजाः पुराणाः
पुमान् पुंसो अधि तिष्ठ चर्म न ते शिष्णं प्र दहाज् जातवेदाः । भवात् ते स्त्रैणम् अप्य् अप्सरासु
महती द्यावापृथिवी अन्तरिक्षम् इदं महत् । महान् महिम्ना सर्वाङ्ग यस् त्वा पचत्य् ओदन
सप्तैनं सूर्या अभितः सप्त पुष्करिणीर् उत । सप्तो सहस्रं गन्धर्वा यस् त्वा पचत्य् ओदन
धातैषाम् उद्गातासीद् देवा होतार ऋत्विजः । सर्वाङ्गं यत्रौदनं सत्येनाग्रे समैरयन्
सप्त ऋषयो भूतकृत ऋषयः साध्याश् च ये । ते वै सर्वाङ्गम् ओदनं श्रद्धयाग्रे सम् ऐरयन्
यः सर्वाङ्गं पचति ब्राह्मणं च न हिंसति । तस्मै ज्योतिष्मन्तं लोकं यमो राजाभि रक्षति
तं सर्वाङ्गं घृतपृष्ठं द्युमात्रं देवसंहितम् । नि धत्स्वामुत्र शेवधिं तं ते ब्रह्माभि रक्षतु
तस्यौदनस्योदरम् अन्तरिक्षं द्यौः पृष्ठं दिशः पार्श्वे । सूर्याचन्द्रमसाव् अक्ष्याव् ऋतवो दन्ताः पवमानः प्राणो अङ्गिरसो रूपम्
अनुवाक १५ ॥ आ नयैतम् आ रभस्व सुकृतां लोकम् अपि गच्छतु प्रजानन् । तीर्त्वा तमांसि बहुधा विपश्यन्न् अजो नाकम् आ क्रमतां तृतीयम्
प्र पदो नेनिग्धि दुश्चरितं यच् चचार शुद्धैः शफैर् आ क्रमतां प्रजानन् । ज्योतिष्मन्तं सुकृतां लोकम् ईप्सन् तृतीये नाके अधि वि क्रमस्व
अनु छ्य श्यामेन त्वचम् एतां विशस्तर् यथापर्व् असिना माति मंस्थाः । माभि द्रुहः परुशः कल्पयैनं सुकृतां मध्ये अधि वि श्रयेमम्
भूम्यां त्वा भूमिम् अधि धेह्य् एताम् आ सिञ्चोदकम् अव धेह्य् एनम् । पर्य् आधत्ताग्निना शमितारः शृतो गच्छतु सुकृतां यत्र लोकः
उत् क्रामातः परि चेद् अतप्तस् तप्ताच् चरोर् अधि नाकं तृतीयम् । अग्नेर् अग्निर् अधि सं बभूविथ ज्योतिष्मान् गच्छ सुकृतां यत्र लोकः
पञ्चौदनः पञ्चधा वि क्रमस्व- -आक्रंस्यमानः पञ्च ज्योतीꣳषि । ईजानानां सुकृतां प्रेहि मध्यं ज्योतिष्मन्तम् अभि लोकं जयास्मै
अजम् एवाग्निम् अजम् इज् ज्योतिर् आहुर् अजं ब्रह्मणे जीयता देयम् आहुः । अजस् तमांस्य् अप हन्ति दूरम् अस्मिंल् लोके श्रद्दधानेन दत्तः
एतद् वो ज्योतिः पितरस् तृतीयं पञ्चौदनं ब्रह्मणे ऽजं ददाति । अजस् तमांस्य् अप हन्ति दूरं पञ्चौदनो ब्रह्मणे दीयमानः
पञ्चौदनो ब्रह्मणे दीयमानो ऽजो नाकम् आ क्रमतां तृतीयम् । विचक्रमाणः सुकृतस्य लोके स ज्योतिषा तमो अप हन्ति दूरम्
अजा क्रमस्व सुकृतां यत्र लोकः शरभो नु चत्तो अति दुर्गाणि नेषतः । पञ्चौदनो ब्रह्मणे दीयमानो विश्वरूपा कामदुघास्य् एका
ज्योतिष्मन्तं सुकृतां लोकम् ईप्सन् पञ्चौदनं ब्रह्मणे ऽजं ददाति । स व्याप्नुह्य् अभि लोकं जयास्मै शिवो ऽस्मभ्यं प्रतिगृहीत एधि
अजस् त्रिनाके त्रिदिवे त्रिपृष्ठे सुकृतां लोके ददिवांसं दधाति । पञ्चौदनो ब्रह्मणे दीयमानः स दातारं तृप्त्या तर्पयासि
अजो ह्य् अग्नेर् अजनिष्ट शोकाद् विप्रो विप्रस्य सहसो वयोधाः । हुतम् इष्टम् अभिपूर्तं वषट्कृतं तद् देवा ऋतुशः कल्पयन्तु
अमोतं वासो दध्याद् धिरण्यम् अपि दक्षिणाम् । तथा लोकान् समाप्नुयाद् ये दिव्या ये च पार्थिवाः
एतास् त्वाज धारा उप यन्तु विश्वतः सोम्या देवीर् घृतपृष्ठा मधुश्चुतः । स्तभान पृथिवीं दिवं सचस्व नाके तिष्ठास्य् अधि सप्तरश्मौ
पृष्ठात् पृथिव्या इति चतस्रः
पञ्चौदनं पञ्चभिर् अङ्गुलीभिर् दर्व्योद् धर पञ्चधौदनम् एतम् । प्राचीं दिशं दक्षिणां प्रतीचीम् उदीचीं ध्रुवाम् ऊर्ध्वां दिशम् आ क्रमस्व
प्राच्यां दिशि शिरो अजस्य धेहि दक्षिणायां दिशि दक्षिणं धेहि पार्श्वम् । प्रतीच्यां दिशि भसदम् अस्य उदीच्यां दिश्य् उत्तरं धेहि पार्श्वम्
अजस्यानूकम् ऊर्ध्वायां दिशि धेहि दिशि धेहि पाजस्यं ध्रुवायाम् । अन्तरिक्षे मध्यतो मध्यम् अस्य पद्भिश् चतुर्भिः प्रति तिष्ठ दिक्षु
शृतम् अजं शृतया प्रोर्णुहि त्वचा सर्वैर् अङ्गैः संभृतं विश्वरूपम् । स उत् तिष्ठ प्रेहि नाकम् उत्तमं पद्भिश् चतुर्भिः प्रति तिष्ठ दिक्षु
सर्वा दिशः संविदानाः सध्रीचीः सान्तर्देशाः प्रति गृह्णन्तु तेजसम् । ते रक्षन्तु तव तुभ्यम् एतं ताभ्यो जुहोमि हविषा घृतेन
यं ब्राह्मणे निदधे यं च विक्षु या विप्रुष ओदनानाम् अजस्य । सर्वं तद् अग्ने सुकृतस्य लोके जानीतान् नः संगमने पथीनाम्
अजः पञ्चौदनो व्य् अक्रमत । तस्योर इयम् अभवद् उदरम् अन्तरिक्षं द्यौः पृष्ठं दिशः पार्श्वे
दितिश् चादितिश् च शृङ्गे सत्यं च र्तं च चक्षुषी । विश्वं रूपं श्रद्धा प्राणो विराट् शिरः
एष वा अपरिमितो यज्ञो यद् अजः पञ्चौदनः । अपरिमितं लोकं जयत्य् अपरिमितं लोकम् अव रुन्धे य एवं विदुषे ऽजं पञ्चौदनं ददाति
नास्यास्थीनि भिन्द्यान् न मज्ज्ञो निर् धयेत् । सर्वाणि समादाय- -इदंइदं प्र वेशयेत्
इदम् इदम् अस्य रूपं तेनैनं सं गमयति । स्वधाम् ऊर्जम् अक्षितिं महो अस्मै दुहे य एवं विदुषे ऽजं पञ्चौदनं ददाति
इन्द्राय भागं सविता कृणोत्व् इमं यज्ञं यज्ञपतिश् च सूरिः । ये नो द्वेषन्त्य् अनु तान् रभस्व- -अरिष्टा वीरा यजमानस्य सर्वे
पञ्च लोकाः पञ्च र्तवः । पञ्चस्व् ऋतुष्व् ऋध्नोति य एवं विदुषे ऽजं पञ्चौदनं ददाति
एष वै निदाघो यज्ञो यद् अजः पञ्चौदनः । निर् अप्रियं भ्रातृव्यं दहति भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति (…)
यो वा आयन्तम् इत्य् ऋतुं वेद । आयतीम् एवाप्रियस्य भ्रातृव्यस्य श्रियम् आदत्ते भवत्य् आत्मना (…) (…)
(…) वै संयन्तम् इति (…) । संयतीम् एव (…)
(…) वै भवन्तम् इति (…) । भवन्तीम् एव (…)
(…) वा अभिभवन्तम् इति (…) । अभिभवन्तीम् एव (…)
(…) वा उद्यन्तम् इति (…) । उद्यतीम् एव (…)
(…) वै मूर्धानम् इति (…) । मूर्ध्नीम् एव (…)
यो वै सर्वम् इत्य् ऋतुं वेद । सर्वाम् एवाप्रियस्य भ्रातृव्यस्य श्रियम् आदत्ते भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति य एवं विदुषे ऽजं पञ्चौदनं ददाति
यावन्त्य् अस्य लोमानि ब्रह्मास्तृणोति वेद्याम् । तावतीर् अस्य धाराः समुद्रस्येवाक्षिताः
दुहां क्षीरं भवतु सर्पिर् एभ्यः सुरा भूत्वोप तिष्ठात् सुरापाम् । मधोर् धारा मधुपेभ्यो दुहानो ऽजो नाके तिष्ठतु मोदमानः
स्कम्भेनेमे विष्कभिते द्यौश् च भूमिश् च तिष्ठतः । स्कम्भ इदं सर्वम् आर्पितम् एजद् यत् प्राणन् निमिषच् च यत्
एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चात् । अर्धेनेदं परि बभूव विश्वं यद् अस्यार्धं कतमः स केतुः
पञ्चवाहि वहत्य् अग्रम् अस्य पृष्टयो युक्ता अनुसंवहन्ति । अयातम् अस्य ददृशे न यातं परं नेदीयो ऽवरं दवीयः
इदं सवितर् वि जानीहि षड् यमा एक एकजः । तस्मिन् हापित्वम् इच्छन्ते य एषाम् एक एकजः
तिर्यग्बिलश् चमस ऊर्ध्वबुध्नो यस्मिन् यशो निहितं विश्वरूपम् । अत्रासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः
तिस्रो ह प्रजा अत्यायम् आयन् न्य् अन्या अर्कम् अभितो +ऽविशन्त । बृहन् ह तस्थौ रजसो विमानो हरितो हरिणीर् आ विवेश
द्वादश प्रधयश् चक्रम् एकं त्रीणि नभ्यानि क उ तच् चिकेत । तत्राहतास् त्रीणि शतानि शङ्कवः षष्टिश् च खीला अविचाचला ये
अनन्तं विततं पुरुत्रा अनन्तम् अन्तवच् चा समक्ते । ते नाकपालश् चरति प्रजानन् विद्वान् भूतं यद् उ भव्यम् अस्य
