Atharvaveda Paippalāda — Kāṇḍa 19
Tradição Védica (Ṛṣis)
अनुवाक १३ ॥ काण्ड १९ दोषो गाय बृहद् गाय द्युमद् गायाथर्वण । स्तुहि देवं सवितारम्
तम् उ स्तुह्य् अन्तःसिन्धुं सूनुं सत्यस्य युवानम् । अद्रोघवाचं सुशेवम्
स घा नो देवः सविता- -आसाविषद् वसुपतिर् वसूनि । उभे सुष्टुती सुगातुम्
इन्द्राय सोमम् ऋत्विजः सुनोतना च धावत । स्तोतुर् यो हवं शृणवद् धवं च नः
सुनोता सोमपाव्ने सोमम् इन्द्राय वज्रिणे । युवा जेतेशानः स पुरुष्टुतः
आ त्वा विशन्त्व् इन्दवो वयो न वृक्षम् अन्धसः । विरप्शिन् वि मृधो जहि रक्षस्विनीः
आरे असाव् अस्मद् अस्तु हेतिर् देवासो असत् । आरे मर्तानाम् अशस्तिः
सखैव नो रातिर् अस्तु सखेन्द्रः सखा सविता । सखा भगः सत्यधर्मा नो अस्तु
अभि नो देवीर् अवसा महाशर्मणा नृपत्नीः । अच्छिन्नपत्राः सचन्ताम्
ईडे अग्निं भवं सर्वं रक्ष उब्जद् अहिं बलासम् उत सेदिम् उग्राम् । आरे अस्मद् अदिते दैव्यं भयं सुवीर्यं मरुतः शर्म यच्छत
ईडे द्यावापृथिवी पर्वताꣳ अपः स्वः सूर्यम् उर्व् अन्तरिक्षम् । वनस्पतीन् ओषधीर् गा उत र्च ऋतस्य नः पतयो मृडयन्तु
हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शंसं सवितारम् ऊतये । इह सोमो वरुणो वायुर् अग्निर् भग उग्रा अवसे नो गमन्तु
पातं न इन्द्रापूषणा वरुणः पान्तु मरुतः । अपां नपात् सिन्धवः सप्त पातन पातु विष्णुर् उत द्यौः
पातां नो द्यावापृथिवी अभिष्टये पातु ग्रावा पातु सोमो नो अंहसः । पातु नो देवी सुहवा सरस्वती पात्व् अग्निर् ये शिवा अस्य पायवः
पातां नो देवाश्विना सुदंससा- -उषासानक्तोत न उरुष्यताम् । अपां नपाद् अविह्रुती कयस्य चिद् देवो मूर्धन्न् अदिते शर्म यच्छ नः
त्वष्टा मे दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः । पुत्रैर् भ्रातृभिर् अदितिर् नु पातु नो दुष्टरं त्रामणे शवः
अंशो भगो वरुणो मित्रो अर्यमा- -अदितिः पात्व् अंहसः । अप तस्य द्वेषो गमेद् अविह्रुतो यावयाच् छत्रुम्अन्ति तम्
देव त्वष्टर् वर्धय सर्वतातये धिये सम् उ श्रिये प्रावतान् नः । उरुष्या ण उरुतराप्रयुच्छन् द्यौष् पितर् यावय दुच्छुनाम् इतः
ये नो वचोभिर् उत दंसनाभिस् तन्वं सोम परितापयन्ते । नीचैस् तान् वृश्च न यथा विरुक्षन् मा ते दृशन् सूर्यम् उच्चरन्तम्
त्वयेष्वा त्वया सोम धन्वना त्वया मुष्टिघ्ना शाशद्महे वयम् । त्वं तान् वृश्च य इदं नआदृशाकरन् हनाम दण्डैर् उत दंसनाभिः
पदेन तान् पदन्यो नयन्तु वधैर् एनान् पितरो दंसयन्तु । यथा न जीवात् कतमश् चनैषाम्
येन सोमादितिः पथा मित्रा वा यन्त्य् अद्रुहः । तेना नो ऽविता भुवः
यो नः सोम सुशंसिनो दुःशंसो अभिदासति । वज्रेणास्य मुखे जहि स संपिष्टो अपायति
यो नः सोमाभिदासति सनाभिर् यश् च निष्टियः । अप तस्य बलं तिर महीव द्यौर् वध त्मना
पुनर् अघम् अघकृतम् एतु देवाः पुनर् एन एनस्कृतं विजानत् । पुनः पुत्रः पितरम् एतु विद्वान् हताम् उत यद् अस्य स्वम् अस्ति
येन चासौ शपति येन चैनं शपामसि । उभौ संवृह्य तौ तस्माद् अन्तिकाद् धेतिम् अस्यताम्
ये पार्थिवासः शपथा य उराव् अन्तरिक्षे । ये वातस्य प्रभर्मणि तेभिष् टं वर्तयामसि यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः
ये अस्मान् परिसीसृपुः कुलीपयानि बिभ्रतः । उद् देवस् तेषां वृश्चत मूलम् उर्वार्वो यथा
यद् देवा अघधा अघम् अन्यस्मिन्न् आ सिसंक्षति । भारो अघस्य दुःसहः प्रत्यक् कर्तारम् ऋच्छतु
पुनर् एवाघधाम् अघं द्युम्नम्इवैतुर् अर्षतु । आदित्यादुर्यामहिषा मही सिन्धोर् इवावनिः
शश्वद् दिद्युत् क्रियमाणा प्रतीची नि हि पप्तत् । प्रत्यक् कर्तारम् ऋच्छतु
शश्वन्तम् इच् छाशदानम् अन्यस्मा इषुं दिहानम् । प्रतीची शरुर् ऋच्छतु
यद् एतद् भूरि शाशदत् प्रतीचीनम् अपोहसे । विषाद् इव विषम् अद्धि तत्
नमस् ते प्रवतो नपाद् यतस् तपः समूहसे । मृडा नस् तनूभ्यश् शं नस् तोकेभ्यस् कृधि
प्रवतो नपान् नमो अस्तु तुभ्यं नमस् ते हेतये तपुष्यै । विद्म ते धाम परमं गुहा यत् समुद्रे अन्तर् निहितासि नाभिः
यां त्वा देवा अजनयन्त विश्व इषुं कृण्वाना असनाय तृष्वीम् । सा नो मृड विदथे गृणाना मित्रस्य च वरुणस्य प्रशिष्टौ
यूयं नः प्रवतो नपान् मरुतः सूर्यत्वचः । शर्म यच्छाथ सप्रथः
ममृडता सुषूदता मृडा नो अघ्न्याभ्यः । तोकाय तन्वे च
नमस् ते अस्तु विद्युते नमस् ते स्तनयित्नवे । नमस् ते अस्त्व् अश्मने येना दूडाशे अस्यसि
यो अस्मान् ब्रह्मणस्पते ऽदेवो अभिदासति । सर्वं तं रीरधासि नः
येभिः सोम साहन्त्य- -असुरान् रन्धयासै । तेभिर् नो ऽविता भुवः
यानि देवा असुराणाम् ओजांस्य् अवृणीध्वम् । तेभिर् नो अधि वोचत
उद् एनम् उत्तरं नय- -अग्ने घृतेभिर् आहुतः । सम् एनं वर्चसा सृज देवानां भागधा असत्
इन्द्रेमं प्रतरं कृधि सजातानाम् असद् वशी । रायस्पोषेण सं सृज प्रजया च बहुं कृधि
यस्य कृण्मो गृहे हविस् तम् अग्ने वर्धया त्वम् । तस्मै सोमो अधि ब्रुवद् अयं च ब्रह्मणस्पतिः
ऋतावानं वैश्वानरम् ऋतस्य ज्योतिषस् पतिम् । अजस्रं घर्मम् ईमहे
स इदं प्रति पप्रथद् यज्ञस्य स्वर् उत्तिरन् । ऋतून् उत् सृजते वशी
अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य । सम्राड् एको वि राजति
परि द्याम् इव सूर्यो अहीनां जनिम् आगमम् । रात्री जगद् इवान्यद् धंसाद् अवारीर् इमं विषम्
यद् ब्रह्मभिर् यद् ऋषिभिर् यद् देवैर् उदितं पुरा । यद् भूतं भव्यम् आसन्वत् तेन ते वारये विषम्
मधुनापृक्षि नद्यः पर्वता गिरयो मधु । मधु परुष्णी शीपाला शम् आस्ने अस्तु शं हृदे
यथेयम् उर्वी पृथिवी दाधार विष्ठितं जगत् । एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे
(…) दाधारेमान् वनस्पतीन् । (…)
यथेयम् उर्वी पृथिवी दाधार पर्वतान् अपः । एवा ते ध्रियतां गर्भो अनु सूतुं सुवितवे
सस्रुषीस् तद् अपसो दिवा नक्तं च सस्रुषीः । वरेण्यक्रतुर् अहम् अपो देवीर् उप ब्रुवे
ओक्ता आपः कर्मण्या मुञ्चन्त्व् इतः प्रणीतये । सद्यो भवन्त्व् एतवे
देवस्य सवितुः सवे कर्म कृण्वन्ति मानुषाः । शं नो भवन्त्व् अप ओषधीर् इमाः
शतस्य ते धमनीनां सहस्रस्य हिराणाम् । अस्थुर् इन् मध्यमा याः साकम् अन्ता अरंसत
परि वः सिकतामयीर् धनूस् तिरश् चिद् अस्थिरन् । तिष्ठतेलयता सु कम्
अमूर् या यन्ति जामयः सर्वा लोहितवाससः । अभ्रातर इव योषास् तिष्ठन्ति हतवर्चसः
तिष्ठावरे तिष्ठ पर उत त्वं तिष्ठ मध्यमे । कणिष्ठिका च तिष्ठाति तिष्ठाद् इद् धमनिर् मही
अनुवाक १ ॥ नमो देववधेभ्यो नमो राजवधेभ्यः । अथो ये विश्यानां वधास् तेभ्यो मृत्यो नमांसि ते
नमस् ते अधिवाकाय परावाकाय ते नमः । सुमत्यै मृत्यो ते नमो दुर्मत्यै त इदं नमः
नमस् ते यातुधानेभ्यो नमस् ते भेषजेभ्यः । मूलेभ्यो मृत्यो ते नमो ब्राह्मणेभ्य इदं नमः
नव च या नवतिश् च संयन्ति मन्या अभि । इतस् ताः सर्वा नश्यन्तु वाका अपचिताम् इव
सप्त च याः सप्ततिश् च संयन्ति स्कन्ध्या अभि । (इतस् ताः सर्वा नश्यन्तु वाका अपचिताम् इव)
पञ्च च याः पञ्चाशच् च संयन्ति ग्रैव्या अभि । इतस् ताः सर्वा नश्यन्तु वाका अपचिताम् इव
आवयो अनावयो रसस् त उग्र आवयो । आ ते करम्भम् अदीमहि स हि न त्वम् असि यस् त्वम् आत्मानम् आवयः
बभ्रुश् च बभ्रुकर्णश् च नीलाकलशाला । शवःपश्य
तौविलिके ऽवेलया- -अवायम् ऐलव ऐलयीत् । इह स्वाम् आहुतिं जुषाणो मनसा स्वाहा
स्वाहा मनसा यद् इदं कृणोमि यस्यास् त आसञ् जुहोमि घोरे । एषां बद्धानाम् अवसर्जनाय कम्
भूमिर् इति त्वाभिप्रमन्वते जना निरृतिर् इति त्वाहं परि वेद विश्वतः । भूते हविष्मत्य् अस्य् एष ते भगस् तेन ते विधेयं स्वाहा
एवो ष्व् अस्मत् त्वं निरृते विश्ववारे अयस्मयान् प्र मुमुग्धि पाशान् । यमेन त्वं यम्या संविदाना यो अस्मान् द्वेष्टि यं वयं द्विष्मस् तस्मिन् तान् पाशान् प्रति मुञ्च सर्वान्
उत्तमो अस्य् ओषधीनां तव वृक्षा उपस्तयः । उपस्तिर् अस्माकं भूयाद् यो ऽस्माꣳ अभिदासति
सबन्धुश् चासबन्धुश् च यो ऽस्माꣳ अभिदासति । सबन्धून् सर्वांस् तीर्त्वा- -अहं भूयासम् उत्तमः
यथा सोम ओषधीनाम् उत्तमं हविर् उच्यते । एवा त्वम् इव वृक्षाणाम् अहं भूयासम् उत्तमः
वरुणो वारया इत्य् एका ॥ इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च । देवानां सर्वेषां वाचा यक्ष्मं ते वारयामहे
यथा वृत्र इमा आपस् तस्तम्भ विश्वधा यतीः । एवा ते अग्निना यक्ष्मं वैश्वानरेण वारये
ध्रुवं ध्रुवेण हविषा- -अभि सोमं मृशामसि । अत्रा त इन्द्रः केवलीर् विशो बलिहृतस् करत्
आ त्वाहार्षम् अन्तर् अभूर् ध्रुवस् तिष्ठाविचाचलत् । विशस् त्वा सर्वा आ यन्तु मा त्वद् राष्ट्रम् अधि भ्रशत्
इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलत् । इन्द्रेह ध्रुवस् तिष्ठ- -इह राष्ट्रं नि धारय
इन्द्र एतम् अदीधरद् ध्रुवं ध्रुवेण हविषा । तस्मै सोमो अधि ब्रुवद् अयं च ब्रह्मणस्पतिः
ध्रुवं ते देवः सविता ध्रुवं देवो बृहस्पतिः । ध्रुवं त इन्द्रश् चाग्निश् च राष्ट्रं धारयतां ध्रुवम्
ध्रुवा द्यौर् ध्रुवा पृथिवी समुद्राः पर्वता ध्रुवाः । ध्रुवा ह धर्मणा ध्रुवा ध्रुवो राजा विशाम् अयम्
वृषेन्द्रस्य वृषा दिवो वृषा पृथिव्या अयम् । वृषा विश्वस्य भूतस्य त्वम् एकवृषो भव
समुद्र ईशे स्रवताम् अग्निः पृथिव्या वशी । सूर्यो नक्षत्राणाम् ईशे त्वम् (…)
सम्राड् अस्य् असुराणां ककुन् मनुष्याणाम् । देवानाम् अर्धभाग् असि त्वम् एकवृषो भव
परि वर्त्मान्य् एषाम् इन्द्रः पूषा च सस्रतुः । मुह्यन्त्व् अद्यामूः सेना अमित्राणां परस्तराम्
मुग्धा अमित्राश् चरन्त- -अशीर्षाण इवाहयः । अथैषाम् अग्निरुद्धानाम् इन्द्रो हन्तु वरं-वरम्
ऐषु नह्य वृषाजिनं हरिणस्य भियं कृधि । पराङ् अमित्र एषत्व् अर्वाची गौर् उपेषतु
संसम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य आ । इडस् पदे सम् इध्यसे स नो वसून्य् आ भर
सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम् । देवा भागं यथा पूर्वे संजानाना उपासते
समानो मन्त्रः समितिः समानी समानं चित्तं सह वो मनांसि । समानेन वो हविषा जुहोमि यथा संमनसो ऽसथ
उत् सूर्यो दिव एति पुरो विश्वानि यो ऽरुहत् । आदित्यः पर्वताङ् अति विश्वदृष्टो अदृष्टहा
आयुर्विदं विपश्चितं श्रुतां कण्वस्य वीरुधम् । आहार्षं विश्वभेषजीम् अस्यादृष्टान् नि शमय
नि गावो गोष्ठे असदन् नि मृगासो अविक्षत । नि केतवो जनानां न्य् अदृष्टा अलिप्सत
हिमवतः प्र स्रवथ ताः सिन्धुम् उप गच्छथ । आपो घ मह्यं तद् देवीर् ददन् हृद्द्योतभेषजम्
यद् अक्षीभ्याम् आदिद्योत पार्ष्णिभ्यां हृदयेन च । आपस् तत् सर्वं निष् करन् त्वष्टा रिष्टम् इवानसः
सिन्धुराज्ञीः सिन्धुपत्नीः सर्वा या नद्य स्थन । दत्ता नस् तस्य भेषजं तेन वो भुनजामहै
पुनन्तु मा देवजनाः पुनन्तु मनवो धिया । पुनन्तु विश्वा भूतानि पवमानः पुनातु मा
पुनातु मा पवमानः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्याय दृशे
उभाभ्यां देव सवितः पवित्रेण सवेन च । अस्मान् पुनीहि चक्षसे
ईर्ष्याया ध्राजिं प्रथमाम् अधमाम् उत्तमाम् उत । मन्युं हृदय्यं शोकं तं ते निर् मन्त्रयामहे
एतद् यत् ते हृदि श्रितं मनस्कं पतयिष्णुकम् । ततस् त ईर्ष्यां मुञ्चामि निर् ऊष्माणं दृतेर् इव
यथा भूमिर् मृतमना मृतान् मृतमनस्तरा । यथोत मम्रुषो मन एवेर्ष्योर् मृतं मनः
द्यौश् च मा पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणा मा पिपर्तु । अनु स्वधा चिकितां सोमो अग्निर् वायुर् मा यातु सविता भगश् च
पुनर् मनः पुनर् आयुर् न आगन् पुनश् चक्षुः पुनर् आकूतिर् आगन् । वैश्वानरो नो अदब्धस् तनूपा अन्तस् तिष्ठाति दुरिताद् अवद्यात्
सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सं शिवेन । त्वष्टा सुदत्रो वरिवः कृणोत्व् अनूनस् ताष्टु तन्वो विरिष्टम्
इदं तद् युज उत्तरं येनेन्द्रं शुम्भाम्य् अष्टये । अस्य क्षत्रं श्रियं महीं वृष्टिर् इव वर्धया तृणम्
अस्य क्षत्रम् अग्नीषोमाव् अस्य वर्धयतं रयिम् । अथो राष्ट्रस्याभीवर्गे कृणुतं युज उत्तरम्
सबन्धुश् चासबन्धुश् च यो जातो यश् च निष्टियः । यजमानाय सुन्वते सर्वं तं रीरधासि नः
यशो बृहद् वर्धताम् इन्द्रजूतं सहस्रभृष्टि सुकृतं सहस्वत् । प्रसर्स्राणम् अनु दीर्घाय जीवसे हविष्मन्तं वर्धय सर्वतातये
यशा इन्द्रो यशा अग्निर् यशाः सोमो अजायत । यशा विश्वस्य भूतस्य- -अहम् अस्मि यशस्तमः
वयं ते अग्ने यशसो यशोभिर् यशस्विनो हविषैना विधेम । स नो धेहि राष्ट्रम् इन्द्रजूतं तव त्रात्रे अधिवाके स्याम
अव ज्याम् इव धन्वनो मन्युं तनोमि ते हृदः । अधा संमनसौ भूत्वा सखिकेव सचावहै
