Atharvaveda Paippalāda — Kāṇḍa 5
Tradição Védica (Ṛṣis)
अनुवाक ८ ॥ काण्ड ५ नमः पिशङ्गबाह्वै सिन्धौ जाताया उग्रायै । यो अस्यै नम इत् करद् अपेद् अस्य गृहाद् अयत्
अपेहि नो गृहेभ्यो अपेहि वत्सतन्त्याः । आत्मानम् अत्र रोत्स्यस्य् अव रोह महानसात्
हा अम्ब सुहूतले अथो है सामनन्तमे । पुत्रो यस् ते पृश्निबाहुस् तम् उ त्वं सामनं कृधि । अथो दुहितरं नप्त्रीम् अथो त्वं सामना भव
भूतपतिर् निर् अजत्व् इन्द्रश् चेतः सदान्वाः । गृहस्य बुध्न आसीनास् ता वज्रेणाधि तिष्ठतु
अपेतेतः सदान्वा अहिंसन्तीर् इमं गृहम् । धेनुर् वात्र य स्थास्यत्य् अनड्वान् वेरया सह
या सहमाना चरसि सासहान इव र्षभः । सदान्वाघ्नीं त्वा वयं जैत्रायाच्छा वदामसि
सहस्व नो अभिमातिं सहस्व पृतनायतः । सहस्व सर्वा रक्षांसि सहमानास्य् ओषधे
त्वं व्याघ्रान् सहसे त्वं सिंहाꣳ उभयादतः । मक्षाश् चित् कृण्वाना मधु त्वं सहस ओषधे
इयं पित्रे राष्ट्र्य् एत्य् अग्रे प्रथमाय जनुषे भूमनिष्ठाः । तस्मा एतं सुरुचं ह्वारम् अह्यं घर्मं श्रीणन्ति प्रथमस्य धास्योः
ब्रह्म जज्ञानं प्रथमं पुरस्ताद् वि सीमतः सुरुचो वेन आवः । स बुध्न्या उपमा अस्य विष्ठाः सतश् च योनिम् असतश् च वि वः
प्र यो जज्ञे विद्वाꣳ अस्य बन्धुं विश्वानि देवो जनिमा विवक्ति । ब्रह्म ब्रह्मण उज् जभार मध्यान् नीचाद् उच्चा स्वधा अभि प्र तस्थौ
महान् मही अस्कभायद् वि जातो द्यां द्वितः पार्थिवं च रजः । स बुध्नाद् आष्ट्र जनुषाभ्य् अग्रं बृहस्पतिर् देवता तस्य सम्राट्
नूनं तद् अस्य गव्यं हिनोति महो देवस्य पूर्वस्य महि । एष जज्ञे बहुभिः साकम् इत्था पूर्वाद् अर्धाद् अविथुरश् च सन् नु
स हि दिवः स पृथिव्या ऋतेष्ठा महि क्षामन् रजसी वि ष्कभायति । अहर् यच् छुक्रं ज्योतिषो जनिष्ट- -अधा द्युमन्तो वि वसन्त्व् अरिप्राः
एवाथर्वा पितरं विश्वदेवं बृहस्पतिर् नमसावोचद् अच्छ । त्वं विश्वस्य जनिता धास्य् अग्रे कविर् देवान् न दभाय स्वधावः
मूर्ध्ना यो अग्रम् अभ्यर्त्य् ओजसा बृहस्पतिम् आ विवासन्ति देवाः । भिनद् वलं वि मृधो दर्दरीति कनिक्रदद् गाः स्वर् अपो जिगाय
उद् अपप्तद् असौ सूर्यः पुरुदृष्टो अदृष्टहा । उदायन् रश्मिभिर् हन्तु- -उदायन्न् अरसाꣳ अकः
न्य् अम्रुचद् असौ सूर्यो विश्वदृष्टो अदृष्टहा । निम्रोचन् रश्मिभिर् हन्तु निम्रोचन्न् अरसाꣳ अकः
ये च दृष्टा ये चादृष्टा उभयेहाविष्यवः । तेषां वो अग्रभं नाम सर्वे साकं नि जस्यत
अदृष्टहननी वीरुद् अमितौजा विषासहि । चुकाकणि त्वं जज्ञिषे सादृष्टाञ् जातशो जहि
जहि ज्येष्ठम् अदृष्टानां सर्पाणां मोघचारिणाम् । क्रिमीणां सर्वा जातानिपौञ्जष्ट इव यवं मृण
यश् च तोदो यश् च सर्प एकादशश् च यो वृषा । चुकाकणि त्वं तान् वृश्च वृक्षं परशुमान् इव
सं वृश्चैनांश् चुकाकणि वृक्षं परशुमान् इव । क्रिमीणां सर्वा जातानि सं दहाग्निर् इवोलपम्
मेथिष्ठा अग्निर् अघलस् त्विषीमान् क्रिमीणां जातानि प्र दुनोतु सर्वा । बृहस्पतेर् मेदिने जातवेदा अदृष्टान् हन्तु दृषदेव माषान्
ममाग्ने वर्चो विहवेष्व् अस्तु वयं त्वेन्धानास् तन्वं पुषेम । मह्यं नमन्तां प्रदिशश् चतस्रस् त्वयाध्यक्षेण पृतना जयेम
अग्ने मन्युं प्रतिनुदन् परेषां त्वं नो गोपाः परि पाहि विश्वतः । अपाञ्चो यन्तु प्रबुधा दुरस्यवो ऽमैषां चित्तं बहुधा वि नश्यतु
मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुर् अग्निः । ममान्तरिक्षम् उरुलोकम् अस्तु मह्यं वातः पवतां कामे अस्मिन्
मह्यं यजन्तां मम यानीष्टा- -आकूतिः सत्या मनसो मे अस्तु । एनो मा नि गां कतमच् चनाहं विश्वे देवा अभि रक्षन्तु माम् इह
मह्यं देवा द्रविणम् आ यजन्तां ममाशीर् अस्तु मम देवहूतिः । दैवा होतारः सनिषन् न एतद् अरिष्टाः स्याम तन्वा सुवीराः
देवीः षड् उर्वीर् उरु णस् कराथ विश्वे देवास इह मादयध्वम् । मा हास्महि प्रजया मा धनेन मा रधाम द्विषते सोम राजन्
उरुव्यचा नो महिषः शर्म यच्छाद् अस्मिन् वाजे पुरुहूतः पुरुक्षुः । स नः प्रजायै हर्यश्व मृड- -इन्द्र मा नो रीरिषो मा परा दाः
धाता विधर्ता भुवनस्य यस् पतिः सविता देवो अभिमातिषाहः । बृहस्पतिर् इन्द्राग्नी अश्विनोभा देवाः पान्तु यजमानं निरृथात्
इहार्वाञ्चम् अति ह्वय इन्द्रं जैत्राय जेतवे । अस्माकम् अस्तु केवल इतः कृणोतु वीर्यम्
अर्वाञ्चम् इन्द्रम् अमुतो हवामहे यो गोजिद् धनजिद् अश्वजिद् यः । इमं नो यज्ञं विहवे जुषस्व- -अस्माकं कृण्मो हरिवो मेदिनं त्वा
त्रातारम् इन्द्रम् अवितारम् इन्द्रं हवेहवे सुहवं शूरम् इन्द्रम् । हुवेम शक्रं पुरुहूतम् इन्द्रं स्वस्ति नो मघवान् पात्व् इन्द्रः
तिस्रो देवीर् महि मे शर्म यच्छन् प्रजायै मे तन्वे यच् च पुष्टम् । मां विशः संमनसो जुषन्तां पित्र्यं क्षेत्रं प्रति जानात्व् अस्मान्
यो नः शक्राभिमन्युना- -इन्द्रामित्रो जिघांसति । त्वं तं वृत्रहञ् जहि वस्व् अस्मभ्यम् आ भर
ये नः शपन्त्य् अप ते भवन्त्व् इन्द्राग्निभ्याम् अप बाधामहे तान् । आदित्या रुद्रा उपरिस्पृशो माम् उग्रं चेत्तारम् अधिराजम् अक्रन्
पृथिवी वशा साग्निं गर्भं दधे सेमं पाहि तस्यै ते विधेयं तस्यै ते नमस् तस्मै ते स्वाहा
अन्तरिक्षं वशा सा वायुं गर्भं (…)
द्यौर् वशा सा सूर्यं गर्भं (…)
ऋग् वशा सा साम गर्भं (…)
दक्षिणा वशा सा यज्ञं गर्भं (…)
विड् वशा सा क्षत्रियं गर्भं (…)
वाग् वशा सा परमेष्ठिणं गर्भं (…)
वशा वशा सा राजन्यं गर्भं (…)
समा वशा सा संवत्सरं गर्भं दधे सेमं पाहि तस्यै ते विधेयं तस्यै ते नमस् तस्मै ते स्वाहा
