Bhāṣya Ratnaprabhā Vyākhyā
Govindānanda
तमहमाशु हरिं परमाश्रये जनकजाङ्कमनन्तसुखाकृतिम् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 श्रीगौर्या सकलार्थदं निजपदाम्भोजेन मुक्तिप्रदं प्रौढं विघ्नवनं हरन्तमनघं श्रीढुण्ढितुण्डासिना ।
वन्दे चर्मकपालिकोपकरणैर्वैराग्यसौख्यात्परं नास्तीति प्रदिशन्तमन्तविधुरं श्रीकाशिकेशं शिवम् ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 यत्कृपालवमात्रेण मूको भवति पण्डितः ।
वेदशास्त्रशरीरां तां वाणीं वीणाकरां भजे ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 कामाक्षीदत्तदुग्धप्रचुरसुरनुतप्राज्यभोज्याधिपूज्यश्रीगौरीनायकाभित्प्रकटनशिवरामार्यलब्धात्मबोधैः ।
श्रीमद्गोपालगीर्भिः प्रकटितपरमाद्वैतभासास्मितास्यश्रीमद्गोविन्दवाणीचरणकमलगो निर्वृतोऽहं यथालिः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 श्रीशङ्करं भाष्यकृतं प्रणम्य व्यासं हरिं सूत्रकृतं च वच्मि ।
श्रीभाष्यतीर्थे परहंसतुष्ट्यै वाग्जालबन्धच्छिदमभ्युपायम् ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 विस्तृतग्रन्थवीक्षायामलसं यस्य मानसम् ।
व्याख्या तदर्थमारब्धा भाष्यरत्नप्रभाभिधा ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 श्रीमच्छारीरकं भाष्यं प्राप्य वाक्शुद्धिमाप्नुयात् ।
इति श्रमो मे सफलो गङ्गां रथ्योदकं यथा ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 यदज्ञानसमुद्भूतमिन्द्रजालमिदं जगत् ।
सत्यज्ञानसुखानन्तं तदहं ब्रह्म निर्भयम् ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 इह खलु ‘स्वाध्यायोऽध्येतव्यः’(श॰ब्रा॰ ११-५७) इति नित्याध्ययनविधिनाधीतसाङ्गस्वाध्याये ‘तद्विजिज्ञासस्व’ (तै.उ. ३ । १ । १) ’सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ (छा.उ. ८ । ७ । १) ’आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’ (बृ.उ. २ । ४ । ५) इति श्रवणविधिरुपलभ्यते । तस्यार्थः अमृतत्वकामेनाद्वैतात्मविचार एव वेदान्तवाक्यैः कर्तव्य इति । तेन काम्येन नियमविधिनार्थाद्भिन्नात्मशास्त्रप्रवृत्तिः, वैदिकानां पुराणादिप्राधान्यं वा निरस्यत इति वस्तुगतिः । तत्र कश्चिदिह जन्मनि जन्मान्तरे वानुष्टितयज्ञादिभिर्नितान्तविमलस्वान्तोऽस्य श्रवणविधेः को विषयः, किं फलम् , कोऽधिकारी, कः सम्बन्ध इति जिज्ञासते । तं जिज्ञासुमुपलभमानो भगवान्बादरायणस्तदनुबन्धचतुष्टयं श्रवणात्मकशास्त्रारम्भप्रयोजकं न्यायेन निर्णेतुमिदं सूत्रं रचयाञ्चकार ‘अथातो ब्रह्मजिज्ञासा’ (ब्र.सू. १ । १ । १) इति ॥ नन्वनुबन्धजातं विधिसन्निहितार्थवादवाक्यैरेव ज्ञातुं शक्यम् । तथाहि - ‘तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८ । १ । ६) इति श्रुत्या ‘यत्कृतकं तदनित्यम्’ इति न्यायवत्या ‘न जायते म्रियते वा विपश्चित्’ (क. उ. १ । २ । १८) ‘यो वै भूमा तदमृतम्’ (छा.उ. ७ । २४ । १) ‘अतोऽन्यदार्तम्’ (बृ॰उ॰ ३-४-२) इत्यादि श्रुत्या च भूमात्मा नित्यस्ततोऽन्यदनित्यमज्ञानस्वरूपमिति विवेको लभ्यते । कर्मणा कृष्यादिना चितः सम्पादितः सस्यादिलोकः - भोग्य इत्यर्थः । विपश्चिन्नित्यज्ञानस्वरूपः । ‘परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन’ (मु.उ. १ । २ । १२) ‘आत्मनस्तु कामाय सर्वं प्रियं भवति’ (बृ. उ. २ । ४ । ५) इत्यादिश्रुत्यानात्ममात्रे देहेन्द्रियादिसकलपदार्थजाते वैराग्यं लभ्यते । परीक्ष्यानित्यत्वेन निश्चित्य, अकृतो मोक्षः कृतेन कर्मणा नास्तीति कर्मतत्फलेभ्यो वैराग्यं प्राप्नुयादित्यर्थः । ‘शान्तो दान्त उपरतस्तितिक्षुः समाहितः श्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्येत्’ (बृ.उ. ४ । ४ । २३) इति श्रुत्या शमादिषट्कं लभ्यते । ‘समाहितो भूत्वा’ इति काण्वपाठः । उपरतिः सन्न्यासः । ‘न स पुनरावर्तते’ (कालाग्निरु० २) इति स्वयञ्ज्योतिरानन्दात्मकमोक्षस्य नित्यत्वश्रुत्या मुमुक्षा लभ्यते । तथा च विवेकादिविशेषणवानधिकारीति ज्ञातुं शक्यम् । यथा ‘य एता रात्रीरुपयन्ति’ इति रात्रिसत्रविधौ ‘प्रतितिष्ठन्ति’ इत्यर्थवादस्थप्रतिष्ठाकामस्तद्वत् तथा ‘श्रोतव्यः’ (बृ.उ. २ । ४ । ५) इत्यत्र प्रत्ययार्थस्य नियोगस्य प्रकृत्यर्थो विचारो विषयः विचारस्य वेदान्ता विषय इति शक्यं ज्ञातुम् , ‘आत्मा द्रष्टव्यः’ इत्यद्वैतात्मदर्शनमुद्दिश्य ‘श्रोतव्यः’ इति विचारविधानात् । न हि विचारः साक्षाद्दर्शनहेतुः, अप्रमाणत्वात् , अपि तु प्रमाणविषयत्वेन । प्रमाणं चाद्वैतात्मनि वेदान्ता एव, ‘तं त्वौपनिषदंं पुरुषम्’, ‘वेदान्तविज्ञानसुनिश्चितार्थाः’ (मु.उ. ३ । २ । ६) इति श्रुतेः । वेदान्तानां च प्रत्यग्ब्रह्मैक्यं विषयः, ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘अहं ब्रह्मास्मि’ (बृ.उ. १ । ४ । १०) इति श्रुतेः । एवं विचारविधेः फलमपि ज्ञानद्वारा मुक्तिः, ‘तरति शोकमात्मवित्’ (छा.उ. ७ । १ । ३) ‘ब्रह्मविद्ब्रह्मैव भवति’ (मु.उ. ३ । २ । ९) इत्यादिश्रुतेः । तथा सम्बन्धोऽप्यधिकारिणा विचारस्य कर्तव्यतारूपः, फलस्य प्राप्यतारूप इति यथायोग्यं सुबोधः । तस्मादिदं सूत्रं व्यर्थमिति चेत् । न । तासामधिकार्यादिश्रुतीनां स्वार्थे तात्पर्यनिर्णायकन्यायसूत्राभावे किं विवेकादिविशेषणवानधिकारी उतान्यः, किं वेदान्ताः पूर्वतन्त्रेण अगतार्था वा, किं ब्रह्म प्रत्यगभिन्नं न वा, किं मुक्तिः स्वर्गादिवल्लोकान्तरम् , आत्मस्वरूपा वेति संशयानिवृत्तेः । तस्मादागमवाक्यैरापाततः प्रतिपन्नाधिकार्यादिनिर्णयार्थमिदं सूत्रमावश्यकम् । तदुक्तं प्रकाशात्मश्रीचरणैः - ‘अधिकार्यादीनामागमिकत्वेऽपि न्यायेन निर्णयार्थमिदं सूत्रम्’ इति । येषां मते श्रवणे विधिर्नास्ति तेषामविहितश्रवणेऽधिकार्यादिनिर्णयानपेक्षणात्सूत्रं व्यर्थमित्यापततीत्यलं प्रसङ्गेन ॥ तथा चास्य सूत्रस्य श्रवणविध्यपेक्षिताधिकार्यादिश्रुतिभिः स्वार्थनिर्णयायोत्थापितत्वाद्धेतुहेतुमद्भावः श्रुतिसङ्गतिः, शास्त्रारम्भहेत्वनुबन्धनिर्णायकत्वेनोपोद्घातत्वाच्छास्त्रादौ सङ्गतिः, अधिकार्यादिश्रुतीनां स्वार्थे समन्वयोक्तेः समन्वयाध्यायसङ्गतिः, ‘ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि’ (छा.उ. ६ । ८ । ७) इत्यादिश्रुतीनां सर्वात्मत्वादिस्पष्टब्रह्मलिङ्गानां विषयादौ समन्वयोक्तेः पादसङ्गतिः, एवं सर्वसूत्राणां श्रुत्यर्थनिर्णायकत्वाच्छ्रुतिसङ्गतिः, तत्तदध्याये तत्तत्पादे च समानप्रमेयत्वेन सङ्गतिरूहनीया । प्रमेयं च कृत्स्नशास्त्रस्य ब्रह्म । अध्यायानां तु समन्वयाविरोधसाधनफलानि । तत्र प्रथमपादस्य स्पष्टब्रह्मलिङ्गानां श्रुतीनां समन्वयः प्रमेयः । द्वितीयतृतीययोरस्पष्टब्रह्मलिङ्गानाम् । चतुर्थपादस्य पदमात्रसमन्वय इति भेदः । अस्याधिकरणस्य प्राथम्यान्नाधिकरणसङ्गतिरपेक्षिता ॥ अथाधिकरणमारच्यते - ‘श्रोतव्यः’ (बृ.उ. २ । ४ । ५) इति विहितश्रवणात्मकं वेदान्तमीमांसाशास्त्रं विषयः । तत्किमारब्धव्यं न वेति विषयप्रयोजनसम्भवासम्भवाभ्यां संशयः । तत्र नाहं ब्रह्मेति भेदग्राहिप्रत्यक्षेण कर्तृत्वाकर्तृत्वादिविरुद्धधर्मवत्त्वलिङ्गकानुमानेन च विरोधेन ब्रह्मात्मनोरैक्यस्य विषयस्यासम्भवात् , सत्यबन्धस्य ज्ञानान्निवृत्तिरूपफलासम्भवान्नारम्भणीयमिति प्राप्ते सिद्धान्तः ‘अथातो ब्रह्मजिज्ञासा’ इति । अत्र श्रवणविधिसमानार्थत्वाय ‘कर्तव्या’ इति पदमध्याहर्तव्यम् । अध्याहृतं च भाष्यकृता ‘ब्रह्मजिज्ञासा कर्तव्या’ इति । तत्र प्रकृतिप्रत्ययार्थयोर्ज्ञानेच्छयोः कर्तव्यत्वानन्वयात्प्रकृत्या फलीभूतं ज्ञानमजहल्लक्षणयोच्यते । प्रत्ययेनेच्छासाध्यो विचारो जहल्लक्षणया । तथा च ब्रह्मज्ञानाय विचारः कर्तव्य इति सूत्रस्य श्रौतोऽर्थः सम्पद्यते । तत्र ज्ञानस्य स्वतःफलत्वायोगात्प्रमातृत्वकर्तृत्वभोक्तृत्वात्मकानर्थनिवर्तकत्वेनैव फलत्वं वक्तव्यम् । तत्रानर्थस्य सत्यत्वे ज्ञानमात्रान्निवृत्त्ययोगादध्यस्तत्वं वक्तव्यमिति बन्धस्याध्यस्तत्वमर्थात्सूचितम् । तच्च शास्त्रस्य विषयप्रयोजनवत्त्वसिद्धिहेतुः । तथाहि शास्त्रमारब्धव्यम् , विषयप्रयोजनवत्त्वात् , भोजनादिवत् । शास्त्रं प्रयोजनवत् , बन्धनिवर्तकज्ञानहेतुत्वात् , रज्जुरियमित्यादिवाक्यवत् । बन्धो ज्ञाननिवर्त्योऽध्यस्तत्वात् , रज्जुसर्पवत् । इति प्रयोजनसिद्धिः । एवमर्थाद्ब्रह्मज्ञानाज्जीवगतानर्थभ्रमनिवृत्तिं फलं सूत्रयन् जीवब्रह्मणोरैक्यं विषयमप्यर्थात्सूचयति, अन्यज्ञानादन्यत्र भ्रमानिवृत्तेः । जीवो ब्रह्माभिन्नः, तज्ज्ञाननिवर्त्याध्यासाश्रयत्वात् । यदित्थं तत्तथा, यथा शुक्त्यभिन्न इदमंश इति विषयसिद्धिहेतुरध्यासः । इत्येवं विषयप्रयोजनवत्त्वाच्छास्त्रमारम्भणीयमिति। । अत्र पूर्वपक्षे बन्धस्य सत्यत्वेन ज्ञानादनिवृत्तेरुपायान्तरसाध्या मुक्तिरिति फलम् । सिद्धान्ते ज्ञानादेव मुक्तिरिति विवेकः । इति सर्वं मनसि निधाय ब्रह्मसूत्राणि व्याख्यातुकामो भगवान् भाष्यकारः सूत्रेण विचारकर्तव्यतारूपश्रौतार्थान्यथानुपपत्त्यार्थात्सूत्रितं विषयप्रयोजनवत्वमुपोद्धातत्वात्तत्सिद्धिहेत्वध्यासाक्षेप समाधानभाष्याभ्यां प्रथमं वर्णयति - युष्मदस्मत्प्रत्ययगोचरयोरिति । एतेन सूत्रार्थास्पर्शित्वादध्यासग्रन्थो न भाष्यमिति निरस्तम् , आर्थिकार्थस्पर्शित्वात् ॥ यत्तु मङ्गलाचरणाभावादव्याख्येयमिदं भाष्यमिति, तन्न । ‘सुतरामितरेतरभावानुपपत्तिः’ इत्यन्तभाष्यरचनार्थं तदर्थस्य सर्वोपप्लवरहितस्य विज्ञानघनप्रत्यगर्थस्य तत्त्वस्य स्मृतत्वात् । अतो निर्दोषत्वादिदं भाष्यं व्याख्येयम् ॥ लोके शुक्ताविदं रजतमिति भ्रमः, सत्यरजते इदं रजतमित्यधिष्ठानसामान्यारोप्यविशेषयोरैक्यप्रमाहितसंस्कारजन्यो दृष्ट इत्यत्राप्यात्मन्यनात्माहङ्काराध्यासे पूर्वप्रमा वाच्या, सा चात्मानात्मनोर्वास्तवैक्यमपेक्षते, न हि तदस्ति । तथाहि आत्मानात्मानावैक्यशून्यौ, परस्परैक्यायोग्यत्वात् , तमःप्रकाशवत् । इति मत्वा हेतुभूतं विरोधं वस्तुतः प्रतीतितो व्यवहारतश्च साधयति - युष्मदस्मत्प्रत्ययगोचरयोरिति । न च ‘प्रत्ययोत्तरपदयोश्च’(पा॰सू॰ ७-२-९८) इति सूत्रेण ‘प्रत्यये उत्तरपदे च परतो युष्मदस्मदोर्मपर्यन्तस्य त्वमादेशौ स्तः’ इति विधानात् , त्वदीयं मदीयं त्वत्पुत्रो मत्पुत्र इतिवत् ‘त्वन्मत्प्रत्ययगोचरयोः’ इति स्यादिति वाच्यम् । ‘त्वमावेकवचने’(पा॰सू॰ ७-२-९७) इत्येकवचनाधिकारात् । अत्र च युष्मदस्मदोरेकार्थ वाचित्वाभावादनात्मनां युष्मदर्थानां बहुत्वादस्मदर्थचैतन्यस्याप्युपाधितो बहुत्वात् ॥ नन्वेवं सति कथमत्र भाष्ये विग्रहः । न च यूयमिति प्रत्ययो युष्मत्प्रत्ययः, वयमिति प्रत्ययोऽस्मत्प्रत्ययस्तद्गोचरयोरिति विग्रह इति वाच्यम् , शब्दसाधुत्वेऽप्यर्थासाधुत्वात् । न ह्यहङ्काराद्यनात्मनो यूयमिति प्रत्ययविषयत्वमस्तीति चेत् , न । गोचरपदस्य योग्यतापरत्वात् । चिदात्मा तावदस्मत्प्रत्यययोग्यः, तत्प्रयुक्तसंशयादिनिवृत्तिफलभाक्त्वात् , ‘न तावदयमेकान्तेनाविषयः, अस्मत्प्रत्ययविषयत्वात्’ इति भाष्योक्तेश्च । यद्यप्यहङ्कारादिरपि तद्योग्यस्तथापि चिदात्मनः सकाशादत्यन्तभेदसिद्ध्यर्थं युष्मत्प्रत्यययोग्य इत्युच्यते ॥ आश्रमश्रीचरणास्तु टीकायोजनायामेवमाहुः ‘सम्बोध्यचेतनो युष्मत्पदवाच्यः, अहङ्कारादिविशिष्टचेतनोऽस्मत्पदवाच्यः, तथा च युष्मदस्मदोः स्वार्थे प्रयुज्यमानयोरेव त्वमादेशनियमो न लाक्षणिकयोः, ‘युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वानावौ’(पा०सू० ८-१-२०) इति सूत्रासाङ्गत्यप्रसड्गात् । अत्र शब्दलक्षकयोरिव चिन्मात्रजडमात्रलक्षकयोरपि न त्वमादेशो लक्षकत्वाविशेषात्’ इति । यदि तयोः शब्दबोधकत्वे सत्येव त्वमादेशाभाव इत्यनेन सूत्रेण ज्ञापितं तदास्मिन्भाष्ये युष्मत्पदेन युष्मच्छब्दजन्यप्रत्यययोग्यः परागर्थो लक्ष्यते, अस्मच्छब्देन अस्मच्छब्दजन्यप्रत्यययोग्यः प्रत्यगात्मा । तथा च लक्ष्यतावच्छेदकतया शब्दोऽपि बोध्यत इति न त्वमादेशः । न च पराक्त्वप्रत्यक्त्वयोरेव लक्ष्यतावच्छेदकत्वम् , न शब्दयोग्यत्वांशस्य, गौरवादिति वाच्यम् । पराक्प्रतीचोर्विरोधस्फुरणार्थं विरुद्धशब्दयोग्यत्वस्यापि वक्तव्यत्वात् । अत एवेदमस्मत्प्रत्ययगोचरयोरिति वक्तव्येऽपीदंशब्दोऽस्मदर्थे लोके वेदे च बहुशः, इमे वयमास्महे, इमे विदेहाः, अयमहमस्मीति च प्रयोगदर्शनान्नास्मच्छब्दविरोधीति मत्वा युष्मच्छब्दः प्रयुक्तः, इदंशब्दप्रयोगे विरोधास्फूर्तेः । एतेन चेतनवाचित्वादस्मच्छब्दः पूर्वं प्रयोक्तव्यः ‘अभ्यर्हितं पूर्व’ इति न्यायात् , ‘त्यदादीनि सर्वैर्नित्यम्’(पा०सू० १-२-७२) इति सूत्रेण विहित एकशेषश्च स्यादिति निरस्तम् । ‘युष्मदस्मदोः’ इति सूत्र इवात्रापि पूर्वनिपातैकशेषयोरप्राप्तेः, एकशेषे विवक्षितविरोधास्फूर्तेश्च । वृद्धास्तु ‘युष्मदर्थादनात्मनो निष्कृष्य शुद्धस्य चिद्धातोरध्यारोपापवादन्यायेन ग्रहणं द्योतयितुमादौ युष्मद्ग्रहणम् ’ इत्याहुः । तत्र युष्मदस्मत्पदाभ्यां पराक्प्रत्यक्त्वेनात्मानात्मनोर्वस्तुतो विरोध उक्तः । प्रत्ययपदेन प्रतीतितो विरोध उक्तः । प्रतीयत इति प्रत्ययोऽहङ्कारादिरनात्मा दृश्यतया भाति । आत्मा तु प्रतीतित्वात्प्रत्ययः स्वप्रकाशतया भाति । गोचरपदेन व्यवहारतो विरोध उक्तः । युष्मदर्थः प्रत्यगात्मतिरस्कारेण कर्ताहमित्यादिव्यवहारगोचरः, अस्मदर्थस्त्वनात्मप्रविलापेन, अहं ब्रह्मेति व्यवहारगोचर इति त्रिधा विरोधः स्फुटीकृतः । युष्मच्चास्मच्च युष्मदस्मदी, ते एव प्रत्ययौ च तौ गोचरौ चेति युष्मदस्मत्प्रत्ययगोचरौ, तयोस्त्रिधा विरुद्धस्वभावयोरितरेतरभावोऽत्यन्ताभेदस्तादात्म्यं वा तदनुपपत्तौ सिद्धायामित्यन्वयः । ऐक्यासम्भवेऽपि शुक्लो घट इतिवत्तादात्म्यं किं न स्यादित्यत आह - विषयविषयिणोरिति । चिज्जडयोर्विषयविषयित्वाद्दीपघटयोरिव न तादात्म्यमिति भावः । युष्मदस्मदी पराप्रत्यग्वस्तुनी, ते एव प्रत्ययश्च गोचरश्चेति वा विग्रहः । अत्र प्रत्ययगोचरपदाभ्यामात्मानात्मनोः प्रत्यक्पराग्भावे चिदचित्त्वं हेतुरुक्तस्तत्र हेतुमाह - विषयविषयिणोरिति । अनात्मनो ग्राह्यत्वादचित्त्वम् , आत्मनस्तु ग्राहकत्वाच्चित्त्वं वाच्यम् । अचित्त्वे स्वस्य स्वेन ग्रहस्य कर्मकर्तृत्वविरोधेनासम्भवादप्रत्यक्षत्वापत्तेरित्यर्थः । यथेष्टं वा हेतुहेतुमद्भावः । नन्वेवमात्मानात्मनोः पराक्प्रत्यक्त्वेन, चिदचित्त्वेन, ग्राह्यग्राहकत्वेन च विरोधात्तमःप्रकाशवदैक्यस्य तादात्म्यस्य वानुपपत्तौ सत्याम् , तत्प्रमित्यभावेनाध्यासाभावेऽपि तद्धर्माणां चैतन्यसुखजाड्यदुःखादीनां विनिमयेनाध्यासोऽस्त्वित्यत आह - तद्धर्माणामपीति । तयोरात्मानात्मनोर्धर्मास्तद्धर्मास्तेषामपीतरेतरभावानुपपत्तिः । इतरत्र धर्म्यन्तरे इतरेषां धर्माणां भावः संसर्गस्तस्यानुपपत्तिरित्यर्थः । न हि धर्मिणोः संसर्गं विना धर्माणां विनिमयो अस्ति । स्फटिके लोहितवस्तुसान्निध्याल्लौहित्यधर्मसंसर्गः । असङ्गात्मधर्मिणः केनाप्यसंसर्गाद्धर्मिसंसर्गपूर्वको धर्मसंसर्गः कुतस्त्य इत्यभिप्रेत्योक्तं - सुतरामिति । नन्वात्मानात्मनोस्तादात्म्यस्य तद्धर्मसंसर्गस्य चाभावेऽप्यध्यासः किं न स्यादित्यत आह - इत्यत इति । इत्युक्तरीत्या तादात्म्याद्यभावेन तत्प्रमाया अभावादतः प्रमाजन्यसंस्कारस्याध्यासहेतोरभावात् ‘अध्यासो मिथ्येति भवितुं युक्तम्’ इत्यन्वयः । मिथ्याशब्दो द्व्यर्थः अपह्नववचनः, अनिर्वचनीयतावचनश्चेति । अत्र चापह्नवार्थः । ननु कुत्र कस्याध्यासोऽपह्नूयत इत्याशङ्क्य, आत्मन्यनात्मतद्धर्माणामनात्मन्यात्मतद्धर्माणामध्यासो निरस्यत इत्याह - अस्मत्प्रत्ययगोचर इत्यादिना । अहमितिप्रत्यययोग्यत्वं बुद्ध्यादेरप्यस्तीति मत्वा तत आत्मानं विवेचयति - विषयिणीति । बुद्ध्यादिसाक्षिणीत्यर्थः । साक्षित्वे हेतुः - चिदात्मक इति । अहमिति भासमाने चिदंशात्मनीत्यर्थः । युष्मत्प्रत्ययगोचरस्येति । त्वङ्कारयोग्यस्य । इदमर्थस्येति यावत् । नन्वहमिति भासमानबुद्ध्यादेः कथमिदमर्थत्वमित्यत आह - विषयस्येति । साक्षिभास्यस्येत्यर्थः । साक्षिभास्यत्वरूपलक्षणयोगाद्बुद्ध्यादेर्घटादिवदिदमर्थत्वं न प्रतिभासत इति भावः । अथवा यदात्मनो मुख्यं सर्वान्तरत्वरूपं प्रत्यक्त्वं प्रतीतित्वं ब्रह्मास्मीति व्यवहारगोचरत्वं चोक्तं तदसिद्धम् , अहमिति प्रतीयमानत्वात् , अहङ्कारवदित्याशङ्क्याह - अस्मत्प्रत्ययगोचर इति । अस्मच्चासौ प्रत्ययश्चासौ गोचरश्च तस्मिन्नित्यर्थः । अहंवृत्तिव्यङ्ग्यस्फुरणत्वं स्फुरणविषयत्वं वा हेतुः । आद्ये दृष्टान्ते हेत्वसिद्धिः । द्वितीये तु पक्षे तदसिद्धिरित्यात्मनो मुख्यं प्रत्यक्त्वादि युक्तमिति भावः । ननु यदात्मनो विषयित्वं तदसिद्धम् , अनुभवामीति शब्दवत्वात् , अहङ्कारवदित्यत आह - विषयिणीति । वाच्यत्वं लक्ष्यत्वं वा हेतुः । नाद्यः, पक्षे तदसिद्धेः । नान्त्यः, दृष्टान्ते तद्वैकल्यादिति भावः । देहं जानामीति देहाहङ्कारयोर्विषयविषयित्वेऽपि मनुष्योऽहमित्यभेदाध्यासवदात्माहङ्कारयोरप्यभेदाध्यासः स्यादित्यत आह - चिदात्मक इति । तयोर्जाड्याल्पत्वाभ्यां सादृश्यादध्यासेऽपि चिदात्मन्यनवच्छिन्ने जडाल्पाहङ्कारादेर्नाध्यास इति भावः । अहमिति भास्यत्वादात्मवदहङ्कारस्यापि प्रत्यक्त्वादिकं मुख्यमेव, ततः पूर्वोक्तपराक्त्वाद्यसिद्धिरित्याशङ्क्याह - युष्मदिति । अहंवृत्तिभास्यत्वमहङ्कारे नास्ति कर्तृकर्मत्वविरोधात् , चिद्भास्यत्वं चिदात्मनि नास्तीति हेत्वसिद्धिः । अतो बुद्ध्यादेः प्रतिभासतः प्रत्यक्त्वेऽपि पराक्त्वादिकं मुख्यमेवेति भावः । युष्मत्पराक्तच्चासौ प्रतीयत इति प्रत्ययश्चासौ कर्तृत्वादिव्यवहारगोचरश्च तस्येति विग्रहः । तस्य हेयत्वार्थमाह - विषयस्येति । षिञ् बन्धने । विसिनोति बध्नाति इति विषयस्तस्येत्यर्थः । आत्मन्यनात्मतद्धर्माध्यासो मिथ्या भवतु, अनात्मन्यात्मतद्धर्माध्यासः किं न स्यात् , अहं स्फुरामि सुखीत्याद्यनुभवादित्याशङ्क्याह - तद्विपर्ययेणेति । तस्मादनात्मनो विपर्ययो विरुद्धस्वभावश्चैतन्यम् । इत्थम्भावे तृतीया । चैतन्यात्मना विषयिणस्तद्धर्माणां च योऽहङ्कारादौ विषयेऽध्यासः स मिथ्येति नास्तीति भवितुं युक्तम् , अध्याससामग्र्यभावात् । न ह्यत्र पूर्वप्रमाहितसंस्कारः सादृश्यमज्ञानं वास्ति । निरवयवनिर्गुणस्वप्रकाशात्मनि गुणावयवसादृश्यस्य चाज्ञानस्य चायोगात् ॥ नन्वात्मनो निर्गुणत्वे तद्धर्माणामिति भाष्यं कथमिति चेत् , उच्यते । बुद्धिवृत्त्यभिव्यक्तं चैतन्यं ज्ञानम् , विषयाभेदेनाभिव्यक्तं स्फुरणम् , शुभकर्मजन्यवृत्तिव्यक्तमानन्द इत्येवं वृत्त्युपाधिकृतभेदात् ज्ञानादीनामात्मधर्मत्वव्यपदेशः । तदुक्तं टीकायां ‘आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्मा अपृथक्त्वेऽपि चैतन्यत्वात्पृथगिवावभासन्ते ’ इति । अतो निर्गुणब्रह्मात्मत्वमते, अहं करोमीति प्रतीतेरर्थस्य चाध्यासत्वायोगात्प्रमात्वं सत्यत्वं च अहं नर इति सामानाधिकरण्यस्य गौणत्वमिति मतमास्थेयम् । तथा च बन्धस्य सत्यतया ज्ञानान्निवृत्तिरूपफलासम्भवाद्बद्धमुक्तयोर्जीवब्रह्मणोरैक्यायोगेन विषयासम्भवात् शास्त्रं नारम्भणीयमिति पूर्वपक्षभाष्यतात्पर्यम् । युक्तग्रहणात्पूर्वपक्षस्य दुर्बलत्वं सूचयति । तथाहि किमध्यासस्य नास्तित्वमयुक्तत्वादभानाद्वा कारणाभावाद्वा आद्य इष्ट इत्याह - तथापीति । एतदनुरोधादादौ यद्यपीति पठितव्यम् । अध्यासस्यासङ्गस्वप्रकाशात्मन्ययुक्तत्वमलङ्कार इति भावः । न द्वितीय इत्याह - अयमिति । अज्ञः कर्ता मनुष्योऽहमिति प्रत्यक्षानुभवादध्यासस्याभानमसिद्धमित्यर्थः । न चेदं प्रत्यक्षं कर्तृत्वादौ प्रमेति वाच्यम् । अपौरुषेयतया निर्दोषेण, उपक्रमादिलिङ्गावधृततात्पर्येण च तत्वमस्यादिवाक्येनाकर्तृत्वब्रह्मत्वबोधनेनास्य भ्रमत्वनिश्चयात् । न च ज्येष्ठप्रत्यक्षविरोधादागमज्ञानस्यैव बाध इति वाच्यम् , देहात्मवादप्रसङ्गात् , मनुष्योऽहमिति प्रत्यक्षविरोधेन ‘अथायमशरीरः’(बृ॰उ॰ ४-४-७) इत्यादिश्रुत्या देहादन्यात्मासिद्धेः । तस्मादिदं रजतमितिवत्सामानाधिकरण्यप्रत्यक्षस्य भ्रमत्वशङ्काकलङ्कितस्य नागमात्प्राबल्यमित्यास्थेयम् । किञ्च ज्येष्ठत्वं पूर्वभावित्वं वा आगमज्ञानं प्रत्युपजीव्यत्वं वा आद्ये न प्राबल्यम् , ज्येष्ठस्यापि रजतभ्रमस्य पश्चाद्भाविना शुक्तिज्ञानेन बाधदर्शनात् । न द्वितीयः । आगमज्ञानोत्पत्तौ प्रत्यक्षादिमूलवृद्धव्यवहारे सङ्गतिग्रहद्वारा, शब्दोपलब्धिद्वारा च प्रत्यक्षादेर्व्यावहारिकप्रामाण्यस्योपजीव्यत्वेऽपि तात्त्विकप्रामाण्यस्यानपेक्षितत्वात् , अनपेक्षितांशस्यागमेन बाधसम्भवादिति । यत्तु क्षणिकयागस्य श्रुतिबलात्कालान्तरभाविफलहेतुत्ववत् ‘तथा विद्वान्नामरूपाद्विमुक्तः’(मु॰उ॰ ३-२-७) इति श्रुतिबलात्सत्यस्यापि ज्ञानान्निवृत्तिसम्भवादध्यासवर्णनं व्यर्थमिति, तन्न । ज्ञानमात्रनिवर्त्यस्य क्वापि सत्यत्वादर्शनात् , सत्यस्य चात्मनो निवृत्त्यदर्शनाच्च, अयोग्यतानिश्चये सति सत्यबन्धस्य ज्ञानान्निवृत्तिश्रुतेर्बोधकत्वायोगात् । न च सेतुदर्शनात्सत्यस्य पापस्य नाशदर्शनान्नायोग्यतानिश्चय इति वाच्यम् , तस्य श्रद्धानियमादिसापेक्षज्ञाननाश्यत्वात् । बन्धस्य च ‘नान्यः पन्था’ इति श्रुत्या ज्ञानमात्रान्निवृत्तिप्रतीतेः, अतः श्रुतज्ञाननिवर्त्यत्वनिर्वाहार्थमध्यस्तत्वं वर्णनियम् । किं च ज्ञानैकनिवर्त्यस्य किं नाम सत्यत्वम् , न तावदज्ञानाजन्यत्वम् । ‘मायां तु प्रकृतिम्’ इति श्रुति विरोधान्मायाविद्ययोरैक्यात् । नापि स्वाधिष्ठाने स्वाभावशून्यत्वं ‘अस्थूलम्’ इत्यादिनिषेधश्रुतिविरोधात् । नापि ब्रह्मवद्बाधायोग्यत्वम् , ज्ञानान्निवृत्तिश्रुतिविरोधात् । अथ व्यवहारकाले बाधशून्यत्वम् , तर्हि व्यावहारिकमेव सत्यत्वमित्यागतमध्यस्तत्वम् । तच्च श्रुत्यर्थे योग्यता ज्ञानार्थं वर्णनीयमेव, यागस्यापूर्वद्वारत्ववत् । न च तदन्यत्वाधिकरणे तस्य वर्णनात्पौनरुक्त्यम् , तत्रोक्ताध्यासस्यैव प्रवृत्त्यङ्गविषयादिसिद्ध्यर्थमादौ स्मार्यमाणत्वादिति दिक् ॥ अध्यासं द्वेधा दर्शयति - लोकव्यवहार इति । लोक्यते मनुष्योऽहमित्यभिमन्यत इति लोकोऽर्थाध्यासः, तद्विषयो व्यवहारोऽभिमान इति ज्ञानाध्यासो दर्शितः । द्विविधाध्यासस्वरूपलक्षणमाह - अन्योन्यस्मिन् इत्यादिना धर्मधर्मिणोः इत्यन्तेन जाड्यचैतन्यादिधर्माणां धर्मिणावहङ्कारात्मानौ, तयोरत्यन्तं भिन्नयोरितरेतरभेदाग्रहेणान्योन्यस्मिन् अन्योन्यतादात्म्यमन्योन्यधर्मांश्च व्यत्यासेनाध्यस्य लोकव्यवहार इति योजना । अतः सोऽयमिति प्रमाया नाध्यासत्वम् , तदिदमर्थयोः कालभेदेन कल्पितभेदेऽप्यत्यन्तभेदाभावादिति वक्तुमत्यन्तेत्युक्तम् । न च धर्मितादात्म्याध्यासे धर्माध्याससिद्धेः ‘धर्मांश्च’ इति व्यर्थमिति वाच्यम् , अन्धत्वादीनामिन्द्रियधर्माणां धर्म्यध्यासास्फुटत्वेऽप्यन्धोऽहमिति स्फुटोऽध्यास इति ज्ञापनार्थत्वात् । नन्वात्मानात्मनोः परस्पराध्यस्तत्वे शून्यवादः स्यादित्याशङ्क्याह - सत्यानृते मिथुनीकृत्येति । सत्यमनिदं चैतन्यं तस्यानात्मनि संसर्गमात्राध्यासो न स्वरूपस्य । अनृतं युष्मदर्थः तस्य स्वरूपतोऽप्यध्यासात्तयोर्मिथुनीकरणमध्यास इति न शून्यतेत्यर्थः ॥ नन्वध्यासमिथुनीकरणलोकव्यवहारशब्दानामेकार्थत्वेऽध्यस्य मिथुुनीकृत्येति पूर्वकालत्ववाचिक्त्वाप्रत्ययादेशस्य ल्यपः कथं प्रयोग इति चेन्न, अध्यासव्यक्तिभेदात् । तत्र पूर्वपूर्वाध्यासस्योत्तरोत्तराध्यासं प्रति संस्कारद्वारा पूर्वकालत्वेन हेतुत्वद्योतनार्थं ल्यपः प्रयोगः । तदेव स्पष्टयति - नैसर्गिक इति । प्रत्यगात्मनि हेतुहेतुमद्भावेनाध्यासप्रवाहोऽनादिरित्यर्थः । ननु प्रवाहस्यावस्तुत्वात् , अध्यासव्यक्तीनां सादित्वात् , कथमनादित्वमिति चेत् । उच्यते अध्यासत्वावच्छिन्नव्यक्तीनां मध्येऽन्यतमया व्यक्त्या विनाऽदिकालस्यावर्तनं कार्यानादित्वमित्यङ्गीकारात् । एतेन कारणाभावादिति कल्पो निरस्तः, संस्कारस्य निमित्तस्य नैसर्गिकपदेनोक्तत्वात् । न च पूर्वप्रमाजन्य एव संस्कारो हेतुरिति वाच्यम् , लाघवेन पूर्वानुभवजन्यसंस्कारस्य हेतुत्वात् । अतः पूर्वाध्यासजन्यः संस्कारोऽस्तीति सिद्धम् । अध्यासस्योपादानमाह - मिथ्याज्ञाननिमित्त इति । मिथ्या च तदज्ञानं च मिथ्याज्ञानं तन्निमित्तमुपादानं यस्य स तन्निमित्तः । तदुपादानक इत्यर्थः । अज्ञानस्योपादानत्वेऽपि संस्फुरदात्मतत्वावरकतया दोषत्वेनाहङ्काराध्यासकर्तुरीश्वरस्योपाधित्वेन संस्कारकालकर्मादिनिमित्तपरिणामित्वेन च निमित्तत्वमिति द्योतयितुं निमित्तपदम् । स्वप्रकाशात्मन्यसङ्गे कथमविद्यासङ्गः, संस्कारादिसामग्र्यभावात् , इति शङ्कानिरासार्थं मिथ्यापदम् । प्रचण्डमार्तण्डमण्डले पेचकानुभवसिद्धान्धकारवत् , अहमज्ञ इत्यनुभवसिद्धमज्ञानं दुरपह्नवम् , कल्पितस्याधिष्ठानास्पर्शित्वात् , नित्यस्वरूपज्ञानस्याविरोधित्वाच्चेति । यद्वा अज्ञानं ज्ञानाभाव इति शङ्कानिरासार्थं मिथ्यापदम् । मिथ्यात्वे सति साक्षाज्ज्ञाननिवर्त्यत्वमज्ञानस्य लक्षणं मिथ्याज्ञानपदेनोक्तम् । ज्ञानेनेच्छाप्रागभावः साक्षान्निवर्त्यत इति वदन्तं प्रति मिथ्यात्वे सतीत्युक्तम् । अज्ञाननिवृत्तिद्वारा ज्ञाननिवर्त्यबन्धेऽतिव्याप्तिनिरासाय साक्षादिति । अनाद्युपादानत्वे सति मिथ्यात्वं वा लक्षणम् । ब्रह्मनिरासार्थं मिथ्यात्वमिति । मृदादिनिरासार्थमनादीति । अविद्यात्मनोः सम्बन्धनिरासार्थमुपादानत्वे सतीति । सम्प्रति अध्यासं द्रढयितुमभिलषति - अहमिदं ममेदमिति । आध्यात्मिककार्याध्यासेष्वहमिति प्रथमोऽध्यासः । न चाधिष्ठानारोप्यांशद्वयानुपलम्भात् नायमध्यास इति वाच्यम् , अयो दहतीतिवदहमुपलभ इति दृग्दृश्यांशयोरुपलम्भात् । इदं पदेन भोग्यः सङ्घात उच्यते । अत्राहमिदमित्यनेन मनुष्योऽहमिति तादात्म्याध्यासो दर्शितः । ममेदं शरीरमिति संसर्गाध्यासः ॥ ननु देहात्मनोस्तादात्म्यमेव संसर्ग इति तयोः को भेद इति चेत् , सत्यम् । सत्तैक्ये सति मिथो भेदस्तादात्म्यम् । तत्र मनुष्योऽहमित्यैक्यांशभानं ममेदमिति भेदांशरूपसंसर्गभानमिति भेदः । एवं सामग्रीसत्त्वादनुभवसत्त्वादध्यासोऽस्तीत्यतो ब्रह्मात्मैक्ये विरोधाभावेन विषयप्रयोजनयोः सत्त्वात्शास्त्रमारम्भणीयमिति सिद्धान्तभाष्यतात्पर्यम् । एवं च सूत्रेणार्थात्सूचिते विषयप्रयोजने प्रतिपाद्य तद्धेतुमध्यासं लक्षणसम्भावनाप्रमाणैः साधयितुं लक्षणं पृच्छति - आहेति । किंलक्षणकोऽध्यास इत्याह । पूर्ववादीत्यर्थः । अस्य शास्त्रस्य तत्त्वनिर्णयप्रधानत्वेन वादकथात्वद्योतनार्थमाहेति परोक्तिः । ‘आह’ इत्यादि ‘कथं पुनःप्रत्यगात्मनि’ इत्यतः प्रागध्यासलक्षणपरं भाष्यम् । तदारभ्य सम्भावनापरम् । "तमेतमविद्याख्यम्" इत्यारभ्य "सर्वलोकप्रत्यक्षः" इत्यन्तं प्रमाणपरमिति विभागः । लक्षणमाह - उच्यते - स्मृतिरूप इति । अध्यास इत्यनुषङ्गः । अत्र परत्रावभास इत्येव लक्षणम् , शिष्टं पदद्वयं तदुपपादनार्थम् । तथाहि अवभास्यत इत्यवभासो रजताद्यर्थः तस्यायोग्यमधिकरणं परत्रपदार्थः । अधिकरणस्यायोग्यत्वमारोप्यात्यन्ताभावत्वं तद्वत्वं वा । तथा चैकावच्छेदेन स्वसंसृज्यमाने स्वात्यन्ताभाववति अवभास्यत्वमध्यस्तत्वमित्यर्थः । इदं च साद्यनाद्यध्याससाधारणं लक्षणम् । संयोगेऽतिव्याप्तिनिरासायैकावच्छेदेनेति । संयोगस्य स्वसंसृज्यमाने वृक्षे स्वात्यन्ताभाववत्यवभास्यत्वेऽपि स्वात्यन्ताभावयोर्मूलाग्रावच्छेदकभेदान्नातिव्याप्तिः । पूर्वं स्वाभाववति भूतले पश्चादानीतो घटो भातीति घटेऽतिव्याप्तिनिरासाय स्वसंसृज्यमान इति पदम् , तेन स्वाभावकाले प्रतियोगिसंसर्गस्य विद्यमानतोच्यते इति नातिव्याप्तिः । भूत्वावच्छेदेनावभास्यगन्धेऽतिव्याप्तिवारणाय स्वात्यन्ताभाववतीति पदम् । शुक्ताविदन्त्वावच्छेदेन रजतसंसर्गकालेऽत्यन्ताभावोऽस्तीति नाव्याप्तिः । नन्वस्य लक्षणस्यासम्भवः, शुक्तौ रजतस्य सामग्र्यभावेन संसर्गासत्वात् । न च स्मर्यमाणसत्यरजतस्यैव परत्र शुक्ताववभास्यत्वेनाध्यस्तत्वोक्तिरिति वाच्यम् , अन्यथाख्यातिप्रसङ्गादित्यत आह - स्मृतिरूप इति । स्मर्यते इति स्मृतिः सत्यरजतादिः तस्य रूपमिव रूपमस्येति स्मृतिरूपः । स्मर्यमाणसदृश इत्यर्थः । सादृश्योक्त्या स्मर्यमाणादारोप्यस्य भेदात् , नान्यथाख्यातिरित्युक्तं भवति । सादृश्यमुपपादयति - पूर्वदृष्टेति । दृष्टं दर्शनम् , संस्कारद्वारा पूर्वदर्शनादवभास्यत इति पूर्वदृष्टावभासः । तेन संस्कारजन्यज्ञानविषयत्वं स्मर्यमाणारोप्ययोः सादृश्यमुक्तं भवति, स्मृत्यारोपयोः संस्कारजन्यत्वात् । न च संस्कारजन्यत्वादारोपस्य स्मृतित्वापत्तिरिति वाच्यम् , दोषसम्प्रयोगजन्यत्वस्यापि विवक्षितत्वेन संस्कारमात्रजन्यत्वाभावात् । अत्र सम्प्रयोगशब्देन अधिष्ठानसामान्यज्ञानमुच्यते, अहङ्काराध्यासे इन्द्रियसम्प्रयोगालाभात् । एवं च दोषसम्प्रयोगसंस्कारबलाच्छुक्त्यादौ रजतमुत्पन्नमस्तीति परत्रावभास्यत्वलक्षणमुपपन्नमिति स्मृतिरूपपूर्वदृष्टपदाभ्यामुपपादितम् । अन्ये तु ताभ्यां दोषादित्रयजन्यत्वं कार्याध्यासलक्षणमुक्तमित्याहुः । अपरे तु स्मृतिरूपः स्मर्यमाणसदृशः, सादृस्यं च प्रमाणाजन्यज्ञानविषयत्वं स्मृत्यारोपयोः प्रमाणाजन्यत्वात् । पूर्वदृष्टपदतज्जातीयपरम् , अभिनवरजतादेः पूर्वदृष्टत्वाभावात् । तथा च प्रमाणाजन्यज्ञानविषयत्वे सति पूर्वदृष्टजातीयत्वं प्रातीतिकाध्यासलक्षणं ताभ्यामुक्तम् । परत्रावभासशब्दाभ्यामध्यासमात्रलक्षणं व्याख्यातमेव । तत्र स्मर्यमाणगङ्गादौ अभिनवघटे चातिव्याप्तिनिरासाय प्रमाणेत्यादि पदद्वयमित्याहुः । तत्रार्थाध्यासे स्मर्यमाणसदृशः परत्र पूर्वदर्शनादवभास्यत इति योजना । ज्ञानाध्यासे तु स्मृतिसदृशः परत्र पूर्वदर्शनादवभास इति वाक्यं योजनीयमिति सङ्क्षेपः । ननु अध्यासे वादिविप्रतिपत्तेः कथमुक्तलक्षणसिद्धिरित्याशङ्क्याधिष्ठानारोप्यस्वरूपविवादेऽपि परत्र परावभास इति लक्षणे संवादाद्युक्तिभिः सत्याधिष्ठाने मिथ्यार्थावभाससिद्धेः सर्वतन्त्रसिद्धान्त इदं लक्षणमिति मत्वा अन्यथात्मख्यातिवादिनोर्मतमाह - तं केचिदिति । केचिदन्यथाख्यातिवादिनोऽन्यत्र शुक्त्यादावन्यधर्मस्य स्वावयवधर्मस्य देशान्तरस्थरूप्यादेरध्यास इति वदन्ति । आत्मख्यातिवादिनस्तु बाह्यशुक्त्यादौ बुद्धिरूपात्मनो धर्मस्य रजतस्याध्यासः, आन्तरस्य रजतस्य बहिर्वदवभास इति वदन्तीत्यर्थः । अख्यातिमतमाह - केचिदिति । यत्र यस्याध्यासो लोकसिद्धस्तयोरर्थयोस्तद्धियोश्च भेदाग्रहे सति तन्मूलो भ्रमः, इदं रूप्यमिति विशिष्टव्यवहार इति वदन्तीत्यर्थः । तैरपि विशिष्टव्यवहारान्यथानुपपत्त्या विशिष्टभ्रान्तेः स्वीकार्यत्वात् , परत्र परावभाससम्मतिरिति भावः । शून्यमतमाह - अन्ये त्विति । तस्यैवाधिष्ठानस्य शुक्त्यादेर्विपरीतधर्मत्वकल्पनां विपरीतो विरुद्धो धर्मो यस्य तद्भावस्तस्य रजतादेरत्यन्तासतः कल्पनामाचक्षत इत्यर्थः । एतेषु मतेषु परत्र परावभासत्वलक्षणसंवादमाह - सर्वथापि त्विति । अन्यथाख्यातित्वादिप्रकारविवादेऽप्यध्यासः परत्र परावभासत्वलक्षणं न जहातीत्यर्थः । शुक्तावपरोक्षस्य रजतस्य देशान्तरे बुद्धौ वा सत्त्वायोगात्शून्यत्वे प्रत्यक्षत्वायोगात् , शुक्तौ सत्त्वे बाधायोगात्मिथ्यात्वमेवेति भावः । आरोप्यमिथ्यात्वे न युक्त्यपेक्षा, तस्यानुभवसिद्धत्वादित्याह - तथा चेति । बाधानन्तरकालीनोऽयमनुभवः, तत्पूर्वं शुक्तिकात्वज्ञानायोगात् , रजतस्य बाधप्रत्यक्षसिद्धं मिथ्यात्वं वच्छब्देनोच्यते । आत्मनि निरुपाधिकेऽहङ्काराध्यासे दृष्टान्तमुक्त्वा ब्रह्मजीवावान्तरभेदस्याविद्याद्युपाधिकस्याध्यासे दृष्टान्तमाह - एक इति । द्वितीयचन्द्रसहितवदेक एवाङ्गुल्या द्विधा भातीत्यर्थः । लक्षणप्रकरणोपसंहारार्थ इति शब्दः । भवत्वध्यासः शुक्त्यादौ, आत्मनि तु न सम्भवतीत्याक्षिपति - कथं पुनरिति । यत्रापरोक्षाध्यासाधिष्ठानत्वं तत्रेन्द्रियसंयुक्तत्वं विषयत्वं चेति व्याप्तिः शुक्त्यादौ दृष्टा । तत्र व्यापकाभावादात्मनोऽधिष्ठानत्वं न सम्भवतीत्यभिप्रेत्याह - प्रत्यगात्मनीति । प्रतीचि पूर्ण इन्द्रियाग्राह्ये विषयस्याहङ्कारादेस्तद्धर्माणां चाध्यासः कथमित्यर्थः । उक्तव्याप्तिमाह - सर्वो हीति । पुरोऽवस्थितत्वमिन्द्रियसंयुक्तत्वम् । नन्वात्मनोऽप्यधिष्ठानत्वार्थं विषयत्वादिकमस्त्वित्यत आह - युष्मदिति । इदंप्रत्ययानर्हस्य प्रत्यगात्मनो ‘न चक्षुषा गृह्यते’ इत्यादि श्रुतिमनुसृत्य त्वमविषयत्वं ब्रवीषि । संप्रत्यध्यासलोभेन विषयत्वाङ्गीकारे श्रुतिसिद्धान्तयोर्बाधः स्यादित्यर्थः । आत्मन्यध्याससम्भावनां प्रतिजानीते - उच्यत इति । अधिष्ठानारोप्ययोरेकस्मिन् ज्ञाने भासमानत्वमात्रमध्यासव्यापकम् , तच्च भानप्रयुक्तसंशयनिवृत्त्यादिफलभाक्त्वम् , तदेव भानभिन्नत्वघटितं विषयत्त्वम् , तन्न व्यापकम् , गौरवादिति मत्वाह - न तावदिति । अयमात्मा नियमेनाविषयो न भवति । तत्र हेतुमाह - अस्मदिति । अस्मप्रत्ययोऽहमित्यध्यासस्तत्र भासमानत्वादित्यर्थः । अस्मदर्थचिदात्मा प्रतिबिम्बितत्वेन यत्र प्रतीयते सोऽस्मत्प्रत्ययोऽहङ्कारस्तत्र भासमानत्वादिति वार्थः । न चाध्यासे सति भासमानत्वं तस्मिन्सति स इति परस्पराश्रय इति वाच्यम् , अनादित्वात् , पूर्वाभ्यासे भासमानात्मन उत्तराध्यासाधिष्ठानत्वसम्भवात् ॥ नन्वहमित्यहङ्कारविषयकभानरूपस्यात्मनो भासमानत्वं कथम् , तद्विषयत्वं विना तत्फलभाक्त्वायोगादित्यत आह - अपरोक्षत्वाच्चेति । चशब्दः शङ्कानिरासार्थः । स्वप्रकाशत्वादित्यर्थः । स्वप्रकाशत्वं साधयति - प्रत्यगिति । आबालपण्डितमात्मनः संशयादिशून्यत्वेन प्रसिद्धेः स्वप्रकाशत्वमित्यर्थः । अतः स्वप्रकाशत्वेन भासमानत्वादात्मनोऽध्यासाधिष्ठानत्वं सम्भवतीति भावः । यदुक्तमपरोक्षाध्यासाधिष्ठानत्वस्येन्द्रियसंयुक्ततया ग्राह्यत्वं व्यापकमिति तत्राह - न चायमिति । तत्र हेतुमाह - अप्रत्यक्षेऽपीति । इन्द्रियाग्राह्येऽपीत्यर्थः । बाला अविवेकिनः तलमिन्द्रनीलकटाहकल्पं नभो मलिनं पीतमित्येवमपरोक्षमध्यस्यन्ति, तत्रेन्द्रियग्राह्यत्वं नास्तीति व्यभिचारान्न व्याप्तिः । एतेनात्मानात्मनोः सादृश्याभावान्नाध्यास इत्यपास्तम् , नीलनभसोस्तदभावेऽप्यध्यासदर्शनात् । सिद्धान्ते आलोकाकारचाक्षुषवृत्त्यभिव्यक्तसाक्षिवेद्यत्वं नभसि इति ज्ञेयम् । सम्भावनां निगमयति - एवमिति । ननु ब्रह्मज्ञाननाश्यत्वेन सूत्रितामविद्यां हित्वा अध्यासः किमिति वर्ण्यत इत्यत आह - तमेतमिति । आक्षिप्तं समाहितमुक्तलक्षणलक्षितमध्यासमविद्याकार्यत्वादविद्येति मन्यन्त इत्यर्थः । विद्यानिवर्त्यत्वाच्चास्याविद्यात्वमित्याह - तद्विवेकेनेति । अध्यस्तनिषेधेनाधिष्ठानस्वरूपनिर्धारणं विद्यामध्यासनिवर्तिकामाहुरित्यर्थः । तथापि कारणाविद्यां त्यक्त्वा कार्याविद्या किमिति वर्ण्यते तत्राह - तत्रेति । तस्मिन्नध्यासे उक्तन्यायेनाविद्यात्मके सतीत्यर्थः । मूलाविद्यायाः सषुप्तावनर्थत्वादर्शनात्कार्यात्मना तस्या अनर्थत्वज्ञापनार्थं तद्वर्णनमिति भावः । अध्यस्तकृतगुणदोषाभ्यामधिष्ठानं न लिप्यत इत्यक्षरार्थः । एवमध्यासस्य लक्षणसम्भावने उक्त्वा प्रमाणमाह - तमेतमिति । तं वर्णितमेतं साक्षिप्रत्यक्षसिद्धं पुरस्कृत्य हेतुं कृत्वा लौकिकः कर्मशास्त्रीयो मोक्षशास्त्रीयश्चेति त्रिविधो व्यवहारः प्रवर्तत इत्यर्थः | तत्र विधिनिषेधपराणि कर्मशास्त्राण्यृग्वेदादीनि, विधिनिषेधशून्यप्रत्यग्ब्रह्मपराणि मोक्षशास्त्राणि वेदान्तवाक्यानीति विभागः । एवं व्यवहारहेतुत्वेनाध्यासे प्रत्यक्षसिद्धेऽपि प्रमाणान्तरं पृच्छति - कथं पुनरिति । अविद्यावानहमित्यध्यासवानात्मा प्रमाता स विषय आश्रयो येषां तानि अविद्यावद्विषयाणीति विग्रहः । तत्तत्प्रमेयव्यवहारहेतुभूतायाः प्रमाया अध्यासात्मकप्रमात्राश्रितत्वात्प्रमाणानामविद्यावद्विषयत्वं यद्यपि प्रत्यक्षं तथापि पुनरपि कथं केन प्रमाणेनाविद्यावद्विषयत्वमिति योजना । यद्वाऽविद्यावद्विषयाणि कथं प्रमाणानि स्युः, आश्रयदोषादप्रामाण्यापत्तेरित्याक्षेपः । तत्र प्रमाणप्रश्ने व्यवहारार्थापत्तिम् , तल्लिङ्गानुमानं चाह - उच्यते इत्यादिना तस्मादित्यन्तेन । देवदत्तकर्तृको व्यवहारः, तदीयदेहादिष्वहंममाध्यासमूलः, तदन्वयव्यतिरेकानुसारित्वात् , यदित्थं तत्तथा, यथा मृन्मूलो घट इति प्रयोगः । तत्र व्यतिरेकं दर्शयति - देहेति । देवदत्तस्य सुषुप्तावध्यासाभावे व्यवहाराभावो दृष्टः, जाग्रत्स्वप्नयोरध्यासे सति व्यवहार इत्यन्वयः स्फुटत्वान्नोक्तः । अनेन लिङ्गेन कारणतयाध्यासः सिध्यति, व्यवहाररूपकार्यानुपपत्त्या वेति भावः । ननु मनुष्यत्वादिजातिमति देहेऽहमित्याभिमानमात्राद्व्यवहारः सिध्यतु किमिन्द्रियादिषु ममाभिमानेनेत्याशङ्क्याह - नहीति । इन्द्रियपदं लिङ्गादेरप्युपलक्षणम् , प्रत्यक्षादीत्यादिपदप्रयोगात् । तथा च प्रत्यक्षलिङ्गादिप्रयुक्तो यो व्यवहारो द्रष्टा अनुमाता श्रोताहमित्यादिरूपः स इन्द्रियादीनि ममतास्पदान्यगृहीत्वा न सम्भवतीत्यर्थः । यद्वा तानि ममत्वेनानुपादाय यो व्यवहारः स नेति योजना । पूर्वत्रानुपादानासम्भवक्रिययोरेको व्यवहारः कर्ता इति क्त्वाप्रत्ययः साधुः । उत्तरत्रानुपादानव्यवहारयोरेकात्मकर्तृकत्वात् , तत्साधुत्वमिति भेदः । इन्द्रियादिषु ममेत्यध्यासाभावेऽन्धादेरिव द्रष्टृत्वादिव्यवहारो न स्यादिति भावः । इन्द्रियाध्यासेनैव व्यवहारादलं देहाध्यासेनेत्यत आह - न चेति । इन्द्रियाणामधिष्ठानमाश्रयः । शरीरमित्यर्थः । नन्वस्त्वात्मना संयुक्तं शरीरं तेषामाश्रयः किमध्यासेनेत्यत्राह - न चानध्यस्तात्मभावेनेति । अनध्यस्त आत्मभावः आत्मतादात्म्यं यस्मिन् तेनेत्यर्थः । ‘असङ्गो हि’ इति श्रुतेः, आध्यासिक एव देहात्मनोः सम्बन्धो न संयोगादिरिति भावः । नन्वात्मनो देहादिभिराध्यासिकसम्बन्धोऽपि मास्तु, स्वतश्चेतनतया प्रमातृत्वोपपत्तेः । न च सुषुप्तौ प्रमातृत्वापत्तिः करणोपरमादिति तत्राह - न चैतस्मिन्निति । प्रमाश्रयत्वं हि प्रमातृत्वम् । प्रमा यदि नित्यचिन्मात्रं तर्ह्याश्रयत्वायोगः करणवैयर्थ्यं च । यदि वृत्तिमात्रम् , जगदान्ध्यप्रसङ्गः, वृत्तेर्जडत्वात् । अतो वृत्तीद्धो बोधः प्रमा, तदाश्रयत्वमसङ्गस्यात्मनो वृत्तिमन्मनस्तादात्म्याध्यासं विना न सम्भवतीति भावः । देहाध्यासे, तद्धर्माध्यासे चासतीत्यक्षरार्थः । तर्ह्यात्मनः प्रमातृत्वं मास्तु इति वदन्तं प्रत्याह - न चेति । तस्मादात्मनः प्रमातृत्वादिव्यवहारार्थमध्यासोऽङ्गीकर्तव्य इत्यनुमानार्थापत्त्योः फलमुपसंहरति - तस्मादिति । प्रमाणसत्त्वादित्यर्थः । यद्वा प्रमाणप्रश्नं समाधायाक्षेपं परिहरति - तस्मादिति । अहमित्यध्यासस्य प्रमात्रन्तर्गतत्वेनादोषत्वात् , अविद्यावदाश्रयाण्यपि प्रमाणान्येवेति योजना । सति प्रमातरि पश्चाद्भवन् दोष इत्युच्यते, यथा काचादिः । अविद्या तु प्रमात्रन्तर्गतत्वान्न दोषः, येन प्रत्यक्षादीनामप्रामाण्यं भवेदिति भावः । ननु यदुक्तमन्वयव्यतिरेकाभ्यां व्यवहारोऽध्यासकार्य इति, तदयुक्तं विदुषामध्यासाभावेऽपि व्यवहारदृष्टेरित्यत आह - पश्वादिभिश्चेति । चशब्दः शङ्कानिरासार्थः, किं विद्वत्त्वं ब्रह्मास्मीति साक्षात्कारः उत यौक्तिकमात्मानात्मभेदज्ञानम् । आद्ये बाधिताध्यासानुवृत्त्या व्यवहार इति समन्वयसूत्रे वक्ष्यते । द्वितीये परोक्षज्ञानस्यापरोक्षभ्रान्त्यनिवर्तकत्वात् , विवेकिनामपि व्यवहारकाले पश्वादिभिरविशेषात् अध्यासवत्त्वेन तुल्यत्वाद्व्यवहारोऽध्यासकार्य इति युक्तमित्यर्थः । अत्रायं प्रयोगः विवेकिनोऽध्यासवन्तः, व्यवहारवत्त्वात् , पश्वादिवदिति । तत्र सङ्ग्रहवाक्यं व्याकुर्वन् दृष्टान्ते हेतुं स्फुटयति - यथाहीति । विज्ञानस्यानुकूलत्वं प्रतिकूलत्वं चेष्टानिष्ठसाधनगोचरत्वम् , तदेवोदाहरति - यथेति । अयं दण्डो मदनिष्टसाधनम् , दण्डत्वात् , अनुभूतदण्डवत् , इदं तृणमिष्टसाधनम् अनुभूतजातीयत्वात् , अनुभूततृणवदित्यनुमाय व्यवहारन्तीत्यर्थः । अधुना हेतोः पक्षधर्मतामाह - एवमिति । व्युत्पन्नचित्ता अपीत्यन्वयः । विवेकिनोऽपीत्यर्थः । फलितमाह - अत इति । अनुभवबलादित्यर्थः । समान इति । अध्यासकार्यत्वेन तुल्येत्यर्थः । नन्वस्माकं प्रवृत्तिरध्यासादिति न पश्वादयो ब्रुवन्ति, नापि परेषामेतत्प्रत्यक्षम् , अतः साध्यविकलो दृष्टान्त इति नेत्याह - पश्वादीनां चेति । तेषामात्मानात्मनोर्ज्ञानमात्रमस्ति न विवेकः, उपदेशाभावात् । अतः सामग्रीसत्त्वादध्यासस्तेषां प्रसिद्ध इत्यर्थः । निगमयति - तत्सामान्येति । तैः पश्वादिभिः सामान्यं व्यवहारवत्त्वं तस्य दर्शनाद्विवेकिनामप्ययं व्यवहारः समान इति निश्चीयत इति सम्बन्धः । समानत्वं व्यवहारस्याध्यासकार्यत्वेनेत्युक्तं पुरस्तात् । तत्रोक्तान्वयव्यतिरेकौ स्मारयति - तत्काल इति । तस्याध्यासस्य काल एव कालो यस्य स तत्कालः । यदा अध्यासस्तदा व्यवहारः, तदभावे सुषुप्तौ तदभाव इत्युक्तान्वयादिमानिति यावत् । अतो व्यवहारलिङ्गाद्विवेकिनामपि देहादिष्वहंममाभिमानोऽस्तीत्यनवद्यम् । ननु लौकिकव्यवहारस्याध्यासिकत्वेऽपि ज्योतिष्टोमादिव्यवहारस्य नाध्यासजन्यत्वम् , तस्य देहातिरिक्तात्मज्ञानपूर्वकत्वादित्याशङ्क्य हेतुमङ्गीकरोति - शास्त्रीये त्विति । तर्हि कथं वैदिककर्मणोऽध्यासजन्यत्वसिद्धिरित्याशङ्क्य किं तत्र देहान्यात्मधीमात्रमपेक्षितमुत, आत्मतत्त्वज्ञानम् , आद्ये तस्याध्यासाबाधकत्वात्तत्सिद्धिरित्याह - तथापीति । न द्वितीय इत्याह - न वेदान्तेति । क्षुत्पिपासादिग्रस्तो जातिविशेषवानहं संसारीति ज्ञानं कर्मण्यपेक्षितं न तद्विपरीतात्मतत्त्वज्ञानम् , अनुपयोगात्प्रवृत्तिबाधाच्चेत्यर्थः । शास्त्रीयकर्मणोऽध्यासजन्यत्वं निगमयति - प्राक्चेति । अध्यासे आगमं प्रमाणयति - तथा हीति । यथा प्रत्यक्षानुमानार्थापत्तयोऽध्यासे प्रमाणं तथागमोऽपीत्यर्थः । ‘ब्राह्मणो यजेत’, ‘न ह वै स्नात्वा भिक्षेत’, ‘अष्टवर्षं ब्राह्मणमुपनयीत’, ‘कृष्णकेशोऽग्नीनादधीत’ इत्यागमो ब्राह्मणादिपदैरधिकारिणं वर्णाद्यभिमानिनमनुवदन्नध्यासं गमयतीति भावः । एवमध्यासे प्रमाणसिद्धेऽपि कस्य कुत्राध्यास इति जिज्ञासायां तमुदाहर्तुं लक्षणं स्मारयति - अध्यासो नामेति । उदाहरति - तद्यथेति । तल्लक्षणं यथा स्पष्टं भवति तथोदाह्रियत इत्यर्थः । स्वदेहाद्भेदेन प्रत्यक्षाः पुत्रादयो बाह्याः तद्धर्मान्साकल्यादीन्देहविशिष्टात्मन्यध्यस्यति, तद्धर्मज्ञानात्स्वस्मिन्स्तत्तुल्यधर्मानध्यस्यतीत्यर्थः । भेदापरोक्षज्ञाने तद्धर्माध्यासायोगात् , अन्यथाख्यात्यनङ्गीकाराच्चेति द्रष्टव्यम् । देहेन्द्रियधर्मान्मनोविशिष्टात्मन्यध्यस्यतीत्याह - तथेति । कृशत्वादिधर्मवतो देहादेरात्मनि तादात्म्येन कल्पितत्वात्तद्धर्माः साक्षादात्मन्यध्यस्ता इति मन्तव्यम् । अज्ञातप्रत्यग्रूपे साक्षिणि मनोधर्माध्यासमाह - तथान्तःकरणेति । धर्माध्यासमुक्त्वा तद्वदेव धर्म्यध्यासमाह - एवमिति । अन्तःकरणं साक्षिण्यभेदेनाध्यस्य तद्धर्मान् कामादीनध्यस्यतीति मन्तव्यम् । स्वप्रचारा मनोवृत्तयः । प्रति - प्रातिलोम्येनासज्जडदुःखात्मकाहङ्कारादिविलक्षणतया सच्चित्सुखात्मकत्वेनाञ्चति प्रकाशत इति प्रत्यक् । एवमात्मन्यनात्मतद्धर्माध्यासमुदाहृत्यानात्मन्यात्मनोऽपि संसृष्टत्वेनाध्यासमाह - तञ्चेति । अहमित्यध्यासे चिदात्मनो भानं वाच्यम् , अन्यथा जगदान्ध्यापत्तेः । न चानध्यस्तस्याध्यासे भानमस्ति । तस्माद्रजतादाविदम् इवात्मनः संसर्गाध्यास एष्टव्यः । तद्विपर्ययेणेति । तस्याध्यस्तस्य जडस्य विपर्ययोऽधिष्ठानत्वम् , चैतन्यं च तदात्मना स्थितमिति यावत् । तत्राज्ञाने केवलात्मना संसर्गः, मनस्यज्ञानोपहितस्य देहादौ मन उपहितस्येति विशेषः । एवमात्मनि बुद्ध्याद्यध्यासात्कर्तृत्वादिलाभः, बुद्ध्यादौ चात्माध्यासाच्चैतन्यलाभ इति भावः । वर्णिताध्यासमुपसंहरति - एवमयमिति । अनाद्यविद्यात्मकतया कार्याध्यासस्यानादित्वमध्यासात्संस्कारस्ततोऽध्यास इति । प्रवाहतो नैसर्गिकत्वम् । एवमुपादानं निमित्तं चोक्तं भवति । ज्ञानं विना ध्वंसाभावादानन्त्यम् । तदुक्तं भगवद्गीतासु ‘न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा’ इति । हेतुमुक्त्वा स्वरूपमाह - मिथ्येति । मिथ्या माया तया प्रतीयत इति प्रत्ययः कार्यप्रपञ्चः तत्प्रतीतिश्चेत्येवंस्वरूप इत्यर्थः । तस्य कार्यमाह - कर्तृत्वेति । प्रमाणं निगमयति - सर्वेति । साक्षिप्रत्यक्षमेवाध्यासधर्मिग्राहकं मानम् , अनुमानादिकं तु सम्भावानार्थमित्यभिप्रेत्य प्रत्यक्षोपसंहारः कृतः । एवमध्यासं वर्णयित्वा तत्साध्ये विषयप्रयोजने दर्शयति - अस्येति । कर्तृत्वाद्यनर्थहेतोरध्यासस्य समूलस्यात्यन्तिकनाशो मोक्षः स केनेत्यत आह - आत्मेति । ब्रह्मात्मैक्यसाक्षात्कारस्य प्रतिपत्तिः श्रवणादिभिरप्रतिबन्धेन लाभस्तस्या इत्यर्थः । विद्यायां कारणमाह - सर्व इति । आरभ्यन्ते अधीत्य विचार्यन्ते इत्यर्थः । विचारितवेदान्तानां ब्रह्मात्मैक्यं विषयः, मोक्षः फलमित्युक्तं भवति । अर्थात्तद्विचारात्मकशास्त्रस्यापि ते एव विषयप्रयोजने इति ज्ञेयम् । ननु वेदान्तेषु प्राणाद्युपास्तीनां भानादात्मैक्यमेव तेषामर्थ इति कथमित्यत आह - यथा चेति । शरीरमेव शरीरकम् , कुत्सितत्वात् , तन्निवासी शारीरको जीवस्तस्य ब्रह्मत्वविचारो मीमांसा तस्यामित्यर्थः । उपास्तीनां चित्तैकाग्र्यद्वारात्मैक्यज्ञानार्थत्वात्तद्वाक्यानामपि महातात्पर्यमैक्ये इति वक्ष्यते । एवमध्यासोक्त्या ब्रह्मात्मैक्ये विरोधाभावेन विषयप्रयोजनवत्वाच्छास्त्रमारम्भणीयमिति दर्शितम् ॥ ॥ इति प्रथमवर्णकम् ॥ विचारस्य साक्षाद्विषया वेदान्ताः, तेषां गतार्थत्वागतार्थत्वाभ्यामारम्भसन्देहे कृत्स्नस्य वेदस्य विधिपरत्वात् , विधेश्च ‘अथातो धर्मजिज्ञासा’ इत्यादिना पूर्वतन्त्रेण विचारितत्वात् , अवगतार्था एव वेदान्ता इत्यव्यवहितविषयाभावान्नारम्भ इति प्राप्ते ब्रूते - वेदान्तेति । वेदान्तविषयकपूजितविचारात्मकशास्त्रस्य व्याख्यातुमिष्टस्य सूत्रसन्दर्भस्येदं प्रथमसूत्रमित्यर्थः । यदि विधिरेव वेदार्थः स्यात्तदा सर्वज्ञो बादरायणो ब्रह्मजिज्ञासां न ब्रूयात् , ब्रह्मणि मानाभावात् । अतो ब्रह्मणो जिज्ञास्यत्वोक्त्या केनापि तन्त्रेणानवगतब्रह्मपरवेदान्तविचार आरम्भणीय इति सूत्रकृद्दर्शयति । तच्च ‘व्याचिख्यासितस्य’ इति पदेन भाष्यकारो बभाषे ॥ ॥ इति द्वितीयवर्णकम् ॥ एवं वर्णकद्वयेन वेदान्तविचारस्य कर्तव्यतायां विषयप्रयोजनवत्त्वमगतार्थत्वं चेति हेतुद्वयं सूत्रस्यार्थिकार्थं व्याख्यायाक्षरव्याख्यामारभमाणः पुनरप्यधिकारिभावाभावाभ्यां शास्त्रारम्भसन्देहे सति अथशब्दस्यानन्तर्यार्थकत्वोक्त्या अधिकारिणं साधयति - तत्राथशब्द इति । सूत्र इत्यर्थः । ‘मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ’ इत्यथशब्दस्य बहवोऽर्थाः सन्ति । तत्र ‘अथ योगानुशासनम्’ इत्यत्र सूत्रे यथा अथशब्द आरम्भार्थकः योगशास्त्रमारभ्यत इति तद्वदत्र किं न स्यादित्यत आह - नाधिकारार्थ इति । अयमाशयः - किं जिज्ञासापदं ज्ञानेच्छापरमुत विचारलक्षकम् आद्येऽथशब्दस्यारम्भार्थत्वे ब्रह्मज्ञानेच्छारभ्यत इति सूत्रार्थः स्यात्स चासङ्गतः, तस्या अनारभ्यत्वात् । न हि प्रत्यधिकरणमिच्छा क्रियते किन्तु तया विचारः । न द्वितीयः, कर्तव्यपदाध्याहारं विना विचारलक्षकत्वायोगात् , अध्याहृते च तेनैवारम्भोक्तेरथशब्दवैयर्थ्यात् । किन्त्वधिकारिसिद्ध्यर्थमानन्तर्यार्थतैव युक्तेति । अधुना सम्भावितमर्थान्तरं दूषयति - मङ्गलस्येति । वाक्यार्थो विचारकर्तव्यता न हि तत्र मङ्गलस्य कर्तृत्वादिनान्वयोऽस्तीत्यर्थः । ननु सूत्रकृता शास्त्रादौ मङ्गलं कार्यमित्यथशब्दः प्रत्युक्त इति चेत्सत्यम् , न तस्यार्थो मङ्गलं किन्तु तच्छ्रवणमुच्चारणं च मङ्गलकृत्यं करोति । तदर्थस्त्वानन्तर्यमेवेत्याह - अर्थान्तरेति । अर्थान्तरमानन्तर्यम् । श्रुत्या श्रवणेन शङ्खवीणादिनादश्रवणवदोङ्काराथशब्दयोः श्रवणं मङ्गलफलकम् । ‘ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकाविमौ ॥ ’ इति स्मरणादिति भावः । ननु प्रपञ्चो मिथ्येति प्रकृते सति, अथ मतं प्रपञ्चः सत्य इत्यत्र पूर्वप्रकृतार्थादुत्तरार्थस्यार्थान्तरत्वार्थोऽथशब्दो दृष्टः, तथात्र किं न स्यादित्यत आह - पूर्वेति । फलतः फलस्येत्यर्थः । ब्रह्मजिज्ञासायाः पूर्वम् अर्थविशेषः प्रकृतो नास्ति यस्मात्तस्या अर्थान्तरत्वमथशब्देनोच्येत । यतः कुतश्चिदर्थान्तरत्वं सूत्रकृता न वक्तव्यम् , फलाभावात् । यदि फलस्य जिज्ञासापदोक्तकर्तव्यविचारस्य हेतुत्वेन यत्पूर्वं प्रकृतं तदपेक्षास्तीत्यपेक्षाबलात्प्रकृतहेतुमाक्षिप्य ततोऽर्थान्तरत्वमुच्यते, तदार्थान्तरत्वमानन्तर्येऽन्तर्भवति हेतुफलभावज्ञानायानन्तर्यस्यावश्यं वाच्यत्वात् । तस्मादिदमर्थान्तरमित्युक्ते तस्य हेतुत्वाप्रतीतेः । तस्मादिदमनन्तरमित्युक्ते भवत्येव हेतुत्वप्रतीतिः । न चाश्वादनन्तरो गौरित्यत्र हेतुत्वभानापत्तिरिति वाच्यम् , तयोर्देशतः कालतो वा व्यवधानेनानन्तर्यस्यामुख्यत्वात् । अतः सामग्रीफलयोरेव मुख्यमानन्तर्यम् , अव्यवधानात् । तस्मिन्नुक्ते सत्यर्थान्तरत्वं न वाच्यं ज्ञानत्वाद्वैफल्याच्चेति भावः । फलस्य विचारस्य पूर्वप्रकृतहेत्वपेक्षाया बलाद्यदर्थान्तरत्वं तस्यानन्तर्याभेदात् न पृथगथशब्दार्थत्वमित्यध्याहृत्य भाष्यं योजनीयम् । यद्वा पूर्वप्रकृतेऽर्थेऽपेक्षा यस्या अर्थान्तरतायास्तस्याः फलं ज्ञानं तद्द्वारानन्तर्याव्यतिरेकात्तज्ज्ञाने तस्याः ज्ञानतोऽन्तर्भावान्नाथशब्दार्थतेत्यर्थः । नन्वानन्तर्यार्थकत्वेऽप्यानन्तर्यस्यावधिः क इत्याशङ्क्याह - सति चेति । यन्नियमेन पूर्ववृत्तं पूर्वभावि असाधारणकारणं पुष्कलकारणमिति यावत् , तदेवावधिरिति वक्तव्यमित्यर्थः । नन्वस्तु धर्मविचार इव ब्रह्मविचारेऽपि वेदाध्ययनं पुष्कलकारणमित्यत आह - स्वाध्यायेति । समानं ब्रह्मविचारे साधारणकारणं न पुष्कलकारणमित्यर्थः । ननु संयोगपृथक्त्वन्यायेन ‘यज्ञेन दानेन’ इत्यादिश्रुत्या ‘यज्ञादिकर्माणि ज्ञानाय विधीयन्ते’ इति सर्वापेक्षाधिकरणे वक्ष्यते । तथा च पूर्वतन्त्रेण तदवबोधः पुष्कलकारणमिति शङ्कते - नन्विति । इह ब्रह्मजिज्ञासायां विशेषोऽसाधारणं कारणम् । [‘एकस्य तूभयार्थत्वे संयोगपृथक्त्व’ इति जैमिनीसूत्रम् , तदर्थस्तु - एकस्य कर्मण उभयार्थत्वेऽनेकफलसम्बन्धे संयोगः उभयसम्बन्धबोधकं वाक्यं तस्य पृथक्त्वं भेदः स हेतुः । ततश्चात्रापि ज्योतिष्टोमादिकर्मणां स्वर्गादिफलकानामपि ‘यज्ञेन दानेन’ इत्यादि वचनात् ज्ञानार्थत्वं चेति । ] परिहरति - नेत्यादिना । अयमाशयः - न तावत्पूर्वतन्त्रस्थं न्यायसहस्रं ब्रह्मज्ञाने तद्विचारे वा पुष्कलं कारणम् , तस्य धर्मनिर्णयमात्रहेतुत्वात् । नापि कर्मनिर्णयः, तस्यानुष्ठानहेतुत्वात् । न हि धूमाग्न्योरिव धर्मब्रह्मणोर्व्याप्तिरस्ति, यया धर्मज्ञानात् ब्रह्मज्ञानं भवेत् । यद्यपि शुद्धिविवेकादिद्वारा कर्माणि हेतवः, तथापि तेषां नाधिकारिविशेषणत्वम् , अज्ञातानां तेषां जन्मान्तरकृतानामपि फलहेतुत्वात् । अधिकारिविशेषणं ज्ञायमानं प्रवृत्तिपुष्कलकारणमानन्तर्यावधित्वेन वक्तव्यम् । अतः कर्माणि, तदवबोधः, तन्न्यायविचारो वा नावधिरिति न ब्रह्मजिज्ञासाया धर्मजिज्ञासानन्तर्यमिति । ननु धर्मब्रह्मजिज्ञासयोः कार्यकारणत्वाभावेऽप्यानन्तर्योक्तिद्वारा क्रमज्ञानार्थोऽथशब्दः । ‘हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसः’ इत्यवदानानां क्रमज्ञानार्थाथशब्दवदित्याशङ्क्याह - यथेति । अवदानानामानन्तर्यनियमः क्रमो यथाथशब्दार्थस्तस्य विवक्षितत्वात् न तथेह धर्मब्रह्मजिज्ञासयोः क्रमो विवक्षितः, एककर्तृकत्वाभावेन तयोः क्रमानपेक्षणात् । अतो न क्रमार्थोऽथशब्द इत्यर्थः । ननु तयोरेककर्तृकत्वं कुतो नास्तीत्यत आह - शेषेति । येषामेकप्रधानशेषता, यथावदानानां प्रयाजादीनां च । ययोश्च शेषशेषित्वम् , यथा प्रयाजदर्शयोः । यस्य चाधिकृताधिकारत्वम् , यथा अपां प्रणयनं दर्शपूर्णमासाङ्गमाश्रित्य ‘गोदोहनेन पशुकामस्य’ इति विहितस्य गोदोहनस्य । यथा वा ‘दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत’ इति दर्शाद्युत्तरकाले विहितस्य सोमयागस्य दर्शाद्यधिकृताधिकारत्वं तेषामेककर्तृकत्वं भवति । ततश्चैकप्रयोगवचनगृहीतानां तेषां युगपदनुष्ठानसम्भवात्क्रमाकाङ्क्षायां श्रुत्यादिभिर्हि क्रमो बोध्यते, नैवं जिज्ञासयोः शेषशेषित्वे श्रुतिलिङ्गादिकं मानमस्ति । ननु ‘ब्रह्मचर्यं समाप्य गृही भवेत् गृहाद्वनी भूत्वा प्रव्रजेच्च’ इति श्रुत्या, ‘अधीत्य विधिवद्वेदान् पुत्रानुत्पाद्य धर्मतः । इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत्’ । इति स्मृत्या चाधिकृताधिकारत्वं भातीति तन्न । ‘ब्रह्मचर्यादेव प्रव्रजेत्’ । ‘आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे । ’ इति श्रुतिस्मृतिभ्यां त्वयोदाहृतश्रुतिस्मृत्योरशुद्धचित्तविषयत्वावगमात् । एतदुक्तं भवति यदि जन्मान्तरकृतकर्मभिः शुद्धं चित्तं तदा ब्रह्मचर्यादेव संन्यस्य ब्रह्म जिज्ञासितव्यम् , यदा न शुद्धमिति रागेण ज्ञायते तदा गृही भवेत् , तत्राप्यशुद्धौ वनीभवेत् , तत्राप्यशुद्धौ तथैव कालमाकलयेत् , वने शुद्धौ प्रव्रजेदिति । तथा च श्रुतिः - ‘यदहरेव विरजेत्तदहरेव प्रव्रजेत्’ इति । तस्मान्नानयोरधिकृताधिकारत्वे किञ्चिन्मानमिति भावः । ननु मीमांसयोः शेषशेषित्वमधिकृताधिकारत्वं च मास्तु । एकमोक्षफलकत्वेनैककर्तृकत्वं स्यादेव । वदन्ति हि - ‘ज्ञानकर्माभ्यां मुक्तिः’ इति समुच्चयवादिनः । एवमेकवेदार्थजिज्ञास्यकत्वाच्चैककर्तृकत्वम् । तथा चाग्नेयादिषड्यागानामेकस्वर्गफलकानाम् , द्वादशाध्यायानां चैकधर्मजिज्ञास्यकानां क्रमवत्तयोः क्रमो विवक्षित इति क्रमार्थोऽथशब्द इत्यशङ्क्याह - फलेति । फलभेदाज्जिज्ञास्यभेदाच्च न क्रमो विवक्षित इत्यनुषङ्गः । यथा सौर्यार्यम्णप्राजापत्यचरूणां ब्रह्मवर्चसस्वर्गायुःफलभेदात् , यथा वा कामचिकित्सातन्त्रयोर्जिज्ञास्यभेदान्न क्रमापेक्षा तद्वन्मीमांसयोर्न क्रमापेक्षेति भावः । तत्रफलभेदं विवृणोति - अभ्युदयेति । विषयाभिमुख्येनोदेतीत्यभ्युदयो विषयाधीनं सुखं स्वर्गादिकं तच्च धर्मज्ञानहेतोर्मीमांसायाः फलमित्यर्थः । न केवलं फलस्य स्वरूपतो भेदः किन्तु हेतुतोऽपीत्याह - तच्चेति । ब्रह्मज्ञानहेतोर्मीमांसायाः फलं तु तद्विरुद्धमित्याह - निश्रेयसेति । नित्यं निरपेक्षं श्रेयो निश्रेयसं मोक्षस्तत्फलमित्यर्थः । ब्रह्मज्ञानं च स्वोत्पत्तिव्यतिरिक्तमनुष्ठानं नापेक्षत इत्याह - न चेति । स्वरूपतो हेतुतश्च फलभेदान्न समुच्चय इति भावः । जिज्ञास्यभेदं विवृणोति - भव्यश्चेति । भवतीति भव्यः । साध्य इत्यर्थः । साध्यत्वे हेतुमाह - नेति । तर्हि तुच्छत्वम् , नेत्याह - पुरुषेति । पुरुषव्यापारः प्रयत्नस्तन्त्रं हेतुर्यस्य तत्त्वादित्यर्थः । कृतिसाध्यत्वात्कृतिजनकज्ञानकाले धर्मस्यासत्वं न तुच्छत्वादित्यर्थः । ब्रह्मणो धर्माद्वैलक्षण्यमाह - इह त्विति । उत्तरमीमांसायामित्यर्थः । भूतमसाध्यम् । तत्र हेतुः - नित्येति । सदा सत्वादित्यर्थः । साध्यासाध्यत्वेन धर्मब्रह्मणोः स्वरूपभेदमुक्त्वा हेतुतोऽप्याह - नेति । धर्मवत्कृत्यधीनं नेत्यर्थः । मानतोऽपि भेदमाह - चोदनेति । अज्ञातज्ञापकं वाक्यमत्र चोदना । तस्याः प्रवृत्तिर्बोधकत्वं तद्वैलक्षण्याच्च जिज्ञास्यभेद इत्यर्थः । सङ्ग्रहवाक्यं विवृणोति - या हीति । लक्षणं प्रमाणं ‘स्वर्गकामो यजेत’ इत्यादिवाक्यं हि स्वविषये धर्मे यागादिकरणस्वर्गादिफलकभावनारूपे फलहेतुयागादिगोचरनियोगे वा हितसाधने यागादौ वा पुरुषं प्रवर्तयदेवावबोधयति । ‘अयमात्मा ब्रह्म’ इत्यादि त्वमर्थं केवलमप्रपञ्चं ब्रह्म बोधयत्वेव न प्रवर्तयति विषयाभावादित्यर्थः । नन्ववबोध एव विषयस्तत्राह - न पुरुष इति । ब्रह्मचोदनया पुरुषोऽवबोधे न प्रवर्तत इत्यत्र हेतुं पूर्ववाक्येनाह - अवबोधस्येति । स्वजन्यज्ञाने स्वयं प्रमाणं न प्रवर्तकमित्यत्र दृष्टान्तमाह - यथेति । मानादेव बोधस्य जातत्वात् , जाते च विध्ययोगात् , न वाक्यार्थज्ञाने पुरुषप्रवृत्तिः । तथा च प्रवर्तकमानमेयो धर्मः, उदासीनमानमेयं ब्रह्म, इति जिज्ञास्यभेदात् , न तन्मीमांसयोः क्रमार्थोऽथशब्द इति भावः । एवमथशब्दस्यार्थान्तरासम्भवात् आनन्तर्यवाचित्वे सति तदवधित्वेन पुष्कलकारणं वक्तव्यमित्याह - तस्मादिति । उपदिश्यते । सूत्रकृतेति शेषः । तत्किमित्यत आह - उच्यत इति । विवेकादीनामागमिकत्वेन प्रामाणिकत्वं पुरस्तादेवोक्तम् । लौकिकव्यापारात् मनस उपरमः शमः बाह्यकरणानामुपरमो दमः । ज्ञानार्थं विहितनित्यादिकर्मसन्यास उपरतिः । शीतोष्णादिद्वन्द्वसहनं तितिक्षा । निद्रालस्यप्रमादत्यागेन मनःस्थितिः समाधानम् । सर्वत्रास्तिकता श्रद्धा । एतत्षट्कप्राप्तिः शमादिसम्पत् । अत्र विवेकादीनामुत्तरोत्तरहेतुत्वेनाधिकारिविशेषणत्वं मन्तव्यम् । तेषामन्वयव्यतिरेकाभ्यां ब्रह्मजिज्ञासाहेतुत्वमाह - तेष्विति । यथाकथञ्चित्कुतूहलितया ब्रह्मविचारप्रवृत्तस्यापि फलपर्यन्तं तज्ज्ञानानुदयाद्व्यतिरेकसिद्धिः । अथशब्दव्याख्यानमुपसंहरति - तस्मादिति । ननूक्तविवेकादिकं न सम्भवति, ‘अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतम्’ इत्यादिश्रुत्या कर्मफलस्य नित्यत्वेन ततो वैराग्यसिद्धेः । जीवस्य ब्रह्मस्वरूपमोक्षश्चायुक्तः, भेदात्तस्य लोष्टादिवत्पुरुषार्थत्वायोगाच्च । ततो न मुमुक्षासम्भव इत्याक्षेपपरिहारार्थोऽतःशब्दः तं व्याचष्टे - अतःशब्द इति । अथशब्देनानन्तर्यवाचिना तदवधित्वेनार्थाद्विवेकादिचतुष्टयस्य ब्रह्मजिज्ञासाहेतुत्वं यदुक्तं तस्यार्थिकहेतुत्वस्याक्षेपनिरासायानुवादकोऽतःशब्द इत्यर्थः । उक्तं विवृणोति - यस्मादिति । तस्मादित्युत्तरेण सम्बन्धः । ‘यदल्पं तन्मर्त्य’ ‘यत्कृतकं तदनित्यम्’ इति न्यायवती ‘तद्यथेह’ इत्यादिश्रुतिः कर्मफलाक्षयत्वश्रुतेर्बाधका । तस्मात् अतोऽन्यदार्तम्’ इति श्रुत्या अनात्ममात्रस्यानित्यत्वविवेकात् वैराग्यलाभ इति भावः । मुमुक्षां सम्भावयति - तथेति । यथा वेदः कर्मफलानित्यत्वं दर्शयति, तथा ब्रह्मज्ञानात् प्रशान्तशोकानिलमपारं स्वयञ्ज्योतिरानन्दं दर्शयतीत्यर्थः । जीवत्वादेरध्यासोक्त्या ब्रह्मत्वसम्भव उक्त एवेति भावः । एवमथातःशब्दाभ्यां पुष्कलकारणवतोऽधिकारिणः समर्थनात् शास्त्रमारब्धव्यमित्याह - तस्मादिति । सुत्रवाक्यपूरणार्थमध्याहृतकर्तव्यपदान्वयार्थं ब्रह्मजिज्ञासापदेन विचारं लक्षयितुं तस्य स्वाभिमतसमासकथनेनावयवार्थं दर्शयति - बह्मण इति । ननु धर्माय जिज्ञासा इतिवत् ब्रह्मणे जिज्ञासेति चतुर्थीसमासः किं न स्यादिति चेत् । उच्यते जिज्ञासा पदस्य हि मुख्यार्थमिच्छा, तस्याः प्रथमं कर्मकारकमपेक्षितं पश्चात्फलम् , ततश्चादौ कर्मज्ञानार्थं षष्ठीसमासो युक्तः । कर्मण्युक्ते सत्यर्थात्फलमुक्तं भवति, इच्छायाः कर्मण एव फलत्वात् । यथा स्वर्गस्येच्छा इत्युक्ते स्वर्गस्य फलत्वं लभ्यते तद्वत् । अत एव ‘धर्मजिज्ञासा’ इत्यत्रापि ‘सा हि तस्य ज्ञातुमिच्छा’ इति इच्छां गृहीत्वा षष्ठीसमासो दर्शितः । विचारलक्षणायां तु विचारस्य क्लेशात्मकतया प्रथमं फलाकाङ्क्षत्वात् धर्माय जिज्ञासेति चतुर्थीसमास उक्तः, तथा वृत्तिकारैर्ब्रह्मणे जिज्ञासा इत्युक्तं चेदस्तु ज्ञानत्वेन ब्रह्मणः फलत्वादिति । अधुना ब्रह्मपदार्थमाह - ब्रह्म चेति । ननु ‘ब्रह्मक्षत्रमिदं ब्रह्म आयाति ब्रह्म स्वयम्भूर्ब्रह्म प्रजापतिः’ इति श्रुतिषु लोके च ब्राह्मणत्वजातौ जीवे वेदे कमलासने च ब्रह्मशब्दः प्रयुज्यत इत्याशङ्क्याह - अत एवेति । जगत्कारणत्वलक्षणप्रतिपादकसूत्रासाङ्गत्यप्रसङ्गादेवेत्यर्थः । वृत्त्यन्तरे शेषे षष्ठीत्युक्तं दूषयति - ब्रह्मण इतीति । सम्बन्धसामान्यं शेषः । जिज्ञासेत्यत्र सन्प्रत्ययवाच्याया इच्छाया ज्ञानं कर्म, तस्य ज्ञानस्य ब्रह्म कर्म । तत्र सकर्मकक्रियायाः कर्मज्ञानं विना ज्ञातुमशक्यत्वात् , इच्छाया विषयज्ञानजन्यत्वाच्च प्रथमापेक्षितं कर्मैव षष्ठ्या वाच्यं न शेष इत्यर्थः । ननु प्रमाणादिकमन्यदेव तत्कर्मास्तु ब्रह्म तु शेषितया सम्बध्यतां तत्राह - जिज्ञास्यान्तरेति । श्रुतं कर्म त्यक्त्वान्यदश्रुतं कल्पयन् ‘पिण्डमुत्सृज्य करं लेढि’ इति न्यायमनुसरतीति भावः । गूढाभिसन्धिः शङ्क्यते - नन्विति । ‘षष्ठी शेषे’ इति विधानात् , षष्ठ्या सम्बन्धमात्रं प्रतीतमपि विशेषाकाङ्क्षायां सकर्मकक्रियासंनिधानात् कर्मत्वे पर्यवस्यतीत्यर्थः । अभिसन्धिमजानन्निवोत्तरमाह - एवमपीति । कर्मलाभेऽपि प्रत्यक्षं ‘कर्तृकर्मणोः कृति’ इति सूत्रेण जिज्ञासापदस्याकारप्रत्ययान्तत्वेन कृदन्तस्य योगे विहितं प्रथमापेक्षितं च कर्मत्वं त्यक्त्वा परोक्षमशाब्दं कल्पयत इत्यर्थः । शेषवादी स्वाभिसन्धिमुद्धाटयति - न व्यर्थ इति । शेषषष्ठ्यां ब्रह्मसम्बन्धिनी जिज्ञासा प्रतिज्ञाता भवति । तत्र यानि ब्रह्माश्रितानि लक्षणप्रमाणयुक्तिज्ञानसाधनफलानि तेषामपि विचारः प्रतिज्ञातो भवति । तज्जिज्ञासाया अपि ब्रह्मज्ञानार्थत्वेन ब्रह्मसम्बन्धित्वात् । कर्मणिषष्ठ्यां तु ब्रह्मकर्मक एव विचारः प्रतिज्ञातो भवतीत्यभिसन्धिना शेषषष्ठीत्युच्यते । अतो मत्प्रयासो न व्यर्थः । ब्रह्मतत्सम्बन्धिनां सर्वेषां विचारप्रतिज्ञानमर्थः फलं यस्य तत्त्वादित्यर्थः । त्वत्प्रयासस्येदं फलं न युक्तम् , सूत्रेण मुखतः प्रधानस्य ब्रह्मणो विचारे प्रतिज्ञाते सति तदुपकरणानां विचारस्यार्थिकप्रतिज्ञाया उदितत्वादित्याह सिद्धान्ती - न प्रधानेति । सङ्गृहीतमर्थं सदृष्टान्तं व्याकरोति - ब्रह्म हीत्यादिना । ’तद्विजिज्ञासस्व’ इति मूलश्रुत्यनुसाराच्च कर्मणि षष्ठीत्याह - श्रुत्यनुगमाच्चेति । श्रुतिसूत्रयोरेकार्थत्वलाभाच्चेत्यर्थः । जिज्ञासापदस्यावयवार्थमाह - ज्ञातुमिति । नन्वनवगते वस्तुनीच्छाया अदर्शनात्तस्या मूलं विषयज्ञानं वक्तव्यम् । ब्रह्मज्ञानं तु जिज्ञासायाः फलम् , तदेव मूलं कथमित्याशङ्क्याह - अवगतीति । आवरणनिवृत्तिरूपाभिव्यक्तिमच्चैतन्यमवगतिः पर्यन्तोऽवधिर्यस्याखण्डसाक्षात्कारवृत्तिज्ञानस्य तदेव जिज्ञासायाः कर्म, तदेव फलम् । मूलं त्वापातज्ञानमित्यधुना वक्ष्यत इति फलमूलज्ञानयोर्भेदान्न जिज्ञासानुपपत्तिरित्यर्थः । ननु गमनस्य ग्रामः कर्म, तत्प्राप्तिः फलमिति भेदात्कर्म एव फलमित्युक्तं तत्राह - फलेति । क्रियान्तरे तयोर्भेदेऽपि इच्छायाः फलविषयत्वात्कर्मैव फलमित्यर्थः । ननु ज्ञानावगत्योरैक्याद्भेदोक्तिरयुक्तेत्यत आह - ज्ञानेनेति । ज्ञानं वृत्तिः अवगतिस्तत्फलमिति भेद इति भावः । अवगन्तुमभिव्यञ्जयितुम् । अवगतेः फलत्वं स्फुटयति - ब्रह्मेति । हिशब्दोक्तं हेतुमाह - निःशेषेति । बीजमविद्या आदिर्यस्यानर्थस्य तन्नाशकत्वादित्यर्थः । अवयवार्थमुक्त्वा सूत्रवाक्यार्थमाह - तस्मादिति । अत्र सन्प्रत्ययस्य विचारलक्षकत्वं तव्यप्रत्ययेन सूचयति । अथातशब्दाभ्यामधिकारिणः साधितत्त्वात्तेन ब्रह्मज्ञानाय विचारः कर्तव्य इत्यर्थः ॥ ॥ इति तृतीयं वर्णकम् ॥ प्रथमवर्णके बन्धस्याध्यासत्वोक्त्या विषयादिप्रसिद्धावपि ब्रह्मप्रसिद्ध्यप्रसिद्ध्योर्विषयादिसम्भवासम्भवाभ्यां शास्त्रारम्भसन्देहे पूर्वपक्षमाह - तत्पुनरिति । - पुनःशब्दो वर्णकान्तरद्योतनार्थः । यदि वेदान्तविचारात्प्रागेव ब्रह्मज्ञानं तर्ह्यज्ञातत्वरूपविषयत्वं नास्ति, अज्ञानाभावेन तन्निवृत्तिरूपफलमपि नास्तीति न विचारयितव्यम् । अथाज्ञातं केनापि तर्हि तदुद्देशेन विचारः कर्तुं न शक्यते, अज्ञातस्योद्देशायोगात् । तथा च बुद्धावनारूढस्य विचारात्मकशास्त्रेण वेदान्तैश्च प्रतिपादनायोगात् । तत्प्रतिपाद्यत्वरूपः सम्बन्धो नास्तीति ज्ञानानुत्पत्तेः फलमपि नास्तीत्यनारभ्यं शास्त्रमित्यर्थः ॥ आपातप्रसिद्ध्या विषयादिलाभादारम्भणीयमिति सिद्धान्तयति - उच्यत इत्यादिना । प्रसिद्धं तावदित्यर्थः । अस्तित्वस्याप्रकृतत्वेनास्तिपदस्य प्रसिद्धिपरत्वात् । ननु केन मानेन ब्रह्मणः प्रसिद्धिः । न च ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति श्रुत्या सेति वाच्यम् । ब्रह्मपदस्य लोके सङ्गतिग्रहाभावेन तद्घटितवाक्यस्याबोधकत्वादित्याशङ्क्य ब्रह्मपदव्युत्पत्त्या प्रथमं तस्य निर्गुणस्य सगुणस्य च प्रसिद्धिरित्याह - ब्रह्मशब्दस्य हीति । अस्यार्थः श्रुतौ सूत्रे च ब्रह्मपदस्य प्रयोगान्यथानुपपत्त्या कश्चिदर्थोऽस्तीति ज्ञायते, प्रमाणवाक्ये निरर्थकशब्दप्रयोगादर्शनात् । स चार्थो महत्वरूप इति व्याकरणान्निश्चीयते, ‘बृहि वृद्धौ’ इति स्मरणात् । सा च वृद्धिर्निरवधिकमहत्वमिति सङ्कोचकाभावात् , श्रुतावनन्तपदेन सह प्रयोगाच्च ज्ञायते । निरवधिकमहत्वं चान्तवत्त्वादिदोषवत्त्वे सर्वज्ञत्वादिगुणहीनत्वे च न सम्भवति, लोके गुणहीनदोषवतोरल्पत्वप्रसिद्धेः । अतो बृंहणाद्ब्रह्मेति व्युत्पत्त्या देशकालवस्तुतः परिच्छेदाभावरूपं नित्यत्वं प्रतीयते । अविद्यादिदोषशून्यत्वं शुद्धत्वम् । जाड्यराहित्यं बुद्धत्वम् । बन्धकालेऽपि स्वतोबन्धाभावो मुक्तत्वं च प्रतीयते । एवं सकलदोषशून्यं निर्गुणं प्रसिद्धम् । तथा सर्वज्ञत्वादिगुणकं च तत्पदवाच्यं प्रसिद्धम् । ज्ञेयस्य कार्यस्य वा परिशेषेऽल्पत्वप्रसङ्गेन सर्वज्ञत्वस्य सर्वकार्यशक्तिमत्त्वस्य च लाभादिति । एवं तत्पदात्प्रसिद्धेरप्रमाणत्वेनापातत्वादज्ञानानिवर्तकत्वाज्जिज्ञासोपपत्तिरित्युक्त्वा त्वम्पदार्थात्मनापि ब्रह्मणः प्रसिद्ध्या तदुपपत्तिरत्याह - सर्वस्येति । सर्वस्य लोकस्य योऽयमात्मातदभेदाद्ब्रह्मणः प्रसिद्धिरित्यर्थः । नन्वात्मनः प्रसिद्धिः केत्यत आह - सर्वो हीति । अहमस्मीति न प्रत्येतीति न किन्तु प्रत्येत्येव । सैव सच्चिदात्मनः प्रसिद्धिरित्यर्थः । आत्मनः कुतः सत्तेति शून्यमतमाशङ्क्याह - यदि हीति । आत्मनः शून्यस्य प्रतीतौ अहं नास्मीति लोको जानीयात् । लोकस्तु अहमस्मीति जानाति तस्मादात्मनोऽस्तित्वप्रसिद्धिरित्यर्थः । आत्मप्रसिद्धावपि ब्रह्मणः किमायातं तत्राह - आत्मा चेति । ‘अयमात्मा ब्रह्म’ इत्यादिश्रुतेरिति भावः । प्रसिद्धिपक्षोक्तं दोषं पूर्वपक्षेण स्मारयति - यदीति । अज्ञातत्वाभावेन विषयाद्यभावादविचार्यत्वं प्राप्तमित्यर्थः । यथा इदं रजतमिति वस्तुतः शुक्तिप्रसिद्धिस्तद्वत् अहमस्मीति सत्त्वचैतन्यरूपत्वसामान्येन वस्तुतो ब्रह्मणः प्रसिद्धिः, नेयं पूर्णानन्दब्रह्मत्वरूपविशेषगोचरा, वादिनां विवादाभावप्रसङ्गात् । न हि शुक्तित्वविशेषदर्शने सति रजतं रङ्गमन्यद्वेति विप्रतिपत्तिरस्ति । अतो विप्रतिपत्त्यन्यथानुपपत्त्या सामान्यतः प्रसिद्धावपि विशेषस्याज्ञातत्वाद्विषयादिसिद्धिरिति सिद्धान्तयति - न इत्यादिना । सामान्यविशेषभावः स्वात्मनि सच्चित्पूर्णादिपदवाच्यभेदात्कल्पित इति मन्तव्यम् । तत्र स्थूलसूक्ष्मक्रमेण विप्रतिपत्तीरुपन्यस्यति - देहमात्रमित्यादिना । शास्त्रज्ञानशून्याः प्राकृताः । वेदबाह्यमतान्युक्त्वा तार्किकादिमतमाह - अस्तीति । साङ्ख्यमतमाह - भोक्तेति । किमात्मा देहादिरूपः उत तद्भिन्न इति विप्रतिपत्तिकोटित्वेन देहेन्द्रियमनोबुद्धिशून्यान्युक्त्वा तद्भिन्नोऽपि कर्तृत्वादिमान्न वेति विप्रतिपत्तिकोटित्वेन तार्किकसाङ्ख्यपक्षावुपन्यस्याकर्तापीश्वराद्भिन्नो न वेति विवादकोटित्वेन योगिमतमाह - अस्ति तद्व्यतिरिक्त ईश्वर इति । निरतिशयत्वं गृहीत्वा ईश्वरः सर्वज्ञत्वादिसम्पन्न इति योगिनो वदन्ति । भेदकोटिमुक्त्वा सिद्धान्तकोटिमाह - आत्मा स भोक्तुरिति । भोक्तुर्जीवस्याकर्तुः साक्षिणः स ईश्वर आत्मास्वरूपमिति वेदान्तिनो वदन्तीत्यर्थः । विप्रतिपत्तीरुपसंहरति - एवं बहवः इति । विप्रतिपत्तीनां प्रपञ्चो निरासश्च विवरणोपन्यासेन दर्शितः सुखबोधायेतीहोपरम्यते । तत्र युक्तिवाक्याश्रयः सिद्धान्तिनः जीवो ब्रह्मैव आत्मत्वात् , ब्रह्मवत् इत्यादि युक्तेः, ‘तत्त्वमसि’ इत्यादिश्रुतेश्चाबाधितायाः सत्त्वात् । अन्ये तु देहादिरात्मा, अहंप्रत्ययगोचरत्वात् , व्यतिरेकेण घटादिवदित्यादियुक्त्याभासम् , ‘स वा एष पुरुषोन्नरसमयः’ इन्द्रियसंवादे ‘चक्षुरादयस्ते ह वाचमूचुः’ ‘मन उवाच’, ‘योऽयं विज्ञानमयः’, ‘असदेवेदमग्र आसीत्’, ‘कर्ता बोद्धा', ‘अनश्नन्नन्यः’, ‘आत्मानमन्तरो यमयति’ इति वाक्याभासं चाश्रिता इति विभागः । देहादिरनात्मा, भौतिकत्वात् , दृश्यत्वात् इत्यादिन्यायैः, ‘आनन्दमयोऽभ्यासात्’ इत्यादिसूत्रैश्चाभासत्वं वक्ष्यते । ननु सन्तु विप्रतिपत्तयस्तथापि यस्य यन्मते श्रद्धा तदाश्रयणात्तस्य स्वार्थः सेत्स्यति किं ब्रह्मविचारारम्भेणेत्यत आह - तत्राविचार्येति । ब्रह्मात्मैक्यविज्ञानादेव मुक्तिरिति वस्तुगतिः । मतान्तराश्रयणे तदभावान्मोक्षसिद्धिः । किञ्चात्मानमन्यथा ज्ञात्वा तत्पापेन संसारान्धकूपे पतेत् , ‘अन्धं तमः प्रविशन्ति’ ‘ये के चात्महनो जनाः’ इति श्रुतेः, ‘योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चौरेणात्मापहारिणा ॥ ’ इति वचनाच्चेत्यर्थः । अतः सर्वेषां मुमुक्षूणां निःश्रेयसफलाय वेदान्तविचारः कर्तव्य इतिसूत्रार्थमुपसंहरति - तस्मादिति । बन्धस्याध्यस्तत्वेन विषयादिसद्भावादगतार्थत्वात् , अधिकारिलाभादापातप्रसिद्ध्या विषयादिसम्भवाच्च वेदान्तविषया मीमांसापूजिता विचारणा, वेदान्ताविरोधिनो ये तर्कास्तन्त्रान्तरस्थास्तान्युपकरणानि यस्याः सा निश्रेयसायारभ्यत इत्यर्थः । ननु सूत्रे विचारवाचिपदाभावात्तदारम्भः कथं सूत्रार्थ इत्यत आह - ब्रह्मेति ।
ब्रह्मज्ञानेच्छोक्तिद्वारा विचारं लक्षयित्वा तत्कर्तव्यतां ब्रवीतीति भावः । एवं प्रथमसूत्रस्य चत्वारोऽर्थाः व्याख्यानचतुष्टयेन दर्शिताः । सूत्रस्य चानेकार्थत्वं भूषणम् । नन्विदं सूत्रं शास्त्राद्बहिः स्थित्वा शास्त्रमारम्भयति अन्तर्भूत्वा वा । आद्ये तस्य हेयता, शास्त्रासम्बन्धात् । द्वितीये तस्यारम्भकं वाच्यम् । न च स्वयमेवारम्भकम् , स्वस्मात्स्वोत्पत्तेरित्यात्माश्रयात् । न चारम्भकान्तरं पश्याम इति । उच्यते - श्रवणविधिना आरब्दमिदं शास्त्रं शास्त्रान्तर्गतमेव शास्त्रारम्भं प्रतिपादयति । यथाध्ययनविधिर्वेदान्तर्गत एव कृत्स्नवेदस्याध्ययने प्रयुङ्क्ते तद्वदित्यनवद्यम् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 न च जगत्कर्तृत्वमुपादानत्वं वा प्रत्येकं लक्षणमस्त्विति वाच्यम् , कर्तृमात्रस्योपादानाद्भिन्नस्य ब्रह्मत्वायोगात् , वस्तुतः परिच्छेदादिति प्राप्ते पुरुषाभ्यूहमात्रस्यानुमानस्याप्रतिष्ठितस्यातीन्द्रियार्थे स्वातन्त्र्यायोगात् , अपौरुषेयतया निर्दोषश्रुत्युक्तोभयकारणत्वस्य सुखादिदृष्टान्तेन सम्भावयितुं शक्यत्वात् , तदेव लक्षणमिति सिद्धान्तयति - जन्माद्यस्य यतः इति । अत्र यद्यपि जगज्जन्मस्थितिलयकारणत्वं लक्षणं प्रतिपाद्यते तथाप्यग्रे ‘प्रकृतिश्च’ इत्यधिकरणे तत्कारणत्वं न कर्तृत्वमात्रं किन्तु कर्तृत्वोपादानत्वोभयरूपत्वमिति वक्ष्यमाणं सिद्धवत्कृत्योभयकारणत्वं लक्षणमित्युच्यत इति न पौनरुक्त्यम् । ननु जिज्ञास्यनिर्गुणब्रह्मणः कारणत्वं कथं लक्षणमिति चेत् , उच्यते - यथा रजतं शुक्तेर्लक्षणं यद्रजतं सा शुक्तिरिति, तथा यज्जगत्कारणं तद्ब्रह्मेति कल्पितं कारणत्वं तटस्थं सदेव ब्रह्मणो लक्षणमित्यनवद्यम् ॥ सूत्रं व्याचष्टे - जन्मेत्यादिना । बहुव्रीहौ पदार्थाः सर्वे वाक्यार्थस्यान्यपदार्थस्य विशेषणानि । यथा चित्रगोर्देवदत्तस्य चित्रा गावः तद्वदत्रापि जन्मादीति नपुंसकैकवचनद्योतितस्य समाहारस्य जन्मस्थितिभङ्गस्य जन्म विशेषणम् , तथा च जन्मनः समासार्थैकदेशस्य गुणत्वेन संविज्ञानं यस्मिन् बहुव्रीहौ स तद्गुणसंविज्ञान इत्यर्थः । तत्र यज्जन्मकारणं तद्ब्रह्मेति ब्रह्मत्वविधानमयुक्तम् , स्थितिलयकारणाद्भिन्नत्वेन ज्ञाते ब्रह्मत्वस्य ज्ञातुमशक्यत्वात् । अतो जन्मस्थितिभङ्गैर्निरूपितानि त्रीणि कारणत्वानि मिलितान्येव लक्षणमिति मत्वा सूत्रे समाहारो द्योतित इति ध्येयम् । नन्वादित्वं जन्मनः कथं ज्ञातव्यम् , संसारस्यानादित्वादित्यत आह - जन्मनश्चेति । मूलश्रुत्या वस्तुगत्या चादित्वं ज्ञात्वा तदपेक्ष्य सूत्रकृता जन्मन आदित्वमुक्तमित्यर्थः । इदमः प्रत्यक्षार्थमात्रवाचित्वमाशङ्क्योपस्थितसर्वकार्यवाचित्वमाह - अस्येतीति । वियदादिजगतो नित्यत्वात् न जन्मादिसम्बन्ध इत्यत आह - षष्ठीति । विषयादिमहाभूतानां जन्मादिसम्बन्धो वक्ष्यत इति भावः । ननु जगतो जन्मादेर्वा ब्रह्मसम्बन्धाभावान्न लक्षणत्वमित्याशङ्क्य तत्कारणत्वं लक्षणमिति पञ्चम्यर्थमाह - यत इतीति । यच्छब्देन सत्यं ज्ञानमनन्तमानन्दरूपं वस्तूच्यते ‘आनन्दाद्ध्येव’ इति निर्णीतत्वात् । तथा च स्वरूपलक्षणसिद्धिरिति मन्तव्यम् । पदार्थमुक्त्वा पूर्वसूत्रस्थब्रह्मपदानुषङ्गेण तच्छब्दाध्याहारेण च सूत्रवाक्यार्थमाह - अस्येत्यादिना । कारणस्य सर्वज्ञत्वादिसम्भावनार्थानि जगतो विशेषणानि । यथा कुम्भकारः प्रथमं कुम्भशब्दाभेदेन विकल्पितं पृथुबुध्नोदराकारस्वरूपं बुद्धावालिख्य तदात्मना कुम्भं व्याकरोति - बहिः प्रकटयति, तथा परमकारणमपि स्वेप्सितनामरूपात्मना व्याकरोतीत्यनुमीयत इति मत्वाह - नामरूपाभ्यामिति । इत्थम्भावे तृतीया । आद्यकार्यं चेतनजन्यम् , कार्यत्वात् , कुम्भवदिति प्रधानशून्ययोर्निरासः । हिरण्यगर्भादिजीवजन्यत्वं निरस्यति - अनेकेति । श्राद्धवैश्वानरेष्ट्यादौ पितापुत्रयोः कर्तृभोक्त्रोर्भेदात्पृथगुक्तिः । ‘यो ब्रह्माणं विदधाति पूर्वं सर्व एत आत्मनो व्युच्चरन्ति’ इति श्रुत्या स्थूलसूक्ष्मदेहोपाधिद्वारा जीवानां कार्यत्वेन जगन्मध्यपातित्वान्न जगत्कारणत्वमित्यर्थः । कारणस्य सर्वज्ञत्वं सम्भावयति - प्रतिनियतेति । प्रतिनियतानि व्यवस्थितानि देशकालनिमित्तानि येषां क्रियाफलानां तदाश्रयस्येत्यर्थः । स्वर्गस्य क्रियाफलस्य मेरुपृष्ठं देशः । देहपातादूर्ध्वं काल उत्तरायणमरणादिनिमित्तं च प्रतिनियतम् । एवं राजसेवाफले ग्रामादेर्देशादिव्यवस्था ज्ञेया । तथा च यथा सेवाफलं देशाद्यभिज्ञदातृकं तथा कर्मफलम् , फलत्वादिति सर्वज्ञत्वसिद्धिरिति भावः । सर्वशक्तित्वं सम्भावयति - मनसापीति । नन्वन्येऽपि वृद्धिपरिणामादयो भावविकाराः सन्तीति किमिति जन्मादीत्यादिपदेन न गृह्यन्ते तत्राह - अन्येषामिति । वृद्धिपरिणामयोर्जन्मनि अपक्षयस्य नाशेऽन्तर्भावः इति भावः । ननु देहो ‘जायते, अस्ति, वर्धते, विपरिणमते, अपक्षीयते, विनश्यति’ इति यास्कमुनिवाक्यमेतत्सूत्रमूलं किं न स्यादत आह - यास्केति । यास्कमुनिः किल महाभूतानामुत्पन्नानां स्थितिकाले भौतिकेषु प्रत्यक्षेण जन्मादिषट्कमुपलभ्य निरुक्तवाक्यं चकार । तन्मूलीकृत्य जन्मादिषट्ककारणत्वं लक्षणं सूत्रार्थ इति ग्रहणे सूत्रकृता ब्रह्मलक्षणं न सङ्गृहीतं किन्तु महाभूतानां लक्षणमुक्तमिति शङ्का स्यात्सा मा भूदिति ये श्रुत्युक्ता जन्मादयस्त एव गृह्यन्त इत्यर्थः । यदि निरुक्तस्यापि श्रुतिर्मूलमिति महाभूतजन्मादिकमर्थस्तर्हि सा श्रुतिरेव सूत्रस्य मूलमस्तु, किमन्तर्गडुना निरुक्तेनेति भावः । यदि जगतो ब्रह्मातिरिक्तं कारणं स्यात्तदा ब्रह्मलक्षणस्य तत्रातिव्याप्त्यादिदोषः स्यात् , अतस्तन्निरासाय लक्षणसूत्रेण ब्रह्म विना जगज्जन्मादिकं न सम्भवति, कारणान्तरासम्भवादिति युक्तिः सूत्रिता । सा तर्कपादे विस्तरेण वक्ष्यते । अधुना सङ्क्षेपेण तां दर्शयति - न यथोक्तेत्यादिना । नामरूपाभ्यां व्याकृतस्येत्यादीनां च चतुर्णां जगद्विशेषणानां व्याख्यानावसरे प्रधानशून्ययोः संसारिणश्च निरासो दर्शितः । परमाणूनामचेतनानां स्वतः प्रवृत्त्ययोगात् , जीवान्यस्य ज्ञानशून्यत्वनियमेनानुमानात्सर्वज्ञेश्वरासिद्धौ तेषां प्रेरकाभावात् , जगदारम्भकत्वासम्भव इति भावः । स्वभावादेव विचित्रं जगदिति लोकायतस्तं प्रत्याह - न चेति । जगत उत्पत्त्यादि सम्भावयितुं न शक्यमित्यन्वयः । किं स्वयमेव स्वस्य हेतुरिति स्वभाव उत कारणानपेक्षत्वम् । नाद्यः, आत्माश्रयात् । न द्वितीय इत्याह - विशिष्टेति । विशिष्टान्यसाधारणानि देशकालनिमित्तानि । तेषां कार्यार्थिभिरुपादीयमानत्वात्कार्यस्य कारणानपेक्षत्वं न युक्तमित्यर्थः । अनेपेक्षत्वे धान्यार्थिनां भूविशेषे वर्षादिकाले बीजादिनिमित्ते च प्रवृत्तिर्न स्यादिति भावः । पूर्वोक्तसर्वज्ञत्वादिविशेषणकमीश्वरं मुक्त्वा जगत उत्पत्यादिकं न सम्भवतीति भाष्येण कर्तारं विना कार्यं नास्तीति व्यतिरेक उक्तः । तेन यत्कार्यं तत्सकर्तृकमिति व्याप्तिर्ज्ञायते । एतदेव व्याप्तिज्ञानं जगति पक्षे कर्तारं साधयत्सर्वज्ञेश्वरं साधयति किं श्रुत्येति तार्किकाणां भ्रान्तिमुपन्यस्यति - एतदेवेति । एतदेवानुमानमेव साधनं न श्रुतिरिति मन्यन्त इति योजना । अथवा एतद्व्याप्तिज्ञानमेव श्रुत्यनुग्राहकयुक्तिमात्रत्वेनास्मत्सम्मतं सदनुमानं स्वतन्त्रमिति मन्यन्त इत्यर्थः । सर्वज्ञत्वमादिशब्दार्थः । यद्वा व्याप्तिज्ञानसहकृतमेतल्लक्षणमेवानुमानं स्वतन्त्रं मन्यन्त इत्यर्थः । तत्रायं विभागः व्याप्तिज्ञानात् जगतः कर्तास्तीत्यस्तित्वसिद्धिः । पश्चात्स कर्ता, सर्वज्ञः, जगत्कारणत्वात् , व्यतिरेकेण कुलालादिवदिति सर्वज्ञत्वसिद्धिर्लक्षणादिति । अत्र मन्यन्त इत्यनुमानस्याभासत्वं सूचितम् । तथाहि - अङ्कुरादौ तावज्जीवः कर्ता न भवति जीवाद्भिन्नस्य घटवदचेतनत्वनियमादन्यः कर्ता नास्त्येवेति व्यतिरेकनिश्चयात् , यत्कार्यं तत्सकर्तृकमिति व्याप्तिज्ञानासिद्धिः । लक्षणलिङ्गकानुमाने तु बाधः अशरीरस्य जन्मज्ञानायोगात् , यज्ज्ञानं तन्मनोजन्यमिति व्याप्तिविरोधेन नित्यज्ञानासिद्धेर्ज्ञानाभावनिश्चयात् , तस्मादतीन्द्रियार्थे श्रुतिरेव शरणम् । श्रुत्यर्थसम्भावनार्थत्वेनानुमानं युक्तिमात्रं न स्वतन्त्रमिति भावः । नन्विदमयुक्तम् , श्रुतेरनुमानान्तर्भावमभिप्रेत्य भवदीयसूत्रकृतानुमानस्यैवोपन्यस्यत्वादिति वैशेषिकः शङ्कते - नन्विति । अतो मन्यन्ते इत्यनुमानस्याभासोक्तिरयुक्तेति भावः । यदि श्रुतीनां स्वतन्त्रमानत्वं न स्यात्तर्हि ‘तत्तु समन्वयात्’ इत्यादिना तासां तात्पर्यं सूत्रकृन्न विचारयेत् , तस्मादुत्तरसूत्राणां श्रुतिविचारार्थत्वात् जन्मादिसूत्रेऽपि श्रुतिरेव स्वातन्त्र्येण विचार्यते नानुमानमिति परिहरति - नेति । किं च मुमुक्षोर्ब्रह्मावगतिरभीष्टा यदर्थमस्य शास्त्रस्यारम्भः, सा च नानुमानात् , ‘तं त्वौपनिषदम्’ इति श्रुतेः । अतो नानुमानं विचार्यमित्याह - वाक्यार्थेति । वाक्यस्य तदर्थस्य च विचाराद्यध्यवसानं तात्पर्यनिश्चयः प्रमेयसम्भवनिश्चयश्च तेन जाता ब्रह्मावगतिर्मुक्तये भवतीत्यर्थः । सम्भवो बाधाभावः । ननु किमनुमानमुपेक्षितमेव नेत्याह - सत्सु त्विति । विमतमभिन्ननिमित्तोपादानकम् , कार्यत्वादूर्णनाभ्यारब्धतन्त्वादिवत् , विमतं चेतनप्रकृतिकम् , कार्यत्वात् , सुखादिवदित्यनुमानं श्रुत्यर्थदार्ढ्याय अपेक्षितमित्यर्थः । दार्ढ्यं संशयविपर्यासनिवृत्तिः । ‘मन्तव्यः’ इति श्रुतार्थस्तर्केण सम्भावनीय इत्यर्थः । यथा कश्चित् गान्धारदेशेभ्यश्चोरैरन्यत्रारण्ये बद्धनेत्र एव त्यक्तः केनचिन्मुक्तबन्धस्तदुक्तमार्गग्रहणसमर्थः पण्डितः स्वयं तर्ककुशलो मेधावी स्वदेशानेव प्राप्नुयात् एवमेवेहाविद्याकामादिभिः स्वरूपानन्दात् प्रच्याव्यस्मिन्नरण्ये संसारे क्षिप्तः केनचिद्दयापरवशेनाचार्येण नासि त्वं संसारी किन्तु ‘तत्त्वमसि’ इत्युपदिष्टस्वरूपः स्वयं तर्ककुशलश्चेत्स्वरूपं जानीयान्नान्यथेति । श्रुतिः स्वस्याः पुरुषमतिरूपतर्कापेक्षां दर्शयतीत्याह - पण्डित इति । आत्मनः श्रुतेरित्यर्थः । ननु ब्रह्मणो मननाद्यपेक्षा न युक्ता, वेदार्थत्वात् , धर्मवत् । किन्तु श्रुतिलिङ्गवाक्यादय एवापेक्षिता इत्यत आह - नेति । जिज्ञास्ये धर्म इव जिज्ञास्ये ब्रह्मणीति व्याख्येयम् । अनुभवो ब्रह्मसाक्षात्काराख्यो विद्वदनुभवः । आदिपदान्मनननिदिध्यासनयोर्ग्रहः । तत्र हेतुमाह - अनुभवेति । मुक्त्यर्थं ब्रह्मज्ञानस्य शाब्दस्य साक्षात्कारावसानत्वापेक्षणात्प्रत्यग्भूतसिद्धब्रह्मगोचरत्वेन साक्षात्कारफलकत्वसम्भवात् , तदर्थं मननाद्यपेक्षा युक्ता । धर्मे तु नित्यपरोक्षे साध्ये साक्षात्कारस्यानपेक्षितत्वादसम्भवाच्च श्रुत्या निर्णयमात्रमनुष्ठानायापेक्षितम् । लिङ्गादयस्तु श्रुत्यन्तर्भूता एव श्रुतिद्वारा निर्णयोपयोगित्वेनापेक्ष्यन्ते न मननादयः अनुपयोगादित्यर्थः । निरपेक्षः शब्दः श्रुतिः । शब्दस्यार्थप्रकाशनसामर्थ्यं लिङ्गम् । पदं योग्येतरपदाकाङ्क्षं वाक्यम् । अङ्गवाक्यसापेक्षं प्रधानवाक्यं प्रकरणम् । क्रमपठितानामर्थानां क्रमपठितैर्यथाक्रमं सम्बन्धः स्थानम् । यथा ऐन्द्राग्न्यादय इष्टयो दश क्रमेण पठिताः दशमन्त्राश्च ‘इन्द्राग्नी रोचना दिवि’ इत्याद्याः तत्र प्रथमेष्टौ प्रथममन्त्रस्य विनियोग इत्याद्यूहनीयम् । संज्ञासाम्यं समाख्या । यथाध्वर्यवसंज्ञकानां मन्त्राणामाध्वर्यवसंज्ञके कर्मणि विनियोग इति विवेकः । एवं तावद्ब्रह्म मननाद्यपेक्षम् , वेदार्थत्वात् , धर्मवत् , इत्यनुमाने साध्यत्वेन धर्मस्यानुभवायोग्यत्वम् , अनपेक्षितानुभवत्वं चोपाधिरित्युक्तम् । उपाधिव्यतिरेकाद्ब्रह्मणि मननाद्यपेक्षत्वं चोक्तम् । तत्र यदि वेदार्थत्वमात्रेण ब्रह्मणो धर्मेण साम्यं त्वयोच्येत तर्हि कृतिसाध्यत्वं विधिनिषेधविकल्पोत्सर्गापवादाश्च ब्रह्मणि धर्मवत् स्युरिति । विपक्षे बाधकमाह - पुरुषेत्यादिना । पुरुषकृत्यधीना आत्मलाभ उत्पत्तिर्यस्य तद्भावाच्च धर्मे श्रुत्यादीनामेव प्रामाण्यमित्यन्वयः । धर्मस्य साध्यत्वं लौकिककर्मदृष्टान्तेन स्फुटयति - कर्तुमिति । लौकिकवदित्यर्थः । दृष्टान्तं स्फुटयति - यथेति । दार्ष्टान्तिकमाह - तथेति । तद्वद्धर्मस्य कर्तुमकर्तुं शक्यत्वमुक्त्वा अन्यथाकर्तुं शक्यत्वमाह - उदित इति । धर्मस्य साध्यत्वमुपपाद्य तत्र विध्यादियोग्यतामाह - विधीति । विधिप्रतिषेधाश्च विकल्पादयश्च धर्मे साध्ये येऽर्थवन्तः सावकाशा भवन्ति ते ब्रह्मण्यपि स्युरित्यर्थः । ‘यजेत’ ‘न सुरां पिबेत्’ इत्यादयो विधिनिषेधाः । व्रीहिभिर्यवैर्या यजेतेति सम्भावितो विकल्पः ग्रहणाग्रहणयोरैच्छिकः । उदितानुदितहोमयोर्व्यवस्थितविकल्पः । ‘न हिंस्यात्’ इत्युत्सर्गः, ‘अग्नीषोमीयं पशुमालभेत’ इत्यपवादः । तथा ‘आहवनीये जुहोति’ इत्युत्सर्गः, ‘अश्वस्य पदे पदे जुहोति’ इत्यपवाद इति विवेकः । एते ब्रह्मणि स्युरित्यत्रेष्टापत्तिं वारयति - न इत्यादिना भूतवस्तुविषयत्वात् इत्यन्तेन । इदं वस्तु, एवम् , नैवम् , घटः पटो वेति प्रकारविकल्पः । अस्ति नास्ति वेति सत्तास्वरूपविकल्पः । ननु वस्तुन्यपि आत्मादौ वादिनामस्ति नास्तीत्यादिविकल्पा दृश्यन्ते तत्राह - विकल्पनास्त्विति । अस्तित्वादिकोटिस्मरणं पुरुषबुद्धिस्तन्मूला मनःस्पन्दितमात्राः संशयविपर्ययविकल्पा न प्रमारूपा इत्यक्षरार्थः । अयं भावः धर्मो हि यथा यथा ज्ञायते तथा तथा कर्तुं शक्यते इति यथाशास्त्रं पुरुषबुद्ध्यपेक्षा विकल्पाः सर्वे प्रमारूपा एव भवन्ति, तत्साम्येन ब्रह्मण्यपि सर्वे विकल्पा यथार्थाः स्युरिति । तत्राप्येवमिति वदन्तं प्रत्याह - नेति । यदि सिद्धवस्तुज्ञानमपि साध्यज्ञानवत्पुरुषबुद्धिमपेक्ष्य जायेत तदा सिद्धे विकल्पा यथार्थाः स्युः, न सिद्धवस्तुज्ञानं पौरुषं किं तर्हि प्रमाणवस्तुजन्यम् , तथा च वस्तुन एकरूपत्वादेकमेव ज्ञानं प्रमा, अन्ये विकल्पा अयथार्था एवेत्यर्थः । अत्र दृष्टान्तमाह - नहि स्थाणाविति । स्थाणुरेवेत्यवधारणे सिद्धे सर्वे विकल्पा यथार्था न भवन्तीत्यर्थः । तत्र यद्वस्तुतन्त्रं ज्ञानं तद्यथार्थम् , यत्पुरुषतन्त्रं तन्मिथ्येति विभजते - तत्रेति । स्थाणावित्यर्थः । स्थाणावुक्तन्यायं घटादिष्वतिदिशति - एवमिति । प्रकृतमाह - तत्रैवं सतीति । सिद्धेऽर्थे ज्ञानप्रमात्वस्य वस्त्वधीनत्वे सति ब्रह्मज्ञानमपि वस्तुजन्यमेव यथार्थं न पुरुषतन्त्रं भूतार्थविषत्वात् , स्थाणुज्ञानवदित्यर्थः । अतः साध्येऽर्थे सर्वे विकल्पाः पुन्तन्त्रा न सिद्धेऽर्थे इति वैलक्षण्यात् न धर्मसाम्यं ब्राह्मण इति मननाद्यपेक्षा सिद्धेति भावः । ननु तर्हि ब्रह्म प्रत्यक्षादिगोचरम् , धर्मविलक्षणत्वात् , घटादिवत् । तथा च जन्मादिसूत्रे जगत्कारणानुमानं विचार्यम् , सिद्धार्थे तस्य मानत्वात् , न श्रुतिः, सिद्धार्थे तस्या अमानत्वेन तद्विचारस्य निष्फलत्वादिति शङ्कते - नन्विति । प्रमाणान्तरविषयत्वमेव प्राप्तमिति कृत्वा प्रमाणान्तरस्यैव विचारप्राप्ताविति शेषः । अत्र पूर्वपक्षी प्रष्टव्यः, किं यत्कार्यं तद्ब्रह्मजमित्यनुमानं ब्रह्मसाधकं किं वा यत्कार्यं तत्सकारणमिति । नाद्यः, व्याप्त्यसिद्धेरित्याह - नेति । ब्रह्मण इन्द्रियाग्राह्यत्वात्प्रत्यक्षेण व्याप्तिग्रहायोगान्न प्रमाणान्तरविषयत्वमित्यर्थः । इन्द्रियाग्राह्यत्वं कुत इत्यत आह - स्वभावत इति । ‘पराञ्चि खानि व्यतृणत्स्वयम्भूः’ इति श्रुतेः, ब्रह्मणो रूपादिहीनत्वाच्चेत्यर्थः । इन्द्रियाग्राह्यत्वेऽपि व्याप्तिग्रहः किं न स्यादत आह - सति हीति । तन्नास्तीति शेषः । इदं कार्यं ब्रह्मजमिति व्याप्तिप्रत्यक्षं ब्रह्मणोऽतीन्द्रियत्वान्न सम्भवतीत्यर्थः । द्वितीये कारणसिद्धावपि कारणस्य ब्रह्मत्वं श्रुतिं विना ज्ञातुमशक्यमित्याह - कार्यमात्रमिति । सम्बद्धं कृतं यस्मात् श्रुतिमन्तरेण जगत्कारणं ब्रह्मेति निश्चयालाभस्तस्मात्तल्लाभाय श्रुतिरेव प्राधान्येन विचारणीया, अनुमानं तूपादानत्वादिसामान्यद्वारा मृदादिवत् ब्रह्मणः स्वकार्यात्मकत्वादिश्रौतार्थसम्भावनार्थं गुणतया विचार्यमित्युपसंहरति - तस्मादिति । एतत्सूत्रस्य विषयवाक्यं पृच्छति - किं पुनरिति । इह ब्रह्मणि लक्षणार्थत्वेन विचारयितुमिष्टं वाक्यं किमित्यर्थः । अत्र हि प्रथमसूत्रे विशिष्टाधिकारिणो ब्रह्मविचारं प्रतिज्ञाय ब्रह्मज्ञातुकामस्य द्वितीयसूत्रे लक्षणमुच्यते । तथैव श्रुतावपि मुमुक्षोर्ब्रह्मज्ञातुकामस्य जगत्कारणत्वोपलक्षणानुवादेन ब्रह्म ज्ञाप्यत इति श्रौतार्थक्रमानुसारित्वं सूत्रस्य दर्शयितुं सोपक्रमं वाक्यं पठति - भृगुरिति । अधीहि स्मारय उपदिशेत्यर्थः । अत्र येनेत्येकत्वं विवक्षितम् , नानात्वे ब्रह्मत्वविधानायोगात् । यज्जगत्कारणं तदेकमित्यवान्तरवाक्यम् । यदेकं कारणं तद्ब्रह्मेति वा यत्कारणं तदेकं बह्मेति वा महावाक्यमिति भेदः । किं तर्हि स्वरूपलक्षणमित्याशङ्क्य वाक्यशेषान्निर्णितो यतःशब्दार्थः सत्यज्ञानानन्द इत्याह - तस्य चेति । ‘यः सर्वज्ञः’ ‘तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते’ ‘विज्ञानमानन्दं ब्रह्म’ इत्यादि शाखान्तरीयवाक्यान्यप्यस्य विषय इत्याह - अन्यान्यपीति । एवं जातीयकत्वमेवाह - नित्येति ।
तदेवं सर्वासु शाखासु लक्षणद्वयवाक्यानि जिज्ञास्ये ब्रह्मणि समन्वितानि, तद्धिया मुक्तिरिति सिद्धम् ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 प्रथमसूत्रेण शास्त्रारम्भमुपपाद्य शास्त्रमारभमाणः पूर्वोत्तराधिकरणयोः सङ्गतिं वक्तुं वृत्तं कीर्तयति - ब्रह्मेति । मुमुक्षुणा ब्रह्मज्ञानाय वेदान्तविचारः कर्तव्य इत्युक्तम् । ब्रह्मणो विचार्यत्वोक्त्या अर्थात्प्रमाणादि विचाराणां प्रतिज्ञातत्वेऽपि ब्रह्मप्रमाणं विना कर्तुमशक्यत्वात् , तत्स्वरूपज्ञानायादौ लक्षणं वक्तव्यम् , तन्न सम्भवतीत्याक्षिप्य सूत्रकृतं पूजयन्नेव लक्षणसूत्रमवधारयति - किं लक्षणकमिति । किमाक्षेपे । नास्त्येव लक्षणमित्यर्थः । आक्षेपेणास्योत्थानादाक्षेपसङ्गतिः । लक्षणद्योतिवेदान्तानां स्पष्टब्रह्मलिङ्गानां लक्ष्ये ब्रह्मणि समन्वयोक्तेः श्रुतिशास्त्राध्यायपादसङ्गतयः । तथा हि ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिवाक्यं विषयः । तत्किं ब्रह्मणो लक्षणं न वेति सन्देहः । तत्र पूर्वपक्षे ब्रह्मस्वरूपसिद्ध्या मुक्त्यसिद्धिः फलम् , सिद्धान्ते तत्सिद्धिरिति भेदः । यद्यप्याक्षेपसङ्गतौ पूर्वाधिकरणफलमेव फलमिति कृत्वा पृथङ्न वक्तव्यम् । तदुक्तम् - ‘आक्षेपे चापवादे च प्राप्त्यां लक्षणकर्मणि । प्रयोजनं न वक्तव्यं यच्च कृत्वा प्रवर्तते’ इति । तथापि स्पष्टार्थमुक्तमिति मन्तव्यम् । यत्र पूर्वाधिकरणसिद्धान्तेन पूर्वपक्षः तत्रापवादिकी सङ्गतिः प्राप्तिस्तदर्था चिन्ता । तत्र नेति प्राप्तम् , जन्मादेर्जगद्धर्मत्वेन ब्रह्मलक्षणत्वायोगात् । न च जगदुपादानत्वे सति कर्तृत्वं लक्षणमिति वाच्यम् , कर्तुरुपादानत्वे दृष्टान्ताभावेनानुमानाप्रवृत्तेः । न च श्रौतस्य ब्रह्मणः श्रुत्यैव लक्षणसिद्धेः किमनुमानेनेति वाच्यम् , अनुमानस्य श्रुत्यनुग्राहकत्वेन तदभावे तद्विरोधे वा श्रुत्यर्थासिद्धेः । - वेदे हि सर्वार्थप्रकाशनशक्तिरुपलभ्यते, सा तदुपादानब्रह्मगतशक्तिपूर्विका तद्गता वा, प्रकाशनशक्तित्वात् । कार्यगतशक्तित्वाद्वा, प्रदीपशक्तिवदिति वेदोपादानत्वेन ब्रह्मणः स्वसम्बद्धाशेषार्थप्रकाशनसामर्थ्यरूपं सर्वसाक्षित्वं सिध्यति । यद्वा यथा अध्येतारः पूर्वक्रमं ज्ञात्वा वेदं कुर्वन्ति, तथा विचित्रगुणमायासहायोऽनावृतानन्तस्वप्रकाशचिन्मात्रः परमेश्वरः स्वकृतपूर्वकल्पीयक्रमसजातीयक्रमवन्तं वेदराशिं तदर्थांश्च युगपज्जानन्नेव करोतीति न वेदस्य पौरुषेयता । यत्र ह्यर्थज्ञानपूर्वकं वाक्यज्ञानं वाक्यसृष्टौ कारणं तत्र पौरुषेयता, अत्र च यौगपद्यान्न सा, अतो वेदकर्ता वेदमिव तदर्थमपि स्वसम्बद्धं नान्तरीयकतया जानातीति सर्वज्ञ इति सिद्धान्तयति - शास्त्रेति । शास्त्रं प्रति हेतुत्वात् , ब्रह्म सर्वज्ञं सर्वकारणं च इति सङ्गतिद्वयानुसारेण सूत्रयोजनामभिप्रेत्य पदानि व्याचष्टे - महत इति । हेतोः सर्वज्ञत्वसिद्धये वेदस्य विशेषणानि । तत्र ग्रन्थतोऽर्थतश्च महत्त्वम् , हितशासनात्शास्त्रत्वम् । शास्त्रशब्दः शब्दमात्रोपलक्षणार्थ इति मत्वाह - अनेकेति । पुराणन्यायमीमांसाधर्मशास्त्राणि शिक्षाकल्पव्याकरणनिरुक्तच्छन्दोज्योतिषाणि षडङ्गानि इति दश विद्यास्थानानि वेदार्थज्ञानहेतवः । तैरुपकृतस्येत्यर्थः । अनेन मन्वादिभिः परिगृहीतत्वेन वेदस्य प्रामाण्यं सूचितम् । अबोधकत्वाभावादपि प्रामाण्यमित्याह - प्रदीपवदिति । सर्वार्थप्रकाशनशक्तिमत्वेऽप्यचेतनत्वात्सर्वज्ञकल्पत्वं योनिरुपादानं कर्तृ च । ननु सर्वज्ञस्य यो गुणः सर्वार्थज्ञानशक्तिमत्वं वेदस्य तदन्वितत्वेऽपि तद्योनेः सर्वज्ञत्वं कुत इत्यत आह - न हीति । उपादाने तच्छक्तिं विना कार्ये तदयोगाद्वेदोपादानस्य सर्वज्ञत्वम् , अनुमानं तु पूर्वं दर्शितम् । न चाविद्यायास्तदापत्तिः । शक्तिमत्वेऽप्यचेतनत्वादिति भावः । वेदः स्वविषयादधिकार्थज्ञानवज्जन्यः प्रमाणवाक्यत्वात् , व्याकरणरामायणादिवदित्यनुमानान्तरम् । तत्र व्याप्तिमाह - यद्यदिति । विस्तरः शब्दाधिक्यम् , अनेनार्थतोऽल्पत्वं वदन् कर्तुर्ज्ञानस्यार्थाधिक्यं सूचयति, दृश्यते चार्थवादाधिक्यं वेदे । अत्रैषा योजना - यद्यच्छास्त्रं यस्मादाप्तात्सम्भवति स ततः शास्त्रादधिकार्थज्ञान इति प्रसिद्धम् , यथा शब्दसाधुत्वादिर्ज्ञेयैकदेशोऽर्थो यस्य तदपि व्याकरणादि पाणिन्यादेरधिकार्थज्ञात्सम्भवति । यद्यल्पार्थमपि शास्त्रमधिकार्थज्ञात्सम्भवति तदा ‘अस्य महतः’ इत्यादिश्रुतेर्यस्मान्महतोऽपरिच्छिन्नाद्भूतात्सत्याद्योनेः सकाशात् अनेकशाखेत्यादिविशिष्टस्य वेदस्य पुरुषनिःश्वासवदप्रयत्नेनैव सम्भवः तस्य सर्वज्ञत्वं सर्वशक्तिमत्वं चेति किमु वक्तव्यमिति । तत्र वेदस्य पौरुषेयत्वशङ्कानिरसार्थं श्रुतिस्थनिःश्वसितपदार्थमाह - अप्रयत्नेनेति । प्रमाणान्तरेणार्थज्ञानप्रयासं विना निमेषादिन्यायेनेत्यर्थः । अत्रानुमानेन ‘यः सर्वज्ञः’ इति श्रुत्युक्तसर्वज्ञत्वदार्ढ्याय पाणिन्यादिवद्वेदकर्तरि अधिकार्थज्ञानसत्तामात्रं साध्यते न त्वर्थज्ञानस्य वेदहेतुत्वं निःश्वसितश्रुतिविरोधात् , वेदज्ञानमात्रेणाध्येतृवद्वेदकर्तृत्वोपपत्तेश्च । इयान् विशेषः - अध्येता परापेक्षः, ईश्वरस्तु स्वकृतवेदानुपूर्वीं स्वयमेव स्मृत्वा तथैव कल्पादौ ब्रह्मादिष्वाविर्भावयन् अनावृतज्ञानत्वात्तदर्थमत्यवर्जनीयतया जानातीति सर्वज्ञ इत्यनवद्यम् ॥ अधुना ब्रह्मणो लक्षणानन्तरं प्रमाणजिज्ञासायां वर्णकान्तरमाह - अथवेति । लक्षणप्रमाणयोर्ब्रह्मनिर्णयार्थत्वादेकफलकत्वं सङ्गतिः । ‘तं त्वौपनिषदं पुरुषम्’ इति श्रुतिर्ब्रह्मणो वेदैकवेद्यत्वं ब्रूते न वेति संशये, कार्यलिङ्गेनैव लाघवात्कर्तुरेकस्य सर्वज्ञस्य ब्रह्मणः सिद्धेर्न ब्रूते इति प्राप्ते वेदप्रमाणकत्वात् ब्रह्मणो न प्रमाणान्तरवेद्यत्वमिति सिद्धान्तयति - शास्त्रयोनित्वादिति । तद्व्याचष्टे - यथोक्तमिति । सर्वत्र पूर्वोत्तरपक्षयुक्तिद्वयं संशयबीजं द्रष्टव्यम् । अत्र पूर्वपक्षे अनुमानस्यैव विचार्यतासिद्धिः फलं सिद्धान्ते वेदान्तानामिति भेदः । अनुमानादिना ब्रह्मसिद्धिः पूर्वसूत्रे प्रसङ्गान्निरस्ता । किञ्च विचित्रप्रपञ्चस्य प्रासादादिवदेककर्तृकताबाधान्न लाघवावतारः । न च सर्वज्ञत्वात्कर्तुरेकत्वसम्भवः । एकत्वज्ञानात्सर्वज्ञत्वज्ञानं ततस्तदित्यन्योन्याश्रयमभिप्रेत्याह - शास्त्रादेवेति । किं तच्छास्त्रमिति तदाह - शास्त्रमिति । पृथगारम्भमाक्षिपति - किमर्थमिति । येन हेतुना दर्शितं ततः किमर्थमित्यर्थः । जन्मादिलिङ्गकानुमानस्य स्वातन्त्र्येणोपन्यासशङ्कानिरासार्थं पृथक्सूत्रमित्याह -
उच्यत इति ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 यस्य निःश्वसितं वेदाः सर्वार्थज्ञानशक्तयः ।
श्रीरामं सर्ववेत्तारं वेदवेद्यमहं भजे ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 वृत्तानुवादेन सङ्गतिं वदन्नुत्तरसुत्रमवतारयति - जगदिति । चेतनस्य ब्रह्मणो जगत्कारणत्वोक्त्या सर्वज्ञत्वमर्थात्प्रतिज्ञातं सूत्रकृता, चेतनसृष्टेर्ज्ञानपूर्वकत्वात् । तथा च ब्रह्म सर्वज्ञम् , सर्वकारणत्वात् , यो यत्कर्ता स तज्ज्ञः, यथा कुलाल इति स्थितम् । तदेवार्थिकं सर्वज्ञत्वं प्रधानादिनिरासाय वेदकर्तृत्वहेतुना द्रढयन्नाहेत्यर्थः । हेतुद्वयस्यैकार्थसाधनत्वात् , एकविषयत्वमवान्तरसङ्गतिः । यद्वा वेदस्य नित्यत्वाद्ब्रह्मणः सर्वहेतुता नास्तीत्याक्षेपसङ्गत्या वेदहेतुत्वमुच्यते ‘अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरसः’ इति वाक्यं विषयः तत्किं वेदहेतुत्वेन ब्रह्मणः सर्वज्ञत्वं साधयति उत न साधयति इति सन्देहः । तत्र व्याकरणादिवद्वेदस्य पौरुषेयत्वे मूलप्रमाणसापेक्षत्वेनाप्रामाण्यापातान्न साधयतीति पूर्वपक्षे जगद्धेतोश्चेतनत्वासिद्धिः फलम् । सिद्धान्ते तत्सिद्धिः । अस्य वेदान्तवाक्यस्य स्पष्टब्रह्मलिङ्गस्य वेदकर्तरि समन्वयोक्तेः श्रुतिशास्त्राध्यायपादसङ्गतयः । एवमापादं श्रुत्यादिसङ्गतय ऊह्याः । सिद्धान्तसूत्रं व्याचष्टे - तुशब्द इति । तद्ब्रह्म वेदान्तप्रमाणकमिति प्रतिज्ञातेऽर्थे हेतुं पृच्छति - कथमिति । हेतुमाह - समिति । अन्वयतात्पर्यविषयत्वं तस्मादित्येव हेतुः । तात्पर्यस्य सम्यक्त्वमखण्डार्थविषयकत्वं सूचयितुं सम् - पदं प्रतिज्ञान्तर्गतमेव । तथा चाखण्डं ब्रह्म वेदान्तजप्रमाविषयः, वेदान्ततात्पर्यविषयत्वात् , यो यद्वाक्यतात्पर्यविषयः स तद्वाक्यप्रमेयः, यथा कर्मवाक्यप्रमेयो धर्म इति प्रयोगः । वाक्यार्थस्याखण्डत्वं - असंसृष्टत्वम् । वाक्यस्य चाखण्डार्थकत्वं - स्वपदोपस्थिता ये पदार्थास्तेषां यः संसर्गस्तद्गोचरप्रमाजनकत्वम् । न चेदमप्रसिद्धम् । प्रकृष्टप्रकाशश्चन्द्र इत्यादि लक्षणवाक्यानां लोके लक्षणया चन्द्रादिव्यक्तिमात्रप्रमाहेतुत्वात् । सर्वपदलक्षणा चाविरुद्धा सर्वैरर्थवादपदैरेकस्याः स्तुतेर्लक्ष्यत्वाङ्गीकारात् । तथा सत्यज्ञानादिपदैरखण्डं ब्रह्म भातीति न पक्षासिद्धिः । नापि हेत्वसिद्धिः, उपक्रमादिलिङ्गैर्वेदान्तानामद्वितीयाखण्डब्रह्मणि तात्पर्यनिर्णयात् । तत्र छान्दोग्यषष्ठे उपक्रमं दर्शयति - सदेवेति । उद्दालकः पुत्रमुवाच - हे सोम्य प्रियदर्शन, इदं सर्वं जगत् , अग्रे उत्पत्तेः प्राक्काले सदबाधितं ब्रह्मैवासीत् । एवकारेण जगतः पृथक्सत्ता निषिध्यते । सजातीयविजातीयस्वगतभेदनिरासार्थं ‘एकमेवाद्वितीयम्’ इति पदत्रयम् । एवमद्वितीयं ब्रह्मोपक्रम्य ‘ऐतदात्म्यमिदं सर्वम्’ इत्युपसंहरति । इदमुपक्रमोपसंहारैकरूप्यं तात्पर्यलिङ्गम् , यथा ‘तत्त्वमसि’ इति नवकृत्वोऽभ्यासः । रूपादिहीनाद्वितीयब्रह्मणो मानान्तरायोग्यत्वादपूर्वत्वमुक्तम् - ‘अत्र वाव किल सत्सोम्य न निभालयसे’ इति । सङ्घाते स्थितं प्रत्यग्ब्रह्म न जानासीत्यर्थः । ‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये’ इति ब्रह्मज्ञानात्फलमुक्तं विदुषः । तस्य यावत्कालं देहो न विमोक्ष्यते तावदेव देहपातपर्यन्तो विलम्बः । अथ देहपातानन्तरं विद्वान् ब्रह्म सम्पत्स्यते । विदेहकैवल्यमनुभवतीत्यर्थः । ‘अनेन जीवेनात्मनानुप्रविश्य’ इत्याद्यद्वितीयज्ञानार्थोऽर्थवादः । मृदादिदृष्टान्तैः प्रकृत्यतिरेकेण विकारो नास्तीत्युपपत्तिरुक्ता । एवं षङ्विधानि तात्पर्यलिङ्गानि व्यस्तानि समस्तानि वा प्रतिवेदान्तं दृश्यन्त इत्यैतरेयोपक्रमवाक्यं पठति - आत्मा वा इति । बृहदारण्यके मधुकाण्डोपसंहारवाक्यं सदात्मनो निर्विशेषत्वार्थमाह - तदेतदिति । मायाभिर्बहुरूपं तद्ब्रह्म । एतदपरोक्षम् । अपूर्वं कारणशून्यम् । अनपरं कार्यरहितम् । अनन्तरं जात्यन्तरमस्य नास्तीत्यनन्तरम् । एकरसमित्यर्थः । अबाह्यमद्वितीयम् । तस्यापरोक्षत्वमुपपादयति - अयमिति । सर्वमनुभवतीति सर्वानुभूः । चिन्मात्रमित्यर्थः । ऋग्यजुःसामवाक्यानुक्त्वा आथर्वणवाक्यमाह - ब्रह्मैवेदमिति । यत्पुरस्तात्पूर्वदिग्वस्तुजातमिदमब्रह्मेव विदुषां भाति तदमृतं ब्रह्मैव वस्तु इत्यर्थः । आदिपदेन ‘सत्यं ज्ञानम्’ इत्यादिवाक्यानि गृह्यन्ते । नन्वस्तु ब्रह्मणस्तात्पर्यविषयत्वम् , वेदान्तानां कार्यमेवार्थः किं न स्यादिति तत्राह - न चेति । वेदान्तानां ब्रह्मणि तात्पर्ये निश्चीयमाने कार्यार्थत्वं न युक्तं ‘यत्परः शब्दः स शब्दार्थः’ इति न्यायादित्यर्थः । यदुक्तमर्थवादन्यायेन वेदान्तानां कर्त्रादिस्तावकत्वमिति तत्राह - न च तेषामिति । तेषां कर्मशेषस्तावकत्वं न भाति किन्तु ज्ञानद्वारा कर्म तत्साधननाशकत्वमेव । तत्तत्र विद्याकाले कः कर्ता केन करणेन कं विषयं पश्येत् इति श्रुतेरित्यर्थः । अर्थवादानां तु स्वार्थे फलाभावात्स्तुतिलक्षणतेति भावः । यदुक्तं सिद्धत्वेन मानान्तरवेद्यं ब्रह्म न वेदार्थ इति तत्राह - न च परीति । ’तत्त्वमसि’ इति शास्त्रमन्तरेणेति सम्बन्धः । धर्मो न वेदार्थः, साध्यत्वेन पाकवन्मानान्तरवेद्यत्वात् । यदि वेदं विना धर्मस्यानिर्णयान्न मानान्तरवेद्यता तदा ब्रह्मण्यपि तुल्यम् । यच्चोक्तं निष्फलत्वाद्ब्रह्म न वेदार्थ इति तदनूद्य परिहरति - यत्त्वित्यादिना । रहितत्वाद्भिन्नत्वात् । ब्रह्मण इति शेषः । यदप्युक्तम् - ‘उपासनापरत्वं वेदान्तानाम्’ इति तत्र किं प्राणपञ्चाग्न्यादिवाक्यानामुत सर्वेषामिति । तत्राद्यमङ्गीकरोति - देवतादीति । ज्येष्ठत्वादिगुणः फलं चादिशब्दार्थः । न द्वितीयः, विधिशून्यानां ‘सत्यं ज्ञानम्’ इत्यादीनां स्वार्थे फलवतामुपासनापरत्वकल्पनायोगात् । किञ्च तदर्थस्य ब्रह्मणस्तच्छेषत्वं ज्ञानात्प्रागूर्ध्वं वा । आद्ये, अध्यस्तगुणवतस्तस्य तच्छेषत्वेऽपि न द्वितीय इत्याह - न तु तथेति । प्राणादिदेवतावदित्यर्थः । ‘अहं ब्रह्मास्मि’ इत्येकत्वे ज्ञाते सति हेयोपादेयशून्यतया ब्रह्मात्मनः फलाभावात् , उपास्योपासकद्वैतज्ञानस्य