वि ते मन्युं नयामसि सखिकेव सचावहै । अधस् ते अश्मना मन्युं गुरुणाभि नि दध्मसि
अभि तिष्ठामि ते मन्युं पार्ष्णिभ्यां प्रपदाभ्याम् । परा ते दण्ड्यं वधं परा मन्युं सुवामि ते
हिरण्ययः पन्था आसीद् अरित्राणि हिरण्यया । नावो हिरण्ययीर् आसन् याभिः कुष्ठं निरावहम्
सुपर्णसुवने गिरौ जातं हिमवतस् परि । धनैर् अभि श्रुतं यन्ति कुष्ठेहि तक्मनाशनः
यो गिरिषु जायसे वीरुधां बलवत्तमः । कुष्ठेहि तक्मनाशन तक्मानं नाशयन्न् इतः
अनुवाक २ ॥ इदावत्सराय परिवत्सराय संवत्सराय कृणुता बृहन् नमः । तेषां वयं सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम
ये वः पन्था बहवो देवयाना अनु द्यावापृथिवी संचरन्ती । तेषाम् अज्यानिं यतमो न आवहात् तस्मै नो देवाः परि धत्त सर्वे
शरद् धेमन्तः शिशिरो वसन्तो ग्रीष्मो वर्षाः सुविते नो दधात । आ नो गोषु भजतौषधीषु निवात इद् वः शरणे स्याम
वैश्वानरो न ऊतय आ प्र यातु परावतः । अग्निर् उक्थैर् नो अंहसः
वैश्वानरो न आ गमद् इमं यज्ञं सजूर् उप- । -इमां सुष्टुतिं मम
वैश्वानरो नो अङ्गिरोभि स्तोमं यज्ञं च चाक्ल्̥पत् । ऐषु द्युम्नं स्वर् यमत्
अजैषं त्वा संलिखितम् अजैषम् उत संरुधम् । अविं वृको यथा मथद् एवा मथ्नामि ते कृतम्
यथा वृक्षम् अशनिर् विश्वहा हन्त्य् अप्रति । एवाहम् अमुं कितवम् अक्षैर् वध्यासम् अप्रति
तुराणाम् अतुराणां विशां देवयतीनाम् । सम् ऐतु विश्वतो भगो अन्तर्हस्तं कृतं मम
यावद् द्यौर् यावत् पृथिवी यावद् आभाति सूर्यः । तावत् सृजामि ते विषं यावद् अर्षन्ति सिन्धवः
उच्छ्वसन्त उद् ईरते गाव आवसथाद् इव । अहीनां पश्यता विषम् अपवक्ता न विद्यते
आ जघान पृषद्धनुः सङ्गथे धमनीनाम् । मूर्धानं विषम् आस्कद्य- -अङ्गानि व्य् असिस्रसत्
मा नो देवा अहिर् वधीत् सन्तोकान् सहपूरुषान् । संयतं न वि ष्परद् व्यात्तं न सं यमत्
सं ते दधामि दद्भिर् दतः सं ते हन्वा हनू । सं ते जिह्वया जिह्वां सं त आस्नाह आस्यम्
नमो ऽहये असिताय नमस् तिरश्चिराजये । स्वजाय बभ्रवे नमो नमो देवजनेभ्यः
मनसे चेतसे धिय आकूतय उत चित्तये । मत्यै श्रुताय चक्षसे विधेम हविषा वयम्
प्राणायापानाय व्यानाय भूरिरेतसे । सरस्वत्या उरुव्यचे विधेम हविषा वयम्
मा नो हासिषुर् ऋषयो दैव्यासस् तनूपावानः शुचयस् तपोजाः । अमर्त्या मर्त्याꣳ अभि नः सचध्वम् आयुर् नः प्रतरं जीवसे धुः
इदम् इद् वा उ भेषजम् इदं रुद्रस्य भेषजम् । येनेषुम् एकतेजनां शतशल्याम् अपब्रुवन्
जालाषेनाभि षिञ्चत जालाषेनोप सिञ्चत । जालाषं भद्रं भेषजं तस्य नो धत्त जीवसे
शं च नो मयश् च नो मा च नः किं चनाममत् । क्षमा रपो विश्वं नो अस्तु भेषजम्
यशसं मेन्द्रो मघवान् कृणोतु यशसं सोमो वरुणो वायुर् अग्निः । यशसं मा देवः सविता कृणोतु प्रियो दातुर् दक्षिणायाः स्याम् अहम्
यथेन्द्रो द्यावापृथिव्योर् यशस्वान् यथाप ओषधीषु । यथा विश्वेषु देवेष्व् एवा देवेषु यशसः स्याम
अच्छ वयम् इन्द्रं यशसं यशोभिर् यशस्विनो हविषैना विधेम । स नो दधद् राष्ट्रम् इन्द्रजूतं तस्य त्रात्रे अधिवाके स्याम
एह यातु वरुणः सोमो अग्निर् बृहस्पतिर् वसुभिर् एह यातु । अस्य श्रियम् अभिसंयात सर्व उग्रस्य चेत्तुः संमनसः सजाताः
एह यात माप याताध्य् अस्मत् पूषा वः परस्ताद् अपथं कृणोतु । वास्तोष्पतिर् अनु वो ऽयम् अह्वन् मयि सजाता रमतिर् वो अस्तु
यो वः शुष्मो हृदयेष्व् अन्तर् या आकूतिर् मनसि प्रविष्टा । ताञ् छ्रेवयामि हविषा घृतेन मयि सजाता रमतिर् वो अस्तु
मम चित्तं प्रयवसन्युतेत्वे- -इन्द्राग्न्योर् इव हवम् एत सर्वे । बृहस्पतिर् वो नि युनक्तु मह्यं मम वाचम् एकचित्ताः सचध्वम्
अहं गृह्णामि मनसा मनांसि मम चित्तम् उप चित्तेभिर् एत । मम वशे हृदयं वः कृणोमि मम यातम् अनुवर्त्मान एत
मां वश् चक्षुर् गच्छतु मां प्राणो धाता पदम् अनु वर्त्म वः कृणोतु । ये वो महान्त उत ये कुमारा मम यातम् अनु यातेभिर् एत
अश्वत्थो देवसदन इत्य् अजायतान्ते ॥ देवेभ्यो अधि जातो ऽसि सोमस्य सखा हितः । स प्राणायापानाय चक्षुसे ऽस्य मृड
अयस्मये द्रुपदे बेधिष इद् अभिहितो मृत्युभिर् ये सहस्रम् । यमो मह्यं पुनर् इत् त्वां ददातु तस्मै देवाय हविषा विधेम
यत् ते देवी निरृतिर् आबबन्ध दाम ग्रीवास्व् अविचृत्यम् । तत् ते वि ष्याम्य् आयुषे बलाय- -अनमीवं पितुम् अद्धि प्रसूतः
नमो ऽस्तु ते निरृते विश्ववारे अयस्मयं वि चृता बन्धम् एतम् । यमेन त्वं पितृभिः संविदान- -उत्तमे नाके अधि रोहयेमम्
अन्तर्दावाय जुहुता स्व् एतद् यातुधानक्षयणं घृतेन । आराद् रक्षांसि प्रति दहाग्ने मास्माकं तन्वम् उप तीतपन्त
शर्वो वो ग्रीवा अशरीत् पिशाचाः पृष्टीर् वो ऽपि शृणात्व् अग्निः । वीरुद् वो विश्वधावीर्या मृत्युना सम् अजीगमत्
अपिशाचं नो अधराद् अपिशाचं न उत्तरात् । इन्द्रापिशाचं नः पश्चाद् अपिशाचं पुरस् कृधि
इन्द्रश् चकार प्रथमो नैर्हस्तम् असुरेभ्यः । वृश्चामः शत्रूणां बाहू अनेन हविषा वयम्
निर्हस्तः शत्रुर् अभिदासन् नो अस्तु ये सेनाभिर् युधम् आयन्त्य् अस्मान् । सम् अर्पयेन्द्र महता वधेन द्रात्व् एषाम् अघहारो विविद्धः
अव मन्युर् अवायता- -अव बाहू मनोयुजा । पराशर त्वं तेषां पराञ्चं शुष्मम् अर्दयार्वाचीं रयिम् आ कृधि
आतन्वाना आयच्छन्तो ऽस्यन्तो ये च धावथ । निर्हस्ताः शत्रव स्थन- -इन्द्रो वो ऽद्य पराशरीत्
निर्हस्ताः सन्तु शत्रवो ऽङ्गैषां म्लापयामसि । यथैषाम् इन्द्र वेदांसि यूथेषु वि भजामहै
निर्हस्तेभ्यो नैर्हस्तं यं देवाः शरुम् अस्यथ । जयन्तु सत्वानो मम स्थिरेणेन्द्रेण मेदिना
शमीम् अश्वत्थ आरूढस् तत्र पुंसवनं कृतम् । तद् एव तस्य भेषजं यत् स्त्रीष्व् आ हरन्ति तत्
पुंसि वै रेतो भवति तत् स्त्रियाम् अनु षिच्यते । तद् वै पुत्रस्य वेदनं तत् प्रजापतिर् अब्रवीत्
प्रजापतिर् अन्व् अमंस्त सिनीवाल्य् अचीक्ल्̥पत् । स्त्रैषूयम् अन्यत्र दधत् पुमांसम् उ दधद् इह
या ओषधयः सोमराज्ञीर् इत्य् एका
मुञ्चन्तु मा शपथ्याद् अथो वरुण्याद् उत । अथो यमस्य पड्बीशाद् विश्वस्माद् देवदुष्कृतात्
यच् चक्षुषा यन् मनसा यच् च वाचोपारिम यज् जाग्रतो यत् स्वपन्तः । सोमो मा तस्माद् एनसः स्वधया पुनातु विद्वान्
अभिभूर् यज्ञो अभिभूर् अग्निर् अस्त्व् अभिभूः सोमो अभिभूर् इन्द्रो अस्तु । अभ्य् अयं विश्वाः पृतना यथासद् एवा विधेमाग्निहोत्रा इदं हविः
स्वधास्तु मित्रावरुणा प्रजावत् क्षत्रं मध्वेह पिन्वतम् । बाधेथां द्वेषो निरृतिं पराचैर् अस्मै क्षत्रं वर्च आ धत्तम् ओजः
इमं वीरम् इत्य् एका
अग्नेर् इव प्रसितिर् अस्य शुष्मिण उतेव मत्तो विलपन्न् अपायति । तस्मै ते अरुणाय बभ्रवे तपुर्मघाय नमो ऽस्तु तक्मने
नमो यमाय नमो ऽस्तु मृत्यवे नमो राज्ञे वरुणाय त्विषीमते । नमः क्षेत्रस्य पतये नमो दिवे नमः पृथिव्यै नम ओषधीभ्यः
अयं यो जनान् हरितान् कृणोत्य् उच्छोचयन्न् अग्निनेवाभिदुन्वन् । अधा हि तक्मन्न् अरसो हि भूया अथा न्यङ् अधरङ् वा परेहि
इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयातै । चर्कृत्य ईड्यः शंस्यश् च- -उपसद्यो नमस्यो भवेह
त्वम् इन्द्राधिराजः श्रवस्युस् त्वं भवाभिभूतिर् जनानाम् । त्वं दैवीर् विश इमा वि राज- -आयुष्मत् क्षत्रम् अजरं ते अस्तु
प्राच्यां दिशि त्वम् इन्द्राधिराजा- -ओदीच्यां दिशि वृत्रहन् दस्युहासि । यत्र यन्ति श्रोत्यास् तज् जितं ते दक्षिणतो वृषभो ऽसि हव्यः
अनुवाक ३ ॥ अभि त्वेन्द्रो वरिमतः पुरा त्वांहूरणेभ्यः । ह्वयाम्य् उग्रं चेत्तरं पुरुणामानम् एकजम्
यो अद्य सेन्यो वधो जिघांसन् न उदीरते । इन्द्रस्य तत्र बाहू समन्तं परि दध्महे
परि दध्म इन्द्रस्य बाहू समन्तं त्रातुस् त्रायतां नः । देव सवितः सोम राजन् सुमनसं मा कृणुतं स्वस्तये
देवा अदुः सूर्यो अदाद् द्यौर् अदात् पृथिव्य् अदात् । सर्वाः सरस्वतीर् अदुः सचित्ता विषदूषणम्
यद् वो देवा उपजीका आसिञ्चन् धन्वन्य् उदकम् । तेन देवप्रसूता इदं दूषयता विषम्
असुराणाम् असि दुहिता देवानाम् असि स्वसा । दिवस् पृथिव्या जज्ञिषे सा चकर्थारसं विषम्
अस्थिस्रंसं परुस्रंसम् आस्थितं हृदयामयम् । बलासं सर्वं निष् कृध्य् अङ्गेष्ठा यश् च पर्वसु
निर् बलासं बलासिनः क्षिणोमि पुष्करं यथा । छिनद्म्य् अस्य बन्धनं मूलम् उर्वार्वो यथा
निर् बलासेतः प्र पत सुपर्णो वसतेर् इव । अधेट इव हायनो ऽप द्राह्य् अवीरहा
आ वृषायस्व श्वसिहि वर्धस्व प्रथयस्व च । यथाङ्गं वर्धतां ते शेपस् तेन योषितम् उज् जहि
येना कृशं मेदयन्ति येन हिन्वन्त्य् आतुरम् । तेनास्य ब्रह्मणस्पते धनुर् इवा तानया पसः
आहं तनोमि ते पसो अधि ज्याम् इव धन्वनि । क्रमस्व रिश्य इव रोहितम् अनवग्लायता त्वम्
देवाः कपोत इषितो यद् इच्छन् दूतो निरृत्या इदम् आजगाम । तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे चतुष्पदे
शिवः कपोत इषितो नो अस्त्व् अनागा देवाः शकुनो गृहे नः । अग्निर् हि विप्रो जुषतां हविर् नः परि हेतिः पक्षिणी नो वृणक्तु
हेतिः पक्षिणी न दभात्य् अस्मान् आष्ट्री पदं कृणुते अग्निधाने । शं नो गोभ्य उत पुरुषेभ्यो मा नो देवा इह हिंसीत् कपोतः
इषं मदन्तः परि गां नयामः संयोपयन्तो दुरिता पदानि । ऋचा कपोतं नुदत प्रणोदं हित्वा न ऊर्जं प्र पतात् पतिष्ठः
नुदे त्वा प्र णुदे त्वा कपोत रक्षसा सह । यतो न पुनर् आयसि तत्र त्वा गमयामसि
यथायं वाहो अश्विना समैति सं च वर्तते । एवा माम् अभि ते मनः समैतु सं च वर्तताम्
अहं खिदामि ते मनो राजाश्वः पृष्ट्याम् इव । रेष्मच्छिन्नं यथा तृणं मयि ते वेष्टतां मनः
आञ्जनस्य मधुघस्य कुष्ठस्य नलदस्य च । तुरो भगस्य हस्ताभ्याम् अनुरोधनम् आ भरे
अयम् आ यात्य् अर्यमा पुरस्ताद् विषितस्तुकः । स इच्छाद् अग्रुवै पतिम् अथो जायाम् अजानये
अश्रमद् इयम् अर्यमन्न् अन्यासां समनं यती । अङ्गो न्व् अस्या अर्यमन्न् अन्या समनम् आयति
धाता दाधार पृथिवीं धाता द्याम् उत सूर्यम् । धातास्या अग्रुवै पतिं दधातु प्रतिकाम्यम्
मह्यम् आपो मधुमद् एरयन्त मह्यं सूर्यो अभरज् ज्योतिषा कम् । मह्यं देवा उत विश्वे तपोजा मह्यं देवः सविता व्यचो धात्
अहं दाधार पृथिवीम् उत द्याम् अहं सिन्धून् अजनं सप्त साकम् । अहं सत्यम् अनृतं यद् वदाम्य् अहं वाचं परि सर्वाम् इषिं च
अहं विव्यज्मि पृथिवीम् उत द्याम् अहम् ऋतून् असृजे सप्त साकम् । अहं वाचं परि सर्वां बभूव यो अग्नीषोमाव् अजुषे सखायौ
अनडुद्भ्यो नः प्रथमं धेनुभ्यस् त्वम् अरुन्धति । अधेनवे वयसे शर्म यच्छ चतुष्पदे
शर्म यच्छात्य् ओषधिः सह देवैर् अरुन्धती । करत् पयस्वन्तं गोष्ठम् अयक्ष्माꣳ उत पूरुषान्
विश्वरूपां सुभगाम् अच्छा वदामि जीवलाम् । सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः
यमो मृत्युर् अघमारो निरृथो भवः शर्वो अस्ता नीलशिखण्डी । देवजनाः सेनाम् उत्तस्थिवांसस् ते अस्माकं परि वृञ्जन्तु वीरान्
मनसा होमैर् हरसा घृतेन शर्वायास्त्र उत राज्ञे भवाय । नमस्येभ्यो नम एभ्यः कृणोम्य् अन्यत्रास्मद् अघविषा नयन्तु
त्रायध्वं नो अघविषाभ्यो वधाद् अग्नीषोमा मरुतः पूतदक्षाः । विश्वे देवा मरुतो वैश्वदेवा वातापर्जन्ययोः सुमतौ स्याम
सं जानतां मनसा सं चिकित्वा मा युत्सत मन्युना दैव्येन । मा घोष उत्थाद् बहुले विनिर्हते मेषुः पप्तद् इन्द्रस्याहन्य् आगते
सं वो मनांसि सं व्रता सम् आकूतीर् नयामसि । इमे ये विव्रता स्थ तान् वः सं ज्ञपयामसि
संज्ञपनं वो मनसो अथो सं ज्ञपनं हृदः । अथो भगस्य यच् छ्रान्तं तेन सं ज्ञपयाति वः
सं वः पृच्यन्तां तन्वः सं मनांसि सम् उ त्वचः । सं वो ब्रह्मणस्पतिः सोमः सं ज्ञपयाति वः
संज्ञानं नः स्वेभ्यः संज्ञानम् अरणेभ्यः । संज्ञानम् अश्विना युवम् इहास्मासु नि यच्छतम्
यथादित्या वसवः संबभूवुर् मरुद्भिर् उग्रा अहृणीयमानाः । एवा त्रिणामन्न् अहृणीयमान इमं जनं संमनसं कृणु त्वम्
निर् अमुन् नुद ओकसः सपत्नो यः पृतन्यति । निर्बाध्येन हविषा- -इन्द्र एनं पराशरीत्
इहि तिस्रः परावत इहि पञ्च जनाꣳ अति । इहि सप्ताति रोचना यावत् सूर्यो असद् दिवि
परमां त्वा परावतम् इन्द्रो देवो अजीगमत् । यथा न पुनर् आयसि शश्वतीभ्यः समाभ्यः
प्रतीचीनफलो हि त्वम् अपामार्ग बभूविथ । सर्वान् मच् छपथाꣳ अधि वरीयो यावया त्वम्
यच् च भ्रातृव्यः शपति यच् च जामिः शपाति नः । ब्रह्मा यन् मन्युतः शपात् सर्वं तन् नो अधस्पदम्
अघद्विष्टा देवजूता वीरुच् छपथयावनी । उद्ना मलम् इवावानैक् सर्वान् मच् छपथाꣳ अधि
यद् एनं परिषीदन्ति समादधति चक्षसे । संप्रेद्धो अग्निर् जिह्वाभिर् उद् एति हृदयाद् अधि
अग्नेः सान्तपनस्याहम् आयुषे पदम् आ रभे । अद्धातिर् यस्य पश्यति धूमम् उद्यन्तम् आस्यतः
यो अस्य समिधं वेद क्षत्रियेण समाहिताम् । नाभिह्वारे पदं नि दधाति स मृत्यवे