अनुवाक १ ॥ सप्त सूर्या दिवम् अनुप्रविष्टास् तान् पथा वा अन्व् एति दक्षिणावान् । ते ऽस्मै सर्वे घृतम् आ तपन्त्य् ऊर्जं दुहाना अनपस्फुरन्तः
आतपन् क्षयति नीचा दासव्याधी निष्टपन् । अधायत्पत्रः सूर्य उद् एति बृहतीर् अनु
आतप्ता पितॄन् विद्म दस्यून् निष्टप्ता वयम् । गुहा ये ऽन्ये सूर्याः स्वधाम् अनु चरन्ति ते
द्यौः सचते ऽपराञ् जनासः पञ्चान्ये परो दिव आ क्षियन्ति । तां ब्रह्म दिवं बृहद् आ विवेश यस् तान् प्रवेद प्रतरम् अतीर्यत
यो ददाति यो ददते यो वा निधीन् श्रद्दधानो निधत्ते । यमो वैवस्वतान् राजा सर्वान् रक्षतु शेवधीन्
मा विदन् पर्यायिणो ये दक्षिणाः परिमुष्णन्ति दत्तम् । सुगेन तान् पथा सर्वान् यमो राजाति नेषति
येन पथा वैवस्वतो यमो राजेतो ययौ । अग्निर् नस् तेन नयतु प्रजानन् वैश्वानरः पथिकृद् विश्वगृष्टिः
महि ज्योतिर् निहितं मर्त्येषु येन देवासो अतरन्न् अरातीन् । तेनेमं सेतुम् अति गेष्म सर्वे वैश्वानरं ज्योतिर् अमीव देवाः
उद् वयं तमसस् परि ज्योतिष् पश्यन्त उत्तरम् । देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम्
आरोको भ्राजः पटरः पतङ्गः स्वर्णरो ज्योतिषीमान् विभासः । ते ऽस्मै सर्वे घृतम् आ तपन्त्य् ऊर्जं दुहाना अनपस्फुरन्तः
समुत्पतन्तु प्रदिशो नभस्वतीः सम् अभ्राणि वातजूतानि यन्तु । महर्षभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु
सम् ईक्षयति विष्वग्वातो नभांस्य् अपां वेगासः पृथग् उत् पतन्तु । वर्षस्य सर्गा महयन्तु भूमिं पृथग् जायन्ताम् ओषधयो विश्वरूपाः
अभि क्रन्द स्तनयार्दयोदधिं भूमिं पर्जन्य पयसा सम् अङ्धि । त्वया वर्षं बहुलम् एतु सृष्टम् आशारैषी कृशगुर् एत्व् अस्तम्
उद् ईरयत मरुतः समुद्रतस् त्वेषा अर्का नभ उत् पातयन्तु । प्र वर्षयन्ति तविषाः सुदानवो ऽपां रसैर् ओषधयः सचन्ताम्
गणास् त्वोप गायन्तु मारुताः पर्जन्य घोषिणः पृथक् । सर्गा वर्षस्य वर्षतः सृजन्तु पृथिवीम् अभि
सम् अवन्तु सुदानव उत्सा अजगरा उत । वाता वर्षस्य वर्षतः प्र वान्तु पृथिवीम् अनु
वातो विद्युद् अभ्रं वर्षं सम् अवन्तु सुदानवः । प्र प्यायस्व प्र पिन्वस्व सं भूमिं पयसा सृज
अपाम् अग्निस् तनूभिः संविदानो य ओषधीनाम् अधिपा बभूव । स नो वर्षं वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस् परि
आशाम्-आशां वि द्योततां वाता वान्तु दिशो-दिशः । मरुद्भिः प्रच्युता मेघा वर्षन्तु पृथिवीम् अभि
प्रजापतिः सलिलाद् आ समुद्राद् आप ईरयन्न् उदधिम् अर्दयाति । प्र प्यायतां वृष्णो अश्वस्य रेतो ऽर्वाङ् एतेन स्तनयित्नुनेह्य् अपो निषिञ्चन्न् असुरः पिता नः
श्वसन्तु गर्गरा अपाम् अव नीचीर् अपः सृज । वदन्तु पृश्निबाहवो मण्डूका ईरिणानु
संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः । वाचं पर्जन्यजिन्वतां प्र मण्डूका अवादिषुः
उपप्रवद मण्डूकि वर्षम् आ वद तादुरि । मध्ये ह्रदस्य प्लवस्व विगृह्य चतुरः पदः
महान्तं कोशम् उद् अचाभि षिञ्च सविद्युतं भवतु वातु वातः । तन्वतां यज्ञं बहुधा विसृष्टम् आनन्दिनीर् ओषधयो भवन्तु
यावती द्यावापृथिवी वरिम्णा यावद् वा सप्त सिन्धवो वितष्ठुः । वाचं विषस्य दूषणीं ताम् इतो निर् अवादिषम्
सुपर्णस् त्वा गरुत्मान् विष प्रथमम् आवयत् । नारोपयो नामादय उतास्मा अभवत् पितुः
यां त्वास्थत् पञ्चाङ्गुलिर् वक्राच् चिद् अधि धन्वनः । अपस्कम्भस्य बाह्वोर् निर् अवोचम् अहं विषम्
शल्याद् विषं निर् अवोचम् अञ्जनात् पर्णधेर् उत । अपाष्ठाच् छृङ्गात् कुर्मलान् निर् अवोचम् अहं विषम्
अरसस् त इषो शल्यो ऽथो ते ऽरसं विषम् । उतारसस्य वृक्षस्य धनुष् टे अरसारसम्
ये +ऽपीषन् ये ऽदिहन् य आस्यन् ये ऽवासृजन् । सर्वे ते वध्रयः सन्तु वध्रिर् विषगिरिष् कृतः
वध्रयस् ते खनितारो वध्रिस् त्वम् अस्य् ओषधे । वध्रिः स पर्वतो गिरिर् यतो जातम् इदं विषम्
वार् इदं वारयातै वरुणावत आभृतम् । तत्रामृतस्यासिक्तं तच् चकारारसं विषम्
खादिरेण शलिलेन- -अथो कङ्कतदन्त्या । अथो विषस्य यद् विषं तेन पापीर् अनीनशम्
कित्या शतपर्वणा सहस्राक्षेण चर्मणा । तीक्ष्णाभिर् अभ्रिभिर् वयं निर् अजामः सदान्वाः
सहः सहस्वत्य् असि- -इतः कण्वाः परो ऽनुदः । इमा या अधुनागता याश् चेह ग्रहणीः पुरा
न ता इत्था न ता इहाव मासता उखेव शृङ्गवच् छिरः । सदान्वा ब्रह्मणस्पते तीक्ष्णशृङ्गोदृषन्न् इहि
वि ते नु मन्थाः शश्रिरे बिभिदे ते गदोहनी । ददौ ते अद्य गौः कण्वे परेह्य् अवरं मृणे
यास् तर्के तिष्ठन्ति या वलीके याः प्रेङ्खे प्रेङ्खयन्त उत या नु घोराः । या गर्भान् प्रमृशन्ति सर्वाः पापीर् अनीनशम्
याश् चेलं वसत उत या नु दूर्शं नीलं पिशङ्गम् उत लोहितं याः । या गर्भान् प्रमृशन्ति सर्वाः पापीर् अनीनशम्
आखिदन्तीर् विखिदन्तीः प्राणम् अस्यापि नह्यत । दुर्णाम्नीः सर्वाः संगत्य मामुष्योच् छिष्ट किं चन
इयं या मुसलाहता दृषत्पिष्टा विषासुता । तपुर् अग्निस् तपुर् द्यौस् तपुस् त्वं सुरे भव
विषं ते तोक्म रोहयन्तो ऽब्रुवन् विषं कुम्भे ऽव स्रव । विषं त आमनं सुरे विषं त्वं हस्त आहिता विषं प्रतिहिता भव
सिंहस् ते अस्तु तण्डुलो व्याघ्रः पर्योदनम् । पृदाकूर् अस्तु नग्नहुर् वृकस्य हृदि सं स्रव
इयं या पात्र आसूता शष्पस्रक्वा विघस्वरी । वराहमन्युर् अजन्य् उत्तानपादम् अर्दय
उदर्दनी प्रच्यवनी पांसुपिङ्गा विघस्वरी । उत्खातमन्युर् अजनि यत् पश्चात् तत् पुरस् कृधि
विषं ते पवने सुरे रुधिरं स्थाले अस्तु ते । मथ्नन्त्व् अन्यो अन्यस्मा इषुधींस् त्वद् धनुस् त्वत्
