Atharvaveda Prāyaścittāni
Tradição Védica (Ṛṣis)
ॐ नमो ऽथर्ववेदाय ॥
अथातो याज्ञे कर्मणि प्रायश्चित्तानि व्याख्यास्यामो विध्य्-अपराधे ।
सर्वत्र पुनः कार्यं कृत्वोत्तरतः प्रायश्चित्तं प्रायश्चित्तं वा कृत्वोत्तरतः समाधानं ।
यत् पूर्वं प्रायश्चित्तं करोति गृहैः पशुभिर् एवैनं समर्धयति ।
यद् उत्तरतः स्वर्गेणैवैनं तल् लोकेन समर्धयति ।
कथम् अग्नीन् आधायान्वाहार्य श्रपणम् आहरेत् ।
कथम् इति ।
प्राणा वा एते यजमानस्याध्यात्मं निधीयन्ते यद् अग्नयस् ।
तेषु हुतेषु दक्षिणाग्नाव् आज्याहुतिं जुहुयाद् इति ।
कथम् अग्नीन् आधाय प्रवसति ।
यथैनान् न विरोधयेद् अपि ह शश्वद् ब्राह्मणनिगमो भवति ।
प्राणान् वा एषो ऽनुचरान् कृत्वा चरति यो ऽग्नीन् आधाय प्रवसतीति ।
कथम् अग्नीन् आधाय प्रवत्स्यन् प्रोष्य वोपतिष्ठेत ।
तूष्णीम् एवेत्य् आहुस् । [एद्. तूष्नीम्]
तूष्णीं वै श्रेयांसम् आकाङ्क्षन्ति ।
यदि मनसि कुर्वीताभयम् वो ऽभयं मे ऽस्त्व् इत्य् अभयं हैवास्य भवत्य् एवम् उपतिष्ठमानस्य ॥
एकवचनम् एकाग्नौ ।
पुरा छायानां संभेदाद् गार्हपत्याद् आहवनीयम् अभ्युद्धरेत् । [एद्. अब्युद्ध्-]
मृत्युं वै पाप्मानं छायां तरति ।
संप्रैषं कृत्वोद्धराहवनीयम् इति ।
संप्रैषवर्जम् एकाग्नौ ॥ १ ॥
वाचा त्वा होत्रा प्राणेनाध्वर्युणा चक्षुषोद्गात्रा मनसा ब्रह्मणा श्रोत्रेणाग्नीध्रेणैतैस् त्वा पञ्चभिर् ऋत्विग्भिर् दैव्यैर् अभ्युद्धराम्य् ।
उद्ध्रियमाण उद्धर पाप्मनो मा यद् अविद्वान् यच् च विद्वांश् चकार ।
अह्ना यद् एनः कृतम् अस्ति पापं सर्वस्माद् एनस उद्धृतो मुञ्च तस्माद् इति सायं ।
रात्र्या यद् एनः कृतम् अस्ति पापम् इति प्रातर् ।
अमृताहुतिम् अमृतायां जुहोम्य् अग्निं पृथिव्या अदित्या उपस्थे ।
तयानन्तं लोकम् अहं जयामि प्रजापतिर् यं प्रथमो जिगाय ।
अग्निर् ज्योतिर् ज्योतिर् अग्निर् इति सायं ।
सूर्यो ज्योतिः ज्योतिः सूर्य इति प्रातर् ।
हिरण्यम् अन्तर् धारयेत् ।
आर्षेयस् तत् पश्यन्न् आहवनीयम् अभ्युद्धरेत् ।
अथ यस्याहवनीयम् अभ्युद्धृतम् आदित्यो ऽभ्यस्तम् इयात् का तत्र प्रायश्चित्तिर् ।
दर्भेण हिरण्यं बद्ध्वा पश्चाद् धारयेत् ।
आर्षेयस् तत् पश्यन्न् अग्निम् आहवनीयम् अभ्युद्धरेत् ।
अथ यस्याहवनीयम् अभ्युद्धृतम् आदित्यो ऽभ्युदियात् का तत्र प्रायश्चित्तिर् ।
दर्भेण रजतं बद्ध्वा पुरस्ताद् धारयेत् । [सेए चोर्रिगेन्द प्. २५१]
आर्षेयस् तत् पश्यन्न् आहवनीयम् अभ्युद्धरेत् ।
अथ यस्य सायम् अहुतम् अग्निहोत्रं प्रातर् आदित्यो ऽभ्युदियात् का तत्र प्रायश्चित्तिर् ।
मैत्रः पुरोडाशश् चरुर् वा ।
नित्याः पुरस्ताद्धोमाः संस्थितहोमेषु इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
अथ यस्य प्रातर् अकृतम् अग्निहोत्रं सायम् आदित्यो ऽभ्यस्तमियात् का तत्र प्रायश्चित्तिर् ।
वारुणः पुरोडाशो नित्याः पुरस्ताद्धोमाः ।
संस्थितहोमेषु ।
इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
अथ यस्य प्रातर् अहुतम् अग्निहोत्रम् आदित्यो ऽभ्युदियात् का तत्र प्रायश्चित्तिर् ।
मैत्रः पुरोडाशो नित्याः पुरस्ताद्धोमाः ।
संस्थितहोमेषु इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
आहुती वैताभ्याम् ऋग्भ्यां जुहुयात् ॥ २ ॥
अथ यो ऽग्निहोत्रेणोदेति स्वर्गं वा एष लोकं यजमानम् अभिवहति ।
नाहुत्वावर्तेत ।
स यद्य् आवर्तेत स्वर्गाद् एवैनं तल् लोकाद् आवर्तेत ।
अथ यस्याग्निहोत्रं हूयमानं स्कन्देत् का तत्र प्रायश्चित्तिर् ।
अपरेणाहवनीयं दक्षिणं जान्व् आच्योपविशति ।
यत् स्रुच्य् अतिशिष्टं स्यात् तज् जुहुयात् ।
अथ यत्रैवावस्कन्नं भवति तं देशम् अभिविमृज्य इति प्राङ्मुखो(!)पविश्य इति तिसृभिर् आलभ्याभिमन्त्रयेत ।
अथ चेत् सर्वम् एव स्कन्नं स्याद् यच् चरुस्थाल्याम् अतिशिष्टं स्यात् तज् जुहुयात् ।
अथाहवनीय आज्याहुतिं जुहुयात् ।
इत्य् एतयर्चा ।
इत्य् ।
अथ यस्याग्निहोत्रे ऽमेध्यम् आपद्येत का तत्र प्रायश्चित्तिर् ।
अपरेणाहवनीयम् उष्णम् इव भस्म निरूह्य तत्र ताम् आहुतिं जुहुयात् ।
तद् धुतं चाहुतं च भवति ।
यच् चरुस्थाल्याम् अतिशिष्टं स्यात् तज् जुहुयात् ।
अथ चेच् चरुस्थाल्याम् एवामेध्यम् आपद्येत का तत्र प्रायश्चित्तिस् ।
तत् तथैव हुत्वाथान्याम् आहूय दोहयित्वा श्रपयित्वा तद् अस्मै तत्रैवासीनायान्वाहरेयुर् ।
(अथ ऊर्ध्वं प्रसिद्धम् अग्निहोत्रम्) ।
अथ यस्याहवनीयगार्हपत्याव् अन्तरेण यानो वा रथो वा निवर्तेत श्वा वान्यो वाभिधावेत् का तत्र प्रायश्चित्तिर् ।
मन्त्रवन्ति च कार्याणि सर्वाण्य् अध्ययनं च यत् । नान्तरागमनं तेषां साधु विछेदनाद् भयम् ॥
इति गार्हपत्याद् अध्य् आहवनीय उदतन्तुं निषिञ्चन् इयात् ॥
[च्फ़्. बौध्;स्स् १३.४३:१५०.८ ]
स्वाहेति सर्वत्रैतत् प्रायश्चित्तम् अन्तरागमने स्मृतम् ॥
यज्ञस्य संततिर् असि यज्ञस्य त्वा संतत्या संतनोमि ।
वसूनां रुद्राणाम् आदित्यानां मरुताम् ऋषीणां भृगूणाम् अ"न्गिरसाम् अथर्वणां ब्रह्मणः संततिर् असि ब्रह्मणस् त्वा सम्तत्या संतनोमि ।
इति च ॥४॥
अथ यस्याहवनीयो ऽग्निर् जागृयाद् गार्हपत्य उपशाम्येत् का तत्र प्रायश्चित्तिर् ।
यत् प्राँन्चम् उद्वर्तयति तेनायतना[च्] च्यवते यत् प्रत्यञ्चम् असुरवद् यज्ञं तनोति ।
यद् अनुगमयतीश्वरा वैनं तत् प्राणा हास्युर् इति वा ।
अथ नु कथम् इति ।
सभस्मकम् आहवनीयं दक्षिणेन दक्षिणाग्निं परिहृत्य गार्हपत्यस्यायतने प्रतिष्ठाप्य तत आहवनीयं प्रणयेत् ।
इत्य् एतयर्च@@ गार्हपत्य आज्यं विलायोत्पूय चतुर्गृहीतं गृहीत्वाहवनीयगार्हपत्याव् अन्तरेण व्यवेत्य जुहुयात् ।
इति द्वाभ्याम् एतेन उ वा अस्य संत्वरमाणस्याहवनीयगार्हपत्यौ जनिताव् इत्य् । [एद्. जनिता वयं]
एतेन ह वा अस्य संत्वरमाणस्याहवनीयगार्हपत्यौ पाप्मानम् अपहतः ।
सो ऽपहतपाप्मा ज्योतिर् भूत्वा देवान् अप्य् एतीति ।
अथाहवनीय आज्याहुतिं जुहुयाद् इत्य् एतयर्चा ।
अथ यस्याग्निहोत्रं श्रप्यमाणं विष्यन्देत् तद् अद्भिर् उपनिनयेत् ।
तद् अनुमन्त्रयते ।
इत्य् एताभिः ।
<पृथिवीं तुरीयं मनुष्यान् यज्ञो ऽगात् । ततो मा द्रविणम् आष्ट ।
अंतरिक्षे तुरीयं । दिवि तुरीयम् । (अप्सु तुरीयम् । अप्स्व् इत्य् आह भूतानि तानि । देवान् यज्ञो ऽगात् । ततो मा द्रविणम् आष्ट ।)
इति चैता विष्णुवरुणदेवत्या ऋचो जपति ।
यद् वै यज्ञस्य विरिष्टं तद् वैष्णवं ।
यद् गुष्पितं तद् वारुणं ।
यज्ञस्य वा ऋद्धिर् ।
भूयिष्ठाम् ऋद्धिम् आप्नोति यत्रैता विष्णुवरुणदेवत्या ऋचो जपत्य् ।
अथाद्भुतेष्व् एता एव तिस्रो जपेत् ।
तिस्रो जपेत् ॥ ५ ॥ इति यज्ञप्रायश्चित्तसूत्रे प्रथमो ऽध्यायह् समाप्तः ।