नैनं घ्नन्ति पर्यायिणो न सन्नाꣳ अव गच्छति । अग्नेर् यः क्षत्रियो विद्वान् नाम गृह्णात्य् आयुषे
अस्थाद् द्यौर् अस्थात् पृथिव्य् अस्थाद् विश्वम् इदं जगत् । तिष्ठन्ति पर्वता इमे स्थामन्न् अश्वा अरंसत
य उदानड् व्यायने य उदानट् परायणे । आवर्तनं निवर्तनं यो गोपा अपि तं हुवे
आवृतो न्यावृतो ऽभ्यवर्तनम् आयनम् । अग्नेश् चतस्र आवृतस् ताभिष् ट्वा तर्पयामसि
जातवेदो नि वर्तय शतं ते सन्त्व् आवृतः सहस्रं त उपावृतः । ताभिर् एनं नि वर्तय
अदारसृद् भवतु देव सोम- -अस्मिन् यज्ञे मरुतो मृडता नः । मा नो विदद् अभिभा मो अशस्तिर् मा नः प्रापद् दुच्छुना द्वेष्या या
यो अद्य दैव्यो वधो जिघांसन् न उपायति । युवं तं मित्रावरुणव् अस्मद् यावयतं परि
इतश् चामुतश् चाघं वरुण यावय । वि महच् छर्म यच्छ वरीयो यावया वधम्
अपेन्द्र प्राचो मघवन्न् अमित्रान् अपापाचो अभिभूते नुदस्व । अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम
तेन भूतस्य हविषा पुनर् आ प्यायताम् अयम् । जायां याम् अस्मा अविदं सा रसेनाभि वर्धताम्
अभि वर्धतां प्रजया- -अभि राष्ट्रेण वर्धताम् । ईषा सहस्रवीर्याव् इमौ स्ताम् अनुपक्षितौ
त्वष्टा जायाम् अजनयत् त्वष्टास्यै त्वां पतिं दधौ । त्वष्टा सहस्रम् आयूंषि दीर्घम् आयुः कृणोतु वाम्
अन्तरिक्षेण पतति विश्वा भूतावचाकशत् । शुनो दिव्यस्यैतन् महस् तस्मा एतेन हविषा जुहोमि
अप्सु ते जन्म दिवि ते सधस्थं समुद्र आत्मा महिमा ते पृथिव्याम् । शुनो दिव्यस्यैतन् महस् तस्मा एतेन हविषा जुहोमि
ये त्रयः कालकाञ्जा दिवि देवा इव श्रिताः । तान् सर्वान् अह्व ऊतये ऽस्मा अरिष्टतातये
यः पुरुषं हूर्च्छयसि श्वा दिव्यो अवीरहा । तं त्वाहं ब्रह्मणा नुदे पुरुषं मा परा वधीः
यः पिशङ्गो अयोदंष्ट्रः श्वा दिव्यः परिप्लवः । तस्याहं नाम जग्रभ- -अस्मा अरिष्टतातये अयं नो जीवताद् इति
अयं नो नभसस् पतिः संस्फानो अभि रक्षतु । असमातिं गृहेषु नः
त्वं नो नभसस् पतिर् ऊर्जं गृहेषु धारय । आ पुष्टम् एत्व् आ वसु
देव संस्फान सहस्रापोषस्येशिषे । तस्य नो धेहि तस्य ते भक्षीमहि तस्य ते भक्तिवांसो भूयास्म स्वाहा
अनुवाक ४ ॥ यन्तासि यच्छसे हस्तम् अप रक्षांसि सेधसि । प्रजां धनं च गृह्णानः परिहस्तो अभूद् अयम्
परिहस्त वि धारय योनिं गर्भाय कर्तवे । मर्यादे पुत्रम् आ धेहि तं त्वम् आ गमयागम
यं परिहस्तम् अबिभर् अदितिः पुत्रकाम्या । त्वष्टा तम् अस्या आ बध्नाद् यथा पुत्रं सुवाद् इति
आगच्छत आगतस्य नाम गृह्णाम्य् आयतः । इन्द्रस्य वृत्रघ्नो राज्ञो वासवस्य शतक्रतोः
येन सूर्यां सावित्रीम् अश्विनोहतुः पथा । तेन सम् अब्रवीद् भगो जायाम् आ वहताद् इति
यस् ते अङ्कुशो वसुदानो बृहन्न् इन्द्र हिरण्ययः । तेना जनीयते जायां त्वं धेहि शतक्रतो
त्वं नो मेधे प्रथमा गोभिर् अश्वेभिर् आ गहि । त्वं सूर्यस्य रश्मिषु त्वं नो असि यज्ञिया
मेधाम् अहं प्रथमां ब्रह्मण्वतीम् ऋषिष्टुताम् । प्रपीतां ब्रह्मचारिभिर् । देवानाम् अवसा वृणे
मेधां सायं मेधां प्रातर् मेधां मध्यन्दिनं परि । मेधां सूर्येणोद्यता- -उदीराणा उ तुष्टुम
पार्थिवस्य रसे देवा भगस्य तन्वो बले । आयुर् अस्मै सोमो वर्च आ धाद् बृहस्पतिः
आयुर् अस्मै धेहि जातवेदः प्रजां त्वष्टर् अधिनिधेह्य् ओजः । रायस्पोषं सवितर् आ सुवास्मै शतं जीवाति शरदस् तवायम्
आशीर् ण ऊर्जम् उत सुप्रजास्त्वं दक्षं दधातु द्रविणं सुवर्चसम् । संजयन् क्षेत्राणि सहसाहम् इन्द्र कृण्वानो अन्यान् अधरान् सपत्नान्
आयम् अगन् सविता क्षुरेण- -उष्णेन वाय उदकेनेहि । आदित्या रुद्रा वसवः सचेतसः सोमस्य राज्ञो ऽवपन् प्रचेतसः
येनावपत् सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदम् अस्य- -अस्रामो दीर्घायुर् अयम् अस्तु वीरः
अदितिः श्मश्रु वपत्व् आप उन्दन्तु वर्चसा । धारयतु प्रजापतिः पुनःपुनः सुवप्तवे
यास् ते हिरा धमनयो ऽङ्गान्य् अनु विष्ठिताः । तासां ते सर्वासां साकं निर् विषाणि ह्वयामसि
यां ते रुद्र इषुम् आस्थद् अङ्गेभ्यो हृदयाय च । इमां ताम् अद्य ते वयं विषूचीं वि वृहामसि
नमस् ते रुद्रास्यते नमः प्रतिहिताभ्यः । नमो विसृज्यमानाभ्यो नमस् त आयताभ्यः
अवाचीः परि मूर्ध्नो यास् ते धमनयः शतम् । तास् ते प्र भिद्यन्तां पृथग् अनु त्यं लोहितावटम्
स्यन्दन्तां रोदनावतीर् अनु त्यं लोहितावटम् । यथास्याम् अन्तर् न रंसन्ताम् अनुकूलम् इवोदकम्
प्रतीचीनः सूर्य एतु प्रतीचीः स्रवतः कृताः । अवाचीस् ते अस्नः कुल्या इयं तृणत्त्व् ओषधीः
इमं यवम् अष्टायोगैः षड्योगेभिर् अचर्कृषुः । स घा ते तन्वो रपः प्रतीचीनम् अप व्ययत्
न्यग् वातो वाति न्यक् तपति सूर्यः । नीचीनम् अघ्न्या दुहे न्यग् भवतु ते रपः
आप इद् वा उ भेषजीर् आपो अमीवचातनीः । आपः समुद्रार्था यतीः परा वहन्तु ते रपः
अमी ये युधम् आयन्ति केतून् कृत्वानीकशः । इन्द्रस् तान् पर्य् अहार् दाम्ना तान् अग्ने सन्द्या त्वम्
यावतीः सिच आयन्त्य् अनीकानि यति ष्टन् । इन्द्रस् तान् पर्य् अहार् दाम्ना तान् अग्ने सन्द्या त्वम्
सं परमान् सम् अवमान् अथो सन्द्यानि मध्यमान् । इन्द्रस् तान् पर्य् अहार् दाम्ना तान् अग्ने सन्द्या त्वम्
सन्दानं वो बृहस्पतिः सन्दानं सविता करत् । सन्दानम् इन्द्रश् चाग्निश् च सन्दानं भगो अश्विना
यास् ते रुचो देव सूर्य- -उद्यतो दिव्य् आतताः । ताभिर् माम् अद्य सर्वाभिर् मनुष्येभ्यो रुचे कृणु
रुचे मा धेहि ब्रह्मसु रुचे राजसु धेहि मा । रुचे विश्येषु शूद्रेषु मयि धेहि रुचे रुचिम्
या रुचो हिरण्ये या अग्नौ याश् च सूर्ये । इन्द्राग्नी मयि ता रुचो रुचो धेहि बृहस्पते
अव मा पाप्मन् सृज वशी सन् मृडयासि नः । आ मा भद्रेषु धामसु त्वं धेह्य् अविह्रुतम्
यो मा पाप्मन् न जहासि तम् उ त्वा जहिमो वयम् । अन्यत्रास्मन् न्य् उच्य सहस्राक्षामर्त्य
पथोर् वयं व्यावर्तने निष्पाप्मानं सुवामसि । यो नो द्वेष्टि तं गच्छ यं द्विष्मस् तं जहि
शव इवासि संनद्धो न भोगम् अविदं त्वयि । शिरो भिनद्मि ते पाप्मन् यथा न पुनर् आयसि
इन्द्रो अस्मान् दिवा पातु मृत्योः पाशात् स्वस्तये । द्यौर् नो मध्यतः पातु भूमी राज्ञी स्वस्तये
सूर्यो अस्मान् दिवा पातु मृत्योः पाशात् स्वस्तये । वातो नो मध्यतः पात्व् अहोरात्री स्वस्तये
सोमो अस्मान् दिवा पातु मृत्योः पाशात् स्वस्तये । आपो नो मध्यतः पान्तु मा नो निरृतिर् ईशत
सं वां चक्षुः सं हृदयं मनसावीवनं मनः । अस्याः सरूपवत्साया घृते होमेन सर्पिषा
यत् कक्षीवान् संवननं पुत्रो अङ्गिरसाम् अवेत् । तेन वाम् अद्य देवाः सं प्रिया सम् अवीवनन्
संवननं वां मनसो अथो संवननं हृदः । अथो भगस्य यच् छ्रान्तं तेन सं वानयामि वाम्
अहं ते मनसा मनश् चक्षुर् गृह्णामि चक्षुषा । एवा परि ष्वजस्व मा यथासन् मयि ते मनः
आ रथस्येव चक्रे अभि मा वर्तताम् असौ । रेष्मच्छिन्नं यथा तृणं वेष्टासौ मनसा मयि
परि त्वा यातुर् असरं परि मातुः परि स्वसुः । परि त्वान्याभ्य स्त्रीभ्यो ऽनयौषध्यासरम्
य इन्द्रस्य सभाधानो यस्मिन् समितिम् आसते । हिरण्यं यस्य पर्णानि तस्मा अश्वत्थ ते नमः
यः शाखाभिर् अन्तरिक्षम् आ पूरयति निष्ठया । छन्दांसि यस्य पर्णानि तस्मा अश्वत्थ ते नमः
यं मृगो न समाप्नोति पक्षाभ्यां शकुनिष् पतन् । दिवं यः सर्वां स्तभ्नाति तस्मा अश्वत्थ ते नमः
ज्येष्ठघ्न्यां जातो विचृतोर् यमस्य मायं हिंसीः पितरौ वर्धमानः । स्योनौ व्याघ्रा उत ते शिवौ स्ताम् अति नेषं दुरितानि विश्वा
व्याघ्रे अह्न्य् अजनिष्ट वीरो नक्षत्रजाः सर्ववीरः सुवीरः । स मा हिंसीः पितरौ वर्धमानस् तस्य ते देवाः प्रति गृह्णन्तु होमम्
या रोहिणीर् देवपत्या प्र धेनुर् इव पिन्वते । तत्र तिस्रो व्यष्टकाः सर्वाꣳ अधि ब्रुवन्तु प्रजायै जगते च वाम्
यद् आर्द्राभ्याम् अरणिभ्यां देवाः शक्रा अमन्थं पुरुषेण पुरुषम् । अत्रापुष्यतं मिथुना सयोनी जीवां प्रजां जरदष्टिं सुतेजसा
हतं पतङ्गम् उत तर्दम् आखुम् अश्विना भिन्तं शिरो मृणतं हनू दतः । यथा नः सस्यं न घसं व्यद्वरा एवाभयं कृणुतं धान्याय नः
तर्द है पतङ्ग है जभ्य हा उपक्वस । अनदन्त इदं धान्यम् अहिंसन्तो अपोदित
तर्दपते वघापते तृष्टदंश्मा शृणोत नः । होत्रेवाप्राशितं हविर् वृक्णजिह्वा उपाध्वम्
तर्द जभ्यापिजिह्वया य इमं दिव्यं पीयूषं प्रथमस् तितृप्सात् । तं प्रत्यञ्चम् अर्चिषा विध्य मर्मन्
ये अभ्रजा ये वातजा ये दिवस् परि जज्ञिरे । मरीच्याः पुत्राणां वयम् अपि नह्याम आस्यम्
ये अर्जुना ये हरिता ये कृष्णा ये च रोहिताः । कबन्धस्य प्रशासने शलभ्याञ् जम्भयामसि
अन्तरिक्षेण पतत मा सस्यम् अभि पद्ध्वम् । गिरीणां सानुषु सीदत तृणं कपालम् अत्तन शलभास् तद् विशाम् इव
यथाश्वासो यथा धुरं युक्ता वहन्ति साधुया । एवा मूत्र प्र भिद्यस्व वि वस्तेर् आस्यं सृज
विषितं ते वस्तिबिलं समुद्रस्योदधेर् इव । प्र ते भिनद्मि मेहनं वर्त्रं वेशन्त्या इव
याः समुद्राद् उच्चरन्ति जरतीर् उपजिह्विकाः । प्रमेहणस्य ता विदुर् उभयोर् मेहनस्य च
शीर्ष्णो वलीर् आस्नो वलीर् अङ्गादङ्गान् मुखाद् वलीः । सर्वास् ता इन्द्राणी वलीर् अप मार्ष्ट्व् अधि त्वचः
यास् त्वचि वलयो जाता या जातास् तन्वस् परि । सर्वास् ता इन्द्राणी वलीः शमीशाखास्व् आ सजात्
आ शमीं मामकी वली रुरोहाति जहाति माम् । एताम् इन्द्रस्य जाया वलिधानीम् अकृण्वत
अनुवाक ५ ॥ यथा सूर्यो नक्षत्राणां वर्चांसि युवते दिवः । एवा सपत्नानाम् अहं वर्च इन्द्रियम् आ ददे
यच् च वर्चः सपत्नानां भ्रातृव्येषु च यद् यशः । तद् इन्द्रो वृत्रहा धाता सविता दीधरन् मयि
याश् च गावः सपत्नानां भ्रातृव्येषु च यद् वसु । तन् निर् ज्येयम् इव जीत्वा सविता दीधरन् मयि
सत्यम् एव जयतु नानृतं सत्यस्य पन्था ऋजुर् अस्तु साधुः । सत्यं वदन्तः समिधे विधेम सत्येन द्यावापृथिवी अप्रथेताम्
वाग्भागस्य च सत्येन रुद्रस्य सुमनस्यया । इन्द्रेणाधिब्रुवता वयं विशं प्राशि विदेमहि
या ते रुद्रेषुर् आयता वाचि वा ते अरंकृता । येनेदं विवदामहे तस्य प्राशं त्वं जहि
जहि त्वं तस्य प्राशम् उत सत्याम् उतानृताम् । यो अस्मान् इन्द्र वृत्रहन् वाचा प्राशं जिगीषति
उत् प्रमुत् प्राण बह्वीह सीदेदं पृण । उतोदिव स्म सिञ्चतात् समुद्रस्येव मध्यतः
समुद्रश् च शतधारः सहस्रधारो अक्षितः । पुरस्ताद् इन्द्र आचरत् पूर्णगोष्ठ इदं पृण
इहोप पृण सं पृण वृष प्रजननाः कृधि । इह गावः प्र जायध्वम् इहाश्वा इह पूरुषाः । इहो सहस्रदक्षिणो अभि प्राशा नि षीदतु
ज्येष्ठघ्न्यै नक्षत्राणाम् अह्ने रात्र्या इदं नमः । जुहोमि विश्वकर्मणे स शिवो मृडयाति नः
मा ज्येष्ठं वधीद् अयम् अग्न एषां मूलबर्हणं परि वृणक्त्य् एनम् । ग्राह्याः पाशान् वि चृत प्रजानन् पितापुत्रौ मातरं मुञ्च सर्वान्
उन् मुञ्च पाशांस् त्वम् अग्न एषां त्रयस् त्रिभिर् उत्थिता येभिर् आसन् । मायं हिंसीः पितरं वर्धमानो मा मातरं प्र मिनीर् या जनित्री
ग्राह्याः पाशान् वि चृत ये सिनन्ति यां ब्रह्मणा परिवृञ्जन्ति वेधसः । उन् मुञ्च पाशांस् त्वम् अग्न एषां त्वज्जातस्यान्व् अहर्-अहर् अस्तु भद्रम्
नि वर्तध्वं मानु गात- -अस्मान् सिषक्त रेवतीः । अग्नीषोमा पुनर्वसू अस्य वर्धयतं रयिम्
पुनर् एना नि वर्तय पुनर् एना उपा कुरु । इन्द्र एना नि यच्छत्व् अग्निर् एना उपाजतु
परि वो विश्वतो दध ऊर्जा घृतेन पयसा । ये देवाः के च यज्ञियास् ते रय्या सं सृजन्तु मा
नमो अस्तु सर्पेभ्यो ये के च पृथिवीम् अनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः
ये चामी रोचने दिवो ये च सूर्यस्य रश्मिषु । येषाम् अप्सु सदस् कृतं तेभ्यः सर्पेभ्यो नमः
या इषवो यातुधानानां या वा वनस्पतीनाम् । ये ऽवटेषु शेरते तेभ्यः सर्पेभ्यो नमः
यवोच्छिष्टं हविषा वर्धयेमं यथा द्युम्नी कृणवद् वीर्याणी । सजूर् देवेभिर् अभि भूः सपत्नान् आयुष्मत् क्षत्रम् अजरं ते अस्तु
पुंसा यवेन हविषा पयस्वता- -उच्छिष्टस्यायू रक्षन्तु देवाः । देवा ह्य् अस्मिन् नि दधुर् नृम्णं बृहद् अस्मा इन्द्रो वयो दधातु
सम् उच्छिष्टस्य हविषा सम् उक्थैः सम् आयुषा वर्चसा पयो दधातु । देवा ह्य् अस्मिन् नि दधुर् नृम्णं बृहद् अस्मा इन्द्रो वयो दधातु
वायुर् एनाः समाकरत् त्वष्टा पोषाय ध्रियताम् । इन्द्र आभ्यो अधि ब्रुवद् रुद्रो भूम्ने चिकित्सतु
यथा चक्रुर् देवासुरा यथा मनुष्या उत । एवा सहस्रपोषाय कृणुतं लक्ष्माश्विना
लोहितेन स्वधितिना मिथुनं कर्णयोः कृधि । अकर्ताम् अश्विना लक्ष्म तद् अस्तु प्रजया बहु
कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवम् उत् पतन्ति । आ च वर्तन्ते सदनाद् ऋतस्य- -आद् इद् घृतेन पृथिवी व्य् उद्यते
