Atharvaveda Paippalāda — Kāṇḍa 2
Tradição Védica (Ṛṣis)
अनुवाक २२ ॥ काण्ड २ अरसं प्राच्यं विषम् अरसं यद् उदीच्यम् । अथेदम् अधराच्यं करम्भेण वि कल्पते
करम्भं कृत्वा तिर्यं पीवस्फाकम् उदारथिम् । क्षुधा किल त्वा दुष्टनो जक्षिवांसं न रूरुपः
वि ते मदं मदवति शरुम् इव पातयामसि । प्र त्वा चरुम् इव येषन्तं वचसा स्थापयामसि
परि ग्रामम् इवाचितं परि त्वा स्थापयामसि । तिष्ठा वृक्ष इव स्थामन्न् अभ्रिखाते न रूरुपः
पवस्तैस् त्वा पर्य् अक्रीणन् दूर्शेभिर् अजिनैर् उत । प्रक्रीर् असि त्वम् ओषधे ऽभ्रिखाते न रूरुपः
आविद्य द्यावापृथिवी आविद्य भगम् अश्विना । आविद्य ब्रह्मणस्पतिं कृणोम्य् अरसं विषम्
अरसं हेद् इदं विषं यथैनद् अहम् आशिषम् । उतैनद् अद्यात् पुरुषो भवाद् इद् अगदः पुनः
मा बिभेर् न मरिष्यसि परि त्वा पामि विश्वतः । रसं विषस्य नाविदम् उद्नः फेनम् अदन्न् इव
अपावोचद् अपवक्ता प्रथमो दैव्यो भिषक् । समक्षम् इन्द्र गा इव या वाचो विषदूषणीः
यच् च पिष्टं यच् चापिष्टं यद् दिग्धं यच् च देह्यम् । देवाः सर्वस्य विद्वांसो ऽरसं कृणुता विषम्
क्षेत्रियात् त्वा निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात् । अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी अभूताम्
शं ते अग्निः सहाद्भिर् अस्तु शं गावः सहौषधीभिः । शम् अन्तरिक्षं सहवातम् अस्तु ते शं ते भवन्तु प्रदिशश् चतस्रः
या देवीः प्रदिशश् चतस्रो वातपत्नीर् अभि सूर्यो विचष्टे । तास्व् एतं जरस आ दधामि प्र यक्ष्म एतु निरृतिः पराचैः
सूर्यम् ऋतं तमसो ग्राह्या यथा देवा मुञ्चन्तो असृजन् निर् एनसः । एवा त्वा क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात्
अमोचि यक्ष्माद् दुरिताद् अवद्याद् द्रुहः पाशाद् ग्राह्याश् चोद् अमोचि । जहद् अवर्तिम् अविदत् स्योनाम् अप्य् अभूद् भद्रे सुकृतस्य लोके
निःसालां धृष्णुं धिषणम् एकावाद्यां जिघत्स्वम् । सर्वाश् चण्डस्य नप्त्यो नाशयामः सदान्वाः
यदि वा घ क्षेत्रियाद् यदि वा पुरुषेषिताः । यदि स्थ दस्युभ्यो जाता नश्यतेतः सदान्वाः
परि धामान्य् आसाम् आशुर् गाष्ठाम् इवासरम् । अजैषं सर्वाꣳ आजीन् वो नश्यतेतः सदान्वाः
निर् वो गोष्ठाद् अजामसि निर् योनेर् निर् उपानसात् । निर् वो मगुन्द्या दुहितरो गृहेभ्यश् चातयामसि
अमुष्मिन्न् अधरे गृहे सर्वाः सन्त्व् अराय्यः । तत्र पाप्मा न्य् उच्यतु सर्वाश् च यातुधान्यः
द्यावापृथिवी उर्व् अन्तरिक्षं क्षेत्रस्य पत्न्य् उरुगायो अद्भुतः । उतान्तरिक्षम् उरु वातगोपं ते घ तप्यन्तां मयि तप्यमाने
इदम् इन्द्र शृणुहि सोमप यत् त्वा हृदा शोचता जोहवीमि । वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति
इदं देवाः शृणुत ये च यज्ञिया स्थ भरद्वाजो मह्यम् उक्थानि शंसतु । पाशे स बद्धो दुरिते नि युज्यतां यो अस्माकं मन इदं हिनस्ति
अशीतिभिस् तिसृभिः सामगेभिर् आदित्येभिर् वसुभिर् अङ्गिरोभिः । इष्टापूर्तम् अवतु नः पितॄणाम् आमुं ददे हरसा दैव्येन
द्यावापृथिवी अनु मा दीधीथां विश्वे देवासो अनु मा रभध्वम् । अङ्गिरसः पितरः सोम्यासः पापम् आ र्च्छत्व् अपकामस्य कर्ता
अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत् क्रियमाणम् । तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषम् अभि तं शोचतु द्यौः
आ दधामि ते पदं समिद्धे जातवेदसि । अग्निः शरीरं वेवेष्टु यमं गच्छतु ते असुः
सप्त प्राणान् अष्टौ मज्ज्ञस् तांस् ते वृश्चामि ब्रह्मणा । यमस्य गच्छ सादनम् अग्निदूतो अरंकृतः
अनुवाक १ ॥ वेनस् तत् पश्यत् परमं पदं यत्र विश्वं भवत्य् एकनीडम् । इदं धेनुर् अदुहज् जायमानाः स्वर्विदो अभ्य् अनूषत व्राः
प्र तद् वोचेद् अमृतं न विद्वान् गन्धर्वो धाम परमं गुहा यत् । त्रीणि पदा निहिता गुहास्य यस् तानि वेद स पितुष् पितासत्
स नो बन्धुर् जनिता स विधर्ता धामानि वेद भुवनानि विश्वा । यत्र देवा अमृतम् आनशानाः समाने धामन्न् अध्य् ऐरयन्त
परि विश्वा भुवनान्य् आयम् उपातिष्ठे प्रथमजा ऋतस्य । वाचम् इव वक्तरि भुवनेष्ठा धास्युर् न्व् एष नन्व् एषो अग्निः
परि द्यावापृथिवी सद्य आयम् ऋतस्य तन्तुं विततं दृशे कम् । देवो देवत्वम् अभिरक्षमाणः समानं बन्धुं व्य् अपृच्छद् एकः
इन्द्र जुषस्वा याहि शूर पिबा सुतस्य मधोश् चकानः । चारुर् मदाय
आ त्वा विशन्तु सुतास इन्द्र पृणस्व कुक्षी विड्ढि शक्र । धियेह्य् आ नः
इन्द्र जठरं पृणस्व मधोर् अस्य सुतस्य । उप त्वा मदेषु वाजो अस्तु
इन्द्रस् तुराषाड् जघान वृत्रं सासाह शत्रून् समत्सु वज्री । मदे सोमस्य
श्रुधी हवं मे गिरो जुषस्व- -इन्द्र स्वयुग्भिः मत्स्व मदाय । महे रणाय
उद् इत्ये अक्रमन् त्रयो व्याघ्रः पुरुषो वृकः । हिरुग् ज्योतिः सूर्यो हिरुग् देवो वनस्पतिर् हिरुङ् नवन्तु शत्रवः
परमेण पथा वृकः परेण स्तेनो अर्षतु । ततो व्याघ्रः परमः
अक्ष्यौ च ते हनू च ते व्याघ्र जम्भयामसि । आत् सर्वान् विंशतिं नखान्
यत् संनशो वि यन् नशो यद्विनशो न सं नशः । मूर्णा मृगस्य दन्ता अपिशीर्णा उ पृष्टयः
व्याघ्रं दत्वतां वयं प्रथमं जम्भयामसि । आद् इत् स्तेनम् अहिं यातुधानम् अथो वृकम्
नेव रप्ससै न गृहः परश् चर । द्विपाच् चतुष्पान् नो मा हिंसीर् इन्द्रजाः सोमजा असि
इयं वीरुन् मधुजाता मधुने त्वा खनामसि । मधोर् अधि प्रजातासि सा नो मधुमतस् कृधि
जिह्वाया अग्रे मे मधु जिह्वामूले मधूलकम् । यथा मां कामिन्य् असो यथा माम् अन्व् आयसि
परि त्वा परितत्नुना- -इक्षुणागाम् अविद्विषे । यथा न विद्विषावहै न विभवाव कदा चन
राज्ञे ब्रूहि वरुणाय- -अश्वाय पुरुषाय च । पथा मे पथ्ये रेवति जायाम् आ वह साधुना
जायां मे मित्रावरुणा जायां देवी सरस्वती । जायां मे अश्विनोभा- -आ धत्तां पुष्करस्रजा
दशवृक्ष मुञ्चेमम् अंहसो ग्राह्याश् च । अथो एनं वनस्पते जीवानां लोकम् उन् नय
यश् चकार स निष् करत् स एव सुभिषक्तमः । स एव तुभ्यं भेषजं चकार भिषजाति च
चीतिं ते देवा अविदन् ब्रह्माण उत वीरुधः । चीतिं ते ऽद्योत्तमाम् अविदन् भूम्याम् अधि
आगाद् उद् अगाद् अयं जीवानां व्रातम् अप्य् अगात् । अभूद् उ पुत्राणां पिता नृणां च भगवत्तमः
अधीतिम् अध्य् अगाद् अयम् अधि जीवपुरा अगात् । शतं च यस्य वीरुधः सहस्रम् उत भेषजा
अनुवाक २ ॥ दीर्घायुत्वाय बृहते रणाय- -अरिष्यन्तो दक्षमाणाः सदैव । मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम्
जङ्गिडो जम्भाद् विशराद् विष्कन्धाद् अभिशोचनात् । मणिः सहस्रवीर्यः परि णः पातु विश्वतः
अयं विष्कन्धं सहते अयं रक्षो ऽप बाधते । अयं नो विश्वभेषजो जङ्गिडः पात्व् अंहसः
देवैर् दत्तेन मणिना जङ्गिडेन मयोभुवा । विष्कन्धं सर्वा रक्षांसि व्यायामे सहामहे