विषपावानो रुधिराश् चरन्ति पातारो मर्तास् तवसे सुर इमे । हतासो अन्ये योधयन्त्य् अन्यांस् तम् इच् छंस महिमानं सुरायाः
तान् वीरुधो विस्रवो बलेन- -उत् पातय मादय योधनायै । भिन्नारत्नीर् भिन्नशीर्ष्णा सम् ऋच्छताम् आर्तचेलो विस्रवन् ते सुरापः
विषासुतां पिबत जर्हृषाणा अस्ना संसृष्टं रुधिरेण मिश्राम् । छिन्नहस्तश् चरति ग्रामे अन्तर् वैरहत्यानि बहुधा पणायन्
असिमतीम् इषुमतीम् उन् नयामि सताद् अधि । मादयाभि मादय- -अहिर् इवैनान् प्र रोपय- -अन्यो ऽन्यस्य मोच् छिषन्
अनुवाक २ ॥ अनु ते मन्यताम् अग्निर् वरुणस् ते ऽनु मन्यताम् । ततस् ते पुत्रो जायतां स वर्मी गोषु युध्यताम्
इदं वायो ऽनु जानीहि- -इदम् इन्द्र बृहस्पते । आञ्जनं पुत्रवेदनं कृण्मः पुंसवनं वयम्
येनैतत् परिष्टभितं यस्मात् पुत्रं न विन्दसे । इन्द्राग्नी तस्मात् त्वैनसः परि पाताम् अहर्दिवि
अथर्वाणो अङ्गिरसो विश्वे देवा ऋतावृधः । शृण्वन्त्व् अद्य मे हवम् अस्यै पुत्राय वेत्तवे
इन्द्राणी वरुणानी सिनीवाल्य् उतादितिः । वरुत्र्य् उग्रा पत्नीनां पुत्रम् अद्य दिदेष्टु ते
पुत्रं ते मित्रावरुणा पुत्रं देवी सरस्वती । पुत्रं ते अश्विनोभा- -आ धत्तां पुष्करस्रजा
येषां च नाम जग्रभ येषां च नोपसस्मर । देवास् ते सर्वे संगत्य पुत्रं जैवातृकं ददन्
आत्मन एनं निर् मिमीष्व स त्वत् परि जायताम् । त्वं बीजम् उर्वरेव त्वं बिभृहि योन्याम्
पृथिवी सह यज्ञैर् नक्षत्रैः सह सूर्यः । वातः पतत्रिभिः सह पुत्रम् अद्य दिदेष्टु ते
वृषा जज्ञे मधवानो ऽयं मधुमतीभ्यः । स उ ते योनिम् आ शयां बड् दक्षः पुरुषो भवन्
योनिं गच्छ मधवान योन्यां पुरुषो भव । ततः पुनर् निर् आयसि शीर्ष्णा श्रोणी विनोनुदत्
बाणवाꣳ इषुधेर् इव कृण्वन् पित्रोर् यथा प्रियम् । श्रोणी अहिंसन्न् अन्तरा दशमे मास्य् आयसि
स प्रत्यङ् प्रत्यावर्त्ता- -इते संवत्सरे पुनः । यथा जीवासि भद्रया बिभरत् त्वा महाभवे
सं ते योनिम् अचीक्ल्̥पं सुप्रजास्त्वाय भद्रया । तत्रा सिञ्चस्व वृष्ण्यं दशमास्यम् अविह्रुतम्
गर्भस् ते योनिम् आ शयां गर्भो जराय्व् आ शयाम् । कुमार उल्बम् आ शयां त्वष्ट्रा क्ल्̥प्तो यथापरु
यथा राजन् मधवान त्वं बीजं विरोहसि । एवा त्वम् अस्या निर् भिन्धि कुमारं योन्या अधि
गर्भम् अधान् मधवानो गर्भं देवो बृहस्पतिः । गर्भं त इन्द्रश् चाग्निश् च गर्भं धाता दधातु ते
शिवः शिवाभिर् वयस्वन् सं गच्छस्व तन्वा जातवेदः । रत्नं दधानः सुमनाः पुरस्ताद् गृहेभ्यस् त्वा वर्चसे निर् वपामि
पृथिव्यां घर्म स्तभितो ऽन्तरिक्षे दिवि श्रितः । द्यौर् एनं सर्वतः पातु यस् त्वा पचत्य् ओदन
ये समुद्रम् ऐरयन् ये च सिन्धुं ये ऽन्तरिक्षं पृथिवीम् उत द्याम् । ये वातेन सरथं यान्ति देवास् तान् आप्नोत्य् ओदनपाको अत्र
ऋचा कुम्भ्य् अधिहिता साम्ना पच्यत ओदनः । अंशुं सोमस्यैतं मन्ये वैश्वदेवम् इदं हविः
उलूखले मुसले ये च शूर्पे भूम्याम् उखायां यद् इवाससञ्ज । या विप्रुषो यानि निर्णेजनानि सर्वं तत् ते ब्रह्मणा पूरयामि
ऊर्ध्वः प्रेहि मा सं विक्था व्य् अस्य रजो अन्तरम् । रक्षांसि सर्वा तीर्त्वा- -अथा रोह दिवं त्वम्
तुरो नो अतुरो भव सं धीभिर् धीयताम् अयम् । सं पृथिव्या सम् अग्निना सं सूर्यस्य रश्मिभिः सं देवानाम् अपस्यया
आजद्द्विषः सुकृतस्य लोके तृतीये नाके अधि रोचने दिवः । मृत्योः पदं योपयन्तो न्व् एत पश्चा निकृत्य मृत्युं पदयोपनेन
भूत्या मुखम् असि सत्यस्य रश्मिर् उच्चैःश्लोको दिवं गच्छ । उच् छ्रयेथां हविष्कृतौ साधु देवान् सपर्यतम् ऋजीषम् अप लुम्पतम्
आपो देवीर् यज्ञकृतश् चित्रा देवीर् हविष्कृतः । एकपात्र ओदनो ऽग्निष्टोमेन संमितः
गायत्री हव्यवाड् असि देवताग्निः सम् इध्यसे । सहस्रधारं सुकृतस्य लोके घृतपृष्ठम् अमर्त्यौ
तपश् च सत्यं चौदनं प्राश्नीतां परमेष्ठिनौ । ताभ्यां वै स्वर् आभृतं तेनाधिपतिर् उच्यसे
उरुगायो *ऽसि वायोः प्राणेन संमितः । अप मृध्राणि मज् जहि मुक्षीय दुरिताद् अहम्
अप रक्षांसि तेजसा देवेभ्यो हव्यम् अर्च तम् । व्यचस्वान् सप्रथा असि
उच्चैः सुपर्णो दिवम् उत् पतामुं प्रियं देवेभ्यो मा कृण्व् ऋषिभ्यः परि देहि माम् । शुक्रं शुक्रेण भक्षया पिबन्तु सुकृतो मधु
द्वया देवा उप नो यज्ञम् आगुर् यान् ओदनो जुषते यैश् च पृष्टः । आदित्या अङ्गिरसः स्वर्गम् इमं प्राश्नन्त्व् ऋतुभिर् निषद्य
पीयूषस्य क्षीरस्य सर्पिषो ऽन्नस्याग्रं सं भराम एतत् । एतं भागम् अहुताद्भ्यः प्र हिण्मस् तन् नो हविः प्रति गृहन्तु देवा दैवाः
हुतादो ऽन्ये ऽहुतादो ऽन्ये वैश्वदेवं हविर् उभये सं चरन्ति । ते सम्यञ्च इह मादयन्ताम् इषम् ऊर्जं यजमानाय मत्स्व
मेमा भवो मा शर्वो वधीद् गा मा वत्सान् क्लोमश्वयो विदन् नः । ये जाता ये च गर्भेष्व् अन्तर् अरिष्टा अग्ने स्तनम् आ रभन्ताम्
इमा गावो विजावतीः प्रजावती स्त्रीषु संमनसो भवन्तु । आसु भूमान्य् अपि पृञ्चन्तु देवा आसां वत्सान् आयुषा मेदसा सं सृजामि
प्र वीयन्तां स्त्रियो गावो विष्णुर् योनिम् अनु कल्पयाति । प्रतिगृह्णतीर् ऋषभस्य रेत उक्षानड्वांश् चरति वासिताम् अनु
प्रयतम् अग्रं न हिनस्ति किं चन यथाकामं कृणुत सोम्यं मधु । साधु यज्ञम् अहुतादो नयन्तु रायस्पोषा यजमानं सचन्ताम्
नि ते पदां पृथिवी यन्तु सिन्धव उद् ओषधयो जिहतां प्रेरताम् इराः । पर्जन्यस्य मरुत उदधिं सान्व् आ हत भद्रं सस्यं पच्यतां मोदतां जगत्
सप्त ऋषयः सप्त सदांस्य् एषां दश क्षिपो अश्विनोः पञ्च वाजाः । प्राणो व्यानो मन आकूतिर् वाग् देवी देवेभ्यो हव्यं वहतु प्रजानती