अथ यस्य पुरोदाशे ऽमेध्यम् आपद्येत का तत्र प्रायश्चित्तिर् ।
आज्येनाभिघार्य इति सकृद् एवाप्सु हुत्वाथाहवनीय आज्याहुती जुहुयाद् इत्य् एताभ्याम् ऋग्भ्याम् ।
अथ यस्य पुरोडाशः क्षामो भवति का तत्र प्रायश्चित्तिः ।
सो ऽग्नये क्षामवते ऽष्टाकपालं पुरोडाशं निर्वपेत् ।
नित्याः पुरस्ताद्धोमाः ।
संस्थितहोमेषु इति मध्यत ओप्य तथा संस्रावभागैः संस्थापयेत् ।
अथाहवनीये ताभ्याम् ऋग्भ्याम् ।
अथ यस्याग्निहोत्रं तृतीये नित्यहोमकाले विछिद्येत का तत्र प्रायश्चित्तिः ।
सो ऽग्नये तन्तुमते ऽष्टाकपालं पुरोडाशं निर्वपेत् ।
नित्याः पुरस्ताद्धोमाः ।
संस्थितहोमेषु इति मध्यत ओप्य संस्रावभागैः सम्स्थापयेत् ।
इत्य् एताभ्याम् ऋग्भ्याम् ।
अथ यस्य सांनाय्यं व्यापद्येत का तत्र प्रायश्चित्तिः ।
प्रातर्दोहं द्वैधं कृत्वा तेन यजेत ।
अथ आहवनीय आज्याहुतिं जुहुयात् इत्य् एतयर्चा ।
प्रातर्दोहं चेद् अपहरेयुः सायंदोहं द्वैधं कृत्वा तेन यजेत ।
अथाहवनीय आज्याहुतिं जुहुयात् इत्य् एतयर्चा ।
अथ चेत् सर्वम् एव सांनाय्यं व्यापद्येत का तत्र प्रायश्चित्तिर् ।
ऐन्द्रं पुरोडाशं माहेन्द्रं वा सांनाय्यस्यायतने प्रतिष्ठाप्य तेन यजेत ।
अथाहवनीय आज्याहुतिं जुहुयात् इत्य् एतयर्चा ।
अथ यस्य हवींषि व्यापद्येरन् का तत्र प्रायश्चित्तिर् ।
आज्यस्यैतानि निरुप्य तेन यजेत ।
अथाहवनीय आज्याहुतिं जुहुयात् इत्य् एतयर्चा ।
अथ चेत् सर्वाण्य् एव हवींषि व्यापद्येरन् का तत्र प्रायश्चित्तिर् ।
आज्यस्यैतानि निरुप्यैतयाज्यहविषेष्ट्या यजेरन् ।
इत्य् अपि हि कीर्तित[ं] ।
मध्या[स्] त्व् एव भवन्ति ।
तैर् यजेत ।
अथाहवनीय आज्याहुतिं जुहुयात् इत्य् एतयर्चा ॥ १ ॥
अथातो दृष्टाभ्युद्दृष्टाणीत्य् आचक्षते ।
अद्य सायम् अमावास्या भविष्यतीति ।
न प्रतिहरणाय च स स्यात् ।
अथ स यो ऽन्यो ब्रूयाद् अदर्शं चाद्य पुरस्ताद् इति तं तु किम् इति ब्रूयात् ।
अथ वा ।
स स्याद् एवाधस् ।
ताम् एव प्रायश्चित्तिं कृत्वा यजेतेति द्वैपायनः ।
कृतस्य वै प्रायश्चित्तिर् भवतीति लाङ्गलिः ।
समाप्यैव तेन हविषा यद्दैवतं तद् धवि[ः] स्यात् ।
अथान्यद् धविर् निर्वपेद् अग्नये दात्रे पुरोडाशम् इन्द्राय प्रदात्रे पुरोडाशं विष्नवे शिपिविष्टाय पुरोडाशम् ।
अथैतान् यथानिरुप्तांस् त्रेधा कुर्याद् यथा ब्राह्मणोक्तं ।
नित्याः पुरस्तद्धोमाः ।
संस्थितहोमेष्व्
इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
पाथिकृतीत्य् आचक्षते पौर्णमास्यमावास्येति चातिपन्ने ॥ २ ॥
अथातो ऽभ्यु[द्]दृष्टानीत्य् आचक्षते ।
अद्य सायम् अमावास्या भविष्यतीति न प्रतिहरणाय च स स्यात् ।
अथ स यो ऽन्यो ब्रूयाद् अदर्शं चाद्य पश्चाद् इति तं तु किम् इति ब्रूयात् ।
अथ वा स स्याद् एवाधस् ।
ताम् एव प्रायश्चित्तिं कृत्वा यजेतेति द्वैपायनः ।
कृतस्य वै प्रायश्चित्तिर् भवतीति लाङ्गलिर् ।
समाप्यैव तेन हविषा यद् दैवतं तद् धविः स्यात् ।
अथान्यद् धविर् निर्वपेत् ।
अग्नये पथिकृते पुरोडाशम् इन्द्राय वृत्रघ्ने पुरोडाशं वैश्वानरं द्वादशकपालं पुरोडाशं ।
नित्याः पुरस्ताद्धोमाः ।
संस्थितहोमेषु ।
इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
महापाथिकृतीत्य् आचक्षते ।
उभयोर् अपि पत्तयोस् ।
तद् आहुर् न ते विदुर् ये तथा कुर्वन्त्य् ।
अथ नु कथम् इति ।
गार्हपत्याज्यं विलायोत्पूय चतुर्गृहीतं गृहीत्वाहवनीयगार्हपत्याव् अन्तरेणातिव्रज्य जुहुयात् ।
इत्य् ।
एवम् एवाभ्यु[द्]दृष्टे ।
स य एवम् एतेन तेजसाज्येन यशसा प्रीणाति सो ऽस्यैष दृष्टः प्राणान् यशसा प्रीणाति ॥ ३ ॥
अथ यो ऽहुत्वा नवं प्राश्नीयाद् अग्नौ वागमयेत् का तत्र प्रायश्चित्तिः ।
सो ऽग्नये व्रतपतये ऽष्टाकपालं पुरोडाशं निर्वपेत् ।
नित्याः पुरस्ताद्धोमाः ।
संस्थितहोमेष्व् ।
। इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
यद्य् अनुगतम् अग्निं शङ्कमाना मन्थेयुर् मथिते ऽग्निम् अधिगछेयुर् इति व्याहृतिभिश् च मथितं समारोप्याथेतरस्मिन् इति पञ्चभिर् आज्याहुतीर् हुत्वा यथोक्तं प्राकृता वृत्तिर् ।
अथ यस्याग्निहोत्री घर्मदुघा दुह्यमाना वाश्येत् का तत्र प्रायश्चित्तिर् ।
अशनापिपासे एवैषा यजमानस्य संप्रख्याय वाश्यतीति तां तृणम् अप्य् आदयेत् इत्य् एतयर्चा ।
अथाहवनीय आज्याहुतीर् जुहुयाद् इति द्वाभ्याम् ऋग्भ्याम् ।
अथ यस्याग्निहोत्री घर्मदुघा (वा) दुह्यमानोपविशेत् का तत्र प्रायश्चित्तिर् ।
भयं वा एषा यजमानस्य प्रख्यायोपविशति ।
तस्या ऊधस्य् उदपात्रं निनयेत् इति द्वाभ्यां ।
ताम् अनुमन्त्रयते इत्य् ।
अथैनाम् उत्थापयत्य् इत्य् ।
उत्थिताम् अनुमन्त्रयते इत्य् ।
अथाहवनीय आज्याहुतीर् जुहुयान् इत्य् एतैर् अभयै रौद्रैश् च ॥ ४ ॥
अथ यस्य वपाम् आहुतिं वा गृहीतां श्येनः शकुनिः श्वा वान्यो वाहरेद् वातो वा विवमेत् का तत्र प्रायश्चित्तिर् ।
इत्य् अभिमन्त्र्याथाहवनीय आज्याहुतीर् जुहुयाद् इति सूक्तेन ।
अथ यस्य सोमग्रहो गृहीतो ऽतिस्रावेत् का तत्र प्रायश्चित्तिर् ।
इत्य् अभिमन्त्र्याथाहवनीय आज्याहुतीर् जुहुयान् इति सूक्तेन ।
अथ यस्याष्टापदी वशा स्यात् का तत्र प्रायश्चित्तिर् ।
दर्भेण हिरण्यं बद्ध्वाध्यधि गर्भं हिरण्यगर्भेण जुहुयात् ।
यथामुं सा गर्भम् अभ्यश्चोतयद् यथामुं गर्भं सदर्भम् इव सहिरण्यं तम् उद्धृत्य प्रक्षाल्यानुपदं श्रपयित्वा प्राक्शिरसम् उदक्पाद्यं कामसूक्तेन जुहुयाद् अनंगन् इत्य् अष्टभिर् नभस्वतीभिर् हिरण्यगर्भेण वा । [एद्. धीति]
अथ यस्यासमाप्ते कर्मणि तान्त्रिको ऽग्निर् उपशाम्येत् का तत्र प्रायश्चित्तिर् ।
इत्य् अन्यं प्रणीय प्रज्वाल्य इति सूक्तेनोपसमाधाय कर्मशेषम् समाप्नुयुर् ।
अथ यस्यासमाप्ते कर्मणि बर्हिर् आदीप्येत तत्र तन् निर्वाप्य जुहुयाद् ॥
अथान्यद् बर्हिर् उपकल्प्योदकेन संप्रोक्ष्य पुनः स्टृणाति ।
अथ यस्य पित्र्ये प्रणीतो ऽग्निर् उपशाम्येत् का तत्र प्रायश्चित्तिर् ।
भस्मालभ्याभिमन्त्रयेद् ।
इत्य् उच्यमाने ऽग्निं प्रणीय प्रज्वाल्य इति द्वाभ्यां समिधाव् अभ्यादध्यात् ॥ ५ ॥
अथ यस्य यूपो विरोहेद् असमाप्ते कर्मणि तत्र जुहुयात् ॥
इति हुत्वा ।
इति त्वाष्ट्रं वैश्वरूपम् आलभेत ।
अथ यस्यासमाप्ते कर्मणि यूपः प्रपतेत् तत्र जुहुयात् ।
इति हुत्वा इति त्वाष्ट्रं सर्वरूपम् आलभेत ।
अथ यस्यासमाप्ते कर्मणि यूपे ध्वाङ्क्षो निपतेत् तत्र जुहुयात् इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
यदि दुष्टं हविः स्यात् कीटावपन्नं वा तत् तस्मिन् भस्मन्य् उपवपेद् अप्सु वेत्य् एके ।
<भुवाय स्वाहा । भुवनाय स्वाहा । भुवनपतये स्वाहा । भुवां पतये स्वाहा । विष्णवे स्वाहेति ।