शणश् च त्वा जङ्गिडश् च विष्कन्धाद् अधि मुञ्चताम् । अरण्याद् अन्य आभृतः कृष्या अन्यो रसेभ्यः
एह यन्तु पशवो ये परेयुर् वायुर् येषां सहचारं जुजोष । त्वष्टा येषां रूपधेयानि वेद- -अस्मिन् तान् गोष्ठे सविता नि यच्छात्
इमं गोष्ठं पशवः सं स्रवन्तु बृहस्पतिर् आ नयतु प्रजानन् । सिनीवाली नयत्व् आग्रम् एषाम् आजग्मुषो अनुमतिर् नि यच्छात्
सं सं स्रवन्तु पशवः सम् अश्वा उत पूरुषाः । सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि
सं सिञ्चामि गवां क्षीरं सम् आज्येन बलं रसम् । संसिक्ता अस्माकं वीरा मयि गावश् च गोपतौ
आ हरामि गवां क्षीरम् आहार्षं धान्यं रसम् । आहार्षम् अस्माकं वीरान् आ पत्नीम् एदम् अस्तकम्
सं वः सृजत्व् अर्यमा सं पूषा सं बृहस्पतिः । सम् इन्द्रो यो धनंजय इह पुष्यत यद् वसु
इहैव गाव एतन- -इहो शका इव पुष्यत । इहैवोत प्र जायध्वं मयि संज्ञानम् अस्तु वः
मया गावो गोपत्या सचध्वम् अयं वो गोष्ठ इह पोषयाति । रायस्पोषेण बहुला भवन्तीर् जीवा जीवन्तीर् उप वः सदेम
सं वो गोष्ठेन सुषदा सं रय्या सं सुपुष्ट्या । अहर्जातस्य यन् नाम तेन वः सं सृजामसि
संजानाना अविह्रुता अस्मिन् गोष्ठे करीषिणीः । बिभ्रतीः सोम्यं हविः स्वावेशास एतन
उद्यन्न् आदित्यः क्रिमीन् हन्तु सूर्यो निम्रोचन् रश्मिभिर् हन्तु । ये अन्तः क्रिमयो गवि
यो विश्वरूपश् चतुरक्षः क्रिमिः सारङ्गो अर्जुनः । हतो हतभ्राता क्रिमिर् हतमाता हतस्वसा
हतो राजा क्रिमीणाम् उतैषां स्थपतिर् हतः । हतासो अस्य वेशसो हतासः परिवेशसः
प्र ते शृणामि शृङ्गे याभ्यां त्वं वितुदायसि । अथो भिनद्मि तं कुम्भं यस्मिन् ते निहितं विषम्
अत्रिवत् त्वा क्रिमे हन्मि कण्ववज् जमदग्निवत् । अगस्त्यस्य ब्रह्मणा सर्वे ते क्रिमयो हताः
इन्द्रस्य या मही दृषत् क्रिमेर् विश्वस्य तर्हणी । तया पिनष्मि सं क्रिमीन् दृषदा खल्वाꣳ इव
दृष्टम् अदृष्टम् अतृहम् अथो कुरूरुम् अतृहम् । अल्गण्डून् सर्वाञ् छलूलान् क्रिमीन् वचसा जम्भयामसि
अल्गण्डून् हन्मि महता वधेन दूना अदूना अरसा अभूवन् । शिष्टान् अशिष्टान् नि तिरामि वाचा यथा क्रिमीणां नकिर् उच्छिषातै
अन्वान्त्रियं शीर्षण्यम् अथो पार्ष्टेयं क्रिमिम् । अवस्कवं व्यद्वरं क्रिमीन् वचसा जम्भयामसि
ये क्रिमयः पर्वतेषु ये वनेषु य ओषधीषु पशुष्व् अप्स्व् अन्तः । ये अस्माकं तन्वं स्थाम चक्रिर इन्द्रस् तान् हन्तु महता वधेन
अनुवाक ३ ॥ या शत्रून् प्राशंजया सहमानाभिभूर् असि । सामून् प्रतिप्राशो जह्य् अरसान् कृण्व् ओषधे
सुपर्णस् त्वान्व् अविन्दत् सूकरस् त्वाखनन् नसा । इन्द्रस् त्वा चक्रे बाह्वोर् असुरेभ्य स्तरीतवे
पाटाम् इन्द्रो व्य् आश्नाद् धन्तवा असुरेभ्यः । तयाहं शत्रून् साक्षीय- -इन्द्रः शालावृकान् इव
रुद्र जलाषभेषज नीलशिखण्ड कर्मकृत् । प्रश्नं दुरस्यतो जहि यो अस्माꣳ अभिदासति
तस्य प्रश्नं त्वं जहि यो न इन्द्राभिदासति । अधि नो ब्रूहि शक्तिभिः प्राशि माम् उत्तरं कृधि
यथेदं भूम्या अधि वातस् तृणं मथायति । एवा मथ्नामि ते मनो यथा मां कामिन्य् असो यथा माम् अन्व् आयसि
एयम् अगन् पतिकामा जनिकामो ऽहम् आगमम् । अश्वः कनिक्रदद् यथा भगेनाहं सहागमम्
सं चेन् नयाथो अश्विना कामिना सं च नेषथः । सं वां मनांस्य् अग्मत सं चक्षूंषि सम् उ व्रता
यद् अन्तरं तद् बाह्यं यद् बाह्यं तद् अन्तरम् । कन्यानां विश्वरूपाणां मनो गृभायौषधे
यासुपर्णापक्षणवा- -आनपक्षणवा । अत्रा त आर्पितं मनः शल्य इव कुर्मलं यथा
सिंहे व्याघ्र उत या पृदाकौ त्विषिर् अग्नौ ब्राह्मणे सूर्ये या । इन्द्रं या देवी सुभगा ववर्ध सा न ऐतु वर्चसा संविदाना
(या) हस्तिनि द्वीपिनि या हिरण्ये त्विषिर् अश्वेषु पुरुषेषु गोषु । (…)
(या) राजन्ये दुन्दुभाव् आयतायां त्विषिः सेनायां स्तनयित्नौ घोषे या । (…)
रथे अक्षेष्व् ऋषभस्य वाजे पर्जन्ये वाते वरुणस्य शुष्मे । इन्द्रं या देवी सुभगा ववर्ध (…)
या रुद्रेषु या वसुष्व् आदित्येषु मरुत्सु या । त्विषिर् या विश्वेषु देवेषु सा न ऐतु वर्चसा संविदाना
यदि गाधानां यदि नाव्यानां नदीनां पारे नृपतिः सखा नः । विश्वे देवासो अभि रक्षतैनं यथा जीवो विदथम् आवदासि
यद्य् अवारे यदि वा घ पारे यदि धन्वनि नृपतिः सखा नः । (…)
यदि यत्सु यदि धृत्यां यदि समित्यां नृपतिः सखा नः । (…)
अधस् पद्यन्ताम् अधरे भवन्तु ये नः सूरिं मघवानं पृतन्यान् । विश्वे देवासो अभि रक्षतैनं यथा जीवो विदथम् आवदासि
यम मृत्यो मैनं हिंसीर् यम् अहं हृदा मनसा जुगोप । यो मां पिपर्ति यम् अहं पिपर्मि स प्रजावान् मघवान् सूरिर् अस्तु
इमां नावम् आ रोहत- -अच्छिद्रां पारयिष्ण्वम् । नराशंसस्य या गृहे शतारित्रा भगस्य च
उप धुव गुल्गुलुना- -अयक्ष्माः सन्त्व् अघ्न्याः । रुद्रस्येष्वा यातुधानान् अथो राज्ञो भवस्य च
रुद्राव् ईशाते द्विपदां चतुष्पदां तयोर् वयम् अधिवाके स्याम । पक्वैर् वित्थैः प्रतिभूषन्त एनौ वयं देवानां सुमतौ स्याम
प्रतीची नाम ते माता शतवारो घ ते पिता । ततो ह जज्ञिषे त्वम् अरिष्यन्त्य् अरुन्धति
माता नामासि मातृतो अमृतस्येव वा असि । अरुन्धति त्वं सर्वम् अभि जीवम् अधा इदम्
अनुवाक ४ ॥ आ नो अग्ने सुमतिं सम्भलो गेद् इमां कुमारीं सह नो भगेन । जुष्टा वरेषु समनेषु वल्गुर् ओषं पत्या भवतु संभगेयम्
इयम् अग्ने नारी पतिं विदेष्ट सोमो हि राजा सुभगां कृणोतु । सुवाना पुत्रान् महिषी भवाति गत्वा पतिं सुभगा वि राजात्
सोमजुष्टो ब्रह्मजुष्टो अर्यम्णा संभृतो भगः । धातुर् देवस्य सत्येन कृणोमि पतिवेदनम्
यथाखरो मघवंश् चारुर् एष प्रियो मृगाणां सुषदा बभूव । एवेयं जुष्टा भगस्यास्तु संप्रिया पत्याविराधयन्ती
भगस्य नावम् आ रोह पूर्णाम् अनुपदस्वतीम् । तयोप प्र याहि तं यः पतिः प्रतिकाम्यः
इदं हिरण्यं गुल्गुल्व् अयम् औक्षो अथो भगः । एते पतिभ्यस् त्वाम् अदुः प्रतिकामाय वेत्तवे
युनक्त सीरा वि युगा तनोत कृते क्षेत्रे वपतेह बीजम् । विराजः श्नुष्टिः सभरा असन् नो नेदीय इत् सृण्यः पक्वम् आ यवम्
सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथग् धीरा देवेषु सुम्नयौ । अनड्वाहः पुरुषा ये कृषन्ति लाङ्गलं फालं सम् अनज्मि स्फात्या
शुनं कीनाशो अन्व् एतु वाहाञ् छुनं फालो विनुदन्न् एतु भूमिम् । शुनासीरा हविषा यो यजातै सुपिप्पला ओषधयः सन्तु तस्मै
शुनं नरो लाङ्गलेनानडुद्भिर् भगः फालैः क्षेत्रपतिर् मरुद्भिः । पर्जन्यो बीजम् इरयेदं हिनोतु शुनासीरा कृणुतं धान्येह
इन्द्रः सीतां नि गृह्णातु तां पूषाभि रक्षतु । सा नः पयस्वती दुहाम् उत्तरामुत्तरां समाम्
उद् अस्थाद् रथजिद् गोजिद् अश्वजिद् धिरण्यजित् सूनृतया परीवृतः । एकचक्रेण सविता रथेन- -ऊर्जो भागैः पृथिवीम् एत्य् आपृणन्
गवां गृहाणां रसम् ओषधीनाम् अनुज्येष्ठं वर्च आयुर् विकल्प्य । स मा हिंसीः पितरौ वर्धमानो भद्राच् छ्रेयांसम् अभि लोकम् एहि
