Atharvaveda Śaunakīya — Kāṇḍa 13
Tradição Védica (Atharvan ṛṣis)
उदेहि वाजिन् यो अप्स्वन्तरिदं राष्ट्रं प्र विश सूनृतावत्। यो रोहितो विश्वमिदं जजान स त्वा राष्ट्राय सुभृतं बिभर्तु ॥१॥ उद्वाज आ गन् यो अप्स्वन्तर्विश आ रोह त्वद्योनयो याः । सोमं दधानोऽप ओषधीर्गाश्चतुष्पदो द्विपद आ वेशयेह ॥२॥ यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृणीत शत्रून् । आ वो रोहितः शृणवत्सुदानवस्त्रिषप्तासो मरुतः स्वादुसंमुदः ॥३॥ रुहो रुरोह रोहित आ रुरोह गर्भो जनीनां जनुषामुपस्थम् । ताभिः संरब्धमन्वविन्दन् षडुर्वीर्गातुं प्रपश्यन्न् इह राष्ट्रमाहाः ॥४॥ आ ते राष्ट्रमिह रोहितोऽहार्षीद्व्यास्थन् मृधो अभयं ते अभूत्। तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहातामिह शक्वरीभिः ॥५॥ रोहितो द्यावापृथिवी जजान तत्र तन्तुं परमेष्ठी ततान । तत्र शिश्रियेऽज एकपादोऽदृंहद्द्यावापृथिवी बलेन ॥६॥ रोहितो द्यावापृथिवी अदृंहत्तेन स्व स्तभितं तेन नाकः । तेनान्तरिक्षं विमिता रजांसि तेन देवा अमृतमन्वविन्दन् ॥७॥ वि रोहितो अमृशद्विश्वरूपं समाकुर्वाणः प्ररुहो रुहश्च । दिवं रूढ्वा महता महिम्ना सं ते राष्ट्रमनक्तु पयसा घृतेन ॥८॥ यास्ते रुहः प्ररुहो यास्त आरुहो याभिरापृणासि दिवमन्तरिक्षम् । तासां ब्रह्मणा पयसा ववृधानो विशि राष्ट्रे जागृहि रोहितस्य ॥९॥ यस्ते विशस्तपसः संबभूवुर्वत्सं गायत्रीमनु ता इहागुः । तास्त्वा विशन्तु मनसा शिवेन संमाता वत्सो अभ्येतु रोहितः ॥१०॥ {१} ऊर्ध्वो रोहितो अधि नाके अस्थाद्विश्वा रूपाणि जनयन् युवा कविः । तिग्मेनाग्निर्ज्योतिषा वि भाति तृतीये चक्रे रजसि प्रियाणि ॥११॥ सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः सोमपृष्ठः सुवीरः । मा मा हासीन् नाथितो नेत्त्वा जहानि गोपोषं च मे वीरपोषं च धेहि ॥१२॥ रोहितो यज्ञस्य जनिता मुखं च रोहिताय वाचा श्रोत्रेण मनसा जुहोमि । रोहितं देवा यन्ति सुमनस्यमानाः स मा रोहैः सामित्यै रोहयतु ॥१३॥ रोहितो यज्ञं व्यदधाद्विश्वकर्मणे तस्मात्तेजांस्युप मेमान्यागुः । वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥१४॥ आ त्वा रुरोह बृहत्युत पङ्क्तिरा ककुब्वर्चसा जातवेदः । आ त्वा रुरोहोष्णिहाक्षरो वषट्कार आ त्वा रुरोह रोहितो रेतसा सह ॥१५॥ अयं वस्ते गर्भं पृथिव्या दिवं वस्तेऽयमन्तरिक्षम् । अयं ब्रध्नस्य विष्टपि स्वर्लोकान् व्यानशे ॥१६॥ वाचस्पते पृथिवी नः स्योना स्योना योनिस्तल्पा नः सुशेवा । इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यग्निरायुषा वर्चसा दधातु ॥१७॥ वाचस्पत ऋतवः पञ्च ये नौ वैश्वकर्मणाः परि ये संबभूवुः । इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् परि रोहित आयुषा वर्चसा दधातु ॥१८॥ वाचस्पते सौमनसं मनश्च गोष्ठे नो गा जनय योनिषु प्रजाः । इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यहमायुषा वर्चसा दधातु ॥१९॥ परि त्वा धात्सविता देवो अग्निर्वर्चसा मित्रावरुणावभि त्वा । सर्वा अरातीरवक्रामन्न् एहीदं राष्ट्रमकरः सुनृतावत्॥२०॥ {२} यं त्वा पृषती रथे प्रष्टिर्वहति रोहित । शुभा यासि रिणन्न् अपः ॥