Atharvaveda Paippalāda — Kāṇḍa 18
Tradição Védica (Ṛṣis)
काण्ड १८ सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः । ऋतेनादित्यास् तिष्ठन्ति दिवि सोमो अधि श्रितः
सोमेनादित्या बलिनः सोमेन पृथिवी मही । अतो नक्षत्रणाम् एषाम् उपस्थे सोम आहितः
सोमं मन्यते पपिवान् यत् संपिंषन्त्य् ओषधिम् । सोमं यं ब्रःमानो विदुर् न तस्याश्नाति पार्थिवः
आच्छद्विधानैर् गुपितो बार्हतैः सोम रक्षितः । ग्राव्णाम् इच् छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः
चित्तिर् वावोपबर्हणं चक्षुर् आवद् अभ्यञ्जनम् । द्यौर् भूमिः कोश आसीद् यद् अयात् सूर्या पतिम्
रैभ्य् आसीद् अनुदेयी नाराशंसी न्योचनम् । सूर्याया भद्रम् इद् वासो गाथयैति परिष्कृता
स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः । सूर्याया अश्विना वरा- -अग्निर् आसीत् पुरोगवः
सोमो वधूयुर् अभवद् अश्विनास्ताम् उभा वरा । सूर्यां यत् पत्ये शंसन्तीं मनसा सविताददात्
मनो अस्या अन आसीद् द्यौर् आसीद् उत छदिः । शुक्राव् अनड्वाहाव् आस्तां यद् अयात् सूर्या पतिम्
ऋक्सामाभ्याम् अभिहितौ गावौ ते सामनाव् ऐताम् । श्रोत्रे ते चक्रे आस्तां दिवि पन्थाश् चराचरः
शुची ते चक्रे यात्या व्यानो अक्ष आहतः । अनो मनस्मयं सूर्या- -आरोहत् प्रयती पतिम्
सूर्याया वहतुः प्रागात् सविता यम् अवासृजत् । अघासु हन्यन्ते गावः फल्गुनीषु व्य् उह्यते
यद् अश्विना पृच्छमानाव् अयातं त्रिचक्रेण वहतुं सूर्यायाः । क्वैकं चक्रं वाम् आसीत् क्व देष्ट्राय तस्थथुः
यद् अयातं शुभस्पती वरेयं सूर्याम् उप । विश्वे देवा अनु तद् वाम् अजानन् पुत्रः पितराव् अवृनीत पूषा
द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः । अथैकं चक्रं यद् गुहा तद् अद्धातय इद् विदुः
प्र त्वा मुञ्चामि वरुणस्य पाशाद् येन त्वाबध्नात् सविता सुशेवाः । ऋतस्य योनौ सुकृतस्य लोके स्योनं ते अस्तु सहपत्न्यै वधु
अर्यमणं यजामहे सुबन्धुं पतिवेदनम् । उर्वारुकम् इव बन्धनाद् इतो मुञ्चन्तु मामुतः
प्रेतो मुञ्चन्तु मामुतः सुबद्धाम् अमुतस् करत् । यथेयम् इन्द्र मीढ्वः सुपुत्रा सुभगासति
भगस् त्वेतो नयतु हस्तगृह्य- -अश्विना त्वा प्र वहतां रथेन । गृहान् गच्छ गृहपत्नी यथासो वशिनी त्वं विदथम् आ वदासि
इह प्रियं प्रजायै ते सम् ऋध्यताम् अस्मिन् गृहे गार्हपत्याय जागृहि । एना पत्या तन्वं सं स्पृशस्व- -अथ जिर्विर् विदथम् आ वदासि
इहैव स्तं मा वि यौष्टं दीर्घम् आयुर् व्य् अश्नुतम् । क्रीडन्तौ पुत्रैर् नप्तृभिर् मोदमानौ स्वे गृहे
पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातो अध्वरम् । विश्वान्य् अन्यो भुवना विचष्ट ऋतूंर् अन्यो विदधज् जायते नवः
नवोनवो भवति जायमानो ऽह्नां केतुर् उषसाम् एत्य् अग्रम् । भागं देवेभ्यो वि दधात्य् आयन् प्र चन्द्रमास् तिरते दीर्घम् आयुः
परा देहि शामूल्यं ब्रह्मभ्यो वि भजा वसु । कृत्यैषा पद्वती भूत्वा- -आ जाया विशते पतिम्
नीललोहितं भवति कृत्यासक्तिर् व्य् अज्यते । एधन्ते अस्या ज्ञातयः पतिर् बन्धेषु बध्यते
अश्लीला तनूर् भवति रुशती पापयामुया । पतिर् यद् वध्वो वाससः स्वम् अङ्गम् अभ्यूर्णुते
आशसनं विशसनम् अथो अधिविकर्तनम् । सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति
तृष्टम् एतत् कटुकम् अपाष्ठवद् विषवन् नैतद् अत्तवे । सूर्यां यो ब्रह्मा वेद स इद् वाधूयम् अर्हति
स वै तत् स्योनं हरति ब्रह्मा वासः सुमङ्गलम् । प्रायश्चित्तिं यो अध्येति येन जाया न रिष्यति
युवं भगं सं भरथः समृद्धम् ऋतं वदन्ताम् ऋतोद्येन । ब्रह्मणस्पते पतिम् अस्यै रोचयामुं चारु सम्भलो वदतु वाचम् एताम्
इहेद् असाथ न परो गमाथ- -इमं गावः प्रजया वर्धयाथ । शुभं यतीर् उस्रियाः सोमवर्चसो विश्वे देवाः क्रन्न् इह वो मनांसि
इमं गावः प्रजया सं विशध्वम् अयं देवानां न मिनाति भागम् । अस्मै वः पूषा मरुतश् च सर्वे अस्मै वो धाता सविता सुवाति
अनृक्षरा ऋजवः सन्तु पन्थानो येभिः सखायो यन्ति नो वरेयम् । सं भगेन सम् अर्यम्णा सं धाता सृजतु वर्चसा नः
येन महानग्न्या जघनम् अश्विना येन वा सूरा । येनाक्षा अभ्यषिच्यन्त तेनेमां वर्चसावतम्
यद् वर्चो अक्षेषु सूरायां च यद् आहितम् । यद् गोष्व् अश्विना वर्चस् तेनेमां वर्चसावतम्
यो अनिध्मो दीदायाप्स्व् अन्तर् यं विप्रास ईडते अध्वरेषु । अपान् नपान् मधुमतीर् अपो दा याभिर् इन्द्रो वावृधे वीर्यावान्
इदम् अहं रुशन्तं ग्राभं तानूदूषिम् अप नुदामि । यः शिचो भद्रो रोचानस् तम् उद् अचामि
अस्यै हरन्तु स्तपनं ब्राह्मणा अवीरघ्नीर् उद् अचन्त्व् आपः । अर्यम्णो अग्निं पर्य् एतु क्षिप्रं प्रतीक्षन्ते श्वशुरो देवरश् च
शं ते हिरण्यं शम् उ सन्त्व् आपः शं मेथिर् भवतु शं युगस्य तर्द्म । शं त आपः शतपवित्रा भवन्तु शं पत्या तन्वं सं स्पृशस्व
यथा सिन्धुर् नदीनां साम्राज्यं सुषुवे वृषा । एवा त्वं सम्राज्ञ्य् एधि पत्युर् अस्तं परेत्य
सम्राज्ञ्य् एधि श्वशुरेषु सम्राज्ञ्य् उत श्वश्रुवाम् । ननान्दुः सम्राज्ञ्य् एधि सम्राज्ञ्य् उत देवृषु
या अकृन्तन्न् अवयन् याश् च तत्निरे या देवीर् अन्ताꣳ अभितो ऽददन्त । तास् त्वा जरसे सं व्ययन्त्व् आयुष्मतीदं परि धत्स्व वासः
जीवं रुदन्ति वि नयन्त्य् अध्वरं दीर्घाम् अनु प्रसितिं दीधियुर् नरः । वामं पितृभ्यो य इदं समीरिरे मयः पतिभ्यो जनये परिष्वजे
ध्रुवं स्योनं प्रजायै ते धारयाम्य् अश्मानं देव्याः पृथिव्या उपस्थे । तम् आ रोहानुमाद्या सुवीरा दीर्घं त आयुः सविता कृणोतु
देवस् ते सविता हस्तं गृह्णातु सोमो राजा सुप्रजसं कृणोतु । अग्निः सुभगां जातवेदाः पत्या पत्नीं जरदष्टिं कृणोतु
गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर् यथासः । भगो अर्यमा सविता पुरन्धिर् मह्यं त्वादुर् गार्हपत्याय देवाः
येनाग्निर् अस्या भूम्या हस्तं जग्राह दक्षिणम् । तेन गृह्णामि ते हस्तं मा व्यथिष्ठा मया सह
धाता ते हस्तम् अग्रहीत् सविता हस्तम् अग्रहीत् । भगस् ते हस्तम् अग्रहीद् अर्यमा हस्तम् अग्रहीत् । पत्नी त्वम् असि धर्मणा- -अहं गृहपतिस् तव
ममेयम् अस्तु पोष्या मह्यं त्वादाद् बृहस्पतिः । मया पत्या प्रजावती सं जीव शरदः शतम्
त्वष्टा वासो व्य् अदधाच् छुभे कं बृहस्पतेः प्रशिषा कवीनाम् । तेनेमां नारीं सविता भगश् च सूर्याम् इव परि धत्तां प्रजायै
गृहास् त्वा प्रोर्णुवन्तु वर्चसा भगेन ज्योतिष्मद् इदं प्रति मुञ्चस्व वपुः । उषा इव सूर्यस्य संदृशि
इन्द्राग्नी द्यावापृथिवी ह पूषा मित्रावरुणा भगो अश्विनोभा । बृहस्पतिर् मरुतो ब्रह्म सोम इमां नारीं प्रजया वर्धयन्तु
बृहस्पतिः प्रथमः सूर्यायाः शीर्षे केषाꣳ अकल्पयत् । तेनेमाम् अश्विना नारीं पत्या सं शोभयामसि
इदं तद् रूपं यद् अवस्त योषा जायां जिज्ञासे मनसा चरन्तीम् । ताम् अन्व् अर्तिष्ये सखिभिर् नवग्वैः क इमं विद्वान् वि चचर्त पाशम्
अहं वि ष्यामि मयि रूपम् अस्या वेदद् इत् पश्यन् मनसः कुलायम् । न स्तेयम् अद्मि मनसोद् अमुच्ये स्वयं श्रथ्नानो वरुणस्य पाशम्
इमं वि ष्यामि वरुणस्य पाशं येन त्वाबध्नात् सविता सुशेवः । उरुं लोकं सुगम् अत्र पन्थां कृणोमि तुभ्यं सहपत्न्यै वधु
उद् यच्छध्वम् अप रक्षो हनाथ- -इमां नारीं सुकृते दधात । धाता विपश्चित् पतिम् अस्यै विवेद भगो राजा पुर एतु प्रजानन्
भगस् ततक्ष चतुरः पदो भगस् ततक्ष चत्वार्य् उष्पलानि । त्वष्टा पिपेश मध्यतो वर्ध्रान् सा नो अस्तु सुमङ्गली
एनाज्येन हविषा प्रजायै च वरेण्यम् । पशुभ्यश् चक्षुषे च कं सम् अग्निं सम् इधीमहि
सुकिंशुकं वहतुं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् । आ रोह सूर्ये अमृतस्य लोकं स्योनं पतिभ्यो वहतुं कृणु त्वम्
मा हिंसिष्टां कुमार्यं स्थूने देवकृते पथि । शालाया देव्या द्वारं स्योनं कृण्मो वधूपथम्
ब्रह्मापरं युज्यतां ब्रह्म पूर्वं ब्रह्मान्ततो मध्यतो ब्रह्म सर्वतः । अनाव्याधां देवपुरां प्रपद्य शिवा स्योना पतिलोके वि राज
अनुवाक १ ॥ तुभ्यम् अग्रे पर्य् अवहन् सूर्यां वहतुना सह । पुनः पतिभ्यो जायां दा अग्ने प्रजया सह
पुनः पत्नीम् अग्निर् अदाद् आयुषा सह वर्चसा । दीर्घायुर् अस्या यः पतिर् जीवाति शरदः शतम्
सोमस्य जाया प्रथमं गन्धर्वस् ते ऽपरः पतिः । तृतीयो अग्निष् टे पतिस् तुरीयस् ते मनुष्यजाः
सोमो ददद् गन्धर्वाय गन्धर्वो ददद् अग्नये । रयिं च पुत्रांश् चादाद् अग्निर् मह्यम् अथो इमाम्
आ वाम् अगन् सुमतिर् वाजिनीवसू न्य् अश्विना हृत्सु कामा अरंसत । अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्याꣳ अशीमहि
सा मन्दसाना मनसा शिवेन रयिं धेहि सर्ववीरं वचस्यम् । सुगं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथिष्ठाम् अप दुर्मतिं हतम्
अप रक्षांस्य् अप दुर्मतिं हतं शुभस्पती वहतोर् यातो अस्मात् । पुरोगवो जयन् रक्षांस्य् अग्ने क्षेत्रवित् पूर्वो वि मृधो नुदस्व
या ओषधयो या नद्यो यानि क्षेत्राणि या वना । ते त्वा वधु प्रजावतीं पत्ये रक्षन्तु रक्षसः
एमं पन्थाम् अगन्म सुगं स्वस्तिवाहनम् । यत्र वीरो न रिष्यत्य् अन्येषां विन्दते वसु
इदं सु मे नरः शृणुत ययाशिषा दम्पती वामम् अश्नुतः । ये गन्धर्वा अप्सरसश् च देवीर् एषु वानस्पत्येष्व् अद्याधि तस्थुः । स्योनास् ते अस्यै वध्वै भवन्तु मा हिंसिषुर् वहतुम् उह्यमानम्
ये वध्वश् चन्द्रं वहतुं यक्ष्मा यन्ति जनाꣳ अनु । पुनस् तान् यज्ञिया देवा नयन्तु यत आगताः
मा विदन् पर्यायिणो य आसीदन्ति दम्पती । सुगेन दुर्गम् अतीताम् अप द्रान्त्व् अरातयः
सं काशयामि वहतुं ब्रह्मणा गृहैर् अघोरेण चक्षुषा मित्र्येण । पर्याणद्धं विश्वरूपं यद् अस्मिन् स्योनं पतिभ्यः सविता कृणोतु तत्
शिवा नारीयम् अस्तम् आगन्न् इमं धाता लोकम् अस्यै विवेद । ताम् अर्यमा भगो अश्विनोभा प्रजापतिः प्रजया वर्धयन्तु
आत्मन्वत्य् उर्वरा नरीयम् आगन् तस्यां नरो वपत बीजम् अस्याम् । सा वः प्रजां जनयाद् वक्षणाभ्यो बिभ्रती दुध्रम् ऋषभस्य रेतः
प्रति तिष्ठ विराड् इव विष्णुर् इवेह सरस्वति । दूर्वेवेन्द्र प्र जायतां भगस्य सुमताव् असत्
उद् वाम् ऊर्मिः शम्ये हन्त्व् आपो योक्त्राणि मुञ्चन्तु । मादुष्कृतौ व्येनसा- -अघ्न्यौ शूनम् आरताम्
अघोरचक्षुर् अपतिघ्नी स्योना शग्मा सुशेवा सुयमा गृहेषु । प्रजावती वीरसूर् देवृकामा- -इमम् अग्निं गार्हपत्यं सर्पय
अदेवृघ्न्य् अपतिघ्नीहैधि स्योना पशुभ्यः सुमनाः सुवीरा । वीरसूर् देवृकामा स्योना सं त्वैधिषीमहि सुमनस्यमाना
उत् तिष्ठातः किम् इच्छन्तीदम् आगा अहं त्वेडे अभिभूः स्वाद् गृहात् । शून्यैशी निरृते याजगन्थ- -उत्तिष्ठाराते प्र पत माति रंस्थाः
यदा गार्हपत्यम् असपर्यैत् पूर्वम् अग्निं वधूर् इयम् । अधा सरस्वत्यै नारि पितृभ्यश् च नमस् कुरु
चर्म वर्मैतद् आ हर- -अस्यै नार्या उपस्तिरे । सिनीवालि प्र जायतां भगस्य सुमताव् असत्
उप स्तृणीहि बल्बजम् अधि चर्मणि रोहिते । तत्रोपविश्य सुप्रजा इमम् अग्निं सपर्यतु
यं बल्बजं न्यस्यथ चर्म चोपस्तृणीथन । तद् आ रोहतु सुप्रजा या कन्या विन्दते पतिम्
आ रोह चर्मोप सीदाग्निम् एष देवो हन्ति रक्षांसि सर्वा । सुमङ्गल्य् उप सीदेमम् अग्निं संपत्नी प्रति भूषेह देवान्
प्र जायन्तां मातुर् अस्या उपस्थान् नानारूपाः पशवो जायमानाः । इह प्रजां जनय पत्ये अस्मै सुज्यैष्ठ्यो भवतु ते पुत्र एषः
सुमङ्गली प्रतरणी गृहाणां सुशेव पत्ये श्वशुराय शम्भूः । स्योना श्वश्रुवै प्र गृहान् विशेमान् प्रजावती जरदष्टिर् यथासः
सुमङ्गलीर् इयं वधूर् इमां समेत पश्यत । सौभाग्यम् अस्यै दत्त्वा दौर्भाग्येन परेतन
या दुर्हार्दो युवतयो याश् चेह जरतीर् अपि । वर्चो ह्य् अस्यै सं दत्ता- -अथास्तं वि परेतन