यदीदं भक्तं यदि वा विभक्तं क्षेत्रं देवानां यदि वा पितॄणाम् । यदि सूर्य उदिते यदि वा मनुष्यवच् छिवा नो अस्तु पृथिवी उत द्यौः
ऊर्जो वां भागो वर आ पृथिव्या देवी द्वारौ ब्रह्मणा वां धारयामि । शिवं शग्मम् अवसानं नो अस्तु रातं देवेभिः पितृभिर् मनुष्यैः
विश्वावसोस् त्वा सदनं कुलायं गन्धर्वासो वेधसो मह्यम् ऊचुः । स मा हिंसीः शेवधिं यं त एतं शतं हिमाः परि दद्मो मनुष्यम्
रुद्रा उत्से सदम् अक्षीयमाणे देवा मदन्ति पितरो मनुष्याः । अयं भागो भागपतिश् च देवा उर्वीर् अस्तर्याः शरदस् तरेम
यो अस्मिन् यक्ष्मः पुरुषे प्रविष्ट इषितं दैव्यं सहः । अग्निष् टं घृतबोधनो अप स्कन्दयत्व् अधि दूरम् अस्मत् सो अन्येन सम् ऋच्छतां तम् अस्मै प्र सुवामसि
यस् त्वा यक्ष्मो देवेषित इषितः पितृभिश् च यः । तस्मात् त्वा विश्वे देवा मुञ्चन्तु पर्य् अंहसः । ते ते यक्ष्मम् अप स्कन्दयन्त्व् अधि (…) । (…)
यत् त्वम् एनो अन्यकृतं यद् आत्मकृतम् आरिथ । तस्मात् त्वा विश्वा भूतानि मुञ्चन्तु पर्य् अंहसः । तानि ते यक्ष्मम् अप स्कन्दयन्त्व् अधि (…) (…)
यत् त्वा स्व आदृशा यद् वा चकार निष्ट्यः । तस्मात् त्वा पृथिवी माता मुञ्चतु पर्य् अंहसः । सा ते यक्ष्मम् अप स्कन्दयत्व् अधि (…) (…)
अपस्कन्देन हविषा यक्ष्मं ते नाशयामसि । तद् अग्निर् आह तद् उ सोम आह बृहस्पतिः सविता तद् इन्द्रः । ते ते यक्ष्मम् अप स्कन्दयन्त्व् अधि दूरम् अस्मत् सो अन्येन सम् ऋच्छतां तम् अस्मै प्र सुवामसि
अग्न्यग्रा इन्द्रबला आदित्या ये युधो विदुः । युधो अधि प्रतिष्ठिता होत्रा जैत्राय जुह्वति
अभियुक्तस्य प्रधने ऽनु योद्धारम् इच्छताम् । हवींष्य् अग्रे युध्यतां प्रति गृह्णीत जुह्वताम्
जेत्रा राज्ञा वरुणेन जेत्रा रुद्रेण केशिना । भवेन जिष्णुना जयति पर्जन्येन सहीयसा
अस्त्रा ताम्रेण बृहता- -अस्त्रा शर्वेण युध्यता । गन्धर्वेण त्विषीमता रथेनासमयोधिना
सिनीवाल्य् अनुमतिर् वाहाश्वा निषङ्गिणः । जयन्तो ऽभि प्रेतामित्रान् साकम् इन्द्रेण मेदिना
अनुवाक ५ ॥ यत् स्वप्ने निजगन्थ यद् वा शेपिषे ऽनृतम् । अग्निष् ट्वा तस्माद् एनसो ब्रह्मा मुञ्चत्व् अंहसः
यद् अक्षेषु दुद्रोहिथ यद् वा मित्रेभ्यस् त्वम् । सोमस् त्वा तस्माद् एनसो ब्रह्मा मुञ्चत्व् अंहसः
यत् कुमारः कुमारेषु यद् वा ज्यायस्तरेषु च । नीविं यत् कृत्वा शेपिषे तत् कृण्मो अगदं शिवम्
प्रतीचीनफलो हि त्वम् अपामार्ग बभूविथ । सर्वान् मच् छपथाꣳ अधि वरीयो यावया त्वम्
अपामार्ग ओषधीनां विश्वासाम् एक इत् पतिः । तेन ते मृज्म आस्थितम् अथ त्वम् अगदश् चर
शतवारो अनीनशद् यक्ष्मान् रक्षांसि तेजसा । आरोहन् वर्चसा सह मणिर् दुर्णामचातनः
शृङ्गाभ्यां रक्षो नुदते मूलेन यातुधान्यः । मध्येन यक्ष्मं बाधते नैनं पाप्मातितत्रति
ये यक्ष्मासो अर्भका महान्तो ये च शब्दिनः । सर्वान् दुर्णामहा मणिः शतवारो अनीनशत्
शतं वीरान् अजनयच् छतं यक्ष्मान् अपावपत् । दुर्णाम्नः सर्वान् हत्वा- -अप रक्षांसि धूनुते
हिरण्यशृङ्ग ऋषभः शातवारो अयं मणिः । दुर्णाम्नः सर्वान् तृढ्वा- -अव रक्षांस्य् अक्रमीत्
शतम् अहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम् । शतं श्वन्वतीनां शतवारेण वारये
विश्वं विव्यज्मि पृथिवीव पुष्टम् आयदायत् प्रति गृह्णाम्य् अन्नम् । वैश्वानरस्य महतो महिम्ना- -अग्निष् टद् विश्वाद् अगदं कृणोतु
यद् अन्नम् अद्मि बहुधा विरूपं हिरण्यम् अश्वम् उत गाम् अजाम् अविम् । वैश्वानरस्य (…)
यद् अन्नम् अद्म्य् अनृतेन देवा दास्यन्न् अदास्यन्न् उत वा करिष्यन् । वैश्वानरस्य (…)
यन् मा हुतं यद् अहुतम् आजगाम यस्माद् अन्नान् मनसोद्रारजीमि । वैश्वानरस्य महतो महिम्ना- -अग्निष् टद् विश्वाद् अगदं कृणोतु
जमदग्निः कश्यपः स्वाद्व् एतद् भरद्वाजो मध्व् अन्नं कृणोतु । प्रतिग्रहीत्रे गोतमो वसिष्ठो विश्वामित्रो नः प्र तिरात्य् आयुः
अग्ने यज्ञस्य चक्षो । इदं वेदाम यथेदं भविष्यति स्वाहा
अग्ने यज्ञस्य श्रोत्र । इदं वेदाम यथेदं भविष्यति स्वाहा
अग्ने यज्ञस्य प्राण । इदं वेदाम यथेदं भविष्यति स्वाहा
अग्ने यज्ञस्यापान । इदं वेदाम यथेदं भविष्यति स्वाहा
अग्ने यज्ञस्यात्मन् । इदं वेदाम यथेदं भविष्यति स्वाहा
अग्ने यज्ञस्य सर्व । इदं वेदाम यथेदं भविष्यति स्वाहा
देवानां भद्रा सुमतिर् ऋजूयतां देवानां रातिर् अभि नो नि वर्तताम् । देवानां सख्यम् उप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे
तान् पूर्वया निविदा हूमहे वयं भगं मित्रम् अदितिं दक्षम् अस्रिधम् । अर्यमणं वरुणं सोमम् अश्विना सरस्वती नः सुभगा मयस् करत्
इदं पितृभ्यो नमो अस्त्व् अद्य ये पूर्वासो ये ऽपरासः परेयुः । ये पार्थिवे रजस्य् आ निषत्ता ये वा नूनं सुवृजनासु विक्षु
प्रत्यञ्चो अग्ने शरवः पतन्तु कृत्याकृते रिपवे मर्त्याय । क्रव्यादे अत्रिणे मा मीमृडः क्रविष्णुम् आ धेहि निरृतेर् उपस्थे
ज्यायसः शंसाद् उत वा कनीयसः सजातशंसाद् उत जामिशंसात् । अनादिष्टम् अन्यकृतं यद् एनस् त्वं नस् तस्माज् जातवेदो मुमुग्धि
अनुवाक ६ ॥ इमौ पादौ प्र हराम्य् आ गृहेभ्यः स्वस्तये । इन्द्रः पश्चाद् इन्द्रः पुरस्ताद् इन्द्रो नः पातु मध्यतः
इन्द्रो भयं व्य् अस्यतु शूद्राच् च न आर्याच् च । इन्द्रः पथिभिर् अद्रवद् असमृद्धा अघायवः
इन्द्रो हनिष्यतां वधं वि नः पाशाꣳ इवाचृतत्
एमं पन्थाम् अरुक्षाम सुगं स्वस्तिवाहनम् । येन विश्वाः परि द्विषो वृणक्ति विन्दते वस्व् आस्तम् एत्य् अनाहतः
परा व्रजतु कृन्तत्य् अवकां विक्षणन्न् इव । विष्वञ्चो यन्त्व्अस्यपाला विष्वञ्चः परिपन्थिनः । विष्वक् पुनर्भुवा मनो असमृद्धा अघायवः
स्वस्त्य् अन्व् अचाकशं स्वस्ति प्रत्य् अचाकशम् । स्वस्ति पथिषु धन्वसु स्वस्त्य् अप्स्व् अन्तः । परिव्रजन् स्वरित स्वस्त्ययनम् असि । भारद्वाजं स्वस्ति पुनरायणम्
य उत्तराद् आजायते मधुघो मधुघाद् अधि । वेदाहं तस्मिन् भेषजं जिह्वा मधुमती मम
मधुमत् ते पर्णम् आस मधुशृङ्गोत पुष्पकम् । मधुमान् पर्वतासिथ यतो जायस ओषधे
गर्भो अस्य् ओषधीनाम् अपां गर्भ उतासिथ । अथो सोमस्य भ्रातासि मधुघ प्राव मे वचः
शुनम् अहं मधुघस्य पितुर् नामेव जग्रभ । यो मा हिरण्यवर्चसं कृणवत् पूरुषप्रियम्
प्रियं मा कृणु देवेषु प्रियं राजसु मा कृणु । प्रियं सर्वस्य पश्यत उत शूद्र उतार्ये
ऊध्ना वन हृदा वन मुखेन जिह्वया वन । प्रपीना पयसा वन
वाञ्छ पदो वाञ्छ त्वचं वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ । वत्सम् अनु प्र ते मनो निम्नं वार् इव धावतु
ऊर्ध्वानि ते लोमानि तिष्ठन्त्व् अक्ष्यौ कामेन शुष्यताम् । सम् इद् वत्सेन गौर् इव मुद्रा सुरेव पृच्यताम्
इमा गावः सबन्धवः समानं वत्सम् अक्रत । हिङ्ङ् इति करिक्रतीर् आद्धारानिरमवश्वसा