२१॥ अनुव्रता रोहिणी रोहितस्य सूरिः सुवर्णा बृहती सुवर्चाः । तया वाजान् विश्वरूपां जयेम तया विश्वाः पृतना अभि ष्याम ॥२२॥ इदं सदो रोहिणी रोहितस्यासौ पन्थाः पृषती येन याति । तां गन्धर्वाः कश्यपा उन् नयन्ति तां रक्षन्ति कवयोऽप्रमादम् ॥२३॥ सूर्यस्याश्वा हरयः केतुमन्तः सदा वहन्त्यमृताः सुखं रथम् । घृतपावा रोहितो भ्राजमानो दिवं देवः पृषतीमा विवेश ॥२४॥ यो रोहितो वृषभस्तिग्मशृङ्गः पर्यग्निं परि सूर्यं बभूव । यो विष्टभ्नाति पृथिवीं दिवं च तस्माद्देवा अधि सृष्टीः सृजन्ते ॥२५॥ रोहितो दिवमारुहन् महतः पर्यर्णवात्। सर्वो रुरोह रोहितो रुहः ॥२६॥ वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुरनपस्पृगेषा । इन्द्रः सोमं पिबतु क्षेमो अस्त्वग्निः प्र स्तौतु वि मृधो नुदस्व ॥२७॥ समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः । अभीषाट्विश्वाषाडग्निः सपत्नान् हन्तु ये मम ॥२८॥ हन्त्वेनान् प्र दहत्वरिर्यो नः पृतन्यति । क्रव्यादाग्निना वयं सपत्नान् प्र दहामसि ॥२९॥ अवाचीनान् अव जहीन्द्र वज्रेण बाहुमान् । अधा सपत्नान् मामकान् अग्नेस्तेजोभिरादिषि ॥३०॥ {३} अग्ने सपत्नान् अधरान् पादयास्मद्व्यथया सजातमुत्पिपानं बृहस्पते । इन्द्राग्नी मित्रावरुणावधरे पद्यन्तामप्रतिमन्यूयमानाः ॥३१॥ उद्यंस्त्वं देव सूर्य सपत्नान् अव मे जहि । अवैनान् अश्मना जहि ते यन्त्वधमं तमः ॥३२॥ वत्सो विराजो वृषभो मतीनामा रुरोह शुक्रपृष्ठोऽन्तरिक्षम् । घृतेनार्कमभ्यर्चन्ति वत्सं ब्रह्म सन्तं ब्रह्मणा वर्धयन्ति ॥३३॥ दिवं च रोह पृथिवीं च रोह राष्ट्रं च रोह द्रविणं च रोह । प्रजां च रोहामृतं च रोह रोहितेन तन्वं सं स्पृषस्व ॥३४॥ ये देवा राष्ट्रभृतोऽभितो यन्ति सूर्यम् । तैष्टे रोहितः सम्विदानो राष्ट्रं दधातु सुमनस्यमानः ॥३५॥ उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति । तिरः समुद्रमति रोचसेऽर्णवम् ॥३६॥ रोहिते द्यावापृथिवी अधि श्रिते वसुजिति गोजिति संधनाजिति । सहस्रं यस्य जनिमानि सप्त च वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥३७॥ यशा यासि प्रदिशो दिशश्च यशाः पशूनामुत चर्षणीनाम् । यशाः पृथिव्या अदित्या उपस्थेऽहं भूयासं सवितेव चारुः ॥३८॥ अमुत्र सन्न् इह वेत्थेतः संस्तानि पश्यसि । इतः पश्यन्ति रोचनं दिवि सूर्यं विपश्चितम् ॥३९॥ देवो देवान् मर्चयस्यन्तश्चरस्यर्णवे । समानमग्निमिन्धते तं विदुः कवयः परे ॥४०॥ {४} अवः परेण पर एनावरेण पदा वत्सं बिब्रती गौरुदस्थात्। सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन् ॥४१॥ एकपदी द्विपदी सा चतुष्पद्यष्टापदी नवपदी बभूवुषी । सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥४२॥ आरोहन् द्याममृतः प्राव मे वचः । उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति ॥४३॥ वेद तत्ते अमर्त्य यत्त आक्रमणं दिवि । यत्ते सधस्थं परमे व्योमन् ॥४४॥ सूर्यो द्यां सूर्यः पृठिवीं सूर्य आपोऽति पश्यति । सूर्यो भूतस्यैकं चक्षुरा रुरोह दिवं महीम् ॥४५॥ उर्वीरासन् परिधयो वेदिर्भूमिरकल्पत । तत्रैतावग्नी आधत्त हिमं घ्रंसं च रोहितः ॥४६॥ हिमं घ्रंसं चाधाय यूपान् कृत्वा पर्वतान् । वर्षाज्यावग्नी ईजाते रोहितस्य स्वर्विदः ॥४७॥ स्वर्विदो रोहितस्य ब्रह्मणाग्निः समिध्यते । तस्माद्घ्रंसस्तस्माद्धिमस्तस्माद्यज्ञोऽजायत ॥४८॥ ब्रह्मणाग्नी वावृधानौ ब्रह्मवृद्धौ ब्रह्माहुतौ । ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥४९॥ सत्ये अन्यः समाहितोऽप्स्वन्यः समिध्यते । ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥५०॥ {५} यं वातः परिशुम्भति यं वेन्द्रो ब्रह्मणस्पतिः । ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥५१॥ वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम् । घ्रंसं तदग्निं कृत्वा चकार विश्वमात्मन्वद्वर्षेणाज्येन रोहितः ॥५२॥ वर्षमाजं घ्रंसो अग्निर्वेदिर्भूमिरकल्पत । तत्रैतान् पर्वतान् अग्निर्गीर्भिरूर्ध्वामकल्पयत्॥५३॥ गीर्भिरूर्ध्वान् कल्पयित्वा रोहितो भूमिमब्रवीत्। त्वयीदं सर्वं जायतां यद्भूतं यच्च भाव्यम् ॥५४॥ स यज्ञः प्रथमो भूतो भव्यो अजायत । तस्माद्ध जज्ञ इदं सर्वं यत्किं चेदं विरोचते रोहितेन ऋषिणाभृतम् ॥५५॥ यश्च गां पदा स्फुरति प्रत्यङ्सूर्यं च मेहति । तस्य वृश्चामि ते मूलं न छायां करवोऽपरम् ॥५६॥ यो माभिछायमत्येषि मां चाग्निं चान्तरा । तस्य वृश्चामि ते मूलं न छायां करवोऽपरम् ॥५७॥ यो अद्य देव सूर्य त्वां च मां चान्तरायति । दुष्वप्न्यं तस्मिं छमलं दुरितानि च मृज्महे ॥५८॥ मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मान्त स्थुर्नो अरातयः ॥५९॥ यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः । तमाहुतमशीमहि ॥६०॥ {६}
उदस्य केतवो दिवि शुक्रा भ्राजन्त ईरते । आदित्यस्य नृचक्षसो महिव्रतस्य मीढुषः ॥१॥ दिशां प्रज्ञानां स्वरयन्तमर्चिषा सुपक्षमाशुं पतयन्तमर्णवे । स्तवाम सूर्यं भुवनस्य गोपां यो रश्मिभिर्दिश आभाति सर्वाः ॥२॥ यत्प्राङ्प्रत्यङ्स्वधया यासि शीभं नानारूपे अहनी कर्षि मायया । तदादित्य महि तत्ते महि श्रवो यदेको विश्वं परि भूम जायसे ॥३॥ विपश्चितं तरणिं भ्राजमानं वहन्ति यं हरितः सप्त बह्वीः । स्रुताद्यमत्त्रिर्दिवमुन्निनाय तं त्वा पश्यन्ति परियान्तमाजिम् ॥४॥ मा त्वा दभन् परियान्तमाजिं स्वस्ति दुर्गामति याहि शीभम् । दिवं च सूर्य पृथिवीं च देवीमहोरात्रे विमिमानो यदेषि ॥५॥ स्वस्ति ते सूर्य चरसे रथाय येनोभावन्तौ परियासि सद्यः । यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥६॥ सुखं सूर्य रथमंशुमन्तं स्योनं सुवह्निमधि तिष्ठ वाजिनम् । यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥७॥ सप्त सूर्यो हरितो यातवे रथे हिरण्यत्वचसो बृहतीरयुक्त । अमोचि शुक्रो रजसः परस्ताद्विधूय देवस्तमो दिवमारुहत्॥८॥ उत्केतुना बृहता देव आगन्न् अपावृक्तमोऽभि ज्योतिरश्रैत्। दिव्यः सुपर्णः स वीरो व्यख्यददितेः पुत्रो भुवनानि विश्वा ॥९॥ उद्यन् रश्मीन् आ तनुषे विश्वा रुपाणि पुष्यसि । उभा समुद्रौ क्रतुना वि भासि सर्वांल्लोकान् परिभूर्भ्राजमानः ॥१०॥ {७} पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् । विश्वान्यो भुवना विचष्टे हैरण्यैरन्यं हरितो वहन्ति ॥११॥ दिवि त्वात्त्रिरधारयत्सूर्या मासाय कर्तवे । स एषि सुधृतस्तपन् विश्वा भूतावचाकशत्॥१२॥ उभावन्तौ समर्षसि वत्सः संमातराविव । नन्वेतदितः पुरा ब्रह्म देवा अमी विदुः ॥१३॥ यत्समुद्रमनु श्रितं तत्सिषासति सूर्यः । अध्वास्य विततो महान् पूर्वश्चापरश्च यः ॥१४॥ तं समाप्नोति जूतिभिस्ततो नाप चिकित्सति । तेनामृतस्य भक्षं देवानां नाव रुन्धते ॥१५॥ उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥१६॥ अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः । सूराय विश्वचक्षसे ॥१७॥ अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु । भ्राजन्तो अग्नयो यथा ॥१८॥ तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमा भासि रोचन ॥१९॥ प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः । प्रत्यङ्विश्वं स्वर्दृशे ॥२०॥ {८} येना पावक चक्षसा भुरण्यन्तं जनामनु । त्वं वरुण पश्यसि ॥२१॥ वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः । पश्यन् जन्मानि सूर्य ॥२२॥ सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षणम् ॥२३॥ अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । ताभिर्याति स्वयुक्तिभिः ॥२४॥ रोहितो दिवमारुहत्तपसा तपस्वी । स योनिमैति स उ जायते पुनः स देवानामधिपतिर्बभूव ॥२५॥ यो विश्वचर्षणिरुत विश्वतोमुखो यो विश्वतस्पाणिरुत विश्वतस्पृथः । सं बाहुभ्यां भरति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकः ॥२६॥ एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्। द्विपाद्ध षट्पदो भूयो वि चक्रमे त एकपदस्तन्वं समासते ॥२७॥ अतन्द्रो यास्यन् हरितो यदास्थाद्द्वे रूपे कृणुते रोचमानः । केतुमान् उद्यन्त्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि ॥२८॥ बण्महामसि सूर्य बडादित्य महामसि । महांस्ते महतो महिमा त्वमादित्य महामसि ॥२९॥ रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्वन्तः । उभा समुद्रौ रुच्या व्यापिथ देवो देवासि महिषः स्वर्जित्॥३०॥ {९} अर्वाङ्परस्तात्प्रयतो व्यध्व आशुर्विपश्चित्पतयन् पतङ्गः । विष्णुर्विचित्तः शवसाधितिष्ठन् प्र केतुना सहते विश्वमेजत्॥३१॥ चित्राश्चिकित्वान् महिषः सुपर्ण आरोचयन् रोदसी अन्तरिक्षम् । अहोरात्रे परि सूर्यं वसाने प्रास्य विश्वा तिरतो वीर्याणि ॥३२॥ तिग्मो विभ्राजन् तन्वं शिशानोऽरंगमासः प्रवतो रराणः । ज्योतिष्मान् पक्षी महिषो वयोधा विश्वा आस्थात्प्रदिशः कल्पमानः ॥३३॥ चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् । दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः ॥३४॥ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्राद्द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥३५॥ उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम् । पश्यम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रिः ॥३६॥ दिवस्पृष्ठे धावमानं सुपर्णमदित्याः पुत्रं नाथकाम उप यामि भीतः । स नः सूर्य प्र तिर दीर्घमायुर्मा रिषाम सुमतौ ते स्याम ॥३७॥ सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् । स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥३८॥ रोहितः कालो अभवद्रोहितोऽग्रे प्रजापतिः । रोहितो यज्ञानां मुखं रोहितः स्वराभरत्॥३९॥ रोहितो लोको अभवद्रोहितोऽत्यतपद्दिवम् । रोहितो रश्मिभिर्भूमिं समुद्रमनु सं चरत्॥४०॥ {१०} सर्वा दिशः समचरद्रोहितोऽधिपतिर्दिवः । दिवं समुद्रमाद्भूमिं सर्वं भूतं वि रक्षति ॥४१॥ आरोहन् छुक्रो बृहतीरतन्द्रो द्वे रूपे कृणुते रोचमानः । चित्रश्चिकित्वान् महिषो वातमाया यावतो लोकान् अभि यद्विभाति ॥४२॥ अभ्यन्यदेति पर्यन्यदस्यतेऽहोरात्राभ्यां महिषः कल्पमानः । सूर्यं वयं रजसि क्षियन्तं गातुविदं हवामहे नाधमानाः ॥४३॥ पृथिवीप्रो महिषो नाधमानस्य गातुरदब्धचक्षुः परि विश्वं बभूव । विश्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥४४॥ पर्यस्य महिमा पृथिवीं समुद्रं ज्योतिषा विभ्राजन् परि द्यामन्तरिक्षम् । सर्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥४५॥ अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् । यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ ॥४६॥ {११}
य इमे द्यावापृथिवी जजान यो द्रापिं कृत्वा भुवनानि वस्ते । यस्मिन् क्षियन्ति प्रदिशः षडुर्वीर्याः पतङ्गो अनु विचाकशीति । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । यस्माद्वाता ऋतुथा पवन्ते यस्मात्समुद्रा अधि विक्षरन्ति । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२॥ यो मारयति प्राणयति यस्मात्प्राणन्ति भुवनानि विश्वा । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥३॥ यः प्राणेन द्यावापृथिवी तर्पयत्यपानेन समुद्रस्य जठरं यः पिपर्ति । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥४॥ यस्मिन् विराट्परमेष्ठी प्रजापतिरग्निर्वैश्वानरः सह पङ्क्त्या श्रितः । यः परस्य प्राणं परमस्य तेज आददे । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥५॥ यस्मिन् षडुर्वीः पञ्च दिशो अधिश्रिताश्चतस्र आपो यज्ञस्य त्रयोऽक्षराः । यो अन्तरा रोदसी क्रुद्धश्चक्षुषैक्षत । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥६॥ यो अन्नादो अन्नपतिर्बभूव ब्रह्मणस्पतिरुत यः । भूतो भविष्यत्भुवनस्य यस्पतिः । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥७॥ अहोरात्रैर्विमितं त्रिंशदङ्गं त्रयोदशं मासं यो निर्मिमीते । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥८॥ कृस्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति । त आववृत्रन्त्सदनादृतस्य । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥९॥ यत्ते चन्द्रं कश्यप रोचनावद्यत्संहितं पुष्कलं चित्रभानु यस्मिन्त्सूर्या आर्पिताः सप्त साकम् । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥१०॥ {१२} बृहदेनमनु वस्ते पुरस्ताद्रथंतरं प्रति गृह्णाति पश्चात्। ज्योतिर्वसाने सदमप्रमादम् । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥११॥ बृहदन्यतः पक्ष आसीद्रथंतरमन्यतः सबले सध्रीची । यद्रोहितमजनयन्त देवाः । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१२॥ स वरुणः सायमग्निर्भवति स मित्रो भवति प्रातरुद्यन् । स सविता भूत्वान्तरिक्षेण याति स इन्द्रो भूत्वा तपति मध्यतो दिवम् । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१३॥ सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् । स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१४॥ अयं स देवो अप्स्वन्तः सहस्रमूलः परुशाको अत्त्रिः । य इदं विश्वं भुवनं जजान । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१५॥ शुक्रं वहन्ति हरयो रघुष्यदो देवं दिवि वर्चसा भ्राजमानम् । यस्योर्ध्वा दिवं तन्वस्तपन्त्यर्वाङ्सुवर्णैः पटरैर्वि भाति । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१६॥ येनादित्यान् हरितः सम्वहन्ति येन यज्ञेन बहवो यन्ति प्रजानन्तः । यदेकं ज्योतिर्बहुधा विभाति । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१७॥ सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा । त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१८॥ अष्टधा युक्तो वहति वह्निरुग्रः पिता देवानां जनिता मतीनाम् । ऋतस्य तन्तुं मनसा मिमानः सर्वा दिशः पवते मातरिश्वा । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१९॥ संयञ्चं तन्तुं प्रदिशोऽनु सर्वा अन्तर्गायत्र्याममृतस्य गर्भे । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२०॥ {१३} निम्रुचस्तिस्रो व्युषो ह तिस्रस्त्रीणि रजांसि दिवो अङ्ग तिस्रः । विद्मा ते अग्ने त्रेधा जनित्रं त्रेधा देवानां जनिमानि विद्म । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥२१॥ वि य और्णोत्पृथिवीं जायमान आ समुद्रमदधातन्तरिक्षे । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२२॥ त्वमग्ने क्रतुभिः केतुभिर्हितोऽर्कः समिद्ध उदरोचथा दिवि । किमभ्यार्चन् मरुतः पृश्निमातरो यद्रोहितमजनयन्त देवाः । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥२३॥ य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । योऽस्येशे द्विपदो यश्चतुष्पदः । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥२४॥ एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्। चतुष्पाच्चक्रे द्विपदामभिस्वरे संपश्यन् पङ्क्तिमुपतिष्ठमानः । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥२५॥ कृष्णायः पुत्रो अर्जुनो रात्र्या वत्सोऽजायत । स ह द्यामधि रोहति रुहो रुरोह रोहितः ॥२६॥ {१४}
स एति सविता स्वर्दिवस्पृष्ठेऽवचाकशत्॥१॥ रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥२॥ स धाता स विधर्ता स वायुर्नभ उच्छ्रितम् ॥३॥ सोऽर्यमा स वरुणः स रुद्रः स महादेवः ॥४॥ सो अग्निः स उ सूर्यः स उ एव महायमः ॥५॥ तं वत्सा उप तिष्ठन्त्येकशीर्षाणो युता दश ॥६॥ पश्चात्प्राञ्च आ तन्वन्ति यदुदेति वि भासति ॥७॥ तस्यैष मारुतो गणः स एति शिक्याकृतः ॥८॥ रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥९॥ तस्येमे नव कोशा विष्टम्भा नवधा हिताः ॥१०॥ स प्रजाभ्यो वि पश्यति यच्च प्राणति यच्च न ॥११॥ तमिदं निगतं सहः स एष एक एकवृदेक एव ॥१२॥ एते अस्मिन् देवा एकवृतो भवन्ति ॥१३॥ {१५}
कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥१४॥ य एतं देवमेकवृतं वेद ॥१५॥ न द्वितीयो न तृतीयश्चतुर्थो नाप्युच्यते ॥१६॥ न पञ्चमो न षष्ठः सप्तमो नाप्युच्यते ॥१७॥ नाष्टमो न नवमो दशमो नाप्युच्यते ॥१८॥ स सर्वस्मै वि पश्यति यच्च प्राणति यच्च न ॥१९॥ तमिदं निगतं सहः स एष एक एकवृदेक एव ॥२०॥ सर्वे अस्मिन् देवा एकवृतो भवन्ति ॥२१॥ {१६}
ब्रह्म च तपश्च कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥२२॥ भूतं च भव्यं च श्रद्धा च रुचिश्च स्वर्गश्च स्वधा च ॥२३॥ य एतं देवमेकवृतं वेद ॥२४॥ स एव मृत्युः सोऽमृतं सोऽभ्वं स रक्षः ॥२५॥ स रुद्रो वसुवनिर्वसुदेये नमोवाके वषट्कारोऽनु संहितः ॥२६॥ तस्येमे सर्वे यातव उप प्रशिषमासते ॥२७॥ तस्यामू सर्वा नक्षत्रा वशे चन्द्रमसा सह ॥२८॥ {१७}
स वा अह्नोऽजायत तस्मादहरजायत ॥२९॥ स वै रात्र्या अजायत तस्माद्रात्रिरजायत ॥३०॥ स वा अन्तरिक्षादजायत तस्मादन्तरिक्षमजायत ॥३१॥ स वै वायोरजायत तस्माद्वायुरजायत ॥३२॥ स वै दिवोऽजायत तस्माद्द्यौरधि अजायत ॥३३॥ स वै दिग्भ्योऽजायत तस्माद्दिशोऽजायन्त ॥३४॥ स वै भूमेरजायत तस्माद्भूमिरजायत ॥३५॥ स वा अग्नेरजायत तस्मादग्निरजायत ॥३६॥ स वा अद्भ्योऽजायत तस्मादापोऽजायन्त ॥३७॥ स वा ऋग्भ्योऽजायत तस्मादृचोऽजायन्त ॥३८॥ स वै यज्ञादजायत तस्माद्यज्ञोऽजायत ॥३९॥ स यज्ञस्तस्य यज्ञः स यज्ञस्य शिरस्कृतम् ॥४०॥ स स्तनयति स वि द्योतते स उ अश्मानमस्यति ॥४१॥ पापाय वा भद्राय वा पुरुषायासुराय वा ॥४२॥ यद्वा कृणोष्योषधीर्यद्वा वर्षसि भद्रया यद्वा जन्यमवीवृधः ॥४३॥ तावांस्ते मघवन् महिमोपो ते तन्वः शतम् ॥४४॥ उपो ते बध्वे बद्धानि यदि वासि न्यर्बुदम् ॥४५॥ {१८}
भूयान् इन्द्रो नमुराद्भूयान् इन्द्रासि मृत्युभ्यः ॥४६॥ भूयान् अरात्याः शच्याः पतिस्त्वमिन्द्रासि विभूः प्रभूरिति त्वोपास्महे वयम् ॥४७॥ नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥४८॥ अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥४९॥ अम्भो अमो महः सह इति त्वोपास्महे वयम् ॥५०॥ अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम् ॥५१॥ {१९}
उरुः पृथुः सुभूर्भुव इति त्वोपास्महे वयम् ॥५२॥ प्रथो वरो व्यचो लोक इति त्वोपास्महे वयम् ॥५३॥ भवद्वसुरिदद्वसुः संयद्वसुरायद्वसुरिति त्वोपास्महे वयम् ॥५४॥ नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥५५॥ अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥५६॥ {२०}
Using this in academic work? Get formal citation
Tradição Védica (Atharvan ṛṣis) (2026). Atharvaveda Śaunakīya — Kāṇḍa 13. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/atharvaveda-shaunakiya-kanda-13
Tradição Védica (Atharvan ṛṣis). "Atharvaveda Śaunakīya — Kāṇḍa 13." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/atharvaveda-shaunakiya-kanda-13.
Tradição Védica (Atharvan ṛṣis). "Atharvaveda Śaunakīya — Kāṇḍa 13." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/atharvaveda-shaunakiya-kanda-13.