एते ह वै देवानाम् ऋत्विजस् ।
त एवास्य तद् धुतम् इष्टं कुर्वन्ति ।
यत् प्रयाजेष्व् अहुतेषु प्राग् अङ्गारः स्कन्देद् अध्वर्यवे च यजमानाय च पशुभ्यश् चाघं स्याद् यदि दक्षिणा ब्रह्मणे च यजमानाय च ।
यदि प्रत्यग् घोत्रे च पत्न्यै च । [एद्. धोत्रे]
यद्य् उदग् अग्नीधे च यजमानाय च पशुभ्यश् चाघं स्यात् ।
तम् अनुप्रहरेत् ।
। इत्य् एतयर्चा ॥ ६ ॥
अथ यस्याग्नयो मिथः संसृज्येरन् का तत्र प्रायश्चित्तिः ।
सो ऽग्नये वीतये ऽष्टाकपालं पुरोडाशं (प्राङ्) निर्वपेत् ।
नित्याः पुरस्ताद्धोमाः ।
संस्थितहोमेष्व् इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
अथ यस्याग्नयो ग्राम्येणाग्निना संसृज्येरन् का तत्र प्रायश्चित्तिः ।
सो ऽग्नये विविचये ऽष्टाकपालं पुरोडाशं निर्वपेत् ।
नित्याः पुरस्ताद्धोमाः ।
संस्थितहोमेष्व् । इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
अथ यस्याग्नयः शावेनाग्निना संसृज्येरन् का तत्र प्रायश्चित्तिः ।
सो ऽग्नये शुचये ऽष्टाकपालं पुरोडाशं निर्वपेत् ।
नित्याः पुरस्तद्धोमाः ।
संस्थितहोमेष्व् । ॥ <उद् अग्ने शुचयस् तव शुक्रा भ्राजन्त ईरते । तव ज्योतींष्य् अर्चयः [त्स् १.३.१४.८च्च्, .र्व् ८.४४.१७] स्वाहेति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
अथ यस्याग्नयो दावेनाग्निना संसृज्येरन् का तत्र प्रायश्चित्तिर् ।
अन्नाद्यं वा एष यजमानस्य संवृज्यावृत उप तो ऽरण्याद् ग्रामम् अध्य् अभ्युपैति ।
सो ऽग्नये ऽन्नादाया ऽन्नपतये ऽस्टाकपालं पुरोडाशं निर्वपेत् ।
नित्याः पुरस्ताद्धोमाः ।
संस्थितहोमेष्व् । । इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
अथ यस्याग्नयो दिव्येनाग्निना संसृज्येरन् का तत्र प्रायश्चित्तिः ।
सो ऽग्नये ज्योतिष्मते ऽष्टाकपालं पुरोडाशं निर्वपेत् ।
नित्याः पुरस्ताद्धोमाः ।
संस्थितहोमेषु । । इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
अथ यस्याग्नयो ऽभिप्लवेरन् का तत्र प्रायश्चित्तिः ।
सो ऽग्नये ऽप्सुमते ऽष्टाकपालं पुरोडाशं निर्वपेत् ।
नित्याः पुरस्ताद्धोमाः ।
संस्थितहोमेष्व् । इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
अथ यद्य् अनुगतम् अभ्युद्धरेत् का तत्र प्रायश्चित्तिः ।
सो ऽग्नये ऽग्निमते ऽष्टाकपालं पुरोडाशं निर्वपेत् ।
नित्याः पुरस्ताद्धोमाः ।
संस्थितहोमेषु । । ॥ इति मध्यत ओप्याथ संस्रावभागैः संस्थापयेत् ॥ ७ ॥
अथ य आहिताग्निस् तन्त्रे प्रवासे मृतः स्यात् कथं तत्र कुर्यात् ।
कथम् अस्याग्निहोत्रं जुहुयुर् ।
अन्यवत्साया गोः पयसेत्य् आहुर् अदुग्धाया वा शूद्रदुग्धाया वा ।
असर्वं वा एतत् पयो यद् अन्यवत्साया गोः शूद्रदुग्धाया वासर्वं वा एतद् अग्निहोत्रं यन् मृतस्याग्निहोत्रं ।
तावद् अग्निं परिचरेयुर् यावद् अस्थ्नाम् आहरणम् ।
आहृत्याग्निभिः संस्पृश्य तं पितृमेधेन समाप्नुयुर् ।
अथ यः समारोपितासमारोपिते मृतः स्यात् कथं तत्र कुर्यात् ।
सो ऽग्नये तन्तुमते पथिकृते व्रतभृते पुरोडाशं निर्वपेद् एककपालं सप्तकपालं नवकपालं ।
नित्याः पुरस्ताद्धोमाः ।
संस्थितहोमेषु । इति मध्यत ओप्य (अथ) संस्रावभागैः संस्थापयेत् ।
अथ नष्टे अरणी स्याताम् अन्ययोर् अरण्योर् विहृत्य तं मथित्वैताभिर् एव हुत्वाथैनं समाप्नुयुः ॥ ८ ॥
अथ यस्योपाकृतः पशुः प्रपतेत् का तत्र प्रायश्चित्तिः ।
स्पृतिभिर् जुहुयाद् वायवे नियुत्वते यवागूं निरुप्यान्यं तद्रूपं तद्वर्णम् आलभेत ।
आज्येनाभिग्बार्य पर्यग्नि कृत्वोपाकुर्वीत ।
एते वै देवस्पृतयो ।
इति च हुत्वाथैनं पुनः प्रदिशति इत्य् ।
अथ यस्योपाकृतः पशुर् म्रियेत का तत्र प्रायश्चित्तिः ।
स्पृतिभिर् एव हुत्वाथैनम् अनुदिशत्य् इत्य् ।
अथ यस्योपाकृतः पशुः संशीर्येत का तत्र प्रायश्चित्तिः ।
स्पृतिभिर् एव हुत्वाथैनम् अनुदिशति । इति ।
नानुदेशनम् इत्य् आहुर् ।
यो वा एष प्रपतितो भवति तद् यद् एनम् अधिगछेयुर् अथ तेन यजेत ।
अथ याव् एतौ शीर्णमृतौ भवतस् तयोः प्रज्ञातान्य् अवदानान्य् अवदायेतरस्य वा पशोः संप्रैषं कृत्वा ब्राह्मणान् परिचरेयुर् अपो वाभ्युपहरेयुः स्पृतिभिर् ।
यदि वान्यः स्या[च्] छामित्रम् एनं प्रापयेयुस्....ष्पृतिभिर् एव हुत्वा शामित्रम् एवैनं प्रापयेयुर् ।
अत ऊर्ध्वं प्रसिद्धः पशुबन्धो ।
अथ य उपतापिनं याजयेत् का तत्र प्रायश्चित्तिः ।
स्पृतिभिर् एव हुत्वागदो हैव भवति ।
अथ चेद् बहव उपतापिनः स्युः का तत्र प्रायश्चित्तिः ।
स्पृतिभिर् एव हुत्वागदो हैव भवत्य् ।
अथ यो ऽधिश्रिते ऽग्निहोत्रे यजमानो म्रियेत कथं तत्र कुर्यात् ।
तत्रैवैतत् पर्यादध्याद् यथा सर्वशः संदह्येतेति ।
अथाहवनीय आज्याहुतिं जुहुयात् ।
। इत्य् एतयर्चा ।
अथ य औपवसथ्ये ऽहनि यजमानो म्रियेत कथं तत्र कुर्यात् ।
तत्रैवैतत् प्रदध्याद् यथा सर्वशः संदह्येतेत्य् ।
अथाहवनीय आज्याहुतिं जुहुयात् ।
इत्य् एतयर्चा ।
अथ यः समासन्नेषु हविःषु यजमानो म्रियेत कथं तत्र कुर्यात् ।
तत्रैवैतत् पर्यादध्याद् यथा सर्वशः संदह्येरन्न् इति ।
अथाहवनीय आज्याहुतिं जुहुयात् ।
। इत्य् एतयर्चा ।
अथ यो दीक्षितो म्रियेत कथम् एनं दहेयुस् ।
तैर् एवाग्निभिर् इत्य् आहुर् ।
हव्यवाहनाश् चैते मे भवन्ति तत् कव्यवाहना इति ।
अथ नु कथम् इति ।
शकृत्पिण्डैस् तिस्र उखाः पूरयित्वा ताः प्रादध्[य्]उस् ।
ता धूनुयुस् ।
ता सुसंतापा ये ऽग्नयो जायेरंस् तैः समाप्नुयुः ।
बहिर् वा एवं (भवन्)ति ते नो वैते ।
तस्य तद् एव ब्राह्मणं यद् अदःपुरः सवने पितृमेध आशिषो व्याख्यातास् ।
तं यदि पुरस्तात् तिष्ठन्तम् उपवदेत् तं ब्रूयाद् इति ।
तं यदि दक्षिणतस् तिष्ठन्तम् उपवदेत् तं ब्रूयाद् इति ।
तं यदि पश्चात् तिष्ठन्तम् उपवदेत् तं ब्रूयाद् इति ।
तं यद्य् उत्तरतस् तिष्ठन्तम् उपवदेत् तं ब्रूयाद् इति ।
तं यद्य् अन्तर्देशेभ्यो वा तिष्ठन्तम् उपवदेत् तं ब्रूयात् ......... ।
तस्मै नमस् कुर्यात् ।
स चेत् प्रति नमस् कुर्यात् कुशलेनैवैनम् योजयेत् ।
स चेन् न प्रति नमस् कुर्यात् तेनाभिचरेत् ।
सव्यम् अग्रन्थिना प्रसव्यम् अग्निभिः परीयात् ।
तं यदि जिघांसेद् इति सूक्तेन बाधकीः समिधो ऽभ्यादध्यात् ।
तृतीयाहं नातिजीवति ।
अथ यो होतार्द्धहुत उच्छिष्टः स्यात् सहैव तेनाचम्य इत्य् एतां जप्त्वा यथार्थं कुर्याद् यथार्थं कुर्यात् ॥ ९ ॥ इति यज्ञप्रायाश्चित्ते द्वितीयो ऽध्यायह् समाप्तः ॥ [एद्. पुरस्तद्]
अथातो सोमरूपाणि व्याख्यास्यामः ।
प्रजापतिर् मनसि ।
सारस्वतो वाचि विसृष्टायां ।
विधानं दीक्षायां ।
ब्रह्मव्रते सविता संधीयमाने ऽन्धो ऽछेतो दिव्यः सुपर्णः परिख्यातो ।
अदितिः प्रायणीये ।