रुक्मप्रस्तरणं वह्यं विश्वा रूपाणि बिभ्रतम् । आरोहत् सूर्या सावित्री बृहते सौभगाय कम्
आ रोह तल्पं सुमनस्यमाना- -इह प्रजां जनय पत्ये अस्मै । इन्द्राणीव सुबुधा बुध्यमाना ज्योतिरुग्रा उषसः प्रति जागरः
देवा अग्रे न्य् अपद्यन्त पत्नीं सम् अस्पृशन्त तन्वस् तनूभिः । सूर्येव नारि विश्वरूपा महित्वा प्रजावती पत्ये शं भवासि
उद् ईर्ष्वातः पतिवत्नी ह्य् एषा विश्वावसुं नमसा गीर्भिर् ईडे । जामिम् इच्छ पितृषदं न्यक्तां स ते भागो जनुषा तस्य विद्धि
या अप्सरसः सधमादं मदन्त्य् अन्तरा हविर्धानं सूर्यं च । तास् ते जनित्रम् अभि ताः परेहि नमस् ते गन्धर्व र्तुना कृणोमि
नमो घन्धर्वस्य मनसे नमो भामाय चक्षुषे च कृण्मः । विश्वावसो नमो ब्रह्मणा ते कृणोम्य् अभि जाया अप्सरसः परेहि
राया वयं सुमनसः स्याम- -उद् इतो गन्धर्वम् आवीवृताम । अगन् स देवः परमं सधस्थम् अगन्म वयं प्रतिरन्त आयुः
सं पितराव् ऋत्विये सृजेथां पिता माता च रेतसो भवाथः । मर्यो योषाम् अधि रोहयैतां प्रजां कृण्वाथाम् इह मोदमानौ
आ वां प्रजां जनयतु प्रजापतिर् अहोरात्राभ्यां सम् अनक्त्व् अर्यमा । अदुर्मङ्गली पतिलोकम् आ विशेमं शं नो भव द्विपदे शं चतुष्पदे
तां पूषञ् छिवतमाम् एरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊरू उशती विश्रयाति यस्याम् उशन्तः प्रहरेम शेपः
आ रोहोरुम् उप धत्स्व हस्तं परि ष्वजस्व जायां सुमनस्यमानः । प्रजां कृण्वाथाम् इह पुष्यतं रयिं दीर्घं वाम् आयुः सविता कृणोतु
यं नो ददुर् ब्रह्मभागं वधूयोर् वासो वध्वश् च वस्त्रम् । युवं ब्रह्मणे ऽनुमन्यमानौ बृहस्पते साकम् इन्द्रश् च दत्तम्
देवैर् दत्तं वनुना साकम् एतद् वाधूयं वध्वो वासो अस्याः । यो ब्रह्मणे चिकितुषे ददाति स इद् रक्षांसि तल्प्यानि हन्ति
स्योनाद् योनेर् अधि बुध्यमानौ हसामुदौ महसा मोदमानौ । सुगू सुपुत्रौ सुगृहौ तराथो जीवा उषसो विभातीः
नवं वसानः सुरभिः सुवासा उदागां जीव उषसो विभातीः । आण्डात् पतत्रीवामुक्षि विश्वस्माद् एनसस् परि
शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते । आपः सप्त स्रवन्तीस् ता नो मुञ्चन्त्व् अंहसः
सूर्यायै देवेभ्यो मित्राय वरुणाय च । ये भूतस्य प्रचेतसस् तेभ्यो ऽहम् अकरं नमः
य ऋते चिद् अभिश्रिषः पुरा जत्रुभ्य आतृदः । संधाता संधिं मघवा पुरूवसुर् निष्कर्ता विहृतं पुनः
अपास्मत् तम उच्छतु नीलं पिशङ्गम् उत लोहितं यत् । निर्दहनीं पृषातकीम् अस्मिन् तां स्थाणाव् अध्य् आ सृजामि
यावतीः कृत्या उपवासने यावन्तो राज्ञो वरुणस्य पाशाः । व्यृद्धयो या असमृद्धयश् च- -अस्मिन् ता स्थाणौ प्रति मुञ्चामि सर्वाः
ये अन्ता यावतीः सिच ओतवो ये च तन्तवः । वासो यत् पत्नीभिर् उतं तन् मा स्योनम् उप स्पृषात्
उशतीः कन्यला इमाः पितृलोकात् पतिं यतीः । अव दीक्षाम् असृक्षत स्वाहा
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । वर्चो गोषु प्रविष्टं यत् तेनेमां सं सृजामसि
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । तेजो गोषु प्रविष्टं यत् तेनेमां सं सृजामसि
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । पयो गोषु प्रविष्टं यत् तेनेमां सं सृजामसि
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । यशो गोषु प्रविष्टं यत् तेनेमां सं सृजामसि
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । भगो गोषु प्रविष्टं यत् तेनेमां सं सृजामसि
यद् असौ दुहिता तव विकेश्य् अरुदद् बहु रोदेन कृण्वत्य् अघम् । अग्निष् ट्वा तस्माद् एनसः सविता च प्र मुञ्चताम्
यद् अमी केशिनो जना गृहे ते समनर्तिषू रोदेन कृण्वन्तो ऽघम् । (…)
यज् जामयो यद् युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीर् अघम् । (…)
यद् इमौ दम्पती उभौ विवाहे अघम् आरतू रोदेन कृण्वन्ताव् अघम् । (…)
यत् ते प्रजायां पशुषु यद् वा गृहेषु निष्ठितम् अघकृद्भिर् अघं कृतम् । अग्निष् ट्वा तस्माद् एनसः सविता च प्र मुञ्चताम्
इयं नार्य् उप ब्रूते पूल्पान्य् आवपन्तिका । दीर्घायुर् अस्तु मे पतिर् एधन्तां पितरो मम
इहेमाव् इन्द्र सं नुद चक्रवाकेव दम्पती । प्रजावन्तौ स्वस्तकौ दीर्घम् आयुर् व्य् अश्नुताम्
यद् आसन्द्याम् उपधाने यद् वोपवासने कृतम् । विवाहे कृत्यां यां चक्रुर् आस्नाने तां नि दध्मसि
यद् दुष्कृतं यच् छमलं विवाहे वहतौ च यत् । तत् संभलस्य कम्बले मृज्महे दुरितं वयम्
संभले मलं सादयित्वा कम्बले दुरितं वयम् । अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषन्
या मे प्रियतमा तनूः सा मे बिभाय वाससः । तस्याग्रे त्वं वनस्पते नीविं कृणुष्व मा वयं रिशाम
कृत्रिमः कङ्कतः शतदन् य एषः । अपास्याः केश्यं मलम् अप शीर्षण्यं लिखात्
अङ्गादङ्गाद् यूयम् अस्या अप यक्ष्मं नि धत्तन । तन् मा प्रापत् पृथिवीं मोत देवान् दिवं मा प्रापन् मोर्व् अन्तरिक्षम् । अपो मा प्रापन् मलम् एतद् अग्ने यमं मा प्रापत् पितॄंश् च सर्वान्
सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम् । सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजम् एमम्
अमो ऽहम् अस्मि सा त्वं द्यौर् अहं पृथिवी त्वम् । मनो ऽहम् अस्मि वाक् त्वं ताव् इह सं भवाव प्रजाम् आ जनयावहै
जनीयन्ति नो अग्रवः पुत्रीयन्ति सुदानवः । अरिष्टासः सचेमहि बृहते वाजसातये
ये पितरो वधूदर्शा इमं वहतुम् आगमन् । ते अस्यै वध्वै संपत्न्यै प्रजावच् छर्म यच्छन्तु
येदं पूर्वागन् रशनायमाना प्रजाम् अस्यै द्रविणं चेह दत्त्वा । तां वहन्त्व् अगतस्याभि पन्थां विराड् इयं सुप्रजा अत्य् अजैषीत्
प्र बुध्यस्व सुबुधा बुध्यमाना दीर्घायुत्वाय शतशारदाय । गृहान् प्रेहि सुमनस्यमाना दीर्घं त आयुः सविता कृणोतु
वि ते मुञ्चामि रशनां वि रश्मीन् वि योक्त्राणि परिचर्तनानि च । अरिष्टास्मिन् ज्योतिषि शिवा गृहपतौ भव
स्योना भव श्वशुरेभ्यः स्योना पत्ये गृहेभ्यः । स्योनास्यै सर्वस्यै विशे स्योना पुष्टायैषां भव
अनुवाक २ ॥ उदेहि वाजिन् यो ऽप्स्व् अन्तर् इदं राष्ट्रं प्र विश सूनृतावत् । यो रोहितो विश्वम् इदं जजान स त्वा राष्ट्राय सुभृतं पिपर्तु
उद् वाज आगन् यो ऽप्स्व् अन्तर् विश आ रोह त्वद्योनयो याः । सोमं दधानो ऽप ओषधीर् गाश् चतुष्पदो द्विपद आ वेशयेह
यूयम् उग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्रमृणीत शत्रून् । आ वो रोहितः शृणवत् सुदानवस् त्रिषप्ता मरुतः स्वादुसंमुदः
रुहो रुरोह रोहित आ रुरोह गर्भो जनीनां जनुषाम् उपस्थम् । ताभिः संरब्धो अन्व् अविन्दत् षड् उर्वीर् गातुं प्रपश्यन्न् इह राष्ट्रम् आहाः
आ ते राष्ट्रम् इह रोहितो ऽहार् मृधो व्य् आस्थद् अभयं ते अभूत् । तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहताम् इह शक्वरीभिः
रोहितो द्यावापृथिवी जजान तं तन्तुं परमेष्ठी ततान । तत्र शिश्रिये ऽज एकपाद् अदृंहद् द्यावापृथिवी बलेन
रोहितो द्यावापृथिवी अदृंहत् तेन स्व स्तभितं तेन नाकः । तेनान्तरिक्षं विमिता रजंसि तेन देवा अमृतम् अन्व् अविन्दन्
वि रोहितो अमृशद् विश्वरूपं समाकृण्वानः प्ररुहो रुहश् च । दिवं रूढ्वा महता महिम्ना सं ते राष्ट्रम् अनक्तु पयसा घृतेन
यास् ते रुहः प्ररुहो यास् त आरुहो याभिर् आपृणासि दिवम् अन्तरिक्षम् । तासां ब्रह्मणा पयसा वावृधानो विशि राष्ट्रे जागृहि रोहितस्य
यास् ते विशस् तपसः संबभूवुर् वत्सं गायत्रीम् अनु ता इहागुः । तास् त्वा विशन्तु मनसा शिवेन संमाता वत्सो अभ्य् एति रोहितः
ऊर्ध्वो रोहितो अधि नाके अस्थाद् विश्वा रूपाणि जनयन् युवा कविः । तिग्मेनाग्निर् ज्योतिषा वि भाति तृतीये चक्रे रजसि प्रियाणि
सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः सोमपृष्ठः सुवीरः । मा मा हासीन् नाथितो नेत् त्वा जहानि गोपोषं च मे वीरपोषं च धेहि
रोहितो यज्ञस्य जनिता मुखं च रोहिताय वाचा श्रोत्रेण मनसा जुहोमि । रोहितं देवा यन्ति सुमनस्यमानाः स मा रोहैः सामित्यै रोहयाति
रोहितो यज्ञं व्य् अदधाद् विश्वकर्मणे तस्मात् तेजांस्य् उप मेमान्य् आगुः । वोचयं ते नाभिं भुवनस्याधि मज्मनि
आ त्वा रुरोह बृहत्य् उत पङ्क्तिर् आ ककुद् वर्चसा विश्ववेदः । आ त्वा रुरोहोष्णिहाक्षरं वषट्कार आ त्वा रुरोह रोहितो रेतसा सह
अयं वस्ते गर्भं पृथिव्या दिवं वस्ते ऽयम् अन्तरिक्षम् । अयं ब्रध्नस्य विष्टपः स्वर् लोकान् सम् आनशे
वाचस्पते पृथिवी नः स्योना स्योना योनिस् तल्पा सुशेवा । इहैव प्राणः सक्ये नो अस्तु तं त्वा परमेष्ठिन् पर्य् अग्निर् वर्चसा दधातु
वाचस्पत ऋतवः पञ्च वैश्वकर्मणाः परि ये बभूवुः । (…) (…) परि रोहितो वर्चसा दधातु
वाचस्पते सौमनसं मनश् च गोष्ठे नो गा रमय योनिषु प्रजाम् । इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्य् अहं वर्चसा दधामि
परि त्वा धात् सविता देवो अग्निर् वर्चसा मित्रावरुणाव् अभि त्वा । सर्वा अरातीर् अपक्रामन्न् उदेहि- -इदं राष्ट्रं कृणुहि सूनृतावत्
यं त्वा पृषती रथे पृष्टिर् वहति रोहितः । शुभा यासि रिणन्न् अपः । तेनेमं ब्रह्मणस्पते रोहं रोहयोत्तमम्
अनुव्रता रोहिणी रोहितस्य सूरिः सुपर्णा बृहती सुवर्चाः । तया वाजान् विश्वरूपां जयेम तया विश्याः पृतना अभि ष्याम
इदं सदो रोहिणी रोहितस्य- -असौ पन्थाः पृषती येन याति । तां गन्धर्वाः कश्यपा उन् नयन्ति तां रक्षन्ति कवयो ऽप्रमादम्
सूर्यस्याश्वा हरयः केतुमन्तः सदा वहन्त्य् अमृताः सुखं रथम् । घृतपावा रोहितो भ्राजमानो दिवं देवः पृषतीम् आ विवेष
यो रोहितो वृषभस् तिग्मशृङ्गः पर्य् अग्निं परि सूर्यं बभूव । यो विष्टभ्नाति पृथिवीं दिवं च तस्माद् देवा अधि सृष्टीः सृजन्ते
रोहितो दिवम् आरुहन् महतस् पर्य् अर्णवात् । सर्वा रुरोह रोहितो रुहः
वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुर् अनपस्पृग् एषा । इन्द्रः सोमं पिबतु क्षेमो अस्त्व् अग्निः प्र स्तौतु वि मृधो नुदस्व
समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः । अभीषाड् विश्वाषाड् अग्निः सपत्नान् हन्तु ये मम
हन्त्व् एनान् प्र दहत्व् अग्निर् यो नः पृतन्यति । क्रव्यादाग्निना वयं सपत्नान् प्र दहामसि
अग्ने सपत्नम् अधरं पादयास्मद् व्यथया सजातम् उत्पिपानं बृहस्पते । इन्द्राग्नी मित्रावरुणाव् अधरे पद्यन्ताम् अप्रतिमन्यूयमानाः
अवाचीनान् अव जहि- -इन्द्र वज्रेण बाहुमान् । अधा सपत्नान् ममकान् अग्नेस् तेजोभिर् आ ददे
उद्यन् त्वं देव सूर्य सपत्नान् मे +ऽधरान् कृणु । अवैनान् अश्मना जहि ते यन्त्व् अधमं तमः
वत्सो विराजो वृषभो मतीनाम् आ रुरोह शुक्रपृष्ठो ऽन्तरिक्षम् । घृतेणार्कम् अभ्य् अर्चन्ति वत्सं ब्रह्म सन्तं ब्रह्मणा वर्धयन्तु
दिवं च रोह पृथिवीं च रोह राष्ट्रं च रोह द्रविणं च रोह । प्रजां च रोहामृतं च रोह रोहितेन तन्वं सं स्पृशस्व
ये देवा राष्ट्रभृतो ऽभितो यन्ति सूर्यम् । तेभिष् टे रोहितः संविदानो राष्ट्रं दधातु सुमनस्यमानः
उत् त्वा यज्ञा ब्रह्मपूता वहन्त्य् अध्वगतो हरयस् त्वा वहन्ति । तिरः समुद्रम् अति रोचसे ऽर्णवम्
रोहिते द्यावापृथिवी अधि श्रिते वसुजिति गोजिति संजिति संधनाजिति । सहस्रं यस्य द्रविणानि सप्त च वोचेयं ते नाभिं भुवनस्याधि मज्मनि
यशा यासि प्रदिशो दिशो ऽनु यशाः पशूनाम् उत चर्षणीनाम् । यशाः पृथिव्या अदित्या उपस्थे ऽहम् अस्मि सवितेव चारुः
अमुत्र सन्न् इह वेत्थ- -इह सन् तानि पश्यति । इतः पश्यन्ति रोचनं दिवि सूर्यं विपश्चितम्
देवो देवम् अर्चयत्य् अन्तश् चरत्य् अर्णवे । समानम् अग्निम् इन्धते तं विदुः कवयः परे