ये च दृष्टा ये चादृष्टाः क्रिमयः किकृशाश् च ये । तेषां शिरांस्य् असिना छिनद्म्य् अथासां वत्सान् आयुषा मेदसा सं सृजामि
अनुवाक ३ ॥ द्यौश् चेमं यज्ञं पृथिवी च सं दुहातां मातरिश्वा पवमानः पुरस्तात् । त्वष्टा वायुः सह सोमेन वात इमं सं दुह्राम् अनपस्फुरन्तः
घर्मं तपाम्य् अमृतस्य धारया देवेभ्यो हव्यं परिदे सवित्रे । शुक्रं देवाः शृतम् अदन्तु हव्यम् आसञ् जुह्वानम् अमृतस्य योनौ
उद् वासयाग्नेः शृतम् अकर्म हव्यम् आ रोह पृष्ठम् अमृतस्य धाम । वनस्पतय उप बर्हि स्तृणीत मध्वा समन्तं घृतवत् कराथ
यो ऽप्सु यक्ष्मः शमयामि तं व ऊर्जा गव्यूतिं सम् अनज्म्य् एताम् । स्तन्यं क्षीरम् अविषं वः कृणोम्य् असुं धयन्तो ऽपि यूथम् एत
इडानां पुत्रा उत मित्रियाणां पयो धयन्त्व् अहृणीयमानाः । ऋतुभिः सस्यम् उत क्ल्̥प्तम् अस्त्व् इर्यो गोपा रक्षतु वायुर् एनाः
पिबत घृतं यतिधा व एतद् गुहा हितं निहितं मानवेषु । विश्वे देवा वैश्वदेवश् चाग्नौ यथाभागं हविषो मादयध्वम्
यो देवानाम् असि श्रेष्ठो रुद्रस् तन्तिचरो वृषा । अरिष्टा अस्माकं वीरा एतद् अस्तु हुतं तव
पूर्णम् अहं करीषिणं शतवन्तं सहस्रिणम् । विश्वेभिर् अग्ने देवैर् इमं गोष्ठं सहारुहम्
देवैनसाद् उन्मदितं क्षेत्रियाच् छपथाद् उत । मुञ्चन्तु तस्मात् त्वा देवा उन्मत्तं रक्षसस् परि
मुनिं भवन्तं परि यानि वावृतू रक्षांस्य् अग्न उलुला करिक्रतु । अतस् त्वं नो अधि पाहि वाजिन्न् इन्द्रेण मेदी बृहते रणाय
यथाग्ने देवा ऋभवो मनीषिणो मुनिम् उन्मत्तम् असृजन् निर् एनसः । एवा ते शक्रो अभयं कृणोतु मुच्यस्वैनसो वि नयामि रक्षः
यथा गावश् च भूम्यां पुरुषाश् च न्योकसः । एवोन्मत्तस्य ते मुने गृह्णातु पृथिवी मनः
मुनिं दाधार पृथिवी मुनिं द्यौर् अभि रक्षति । मुनिं हि विश्वा भूतानि मुनिम् इन्द्रो अदीधरत् परा रक्षः सुवामि ते
इमं मे अग्ने पुरुषं मुमुग्धि य आवित्तो ग्राह्या लालपीति । अतो *ऽधि ते कृणवद् भागधेयम् अनुन्मदितो अगदो यथासत्
अग्निष् टे नि शमयतु यत् त एतन् मन उह्यते । जुहोमि विद्वांस् ते हविर् यथानुन्मदितो भुवः
पुनस् त्वा दुर् अप्सरसः पुनर् वातः पुनर् दिशः । पुनर् यमः पुनर् यमस्य दूतास् ते त्वा मुञ्चन्त्व् अंहसः । जिवातवे न मर्तवे ऽथो अरिष्टतातये
उत देवा अवहितं देवा उद् धरता पुनः । उतो मरिष्यन्तं देवा दैवाः कृणुथ जीवसे
आ त्वागमं शंतातिभिर् अथो अरिष्टतातिभिः । दक्षं ते भद्रम् आहार्षं परा सुवाम्य् आमयत्
द्वाव् इमौ वातौ वात आ सिन्धोर् आ परावतः । दक्षं ते अन्य आ वातु परान्यो वातु यद् रपः
आ वात वाहि भेषजं वि वात वाहि यद् रपः । त्वं हि विश्वभेषजो देवानां दूत ईयसे
त्रायन्ताम् इमं देवास् त्रायन्तां मरुतो गणैः । त्रायन्तां विश्वा भूतानि यथायम् अगदो ऽसति
घृतेन द्यावापृथिवी घृतेनापः सम् उक्षत । घृतेन मुच्यस्वैनसो यद् आत्मकृतम् आरिथ
अयं मे हस्तो भगवान् अयं मे भगवत्तरः । अयं मे विश्वभेषजो ऽयं शिवाभिमर्शनः
हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी । अनामयित्नुभ्यां शंभुभ्यां ताभ्यां त्वाभि मृशामसि
आप इद् वा उ भेषजीर् आपो अमीवचातनीः । आपो विश्वस्य भेषजीस् तास् ते कृण्वन्तु भेषजम्
सहृदयं सांमनस्यम् अविद्वेषं कृणोमि वः । अन्यो अन्यम् अभि हर्यत वत्सं जातम् इवाघ्न्या
अनुव्रतः पितुः पुत्रो मात्रा भवतु सव्रतः । जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम्
मा भ्राता भ्रातरं द्विक्षन् मा स्वसारम् उत स्वसा । सम्यञ्चः सव्रता भूत्वा वाचं वदत भद्रया
येन देवा न वियन्ति नो च विद्विषते मिथः । तत् कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः
ज्यायस्वन्तश् चित्तिनो मा वि यौष्ट संराधयन्तः सधुराश् चरन्तः । अन्यो अन्यस्मै वल्गु वदन्त एत समग्रा स्थ सध्रीचीनाः
समानी प्रपा सह वो ऽन्नभागः समाने योक्त्रे सह वो युनज्मि । सम्यञ्चो ऽग्निं सपर्यत- -अरा नाभिम् इवाभितः
येन देवा हविषा यजत्रा अप पाप्मानम् अघ्नत । क्रोधं मन्युम् अनृतं भामं दुरुक्तम् अभिशोचनम् आरे यक्ष्मं नि दध्मसि
सध्रीचीनान् वः संमनसः कृणोम्य् एकश्नुष्टीन् संवननेन संहृदः । देवा इवेद् अमृतं रक्षमाणाः सायंप्रातः सुसमितिर् वो अस्तु
परो ऽपेहि परश् चर परस् तर्द परस्तरम् । अग्नेर् वातस्य ध्राज्या अप बाधे अहं त्वाम्
उदकस्येदम् अयनं वातस्येदं निभञ्जनम् । अग्नेर् धूमस्यायं पन्था नेह तर्दायनं तव
परि त्वा कृष्णवर्तनिर् अग्निर् धूमेनार्चिषा । स त्वं तर्द परश् चर- -अन्यत् तर्द्धि तृणं यवात्
ये तर्दा असुरेषिता देवेभिर् इषिताश् च ये । सर्वांस् तान् ब्रह्मणा वयं शलभाञ् जम्भयामसि
शलभस्य शलभ्यास् तर्दस्यो पतत्रिणः । अग्नेर् वातस्य ध्राज्या- -अपि नह्याम आस्यम्
इदं यद् गवि भेषजं विश्वाद् रूपात् समाभृतम् । आखोर् घुणस्य तर्दस्य तेषां स्नाव्नापि नह्यत
दृष्टा त्वम् असि गन्धेन- -ओषधिर् घुणजम्भनी । आखोर् घुणस्य जातानि तानि जम्भय तेजसा
तूलं तर्दस् तृणस्यात्तु मूलम् आखुर् धियेषितः । अथो वृक्षस्य फल्गु यद् घुणा अदन्तु मा यवम्
अनुवाक ४ ॥ द्यौश् च नः पिता पृथिवी च माता- -अग्निश् च नृचक्षा जातवेदाः । ते तक्मानम् अधराञ्चं न्यञ्चं दशाह्नम् अस्यन्त्व् अधि दूरम् अस्मत्
तक्मन् यं ते क्षेत्रभागम् अपाभजं पृथिव्याः पूर्वे अर्धे । अतिहाय तम् अथ नो हिनस्सि ग्राहिः किल त्वा ग्रहीष्यति किलासशीर्षः
तक्मन् पर्वता इमे हिमवन्तः सोमपृष्ठाः । वातं दूतं भिषजं नो अक्रन् नश्येतो मरटाꣳ अभि
न त्वा स्त्रियः कामयन्ते न पुमांसः कतमे चन । नेह तक्मकाम्या- -अल्पो रोदिति नो महान्