कारणस्य नाशाच्च नोपासनाशेषत्वमित्याह - एकत्व इति । द्वैतज्ञानस्य संस्कारबलात्पुनरुदये विधानमिति नेत्याह - नहीति । दृढस्येति शेषः । भ्रान्तित्वानिश्चयो दार्ढ्यम् , संस्कारोत्थं तु भ्रान्तित्वेन निश्चितं न विधिनिमित्तम् । येनेति । उपासनायां कारणस्य सत्वेनेत्यर्थः । वेदप्रामाण्यस्य व्यापकं क्रीयार्थकत्वमनुवदति - यद्यपीति । कर्मकाण्डेऽर्थवादादीनामित्यर्थः । तथा च व्यापकाभावाद्वेदान्तेषु व्याप्याभावानुमानमिति भावः । वेदान्ता न स्वार्थे मानम् , अक्रियार्थत्वात् ‘सोऽरोदीत्’ इत्यादिवदित्यनुमाने निष्फलार्थकत्वमुपाधिरित्याह - तथापीति । अर्थवादानां निष्फलस्वार्थामानत्वेऽपीत्यर्थः । तद्विषयस्य तत्करणस्य । स्वार्थे ब्रह्मात्मनीति शेषः । सफलज्ञानकरणत्वेन वेदान्तानां स्वार्थे मानत्वसिद्धेर्न क्रियार्थकत्वं तद्व्यापकमिति भावः । ननु माभूद्वेदप्रामाण्यस्य व्यापकं क्रियार्थकत्वम् , व्याप्यं तु भविष्यति, तदभावाद्वेदान्तानां प्रामाण्यं दुर्ज्ञानमिति, नेत्याह - न चेति । येन वेदप्रामाण्यं स्वस्यानुमानगम्यत्वेनान्यत्र क्वचिद्दृष्टं दृष्टान्तमपेक्षेत तदेव नास्तीत्यर्थः । चक्षुरादिवद्वेदस्य स्वतःप्रामाण्यज्ञानान्न तद्व्याप्तिलिङ्गाद्यपेक्षा । प्रामाण्यसंशये तु फलवदज्ञाताबाधितार्थतात्पर्यात्प्रामाण्यनिश्चयो न क्रियार्थत्वेन । कूपे पतेदिति वाक्ये व्यभिचारादिति भावः । वर्णकार्थमुपसंहरति - तस्मादिति । समन्वयादित्यर्थः । विधिवाक्यानामपि फलवदज्ञातार्थत्वेन प्रामाण्यं तत्तुल्यं वेदान्तानामपीति स्थितम् । एवं पदानां सिद्धेऽर्थे व्युत्पत्तिमिच्छतां ब्रह्मनास्तिकानां मतम् , ब्रह्मणो मानान्तरायोग्यत्वात् , सफलत्वाच्च वेदान्तैकमेयत्वमित्युक्त्या निरस्तम् । सम्प्रति सर्वेषां पदानां कार्यान्वितार्थे शक्तिमिच्छतां विधिशेषत्वेन प्रत्यग्ब्रह्म वेदान्तैर्बोध्यते न स्वातन्त्र्येणेति वदतां वृत्तिकाराणां मतनिरासाय सूत्रस्य वर्णकान्तरमारभ्यते । तत्र वेदान्ताः किमुपासनाविधिशेषत्वेन ब्रह्म बोधयन्ति उत स्वातन्त्र्येणेति सिद्धे व्युत्पत्त्यभावभावाभ्यां संशये पूर्वपक्षमाह - अत्रापर इति । ब्रह्मणो वेदान्तवेद्यत्वोक्तौ वृत्तिकाराः पूर्वपक्षयन्तीत्यर्थः । उपासनातो मुक्तिः पूर्वपक्षे, तत्त्वज्ञानादेवेति सिद्धान्ते फलम् । विधिर्नियोगः तस्य विषयः प्रतिपत्तिरुपासना । अस्याः को विषय इत्याकाङ्क्षायां सत्यादिवाक्यैर्विधिपरैरेव ब्रह्मसमर्प्यत इत्याह - प्रतिपत्तीति । विधिविषयप्रतिपत्तिविषयतयेत्यर्थः । विधिपराद्वाक्यात्तच्छेषलाभे दृष्टान्तमाह - यथेति । ‘यूपे पशुं बध्नाति’ ‘आहवनीये जुहोति’ ‘इन्द्रं यजेत’ इति विधिषु के यूपादय इत्याकाङ्क्षायां ‘यूपं तक्षति, अष्टाश्रीकरोति’ इति तक्षणादिसंस्कृतं दारु यूपः । ‘अग्नीनादधीत’ इत्याधानसंस्कृतोऽग्निराहवनीयः । ‘वज्रहस्तः पुरन्दरः’ इति विधिपरैरेव वाक्यैः समर्प्यन्ते तद्वद्ब्रह्मेत्यर्थः । विधिपरवाक्यस्यापि अन्यार्थबोधित्वे वाक्यभेदः स्यादिति शङ्कानिरासार्थमपिशब्दः । मानान्तराज्ञातान्यपि शेषतयोच्यन्ते न प्रधानत्वेनेति न वाक्यभेदः । प्रधानार्थभेदस्यैव वाक्यभेदकत्वादिति भावः । ननूक्तषड्विधलिङ्गैस्तात्पर्यविषयस्य ब्रह्मणः कुतो विधिशेषत्वमिति शङ्कते - कुत इति । वृद्धव्यवहारेण हि शास्त्रतात्पर्यनिश्चयः । वृद्धव्यवहारे च श्रोतुः प्रवृत्तिनिवृत्ती उद्दिश्यापूर्वप्रयोगो दृश्यते । अतः शास्त्रस्यापि ते एव प्रयोजने । ते च कार्यज्ञानजन्ये इति कार्यपरत्वं शास्त्रस्य । ततः कार्यशेषत्वं ब्रह्मण इत्याह - प्रवृत्तीति । शास्त्रस्य नियोगपरत्वे वृद्धसम्मतिमाह - न तथाहीत्यादिना । क्रिया, कार्यम् , नियोगो, विधिः धर्मोऽपूर्वमित्यनर्थान्तरम् । को वेदार्थ इत्याकाङ्क्षायां शाबरभाष्यकृतोक्तम् - दृष्टो हीति । तस्य वेदस्य । कार्यं वेदार्थ इत्यत्र चोदनासूत्रस्थं भाष्यमाह - चोदनेति । क्रियाया नियोगस्य ज्ञानद्वारा प्रवर्तकं वाक्यं चोदनेत्युच्यत इत्यर्थः । शबरस्वामिसम्मतिमुक्त्वा जैमिनिसम्मतिमाह - तस्य ज्ञानमिति । तस्य धर्मस्य ज्ञापकमपौरुषेयविधिवाक्यमुपदेशः । तस्य धर्मेणाव्यतिरेकादित्यर्थः । पदानां कार्यान्वितार्थे शक्तिरित्यत्र सूत्रं पठति - तद्भूतानामिति । तत्तत्र वेदे भूतानां सिद्धार्थनिष्ठानां पदानां क्रियार्थेन कार्यवाचिना लिङादिपदेन समाम्नायः सहोच्चारणं कर्तव्यम् । पदार्थज्ञानस्य वाक्यार्थरूपकार्यधीनिमित्तत्वादित्यर्थः । कार्यान्वितार्थे शक्तानि पदानि कार्यवाचिपदेन सह पदार्थस्मृतिद्वारा कार्यमेव वाक्यार्थं बोधयन्तीति भावः । फलितमाह - अत इति । यतो वृद्धा एवमाहुः, अतो विधिनिषेधवाक्यमेव शास्त्रम् । अर्थवादादिकं तु तच्छेषतयोपक्षीणम् । तेन कर्मशास्त्रेण सामान्यं शास्त्रत्वम् । तस्माद्वेदान्तानां कार्यपरत्वेनैव अर्थवत्वं स्यादित्यर्थः । ननु वेदान्तेषु नियोज्यस्य विधेयस्य चादर्शनात्कथं कार्यधीरिति । तत्राह - सति चेति । ननु धर्मब्रह्मजिज्ञासासूत्रकाराभ्यामिह काण्डद्वयेऽर्थभेद उक्तः, एककार्यार्थत्वे शास्त्रभेदानुपपत्तेः । तत्र काण्डद्वये जिज्ञास्यभेदे सति फलवैलक्षण्यं वाच्यम् । तथा च न मुक्तिफलाय ज्ञानस्य विधेयता, मुक्तेर्विधेयक्रियाजन्यत्वे कर्मफलादविशेषप्रसङ्गादविशेषे जिज्ञास्यभेदासिद्धेः । अतः कर्मफलविलक्षणत्वान्नित्यसिद्धमुक्तेस्तद्व्यञ्जकज्ञानविधिरयुक्त इत्याशङ्कते - नन्विहेति । मुक्तेः कर्मफलाद्वैलक्षण्यमसिद्धमिति तदर्थं ज्ञानं विधेयम् । न च तर्हि सफलं कार्यमेव वेदान्तेष्वपि जिज्ञास्यमिति तद्भेदासिद्धिरिति वाच्यम् , इष्टत्वात् । न च ब्रह्मणो जिज्ञास्यत्वसूत्रविरोधः, ज्ञानविधिशेषत्वेन सूत्रकृता ब्रह्मप्रतिपादनादिति परिहरति - नेति । ब्रह्मणो विधिप्रयुक्तत्वं स्फुटयति - आत्मा वा इति । ‘ब्रह्म वेद’ इत्यत्र ब्रह्मभावकामो ब्रह्मवेदनं कुर्यादिति विधिः परिणम्यत इति द्रष्टव्यम् । लोकं ज्ञानस्वरूपम् । वेदान्तानेवार्थतो दर्शयति - नित्य इति । ननु किं विधिफलमिति तदाह - तदुपासनादिति । प्रत्यग्ब्रह्मोपासनात् ‘ब्रह्मविदाप्नोति परम्’ इति शास्त्रोक्तो मोक्षः स्वर्गवल्लोकाप्रसिद्धः फलमित्यर्थः । ब्रह्मणः कर्तव्योपासनाविषयकविधिशेषत्वानङ्गीकारे बाधकमाह - कर्तव्येति । विध्यसम्बद्धसिद्धबोधे प्रवृत्त्यादिफलाभावाद्वेदान्तानां वैफल्यं स्यादित्यर्थः । नन्विति शङ्का स्पष्टार्था । दृष्टान्तवैषम्येण परिहरति - स्यादिति । एतदर्थवत्वमेवंचेत्स्यादित्यर्थः । एवं शब्दार्थमाह - यदिति । किञ्च यदि ज्ञानादेव मुक्तिस्तदा श्रवणजन्यज्ञानानन्तरं मननादिविधिर्न स्यात् , तद्विधेश्च कार्यसाध्या मुक्तिरित्याह - श्रोतव्य इति । शब्दानां कार्यान्वितशक्तेः, प्रवृत्त्यादिफलस्यैव शास्त्रत्वात् , सिद्धे फलाभावात् , मननादिविधेश्च कार्यपरा वेदान्ता इति पूर्वपक्षमुपसंहरति - तस्मादिति । वेदान्ता न विधिपराः स्वार्थे फलवत्वे सति नियोज्यविधुरत्वात् , नायं सर्प इति वाक्यवत् । ‘सोऽरोदीत्’ ‘स्वर्गकामो यजेत’ इति वाक्ययोर्निरासाय हेतौ विशेषणद्वयमिति सिद्धान्तयति - अत्रेति । यदुक्तं मोक्षकामस्य नियोज्यस्य ज्ञानं विधेयमिति, तन्नेत्याह - नेति । मोक्षो न विधिजन्यः, कर्मफलविलक्षणत्वात् , आत्मवदित्यर्थः । उक्तहेतुज्ञानाय कर्मतत्फले प्रपञ्चयति - शारीरमित्यादिना वर्णितं संसाररूपमनुवदति इत्यन्तेन । अथ वेदाध्ययनानन्तरम् , अतो - वेदस्य फलवदर्थपरत्वात् , धर्मनिर्णयाय कर्मवाक्यविचारः कर्तव्य इति सूत्रार्थः । न केवलं धर्माख्यं कर्म किन्तु अधर्मोऽपीत्याह - अधर्मोऽपीति । निषेधवाक्यप्रमाणत्वादित्यर्थः । कर्मोक्त्वा फलमाह - तयोरिति । मोक्षस्तु अतीन्द्रियो विशोकः शरीराद्यभोग्यो विषयाद्यजन्योऽनात्मवित्स्वप्रसिद्ध इति वैलक्षण्यज्ञानाय प्रत्यक्षादीनि विशेषणानि । सामान्येन कर्मफलमुक्त्वा धर्मफलं पृथक्प्रपञ्चयति - मनुष्यत्वादीति । ‘स एको मानुष आनन्दः’ ततः शतगुणो गन्धर्वादीनामिति श्रुतेरनुभवानुसारित्वमनुशब्दार्थः । ततश्च । सुखतारतम्यादित्यर्थः । मोक्षस्तु निरतिशयः, तत्साधनं च तत्वज्ञानमेकरूपमिति वैलक्षण्यम् । किं च साधनचतुष्टयसम्पन्न एकरूप एव मोक्षविद्याधिकारी, कर्मणि तु नानाविध इति वैलक्षण्यमाह - धर्मेति । गम्यते न केवलं किं तु प्रसिद्धं चेत्यर्थः । अर्थित्वं फलकामित्वम् । सामर्थ्यं लौकिकं पुत्रादि । आदिपदाद्विद्वत्त्वं शास्त्रानिन्दितत्वं च । किं च कर्मफलं मार्गप्राप्यम् , मोक्षस्तु नित्याप्त इति भेदमाह - तथेति । उपासनायां चित्तस्थैर्यप्रकर्षादर्चिरादिमार्गेण ब्रह्मलोकगमनं ‘तेऽर्चिषम्’ इत्यादिना श्रूयत इत्यर्थः । ‘अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् । आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ॥ वापीकूपतडागादि देवतायतनानि च । अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥ शरणागतसन्त्राणं भूतानां चाप्यहिंसनम् । बहिर्वेदि च यद्दानं दत्तमित्यभिधीयते ॥ ’ तत्रापि । चन्द्रलोकेऽपीत्यर्थः । सम्पतति गच्छति अस्माल्लोकादमुं लोकमनेनेति सम्पातः कर्म । यावत्कर्म भोक्तव्यं तावत्स्थित्वा पुनरायान्तीत्यर्थः । मनुष्यत्वादूर्ध्वङ्गतेषु सुखस्य तारतम्यमुक्त्वा अधोगतेषु तदाह - तथेति । इदानीं दुःखतद्धेतुतदनुष्ठायिनां तारतम्यं वदन्नधर्मफलं प्रपञ्चयति - तथोर्ध्वमिति । द्विविधं कर्मफलं मोक्षस्य तद्वैवलक्षण्यज्ञानाय प्रपञ्चितमुपसंहरति - एवमिति । अस्मिताकामक्रोधभयान्यादिशब्दार्थः । ‘ते तं मुक्त्वा स्वर्गलोकं विशालम्’ इत्याद्या स्मृतिः । काष्ठोपचयाज्ज्वालोपचयदर्शनात् , फलतारतम्येन साधनतारतम्यानुमानं न्यायः । श्रुतिमाह - तथाचेति । मोक्षो न कर्मफलम् , कर्मफलविरुद्धातीन्द्रियत्वविशोकत्वशरीराद्यभोग्यत्वादिधर्मवत्वात् , व्यतिरेकेण स्वर्गादिवदिति न्यायानुग्राह्यां श्रुतिमाह - अशरीरमिति । वावेत्यवधारणे । तत्त्वतो विदेहं सन्तमात्मानं वैषयिके सुखदुःखे नैव स्पृशत इत्यर्थः । मोक्षश्चेदुपासनारूपधर्मफलम् , तदेव प्रियमस्तीति तन्निषेधायोग इत्याह - धर्मकार्यत्वे हीति । ननु प्रियं नाम वैषयिकं सुखं तन्निषिध्यते, मोक्षस्तु धर्मफलमेव, कर्मणां विचित्रदानसामर्थ्यादिति शङ्कते - अशरीरत्वमेवेति । आत्मनो देहासङ्गित्वमशरीरत्वम् , तस्यानादित्वान्न कर्मसाध्यतेत्याह - नेति । अशरीरं स्थूलदेहशून्यम् , देहेष्वनेकेषु अनित्येषु एकं नित्यमवस्थितम् , महान्तं व्यापिनम् । आपेक्षिकमहत्त्वं वारयति - विभुमिति । तमात्मानं ज्ञात्वा धीरः सन् शोकोपलक्षितं संसारं नानुभवतीत्यर्थः । सूक्ष्मदेहाभावे श्रुतिमाह - अप्राण इति । प्राणमनसोः क्रियाज्ञानशक्त्योर्निषेधात् , तदधीनानां कर्मज्ञानेन्द्रियाणां निषेधो हि यतः, अतः शुद्ध इत्यर्थः । देहद्वयाभावे श्रुतिः ‘असङ्गो हि’ इति । निर्देहात्मस्वरूपमोक्षस्यानादिभावत्वे सिद्धे फलितमाह - अत एवेति । नित्यत्वेऽपि परिणामितया धर्मकार्यत्वं मोक्षस्येत्याशङ्क्य नित्यं द्वेधा विभजते - तत्र किञ्चिदिति । नित्यवस्तुमध्य इत्यर्थः । परिणामि च तन्नित्यं चेति परिणामिनित्यम् । आत्मा तु कूटस्थनित्य इति न कर्मसाध्य इत्याह - इदं त्विति । परिणामिनो नित्यत्वं प्रत्यभिज्ञाकल्पितं मिथ्यैव । कूटस्थस्य तु नाशकाभावान्नित्यत्वं पारमार्थिकम् । कूटस्थत्वसिध्यर्थं परिस्पन्दाभावमाह - व्योमवदिति । परिणामाभावमाह - सर्वविक्रियारहितमिति । फलानपेक्षित्वान्न फलार्थापि क्रियेत्याह - नित्यतृप्तमिति । तृप्तिरनपेक्षत्वम् , विशोकं सुखं वा । निरवयवत्वान्न क्रिया । तस्य भानार्थमपि न क्रिया, स्वयञ्ज्योतिष्ट्वात् । अतः कूटस्थत्वान्न कर्मसाध्यो मोक्ष इत्युक्तम् । कर्मतत्कार्यासङ्गित्वाच्च तथेत्याह - यत्रेति । कालानवच्छिन्नत्वाच्चेत्याह - कालेति । कालत्रयं च नोपावर्तत इति योग्यतया सम्बन्धनीयम् । धर्माद्यनवच्छेदे मानमाह - अन्यत्रेति । अन्यदित्यर्थः । कृतात्कार्यात् , अकृताच्च कारणात् , भूताद्भव्याच्च, चकाराद्वर्तमानाच्च अन्यद्यत्पश्यसि तद्वदेत्यर्थः । ननु उक्ताः श्रुतयो ब्रह्मणः कूटस्थासङ्गित्वं वदन्तु, मोक्षस्य नियोगफलत्वं किं न स्यादिति, तत्राह - अत इति । तत्कैवल्यं ब्रह्मैव । कर्मफलविलक्षणत्वादित्यर्थः । ब्रह्माभेदान्मोक्षस्य कूटस्थत्वं धर्माद्यसङ्गित्वं चेति भावः । यद्वा तज्जिज्ञास्यं तद्ब्रह्म अतः पृथग्जिज्ञास्यत्वाद्धर्माद्यस्पृष्टमित्यर्थः । अतः शब्दाभावपाठेऽप्ययमेवार्थः । ब्रह्मणो विधिस्पर्शो शास्त्रपृथक्त्वं न स्यात् , कार्यविलक्षणानधिगतविषयलाभात् । नहि ब्रह्मात्मैक्यं भेदप्रमाणे जाग्रति विधिपरवाक्याल्लब्धुं शक्यम् । न वा तद्विना विधेरनुपपत्तिः । योषिदग्न्यैक्योपास्तिविधिदर्शनादिति भावः । अथवा मोक्षस्य नियोगासाध्यत्वे फलितं सूत्रार्थमाह - अत इति । यदत्र जिज्ञास्यं ब्रह्म तत्स्वतन्त्रमेव वेदान्तैरुपदिश्यते । समन्वयादित्यर्थः । विपक्षे दण्डं पातयति - तद्यदीति । तत्रैवं सतीति । मोक्षे साध्यत्वेनानित्ये सतीत्यर्थः । अत इति । मुक्तेर्नियोगासाध्यत्वेन नियोज्यालाभात् । कर्तव्यनियोगाभावादित्यर्थः । प्रदीपात्तमोनिवृत्तिवज्ज्ञानादज्ञाननिवृत्तिरूपमोक्षस्य दृष्टफलत्वाच्च न नियोगसाध्यत्वमित्याह - अपिचेति । यो ब्रह्माहमिति वेद स ब्रह्मैव भवति । परं कारणमवरं कार्यं तद्रूपे तदधिष्ठाने तस्मिन्दृष्टे सति अस्य द्रष्टुरनारब्धफलानि कर्माणि नश्यन्ति । ब्रह्मणः स्वरूपमानन्दं विद्वान्निर्भयो भवति, द्वितीयाभावात् । अभयं ब्रह्म प्राप्तोऽसि, अज्ञानहानात्तज्जीवाख्यं ब्रह्म गुरूपदेशादात्मानमेव अहं ब्रह्मास्मीत्यवेत् विदितवत् । तस्माद्वेदनात्तद्ब्रह्म पूर्णमभवत् । परिच्छेदभ्रान्तिहानादेकत्वम् , अहं ब्रह्म इत्यनुभवतस्तत्रानुभवकाले मोहशोकौ न स्त इति श्रुतीनामर्थः । तासां तात्पर्यमाह - ब्रह्मेति । विद्यातत्फलयोर्मध्य इत्यर्थः । मोक्षस्य विधिफलत्वे स्वर्गादिवत्कालान्तरभावित्वं स्यात् , तथा च श्रुतिबाध इति भावः । इतश्च मोक्षो वैधो नेत्याह - तथेति । तद्ब्रह्मैतत्प्रत्यगस्मीति पश्यन् तस्माज्ज्ञानात् वामदेवो मुनीन्द्रः शुद्धं ब्रह्म प्रतिपेदे ह तत्र ज्ञाने तिष्ठन् दृष्टवानात्ममन्त्रान् स्वस्य सर्वात्मत्वप्रकाशकान् ‘अहं मनुः’ इत्यादीन्ददर्शेत्यर्थः । यद्यपि स्थितिर्गानक्रियाया लक्षणम् , ब्रह्मदर्शनं तु ब्रह्मप्रतिपत्तिक्रियाया हेतुरिति वैषम्यमस्ति तथापि ‘लक्षणहेत्वोः क्रियायाः’ इति सूत्रेण क्रियां प्रति लक्षणहेत्वोरर्थयोर्वर्तमानाद्धातोः परस्य लटः शतृशानचावादेशौ भवत इति विहितशतृप्रत्ययसामर्थ्यात्तिष्ठन्गायति इत्युक्ते तत्कर्तृकं कार्यान्तरं मध्ये न भातीत्येतावता पश्यन् प्रतिपेदे इत्यस्य दृष्टान्तमाह - यथेति । किं च ज्ञानादज्ञाननिवृत्तिः श्रूयते । ज्ञानस्य विधेयत्वे कर्मत्वादविद्यानिवर्तकत्वं न युक्तम् , अतो बोधका एव वेदान्ता न विधायका इत्याह - त्वं हीति । भारद्वाजादयः षडृषयः पिप्पलादं गुरुं पादयोः प्रणम्य ऊचिरे - त्वं खल्वस्माकं पिता । यस्त्वमविद्यामहोदधेः परं पुनरावृत्तिशून्यं पारं ब्रह्म विद्याप्लवेनास्मांस्तारयसि प्रापयसि । ज्ञानेनाज्ञानं नाशयसीति यावत् । प्रश्नवाक्यमुक्त्वा छान्दोग्यमाह - श्रुतमिति । अत्र ‘तारयतु’ इत्यन्तमुपक्रमस्थम् , शेषमुपसंहारस्थमिति भेदः । आत्मविच्छोकं तरतीति भगवत्तुल्येभ्यो मया श्रुतमेव हि न दृष्टम् , सोऽहमज्ञत्वात् हे भगवः, शोचामि, तं शोचन्तं मां भगवानेव ज्ञानप्लवेन शोकसागरस्य परं पारं प्रापयत्विति नारदेनोक्तः सनत्कुमारस्तस्मै तपसा दग्धकिल्बिषाय नारदाय तमसः शोकनिदानाज्ञानस्य ज्ञानेन निवृत्तिरूपं पारं ब्रह्म दर्शितवानित्यर्थः । ‘एतद्यो वेदसोऽविद्याग्रन्थिं विकिरति’ इति वाक्यमादिशब्दार्थः । एवं श्रुतेस्तत्त्वप्रमा मुक्तिहेतुर्न कर्मेत्युक्तम् । तत्राक्षपादगौतममुनिसंमतिमाह - तथा चेति । गौरोऽहमिति मिथ्याज्ञानस्यापाये रागद्वेषमोहादिदोषाणां नाशः, दोषापायाद्धर्माधर्मस्वरूपप्रवृत्तेरपायः, प्रवृत्यपायात्पुनर्देहप्राप्तिरूपजन्मापायः, एवं पाठक्रमेणोत्तरोत्तरस्य हेतुनाशान्नाशे सति तस्य प्रवृत्तिरूपहेतोरनन्तरस्य कार्यस्य जन्मनोऽपायाद्दुःखध्वंसरूपोऽपवर्गो भवतीत्यर्थः । ननु पूर्वसूत्रे ‘तत्त्वज्ञानान्निःश्रेयसाधिगमः’ इत्युक्ते सतीतरपदार्थभिन्नात्मतत्त्वज्ञानं कथं मोक्षं साधयतीत्याकाङ्क्षायां मिथ्याज्ञाननिवृत्तिद्वारेणेति वक्तुमिदं सूत्रं प्रवृत्तम् । तथा च भिन्नात्मज्ञानान्मुक्तिं वदत्सूत्रं सम्मतं चेत्परमतानुज्ञा स्यादित्यत आह - मिथ्येति । तत्त्वज्ञानान्मुक्तिरित्यंशे सम्मतिरुक्ता भेदज्ञानं तु ‘यत्र हि द्वैतमिव भवति’ इति श्रुत्या भ्रान्तित्वात् ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ इति श्रुत्या अनर्थहेतुत्वाच्च न मुक्तिहेतुरिति भावः । ननु ब्रह्मात्मैकत्वविज्ञानमपि भेदज्ञानवन्न प्रमा, सम्पदादिरूपत्वेन भ्रान्तित्वादित्यत आह - न चेदमित्यादिना । अल्पालम्बनतिरस्कारेणोत्कृष्टवस्त्वभेदध्यानं सम्पत् , यथा मनःस्ववृत्त्यानन्त्यादनन्तम् , तत उत्कृष्टा विश्वेदेवा अप्यनन्ता इत्यनन्तत्वसाम्यात् विश्वेदेवा एव मन इति सम्पत्तयानन्तफलप्राप्तिर्भवति तथा चेतनत्वसाम्याज्जीवे ब्रह्माभेदः सम्पदिति न चेत्यर्थः । आलम्बनस्य प्राधान्येन ध्यानं प्रतीकोपास्तिरध्यासः । यथा ब्रह्मदृष्ट्या मनस आदित्यस्य वा । तथा अहं ब्रह्मेति ज्ञानमध्यासो नेत्याह - न चेति । आदेश उपदेशः । क्रियाविशेषो विशिष्टक्रिया तथा योगो निमित्तं यस्य ध्यानस्य तत्तथा । यथा प्रलयकाले वायुरग्न्यादीन्संवृणोति संहरतीति संवर्गः, स्वापकाले प्राणो वागादीन्संहरतीति संहारक्रियायोगात्संवर्ग इति ध्यानं छान्दोग्ये विहितम् , तथा वृद्धिक्रियायोगाज्जीवो ब्रह्मेति ज्ञानमिति नेत्याह - नापीति । यथा ‘पत्न्यवेक्षितमाज्यं भवति’ इति उपांशुयाजाद्यङ्गस्याज्यस्य संस्कारकमवेक्षणं विहितं तथा कर्मणि कर्तृत्वेनाङ्गस्यात्मनः संस्कारार्थं ब्रह्मज्ञानं नेत्याह - नाप्याज्येति । प्रतिज्ञाचतुष्टये हेतुमाह - सम्पदादीति । उपक्रमादिलिङ्गैर्ब्रह्मात्मैकत्ववस्तुनि प्रमितिहेतुर्यः समानाधिकरणवाक्यानां पदनिष्ठः समन्वयस्तात्पर्यं निश्चितं तत्पीड्येत । किं च एकत्वज्ञानादाज्ञानिकहृदयस्यान्तःकरणस्य यो रागादिग्रन्थिश्चिन्मयस्तादात्म्यरूपाहङ्कारग्रन्थिर्वा नश्यतीत्यज्ञाननिवृत्तिफलवाक्यबाधः स्यात् , सम्पदादिज्ञानस्याप्रमात्वेनाज्ञानानिवर्तकत्वात् । किञ्च जीवस्य ब्रह्मत्वसम्पदा कथं तद्भावः । पूर्वरूपे स्थिते नष्टे वान्यस्यान्यात्मतायोगात् । तस्मान्न सम्पदादिरूपमित्यर्थः । सम्पदादिरूपत्वाभावे फलितमाह - अत इति । प्रमात्वान्न कृतिसाध्या किं तर्हि नित्यैव । न प्रमाणसाध्येत्यर्थः । उक्तरीत्या सिद्धब्रह्मरूपमोक्षस्य कार्यसाध्यत्वं तज्ज्ञानस्य नियोगविषयत्वं च कल्पयितुमशक्यं कृत्यसाध्यत्वादित्याह - एवंभूतस्येति । ननु ब्रह्म कार्याङ्गम् , कारकत्वात्पत्न्यवेक्षणकर्मकारकाज्यवदिति चेत् , किं ज्ञाने ब्रह्मणः कर्मकारकत्वमुतोपासनायाम् । नाद्य इत्याह - न चेति । शाब्दज्ञानं विदिक्रियाशब्दार्थः - विदितं कार्यमविदितं कारणं तस्मादधि अन्यदित्यर्थः । येनात्मना इदं सर्वं दृश्यं लोको जानाति तं केन करणेन जानीयात् । तस्मादविषय आत्मेत्यर्थः । न द्वितीय इत्याह - तथेति । ‘यन्मनसा न मनुते’ इति श्रुत्या लोको मनसा यद्ब्रह्म न जानातीत्यविषयत्वमुक्त्वा तदेवावेद्यं ब्रह्म त्वं विद्धि । तत्तूपाधिविशिष्टं देवतादिकमित्युपासते जना नेदं ब्रह्मेत्यर्थः । ब्रह्मणः शाब्दबोधाविषयत्वे प्रतिज्ञाहानिरिति शङ्कते - अविषयत्व इति । वेदान्तजन्यवृत्तिकृताविद्यानिवृत्तिफलशालितया शास्त्रप्रमाणकत्वं वृत्तिविषयत्वेऽपि स्वप्रकाशब्रह्मणो वृत्त्यभिव्यक्तस्फुरणाविषयत्वादप्रमेयत्वमिति परिहरति - नेति । परत्वात्फलत्वादित्यर्थः । निवृत्तिरूपब्रह्मतात्पर्यादिति वार्थः । उक्तं विवृणोति - नहीति । चिद्विषयत्वमिदन्त्वम् । अविषयता अनिदन्तया । अदृश्यत्वे श्रुतिमाह - तथा चेति । यस्य ब्रह्मामतं चैतन्यविषय इति निश्चयस्तेन सम्यगवगतम् । यस्य त्वज्ञस्य ब्रह्म चैतन्यविषय इति मतं स न वेद । उक्तमेव दार्ढ्यार्थमनुवदति - अविज्ञातमिति । अविषयतया ब्रह्म विजानतामविज्ञातमदृश्यमिति पक्षः । अज्ञानां तु ब्रह्म विज्ञातं दृश्यमिति पक्ष इत्यर्थः । दृष्टेर्द्रष्टारं चाक्षुषमनोवृत्तेः साक्षिणम् , अनया दृश्यया दृष्ट्या न पश्येर्विज्ञातेर्बुद्धिवृत्तेर्निश्चयरूपायाः साक्षिणं तथा न विषयीकुर्यादित्याह - नेति । नन्वविद्यादिनिवर्तकत्वेन शास्त्रस्य प्रामाण्येऽपि निवृत्तेरागन्तुकत्वान्मोक्षस्यानित्यत्वं स्यादिति नेत्याह - अत इति । तत्त्वज्ञानादित्यर्थः । ध्वंसस्य नित्यत्वादात्मरूपत्वाच्च नानित्यत्वप्रसङ्ग इत्यर्थः । उत्पत्तिविकाराप्तिसंस्काररूपं चतुर्विधमेव क्रियाफलं तद्भिन्नत्वान्मोक्षस्य नोपासनासाध्यत्वमित्याह - यस्य तु इत्यादिना तस्माज्ज्ञानमेकं मुक्त्वा इत्यन्तेन । तथा उत्पाद्यत्ववत्विकार्यत्वे चापेक्षत इति युक्तमित्यन्वयः । दूषयति - तयोरिति । स्थितस्यावस्थान्तरं विकारः । नन्वनित्यत्वनिरासाय क्रियया स्थितस्यैव ब्रह्मणो ग्रामवदाप्तिरस्तु, नेत्याह - न चेति । ब्रह्म जीवाभिन्नं न वा । उभयथाप्याप्तत्वान्न क्रियापेक्षेत्याह - स्वात्मेत्यादिना । यथा व्रीहीणां संस्कार्यत्वेन प्रोक्षणापेक्षा तथा मोक्षस्य नेत्याह - नापीत्यादिना । गुणाधानं व्रीहिषु प्रोक्षणादिना, क्षालनादिना वस्त्रादौ मलापनयः । शङ्कते - स्वात्मधर्म इति । ब्रह्मात्मस्वरूप एव मोक्षोऽनाद्यविद्यामलावृत उपासनया मले नष्टेऽभिव्यज्यत इत्यत्र दृष्टान्तः - यथेति । संस्कारो मलनाशः । किमात्मनि मलः सत्यः कल्पितो वा । द्वितीये ज्ञानादेव तन्नाशो न क्रियया । आद्ये क्रिया किमात्मनिष्ठा अन्यनिष्ठा वा । नाद्य इत्याह - न, क्रियेति । अनुपपत्तिं स्फुटयति - यदिति । क्रिया हि स्वाश्रये संयोगादिविकारमकुर्वती न जायत इत्यर्थः । तच्च वाक्यबाधनम् । न द्वितीय इत्याह - अन्येति । अविषयत्वात् । क्रियाश्रयद्रव्यासंयोगित्वादिति यावत् । दर्पणं तु सावयवं क्रियाश्रयेष्टकाचूर्णादिद्रव्यसंयोगित्वात्संस्क्रियत इति भावः । अन्यक्रिययान्यो न संस्क्रियत इत्यत्र व्यभिचारं शङ्कते - नन्विति । आत्मनो मूलाविद्याप्रतिबिम्बितत्वेन गृहीतस्य नरोऽहमिति भ्रान्त्या देहतादात्म्यमापन्नस्य क्रियाश्रयत्वभ्रान्त्या संस्कार्यत्वभ्रमान्न व्यभिचार इत्याह - नेति । कश्चिदिति । अनिश्चितब्रह्मस्वरूप इत्यर्थः । यत्रात्मनि विषये आरोग्यबुद्धिरुत्पद्यते तस्य देहसंहतस्यैवारोग्यफलमित्यन्वयः । ननु देहाभिन्नस्य कथं संस्कारः, तस्यामुष्मिकफलभोक्तृत्वायोगादित्यत आह - तेनेति । देहसंहतेनैवान्तःकरणप्रतिबिम्बात्मना कर्ताहमिति भासमानेन प्रत्ययाः कामादयो मनस्तादात्म्यादस्य सन्तीति प्रत्ययिना क्रियाफलं भुज्यत इत्यर्थः । मनोविशिष्टस्यामुष्मिकभोक्तुः संस्कारो युक्त इति भावः । विशिष्टस्य भोक्तृत्वं न केवलस्य साक्षिण इत्यत्र मानमाह - तयोरिति । प्रमातृसाक्षिणोर्मध्ये सत्त्वसंसर्गमात्रेण कल्पितकर्तृत्वादिमान् प्रमाता पिप्पलं कर्मफलं भुङ्क्ते, स एव शोधितत्वेनान्यः साक्षितया प्रकाशत इत्यर्थः । आत्मा देहः । देहादियुक्तं प्रमात्रात्मानमित्यर्थः । एवं सोपाधिकस्य चिद्धातोर्मिथ्यासंस्कार्यत्वमुक्त्वा निरुपाधिकस्यासंस्कार्यत्वे मानमाह - एक इति । सर्वभूतेष्वद्वितीय एको देवः स्वप्रकाशः । तथापि मायावृतत्वान्न प्रकाशत इत्याह - गूढ इति । ननु जीवेनासम्बन्धाद्भिन्नत्वाद्वा देवस्याभानं न तु मायागूहनादिति, नेत्याह - सर्वव्यापी सर्वभूतान्तरात्मेति । देवस्य विभुत्वात्सर्वप्राणिप्रत्यक्त्वाच्चावरणादेवाभानमित्यर्थः । प्रत्यक्त्वे कर्तृत्वं स्यादिति चेन्न, कर्माध्यक्षः । क्रियासाक्षीत्यर्थः । तर्हि साक्ष्यमस्तीति द्वैतापत्तिः । न सर्वभूतानामधिष्ठानं भूत्वा साक्षी भवति । साक्ष्यमधिष्ठाने साक्षिणि कल्पितमिति भावः । साक्षिशब्दार्थमाह - चेता केवल इति । बोद्धृत्वे सति अकर्ता साक्षीति लोकप्रसिद्धम् । चकारो दोषाभावसमुच्चयार्थः । निर्गुणत्वान्निर्दोषत्वाच्च गुणो दोषनाशो वा संस्कारो नेत्यर्थः । ‘सः’ इत्युपक्रमाच्छुक्रादिशब्दाः पुंस्त्वेन वाच्याः । स एव आत्मा परि सर्वमगात् व्याप्तः, शुक्रो दीप्तिमान् , अकायो लिङ्गशून्यः, अव्रणोऽक्षतः, अस्नाविरः शिराविधुरः अनश्वर इति वा । आभ्यां पदाभ्यां स्थूलदेहशून्यत्वमुक्तम् । शुद्धो रागादिमलशून्यः । अपापविद्धः पुण्यपापाभ्यामसंस्पृष्ट इत्यर्थः । अत इति । उत्पत्त्याप्तिविकारसंस्कारेभ्योऽन्यत्पञ्चमं क्रियाफलं नास्ति, यन्मोक्षस्य