अवः परेण पर इत्य् एका ॥ एकपदी द्विपदी सा चतुष्पद्य् अष्टापदी नवपदी बभूवुषी । सहस्राक्षरा भुवनस्य पङ्क्तिस् त्यस्याः समुद्रा अधि वि क्षरन्ति
आरोहन् द्याम् अमृतः प्राव मे वच उत् त्वा यज्ञा ब्रह्मपूता वहन्ति । घृतं पिबन्तं हरयस् त्वा वहन्ति
वेद तत् ते अमर्त्ति यत् त आक्रमणं दिवि । यत् ते सधस्थं परमे व्योमन्
सूर्यो द्यां सूर्यः पृथिवीं सूर्य आपो ऽति पश्यति । सूर्यो भूतस्यैकं चक्षुर् आ रुरोह दिवं महीम्
उर्वीर् आसन् परिधयो वेदिर् भूमिर् अकल्पत । तत्रैताव् अग्नी आधत्त हिमं घ्रंसं च रोहितः
हिमं घ्रंसं चाधाय यूपान् कृत्वा पर्वतान् । वर्षाज्याव् अग्नी ईजाते रोहितस्य स्वर्विदः
स्वर्विदो रोहितस्य ब्रह्मणाग्निः समाहितः । तस्माद् घ्रंसस् तस्माद् धिमस् तस्माद् यज्ञो अजायत
ब्रह्मणाग्निः संइधानो ब्रह्मवृद्धो ब्रह्महुतः । ब्रह्मेद्धाव् अग्नी ईजाते रोहितस्य स्वर्विदः
अप्स्व् अन्यः समाहितः सत्ये अन्यः समाहितः । (…)
यं वातः परिशुम्भति यम् इन्द्रो ब्रह्मणस्पतिः । ब्रह्मेद्धाव् अग्नी ईजाते रोहितस्य स्वर्विदः
अनुवाक ३ ॥ वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम् । घ्रंसं तद् अग्निं कृत्वा चकार विश्वम् आत्मन्वद् वर्षेणाज्येन रोहितः
वर्षम् आज्यं घ्रंसो अग्निर् वेदिर् भूमिर् अकल्पत । तत्रैतान् पर्वताꣳ अग्निर् गीर्भिर् ऊर्ध्वाꣳ अकल्पयत्
गीर्भिर् ऊर्ध्वान् कल्पयित्वा रोहितो भूमिम् अब्रवीत् । त्वद् इदं सर्वं जायतां यद् भूतं यच् च भाव्यम्
स यज्ञः प्रथमो भूतो भव्यो अजायत । तस्माद् ध यज्ञ इदं सर्वं यत् किं चेदं विरोचते रोहितेन र्षिणाभृतम्
उद् अस्य केतवो दिवि शुक्रा भ्राजन्त ईरते । आदित्यस्य नृचक्षसो महिव्रतस्य मीदुषः
दिशां प्रज्ञानं स्वरयन्तम् अर्चिषा सुपक्षम् आशुं पतयन्तम् अर्णवे । स्तवाम सूर्यं भुवनस्य गोपां यो रश्मिभिर् दिश आभाति सर्वाः
यत् प्राङ् प्रत्यङ् स्वधया यासि शीभं नानारूपे अहनी कर्षि मायया । तद् आदित्य महि तत् ते महि श्रवो यद् एको विश्वं परि भूम जायसे
विपश्चितं तरणिं भ्राजमानं वहन्ति यं हरितः सप्त बह्वीः । स्तुताद् यम् अत्रिर् दिवम् उन्निनाय तं त्वा पश्येम परियन्तम् आजिम्
मा त्वा दभन् परियन्तम् आजिं सुगेन दुर्गम् अति याहि शीभम् । दिवं च सूर्य पृथिवीं च देवीम् अहोरात्रे विमिमानो यद् एषि
स्वस्ति ते सूर्य चरसे रथाय येनोभाव् अन्तौ परियासि सद्यः । यं ते वहन्ति हरितो वहिष्ठास् तम् आ रोह सुखम् आश्वश्वम्
सुखं सूर्य रथम् अंशुमन्तं स्योनं सुवह्निम् अधि तिष्ठ वाजिनम् । यं ते वहन्ति हरितो वहिष्ठाः शतम् अश्वा यदि वा सप्त बह्वीः
सप्त सूर्यो हरितो यातवे रथे हिरण्यत्वचसो बृहतीर् अयुक्त । अमोचि शुक्रो रजसः परस्ताद् विधूय देवस् तमो दिवम् आरुहत्
उत् केतुना बृहता देवा आगन्न् अपावृक् तमो ऽभि ज्योतिर् अश्रैत् । दिव्यः सुपर्ण स्थवीरो व्य् अख्यद् अदित्याः पुत्रो भुवनानि विश्वा
उद्यन् रश्मीन् आ तनुषे प्रजाः सर्वा वि पश्यति । उभा समुद्रौ क्रतुना वि भासि सर्वां लोकान् परिभूर् भ्राजमानः
पूर्वापरं चरतो माययैतौ शिशू कुन्दाना परि यातो अर्णवम् । विश्वान्य् अन्यो भुवनाभि वस्ते हैरण्यैर् अन्यं हरितो वहन्ति
दिवि त्वात्रिर् धारयत् सूर्या मासाय कर्तवे । स एषि सुधृतस् तपन् स्वर् भूतावचाकशत्
उभाव् अन्तौ सम् अर्षति वत्सः संमातराव् इव । नन्व् एतद् इतः पुरा ब्रह्म देवा अमी विदुः
यत् समुद्रम् अनु श्रितं तत् सिषासति सूर्यः । अध्वास्य विततो महान् पूर्वश् चापरश् च यः
तं सम् आप्नोति जूतिभिस् तस्मान् नाप चिकित्सति । तेनामृतस्य भक्षं देवानां नाव रुन्धते
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम्
अप त्ये तायवो यथा नक्षत्रा यन्त्य् अक्तुभिः । सूराय विश्वचक्षसे
अदृश्रम् अस्य केतवो वि रश्मयो जनाꣳ अनु । भ्राजन्तो अग्नयो यथा
तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य । विश्वम् आ भासि रोचनः
प्रत्यङ् देवानां विशः प्रत्यङ्ङ् उद् एषि मानुषीः । प्रत्यङ् विश्वं स्वर् दृशे
येना पावक चक्षुषा भुरण्यन्तं जनाꣳ अनु । त्वं वरुण पश्यसि
वि द्याम् एषि रजस् पृथ्व् अहर् मिमानो अक्तुभिः । पश्यन् जन्मानि सूर्य
सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षणम्
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । तभिर् याति स्वयुक्तिभिः
अभि मा वर्चसा गिरः सिञ्चन्तीर् आ चरण्यथ । अभि वत्सं न धेनवः
ता अर्षन्ति शुभ्रियः पृञ्चतीर् वर्चसा प्रियः । जातं जात्रीर् यथा हृदा
वज्रायेव साद्धियः कीर्तिं श्रेमाणम् आ वहान् । मह्यम् आयुर् घृतप्रियः
रोहितो दिवम् आक्रमीत् तपसा तपस्वी । स योनिम् ऐति स उ जायते पुनः स देवानाम् अधिपतिर् बभूव
यो विश्वचर्षणिर् उत विश्वतोमुखो विश्वतस्पाणिर् उतविश्वतस्पृधः । सं बाहुभ्यां भरति सं पतत्रैर् द्यावापृथिवी जनयन् देव एकः
एकपाद् द्विपदो भूयो वि चक्रमे द्विपात् त्रिपादम् अभ्य् एति पश्चात् । त्रिपाद् ध षट्पदो भूयो वि चक्रमे त एकपदस् तन्वां सम् आसते
अतन्द्रो यास्यन् हरितो यद् आस्था दिवि रूपं कृणुषे रोचमानः । केतुमाꣳ उद्यन् सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि
बण् महाꣳ असि सूर्य बड् आदित्य महाꣳ असि । महांस् ते महतो महिमा त्वम् आदित्य महाꣳ असि
रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्व् अन्तः । उभा समुद्रौ रुच्या व्य् आपिथ देवो देवासि महिषः स्वर्वित्
अर्वाक् परस्ताद् वियतो व्यध्व आशुर् विपश्चित् पतयन् पतङ्गः । विष्णुर् विचित्तः शवसाधितिष्ठन् प्र केतुना सहते विश्वम् एजत्
तिग्मो विभ्राजन् तन्वः शिशानो ऽरंगमासः प्रवतो रराणः । ज्योतिष्मान् पक्षी महिषो वयोधा विश्वा आस्थात् प्रदिशः कल्पमानः
चित्रश् चिकित्वान् महिषः सुपर्ण आरोचयन् रोदसी अन्तरिक्षम् । अहोरात्रे परि सूर्यं वसाने प्रास्य विश्वा तिरतो वीर्याणि
चित्रं देवानां केतुर् अनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् । दिवाकरो अति द्युम्नैस् तमांसि विश्वातारीद् दुरितानि शुक्रः
चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस् तस्थुषश् च
उच्चा पतन्तम् अरुणं सुपर्णं मध्ये दिवस् तरणिं भ्राजमाणम् । पश्येम त्वा सवितारं यम् आहुर् अजस्रं ज्योतिर् यद् अविन्दद् अत्रिः
दिवस् पृष्ठे धावमानं सुपर्णम् अदित्याः पुत्रं नाथकाम उप यामि भीतः । स नः सूर्य प्र तिर दीर्घम् आयुर् मा रिषाम सुमतौ ते स्याम
अहोरात्राणि विदधत् कृण्वाणः पार्थिवं रजः । नवंनवं सखीभवं कृणुषे देव सूर्य
सहस्राह्ण्यं वियताव् अस्य पक्षौ हरेर् हंसस्य पचतः स्वर्गम् । स विश्वान् देवान् उरस्य् उपदद्य संपश्यन् याति भुवनानि विश्वा
रोहितो लोको अभवद् रोहितो ऽग्रे प्रजापतिः । रोहितो यज्ञानां मुखं रोहितो ज्योतिर् उच्यते
रोहितो भूतो अभवद् रोहितो भव्यम् आभरत् । रोहितो यज्ञानां मुखं रोहितः स्वर् आ भरत्
रोहितः कालो अभवद् रोहितो ऽत्य् अतपद् दिवम् । रोहितो रश्मिभिर् भूमिं समुद्रम् अनु सं चरात्
सर्वा दिशः सं चरति रोहितो अधिपतिर् दिवः । दिवं समुद्रम् आद् भूमिं सर्वान् लोकान् वि रक्षतु
बिभर्त्य् अंशुं प्रति मुञ्चते स्रजम् उद् ऊहते रश्मीन् अंशुं बृहन्तम् । दिवाकरः पश्यति यत् परात् परं प्राह्णा प्र वर्ष्मणा विश्वम् अप्राङ् हिरण्ययो हरितः केतुर् उद्यन्
आरोहञ् छुक्रो बृहतीर् अतन्द्रो मर्त्यः कृणुते वीर्याणि । दिव्यः सुपर्णो महिषो वातरंहा यत् सर्वान् लोकाꣳ अभि यद् विभाति
अभ्य् अन्यद् एति पर्य् अन्यद् वसानो ऽहोरात्राभ्यां महिषः कल्पमानः । सूर्यं वयं रजसि क्षियन्तं गातुविदं हवामहे नाथकामाः
पृथिवीप्रो महिषो नाधमानस्य गातुर् अदब्धचक्षुः परि सर्वं बभूव । विश्वं संपश्यन् सुविदत्रो यजत्रः शिवया नस् तन्वा शर्म यच्छात्
पर्य् अस्य महिमा पृथिवीं समुद्रं ज्योतिषा विभ्राजन् परि द्याम् अन्तरिक्षम् । अहोरात्राभ्यां सह संविदान उपा न आयुः प्र तिराद् अरिष्टम्
अबोध्य् अग्निः समिधा जनानां प्रति धेनुम् इवायतीम् उषासम् । यह्वा इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अच्छ
कुमारं माता युवतिर् गर्भम् अन्तर् गुहा बिभर्ति न ददाति पित्रे । अनीकम् अस्य न मिनज् जनासः पुरः पश्यन्ति निहितम् अरतौ
तम् एतं त्वं युवते कुमारं त्वेषी बिभर्षि महिषी जजान । उर्वीर् हि गर्भः शरदो ववर्ध- -अपश्यं जातं यम् असूत माता
यस्य तिस्रो वर्तन एकधा सतो यस्मै बलिं देवजना हरन्ति । तस्यासौ द्यौः पृथिव्य् अन्तरिक्षं गुहा तिष्ठन्ति वसुना समक्ताः
नव दिवो देवजनेन गुप्ता नवान्तरिक्षाणि नव भूमय इमाः । यस्मिन्न् इदं सर्वम् ओतं प्रोतं यस्माद् अन्यन् न परं किं चनास्ति
न तस्मात् पूर्वं न परं न्व् अस्ति न भूतं नोत भव्यं यद् आसीत् । सहस्रपाद् एकमूर्धा द्व्यात्मा स एवेदम् आ वरीवर्ति भूतम्
एकैकं ये अपतन् सुपर्णाः सोमं दिप्सन्तो ऽह्या निबाढाः । कस् तेषां वेद पितरं मातरं च को निदानं क आत्मानम् एषाम्
येभिर् वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः । य आहुतिम् अत्यमन्यन्त देवा अपां नेतारः कतमे त आसन्
इमाम् एषां पृथिवीं वस्त एको अन्तरिक्षं पर्य् एको बभूव । दिवम् एषां ददते यो विधर्ता सर्वा दिशो रक्षत्य् एक एषाम्
अनुवाक ४ ॥ व्रात्यो वावेदम् अग्र आसीद् वीयमान एव स प्रजापतिं सम् ऐरयत्
स प्रजापतिर् आत्मनि सुपर्णम् अपश्यत्
तद् एकम् अभवत् तल् ललामम् अभवत् तन् महद् अभवत् तज् ज्येष्ठम् अभवत् तत् तपो ऽभवत् तत् सत्यम् अभवत् तद् ब्रह्माभवत् तेन प्राजायत
सो ऽवर्धत स महान् अभवत् स महादेवो ऽभवत् स ईशानो ऽभवत् स देवानाम् ईशान् अगच्छत् स देवानाम् एकव्रत्यो ऽभवत्
स धेनुर् आधत्त तद् इन्द्रधनुर् अभवत्
नीलम् अस्योदरं लोहिन्य् अस्य पृष्टिः
नीलेनाप्रियं भ्रातृव्यं प्रोर्णोति लोहितेन द्विषन्तं विध्यतीति ब्रह्मवादिनो वदन्ति
स प्राचीं दिशम् अनु व्य् अचलत् । तं बृहच् च रथन्तरं च विश्वे च देवा आदित्याश् चानु व्य् अचलन् । बृहतश् च वै स रथन्तरस्य च विश्वेषां च देवानाम् आदित्यानां च प्रियं धाम भवति य एवं वेद । बृहते च वै स रथन्तराय च विश्वेभ्यश् च देवेभ्य आदित्येभ्यश् च- -आ वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति
तस्य प्राच्यां दिशि । श्रद्धा पूंश्चली मित्रो मागधो विज्ञानं वासो ऽहर् उष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर् मणिः । भूतं च भव्यं च परिष्कन्दौ मनो विपथं मातरिश्वा पवमानश् च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश् च यशश् च पुरःसराव् ऐनं कीर्तिर् गच्छत्य् ऐनं यशो गच्छति य एवं वेद
स दक्षिणां दिशम् अनु व्य् अचलत् । तं यज्ञायायज्ञियं च वामदेव्यं च यज्ञश् च पशवश् चानु व्य् अचलन् । यज्ञायायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च पशुनां च (…) । यज्ञायायज्ञियाय च वै स वामदेव्याय च यज्ञाय च पशुभ्यश् च (…)
तस्य दक्षिणायां दिशि । ऊषाः पूंश्चली मन्त्रो मागधो (…) । अहो रात्री च परिष्कन्दौ (…)
स प्रतीचीं दिशं (अनु व्य् अचलत्) । तं वैरूपं च वैराजं च वरुणश् च राजा पश्चानु व्य् अचलन् । वैरूपस्य च वै स वैराजस्य च वरुणस्य च राज्ञो अपां च (…) । वैरूपाय च वै स वैराजाय च वरुणाय च राज्ञेद्भ्यश् च (…)
तस्य प्रतीच्यां दिशि । इराः पुंश्चली हसो मागधो (…) । पौर्णमासी चामावास्या च परिष्कन्दौ (…)
स उदीचीं दिशम् अनु व्य् अचलत् । तं श्यैतं च नौधसं च सोमश् च राजा सप्त ऋषयश् चानु व्य् अचलन् । श्यैतस्य च वै स नौधसस्य च सोमस्य च राज्ञः सप्त ऋषीनां च प्रियं धाम भवति य (एवं वेद) । श्यैताय च वै स नौधासाय च सोमाय च राज्ञः सप्त ऋषिभ्यश् चा वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति
तस्योदीच्यां दिशि । विद्युत् पुंश्चली स्तनयित्नुर् मागधो विज्ञानं वासो ऽहर् उष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर् मणिः । श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश् च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश् च यशश् च पुरःसराव् ऐनं कीर्तिर् गच्छत्य् ऐनं यशो गच्छति य (एवं वेद)
स संवत्सरम् ऊर्ध्वो ऽतिष्ठत् तं देवा अब्रुवन् व्रात्य किं नु तिष्ठसीति । सो ऽब्रवीद् आसन्दीं मे सं भरन्त्व् इति तस्मा आसन्दीं सम् अभरन् । तस्या वसन्तश् च ग्रीष्मश् च पूर्वौ पादव् आस्तां वर्षाश् च शरच् चापरौ । तं बृहच् च रथन्तरं चानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्चे । ऋचः प्राञ्चस् तन्तवो यजूंषि तीर्यञ्चः । वेद आस्तरो ब्रह्मोप बर्हणं सामासीद उद्गीथो ऽपश्रयन्ताम् असीदत् । तस्य संकल्पाः प्रहास्या आसन् देवजनाः परिष्कन्दा अप्सरसः पत्नीर् विश्वानि भूतान्य् उपसदः । ऐनं विश्वानि भूतानि गच्छन्ति प्रियो विश्वेषां भूतानां भवति य एवं वेद
तस्मै प्राच्या दिशः । वासन्तौ मासौ गोप्ताराव् अकुर्वन् बृहच् च रथन्तरं चानुष्ठातारौ । वासन्ताव् एनं मासौ प्राच्या दिशो गोपायतो बृहच् च रथन्तरं चानुतिष्ठतो य (एवं वेद)
तस्मै दक्षिणाया दिशः । ग्रैष्मौ मासौ गोप्ताराव् अकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ । ग्रैष्माव् एनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चा(नु …)
तस्मै प्रतीच्या दिशः । वार्षिकौ मासौ गोप्ताराव् अकुर्वन् वैरूपं च वैराजं चानुष्ठातारौ । वार्षिकाव् एनं मासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चा(नु …)
तस्मा उदीच्या दिशः । शरदौ मासौ गोप्ताराव् अकुर्वञ् छ्यैतं च नौधसं चानुष्टातारौ । शारदावेनं मासा उदीच्या दिशो गोपायतः श्यैतं च नैधसं चा(नु …)
तस्मै ध्रुवाया दिशः । हैमनौ मासौ गोप्ताराव् अकुर्वन् भूमिं चाग्निं चानुष्ठातारौ । हैमनाव् एनं मासौ ध्रुवाया दिशो गोपायतो भूमिश् चाग्निश् च(नु …)
तस्मा ऊर्ध्वाया दिशः । शैशिरौ मासौ गोप्ताराव् अकुर्वन् दिवं चादित्यं चानुष्ठातारौ । शैशिराव् एनं मासा ऊर्ध्वाया दिशो गोपायतो द्यौश् चादित्यश्चानु तिष्ठतो य एवं वेद
तस्मै प्राचीनाद् अन्तर्देशाद् भवम् इष्वासम् अनुष्ठातारम् अकुर्वन् । भव एनम् इष्वासः प्राचीनाद् अन्तर्देशाद् अनुष्ठाता(नु तिष्ठति य एवं वेद)
तस्मै दक्षिणायाद् अन्तर्दशाच् छर्वम् इष्वासम् (अनुष्ठातारम् अकुर्वन्) । शर्व एनम् इष्वासो दक्षिणाद् अन्तर्देशाद् (…)
तस्मै प्रतीचीनाद् अन्तर्देशाद् रुद्रम् इष्वासम् (अनुष्ठातारम् अकुर्वन्) । रुद्र एनम् इष्वासः प्रतीचीनाद् अन्तर्देशाद् (…)
तस्मा उदीचीनाद् अन्तर्देशात् पशुपतिम् इष्वासम् (अनुष्ठातारम् अकुर्वन्) । पशुपतिर् एनम् इष्वास उदीचीनाद् अन्तर्देशाद् (…)
तस्मै ध्रुवाद् अन्तर्देशाद् उग्रं देवम् इष्वासम् (अनुष्ठातारम् अकुर्वन्) । उग्र एनं देव इष्वासो ध्रुवाद् अन्तर्देशाद् (…)
तस्मा ऊर्ध्वाद् अन्तर्देशान् महादेवम् इष्वासम् (अनुष्ठातारम् अकुर्वन्) । महादेव एनम् इष्वास ऊर्ध्वाद् अन्तर्देशाद् अनुष्ठाता (…)
तस्मै सर्वेभ्यो ऽन्तर्देशेभ्य ईशानम् इष्वासम् अनुष्ठातारम् अकुर्वन् । ईशान एनम् इष्वासः सर्वेभ्यो ऽन्तर्देशेभ्यो ऽनुष्ठातानु तिष्ठति य (एवं वेद)
स ध्रुवान् दिशम् अनु व्य् अचलत् । तं भूमिश् चाग्निश् चौषधयश् च वनस्पतयश् च वीरुधश् च वानस्पत्याश् चानु व्य् अचलन् । भूमेश् च वै सो ऽग्नेश् चौषधीनां च वनस्पतिनां च वीरुधां च वानस्पत्यानां च प्रियं धाम भवति य (एवं वेद) । भूमये च वै सो ऽग्नये चौषधिभ्यश् च वनस्पतिभ्यश् च वीरुद्भ्यश् च वानस्पत्येभ्यश् चा वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति
स ऊर्ध्वां दिशम् (अनु व्य् अचलत्) । तम् ऋतं च सत्यं च सूर्यश् च चन्द्रमाश् चानु व्य् अचलन् । ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रमासश् च (…) । ऋताय च वै स सत्याय च सूर्याय च चन्द्रमासे च (…)
स बृहतीं दिशं (अनु व्य् अचलत्) । तम् ऋचश् च सामानि च यजूंषि च ब्रह्म चानु व्य् अचलन् । ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश् च (प्रियं धाम …) । ऋग्भ्यश् च वै स सामभ्यश् च यजुर्भ्यश् च ब्रह्मणे च (…)
स उत्तमां दिशं (अनु व्य् अचलत्) । तम् इतिहासश् च पुराणं च गाथाश् च नाराशंसीश्चानु व्य् अचलन् । इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च (प्रियं …) । इतिहासाय च वै स पुराणाय च गाथाभ्यश् च नाराशंसीभ्यश् च (…)
स परमां दिशम् अनु व्य् अचलत् । तम् ऋतवश् चार्तवाश् च लोकाश् च लौक्याश् चानु व्य् अचलन् । ऋतूनां च वै स आर्तवानां च लोकानां च लौक्यानां च प्रियं (धाम …) । ऋतुभ्यश् च वै स आर्तवेभ्यश् च लोकेभ्यश् च लौक्यैभ्यश् चा वृश्चते (य …)
सोकद्रीचीं दिशम् अनु व्य् अचलत् ततो नावर्त्स्यन्नमन्यत । तं विराड् अनु व्य् अचलत् सर्वे च देवाः सर्वाश् च देवताः । विराजे च वै स सर्वेषां देवानां सर्वासां च देवतानां च प्रियं (…) । विराजे च वै स सर्वेभ्यश् च देवेभ्यः सर्वाभ्यश् च देवताभ्य आ वृश्चते (य …)
सो ऽनादिष्टां दिशम् अनु व्य् अचलत् ततो नावर्त्स्यन्नमन्यत । तं दक्षिणाग्निश् च गार्हपत्यश् चाहवनीयश् च यज्ञश् च यजमानश् चानु व्य् अचलन् । दक्षिणाग्नेश् च वै स गार्हपत्यस्य चाहवनीयस्य यज्ञस्य यजमानस्य च प्रियं (धाम …) । दक्षिणाग्नये च वै स गार्हपत्याय चाहवनीयाय च यज्ञाय च यजमनाय चा वृश्चते (य …)
सो ऽन्तर्देशान् अनु व्य् अचलत् । तं दितिश् चदितिश् चेडा चेन्द्रणी चानु व्य् अचलन् । दितेश् च वै सो ऽदितेश् चेडायाश् चेन्द्राण्याश् च (प्रियं …) । दितये च वै सो ऽदितये चेडायै चेन्द्रान्यै चा (वृश्चते …)
स दिशो ऽनु व्य् अचलत् । तं प्रजापतिश् च परमेष्ठी च पिता च पितामहश् चानु व्य् अचलन् । प्रजापतेश् च वै स परमेष्ठिनश् च पितुश् च पितामहस्य च प्रियं धाम भवति य (एवं …) । प्रजापतये च वै स परमेष्ठिने च पित्रे च पितामहाय चा वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति
अनुवाक ५ ॥ स महिमा सद्रुर् भूत्वान्तं भूम्या अगच्छत् समुद्रो ऽभवत् । तं प्रजापतिश् च परमेष्ठी चापश् च श्रद्धा च वर्षं च भूत्वानु व्य् अवर्तन्त । तं यज्ञश् च लोकश् चान्नं चान्नाद्यं च भूत्वाभि पर्य् आ वर्तन्त । ऐनम् आपो गच्छन्त्य् ऐनं वर्षं गच्छत्य् ऐनं श्रद्धा गच्छत्य् ऐनं दीक्षा गच्छत्य् ऐनं यज्ञो गच्छत्य् ऐनं लोको गच्छत्य् ऐनम् अन्नं गच्छत्य् ऐनम् अन्नाद्यं गच्छति य (एवं वेद)
सो ऽरज्यत तस्माद् रज्यमानाद् राजन्यो अजायत । स विशः सबन्धून् अन्नं चान्नाद्यं चाभ्य् उद् अतिष्ठत । विशां च वै स सबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य (एवं वेद) । विड्भ्यश् च वै स सबन्धुभ्यश् चान्नाय चान्नाद्याय चा वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति
स विशो ऽनु व्य् अचलत् । तं सभा च समितिश् च सेना च सुरा चानु व्य् अचलन् । सभायाश् च वै स समितेश् च सेनायाश् च सूरायाश् च स प्रियं धाम भवति य एवं वेद । सभायै च वै स समितये च सेनायै च सुरायै चा वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति
यस्यैवं विद्वान् व्रात्यो राज्ञो ऽतिथिर् गृहम् आगच्छेत् । श्रेयांसम् एनम् आत्मनो मानयेत् तथा राष्ट्राय ना वृश्चते तथा क्षत्राय ना वृश्चते तथा ब्रह्मणे ना वृश्चते । ततो वै ब्रह्म च क्षत्रं चोद् अतिष्ठतां ते अब्रूतां कं प्र विशावेति । ते प्रजापतिर् अब्रवीद् बृहस्पतिम् एव ब्रह्म प्राविशद् इन्द्रं क्षत्रम् इति । ततो वै बृहस्पतिम् एव ब्रह्म प्राविशद् इन्द्रं क्षत्रम् । इयं वाव भूमिर् बृहस्पतिर् असौ द्यौर् इन्द्रः । अयं वावाग्निर् ब्रह्मासाव् आदित्यः क्षत्रम् । ऐनं क्षत्रं गच्छतीन्द्रयावी भवति य आदित्यं क्षत्रं दिवम् इन्द्रं वेद । ऐनं ब्रह्म गच्छति ब्राह्मणवर्चसी भवति यो ऽग्निं ब्रह्म बृहस्पतिं भूमिं वेद
यस्योद्धृतेष्व् अग्निष्व् अहुते अग्निहोत्र एवं विद्वान् व्रात्यो ऽतिथिः । स्वयम् एनम् अभ्युदेत्य ब्रूयाद् व्रात्य क्वावात्सीर् इति व्रात्यो दकम् इति व्रात्य तर्पयन्त्व् इति
यद् आह व्रात्य क्वावात्सीर् इति पथ एव तेन देवयानान् अव रुन्धे । (यद् आह) व्रात्योदकम् इत्य् अप एव तेनाव रुन्धे । यद् आह व्रात्य तर्पयन्त्व् इति प्राणम् एव तेन वर्षायां सं कृणुते
पुराग्निहोत्रस्य हवनाद् उपांशु कृण्वीत । व्रात्य यथा ते प्रियं तथास्त्व् इति व्रात्य यथा ते निकामस् तथास्त्व् इति व्रात्य यथा ते वशस्तथास्त्व् इति
यद् आह व्रात्य यथा ते प्रियं तथास्त्व् इति प्रियम् एव तेनाव रुन्धे प्रिये प्रियस्य भवत्य् ऐनं प्रियं गच्छति य एवं वेद
(यदाह व्रात्य यथा) ते निकामस् तथास्त्व् इति निकामम् एव तेनाव रुन्धे निकामे निकामम् अस्य भवत्य् ऐनं निकामो गच्छति (य एवं वेद) । यद् आह व्रात्य यथा ते वशस् तथास्त्व् इति वशम् एव तेनाव रुन्धे वशी वशस्य भवत्य् ऐनं वशो गच्छति य एवं वेद
यस्याधिश्रिते अग्निहोत्र एवं विद्वान् व्रात्यो ऽतिथिर् गृहम् आगच्छेत् । स्वयम् एनम् अभ्युदेत्य ब्रूयाद् व्रात्याति सृज होष्यामीति । अति च सृजेज् जुहूयान् न चातिसृजेन् न जुहूयात् । यो वा एवं विदुषा व्रात्येनानतिसृष्टो जुहोति । न देवयानं पन्थां प्र जानाति न पितृयाणम् आ देवेषु वृश्चते ऽहुतम् अस्य भवति । यो वा एवं विदुषा व्रात्येनानतिसृष्टो जुहोति । प्र देवयानं पन्थां जानाति प्र पितृयानं पर्य् अस्यास्मिꣳल् लोक आयतनं शिष्यते हुतम् अस्य भवति
यस्यैवं विद्वान् व्रात्य एकां रात्रिम् अतिथिर् गृहे वसति । ये पृथिव्यां पुण्या लोकास् तान् एवैनेनाव रुन्धे
(यस्यैवं विद्वान्) व्रात्यो द्वितीयां रात्रिं (अतिथिर् गृहे वसति) । ये अन्तरिक्षे पुण्या लोकास् (तान् एवैनेनाव रुन्धे)
(यस्यैवं विद्वान्) व्रात्यस् तृतीयां रात्रिं (अतिथिर् गृहे वसति) । ये दिवि पुण्या लोकास् (तान् एवैनेनाव रुन्धे)
(यस्यैवं विद्वान्) व्रात्यश् चतूर्थीं रात्रिम् आतिथिः (गृहे वसति) । सर्वान् एवैनेन पुण्याꣳल् लोकान् अव रुन्धे
(यस्यैव विद्वान्) व्रात्यः पञ्चमीं रात्रिम् अतिथिः (गृहे वसति) । परावत एवैनेन लोकान् अव (रुन्धे)
यस्यैवं विद्वान् व्रात्यो ऽपरिमिता रात्रीर् अतिथिर् गृहे वसति । अपरिमितान् एवैनेन लोकान् अव रुन्धे
यस्याव्रात्यो व्रात्यब्रुवो नामबिभ्रती गृहान् अतिथिर् आगच्छेत् । कर्षेद् एनं न चैनं कर्षेत् । एतस्यै देवताया उदकं याचामीत्य् अस्मा उदकं याचेत् । एतां देवतां परि वेवेष्मीत्य् एनं परि वेवेष्यात् । एतस्याम् एवास्य देवतायां हुतम् इष्टं भवति य एवं वेद
यत् प्राचीं दिशम् अनुव्यचलद् इन्द्रो भूत्वानु व्य् अचलन् मनो ऽन्नादं कृत्वा । मनसान्नादेनान्नम् अत्ति यः (एवं वेद)
यद् दक्षिणां दिशम् अनु व्यचलन् मारुतं शर्धो भूत्वानु व्य् अचलन् मन्युम् अन्नादं कृत्वा । मन्युनान्नादेनान्नम् (अत्ति य एवं वेद)
यत् प्रतीचीं दिशम् अनु व्यचलद् वरुणो भूत्वानु व्य् अचलद् अपो ऽन्नादीः कृत्वा । अद्भिर् अन्नादीभिर् अन्नम् (अत्ति य एवं वेद)
यद् उदीचीं दिशम् अनु व्यचलत् सोमो राजा सप्तऋषिभिर् भूत्वानु व्य् अचलद् आहुतिम् अन्नादीं कृत्वा । आहुत्यान्नाद्यान्नम् (अत्ति य एवं वेद)
यद् ध्रुवां दिशम् अनुव्यचलद् विष्णुर् भूत्वानु व्य् अचलद् विराजम् अन्नादीं कृत्वा । विराजान्नाद्यान्नं (अत्ति य एवं वेद)
यद् ऊर्ध्वं दिशम् अनु व्यचलद् बृहस्पतिर् भूत्वानु व्य् अचलद् वषट्कारम् अन्नादं कृत्वा । वषट्कारेणान्नादेनान्नं (अत्ति य एवं वेद)