पयस्वतीः कृणुताप ओषधीर् इमा यद् एजथा मरुतो रुक्मवक्षसः । ऊर्जं च तत्र सुमतिं च पिन्वथ यत्रा नरो मरुतः सिञ्चथा मधु
उदप्लुतो मरुतस् ताꣳ इयर्त वृष्ट्या यद् विश्वा निवतस् पृणाथ । एजाति गल्हा कन्येव तुन्नैरुन् तुन्दाना पत्येव जाया
त्वष्टेव पूषेर्यो दमूना मही स्वस्तिर् वृषणा न आगन् । विश्वा आशाः सूयवसा संरराणो ऽस्या रय्याः पुरएता न एधि
एह यन्तु मधुमद् दुहाना अनमीवा उशतीर् विश्वरूपाः । बह्वीर् भवन्तीर् उपजायमाना इहेन्द्रो वो रमयतु गावः
प्रजापतिर् जनयतु प्रजा इमास् त्वष्टा दधातु सुमनस्यमानः । संवत्सर ऋतुभिः संविदानो मयि पुष्टं पुष्टपतिर् दधातु
साहसी नाम वा असि सहसस् परि जज्ञिषे । सहस्वान् इन्द्रो देवेषु सहसे त्वा खनामसि
सहस्येन भेषजेन दिव्येन शतपर्वणा । तेन सहस्रकाण्डेन कृणोमि पुनराभृतिम्
सहसो ऽहं भेषजस्य दिव्यस्य नाम जग्रभ । व्य् आशिषैव तस्थिरे यक्ष्मासः पुरुषाद् अधि
अपेत एतु निरृतिर् नेहास्या अपि किं चन । अपास्याः सत्वनः पाशान् मृत्यून् एकशतं नुदे
ये ते पाशा एकशतं मृत्यो मर्त्याय हन्तवे । तांस् ते यज्ञस्य मायया सर्वाꣳ अप यजामसि
निर् इतो यन्तु नैरृता मृत्यव एकशतं परः । सेधाम एषां यत् तमः प्राणं ज्योतिश् च दध्महे
त्रिषप्ता वारणा इमास् ताभिर् माम् इन्द्रो अब्रवीत् । विषं वारयताम् इति विषं दूषयताद् इति
अप ब्रूतेदं मरुतो महीन्द्रस्यापवाचनी । एषा सहस्रम् अर्हत्य् एषा वारयते विषम्
अस्थाद् द्यौर् अस्थात् पृथिव्य् अस्थाद् विश्वम् इदं जगत् । अस्थुर् विषस्याभीतयः प्रतिकूल इवाबलः
यथा बाणः सुसंशितः परापतत्य् आशुमत् । एवा काशे परा पत साकं वातस्य ध्राज्या
यथा चक्षुश् चक्षुष्मतः परापतति केतुमत् । (…) साकं सूर्यस्य रश्मिभिः
यथा मनो मन्युकेतुं परापतति योजना । एवा काशे परा पतत् समुद्रस्यानु विक्षरम्
इत एवाव गच्छत- -उग्रा भवत माबलाः । ह्वयन्तु सर्वे वो देवाः सर्वा वो वृणतां विशः
यद् अवगमेन हविषा- -अव वो गमयामसि । अत्रात इन्द्रः केवलीर् विशो बलिहृतः करत्
इन्द्रः कश्यप आद् अग्निर् इडा तुरीया वः सखा । यद् भूतं भव्यम् आसन्वत् तेनाव गमयामि वः
न तं यक्ष्मा अरुन्धते नैनं शपथो अश्नुते । यं भेषजस्य गुल्गुलोः सुरभिर् गन्धो अश्नुते
यं गुल्गुलोर् भेषजस्य सुरभिर् गन्धो अश्नुते । विष्वञ्चस् तस्माद् यक्ष्मा मृगा इष्वा इवेरते
यद् गुल्गुलु सैन्धवं यद् वा घासि समुद्रियम् । उभयोर् अग्रभं नाम- -अस्मा अरिष्टतातये
देवा एतं मधुना संयुतं यवं सरस्वत्याम् अधि मणाव् अचर्कृषुः । इन्द्र आसीत् सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानवः
बृहत्पलाशे सुभग ऊर्ध्वस्वप्न ऋतावरि । मातेव पुत्रेभ्यो मृड केशेभ्यो नः शमि
यस् ते मदो +ऽवकेशो यो विकेशो येनाभिहस्यं पुरुषं कृणोषि । भ्रूणघ्नोविरिवारा(च्) चर त्वं तस्य ते प्रजायाः सुवामि केशान्
आकूतिं देवीं सुभगां पुरो दधे चित्तस्य माता सुहवा नो अस्तु । याम् आशाम् एमि केवली सा मे अस्तु विदेयम् एनां मनसि प्रविष्टाम्
आकूत्या नो बृहस्पत आकूत्या न उपा गहि । अथो भगस्य नो धेह्य् अथो नः सुहवो भव
बृहस्पतिर् म आकूतिम् आङ्गिरसः प्रति जानातु वाचम् एताम् । यस्य देवा देवताः सम्बभूवुः सुषुप्रणीः कामो अन्व् एत्व् अस्मान्
मनो न्व् आह्वामहि नाराशंसेन स्तोमेन । पितॄणां च मन्मभिः
आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्याय दृशे
पुनर् नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातं सचेमहि
वयं सोम व्रते तव मनस् तनूषु बिभ्रतः । प्रजावन्तः सचेमहि
वर्चो मे मित्रावरुणा वर्चो देवी सरस्वती । वर्चो मे अश्विनोभा धत्तं पुष्करस्रजा
यच् च वर्चो यजमाने यच् च यज्ञे ऽध्य् आहितम् । सुरायां बभ्रु यद् वर्चस् तस्य भक्षीय वर्चसः
या उत्सेभ्यः प्रस्रवन्ति दिवो धारा नदीभ्यः । तासां त्वा सर्वासाम् अपाम् अभि षिञ्चामि वर्चसा
यद् राजानं शकधूमं नक्षत्राण्य् अकृण्वत । भद्राहम् अस्मै प्रायच्छन् ततो राष्ट्रम् अजायत
भद्राहम् अस्तु नः सायं भद्राहं प्रातर् अस्तु नः । भद्राहम् अस्मभ्यं त्वं शकधूम सदा कृणु
यो नो भद्राहम् अकरः सायं प्रातर् अथो दिवा । तस्मै ते नक्षत्रराज शकधूम सदा नमः
यद् आहुः शकधूमाहं नक्षत्राणां प्रथमजं ज्योतिर् अग्रे । तन् नः सनिं मधुमतीं कृणोतु रयिं च नः सर्ववीरं नि यच्छात्
अनुवाक ६ ॥ यूपे गर्ते विद्वेषणं देवानां वर्चसा कृतम् । अग्निर् वाम् अस्त्व् अन्तरा यथा वां न सहासति
यथाहिं द्वेष्टि पुरुषो अहिर् वा द्वेष्टि पुरुषम् । गिरिर् वाम् अस्त्व् अन्तरा यथा वां न सहासति
नानानि वाम् आकूतानि नाना चित्तानि सन्तु वाम् । विष्वञ्चौ पर्य् आ वर्तेथां यथा वां न सहासति
अत्र द्वे कमले द्वे तुण्डे न मशीकतं तं गलापते । भङ्गलापतो (⟨ भङ्गुरावतो) दह
एतद् यत् ते यद् वा यद् वा न चासन् नो च ते भवत् । स्वप्ने वित्तं यथा धनं नश्याद् इद् एतद् एततः
आगिलो गिलापापचितो गिल । नश्याद् ब्रध्नकम् अर्भकम्
दीर्घायुत्वाय सहसे मह्या अरिष्टतातये । सुपर्णो मह्यम् अब्रवीद् एतद् आश्लिष्टभेषजम्
सक्तून् इव तितüना पुनन्तो विद्वांसो वाचम् अक्रत । अङ्गेभ्यो विश्वाङ्गेभ्यः प्र ते छिनद्म्य् आश्लिष्टम्
अवच्छिन्ध्य् आश्लिष्टम् ऊर्वा ह्य् असि भेषजी । दिव्यः सुपर्णो अब्रविद् एतद् आश्लिष्टभेषजम्
अभिभूर् अहम् आगमं विश्वकर्मा स्वायुधः । अहं मित्रस्य कल्पयन्न् आस्व् आशासु दुष्टरः
अहं समित्ययनो अहं विशां पुरोहितः । अहं मित्राणि कल्पयन् मयि वाग् अस्तु धर्णसी
आ वश् चक्षुर् आ वो वाचम् आ वः समितिं ददे । योगक्षेमं व आदाय- -अहं भूयासम् उत्तमः
ब्रह्मणाग्निः संविदानो रक्षोहा नुदताम् इतः । अरायो यस् ते तन्वं दुर्णामा योनिम् आशये
यस् ते ऽरायस् तन्वं दुर्णामा योनिम् आशये । अग्निष् टं ब्रह्मणा युजा रक्षोहा नुदताम् इतः
यान्य् अभ्वानि रक्षांसि ये ऽराया यातुधान्यः । अग्निष् ट्वा शग्मया तन्वा रक्षोहा पातु तेभ्यः
अग्निश् च देव सवितर् इषम् ऊर्जं दधानौ । पातं मा दुश्चरिताद् आ मा सुचरिते भजतं युवयोर् अवसा सुम्नम् अशीय
इदं तद् उप युव इदं तद् उप ह्वये यच् छुश्रुमा त्वत् परि । वाचस्पतिर् नि यच्छतु मय्य् एवास्तु मम श्रुतम्
मापत्याय स्तेयं करं मा श्रुतेन वि राधिषि । अमोघम् अस्माकं श्रान्तम् अग्ने द्रविणवत् कृधि
मध्यमेष्ठा वर्चस्वत्या- -आयुषे वर्चसे कृतम् । वनुष्व विश्वदेवेषु वनुष्व त्वं बृहस्पतौ
घृतेन प्रजां वनुते घृतेन रयिम् अश्नुते । घृतेनायुष्यं वर्चस्यं देवेभ्यो वनुते परि
पर्जन्य पिप्पलास् तुभ्यं नद्यो गर्भं स्वस्तये । मर्यादा ब्रह्मदेवीर् आयुष्यं वर्च आसिचन्
यथा हस्ती हस्तिन्याः पदेन पदम् अन्व् अगात् । एवा त्वम् अघ्न्ये वत्सस्य पदेन पदम् अन्व् इहि
यथा रथस्य चक्रे वि पथः पांसुम् अस्यथः । एवा मनो व्य् अस्यामि हृदयं वननाय कम्
इन्द्रस्य प्रथमं वचो देवानाम् अपरं वचः । तृतीयम् अश्विनोर् वचस् तेन गां वानयामसि
उद् इतः श्यावौ विथुरौ दिवं गृध्राव् इवेयथुः । शोचनाव् अतिशोचनाव् अस्योच्छोचनौ हृदः
शोचयाभि शोचया दीपयोप दीपय । अहेर् अग्ने विषं त्वं तृणम् इव कल्वलं दह
सीदतं निषत्ताराव् अवेतं मोद् गतम् । कृष्णा वां गौः सारस्वती
यथा रात्री कृष्णतमा गौः कृष्णा कृष्णवर्तनिः । शाचीःप्यवो यथा रूपम् एवेदं मामकं शिरः
यथाङ्गरो ऽभिषिक्तो दर्विदाको यथासितः । अनुष्यङ्गस्य कल्मषम् एवेदं मामकं शिरः
यथा दावाद् दह्यमानात् कृष्णो ज्वालो ऽपध्वंसते । नैषाद् अस्य यथा मुखम् एवेदं मामकं शिरः
यत् किं चासौ मनसा यच् च वाचा यज्ञैर् जुहोति हविषा यजुर्भिः । तन् मृत्युना निरृतिः संविदाना पुरा दृष्टाद् आज्यं हन्त्व् अस्य
यातुधाना निरृतिर् आद् उ रक्षस् ते अस्य घ्नन्त्व् अनृतेन सत्यम् । इन्द्रेषिता आज्यम् अस्य मथ्नन्तु मा तत् सं पादि यद् असौ जुहोति
परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि । धृषद्वर्ण दिवेदिवे हन्तारं भङ्गुरावताम्
स्वर्जिद् अधिराजौ श्येनौ संपातिनाव् इव । आज्यं पृतन्यतो हतं यो अस्मान् पृतनायति
पृथिव्यै वनस्पतिभ्य ओषधीभ्यो ऽग्नये ऽधिपतये स्वाहा
अन्तरिक्षाय प्राणाय वयोभ्यो वायवे ऽधिपतये स्वाहा
दिवे चक्षुषे नक्षत्रेभ्यः सूर्यायाधिपतये स्वाहा
पिप्पल्यः सम् अवदन्त- -आयतीर् जननाद् अधि । यं जीवम् अश्नवामहै न स रिष्याति पूरुषः
पिप्पली क्षिप्तभेषज्य् उतावविद्धभेषजी । तां देवाः सम् अकल्पयन्न् अलं जीवातवा इति
असुरास् त्वा न्य् अखनन् देवास् त्वोद् अवपन् पुनः । वातीकृतस्य भेषजी पिप्पली क्षिप्तभेषजी
यद् उलूको वदति मोघम् एतद् यत् कपोतः पदम् अग्नौ कृणोति । यस्य दूतौ प्रहिताव् इदम् एयथुस् तस्मै यमाय नमो ऽस्तु मृत्यवे
यस् ते दूतो निरृत आजगाम- -अप्रहितः प्रहितो वा गृहं नः । कपोतोलूकाव् अपदं तद् अस्त्व् अवैरहत्यम् इदम् आ जगन्थ सुवीरताया इदम् आ ससत्थ
यः प्रथमः प्रवत आससाद बहुभ्यः पन्थाम् अनुपस्पशानः । य ईशे अस्य द्विपदो यश् चतुष्पदस् तस्मै यमाय नमो ऽस्तु मृत्यवे
यथासितः प्रथयते वशाꣳ अनु वपूंषि कृण्वन्न् असुरस्य मायया । एवा मे शेपः सहसायम् अर्क एनाङ्गेन संसमकं कृणोतु
यावद् अङ्गीनं पारस्वतं हास्तिनं गार्दभं च यत् । यावद् अश्वस्य वाजिनस् तावन् मे वर्धतां पसः
यथा पसस् तायादरं वातेन स्थूलभं कृतम् । यावत् परस्वतः पसस् तावन् मे वर्धतां पसः
यस्येदम् आ रजो युजस् तुजे जनं वनं स्वः । इन्द्रस्य नाधृषे शवः
धृषाणं धृषतः शवः पुरा यथायतिष्ठन् । इन्द्रस्य रन्त्यं महत्
स नो दधातु तं रयिं पुरुं पिशङ्गपेशसम् । इन्द्रः पतिस् तुविष्टमो जनेष्व् आ
आयुर् अग्न इहा वह जातवेदस् तनूवशिन् । यथाहं ज्योग् इहासानि प्रजानाम् अधिपा वशी
आयुर् इन्द्रो दधातु म आयुर् देवो बृहस्पतिः । आयुर् मे विश्वे देवा अहोरात्रे च चक्रतुः
आयुर् आयुष्या पवतां प्राणं प्राणो दधातु मे । देवा यच् चक्रुर् देवेभ्यः स्वर् यन्तो यथायथम्
उत्पतन्तु नभस्वतीः समुद्राद् अधि घोषिणीः । उत्स्याः समुद्रिया अपस् ताभिष् ट्वा तर्पयामसि
या आपो दिव्या या वातात् परिजज्ञिरे । इन्द्रो मरुत्वांस् तृप्तात्मा ताभिष् ट्वा तर्पयामसि
याः शुष्का या हरिणीर् या भूमिम् अनुवावृधुः । सर्वाः समग्रा ओषधीस् ताभिष् ट्वा तर्पयामसि
आ नो मेधा सुमतिर् विश्वरूपा गिरो बृहतीर् आवेशयन्ती । ऋचो मे बह्वीर् न्य् अनक्तु गा इव यथासाम भुवनेषु कर्णिनः
दीक्षा तपो मनसो मातरिश्वा बृहस्पतिर् वाचो अस्याः स योनिः । वेदांसि विद्या मयि सन्तु बह्वीर् अग्नीषोमा यशो अस्मासु धत्तम्
यद् अग्ने तपसा तप उपप्रेक्षामहे वयम् । प्रियाः श्रुतस्य भूयास्म- -आयुष्मन्तः सुमेधसः
यस् त्वा मातुर् उत वा पितुः परिजायमानम् अभिसंबभूव । तं त्वद् यक्ष्मम् अधि नाशयामः सो ऽन्यस्मिं छ्रयातै प्रविष्टः
यस् ते यक्ष्मो हृदयेष्ठो नाभिष्ठा उदरंगमः । अथो यः शिश्रिये परौ तं त्वद् यक्ष्मम् अधि नाशयामः सो ऽन्यस्मिं छ्रयातै प्रविष्टः
शीर्षरोगम् अङ्गरोगं स्नावबृहम् अभिशाचिं विसल्पकम् । यस् ते यक्ष्मो मज्जसु परुःसु यो गुदासु तं त्वद् यक्ष्मम् अधि नाशयामः सो ऽन्यस्मिं छ्रयातै प्रविष्टः
अनुवाक ७ ॥ अग्नी रक्षोहा तिग्मस् तिग्मशृङ्गो हन्तु रक्षो नुदताम् अरातिम् । अपाघशंसम् अस्यतु
आ त एतु परावतो बलम् ओजो दिवस् परि । आ गिरिभ्यः पर्वतेभ्य आयुष् टे विश्वतो दधत्
पुनस् ते ऽसुं पृथिवी ददातु पुनर् द्यौर् देवो पुनर् अन्तरिक्षम् । पुनस् ते सोमस् तन्वं दधातु पुनः पूषा पथ्यां या स्वस्तिः
कष्किषा कष्पिषा येवाषा एषा । इष्टर्गव इषयन्तः सैकताः पांसवाः
अदृष्टान् न दृष्टान् । दृष्टाꣳ अदृष्टान् धनपते जहीन्द्रस्य वधेन
एताश् च विश्वरूपाश् च गृध्राः कोकाश् च ते हताः
कामे कामयस्व मा प्रतीची प्रति मा भव । माम् अनु प्र ते मनो वत्सा पाकेव धावतु
अभीले अभिमादन्य् असौ माम् अभि माद्यतु । विद्म पतत्रिण्या वयम् इषुके नामकं तव
अहं ते मन आ ददे मनो मनोमुषिर् यथा । मयि ते मन आहितं रथ इव रथवाहने
उद् असौ सूर्यो अगान् मह्यम् अवतुना सह । अहं विशां पुरोहितो मधुहस्तो मधुजिह्वो मयि वाग् अस्तु धर्णसी
अहं विश्येन केतुना समक्ष्ये मानुषेष्व् आ । अस्माकम् अस्तु केवलं बृहद् दिशो अधि विश्वेषु राजसु
स्वादोश् चिन् मा स्वादीयांसं मधोश् चिन् मधुमत्तरम् । प्रियाश् चित् सख्युर् अन्तरम् आदित्यासः कृणोत मा
अग्ने ब्रह्म त्वं ब्रह्मासि विद्धि त्वं प्रास्मभ्यं ब्रूहि । यदीदं तथा भविष्यसि यदि वा नाथैतस्य हविषो वीह स्वाहा
वि पृच्छे द्यावापृथिवी वीन्द्रं वि बृहस्पतिम् । वि देवान् यज्ञियान् पृच्छे व्य् असं जीवनाय कम्
विज्ञानायोद्यता प्रस्तुता स्रुग् इयं यम राजन् हविर् इदं जुषस्व । अगतासोर् हविषो मादयस्व निरृतिं गच्छतु यद् गतासोः