आविः सन् निहितं गुहा जरन् नाम महत् पदम् । तत्रैदं सर्वम् आर्पितम् एजत् प्राणन् निमिषच् च यत्
ऊर्ध्वं भरन्तम् उदकं कुम्भेनेवोदहार्यम् । पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः
ऊनात् पूर्णम् उद् अचति पूर्णाद् ऊनम् उद् अच्यते । कविष् टद् ब्रह्मा वेद यतस् तत् परिषिच्यते
प्रजापतिश् चरति गर्भे अन्तर् अदृश्यमानो बहुधा प्र जायते । अर्धेन विश्वं भुवनं जजान यद् अस्यार्धं किम् उ तज् जजान
यद् एजति चरति यच् च तिष्ठत्य् अप्राणत् प्राणन् निमिषच् च तिष्ठत् । तद् दाधार पृथिवीं विश्वरूपं तत् संभूय भवत्य् एकम् एव
या पुरस्ताद् युज्यते योत पश्चाद् या विश्वतो युज्यते योत सर्वतः । यया यज्ञस् तायते प्राङ् तां त्वा पृच्छामि कतमा नु सर्चाम्
यतः सूर्य उदेत्य् अस्तं यत्र च गच्छति । तद् एव मन्ये ऽहं ज्येष्ठं ततो नाप्य् एति किं चन
सत्येनोर्ध्वस् तपति ब्रह्मणा- -अर्वाङ् वि पश्यति । प्राणेन तिर्यङ् प्राणति यस्मिन् ज्येष्ठम् अधि श्रितम्
यो वै ते विद्याद् अरणी याभ्यां निर्मथ्यते वसु । स विद्वान् ज्येष्ठं मन्येत स विद्याद् ब्राह्मणं महत्
अपाद् अग्रे सम् अभवत् सो अग्रे स्वर् आभरत् । चतुष्पाद् भूत्वा भोग्यः सर्वम् आदत्त भोजनम्
भोग्यो भवद् अथो अन्नम् अदद् बहु । यो देवम् उत्तरावन्तम् उपासातै सनातनम्
सनातनम् एनम् आहुर् उताद्यासत् पुनर् नवः । अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः
शतं सहस्रम् अयुतं न्यर्बुदम् असंख्येयं स्वम् अस्मिन् निविष्टम् । तद् अस्य घ्नन्त्य् अभिपश्यत एव तस्माद् देवो रोचते स एतत्
आराग्रमात्रं ददृश उतैकं नैव दृश्यते । ततः परिष्वजीयसी देवता सा मम प्रिया
इयं कल्याण्य् अजरा मर्त्यस्यामृता गृहे । यस्मै कृता शये स यश् चकार तदार सः
त्वं स्त्री त्वं पुमान् असि त्वं कुमार्य् उत वा कुमारः । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः
उतैष ज्येष्ठ उत वा कनिष्ठ उतैष भ्रातोत वा पितैषः । एको देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः
अनेजत्य् एजति सर्वम् अस्मिन् विश्वा भूतानि पर्याभृतस्य । स पुमान् पुंसो जनयन्न् ऋतेन सर्वान् अन्तान् गच्छतु तिष्ठन्न् एव
मध्ये दिवो निहितः पृश्निरश्मा वि चक्रमाणौ रजसस्फात्यन्तौ । स विश्वाभिर् अभि चष्टे शचीभिर् अन्तरा पूर्वम् अपरं च केतुम्
ये अर्वाग् उत वा पुराणे वेदं विद्वांसम् अभितो वदन्ति । आदित्यम् एव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम्
एकाम् ऋचं सम् इन्धते द्वादशभिर् अग्निभिः । तस्याम् आपस् तस्यां गावस् तस्याम् ओषधयः श्रिताः
सप्त सुपर्णा उप धमन्त बाणम् अनुष्टुभा संभृतं वायुम् एतम् । तम् आततं विततं तन्तुम् आततं मनः पुनातु सलिलस्य पृष्ठे
सप्त ऋषयः प्रतिहिताः शरीरे सप्त रक्षन्ति सदम् अप्रमादम् । सप्तापः स्वपतो लोकम् ईयुस् तत्र जागृतो अस्वप्नजौ सत्रसदौ च देवौ
अनुवाक १६ ॥ भवाशर्वौ मृडतं माभि यातं भूतपती पशुपती नमो वाम् । प्रतिहितम् आयतां मा वि स्राष्टं मा नो हिंसिष्टं द्विपदो मा चतुष्पदः
शुने क्रोष्ट्रे मा शरीराणि कर्तम् अलिक्लवेभ्यो गृध्रेभ्यो ये च कृष्णा अविष्यवः । मक्षिकाः पशुपते वयांसि ते विघसे मा विदन्त
क्रन्दाय ते प्राणाय ते याश् च ते भव रोपयः । नमस् ते रुद्र कृण्मः सहस्राक्षामर्त्य
पुरस्तात् ते नमः कृण्म उत्तराद् अधराद् उत । अभीवर्गाद् दिवस् पर्य् अन्तरिक्षाय ते नमः
मुखाय ते पशुपते यानि चक्षूंषि ते भव । त्वचे रूपाय संदृशे प्रतीचीनाय ते नमः
अङ्गेभ्य उदराय जिह्वाया आस्याय च । दद्भ्यो गन्धाय ते नमः
अस्त्रा नीलशिखण्डेन सहस्राक्षेण वाजिना । रुद्रेणाध्वगघातिना तेन मा सम् अरामहि
स नो भवः परि वृणक्तु विश्वत आप इवाग्निः परि वृणक्तु नो भवः । मा नो अभि मंस्त नमो अस्त्व् अस्मै
चतुर् नमो अष्टकृत्वो भवाय दश कृत्वः पशुपते नमस् ते । तवेमे पञ्च पशवो विभक्ता गावो अश्वाः पुरुषा आद् अजावयः
तव चतस्रः प्रदिशस् तव द्यौस् तवेदम् उग्रोर्व् अन्तरिक्षम् । तवेदं सर्वम् आत्मन्वद् यद् एजद् अधि भूम्याम्
उरुः कोशो वसुधानस् तवायं यस्मिन्न् इमा विश्वा भूतान्य् अन्तः । स नो मृड पशुपते नमस् ते परः क्रोष्टारो अभिभाः श्वानः । परो यन्त्व् अघरुदो विकेश्यः
धनुर् बिभर्षि हरितं हिरण्ययं सहस्रघ्नि शतवधं शिखण्डिन् । रुद्रस्येषुश् चरति देवहेतिस् तस्मै नमो यतमस्यां दिशीतः
यो ऽभियातो निलयते त्वाम् उग्र निचिकीर्षति । पश्चाद् अनुप्रयुङ्क्षे तं विद्धस्य पदनीर् इव
भवारुद्रौ सयुजा संविदानाव् उभा उग्रौ चरतो वीर्याय । तयोर् भूमिर् अन्तरिक्षं स्वर् द्यौस् ताभ्यां नमो भवमत्याय कृण्मः
नमस् ते अस्त्व् आयते नमो अस्तु परायते । नमस् ते रुद्र तिष्ठत आसीनायोत ते नमः
नमः सायं नमः प्रातर् नमो रात्र्या नमो दिवा । भवाय च शर्वाय च- -उभाभ्याम् अकरं नमः
सहस्राक्षम् अतिपश्यं पुरस्ताद् रुद्रम् अस्यन्तं बहुधा विपश्चितम् । मोपाराम जिह्वयेयमानम्
श्यावास्वां कृष्णम् असितं मृणन्तं भीमं रथं केशिनः पादयन्तम् । पूर्वे प्रतीमो नमो अस्त्व् अस्मै
मा नो ऽभि स्रा मत्यं देवहेतिं मा नः क्रुधः पशुपते नमस् ते । अन्यत्रास्मद् दिव्यां शाखां वि धूनु
मा नो हिंसीर् अधि ब्रूहि परि णो वृङ्धि मा क्रुध । मा त्वया सम् अरामहि
मा नो अश्वेषु गोषु पुरुषेषु मा गृधो नो अजाविषु । अन्यत्रोग्र वि वर्तय पियारूणां प्रजां जहि
यस्य तक्मा कासिका हेतिर् एका- -अश्वस्येव वृषणः क्रन्द एति । अभिपूर्वं निर्णयते नमो अस्त्व् अस्मै
यस् तिष्ठति विष्टभितो अन्तरिक्षे ऽयज्वनः प्रमृणन् देवपीयून् । तस्मै नमो दशभिः शक्वरीभिः
तुभ्यम् आरण्याः पशवो मृगा वने हितास् तुभ्यं वयांसि शकुनाः पतत्रिणः । तव यक्ष्मं पशुपते अप्स्व् अन्तस् तुभ्यं क्षरन्ति दिव्या आपो वृधे
शिंशुमारा अजगराः पुलीकया जषा मत्स्या रजसा येभ्यो अस्यसि । न ते दूरं न परिष्ठ- -अस्ति ते भव सद्यः सर्वां परि पश्यसि भूमिम्
पूर्वस्माद् धंस्य् उत्तरस्मिन् समुद्रे मा नो रुद्र तक्मना न विषेण । मा नः सं स्रा दिव्येनाग्निना- -अन्यत्रास्मद् विद्युतां पातयैताम्
भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्व् अन्तरिक्षम् । तस्य न प्रापद् दुच्छुना का चनेह
भव राजन् यजमानाय मृड पशूनां हि पशुपतिर् बभूथ । यः श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदे अस्य मृड
मा नो महान्तम् उत मा नो अर्भकं मा नः क्षियन्तम् उत मा नो अक्षितः । मा नो हिंसीः पितरं मोत मातरं स्वां तन्वं रुद्र मा रीरिषो नः
रुद्रस्यैलबकारेभ्यो ऽसंसूक्तगिरेभ्यः । इदं महास्येभ्यः श्वभ्यो अकरं नमः
नमस् ते घोषिणीभ्यो नमस् ते केशिनीभ्यः । नमः संयतीभ्यो नमो नमस्वतीभ्यः
नमस् ते जायमानायै जाताया उत ते नमः । बालेभ्यः शफेभ्यो रूपायाघ्न्ये ते नमः
यो विद्यात् सप्त प्रवतः सप्त विद्यात् परावतः । शिरो यज्ञस्य यो विद्यात् स वशां प्रति गृह्णीयात्
वेदाहं सप्त प्रवतः सप्त वेद परावतः । शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम्
यया द्यौर् यया पृथिवी ययापो गुपिता इमाः । वशां सहस्रधारां ब्रह्मणाच्छा वदामसि