मा नो हिंसीर् महतो मा हिंसीर् मह्यस् त्वम् । कुमारान् बभ्रो मा हिंसीर् मा नो हिंसीः कुमार्यः
यः साकम् उत्पातयसि बलासं कासम् उद्रजम् । भीमास् ते तक्मन् हेतयस् ताभि ष्म परि वृङ्धि नः
अन्यक्षेत्रे न रमते सहस्राक्षो ऽमर्त्यः । अभूद् उ प्रार्थस् तक्मा स उ नो मृडयिष्यति
तक्मन् न त इहाश्वा न गावो नेह ते गृहाः । शकम्भरस्य मुष्टिहा पुनर् गच्छ महावृषान्
यौ हेमन्तं स्वापयथो बलेन- -अर्वाग् देवेभ्य उत यौ परो दिवः । भवारुद्रयोः सुमतिं वृणीमहे ऽन्यत्रास्मद् अघविषा व्य् एतु
यो द्याम् आतनोति यो ऽन्तरिक्षं स्तभ्नात्य् ओजसो जायमानः । तस्मै रुद्राय हविषा विधेम- -अन्यत्रास्मद् अघविषा व्य् एतु
ययोर् वधान् नापपद्यते किं चन- -अन्तर् देवेषूत मानुषेषु । ताभ्यां रुद्राभ्यां हविषा विधेम- -अन्यत्रास्मद् अघविषा व्य् एतु
याव् ईशाते पशूनां पार्थिवानां चतुष्पदाम् उत वा ये द्विपादः । ताभ्यां रुद्राभ्यां हविषा विधेम- -अन्यत्रास्मद् अघविषा व्य् एतु
यस्य प्रतिहितायाः सं विशन्त आरण्याः पशव उत ग्राम्यासः । तस्मै रुद्राय हविषा विधेम- -अन्यत्रास्मद् अघविषा व्य् एतु
यस्माद् ओषधयो बर्भ्रियमाणा यन्ति यस्माद् वृक्षासो न वियन्ति विश्वे । वयांसि यस्मात् प्रचरन्ति भीषा तस्मै रुद्राय हविषा विधेम- -अन्यत्रास्मद् अघविषा व्य् एतु
यः पर्वतान् विदधे ऽति विद्वान् यो भूतानि कल्पयति प्रजानन् । तस्मै रुद्राय हविषा विधेम- -अन्यत्रास्मद् अघविषा व्य् एतु
याव् ईशानौ चरतो द्विपदो ऽस्य चतुष्पदः । या उग्रौ क्षिप्रधन्वानौ ताभ्यां रुद्राभ्यां हविषा विधेम- -अन्यत्रास्मद् अघविषा व्य् एतु
पुनश् चक्षुः पुनः प्राणं पुनर् आयुर् धेहि नो जातवेदः । रुद्र जलाषभेषज विद्वांसस् त एना हविषा विधेम- -अन्यत्रास्मद् अघविषा व्य् एतु
ईशानं त्वा भेषजानां विजेषाय वृणीमहे । चक्रे सहस्रवीर्यं सरस्वान् ओषधे त्वा
सत्यजितं शपथयावनीं सहमानां पुनःसराम् । सर्वाः सम् अह्व्य् ओषधीर् इतो मा पारयान् इति
या शशाप शपनेन या वा घ मूरम् आदधे । या वा रसस्य प्राशाय- -आरेभे तोकम् अत्तु सा
प्रतीचीनफलो हि त्वम् अपामार्ग बभूविथ । सर्वान् मच् छपथाꣳ अधि वरीयो यावया त्वम्
यच् च भ्रातृव्यः शपति यच् च जामिः शपाति नः । ब्रह्मा यन् मन्युतः शपात् सर्वं तन् नो अधस्पदम्
यां ते चक्रुर् आमे पात्रे यां सूत्रे नीललोहिते । आमे मांसे कृत्यां यां चक्रुस् तया कृत्याकृतो जहि
दुष्वप्न्यं दुर्जीवितं रक्षो अभ्वम् अराय्यः । दुर्वाचः सर्वं दुर्भूतं तद् इतो नाशयामसि
क्षुधामारं तृष्णामारम् अगोताम् अनपत्यताम् । अपामार्ग त्वया वयं सर्वं तद् अप मृज्महे
समा भूमिः सूर्येण- -अह्ना रात्री समावती । कृणोमि सत्यम् ऊतये अरसाः सन्तु कृत्वरीः
यो देवाः कृत्यां कृत्वा हराद् अविदुषो गृहम् । वत्सो धारुर् इव मातरं तं प्रत्यग् उप पद्यताम्
अमा कृत्वा पाप्मानं यस् तयान्यं जिघांसति । अश्मानस् तस्यां दग्धायां बहुलाः फट् करिक्रतु
सहस्रधामन् विशिखान् विग्रीवाञ् छायया त्वम् । प्रति स्म चक्रुषे कृत्यां प्रियां प्रियावते हर
या चकार न शशाक शश्रे पादम् अङ्गुलिम् । चकार भद्रम् अस्मभ्यम् अभगा भगवद्भ्यः
अनयाहम् ओषध्या सर्वाः कृत्या अदूषयम् । यां क्षेत्रे चक्रुर् यां गोभ्यो यां वा ते पुरुषेभ्यः
अपामार्गो ऽप मार्ष्टु क्षेत्रियं शपथांश् च मत् । अपाह यातुधान्यो ऽप सर्वा अराय्यः
अपमृज्य यातुधानान् अप सर्वा अराय्यः । अपामार्ग प्रजया त्वं रय्या सचस्व नः
उतेवास्य् अबन्धुकृद् उतास्य् अनुजामिकः । उतो कृत्याकृतः प्रजां नडम् इवा छिन्धि वार्षिकम्
ब्राह्मणेन पर्युक्तो ऽसि कण्वेन नार्षदेन । सेनेवैषि त्विषीमती न तत्र भयम् अस्ति यत्र प्राप्नोष्य् ओषधे
अग्रे ऽस्य् ओषधीनां ज्योतिषेवाभिदीपयन् । उत पाकस्य त्रातास्य् उत हन्तासि रक्षसः
यद् अदो देवा असुरांस् त्वयाग्रे निरकृण्वत । तस्माद् अधि त्वम् ओषधे अपामार्गो अजायथाः
विभिन्दती शतशाखा विभिन्दन् नाम ते पिता । प्रत्यग् वि भिन्धि तं त्वं यो अस्माꣳ अभिदासति
असद् भूम्याः सम् अभवत् तद् द्याम् एति बृहद् वचः । तद् इत् ततो विधूमयत् प्रत्यक् कर्तारम् ऋच्छतु
प्रत्यङ् हि संबभूविथ प्रतीचीनफलस् त्वम् । प्रतीचीः कृत्या आकृत्य- -अमुं कृत्याकृतं जहि
शतेन मा परि पाहि सहस्रेणाभि रक्ष मा । इन्द्रस् ते वीरुधां पत उग्र ओज्मानम् आ दधौ
अनुवाक ५ ॥ अरात्या द्यावापृथिवी छिन्तं मूलम् अथो शिरः । विच्छिद्य मध्यतः पृष्टीस् तां कृण्वाथाम् अधस्पदम्
इदं शृणु जातवेदो यद् अमुष्या वचो मम । अरात्याः सर्वम् इच् छिरः प्रश्नं वृहतम् अश्विना
या स्वप्नया चरति गौर् भूत्वा जनाꣳ अनु । अरातिम् इन्द्र त्वं जहि ताम् अग्निर् इवसा दहात्
श्रेष्ठो मे राजा वरुणो हवं सत्येन गच्छतु । अरातिं हत्वा सन्तोकाम् उग्रो देवो ऽभि दासतु
देष्ट्री च या सिनीवाली सप्त च श्रोत्या याः । अरातिं विश्वा भूतानि घ्नन्तु दासीम् इवागसि
सोमो राजौषधीभिः सूर्याचन्द्रमसा उभा । अरातिं सर्वे गन्धर्वा घ्नन्त्व् अप्सरसश् च याः
भवो राजा भवाशर्वाव् इन्द्रो वायुर् बृहस्पतिः । त्वष्टा मे अध्यक्षः पूषा ते ऽरातिं घ्नन्तु सर्वदा
ये च देवा भूमिचरा ये चामी दिव्य् आसते । ये अन्तरिक्षस्येशते ते ऽरातिं घ्नन्तु सव्रताः
या चेषितासुरैर् देवेभिर् इषिता च या । अथो या मन्योर् जायते ऽरातिं हन्मि ब्रह्मणा
तद् इन् नु मे अचच्छदन् महद् यक्षं बृहद् वपुः । विश्वैर् यद् देवैर् निरृतिस् तना युजा सं मृत्योर् इह जायते