यत् त्वा मांसे अपववौ यन् मन्थे यद् ओदने । अग्निष् ट्वा विश्वभेषजस् तस्मात् पात्व् अंहसः
यस् त्वा वात आवात्य् अधराद् उत्तराद् उत । आपो या विश्वशंभुवस् तास् त्वा पात्व् अंहसः
अप त्वन् मृत्युं निरृतिम् अप यक्ष्मं नि दध्मसि । यथा त्वम् अरपा अस उदोजा उत्तरो भुवः
वैश्वानरो रश्मिभिर् नः पुनातु वातः प्राणेनेषिरो नभोभिः । द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये मा पुनीताम्
प्रजापतिर् ऋतुभिः पञ्चभिः संवत्सरो धामभिः पातु विश्वैः । इहैव प्राणः सख्ये नो अस्तु तम् आत्मनि पुनर् आ वेशयामि
वैश्वदेवीं सूनृताम् आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः । तया गृणन्तः सधमादेषु वयं स्याम पतयो रयीणाम्
वैश्वानरीं वर्चस आ रभध्वं यस्या आशास् तन्वो वीतपृष्ठाः । ईडयेह सधमादं मदन्तो ज्योक् पश्येम सूर्यम् उच्चरन्तम्
अवत्कं मम भेषजम् अवत्कं परिवाचनम् । नराच्य् असि मा तुदो वन्वाना रोगभेषजम्
शम्भुलेहम् इहा हर तम् उ क्षीरा उद् अस्यति । तद् आस्रावस्य भेषजं तद् उ रोगम् अनीनशत्
नदीषु नड्वलासु कुम्भेषु कलशेषु च प्रतीषेचनभेषजम् । तत् ते कृणोमि भेषजम् अद्धि मांसं पिबोदकं पट्पटिङ्गं विपश्चलं वि पश्य
अविदाम यद् ऐच्छाम पिशाचक्षयणं हविः । तेन क्रव्यादो हन्मः सर्वाश् च यातुधान्याः
इच्छन्ति त्वा पदातय इच्छन्ति रथिनस् त्वा । क्रीणन्ति गोभिर् अश्वैर् अमृतस्येव वा असि
अमम्रि नाम भेषजं पृथिव्या अध्य् उद्भृतम् । वक्ता तन् मह्यम् अब्रवीद् इदं ह पारयाद् इति
चक्षुर् असि पुरुषस्य चक्षुर् गोश् चक्षुर् अर्वतः । चक्षुर् भूतस्य भव्यस्य चक्षुर् अप्सरसाम् असि
चक्षुर् असि सुपर्णस्य चक्षुर् अहेर् अथो शुनः । चक्षुः सर्वस्य पश्यतो ऽथो यद् विश्वम् एजति
आददानं सहस्राक्षं प्रतिस्पाशनम् अब्रुवम् । दर्शय मा यातुधानान् दर्शय यातुधान्याः
अतीमाम् अख्यं पृथिवीम् अति द्याम् अति सूर्यम् । अति विश्वम् इदं भूतम् अत्य् अख्यं यातुधान्यः
दर्शय मा यातुधानान् दर्शय यातुधान्यः । अघायून् सर्वान् दर्शय- -इति त्वौषध आ रभे
एवा सहस्रचक्षो त्वं प्रति पश्यास्य् आयतः । सहो ऽसि यातुधानजम्भनम्
इमाः पारे पृदाक्वस् त्रिषप्ता निर्जरायवः । तासां जरायुणा वयम् अक्ष्याव् अपि व्ययामस्य् अघायोः परिपन्थिनः
विषूच्य् एतु कृन्तती पिनाकम् इव बिभ्रती । विष्वक् पुनर्भुवा मनो ऽसमृद्धा अघायवः
अपेतः परिपन्थिनो +ऽपो अघायुर् अर्षतु । न बहवः सं शक्नवन् नार्भका अभि धृष्णवन्
प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहम् । इन्द्राण्य् एतु प्रथमा- -अजीतामुषिता पथा
आयम् अगन् फाल्गुमणिर् बलेन बलदाः सह । येनेन्द्रो दस्यूनां वीराꣳ असुराणाम् अवातिरत्
वर्चसा मां पयसोक्षन्तु देवा वर्चसा द्यावापृथिवी उभे । वर्चो मे देवः सविता दधातु वर्चो विप्रः कश्यपो मे दधातु
वर्चो म आपो दधतु वर्चो मे वीरुधो दधन् । भूतानि सर्वाः सङ्गत्य वर्च आ धुर् मुखे मम
याः पुरस्ताद् वितिष्ठन्ते गावः प्रव्राजिनीर् इव । वातीकृतस्य भेषजीः पिप्पलीः पारयिष्णवः
रुद्रस्य मूत्रम् अस्य् अमृतस्य नाभिः । पृथिव्यां मूलं निष्ठितम् असि विषाणा नाम वातीकृतभेषजी
शं ते अस्तु मतस्नाभ्यां शं यक्ने शं तलीद्यै । शं ते पृष्टिभ्यो मज्जभ्यः शम् अस्तु तन्वे तव
न हि ते अग्ने तन्वः क्रूरम् आनंश मर्त्यम् । कपिर् बभस्तु तेजनं स्वं जरायु गौर् इव
त्वेष इव सं च वि च रोरुवण्यते यद् उत्तरद्रा उपरस्य खादति । शीर्ष्णा शिरो अप्ससाप्सो अर्दयन्न् अंशून् बभस्तु हरितेभिर् आशुभिः
सुपर्णा वाचम् अक्रतोप द्यव्य् आखरे कृष्णा इषिरा अनर्तिषुः । नि यन् नियन्त्य् उपरस्य निष्कृतिं पुरू रेतो दधिरे सूर्यस्युतः
भगेन मा शांशपेन साकम् इन्द्रेण मेदिना । कृणोमि भगिनं मा- -अप द्रान्त्व् अरातयः
यो अन्धो यः पुनःसरो भगो वृक्षेष्व् आर्पितः । भगो मे अस्तु शांशपो ऽप द्रान्त्व् अरातयः
यथा वृक्षाꣳ अभ्यभवः साकम् इन्द्रेण मेदिना । एवा मा भगिनं कृण्व् अप द्रान्त्व् अरातयः
अपेतो नीललोहितं जातं हिमवतस् परि । कीश्मीलम् उर्वराभ्यो दिवो जातम् अनीनशम्
अभ्राज् जातं वर्षाज् जातम् अथो जातं दिवस् परि । अथो समुद्राद् जातं कीश्मीलं नाशयामसि
यो नीहाराद् यः प्रुष्वा यो अद्भ्यस् परि जायसे । गर्भो यो विद्युताम् असि स नः कीश्मील मृडय
नोदेयीः सिकता इमाः सिन्धुतस् पर्याभृताः । ताभिर् यमस्य कीश्मीलं संभृताभिर् अनीनशम्
त्वया पूर्वं विभीदक संजिता असुरा हताः । त्वं सपत्नचातनो भ्रातृव्याꣳ अव धूनुष्व
वि भिनत्तु विभीदकस् तीक्ष्णशृङ्ग इव ऋषभः । अथो सपत्नान् आ दत्ताम् अथो हन्तु दुरस्यतः
व्यवधीत् सहमानः सपत्नान् द्विषतो मे ऽधराꣳ अकः । अभ्य् अभूद् भूत्योभयाम्
य आस्कन्दः परास्कन्द आखुः ककुभ आत् क्रिमिः । उपजीकाꣳ उपक्वसान् तान् सर्वान् जम्भयामसि
अपि नह्याम्य् आखोर् मुञ्जेन मुखम् आस्यम् । अनदं यथा चराद् अपैतुम् उर्वराभ्यः
अपिनह्यमुख आखुः परोक्तः प्राट्पराणुतः । शृणाम्य् अस्य दन्तान् निर् अक्षौ पादयामसि
अश्विना सारघेन मा मधुनाङ्क्त शुभस्पती । यथा वर्चस्वतीं वाचम् आवदानि जनाꣳ अनु
यशा अहं निमिषते प्रतिख्यात्रे यशा अहम् । अत्रैमि तद् यशा अहम् उत तत्र यशा अहम्
अस्मै च सर्वस्मै भूताय सर्वस्मै च विपश्यते । सर्वस्मा इद् अहं यशाः
अपोत्तुदापोर्णुहि यदीदम् अस्ति वा न वा । व्यन्ध्यं व्यल्गुणं चक्षुर् अक्षीभ्यां कृधि
अङ्गं हिरण्ययं कृत्वा लङ्गलाषम् अर्मं च । तद् देवा अप लुम्पत
चक्षुष्मन् मे मनो अस्तु चक्षुष्मद् धृदयं मम । चक्षुष्मच् चित्तम् अस्तु मे चक्षुश् चक्षुष्मद् अस्तु मे चक्षुर् आ धेहि मे ऽक्ष्योः
अनुवाक ८ ॥ सोमो राजा सविता च राजा भवो राजा भुवनं च राजा । शर्वो राजा शर्म च राजा त उ नः शर्म यच्छन्तु देवाः
आदित्यैर् नो बृहस्पतिर् भगः सोमेन नः सह । विश्वे देवा उर्व् अन्तरिक्षं त उ नः शर्म यच्छन्तु देवाः
उताविद्धां निष्खिदत- -अथो श्रथ्नीथायताम् । मा नो विश्वे देवा मरुतो हेतिम् अस्थत
अपाम् इदं न्ययनं समुद्रस्य निवेशनम् । मध्ये ह्रदस्य नो गृहाः पराचीना मुखा कृधि
आयने ते परायणे दूर्वा रोहतु पुष्पिणी । उत्सो वात्र जायतां ह्रदो वा पुण्डरीकवान्
हिमस्य त्वा जरायुणा शाले परि व्ययामसि । शीतह्रदाय नो भुवो ऽग्निर् ददातु भेषजम्
अयं दर्भो विमन्युकः स्वाय चारणाय च । मन्योर् विमन्युको मन्युशमनो अस्तु ते
अयं यो भूरिमूलः समुद्रम् अवगच्छति । दर्भः पृथिव्यां निष्ठितः स ते अस्तु विमन्युकः
वि ते हनव्यां शरणिं वि ते मुख्यां नयामसि । यथावशो न वादिषो मम चित्तम् उपासासै
येभिः पाशैः परिवित्तो विबद्धः परौपराव् आर्पितो अङ्गेअङ्गे । वि ते चृत्यन्तां विचृतो हि सन्ति भ्रूणघ्नि पूसन् दुरितानि मृष्टाम्
त्रिते देवा अमृजतैन एतत् त्रित एनन् मनुष्येष्व् अमृष्ट । ततो यदि त्वा मध्ये न आरत् तद् अहं त्वद् ब्रह्मणापा करोमि
मरीचीर् धूमं प्र विशानु वातम् उदारान् गच्छोत वा नीहारम् । नदीनां फेनम् अनु तद् वि नश्यतु भ्रूणघ्नि पूषन् दुरितानि मृष्टाम्
अग्ने रक्षः प्रति दह यत् कुम्भ्याभिर् आभृतम् । अनाधृष्यः स यास्यत्य् अभूज् जीवातवे अयम्
यन् नखवद् यच् छफवत् प्रसूमत् किं च पुष्पवत् । उर्वा मत्स्यो मधूलकं तस्य पास्यत्य् अयम् अनास्रावम् अरोगणम्
याः समुद्रात् प्रस्रवन्ति देवीर् हिमवतस् परि । आपो या विश्वशम्भुवस् ता इहा यन्तु भेषजीः
त्वचापिधाने सुभगे दत्परिस्तरणे कवे । एकाम् इव व्रजे गां परि त्वा वर्चसासिचम्
अग्रेणीर् इव हंसानां प्रपश्यन्ती पुरस् पथम् । जिह्वे मा विव्यथो मा यथापूर्वं त्वं वद
वर्चस्वद् अहम् उद्यासं ब्रह्मराजन्याभ्यां शुद्राय चार्याय च । यस्मै च कामयामहे सर्वस्मै च विपश्यते
अर्वाञ्चौ पादौ प्र हर- -अर्वाचीनं मनस् तव । अर्वाचीनस्य ते अतः पराङ् मन्युं नि वर्तताम्
छागलादे भगवो ऽर्वाग् ज्योते परस्तमः । आ त्वा खलज्ञकाद् अस्मात् पुनर् आ वर्तयामसि
यथा व्रीहीन् व्रीहिखले समाकुर्वन्ति तूलिभिः । एवा ते विष्ठितं मनः सम् आ करोमि माम् अभि
त्वम् उत्तमं सुरभिषां माध्यमं वहतोर् असि । त्वया वधूर् वि जङ्गहे तं त्वा वर्चस आ ददे
मूर्ध्नस् ते मूर्धन्येभ्यो ऽग्रुवः पतिवित्त्याः । औक्षं शीर्षत आ ददे
यश् च स्वाद्मा ते अङ्गेषु यः प्रेमा हृदये च ते । तं त्वद् आ वेशयामहे मयि भ्राजाति दीद्यत्
वातरंहा वाजिन् भव युज्यमान इन्द्रस्य याहि प्रसवे मनोजवाः । युञ्जन्तु त्वा मरुतो दैव्यास आ ते त्वष्टा पत्सु जवं दधातु
जवस् ते अर्वन् निहितो गुहा यः श्येने चरति यश् च वाते । तेन त्वं वाजिन् बलवान् बलेन- -आजिञ् जय समने पारयिष्णुः
आसीयाने ऽधि मनस आसीयाने ऽधि चक्षुषः । आसीयानस्य वाताद् भूत्वा- -आजिञ् जय समने पारयिष्णुः
तनूस् ते वाजिन् तन्वं वहन्ती वामम् अस्मभ्यं धातु शर्म तुभ्यम् । अह्रुतो महो धरुणाय देवा दिव्यम् इव ज्योतिः स्वर् आनमीयाः
इन्द्रो मा वक्षद् अक्षतं वृत्रहा यो वृतञ्जयः । स मे रथं स सारथिं सो अश्वान् साधु मे नयात्
इन्द्रो मा तेन नयतु पन्था यो अभयः सुगः । दक्षिणा पारयाति मा मा रिषं समरे युधाम्
हृत्सुके परि णो नम पारिगं तन्वे कृधि । युयुत पर्णिनं शरम् उतापर्णं रिशाद् इति
विश्वे देवा इदं हविर् आदित्यासः सपर्यत । अस्मिन् यज्ञे मा व्यथिष्य् अमृताय हविष् कृतम्
अव्यसश् च व्यचसश् च बिलं वि ष्यामि मायया । ताभ्याम् उद्भृत्य वेदम् अथ कर्माणि कृण्महे
यस्मात् कोशाद् उदभराम वेदं तस्मिन्न् अन्तर् अव दध्म एनम् । कृतम् इष्टं ब्रह्मणो वीर्येण तेन मा देवास् तपसावतेह
वैश्वानरो अजीजनद् अग्निर् नो नव्यां सुमतिम् । क्ष्मया वृधान ओजसा
स नः पावक दीहिह्य् अग्ने वैश्वानर द्युमत् । जमदग्निभिर् आहुतः
दिवस् पृष्ठो अरोचथा अग्निर् वैश्वानरो बृहन् । ज्योतिषा बाधते तमः
हरिणस्य पतत्रिणः शीर्ष्णो भेषजम् आभृतम् । तन् नीलवद् वि लोकवत् तद् उ क्षेत्रियनाशनम्
अन्वमंस्तानुमतिर् अन्वंअंस्त वृषायवः । कीनाशा अन्वमंसत- -अनु गावो अमंसत
नमो अस्त्व् आयामिभ्यो नीविभ्यो हृदयाय च । नमः क्षेत्रस्य पतये नमः क्षेत्रस्य पत्न्यै
उत् ते हार्दिं शोचयामि हस्तेनाभिमरीमृशत् । केशिन् वृषण्यया तव मुष्कौ मूर्धा न शुष्यताम्
अग्निष् ट्वा तपतु सूर्यस् त्वा तपतु वातस् त्वा युङ्क्तां मरुतश् च युञ्जताम् । मृगान् मरीचीर् अप्य् एतु ते मनः
उत् त्वा हन्मि निपदनाद् उत् त्वा हन्मि गृहेभ्यः । मा स्पृक्षथा निषदनाय साधव उत् तिष्ठ प्रेहि सभाम्
उत् तुद शिमिदावत्य् अथो उल्कावतीं कुरु । पत्ये च श्वशुराय च
विबर्हं हरांसयो रसं ज्ञानम् अति भ्रुवोः । साकम् ऋषे वि नाशय
साकं वातस्य ध्राज्या साकं सूर्यस्य रश्मिभिः । साकं सूर्येणोद्यता सपत्नीं नाशयामसि
दीर्घजिह्वा बृहद्वाचो याभिर् आर्द्राणि वासांसि । गावो घृतस्य मातरो दिवि भेषजम् अक्रत
अर्जुनीनाम् अपचितां कृष्णा मातेति सुस्रव । मुनेर् देवस्य मूलेन सर्वाश् छिनद्मि ता अहम्
छिनद्म्य् आसां प्रथमां छिनद्म्य् उत मध्यमाम् । अथो जघन्याम् आसाम् आ छिनद्मि स्तुकाम् इव
अपेहि मनसस् पते किम् अशस्तानि शंससि । परेहि न त्वा कामये वृक्षान् वनानि सं चर
अवशसा निःशसा यत् पराशसा- -उपारिम यज् जाग्रतो यत् स्वपन्तः । अग्निर् विश्वान्य् अप दुष्कृतान्य् अजुष्टान्य् आरे अस्मद् दधातु
यद् इन्द्र ब्रह्मणस्पत उत मृषा चरामसि । प्रचेता न आङ्गिरसो द्विषतस् पातु तेभ्यः
एह माम् उत्तरं कृधि सहस्व पृतनायतः । व्य् अस्मत् कृत्या व्य् अस्मच् छपथाꣳ अज
यो नो दुधूर्षान् मनसा यश् च पापेन नोभ्यमात् । आकूतिं तस्य देवा हृदश् चित्तानि वि ष्यत
अश्व इव धुरि दुर्योगः प्रतीहाय वहे दश । कृत्वानं ब्रह्मणस्पते दंष्ट्राभ्याम् अभि सं जहि
यो ऽन्या अधि प्राजायथा मूर्ध्नो ऽध्य् उद् अवर्धताः । त्वं सपत्नचातनो भ्रातृव्याꣳ अव धूनुष्व
बहुर् अयं संगरुष्टो न्यक्तो भूम्याम् अधि । तेनाहम् अस्य कर्त्स्यामि यथा स्थामा गमिष्यति
स्थामागन् बृहद् अक्षत्रः स्थामन्ताक्ष्णिणो ऽव स्यति । अन्तष्ठानस्य यो राजा स उत्थाम गमिष्यति
अगमद् राजा सदनम् अगमत् सूर्यो दिवम् । उदयन् वृत्रहन् प्लीहा अङ्गराजो अवीरहा
यथा पन्थां कवापथो अप्येति महापथम् । एवा त्वं प्लीहन् नः प्लीहि यतो ऽस्य् अभ्यागतः
इन्द्रेण दत्तं बलम् आसुराभ्यां शितङ्गैतच् छाल्वतायै च तुभ्यम् । तौ नुदेथां कण्वा अशिवा अजुष्टा अधा गृहाणां गृहपा त्वम् एषाम्
त्वम् अग्ने गृहपतिर् गृहाणां त्वं प्रजानां जनितासि दाता । त्वं नुदस्व कण्वा अशिवा अजुष्टा सदान्वा निरतः सेद पापीः
चर्माभ्यः क्रूरम् आनह्य हरिणस्य भियं कृधि । मृगाꣳ अनु प्र पातय मरीचीर् अनु नाशय