यत् पशून् अनुव्यचलद् रुद्रो भूत्वानु व्य् अचलद् ओषधीर् अन्नादीः कृत्वा । ओषधीभिर् अन्नादीभिर् अन्नं (अत्ति य एवं वेद)
यद् देवान् अनुव्यचलद् ईशानो भूत्वानु व्य् अचलद् बलम् अन्नादं कृत्वा । बलेनान्नादेनान्नं (अत्ति य एवं वेद)
यन् मनुष्यान् अनुव्यचलद् अग्निर् भूत्वानु व्य् अचलत् स्वाहाकारम् अन्नादं कृत्वा । स्वाहाकारेणान्नादेन (अन्नम् अत्ति य एवं वेद)
यत् पितॄन् अनुव्यचलद् यमो भूत्वानु व्य् अचलत् स्वधाकारम् अन्नादं कृत्वा । स्वधाकारेणान्नादेन (अन्नम् अत्ति य एवं वेद)
यत् प्रजा अनुव्यचलत् प्रजापतिर् भूत्वानु व्य् अचलत् प्राणम् अन्नादं कृत्वा । प्राणेनान्नादेन (अन्नम् अत्ति य एवं वेद)
यद् अन्तर्देशान् अनुव्यचलद् वायुर् भूत्वानु व्य् अचलद् वातम् अन्नादं कृत्वा । वातेनान्नादेन (अन्नम् अत्ति य एवं वेद)
यद् दिशो ऽनुव्यचलत् परमेष्ठी भूत्वानु व्य् अचलद् ब्रह्मान्नादं कृत्वा । ब्रह्मणान्नादेनान्नम् अत्ति य एवं वेद
तस्य सप्त प्राणाः सप्तापानाः सप्त व्यानाः । यो ऽस्य प्रथमः प्राण ऊर्ध्वो नाम सो ऽयम् अग्निः । यो ऽस्य द्वितीयः प्राणः प्रोढो नाम सो ऽसाव् आदित्यः । यो ऽस्य तृतीयः प्राणो ऽभ्यूढो नाम सो ऽसौ चन्द्रमाः । यो ऽस्य चतुर्थः प्राणो विभूर् नाम सो ऽयं पवमानः । यो ऽस्य पञ्चमः प्राणो ऽपरिमितो नाम त इमे पशवः । यो ऽस्य षष्ठः प्राणः प्रियो नाम ता इमाः प्रजाः । यो ऽस्य सप्तमः प्राणो योनिर् नाम ता इमा आपः
यो ऽस्य प्रथमो ऽपानः । सा पौर्णमासी । यो ऽस्य द्वितीयो ऽपानः । साष्टका । यो ऽस्य तृतीयो ऽपानः । सामावास्या । यो ऽस्य चतुर्थो ऽपानः । सा श्रद्धा । यो ऽस्य पञ्चमो ऽपानः । सा दीक्षा । यो ऽस्य षष्ठो ऽपानः । स यज्ञः । यो ऽस्य सप्तमो ऽपानः । स वषट्कारः । यो ऽस्य प्रथमो व्यानः । सेयं भूमिः । यो ऽस्य द्वितीयो व्यानः । तद् अन्तरिक्षम् । यो ऽस्य तृतीयो व्यानः । स द्यौः । यो ऽस्य चतुर्थो व्यानः । तानि नक्षत्राणि । यो ऽस्य पञ्चमो व्यानः । त ऋतवः । यो ऽस्य षष्ठो व्यानः । त आर्तवाः । यो ऽस्य सप्तमो व्यानः । स संवत्सरः । समानं अर्थं परि यन्ति देवा इति संवत्सरं वावैतद् ऋतवो *ऽनु परि यन्ति । यद् आदित्यम् अभि सं विशन्तीति पौर्णमासीं चैव तद् अमावास्यां चाभि सं विशन्ति । तद् एकं रूपम् अमृतत्वम् एषाम् इत्य् आहुतिर् एव । रूपंरूपं तपसा वर्धमाना इत्य् अहोरात्रे एव । यो ऽस्य दक्षिणः कर्णः सो ऽयम् अग्निर् यः सव्यः सो ऽयं पवमानः । यद् अस्य दक्षिणम् अक्षि तद् असाव् आदित्यो यत् सव्यं तद् असौ चन्द्रमाः । दितिश् चादितिश् च शीर्षकपाले संवत्सरः शिरो ऽहोरात्रे नासिके । रात्र्या पराङ् अह्ना प्रत्यङ् नमो व्रात्याय
अनुवाक ६ ॥ अतिसृष्टो अपां वृषभो अतिसृष्टा अग्नयो दिव्याः । रुजन् परिरुजन् मृणन् प्रमृणम् म्रोको मनोहा खनो निर्दाह आत्मदूषिस् तनूदूषिः
इदं तान् अति सृजामि तान् माभ्य् अव निक्षि । तैस् तम् अभ्य् अति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः
अपाम् अग्रम् असि समुद्रं त्वाभ्य् अव सृजामि । ये ऽप्स्व् अग्नयो ऽति तान् सृजामि म्रोकं खनिं तनूदूषिम् । यो व आपो अग्निर् आविवेश स एष यद् वो घोरं तद् एतत्
इन्द्रस्येन्द्रियेणाभि षिञ्चेद् अरिप्रा आपो अप रिप्रम् अस्मत् । प्रैनो वहतु प्र दुष्वप्न्यम्
शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वाचं मे । शिवान् अग्नीन् अप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः
निर् दुरर्मण्य ऊर्जा मधुमती वाङ् मधुमती स्थ । मदुमतीं वाचम् उदेयं वाचो ऽहं मा यवम् । अदब्धो मे गोपा अदब्धो गोपीथः । सुश्रुतौ कर्णौ भद्रश्रुतौ कर्णौ भद्रं श्लोकं श्रूयासम् । उपश्रुतिश् च मानुश्रुतिश् च मा हासिष्टां सौपर्णं चक्षुर् अजस्रं ज्योतिः । ऋषीणां प्रस्तरो ऽसि नमो दैवाय प्रस्तराय । मूर्धाहं रयीणां मूर्धाहं समानानां भूयासम्
रुजश् च मा वेनश् च मा हासिष्टाम् उर्वश् च मा चमसश् च मा हासिष्टां विमोकश् च मार्द्रपविश् च मा हासिष्टाम् आर्द्रदानुश् च मा मातरिश्वा च मा हासिष्टां मूर्धा च मा विधर्मा च मा हासिष्टां धर्ता च मा धरुणश् च मा हासिष्टां मृधश् च मा वैमृधश् च मा हासिष्टाम्
बृहस्पतिर् म आत्मा नृमणा नाम । हृदयाजरसं मा मा हासीर् असंतापं मे हृदयम् अस्तु । उर्वी गव्यूतिः समुद्रो अस्मि विधर्मणा । नाभिर् अहं रयीणां नाभिर् अहं समानानां भूयासम्
स्वासद् असि सूषा अमृता मर्त्येष्व् आ । मा मा प्राणो ऽवहाय परा गान् मा मापानो ऽवहाय परा गात् । सूर्यो माह्नः पात्व् अग्निः पृथिव्या वायुर् अन्तरिक्षाद् यमो मनुष्येभ्यः सरस्वती पार्थिवेभ्यः । प्राणापानौ मा मा हासिष्टं मा जने प्र मेषि । स्वस्त्य् अद्योषसो दोषसश् च सर्वा आपः सर्वगणो अशीय
सुभूर् असि रश्मिर् अस्य् आयुर्धा अस्य् आयुर् मयि धेहि । (सुभूर् असि रश्मिर्) असि वर्चोधा असि वर्चो मयि धेहि
सुभूर् असि रश्मिर् असि तेजोधा असि तेजो मयि धेहि
सूर्यो मे वर्चोधा वर्चो दधात्व् इन्द्रियम् असीन्द्रियं मयि धेहि वर्चो असि वर्चो मयि धेहि
शक्वरी स्थ पशवो मोप स्थेषुर् मित्रावरुणा मे प्राणापानाव् अग्निर् मे दक्षं दधातु
अनुवाक ७ ॥ विद्म ते स्वप्न जनित्रं पाप्मनः पुत्रो ऽसि यमस्य करणः । स नः स्वप्न सुष्वप्न्यात् पाहि
(…) जनित्रं ग्राह्याः पुत्रो (…) । (…)
(…) जनित्रं निरृत्याः पुत्रो (…) । (…)
(…) जनित्रम् अभूत्याः पुत्रो (…) । (…)
(…) जनित्रं निर्भूत्याः पुत्रो (…) । (…)
(…) जनित्रं पराभूत्यः पुत्रो (…) । (…)
विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रो ऽसि यमस्य करणः । स नः स्वप्न सुष्वप्न्यात् पाहि
अजैष्माद्यासनामाद्याभूमानागसो वयम् । उषो यस्माद् दुष्वप्न्याद् अभैष्माप तद् उच्छ । द्विषते तत् परा वह शपते तत् परा वह । यं द्विष्मो यश् च नो द्वेष्टि तस्मा एनद् गमयामः । उषा देवी वाचा संविदाना वाग् देवी उषसा संविदाना । उषस्पतिर् वाचस्पतिना संविदानो वाचस्पतिर् उषस्पतिना संविदाना । ते ऽमुष्मै परा वहन्त्व् अरायान् दुर्णाम्नाः सदान्वा रक्षांसि । कुम्भीका दूषीकाः पीयकान् । जाग्रद्दुष्वप्न्यं स्वप्नेदुष्वप्न्यम् । अनागमिष्यतो वरान् अवित्तेः । संकल्पान् अमुच्या द्रुहः पाशात् । तद् अमुष्याग्ने परा वहन्तु देवा वध्रिर् यथासद् विथुरो न साधुः । तद् अस्मै गमयाम इति
एवानेवाव सा गरत् । असौ मां द्वेष्टि स आत्मानं द्वेष्टु यो मां द्वेष्टि स आत्मानं द्वेष्टु । निर् द्विषन्तं दिवो निष् पृथिव्या निर् अन्तरिक्षाद् भजाम । सुयामंश् चाक्षुषा । इदम् अहम् अमुम् आमुष्यायणम् अमुष्याः पुत्रं दुष्वप्न्याद् अव दये । यद् अदोअदो अभ्यगच्छं यद् दोषा यत् पूर्वां रात्रिं यद् दिवा यन् नक्तं यज् जाग्रतो यत् स्वपन्तः । यद् अहरहर् दुष्वप्न्यम् अभिगच्छामि तस्माद् एनम् अव दये । तं जहि तेन मन्दस्व तस्य पृष्टीर् अपि शृणीहि तं प्राणो जहातु स विप्राणो अस्तु स प्र मीयतां स ततो मा जीवीत्
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं वीरा अस्माकं प्रजा अस्माकम् । तस्मान् निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् । स ग्राह्याः पाशान् मा मोचि । तस्येदं प्राणम् आयुर् नि वेष्टयामि- -इदम् एनम् अधमं तमो गमयामि
(…) । स निरृत्याः पाशान् (…)
(…) । सो ऽभूत्याः पाशान् (…)
(…) । स निर्भूत्याः पाशान् (…)
(…) । स पराभूत्याः पाशान् (…)
(…) । स देवजामीनां पाशान् (…)
(…) । स ऋषीणां पाशान् (…)
(…) । स आर्षेयानां पाशान् (…)
(…) । सो ऽङ्गीरसां पाशान् (…)
(…) । स आङ्गिरसानां पाशान् (…)
(…) । सो अथर्वणां पाशान् (…)
(…) । स आथर्वणानां पाशान् (…)
(…) । स ऋतूनां पाशान् (…)
(…) । स आर्तवानां पाशान् (…)
(…) । स ओषधीनां पाशान् (…)
(…) । स वीरुधां पाशान् (…)
(…) । स वानस्पतीनां पाशान् (…)
(…) । स वानस्पत्यानां पाशान् (…)
(…) । स इदावत्सरस्य पाशान् (…)
(…) । स परिवत्सरस्य पाशान् (…)
(…) । स संवत्सरस्य पाशान् (…)
(…) । सो ऽहोरात्रयोः पाशान् (…)
(…) । सो ऽह्नोः संयतोः पाशान् (…)
(…) । स इन्द्राग्न्योः पाशान् (…)
(…) । स बृहस्पतेः पाशान् (…)
(…) । स प्रजापतेः पाशान् (…)
(…) । स परमेष्ठिनः पाशान् (…)
(…) । स राज्ञो वरुणस्य पाशान् (…)
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं वीरा अस्माकं प्रजा अस्माकम् । तस्मान् निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् । स मृत्योः पड्वीशान् मा मोचि । तस्येदं प्राणम् आयुर् नि वेष्टयामि- -इदम् एनम् अधमं तमो गमयामि
जितम् अस्माकम् उद्भिन्नम् अस्माकम् अभ्य् अष्ठां विश्वाः पृतना अरातीः स्वर् अभ्यावर्ते । सूर्यस्यावृतम् अन्वावर्ते दक्षिणाम् अन्वावृतम् । तद् अग्निर् आह तद् उ सोम आह पूषा मा धात् सुकृतस्य लोके । अगन्म स्वर् अगन्म सं सूर्यस्य ज्योतिषागन्म । वस्योभूयाय वसुमान् यज्ञो वसु वंसीय वसुमान् भूयासम्
अनुवाक ८ ॥ विषासहिं सहमानं सासहानं सहीयांसं सहमानं सहोजितम् । विश्वजितं स्वर्जितम् अभिजितं वसुजितं गोजितं संजितं संधनाजितम् । ईड्यं नाम ह्वय इन्द्रम् आयुष्मान् भूयासम्
(…) । (…) इन्द्रं देवानां प्रियो भूयासम्
(…) । (…) इन्द्रं प्रजानां प्रियो भूयासम्
विषासहिं सहमानं सासहानं सहीयांसं सहमानं सहोजितम् । विश्वजितं स्वर्जितम् अभिजितं वसुजितं गोजितं संजितं संधनाजितम् । ईड्यं नाम ह्वय इन्द्रं पशूनां प्रियो भूयासम्
उद् इह्य् उद् इहि सूर्य वर्चसा माभ्य् उद् इहि । द्विषंश् च मह्यं रध्यतु मा चाहं द्विषते रधं तवेद् विष्णो बहुधा वीर्याणि । त्वं नः पृणीहि पशुभिर् विश्वरूपैः स्वधायं नो धेहि परमे व्योमन्
उद् इह्य् उद् इहि सूर्य वर्चसा माभ्य् उद् इहि । यांश् च पश्यामि यांश् च न तेषु मे सुमतिं कृधि तवेद् विष्णो बहुधा वीर्याणि । त्वं नः पृणीहि पशुभिर् विश्वरूपैः स्वधायं नो धेहि परमे व्योमन्
मा त्वा दभन् सलिले अप्स्व् अन्तर् ये पाशिन उपतिष्टन्त्य् अत्र । हित्वाशस्तिं दिवम् आरुक्ष एतां स नो मृड सुमतौ ते स्याम तवेद् विष्णो बहुधा वीर्याणि । त्वं नः प्रीणीहि पशुभिर् विश्वरूपैः स्वधायं नो धेहि परमे व्योमन्
त्वं न इन्द्र महते सौभगाय- -अदब्दैः परि पाह्य् अक्तुभिस् तवेद् विष्णो बहुधा वीर्याणि । त्वं नः पृणीहि पशुभिर् विश्वरूपैः स्वधायं नो धेहि परमे व्योमन्
त्वं न इन्द्रोतिभिः शिवाभिः शंतमो भव । आरोहन् त्रिदिवं दिवो गृणानः सोमपीतये प्रियधामा स्वस्तये तवेद् विष्णो बहुधा वीर्याणि । त्वं नः पृणीहि पशुभिर् विश्वरूपैः स्वधायं नो धेहि परमे व्योमन्
त्वम् इन्द्रासि विश्ववित् सर्ववित् पूरुहूतस् त्वम् इन्द्रेमं सुहव स्तोमम् एरयस्व । शिवाभिस् तनूभिर् अभि नः सचस्व तवेद् विष्णो बहुधा वीर्याणि । त्वं नः पृणीहि पशुभिर् विश्वरूपैः स्वधायं नो धेहि परमे व्योमन्
अदब्धो दिवि पृथिव्याम् उतासि न त आपुर् महिमानम् अन्तरिक्षे । अदब्धेन ब्रह्मणा वावृधानः स त्वं न इन्द्र दिवि षं शर्म यच्छ तवेद् विष्णो बहुधा वीर्याणि । त्वं नः पृणीहि पशुभिर् विश्वरूपैः स्वधायं नो धेहि परमे व्योमन्
या त इन्द्र तनूर् अप्स्व् अन्तर् यान्तर् अग्नौ या पृथिव्यां या त इन्द्र पवमाने स्वर्विदः । ययेन्द्र तन्वान्तरिक्षं समापिथ तया त इन्द्र तन्वा सं शिशाधि तवेद् (…)
त्वाम् इन्द्र ब्रह्मणा वर्धयन्तः सत्रं निषेदुर् ऋषयो नाधमानास् तवेद् (…)
त्वं रक्षसे प्रतिशश् चतस्रस् त्वं शोचिषा नभसी वि भासि । ऋतस्य पन्थाम् अन्व् एषि विद्वांस् त्वम् इमा विश्वा भुवनाभि तिष्ठसि तवेद् विष्णो बहुधा वीर्याणि । त्वं नः पृणीहि पशुभिर् विश्वरूपैः स्वधायं नो धेहि परमे व्योमन्