शृङ्गौपशा गलभूषा अघ्न्याश् चर्मवासिनीः । गावो घृतस्य मातरस् ता वत्सेवा नयामसि
यच् च वर्चः कन्यासु यच् च हस्तिष्व् आहितम् । हिरण्ये गोषु यद् वर्चस् तस्य भक्षीय वर्चसः
यच् च वर्चो राजरथे यच् च राजस्व् आहितम् । निष्के रुक्मे च यद् वर्चस् तस्य भक्षीय वर्चसः
यद् अप्सु यद् वनस्पतौ यद् अग्नौ यच् च सूर्ये । यज्ञे दक्षिणायां वर्चस् तस्य भक्षीय वर्चसः
वर्चस्वन् मे मुखम् अस्तु वर्चस्वद् उत मे शिरः । वर्चस्वान् विश्वतः प्रत्यङ् वर्चस्वान् वर्णो अस्तु मे
सुभागं मे मुखम् अस्तु सुभागम् उत मे शिरः । सुभागो विश्वतः प्रत्यङ् सुभागो वर्णो अस्तु मे
उद् असौ सूर्यो अगात् सह वहतुना मम । अहं ते मधुमती मधुघान् मधुमत्तरा
यद् गिरिषु पर्वतेषु गोष्व् अश्वेषु यन् मधु । सुरायां सिच्यमानायां कीलाले मधु तन् मयि
यथा सुरा यथा मधु यथाक्षा अधिदेवने । यथा ह गव्यतो मन एवा माम् अभि ते मनः
आ ते पदं पदेनादिष्य् आ ते मनसा मनः । प्रत्यञ्चम् अग्रभं त्वा- -अश्वम् इवाश्वाभिधान्या
मह्यं त्वा द्यावापृथिवी मह्यं देवी सरस्वती । मह्यं त्वा मध्यं भूम्या उभाव् अन्तौ सम् अस्यताम्
अनुवाक ७ ॥ या वैश्वदेवीर् इषवो या वसूनां या रुद्रस्य सोमस्य या भगस्य । विश्वे देवा इषवो यावतीर् वस् ता वो अग्निना शर्मणा शमयामि
या आदित्यानाम् इषवो या वसूनां या रुद्रस्याश्विनोर् यावतीस् ताः । विश्वे देवा इषवो यावतीर् वस् ता वो देवः सविता शमयाति
यास् ते अग्न इषवो वात यास् ते अपाम् अदित्याम् उत या मरुत्सु । इन्द्रश् च साम्ना वरुणश् च राजा ता वः सूर्यो बृहता शमयाति
मा वृक्ष्मह्य् आदित्येभ्यो मा वसुभ्यो मा रुद्रायाग्नये पार्थिवाय । इन्द्रस्य शुचो वरुणस्य याः शुचस् ता वो देव्य् अदितिः शमयाति
याश् च वाते विष्वग्वाते याश् च रुद्रस्य धन्वनि । अग्निष् टा वसोर् ईशानः सर्वास् ता भेषजा करत्
चित्तिं यजामि मनसा चित्तिं देवाꣳ ऋतावृधः । जातवेदः प्र णस् तिर- -अग्ने विश्वाभिर् ऊतिभिः
यावयास्मद् द्वेषांसि यवमयेन हविषा । यस् ते त्रित दुष्वप्न्यस्य भागः स त एष तं त एतं प्र हिण्मः
यथा कलां यथा शफं यथर्णं संनयन्ति । एवा दुष्वप्न्यं सर्वम् अप्रिये सं नयामसि
अररो है शतम् अद्य गवां भक्षीय शतम् अजानां शतम् अवीनां शतम् अश्वानां शतं पुरुषाणाम् । तत्रापि भक्षीयामुम् आमुष्यायणम् अमुष्याः पुत्रम्
तम् अहं निरृतये प्र यच्छामि तं मृत्योः पाशे बध्नामि । स बद्धो हतो अस्तु स ततो मा मोचि
ये नः शपन्त्य् अप ते भवन्तु वृक्षान् इव वृक्णाꣳ अति ताꣳ अयाम । द्राघीय आयुः प्रतरं दधाना वयं देवानां सुमतौ स्याम
कृत्याकृतं प्रत्य् अवसानदर्शनम् अग्ने प्रति स्म बुध्यस्व । प्रति स्म देव तं दह
यस् त्वा कृत्ये प्रजिघाय विद्वाꣳ अविदुषो गृहम् । पुनस् त्वा तस्मा आ दध्मो यथा कृत्याकृतं हनः
पुनः कृत्यां कृत्याकृते हस्तगृह्य परा णय । उतो तम् अत्तु सा पुनस् तर्द इव सदनं स्वम्
कृत्या यन्तु कृत्याकृतं वृक इवाविमतो गृहम् । तोकं पाकस्य वर्धतां सुवृष्ट ओषधीर् इव
यत् ते ग्रावा बाहुच्युतो अचुच्योन् नरो यद् वा ते हस्तयोर् अधुक्षन् । तत् त आ प्यायतां तत् ते नि ष्ट्यायतां सोम राजन्
यत् ते ग्राव्णा चिच्छिदुः सोम राजन् प्रियाण्य् अङ्गा सुकृता पुरूणि । तत् सं धत्स्वाज्येनोत वर्धयस्व- -अनागसो यथा सदम् इत् संक्षियेम
यां ते त्वचं बिभिदुर् यां च योनिं यद् वास्थानात् प्रच्युतो यदि वा सुतो ऽसि । त्वया सोम क्ल्̥प्तम् अस्माकम् एतद् उप नो राजन् सुकृते ह्वयस्व
सं प्राणापानाभ्यां सम् उ चक्षुषा सं श्रोत्रेण गच्छस्व सोम राजन् । यत् ते विरिष्टं सम् उ तत् त एतज् जानीतान् नः संगमने पथीनाम्
अहाः शरीरं पयसा सम् एत्य् अन्योअन्यो भवति वर्णो अस्य । तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम्
अभि क्षरन्ति जुह्वो घृतेन- -अङ्गा परूंषि तव वर्धयन्तीः । तस्मै ते सोम नम इद् वषट् च- -उप नो राजन् सुकृते ह्वयस्व
इहेत देवीर् अयम् अस्तु पन्था अयं वो लोकः शरणाय साधुः । इदं हविर् जुषमाणा उदेत क्षिप्रा राज्ञा वरुणेन प्रसूताः
इहैतु राजा वरुणो ऽजिराभिर् देवो देवीभिर् हविषो जुषाणः । कृणुष्व पन्थाम् उदयानम् ऊर्मिभिर् अनेन बभ्रो महता पृथिव्याः
प्रिये ध्रियध्वम् उदयानम् उन्दतीर् ओक औघानाम् इह रारणीतु । अनेन वेगान् असृजत् प्रजापतिर् इह ध्रियध्वं शरणं सरस्वतीः
इह वो जूतिर् ध्रियतां समान्य् अपाम् अग्नीनां वरुणस्य सोम । अनेन वेगान् असृजत् त्विषीमतो ऽहिंस्राञ् छम्भून् अजिराꣳ अतृष्णजः
ये पारतो मध्यतो ये ते अन्तयोर् अप्सुषदो निहितास् तीरे अग्नयः । ते देवजा इह नो मृडयन्त्व् आपश् च जन्मन्न् उभये सबन्धवः
इदं व आपो हृदयम् अयं वत्स ऋतावरीः । इहेत्थम् एत शक्वरीर् यत्रेमꣳ वेशयामसि
अनुवाक ८ ॥ उद् असौ सूर्यो अगाद् उद् अयं मामको भगः । तेनाहं विद्वला पतिम् अभ्य् असाक्षि विषासहिः
अहं केतुर् अहं मूर्धा- -अहम् उग्रा विवाचनी । ममेद् अपि क्रतुं पतिः सेहानाया उपा चरात्
मम पुत्राः शत्रुहणो ऽथो मे दुहिता विराट् । उताहम् अस्मि संजया पत्यां मे श्लोक उत्तमः
येन देवा असुरेभ्यो ऽभवन् द्युम्नवत्तराः । इदं तद् अक्रि देवा असपत्ना किलाभुवम्
असपत्ना सपत्नघ्नी जयन्त्य् अभिभूवरी । मुष्णाम्य् अन्यासां भगं वासो अस्थेयसाम् इव
शेरभक शेरभ । पुनर् वो यन्तु यातवः पुनर् जूतिः किमीदिनः । यस्य स्थ तम् अत्त यो वः प्राहैत् तम् अत्त स्वा मांसान्य् अत्त
शेवृधक शेवृध । (…)
सर्पानुसर्प । (…)
म्रोकानुम्रोक । (…)
जूर्ण भरूज्य् अर्जुन्य् उपब्दो । पुनर् वो यन्तु यातवः पुनर् जूतिः किमीदिनः । यस्य स्थ तम् अत्त यो वः प्राहैत् तम् अत्त स्वा मांसान्य् अत्त
द्यावापृथिवी उपश्रुतये मा पातं स्वाहा ॥धनायायुषे प्रजायै मा पातं स्वाहा ॥प्राणापानौ मृत्योर् मा पातं स्वाहा ॥सूर्य चक्षुषे मा पाहि स्वाहा ॥अग्ने विश्वंभर विश्वतो मा पाहि स्वाहा ॥ आयुर्दा अग्निर् आयुर् मे दात् स्वाहा ॥वर्चोदा अग्निर् वर्चो मे दात् स्वाहा ॥तेजोदा अग्निस् तेजो मे दात् स्वाहा ॥सहोदा अग्निः सहो मे दात् स्वाहा ॥बलदा अग्निर् बलं मे दात् स्वाहा ॥ आयुर् अस्य् आयुर् मयि धेहि स्वाहा ॥वर्चो ऽसि वर्चो मयि धेहि स्वाहा ॥तेजो ऽसि तेजो मयि धेहि स्वाहा ॥सहो ऽसि सहो मयि धेहि स्वाहा ॥बलम् असि बलं मयि धेहि स्वाहा ॥ अनुवाक ९ ॥ पिशाचक्षयणम् असि पिशाचजम्भनम् असि स्वाहा
यातुधानक्षयणम् असि यातुधानजम्भनम् असि स्वाहा
सदान्वाक्षयणम् असि सदान्वाजम्भनम् असि स्वाहा
सपत्नक्षयणम् असि सपत्नजम्भनम् असि स्वाहा
भ्रातृव्यक्षयणम् असि भ्रातृव्यजम्भनम् असि स्वाहा
आ ते सौवीर्यं ददे मयि ते सौवीर्यम् ॥आ ते सौवर्चो ददे मयि ते सौवर्चः ॥आ ते सौतेजो ददे मयि ते सौतेजः ॥आ ते सौनृम्णं ददे मयि ते सौनृम्णम् ॥आ ते सौशुक्रं ददे मयि ते सौशुक्रम् ॥ अग्ने यत् ते तपस् तेन तं प्रति तप यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः
(…) ते हरस् तेन तं प्रति हर यो (…)
(…) ते शोचिस् तेन तं प्रति शोच यो (…)
(…) ते ऽर्चिस् तेन तं प्रत्य् अर्च यो (…)
अग्ने यत् ते ज्योतिस् तेन तं प्रति दह यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः
प्राची दिग् गायत्रं देवता । यद् देवेषु पितृषु मनुष्येष्व् एनश् चकारायं त्वं तस्यावयजनम् असि । मुञ्चेमम् अस्माद् यक्ष्माद् अस्माद् आमयतः स्वाहा
दक्षिणा दिग् रथन्तरं देवता । (…)
प्रतीची दिग् वामदेव्यं देवता । (…)
उदीची दिग् यज्ञायज्ञियं देवता । (…)
ऊर्ध्वा दिग् बृहद् देवता । यद् देवेषु पितृषु मनुष्येष्व् एनश् चकारायं त्वं तस्यावयजनम् असि । मुञ्चेमम् अस्माद् यक्ष्माद् अस्माद् आमयतः स्वाहा
अग्निं वयं त्रातारं हवामहे य इमं त्रायाता अस्माद् यक्ष्माद् अस्माद् आमयतः । जुषाणो अग्निर् आज्यस्य त्राता त्रायतां स्वाहा
मित्रावरुणौ वयं त्रातारौ हवामहे याव् इमं त्रायैते अस्माद् यक्ष्माद् अस्माद् आमयतः । जुषाणौ मित्रावरुणाव् आज्यस्य त्रातारौ त्रायेतां स्वाहा
मरुतो वयं त्रातॄन् हवामहे य इमं त्रायान्ता अस्माद् यक्ष्माद् अस्माद् आमयतः । जुषाणा मरुत आज्यस्य त्रातारस् त्रायन्तां स्वाहा
पितॄन् वयं त्रातॄन् हवामहे य इमं त्रायान्ता अस्माद् यक्ष्माद् अस्माद् आमयतः । जुषाणाः पितर आज्यस्य त्रातारस् त्रायन्तां स्वाहा
बृहस्पतिं वयं त्रातारं हवामहे य इमं त्रायाता अस्माद् यक्ष्माद् अस्माद् आमयतः । जुषाणो बृहस्पतिर् आज्यस्य त्राता त्रायतां स्वाहा
अनुवाक १० ॥ अग्निं वयं त्रातारं यजामहे मेनिहनं वलगहनम् । जुषाणो अग्निर् आज्यस्य मेनिहा वलगहा त्राता त्रायतां स्वाहा
इन्द्रं वयं त्रातारं यजामहे मेनिहनं वलगहनम् । जुषाण इन्द्र आज्यस्य मेनिहा वलगहा त्राता त्रायतां स्वाहा
सोमं वयं त्रातारं यजामहे मेनिहनं वलगहनम् । जुषाणः सोम आज्यस्य मेनिहा वलगहा त्राता त्रायतां स्वाहा
विश्वान् वयं देवांस् त्रातॄन् यजामहे मेनिघ्नो वलगघ्नः । जुषाणा विश्वे देवा आज्यस्य मेनिहनो वलगहनस् त्रातारस् त्रायन्तां स्वाहा
बृहस्पतिं वयं त्रातारं यजामहे मेनिहनं वलगहनम् । जुषाणो बृहस्पतिर् आज्यस्य मेनिहा वलगहा त्राता त्रायतां स्वाहा
ये केशिनः प्रथमाः सत्त्रम् आसत येभिर् आभृतं यद् इदं विरोचते । तेभ्यो जुहोमि हविषा घृतेन- -अश्ववान् गोमान् अयम् अस्तु वीरः
न र्ते दानात् तमसो मुच्यते परि द्विनाम्नीं दीक्षां वशिनीं य आयत् । प्रास्य केशाः सुवते काण्डिनो भवन्ति तेषां ब्रह्मेशे वपनस्य नान्यः
येनावपत् सविता शीर्ष्णो अग्रे क्षुरेण राज्ञो वरुणस्य केशान् । तेन ब्रह्माणो वपतेदम् अस्य- -आस्रामो दीर्घायुर् अयम् अस्तु वीरः
मा ते केशाꣳ अनु गाद् वर्च एतत् तथा धाता दधातु ते । तुभ्यम् इन्द्रो वरुणो बृहस्पतिः सविता वर्च आ दधन्
आ रोह प्रोष्ठं वि षहस्व शत्रून् अवास्राग् दीक्षां वशिनी ह्य् उग्रा । देहि दक्षिणां ब्राह्मणेभ्यो अथो मुच्यस्व वरुणस्य पाशात्
ये देवाः पुरःसदो ऽग्निनेत्रा रक्षोहणः । ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस् तेभ्यः स्वाहा
ये देवा दक्षिणासदो यमनेत्रा रक्षोहणः । ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस् तेभ्यः स्वाहा
ये देवाः पश्चात्सदो मरुन्नेत्रा रक्षोहणः । ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस् तेभ्यः स्वाहा
ये देवा उत्तरासदः सोमनेत्रा रक्षोहणः । ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस् तेभ्यः स्वाहा
ये देवा अन्तरिक्षसदो बृहस्पतिनेत्रा रक्षोहणः । ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस् तेभ्यः स्वाहा
अग्नये पुरःसदे रक्षोघ्ने स्वाहा ॥यमाय दक्षिणासदे रक्षोघ्ने स्वाहा ॥मरुद्भ्यः पश्चात्सद्भ्यो रक्षोहभ्यः स्वाहा ॥सोमायोत्तरासदे रक्षोघ्ने स्वाहा ॥बृहस्पतये अन्तरिक्षसदे रक्षोघ्ने स्वाहा ॥अवस्पते दिवस्पते रक्षोघ्ने स्वाहा ॥ दिवो जातो दिवस् पुत्रो यस्माज् जातं महत् सहः । अश्वत्थम् अग्रे जैत्राय- -अच्छा देवं वदामसि
तं त्वाश्वा यथा रथम् उप तिष्ठन्तु राजानः । समितिभ्यो विवक्तवे
त्वया वयं देवजात सर्वाः प्राशो जयामसि । उत सत्या उतानृताः
यो अश्वत्थेन मित्रेण समितीर् अवगच्छति । जयात् स सर्वाः पृतना याश् च सत्या उतानृताः
अधराञ्चो निर् द्रवन्तु समित्या उलुलाकृताः । अश्वत्थमित्रं पुरुषं ये वाचा पृतन्यान्
अनुवाक ११ ॥ उग्रा नाम स्थ तेषां वः पुरो गृहाः प्राची दिक् तेषां वो अग्निर् इषवः । ते नो मृडत द्विपदे चतुष्पदे तेषां वो यान्य् आयुधानि या इषवस् तेभ्यो नमस् तेभ्यः स्वाहा
क्रव्या नाम स्थ तेषां वो दक्षिणा गृहा दक्षिणा दिक् तेषां व आप इषवः । (…)
विराजो नाम स्थ तेषां वः पश्चाद् गृहाः प्रतीची दिक् तेषां वः काम इषवः । (…)
अवस्था नाम स्थ तेषां व उत्तराद् गृहा उदीची दिक् तेषां वो वात इषवः । (…)
उत्तरे नाम स्थ तेषां व उपरि गृहा ऊर्ध्वा दिक् तेषां वो वर्षम् इषवः । ते नो मृडत द्विपदे चतुष्पदे तेषां वो यान्य् आयुधानि या इषवस् तेभ्यो नमस् तेभ्यः स्वाहा
यदीदं देवो दिव आजगाम यद्य् अन्तरिक्षाद् यदि पार्थिवो यः । यदि यज्ञो यज्ञपतेः स्वर्गस् तेभ्यः सर्वेभ्यो नमसा विधेम
यम् इन्द्रम् आहुर् वरुणं यम् आहुर् यं मित्रम् आहुर् यम् उ सोमम् आहुः । यम् अग्निम् आहुर् यम् उ सूर्यम् आहुस् तेभ्यः सर्वेभ्यो नमसा विधेम
ये श्मशानानि मनसा नयन्ति सूर्यस्य रश्मीन् अनुसंचरन्ति । ये देवानाम् ऋत्विजो यज्ञियानां तेभ्यः सर्वेभ्यो नमसा विधेम
ये तन्द्रिया जल्प्या प्रोर्णुवन्ति स्वप्नं दुर्भूतम् अभि ये किरन्ति । ये देवानां धर्मधृतो बभूवुस् तेभ्यः सर्वेभ्यो नमसा विधेम
स्वभ्यसैर् अभि ये भायन्ते ये भाः कृण्वन्ति य उ रोदयन्ति । ये वा स्त्रीणां प्रतिरूपा बभूवुस् तेभ्यः सर्वेभ्यो नमसा विधेम
व्यावृत्तौ पथो गावौ व्यस्यौ युग्या उत । विद्वेषणं किलासिथ यथैनौ व्य् अदिद्विषः
वि किलैनाव् अदिद्विषः शश्वतीभ्यः समाभ्यः । अथोल्मुकम् इव खादिरम् अग्निर् वाम् अस्त्व् अन्तरा
सिंहस् ते अस्तु चक्षुषे व्याघ्रः परिष्वञ्जने । अग्निर् वाम् अस्त्व् अन्तरा यथा वां न सहासति
व्य् अद्यौद् व्य् अततनद् व्य् आस्थत् कपट्व् इव । या ओषधे प्रसर्पसि व्य् अग्निर् इव तौ दह
वि वां यन्तु हृदयानि वि चित्तानि मनांसि च । अथो यत् तन्वोः संगतं तद् वाम् अस्तु विदूरकम्
अस्ति वै वां विद्विकम् उभौ शयने अन्तरा । विष्वञ्चौ पर्य् आ वर्तेथां यथा वां न सहासति
त्रयः पोषास् त्रिवृतः श्रयन्ताम् अनक्तु पूषा पयसा घृतेन । अन्नस्य भूमा पुरुषस्य भूमा भूमा पशूनां त इह श्रयन्ताम्