पशुष्ठा न्युप्तो ।
यज्ञो हूयमानो ।
भद्रो विचीयमानः ।
छंदांसि मीयमानो ।
भगः पण्यमानो ।
असुरः क्रीतो ।
वरुणो ऽपसंनद्धः ।
पूषा सोमक्रयणे ।
शिपिविष्टो ऽराव् आसाद्यमानो ।
बृहस्पतिर् उत्थितो ।
वायुर् अभिह्रियमाणो ।
अधिपतिः प्रोह्यमाणो ।
अग्नीषोमीयः पशव् ।
अतिथि (रुद्रो । वरुणः) सदातिथ्ये ।
वरुणः संराड् ।
आसन्द्याम् आसाद्यमान ।
ऐन्द्राग्नो ऽग्नौ मथ्यमान ।
ऐन्द्राग्नो ऽग्नौ प्रणीयमाने ।
साम तानूनप्त्रे ।
तपो ऽवान्तरदीक्षायां ।
पृथिव्य् उपसद्य् ।
अन्तरिक्षम् उपसदि ।
द्यौर् उपसदि ।
यज्ञस्य प्रमाभिमोम्ना प्रतिमा वेद्यां क्रियमाणायां ।
पशव उत्तरवेद्यां ।
द्यौर् हविर्धाने ।
अन्तरिक्षम् आग्नीध्रीये ।
पृथिवी सदसि ॥ १ ॥
प्राण उपरवेषु ।
भ्रातृव्या धिष्ण्येषु ।
पशवो बर्हिषि । वेद्यां स्तीर्यमाणायाम् ।
अप्सु विसर्जने ।
प्रजापतिर् ह्रियमाणो ।
अग्निर् आग्नीध्रीये ।
वैष्णव आसन्नकर्मणि ।
हस्तो विसृष्टो ।
वैष्णवो यूप ।
ओषधयो रशनायां ।
मेध आप्रीषु ।
हविः पर्यग्निकृतः ।
पितृदेवत्यः पशौ संज्ञप्यमाने ।
यज्ञस्य मिथुनं पन्नेजनेषु ।
रक्षसां भागधेयं वपायाम् उद्गृह्यमाणायां ।
यज्ञस्य संततिर् वसतीवरीष्व् अभिह्रियमाणास्व् ।
इन्द्राग्न्योर् धेनुर् दक्षिणस्याम् उत्तरवेदिश्रोण्याम् अवसादयति ।
मित्रावरुणयोर् धेनुर् ।
उत्तरस्याम् उत्तरवेदिश्रोण्याम् अवसादयति ।
विश्वेषां देवानाम् आग्नीध्रीये ।
छंदांस्य् उपवसथे ।
हविरुपावहृतः ।
सारस्वतः प्रातरनुवाके ।
अथर्वाभ्युप्तः ।
प्रजापतिर् विभज्यमाने ।
देवता विभक्ते ।
इन्द्रो वृत्रहेन्द्रो ऽभिमातिहेन्द्रो इन्द्रो वृत्रतुर् उन्नीयमान ।
आयुर् उपांश्वन्तर्यामयोर् ।
यमो ऽभिहितः ॥ २ ॥
निभूयपुराधावनीये सुपूतः पूतभृति सुशुक्रश्रीर् मन्थश्रीः सक्तुश्रीः क्षीरश्रीः ककुभः पात्रेषु ।
वायुर् बहिष्पवमाने ।
होत्रा प्रवरे ।
वसवः प्रयाजेषु ।
यद्देवत्यः सोमस् तद्देवत्यः पशुर् ।
वैश्वदेव उन्नीयमान ।
ऐन्द्राग्न उन्नीतो ।
रुद्रो हूयमानो ।
वातो मारुतो गणो ऽभ्यावृत्तो ।
नृचक्षाः प्रतिख्यातो ।
भक्षो भक्ष्यमाणः ।
सखा भक्षितः ।
पितरो नाराशंसा ।
[आ]ग्नेयं प्रातःसवनम् ।
ऐन्द्रं माध्यंदिनं सवनं ।
यज्ञो दक्षिणायाम् ।
ऐन्द्राणि पृष्ठानि ।
वैश्वदेवं तृतीयसवनं ।
वैश्वानरो ऽग्निष्टोमम् ।
ऐन्द्रावरुणं मैत्रावरुणस्योक्थं भवति ।
ऐन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवति ।
ऐन्द्रावैष्णवम् अछावाकस्योक्थं भवति ।
ऐन्द्रः षोडशीरात्रः ।
पर्यायाग्नेयो ।
राथंतरः सन्धिः ।
सौर्यम् आश्विनम् ।
अहर् यज्ञ ।
आदित्या अनुयाजेषु ।
यद् अन्तरा क्रियते स समुद्रो ।
वरुणो ऽवभृथे ।
समुद्र र्जीषे ।
यद् अवारे तीर्थं तत् प्रायणीयं ।
यत् परे तद् उदयनीयं ।
वैष्णवो वशायां ।
स्वर् दिवि ।
कासु ब्रह्म समिष्ट्याम् ॥ ३ ॥
यस्या यस्यान्ततः सोमो व्यापद्येत तस्यै तस्यै देवताया इष्टिं निर्वपेद् आज्यहोमान् वा ।
अथ जुहुयात् ।
त्वां यज्ञो विष्णुर् इति च ।
त्वां यज्ञो विष्णुर् यज्ञविष्णू अनूनं हित्वा आत्मानं देवेषु विदयामीति ।
वनस्पते ऽन्ततः स्यानुष्टुभं छन्दसो यं तम् अभ्युक्त एतेन संदधामीति संधाय इति स्कन्ने ।
इति च कर्मविपर्यासेति च तद् इति गार्हपत्ये जुहुयात् ।
यदि यजुष्ट ॐ भुवो जनद् इति दक्षिणाग्नौ जुहुयात् ।
यदि सामत ॐ स्वर् जनद् इत्य् आहवनीये जुहुयात् ।
यद्य् अथर्वत ॐ भूर् भुवः स्वर् जनद् ॐ इत्य् आहवनीय एव जुहुयात् ।
अथ दैवतान्य् ।
आग्नेयं हौत्रं ।
वायव्यम् आध्वर्यवं ।
सौर्यम् औद्गात्रं ।
चान्द्रमसं ब्रह्मत्वं ।
तस्य ह वा अग्निर् होतासीत् ।
वायुर् अध्वर्युः ।
सूर्य उद्गाता ।
चन्द्रमा ब्रह्मा ।
पृथिवी वा ऋचाम् आयतनम् ।
अग्निर् ज्योतिर् अन्तरिक्षं (वै) यजुषाम् आयतनं ।
वायुर् ज्योतिर् द्यौर् (वै) साम्नाम् आयतनम् ।
आदित्य ज्योतिर् आपो ऽथर्वणाम् आयतनं चन्द्रमा ज्योतिर् इति च ॥ ४ ॥
अथ यद् अवोचामापत्तौ सोमं चेति यजमानं चेद् राजानं स्तेन ह वा प्रथमश् चाहरेयुश् चित्तव्यापत्युर् वा भवेत् । इत्य् आहाश्मरथ्यः ।
नेत्य् आहतुः काण्वगोपायनौ ।
यदैव कर्माभ्यध्वर्युर् विहितस् तदैव सर्वक्रतून् प्रत्य् आपदो विहिताः । इत्य् आहुर् आचार्याः ।
अथ कथम् अत्र यजमानकर्माणि स्युर् ।
उपचारभक्षप्रतिश् चेत्य् अध्वर्युर् अस्य यजमानकर्माणि कुर्यात् ।
अत्र यजमानासने मार्जालीये वा चमसौ निधाय तत्रास्य भक्षकाले भक्षाण्य् उपस्थापयेयुर् आ समिष्टयजुषो होमात् ।
प्राक् समिष्टयजुर् होमाच् चेद् यजमान आगच्छेत् समस्तान् एव भक्षजपान् जप्त्वा भक्षयेच् छेषं ।
समाप्यावभृथम् अभ्युपेयुः ॥ ५ ॥
अथ ह यं जीवन् न श्रुतिपथं गछेत् कियन्तम् अस्य कालम् अग्निहोत्रं जुहुयुर् ।
यद्य् एव हितम् आयुस् तस्याशेषं प्रसंख्या[य] तावन्तं कालं तद् अस्याग्निहोत्रं हुत्वाथास्य प्रायणीयेन प्रचरेयुर् ।
व्याख्यातः पात्रविनियोगो ऽपि यथैव शरीरादर्शने ।
स चेज् जीवन्न् आगछेत् कथं वा प्रोष्यागताय यथाकार्यं कर्माणि कुर्यात् । [एद्. कर्ंआणि]
स चेत् स्वयमुत्थ[ः] स्याद् पुनर् अस्याग्नीन् आधायाद्भुतानि वाचको जपम् ।
इति हुत्वा मार्जयित्वा ततो ऽयम् आगतः कर्माणि कुर्यात् ।
स चेत् पुनर् अनुत्थ[ः] स्यात् तथा संस्थितम् एवास्य तद् अग्निहोत्रं भवति ।
जरामर्यं वा एतत् सत्त्रं यद् अग्निहोत्रम् ।
इति ह श्रुतिर् भवति ॥ ६ ॥
अथ य आहिताग्निर् विप्रवसन्न् अग्निभिः प्रमीयेत कथं तत्र पात्रविनियोगं प्रतीयात् । इत्य् आहाश्मरथ्यः ।
यद्य् अन्यानि पात्राणि यज्ञायुधानीत्य् उपसाद्य विहृत्याग्निम् आहृत्य प्रज्वाल्य विहरेयुर् निर्मथ्यम् वा प्रज्वाल्य विहरेत् ।
इत्य् एतावताङ्गप्रभृतिभिः संस्थाप्यैवं पात्रविनियोगम् इत्य् अनुछादयेत् ।
यद् यद् उत्सन्नाः स्युर् वारणीसहितानि पात्राणीत्य् अप्सु समावपेत् ।
एषा ते ऽग्ने ।
यो अग्निस् ।
तया मे ह्य् आरोह तया मे ह्य् आविशेत्य् अश्ममयानि वा लोहमयानि वा ब्राह्मणेभ्यः प्रदद्यात् ।
दशरात्रं नियतव्रता[ः] स्युः ।
संवत्सरं चापि गोत्रिणः ।
एकादश्यां केशश्मश्रुलोमनखानि वापयित्वा ।
अद्भुतानि प्रायश्चित्तानि वाचाकां जपम् इति हुत्वा मार्जयित्वा ततो यथासुखचारिणो भवन्ति ॥ ७ ॥
अथ यद्य् एनम् अनाहिताग्निम् इव वृथाग्निना दहेयुर् एवम् अस्यैष मृत्पात्रविनियोगेति पत्न्य भवतीत्य् आहाश्मरथ्यः ।
नेत्य् आहतुः काण्वगोपायनौ ।
यदैव कार्माभ्य् अध्वर्युर् विहितस् तदैव सर्वक्रतून् प्रत्य् आपदो विहिताः । इत्य् आहुर् आचार्याः ।
अथ कथम् अस्याम् आपत्तौ यथैव शरीरादर्शने वा समाम्नातानाम् आपदां कथं तत्र पात्रविनियोगं प्रतीयाद् इत्य् आहाश्मरथ्यः ।