शतं वत्साः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्याः । ये देवास् तस्यां प्राणन्ति ते वशां विदुर् एकधा
यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका । वशा पर्जन्यपत्नी देवाꣳ अप्येति ब्रह्मणा
अनु त्वाग्निः प्राविशद् अनु सोमो वशे त्वा । ऊधस् ते भद्रे पर्जन्यो विद्युतस् ते स्तना वशे
अपस् त्वं धुक्षे प्रथमा उर्वरा अपरा वशे । तृतीयं राष्ट्रं धुक्षे अन्नं क्षीरं वशे त्वम्
यद् आदित्यैर् हूयमाना- -उपतिष्ठ ऋतावरि । इन्द्रः सहस्रं पात्रैः सोमं त्वापाययद् वशे
यद् अनूचीन्द्रम् ऐर् आत् त्व ऋषभो ऽह्वयत् । तस्मात् ते वृत्रहा पयः क्षीरं क्रुद्धो ऽभरद् वशे
यत् ते क्रुद्धो धनपतिः क्षीरं ते अभरद् वशे । इदं तद् अद्य नाकस् त्रिषु पात्रेषु रक्षति
त्रिषु पात्रेषु तं सोमम् आ देव्य् अभरद् वशा । अथर्वा यत्र दीक्षितो बर्हिष्य् आस्त हिरण्यये
सं हि सोमेनागत सम् उ सर्वेण पद्वता । वशा समुद्रे प्रानर्तीद् ऋचः सामानि बिभ्रती
सं हि सूर्येणागत सम् उ सर्वेण चक्षुषा । वशा समुद्रम् अत्य् अष्ठाद् गन्धर्वैः कलिभिः सह
सं हि वातेनागत सम् उ सर्वैः पतत्रिभिः । वशा समुद्रम् अत्य् अख्यद् भद्रा ज्योतींषि बिभ्रती
तद् भद्राः सम् अगच्छन्त वशा देष्ट्र्य् अथो स्वधा । अथर्वा यत्र दीक्षितो बर्हिष्य् आस्त हिरण्यये
अभीवृता हिरण्येन यद् अतिष्ठ ऋतावरि । अश्वः समुद्रो भूत्वा- -अध्य् अस्कन्दद् वशे त्वा
वशा माता राजन्यस्य वशा माता स्वधे तव । वशाया जज्ञ आयुधं ततश् चित्तम् अजायत
ऊर्ध्वो बिन्दुर् उद् अचरद् ब्रह्मणः ककुदाद् अधि । ततस् त्वं जज्ञिषे वशे ततो होता अजायत
आस्नस् ते गाथा भवन्तु- -उष्णिहाभ्यो बलं तव । पाजस्याज् जज्ञे ते यज्ञ स्तनेभ्यो रश्मयो वशे
ईर्माभ्याम् अयनं जातं सक्थिभ्यां च वशे तव । आन्त्रेभ्यो अत्रा जज्ञिर उदराद् अधि वीरुधः
यद् उदरं वरुणस्य- -अनु प्राविशथा वशे । ततस् त्वा ब्रह्मोदह्वयत् स हि नेत्रम् अवेत् तव
सर्वे गर्भाद् अवेपन्त जायमानाद् असूस्वः । ससूव हि ताम् आहुर् वशेति ब्रह्मणा क्ल्̥प्त उत बन्धुर् अस्याः
युध एकः सं सृजति यो अस्या एक इद् वशी । तरांसि यज्ञा अभवन् तरसां चक्षुर् अभवद् वशा
वशा सूर्यं प्रत्य् अगृह्णाद् वशा यज्ञम् अधारयत् । वशायाम् अन्तर् आविशद् ओदनो ब्रह्मणा सह
वशाम् एवाहुर् अमृतं वशां मृत्युम् उपासते । वशेदं सर्वम् अभवद् देवा मनुष्या असुराः पितर ऋषयः
य एवं विद्यात् स वशां प्रति गृह्णीयात् । तथा हि यज्ञः सर्वपाद् दुहे दात्रे अनपस्फुरन्
तिस्रो जिह्वा वरुणस्य- -अन्तर् दिद्यत्य् आसनि । तासां या मध्ये राजति स वशा दुष्प्रतिग्रहा
चतुर्धा रेतो अभवद् वशाया अपस् तुरीयम् अमृतं तुरीयं यज्ञस् तुरीयं पशवस् तुरीयम् । य एवं विद्यात् स वशां प्रति गृह्णीयात्
वशा द्यौर् वशा पृथिवी वशा विष्णुः प्रजापतिः । वशाया दुग्धम् अपिबन् साध्या वसवश् च ये
वशाया दुग्धं पीत्वा साध्या वसवश् च ये । अमी ब्रध्नस्य विष्टपि पयो अस्या उपासते
सोमम् एनाम् एके दुह्रे घृतम् एक उपासते । य एवं विदुषे वशां ददुस् ते गतास् त्रिदिवं दिवः
वशां दत्त्वा ब्राह्मणेभ्यः सर्वांल् लोकान् सम् अश्नुते । ऋतं ह्य् अस्याम् आहितम् अपि ब्रह्माथो तपः
वशां देवा उप जीवन्ति वशां मनुष्या उत । वशेदं सर्वम् अभवद् यावत् सूर्यो विपश्यति
अनुवाक १७ ॥ यो वा एकं ब्रह्मानुष्ठ्या विद्यात् स वा अद्य महद् वदेत् ॥ परूंषि यस्य संभारा ऋचो यस्यानूक्यम्
छन्दांसि यस्य लोमानि परिस्तरणम् इद् धविर् यजुर् हृदयम् उच्यते
यद् अतिथिपतिर् अतिथीन् प्रतिपश्यति देवयजनं प्रेक्षते
यद् अभिवदति दीक्षाम् उपैति यद् उदकं याचत्य् अपः प्र णयति । या यज्ञा अपः प्रणीयन्ते ता एव ताः
यत् तर्पणम् आहरन्ति यो ऽग्नीषोमीयः पशुर् बध्यते स एव सः
यत् खातम् आहरन्ति पुरोडाशा एव तौ यद् आवसथान् कल्पयन्ति सदोहविर्धानान्य् एव तत् कल्पयन्ति
यद् उपस्तृणन्ति बर्हिर् एव तत्
यत् कशिपूपबर्हणान्य् आहरन्ति परिधय एव ते । यद् उपरिशयनम् आहरन्ति स्वर्गम् एव तेन लोकम् अव रुन्धे
यद् अभ्यञ्जनम् आहरन्त्य् आज्यम् एव तत् । यद् अशनकृतं ह्वयन्ति हविष्कृतम् एव तद् उ ह्वयन्ति । यद् व्रीहयो यद् यवा निरुप्यन्ते अंशव एव ते न्य् उप्यन्ते
उलूखलं मुसलं ग्रावाणौ शूर्पं पवित्रं तूषा ऋजीषः । स्रुग् दर्विर् मेक्षणम् आयवनम् आपो ऽभिषवणी यद् द्रोणकलशः कुम्भी
इदम् एव कृष्णाजिनं वायव्यानि पात्राणि । यजमानं ब्राह्मणं वा एतद् अतिथिपतिः कृणुते यद् आहार्याण्य् अवेक्षत इदं भूया इदाम् इति
यद् आह भूय उद्धरेति प्रजां चैव तेन पशूंश् च वर्धयते प्राणम् एव तेन वर्षीयांसं कृणुते । यत् संपृच्छति कामम् एव तेनाव रुन्धे कामं हि पृष्टो याचति
यद् उदकम् अभिषिञ्चत्य् अप एव तेनाव रुन्धे । यद् उपहरति हवींष्य् आ सादयति
तेषाम् आसन्नानाम् अतिथिर् आत्मनि जुहोति । स्रुक्कारेण वषत्कारेण स्रुचा हस्तेन प्राणे यूपे
तस्मान् न द्विषन्न् अद्यान् न द्विषतो ऽन्नम् अद्यान् न मीमांसितस्य न मीमांस्यमानस्य
सर्वो वा एषो जग्धपाप्मा यस्यान्नम् अश्नन्ति
सर्व उ एषो ऽजग्धपाप्मा यस्यान्नं नाश्नन्ति
प्रजापतेर् वा एष विक्रान्तम् अनुविक्रमे य उपहरन्ति
प्रजापत्यो वा एतस्यैव यज्ञो विततो य उपहरति
सर्वदा वा एष सुतसोमो युक्तग्रावार्द्रपवित्र आहृतयज्ञक्रतुर् वितताधवरो य उपहरति
यो ऽतिथीनां स आहवनीयो यो ऽन्नकरणः स दक्षिणाग्निर् यो वेश्मनि स गार्हपत्यः
इष्टं च वा एष पूर्तं चाश्नाति यः पूर्वो ऽतिथेर् अश्नाति
प्रजां च वा एष पशूंश् चाश्नाति (…)
ऊर्जं च वा एष पयश् च गृहाणाम् अश्नाति यः पूर्वो ऽतिथेर् अश्नाति
एष वा अतिथिर् यच् छ्रोत्रियः
तस्मात् पूर्वो नाश्नीयाद् अशितावत्य् अश्नीयात् तद् व्रतम्
यज्ञस्याविच्छेदाय यज्ञस्य गुप्तये यज्ञस्य सात्मत्वाय
यत् क्षीरम् उपसिच्योपहरति यावद् अग्निष्टोमेअ समृद्धेनेष्ट्वावरुन्धे तावद् एनेनाव रुन्धे
यत् सर्पिर् उपसिच्योपहरति यावत् साह्नेन समृद्धेन (…)
यन् मधूपसिच्योपहरति यावद् अतिरात्रेण समृद्धेन (…)
यन् मांसम् उपसिच्योपहरति यावद् द्वादशाह्नेन समृद्धेनेष्ट्वावरुन्धे तावद् एनेनाव रुन्धे
यद् उदकम् उपसिच्योपहरति प्रजानां प्रजननाय ज्योग् जीवति सर्वम् आयुर् एति न पुनर् आ जरसः प्रमीयते य एवं वेद
तस्मै वात उषा हिङ् कृणोति सविता भूत्या प्र स्तौति बृहस्पतिर् ऊर्जयोद्गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम् । निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद
तस्मा उद्यन्त् सूर्यो हिङ्कृणोति संगवः प्र स्तौति मध्यन्दिन उद्गायत्य् अपराह्णः प्रति हरत्य् अस्तंयन् निधनम् । (…)
तस्मा अभ्रो भवन् हिङ् कृणोति विद्योतमानः प्र स्तौति स्तनयन्न् उद्गायति वर्षन् प्रति हरत्य् उद्गृह्णन् निधनम् । (…)
अतिथीन् प्रति पश्यति हिङ् कृणोत्य् अभि वदति प्र स्तौत्य् उदकं याचत्य् उद्गायत्य् उप हरति प्रति हरत्य् उच्छिष्टं निधनम् । निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद
एते वै प्रियाश् चाप्रियाश् च र्त्विजः स्वर्गं लोकं गमयन्ति यद् अतिथयः
यत् क्षत्तारं ह्वयत्य् आ श्रावयति यत् प्रतिशृणोति प्रत्य् आ श्रावयति