क्रियासाध्यत्वे द्वारं भवेदित्यर्थः । ननु मोक्षस्यासाध्यत्वे शास्त्रारम्भो वृथा । न । ज्ञानार्थत्वादित्याह - तस्मादिति । द्वाराभावादित्यर्थः । व्याघातं शङ्कते - नन्विति । तथा च मोक्षे क्रियानुप्रवेशो नास्तीति व्याहतमिति भावः । मानसमपि ज्ञानं न विधियोग्या क्रिया, वस्तुतन्त्रत्वात् , कृत्यसाध्यत्वाच्चेत्याह - नेति । वैलक्षण्यं प्रपञ्चयति - क्रिया हीति । यत्र विषये तदनपेक्षयैव या चोद्यते तत्र सा हि क्रियेति योजना । विषयवस्त्वनपेक्षा, कृतिसाध्या च क्रियेत्यत्र दृष्टान्तमाह - यथेति । गृहीतमध्वर्युणेति शेषः । वषट्करिष्यन्होता, सन्ध्यां देवतामिति चैवमादिवाक्येषु यथा यादृशी ध्यानक्रिया वस्त्वनपेक्षा पुन्तन्त्रा च चोद्यते तादृशी क्रियेत्यर्थः । ध्यानमपि मानसत्वाज्ज्ञानवन्न क्रियेत्यत आह - ध्यानमित्यादिना । तथापि क्रियैवेति शेषः । कृत्यसाध्यत्वमुपाधिरिति भावः । ध्यानक्रियामुक्त्वा ततो वैलक्षण्यं ज्ञानस्य स्फुटयति - ज्ञानं त्विति । अतः प्रमात्वान्न चोदनातन्त्रं न विधेर्विषयः । पुरुषः कृतिद्वारा तन्त्रं हेतुर्यस्य तत्पुरुषतन्त्रम् , तस्माद्वस्त्वव्यभिचारादपुन्तन्त्रत्वाच्च ध्यानाज्ज्ञानस्य महान्भेद इत्यर्थः । भेदमेव दृष्टान्तान्तरेणाह - यथा चेति । अभेदसत्त्वेऽपि विधितो ध्यानं कर्तुं शक्यम् , न ज्ञानमित्यर्थः । ननु प्रत्यक्षज्ञानस्य विषयजन्यतया तत्तन्त्रत्वेऽपि शाब्दबोधस्य तदभावाद्विधेयक्रियात्वमिति नेत्याह - एवं सर्वेति । शब्दानुमानाद्यर्थेष्वपि ज्ञानमविधेयक्रियात्वेन ज्ञातव्यम् । तत्रापि मानादेव ज्ञानस्य प्राप्तेर्विध्ययोगादित्यर्थः । तत्रैवं सति । लोके ज्ञानस्याविधेयत्वे सतीत्यर्थः । यथाभूतत्वमबाधितत्वम् । ननु ‘आत्मानं पश्येत्’ ‘ब्रह्म त्वं विद्धि’ ‘आत्मा द्रष्टव्यः’ इति विज्ञाने लिङ्लोट्तव्यप्रत्यया विधायकाः श्रूयन्ते, अतो ज्ञानं विधेयमित्यत आह - तद्विषय इति । तस्मिन् ज्ञानरूपविषये विधयः पुरुषं प्रवर्तयितुमशक्ता भवन्ति । अनियोज्यं कृत्यसाध्यं नियोज्यशून्यं वा ज्ञानं तद्विषयकत्वादित्यर्थः । ममायं नियोग इति बोद्धा नियोज्यो विषयश्च विधेर्नास्तीति भावः । तर्हि ज्ञेयं ब्रह्म विधीयताम् , नेत्याह - अहेयेति । वस्तुस्वरूपो विषयस्तत्त्वात् । ब्रह्मणो निरतिशयस्यासाध्यत्वान्न विधेयत्वमित्यर्थः । उदासीनवस्तुविषयकत्वाच्च ज्ञानं न विधेयम् , प्रवृत्यादिफलाभावादित्यर्थः । विधिपदानां गतिं पृच्छति - किमर्थानीति । विधिच्छायानि प्रसिद्धयागादिविधितुल्यानीत्यर्थः । विधिप्रत्ययैरात्मज्ञानं परमपुरुषार्थसाधनमिति स्तूयते । स्तुत्या आत्यन्तिकेष्टहेतुत्वभ्रान्त्या या विषयेषु प्रवृत्तिरात्मश्रवणादिप्रतिबन्धिका तन्निवृत्तिफलानि विधिपदानीत्याह - स्वाभाविकेति । विवृणोति - यो हीत्यादिना । तत्र विषयेषु । सङ्घातस्य या प्रवृत्तिः तद्गोचराच्छब्दादेरित्यर्थः । स्रोतश्चित्तवृत्तिप्रवाहः । प्रवृत्तयन्ति ज्ञानसाधनश्रवणादाविति शेषः । श्रवणस्वरूपमाह - तस्येति । अन्वेषणं ज्ञानम् । यदिदं जगत्तत्सर्वमात्मैवेत्यनात्मबाधेनात्मा बोध्यते । अद्वितीयादृश्यात्मबोधे विधिस्तपस्वी द्वैतवनोपजीवनः क्व स्थास्यतीति भावः । आत्मज्ञानिनः कर्तव्याभावे मानमाह - तथा चेति । अयं स्वयं परमानन्दः परमात्माहमस्मि इति यदि कश्चित्पुरुष आत्मानं जानीयात्तदा किं फलमिच्छन् , कस्य वा भोक्तुः प्रीतये, शरीरं तप्यमानमनुसञ्ज्वरेत्तप्येत । भोक्तृभोग्यद्वैताभावात्कृतकृत्य आत्मविदित्यभिप्रायः । ज्ञानदौर्लभ्यार्थश्चेच्छब्दः । एतद्गुह्यतमं तत्त्वम् । वृत्तिकारमतनिरासमुपसंहरति - तस्मादिति । प्राभाकरोक्तमुपन्यस्यति - यदपि केचिदिति । कर्तात्मा लोकसिद्धत्वान्न वेदान्तार्थः । तदन्यद्ब्रह्म नास्त्येव, वेदस्य कार्यपरत्वेन मानाभावादित्यर्थः । मानाभावेऽसिद्ध इत्याह - तन्नेति । अज्ञातस्य फलस्वरूपस्यात्मन उपनिषदेकवेद्यस्याकार्यशेषत्वात्कृत्स्नवेदस्य कार्यपरत्वमसिद्धम् । न च प्रवृत्तिनिवृत्तिलिङ्गाभ्यां श्रोतुस्तद्धेतुं कार्यबोधमनुमाय वक्तृवाक्यस्य कार्यपरत्वं निश्चित्य वाक्यस्थपदानां कार्यान्विते शक्तिग्रहान्न सिद्धस्यापदार्थस्य वाक्यार्थत्वमिति वाच्यम् , पुत्रस्ते जात इति वाक्यश्रोतुः पितुर्हर्षलिङ्गेनेष्टं पुत्रजन्मानुमाय पुत्रादिपदानां सिद्धे सङ्गतिग्रहात् , कार्यान्वितापेक्षयान्वितार्थे शक्तिरित्यङ्गीकारे लाघवात् , सिद्धस्यापि वाक्यार्थत्वादित्यलम् । किञ्च ब्रह्मणो नास्तित्वादेव कृत्स्नवेदस्य कार्यपरत्वमुत वेदान्तेषु तस्याभानात् , अथ वा कार्यशेषत्वात् , किं वा लोकसिद्धत्वादाहोस्वित् मानान्तरविरोधात् । तत्राद्यं पक्षत्रयं निराचष्टे - योऽसाविति । अनन्यशेषत्वार्थम् ‘असंसारी’ इत्यादि विशेषणम् । नास्तित्वाभावे हेतुं वेदान्तमानसिद्धत्वमुक्त्वा हेत्वन्तरमात्मत्वमाह - स एष इति । इतिरिदमर्थे । इदं न इदं न इति सर्वदृश्यनिषेधेन य आत्मा उपदिष्टः स एष इत्यर्थः । चतुर्थं शङ्कते - नन्वात्माहमिति । आत्मनोऽहङ्कारादिसाक्षित्वेनाहन्धीविषयत्वस्य निरस्तत्वान्न लोकसिद्धतेत्याह - नेति । यं तीर्थकारा अपि न जानन्ति तस्यालौकिकत्वं किमु वाच्यमित्याह - नहीति । समस्तारतम्यवर्जितः । तत्तन्मते आत्मानधिगतिद्योतकानि विशेषणानि । पञ्चमं निरस्यति - अत इति । केनचिद्वादिना प्रमाणेन युक्त्या वेत्यर्थः । अगम्यत्वान्न मानान्तरविरोध इति भावः । साक्षी कर्माङ्गम् , चेतनत्वात् , कर्तृवदिति, तत्राह - विधीति । अज्ञातसाक्षिणोऽनुपयोगाज्ज्ञातस्य व्याघातकत्वान्न कर्मशेषत्वमित्यर्थः । साक्षिणः सर्वशेषित्वादहेयानुपादेयत्वाच्च न कर्मशेषत्वमित्याह - आत्मत्वादिति । अनित्यत्वेनात्मनो हेयत्वमाशङ्क्याह - सर्वं हीति । परिणामित्वेन हेयतां निराचष्टे - विक्रियेति । उपादेयत्वं निराचष्टे - अत एवेति । निर्विकारित्वादित्यर्थः । उपादेयत्वं हि साध्यस्य न त्वात्मनः । नित्यसिद्धत्वादित्यर्थः । परप्राप्त्यर्थमात्मा हेय इत्यत आह - तस्मात् , पुरुषान्न परं किञ्चिदिति । काष्ठा सर्वस्यावधिः । एवमात्मनोऽनन्यशेषत्वात् , अबाध्यत्वात् , अपूर्वत्वात् , वेदान्तेषु स्फुटभानाच्च वेदान्तैकवेद्यत्वमुक्तम् । तत्र श्रुतिमाह - तं त्वेति । तं सकारणसूत्रस्याधिष्ठानं पुरुषं पूर्णं हे शाकल्य, त्वा त्वां पृच्छामीत्यर्थः । अत इति । उक्तलिङ्गैः श्रुत्या च वेदान्तानामात्मवस्तुपरत्वनिश्चयादित्यर्थः । पूर्वोक्तमनुवदति - यदपीति । वेदस्य नैरर्थक्ये शङ्किते तस्यार्थवत्तापरमिदं भाष्यम् - दृष्टो हीति । तत्र ‘फलवदर्थावबोधनम्’ इति वक्तव्ये धर्मविचारप्रक्रमात् ‘कर्मावबोधनम्’ इत्युक्तं नैतावता वेदान्तानां ब्रह्मपरत्वनिरासः । अत एव ‘अनुपलब्धेऽर्थे तत्प्रमाणम्’ इति सूत्रकारो धर्मस्य फलवदज्ञातत्वेनैव वेदार्थतां दर्शयति । तच्चावशिष्टं ब्रह्मण इति न वृद्धवाक्यैर्विरोध इत्याह - तद्धर्मेति । निषेधशास्त्रस्यापि निवृत्तिकार्यपरत्वमस्ति, तत्सूत्रभाष्यवाक्यजातं कर्मकाण्डस्य कार्यपरत्वाभिप्रायमित्यर्थः । वस्तुतस्तु लिङर्थे कर्मकाण्डस्य तात्पर्यम् , लिङर्थश्च, लोके प्रवर्तकज्ञानगोचरत्वेन कॢप्तं यागादिक्रियागतमिष्टसाधनत्वमेव न क्रियातोऽतिरिक्तं कार्यं तस्य कूर्मलोमवदप्रसिद्धत्वादिति तस्यापि पराभिमतकार्यविलक्षणे सिद्धे प्रामाण्यं किमुत ज्ञानकाण्डस्येति मन्तव्यम् । किं च वेदान्ताः सिद्धवस्तुपराः, फलवद्भूतशब्दत्वात् , दध्यादिशब्दवदित्याह - अपि चेति । किमक्रियार्थकशब्दानामानर्थक्यमभिधेयाभावः, फलाभावो वा । आद्य आह - आम्नायस्येति । इति न्यायेन एतदभिधेयराहित्यं नियमेनाङ्गीकुर्वतां ‘सोमेन यजेत’ ‘दध्ना जुहोति’ इत्यादि वाक्येषु दधिसोमादिशब्दानामर्थशून्यत्वं स्यादित्यर्थः । ननु केनोक्तमभिधेयराहित्यमित्याशङ्क्याह - प्रवृत्तीति । कार्यातिरेकेण भव्यार्थत्वेन कार्यशेषत्वेन दध्यादिशब्दो भूतं वक्ति चेत् , तर्हि सत्यादिशब्दः कूटस्थं न वक्तीत्यत्र को हेतुः, किं कूटस्थस्याक्रियत्वादुताक्रियाशेषत्वाद्वेति प्रश्नः । ननु दध्यादेः कार्यान्वयित्वेन कार्यत्वादुपदेशः, न कूटस्थस्याकार्यत्वादित्याद्यमाशङ्क्य निरस्यति - नहीति । दध्यादेः कार्यत्वे कार्यशेषत्वहानिः । अतो भूतस्य कार्याद्भिन्नस्य दध्यादेः शब्दार्थत्वं लब्धमिति भावः । द्वितीयं शङ्कते - अक्रियात्वेऽपीति । क्रियार्थः कार्यशेषपरः । कूटस्थस्य त्वकार्यशेषत्वान्नोपदेश इति भावः । भूतस्य कार्यशेषत्वं शब्दार्थत्वाय फलाय वा, नाद्य इत्याह - नैष दोष इति । दध्यादेः कार्यशेषत्वे सत्यपि शब्देन वस्तुमात्रमेवोपदिष्टं न कार्यान्वयी शब्दार्थः । अन्वितार्थमात्रे शब्दानां शक्तिरित्यर्थः । द्वितीयमङ्गीकरोति - क्रियार्थत्वं त्विति । तस्य भूतविशेषस्य दध्यादेः क्रियाशेषत्वं फलमुद्दिश्याङ्गीक्रियत इत्यर्थः । न तु ब्रह्मण इति तुशब्दार्थः । ननु भूतस्य कार्यशेषत्वाङ्गीकारे स्वातन्त्र्येण कथं शब्दार्थतेति, तत्राह - न चेति । फलार्थं शेषत्वाङ्गीकारमात्रेण शब्दार्थत्वभङ्गो नास्ति शेषत्वस्य शब्दार्थतायामप्रवेशादित्यर्थः । आनर्थक्यं फलाभाव इति पक्षं शङ्कते - यदीति । यद्यपि दध्यादि स्वतो निष्फलमपि क्रियाद्वारा सफलत्वादुपदिष्टं तथापि कूटस्थब्रह्मवादिनः क्रियाद्वाराभावात्तेन दृष्टान्तेन किं फलं स्यादित्यर्थः । भूतस्य साफल्ये क्रियैव द्वारमिति न नियमः, रज्ज्वाः ज्ञानमात्रेण साफल्यदर्शनादित्याह - उच्यत इति । तथैव । दध्यादिवदेवेत्यर्थः । दध्यादेः क्रियाद्वारा साफल्यं ब्रह्मणस्तु स्वत इति विशेषे सत्यपि वेदान्तानां सफलभूतार्थकत्वमात्रेण दध्याद्युपदेशसाम्यमित्यनवद्यम् । इदानीं वेदान्तानां निषेधवाक्यवत्सिद्धार्थपरत्वमित्याह - अपि चेति । नञः प्रकृत्यर्थेन सम्बन्धात् हननाभावो नञर्थः, इष्टसाधनत्वं तव्यादिप्रत्ययार्थः, इष्टश्चात्र नरकदुःखाभावः, तत्परिपालको हननाभाव इति निषेधवाक्यार्थः । हननाभावो दुःखाभावहेतुरित्युक्तावर्थाद्धननस्य दुःखसाधनत्वधिया पुरुषो निवर्तते । नात्र नियोगः कश्चिदिति, तस्य क्रियातत्साधनदध्यादिविषयत्वात् । न च हननाभावरूपा नञ्वाच्या निवृत्तिः क्रिया, अभावत्वात् । नापि क्रियासाधनम् । अभावस्य भावार्थाहेतुत्वाद्भावार्थासत्त्वाच्चेत्यर्थः । अतो निषेधशास्त्रस्य सिद्धार्थे प्रामाण्यमिति भावः । विपक्षे दण्डमाह - अक्रियेति । ननु स्वभावतो रागतः प्राप्तेन हन्त्यर्थेनानुरागेण नञ्सम्बन्धेन हेतुना हननविरोधिनी सङ्कल्पक्रीया बोध्यते, सा च नञर्थरूपा तत्राप्राप्तत्वाद्विधीयते, अहननं कुर्यादिति । तथा च कार्यार्थकमिदं वाक्यमित्याशङ्क्य निषेधति - न चेति । औदासीन्यं पुरुषस्य स्वरूपं तच्च हननक्रियानिवृत्त्युपलक्षितं निवृत्त्यौदासीन्यं हननाभाव इति यावत् । तद्व्यतिरेकेण नञः क्रियार्थत्वं कल्पयितुं न च शक्यमिति योजना । मुख्यार्थस्याभावस्य नञर्थत्वसम्भवे तद्विरोधिक्रियालक्षणाया अन्याय्यत्वात् निषेधवाक्यस्यापि कार्यार्थकत्वे विधिनिषेधभेदविप्लवापत्तेश्चेति भावः । ननु तदभाववत्तदन्यतद्विरुद्धयोरपि नञः शक्तिः किं न स्यात् , अब्राह्मणः अधर्म इति प्रयोगदर्शनादिति चेन्न, अनेकार्थत्वस्यान्याय्यत्वादित्याह - नञश्चेति । गवादिशब्दानां तु अगत्या नानार्थकत्वम् , स्वर्गेषुवाग्वज्रादीनां शक्यपशुसम्बन्धाभावेन लक्षणानवतारात् । अन्यविरुद्धयोस्तु लक्ष्यत्वं युक्तम् , शक्यसम्बन्धात् । ब्राह्मणादन्यस्मिन् क्षत्रियादौ, धर्मविरुद्धे वा पापे ब्राह्मणाद्यभावस्य नञ्शक्यस्य सम्बन्धात् । प्रकृते च आख्यातयोगान्नञ्प्रसज्यप्रतिषेधक एव न पर्युदासलक्षकः इति मन्तव्यम् । यद्वा नञः प्रकृत्या न सम्बन्धः प्रकृतेः प्रत्ययार्थोपसर्जनत्वात् , प्रधानसम्बन्धाच्चाप्रधानानां किन्तु प्रकृत्यर्थनिष्ठेन प्रत्ययार्थेनेष्टसाधनत्वेन सम्बन्धो नञः, इष्टं च स्वापेक्षया बलवदनिष्टाननुबन्धि यत्तदेव न तात्कालिकसुखमात्रम् , विषसंयुक्तान्नभोगस्यापि इष्टत्वापत्तेः । तथा च ‘न हन्तव्यः’ हननं बलवदनिष्टासाधनत्वे सति इष्टसाधनं न भवतीत्यर्थः । अत्र च ‘हन्तव्यः’ इति हनने विशिष्टेष्टसाधनत्वं भ्रान्तिप्राप्तमनूद्य नेत्यभावबोधने बलवदनिष्टसाधनं हननमिति बुद्धिर्भवति, हनने तात्कालिकेष्टसाधनत्वरूपविशेष्यसत्वेन विशिष्टाभावाबुद्धेर्विशेषणाभावपर्यवसानात् । विशेषणं बलवदनिष्टासाधनत्वमिति तदभावो बलवदनिष्टसाधनत्वं नञर्थ इति पर्यवसन्नम् । तद्बुद्धिरौदासीन्यपरिपालिकेत्याह - अभावेति । चोऽप्यर्थः पक्षान्तरद्योती । प्रकृत्यर्थाभावबुद्धिवत्प्रत्ययार्थाभावबुद्धिरपीत्यर्थः । बुद्धेः क्षणिकत्वात्तदभावे सत्यौदासीन्यात्प्रच्युतिरूपा हननादौ प्रवृत्तिः स्यादिति, अत्राह - सा चेति । यथाग्निरिन्धनं दग्ध्वा शाम्यति एवं सा नञर्थाभावबुद्धिः हननादाविष्टसाधनत्वभ्रान्तिमूलं रागेन्धनं दग्ध्वैव शाम्यतीत्यक्षरार्थः । रागनाशे कृते प्रच्युतिरिति भावः । यद्वा रागतः प्राप्ता सा क्रिया रागनाशे स्वयमेव शाम्यतीत्यर्थः । परपक्षे तु हननविरोधिक्रिया कार्येत्युक्तेऽपि हननस्येष्टसाधनत्वभ्रान्त्यनिरासात्प्रच्युतिर्दुर्वारा । तस्मात्तदभाव एव नञर्थ इत्युपसंहरति - तस्मादिति । भावार्थाभावेन तद्विषयककृत्यभावात्कार्याभावस्तच्छब्दार्थः । यद्वेत्युक्तपक्षे निवृत्त्युपलक्षितमौदासीन्यं यस्माद्विशिष्टाभावायत्तमेवेति व्याख्येयम् । स्वतःसिद्धस्यौदासीन्यस्य नञर्थसाध्यत्वोपपादनार्थं निवृत्त्युपलक्षितत्वमिति ध्येयम् । ‘तस्य बटोर्व्रतम्’ इत्यनुष्ठेयक्रियावाचिव्रतशब्देन कार्यमुपक्रम्य ‘नेक्षेतोद्यन्तमादित्यम्’ इति प्रजापतिव्रतमुक्तम् । अत उपक्रमबलात्तत्र नञ ईक्षणविरोधिसङ्कल्पक्रियालक्षणाङ्गीकृता । एवमगौरसुरा अधर्म इत्यादौ नामधात्वर्थयुक्तस्य नञः प्रतिषेधवाचित्वायोगात् अन्यविरुद्धलक्षकत्वम् । एतेभ्यः प्रजापतिव्रतादिभ्योऽन्यत्राभावमेव नञर्थं मन्यामह इत्यर्थः । दुःखाभावफलके नञर्थे सिद्धे निषेधशास्त्रमानत्ववद्वेदान्तानां ब्रह्मणि मानत्वमिति भावः । तर्ह्यक्रियार्थानामानर्थक्यमिति सूत्रं किंविषयमिति, तत्राह - तस्मादिति । वेदान्तानां स्वार्थे फलवत्वाद्व्यर्थकथाविषयं तदित्यर्थः । यदपीत्यादि स्पष्टार्थम् । श्रवणज्ञानमात्रात्संसारानिवृत्तावपि साक्षात्काराज्जीवत एव मुक्तिर्दुरपह्नवेति सदृष्टान्तमाह - अत्रोच्यत इत्यादिना । ब्रह्माहमिति साक्षात्कारविरोधादित्यर्थः । तत्त्वविदो जीवन्मुक्तौ मानमाह - तदुक्तं श्रुत्येति । जीवतोऽशरीरत्वं विरुद्धमिति शङ्कते - शरीर इति । आत्मनो देहसम्बन्धस्य भ्रान्तिप्रयुक्तत्वात्तत्त्वधिया तन्नाशरूपमशरीरत्वं जीवतो युक्तमित्याह - नेत्यादिना । असङ्गात्मरूपं त्वशरीरत्वं तत्त्वधिया जीवतो व्यज्यत इत्याह - नित्यमिति । देहात्मनोः सम्बन्धः सत्य इति शङ्कते - तत्कृतेति । तन्नाशार्थं कार्यापेक्षेति भावः । आत्मनः शरीरसम्बन्धे जाते धर्माधर्मोत्पत्तिः, तस्यां सत्यां सम्बन्धजन्मेत्यन्योन्याश्रयादेकस्यासिद्ध्या द्वितीयस्याप्यसिद्धिः स्यादिति परिहरति - नेत्यादिना । नन्वेतद्देहजन्यधर्माधर्मकर्मण एतद्देहसम्बन्धहेतुत्वे स्यादन्योन्याश्रयः । पूर्वदेहकर्मण एतद्देहसम्बन्धोत्पत्तिः, पूर्वदेहश्च तत्पूर्वदेहकृतकर्मण इति बीजाङ्कुरवदनादित्वान्नायं दोष इत्यत आह - अन्धेति । अप्रामाणिकीत्यर्थः । न हि बीजादङ्कुरः ततो बीजान्तरं च यथा प्रत्यक्षेण दृश्यते तद्वदात्मनो देहसम्बन्धः पूर्वकर्मकृतः प्रत्यक्षः । नाप्यस्ति कश्चिदागमः । प्रत्युत ‘असङ्गो हि’ इत्यादिश्रुतिः सर्वकर्तृत्वं वारयतीति भावः । तत्र युक्तिमाह - क्रियेति । कूटस्थस्य कृत्ययोगान्न कर्तृत्वमित्यर्थः । स्वतो निष्क्रियस्यापि कारकसन्निधिना कर्तृत्वमिति शङ्कां दृष्टान्तवैषम्येण निरस्यति - नेति । राजादीनां स्वक्रीतभृत्यकार्ये कर्तृत्वं युक्तं नात्मन इत्यर्थः । देहकर्मणोरविद्याभूमौ बीजाङ्कुरवदावर्तमानयोरात्मना सम्बन्धो भ्रान्तिकृत एवेत्याह - मिथ्येति । ननु ‘यजेत’ इति विध्यनुपपत्त्यात्मनः कर्तृत्वमेष्टव्यमिति, तत्राह - एतेनेति । भ्रान्तिकृतेन देहादिसम्बन्धेन यागादिकर्तृत्वमाब्रह्मबोधाद्व्याख्यातमित्यर्थः । अत्राहुः । प्राभाकरा इत्यर्थः । भ्रान्त्यभावाद्देहसम्बन्धादिकं सत्यमिति भावः । भेदज्ञानाभावान्न गौण इत्याह - नेति । प्रसिद्धो ज्ञातो वस्तुनोर्भेदो येन तस्य गौणमुख्यज्ञानाश्रयत्व प्रसिद्धेरित्यर्थः । यस्य तस्य पुंसो गौणौ भवत इत्यन्वयः । शौर्यादिगुणविषयावित्यर्थः । तस्य त्विति । भेदज्ञानशून्यस्य पुंस इत्यर्थः । शब्दप्रत्ययाविति । शब्दः शाब्दबोधश्चेत्यर्थः । संशयमूलौ तावुदाहरति - यथा मन्देति । यदा संशयमूलयोर्न गौणत्वं तदा भ्रान्तिमूलयोः किं वाच्यमित्याह - यथा वेति । अकस्मादिति । अतर्कितादृष्टादिना संस्कारोद्बोधे सतीत्यर्थः । निरुपचारेण गुणज्ञानं विनेत्यर्थः । देहादिव्यतिरिक्तात्मवादिनामिति । देहात्मवादिनां तु प्रमेत्यभिमान इति भावः । जीवन्मुक्तौ प्रमाणमाह - तथा चेति । तत्तत्र जीवन्मुक्तस्य देहे । यथा दृष्टान्तः अहिनिर्ल्वयनी सर्पत्वक् वल्मीकादौ प्रत्यस्ता निक्षिप्ता मृता सर्पेण त्यक्ताभिमाना वर्तते, एवमेवेदं विदुषा त्यक्ताभिमानं शरीरं तिष्ठति । अथ तथा त्वचा निर्मुक्तसर्पवदेवायं देहस्थोऽशरीरः विदुषो देहे सर्पस्य त्वचीवाभिमानाभावादशरीरत्वादमृतः प्राणितीति प्राणो जीवन्नपि ब्रह्मैव, किं तद्ब्रह्म तेजः स्वयञ्ज्योतिरानन्द एवेत्यर्थः । वस्तुतोऽचक्षुरपि बाधितचक्षुराद्यनिवृत्या सचक्षुरिवेत्यादि योज्यम् । इत्यनवद्यमिति । ब्रह्मात्मज्ञानान्मुक्तिलाभात्सिद्धं वेदान्तानां प्रामाण्यम् , हितशासनाच्छास्त्रत्वं च निर्दोषतया स्थितमित्यर्थः । ब्रह्मज्ञानमुद्दिश्य श्रवणवन्मनननिदिध्यासनयोरप्यवान्तरवाक्यभेदेन विध्यङ्गीकारान्न ब्रह्मणो विधिशेषत्वमुद्देश्यज्ञानलभ्यतया प्राधान्यादित्याह - नेति । श्रवणं ज्ञानकरणवेदान्तगोचरत्वात्प्रधानम् , मनननिदिध्यासनयोः प्रमेयगोचरत्वात्तदङ्गत्वम् , नियमादृष्टस्य ज्ञान उपयोगः सर्वापेक्षान्यायादिति मन्तव्यम् । तर्हि ज्ञाने विधिः किमिति त्यक्तः, तत्राह - यदि हीति । यदि ज्ञाने विधिमङ्गीकृत्य वेदान्तैरवगतं ब्रह्म विधेयज्ञाने कर्मकारकत्वेन विनियुज्येत तदा विधिशेषत्वं स्यात् । न त्ववगतस्य विनियुक्तत्वमस्ति, प्राप्तावगत्या फललाभे विध्ययोगादित्यर्थः । तस्मात् विध्यसम्भवात् । अतः शेषत्वासम्भवात् । सत्यादिवाक्यैर्लब्धज्ञानेनाज्ञाननिवृत्तिरूपफललाभे सतीत्यर्थः । सूत्रं योजयति - स्वतन्त्रमिति । एवं च सतीति । चोऽवधारणे । उक्तरीत्या ब्रह्मणः स्वातन्त्र्ये सत्येव भगवतो व्यासस्य पृथक्शास्त्रकृतिर्युक्ता, धर्मविलक्षणप्रमेयलाभात् । वेदान्तानां कार्यपरत्वे तु प्रमेयाभेदान्न युक्तेत्यर्थः । ननु मानसधर्मविचारार्थं पृथगारम्भ इत्याशङ्क्याह - आरभ्यमाणं चेति । अथ बाह्यसाधनधर्मविचारानन्तरम् । अतो बाह्यधर्मस्य शुद्धिद्वारा मानसोपासनाधर्महेतुत्वात्परिशिष्टो मानसधर्मो जिज्ञास्य इति सूत्रं स्यादिति । अत्र दृष्टान्तमाह - अथेति । तृतीयाध्याये श्रुत्यादिभिः शेषशेषित्वनिर्णयानन्तरं शेषिणा शेषस्य प्रयोगसम्भवात्कः क्रतुशेषः को वा पुरुषशेषः इति विज्ञास्यत इत्यर्थः । एवमारभ्येत । नत्वारब्धम् , तस्मादवान्तरधर्मार्थमारम्भ इत्ययुक्तमिति भावः । स्वमते सूत्रानुगुण्यमस्तीत्याह - ब्रह्मेति । जैमिनिना ब्रह्म न विचारितमिति तज्जिज्ञास्यत्वसूत्रणं युक्तमित्यर्थः । वेदान्तार्थश्चेदद्वैतं तर्हि द्वैतसापेक्षविध्यादीनां का गतिरित्याशङ्क्य ज्ञानात्प्रागेव तेषां प्रामाण्यं न पश्चादित्याह - तस्मादिति । ज्ञानस्य प्रमेयप्रमातृबाधकत्वादित्यर्थः । ब्रह्म न कार्यशेषः, तद्बोधात्प्रागेव सर्वव्यवहार इत्यत्र ब्रह्मविदां गाथामुदाहरति - अपिचेति । सदबाधितं ब्रह्म पूर्वमात्मा विषयानादत्त इति सर्वसाक्ष्यहमित्येवंबोधे जाते सति पुत्रदेहादेः सत्ताबाधनात् मायामात्रत्वनिश्चयात्पुत्रदारादिभिरहमिति स्वीयदुःखसुखभावत्वगुणयोगाद्गौणात्माभिमानस्य नरोऽहं कर्ता मूढ इति मिथ्यात्माभिमानस्य च सर्वव्यवहारहेतोरसत्वे कार्यं विधिनिषेधादिव्यवहारः कथं भवेत् , हेत्वभावान्न कथञ्चिद्भवेदित्यर्थः । नन्वहं ब्रह्मेति बोधो बाधितः, अहमर्थस्य प्रमातुः ब्रह्मत्वायोगादित्याशङ्क्य प्रमातृत्वस्याज्ञानविलसितान्तःकरणतादात्म्यकृतत्वान्न बाध इत्याह - अन्वेष्टव्येति । ‘य आत्मापहतपाप्मा विजरो विमृत्युर्विशोकः सोऽन्वेष्टव्य’ इति श्रुतेः ज्ञातव्यपरमात्मविज्ञानात्प्रागेवाज्ञानाच्चिद्धातोरात्मानः प्रमातृत्वं प्रमातैव ज्ञातः सन् पाप्मरागद्वेषमरणविवर्जितः परमात्मा स्यादित्यर्थः । प्रमातृत्वस्य कल्पितत्वे तदाश्रितानां प्रमाणानां प्रामाण्यं कथमित्यत आह - देहेति । यथा देहात्मत्वप्रत्ययः कल्पितो भ्रमोऽपि व्यवहाराङ्गतया मानत्वेनेष्यते वैदिकैः, तद्वल्लौकिकमध्यक्षादिकमात्मबोधावधि व्यवहारकाले बाधाभावात् व्यावहारिकं प्रामाण्यमिष्यताम् , वेदान्तानां तु कालत्रयाबाध्यबोधित्वात्तत्त्वावेदकं प्रामाण्यमिति तुशब्दार्थः । आऽऽत्मनिश्चयात् । आऽऽत्मनिश्चयादित्याङ्मर्यादायाम् । प्रमातृत्वस्य कल्पितत्वेऽपि विषयाबाधात्प्रामाण्यमितिभावः ॥ रामनाम्निपरे धाम्नि कृत्स्नाम्नायसमन्वयः ।