अरण्योर् अग्नीन् समारोप्य शरीराणाम् अर्धम् ..... एषा तूष्णीं निर्मथ्य प्रज्वाल्य विहृत्य मध्ये ऽग्नीनाम् एधांश् चित्वा दर्भान् संस्तीर्य तत्रास्य शरीराणि निदध्युः ।
भारुण्डसामानि गापयेत् ।
यद्य् अगाथः स्याद् अथाप्य् असाम कुर्यात् ।
शरीरादर्शने पालाशत्सरूण्य् आहृत्याथैतानि पुरुषाकृतीनि कृत्वा घृत्[एन्]आभ्यज्य मांसत्वगस्थ्य् अस्य घृतं च भवतीति ह विज्ञायते । [एद्. वि(र्)ज्ञा-]
यद्य् आहवनीयो देवलोकं यदि दक्षिणाग्निः पितृलोकं यदि गार्हपत्यो मानुष्यलोकं ।
यदि युगपत् सर्वेष्व् अस्य लोकेष्व् अवरुद्धं भवतीति ह विज्ञायते ।
तस्माद् युगपद् एव सर्वांत् सादयित्वाथ यद्य् एनम् अन्[व्]आलभेत पुनर् दहेत् ।
स्तेनम् इव त्व् एव ब्रूयात् ।
यत् किं चाविधिविहितं कर्म क्रियते तस्यैषैव सर्वस्य क्;ल्प्तिः सर्वस्य प्रायश्चित्तिश् चेति हि श्रुतिर् भवति ।
अथाप्य् अत्राग्नेर् अयता सोमतनूर् भवति ।
समन्वागमेवावां कर्मसु समन्व् आत्रागमयेत् ।
यत् किंचिद् यज्ञे विरिष्टम् आपद्येत तस्यैषैव सर्वस्य क्;ल्प्तिः सार्वस्य प्रायश्चित्तिश् च । इति हि श्रुतिर् भवति ॥ ८ ॥
अथातः सत्त्रिणां वक्ष्यामः ।
प्रवृत्ते तन्त्रे ऽन्तस्तन्त्रे वा गृहपतिर् उपतापः यस्यायुर् गृही[त्]वानुगछेः कामं तस्य पुत्रं भ्रातरं वोपदीक्ष्य समाप्नुयुर् ।
(न समाप्नुयुर्) ।
न वा ऋत्विजां चैकम् इव ।
नेत्य् आहाश्मरथ्यः ।
न हि गृहपतेर् उपदीक्षा विद्यते ।
गृहपतिं समीक्ष्य यदि मन्येत ।
जीवेद् अयम् अहोरात्राव् इत्य् एकाहान्य् (एकद्विवासवने) सर्वाणि सवनानि समावेशयेत् ।
यस्मिंस् तु समावेशयेत् तस्य सवनस्य वशम् उपयान्तीतराणि ।
सवनानि नानातन्त्राणि चेद् अपि भवन्ति दुर्गापत्तौ च समासे वेष्टीनां समावेश[येद्] वक्ष्यकामः ।
याः काश् चैकतन्त्रा इष्टय[ः] स्युर् अव्यवहिताः कामं ता एकतन्त्रे समावेश्य हविषाम् आनुपूर्व्येण प्रचरेत् ।
प्राक् स्विष्टकृतो मुखं तु पञ्चाज्याहुतीर् जुहुयात् ।
अग्नये सोमाय विष्णव इन्द्राग्निभ्यां प्रजापतय इति ।
यदि सौविष्तकृत्या प्रचरन्ति खलु वै यदि बहूनि वा स्रुवेण यथावदानेनातिक्रामेत् ॥ ९ ॥
अथातः स[त्]त्रिणां वक्ष्यामः ।
प्रवृत्ते तन्त्रे संनद्धेध्माबर्हिषि पश्चाच् चन्द्रमसं पश्येत् ।
य एषामा(मा)वास्यायाम् आग्नेयः पुरोडाशस् तं पाथिकृतं करोति प्रकृत्येतरं विना ।
एतद् यज्ञश् छिद्यते य एताम् अन्तरेष्टिं तन्वीत । इति हि श्रुतिर् भवति ।
अथ यस्य पौर्णमास्यं (वा) व्यापद्येत कामं तत्र प्राकृतीः कुर्यात् ।
तद् य[ः] क्रतुर् [द्यावाक्रतो वा वायो] विद्यते ऽथ निर्वपति ।
आग्नेयम् अष्टाकपालम् ऐन्द्रम् एकादशकपालम् आसाद्य हवींषि प्रायश्चित्तीर् जुहुयात् ।
यद् उदगान् महतो महिमा अस्य मानो अस्य जगतः पार्थिवस्य मा नः प्रापद् दुछुना काचिद् अन्या । [एद्. उछुना, च्फ़्. प्स् १९.१६.५द्]
कस्मै देवाय हविषा परिददेम स्वाहेति ।
अथातः पशुबन्धः ।
परि यज्ञस्य भोज्यस्य भोज्यवत्का मो ये केचित् तत्रस्थाः पशवः सोमकारिणा तेषां भक्षभक्षणं ।
तद् यथा ।
वराह-मार्जा[र]-माहिषां शकुनो ऽन्यो ऽवदानानि मांसानि जांगलानि च यद्य् अशिषः स्यान् मासि मासि षड्ढोतारं जुहुयात् ।
सूर्यं ते चक्षुर् गच्छतु वातो आत्मानं प्राणो द्यां पृष्ठम् अन्तरिक्षम् आत्माङ्गैर् यज्ञं पृथिवीं शरीरैः वाचस्पते ऽछिद्रया वाचाछिद्रया जुह्वा देवावृधं दिवि होत्राम् ऐरयत् स्वाहेति षड्ढोतारं हुत्वा प्रजापतिः सर्वम् एवेदम् उत्सृजेत् । इति हि श्रुतिर् भवति ॥१०॥ (इत्य् अथर्ववेदे वैतानसूत्रे प्रायश्चित्तप्रसंगे एकादशो ऽध्यायः इति यज्ञप्रायश्चित्ते तृतीयो ऽध्यायः समाप्तः) [एद्. त्रितीयो]
(सान्नाय्यं यद् उद्बो)धयेयुश् चेद् वत्सा वायव्या(या) यवाग्वा सा[न्नाय्]यं यजेत ।
अप्य् एकस्या[ं] धीतायाम् अधीता दोहयेत् ।
अधीताभिः संस्थाप्य धीतानाम् वत्सान् अपाकृत्य श्वः सांनाय्येन यजेत ।
सायं दोहं चेद् अपहरेयुः प्रातर्दोहं द्वैधं कृत्वान्यतरत् सायंदोहस्थाने कृत्वोभाभ्यां यजेत ।
प्रातर्दोहं चेद् अपहरेयुः सायंदोहं द्वैधं कृत्वान्यतरत् प्रातर्दोहस्थाने कृत्वोभाभ्यां यजेत ।
उभौ चेद् दुष्येयाताम् ऐन्द्रं पञ्चशरावम् ओदनं निरुप्याग्नेयेन प्रचर्यैन्द्रेणानुप्रचरेद् उत्तराम् उपोष्य(तो) व्(आद्)ओभाभ्यां यजेत ।
सर्वाणि चेद् धवींष्य् अपहरेयुर् दुष्येयुर् वाज्येन च देवता यजेत ।
अथान्याम् अदोषाम् इष्टिं तन्वीता(म् । अ)पो दुष्टम् अभ्यवहरेयुर् ।
ब्राह्मणैर् अभक्ष्[य्]अ[ं] दुष्टं हविर् ।
भूतं चेद् आज्यं स्कन्देद् भूपतये स्वाहेति त्रिभिर् प्रादेशैर् दिशो मिमाय तद् यजमानो देवाञ् जनम् अगन्न् इत्य् अनुषङ्गः ।
यज्ञस्य त्वा प्रमयेति चतसृभिः परिगृह्णीयात् ।
यज्ञस्य त्वा प्रमयोन्मयाभिमया प्रतिमया (परिददेम) स्वाहेति ।
अनुत्पूतं चेद् आज्यं स्कन्देद् वित्तं प्राणं दद्यात् ।
तथोत्पूतम् उत्पूयमानं चेद् घृतं दद्याद् अथोत्पूतम् उत्पूयमानं चेद् घृतं प्राणं दद्याद् देवतान्तरे चेद् घृतम् ।
आहुतिलोपव्यत्यासे ।
त्वं नो अग्ने । स त्वं न । इति सर्वप्रायश्चित्तं जुहुयात् ।
देवतावदाने याज्यानुवाक्याव्यत्यासे ऽनाम्नातप्रायश्चित्तानां वा यद्य् ऋक्तो ऽभ्य् आबाधः स्याद् भूर् जनद् इति गार्हपत्ये जुहुयात् । [एद्. -व्यत्यास]
यदि यजुष्ट ॐ भुवो जनद् इति दक्षिणाग्नौ जुहुयात् ।
यदि सामत ॐ स्वर् जनद् इत्य् आहवनीये जुहुयात् ।
यद्य् अनाज्ञाता ब्रह्मत ॐ भूर् भुवः स्वर् जनद् ॐ इत्य् आहवनीय एव जुहुयाद् आज्यभागान्ते स्वे देवताम् आवाहयिष्यन् यस्यै(व) हविर् निरुप्तं स्यात् ततोन्तया यजेताज्यस्यैतानि निरुप्य ।
यदि भागिनीं नावाहयेद् यत्र स्मरेत् तत्रैनाम् उपोत्थायावाह्यावापस्थाने यजेत ।
बर्हिषि स्कन्ने नाद्रियेत ।
दक्षिणेन चेद् यजेतार्द्धर्चात् प्रतिष्ठां दद्यात् ।
पुरोडाशे दु[ः]श्रिते सर्पिष्य् अन्नं चतुःशरावम् ओदनं ब्राह्मणेभ्यो दद्यात् ।
ततस् तम् एव पुनर् निर्वपेत् ।
पुरोडाशे विक्षामे यतो ऽस्याक्षामः स्यात् ततो यजेत । [एद्. पुरोदाषे]
द्वेष्याय तं दद्याद् दक्षिणां च ।
पुरोडाशे सर्वक्षामे निर्वपणप्रभृत्याम् उदाहृत्य ।
कपाले नष्ट एकहायनं दद्यात् ।
इति जुहुयात् ।
कपाले भिन्ने इति संधाय इत्य् एव जुहुयात् ।
आग्नेय[म्] एककपालं निर्वपेद् आश्विनं द्विकपालं वैष्णवं त्रिकपालं सौम्यं चतुःकपालं ।
नष्टे भिन्ने च भार्गवो होता कीटावपन्नं सान्नाय्यं मध्यमेन पर्णेन इत्य् अन्तःपरिधिदेशे निनयेत् ।
प्राक् प्रयाजेभ्यो ऽङ्गारं बर्हिस्य् अधिष्कन्देन् इत्य् अभिमन्त्र्य इत्य् आदाय इत्य् अनुप्रहृत्य ।
इत्य् एताभिर् जुहुयात् ॥ १ ॥