यत् परिवेष्टार आवसथान् प्रपद्यन्ते चमसाध्वर्यव एव ते तेषां नैकश् चनाहोता
यत् प्रातर् उपहरति प्रातःसवनम् एव तत्
यद् दीवोपहरति माध्यंदिनम् एव तत् सवनम्
यत् सायम् उपहरति तृतीयसवनम् एव तत्
यद् अतिथिपतिर् अतिथीन् परिविष्यासनं याचते अवभृथम् एव तद् उपावैति
यत् सभागयति दक्षिणाम् एव तत् सभागयति यद् अनुतिष्ठत्य् उदवस्यत्य् एव तत्
स उपहूतः पृथिव्यां भक्षयत्य् उपहूतस् तस्मिन् यत् पृथिव्यां विश्वरूपम् । पृथिव्यां तपति पृथिव्याम् आ भाति स्वर्गलोको भवति य एवं वेद
स उपहूतो अन्तरिक्षे भक्षयत्य् उपहूतस् तस्मिन् यद् अन्तरिक्षे विश्वरूपम् । अन्तरिक्षे तपत्य् अन्तरिक्ष आ भाति (…)
स उपहूतो दिवि भक्षयत्य् उपहूतस् तस्मिन् यद् दिवि विश्वरूपम् । दिवि तपति दिव्य् आ भाति (…)
स उपहूतो देवेषु भक्षयत्य् उपहूतस् तस्मिन् यद् देवेषु विश्वरूपम् । देवेषु तपति देवेष्व् आ भाति (…)
स उपहूतो लोकेषु भक्षयत्य् उपहूतस् तस्मिन् यल् लोकेषु विश्वरूपम् । लोकेषु तपति लोकेष्व् आ भाति स्वर्गलोको भवति य एवं वेद
यत् प्राङ् आसीनो विर्वपति यज्ञाय च देवेभ्यश् चा वृश्चते
यद् दक्षिणासीनो निर्वपति यमाय च पितृभ्यश् चा वृश्चते
यत् प्रत्यङ् आसीनो निर्वपति वरुणायाप्सुषद आ वृश्चते
यद् उदङ् आसीनो निर्वपति सोमाय च राज्ञे सप्तऋषिभ्यश् चावृश्चते
यद् उपस्थं कृत्वासीनो निर्वपति वायवे चान्तरिक्षाय चा वृश्चते
यद् ऊर्ध्वस् तिष्ठन् निर्वपति दिवे चादित्याय चावृश्चते
यं कामयेत पापीयान् आत्मना प्रजया पशुभिर् गृहैर् धनेन स्याद् इति । तस्यैवं निर् वपेत् तस्यैवं निरुप्यैवम् एवानु निर्वपेत् । तदैव स पापीयान् आत्मना पशुभिर् गृहैर् धनेन भवति- इदमिदं कुर्यात् सा प्रायश्चीतिः
यं कामयेत न वसीयान् न श्रेयान् आत्मना प्रजया पशुभिर् गृहैर् धनेन स्याद् इति । तस्यैवं निर् वपेत् तस्यैवं निरुपयैवम् एवानु निर्वपेत् । तदैव स न वसीयान् न श्रेयान् आत्मना प्रजया पशुभिर् गृहैर् धनेन भवति- इदमिदं कुर्यात् स प्रायश्चित्तिः
यं कामयेत वसीयाञ् छ्रेयान् आत्मना प्रजया पशुभिर् गृहैर् धनेन स्याद् इति । तस्यैवं निर् वपेत् तस्यैवं निरुप्यैवम् एवानु निर्वपेत् । तदैव स वसीयाञ् छ्रेयान् आत्मना प्रजया पशुभिर् गृहैर् धनेन भवति- इदमिदं कुर्यात् सा प्रायश्चित्तिः
यद् अवहन्यमानस्य तण्डुल स्कन्दति समांसमामस्य वरः प्रमायुको भवति
यद् अयस्ता भवति पितृदेवत्यं करोति
यद् विष्यन्दते गृहाणां च पशूनां च पयो वि ष्यन्दते
यद् अपसिञ्चति गृहाणां च पशूनां च पयो ऽप सिञ्चति
यद् आयवनी शीर्यते गृहपतिर् म्रियते
यद् दर्विः शीर्यते गृहपत्नी म्रियते
यत् कुम्भी विकसति सर्वज्यानिर् दाता च प्रतिगृहीता च जीयेते
यत् प्राञ्चम् उद्वर्तयति यज्ञाय च देवेभ्यश् चा वृश्चते
यद् दक्षिणाञ्चम् उद्वर्तयति यमाय च पितृभ्यश् चा वृश्चते
यत् प्रत्यञ्चम् उद्वर्तयति वरुणायाप्सुषद आ वृश्चते
यद् उदञ्चम् उद्वर्तयति सोमाय च राज्ञे सप्तऋषिभ्यश् चा वृश्चते
यद् अनुवृत्तम् उद्धरति दिशोदिश एवैनं भयम् आ गच्छति
यत् प्राचीनं बर्हि स्तृणाति यज्ञाय च देवेभ्यश् चा वृश्चते
यद् दक्षिणाचीनं बर्हि स्तृणाति यमाय च पितृभ्यश् चा वृश्चते
यत् प्रतीचीनं बर्हि स्तृणात्य् अकृतपूर्वं करोति
यद् उदीचीनं बर्हि स्तृणाति सोमाय च राज्ञे सप्तऋषिभ्यश् चा वृश्चते
यत् पुरस्तात् पात्रस्य त्सरुं करोत्य् अर्शः प्रतिग्रहीतुर् मुखे जायते
यद् दक्षिणतः पात्रस्य त्सरुं करोति यमाय च पितृभ्यश् चा वृश्चते
यत् पश्चात् पात्रस्य त्सरुं करोति प्रतीची प्रतिग्रहीतारं शरव्य र्च्छति
यद् उत्तरतः पात्रस्य त्सरुं करोति सोमाय च राज्ञे सप्तऋषिभ्यश् चा वृश्चते
यच् छुक्रो भवत्य् आदित्यानाम् एव प्रियं धामोपैति । स यः शुक्रं प्राश्नीयाद् आदित्यानां त्वा प्रियेण धाम्ना प्राश्नामीत्य् एनं प्राश्नीयात् । ततश् चैनम् अन्येन धाम्ना प्राश्नात्य् आदित्येभ्यश् चा वृश्चते
यत् फलीकृतो भवति विश्वेषाम् एव देवानां प्रियं (…) । स यः फलीकृतं प्राश्नीयाद् विश्वेषां त्वा देवानां प्रियेण धाम्ना (…) । (…) प्राश्नाति विश्वेभ्यो देवेभ्यश् चा वृश्चते
यद् अफलीकृतो भवति मरुताम् एव प्रियं (…) । स यो ऽफलीकृतं प्राश्नीयान् मरुतां त्वा प्रियेण (…) । (…) प्राश्नाति मरुद्भ्यश् चा वृश्चते
यद् अवक्षामो भवत्य् अग्नेर् एव (…) । स यो ऽवक्षामं प्राश्नीयाद् अग्नेस् त्वा प्रियेण (…) । (…) प्राश्नात्य् अग्नये चा वृश्चते
यद् अनवक्षामो भवति मित्रावरुणयोर् एव (…) । स यो ऽनवक्षामं प्राश्नीयान् मित्रावरुणयोस् त्वा प्रियेण (…) । (…) प्राश्नाति मित्रावरुणाभ्यां चा वृश्चते
यद् अक्लिन्नो भवति- -इन्द्रस्यैव (…) । स यो ऽक्लिन्नं प्राश्नीयाद् इन्द्रस्य त्वा (…) । (…) प्राश्नाति- -इन्द्राय चा वृश्चते
यत् क्लिन्नो भवति पितॄणाम् एव (…) । स यः क्लिन्नं प्राश्नीयात् पितॄणां त्वा (…) । (…) प्राश्नाति पितृभ्यश् चा वृश्चते
यत् क्षुद्रो भवत्य् अपाम् एव (…) । स यः क्षुद्रं प्राश्नीयाद् अपां त्वा प्रियेण (…) । (…) प्राश्नात्य् अद्भ्यश् चा वृश्चते
यच् छिथिरो भवति दिशाम् एव (…) । स यः शिथिरं प्राश्नीयाद् दिशां त्वा (…) । [सेए १द् (…) प्राश्नाति दिग्भ्यश् चा वृश्चते
यद् गुलन्ती भवति प्रजापतेर् एव (…) । स यो गुलन्तिनं प्राश्नीयात् प्रजापतेष् ट्वा (…) । (…) प्राश्नाति प्रजापतये चा वृश्चते
यच् छुष्को भवत्य् ऊर्ध्वनभस एव प्रियं धामोपैति । स यः शुष्कं प्राश्नीयाद् ऊर्ध्वनभसस् त्वा प्रियेण धाम्ना प्राश्नामीत्य् एनं प्राश्नीयात् । ततश् चैनम् अन्येन धाम्ना प्राश्नात्य् ऊर्ध्वनभसे चा वृश्चते
यत् क्षीरम् उपसिच्य प्रथमं प्राश्नाति किलासः प्रतिग्रहीता भवति
यत् सर्पिर् उपसिच्य प्रथमं प्राश्नाति सर्पः प्रतिग्रहीतारं हन्ति
यन् मधूपसिच्य प्रथमं प्राश्नाति महादेवः प्रतिग्रहीतारं हन्ति
यन् मांसम् उपसिच्य प्रथमं प्राश्नातीशानः प्रतिग्रहीतारं हन्ति
यद् उदकम् उपसिच्य प्रथमं प्राश्नाति तत् समृद्धम् । ज्योग् जीवति सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद
यत् प्राशिष्यन् पुरस्ताद् अतिमृशति । प्राङ् प्रतिग्रहीतुः प्राणः प्र क्रामति तत एवोत्थाय प्र व्रजति शिरस् तस्य रुजतीति द्वादशीन् नाति जीवत्य् एवं चैनं प्राश्नन्तम् उपद्रष्टा गृह्णाति
यत् प्राशिष्यन् दक्षिणतः प्रमृशति । दक्षिणा प्रतिग्रहीतुः (…)
यत् प्राशिष्यन्न् उत्तरतः परिमृशत्य् उदङ् प्रतिग्रहीतुः प्राणः प्र क्रामति तत एवोत्थाय प्र व्रजति शिरस् तस्य रुजतीति द्वादशीन् नाति जीवत्य् एवं चैनं प्राश्नन्तम् उपद्रष्टा गृह्णाति
यत् प्राशिष्यन् पश्चात् प्राञ्चम् अभिमृशति । शर्मणा चैवैनं तद् वर्मणा चाभि मृशति शर्म चैवास्मै वर्म च भवति जयत्य् ओदनम् ओदनलोको भवति य एवं वेद
अनुवाक १८ ॥ इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थ- -इन्द्रस्य नृम्णं स्थेन्द्रस्य शुक्रं स्थेन्द्रस्य वीर्यं स्थ । जिष्णवे योगायेन्द्रयोगैर् वो युनज्मि जिष्णवे योगाय विश्वानि मा रूपाण्य् उप तिष्ठन्तु युक्ता म आप स्थ
(…) (…) योगाय क्षत्रयोगैर् वः (…)