सप्तभिः पराङ् तपस्य् एकयार्वाङ् अशस्तिम् एषि सुदिने बाधमानः । त्वं तृतं त्वं पर्य् एष्वित्सं सहस्रधारं वितथं स्वर्विदं तवेद् विष्णो बहुधा वीर्याणि । त्वं नः पृणीहि पशुभिर् विश्वरूपैः स्वधायं नो धेहि परमे व्योमन्
त्वम् इन्द्रस् त्वं महेन्द्रंस् त्वं विष्णुस् त्वं प्रजापतिः । तुभ्यं यज्ञो वि तायते तुभ्यं जुह्वति जुह्वतस् तवेद् विष्णो बहुधा वीर्याणि । त्वं नः पृणीहि पशुभिर् विश्वरूपैः स्वधायं नो धेहि परमे व्योमन्
असति सत् प्रतिष्ठितं सति भूतं प्रतिष्ठितम् । भूतं ह भव्य आहितं भव्यं भूते समाहितं तवेद् विष्णो बहुधा वीर्याणि । त्वं नः पृणीहि पशुभिर् विश्वरूपैः स्वधायं नो धेहि परमे व्योमन्
शुक्रो ऽसि भ्राजो ऽसि । स यथा त्वं भ्राजतो भ्राजो ऽस्य् एवाहं भ्राजतो भ्राज्यासम्
रुचिर् असि रोचो ऽसि । स यथा त्वं रुच्या रोचो ऽस्य् एवाहं प्रजया पशुभिर् ब्राह्मणवर्चसेन रोचिषीय
उद्यते नम उदायते नम उदिताय नमः । विराजे नमः स्वराजे नमः सम्राजे नमः
अस्तंयते नमो ऽस्तमेष्यते नमो ऽस्तमिताय नमः । विराजे नमः स्वराजे नमः सम्राजे नमः
आदित्य नावम् आरुक्षं शतारित्रां स्वस्तये । अहर् नो अद्य पीपरद् रात्री सत्राति पारयात्
सूर्य नावम् आरुक्षं शतारित्रां स्वस्तये । रात्री नो अद्य पीपरद् अहः सत्राति पारयात्
प्रजापतेर् आवृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च । जरदष्टिः कृतवीर्यो विहायाः सहस्रायुः सुकृतश् चरेयम्
ऋतेन गुप्त ऋतुभिश् च सर्वैर् भूतेन गुप्त उत भव्येन चाहम् । मा मा प्रापन्न् इषवो दैव्या या मा मानुषीर् अवसृष्टा वधाय
परिवृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च । मा मा प्रापत् पाप्मा मोत मृत्युर् अन्तर् दधे सलिलेन वाचः
अग्निर् मा गोपाः परि पातु विश्वतो व्युच्छन्तीर् उषसः पर्वता ध्रुवा । उद्यन् सूर्यो नुदतां मृत्युपाशान् सहस्रं प्राणा मयि ते रमन्ताम्
अनुवाक ९ ॥ ओ चित् सखायं सख्या ववृत्यां तिरः पुरू चिद् अर्णवं जगन्वान् । पितुर् नपातम् आ दधीत वेधा अधि क्षमि प्रतरं दीध्यानः
न ते सखा सख्यं वष्ट्य् एतत् सलक्ष्मा यद् विषुरूपा भवाति । सहस् पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन्
उशन्ति घा ते अमृतास एतद् एकस्य चित् त्यजसं मर्त्यस्य । नि ते मनो मनसि धाय्य् अस्मे जन्युः पतिस् तन्वम् आ विविश्याः
न यत् पुरा चकृमा कद् ध नूनम् ऋतं वदन्तो अनृतं रपेम । गन्धर्वो अप्स्व् अप्या च योषा सा नो नाभिः परमं जातमन् नौ
गर्भे नू नौ जनिता दम्पती कर् देवस् त्वष्टा सविता विश्वरूपः । नकिर् अस्य प्र मिनन्ति व्रतानि वेद नाव् अस्य पृथिवी उत द्यौः
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हणायून् । आसन्निषून् हृतस्वसो मयोभून् य एषां भृत्याम् ऋणधत् स जीवात्
को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत् । बृहन् मित्रस्य वरुणस्य धाम कद् उ ब्रव आहनो वीच्या नॄन्
यमस्य मा यम्यं काम आगन् समाने योनौ सहशेय्याय । जायेव पत्ये तन्वं रिरिच्यां वि चिद् वृहेव रथ्येव चक्रा
न तिष्ठति न नि मिषन्त्य् एते देवानां स्पश इह ये चरन्ति । अन्येन मद् आहनो याहि भूयं तेन वि वृह रथ्येव चक्रा
रात्रीभिर् अस्मा अहभिर् दशस्येत् सूर्यस्य चक्षुर् मुहुर् उन् मिमीयात् । दिवा पृथिव्या मिथुना सबन्धू यमीर् यमस्य विवृहेद् अजामि
आ घा ता गच्छान् उत्तरा युगानि यत्र जामयः कृणवन्न् अजामि । उप बर्बृहि वृषभाय बाहुम् अन्यम् इच्छस्व सुभगे पतिं मत्
किं भ्रातासद् यद् अनाथं भवाति किम् उ स्वसा यन् निरृतिर् निगच्छात् । काममूता बह्व् एतद् रपामि तन्वा मे तन्वं सं पिपृग्धि
न वा उ ते तन्वा तन्वं सं पपृच्यां पापम् आहुर् यः स्वसारं निगच्छात् । अन्येन मत् तः प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्य् एतत्
न ते नाथं यम्य् अत्राहम् अस्मि न ते नूनं तन्वा सं पपृच्याम् । असंयद् एतन् मनसो हृदो मे भ्राता स्वसुः शयने यच् छयीय
बतो बतासि यम नैव ते मनो हृदयं चाविदाम । अन्या किल त्वां कक्षेव युक्तं परि ष्वजाते लिबुजेव वृक्षम्
तस्य वा त्वं मन इच्छ स वा तव- -अधा कृणुस्व संविदं सुभद्राम्
त्रीणि छन्दांसि कवयो वि चेतिरे पुरुरूपं दर्शतं विश्वचक्षणम् । वाता आप ओषधयस् तान्य् एकस्मिन् भुवन आर्पितानि
वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेर् अदाभ्यः । विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजति यज्ञियाꣳ ऋतून्
रपद् गन्धर्वीर् अप्या च योषणा नदस्य नादे परि पातु नो मनः । इष्टस्य मध्ये अदितिर् नु पातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति
सो चिन् नु भद्रा क्षुमति यशस्वत्य् उषा उवास मनवे स्वर्वती । यद् ईम् उशन्तम् उशताम् अनु क्रतुम् अग्निं होतारं विदथाय जीजनन्
अध त्यं द्रप्सं विभवं विचक्षणं द्विर् आभरद् विषितः श्येनो अध्वरे । यदि विशो वृणते दस्मम् आर्या अग्निं होतारम् अध धीर् अजायत
सदासि रण्वो यवसेव पुष्यते होत्राभिर् अग्ने मनुषः स्वध्वरः । विप्रस्य वा यच् छशमान उक्थ्यं वाजं शस्यवाꣳ उपयाहि भूरिभिः
उद् ईरय पितरा जार आभिशम् इयक्षति हर्यतो हृत्त इष्यति । विवक्ति वह्निः स्वपस्यते मखस् तविष्यते असुरो वेपते मतीन्
यस् ते अग्ने सुमतिं मर्त्यो अक्षत सहसः सूनो ऽति स प्र शृण्वे । इषं दधानो वहमानो अश्वैर् आ स द्युमाꣳ अमवान् भूषति द्यून्
श्रुधी नो अग्ने सदने सधस्थे युक्ष्यु रथम् अमृतस्य द्रवित्नुम् । आ नो वह रोदसी वेदपुत्रे माकिर् देवानाम् अप भूर् इह स्याः
यद् अग्न एषा समितिर् भवाति देवी देवेषु यजता यजत्र । रत्ना च यद् वि भजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात्
प्रत्य् अग्निर् उषसाम् अग्रम् अख्यत् प्रत्य् अहानि प्रथमो जातवेदाः । प्रति सूर्यस्य पुरुत्रा च रश्मीन् प्रति द्यावापृथिवी आ ततान
अन्व् अग्निर् उषसाम् अग्रम् अख्यद् अन्व् अहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीन् अनु द्यावापृथिवी आ ततान
द्यावा ह क्षामा प्रथमे ऋतेन- -अभिस्रावे भवतः प्रत्यवाचाः । देवो यन् मर्तान् यतथाय कृण्वन् सीदद् धोता प्रत्यङ् स्वम् असून्
देवो देवान् परिभूर् ऋतेन वहा नो हव्यं प्रथमश् चिकित्वान् । धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान्
अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमि शृणुतं रोदसी मे । अहा यद् देवा असुनीतिम् आयन् मध्वा नो अत्र पितरा शशीताम्
स्वावृग् देवस्यामृतं यदी गोर् अतो जातासो धारयन्त उर्वी । विश्वे देवा अनु तत् ते यजुर् गुर् दुहे यद् एनी दिव्यं घृतं वाः
किं स्विन् नो राजा जगृहे कद् अस्य- -अति व्रतं चकृमा को वि वेद । मित्रश् चिद् धि ष्मा जुहुराणो देवान् श्लोको न यातान् अपि वाजो अस्ति
दुर्मन्त्व् अत्रामृतस्य नाम सलक्ष्मा यद् विषुरूपा भवाति । यमस्य यो मनवते सुमन्त्व् अग्ने तम् ऋष्व पाह्य् अप्रयुच्छन्
यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते । सूर्ये ज्योतिर् अदधुर् मास्य् अक्तून् परि तद् द्योतनं चरतो अजस्रा
यस्मिन् देवा मन्मनि संचरन्त्य् अपाच्ये त्ये न वयम् अस्य विद्म । मित्रो नो अत्रादितिर् अनागान् सविता देवो वरुणाय वोचत्
सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे । स्तुष ऊ षु नृतमाय धृष्णवे
शवसा ह्य् असि श्रुतो वृत्रहत्येन वृत्रहा । मघैर् मघोनो अति शूर दाससि
स्तेगो न क्षाम् अत्य् एषि पृथिवीं मही नु वाता इहा वान्तु भूमौ । मित्रो नो अत्र वरुणो अज्यमानो ऽग्निर् वने न व्य् असृष्ट शोकम्
स्तुहि श्रुतं गर्तसदं जनानां राजानं भीमम् उपहत्नुम् उग्रम् । मृडा जरित्रे रुद्र स्तवानो अन्यं ते अस्मन् नि वपन्तु सेन्यम्
सरस्वतीं देवयन्तो हवन्ते सरस्वतीम् अध्वरे तायमाने । सरस्वतीं सुकृतो ह्वयन्त सरस्वती दाशुषे वार्यं दात्
सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञम् अभिनक्षमाणाः । आसद्यास्मिन् बर्हिषि मादयस्व- -अनमीवा इष आ धेह्य् अस्मे
सरस्वती या सरथं ययाथ- -उक्थैः स्वधाभिर् देवि पितृभिर् मदन्ती । सहस्रार्घम् इडो अत्र भागं रायस्पोषं यजमानाय धेहि
उद् ईरताम् अवर उत् परास उन् मध्यमाः पितरः सोम्यासः । असुं य ईयुर् अवृका ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु
आहं पितॄन् सुविदत्राꣳ अवित्सि नपातं च विक्रमणं च विष्णोः । बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस् त इहागमिष्ठाः
इदं पितृभ्य इत्य् एका
मातली कवैर् यमो अङ्गिरोभिर् बृहस्पतिर् ऋक्मभिर् वावृधानः । यांश् च देवा वावृधुर् ये च देवान् स्वाहान् ये स्वधयान् ये मदन्ति
स्वादुष् किलायं मधुमाꣳ उतायं तीव्रः किलायं रसवाꣳ उतायम् । उतो न्व् अस्य पपिवाꣳसम् इन्द्रं न कश् चन सहत आहवेषु
परेयिवांसं प्रवतो महीर् अनु बहुभ्यः पन्थाम् अनुपस्पशानः । वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य
यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिर् अपभर्तवा उ । यत्रा नः पूर्वे पितरः परेयुर् एना जज्ञानाः पथ्या अनु स्वाः
बर्हिषदः पितर ऊत्य् अर्वाग् इमा वो हव्या चकृमा जुषध्वम् । त आ गतावसा शंतमेन- -अथा नः शं योर् अरपो दधात
आच्या जानु दक्षिणतो निषद्य- -इमं यज्ञम् अभि गृणीत विश्वे । मा हिंसिष्ट पितरः केन चिन् नो यद् व आगः पुरुषता कराम
त्वष्टा दुहित्रे वहतुं कृणोति- -इदं विश्वं भुवनं सम् एति । यमस्य माता पर्युह्यमाणा महो जाया विवस्वतो ननाश
प्रेहि प्रेहि पथिभिः पूर्वेभिर् यत्रा ते पूर्वे पितरः परेताः । उभा राजाना स्वधया मदन्ता यमं पश्यासि वरुणं च देवम्
अपेत वीत वि च सर्पतातो ऽस्म एतं पितरो लोकम् अक्रन् । अहोभिर् अद्भिर् अक्तुभिर् व्यक्तं यमो ददात्य् अवसानम् अस्मै
उशन्तस् त्वा नि धीमह्य् उशन्तः सम् इधीमहि । उशन्न् उशत आ वह पितॄन् हविषे अत्तवे
द्युमन्तस् त्वा नि धीमहि द्युमन्तः सम् इधीमहि । द्युमान् द्युमत आ वह पितॄन् हविषे अत्तवे
अनुवाक १० ॥ अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । तेषां वयं सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम
अङ्गिरोभिर् यज्ञियैर् आ गहीह यम वैरूपैर् इह मादयस्व । विवस्वन्तं हुवे यः पिता ते अस्मिन् यज्ञे बर्हिष्य् आ निषद्य
इमं यम प्रस्तरम् आ हि सीद- -अङ्गिरोभिः पितृभिः संविदानः । आ त्वा मन्त्राः कविशस्ता वहन्त्य् एना राजन् हविषो मादयस्व
यमाय सोमं सुनुत यमाय जुहुता हविः । यमं ह यज्ञो गच्छत्व् अग्निदूतो अरंकृतः
यमाय घृतवद् धविर् जुहोता प्र च तिष्ठत । स नो जीवेष्व् आ यमद् दीर्घम् आयुष् यद् ईयसे
यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन । इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः
त्रिकद्रुकेभिः पतति षड् उर्वीर् एकम् इद् बृहत् । त्रिष्टुब् गायत्री छन्दांसि सर्वा ता यम आर्पिता
मैनम् अग्ने वि दहो मा वि शोचो मास्य त्वचं चक्षुषो मा शरीरम् । यदा शृतं कृणवो जातवेदो ऽथेम् एनं प्र हिणुतात् पितृभ्यः
शृतं यदा करसि जातवेदो ऽथेम् एनं परि दत्तात् पितृभ्यः । यदा गच्छात्य् असुनीतिम् एषो ऽथा देवानां वशनीर् भवाति
सूर्यं चक्षुर् गच्छतु वातम् आत्मा दिवं च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितम् ओषधीषु प्रति तिष्ठा शरीरैः
अजो भागस् तपसस् तं तपस्व तं ते शोचिस् तपतु तं ते अर्चिः । यास् ते शिवास् तन्वो जातवेदस् ताभिर् वहैनं सुकृताम् उलोकम्
यास् ते शोचयो रंहयो जातवेदस् तन्वः क्रूराः परीङ्खयन्ते । अजं यन्तम् अनु तास् ते सम् ऋण्वताम् अथेतराभिः शिवतमाभिः शृतं कृधि