यद्य् अस्य् अप्सरावीर् यदि त्वा रक्षो अग्रभीत् । तस्मा अपप्लवं हविर् मनसा जुहोमि ते
अनुवाक ९ ॥ अभि त्वा शतपाशया- -अथो सहस्रपाशया । दाशो मत्स्यम् इव तीदेन मयि बध्नामि ते मनः
आ हि ते दक्षिणं पदं हृदय्यं ददे । उपस्थे पदमोपि नि त्वाम् अक्रि स्वे वशे
परि त्वा गाम् इवासरं मम पत्तो निपत्तवे । तन् मारुतं ह वैरुधम् आवतंकरणं कृतम्
आ नयामि ते मनो अश्वम् इवाश्वाभिधान्या । उप ते मुञ्चे मनः पदोर् उपानहौ यथा
यथा सुरा यथा मधु यथाक्षा अधिदेवने । यथा ह गव्यतो मन एवा माम् अभि ते मनः
एवा कृणुष्व मा प्रियाम् अन्तः कृणुष्व मा हृदि । यथा मन्नापचेतया नान्यासां कीर्तयाश् चन
यस्येदं वैष्टपं हविर् भगस्य हस्तयोर् हितम् । तेना त्वाभि मृशामसि सौभाग्याय स्वस्तये
भग मेमां सं बट् करो मा पश्चान् मा परो दघः । अधा भगस्य यो भगस् तेनेमां सं सृजा भग
भगेन त्वा सं सृजामि मासुरेण सुराम् इव । यथाससि प्रिया पत्युर् देवृभ्यः सुभगाससि
उद् इतो दैव्यं वच इषुम् इव तुन्नः खिदे । तेना सपत्नान् मामकान् सासहानि जहानि च
अग्निर् मा पातु वसुभिः पुरस्तात् सवितादित्यैर् अभि पातु दक्षिणात् । इन्द्रो मरुद्भिर् अभि पातु पश्चाद् विश्वे देवा अभि रक्षन्तु मोत्तरात्
देवरक्षसान् मा पाहि मनुष्यरक्षसान् मा पाहि । विश्वस्मान् मा रक्षसस् पाहि
असौ यस् त्रिककुद् गिरिः शृङ्गाभ्याम् अभितिष्ठति । स संपतत्रम् उद्युगं बलासम् इव तिष्ठतु
दिव्यः सुपर्ण आ पतद् अयोदंष्ट्रो अयोमुखः । स संपतत्रम् उद्युगम् इतो यक्ष्मं परा भवत्
साकं बलास प्र पत चाषेण किकिदीव्या । साकं वातस्य ध्राज्या सह नश्य निहाकया
माभि गायः शाबलेयं शौणेयं साधुवाहिनम् । नमस् ते भद्रया कृण्मो ऽविह्वृता चक्षुषा त्वं शमका शमयाति त्वा
तृन्धि वि क्षिणीहि पेशः कुर्वाणिका त्वम् । जारेण पत्या जक्षती गृहान् गोपायमानिका शमका शमयाति त्वा
आङ्क्ष्वाभ्यङ्क्ष्व- -अभ्यक्ता शमनं गमः । अथो पितृभ्यो गा इच्छ विज्ञानेन भगेन च शमका शमयाति त्वा
अपेहि मनसस् पाप- -अप क्राम परस्तरम् । परो निरृत्या आ चक्षुर् बहुत्रा जीवतो मनः
भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् । भद्रं वैवस्वतं चक्षुर् बहुत्रा जीवतो मनः
यन् मे छिद्रं मनसो यच् च वाचः सरस्वतीं मन्युचित्तं जगाम । विश्वैस् तद् देवैः सह संविदानः सं दधातु बृहस्पतिः
स्फिरा स्फिरतरं स्फिरा आत्तारः । शतहस्त समाहर सहस्रहस्त सं किर
इहैवा किर सं किर- -इहैव स्फातिम् अस्फिरम् । स्फिरेयम् अस्त्व् ओषधिः समुद्रस्येव संस्रवः
उत् तिरा आ गमन्न् उप- -उत् तिराण्यागमन् । वृष्टे शापं नदीर् इव- -इह स्फातिं समावहान्
वि मयूखा आ यच्छन्तु गर्दभा इव दुर्युजः । मुह्यन्तु सर्वे तन्तवो वृता नाडी वितन्त्रिके
प्र वाम् ईष्वे पततां प्र तटा प्र निवेष्टनम् । मुह्यन्तु सर्वे तन्तवो अन्धे विततवाय्यौ
आयवनी निवेष्टनं व्रता तसरम् ईष्वे । मुह्यन्तु सर्वे तन्तवो अन्धे वितत वाय्यौ
मयारकारी प्रथमा- -ऊर्णवाभिर् अथो शका । देवानां पत्नीः कृत्तिका इमं तन्तुम् अमूमुहन्
अग्निर् न एतु प्रथमः पुरएता बृहस्पतिः । अधा भग प्र णो यच्छ त्वं हि धनदा असि
प्र णः शूद्र उतार्यः प्र णो राजोत वृत्रहा । अथो यत् सर्वम् आत्मन्वत् प्र णो यच्छतु दक्षिणाम्
कविर् यज्ञस्य वि तनोषि पन्थाम् ऋतस्य पृष्ठे अधि दीध्यानः । येन हव्यं वहसि देव दूत इतः प्रचेता अमुतो वनीयान्
मधुहस्तो मधुजिह्वो मधुवर्णो मधुव्रतः । अथो मधुप्रशासनो भगो मा वर्चसावतु
या त्रिषप्तैः पुनर् एति नाना रूपाणि बिभ्रती । वाचस्पतिर् बला तस्या आरे हेतिं दधातु मत्
वाचा नुत्ता कृत्याद् इन्द्रवती जाग्रता स्वपती कृता । नुत्ता पाकस्य शंसेन प्रत्यक् कर्तारम् ऋच्छतु
यद् एतद् भूरि स्पर्धसे कृत्यास्मीति मन्यसे । प्रतीचीना परेत्य विषाद् इव विषमद् धतः
परेणैत्व् अघशंसो मैनेन सम् अरामहि । द्यौश् चास्मान् पृथिवी च- -उभे पाताम् अंहसः
यव यावयास्मद् द्वेषांसि यवमयेन हविषा । दुर्हार्दे चक्रुषे कृत्यां ग्रीवासु प्रति मुञ्चतम्
अन्या वो अन्याम् अवत्व् अन्यान्यस्या उपावत । अश्वा इव प्रवल्गन्तीः कृत्यां हतौषधयो ऽरातिं हतौषधयः
मेहोप गा मोप रंस्थाः पथां दुर्गाण्य् अन्व् इहि । सपत्नि नश्यताद् इतो दूरं गच्छाध्य् ओकसः
यस्यास् ते नाम गृह्नामि यस्मिन्न् आरमसेचने । आ परस्याः परावतः सपत्नीं नाशयामसि
त्रिंशतं त्रींश् च पर्वतांश् चतुरश् च गिरीन् अति । सपत्नीं ब्रह्मणस्पते परो भ्रूणान्य् अर्पया
उन् मादयत मरुतः समुद्रिया उद् द्यावापृथिवी उभे । उत् त्वा समुद्र ऋषन्तु- -उत् त्वाम् अग्निर् अयं दहात्
यत् सपत्नी सपत्न्या अमुष्या वर्च आददे । अधस्ताद् उपवादिन्य् असौ स्याद् अहम् उत्तरात्
आ ते बध्नाम्य् ओषधिं सपत्नीभ्यः प्रचातनीम् । यथा ते ऽसद् अयं पतिः पुत्राणां ते भवत् पिता
यान्य् ऋणान्य् अनुवर्तान्य् अस्मिन् यमस्य येन बलिना चरामि । इदं तद् अग्ने अनृणो भवामि- -इदं तद् अग्ने अवदानम् अस्तु
यास् ते सप्त प्रवतो या उ तिस्रो यास् ते सन्ति निवतो या अभीवतः । अर्वावतो अष्टधा त्रीणि रोचना तास् ते अग्ने संमनसो भवन्तु जानन् यमाय नि वहा कुसीदम्
यास् त ऊर्ध्वास् तन्वो जातवेदो यास् तिरश्चीर् उत या अनूचीः । ताभिष् ट्वम् अग्ने सयुजा गृणानो जानन् यमाय नि वहा कुसीदम्
नाशय पलितं शीर्ष्णो यः कृष्णस् तन् न आ भर । तम् ओषधे त्वं वर्धय केशं कृष्णतरं कृधि
यथाञ्जनं तथाससि यथा त्रैककुदं तथा । तत् संभवात् तत् सभस् ते व्युच्छन्तीर् अनूषसः
यत्रास्ति यत्र तिष्ठति यतो नश्यत्वासिनम् । दिव्यः सुपर्णो अब्रवीद् एतत् पलितभेषजम्
दिवो नु मा बृहतो अन्तरिक्षाद् अपां स्तोको अभ्य् अपप्तद् रसाय । सम् इन्द्रियेण पयसाहम् अग्ने ऋषीणां यज्ञैः सुकृतां कृतेन
यदि वृक्षाद् अभ्य् अपप्तत् फलं तद् यद्य् अन्तरिक्षात् तद् उ वायुर् एव । यत्रास्पृष्ट तन्वो यत्र वाससो न तत् प्राप्नोति निरृतिः परस्तात्
अभ्यञ्जनं सुरभ्याद् उ वासश् चन्द्रं हिरण्यम् अधि पूत्रिमं यत् । सर्वा पवित्रा वितताध्य् अस्मिंच् छतं जीवाति शरदस् तवायम्
यः कीकसाः प्रशृणाति तलीड्यम् उपतिष्ठति । परास्थं सर्वं जायान्यं यः कश् च ककुभि श्रितः
पक्षी जायान्यः पतति य आविशति पूरुषम् । तस्याहं वेद ते नाम यतो जायान्य जायसे
वेद वै ते नाम यतो जायान्य जायसे । कथं हि तत्र त्वं हन्या यत् कुर्याम् अहं हविः
य आस्यं प्रविशति करोत्य् उदरं महत् । यक्ष्मो यो अत्र जायसे तं जायान्यम् अनीनशम्
आरोहान् मे मुखं जातम् आरोहाज् जघनं मम । आरोहात् सर्वा जातास्म्य् ऋषभस्योपयोधनात्
स्वादीयसी सुराया लवणाच् चारुमत्तरा । गोभ्यो वनीयसीद् अहम्
यां त्वा वातो ऽवारयद् आर्द्रनाभा महर्षभः । तस्यास् ते देवि पृथिव्या अहं संवननं दद आ ते शौष्कास्यं ददे
युक्तौ मनसा सं सुरेतसा देवेभ्यो हव्यं कृणवाव साधु । येषां भागस् त इदं जुषन्ताम् अविक्षुब्धाव् उदयाव भद्रया
येन देवा ज्योतिषा द्याम् उदायन् येनादित्या वसवो येन रुद्राः । येनाङ्गिरसः स्वर् आरुरुहुस् तेनोद् अयाव यजमानौ स्वस्ति
यं पपाचादितिः पुत्रकामा येन प्रजाः कश्यपः पर्यगृह्नात् । य ओदनः पच्यते वैश्वदेवः स नो यमे अक्षितो भागो अस्तु
अनुवाक १० ॥ सोमस्य प्राणः पवते पुरस्ताद् दक्षिणत ऐन्द्र आ वातु वातः । अस्य दिशो मातुरो या प्रतीची स नो देवाः शिवो अस्त्व् इह वातः
मित्रस्य प्राणः पवते य उत्तराद् बृहस्पतेर् ऊर्ध्व उद् वातु वातः । यो अन्तरिक्षम् अनु वाति विद्वान् स नो देवः शिवो अस्त्व् इह वातः
य उत्तरात् पवते यः पुरस्ताद् यो दक्षिणात् पवते यश् च पश्चात् । ऊर्ध्वाꣳ उद्देशाꣳ अनु यः प्रवाति स नो देवः शिवो अस्त्व् इह वातः
त्रीण्य् अन्तरिक्षाण्य् अनु वासि वात तिस्रो वासि परावतः । सहस्राक्षौ वृत्रहा पाह्य् अर्वाङ् विनुदं क्षेत्रियं रपः
न तत्र दारः कृपणं ससार न प्रतिघ्नाना रुदती न बिभ्रती । इन्द्रो नो यत्रोरुकृद् विचक्षणः स नो *ऽज्यानि महतीं नि यच्छात्
इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्व् ओजसा । अग्नेर् वातस्य ध्राज्या तान् विषूचो वि नाशय
न द्यौर् एषां न पृथिवी नादितिर् न धनंजया । चक्षूंष्य् अग्निर् आ धत्तां पुनर् यन्तु पराजिताः
अमित्राणां दरय ग्रामम् इन्द्र यो नः शत्रुर् अभ्येति जिघांसन् । यथैषाम् इन्द्रनुत्तानाम् अग्निना वेशो अनु वर्तयानि मे
जिह्मं युगं कृण्वताम् इन्द्रनुत्ताः पराचीनैः पथिभिर् यन्तु रिष्यन्तः । तञ् जयन्तो अन्व् आसदेम- -अग्निना वेशो अनु वर्तयन्तः
अमित्राणां ग्रामम् उपयुक्तम् इन्द्रेण नुत्तं वि रदात्य् अग्निः । सत्वानः सन्त्व् अनुमाद्या इमे येभ्यश् चरामि हविषा घृतेन
अर्यमणं हि देवं भद्रं कन्या यम् अयक्षत । स एना वृत्रहा देव इतो मुञ्चातु मामुतः
इयं ते राजन् वरुण जामिका कृणुते हविः । तस्यै पतिं न्य् आ वह सुभद्रं प्रतिकाम्यम्
आ क्रन्दय धनपते वरम् आमनसं कृणु । सर्वं प्रदक्षिणं कृधि पतिम् अस्यै प्रतिकाम्यम्
आ पश्चाद् आ पुरस्ताद् ओत्तराद् अधराद् उत । पूर्णा भगस्य वर्तनिस् तेनेमाम् अभि वर्तयामसि वर्चसा च भगेन च
नासृग् अस्ति पतङ्गस्य तर्दस्य मशकद्याः । न संपतत्रम् उद्युगो न्यग् ग्लौर् अत्र भविष्यति
अपदस्वद् अपादसत् तुण्डिव्यध्मापादसत् । अपापचिद् इतो ऽदसद् अपेतो ग्लौर् नशिष्यत्य् अपिव्यध्मन् नशिष्यति
यथा सूर्यश् चन्द्रमसम् उद्यन्न् एवापगूहति । एवा त्वम् उग्र ओषध इमां ग्लावम् अपगूहताद् इतः
अपदस्वद् अपादसत् तुण्डिव्यध्मापादसत् । अपापचिद् इतो ऽदसद् अपेतो ग्लौर् नशिष्यत्य् अपिव्यध्मन् नशिष्यति
मा शिले मा शिलावति मा ते शेषि शिलं चन । यावच् छिलस्य ते शिलं तावच् छेषः शिलं तव
यथा यूपाग्राद् उदकं विनिष्टं भूमिम् अश्नुते । एवा त्वम् अरसे शिले विनिष्टा भूमिम् अश्नुहि
वज्रो ऽसि सपत्नहा त्वयाद्य वृत्रं साक्षीय । त्वाम् अद्य वनस्पते वृक्षाणाम् उद् अयुष्महि
स न इन्द्र पुरोहितो विश्वतस् पाहि रक्षसः । अभि गावो अनूषत- -अभि द्युम्नं बृहस्पते
प्राण प्राणं त्रायस्व- -असो असवे मृड । निरृते निरृत्या नः पाशेभ्यो मुञ्च
हत्सुके परि णो नम पारिगं तन्वे कृधि । युयुत पर्णिनं शरम् उतापर्णं रिशाद् इति
प्रजापतिष् ट्वा प्रजया सं पुत्रेण सृजतु सं भगेन । दिष्टं देष्टीह कामो ब्राह्मणस्य पुमांसं धत्स्व सवितुः सवेन
प्र त्वा सर्पत्व् अङ्कतः कुमारः पुरुषाद् अधि । ऋतोर् यम् ऋत्वियाद् अधि यं ते धाता अचीक्ल्̥पत्
यं ते धाता यं ते त्वष्टा यं ते ब्रह्माचीक्ल्̥पत् । तं त्वं पुत्रं विन्दस्व तस्मै त्वं जीव जीवसे
ध्वस्रास् तिष्ठन्ति रजसा समक्ता यज्ञस्य होत्राः प्रुशितासो अश्नाः । आसां सोमस्य यद् इहावयन्ति तद् अमूत्र यजमानस्य रूपम्
ये ब्राह्मणं वर्चो हित्वाय मल्वा रेणो वर्णेन परिधापयन्ति । आसां सोमस्य यद् इहावयन्ति तद् अमूत्र यजमानस्य रूपम्
असारथिः सुमनसो यथा रथो हित्वा सव्यष्ठां रक्षसो याति यामम् । एवा यज्ञो यजमानं जहाति यत्र सोम्यं सोमपीथान् नयन्ति
छन्दांसि तद् यजमानस्य यन्ति यत्र सोम्यं सोमपीथान् नयन्ति । अब्राह्मणो यत् पिबति सोमम् अस्य तद् वै छिद्रं दक्षिणयापिधेयम्
ऽब्रध्नो ऽसि वाजी परिपानी प्रथमा देवेभ्यस् पर्याभृता । मा ते रिषं खनिता यस्मै च त्वा खनामसि
मा देवाः पापम् आराम मा कर्त पापयामुया । माहं परिष्यजो हस्तम् आ रप्सि धनकाम्या
मा मा देवाः परा दात मा मा कर्त व्याध्यम् । माहं परिष्वजः शिर आ रप्सि मो अहं मृषि
प्रतीकं मे विचक्षणम् अक्षौ मे मधुकाशिनी । कर्णाभ्यां भूरिसुस्रवः
जिह्वा मे मधुसंस्रावा जिह्वा मे मधुवादिनी । तयाहम् अद्य जिह्वया- -उद्यासं मधुमद् वचः
यथा मधु मधुकृतः संभरन्ति मधाव् अधि । एवाहम् अद्य छन्दोभिर् उद्यासं मधुमद् वचः
वायोः पूतः पवित्रेण प्रत्यक् सोमो अधिश्रितः । इन्द्रस्य युज्यः सखा
यत् किञ् चेदं वरुण दैव्ये जने अभिद्रोहं मनुष्याश् चरन्ति । अति चेत् तव धर्मा युयोपिम मा नस् तस्माद् एनसो देव रीरिषः
आपो अस्मान् मातरः सूदयन्तु घृतेन नो घृतपवः पुनन्तु । विश्वं हि रिप्रं प्रवहन्ति देवीर् उद् इद् आभ्यः शुचिर् आ पूत एमि
मित्रश् च सम्राड् वरुणश् च राजा तौ ते भक्षं कृणुतां प्रातर् अग्ने । तयोर् अहम् अनु भक्षं कृणोमि सूर्यवर्चा भग भक्तो न आ विश
सूर्यवर्चा न आ विश विश्वविन् मनसस् पतिः । अनेहा सोम जागृविर् इन्द्रः प्रीत स्तुतो नृभिः
इन्द्र प्रीतस्य ते वयं शुक्रस्य रोचनावतः । भक्षीमहि प्रजाम् इषं साहस्रस्य यशस्विनः
अग्निः प्रातःसवने पात्व् अस्मान् वैश्वानरः पथिकृद् विश्वकृष्टिः । स नः पावको द्रविणे दधात्य् आयुष्मन्तः सहभक्षाः स्याम
विश्वे देवा मरुत इन्द्रो अस्मान् अस्मिन् द्वितीये सवने न जह्युः । आयुष्मन्तः प्रियम् एषां वदन्तो वयं देवानां सुमतौ स्याम