(…) (…) योगाय ब्रह्मयोगैर् वः (…)
(…) (…) योगायान्नयोगैर् वः (…)
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थ- -इन्द्रस्य नृम्णं स्थेन्द्रस्य शुक्रं स्थेन्द्रस्य वीर्यं स्थ । जिष्णवे योगायापां योगैर् वो युनज्मि जिष्णवे योगाय विश्वानि मा रूपाण्य् उप तिष्ठन्तु युक्ता म आप स्थ
अग्नेर् भाग स्थ । अपां शुक्रं देवीर् आपो वर्चो अस्मासु धत्त । प्रजापतेर् वो धाम्नास्मै लोकाय सादये
इन्द्रस्य भाग स्थ । (…)
सोमस्य भाग स्थ । (…)
वरुणस्य भाग स्थ । (…)
यमस्य भाग स्थ । (…)
पितॄणां भाग स्थ । (…)
बृहस्पतेर् भाग स्थ । (…)
प्रजापतेर् भाग स्थ । (…)
देवस्य सवितुर् भाग स्थ । अपां शुक्रं देवीर् आपो वर्चो अस्मासु धत्त । प्रजापतेर् वो धाम्नास्मै लोकाय सादये
यो व आपो अपां भागो ऽप्स्व् अन्तर् यजुष्यो देवयजनः । इदं तम् अति सृजामि तं माभ्य् अव निक्षि । तेन तम् अभ्य् अति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या
(…) अपाम् ऊर्मिर् अप्स्व् अन्तर् यजुष्यः (…)
(…) अपां वेगः (…)
(…) अपां बिन्दुः (…)
(…) अपां गर्भः (…)
(…) अपां वत्सः (…)
(…) अपां वृषभः (…)
(…) अपाम् अश्मा पृश्निर् दिव्यो ऽप्स्व् अन्तर् यजुष्यः (…)
यो व आपो अपां हिरण्यगर्भो ऽप्स्व् अन्तर् यजुष्यो देवयजनः । इदं तम् अति सृजामि तं माभ्य् अव निक्षि । तेन तम् (…)
ये व आपो अपाम् अग्नयो ऽप्स्व् अन्तर् यजुष्या देवयजनाः । इदं तान् अति सृजामि तान् माभ्य् अव निक्षि । तैस् तम् अभ्य् अति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । तं वधेयं तं स्त्विषीयानेन ब्रह्मणानेन कर्मणानया मेन्या
यद् अर्वाचीनम् ऐकहायनाद् अनृतं किं चोदिम । आपो मा तस्माद् एनसो दुरितात् पान्तु विश्वतः
अरिप्रा आपो अप रिप्रम् अस्मत् । प्रास्मद् एनो दुरितं सुप्रतीकाः प्र दुष्वप्न्यं प्र मलं वहन्तु
समुद्रं वो ऽप सृजामि स्वां योनिम् अपीतन । अरिष्टाः सर्वहायसो मा च नः किं चनाममत्
विष्णोः क्रमो ऽसि सपत्नहा पृथिवीसंशितो ऽग्नितेजाः । पृथिवीम् अनु वि क्रमे ऽहं पृथिव्यास् तं निर् भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । पूर्वजान् सपत्नान् अवैनान् बाधे अत्य् एनान् क्रमाम्य् अपाङ् अपनुत्तः सपत्नः
विष्णोः क्रमो ऽसि सपत्नहा- -अन्तरिक्षसंशितो वायुतेजाः । अन्तरिक्षम् अनु वि क्रमे ऽहम् अन्तरिक्षात् तं निर् भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । सहजान् सपत्नान् (…)
विष्णोः क्रमो ऽसि सपत्नहा द्युसंशितः सूर्यतेजाः । दिवम् अनु वि क्रमे ऽहं दिवस् तं निर् भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । अपरजान् सपत्नान् (…)
(…) सपत्नहा दिक्संशितो वाततेजाः । दिशो अनु वि क्रमे ऽहं दिग्भ्यस् तम् (…)
(…) सपत्नहा- -आशासंसितो मनस्तेजाः । आशा अनु वि क्रमे ऽहम् आशाभ्यस् तम् (…)
(…) सपत्नहा- -अप्संसितो वरुणतेजाः । अपो अनु वि क्रमे ऽहम् अद्भ्यस् तम् (…)
(…) सपत्नहा ऋक्संशितः सामतेजाः । ऋचो अनु वि क्रमे ऽहं ऋग्भ्यस् तम् (…)
(…) सपत्नहा यज्ञसंशितो ब्रह्मतेजाः । यज्ञम् अनु वि क्रमे ऽहं यज्ञात् तम् (…)
(…) सपत्नहा- -ओषधीसंशितः सोमतेजाः । ओषधीर् अनु वि क्रमे ऽहम् ओषधीभ्यस् तम् (…)
(…) सपत्नहा कृषिसंशितः पुरुषतेजाः । कृषिम् अनु वि क्रमे ऽहं कृष्यास् तम् (…)
विष्णोः क्रमो ऽसि सपत्नहा प्राणसंशितो ऽन्नतेजाः । प्राणम् अनु वि क्रमे ऽहं प्राणात् तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः
अगमं स्वर् अगमं ज्योतिर् अभ्य् अष्ठां विश्वाः पृतना अरातीः । यो +ऽस्मान् द्वेष्टि यं वयं द्विष्मस् तस्येदं प्राणम् आयुर् नि वेष्टयामि- -इदम् एनम् अधमं तमो गमयामि
सूर्यस्यावृतम् अन्व् आवर्ते दक्षिणाम् अन्व् आवृतम् । दिशो ज्योतिष्मतीर् अभि पर्यावर्ते सप्त ऋषीन् अभि पर्यावर्ते ब्रह्माभि पर्यावर्ते ब्राह्मणान् अभि पर्यावर्ते । ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम्
यत् ते ऽन्नं भुवस्पत आक्षियति पृथिवीम् अनु । तस्य नस् त्वं भुवस्पते संप्रयच्छ प्रजापते । यं वयं मृगयामहे तं वधै स्तृणवामहि
व्यात्ते परमेष्ठिनो ब्रह्मणापीपदाम तम् । वैश्वानरस्य दंष्ट्राभ्यां मृत्युस् तं समधाद् अभि
इयं तं प्सात्व् आहुतिः समिद् देवी सहीयसी । राज्ञो वरुणस्य बन्धो ऽसि सो *ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् अन्ने प्राणे बधान
अपाम् अस्मै वज्रं प्र हरामि चतुर्भृष्टिं शीर्षभिद्याय विद्वान् । सो अस्य पर्वा प्र शृणातु सर्वा तन् मे देवा ह्य् अनु जानन्तु विश्वे
यद् अग्ने तपसा तप उप प्रेक्षामहे वयम् । प्रियाः श्रुतस्य भूयास्म- -आयुष्मन्तः सुमेधसः
विराड् वा इदम् अग्रे ऽजायत तस्या जाताया अबिभेत् सर्वम् । इयम् एवेदं भविष्यति न वयम् इति
सोद् अक्रामत् सा दक्षिणाग्नौ न्य् अक्रामत् । यज्ञर्तो वासतेयो भवति य एवं वेद
(…) सा गार्हपत्ये न्य् अक्रामत् । गृहमेधी गृहपतिर् भवति (…)
(…) साहवनीये न्य् अक्रामत् । यन्त्य् अस्य देवा देवहूतिं प्रियो देवानां भवति (…)
(…) सा सभायां नि (…) । यन्त्य् अस्य सभां सभ्यो भवति (…)
(…) सा समितौ नि (…) । यन्त्य् अस्य समितिं सामित्यो भवति (…)
(…) सामन्त्रणे न्य् अक्रामत् । यन्त्य् अस्यामन्त्रणम् आमन्त्रणीयो भवति य एवं वेद
(…) सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत् तां देवमनुष्या अब्रुवन्न् इयं तद् वेद यद् उभय उपजीवेम- -इमाम् उप ह्वयामहा इति ताम् उपह्वायन्त । ऊर्ज एहि स्वध एहि सूनृत एहीरावत्य् एहीति । तस्या अग्निर् वत्स आसीद् गायत्र्य् अभिधान्य् अभ्रम् ऊधः
तस्या बृहच् च रथन्तरं च द्वौ स्तनाव् आस्तां यज्ञायज्ञियं च वामदेव्यं च द्वौ । ओषधीर् वै रथन्तरं देवा अदुह्रन् व्यचो बृहद् अपो वामदेव्यं यज्ञं यज्ञायज्ञियम्
एते वै विराजः कामदुघ स्तनाः । कामंकामं विराजं दुहे य एवं वेद
(सोद् अक्रामत्) सा वनस्पतीन् आगच्छत् तां वनस्पतयो ऽघ्नत सा संवत्सरे सम् अभवत् । तस्मात् संवत्सरे वनस्पतीनां वृक्णम् अपि रोहति वृश्च्यन्त्य् अस्याप्रियं भ्रातृव्यं य (एवं वेद)
(…) सा पितॄन् आगच्छत् तां पितरो ऽघ्नत सा मासे सम् अभवत् । तस्मान् मासे पितृभ्यो ददति स्वधावान् पितृषु भवति प्र पितृयाणं पन्थां जानाति यः (…)
(…) सा देवान् आगच्छत् तां देवा अघ्नत सार्धमासे सम् अभवत् । तस्माद् अर्धमासे देवेभ्यो जुह्वति जुहोत्य् अग्निहोत्रं प्र देवयानं पन्थां जानाति यः (…)
(…) सा मनुष्यान् आगच्छत् तां मनुष्या अघ्नत सा सद्यः सम् अभवत् । तस्माद् उभयद्युर् मनुष्या उप हरन्त्य् उपास्य गृहे हरन्ति यः (…)
सोद् अक्रामत् सासुरान् आगच्छत् ताम् असुरा उपाह्वयन्त माय एहीति । तस्या विरोचनः प्राह्रादुर् वत्स आसीद् अयस्पात्रं पात्रम् । तां द्विमूर्धार्त्वियो ऽधोक् तां मायाम् अधोक् । तां मायाम् असुरा उप जीवन्त्य् उपजीवनीयो भवति य एवं वेद
(…) सा पितॄन् आगच्छत् तां पितर उपाह्वयन्त स्वध एहीति । तस्या यमो वैवस्वतो वत्स आसीद् रजतपात्रं पात्रम् । ताम् अन्तको मार्तयो ऽधोक् तां स्वधाम् अधोक् । तां स्वधां पितर उप (…)