इमम् आदित्या वसुना सम् उक्षत- -इमम् अग्ने वर्धय वावृधानः । अस्मिन् त्रिवृच् छ्रयतां पोषयिष्णुर् इमम् इन्द्र सं सृज वीर्येण
भूमिष् ट्वा पातु हरितेन विश्वभृद् अग्निः पिपर्त्व् अयसा सजोषाः । वीरुद्भिस् ते अर्जुनं संविदानं वर्चो दधातु सुमनस्यमानम्
त्रेधा जातं जन्मनेदं हिरण्यम् अग्नेर् एकं प्रियतमं बभूव । सोमस्यैकं हिंसितस्य परापतद् अपाम् एकं वेधसो रेत आहुस् तत् ते हिरण्यं त्रिवृद् अस्त्व् आयुषे
त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् । त्रेधामृतस्य चक्षणं त्रीण्य् आयूंषि नस् कृधि
त्रयः सुपर्णास् त्रिवृता यद् आयन्न् एकाक्षरम् अभिसंभूय शक्राः । प्रत्य् औहन् मृत्युम् अमृतेन साकम् अन्तर्दधाना भुवनानि विश्वा
दिवस् त्वा पातु हरितं मध्यात् त्वा पात्व् अर्जुनम् । भूम्या अयस्मयं पातु प्रागाद् देवपुरा अयम्
इमास् तिस्रो देवपुरास् तास् त्वा रक्षन्तु सर्वतः । तास् त्वं बिभ्रद् आयुष्मान् वर्चस्वान् उत्तरो द्विषतो भव
पुरं देवानाम् अमृतं हिरण्यं य आबेधे प्रथमो देवो अग्रे । तस्मै नमो दश प्राचीः कृणोम्य् अनु मन्यतां त्रिवृता वधेन
नव प्राणान् नवभिः सं मिमीते दीर्घायुत्वाय शतशारदाय । हरिते त्रीणि रजते त्रीण्य् अयसि त्रीणि तपसाविष्टितानि
आ ते चृतत्व् अर्यमा- -आ पूषा बृहस्पतिः । अहर्जातस्य यन् नाम तेन ते ऽति चृतामसि
ऋतुभिष् ट्वार्तवैर् इत्य् एका
यज्ञं यन्तं तपसा बृहन्तम् अन्व् आ रोहामि मनसा सयोनिः । उपहूता अग्ने जरसः परस्तात् तृतीये नाके सधमादं मदेम
तं प्रजानन् प्रति गृह्णातु विद्वान् प्रजापतिः प्रथमजा ऋतस्य । अस्माभिर् दत्तं जरसः परस्ताद् अच्छिन्नं तन्तुम् अनु सं चरेम
श्येनः सुपर्णो दिव्यो नृचक्षाः सहस्रपाच् छतयोनिर् वयोधाः । स नो नि यंसद् वसु यत् पराभृतम् अस्माकम् अस्तु पितृषु स्वधावत्
एतं सधस्थाः परि वो ददामि यम् आवहाच् छेवधिं जातवेदाः । अन्वागन्ता यजमानः स्वस्ति तं स्म जानीत परमे व्योमन्
जानीत स्मैनं परमे व्योमन् देवाः सधस्था विद लोकम् एतम् । इष्टापूर्तम् अनु सं क्राम विद्वान् यत्र ते दत्तं बहुधा विबन्धुषु
अनुवाक १२ ॥ येभिः पाशैर् अभिदधासि द्रुह्वणः समामिनो अनृतं ये समामिरे । तांस् ते वि ष्याम्य् आयुषे बलाय- -अनमीवं पितुम् अद्धि प्रसूतः
अनागा बभ्रो अयम् अस्तु वीरो द्रुहः पाशेभ्यः परि पाह्य् एनम् । राजन् प्रविद्वान् प्र मुमुग्धि पाशान् यस्मै चरामि हविषा घृतेन
कश्यप इन्द्राय हविषा चचार हरित्वतीषु मघवा मघोने । पस्पार विश्वा भुवनस्य गोपा अन्तरिक्षस्य महतो विमाने
अपूपं नाभिलं ते घृतश्चुतं नदीनां पदे सुश्रुतं जुहोमि । प्रविद्वान् राजन् प्र मुमुग्धि पाशान् अन्यस्य पत्नी विधवा यथासत्
अनातुरेण वरुणः पथेमं स्वस्तिभिर् अति दुर्गाणि नेषत् । तम् अश्विना प्रतिगृह्या स्वस्तये दोषा एनम् उषसे सं प्र यच्छात्
ये पिशाचा इमां वित्तिम् आकूतिं मोहयन्ति नः । तेषां त्वम् अग्ने नाशय वर्चश् चित्तम् अथो प्रजाम्
नाशयाग्ने पिशाचानां वर्चश् चित्तम् अथो प्रजाम् । अथाशां मह्यं राधय यथाहं कामये तथा
आशां मह्यं राधयित्वा- -इन्द्रियेण यथामृताम् । त्वम् अग्ने क्रव्यादः सर्वान् पिशाचाꣳ अर्चिषा दह
प्रति दह यातुधानान् मूरदेवान् विचर्षणे । ये नो दुरस्या द्वेषेण- -अथाशां मोहयन्ति नः
ये नः पशुषु दिप्सन्त्य् आशायां पुरुषेषु च । तांस् त्वं सहस्राक्षेशानः पिशाचाꣳ अर्चिषा दह
सहस्वेदं सहमाने अथो देवि सरस्वति । अथेदम् अश्विना लक्ष्म रोहितं कृणुतं युवम्
आसुरस्य मुखस्याग्ने लक्ष्ममुखं नामासि । मेतो ज्यायो भूर् इत इत् कनीयो ऽसो नश्येतः परो मा त्वा हिंसिषम्
यासां पिता पर्जन्यो भूमिर् माता बभूव । ह्वयामि सर्वा ओषधीर् गोजाताः सोमजिन्वताः
इदं सप्तप्रखे त्वं किलासं नाशया त्वचः । निष्कृतिर् नाम वा असि सेदं निष् कृधि भद्रया
निष्कृतिर् नाम ते माता निष्कृतिर् नाम ते पिता । उतो त्वम् असि निष्कृतिः सेदं निष् कृधि भद्रया
और्ध्वनभसः प्रथमः सूर्यचेता उशद्भ्यः । चकार कृत्याम् आसुरः सा नो भवतु भद्रया
य इमां कृत्याम् उपजह्रुर् ये वा चकमिरेक्षितम् । देवानां सर्वेषां स्वसा तान् देवी निरृतिर् हनत्
कश्यपस्य प्रतिसरो द्यौष् पिता पृथिवी माता । यथाभिचक्र देवास् तथापि कृणुता पुनः
याः कृत्या नीलवतीर् याः कृत्याः पाश्यावतीः । कृत्या याश् चक्रुर् लोहिनीस् ता इतो नाशयामसि
यदि वा इदम् आजह्रुर् इमे भद्रा असन्न् इति । कृत्यासि कल्याण्य् असि सामुं कर्तारम् अन्व् इहि
बृहत् ते वर्चः प्रथताम् उप द्यां मित्रेभ्य एधि सुरभिः सुवर्चाः । अधि ते राजा वरुणो ब्रवीतु तस्मा उ त्वं हविषा भागधा असः । शतं हेमन्तान् दमया सपत्नान् विशस् त्वा सर्वा अनु गुङ्गवो भवन्तु
यस् त्वोत्पिपानं प्रत्युत्पिपाति यस् त्वा सजातो विरिफात्य् अन्तितः । इन्द्रस् तं योक्त्रे अधमे युनक्तु तस्मै (…)
यस् त्वा यच्छन्तं प्रतियंयमीति यस् त्वा जिगीषात् पृतनाः समर्ये । बृहस्पतिस् तम् अव जङ्घनीतु तस्मै (…)
ये ते शुल्कम् आहरान् य उ ते बलिं सोमः सजातान् उप सं नमाति ते । अग्निः सयुग्वान् अधि ते ब्रवीतु तस्मै (…)
वरिष्ठैधि पुरुः प्रजया सुवीरो अभि प्र युङ्क्ष्व दमया सपत्नान् । इन्द्रो मरुत्वान् अधि ते ब्रवीतु तस्मा उ त्वं हविषा भागधा असः । शतं हेमन्तान् दमया सपत्नान् विशस् त्वा सर्वा अनु गुङ्गवो भवन्तु
अनुवाक १३ ॥ भगाय राज्ञे प्रथमं जुहोमि विश्वे देवा उत्तरे मादयन्ताम् । उशन् पत्नीभ्य उशतीभ्य आभ्यः पतिम् अग्न आ वह रातहव्यः
पतिं वृणीष्व हविषा गृणाना तम् आ वहात् सविता तं ते अग्निः । तस्मै नमस्व शतशारदाय भगभक्ता भगवती सुवीरा
यम् अर्यमन् पतिम् अस्यै दिदेशिथ जने चित् सन्तं तम् इहा वहासि । सुमङ्गल्य् अपतिघ्नी सुशेवा रायस्पोषेण तम् इषा सचस्व
यं ते पतिम् अर्यमा जायमानायै धाता चकल्प तम् इहा वहासि । अभिवरेण हविषा जुहोमि प्रजानन्न् ऐतु सुमनस्यमानः
पतिं ते द्यावापृथिवी अधातां पतिं मित्रावरुणा वातो अग्निः । सप्त र्षयो ऽदितिः सोम इन्द्रस् ते त्वा देवाः पतिवत्नीं कृण्वन्तु
यस् त्वारायः प्रविवेश- -अजानिर् जनिवाꣳ उत । अथो यस् तन्वं पस्पर्श तम् इतो निर् णयामसि
निष् ट्वाराय नयामसि य इमां प्रविवेशिथ । आत्मानम् अस्या मा हिंसीर् अन्यत्र चर मेह भूः
यद् अरायेमाम् उपायसि धेह्य् अस्यै रयिपोषणम् । प्रजां चिद् अस्या मा हिंसीर् अन्यत्र चर मेह भूः
यद् अरायेहायसि हनाम वीरुधा त्वा । अथो खनित्रिमैस् त्वा- -आद् वृषेण यथाभगम्
यद् अरायासूयं स्त्रैषूयम् आवतोक्यम् । यत् पैतृषद्यं दौर्भाग्यं तद् इतो निर् णयामसि
अग्नेर् वो बलवतो बलेन मन्युं वि नयामसि ॥इन्द्रस्य वो बलवतो बलेन मन्युं वि नयामसि ॥सोमस्य वो बलवतो बलेन मन्युं वि नयामसि ॥बृहस्पतेर् वो बलवतो बलेन मन्युं वि नयामसि ॥प्रजापतेर् वो बलवतो बलेन मन्युं वि नयामसि ॥ यत् ते सूर्य दिवि देवेषु वर्चस् तस्य नो धेहि त्वम् असि प्रचेताः । अहं त्वद् उग्रस् त्विषितस् त्विषीमान् इमां वाचं वि साक्षीय