सर्वाणि चेद् आहुतिवेलायां पत्न्य् अनालम्भुका स्यात् ताम् अपरुध्य यजेत ।
समाप्यामो ऽहम् अस्मि सा त्वम् इति तस्या दक्षिणं हस्तम् अन्वालभ्योपाह्वयीत ।
आहुतिश् चेद् बहिष्परिधि स्कन्देद् आग्नीध्रं ब्रूयुः संक्रहिष्यां त्वा जुहुधीति ।
तस्मै पूर्णपात्रं दद्यात् ।
पुरोडाशश् चेद् अधिश्रित उद्विजेद् उत्पतेद् वा तम् उद्वास्य बर्हिष्य् आसादयेत् किम् उत्पतसि किम् उत्प्रोष्ठाः शान्तः शान्तेर् इहागहि ।
अघोरो यज्ञियो भूत्वासीद सदनं स्वम् आसीद सदनं स्वम् ॥
मा हिंसीर् देव प्रेषित आज्येन तेजसाज्यस्व मा नः किंचन रीरिषो । योगक्षेमस्य शान्त्या अस्मिन् आसीद बर्हिर् इति ।
तप्तं चेत् कर्म (गुणो) त्व् अन्तरियात् सर्वप्रायश्चित्तं हुत्वा मोद्विजेत् ।
(नाङ्गाहुतिम् अन्तर्हितां दद्यान् । न त-प-वर्ग-निमित्ताभावात् प्रधानलोपे ऽन्तराये वा निर्वपेद् व्यापद्येत) ।
शेष्(आद् अवद्येष्)अश् चेद् व्यापद्येताज्येन स्विष्टकृदिडे समाप्नुयात् ।
समाप्ते चेद् दुष्टो न कृताम् अन्तरां वा विद्यात् पुनरिष्टिर् अभ्यावर्तेत ।
यज्ञो यज्ञस्य प्रायश्चित्तिर् भवतीति ॥ २ [॥]
अग्न्याधेये समित्स्व् आहितासु नाग्निं गृहाद् उद्धरेयुर् नान्यत आहरेयुर् ।
न प्रयायान् नानुगछेत् ।
यदि प्रयायाद् अनुगछेद् वा संवत्सरं संवत्सराभिप्रायो वा यदि त्वरेद् ब्रह्मौदनं पक्त्वा पुनः समिधम् अभ्यादध्यात् ।
अग्निहोत्रं चेद् अनभ्युद्धृतं शरशरास्याद् अमुं समूहेति ब्रूयात् ।
विष्यन्नम् इति जुहुयात् ।
मध्यमेन पर्णेन इति तन् (मध्यमे पलाशावाणपर्णेन इति तन् ममध्यमे पलाशावाणपर्णेन इत्य्) अन्तःपरिधिदेशे निनयेत् ।
[द्]उह्यमाना चेद् अवभि[न्]द्याद् अन्यस्यां स्थाल्यां दोहयित्वाधिश्रयेत् ।
अधिश्रियमाणं चे[त्] स्कन्देद् अधिश्रितम् उन्नीयमानम् उन्नीतं पुनर् एव सन्नम् अहुतं स्कन्देत् पुनर् आनीयान्यां दोहयित्वाधिश्रित्योन्नीय जुहुयात् ।
प्राचीनं चेद् ध्रियमाणं स्कन्देत् प्रजापतेर् विश्वभृतः स्कन्नाहुतम् असि स्वाहेति । [एद्. प्रजपतेर्]
दोहनप्रभृत्या होम स्कन्देत् इत्य् अपो निनीय इत्य् अभिमन्त्र्य इति वारुण्य्(एन्)आज्याहुतीर् जुहुयात् ।
(छावलीं देव) सायं [यस्य] स्कन्नो होमः स्यात् प्रातर् नाश्नीयात् ।
प्रात[र् य]स्य स्कन्नो होमः [स्यात्] सायं नाश्नीयान् ।
(मन्त्रस्कन्नं) चेद् अभिवर्षेन् इति समिधम् आधायान्या(ं) दुग्ध्वा पुनर् जुहुयात् ।
इति मन्त्रसंस्कृतं ।
कीटावपन्नं इति वल्मीकवपायाम् अवनीयान्यां दुग्ध्वा पुनर् जुहुयात् ॥ ३ ॥
अग्निहोत्रं चेद् अनभ्युद्धृतं सूर्यो ऽभ्युदियाद् इति शमयित्वा प्रणीय प्रवृत्तातिपत्तौ मैत्रं चरुं निर्वपेत् सौर्यम् एककपालं ।
वरो दक्षिणा ।
अग्नीन् उपसमाधाय यजमानः पत्नी वाभुञ्जानौ वाग्यताव् अरणीपाणी सर्वाह्णम् उपासीयाताम् ।
द्वयोर् गवोः सायम् अग्निहोत्रं जुहुयात् ।
अग्नये वैश्वानराय द्वादशकपालं पुरोडाशं निर्वपेत् ।
यदि ह्य् अयं दिवा प्रजासु हि मन्येत इति सजूरुहो वा स्यात् इति द्वादशरात्रम् अग्निहोत्रं जुहुयात् ।
यदि न विरमयेद् इत्य् अपरं द्वादशरात्रं निशायाः सायमाहुतेर् अतिपत्तिर् प्रातराशे प्रातराहुतेर् आसाद्याग्निहोत्रम् आ तमितोर् आसीत ।
संस्थाप्यौं भूर् भुवः स्वर् जनद् [द्]ओषा वस्तोः स्वाहेति जुहुयात् ।
अथ प्रातर् अहरह रात्रिंरात्रिम् इत्य् उपस्थाने स्यात् ।
अग्नये ऽभ्युज्जुषस्व स्वाहा इति स्रुवेण गार्हपत्ये जुहुयात् ।
यस्यान्नं नाद्यात् तस्मै ब्राह्मणाय दद्यात् अधस्तात् समिधम् आहरेत् ।
स्मृताग्निहोत्री तिरश्चो दर्भान् दक्षिणाग्रान् कुर्यात् ।
यस्योभाव् अनुगतौ सूर्यो ऽभिनिम्लोचेद् अभ्युदियाद् वारणिं गता वा नश्येयुर् असमारूढा वा प्रकृत्यैव पुनर् आदधीत ॥ ४ ॥ इति यज्नप्रायश्चित्ते चतुर्थो ऽध्यायः समाप्तः ॥
अग्निहोत्रं चेद् अनभ्युद्धृतं सूर्यो ऽभिनिम्लोचेद् ब्राह्मणो बहुविद् उद्धरेत् ।
यो ब्राह्मणो बहुवित् स्यात् समुद्धरेत् ।
सर्वेणैवैनं तद् ब्राह्मण उद्धरेद् येनान्तर्हित[ं] हिरण्यम् अग्रतो हरेत् ।
वारुणं यवमयं चरुं निर्वपेद् इति ।
इति पश्चाद् गार्हपत्यलक्षणस्यारणी निधाय मथित्वा ।
इत्य् आदध्यात् ।
इति । [एद्. रय्यै]
यः कश् चाग्नीनाम् अनुगछेन् निर्मन्थ्यश् चेद् दक्षिणाग्निम् ।
अहुते चेत् सायं पूर्वो ऽनुगछेद् अग्निहोत्रम् अधिश्रित्योन्नीयाग्निना पूर्वेणोद्धृत्याग्निहोत्रेणानुद्रवेत् ।
अदत्तपूर्वधनं दद्यात् ।
श्वस् तपस्वतीं निर्वपेत् ।
इति हवींषि दद्यात् ।
सायम् अहुतम् अतीतरस्मिन्न् एतद् एव प्रायश्चित्तम् अन्यत्रापि ष्णुत्या चेत् ।
अहुते चेत् प्रातः पूर्वो ऽनुगच्छेद् अवदाहेषुम् अश्नीयात् ।
तेष्व् अलभ्यमानेषु भस्मनारणिं संस्पृश्य मथित्वावदध्यात् ।
अग्नये ज्योतिष्मत इष्टिं निर्वपेत् ।
अहुते चेत् प्रातर् अपरो वानुगच्छेद् अनुगमयित्वा पूर्वं मथित्वापरम् उद्धृत्य जुहुयात् ।
त्वरमाणः पूर्वम् अग्निम् अन्ववसाय ततः पश्चात् प्राञ्चम् उद्धृत्य जुहुयात् ॥ १ ॥
उपरुद्धे चेन् मथ्यमानो न जायेत यत्र दीप्यमानं परापश्येत् तत आहृत्याग्निहोत्रं जुहुयात् ।
यदि तं न विन्देद् ब्राह्मणस्य दक्षिणे पाणौ जुहुयात् ।
ततो ब्राह्मणं न परिचक्षीत ।
यदि तं न विन्देद् अजाया दक्षिणे कर्णे जुहुयात् ।
ततो ऽजां नाश्नीयात् ।
यदि तां न विन्देद् दर्भस्तम्बेषु जुहुयात् ।
ततो दर्भेषु नासीत ।
यदि तान् न विन्देद् अप्सु जुहुयात् ।
ततो ऽद्भिः पादौ न प्रक्षालयीत ।
यदि तान् न विन्देद् धिरण्ये जुहुयात् ।
ततो हिरण्यं न बिभृयात् ।
आपदि मथित्वा विहृत्याग्निहोत्रं जुहुयात् ।
अग्निहोत्रे चेद् अनभ्युद्धृते हविषि वा निरुप्ते शकुनिः श्येनः श्वा वान्तरेण व्यवेयाद् इति ।
इति भस्मना पदम् उपवपेत् ।
अनो रथास्य पुरुषो [वा] व्यवेयाद् इत्य् आदध्यात् ॥ २ ॥
अन्वाहिताग्निश् चेत् प्रयायात् इति हुत्वा प्रयायात् ।
अन्वाहितश् चेद् अनुगछेद् इत्य् अन्यं प्रणीयाग्न्यन्वाधानव्रतोपायनाभ्यां मनसोपस्थाय भूर् इति व्याहरेत् ।
पाथिकृती स्यात् पथो ऽन्तिकाद् दर्भान् आहरेत् ।
अनड्वान् दक्षिणा ।
सर्वत्र पाथिकृत्याम् अनड्वान् ।
अग्नीनां चेत् कश् चिद् उपवक्ष्(अय्)एत् स शम्[या]या[ः] प्राग् वासं पाथिकृती स्यात् ।
शम्[या]याः परा(क्) परास्(य्)आच् चेद् इति तान्त् संभरेत् इति द्वितीयं द्वितियेन ।
तृतीयं इति ।
तस्माद् अवख्यायास् तत्र निर्वपेत् ।
अधि चेद् अनुप्रायाय मथित्वा तत्रैकान् वसेत् कालातिपाते च दर्शपूर्णमासयोः ।
विध्यर्धसमाप्ते चेद् अपराधं विद्यात् (समाप्ते चेत् स्)त्रीन् हविष्यात् ।
अग्नये वैश्वानराय द्वादशकपालं पुरोडाशं निर्वपेत् ।
यस्य हविर् निरुप्तं पुरस्ताच् चन्द्रमा अभ्युदियात् तांस् त्रेधा तण्डुलान् विभजेत् ।