(…) सा मनुष्यान् आगच्छत् तां मनुष्या उपाह्वयन्तेरावत्य् एहीति । तस्या मनुर् वैवस्वतो वत्स आसीत् पृथिवीपात्रं पात्रम् । तां पृथुर् वैन्यो ऽधोक् तां कृषिं च सस्यं चाधोक् । तां कृषिं च सस्यं च मनुष्य उप (…)
(…) सा देवान् आगच्छत् तां देवा उपाह्वयन्तोर्ज एहीति । तस्या इन्द्रो वत्स आसीद् दारुपात्रं पात्रम् । तां सविताधोक् ताम् ऊर्जम् अधोक् । ताम् ऊर्जं देवा उप (…)
(…) सा सप्त ऋषीन् आगच्छत् तां सप्त ऋषय उपाह्वयन्त ब्रह्मण्वत्य् एहीति । तस्याः सोमो वत्स आसीच् छन्दःपात्रं पात्रम् । तां बृहस्पतिर् आङ्गिरसो ऽधोक् तां ब्रह्म च तपश् चाधोक् । तद् ब्रह्म च तपश् च सप्त ऋषय उप (…)
(…) सा गन्धर्वाप्सरस आगच्छत् तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति । तस्याश् चित्ररथः सौर्यवर्चसो वत्स आसीत् पुष्करपर्णं पात्रम् । तां वसुरुचिः सौर्यवर्चसो ऽधोक् तां पुण्यं गन्धम् अधोक् । तं पुण्यं गन्धं गन्धर्वाप्सरसा उप (…)
(…) सा पुण्यजनान् आगच्छत् तां पुण्यजना उपाह्वयन्त तिरोध एहीति । तस्याः कुबेरो वैश्रवणो वत्स आसीद् आमपात्रं पात्रम् । तां रजतनाभिः काबेरको ऽधोक् तां तिरोधाम् अधोक् । तां तिरोधां पुण्यजना उप (…)
सोद् अक्रामत् सा सर्पान् आगच्छत् तां सर्पा उपाह्वयन्त विषवत्य् एहीति । तस्यास् तक्षको वैशालेयो वत्स आसीद् अलाबुपात्रं पात्रम् । तां धृतराष्ट्र ऐरावतो ऽधोक् तां विषम् अधोक् । तद् विषं सर्पा उप जीवन्त्य् उपजीवनीयो भवति य एवं वेद
तस्माद् यस्मा अलाबुनाभिषिञ्चेन् मनसा त्वा प्रत्याहन्मीत्य् एनं प्रत्याहन्यात् । यत् प्रत्याहन्ति विषं प्रत्याहन्ति न च प्रत्याहन्ति विषम् अनु प्रसिच्यते । विषम् अस्याप्रियं भ्रातृव्यं हन्ति य एवं वेद
अनुवाक १९ ॥ अघायताम् अपि नह्या मुखानि सपत्नेषु वज्रम् अर्पयैतम् । इन्द्रेण दत्ता प्रथमा शतौदना भ्रातृव्यघ्नी यजमानाय गातुः
वेदिष् टे चर्म भवतु बर्हिर् लोमानि यानि ते । एषा त्वा रशनाग्रहीद् ग्रावा त्वैषो ऽधि नृत्यतु
बालास् ते प्रोक्षणीः सन्तु जिह्वा सं मार्ष्ट्व् अघ्न्ये । शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने
यः शतौदनां पचति कामप्रेण स कल्पते । प्रीता ह्य् अस्य ऋत्विजः सर्वे यन्ति यथायथम्
ये ते देवि शमितारः पक्तारो ये च ते जनाः । एते त्वा सर्वे गोप्स्यन्ति मैभ्यो भैषीः शतौदने
स स्वर्गम् आ रोहति यत्रादस् त्रिदिवं दिवः । हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम्
स तांल् लोकान् सम् आप्नोति येषु देवाः समासते । अपूपं नाभिं कृत्वा यो ददाति शतौदनाम्
वसवस् त्वा दक्षिणत उत्तरान् मरुतस् त्वा । आदित्याः पश्चाद् गोप्स्यन्ति सातिरात्रम् अग्निष्टोमम् अति द्रव
गन्धर्वा अप्सरसो देवि रुद्रा अङ्गिरसस् त्वा । एते त्वा सर्वे गोप्स्यन्ति सातिरात्रम् अग्निष्टोमम् अति द्रव
अन्तरिक्षं दिवं भूमिम् आदित्यान् मरुतो दिशः । लोकान् सर्वान् आप्नोति यो ददाति शतौदनाम्
घृतं प्रोक्षन्ती सुभगा देवान् देवी गमिष्यति । पक्तारम् अघ्न्ये मा हिंसीर् दिवं प्रेहि शतौदने
ये पितरो दिविषदो ऽन्तरिक्षसदश् च ये चेमे भूम्याम् अधि । तेभ्यस् त्वं धुक्ष्व सर्वदा क्षीरं सर्पिर् अथो मधु
यत् ते शिरो ये च शृङ्गे यौ कर्णौ यौ च ते अक्ष्यौ । आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु
यत् ते मुखं या जिह्वा ये दन्ता ये च ते हनू । (…)
यत् ते क्लोमा यद् धृदयं पुरीतत् सहकण्ठिका । (…)
यत् ते यकृद् ये मतस्ने आन्त्राणि याश् च ते गुदाः । (…)
यस् ते प्लाशिर् यो वनिष्टुर् यौ कुक्षी यच् च त उदरम् । (…)
यस् ते मज्जा यान्य् अस्थीनि यन् मांसं यच् च लोहितम् । (…)
यौ ते बाहू यौ ते अंसौ दोषणी या च ते ककुत् । (…)
ये ते स्कन्धा या ग्रीवा याः पृष्टीर् याश् च पर्शवः । (…)
यौ त ऊरू अष्ठीवन्तौ ये श्रोणी या च ते भसत् । (…)
यत् ते पुच्छं ये ते बाला यद् ऊधो ये च ते स्तनाः । (…)
यास् ते जङ्घा याः कुष्ठिका ऋत्सरा ये च ते शफाः । (…)
यत् ते चर्म शतौदने यानि लोमान्य् अघ्न्ये । आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु
अयं ते स्तन आमिक्षाम् अयं सर्पिर् अयं मधु । अयं ते सर्वान् कामान् दुहां देवि शतौदने
क्रोडौ ते स्तां पुरोडाशाव् आज्येनाभिघारितौ । तौ पक्षौ देवि कृत्वा सा दातारं दिवं वह
उलूखले मुसले ये च चर्मणि ये वा शूर्पे तण्डुलाः कणाः । यद् वा वातो मातरिश्वा ममाथ- -अग्निष् टद् धोता सुहुतं कृणोतु
अपो देवीर् मधुमतीर् घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक् सादयामि । यत्काम इदम् अभिषिञ्चामि वो ऽहं तन् नो अस्तु वयं स्याम पतयो रयीणाम्
प्रजापतिश् च परमेष्ठी च शृङ्गे इन्द्रः शिरो अग्निर् ललाटं यमः कृकाटं सोमो राजा मस्तिष्कः । सत्यं चक्षुर् ऋतं श्रोत्रे प्राणापानौ नासिके द्यौर् उत्तरा हनुः पृथिव्य् अधरा
अग्निर् आस्यं विद्युज् जिह्वा मरुतो दन्ताः पवमानः प्राणः । विश्वं वायुः कण्ठः स्वर्गो लोकः कृष्णद्रं विधरणी विकेश्यः
रेवती ग्रीवाः कृत्तिका स्कन्धा घर्मो वहः श्येनः क्रोडो अन्तरिक्षं पाजस्यम् । मित्रश् च वरुणश् चांसौ त्वष्टा चार्यमा च दोषणी
महादेवो बाहू बृहस्पतिः ककुद् बृहतीः कीकसाः । देवानां पत्नीः पृष्टय उपसदः पर्शवः
इन्द्राणी भसद् वातः पुच्छं पवमानो बालाः । ब्रह्म च क्षत्रं च श्रोणी बलम् ऊरू धाता च सविता चाष्ठीवन्तौ
जङ्घा गन्धर्वा अप्सरसः कुष्ठिका अदितिः शफाः । चेतो हृदयं यकृन् मेधा हरिमा पित्तं व्रतं पुरीतत्
क्षुत् कुक्षिर् इरा वनिष्ठुः पर्वताः प्लाशिर् देवजना गुदा मनुष्या आन्त्राण्य् अत्रा उदरम् इतरजना ऊबध्यं रक्षांसि लोहितम् । क्रोधो वृक्कौ मन्युर् आण्डौ प्रजा शेपः
समुद्रो वस्तिर् नदी सूत्री स्तनयित्नुर् ऊधो वर्षस्य पतय स्तनाः । विश्वव्यचाश् चर्मौषधयो लोमानि नक्षत्राणि रूपम्
अभ्रं पीवो मज्जा निधनम् । निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद
इन्द्रः प्राङ् तिष्ठन् दक्षिणा तिष्ठन् यमः प्रत्यङ् तिष्ठन् धातोदङ् तिष्ठन् सविता । तृणानि प्राप्तः सोमो राजावृत्त आनन्दः । ईक्षमानो मित्रे युज्यमानो वैश्वदेवो युक्तः प्रजापतिर् विमुक्तः सर्वम् । एतद् वै गोरूपम् । उपैनं रूपवन्तः पशवस् तिष्ठन्ति य एवं वेद
श्रमेण तपसा सृष्टा ब्रह्मणा वित्तर्ते श्रिता । सत्येनावृता श्रिया प्रावृता यशसा परिवृता स्वधया परिहिता श्रद्धया पर्यूढा दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोको निधनम्
छन्दांसि रूपम् अङ्गिरसः सन्तापा ब्रह्म पदवा- -अयं ब्राह्मणो ऽधिपतिः । ताम् आददानस्य ब्रह्मगवीं जिनतो ब्राह्मणं क्षत्रियस्य । अप क्रामति सूनृता वीर्यं पुण्या लक्ष्मीः
ओजश् च तेजश् च सहश् च बलं च ॥वाक् चेन्द्रियं च श्रीश् च धर्मश् च ॥ब्रह्म च क्षत्रं च राष्ट्रं च विशश् च ॥त्विषिश् च यशश् च वर्चश् च द्रविणं च ॥आयुश् च रूपं च नाम च कीर्तिश् च ॥पयश् च रसश् चान्नं चान्नाद्यं च ॥प्राणश् चापानश् च चक्षुश् च श्रोत्रं च ॥ऋतं च सत्यं चेष्टं च पूर्तं च प्रजा पशवश् च ॥तानि सर्वाण्य् अप क्रामन्ति क्षत्रियस्य ब्रह्मगवीम् आददानस्य ॥ सैषा भीमा ब्रह्मगव्य् अघविषा कृत्या कूल्बजम् आवृता सर्वाण्य् अस्यां क्रूराणि सर्वे च मृत्यवः सर्वाण्य् अस्यां घोराणि सर्वे च पुरुषवधाः