वातः पुरस्तात् पवसे नभस्वान् । नमस् ते विद्म ते नामधेयं मा नो हिंसीः
तपोजा अमूरो दक्षिणतः पवसे नभस्वान् । नमस् ते विद्म ते नामधेयं मा नो हिंसीः
विश्वायुर् विश्वजनीनः प्रतीच्या दिशः पवसे नभस्वान् । नमस् ते विद्म ते नामधेयं मा नो हिंसीः
शिवो वैश्वदेव उदीच्या दिशः पवसे नभस्वान् । नमस् ते विद्म ते नामधेयं मा नो हिंसीः
अतिष्ठावान् बार्हस्पत्य ऊर्ध्वाया दिशः पवसे नभस्वान् । नमस् ते विद्म ते नामधेयं मा नो हिंसीः
अपाद्यौद् अपाततनद् अपस्कन्द्य वधेद् अहिम् । कल्याण्या यथा स्मितं शम् उ नः सन्तु विद्युतः
यत् पर्जन्य स्तनयति सर्वं संविजते जगत् । पतिं तद् ऋत्वियावती पृथिवी प्रति मोदते
एष एना अभ्य् अक्रन्दीद् वृषाश्वो धेनुका इव । अहींस् त्वं विद्युता जहि मास्माकं पुरुषान् वधीः
अभिक्रन्दात् स्तनयित्नोर् अवस्फूर्जाद् अशन्या उत । देवा मरुतो मृडत नः पातु नो दुरिताद् अवद्यात्
ऋजीते परि णो नम- -आदित्याः शर्म यच्छत । युयुत पर्णिनं शरम् उतापर्णं रिशादसः
अनुवाक १४ ॥ कृतव्यधनि विध्य तं यश् चकार तम् इज् जहि । न त्वाम् अचक्रुषे वयं वधाय सं शिशीमहे
यथा ते देव्य् ओषधे प्रतीचीनं फलं कृतम् । एवा त्वं कृत्वने कृत्यां हस्तगृह्य परा णय
पुनः कृत्यां कृत्याकृते गोधेवावटम् अन्व् अयत् । सक्तुर् इव सक्तुप्रेष्यं प्रतीची प्रति दध्वसत्
यां ते चक्रुर् वर्तनेषु वार्ताकुषु वृतासु च । मण्डूके कृत्यां यां चक्रुस् तया कृत्याकृतो जहि
अग्निर् इवैतु प्रतिकूलम् अनुकूलम् इवोदकम् । सुखे रथ इव वर्ततां कृत्या कृत्याकृतं कृता
अग्निर् द्युम्नेन सूर्यो ज्योतिषा द्यौर् महिम्नान्तरिक्षं व्यचसा । दिश आशाभिः पृथिवी पयोभिर् इदं राष्ट्रं वर्धयन्तु प्रजावत्
त्वष्टा रूपेण सविता सवेन- -अहर् मित्रेण वरुणेन रात्री । पूषा पुष्टैर् भगो अंशेन भक्त्या- -इदं राष्ट्रं वर्धयन्तु प्रजावत्
यां विश्वकर्मा निजघान मेथिम् अन्तरा द्यावापृथिवी उभे । तस्या आहुः क्षत्रियं गर्भम् एतं परि माव पत्था मूर्धनि धारयस्व
छन्दांस्य् अस्या अभितो मयूखा स्तोमा आत्मा यजुर् अस्याः पुरीषम् । तस्या आहुः क्षत्रियं निर्मितं परि माव पत्था मूर्धनि धारयस्व
परा णुदस्व व्यथयाभिमातिम् अधस्पदं कृणुष्व दुर्धरायतः । मा त्वा दभन् सपत्ना दिप्सन्तस् तव राष्ट्रम् उत्तमं द्युम्नम् अस्तु
इदं तन् मित्रावरुणा हविर् वां येनाग्रे देवा अमृतत्वम् आयन् । तेनास्मै क्षत्रम् अधि धारयौजो ऽसपत्नाः प्रदिशः सन्त्व् अस्मै
घृतस्य धारा मित्रावरुणा दुहां वां धेनुर् अनपस्फुरन्ती । देवः सवितोत वायुर् अग्निर् भूतस्य पतिर् इह शर्म यच्छात्
शं नस् तन् मित्रावरुणा गृणीतं तृढा अमित्रा बहुधा वि शेराम् । जयतु सेनोप घोष एतु पृथक् सत्वानो बहुधा भरन्ताम्
हनाम मित्रावरुणाव् अमित्रान् भवाम भद्रे सुकृतस्य लोके । पारयान् नः सविता देवो अग्निर् जयामेदं हविषा कश्यपस्य
वातो यं मित्रावरुणा तद् आह विश्वन्तरं निर्मितं कश्यपस्य । अध्वर्यवो मरुतो यस्यासन् तेन देवेभ्यो वरिमाणि चक्रुः
अचिक्रदत् स्वपा इह भवद् अग्ने यजस्व रोदसी उरूची । आमुं नय नमसा रातहव्यो युञ्जन्तु सुप्रजसं पञ्च जनाः
दूरे चित् सन्तम् अरुषास इन्द्रम् आ च्यावयन्तु सख्याय विप्रम् । यद् गायत्रीं बृहतीम् अर्कम् अस्मै सौत्रामण्यादधृषन्तु देवाः
अद्भ्यस् त्वा राजा वरुणो जुहाव सोमस् त्वायं ह्वयतु पर्वतेभ्यः । इन्द्रस् त्वायं ह्वयतु विड्भ्य आभ्यः श्येनो भूत्वा विश आ पतेमाः
श्येनं हविर् नयत्व् आ परस्माद् अन्यक्षेत्रे अपरुद्धं चरन्तम् । अश्विना पन्थां कृणुतां सुगं ते गर्भं सजाता अभि सं विशध्वम्
श्येनं हविः कश्यपस्योप शिक्ष- -इन्द्रं वातः प्रहितो दूत आ वह । विषह्य शत्रून् सेनाग्रैर् विशो वृणानो ऽव गच्छ कामी
यस् ते हवं परितिष्ठात् सजात उत निष्टियः । अपाच इन्द्र तान् नीत्वा- -अथेमम् अव गमय
ह्वयन्तु त्वा पञ्च जनाः पतिं मित्रा अवृषत । इन्द्राग्नी विश्वे देवा विशि क्षेमम् अदीधरन्
प्रजापतिर् अनवर्तिः स प्रजाभिर् अनवर्तिः । स मानवर्तिर् अनवर्तिं कृणोतु
इन्द्रो ऽनवर्तिः स वीर्येणानवर्तिः । (…)
सोमो ऽनवर्तिः स ओषधीभिर् अनवर्तिः । स मानवर्तिर् अनवर्तिं कृणोतु
आपो ऽनवर्तयस् ताः पर्जन्येनानवर्तयः । ता मानवर्तयो ऽनवर्तिं कृण्वन्तु
देवा अनवर्तयस् ते ऽमृतेनानवर्तयः । ते मानवर्तयो ऽनवर्तिं कृण्वन्तु
अनुवाक १५ ॥ पयो मह्यम् ओषधयः पयो मे वीरुधो दधन् । अपां पयस्वद् यत् पयस् तन् मे वर्षन्तु वृष्टयः
पयो मह्यं पयस्वन्तो हस्तिनो मे पयो दधन् । पयः पतत्रिणो मह्यम् ऐणेया मे पयो दधन्
पयस्वन् मे क्षेत्रम् अस्तु पयस्वद् उत धान्यम् । अहं पयस्वान् भूयासं गावो म उत पयस्वतीः
पयो मह्यम् अप्सरसो गन्धर्वा मे पयो दधन् । पयो मे विश्वा भूतानि वातो दधातु मे पयः
पयो मह्यं द्यावापृथिवी अन्तरिक्षं पयो दधत् । पयो म इन्द्रश् चाग्निश् च धाता दधातु मे पयः
अहं बिभर्मि ते मनो अहं चित्तम् अहं व्रतम् । ममेद् अपि क्रताव् असो मम चित्ते सचावहै
आमना अस इहमना अस इह ते रमतां मनः । मयि ते रमतां मनः
आञ्जनस्य मधुघस्य कुष्ठस्य नलदस्य च । वीरोदेकस्य मूलेन मुखे निमन्दनं कृतम्
मधु मे अन्तर् आस्ये मुखे निमन्दनं कृतम् । तत्रो त्वं वि वर्तस्व नराचीव वर्तसि
यथा नेमी रथचक्रं समन्तं परिषस्वजे । एवा परि ष्वजस्व मा यथासन् मयि ते मनः
यथेदम् अश्विना तृणं वातो वहति भूम्याः । एवा वयं वहामसि यां वयं कामयामहे
उत् त्वा माता स्थापयतु प्र त्वा नुदताम् अश्विना । अधा शिशुर् इव मातरं माम् एवान्व् एतु ते मनः
यथा क्षीरं च सर्पिश् च मनुष्याणां हृदः प्रियम् । एवाहम् अस्या नार्या हृदो भूयासम् उत्तरः
अग्नेष् ट्वा तपस् तपतु वातस्य ध्राजिः । मा स्पृक्षथा निषदनाय साधव उत् तिष्ठ प्रेह्य् अग्निवत् ते कृणोमि
सूर्यस्य त्वा तपस् तपतु वातस्य ध्राजिः । मा स्पृक्षथा निषदनाय साधव उत् तिष्ठ प्रेहि सूर्यवत् ते कृणोमि
हिरण्यपुष्पी सुभगा कूपश् चायं सुमङ्गलः । ताव् एनां भद्रया धत्ताम् अमृताव् अमृते भगे
हिरण्यं पृड्वद् धरितं तत् ते अङ्गेषु रोहतु । तेनेमाम् अश्विना नारीं भगेनाभि षिञ्चतम्
यथा कूपम् उदहृतस् तृष्यन्तो यन्ति कामिनः । एवा त्वा सर्वे देवरः पतयो यन्तु कामिनः
हिरण्याक्षि मधुवर्णे हिरण्यपरिचर्तने । अङ्को हिरण्ययस् तव तेनास्यै पतिम् आ वह
यदि वासि तिरो जनं यदि वा नद्यस् तिरः । इयं त्वा मह्यम् ओषधिर् अङ्केनेव न्य् आ नयात्
पुनः प्राणं पुनर् अपानम् अस्मै पुनर् व्यानम् उत सोम धेहि । आत्मायं चक्षुर्उदते समानस् तम् ऊ नु पाहि तम् ऊ नु जिन्व जागृहि