अमम्रिश्चित्साप्रथोवददहिम् अहिराजन्तम् ओजसा । आयुं चित् कुत्सम् अतिथिग्वम् अर्दय वि निकिल्बिन्दम् ओजसा
यावती द्यावापृथिवी वरिम्णा यावद् वा सप्त सिन्धवो महित्वा । तावती निरृतिर् विश्ववारा विश्वस्य या जायमानस्य वेद
विश्वस्य हि जायमानस्य देवि पुष्टस्य वा पुष्टपतिर् बभूविथ । नमो ऽस्तु ते निरृते मा त्व् अस्मान् परा भुजो नापरं हातयासि
देवीम् अहं निरृतिं मन्यमानः पितेव पुत्रं न सचे वचोभिः । विश्वस्य या जायमानस्य वेद शिरःशिरः प्रति सूरो ऽनु तस्थे
असुन्वन्तम् अयजमानम् इच्छ स्तेनस्येत्यां तस्करस्यानु शिक्ष । स्वपन्तम् इच्छ सा त इत्या नमस् तु ते निरृते ऽहं कृणोमि
असुन्वकान् निरृतिः संजिघत्सुर् नास्याः पिता विद्यते नोत माता । मध्यात् स्वस्राम् अनु जघान सर्वं न देवानाम् असुर्यं सम् आप
यद् अस्य पारे तमसः शुक्रं ज्योतिर् अजायत । तन् नः पर्षद् अति द्विषो ऽग्ने वैश्वानर द्युमत्
प्रमुच्यमानं भुवनस्य गोपः पशुं नो अत्र प्रति भागम् एतु । अग्निर् यज्ञं त्रिवृतं सप्ततन्तुं देवो देवेभ्यो हव्यं वहतु प्रजानन्
यौ ते दंष्ट्रौ सुदिहौ रोपयिष्णू निर् ह्वयेते दक्षिणाः सं च पश्यतः । अनाष्ट्रं नः पितरस् तत् कृणोतु यूपे बद्धं प्रमुमुचिमा यद् अन्नम्
अह्रस्तस् त्वम् अविदुष्टः परेहि- -इन्द्रस्य गोष्ठम् अपि धाव विद्वान् । धीरासस् त्वा कवयः सं मृजन्त्व् इषम् ऊर्जं यजमानाय मत्स्व
ऋषिभिष् ट्वा सप्तभिर् अत्रिणाहं प्रति गृह्णामि भुवने स्योनम् । जमदग्निः कश्यपः स्वाद्व् एतद् भरद्वाजो मध्व् अन्नं कृणोतु । प्रतिग्रहीत्रे गोतमो वसिष्ठो विश्वामित्रो ददुषे शर्म यच्छात्
यन् नो अग्रं हविष आजगाम- -अन्नस्य पात्रम् उत सर्पिषो वा । यद् वा धनं वहतोर् आजगाम- -अग्निष् टद् धोता सुहुतं कृणोतु
यद् आज्यं प्रतिजग्रभ यांश् च व्रीहीन् अजं चन्द्रेण सह यज् जघास । बृहस्पतिर् हविषो नो विधर्ता मा नो हिंसीच् छागो अश्वो वशा च
अग्निर् न एतत् प्रति गृह्णातु विद्वान् बृहस्पतिः प्रत्य् एतु प्रजानन् । इन्द्रो मरुत्वान् सुहुतं कृणोत्व् अयक्ष्मम् अनमीवं ते अस्तु
यन् नो ददुर् वराहम् अक्षितं वसु यद् वा तल्पम् उपधानेन नः सह । यद् वावियूथं सह वृष्ण्या नो अग्निष् टद् धोता सुहुतं कृणोतु
यन् नः शालां विश्वभोगाम् इमां ददुर् गृहं वा योक्त्रं सह कृत्त्योत । यद् वा हर उपनाहेन देवा अग्निष् टद् धोता सुहुतं कृणोतु
सूर्ये वर्च इति यच् छुश्रवाहं येन प्रजा ज्योतिरग्राश् चरन्ति । सोमे वर्चो यद् गोषु वर्चो मयि देवा राष्ट्रभृतस् तद् अक्रन्
यज्ञे वर्चो मरुतो यद् अदृंहन् वायुः पशून् असृजत् सं भगेन । गन्धर्वाणाम् अप्सरसां यद् अप्सु मयि (…)
यज्ञे वर्चो यजमाने च वर्च उदाभिषिक्ते राजनि यच् च वर्चः । दक्षिणायां वर्चो अधि यन् (…)
रथे वर्चो रथवाहने च वर्च इषुधौ वर्चः कवचे च वर्चः । अश्वेषु वर्चो अधि यन् (…)
सभायां वर्चः समित्यां च वर्चो वध्वां वर्च उत वर्चो वरेषु । सुरायां वर्चो अधि यन् (…)
सिंहे वर्च उत वर्चो व्याघ्रे वृके वर्चो मधुहारे च वर्चः । श्येने वर्चः पत्वनां यद् बभूव (…)
हिरण्यवर्चसम् उत हस्तिवर्चसं संग्रामं यज् जज्ञुषां वर्च आहुः । कृष्यां क्षेत्र ऋषयो जन्यानजुर् मयि देवा राष्ट्रभृतस् तद् अक्रन्
मयि वर्चो मयि श्रवो मयि द्युम्नं मयि त्विषिः । अधस्पदं पृतन्यवो ऽहं भूयासम् उत्तमः
पयस्वतीर् ओषधयः पयस्वन् मामकं वचः । अथो पयस्वतां पय आ हरामि सहस्रशः
अहं वेद यथा पयश् चकार धान्यं बहु । संभृत्वा नामा यो देवस् तं वयं यजामहे सर्वस्यायज्वनो गृहे
यथा द्यौश् च पृथिवी च तस्थतुर् धरुणाय कम् । एवा स्फातिं नि तनोमि मयारेषु खलेषु च
यथा कूपः शतधारः सहस्रधारो अक्षितः । एवा मे अस्तु धान्यं सहस्रधारम् अक्षितम्
शतहस्त समाहर सहस्रहस्त सं किर । यथेह स्फातिर् आयति कृतस्य कार्यस्य च
इमा याः पञ्च प्रदिशो मानवीः पञ्च कृष्टयः । सर्वाः शंभूर् मयोभुवो वृष्टे शापं नदीर् इव- -इह स्फातिं समावहान्
इह स्फातिर् ओषधीनां देवानाम् उत संगमः । इहैवाश्विनोर् अस्तु द्वापराश्वो रुहत्
तिस्रो मात्रा गन्धर्वाणां चतस्रो गृहपत्न्याः । तासां या स्फातिर् उत्तमा तया त्वाभि मृशामसि
ज्येष्ठस्य त्वाङ्गिरसस्य हस्ताभ्याम् आ रभामहे । यथासद् बहुधान्यम् अयक्ष्मं बहुपूरुषम्
अनुवाक ६ ॥ अत्यासरत् प्रथमा धोक्ष्यमाणा सर्वान् यज्ञान् बिभ्रती वैश्वदेवी । उप वत्सं सृजत वाश्यते गौर् व्य् असृष्ट सुमना हिं कृणोति
बधान वत्सम् अभि धेहि भुञ्जतीं नि द्य गोधुग् उप सीद दुग्धि । इडाम् अस्मा ओदनं पिन्वमाना कीलालं घृतं मदम् अन्नभागम्
सा धावतु यमराज्ञः सवत्सा सुकृतां पथा प्रथमेह दत्ता । अतृष्ट दत्ता प्रथमेदम् आगन् वत्सेन गां सं सृज विश्वरूपाम्
प्रथमेदम् आगन् प्रथमा दत्तेताद् यस्मिꣳल् लोके सद्य उ त्वा ददाति । सैनं धेनो प्रथमा पारयासि श्रद्धया दत्ता परमे व्योमन्
जानीहि स्म संस्कृते धेनो गोपतिं यस् त्वा ददाति प्रथमां स्वधानाम् । पूर्वा हि तत्र सुकृतः परेह्य् अथैष ऐता जरसः परस्तात्
अति धेनुर् अनड्वाहम् अत्य् अन्यद् वयो अक्रमीत् । अति वत्सानां पितरं ऋषभं प्रतिमासरत्
ज्योतिष्मती सुकृतो याहि सूरे स्योनास् ते धेनो पतयो भवन्तु । सप्त त्वा सूर्या अन्वातपन्तु यमं धाव माति सरः पराचीः
दात्रे *ऽमुत्र मह्यं दुहाना- -उभौ लोकौ भुञ्जती वि क्रमस्व । इषम् ऊर्जं दक्षिणाः संवसाना भगस्य धाराम् अवसे प्रतीमः
सहस्राङ्गा शतं ज्योतींष्य् अस्या यज्ञस्य पप्रिर् अमृता स्वर्गा । सा न ऐतु दक्षिणा विश्वरूपा- -अहिंसन्तीं प्रति गृह्णीम एनाम्