इदं तृतीयं सवनं कवीनाम् ऋतेन यच् चमसं समैरयन् । सौधन्वना अमृतम् आनशानाः स्विष्टिन् नो अभि वस्यो नयाथ
सं सं स्रवन्तु नद्यः सं वाताः सं पतत्रिणः । यज्ञम् इमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि
इमं होमा यज्ञम् अवत- -इमं संस्रावणा उत । यज्ञम् इमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि
रूपंरूपं वयोवयः संरभ्यैनं परि ष्वजे । यज्ञम् इमं चतस्रः प्रदिशो वर्धयन्तु संस्राव्येण हविषा जुहोमि
स्यूता देवेभिर् अमृतैर् न आगन्न् उखा स्वसारम् अधि मे दिमस्थात् । सत्यं पूर्वा ऋषयश् चाकृपाना यज्ञपतेः सु प्र तिरन्त्व् आयुः
उखां स्रवन्तीम् अगदाम् अकर्म त्वष्टा वायुः पृथिव्य् अन्तरिक्षम् । यत श्चुतद् धुतम् अग्नौ तद् अस्तु न तत् प्राप्नोति निरृतिः परस्तात्
अन्तर् अग्नाव् अश्चुतत् स्तोक एष नैनं सुवातै निरृतिः परस्तात् । विश्वावसोर् हविषो वावृधानो ऽयं यज्ञः सुकृताम् एतु लोकम्
श्येनो ऽसि गायत्रच्छन्दा अनु त्वा रभे स्वस्ति मा सं पारय
सम्राड् असि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सं पारय
स्वरो ऽसि गयो ऽसि जगच्छन्दा अनु त्वा रभे स्वस्ति मा संपारय
त्रायमाणे सर्वविदे मा परि देहि । सर्वविद् द्विपाच् च सर्वं रक्ष चतुष्पाद् यच् च नः स्वम्
सर्वविद् विश्वविदे मा परि देहि । विश्वविद् द्विपाच् च सर्वं रक्ष चतुष्पाद् यच् च नः स्वम्
विश्ववित् कल्याण्यै मा परि देहि । कल्याणि द्विपाच् च सर्वं रक्ष चतुष्पाद् यच् च नः स्वम्
कल्याणि त्रायंआणायै मा परि देहि । त्रायमाणे द्विपाच् च सर्वं रक्ष चतुष्पाद् यच् च नः स्वम्
वि खन वि रुज वि जह्य् अत्रैवानाकृतश् चर । सम् अहम् आयुषा सं मयायुः
वि खन वि रुज वि जह्य् अत्रैवानाकृतश् चर । सम् अहं वर्चसा सं मया वर्चः
वि खन वि रुज वि जह्य् अत्रैवानाकृतश् चर । सम् अहं तेजसा सं मया तेजः
वि खन वि रुज वि जह्य् अत्रैवानाकृतश् चर । सम् अहं प्रजया सं मया प्रजा
वि खन वि रुज वि जह्य् अत्रैवानाकृतश् चर । सम् अहं पशुभिः सं मया पशवः
दिवो रेतो ऽसि पृथिव्या नभ्यम् । नभ्यम् असि नभ्यं मा कृणु
दिवो रेतो ऽसि पृथिव्याः शक्तिः । शक्तिर् असि शक्तये ते विधेयम्
दिवो रेतो ऽसि पृथिव्या वित्तिः । वित्तिर् असि वित्तये ते विधेयम्
दिवो रेतो ऽसि पृथिव्याः पुष्टिः । पुष्टिर् असि पुष्टये ते विधेयम्
दिवो रेतो ऽसि पृथिव्या भूतिः । भूतिर् असि भूतये ते विधेयं भूतिर् असि भूतासि भूयासम्
शुक्रो ऽसि भ्राजो ऽसि । स यथा त्वं भ्राजतो भ्राजो ऽस्य् एवाहं भ्राजतो भ्राज्यासम्
सायंसायं गृहपतिर् नो अग्निः प्रातःप्रातः सौमनसस्य दाता । वसोर्वसोर् वसुधान एधि वयं त्वेन्धानास् तन्वं पुषेम
प्रातःप्रातर् गृहपतिर् नो अग्निः सायंसायं सौमनसस्य दाता । वसोर्वसोर् वसुधान एधि- -इन्धानास् त्वा शतं हिमा ऋधेम
यो न आविः शपति यश् च स्तायद् यदि चित्त्या मन्युना यत् सपत्नः । अग्निष् टान् पाशान् प्र मुमोक्तु देवो यावयतु शपथाꣳ वरुणो धृतव्रतः
अनुवाक ११ ॥ प्राग्नये वाचम् ईरय वृषभाय क्षितीनाम् । स नः पर्षद् अति द्विषः
यः परस्याः परावतस् तिरो विश्वाभिरोचते । स नः पर्षद् अति द्विषः
यो रक्षांसि निजूर्वत्य् अग्निः शुक्रेण शोचिषा । स नः पर्षद् अति द्विषः
यो विश्वाभि विपश्यति भुवना सं च पश्यति । स नः पर्षद् अति द्विषः
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर् गावो भवन्तु नः
मधु नक्तम् उतोषसो मधुमत् पार्थिवं रजः । माध्वीर् नः सन्त्व् ओषधीः
मधुमान् नो वनस्पतिर् मधुमाꣳ अस्तु सूर्यः । मधु द्यौर् अस्तु नः पिता
आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन । महे रणाय चक्षसे
यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः
तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः
आयं गौः पृश्निर् अक्रमीद् असदन् मातरं पुनः । पितरं च प्रयंत्स्वः
अस्य प्राणाद् अपानत्य् अन्तश् चरति रोचना । व्य् अख्यन् महिषो दिवम्
त्रिंशद् धाम वि राजति वाक् पतङ्गाय शिश्रियत् । प्रति वस्तोर् अह द्युभिः
यच् छक्रा वाचम् आरुहन्न् अन्तरिक्षं सिषासन्तः । सं देवा अमदन् वृषा
शक्रो वाचम् अधिष्ठाय- -उरुवाचो असृष्ट हि । महिषा अमदन् दिवि
शक्रो वाचम् असृष्ट हि धामधर्मन् वि राजति । विमदं बर्हिर् आ सरत्
ध्रुवो ऽसि धरुणो ऽस्तृतो विश्वकर्मणा सुधृतः । मा त्वा समुद्र उद् वधीन् मा सुपर्णो ऽव्यथमान इमं दृंह
आषाढो ऽसि सहमानः सहस्व- -आरातिं सहस्व पृतनायतः । सहस्रवीर्यो ऽसि स इमं जिन्व
अद्भ्यः संभूतो ऽसि पृथिव्या रसाच् च विश्वकर्मणः समवर्तथा अधि । तस्य त्वष्टा विदधद् एति रूपं विद्वान् तत् ते देवम् आजानम् अग्रे
षष्टिश् चाध्वर्यो नवतिश् च पाशा होतारम् अग्निम् अन्तरा विचृत्ताः । सिनन्ति पाकम् अति धीर एत्य् ऋतस्य पन्थाम् अन्व् एति विद्वान्
यो अध्वर्युः सप्त होत्राणि विद्वान् पूर्वो होतुर् यजत आजिघर्ति । ऊर्ध्वं स यज्ञम् अध्वरं कृणोति य ईं चिकेत हविषो विभागे
अत्रो विभक्तरि हविषो विभागे मा निर् भाक्षीद् भागिनं मोपहत्य् । मो अभागो विदित यो मुमोह
वात आ वातु भेषजं शम्भु मयोभु नो हृदे । प्र ण आयूंषि तारिषत्
उत वात पितासि न उत भ्रातोत नः सखा । स नो जीवातवे कृधि
यद् अदो वात ते गृहे निहितं भेषजं गुहा । तस्य नो देहि जीवसे
यो न जीवो ऽसि न मृतो देवानाम् अमृतगर्भो ऽसि स्वप्न । वरुणणी ते माता यमः पिता
यथा कलां यथा शफं यथ र्णं संनयन्ति । एवाह दुष्वप्न्यं सर्वम् अप्रिये सं नयामसि
अररुर् नामासि तं त्वा स्वप्न तथा विद्म स नः स्वप्न सुस्वप्न्यतां धेहि
नैतस्याग्रे हविर् अदन्ति देवा निर्भक्त एष सुकृतस्य लोकात् । पापीं धियं जुजुष आत्मनैष स हि दुष्कृन् मनुष्येष्व् अन्तः
यो मातृहा पितृहा स्वसृहा ये च दुष्कृतः । विधिषौ ते अमृक्षत मलं मनुष्या इव
एतद् एवैतं निरर्षुर् देवा भ्रूणघ्न्या लोकम् अप्य् एत्य् एषः । न ते चृत्ये हविषा नाथितस्य राष्ट्रम् एते शक्रा वि चृतन्ति पाशम्
य आखो यो व्युखो वीणवाꣳ इह सर्पति । तं परि परिभेषजं वृश्चिकजम्भनम् असि
मयूरो अत्ति वृश्चिकं मयूरं वयम् अद्मसि । तं परि परिभेषजं वृश्चिकजम्भनम् असि
आप इद् वा उ भेषजीर् आपो अमीवचातनीः । आपो विश्वस्य भेषजीर् आपो वृश्चिकजम्भनीः
त्वम् अग्ने व्रतपा असि देव आ मर्त्येष्व् आ । त्वं यज्ञेष्व् ईड्यः
यद् वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः । अग्निष् टद् विश्वाद् आ पृणातु विद्वान् सोमस्य यो ब्राह्मणाꣳ आविवेश
आ देवानाम् अपि पन्थाम् अगन्म यच् छक्नवाम तद् अनु प्रवोधुम् । अग्निर् विद्वान् स यजात् स इद् धोता सो अध्वरं स ऋतून् कल्पयाति
उत् तुदा इ शिमिद्वतीं वि दुर्योणा इव दुपदा इ । उद् अस्याः पातया मनः शश्वतीभ्यः समाभ्यः
पक्वं मांसम् इवासिना शकुनिप्रपतनां कृधि । मृगाꣳ अनु प्र पातय मरीचीर् अनु नाशय
विष्वञ्चौ गावाव् आ कुरु विष्वञ्चौ युग्या उत । उतासौ सूर्य ऊर्ध्वं विष्वञ्चौ वां व्य् आ करत्
विषम् उग्रं विषं स्थिरं विषस्य महिमा महान् । विषं परस्वतः शिरः शतधा व्य् अपातयत्
सं दह व्रजं यथा वसुधा वसु वर्तयत् । यं विष प्रसर्पसि सम् अग्निर् इव तं दह
गृहाण मांसान्य् अव लोमानि पातय । पांशून् कृकाट आ वापाच् छिन्ध्य् उत्तानपादम् अर्दय
मधोर् अहं मधुतरो मधुघान् मधुमत्तरः । आसनि किल मे मधु मुखे निमन्दनं कृतम्
माम् इत् त्वम् अभि चाकशो मृगस् तृष्यन्न् इवोदकम् । अधस्पदान् म उद् वदान् मण्डूको गोशफाद् इव
उद् वदा मे अधस्पदान् मण्डूको गोशफाद् इव । अथो ऽप चक्रा आसासै श्वा बन्ध इवाहतः
आ वद बहुलं गोष्ठं सुवीरं बहुपूरुषम् । यथेतो न प्रमीयाता एवा मे गोष्ठम् आ वद
आ वद दुहितुष् पते भ्रातुर् जामातर् आ वद । पश्चा त उद्भूतः स्फिगः किष्किन्धानाम् अवीर् जहि
यद् उलूको वदति मोघम् एतद् यत् कपोतः पदम् अग्नौ कृणोति । श्रुतकर्णाय कवये स्तोम्याय तस्मै यमाय नमो अस्त्व् अद्य
य ऐन्द्राः पाशा ये च वारुणा आरे अस्मत् तान् देवी निरृतिर् दधातु
ये वैश्वानराः पाशा ये च मारुता आरे अस्मत् तान् देवी निरृतिर् दधातु
ये वैश्वदेवाः पाशा ये च वैश्वकर्मणा आरे अस्मत् तान् देवी निरृतिर् दधातु
नारदे कितवे वरुणे सोम ऐच्छन् महिमानं महान्तम् । अविन्दत् तं विश्वकर्मा समुद्रे अक्षाणां क्लन्दम् ऐनम् अस्मिन् दधामि
यद् धस्तयोर् यच् चक्षुषोर् मनो यत् प्रविवेश ते । स्कन्दान् अस्य प्रस्कन्देन क्लन्देन क्लन्दयामि तत्
तिस्रो देवीर् अप्सरस आकैका साकैका प्रेतप्रयाम् एत्य् एकस्या नाम । जुषाणा अप्सरस आज्यस्य सहसो व्यन्तु स्वाहा
अत्याक्षं त्वा मनसा- -अत्याक्षं हृदयेन त्वा । अत्याक्षं सर्वैर् अङ्गैस् त्वा तथा हि त्यजनं कृतम्
इमा याः प्रति नन्दथ स्त्रियः पुमांसम् अन्वितम् । सर्वाः संगत्य ब्रूत तेजने त्यजनं कृतम्
त्यजनं मे द्यावापृथिवी अधातां त्यजनं देवः सविता बृहस्पतिः । अग्निश् च तुभ्यं सूर्यश् च तेजने त्यजनं कृतम्
सं दिवः सं पृथिव्याः सं वातात् सं नदीभ्यः । संस्कन्दम् इन्द्र आभरत् स आगात् सो ऽगाद् इदम्
संस्कन्दम् ओज ओजसा देवेभिर् नाम ते हितम् । हिरण्यनाम नाम ते संस्कन्दास्य् ओषधे
सं समुद्रो नदीभिः सं द्यावापृथिवी उभे । सं जाया पत्या योन्यां संस्कन्दास्य् ओषधे
सं ते शीर्ष्णः कपालानि सं योनिं संगवीन्यौ । सं ते सर्वाण्य् अङ्गानि सं स्कन्देनाभि दध्मसि
श्रियं धातुर् मयि धेहि श्रिया माधिपतिं कृणु । विशाम् ईशानो मघवान् इन्द्रो मा यशसा नयत्
मयि त्यद् इन्द्रियं बृहन् मयि दक्ष उत क्रतुः । घर्मस् त्रिश् चिद् वि भातु मा गायत्रीच्छन्दसा विराड्ज्योतिषा तस्य दोहम् अशीय
अर्कासधस्थौ कविमातरिश्वानौ यमाङ्गिरसः । यशस्विनं मा देवा यशसः कृणुत स्वाहा
अनुवाक १२ ॥ इन्द्रं वयं वणिजो हवामहे स नस् त्राता पुर एतु प्रजानन् । घ्नन्न् अरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम्
पणो नो अस्तु प्रपणो विक्रयश् च प्रतिपणो नो धनिनः कृणोतु । संरराणा आहुतिं जुषन्तां शुनं नो अस्तु चरितम् उत्थितं च
यत् पणेन प्रतिपणं चरामि स्वेन देवा धनम् इच्छमानः । इन्द्रो मे तस्मिन् रुचम् आ दधातु बृहस्पतिः सविता सोमो अग्निः
ये वः पन्था बहवो देवयाना अनु द्यावापृथिवी संचरन्ति । तेषाम् अहं मां वर्चस्या दधामि यथा क्रीत्वा धनम् आ वहानि
विद्धवाससे निरृतेर् ये च पाशा अपश्रिताः । तेभ्यः प्र मुच्यते वर्मी विष्कन्धम् उप सादयन्
न वै तद् वासो भवति यस्मिन् विध्यन्ति पूरुषम् । अस्ना समज्यते रूपं तस्मात् तद् अपलोप्यम्
उत्तिष्ठन्न् अप्रियायत- -अविद्वान् बहुभाज्यम् । न पन्थां भद्रम् अश्नुते य एनेन चरात् सह
ब्रह्मणैतत् प्रतिगृह्यं तेन तत् कृणुते शिवम् । आर्कात् प्रमुच्यते पाशात् तेन दाता वि पश्यति
यौ व्याघ्राव् अवरूढाव् अवाञ्चौ जिघत्सतः पितरं मातरं च । तौ दन्तौ ब्रह्मणा ब्रह्मणस्पते शिवौ कृणु त्वम् इह जातवेदः
व्रीहिम् अत्तं यवम् अत्तं माषम् अत्तम् अथो तिलम् । स वां भागो निहितो रत्नधेयं मा हिंसिष्टं पितरं मातरं च
अघोरौ सयुजा संविदानौ स्योनौ दन्तौ सुमङ्गलौ । मा हिंसिष्टं पितरं मातरं च- -अन्यत्र वां तन्वो घोरम् अस्तु
एना युताम् इन्द्राग्नी राज्ञा सोमेन मेदिना । इन्द्रो मरुत्वान् आदानम् अमित्रेभ्यः कृणोतु मे
इदम् आदानम् अकरं तपसेन्द्रेण संशितम् । अमित्रा यत्र सन्ति मे तान् आदां द्विषतो मम
आदानेन संदानेन- -अमित्रान् सं द्यामसि । अपाना ये चैषां प्राणा असुनासून् सम् अच्छिदम्
प्रतूर्ताय मरुत्वते स्वाहा
जयद्वीरायाभिषत्वने स्वाहा
बृहस्पतये विश्वदेवावते स्वाहा
प्र द्यौः प्र पृथिवी प्रान्तरिक्षं स्वम् अर्हत् । प्रेतः समुद्रिया आपः शल्यम् अचुच्यवुः
प्र त्वा वातश् च्यावयतु प्र भूमिः सहसा सह । प्रेतः समुद्रिया आपः शल्यम् अचुच्यवुः
प्र त्वा सूर्यश् च्यावयतु नक्षत्रैः सह मेदिभिः । प्रेतः समुद्रिया आपः शल्यम् अचुच्यवुः
यो मा पौतुद्रुवो मणिर् विश्वभेषज आगमत् । सो अस्मत् सर्वं दुष्वप्न्यम् अप हन्तु तमश् च यत्
अपास्मत् सर्वं दुष्वप्न्यम् अप पापीं च लक्ष्म्यम् । अधा हिरण्यवर्चसं सर्वदा मा मणे कृधि
सर्वदैवाहं भगवान् इन्द्रियावान् विषासहिः । यो मा पौतुद्रुवो मणिर् द्रविणेन सहारुहद् इन्द्रेण सहारुहत्
पुमान् अश्वो धनं वित्तिं पुमान् निष्को हिरण्ययः । पुमांसं पुत्रम् ओषधे ऽस्या आ धेहि नार्यै
यथानन्दाः पुंसि जाते न व्रवस्तीति कश् चन । एवा त्वं पुत्रम् ओषधे ऽस्या आ धेहि नार्यै
अश्वेन रिष्येन गवा क्रीतास्य् ओषधे । अश्वः श्वेतो धनं तव हिरण्यं हरितं तव । दत्ता सोमेन राज्ञेह पुंसवनं भव