अव सृज पुनर् अग्ने पितृभ्यो यस् त आहुतश् चरति स्वधाभिः । आयुर् वसान उप यातु शेषः सं गच्छतां तन्वा सुवर्चाः
अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा । अधा पितॄन् सुविदत्राꣳ उपेहि यमेन ये सधमादं मदन्ति
यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसा । ताभ्याम् एनं परि धेहि राजन् स्वस्ति चास्मा अनमीवं च धेहि
उरूणसाव् इत्य् एका
सोम एकेभ्यः पवते घृतम् एक उपासते । येभ्यो मधु प्रजावति तांश् चिद् एवापि गच्छतात्
ये च पूर्व ऋतसाचा ऋतजाता ऋतायवः । पितॄन् तपस्वतो यम तपोजाꣳ अपि गच्छतात्
तपसा ये अनाधृष्यास् तपसा ये स्वर् ययुः । तपो ये चक्रिरे महस् तांश् चिद् एवापि गच्छतात्
सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् । ऋषीन् तपस्वतो यम तपोजाꣳ अपि गच्छतात्
ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः । ये वा सहस्रदक्षिणास् तंश् चिद् एवापि गच्छतात्
स्योनास्मै पृथिवी भव- -अनृक्षरा निवेशिनी । यच्छास्मै शर्म सप्रथाः
असंबाधे पृथिव्या उरौ लोके महीयते । स्वधा याश् चकृषे जीवं तास् ते सन्तु मधुश्चुतः
ह्वयामि ते नमसा म इमं गृहम् उप जुजुषाण एहि । सं गच्छस्व पितृभिर् यच् च दत्तं स्योनास् त्वा वाता उप वान्तु शग्माः
आ त्वा वहन्तु मरुत उदवाहा उदप्लुतः । अजेन कृण्वन्तः शीतं वर्षेणो यन्तु बाल् इति
उद् अह्वम् आयुर् आयुषे क्रत्वे दक्षाय जीवसे । स्वाङ् गच्छतु ते मनो अधा पितॄन् अपि द्रव
मा ते मनो मासुर् अङ्गानां मा रमश् च ते । मा ते हास्त तन्वः किं चनेह
मा वृक्षः सं बाधिष्ट मा देवी पृथिवी मही । लोकं पितृषु वित्त्वा- -एधस्व यमराजसु
यत् ते अङ्गं विनिहितं पराचैर् अपानः प्राणो य उ ते परेतः । यत् ते संगत्य पितरः सनीडा घासे घासम् आ सादयन्तु
अपेमं जीवा अरुधन् गृहेभ्यस् तं निर् ऊहत परि ग्रामाद् इतः । मृत्यो यमस्यासि दूतः प्रचेता असून् पितृभ्यो गमयां चकर्थ
ये दस्यवः पितृषु प्रविष्टा ज्ञातिमुखा अहुतादश् चरन्ति । परापुरो निपुरो ये चरन्ति तान् अस्माद् यज्ञात् प्र धमन्तु देवाः
सं विशन्त्व् इह पितरः स्वा नः स्योनं कृण्वन्तु प्रतिरन्त आयुः । तेभ्यः शकेम हविषा यक्षमाणा ज्योग् जीवन्तः शरदः पुरूचीः
यां ते धेनुं निगृणामि यं वा ते क्षीर ओदनम् । तेना जनस्यासौ भर्ता यो ऽत्रासद् अजीवनः
अश्वावतीं प्र तर या सुशेवा ऋक्षीकां वा प्रतरं नवीयः । यस् त्वा जघान वध्यः सो अस्तु मा सो अन्यद् विदत भागधेयम्
यमः परस्ताद् अवरो विवस्वान् ततः परो नाति पश्याम्य् अन्यत् । यमे अध्वरो अधि मे निविष्टो भुवे विवस्वान् अन्वाततान
अपागूहन्न् अमृतां मर्त्येभ्यः कृत्वी सुपर्णाम् अदधुर् विवस्वते । उताश्विनाव् अभरद् यत् तद् आसीद् अजहाद् उ द्वा मिथुना सरण्यूः
ये निखाता ये परोप्ता ये दग्धा ये चोद्धिताः । सर्वांस् तान् अग्न आ वह पितॄन् हविषे अत्तवे
ये चेह पितरो ये चेह न यांश् च विद्म याꣳ उ च न प्रविद्म । त्वं वेत्थ यदि ते जातवेदः स्वधाभिर् यज्ञं सुकृतं जुषन्ताम्
शं तप माति तपो अग्ने मा तन्वं तपः । वनेषु शुष्मो अस्तु ते पृथिव्याम् अस्तु यद् धरः
ददाम्य् अस्मा अवसानम् एतद् य एष आगन् मम चेद् अभूद् इह । यमश् चिकित्वान् प्रत्य् एतद् आह ममैष राय उप तिष्ठताम् इह
प्रेमां मात्रां मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा
उद् इमाम् (…)
अपेमम् (…)
निर् इमां मात्रां मिमीमहे यथा (…)
अमासि मात्रां स्वर् अगाम् आयुष्मान् भूयासम् । यथापरं न मासातै । शते शरत्सु नो पुरा
प्राणो अपान उत वा व्यान आयुश् चक्षुर् दृशे सूर्याय । अपरिपरेण पथा यमराज्ञः पितॄन् गच्छ
ये नः पितुः पितरो ये पितामहा य आविविशुर् उर्व् अन्तरिक्षम् । य आक्षीयन्ति पृथिवीम् उत द्यां तेभ्यः पितृभ्यो नमसा विधेम
ये अग्रवः शशमानाः परेषु हित्वा द्वेषांस्य् अनपत्यवन्तः । ते द्याम् उदित्याविदन्त लोकं नाकस पृष्ठे अदि दीध्यानाः
उदन्वती द्यौर् अवमा पीलूमतीति मध्यमा । तृतीया ह प्रद्यौर् इति यस्यां पितर आसते
इदम् इद् वा उत्तमं दिवि पश्यति सूर्यम् । मात्रा पुत्रं यथा सिचा- -अभ्य् एनं भूम ऊर्णुहि ॥ भत्त्. एमं]
इदम् इद् वा उ नापरं जरसीत उतापरम् । जाया पतिम् इव वाससा- -अभ्य् एनं भूम ऊर्णुहि
अभि त्वोर्णोमि पृथिव्या मातुर् वस्त्रेण भद्रया । जीवेषु भद्रं तन् मयि स्वधा पितृष्व् अमा तव
अग्नीषोमा पथिकृता स्योनं देवेभ्यो रत्नं दधतुर् वि लोकम् । उप प्रेष्यतां पूषणं यो जहात्य् अक्तो यानैः पथिभिस् तत्र गच्छतु
पूषा त्वेतश् च्यावयतु प्र विद्वान् अनष्टपशुर् भुवनस्य गोपाः । स त्वैतेभ्यः परि ददत् पितृभ्यो अग्निर् देवेभ्यः सुविदत्र्येभ्यः
आयुर् विश्वायुः परि पातु त्वा पूषा त्वा पातु प्रपथे पुरस्तात् । यत्रासते सुकृतो यत्र ते ययुस् तत्र त्वा देवः सविता दधातु
इदं त्वा वासः प्रथमं न आगन्न् अपैतद् ऊह यद् इहाबिभः पुरा । इष्टापूर्तम् अनु सं क्राम विद्वान् यत्र ते गच्छं बहुधा तत्र गच्छ
इमौ युनज्मि ते वह्नी असुनीतये नेतवै । ताभ्यां यमस्य सादनं समितिं चोप गच्छतात्
अग्नेर् वर्म परि गोभिर् व्ययस्व सं प्रोर्णुष्व पीवसा मेधसा च । नेत् त्वा धृष्णुर् हरसा जर्हृषाणो दधृग् विधक्ष्यन् न्यङ्खयातै
धनुर् हस्ताद् आददानो मृतस्य सह क्षत्रेण वर्चसा बलेन । अत्रैव त्वम् इह वयं सुवीरा विश्वा मृधो अभिमतीर् जयेम
दण्डं हस्ताद् आददानो मृतस्य सह श्रोत्रेण वर्चसा बलेन । समागृभाय वसु भूरि पुष्टम् अर्वाङ् त्वम् एह्य् अभि जीवलोकम्
इयं नारी पतिलोकं गृणाना नि पद्यत उप त्वा मर्त्य प्रेतम् । धर्मं पुराणम् अनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि
उद् ईर्ष्वा नार्य् अभि जीवलोकं गातासुम् एनं तम् उप शेष एहि । हस्तग्राभस्य दधिषोस् तवेदं पत्युर् जनित्वम् अभि सं बभूविथ
अनुवाक ११ ॥ अपश्यं युवतीं नीयमानां जीवां मृतेभ्यः परिणीयमानाम् । अन्धेन यत् तमसा प्रावृतासीत् प्राक्तो अवाचीम् अनयं तद् एनाम्
प्रजानत्य् अघ्न्ये जीवलोकं भवन्ती देवानां पन्थाम् अनुसंचरन्ती । एष ते गोपतिस् तं जुषस्व स्वर्गं लोकम् अधि रोहयैनम्
उप द्याम् उप वेतसम् अवत्तरो नदीनाम् । अग्ने पित्तम् अपाम् असि
यं त्वम् अग्ने समदहस् तम् उ निर् वापया पुनः । कियांबुवत्र रोहतु शाण्डदूर्वा व्यल्कशा
इदं त एकं पर उ त एकं तृतीयेन ज्योतिषा सं विशस्व । संवेशने तन्वश् चारुर् एधि प्रियो देवानां परमे सधस्थे
उत् तिष्ठ प्रेहि प्र द्रव- -ओकः कृणुष्व सलिले सधस्थे । तत्र त्वं पितृभिः संविदानः सं सोमेन मदस्व सं स्वधाभिः
प्र च्यवस्व तन्वः सं भरस्व मा ते गात्रं वि हायि मो शरीरम् । मनो निविष्टमम् अनु सं प्र विशस्व यत्र भूमेर् जुषसे तत्र गच्छ
वर्चसा मां पितरः सोम्यासो अञ्जन्तु देवा मध्वा घृतेन । चक्षुषो मा प्रतरं तारयन्तो जरसे मा जरदष्टिं वर्धयन्तु
वर्चसा मां सम् अनक्त्य् अग्निर् मेधां मे विष्णुर् न्य् अनक्त्य् आसनि । रयिं मे विश्वे नि यच्छन्तु देवाः शुद्धा आपः पवनैर् मा पूनन्तु
मित्रावरुणा परि माम् अधाताम् आदित्या मा स्वरवो वर्धयन्तु । वर्चो म इन्द्रो न्य् अनक्तु हस्तयोर् जरदष्टिं मा सविता कृणोतु
यो ममार प्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकम् एतम् । वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य
परा यात पितर आ च यात- -अयं वो यज्ञो मध्वा समक्तः । दत्तो अस्मभ्यं द्रविणेह भद्रा रयिं च नः सर्ववीरं दधात
कण्वः कक्षीवान् पुरुमीढो अगस्त्यः श्यावाश्वः सोभर्य् अर्चनानाः । विश्वामित्रो ऽयं जमदग्निर् वसिष्ठो ऽवन्तु नः कश्यपो वामदेवः
विश्वामित्र जमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव । शर्दिर् नो अत्रिर् अग्रभीन् नमोभिः सुशंसासः पितरो मृडाता नः
कस्ये मृजाना अति यन्ति रिप्रम् आयुर् दधानाः पितरं नवीयः । आप्यायमानाः प्रजया धनेन शुद्धा भवन्तः शुचयः पावकाः
यद् वो रुद्रं पितरः सोम्यं च तेनो सचध्वं स्वयशसो हि भूत । ते अर्वाणः कवय आ शृणोत सुविदत्रा विदथे हूयमानाः
ये अत्रयो अङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः । दक्षिणावन्तः सुकृतो य उ स्थ- -आसद्यास्मिन् बर्हिषि मादयध्वम्
अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतम् आशुषाणाः । शुचीद् अयन् दीधितिम् उक्थशसः क्षामा भिन्दन्तो अरुणीर् उप ब्रुवन्
सुकर्माणः सुरुचो देवयन्तो अयो न देवा जनिमा धमन्तः । शुचन्तो अग्निं ववृधन्त इन्द्रम् उर्वीं गव्यां बर्हिषदं नो अक्रन्
आ यूथेव क्षुमति पश्वो अख्यद् देवानां यज् जनिमान्त्य् उग्रः । मार्तानां चिद् उर्वशीर् अकृप्रन् वृधे चिद् अर्य उपरस्यायोः
अकर्म ते स्वपसो अभूम र्तम् अजस्रन्न् उषसो विभातीः । विश्वं तद् भद्रं यद् वहन्ति देवा बृहद् वदेम विदथे सुवीराः
इन्द्रो मा मरुत्वान् प्राच्या दिशः पातु बाहुच्युता पृथिवी द्याम् इवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां घृतभागा इह स्थ
धाता मा निरृत्या दक्षिणाया दिशः (…)
अदितिर् मादित्यैः प्रतीच्या दिशः (…)
आदित्यो मा विश्वैर् देवैर् उदीच्या दिशः पातु बाहुच्युता पृथिवी द्याम् इवोपरि । (…)
धर्ता घ त्वा धरुणो धारयात्य् ऊर्ध्वं भानुं सविता द्याम् इवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां घृतभागा इह स्थ
प्राच्यां त्वा दिशि पुरा संवृतः स्वदायाम् आ दधामि बाहुच्युता पृथिवी द्याम् इवोपरि । (…)
दक्षिणायां त्वा दिशि (…)
प्रतीच्यां त्वा दिशि (…)
उदीच्यां त्वा दिशि (…)
ध्रुवायां त्वा दिशि (…) ॥ ऊर्ध्वायां त्वा दिशि पुरा संवृतः स्वधायाम् आ दधामि बाहुच्युता पृथिवी द्याम् इवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां घृतभागा इहा स्थ
ध्रुवो ऽसि
धरुणो ऽसि
वंसगो ऽसि
उदपूर् असि
घृतपूर् असि
मधुपूर् असि
वातपूर् असि
इतश् चामुतश् चावतं यमे इव यतमाने यद् ऐतम् । प्र वां भरन् मानुषी देवयन्त
आ सीदतं स्वम् उलोकं विदाने स्वासस्थे भवतम् इन्दवे नः । युजे वां ब्रह्म पूर्व्यं नमोभिर् वि श्लोक एति पथ्येव सूरेः
शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः । त्रीणि पदानि रुपो अन्व् अरोहं चतुष्पदीम् अन्व् एमि व्रतेन
अक्षरेण प्रति मिम एताम् ऋतस्य नाभाव् अधि सं पूनामि । देवेभ्यः कम् अवृणीत मृत्युं प्रजायै कम् अमृतं नावृणीत
बृहस्पतिं यज्ञाꣳ अकृण्वत र्षिं प्रियां यमस् तन्वं प्रा रिरेख । त्वम् अग्न ईडितो जातवेदो अवाड् ढव्यानी सुरभीणि कृत्वी । प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि
आसीनासो अरुणीनाम् उपस्थे रयिं धत्त दाशुषे मर्त्याय । पुत्रेभ्यः पितरस् तस्य वस्वः प्र यच्छत त इहोर्जं दधात
अग्निष्वत्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः । अत्ता हवींषि प्रयतानि बर्हिषि रयिं च नः सर्ववीरं दधात
उपहूताः पितरः सोम्यासो बर्हिष्व् एषु निधिषु प्रियेषु । त आ गमन्तु त इह श्रुवन्त्व् अधि ब्रुवन्तु ते ऽवन्त्व् अस्मान्
ये नः पूर्वे पितरः सोम्यासो अनूहिरे सोमपीथं वसिस्थाः । तेभिर् यमः संरराणो हवींष्य् उशन्न् उशद्भिः प्रतिकामम् अत्तु
ये तातृषुर् देवत्रा जीहमाना होत्राविद स्तोमतष्टासो अर्कैः । आग्ने याहि सुविदत्र्येभिर् अर्वाक् सत्यैः कव्यैः पितृभिर् घर्मसद्भिः
ये सत्यासो हविरदो हविष्या इन्द्रेण देवैः सरथं दधानाः । आग्ने याहि सहस्रं देववन्दैः परैः पूर्वैः पितृभिर् घर्मसद्भिः
उप सर्प मातरं भूमिम् एताम् उरुव्यचसं पृथिवीं सुशेवाम् । ऊर्णम्रदाः पृथिवी दक्षिणावत एषा त्वा पातु निरृतेर् उपस्थात्
उच् छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपवञ्चना । माता पुत्रं यथा सिचा- -अभ्य् एनं भूम ऊर्णुहि
उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् । ते गृहासो घृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्व् अत्र
उत् ते स्तभ्नाति पृथिवीं त्वत् परि- -इमं लोकं विदधन् मो अहर्षम् । एतां स्थूणां पितरो धारयन्त्व् अत्रा यमः सदना ते कृणोतु
अथर्वा पूर्णं चमसं यम् इन्द्रायाबिभर् वाजिनीवते । तस्मिन् कृणोतु सुकृतस्य लोकं तस्मिन्न् इन्दुः पवते विश्वदानीम्
अमुम् अग्ने चमसं मा वि जिज्ञरः प्रियो देवानाम् उप सोम्यानाम् । एष यश् चमसो देवपानस् तस्मिन्न् एवा अमृता मादयन्ते
यत् ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः । अग्निष् टद् विश्वाद् आ पृणातु विद्वान् सोमश् चा यो ब्राह्मणाꣳ आविवेश
पयस्वतीर् ओषधयः पयस्वान् मामकं वचः । अथो पयस्वद् यत् पयस् तेन मा सह जिन्वथ
इमा नरीत्य् एका
सं गच्छस्व पितृभिः सं यमेन- -इष्टापूर्तेन परमे व्योमन् । हित्वावद्यं पुनर् अस्तम् एहि सं गच्छस्व तन्वा सुवर्चाः
ये अग्निदग्धा ये ऽनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते । तेभ्यः स्वराड् असुनीतिम् एतां यथावशं तन्वं कल्पयाति
आ रभस्व जातवेदस् तेजस्वद् धरो अस्तु ते । शरीरम् अस्य सं दह- -अथैनं धेहि सुकृताम् उलोके
पुनर् देहि वनस्पते य एष निहितस् त्वयि । यथा यमसादन आसातै विदथा वदन्
शं ते निहारो भवतु शं ते पृष्ठाव शीयताम् । शीतिके शीतिकावत्य् अह्लादके ह्लादकावति । मण्डूक्याप्सु सं भव इमं स्व् अग्निं शमय
विवस्वान् नो ऽभयं कृणोतु परैतु मृत्युर् अमृतं न ऐतु । इह मे वीरा बहवो भवन्त्व् अश्वावद् गोमन् मय्य् अस्तु पुष्टम्
विवस्वान् नो ऽमृतत्वे दधातु यः सुत्रामा जीरदानुः सुदानुः । इमान् रक्षः पुरुषान् आ जरिम्णो मो ष्व् एषाम् असवो यमं गुः
यो दध्रे अन्तरिक्षेण मह्ना पितॄणां कविः प्रमतिर् मतीनाम् । तम् अर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात्
आ रोहत दिवम् उत्तमाम् ऋषयो मा बिभीतन । सोमपाः सोमपायिन इदं वः क्रियते हविर् अगन्म ज्योतिर् उत्तमम्
प्र केतुन बृहता भात्य् अग्निर् आ रोदसी वृषभो रोरवीति । दिवश् चिद् अन्ताꣳ उपमाꣳ उद् आनड् अपाम् उपस्थे महिषो ववर्ध
नाके सुपर्णम् उप यत् पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्यम्
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । शिक्षा णो अस्मिन् पुरुहूत वाजिनि जीवा ज्योतिर् अशीमहि
ये ते पूर्व इत्य् एका
अनुवाक १२ ॥ आ रोहत जनित्रीं जातवेदसः पितृयानैः सं व आ रोहयामि । अवाड् ढ्व्येषिता हव्यवाह ईजानं युक्ताः सुकृतं धत्त लोके
देवा यज्ञम् ऋतवः कल्पयन्ति हविः पुरोडाशां स्रुचो यज्ञ आयुधानि । तेभिर् याहि पथिभिर् देवयानैर् यैर् ईजानाः स्वर्गं यन्ति लोकम्
ऋतस्य पन्थाम् अनु पश्य साध्व् अङ्गिरसः सुकृतो येन यन्ति व्रध्नस्य विष्टप्य् अधि वि क्रमस्व यत्रादित्या अमृतम् ईक्षयन्ति
त्रयः सुपर्णा उपरस्यासखायू नाकस्य पृष्ठे अधि विष्टपि श्रिताः । स्वर्गा लोका अमृतेन विष्टा कामंकामं यजमानाय दुह्राम्
जुहूर् दाधार द्याम् उपहृद् अन्तरिक्षं ध्रुवां दाधार पृथिवीं प्रतिष्ठाम् । प्रतिमा लोकानां घृतपृष्ठा प्रपीनां स्वधाम् ऊर्जं यजमानाय दुह्राम्
ध्रुव आ रोह पृथिवीं विश्ववेदसम् अन्तरिक्षम् उपहृद् आ क्रमस्व । जुहु द्यां गच्छ यजमानेन साकं स्रुवेन वत्सेन दिशः प्रपीनाः सर्वा धुक्षा अहृणीयमानाः
तीर्थैस् तरन्ति प्रवतो महीर् अनु यज्ञकृतः सुकृतो येन यन्ति । अत्राभजं यजमानाय लोकं दिशो भूतानि मयि कल्पयन्त
अङ्गिरसाम् अयनं पूर्वो अग्निर् आदित्यानाम् अयनं गार्हपत्यो दक्षिणानाम् अयनं दक्षिणाग्निः । पद्मानम् अग्नेर् विहितस्य ब्राह्मणा समङ्गः सर्व उप याहि शग्मम्
पूर्वो अग्निस् त्वा तपतु शं पुरस्ताच् छं पश्चात् तपतु गार्हपत्यः । दक्षिणाग्निस् तपतु शर्म वर्म- -उत्तरतो मध्यतो अन्तरिक्षाद् दिशोदिशो अग्ने परि पाहि घोरात्
यूयम् अग्ने शन्तमाभिस् तनूभिर् ईजानो अभि लोकं स्वर्गम् । अश्व भूत्वा पृष्टिवाहो वहाथ यत्र देवैः सधमादं मदन्ति
शम् अग्ने पश्चात् तप शं पुरस्ताच् छम् अधरात् तप जातवेदः । एकस् त्रेधा विहितो जातवेदः सम्यङ् एनं दक्षिणाग्निः
पद्मानम् अग्नेर् विहितस्य ब्रह्मणा समङ्गनं धेहि सुकृताम् उलोकम् । तम् अग्नयः समिद्धा आ भरन्तां प्रजापत्यं मेध्यं जातवेदसः । शृतं कृण्वन्त इह मा वि चक्षणन्
यज्ञ एति विततः कल्पमान ईजानो अभि लोकं स्वर्गम् । तम् अग्नयः सर्वहुतं जुषन्तां तम् अस्मिं देवा जानतां भागधेयम्
ईजानश् चित्तम् आरुक्षद् अग्निं नाकस्य पृष्ठं दिवम् उत्पतिष्यन् । तस्मै प्र भातु नभसो ज्योतिषीमान् स्वर्गः पन्था वितरो देवयानः
अग्निर् होताध्वर्युष् टे बृहस्पतिर् इन्द्रो ब्रह्मा दक्षिणतस् ते अस्तु । हुतो ऽयं संस्थितो यज्ञ एतु यत्र पूर्वम् अयनं हुतानाम्
अपूपवान् क्षीरवांश् चरुर् एह सीदतु- -उत्तभ्नुवन् पृथिवीं द्याम् इवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां घृतभागा इह स्थ
अपूपवान् द्रप्सवांश् चरुर् एह (…)
अपूपवान् दधिवांश् चरुर् एह (…)
अपूपवान् घृतवांश् चरुर् एह (…)
अपूपवान् मांसवांश् चरुर् एह (…)
अपूपवान् मधुवांश् चरुर् एह (…) ॥ अपूपवान् अन्नवांश् चरुर् एह (…) ॥ अपूपवान् रसवांश् चरुर् एह (…) ॥ अपूपवान् ऊर्जावांश् चरुर् एह (…) ॥ अपूपवान् यववांश् चरुर् एह सीदतु- -उत्तभ्नुवन् पृथिवीं द्याम् इवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां घृतभागा इह स्थ
अपूपपिहितान् कुम्भान् यांस् ते देवा अधारयन् । ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः
यास् ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः । तास् ते सन्तु विभ्वीः प्रभ्वीस् तास् ते राजानु मन्यतां यमो अक्षितं भूयांसम्
द्रप्सश् चस्कन्द प्रथमाम् अनु द्याम् इमं च योनिम् अनु यश् च पूर्वः । ऋतस्य योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः
शतधारं वायुम् अर्कं स्वर्विदं नृचक्षसस् ते अभि चक्षते रयिम् । ये गृणन्ति प्र च यक्षन्ति सर्वदा ते दुह्रते दक्षिणां सप्तमातरम्
उत्सन् दुहन्ति कलशं चतुर्बिलं मृडां धेनुं मधुमतीं स्वस्तये । ऊर्जं मदन्तीम् अदितिं जनेष्व् अग्ने मा हिंसीः परमे व्योमन्
एतत् ते देवः सविता वासो ददातु भर्तवे । तत् त्वं यमस्य राज्ये वसानस् तार्प्यं चर
धाना धेनुर् भवद् वत्सो अस्यास् तिलो ऽभवत् । तां त्वं यमस्य राज्ये +ऽक्षिताम् उप जीवतात्
एतास् ते असौ धानाः कामदुघा भवन्तु । एनीः श्येनीर् विरूपाः सरूपास् तिलवत्सा उप तिष्ठन्तु त्वात्
एनीर् धाना हरिणीः श्येनीर् आसु कृष्णा धाना हरिणीर् धेनवस् ते । तिलवत्सा ऊर्जम् अस्मै दुहाना विश्वहा सन्त्व् अनपस्फुरन्तीः
वैश्वानरे हविर् इदं जुहोम्य् एतं साहस्रं शतधारम् उत्सम् । स बिभरत् पितरं पितामहं प्रपितामहान् बिभरत् पिन्वमानः
उत्सं शतधारम् अक्षितं व्यचमानं सलिलस्य पृष्ठे । ऊर्जं दुहानम् अनपस्फुरन्तम् उपासतां सुकृतां यत्र लोकः
इदं कसाम्बु चयनेन चित्तं तत् सजाता अव पश्यतेत । मर्त्यो अमृत्युम् अमृतत्व एति तस्मै लोकं कृणुत यावत्सबन्धु
इहैवैधि धनसनिर् इह चित्त इहक्रतुः । इहैधि वीरवत्तरो वयोधा अपराहितः
पुत्रान् पौत्रान् अभि तर्पयन्तीर् आपो मधुमतीर् इमाः । स्वधां पितृभ्यो अंर्तं दुहाना आपो देवीर् उभयांस् तर्पयन्तु
आपो अग्निं प्र हिणुतेमं यज्ञं पितरो नो जुषन्ताम् । मासीनाम् ऊर्जम् उप ये सचन्ते ते नो रयिं सर्ववीरं नि यच्छान्
सम् इन्धते अमर्त्यं हव्यवाहं घृतप्रियम् । स वेद निहितान् निधीन् पितॄन् परावतो गतान्
यं ते मन्थं यं कलम्भं यम् ओदनं यन् मासं निपृणामि ते । ते ते सन्तु स्वधावन्तो मधमन्तो घृतश्चुतः
सरस्वतीं यां सुकृतो हवन्ते दक्षिणा यज्ञम् अभिनक्षमाणाः । सहस्रायोर् मैनान् अत्र परा दा दीर्घम् एषाम् आयुष् कृणु विश्वरूपे
इदं पूर्वम् अपरं नियानं येन ते पूर्वे पितरः परेताः । पुरोगवा ये अभिशाचो अस्य ते त्वा वहन्तु सुकृताम् उलोकम्
पृथिवीं त्वा पृथिव्याम् आ वेशयामि देवो नो धाता सवितात्य् आयुः । परापुरैता वसुविद् वो अस्त्व् अधा मृतैः पितरः सं भवाथ
एयम् अगन् दक्षिणा भद्रतो नो अनेन दत्ता सुदुघा वयोधाः । यौवने जीवाꣳ अपि पृञ्चती जरा परा पितृभ्य उप सं पराणयात्
आ प्र च्यवेथाम् अप तं नुदेथां यद् वाम् अभिभा अत्रोदुः । अर्वाञ् चावेतम् अघ्न्यौ तद् वशीयो दात्रे पितृष्व् इह भोजनौ मम
इदं पितृभ्यः प्र हरामि बर्हिर् जीवं देवेभ्य उत्तरं स्तृणामि । तद् आ रोह पुरुषो मेध्यो भवन् प्रति त्व जानन्तु पितरः परेतम्
एवं बर्हिर् असदो मेध्यो भवन् प्रति त्व जानन्तु पितरः परेतम् । यथापरु तन्वं सं भरस्व गात्राणि ते ब्रह्मणा कल्पयामि
पर्णो राजापिधानं चरूणाम् ऊर्जो बलं सह ओजो न आगन् । आयुर् जीवेभ्यो विदधद् दीर्घयुत्वाय शतशारदाय
ऊर्जो भागो य इदं यजानाम् अश्मान्नानाम् अधिपतिर् बभूव । तम् अर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात्
यथा यमाय हर्म्यम् अवपन् पञ्च मानवाः । एवा वपामि हर्म्यं यथा मे भूरयो ऽसथ
इदं हिरण्यं बिभृहि यत् ते पिताबिभः पुरा । स्वर्गं यतः पितुर् हस्तं निर् मृड्ढी दक्षिणम्
ये जीवा ये च मृता ये जाता ये च यज्ञियाः । तेभ्यो घृतस्य कुल्यैतु शतधारा व्य् उन्दती
वृषा मतीनां पवते विचक्षणः सूरो अह्नां प्रतरीतोषसां दिवः । प्राणः सिन्धूनां कलशाꣳ अचिक्रदद् इन्द्रहार्दिवम् आविशन् मनीषया
त्वेषस् ते धूमा ऊर्णोति दिवि षं छुक आततः । सूरो न हि द्यता त्वां कृपा पावक रोचसे
प्र वा एतीन्दुर् इन्द्रस्य निष्कृतिं सखा सख्युर् न प्र मिनाति सङ्गिरम् । मर्य इव योषाः सम् अर्षते सोमः कलशे शतयामना पथा
आ यत पितरः सोम्यासो गम्भीरेभिः पथिभिः पितृयाणैः । प्रजाम् अस्मभ्यं दधतो रयिं च दीर्घायुत्वाय शतशारदाय
परा यात पितरः सोम्यासो गम्भीरेभिः पथिभिः पितृयाणैः । अधा मासि पुनर् आ यात नो गृहं हविर् अन्नं सुप्रजसः सुवीराः
अक्षन्न् अमीमदन्त- -अव प्रिया अधूषत । अस्तोषत स्वभानवः परेत पितरो गृहान्
यद् वो अग्निर् अजहाद् एकम् अङ्गं पितृलोकं गमयं जातवेदाः । तद् व एतत् पुनर् आ वेशयामि साङ्गाः सर्वे पितरो मादयध्वम्
असौ हा इह ते मनः । कपुत्सलम् इव जामयो ऽभ्य् एनं भूम ऊर्णूहि
रमध्वं मा बिभीतना अस्मिन् गोष्ठे करीषिणः । ऊर्जं दधानाः सकृतः शचिव्रता गृहा जीवन्त उप वः सदेम
ऊर्जं मे देवा अदधुर् ऊर्जं मनुष्या उत । ऊर्जं पितृभ्य आहार्षम् ऊर्जस्वन्तो गृहा मम
पयो मे देवा अदधुः पयो मनुष्या उत । पयः पितृभ्य आहर्षं पयस्वन्तो गृहा मम
उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमं श्रथाय । अथादित्य व्रते वयं तव- -अनागसो ऽदितये स्याम
ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभ्यो अस्मान् वरुणः सोम इन्द्रो विश्वे मुञ्चन्तु मरुतः स्वर्काः
प्रास्मत् पाशान् वरुण मुञ्च सर्वान् यैः सममे बध्यते यैर् व्यामे । अथ जीवेम शरदः शतानि त्वाय राजन् गुपितो रक्षमाणः
अव ते हेड ईमहे नमोभिर् अव यज्ञेभिर् ईमहे हविर्भिः । (…)यद् अस्मद् वरुण प्रचेतो राजन्न् एनांसि शिश्रथः कृतानि
चन्द्रमा अप्स्व् अन्तर् आ सुपर्णो धावते दिवि । न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी
Using this in academic work? Get formal citation
Tradição Védica (Ṛṣis) (2026). Atharvaveda Paippalāda — Kāṇḍa 18. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-18
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 18." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-18.
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 18." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-18.