सा ब्रह्मज्यं ब्रह्मगव्य् आदीयमाना मृत्योः पड्वीश आ द्यति । मेनिः शतवधा हि सा ब्रह्मज्यस्य क्षितिर् हि सा
तस्माद् वै ब्राह्मणानां गौर् दुराधर्षा विजानता । वैश्वानर उद्वीता महादेवो ऽपेक्षमाणा वज्रो धावन्ती हेतिः शफान् उत्खिदन्ती
क्षुरपविर् ईक्षमाणा मृत्युर् हिङ्कृण्वती । वाश्यमानाभि स्फूर्जति ब्रह्मगवी ब्रह्मज्यम्
उग्रो देवः पुच्छं पर्यस्यन्ती सर्वज्यानिः कर्णौ वरीवर्जयन्ती राजयक्ष्मो मेहन्ती मेनिर् दुह्यमाना शीर्षक्तिर् दुग्धा । सेदिर् उपतिष्ठन्ती मिथोयोधः परामृष्टा शरव्या मुखे ऽपिनह्यमाने
ऋतिर् हन्यमाना व्यृद्धिर् हृता- -अघविषा निपतन्ती तमो निपतिता । अनुगच्छन्ती प्राणान् उप दासयति ब्रह्मगवी ब्रह्मज्यस्य
वैरं विकृत्यमाना पौत्राद्यं विभाज्यमाना देवहेतिर् ह्रियमाणामतिर् हिता निरृतिर् निहिता । पाप्माधिधीयमाना पारुष्यम् अवधीयमानाप्रजस्ताविहिता
घर्मः पर्याधीयमाना वैश्वानरः परिहिता विषं प्रयस्यन्ती तक्मा प्रयस्ता । मूलबर्हणी पर्याक्रियमाणा क्षितिः पर्याकृता
अघं पच्यमाना पराभूतिः पक्वा । सुगुध्रियमाणाशीविष उद्धृतासंज्ञा गन्धेन
अभूतिर् उपह्रियमाणा पराभूतिर् उपहृता । शर्वः क्रुद्धः पिश्यमाना शिमिदा पिशिता
आर्तिर् अश्यमाना वीकर्तो अशिता । अशिता लोकाच् छिनत्ति ब्रह्मचारी ब्रह्मज्यम् अस्माच् चामुष्माच् च
तस्या आहननं कृत्या मेनिर् आशसनं वलग ऊबध्यम् अस्वगता परिह्वृता । अग्निः क्रव्याद् भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति
सर्वास्याङ्गानि मूलानि वृश्चति छिनत्त्य् अस्य पितृबन्धून् परा भावयति मातृबन्धून् । विवाहां ज्ञातीन् सर्वान् अपि क्षापयति ब्रह्मगवी क्षत्रियस्यापुनर्दीयमाना
अवास्तुम् एनम् अस्वगम् अप्रजसं करोत्य् अपरापरणो भवति क्षीयते । य एवं विदुषो ब्राह्मणस्य क्षत्रियो गाम् आदत्ते
क्षिप्रं वै तस्याहनने गृध्राः कुर्वत ऐलवम् । (…) तस्यादहनं परि नृत्यन्ति केशिनीर् आघ्नानाः पाणिनोरसि कुर्वाणाः पापम् ऐलवम्
(…) तस्य वास्तुषु गङ्गणं कुर्वते वृकाः । क्षिप्रं वै तस्य पृच्छन्ति यत् तद् आसीद् इदं नु तात्
छिन्ध्य् आ छिन्धि प्र छिन्ध्य् अपि क्षापय क्षापय । आददानम् आङ्गिरसि ब्रह्मज्यम् उप दासय
वैश्वदेवी ह्य् उच्यसे कृत्या कूल्बजाम् आवृता ओषन्ती समोषन्ती ब्रह्मणो वज्रः
क्षुरपविर् मृत्युर् भूत्वापिधावितः । आ दत्से जिनतां वर्च इष्टं पूर्तं चाशिषः
आदाय जीतं जीताय लोके ऽमुष्मिन् प्र यच्छसि । अघ्न्ये पदवीर् भव ब्राह्मणस्याभिशस्त्या
मेनिः शरव्या भवाघाद् अघविषा भव । अग्न्ह्ये प्र शिरो जहि ब्रह्मज्यस्य कृतागसः
त्वया प्रवृक्तं रजतम् अग्निर् दहतु दुष्कृतं देवपीयुम् अराधसम् । वृश्च प्र वृश्च छिन्धि प्र छिन्धि कृन्त प्र कृन्त पिंश प्र पिंशौष सम् ओष दह प्र दह । ब्रह्मज्यं देव्य् अघ्न्य आ मूलाद् अनु संदह
यत् ते शीर्षणि दौर्भाग्यं सक्तं केशेषु निहितं ललाटे । अयं तद् विश्वभेषजो अपामार्गो ऽप लुम्पतु
यत् ते भ्रुवोर् दौर्भाग्यं कर्णयोर् अक्ष्णोर् हितम् । (…)
(यत्) ते मुखे नासिकायां दौर्भाग्यं वाच्य् ओष्ठयोः । (…)
यत् ते दत्सु दौर्भाग्यं जिह्वायां छुबुके हितम् । (…)
(यत्) ते मनसि संकल्पे दौर्भाग्यं प्राण आहितम् । (…)
यत् ते हन्वोर् दौर्भाग्यं कण्ठे क्लोमसु विष्ठितम् । (…)
यत् ते स्कन्धेषु ग्रीवासु दौर्भाग्यं कीकसास्व् अनूक्ये । (…)
यत् ते दोष्णोर् दौर्भाग्यम् अंसयोर् उपपक्षयोः । (…)
यत् ते बाह्वोर् दौर्भाग्यम् अरत्न्योः कल्कुषीर् अनु । (…)
यत् ते हस्तयोर् दौर्भाग्यं पाण्योर् अङ्गुलीर् अनु । (…)
यत् ते पृष्टिषु दौर्भाग्यं जघने स्फिजोर् हितम् । (…)
यत् त उरसि दौर्भाग्यं पार्श्वयो स्तनयोर् हितम् । (…)
यत् ते हृदये दौर्भाग्यं नाभ्यां वक्षणा अनु । (…)
यत् ते प्लीह्नि दौर्भाग्यं यद् वा यकनि वृक्कयोः । (…)
यत् ते गुदास्व् आन्त्रेषु दौर्भाग्यम् उदरे हितम् । (…)
यत् ते वस्तौ दौर्भाग्यं वनिष्ठौ प्लाशाव् आहितम् । (…)
यत् ते भंससि दौर्भाग्यं यद् वा याशुषु मुष्कयोः । (…)
यत् ते श्रोण्योर् दौर्भाग्यम् अवचालूशयोर् हितम् । (…)
यत् ते भसदि दौर्भाग्यम् ऊर्वोर् जानुनोर् हितम् । (…)
यत् ते जङ्घयोर् दौर्भाग्यं स्थूरयोः पार्ष्ण्योर् हितम् । (…)
यत् ते गुल्फयोर् दौर्भाग्यं पादयोर् अङ्गुलीर् अनु । (…)
(यत्) ते परुषु दौर्भाग्यं मांसे अस्थिषु मज्जसु । (…)
यत् ते किं च दौर्भाग्यम् अङ्गेअङ्गे प्रतिष्ठितं यद् वा लोमसु विष्ठितम् । (…)
यत् ते अक्षेषु दौर्भाग्यं प्रहायाम् अधिदेवने । (…)
यत् ते पशुषु दौर्भाग्यं कृष्याम् अशनेर् हितम् । (…)
या ते लक्ष्मीर् ब्रूणहत्या- -अथो या ते अपुत्रता । (…)
यत् ते दिष्टं पितृषद्यम् अथो या ते अपचिता । (…)
या ते का च पापी लक्ष्मीर् अथो या ते अपशुता । अयं तद् विश्वभेषजो अपामार्गो ऽप लुम्पतु
कण्ठदघ्नाम् अहिमार्त्तिनृणां देवेभ्यः किल्बिषं यद् बभूव । इमास् तद् आपः प्र वहन्तु रिप्रं पुनातु मा शतधारं पवित्रम्
स्नाहि रिप्रं शमलं च सर्वं कृष्णे चेले सादयित्वा पापम् । हित्वावर्तिं निरृतिं मृत्युपाशान् सूर्यं ज्योतिर् अभ्य् एह्य् अग्निम्
उद्यन्तो अस्मान् महतः समुद्रान् मुच्यमानो अंहसः पाप्मनश् च । पुनर् मनः पुनर् आयुर् न आगन् मा मा दभन् पणयो यातुधानाः
अव रिप्रम् अनिक्ष्मह्य् अशस्तिम् अध्य् आत्मनः । वर्च आ धीयतां मयि तेज आ धीयतां मयि । प्राणापानौ मा मा हासिष्टं सर्वम् आयुर् अशीय
अनुवाक २१ ॥ ब्रह्म जज्ञानम् इत्य् एका ॥ ब्रह्म भ्राजद् उद् अगाद् अन्तरिक्षं दिवं च ब्रह्मावाधूष्टामृतेन मृत्युम् । ब्रह्मोपद्रष्टा सुकृतस्य साक्षाद् ब्रह्मास्मद् अप हन्तु शमलं तमश् च
प्रतीचीर् आयता स्तर वितताः पश्यामहै । समुद्रे अप्सु या हिता- -असुराणाम् अयस्मयी
हरिः सुपर्णो दिवम् आरुहो ऽर्चिषा ये त्वा दिप्सन्ति दिवम् उत्पतन्तम् । अव तां जहि हरसा जातवेदो ऽबिभ्यद् उग्रो ह्य् अर्चिषा दिवम् आ रोह सूर्य
अयोजाला असुरा मायिनो ऽयस्मयैः पाशैर् अङ्किनो ये चरन्ति । तांस् ते रन्धयामि हरसे जातवेदः सहस्रभृष्टिः सपत्नान् प्रमृणन् याहि वज्रः
देवानाम् अधिपा एति घर्म ऋतेन भ्राजन्न् अमृतं विचष्टे । हिरण्यवर्णो नभसो देव सूर्य घर्मो भ्राजन् दिवो अन्तान् पर्य् एषि विद्युता
विद्योतन्ते विद्युतो अग्निजिह्वा हिरण्यवर्णा अमृता अप्स्व् अन्तः समुद्रे । रुद्रस्य क्षिप्नो स्तनयित्नोर् विद्युत् तस्य वैश्वानारस्य हेतिः परि णो वृणक्तु
विद्युता भ्राजन् हृदयं यात्य् अग्निर् व्याघ्रा अप्सुषदो यत्र भीमाः । विष्णोः क्रमै स्तनयन्न् एति रुद्रो नुदं छत्रून् वि मृधो बाधमानो ऽसपत्नाः प्रदिशो मे कृणोतु
अपो वसानः समैत्य् अन्तरिक्षं दिवं च समिद्धो अग्निर् दिव्यस् तपोधाः । वैश्वानरः शमया शीतरूरे अपां सुपर्णो दिव एति पृष्ठे
वैश्वानरः समुद्रं पर्य् एति शुक्रो घर्मो भ्राजन् तेजसा रोचमाणः । नुदं छत्रून् प्रदहन् मे सपत्नान् आदित्यो द्याम् अध्यरुक्षद् विपश्चित्