कार्यतात्पर्यबाधेन साधितः शुद्धबुद्धये ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 वेदान्ताः सिद्धब्रह्मपरा उत कार्यपरा इति निष्फलत्वसापेक्षत्वयोः प्रसङ्गाप्रसङ्गाभ्यां संशये पूर्वसूत्रे द्वितीयवर्णकेनाक्षेपसङ्गत्या पूर्वपक्षमाह कथं पुनरित्यादिना । ‘सदेव सोम्य’ इत्यादीनां सर्वात्मत्वादिस्पष्टब्रह्मलिङ्गानां ब्रह्मणि समन्वयोक्तेः, श्रुत्यादिसङ्गतयः । पूर्वपक्षे वेदान्तेषु मुमुक्षुप्रवृत्त्यसिद्धिः, सिद्धान्ते तत्सिद्धिरिति विवेकः । कथमित्याक्षेपे हेतुः - यावतेति । यतो जैमिनिसूत्रेण शास्त्रस्य वेदस्य क्रियापरत्वं दर्शितमतोऽक्रियार्थत्वाद्वेदान्तनामानर्थक्यं फलवदर्थशून्यत्वं प्राप्तमित्यन्वयः । सूत्रस्यायमर्थः - प्रथमसूत्रे तावद्वेदस्याध्ययनकरणकभावनाविधिभाव्यस्य फलवदर्थपरत्वमुक्तम् । ‘चोदनालक्षणोऽर्थो धर्मः’ इति द्वितीयसूत्रे धर्मे कार्ये चोदना प्रमाणमिति वेदप्रामाण्यव्यापकं कार्यपरत्वमवसितम् । तत्र ‘वायुर्वै क्षेपिष्ठा’ इत्याद्यर्थवादानां धर्मे प्रामाण्यमस्ति न वेति संशये आम्नायप्रामाण्यस्य क्रियार्थत्वेन व्याप्तत्वात् , अर्थवादेषु धर्मस्याप्रतीतेः अक्रियार्थानां तेषामानर्थक्यं निष्फलार्थत्वम् । न चाध्ययनविध्युपात्तानां निष्फले सिद्धेऽर्थे प्रामाण्यं युक्तम् , तस्मादनित्यमेषां प्रामाण्यमुच्यते । व्यापकाभावाद्व्याप्यं प्रामाण्यं नास्त्येवेति यावत् । एवं पूर्वपक्षेऽपि ‘विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः’ इति सूत्रेण सिद्धान्तमाह - क्रियापरत्वमिति । अनित्यमिति प्राप्ते दर्शितमित्यर्थः । वायुर्वै क्षिप्रतमगामिनी देवता तद्देवताकं कर्म क्षिप्रमेव फलं दास्यति, इत्येवं विधेयार्थानां स्तुतिरूपार्थेन द्वारेण ‘वायव्यं श्वेतमालभेत’ इत्यादिविधिवाक्येनैकवाक्यत्वादर्थवादाः सफलाः स्युः । स्तुतिलक्षणया सफलकार्यपरत्वात्प्रमाणमर्थवादा इति यावत् । नन्वध्ययनविधिगृहीतानां वेदान्तानामानर्थक्यं न युक्तमित्यत आह - कर्त्रिति । न वयं वेदान्तानामानर्थक्यं साधयामः किन्तु लोके सिद्धस्य मानान्तरवेद्यत्वान्निष्फलत्वाच्च सिद्धब्रह्मपरत्वे तेषां मानान्तरसापेक्षत्वनिष्फलत्वयोः प्रसङ्गादप्रामाण्यापातात् , कार्यशेषकर्तृदेवताफलानां प्रकाशनद्वारा कार्यपरत्वं वक्तव्यमिति ब्रूमः । तत्र त्वन्तत्पदार्थवाक्यानां कर्तृदेवतास्तावकत्वम् , विविदिषादिवाक्यानां फलस्तावकत्वम् । ननु कर्मविशेषमनारभ्य प्रकरणान्तराधीतानां वेदान्तानां कथं तच्छेषत्वम् , मानाभावादित्यरुच्या पक्षान्तरमाह - उपासनेति । मोक्षकामोऽसद्ब्रह्माभेदमारोप्य अहं ब्रह्मास्मीत्युपासीत इत्युपासनाविधिः, आदिशब्दाच्छ्रवणादयः । तत्कार्यपरत्वं वा वक्तव्यमित्यर्थः । ननु श्रुतं ब्रह्म विहायाश्रुतं कार्यपरत्वं किमर्थं वक्तव्यमिति तत्राह - नहीति । परितः समन्तान्निश्चयेन स्थितं परिनिष्ठितं कृत्यनपेक्षम् । सिद्धमिति यावत् । तस्य प्रतिपादनमज्ञातस्य वेदेन ज्ञापनम् , तन्न सम्भवति, मानन्तरयोग्येऽर्थे वाक्यस्य संवादे सत्यनुवादकत्वात् , ‘अग्निर्हिमस्य भेषजम्’ इति वाक्यवत् । विसंवादे च बोधकत्वात् , ‘आदित्यो यूपः’ इति वाक्यवदित्यर्थः । सिद्धो न वेदार्थः, मानान्तरयोग्यत्वाद्घटवदित्युक्त्वा निष्फलत्वाच्च तथेत्याह - तदिति । सिद्धज्ञापने हेयोपादेयागोचरे फलाभावाच्च तन्न सम्भवतीत्यर्थः । फलं हि सुखाव्याप्तिर्दुःखहानिश्च । तच्च प्रवृत्ति निवृत्तिभ्यां साध्यम् । ते चोपादेयस्य प्रवृत्तिप्रयत्नकार्यस्य हेयस्य निवृत्तिप्रयत्नकार्यस्य ज्ञानाभ्यां जायेते, न सिद्धज्ञानादिति भावः । तर्हि सिद्धबोधिवेदवादानां साफल्यं कथमित्याशङ्क्य ‘आम्नायस्य’ इत्यादिसङ्ग्रहवाक्यं विवृणोति - अत एवेति । सिद्धवस्तुज्ञानात्फलाभावादेवेत्यर्थः । ‘देवैर्निरुद्धः सोऽग्निररोदीत्’ इति वाक्यस्याश्रुजत्वेन रजतस्य निन्दाद्वारा ‘बर्हिषि न देयं’ इति सफलनिषेधशेषत्ववत् वेदान्तानां विध्यादिशेषत्वं वाच्यमित्यर्थः । ननु तेषां मन्त्रवत्स्वातन्त्र्यमस्तु नार्थवादवद्विध्येकवाक्यत्वमित्याशङ्क्य दृष्टान्तासिद्धिमाह - मन्त्राणां चेति । प्रथमाध्याये प्रमाणलक्षणेऽर्थवादचिन्तानन्तरं मन्त्रचिन्ता कृता ‘इषे त्वा’ इति मन्त्रे ‘छिनद्मि’ इत्यध्याहाराच्छाखाच्छेदनक्रियाप्रतीतेः, ‘अग्निर्मूर्धा’ इत्यादौ च क्रियासाधनदेवतादिप्रतीतेः मन्त्राः श्रुत्यादिभिः क्रतौ विनियुक्ताः, ते किमुच्चारणमात्रेणादृष्टं कुर्वन्तः क्रतावुपकुर्वन्ति उत दृष्टेनैवार्थस्मरणेनेति सन्देहे चिन्तादिनाप्यध्ययनकालावगतमन्त्रार्थस्य स्मृतिसम्भवाददृष्टार्था मन्त्रा इति प्राप्ते सिद्धान्तः - ‘अविशिष्टस्तु वाक्यार्थः’ इति लोकवेदयोर्वाक्यार्थस्याविशेषान्मन्त्रवाक्यानां दृष्टेनैव स्वार्थप्रकाशनेन क्रतूपकारकत्वसम्भवात् , दृष्टे सम्भवति अदृष्टकल्पनानुपपत्तेः, फलवदनुष्ठानापेक्षितेन क्रियातत्साधनस्मरणेन द्वारेण मन्त्राणां कर्माङ्गत्वम् । ‘मन्त्रैरेवार्थः स्मर्तव्यः’ इति नियमस्त्वदृष्टार्थ इति । तथा चार्थवादानां स्तुतिपदार्थद्वारा पदैकवाक्यत्वं विधिभिः, मन्त्राणां तु वाक्यार्थज्ञानद्वारा तैर्वाक्यैकवाक्यत्वमिति विभागः । नन्वस्तु कर्मप्रकरणस्थवाक्यानां विध्येकवाक्यत्वम् , वेदान्तानां तु सिद्धे प्रामाण्यं किं न स्यादिति तत्राह - न क्वचिदिति । वेदान्ता विध्येकवाक्यत्वेनैवार्थवन्तः, सिद्धार्थावेदकत्वात् , मन्त्रार्थवादादिवदित्यर्थः । अन्यत्रादृष्टापि वेदान्तेषु कल्प्यतामिति तत्राह - उपपन्ना वेति । नेत्यनुषङ्गः । सिद्धे फलाभावास्योक्तत्वादिति भावः । तर्हि ब्रह्मण्येव स्वार्थे विधिः कल्प्यतां कृतं वेदान्तानां विध्यन्तरशेषत्वेनेत्यत आह - न चेति । ननु ‘दध्ना जुहोति’ इति सिद्धे दधनि विधिर्दृष्टस्तत्राह - क्रियेति । दध्नः क्रियासाधनस्य प्रयुज्यमानतया साध्यत्वाद्विधेयता, निष्क्रियब्रह्मणः कथमप्यसाध्यत्वान्न विधेयत्वमित्यर्थः । भाट्टमतमुपसंहरति - तस्मादिति । स्वयमेवारुचिं वदन्पक्षान्तरमाह - अथेति । ब्रह्मणः कारणत्वं स्मृतिपादे समर्थ्यते । प्रधानादेः कारणत्वं तर्कपादे युक्तिभिर्निरस्यति । अधुना तु श्रुत्या निरस्यति ईक्षतेर्नाशब्दमिति । ईक्षणश्रवणाद्वेदशब्दावाच्यमशब्दं प्रधानम् । अशब्दत्वान्न कारणमिति सूत्रयोजना । तत्सच्छब्दवाच्यं कारणमैक्षत । ईक्षणमेवाह बह्विति । बहु प्रपञ्चरूपेण स्थित्यर्थमहमेवोपादानतया कार्याभेदाज्जनिष्यामीत्याह प्रजेति । एवं तत्सदीक्षित्वा आकाशं वायुं च सृष्ट्वा तेजः सृष्टवदित्याह तदिति । मिषच्चलत् । सत्वाक्रान्तमिति यावत् स जीवाभिन्नः परमात्मा 'प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनो अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्मलोकालोकेषु नाम च' इत्युक्ताः षोडशकलाः । ननु 'इक्श्तिपो धातुनिर्देशे' इति कात्यायनस्मरणादीक्षतेरिति पदेन श्तिबन्तेन धातुरुच्यते । तेन धात्वर्थमीक्षणं कथं व्याख्यायत इत्याशङ्क्य लक्षणयेत्याह ईक्षितेरितिचेति । 'इतिकर्तव्यताविधेर्यजतेः पूर्ववत्वं' इति जैमिनिसूत्रे यथा यजतिपदेन लक्षणया धात्वर्थो याग उच्यते तद्वदिहापीत्यर्थः । सौर्यादिविकृतियागस्याङ्गानामविधानात्पूर्वदर्शादिप्रकृतिस्थाङ्गवत्वमिति सूत्रार्थः । धात्वर्थनिर्देशेन लाभमाह तेनेति । सामान्यतः सर्वज्ञो विशेषतः सर्वविदिति भेदः । ज्ञानमीक्षणमेव तपः । तपस्विनः फलमाह तस्मादिति । एतत्कार्यं सूत्राख्यं ब्रह्म । केवलसत्त्ववृत्तेर्ज्ञानत्वमङ्गीकृत्य प्रधानस्य सर्वज्ञत्वं निरस्तम् । सम्प्रति न केवलजडवृत्तिर्ज्ञानशब्दार्थः, किन्तु साक्षिबोधविशिष्टा वृत्तिर्वृत्तिव्यक्तबोधो वा ज्ञानम् । तच्चान्धस्य प्रधानस्य नास्तीत्याह अपिचेति । साक्षित्वमस्ति, येनोक्तज्ञानवत्वं स्यादिति शेषः । ननु सत्त्ववृत्तिमात्रेण योगिनां सर्वज्ञत्वमुक्तमित्यत आह योगिनान्त्त्विति । सेश्वरसाङ्ख्यमतमाह अथेति । सर्वज्ञत्वं नाम सर्वगोचरज्ञानवत्वम् , न ज्ञानकर्तृत्वम् , ज्ञानस्य कृत्यसाध्यत्वादिति हृदिकृत्वा पृच्छति इदं तावदिति । सर्वं जानातीति शब्दासाधुत्वं शङ्कते ज्ञाननित्यत्व इति । नित्यस्यापि ज्ञानस्य तत्तदर्थोपहितत्वेन ब्रह्मस्वरूपाद्भेदं कल्पयित्वा कार्यत्वोपचाराद्ब्रह्मणस्तत्कर्तृत्वव्यपदेशः साधुरिति सदृष्टान्तमाह न, प्रततेति । सन्ततेत्यर्थः । असत्यपि अविवक्षितेऽपि । ननु प्रकाशतेरकर्मकत्वात्सविता प्रकाशत इति प्रयोगेऽपि जानातेः सकर्मकत्वात्कर्माभावे 'तदैक्षत' इत्ययुक्तमिति, तत्राह कर्मापेक्षायां त्विति । कर्माविवक्षायामपि प्रकाशरूपे सवितरि प्रकाशत इति कथञ्चित्प्रकाशक्रियाश्रयत्वेन कर्तृत्वोपचारवच्चिदात्मन्यपि चिद्रूपेक्षणकर्तृत्वोपचारान्न वैषम्यमित्युक्तं पूर्वम् । अधुना तु कुम्भकारस्य स्वोपाध्यन्तःकरणवृत्तिरूपेक्षणवदीश्वरस्यापि स्वोपाध्यविद्यायाः विविधसृष्टिसंस्कारायाः प्रलयावसानेनोद्बुद्धसंस्कारायाः सर्गोन्मुखः कश्चित्परिणामः सम्भवति, अतः तस्यां सूक्ष्मरूपेण निलीन सर्वकार्यविषयकमीक्षणम् , तस्य कार्यत्वात् कर्मसद्भावाच्च तत्कर्तृत्वं मुख्यमिति द्योतयति सुतरामिति । ननु मायोपाधिकबिम्बचिन्मात्रस्येश्वरस्य कथमीक्षणं प्रति मुख्यं कर्तृत्वम् , कृत्यभावादिति चेन्न, कार्यानुकूलज्ञानवत एव कर्तृत्वादीश्वरस्यापि ईक्षणानुकूलनित्यज्ञानवत्त्वात् । न च नित्यज्ञानेनैव कर्तृत्वनिर्वाहात्किमीक्षणेनेति वाच्यम् , वाय्वादेरेव शब्दवत्त्वसम्भवात्किमाकाशेनेत्यतिप्रसङ्गात् । अतः श्रुतत्वाद्वाय्वादिकारणत्वेनाकाशवदैक्षतेत्यागन्तुकत्वेन श्रुतमीक्षणमाकाशादिहेतुत्वेनाङ्गीकार्यमित्यलम् । अव्याकृते सूक्ष्मात्मना स्थिते व्याकर्तुं स्थूलीकर्तुमिष्टे इत्यर्थः । अव्याकृतकार्योपरक्तचैतन्यरूपेक्षणस्य कारकानपेक्षत्वेऽपि वृत्तिरूपेक्षणस्य कारकं वाच्यमित्याशङ्क्याह अपिचाविद्यादिमत इति । यथैकस्य ज्ञानं तथान्यस्यापीति नियमाभावान्मायिनोऽशरीरस्यापि जन्येक्षणकारकत्वमिति भावः । ननु यज्जन्यज्ञानं तच्छरीरसाध्यमिति व्याप्तिरस्तीत्याशङ्क्य श्रुतिबाधमाह मन्त्रौ चेति । कार्यं शरीरम् । कारणमिन्द्रियम् । अस्येश्वरस्य शक्तिर्माया स्वकार्यापेक्षया परा, विचित्रकार्यकारित्वाद्द्विविधा । सा त्वैतिह्यमात्रसिद्धा न प्रमाणसिद्धेत्याह श्रूयत इति । ज्ञानरूपेण बलेन या सृष्टिक्रिया सा स्वाभाविकी । अनादिमायात्मकत्वादित्यर्थः । ज्ञानस्य चैतन्यस्य बलं मायावृत्तिप्रतिबिम्बितत्त्वेन स्फुटत्वं तस्य क्रियानाम बिम्बत्वेन ब्रह्मणो जनकता ज्ञातृतापि स्वाभाविकीति वार्थः । अपाणिरपि ग्रहीता । अपादोऽपि जवनः । ईश्वरस्यस्वकार्ये लौकिकहेत्वपेक्षा नास्तीति भावः । अग्र्यमनादिम् , पुरुषमनन्तम् , महान्तं विभुमित्यर्थः । अपसिद्धान्तं शङ्कते नन्विति । ज्ञाने प्रतिबन्धककारणान्यविद्यारागादीनि श्रुतावत ईश्वरादन्यो नास्तीत्यन्वयः । औपाधिकस्य जीवेश्वरभेदस्यमयोक्तत्वान्नापसिद्धान्त इत्याह अत्रोच्यत इति । तत्कृत उपाधिसम्बन्धकृतः शब्दतज्जन्यप्रत्ययरूपो व्यवहारः । असङ्कीर्ण इति शेषः । अव्यतिरेके कथमसङ्करस्तत्राह तत्कृता चेति । उपाधिसम्बन्धकृतेत्यर्थः । तथेति । देहादिसम्बन्धस्य हेतुरविवेकोऽनाद्यविद्या तया कृत इत्यर्थः । अविद्यायां हि प्रतिबिम्बो जीवः, बिम्बचैतन्यमीश्वर इति भेदोऽविद्याधीनसत्ताकः, अनादिभेदस्य कार्यत्वायोगात् । कार्यबुद्ध्यादिकृतप्रमात्रादिभेदश्च कार्य एवेति विवेकः । नन्वखण्डस्वप्रकाशात्मनि कथमविवेकः, तत्राह दृश्यते चेति । वस्तुतो देहादिभिन्नस्वप्रकाशस्यैव सत आत्मनो नरोऽहमिति भ्रमोदृष्टत्वाद्दुरपह्नवः । स च मिथ्याबुद्ध्या मीयत इति मिथ्याबुद्धिमात्रेण भ्रान्तिसिद्धाज्ञानेन कल्पित इति चकारार्थः । यद्वोक्तमिथ्याबुद्धौ लोकानुभवमाह दृश्यते चेति । इत्थम्भावे तृतीया । भ्रान्त्यात्मना दृश्यत इत्यर्थः । पूर्वपूर्वभ्रान्तिमात्रेण दृश्यते न च प्रमेयतयेति वार्थः । कूठस्थस्यापि मायिकं कारणत्वं युक्तमित्याह यथा त्विति ।
यत्त्ववेद्ये शब्दशक्तिग्रहायोग इति, तन्न । सत्यादिपदानामबाधिताद्यर्थेषु लोकावगतशक्तिकानां वाच्चैकदेशत्वेनोपस्थिताखण्डब्रह्मलक्षकत्वादिति स्थितम् ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 वृत्तमनूद्याक्षेपलक्षणामवान्तरसङ्गतिमाह साङ्ख्यादयस्त्विति । भवतु सिद्धे वेदान्तानां समन्वयः, तथापि मानान्तरायोगे ब्रह्मणि शक्तिग्रहायोगात् , कूटस्थत्वेनाविकारित्वेन कारणत्वायोगाच्च न समन्वयः । किन्तु सर्गाद्यं कार्यं जडप्रकृतिकम् , कार्यत्वात् , घटवतित्यनुमानगम्ये त्रिगुणे प्रधाने समन्वय इत्याक्षिपन्तीत्यर्थः । सिद्धं मानान्तरगम्यमेवेत्याग्रहः शक्तिग्रहार्थः । अत एव प्रधानादवनुमानोपस्थिते शक्तिग्रहसम्भवात्तत्परतया वाक्यानि योजयन्तीत्युक्तम् । किं च 'तेजसा सोम्यशुङ्गेन सन्मूलमन्विच्छ' इत्याद्याः श्रुतयः । शुङ्गेन लिङ्गेन कारणस्य स्वतोऽन्वेषणं दर्शयन्तो मानान्तरसिद्धमेव जगत्कारणं वदन्तीत्याह सर्वेष्विति । नन्वतीन्द्रियत्वेन प्रधानादेर्व्याप्तिग्रहायोगात्कथमनुमानम् , तत्राह प्रधानेति । यत्कार्यं तज्जडप्रकृतिकम् , यथा घटः । यज्जडं तच्चेतनसंयुक्तम् , यथा रथादिरिति सामान्यतोदृष्टानुमानगम्याः प्रधानपुरुष संयोगा इत्यर्थः । अद्वितीयब्रह्मणः कारणत्वविरोधिमतान्तरमाह काणादास्त्विति । सृष्टिवाक्येभ्य एव परार्थानुमानरूपेभ्यो यत्कार्यं तद्बुद्धिमत्कर्तृकमितीश्वरं कर्तारम् , परमाणूंश्च यत्कार्यद्रव्यं तत्स्वन्यूनपरिमाणद्रव्यारब्दमित्यनुमिमत इत्यर्थः । अन्येऽपि बौद्धादयः । 'असद्वा इदमग्र आसीत्' इत्यादि वाक्याभासः । यद्वस्तु तच्छून्यावसानम् , यथा दीप इति युक्त्याभासः । एवं वादिविप्रतिपत्तिमुक्त्वा तन्निरासायोत्तरसूत्रसन्दर्भमवतारयति तत्रेति । वादिविवादे सतीत्यर्थः । व्याकरणमीमांसान्यायनिधित्वात्पदवाक्यप्रमाणज्ञत्वम् । यज्जगत्कारणं तच्चेतनमचेतनं वेति ईक्षणस्यमुख्यत्वगौणत्वाभ्यां संशये पूर्वपक्षमाह तत्र साङ्ख्या इति । अपिशब्दावेवकारार्थौ । 'सदेव' इत्यादि स्पष्टब्रह्मलिङ्गवाक्यानां प्रधानपरत्वनिरासेन ब्रह्मपरत्वोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे जीवस्यप्रधानैक्योपास्तिः, सिद्धान्तेब्रह्मैक्यज्ञानमिति विवेकः । अचेतनसत्वस्यैव सर्वज्ञत्वम् , न चेतनस्येत्याह तेन च सत्वधर्मेणेति । न केवलस्येति । जन्यज्ञानस्य सत्वधर्मत्वान्नित्योपलब्धेरकार्यत्वाच्चिन्मात्रस्य न सर्वज्ञानकर्तृत्वमित्यर्थः । ननु गुणानां साम्यावस्थायां सत्वस्योत्कर्षाभावात्कथं सर्वज्ञतेत्याह त्रिगुणत्वादिति । त्रयो गुणा एव प्रधानं तस्यसाम्यावस्था तदभेदात् प्रधानमित्युच्यते । तदवस्थायामपि प्रलये सर्वज्ञानशक्तिमत्वरूपं सर्वज्ञत्वमक्षतमित्यर्थः । ननु मया किमिति शक्तिमत्वरूपं गौणं सर्वज्ञत्वमङ्गीकार्यमिति, तत्राह नहीति । अनित्यज्ञानस्य प्रलये नाशाच्छक्तिमत्वं वाच्यं कारकाभावाच्चेत्याह अपि चेति । मतद्वयसाम्यमुक्त्वा स्वमते विशेषमाह अपि चेति । अप्तेजसोरिवाचेतने सति गौणी ईक्षतिरिति चेन्न, आत्मशब्दात्सतश्चेतनत्वनिश्चयादिति सूत्रार्थमाह यदुक्तमित्यादिना । सा प्रकृता सच्छब्दवाच्या इयमीक्षित्री देवता परोक्षा हन्त इदानीं भूतसृष्ट्यनन्तरमिमाः सृष्टास्तिस्रस्तेजोऽबन्नरूपाः । परोक्षत्वाद्देवता इति द्वितीयाबहुवचनम् । अनेन पूर्वकल्पानुभूतेनजीवेनात्मना मम स्वरूपेण ता अनुप्रविश्य तासां भोग्यत्वाय नाम च रूपं च स्थूलं करिष्यामीत्यैक्षतेत्यन्वयः । लौकिकप्रसिद्धेः, 'जीव प्राणधारणे' इति धातोर्जीवतिप्राणान्धारयतीति निर्वचनाच्चेत्यर्थः । अत त्विति । स्वपक्षे तु बिम्बप्रतिबिम्बयोर्लोके भेदस्यकल्पितत्वदर्शनाज्जीवो ब्रह्मणः सत आत्मेति युक्तमित्यर्थः । जीवस्य सच्छब्दार्थं प्रत्यात्मशब्दात्सन्न प्रधानमित्युक्त्वा सतौ जीवं प्रत्यात्मशब्दान्न प्रधानमिति विधान्तरेण हेतुं व्याचष्टे तथेति । स यःसदाख्य एषोऽणिमापरम सूक्ष्मः, ऐतदात्मकमिदं सर्वं जगत् , तत्सदेव सत्यम् , विकारस्य मिथ्यात्वात् । सः सत्पदार्थः सर्वस्यात्मा । हे श्वेतकेतो, त्वं च नासि संसारी, किन्तु तदेव सदभाधितं सर्वात्मकं ब्रह्मासीति श्रुत्यर्थः । इत्यत्रोपदिशति । अतश्चेतनात्माकत्वात् सच्चेतनमेवेति वाक्यशेषः । यदुक्तमप्तेजसोरिव सत ईक्षणं गौणमिति, तत्राह अत्तेजसोस्त्विति । नामरूपयोर्व्याकरणं सृष्टिः । आदिपदान्नियमनम् । अप्तेजसोर्दृग्विषयत्वात्सृज्यत्वान्नियम्यत्वाच्चाचेतनत्वमीक्षणस्य मुख्यत्वे बाधकमस्ति, साधकं च नास्तीति हेतोर्युक्तमीक्षणस्य गौणत्वमिति योजना । चेतनवत्कार्यकारित्वं गुणः 'तेज ऐक्षत' चेतनवत्कार्यकारीत्यर्थः । यद्वा तेजःपदेन तदधिष्ठानं सल्लक्ष्यते । तथाच मुख्यमीक्षणमित्याह तयोरिति । स्यादेतद्यदि सत ईक्षणं मुख्यं स्यात्तदेव कुत इत्यत आह सतस्त्विति ।
गौणमुख्ययोरतुल्ययोः संशयाभावेन गौणप्रायपाठस्यानिश्चायकत्वादात्मशब्दाच्च सत ईक्षणं मुख्यमित्यर्थः ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 संप्रत्युत्तरसूत्रनिरस्याशङ्कामाह अत्राहेति । अन्यथापि अचेतनत्वेऽपि । ननु प्रधानस्य चेतनेन किं साम्यं येन गौणमीक्षणमिति तत्राह यथेति । नियतक्रमवत्कार्यकारित्वं साम्यमित्यर्थः । ‘उपचारप्राये वचनात्’ इति गौणार्थप्रचुरे प्रकरणे समाम्नानादित्यर्थः । तस्मिन्सत्पदार्थे निष्टा अभेदज्ञानं यस्य स सन्निष्ठस्तस्य मुक्तिश्रवणादिति सूत्रार्थमाह नेत्यादिना । श्रुतिः समन्वयसूत्रेव्याख्याता । अनर्थायेत्युक्तं प्रपञ्चयति यदि चाज्ञस्येति । कश्चित्किल दुष्टात्मा महारण्यमार्गे पतितमन्धं स्वबन्धुनगरं जिगमिषुं बभाषे, किमात्रायुष्मता दुःखितेन स्थीयत इति । स चान्धः सुखां वाणीमाकर्ण्य तमाप्तं मत्वोवाच, अहो मद्भागधेयम् , यदत्र भवान्मां दीनं स्वाभीष्टनगरप्राप्यसमर्थं भाषत इति । स च विप्रलिप्सुर्दुष्टगोयुवानमानीय तदीयलाङ्गूलमन्धं ग्राहयामास । उपदिदेश च एनमन्धम् , एष गोयुवा त्वां नगरं नेष्यति, मा त्यज लाङ्गूलमिति । स चान्धः श्रद्धालुतया तदत्यजन्स्वाभीष्टमप्राप्यानर्थपरम्परां प्राप्तः । तेन न्यायेनेत्यर्थः । तथा सतीति । आत्मज्ञानाभावे सति विहन्येत मोक्षं न प्राप्नुयात्प्रत्युतानर्थं संसारं च प्राप्नुयादित्यर्थः । ननु जीवस्य प्रधानैक्यसम्पदुपासनार्थमिदं वाक्यामस्त्विति, तत्राह एवं च सतीति । अबाधितात्मप्रमायां सत्यामित्यार्थः । कस्यचिदारोपितचोरत्वस्य सत्येन तप्तं परशुं गृह्णतो मोक्षो दृष्टः, तद्दृष्टान्तेन सत्ये ब्रह्मणि अहमित्यभिसन्धिमतो मोक्षो यथा 'सत्याभिसन्धस्तप्तं परशुं गृह्णाति स न दह्यतेऽथ मुच्यते' इति श्रुत्योपदिष्टः । स उपदेशः सम्पत्पक्षे न युक्तः इत्याह अन्यथेति । देहमुत्थापयतीत्युक्थं प्राणः । तस्मान्मोक्षोपदेशान्मुख्ये सम्भवति गौणत्वस्यान्याय्यत्वाच्चात्मशब्दः सति मुख्य इत्याह अपि चेति । क्वचिद्भृत्यादौ । सर्वत्राहमात्मेत्यत्रापि मुख्य आत्मशब्दो न स्यादित्यर्थः । चेतनत्वोपचाराद्भूतादिषु । सर्वत्र चैतन्यतादात्म्यादित्यर्थः । आत्मशब्दश्चेतनस्यैवासाधारण इत्युक्तम् । अस्तुवाऽव्यापिवस्तूनां साधारणस्तथापि तस्यात्र श्रुतौ प्रधानपरत्वेऽपि निश्चायकाभावान्न प्रधानवृत्तितेत्याह साधारणत्वेऽपीति । चेतनवाचित्वे तु प्रकरणं श्वेतकेतुपदं च निश्चायकमस्तीत्याह प्रकृतं त्विति । उपपदस्य निश्चायकत्वं स्फुटयति नहीति । ततः किम् , तत्राह तस्मादिति । आत्मशब्दो ज्योतिःशब्दवन्नानार्थक इत्युक्तं दृष्टान्तं निरस्यति ज्योतिरिति । कथं तर्हि 'ज्योतिषा यजेत' इति ज्योतिष्टोमे प्रयोगः, तत्राह अर्थवादेति । 'एतानि वाव तानि ज्योतींषि य एतस्य स्तोमाः' इत्यर्थवादेन कल्पितं ज्वलनेन सादृश्यम् । त्रिवृत्पञ्चदशस्त्रिवृत्सप्तदशस्त्रिवृदेकविंश इति स्तोमास्तत्तदर्थप्रकाशकत्वेन गुणेन ज्योतिष्पदोक्ता ऋक्सङ्घाः । तथा च ज्योतींषि स्तोमा अस्येति ज्योतिष्टोम इत्यत्र ज्योतिःशब्दो गौण इत्यर्थः । नन्वात्मशब्दादिति पूर्वसूत्र एवात्मशब्दस्य प्रधाने गौणत्वसाधारणत्वशङ्कानिरासः कर्तुमुचितः, मुख्यार्थस्य लाघवेनोक्तिसम्भवे गौणत्वनानार्थकत्वशङ्काया दुर्बलत्वेन तन्निरासार्थं पृथक्सूत्रायासानपेक्षणात् । तथा च शङ्कोत्तरत्वेन सूत्रव्याख्यानं नातीव शोभत इत्यरुचेराह अथवेति । निरस्ता समस्ता गौणत्वनानार्थकत्वशङ्का यस्यात्मशब्दस्य स तच्छङ्कस्तस्य भावस्तत्ता तयेत्यर्थः । तत इति ।
सत आत्मशब्दे जीवाभिन्नत्वादिति हेत्वपेक्षया मोक्षोपदेशः स्वतन्त्र एव प्रधानकारणत्वनिरासे हेतुरित्यर्थः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 आत्महितकारित्वगुणयोगादात्मशब्दोऽपि प्रधाने गौण इति शङ्कते अथेत्यादिना । आत्मशब्दः प्रधानेऽपि मुख्यो नानार्थकत्वादित्याह अथवेति । नानार्थत्वे दृष्टान्तः यथेति । 'अथैष ज्योतिः’ श्रुत्या सहस्रदक्षिणाके क्रतौ ज्योतिष्टोमे लोकप्रयोगादग्नौ च ज्योतिःशब्दो यथा मुख्यस्तद्वदित्यर्थः । सौत्रश्चकारोऽनुक्तसमुच्चयार्थ इत्याह चशब्द इति । विवृणोति सत्यपीति । अपिशब्दान्नास्त्येवेति सूचयति । वेदानधीत्यागतं स्तब्धं पुत्रं पितोवाच हे पुत्र, उत अपि, आदिश्यत इत्यादेश उपदेशैकलभ्यः सदात्मा तमप्यप्राक्ष्यः गुरुनिकटेपृष्टवानसि, यस्य श्रवणेन मननेन विज्ञानेनान्यस्य श्रवणादिकं भवतीत्यन्वयः । नन्वन्येन ज्ञातेन कथमन्यदज्ञातमपि ज्ञातं स्यादिति पुत्रः शङ्कते कथमिति । हे भगवः, कथं नु खलु स भवतीत्यर्थः । कार्यस्य कारणान्यत्वं नास्तीत्याह यथेति । पिण्डः स्वरूपं तेन । विज्ञातेनेति शेषः । तत्र युक्तिमाह वाचेति । वाचा वागिन्द्रियेणारभ्यत इति विकारो वाचारम्भणम् । ननु वाचा नामैवारभ्यते, न घटादिरित्याशङ्क्य नाममात्रमेव विकार इत्याह नामधेयमिति । 'नामधेयं विकारोऽयं वाचा केवलमुच्यते । वस्तुतः कारणाद्भिन्नो नास्ति तस्मान्मृषैव सः ॥ ‘ इति भावः । विकारस्य मिथ्यात्वे तदभिन्नकारणस्यापि मिथ्यात्वमिति, नेत्याह मृत्तिकेति । कारणं कार्याद्भिन्नसत्ताकं न कार्यं कारणाद्भिन्नम् , अतः कारणातिरिक्तस्य कार्यस्वरूपस्याभावात्कारणज्ञानेन तज्ज्ञानं भवतीति स्थिते दार्ष्टान्तिकमाह एवमिति । मृद्वद्ब्रह्मैव सत्यं वियदादिविकारो मृषेति ब्रह्मज्ञाने सति ज्ञेयं किञ्चिन्नावशिष्यत इत्यर्थः । यद्यपि प्रधाने ज्ञाते तादात्म्याद्विकाराणां ज्ञानं भवति तथापि न पुरुषाणाम् , तेषां प्रधानविकारत्वाभावादित्याह नचेति ।
अस्माकं जीवानां सद्रूपत्वात्तज्ज्ञाने ज्ञानमिति भावः ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 ननु यथा कश्चिदरुन्धतीं दर्शयितुं निकटस्थां स्थूलां तारामरुन्धतीत्वेनोपदिशति, तद्वदनात्मन एव प्रधानस्य सत्पदार्थस्यात्मत्वोपदेश इति शङ्कते कुतश्चेति । प्रधानं सच्छब्दवाच्यं नेति कुत इत्यर्थः । एतत्स्वपनं यथा स्यात्तथा यत्र सुषुप्तौ स्वपितीति नाम भवति तदा पुरुषः सता सम्पन्न एकीभवति । सदैक्येऽपि नामप्रवृत्तिः कथम् , तत्राह स्वमिति । तत्र लोकप्रसिद्धिमाह तस्मादिति । हि यस्मात्स्वं सदात्मानमपीतो भवति तस्मादित्यर्थः । श्रुतेस्तात्पर्यमाह एषेत्यादिना । कथमेतावता प्रधाननिरास इत्यत आह स्वशब्देनेति । एतेर्धातोर्गत्यर्थस्यापिपूर्वस्य लयार्थत्वेऽपि कथं नित्यस्य जीवस्य लय इत्याशङ्क्य उपाधिलयादिति वक्तुं जाग्रत्स्वप्नयोरुपाधिमाह मन इति । ऐन्द्रियकमनोवृत्तय उपाधयः, तैर्घटादिस्थूलार्थविशेषाणामात्मना सम्बन्धादात्मा तानिन्द्रियार्थान्पश्यन्स्थूलविशेषेण देहेनैक्यभ्रान्तिमापन्नो विश्वसंज्ञो जागर्ति । जाग्रद्वासनाश्रयमनोविशिष्टः संस्तैजससंज्ञः स्वप्ने विचित्रवासनासहकृतमायापरिणामान् पश्यन् 'सोम्य तन्मनः' इति श्रुतिस्थमनःशब्दवाच्यो भवति । स आत्मा स्थूलसूक्ष्मोपाधिद्वयोपरमेऽहं नरः कर्तेति विशेषाभिमानाभावाल्लीन इत्युपचर्यत इत्यर्थः । ननु स्वपितीति नामनिरुक्तेरर्थवादत्वान्न यथार्थतेत्यत आह यथेति । तस्य हृदयशब्दस्यैतन्निर्वचनम् । तदशितमन्नं द्रवीकृत्य नयन्ते जरयन्तीत्याप एवाशनायापदार्थः । तत्पीतमुदकं नयते शोषयतीति तेज एवोदन्यम् । अत्र दीर्घश्छान्दसः । एवमिदमपि निर्वचनं यथार्थमित्याह एवमिति । इदं च प्रधानपक्षे न युक्तमित्याह न चेति । स्वशब्दस्यात्मनीवात्मीयेऽपि शक्तिरस्तीत्याशङ्क्याह यदीति ।
प्राज्ञेन बिम्बचैतन्येनेश्वरेण सम्परिष्वङ्गो भेदभ्रमाभावेनाभेद इत्यर्थः ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 कुतश्चेति । पुनरपि कस्माद्धेतोरित्यर्थः । सुषुप्तौ जीवस्य सदात्मनि स्वस्मिन्नप्ययश्रवणात्सच्चेतनमेवेति सूत्रयोजना । तत्तद्वेदान्तजन्यानामवगतीनां चेतनकारणविषयकत्वेन सामान्यान्नाचेतनं जगतः कारणमिति सूत्रार्थं व्यतिरेकमुखेनाह यदि तार्किकेत्यादिना । अन्यत्परमाण्वादिकम् । न त्वेतदिति । अवगतिवैषम्यमित्यर्थः । विप्रतिष्ठेरन्विविधं नानादिशः प्रति गच्छेयुः । प्राणाश्चक्षुरादयो यथागोलकं प्रादुर्भवन्ति, प्राणेभ्योऽनन्तरम् , देवाः सूर्यादयस्तदनुग्राहकाः, तदनन्तरं लोक्यन्त इति लोका विषया इत्यर्थः । ननु वेदान्तानां स्वतप्रामाण्यत्वेन प्रत्येकं स्वार्थनिश्चायकत्वसम्भवात्किं गतिसामान्येनेत्यत आह महच्चेति । एकरूपावगतिहेतुत्वं वेदान्तानां प्रामाण्यसंशयनिवृत्तिहेतुरित्यत्र दृष्टान्तमाह चक्षुरिति ।
यथा सर्वेषां चक्षुषामेकरूपावगतिहेतुत्वम् , श्रवणानां शब्दावगतिहेतुत्वम् , घ्राणादीनां गन्धादिषु, एवं ब्रह्मणि वेदान्तानां गतिसामान्यं प्रामाण्यदार्ढ्ये हेतुरित्यर्थः ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 एवमीक्षत्यादिलिङ्गैरचेतने वेदान्तानां समन्वयं निरस्य चेतनवाचकशब्देनापि निरस्यति श्रुतत्वाच्चेति । सूत्रं व्याचष्टे स्वशब्देनेति । स्वस्य चेतनस्य वाचकः सर्वविच्छब्दः । 'ज्ञः कालकालो गुणी सर्वविद्यः' इति सर्वज्ञं परमेश्वरं प्रकृत्य 'स सर्ववित्कारणम्' इति श्रुतत्वान्नाचेतनं कारणमिति सूत्रार्थः । करणाधिपा जीवास्तेषामधिपः । अधिकरणार्थमुपसंहरति । तस्मादीति ईक्षणात्मशब्दादिकं परमाण्वादावप्ययुक्तमिति मत्वाह
अन्यद्वेति ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वाधिकरणे गौणमुख्येक्षणयोरतुल्यत्वेन संशयाभावाद्गौणप्रायपाठो न निश्चायक इत्युक्तं तर्हि मयटो विकारे प्राचुर्ये च मुख्यत्वात्संशये विकारप्रायपाठादानन्दाधिकारो जीव आनन्दमय इति निश्चयोऽस्तीति प्रत्युदाहरणसङ्गत्या पूर्वपक्षमाह किं तावदित्याकाङ्क्षापूर्वकम् किमिति । आनन्दमयपदस्यामुख्यार्थग्रहे हेतुं पृच्छति कस्मादिति । विकारप्रायपाठहेतुमाह अन्नमयादीति । श्रुत्यादिसङ्गतयः स्फुटा एव । पूर्वपक्षे वृत्तिकारमतेजीवोपास्त्या प्रियादिप्राप्तिः फलम् , सिद्धान्ते तु ब्रह्मोपास्त्येति भेदः । शङ्कते अथापीति । परिहरति न स्यादिति । सङ्गृहीतं विवृणोति मुख्य इति । परमात्मेत्यर्थः । शारीरत्वेऽपीश्वरत्वं किं न स्यादित्यत आह नचेति । जीवत्वं दुर्वारमित्यर्थः । नन्वानन्दपदाभ्यासेऽप्यानन्दमयस्य ब्रह्मत्वं कथमित्याशङ्क्य ज्योतिष्टोमाधिकारे ज्योतिष्पदस्य ज्योतिष्टोमपरत्ववदानन्दमयप्रकरणस्थानन्दमयपदस्यानन्दमयपरत्वात्तदभ्यासस्तस्य ब्रह्मत्वसाधक इत्यभिप्रेत्याह आनन्दमयं प्रस्तुत्येति । रसः सारः । आनन्द इत्यर्थः । अयं लोकः । यद्यपि एष आकाशः पूर्णः आनन्दः साक्षिप्रेरको न स्यात्तदा को वान्याच्चलेत् , को वा विशिष्या प्राण्याज्जीवेत् , तस्मादेष एवानन्दयाति, आनन्दयतीत्यर्थः । 'युवा स्यात्साधुयुवा' इत्यादिना वक्ष्यमाणा मनुष्ययुवानन्दमारभ्य ब्रह्मानन्दावसाना एषा संनिहिता आनन्दस्य तारतम्यमीमांसा भवति । उपसङ्क्रामति विद्वान्प्राप्नोति इत्येकदेशिनामर्थः । मुख्यसिद्धान्ते तूपसङ्क्रमणं विदुषः कोशानां प्रत्यङ्मात्रत्वेन विलापनमिति ज्ञेयम् । शिष्टमुक्तार्थम् । आनन्दशब्दाद्ब्रह्मावगतिः सर्वत्र समानेति गतिसामान्यार्थमाह श्रुत्यन्तरे चेति । लिङ्गादमुख्यात्मसंनिधेर्बाध इति मत्वाह नासाविति । सर्वान्तरत्वं न श्रुतमित्याशङ्क्य ततोऽन्यस्यानुक्तेस्तस्य सर्वान्तरत्वमिति विवृणोति मुख्यमिति । लोकबुद्धिमिति । तस्याः स्थूलग्राहितामनुसरदित्यर्थः । ताम्रस्य मूषाकारत्ववत्प्राणस्य देहाकारत्वं देहेन सामान्यम् , तथा मनः प्राणाकारं तेन सममित्याह पूर्वेणेति ।