ये ते पाशा वरुण सप्त सप्ततीस् त्रेधा तिष्ठन्ति विषिता रुशन्तः । सिनन्ति सर्वे अनृतं वदन्तं यः सत्यवाद्य् अति तं सृजन्ति
इह स्पशः प्र चरन्तीमे अस्य सहस्राक्षा अति पश्यन्ति भूमिम् । यो ऽस्य व्रतं प्रमिनाति कश् च न स मुच्यते वरुणस्य पाशात्
उतेयम् अस्य पृथिवी समीच्य् उतासौ द्यौर् बृहती दूरेअन्ता । उतो समुद्रो वरुणस्य कुक्षा उतास्मिन्न् अल्प उदके नमुक्तः
यस् तिष्ठति मनसा यश् च वञ्चति यो निलायं चरति यः प्रलायम् । द्वौ यद्यद् वदतः सन्निषद्य राजा तद् वेद वरुणस् तृतीयः
सर्वं तद् रजा वरुणो वि चष्टे यद् अन्तरा रोदसी यत् परस्तात् । संख्याता अस्य निमिषो जनानाम् अक्षान् न श्वघ्नी भुवना मिमीते
त्वम् एव राजन् वरुण धर्ता देवानाम् असि विश्वरूपः । दुश्चर्मास्त्व् अधमः पिशङ्गो यः सत्यां वाचम् अनृतेन हन्ति
यः समाम्यो वरुणो यो व्याम्यो यः सन्देश्यो वरुणो यो विदेश्यः । यो दैव्यो वरुणो यश् च मानुषः सर्वांस् त्वे तान् प्रति मुञ्चाम्य् अत्र
शतेन पाशैर् वरुणाभि धेहि मा ते मोच्य् अनृतवाङ् नृचक्षः । आस्तां जाल्म उदरं श्रंसयित्वा कोश इवाबन्ध्रः परिकृत्यमानः
उतो त्वत् प्र पातयत्य् उतो त्वद् अपि नह्यति । उतो त्वद् अस्वकं कृत्वा राजा वरुण ईयते
ऐनं छिनत्ति वरुणो नडं कशिपुने यथा । मूलं तस्य वृश्चति य एनं प्रमिमीषति
य इमां देवो मेखलाम् आबबन्ध यः संननाह य उ मा युयोज । यस्य देवस्य प्रशिषा चरामि स पारम् इच्छात् स उ मा वि मुञ्चात्
आहुतास्य् अभिहुत ऋषीणाम् अस्य् आयुधम् । पूर्वा व्रतस्य प्राश्नती वीरघ्नी भव मेखले
मृत्योर् अहं ब्रह्मचारी यद् अस्मि भूतान् निर्याचन् पुरुषं यमाय । तम् अहं ब्रह्मणा तपसा श्रमेण- -अनयैनं मेखलया सिनामि
अयं वज्रस् तर्पयतां व्रतेन- -अवास्य राष्ट्रम् अभि हन्तु जीवम् । भिनत्तु स्कन्धान् प्र शृणातूष्णिहाः
अधरोत्तरम् अधरोत्तरेण गूढः पृथिव्या मोत् सृपत् । वज्रेणावहतः शयाम्
यो जिनाति तम् अन्व् इच्छ यो जिनाति तम् इज् जहि । जिनतो वज्र सायक सीमन्तम् अन्वञ्चम् अनु पातय
यद् अश्नामि बलं कुर्वे वज्रम् आ ददा इति । स्कन्धान् अमुष्य शातयन् वृत्रस्येव शचीपतिः
यत् पिबामि सं पिबामि समुद्र इव संपिबः । प्राणान् अमुष्य संपिबन् सं पिबाम्य् अहं पिबम्
यद् गिरामि सं गिरामि समुद्र इव संगिरः । प्राणान् अमुष्य संगिरन् सं गिराम्य् अहं गिरम्
श्रद्धाया दुहिता तपसो ऽधि जाता स्वस र्षीणां भूतकृतां बभूव । सा नो मेखले मतिम् आ धेहि मेधाम् अथो नो धेहि तप इन्द्रियं च
यां त्वा पूर्वे भूतकृत ऋषयः परिबेधिरे । सा त्वं परि ष्वजस्व मा दीर्घायुत्वाय मेखले
अशं ते श्वश्रूर् वदतु श्वशुरस् ते अशन्तरम् । देवा ते अभिशोचनं ब्रह्म विद्वेषणं कृतम्
आ क्रन्दयोलुला कुरु वाचम् आ धेह्य् अप्रियाम् । शिरो लिप्सस्व हस्ताभ्यां केशास् ते अभिशोचनम्
ये केशा यौ प्रतिधी यत् कुरीरं य ओपशः । अथो ये ते स्वाः सन्ति सर्वे ते ते ऽभिशोचनम्
अप त्रस परिधानाद् उन्मादनं कृणोमि ते । अथो यत् ते स्वं वासः सर्वं तत् ते ऽभिशोचनम्
अर्कम् अद्धि प्र पतातो मुनिचक्षुं कृणोमि ते । अथो श्वभ्यो रायद्भ्यः प्रति स्म गङ्गणं कुरु
उत् तिष्ठारे पलायस्व मरीचीनां पदं भव । अथो यत् कार्यं कुर्व् आशां सम् ऋष मुष्कयोः
उप क्ष्वेदाभि चालय वातस् तूलम् इवैजय । दद्भिः संदश्य बाह्वोर् उदद्धि मुरवस्थिये
अभि गाय शाबलेयं शौणेयं साधुवाहिनम् । काल्माषेयस्य चर्कृध्य् आयतः प्रति चालय
ऋश्यपुच्छं शुनःपुच्छं वातरंहं मनोजवम् । तं ते रथं सं भरन्तु देवास् तेना चरासि पतिम् इच्छमाना
अग्नये सम् अनमन् तस्मै पृथिव्या सम् अनमन् । यथाग्नये पृथिव्या समनमन्न् एवा मह्यं संनमः सं नमन्तु । वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् । संनतय स्थ सं मे नमत स्वाहा
वायवे सम् अनमन् तस्मा अन्तरिक्षेण सम् अनमन् । यथा वायवे अन्तरिक्षेण समनमन् (…)
सूर्याय सम् अनमन् तस्मै दिवा सम् अनमन् । यथा सूर्याय दिवा समनमन् (…)
चन्द्राय सम् अनमन् तस्मै नक्षत्रैः सम् अनमन् । यथा चन्द्राय नक्षत्रैः समनमन् (…)
सोमाय सम् अनमन् तस्मा ओषधीभिः सम् अनमन् । यथा सोमायौषधीभिः समनमन् (…)
यज्ञाय सम् अनमन् तस्मै दक्षिणाभिः सम् अनमन् । यथा यज्ञाय दक्षिणाभिः समनमन् (…)
समुद्राय सम् अनमन् तस्मै नदीभिः सम् अनमन् । यथा समुद्राय नदीभिः समनमन् (…)
ब्रह्मणे सम् अनमन् तस्मै ब्रह्मचारिभिः सम् अनमन् । यथा ब्रह्मणे ब्रह्मचारिभिः समनमन् (…)
इन्द्राय सम् अनमन् तस्मै वीर्येण सम् अनमन् । यथेन्द्राय वीर्येण समनमन् (…)
देवेभ्यः सम् अनमन् तेभ्यो ऽमृतेन सम् अनमन् । यथा देवेभ्यो ऽमृतेन समनमन् (…)
प्रजापतये सम् अनमन् तस्मै प्रजाभिः सम् अनमन् । यथा प्रजापतये प्रजाभिः समनमन्न् एवा मह्यं संनमः सं नमन्तु । वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् । संनतय स्थ सं मे नमत स्वाहा
सप्त संनमो ऽष्टमी धीतिसाधनी । सकामान् अध्वनः कृणु संज्ञानम् अस्तु वो धने
अनुवाक ७ ॥ ये वारुणा उत नैरृता वनस्पतीनां वीरुधां च पाशाः । ये भौमा भूम्या अधि संबभूवुस् ते त्वा न हिंसाञ् छिवतातिर् अस्तु ते
ये अन्तरिक्षे दिवि ये च पाशा अन्ने विचृत्ता बहुधा सिनन्ति । ये पशुभ्यो अधि संबभूवुस् ते त्वा न हिंसाञ् छिवतातिर् अस्तु ते
यं मानुषं मनुष्याः शपन्ते यां वा होत्रां पित्र्याम् आरभन्ते । समाम्यो वरुणो य आजगाम स त्वा न हिंसाच् छिवतातिर् अस्तु ते
अपः प्रगाह्य यदि वा समामिषे अग्निम् आरेभिषे यदि वा समिद्धम् । विद्वान् अविद्वान् अनृतं यद् उवक्थ तत् त्वा न हिंसाच् छिवतातिर् अस्तु ते