वैश्वानरः सं तपत्य् अन्तरिक्षं दिवं च समिद्धो अग्निर् दिव्यस् तपोजाः । शिक्षन्त्व् अस्मा अभि सुन्वन्ति सोम ऋतेन भ्राजन्न् अमृतं वस्ते अत्की
रारह्येते नेलयतः शीतरूरे तन्वाव् अस्य भीमे । रूपाण्य् एति बहुधा वसानो गुहा कृण्वानस् तन्वः पराचीः
पञ्चारे चक्रे परिवर्तमाने समारोहन्ति भुवनानि विश्वा । तस्य नाक्षस् तप्यते भूरिभारः सनाद् एव न छिद्यते सनाभिः
पञ्चभिस् तप्तस् तपत्य् एष एतत् सहस्रधामानम् अनु तिष्ठन्त्य् एनम् । सप्त त्वा सूर्य हरितो वहन्ति ब्रह्मणादित्यस् त्रिवृता मुखेन
वि द्योतते द्योतत आ च द्योतते अप्स्व् अन्तर् अमृतो घर्म उद्यन् । हन्ता वृत्रस्य हरिताम् अनीकम् अनाधृष्टास् तन्वः सूर्यस्य
घर्मः पश्चाद् उत घर्मः पुरस्ताद् अयोदंष्ट्राय द्विषतो ऽपि दध्मः । वैश्वानरः शीतरूरे वसानः सपत्नान् मे द्विषतो हन्तु सर्वान्
ऋतून् ऋतुभिः श्रपयति ब्रह्मणैकवीरो घर्मः शुचानः समिधा समिद्धः । ब्रह्मा त्वा तपति ब्रह्मणा तेजसा च
ब्रह्म जज्ञानं प्रथमं समा ददे तज् जायमानं न बिभिदे न भिद्यते । तद् अङ्गमानं पितरं व्याहति तस्य नाड्य आतता विततास् तता उ ताः
असयज्जान सत आ जभार य ईं जजान स इद् अस्य भर्ता । प्रजापतिः प्रजाभिः संविदानस् त्रीणि ज्योतींषि दधते न पाकः
प्रजापतिश् चरति गर्भे अन्तः स जायमानो बहुधा प्र जायते । तस्य पदम् अभि पश्यन्ति वेधसस् तस्मिन्न् आर्पिता भुवनानि विश्वा
यस्मिन् देवाः पितरो मनुष्या अरा नाभाव् इव श्रिताः । अपां त्वा पुष्पं पृच्छामि यत्र तन् माययाहितम्
यत्रापां पुष्पं निहितं माययातिहितं गुहा । यो वै तद् विद्यात् प्रत्यक्षं स विद्याद् ब्राह्मणं महत्
मणिस् त्रिषूत्रो निहितः स्वर्विद् ऊर्ध्वस् तिर्यङ् विश एतु प्रजानन् । स पुमान् पुंसो जनयन्न् ऋतेन सर्वान् अन्तान् गच्छतु सद्य एव
सर्वां रात्रीं सम् ओषत्व् आदित्यो जातवेदसा । अग्नेर् अधि दिवम् आ रोहन्न् आयुषा सम् अनक्तु मा वर्चसा सं सृजाति मा
घर्मः साहस्रः समिधा समिद्धो ऽसपत्नाः प्रदिशो मे कृणोतु । सपत्नान् सर्वान् मे सूर्यो हन्तु वैश्वानरो हरिः
घर्मस् तप्तः प्र दहतु भ्रातृव्यान् द्विषतो मम । आ दत्तां छत्रून् आदित्य उद्यन् सूर्यः पृतन्यतः
वैश्वानरः प्र दहतु भ्रातृव्यान् द्विषतो वृषा । उद्यन् मे शुक्र आदित्यो वि मृधो हन्तु सूर्यः
शुक्रं सुपर्णं हरि ब्रह्म भ्राजद् अजस्रं ज्योतिर् दिवम् आ ततान । हरिः सुपर्णः प्रमथिष्णुर् आशुः सपत्नान् हन्तु महाता वधेन
हरिः सुपर्णः सुदिनो ऽभयंकरो हिरण्यवर्णो दुरुदाप आशुः । सपत्नान् सर्वान् मे सूर्य आदित्यो हन्तु रश्मिभिः
महान्तम् अर्थं परि सद्य एत्व् अहोरात्रे विदधच् छुक्र उद्यन् । सपत्नान् सर्वान् मे सूर्य एतु वैश्वानरो दहन्
उद्यन्न् अद्य मित्रमह इत्य् एका
तेजस् तपांसि मुखतो बिभर्ष्य् आनन्दं भूतिं महसः प्रतिष्ठाम् । पर्यूहमाणः श्रियम् एषि सर्वतो अमोघं सत्यं यश उद्यतं ते
ब्रह्मचारीष्णंश् चरति रोदसी उभे यस्मिन् देवाः संमनसो भवन्ति । स दाधार पृथिवीं द्याम् उतामूं स आचार्यं तपसा पिपर्तु
आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भम् अन्तः । तं रात्रीस् तिस्र उदरे बिभर्ति तं जातं द्रष्टुम् अभिसंयन्ति देवाः । ब्रह्मचारिणं पितरो मनुष्या देवजना गन्धर्वा एनम् अनु यन्ति सर्वे
त्रयस्त्रिंशतं त्रिशतान् षट् सहस्रान् सर्वान् स देवांस् तपसा पिपर्ति । इयं समित् पृथिवी द्यौर् द्वितीया- -उतान्तरिक्षं समिधा पृणाति । ब्रह्मचारी समिधा मेखलावी श्रमेण लोकांस् तपसा पिपर्ति
पूर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मं वसानस् तपसो ऽधि तिष्ठत् । तस्माज् जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश् च सर्वे अमृतेन साकम्
ब्रह्मचारी समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः । स सद्य एति पूर्वाद् अपरं समुद्रं लोकान् संरभ्य मुहुर् आचरिक्रत्
ब्रह्मचारी जनयन् ब्रह्म- -अपो लोकं प्रजापतिं परमेष्ठिणं विराजम् । गर्भो भूत्वामृतस्य योनाव् इन्द्रो भूत्वासुरांस् ततर्ह
इमां भूमीं पृथिवीं ब्रह्मचारी भिक्षां जभार प्रथमो दिवं च । ते ब्रह्म कृत्वा समिधा उपासते तयोर् आर्पिता भुवनानि विश्वा
आचार्यस् ततक्ष नभसी उभे उर्वी गम्भीरे पृथिवीं दिवं च । ते ब्रह्मचारी तपसाभि रक्षति तयोर् देवाः सधमादं मदन्ति
अर्वाग् अन्यः परो अन्यो गुहा निधी निहितौ ब्राह्मणस्य । तौ ब्रह्मचारी तपसाभि रक्षति तत् केवलं कृणुते ब्रह्म विद्वान्
अर्वाग् अन्यो दिवस् पृष्ठाद् इतो ऽन्यः पृथिव्या अग्नी समेतो नभसी अन्तरेमे । तयोः श्रयन्ते रश्मयो ऽधि दृढास् तान् आ तिष्ठति तपसा ब्रह्मचारी
अभिक्रन्दन्न् अरुणः शितिङ्गो बृहच्छेपो ऽनु भूमौ जभार । ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश् चतस्रः
पर्जन्यो मृत्युर् वरुणः सोम ओषधयः पयः । जीमूता आसन् सत्वानस् तैर् इदं स्वर् आभरन्
अग्नौ सूर्ये चन्द्रमसि मातरिश्वनि ब्रह्मचार्य् अप्सु समिधम् आ दधाति । तेषाम् अर्चींषि पृथग् अभ्रे चरन्ति तेषाम् आज्यं पुरुषो वर्षम् अश्वः
अमा घृतं कृणुते केवलम् आचार्यो भूत्वा वरुणो यद्यद् ऐच्छत् प्रजापतौ । तद् ब्रह्मचारी प्रायच्छत् स्वान् मित्रो अध्य् आत्मनः
आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापतिः । प्रजापतिर् वि राजति विराड् इन्द्रो ऽभवद् वशी
ब्रह्मचर्येण तपसा राजा राष्ट्रं वि रक्षते । आचार्यो ब्रह्मचर्येण ब्रह्मचारिणम् इच्छते
ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् । अनड्वान् ब्रह्मचर्येण- -अश्वो घासं जिगीर्षति
ब्रह्मचर्येण तपसा देवा मृत्युम् अपाजयन् । इन्द्रो ह ब्रह्मचर्येण- -अमृतं स्वर् आभरत्
ओषधयो भूता भव्यम् अहोरात्रे वनस्पतयः । संवत्सरः सहर्तुभिस् ते जाता ब्रह्मचारिणः
पार्थिवा दिव्याः पशव आरण्या ग्राम्या च ये । अपक्षाः पक्षिणश् च ये ते जाता ब्रह्मचारिणः
पृथक् सर्वे प्रजापत्याः प्राणाꣳ आत्मसु बिभ्रति । सर्वांस् तान् ब्रह्म रक्षति ब्रह्मचारिण्य् आभृतम्
ब्रह्मचारी ब्रह्म भ्राजद् बिभर्ति तस्मिन् देवा अधि विश्वे समेताः । स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते
देवानाम् एतत् परिषूतम् अनभ्यारूढं चरति रोचमानम् । तस्मिन् सर्वे पशवस् तत्र यज्ञास् तस्मिन्न् अन्नं सह देवताभिः
प्राणापानौ जनयन्न् आद् व्यानं चक्षुः श्रोत्रं जनयन् ब्रह्म मेधाम् । वाचं श्रेष्ठां यशो अस्मासु धेह्य्
अन्नं रेतो लोहितम् उदरं तानि कल्पन् । ब्रह्मचारी सलिलस्य पृष्ठे तपो ऽतिष्ठत् तप्यमानः समुद्रे
Using this in academic work? Get formal citation
Tradição Védica (Ṛṣis) (2026). Atharvaveda Paippalāda — Kāṇḍa 16. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-16
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 16." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-16.
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 16." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-16.