यन् मे नृम्णं द्रविणं ब्राह्मणं च यच् च श्रुतं यच् च रत्नं बिभर्मि । एतन् नो अत्र निधिपानु पातु यावद् ऐमि स्त्रीयणमज्मा व्यज्य
यन् मे नृम्णं द्रविणं ब्राह्मणं च ये अग्नयो धृष्णियासो मयीमे । हरिश्चन्द्रो रक्षतु तन् नो अत्र यावद् ऐमि परो ग्रामं चरित्वा
एष ऐमि परो ग्रामं चरित्वा- -अच्छ नृम्णं द्रविणं ब्राह्मणं च । यद् अत्रापि त्वे शुचि- -इदं तद् अहम् आ ददे
आ सूर्यो हि प्रथमं दस्युहत्याय शक्र हारी युञ्जानो मघवन् सहस्रम् । दासं वर्णं रन्धयन्न् आर्याय युञ्जानो बाहू पुरुहूत वज्रम्
आहृडते दस्युहत्याय तूर्ण दृढानि पर्वा शृणीहीन्द्र । तीव्राश्रद्धो बहुलान्य् एषाम् अयुज्वनो अर्पय सं वधेन
दर्शन् नु चित्रपावानम् इन्द्रं बहु साकं शराꣳ इव पत्यमानान् । ये नो घृष्विं मघवानं पृतन्यान् अभीरु तेषु कवयो ववृत्युः
इदावत्सराय परिवत्सराय संवत्सराय प्रति वेदयाम एतत् । यद् व्रतेषु दुरितं निजग्मिम दुर्हार्दं तेन शमलेनाञ्ज्मः
यन् मे व्रतं व्रतपते लुलोभ- -अहोरात्रे सम् अधातां म एतत् । उद्यन् पुरस्ताद् भिषग् अस्तु चन्द्रमाः सूर्यो रश्मिभिर् अभि गृणात्व् एतत्
यद् व्रतम् अतिपेदे चित्त्या मनसा हृदा । आदित्या रुद्रास् तन् मयि वसवश् च सम् इन्धताम्
व्रतानि व्रतपतय उपा करोम्य् अग्नये । स मे द्युम्नं बृहद् यशो दीर्घम् आयुष् कृणोतु मे
मयोभूर् वातो अभि वातूस्रा ऊर्जस्वतीर् ओषधीर् आ रिशन्ताम् । मेदस्वतीर् जीवधन्या मयोभुवः पद्वते ऽवसाय रुद्र मृड
या एकरूपा विश्वरूपाः सरूपा यासाम् अग्निर् ऊधो वो जन्म वेद । या अङ्गिरसस् तपसेह चक्रुस् ताभ्यः पर्जन्य महि शर्म यच्छात्
या देवेषु तन्व ऐरयन्त यासां सोमो रूपधेयानि वेद । ता अस्मभ्यं बहुलाः पिन्वमानाः प्रजावतीर् इन्द्र गोष्ठे दिदिश्याः
प्रजापतिर् मह्यम् एता रराणो बह्वीः सतीर् उप मे गोष्ठ आकः । तासां वयं प्रजया सं सदेम ज्योग् जीवन्तः शरदः पुरूचीः
अभिष्ठिता चर्कर्दीति पिशङ्गी बहुकर्दिनी । कर्दो ह जज्ञे हालीक्ष्णाद् व्रीहेर् माषाद् अथो यवात्
यथा भसद् धालीक्ष्णस्य न संभवति कर्दवे । एवा हलग्न कर्दय निर् ग्रामान् निर् दिशो जहि
यथा परस्वां छर्धते गर्दभः कृधुसन्दृशः । एवा ते शर्धतां भसद् धालीक्ष्णपर्ण शर्धय वृत्रहा शाकी शर्धय
पवीरवल् लाङ्गलं सुशेवं सोमपित्सरम् । तद् उत् कृषति गाम् अविं प्रफर्व्यं च पीवरीं प्रस्तावं रथवाहनम्
शुनं वरत्राम् आ यच्छ शुनम् अष्ट्राम् उद् इङ्गय । शुनं वाहस्य युक्तस्य- -अष्ट्रया जहि दक्षिणम्
मधुमन्तं नि गृहाण फालं क्षेत्रेषु सर्वदा । तत् पर्जन्यो ऽभि वर्षतु भूम्ने धान्याय कर्तवे
एता उ त्या अदृक्षत- -आयतीर् वेद्याम् अधि । प्राहाग्निर् हव्यं देवेभ्यो मन्त्रो होता हविष्पतिः
एमा अगुर् मयोभुवो मधोर् ऊधांसि बिभ्रतीः । ता उप प्र शिक्षत दुहाना अक्षितं पयः
इडा स्थ मधुपृचो विश्वरूपास् ता मा विशत । सह प्राणेन तेजसा हरसा बलेन
दिवो नभः शुक्रं पयो दुहाना- -र्तस्य नाभिर् अमृतं वि चष्टे
घृतं दुहाना विश्वतः प्रपीताम् ऊर्जं दुहाना अनपस्फुरन्तीम् । उपासतां सुकृतः स्वधाभिः
घृतम् इच्छ पिन्वमानाम् इमां योनिम् उपाध्वम् । स्वधा याश् चकृषे जीवन् तास् ते सन्तु मधुश्चुतः
सं रसा ओषधीनां सम् आकूतीर् नमन्तु मे । ऊर्जस्वन्तं पयस्वन्तं पृथिव्या हस्तम् अन्व् अगाम्
परिणीतिर् असि हस्तस्य पथः परिणीतिर् असि । एवा ह दुष्वप्न्यं सर्वं स्तम्बे परि णयामसि
पयस्वन् मे क्षेत्रम् अस्तु पयस्वद् उत धान्यम् । कृषिः पयस्वती मम- -अहं पयस्वान् भूयासम्
वृष्णे बृहते स्वर्विदे ऽग्नये शुक्लं हरामि त्विषीमते । स न स्थिरान् बलवतः कृणोतु ज्योक् च नो जीवातवे दधातु
वेद वै ते ऽग्ने नाम- -अद्भिर् नामासि त्रिवरूथः । त्रयः पोषास् त्रिवृद् अस्मान् यज्ञः सचताम्
प्रजापतेः पयसा वावृधाना आयुष्मन्तो वर्चस्विनः । ज्योग् जीवन्त उप त्वा सदेम
उरूणसाव् असुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनाꣳ अनु । वेदाहं वेद सूर्यः किम् एतौ किं करिष्यतः
न मा ददम्भ दभसादभीयं न पाको अस्मि जनुषा न शिष्यः । अभीषाड् अस्मि विश्वाषाट् पृतनाषाट् स्वर्विद् यद् इदं विश्वं भुवनं सो अस्मि
आस्थाद् उद् अस्थाद् अजनिष्ट विप्रो ऽमिमीत वरिमाणं पृथिव्याः । आसीदत् संराड् भुवनानि विश्वा स इच्छा वेद वरुणस्य व्रतानि
प्रजापतिः प्रजावान् स मा प्रजावान् प्रजावन्तं कृणोतु
सूर्यो वर्चस्वान् स मा वर्चस्वान् वर्चस्वन्तं कृणोतु
सोमः पयस्वान् स मा पयस्वान् पयस्वन्तं कृणोतु
त्रिंशन् मुष्काः काबवस्य दश मुष्का उलूक्याः । चत्वारस् तव कर्दम
तांस् त्वम् उग्रकाशिनि मूले अपि कृन्ततात् । आसुरो ऽसि जन्मना तं त्वेतो नाशयामसि
इन्द्रजा असि सोमजास् तं त्वेतो निष् प्र हिण्मसि । उर्वा मत्स्यो मधूदकं तस्य पास्य् अत्ययम् अनास्रावम् अरोगणम्
अनुवाक १३ ॥ इषिरा चास्य् अजिरा चासि । प्रजापतेः समिद् असि संसितिर् नाम लोमशा । प्रजापतिष् ट्वया प्रतिष्ठाकामो ऽरुरुत स प्रत्य् अतिष्ठत् । स यथा त्वया प्रजापतिः प्रतिष्ठाकामः प्रत्यतिष्ठद् एवाहं त्वया प्रतिष्ठाकामः प्रति तिष्ठेषम् । आ मा वरो गमेद् आ मा ब्रह्मचारिणो गमेयुः स्वाहा
भूतिश् चासि प्रतिष्ठा चासि । प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा
अस्वप्ना चास्य् अनिलया चासि । प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा
रुचिश् चासि यक्षं चासि । प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा
कीर्तिश् चासि यशश् चासि । प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा
अम्भश् चासि महश् चासि । प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा
अन्नं चास्य् अन्नाद्यं चासि । प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा
प्रयच्छन्ती चासि प्रददती चासि । प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा
अनुकामा चासि कामदुघा चासि । प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा
आहरन्ती चासि समाहरन्ती चासि । प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा
दिशन्ती चासि प्रदिशन्ती चासि । प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा
अनुमतिश् चास्य् अनुमन्यमाना चासि । प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा
जितिश् चासि विजितिश् चासि । प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा
सञ्जितिश् चासि सन्धनाजितं चासि । प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा
अग्निः पृथिव्या अधिपतिः सोमस् त्वावतु विद्म त्वा विद्धि मा । अधिपतिर् अस्य् अधिपतिं मा कृणु गवाम् अश्वानां पुरुषाणां ब्रह्मचारिणां भूत्या अन्नाद्यस्य
वायुर् अन्तरिक्षस्याधिपतिः सोमस् (…) अन्नाद्यस्य
सूर्यो दिवो अधिपतिः सोमस् त्वावतु विद्म त्वा विद्धि मा । अधिपतिर् अस्य् अधिपतिं मा कृणु गवाम् अश्वानां पुरुषाणां ब्रह्मचारिणां भूत्या अन्नाद्यस्य
विन्दद् वसवो विन्दन्तु मे गृहान् प्रजां पशून् वित्तिं भूतिं प्रतिष्ठाम्
आयद्वसव आ यन्तु मे गृहाः प्रजाः पशवो वित्तिर् भूतिः प्रतिष्ठा
संयद् वसवः सं यन्तु मे गृहाः । प्रजाः पशवो वित्तिर् भूतिः प्रतिष्ठा
जितिर् असि जीयासं पार्थ्वीः पृतना जीयासम्
विजितिर् असि वि जेषीय मानुषीः पृतना जीयासम्
संजितिर् असि सं जीयासं सर्वाः पृतना जीयासम्
बोधयैनं प्र बोधय स्वप्तवे मानु मन्यथाः । ऊर्ध्वस् तिष्ठान् ममाध्या नान्यासां कीर्तयाश् चन
आ वर्तय नि वर्तय- -अभ्य् आ वर्तया कुरु । इदम् अस्य सर्वा चित्तानि स्मरेण प्र जयामसि
स्मरं तपन्ति मरुतः समिद्धे जातवेदसि । उद् अस्य पततां मनस् तद् अस्य रमतां मयि
गणपते गणपतिं मा कृणु तस्मान् मा यवम्
अपिगणापिगणं मा कृणु तस्मान् मा छित्सि
सगण सगणं मा कृणु तस्मान् मा नशम्
गणवर्धन गणं मे वर्धय गवाम् अश्वानां पुरुषाणां ब्रह्मचारिणां भूत्या अन्नाद्यस्य
गणाभिवर्धन गणं मे ऽभि वर्धय गवाम् (…) अन्नाद्यस्य
गणप्रवर्धन गणं मे प्र वर्धय गवाम् अश्वानां पुरुषाणां ब्रह्मचारिणाम् भूत्या अन्नाद्यस्य
यच् च खातं यच् चाखातं सर्वं तद् अरसं विषम्
यच् च पिष्टं यच् चापिष्टं सर्वं तद् अरसं विषम्
यच् च दिग्धं यच् चादिग्धं सर्वं तद् अरसं विषम्
यथा वृकी जग्धपुत्रा व्याघ्री वालला भवेत् । एवा त्वम् अलला भव- -आधीभिः प्रेषितो मम
यथा दीप्तं शरतूलम् अग्निनालला भवेत् । एवा त्वम् अलला भव- -आधीभिः प्रेषितो मम
आ क्रन्दयालला भव दस्य कामेन शुष्य च । आधीभिः प्रेषितो मम
ययोः सर्वम् इदम् आर्पितं वशे भूतं च निमिषच् च चेष्टत् । तौ मा वदन्तं गृह्णीताम् उपद्रष्टारम् अत्र मास्योच् छेष्य् अयथावत् प्रजापते
यो मा वदन्तं हृदयेन वाचा वाचा श्रोत्रेण मनसा जिहृक्षात् । तम् इन्द्रो देवो वरुणो बृहस्पतिर् ईशानो देवो अभि यातु मृत्युर् यथा न जीवाद् उषसं तृतीयाम्
यो मा जिहृक्षाद् ब्रह्मीयान् मन्यमान इत्थं विद्वांसं प्रमतिर् मतीनाम् । तम् इन्द्रो देवो वरुणो बृहस्पतिर् ईशानो देवो अभि यातु मृत्युर् यथा न जीवाद् उषसं तृतीयाम्
प्रत्यग्वधेनास्यापि दधामि प्राणं मो दानं विदत यो मा जिहृक्षात् । सो अस्यायुर् आ छिनत्तु कुलिशेनेव वृक्षं यथा न जीवाद् उषसं तृतीयाम्
यस्या अक्षरम् एकम् एव परः सहस्रा अयुतं च शाखाः । तस्या वाचो विदथावदन्तं यो मा जिहृक्षात् स न्व् एत्व् आर्तिम्
उषा वा आदित्यम् ऐन्ध स उषसेद्ध उद् ऐत् स उद्यन् प्रजाभ्य आतपत् सो ऽप तमो ऽहत सो ऽन्नाद्यम् अवारुन्ध । अप तमो हते ऽन्नादो भवति य एवं वेद
वातो वा अग्निम् ऐन्ध स वातेनेद्धो ऽज्वलत् सो ऽदीप्यत सो ऽप तमो ऽहत सो ऽन्नाद्यम् अवारुन्ध । अप तमो हते ऽन्नादो भवति य एवं वेद
मनोमयी ब्राह्मणम् ऐन्ध स ब्रह्मचर्यम् अवसत् स वेदम् अन्व् अब्रूत सो ऽप तमो ऽहत सो ऽन्नाद्यम् अवारुन्ध । अप तमो हते ऽन्नादो भवति य एवं वेद
होमेन प्रतिरन् प्रजापते दम्पती परि दधामि पुष्ट्या । रायस्पोषं सवितर् नि यच्छ जरामृत्यू कृणुहि सर्ववीरौ
अयं होमो वर्धयन्न् एतु दम्पती प्रजावन्तौ पशुवन्तौ सुवीरौ । रायस्पोषं सवितर् नि यच्छ जरामृत्यू कृणुहि सर्ववीरौ
गोमन्तं पशुमन्तम् अश्वमन्तं होमं दम्पतीभ्यां जुहोमि । रायस्पोषं सवितर् नि यच्छ जरामृत्यू कृणुहि सर्ववीरौ
जीवा स्थ जीव्यासं सर्वम् आयुर् जीव्यासम्
उपजीवा स्थोप जीव्यासं सर्वम् आयुर् जीव्यासम्
संजीवा स्थ सं जीव्यासं सर्वम् आयुर् जीव्यासम्
जीवला स्थ जीव्यासं सर्वम् आयुर् जीव्यासम्
प्रजापतेर् आकूतिर् असि साहस्री पुष्टिः । प्रजापतेर् आकूत्याहं साहस्र्या पुष्ट्या साहस्रान् पशून् पुषेयम्
बृहस्पतेर् आकूतिः (…) । बृहस्पतेर् आकूत्या (…)
ब्रह्मण आकूतिर् असि साहस्री पुष्टिः । ब्रह्मण आकूत्याहं साहस्र्या पुष्ट्या साहस्रान् पशून् पुषेयम्
विराड् असि विराजं मा कृणु तस्यास् ते यशो भक्षीय
स्वराड् असि स्वराजं मा कृणु तस्यास् ते मधु भक्षीय
सम्राड् असि सम्राजं मा कृणु तस्यास् ते अन्नं भक्षीय
वीर्यावता ते हविषा जुहोमि जीवातवे न मर्तवे । दक्षं ते भद्रम् आहार्षं परा सुवाम्य् आमयत्
अभिवीरेण ते (…)
सुवीरेण ते (…)
सर्ववीरेण ते हविषा जुहोमि जीवातवे न मर्तवे । दक्षं ते भद्रम् आहार्षं परा सुवाम्य् आमयत्
प्रजावता ते हविषा जुहोमि गर्भम् आ धत्स्व योन्याम् । स काले जायतां पुनर् दशमे मासि सूतवे
सुप्रजसा ते (…)
सुपुत्रेण ते हविषा जुहोमि गर्भम् आ धत्स्व योन्याम् । स काले जायतां पुनर् दशमे मासि सूतवे
भूतये ते हविषा जुहोमि- -इमं देवासो अभि हिङ् कराथ । अस्मिन्न् एव पशवः सं विशन्तु चतुष्पाद उत वा ये द्विपादः
वित्तये ते (…)
स्वृद्धेन ते (…)
समृद्धेन ते हविषा जुहोमि- -इमं देवासो अभि हिङ् कराथ । अस्मिन्न् एव पशवः सं विशन्तु चतुष्पाद उत वा ये द्विपादः
क्षेम्येण ते हविषा जुहोमि क्षेम्यो भवासि पशुभिश् च वीरैः । इन्द्राग्नी त्वा सयुजा सखायौ विश्वेभिर् देवैर् अनु सं ददेताम्
प्रतिष्ठितेन ते हविषा जुहोमि प्रति तिष्ठासि पशुभिः (…)
सम्भूतेन ते हविषा जुहोमि सं भवासि पशुभिः (…)
प्रभूतेन ते हविषा जुहोमि प्र भवासि पशुभिश् च वीरैः । इन्द्राग्नी त्वा सयुजा सखायौ विश्वेभिर् देवैर् अनु सं ददेताम्
Using this in academic work? Get formal citation
Tradição Védica (Ṛṣis) (2026). Atharvaveda Paippalāda — Kāṇḍa 19. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-19
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 19." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-19.
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 19." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-19.