त्वष्टा रूपेण सविता सवेन- -अहर् मित्रेण वरुणेन रात्री । इन्द्रो ज्यैष्ठ्येन ब्रह्मणायं बृहस्पतिः पूषास्मै पुनर् असुं दधातु
य आदित्या वसवो ये च रुद्रा विश्वे देवा अदितिर् या च रात्री । यज्ञो भगः सविता ये च देवा यमो ऽस्मै पुनर् असुं दधातु
पुनस् ते राजा वरुणो ददातु सोमो राजासुम् इत् ते पुनर् दात् । इन्द्रो मरुद्भिर् अश्विना ते भिषज्यताम् अग्नी रुद्रो ऽसुम् इत् ते पुनर् दात्
पुनर् द्यौर् देवी पुनर् अन्तरिक्षम् अग्निर् वातः पवमानो भिषज्यतु । ग्राह्याः पाशान् निरृत्याः पाशान् मृत्योः पाशाद् वाक् त्वा देवी पुनर् ददातु
अनुवाक १६ ॥ इदं चक्षुर् ऋतावरी मा मा हासीत् पुरायुषः । यद् वां तमो यद् रिपिशम् अप वां तन् नि दध्मसि
यद् अन्धियं यद् अल्गणं यो ऽर्मो अधिरोहति । अयस्मयस् तद् अङ्कुशो अक्ष्णो ऽर्मम् अप लुम्पतु
यम् अह्याजिम् अजयन् नृचक्षा यं वा श्येनः शकुनिर् यं सुपर्णः । यद् आहुश् चक्षुर् अदितेर् अनन्तं सोमो नृचक्षा मयि तद् दधातु
यथा चक्षुः सुपर्णस्य यथाश्वस्य यथा शुनः । एवा मे अश्विना चक्षुः कृणुतं पुष्करस्रजा
यस्याः सुपर्णः प्रपतञ् चक्षुषा चक्षुर् आददे । तस्याः समुद्रजे तव चक्षुषा चक्षुर् आ ददे
अग्निं ते हरः सिषक्तु यातुधान स्वाहा ॥वातं ते प्राणः सिषक्तु यातुधान स्वाहा ॥सूर्यं ते चक्षुः सिषक्तु यातुधान स्वाहा ॥अन्तरिक्षं ते श्रोत्रं सिषक्तु यातुधान स्वाहा ॥परमां ते परावतं मनः सिषक्तु यातुधान स्वाहा ॥ अपस् ते रसः सिषक्तु यातुधान स्वाहा ॥ओषधीस् ते लोमानि सिषचन्तु यातुधान स्वाहा ॥पृथिवीं ते शरीरं सिषक्तु यातुधान स्वाहा ॥समुद्रं ते वाक् सिषक्तु यातुधान स्वाहा ॥निरृत्यास् त्वासनि जुहोमि यातुधान स्वाहा ॥ इदं ते शिरो भिनद्मि यातुधान स्वाहा- -इदं ते मस्तिष्कं नि तृणद्मि भूम्याम्
इदं ते हनू भिनद्मि यातुधान स्वाहा- -इदं ते जिह्वां नि तृणद्मि भूम्याम्
इदं ते ग्रीवा भिनद्मि यातुधान स्वाहा- -इदं ते स्कन्धान् नि तृणद्मि भूम्याम्
इदं ते अंसौ भिनद्मि यातुधान स्वाहा- -इदं ते बाहू नि तृणद्मि भूम्याम्
इदं ते हृदयं भिनद्मि यातुधान स्वाहा- -इदं ते क्लोमानं नि तृणद्मि भूम्याम्
इदं ते पृष्टीर् भिनद्मि यातुधान स्वाहा- -इदं ते पर्शूर् नि तृणद्मि भूम्याम्
इदं ते श्रोणी भिनद्मि यातुधान स्वाहा- -इदं ते वस्त्रं नि तृणद्मि भूम्याम्
इदं त ऊरू भिनद्मि यातुधान स्वाहा- -इदं ते जङ्घे नि तृणद्मि भूम्याम्
इदं ते कुल्फौ भिनद्मि यातुधान स्वाहा- -इदं ते पादौ नि तृणद्मि भूम्याम्
इदं ते त्वचं भिनद्मि यातुधान स्वाहा- -इदं ते प्राणान् नि तृणद्मि भूम्याम्
इदं ते परूंषि भिनद्मि यातुधान स्वाहा- -इदं ते मज्ज्ञो नि तृणद्मि भूम्याम्
नर्दमोदलवुन्तक जिष्णो हापराजितः । अमुं भ्रूणान्य् अर्पय स्वयं पाशं न्य् आयति
असुर् ऐतु सहक्रतुर् आत्मा प्राणो अथो बलम् । स नो दधातु भद्रया- -अग्निर् विश्वाद् वसुमान् स्वस्तये
दक्षिणा मा दक्षिणतो दक्षिणा पातु सव्यतः । पश्चाद् अनुव्याधात् पातु पुरस्तात् पातु दक्षिणा
शतम् आपो दिव्या मित्रस्य च दक्षिणाः । धाता सविताद् रुद्रस् ते नो मुञ्चन्त्व् अंहसः
शतं पाशा वरुणस्य ब्रह्मणस्पतेर् उ शतम् । मर्तात् पाशान् नो वि ष्य शतात् पाशेभ्यो वयं त्वाम्
अनुवाक १७ ॥ प्राचीं दिशम् आस्थाम् अग्निर् मावत्व् ओजसे बलाय दिशां प्रियो भूयासम् । अनमित्रा मे दिशो भवन्तु घृतप्रतीकाः
दक्षिणां दिशम् आस्थाम् इन्द्रो मावत्व् ओजसे बलाय (…)
प्रतीचीं दिशम् आस्थां वरुणो मावत्व् ओजसे बलाय (…)
उदीचीं दिशम् आस्थां सोमो मावत्व् ओजसे बलाय (…)
ध्रुवां दिशम् आस्थां विष्णुर् मावत्व् ओजसे बलाय (…)
ऊर्ध्वां दिशम् आस्थां बृहस्पतिर् मावत्व् ओजसे बलाय दिशां प्रियो भूयासम् । अनमित्रा मे दिशो भवन्तु घृतप्रतीकाः
मनाय्यै तन्तुं प्रथमं पश्चेद् अन्या अतन्वत । तन् नारीः प्र ब्रवीमि वः साध्वीर् वः सन्तूर्वरीः
साधुर् वस् तन्तुर् भवतु साधुर् ओतुर् अथो वृता । अथो होर्वरीर् यूयं प्रातर् वोढेव धावत
खर्गला इव पत्वरीर् अपाम् उग्रम् इवायनम् । पतन्तु पत्वरीर् इव- -उर्वरीः साधुना पथा
अवाच्यौ तोतुद्येते तोदेनाश्वतराव् इव । प्र स्तोमम् उर्वरीणां शशयानाम् अस्ताविषम्
नारी पञ्चमयूखं सूत्रवत् कृणुतं वसु । अरिष्टो अस्य वस्ता प्रेन्द्र वास उतौ तिर
शास इत्था महाꣳ अस्य् अमित्रघातो अद्भुतः । न यस्य हन्यते सखा न जीयते कदा चन
वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज । वि मन्युम् इन्द्र वृत्रहन्न् अमित्रस्याभिदासतः
वि न इन्द्र वि मृधो जहि नीचा यच्छ पृतन्यतः । अधमं गमया तमो यो अस्माꣳ अभिदासति
स्वस्तिदा विशां पतिर् वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः
अपेन्द्र द्विषतो मनो ऽप जिज्यासतो वधम् । वि महच् छर्म यच्छ वरीयो यावया वधम्
अयं यो ऽतितरो मणिस् तेनाति तर दुश्यसः । सपत्नान् द्विषतो मणे प्र णुदस्व पृतन्यतः
प्र णुदस्व प्र सहस्व सपत्नान् द्विषतो मणे । तराभिमातिं दुश्यसां वर्चो भङ्ग्धि पृतन्यताम्
वर्चो जहि मन्युं जह्य् आकूतिं द्विषतां मणे । देवो यो ऽतितरो मणिस् तेनाति तर धूर्वतः
ये धूर्वन्ति ये द्रुह्यन्ति ये द्विषन्ति पृतन्यतः । सर्वान् सपत्नांस् ते मणिर् नि मन्युं द्विषतस् करत्
तव चित्ते तव व्रते तवैवाधस्पदं चरान् । देवो यो ऽतितरो मणिस् तेनाति तर दुश्यसः
आ ते मनश् चक्षुष्यम् आ ते हृदय्यं ददे । पदोष् टे पद्यम् आ ददे यथा तिष्ठासि मे वशे
वाञ्छ मे पादौ तन्वं वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ । अक्ष्यौ वृषण्यन्त्याः केशा ओष्ठौ मां ते कामेन शुष्यताम्
मयि त्वा दोषणिश्लिषं कृणोमि हृदयश्लिषम् । यथा मम क्रताव् असो ममासश् चेद् असीद् अपि
यासां नाभिर् आरेहणं हृदि संवननं कृतम् । गावो घृतस्य मातरो अमूं सं वानयन्तु मे
मह्यं त्वा द्यावापृथिवी मह्यं देवी सरस्वती । मह्यं त्वेन्द्रश् चाग्निश् च- -अहोरात्रे नि यच्छताम्
तूलि मूल्य् अर्जुनि पुनर् वो यन्तु यातवः पुनर् जूतिः किमीदिनीः । यस्य स्थ तम् अत्त यो वः प्राहैत् तम् अत्त स्वा मांसान्य् अत्त
अत्स्यवो जिघत्सवः (…)
अविष्यवस् पास्यवः (…)
स्फातिहारी रसहारीः (…)
वातजूते मनोजवः पुनर् वो यन्तु यातवः पुनर् जूतिः किमीदिनीः । यस्य स्थ तम् अत्त यो वः प्राहैत् तम् अत्त स्वा मांसान्य् अत्त
Using this in academic work? Get formal citation
Tradição Védica (Ṛṣis) (2026). Atharvaveda Paippalāda — Kāṇḍa 2. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-2
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 2." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-2.
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 2." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-2.