ये मध्यमास् तन् अग्नये दात्रे ऽष्टाकपालं पुरोडाशं निर्वपेत् ।
ये स्थविष्ठास् तान् इन्द्राय प्रदात्रे दधनि चरुं ।
ये क्षोदिष्ठास् तान् विष्णवे शिपिविष्टाय ।
श्रिते प्राग् उक्ते तण्डुलाभावाद् अर्धं वा विद्यात् ॥ ३ ॥
अग्नये वीतये ऽष्टाकपालम् पुरोडाशं निर्वपेद् यस्याग्नयो मिथः संसृज्येरन् ।
अग्नये विविचये ऽष्ताकपालं पुरोडाशं निर्वपेद् यस्याग्नयो ग्राम्येणाग्निना संसृज्येरन् ।
अग्नये शुचये ऽष्टाकपालं पुरोडाशं निर्वपेद् यस्याग्नयः शावेनाग्निना संसृज्येरन् ।
अग्नये ऽन्नादाया ऽन्नपतये ऽष्टाकपालं पुरोडाशं निर्वपेद् यस्याग्नयो दावेनाग्निना संसृज्येरन् ।
अग्नये ज्योतिष्मते ऽष्टाकपालं पुरोडाशं निर्वपेद् यस्याग्नयो दिव्येनाग्निना संसृज्येरन् ।
अग्नये ऽग्निमते ऽष्टाकपालं पुरोडाशं निर्वपेद् यस्याग्नयो ऽभिप्लवेरन् ।
अग्नये ऽग्निमते ऽस्टाकपालं पुरोडाशं निर्वपेद् य आहवनीयम् अनुगतम् अभ्युद्धरेत् ।
अग्नये क्षामवते ऽष्टाकपालं पुरोडाशं निर्वपेद् यस्याहिताग्नेर् अग्निगृहान् अग्निर् दहेद् अनग्निर् गृहान् वा ।
अग्नये व्रतपतये ऽष्टाकपालं पुरोडाशं नि[र्]वपेद् य आहिताग्निर् आर्तिजम् अश्रु कुर्यात् ततः प्रवसेत् ।
अग्नये व्रतभृते ऽष्टाकपालं पुरोडाशं निर्वपेद् पर्वणि यो व्रतवेलायाम् अव्रत्यं चरेद् अग्नये तन्तुमते ऽष्टाकपालं पुरोडाषं निर्वपेद् यस्य संततम् अग्निहोत्रं जुहुयुः ॥ ४ ॥
अथ संनिपतितेषु प्रायश्चित्तेषु वैविचीं प्रथमां कुर्यात् ।
ततो ऽग्नये शुचये ।
व्रातपतीम् अन्ततः क्षामवतीं परिवर्त्तयेद् यस्याग्निष्व् अन्यं याजयेद् यो वा यजेत् ।
मारुतं त्रयोदशकपालं पुरोडाशं निर्वपेद् यस्य यमौ पुत्रौ जायेयातां गावो वा ।
यमसूर् दक्षिणा धेनुर् भार्या वा ।
पृषदाज्यं चेत् स्कन्नं इत्य् अभिमन्त्र्य ।
इत्य् अभिमन्त्र्य इत्य् अन्यस्य पृषदाज्यस्य जुहुयात् पशुगवा चेत् स्रुवैर् हुत्वास्रावं यात्य् अवदानम् अकर्मेत्य् अन्यस्यां दृढतरायां श्रपयेयुर् ।
[यद्य्] अवदानं न विन्देत् तदाज्यस्यावद्येत् ।
उपाकृतश् चेत् पशुः प्रपतेद् वायव्यां यवागूं निरुप्यान्यं तद्रूपं तद्वर्णम् इति समानं ॥ ५ ॥
अथ यस्याहर्गणे [ऽ]विसमाप्ते यूपो विरोहेत् प्रवृह्य यूपविरूढान्य् अवलोप्य ।
इति द्वे ।
पञ्चभिर् अपरं पर्युक्ष्य इति विरूढानि हुत्वा पुनःसमायात् तस्मिंस् त्वाष्ट्रम् अजं पिङ्गलं पशुं बहुरूपम् आलभेत ।
अग्निना तपो ऽन्वभवत् ।
वाचा ब्रह्म ।
मणिना रूपाणि ।
इन्द्रेण देवान् ।
वातेन प्राणान् ।
सूर्येण द्यां ।
चन्द्रमसा नक्षत्राणि ।
यमेन पितॄन् ।
राज्ञा मनुष्यान् ।
उपलेन नादेयान् ।
अजगरेण सर्पान् ।
व्याघ्रेणारण्यान् पशून् ।
श्येनेन पतत्रिणः ।
वृष्णाश्वान् ।
ऋषभेण गाः ।
बस्तेनाजाः ।
वृष्णिनावीः ।
व्रीहिणान्नानि ।
यवेनौषधीः ।
न्यग्रोधेन वनस्पतीन् ।
उदुम्बरेनोर्जं ।
गायत्र्या छन्दांसि ।
त्रिवृता स्तोमान् ।
ब्राह्मणेन वाचम् इति ब्रह्मा पूर्णाहुतिं जुहुयात् ॥ ६ ॥ इति यज्ञप्रायश्चित्ते पञ्चमो ऽध्यायः समाप्तः ।
अथातः सौमिकानि व्याख्यास्यामः ।
हविर्धाने चेत् प्रपतेयातां पुरा बहिष्पवमानाद् अध्वर्युर् दक्षिणम् उद्गृह्णीयात् ।
प्रतिप्रस्थातोपस्तभ्नुयात् ।
प्रतिप्रस्थातोत्तरम् उद्गृह्णीयात् ।
अध्वर्युर् उपस्तभ्नुयाद् यथाप्रकृति स्तम्भानोपमानौ (!) ।
वैष्णव्याः ।
(क्रियतां शिर आश्विन्याः प्रतिह्रीयतां अमृतां) इत्य् आग्नीध्रीये जुहुयात् ।
औदुम्बरीं चेद् अपहरेयुर् यम् एव कां चित् प्रछिद्यावदध्याद् अध्वर्युर् उद्गाता यजमानः ।
इति ब्रह्मा ।
अन्तःसदसो बहिष्पवमानेन स्तूयुर् ।
दीक्षितस्य गार्हपत्यो ऽन्ते गार्हपत्यो ऽनुगच्छेद् इति मथित्वावदध्यात् ।
आश्व् अनुप्रणीतश् चेद् अनुगछेद् एतयैव मथित्वावदध्यात् ।
अग्नयश् चेन् मिथः संसृज्येरन्न् इत्य् एते जपेत् ।
शालामुखीयश् चेद् अनुगच्छेद् गार्हपत्यात् प्रणीय इति चतस्रो जपेत् ।
। इति ।
इति चतसृभिर् जुहुयात् ।
एकाग्निध्रीयश् चेद् अनुगच्छेद् गार्हपत्यात् प्रणीय इति षड्भिर् जुहुयात् ।
औत्तरवेदिकश् चेद् अनुगच्छेच् छालामुखीयात् प्रणीय इति त्रयोदशभिर् जुहुयात् ।
। । इति जुहुयात् ।
पशुश्रपणश् चेद् अनुगच्छेद् औत्तरवेदिकात् प्रणीय इति सर्वप्रायश्चित्तं हुत्वा ।
यद्य् उख्यो ऽनुगच्छेत् पुनः पुनः प्रज्वाल्य ॥ १ ॥
इत्य् आधाय समिधं कृष्णां दद्यात् ।
वासोयुगं धेनुं वा ।
यद्य् उखा वा भिद्येत तैर् एव कपालैः संचित्यान्यां कृत्वा ।
इत्य् अनुमन्त्रयेत् ।
वसतीवरीश् चेत् स्कन्देयुः गृहीत्वा इति चतसृभिर् आग्नीध्रीये जुहुयात् ।
<मान्दा वाशाः शुन्ध्यूर् अजिराः । उन्दतीः सुफेनाः ज्योतिष्मतीस् तमस्वतीर् । मित्रभृतः क्षत्रभृतः स्वराष्ट्रा इह मावत [त्स् २.४.७.२] ।
प्रवृत्ताश् चेत् स्युः इति संसिञ्चेत् । [एम्., एद्. समा-]
निवृत्ताश् चेत् स्युर् इति गृहीत्वा षड्भिर् आहवनीये जुहुयात् ।
इति हुत्वा ॥ २ ॥
अभिवृष्टे सोमे । ।
इत्य् अभिमृष्टस्य भक्षयेत् ।
ससोमं चेच् चमसं सदसि स्तोत्रेणाभ्युपाकुर्यात् इति द्वाभ्यां जुहुयात् ।
प्रवृत्ता च स्थली स्यात् इति ।
अन्यश् चेद् आग्रायणाद् गृह्णीयाद् आग्रायणश् चेद् उपदस्येद् आग्रयणाद् गृह्णीयाद् ग्रहेभ्यो वाहृत्य शुक्रध्रुवौ वर्जम् ।
इति चतसृभिर् जुहुयात् । [एद्. आ त्वा यज्ञस्य]
। [एद्. आ त्वा यज्ञस्य]
इति द्वे ।
ध्रुवश् चेद् उपदस्येत् प्रवृत्ता चेत् स्थाली स्याद् इत्य् उत्सृज्य इत्य् अभिमन्त्र्य इति गृहीत्वा इति चतसृभिर् आग्नीध्रीये जुहुयात् ।
ग्राव्णि शीर्णे द्योतानस्य मारुतस्य ब्रह्मसामेन स्तुवीरन्न् इत्य् एके भक्षणीयम् उपरवेष्व् अपिनयेत् ॥ ३ ॥
अपिदग्धे सोमे कृतांत्वाद् उपक्रमेरण्यं वचनात् ।
जप्त्वा पुरा द्वादश्या पुनर् दीक्षावांताद्विति ।
तत्र ता दद्याद् याः कस्यै त्वा दास्य भवति ।
तथैवैनाम् ऋत्विजो याजयेयुर् ।
यद्य् अक्रीतसोमम् अपहरेयुर् अन्यः क्रीतव्यः ।
यदि क्रीतो नष्टः स्यात् सा नित्याभिषिच्यः ।
राजाहार इति किंचिद् देयं ।
तेनास्य स परिक्रीतो भवति ।
यदि सोमं न विन्देयुः पूतीकान् अभिषुणुयुर् ।
यदि न पूतीकान् अर्जुनान्य् अथ या एव काश् चौषधीर् आहृत्याभिषुणुयुः ।
पञ्चदक्सिणं क्रतुं संस्थापयेयुर् एकदक्षिणं वा ।
येन यज्ञेन कामयेत तेन यजेत ।
[अ]त्र यत् कामयेत तत्र तद् दद्यात् ।
प्रातःसवनाच् चेत् कलशो विदीर्येत वैष्णवीषु शिपिविष्टवतीषु तृचा स्तूयुर् ।
(माध्यंदिनश् चेत् पवमाने समाध्यंदिनात् पवमाना) यदि माध्यंदिनार्भवस्य पवमानस्य पुरस्ताद् वषट्कारनिधनं साम कुर्यात् ।
यदि तृतीयसवन एतद् एव ॥ ४ ॥