यत् प्रतीच्यां दृषत्पिष्टाꣳ आमपेषाꣳ आमपात्रे पपाथ । हीनः सत्येनानृतं यद् उवक्थ तत् त्वा न हिंसाच् छिवतातिर् अस्तु ते
यं बाणवन्तं सुदिहं संभरन्ति यं वा हस्तं ब्राह्मणस्यारभन्ते । समाम्यो वरुणो यं जघान तस्य श्मशानाद् अधि लोष्ट आभृतः स त्वा न हिंसाच् छिवतातिर् अस्तु ते
यं ग्रावाणम् आरभन्ते येनांशून् अभिषुण्वन्ति सोमम् । यद् वा धनं धनकामो निरेमिषे क्षेत्रं गाम् अश्वं पुरुषं वोभयादत् तत् त्वा न हिंसाच् छिवतातिर् अस्तु ते
अपः प्रगाह्य यदि वा व्यामिषे अग्निम् आरेभिषे यदि वा समिद्धम् । जाम्या हस्तं कृतम् आरेभिषे धनुर् वोत्ततम् इति चक्रमिथ । मन्यौ वा राज्ञो वरुणस्यासि सक्तः स त्वा न हिंसाच् छिवतातिर् अस्तु ते
या ते प्रजापिहिता पराभूद् योनिर् वा मुग्धा निहिता पिशाचैः । आस्नानं वा यद् अभितष्ठाथ घोरं सर्वं तत् ते ब्रह्मणा सूदयामि
यद्य् अस्याः प्रजा वरुणेन गुष्पिता दुर्णामानो वा ऋत्वियम् अस्या रिहन्ति । द्वेषात् सापत्नाद् यदि चक्रुर् अस्या अयं ता नाष्ट्रा अप हन्त्व् अग्निः
अस्या स्त्रिया यदि लक्ष्मीर् अपुत्र्या गर्भो वास्या यातुधानैः पराभृतः । दुःस्वप्न्यं वा यत् स्वपती ददर्श- -इन्द्राग्नी तत् कृणुतां भद्रया पुनः
देवैनसाद् यदि पुत्रं न विन्दसे मनुष्याणां वा त्वा शपथो रराध । पितृभिर् वा ते यदि सूतः परिष्ठित इदं तं निष् कृण्मो जनयासि पुत्रम्
वैश्वानरो जन्मना जातवेदाः प्रजापतिः सिञ्चतु रेतो अस्याम् । बाधतां द्वेषो निरृतिं पराचैः पुत्रिणीम् इमां प्रस्वं कृणोतु
इह प्रजाम् अग्निर् अस्यै दधात्व् आदित्येभिर् वसुभिः संविदानः । विश्वे देवा हवम् आ यन्तु म इमं पुत्रो अस्या जायतां वीर्यावान्
येन देव्य् अदितिर् गर्भम् आदधे येन प्रजा असृजत प्रजापतिः । तेनाहम् अस्यै हविषा जुहोमि यथा पुमांसं जनयाति पुत्रम्
वन्वे ते पुत्रं परि देवताभ्यो अनु मन्यन्तां मरुतः पृश्निमातरः । गर्भस् त्वा दशमास्यः प्र विशतु कुमारं जातं पिपृताम् उपस्थे
केश्य् अग्निं केशी विषं केशी बिभर्ति रोदसी । केशी विश्वं स्वर् दृशे केशीदं ज्योतिर् उच्यते
मुनयो वातरशनाः पिशङ्गा वसते मलाः । वातस्यानु ध्राजिं यन्ति यद् देवासो अयुक्षत
उन्मदिता मौनेयेन वाताꣳ आ तस्थिमा वयम् । शरीरेद् अस्माकं यूयं मर्तासो अभि पश्यथ
अन्तरिक्षेण पतति स्वर् भूतावचाकशत् । मुनिर् देवस्य-देवस्य सौकृत्याय सखा हितः
इन्द्रस्याश्वो वायोः सखा- -अथो देवेषितो मुनिः । उभा समुद्राव् आ क्षयति सद्यः पूर्वम् उतापरम्
गन्धर्वाणाम् अप्सरसां देवानां चरणे चरन् । मुनिः केतस्य संविद्वान् सखा स्वादुर् मदिन्तमः
वायुर् अस्मा उपामन्थत् पिनष्टि स्मा कुनंनमा । मुनिर् विषस्य पात्रेण यद् रुद्रेणापिबत् सह
संयुक्ते द्यावापृथिवी तिष्ठन्ती अविचर्त्ये । केशेनैकस्य देवस्य व्य् अष्टभ्नाच् छचीपतिः
न तम् अंहो न दुरितं देवासो अष्ट मर्त्यम् । सजोषसो यम् अर्यमा मित्रो नयन्ति वरुणो अति द्विषः
तद् धि वयं वृणीमहे वरुण मित्रार्यमन् । यन् नो निर् अंहसो यूयं पाथ नेथा च मर्त्यम् अति द्विषः
ते नूनं नो यूयम् ऊतये वरुण (…) । नयिष्ठा नो नेषिण स्थ पर्षिष्टाः पर्षिणो अति द्विषः
शुनम् अस्मभ्यम् ऊतये वरुण मित्रार्यमन् । शर्म यच्छाथ सप्रथ आदित्यासो यद् ईमहे अति द्विषः
आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा । रुद्रं मरुद्भिर् उग्रं हुवेम- -इन्द्रम् अग्निं स्वस्तये अति द्विषः
नेतार ऊ षु णस् तिरो वरुणो मित्रो अर्यमा । अति विश्वानि दुरिता राजानश् चर्षणीनाम् अति द्विषः
यूयं विश्वं परि पाथ वरुण मित्रार्यमन् । युष्माकं शर्मणि प्रिया स्याम सुप्रणीतयो ऽति द्विषः
यथा ह त्यद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः । एवो ष्व् अस्मन् मुञ्चता व्य् अंहः प्र तार्य् अग्ने प्रतरं न आयुः
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतो ब्राह्मणेभ्यो निर् वपामि । स मे मा क्षेष्ट सदम् अश्यमानः पितॄणां लोके
अनुमतं पृथिव्येमं पचाम्य् अनु मे द्यौर् मन्यताम् अन्व् अन्तरिक्षम् । अनु मन्यताम् अदितिर् देवपुत्रा इमे स्वर्गे लोके अस्तु
ब्रह्मणोखाम् अधि दधाम्य् अग्नौ भूम्यां त्वा भूमिम् अधि धारयामि । अग्निः पचन् रक्षत्व् ओदनम् इमं रक्षःपिशाचान् नुदतां जातवेदाः
अच्युतम् अक्षितं विश्वदानीम् उत्सम् इव सदम् अक्षीयमाणम् । पिता पितामह उत यस् तृतीयस् त एनं भागम् उप जीवन्त्व् अत्र
प्रपीनम् अक्षितं विश्वदानीं सोमम् इव पुनर् आप्यायमानम् । पुत्रः पौत्र उत यः प्रपौत्रस् तेषाम् अस्तु निहितो भाग एषः
मा मे जारीन् निहितो भाग एष मानुषन्मानुषद् गुप्तो अस्तु । वैवस्वते नि दधे शेवधिम् एतं तस्मा उत् सृजतु मह्यम् एव
पुनः पूर्यतां यद् अदन्त्य् अस्य- -ओदनो ऽयं तिष्ठत्व् अक्षितः सदा । वैवस्वतेन गुप्तो अस्तु राज्ञा ममैतोर् उप जीवन्तु मे स्वाः
शतधारं सहस्रधारम् उत्सम् अक्षितं व्यच्यमानं सलिलस्य पृष्ठे । ऊर्जं दुहानम् अनपस्फुरन्तम् उपासीय सुकृतां यत्र लोकः
Using this in academic work? Get formal citation
Tradição Védica (Ṛṣis) (2026). Atharvaveda Paippalāda — Kāṇḍa 5. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-5
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 5." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-5.
Tradição Védica (Ṛṣis). "Atharvaveda Paippalāda — Kāṇḍa 5." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/atharvaveda-paippalada-kanda-5.