यन् मार्त्तिकं भिद्येत तदापो गमयेत् तथैव दारुमयं इत्य् एतयालभ्याभिमन्त्रयते ।
सर्वत्र शीर्णे भिन्ने नष्टे ऽन्यं कृत्वा इत्य् आददीत ।
बहिष्पवमानं चेत् सर्पतां प्रस्तोता विछिद्येत ब्रह्मणे वरं दत्त्वा ततस् तम् एव पुनर् व्र्णीयात् ।
यद् उद्गाता विछिद्येत सर्ववेदसदक्षिणेन यज्ञेन यजेत ।
एवं सर्वेषां विछिन्नानां सर्पताम् एकैकस्मिन् कुर्यात् ।
। । इति ।
शस्त्राच् चेच् छस्त्रम् अनुशंसन् व्यापद्येत इति पञ्चभिर् जुहुयात् ।
राथंतरं चेत् स्तूयमानं व्यापद्येत इति द्वाभ्यां जुहुयात् ।
यवादीनाम् अवपन्नानां व्यावृत्तानाम् उत्तरासां यथालिङ्गं द्वाभ्यां जुहुयात् ।
नाराशंसा(द्) उन्नेताद् उपदस्येरन्न् इति द्वाभ्यां ।
पान्नेजन्याश् चेद् उपदस्येत् इति संसिञ्चेत् ॥ ५ ॥
अथ चेद् धुताहुतौ सोमौ पीतापीतौ वा संसृज्येयातां इति द्वाभ्यां जुहुयात् ।
प्रातःसवनाच् चेत् कलशो विदीर्येत वैष्णवतीषु शिपिविष्टवतीषु गौरीवितेन स्तूयुः ।
समानजनपदौ चेत् सोमौ संसवौ स्यातां पूर्वो ऽग्निं परिगृह्णीयात् पूर्वो देवताः परिगृह्णीयात् ।
नातिरात्र्या प्रातरनुवाकम् उपाकुर्यात् ।
इति पुरस्तात् प्रातरनुवाकस्य जुहुयात् ।
इति माध्यंदिने विद्विषाणयोः संसवाव् इति विज्ञायते ।
सवनीयानन्तरम् अग्नये यविष्ठायाष्टाकपालम् इत्य् आहवनीये महद् अभ्यादध्यात् ।
संभाराणां चतुर्भिश् चतुर्भिः प्रतिदिशं जुहुयात् ।
उत्तमम् आग्नीध्रीये सोमभाग[ं] ब्राह्मणेषु शंसे[त्] ।
वज्राणां श्येनविषमस्य च फट्कारप्रभृत्य् अनुजानीयात् ।
सर्वेषु चाभिचारिकेषु संदीक्षितानां च व्यावर्त्तेताग्नेरन् ब्राह्मणः प्रोच्य ।
। इत्य् अपः परिब्रूयात् ।
तासाम् उदगर्वाक् कुर्यात् ।
इति जुहुयात् ।
इति सकृद् एतानि जुहुयाद् ब्रह्माणि सूक्तानि ॥ ६ ॥
ब्रह्मा ब्राह्मणाच्छंसी वैन्द्रवायवाद् ग्रहं गृह्णीयात् ।
स चेन् म्रियेताग्निभ्य एव त्रीन् अङ्गारान् उद्धृत्य दक्षिणं पाणिं श्रोणिं प्रति दग्ध्वास्थीन्य् उपनिदध्युस् ।
तस्य पुत्रं भ्रातरं वोपदीक्षां समाप्नुयुः ।
स चेन् म्रियेताग्निभ्य एव त्रीन् अङ्गारान् उद्धृत्य दक्षिणं पाणिं श्रोणिं प्रतितप्यैव दग्ध्वा होतुः प्रमुखा ऋत्विजः प्राचीनावीतं कृत्वा दक्षिणान् ऊरून् आघ्नानाः सर्पराज्ञीनम् (ऊर्त्त्या) कीर्त्तयन्तः स्तोत्रे स्तोत्रे ऽस्थिपुटम् उपनिदध्युः ।
संवत्सरे ऽस्थिपुटं निदध्युः ।
संवत्सरे ऽस्थीनि याजयेत् ।
समाप्ते संवत्सरे दीक्षितानां चेद् उपदीक्षेत सोमं विभज्य विश्वजितातिरात्रेण ।
यद्य् आश्विनी[षु] शस्यमानास्व् आदित्यं पुरस्तान् न पश्येयुर् अश्वं श्वेतं रुक्मप्रतिहितं पुरस्ताद् अवस्थाप्य सौर्यं श्वेतं (ग्)अजम् उपालंभ्यम् आलभेत तस्य तान्य् एव तन्त्राणि यानि सवनीयस्युः पुरस्तात् संधि चमसासवानाम् अनुप्रदानं स्यात् ।
अश्वमेधे चेद् अश्वो नागच्छेद् आग्नेयो ऽष्टाकपाल इति मृगाखरे षड्ढविष्काम् इष्टिं निर्वपेद् दशहविषम् इत्य् एके ।
वडवां चेद् अश्वो ऽभीयाद् अग्नये ऽंहोमुचे ऽष्टाकपालं सौर्यं पयो वायव्याव् आज्यभागौ ॥ ७ ॥
सोमरूपेषूक्त आचार्यकल्पो ।
ब्राह्मणं तु भवति ।
त्रयस्त्रिंशद् वै यज्ञस्य तन्वः । इत्य् एकान्नत्रिंशो पाकनग्निम् अश्वणाम् इत्य् अर्थलोपान् निवृत्तिस् ।
त्रीणि वा चतुर्गृहीतान्य् अनुवाकस्येत्य् आचार्या एते नित्यकल्पायार्त्विज्येतरूपयसां तन्वाम् आर्त्तिम् आर्छतां चोत्तरां वा संधिं संधाय जुहुयाद् इति तैत्तिरीयब्राह्मणम् इष्ट्वा तद्दैवत्यामेधिकीयतामर्त्तिर् विद्याज् जामिं पुरुषविधिं मायया वा यज्ञसंबन्धिनीं वाङ्मनश्चिन्तायां प्राग् विहरणाद् आर्ताय प्रजापतिर् मनसि सारस्वतो वाचि विसृष्टायां विधानं दीक्षायां ब्रह्मव्रते स्वाहेत्य् एतेन न्यायेन वाजसनेयीब्राह्मणमोघेन मन्त्राः क्;ल्प्ताः ।
प्रजापतये स्वाहा धात्रे स्वाहा पूष्णे स्वाहेत्य् ।
अपराह्णिकश् चेत् प्रवर्ग्यो ऽभ्यस्तम् इयात् इति जुहुयाद् व्याहृतिभिश् च ।
श्वःसुत्यां चेद् अहुतायां तदहर्ताव् अपागछेद् इति ब्रूयाद् इहान्वीचमतिभिर् इति तिस्र्भिः ।
प्रातरनुवाकं चेद् दुरितम् उपाकुर्यात् इति पञ्चभिर् जुहुयात् ॥ ८ ॥
॥ ५ ॥ इति ।
प्रातःसवनं चेन् माध्यंदिनं सवनम् अभ्यस्तमियाद् इति जुहुयात् ।
अग्नये स्वाहा वसुभ्यः स्वाहा गायत्र्यै स्वाहा ।
माध्यंदिनं चेत् तृतीयसवनम् अभ्यस्तमियात् इति जुहुयात् ।
सोमाय स्वाहा रुद्रेभ्यः स्वाहा त्रिष्टुभे स्वाहा ।
तृतीयसवनं चेद् अभ्यस्तमियाद् इति जुहुयात् ।
वरुणाय स्वाहादित्येभ्यः स्वाहा जगत्यै स्वाहा ।
। इन्द्राग्निभ्यां स्वाहा । इन्द्राविष्णुभ्यां स्वाहा ।
रात्रिपर्यायाश् चेद् अभिविछिद्येरन्न् इन्द्राय स्वाहा । इन्द्राण्यै स्वाहा । छन्दोभ्यः स्वाहा ।
ऋत्विजां चेद् दुरितम् उपाकुर्याद् अग्नये रथन्तराय स्वाहा । उषसे स्वाहा । पङ्क्तये स्वाहा । अश्विभ्यां स्वाहा । इति ।
सर्वत्रानाज्ञातेष्व् अग्नये स्वाहा । यज्ञाय स्वाहा । ब्रह्मणे स्वाहा । विष्णवे स्वाहा । प्रजापतये स्वाहा । अनुमतये स्वाहा । अग्नये स्विष्टकृते स्वाहेति ।
। इति च ।
एता विष्णुवरुणदेवत्याः ।
उक्तानि प्रायश्चित्तानि ।
अथैकाग्नौ यत्र पुरोडाशा उक्ता स्थालीपाकांस् तत्र कुर्यात् ।
पुरोडाशेषु जपैर् एव कुर्यात् ।
सर्वत्र छेदनभेदनावदारणदहनेषूखासु सोमकलशमहावीरयज्ञभाण्डेषु सर्वत्र शीर्णे भिन्ने नष्टे ऽन्यं कृत्वा इत्य् आददीत ।
सर्वत्र इत्य् अभयैर् अपराजितैर् जुहुयात् । अभयैर् अपराजितैर् जुहुयात् ॥ ९ ॥ षष्ठो ऽध्यायः । (१४४/४-६) अथ यत्रैतत् पार्थिवम् आन्तरिक्षं दिव्यं देवैर् असुरैर् या प्रयुक्तं तद् अद्भुतं शमयत्य् अथर्वा प्रभुर् अद्भुतानां । (१४४/६-७) सो दूर्वाज्यं गृहीत्वाहवनीये जुहोति । (१४४/७-९) पृथिव्यै श्रोत्रायान्तरिक्षाय प्राणाय वयोभ्यो दिवे चक्षुषे नक्षत्रेभ्यः सूर्यायाधिपतये स्वाहा । इति सूत्रप्रायश्चित्तिस् । (१४४/९-१०) तत्र श्लोकः । (१४४/११-१२) प्रायश्चित्तानां परिमाणं न यज्ञ उपलभ्यते । तस्माद् दृष्टः समासो ऽत्र तं निबोधत याज्ञिकाः । (१४४/१३-१४) इत्य् अथर्ववेदे वैतानसूत्रे प्रायश्चित्तप्रकरणम् समाप्तम् ।
Using this in academic work? Get formal citation
Tradição Védica (Ṛṣis) (2026). Atharvaveda Prāyaścittāni. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/atharvaveda-prayashchittani
Tradição Védica (Ṛṣis). "Atharvaveda Prāyaścittāni." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/atharvaveda-prayashchittani.
Tradição Védica (Ṛṣis). "Atharvaveda Prāyaścittāni." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/atharvaveda-prayashchittani.