अतीतो योऽनन्तर उपाधिर्विज्ञानकोशस्तत्कृता सावयवत्वकल्पना, शरीरेण ज्ञेयत्वाच्छारीरत्वमिति लिङ्गद्वयं दुर्बलम् । अतः सहायाभावादभ्याससर्वान्तरत्वाभ्यां विकारसंनिधेर्बाध इति भावः ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 वृत्तानुवादेनोत्तरसूत्रसन्दर्भमाक्षिपति जन्मादिति । वेदान्तेषु सगुणनिर्गुणब्रह्मवाक्यानां बहुलमुपलब्धेः, तत्र कस्य वाक्यस्य सगुणोपासनाविधिद्वारा निर्गुणे समन्वयः कस्य वा गुणविवक्षां विना साक्षादेव ब्रह्मणि समन्वय इत्याकाङ्क्षैव कारणमित्याह उच्यत इति । सङ्क्षिप्य सगुणनिर्गुणवाक्यार्थमाह द्विरूपं हीति । नामरूपात्मको विकारः सर्वं जगत् , तद्भेदो हिरण्यश्मश्रुत्वादिविशेष इति वाक्यार्थः । वाक्यान्युदाहरति यत्र हीत्यादिना । यस्यां खल्वज्ञानावस्थायां द्वैतमिव कल्पितं भवति तत्तदेतरः सन्नितरं पश्यतीति दृश्योपाधिकं वस्तु भाति । यत्र ज्ञानकाले विदुषः सर्वं जगदात्ममात्रमभूत्तत्तदा तु केन कं पश्येदित्याक्षेपान्निरुपाधिकं तत्त्वं भाति । यत्र भूम्नि निश्चितो विद्वान् द्वितीयं किमपि न वेत्ति सोऽद्वितीयो भूमा परमात्मा निर्गुणः । अथ निर्गुणोक्त्यनन्तरं सगुणमुच्यते । यत्र सगुणे स्थितो द्वितीयं वेत्ति तदल्पं परिच्छिन्नम् , यस्तु भूमा तदमृतं नित्यम् । अथेति । पूर्ववद्व्याख्येयम् । धीरः परमात्मैव सर्वाणि रूपाणि विचित्य सृष्ट्वा नामानि च कृत्वा बुद्ध्यादौ प्रविश्य जीवसंज्ञो व्यवहरन्यो वर्तते स सगुणस्तं निर्गुणत्वेन विद्वानप्यमृतो भवति । निर्गताः कला अंशा यस्मात्तन्निष्कलम् । अतो निरंशत्वान्निष्क्रियम् । अतः शान्तमपरिणामि । निरवद्यं रागादिदोषशून्यम् । अञ्जनं मूलतमःसम्बन्धो धर्मादिकं वा तच्छून्यं निरञ्जनम् । किञ्चामृतस्य मोक्षस्य स्वयमेव वाक्योत्थवृत्तिस्थत्वेन परमुत्कृष्टं सेतुं लौकिकसेतुवत्प्रापकम् । यथा दग्धेन्धनोऽनलः शाम्यति तमिवाविद्यां तज्जं च दग्ध्वा प्रशान्तं निर्गुणमात्मानं विद्यादित्यर्थः । नेति नेतीति । व्याख्यातम् । स्थूलादिद्वैतशून्यम् । रूपद्वये श्रुतिमाह - न्यूनमिति । द्वैतस्थानं न्यूनमल्पं सगुणरूपं निर्गुणादन्यत् , तथा सम्पूर्णं निर्गुणं सगुणादन्यदित्यर्थः । एकस्य द्विरूपत्वं विरुद्धमित्यत आह विद्येति । विद्याविषयो ज्ञेयं निर्गुणत्वं सत्यम् अविद्याविषय उपास्यं सगुणत्वं कल्पितमित्यविरोधः । तत्राविद्याविषयं विवृणोति तत्रेति । निर्गुणज्ञानार्थमारोपितप्रपञ्चमाश्रित्यबाधात्प्राक्काले गुडजिह्विकान्यायेन तत्तत्फलार्थान्युपासनानि विधीयन्ते, तेषां चित्तैकाग्र्यद्वारा ज्ञानं मुख्यं फलमिति तद्वाक्यानामपि महातात्पर्यं ब्रह्मणीति मन्तव्यम् । 'नाम ब्रह्म' इत्याद्युपास्तीनां कामचारादिरभ्युदयः फलम् , दहराद्युपास्तीनां कामाचारादिरभ्युदयः फलम् , दहराद्युपास्तीनां क्रममुक्तिः, उद्भीथादिध्यानस्य कर्मसमृद्धिः फलमिति भेदः । ध्यानानां मानसत्वात् , ज्ञानान्तरङ्गत्वाच्च, ज्ञानकाण्डे विधानमिति भावः । ननूपास्यब्रह्मण एकत्वात्कथमुपासनानां भेदः, तत्राह तेषामिति । गुणविशेषाः सत्यकामत्वादयः । हृदयादिरुपाधिः । अत्र स्वयमेवाशङ्क्य परिहरति एक इति । परमात्मस्वरूपाभेदेऽप्युपाधिभेदेनोपहितोपास्यरूपभेदादुपासननां भेदे सति फलभेद इति भावः । तं परमात्मानं यद्यद्गुणत्वेन लोका राजानमिवोपासते तत्तद्गुणवत्वमेव तेषां फलं भवति । क्रतुः सङ्कल्पो ध्यानम् । इह यादृशध्यानवान् भवति मृत्वा तादृशोपास्यरूपो भवति । अत्रैव भगवद्वाक्यमाह स्मृतेश्चेति । ननु सर्वभूतेषु निरतिशयात्मन एकत्वादुपास्योपासकयोस्तारतम्यश्रुतयः कथमित्याशङ्क्य परिहरति यद्यप्येक इति । उक्तानामुपाधीनां शुद्धितारतम्यादैश्वर्यज्ञानसुखरूपशक्तीनां तारतम्यरूपा विशेषा भवन्ति तैरेकरूपस्यात्मन उत्तरोत्तरं मनुष्यादिहिरण्यगर्भान्तेपष्वाविर्भाववतारतम्यं श्रूयते । तस्यात्मन आत्मानं स्वरूपमाविस्तरां प्रकटतरं यो वेद उपास्ते सोऽश्नुते तदिति तरप्प्रत्ययादित्यर्थः । तथाच निकृष्टोपाधिरात्मैवोपासकः, उत्कृष्टोपाधिरीश्वर उपास्य इत्यौपाधिकं तारतम्यमविरुद्धमिति भावः । अत्रार्थे भगवद्गीतामुदाहरति स्मृताविति । अत्र सूर्यादेरपि न जीवत्वेनोपास्यता किन्त्वीश्वरत्वेनेत्युक्तं भवति । तत्र सूत्रकारसंमतिमाह एवमिति । उदयः असम्बन्धः । एवं यस्मिन्वाक्ये उपाधिर्विवक्षितः तद्वाक्यमुपासनपरमिति वक्तुमुत्तरसूत्रसन्दर्भस्यारम्भ इत्युक्त्वा यत्र न विवक्षितः तद्वाक्यं ज्ञेयब्रह्मपरमिति निर्णयार्थमारम्भ इत्याह एवं सद्य इति । अन्नमयादिकोशा उपाधिविशेषाः । वाक्यगतिस्तात्पर्यम् । आरम्भसमर्थनमुपसंहरति एवमेकमपीति । सिद्धवदुक्तगतिसामान्यस्य साधनार्थमप्युत्तरारम्भ इत्याह यच्चेति । अन्नं प्रसिद्धम् , प्राणमनोबुद्ध्यः हिरण्यगर्भरूपाः बिम्बचैतन्यमीश्वर आनन्दः । तेषां पञ्चानां विकारा आध्यात्मिका देहप्राणमनोबुद्धिजीवा अन्नमयादयः पञ्चकोशाः इति श्रुतेः परमार्थः । विकारार्थकमयट्श्रुतिसहाय इत्याशङ्क्य मयटः प्राचुर्येऽपि विधानान्मैवमित्याह विकारेत्यादिना । तत्प्रकृतवचने मयडिति ।
तदितिप्रथमासमर्थाच्छब्दात्प्राचुर्यविशिष्टस्य प्रस्तुतस्य वचनेऽभिधाने गम्यमाने मयट्प्रत्ययो भवतीति सूत्रार्थः । अत्र वचनग्रहणात्प्रकृतस्य प्राचुर्यवैशिष्ट्यसिद्धिः, तादृशस्य लोके मयटोऽभिधानात् , यथा 'अन्नमयो यज्ञः' इति । अत्र ह्यन्नं प्रचुरमस्मिन्नित्यन्नशब्दः प्रथमाविभक्तिशक्तस्तस्मान्मयट्यज्ञस्य प्रकृत्यर्थान्नप्राचुर्यवाची दृश्यते न शुद्धप्रकृतवचन इति ध्येयम् ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 सूत्रस्थचशब्दोऽनुक्तसमुच्चयार्थ इति मत्वा व्याचष्टे इतश्चेति ।
तच्चानुक्तं ब्रह्मानन्दस्य निरतिशयत्वावधारणं पूर्वमुक्तम् ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 आनन्दमयस्य ब्रह्मत्वे लिङ्गमुक्त्वा प्रकरणमाह मान्त्रेति । यस्मादेवं प्रकृतं तस्मात्तन्मान्त्रावर्णिकमेव ब्रह्मानन्दमय इति वाक्ये गीयत इति योजना । ननु मन्त्रोक्तमेवात्र ग्राह्ममिति को निर्बन्धः, तत्राह मन्त्रेति । ब्राह्मणस्य मन्त्रव्याख्यानत्वादुपायत्वमस्ति, मन्त्रस्तूपेयः, तदिदमुक्तम् अविरोधादिति । तयोरुपायोपेयभावादित्यर्थः । तर्ह्यन्नमयादीनामपि मान्त्रवर्णिकब्रह्मत्वं स्यादित्यत आह न चेति । किञ्च भृगवे प्रोक्ता, वरुणेनोपदिष्टा भृगुवल्ली पञ्चमपर्यायस्थानन्दे प्रतिष्ठिता । तत्र स्थानन्यायेन तदेकार्थब्रह्मवल्ल्या आनन्दमये निष्ठेत्याह
एतन्निष्ठैवेति ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】
स ईश्वरः तपः सृष्ट्यालोचनमतप्यत कृतवानित्यर्थः । अभिध्यानं कामना । 'बहु स्याम्' इत्यव्यतिरेकः ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 अधिकारे प्रकरणे । स आननदमयो रसः । ननु लब्धृलब्धव्यभावेऽप्यभेदः किं न स्यादत आह नहि लब्धैवेति । ननुलब्धृलब्धव्ययोर्भेदस्यावश्यकत्वे श्रुतिस्मृत्योर्बाधः स्यादित्याशङ्कते कथमिति । यावता यतस्त्वयेत्युक्तमतः श्रुतिस्मृती कथमित्यन्वयः । उक्तां शङ्कामङ्गीकरोति बाढमिति । तर्ह्यात्मन एवात्मना लभ्यत्वोक्तिबाधः अभेदादित्याशङ्क्य कल्पितभेदान्न बाध इत्याह तथापीति । अभेदेऽपीत्यर्थः । लौकिकः भ्रमः । आत्मनः स्वाज्ञानजभ्रमेण देहाद्यभिन्नस्य भेदभ्रान्त्या परमात्मनो ज्ञेयत्वाद्युक्तिरित्यर्थः । अन्वेष्टव्यो देहादिविविक्ततया ज्ञेयः, विवेकज्ञानेन लब्धव्यः साक्षात्कर्तव्यः, तदर्थं श्रोतव्यः, विज्ञानं निदिध्यानं साक्षात्कारो वा श्रुत्यन्तरस्यार्थानुवादादपौनरुक्त्यम् । ननु भेदः सत्य एवास्तु, तत्राह प्रतिषिध्यत इति । अत ईश्वराद्द्रष्टा जीवोऽन्यो नास्तीति चेज्जीवाभेदादीश्वरस्यापि मिथ्यात्वं स्यादत आह परमेश्वर इति । अविद्याप्रतिबिम्बत्वेन कल्पिताज्जीवाच्चिन्मात्र ईश्वरः पृथगस्तीति न मिथ्यात्वम् । कल्पितस्याधिष्ठानाभेदेऽप्यधिष्ठानस्य ततो भेद इत्यत्र दृष्टान्तमाह यथेति । सूत्रारूढः स्वतोऽपि मिथ्या, न जीव इत्यरुच्याभेदमात्रमिथ्यात्वे दृष्टान्तान्तरमाह यथावेति । ननु सूत्रबलाद्भेदः सत्य इत्यत आह ईदृशं चेति ।
कल्पितमेवेत्यर्थः । सूत्रे भेदः सत्य इति पदाभावात् , 'तदनन्यत्व' आदिसूत्राणाच्छ्रुत्यनुसाराच्चेति भावः ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 नन्वानन्दात्मकसत्त्वप्रचुरं प्रधानमानन्दमयमस्तु, तत्राह कामाच्चेति । अनुमानगम्यमानुमानिकम् । पुनरुक्तिमाशङ्क्याह
ईक्षतेरिति ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 अस्मिन्निति विषयसप्तमी आनन्दमयविषयकप्रबोधवतो जीवस्य तद्योगं यस्माच्छास्ति तस्मान्न प्रधानमिति योजना । जीवस्य प्रधानयोगोऽप्यस्तीत्यत आह तदात्मनेति । जीवस्य जीवाभेदोऽस्तीत्यत आह मुक्तिरिति । अदृश्ये स्थूलप्रपञ्चशून्ये, आत्मसम्बन्धमात्म्यं लिङ्गशरीरं तद्रहिते, निरुक्तं शब्दशक्यं तद्भिन्ने, निःशेषलयस्थानं निलयनं माया तच्छून्ये ब्रह्मणि, अभयं यथा स्यात्तथा यदैव प्रतिष्ठां मनसः प्रकृष्टां वृत्तिमेष विद्वांल्लभते अथ तदैवाभयं ब्रह्म प्राप्नोतीत्यर्थः । उतपि अरमल्पमप्यन्तरं भेदं यदैवैष नरः पश्यति अथ तदा तस्य भयमिति योजना इति । वृत्तिकारमतं दूषयति इदं त्विति । इह परव्याख्यायां विकारार्थके मयटिबुद्धिस्थे सत्यकस्मात्कारणं विना एकप्रकरणस्थस्य मयटः पूर्वं विकारार्थकत्वम् , अन्ते प्राचुर्यार्थकत्वमित्यर्धजरतीयं कथमिव केन दृष्टान्तेनाश्रीयत इतीदं वक्तव्यमित्यन्वयः । प्रश्नं मत्वाशङ्क्यते मान्त्रेति । स्पुटमुत्तरम् । किमान्तर इति न श्रूयते, किंवा वस्तुतोऽप्यान्तरं ब्रह्म न श्रूयत इति विकल्प्य आद्यमङ्गीकरोति अत्रोच्यतेयद्यपीति । विकारप्रायपाठानुग्रहीतमयट्श्रुतेः सावयवत्वलिङ्गाच्चेत्याह तथापीति । इष्टार्थस्य दृष्ट्या जातं सुखं प्रियम् , स्मृत्या मोदः, स चाभ्यासात्प्रकृष्टः प्रमोदः, आनन्दस्तु कारणम् , बिम्बचैतन्यमात्मा, शिरःपुच्छयोर्मध्यकायः ब्रह्म शुद्धमिति श्रुत्यर्थः । द्वितीयं प्रत्याह तत्र यदिति । यन्मन्त्रे प्रकृतं गुहानिहितत्वेन सर्वान्तरं ब्रह्म, तदिह पुच्छवाक्ये ब्रह्मशब्दात्प्रत्यभिज्ञायते । तस्यैव विज्ञापनेच्छया पञ्चकोशरूपा गुहा प्रपञ्चिता । तत्र तात्पर्यं नास्तीति वक्तुं कल्प्यन्त इत्युक्तम् । एवं पुच्छवाक्ये प्रकृतस्वप्रधानब्रह्मपरे सति न प्रकृतहान्यादिदोष इत्यर्थः । ब्रह्मणः प्रधानत्वं पुच्छश्रुतिविरुद्धमिति शङ्कते नन्विति । अत्र ब्रह्मशब्दात्प्रकृतस्वप्रधानब्रह्मप्रत्यभिज्ञाने सति पुच्छशब्दविरोधप्राप्तौ, एकस्मिन्वाक्ये प्रथमचरमश्रुतशब्दयोराद्यस्यानुपसञ्जातविरोधिनो बलीयस्त्वात् , पुच्छशब्देन प्राप्तगुणत्वस्य बाध इति मत्वाह प्रकृतत्वादिति । प्रकरणस्यान्यथासिद्धिमाह नन्विति । एकस्यैवगुणत्वं प्रधानत्वं च विरुद्धमित्याह अत्रोच्यत इति । तत्र विरोधनिरासायान्यतरसस्मिन्वाक्ये ब्रह्मस्वीकारे पुच्छवाक्ये ब्रह्म स्वीकार्यमित्याह अन्यतरेति । वाक्यशेषाच्चैवमित्याह अपिचेति । तत्तत्रब्रह्मणिश्लोकोऽपीत्यर्थः । पुच्छशब्दस्य गतिं पृच्छति कथं पुनरिति । त्वयापि पुच्छशब्दस्य मुख्यार्थो वक्तुमशक्यः, ब्रह्मण आनन्दमयलाङ्गूलत्वाभावात् । पुच्छदृष्टिलक्षणायां चाधारलक्षणा युक्ता, प्रतिष्ठापदयोगात् , ब्रह्मशब्दस्य मुख्यार्थलाभाच्च । त्वत्पक्षे ब्रह्मपदस्याप्यवयवलक्षकत्वादित्याह नैष दोष इति । पुच्छमित्याधारत्वमात्रमुक्तम् । प्रतिष्ठेत्वेकनीडत्वम् । एकं मुख्यं नीडमधिष्ठानं सोपादानस्य जगत इत्यर्थः । ननु वृत्तिकारैरपि तैत्तिरीयवाक्यं ब्रह्मणिसमन्वितमिष्टम् , तत्र किमुदाहरणभेदेनेत्याशङ्क्याह अपिचेति । यत्र सविशेषत्वं तत्र वाङ्मनसगोचरत्वमिति व्याप्तेरत्र व्यापकाभावोक्त्या निर्विशेषमुच्यत इत्याह निर्विशेषमिति । निवर्तन्ते अशक्ता इत्यर्थः । सविशेषस्य मृषात्वादभयं चायुक्तम् । अतो निर्विशेषज्ञानार्थं पुच्छवाक्यमेवोदाहरणमिति भावः । प्राचुर्यार्थकमयटा सविशेषोक्तौ निर्विशेषश्रुतिबाध उक्तः । दोषान्तरमाह अपिचेति । प्रत्ययार्थत्वेन प्रधानस्य प्राचुर्यस्य प्रकृत्यर्थो विशेषणम् , विशेषणस्य यः प्रतियोगी विरोधीति तस्याल्पत्वमपेक्षते, यथा विप्रमयो ग्राम इति शूद्राल्पत्वम् । अस्तु को दोषः, तत्राह तथाचेति । प्रकृत्यर्थप्राधान्ये त्वयं दोषो नास्ति, प्रचुरप्रकाशः सवितेत्यत्र तमसोऽल्पस्याप्यभानात् । परन्त्वानन्दमयपदस्य प्रचुरानन्दलक्षणादोषः स्यादिति मन्तव्यम् । किञ्च भिन्नत्वाद्घटवन्न ब्रह्मतेत्याह प्रतिशरीरमिति । नन्वभ्यस्यमानानन्दपदं लक्षणयानन्दमयपरमित्यभ्याससिद्धिरित्यत आह यदि चेति । आनन्दमयस्य ब्रह्मत्वे निर्णीते सत्यानन्दपदस्य तत्परत्वज्ञानादभ्याससिद्धिः, तत्सिद्धौ तन्निर्णय इति परस्पराश्रय इति भावः । अयमभ्यासः पुच्छब्रह्मण इत्याह तस्मादिति । उपसङ्क्रमणं बाधः । ननु 'स य एवंवित्' इति ब्रह्मविदं प्रक्रम्योपसङ्क्रमणवाक्येन फलं निर्दिश्यते तत्तस्याब्रह्मत्वे न सिध्यतीति शङ्कते नन्विति । उपसङ्क्रमणं प्राप्तिरित्यङ्गीकृत्य विशिष्टप्राप्त्युक्त्या विशेषणप्राप्तिफलमुक्तमित्याह नैष इति । ज्ञानेन कोशानां बाधस्तदिति सिद्धान्ते बाधावधिप्रत्यगानन्दलाभोऽर्थादुक्त उत्तरश्लोकेन स्फुटीकृत इत्याह तदपीति । तदपेक्षत्वादिति । कामयितृपुच्छब्रह्मविषयत्वादित्यर्थः । यदुक्तं पञ्चमस्थानस्थत्वादानन्दमये ब्रह्मवल्ली समाप्ता, भृगुवल्लीवदिति, तत्राह यत्त्विति । या त्वित्यर्थः । मयट्श्रुत्या सावयवत्वादिलिङ्गेन च स्थानं बाध्यमिति भावः । गोचराति क्रमो गोचरत्वाभावः । वेदसूत्रयोर्विरोधे 'गुणे त्वन्याय्यकल्पना' इति सूत्राण्यन्यथा नेतव्यानीत्याह सूत्राणीति । पूर्वमीक्षतेः संशयाभावादिति युक्त्या प्रायपाठो न निश्चायक इत्युक्तम् । तर्ह्यत्र पुच्छपदस्याधारावयवयोर्लक्षणासाम्यात्संशयोऽस्तीत्यवयवप्रायपाठो निश्चायक इति पूर्वाधिकरणसिद्धान्तयुक्त्यभावेन पूर्वपक्षयति पुच्छशब्दादिति । तथाच प्रत्युदाहरणसङ्गतिः । पूर्वपक्षे सगुणोपास्तिः, सिद्धान्ते निर्गुणप्रमितिः फलम् । वेदान्तवाक्यसमन्वयोक्तेः श्रुत्यादिसङ्गतयः स्फुटा एव । सूत्रस्थानन्दमयपदेन तद्वाक्यस्थं ब्रह्मपदं लक्ष्यते । विक्रियतेऽनेनेति विकारोऽवयवः । प्रायापत्तिरिति । अवयवक्रमस्य बुद्धौ प्राप्तिरित्यर्थः । अत्र हि प्रकृतस्य ब्रह्मणो ज्ञानार्थं कोशाः पक्षित्वेन कल्प्यन्ते, नात्र तात्पर्यमस्ति । तत्रानन्दमयस्यापि अवयवान्तरोक्त्यनन्तरं कस्मिंश्चित्पुच्छे वक्तव्ये प्रकृतं ब्रह्म पुच्छपदेनोक्तम् । तस्यानन्दमयाधारत्वेनावश्यंवक्तव्यत्वादित्यर्थः ।
तद्धेतुव्यपदेशाच्च ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 तस्य ब्रह्मणः सर्वकार्यहेतुत्वव्यपदेशात् । प्रियादिविशिष्टत्वाकारेणानन्दमयस्य जीवस्य कार्यत्वात्तं प्रति शेषत्वं ब्रह्मणो न युक्तमित्यर्थः ।
मान्त्रवर्णिकमेव च गीयते ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 'ब्रह्मविदाप्नोति परम्' इति यस्य ज्ञानान्मुक्तिरुक्ता, यत् 'सत्यं ज्ञानम्' इति मन्त्रोक्तं ब्रह्म, तदत्रैव पुच्छवाक्ये गीयते, ब्रह्मपदसंयोगात् । नानन्तमयवाक्य इत्यर्थः ।
नेतरो अनुपपत्तेः ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 इतरा आनन्दमयो जीवोऽत्र न प्रतिपाद्यः । सर्वस्रष्टृत्वाद्यनुपपत्तेरित्यर्थः ।
भेदव्यपदेशाच्च ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 अयमानन्दमयो ब्रह्मरसं लब्ध्वानन्दी भवतीति भेदोक्तेश्च तस्याप्रतिपाद्यतेत्यर्थः । आनन्दमयो ब्रह्म, तैत्तरीयकपञ्चमस्थानस्थत्वात्भृगुवल्लीस्थानन्दवदित्याशङ्क्याह
कामाच्च नानुमानापेक्षा ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 काम्यत इति काम आनन्दः तस्य भृगुवल्ल्यां पञ्चमस्य ब्रह्मत्वदृष्टेरानन्दमयस्यापि ब्रह्मत्वानुमानापेक्षा न कार्या, विकारार्थकमयड्विरोधादित्यर्थः । भेदव्यपदेशाच्चेत्सगुणं ब्रह्मात्र वेद्यं स्यादित्याशङ्क्याह
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 गुहानिहितत्वेन प्रतीचि 'स एकः' इत्युपसंहृते पुच्छवाक्योक्ते ब्रह्मण्यहमेव परं ब्रह्मेति प्रबोधवत आनन्दमयस्य 'यदा हि' इति शास्त्रं ब्रह्मभावं शास्ति, अतो निर्गुणब्रह्मैक्यज्ञानार्थं जीवभेदानुवाद इत्यभिप्रेत्याह
अपराण्यपीति ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 अन्तस्तद्धर्मोपदेशात् । छान्दोग्यवाक्यमुदाहरति अथ य इति । अथेत्युपास्तिप्रारम्भार्थः । हिरण्मयो ज्योतिर्विकारः, पुरुषः पूर्णोऽपि मूर्तिमानुपासकैर्दृश्यते । मूर्तिमाह हिरण्येति । प्रणखो नाखाग्रं तेन सहेत्यभिविधावाङ् । नेत्रयोर्विशेषमाहतस्येति । कपेर्मर्कटस्य आसः पुच्छभागोऽत्यन्ततेजस्वी तत्तुल्यं पुण्डरीकं यथा दीप्तिमदेवं तस्य पुरुषस्याक्षिणी, सद्योविकसितरक्ताम्भोजनयन इत्यर्थः । उपासनार्थमादित्यमण्डलं स्थानम् , रूपं चोक्त्वा नाम करोति तस्योदिति । तन्नाम निर्वक्ति स इति । उदित उद्गतः । सर्वपाप्मास्पृष्ट इत्यर्थः । नामज्ञान फलमाह उदेति हेति । देवतास्थानमादित्यमधिकृत्योपास्त्युक्त्यनन्तरमात्मानं देहमधिकृत्यापि तदुक्तिरित्याह अथेति । पूर्वत्र ब्रह्मपदमानन्दमयपदमानन्दपदाभ्यासश्चेति मुख्यत्रितयादिबहुप्रमाणवशान्निर्गुणनिर्णयवत् , रूपवत्त्वादिबहुप्रमाणवशाज्जीवो हिरण्मय इतिपूर्वसिद्धान्तदृष्टान्तसङ्गत्या पूर्वमुत्सर्गतः सिद्धनिर्गुणसमन्वयस्यापवादार्थं पूर्वपक्षयति संसारीति । अत्र पूर्वोत्तरपक्षयोर्जीवब्रह्मणोरुपास्तिः फलम् । अक्षिणीत्याधारश्रवणाच्च संसारीति सम्बन्धः । श्रुतिमाह स एष इति । आदित्यस्थः पुरुषः, अमुष्मादादित्यादूर्ध्वगा ये केचन लोकास्तेषामीश्वरो देवभोगानां चेत्यर्थः । स एषोऽक्षिस्थः पुरुष एतस्मादक्ष्णोऽधस्तना ये लोकाः, ये च मनुष्यकामा भोगास्तेषामीश्वर इति मर्यादा श्रूयते । अतः श्रुतेश्च संसारीत्यर्थः । 'एष सर्वेश्वरः' इत्यविशेषश्रुतेरिति सम्बन्धः । भूताधिपतिर्यमः, भूतपाल इन्द्रादिश्च एष एव । किञ्च जलानामसङ्कराय लोके विधारको यथा सेतुः, एवमेषां लोकानां वर्णाश्रमादीनां मर्यादाहेतुत्वात्सेतुरेष एव । अतः सर्वेशवर इत्यर्थः । सूत्रं व्याचष्टे य एष इति । यद्यप्येकस्मिन्वाक्ये प्रथमश्रुतानुसारेण चरमं नेयम् , तथाप्यत्र प्रथमं श्रुतं रूपवत्वं निष्फलम् , ध्यानार्थमीश्वरे नेतुं शक्यं च । सर्वपाप्मासङ्गित्वं सर्वात्मैकत्वं तु सफलम् , जीवे नेतुमशक्यञ्चेति प्रबलम् । नच 'न ह वै देवान्पापं गच्छति' इति श्रुतेरादित्यजीवस्यापि पाप्मास्पर्शित्वमिति वाच्यम् । श्रुतेरधुना कर्मानधिकारिणां देवानां क्रियमाणपाप्मासंम्बन्धे तत्फलास्पर्शे वा तात्पर्यात् , तेषां सञ्चितपापाभावे 'क्षीणे पुण्ये मर्त्यलोकं विशन्ति' इत्ययोगादित्यभिप्रेत्याह सर्वपाप्मापगमश्च परमात्मन एवेति । सार्वात्म्यमाह तथेति । अत्र तच्छब्दैश्चाक्षुषः पुरुष उच्यते । ऋगाद्यपेक्षया लिङ्गव्यत्ययः । उक्थं शस्त्रविशेषः, तत्साहचर्यात्साम स्तोत्रम् , उक्थादन्यच्छस्त्रमृगुच्यते, यजुर्वेदो यजुः, ब्रह्म त्रयो वेदा इत्यर्थः । पृथिव्याग्न्याद्यात्मक इति । आधिदैवतमृक्पृथिव्यन्तरिक्षद्युनक्षत्रादित्यगतशुक्लभारूपा पञ्चविधा श्रुत्युक्ता, साम चाग्निवाय्वादित्यचन्द्रादित्यगतातिकृष्णरूपमुक्तं पञ्चविधम् । अध्यात्मं तु ऋक् , वाक्चक्षुःश्रोत्राक्षिस्थशुक्लभारूपा चतुर्विधा, साम च प्राणच्छायात्ममनोऽक्षिगतातिनीलरूपं चतुर्विधमुक्तम् । एवं क्रमेण ऋक्सामे अनुक्रम्याह श्रुतिःतस्येति । यौ सर्वात्मकर्क्सामात्मकौ गेष्णावमुष्यादित्यस्थस्य, तावेवाक्षिस्थस्य गेष्णौ पर्वणीत्यर्थः । तच्चेति । ऋत्क्सामगेष्णत्वमित्यर्थः । सर्वगानगेयत्वं लिङ्गान्तरमाह तद्य इति । तत्तत्र लोके, धनस्य सनिर्लाभो येषां ते धनसनयः, विभूतिमन्त इत्यर्थः । ननु लोके राजानो गीयन्ते नेश्वर इत्यत आह यद्यदिति । पशुवित्तादिर्विभूतिः, श्रीः कान्तिः, ऊर्जितत्वं बलम् , तद्युक्तं सत्वं राजादिकं मदंश एवेति तद्गानमीश्वरस्यैवेत्यर्थः । निरङ्गुशमनन्याधीनम् । एषा विचित्ररूपा मूर्तिर्मायाविकृतित्वान्माया मया सृष्टेत्यर्थः । तदुक्तम् 'अशब्दम्' इत्यादिवाक्यं तंज्ञेयपरमित्याह अपिचेति । तर्हि रूपं कुतः, तत्राह सर्वेति । यत्र तूपास्यत्वेनोच्यते तत्रेत्यध्याहृत्य सर्वकारणत्वात्प्राप्तरूपवत्वं 'सर्वकर्मा' इत्यादिश्रुत्या निर्दिश्यत इति योजना । मर्यादावदैश्वर्यमीश्वरस्य नेत्युक्तं निराकरोति ऐश्वर्येति ।
अध्यात्माधिदैवतध्यानयोर्विभागः पृथक्प्रयोगस्तदपेक्षमेव, नत्वैश्वर्यस्य परिच्छेदार्थमित्यर्थः ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 ननु उपास्योद्देशेनोपास्तिविधेर्विधेयक्रियाकर्मणोर्व्रीह्यादिवदन्यतः सिद्धिर्वाच्येत्याशङ्क्याह भेदेति । आदित्यजीवादीश्वरस्य भेदोक्तेः श्रुत्यन्तरे जीवादन्य ईश्वरः सिद्ध इति सूत्रार्थमाह अस्तीति । आदित्ये स्थितरश्मिनिरासार्थमादित्यादन्तर इति जीवं निरस्यति यमिति । अशरीरस्य कथं नियन्तृत्वम् , तत्राह यस्येति । अन्तर्यामिपदार्थमाह य इति । तस्यानात्मत्वनिरासायाह एष त इति ।
ते तव स्वरूपमित्यर्थः । आदित्यान्तरत्वश्रुतेः समानत्वादित्यर्थः । तस्मात्पर एवादित्यादिस्थानक उद्गीथे उपास्य इति सिद्धम् ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 भवतु रूपवत्त्वादिदुर्बललिङ्गानां पापास्पर्शित्वाद्यव्यभिचारिब्रह्मलिङ्गैरन्यथानयनम् । इह त्वाकाशपदश्रुतिर्लिङ्गाद्बलीयसीति प्रत्युदाहणेन प्राप्ते प्रत्याह आकाशस्तल्लिङ्गादिति । छान्दोग्यवाक्यमुदाहरति इदमिति । शालावत्यो ब्राह्मणो जैवलिं राजानं पृच्छति, अस्य पृथ्वीलोकस्यान्यस्य च क आधार इति । राजाब्रूते, 'आकाश इति ह' इति । 'यदेष आकाशः' इत्यानन्दत्वस्यासाधारणस्य श्रवणादाकाशो ब्रह्मेत्यवधारितम् । 'आकाशो वै नाम' इत्यत्र 'तद्ब्रह्म' इति वाक्यशेषादिति विभागः । निर्वहिता उत्पत्तिस्थितिहेतुः । ते नामरूपे, यदन्तरा यस्माद्भिन्ने । यत्र कल्पितत्वेन मध्ये स्त इति वार्थः । अत्र पूर्वपक्षे भूताकाशात्मनोद्गीथोपास्तिः, सिद्धान्ते ब्रह्मात्मना इति फलम् । उपास्ये स्पष्टब्रह्मलिङ्गवाक्यसमन्वयोक्तेरापादं श्रुत्यादिसङ्गतयः । स्पष्टमत्र भाष्यम् । तेजःप्रभृतिषु वाय्वादेरपि कारणत्वादेवकारश्रुतिबाधः, सर्वश्रुतेश्चाकाशातिरिक्तविषयत्वेन सङ्कोचः स्यादित्याह सत्यं दर्शितमिति । ब्रह्मणस्तु सर्वात्मकत्वात् 'तस्मादेव सर्वम्' इति श्रुतिर्युक्तेति भावः । तथा सर्वलयाधारत्वम् , निरतिशयमहत्त्वम् , स्थितावपि परमाश्रयत्वमित्येतानि स्पष्टानि ब्रह्मलिङ्गानीत्याह तथा आकाशमित्यादिना । रातेर्धनस्य दातुः । रातिरिति पाठे बन्धुरित्यर्थः । लिङ्गान्तरमाह अपि चेति । दाल्भ्यशालावत्यौ ब्राह्मणौ राजा चेति त्रय उद्गीथविद्याकुशला विचारयामासुः, किमुद्गीथस्य परायणमिति । तत्र स्वर्गादागताभिरद्भिर्जीवितेन प्राणेन क्रियमाणोद्गीथस्य स्वर्ग एव परायणमिति दाल्भ्यपक्षमप्रतिष्ठादोषेण शालावत्यो निन्दित्वा स्वर्गस्यापि कर्मद्वारा हेतुरयं लोकः प्रतिष्ठेत्युवाच । तं शालावत्यस्य पक्षं 'अन्तवद्वै ते किल शालावत्यसाम' इति राजा निन्दित्वानन्तमेवाकाशं वक्ति । भूताकाशोक्तावन्तवत्त्वदोषतादवस्थ्यादित्यर्थः । नन्वाकाशोऽनन्त इति न श्रुतमित्याशङ्क्याह तं चेति । उद्गीथ आकाश एवेति सम्पादनादुद्गीथस्यानन्तत्वादिकं न स्वत इति भावः । स उद्गीथावयव ओङ्कारः, एष आकाशात्मकः, परः रसतमत्वादिर्गुणैरुत्कृष्टः, अतोऽक्षरान्तरेभ्यो वरीयान् । श्रेष्ठ इत्यर्थः । परः इत्यव्ययं सकारान्तं वा, परः कृत्स्नमिति प्रयोगात् । परश्चासौ वरेभ्योऽतिशयेन वरः । परोवरीयानित्यर्थः । प्राथम्यात् , श्रुतत्वाच्चाकाशशब्दो बलीयानित्युक्तं स्मारयति यत्पुनरिति । एवकारसर्वशब्दानुगृहीतानन्त्यादिबहुलिङ्गानामनुग्रहाय 'त्यजेदेकं कुलस्यार्थे' इति न्यायेनैकस्याः श्रुतेर्बाधो युक्त इत्याह अत्र ब्रूम इति । आकाशपदाद्भूतस्यैव प्रथमप्रतीतिरिति नियमो नास्तीत्यपिशब्देन द्योतितम् । तत्र युक्तिमाह दर्शितश्चेति । आकाशपदाद्गौणार्थस्य ब्रह्मणोऽपि प्रथमप्रतीतिरस्ति, तस्य तत्पर्यायाणां च ब्रह्मणि प्रयोगप्राचुर्यादिति भावः । अक्षरे कूटस्थे व्योमन् व्योम्नि ऋचो वेदाः सन्ति । प्रमाणत्वेन यस्मिन्नक्षरे विश्वे देवा अधिष्ठिता इत्यर्थः । ओङ्कारः कं सुखं ब्रह्म खं व्यापकमित्युपासीत । श्रुत्यन्तरप्रयोगमाह खं पुराणमिति । व्याप्यनादि ब्रह्मेत्यर्थः । 'कं ब्रह्म खं ब्रह्म' इति छान्दोग्यम् , 'ओं खं ब्रह्म खं पुराणम्' इति बृहदारण्यकमिति भेदः । किञ्च तत्रैव प्रथमानुसारेणोत्तरं नेयम् , यत्र तन्नेतुं शक्यम् । यत्र त्वशक्यं तत्रोत्तरानुसारेण प्रथमं नेयमित्याह वाक्येति । तस्मादुपास्ये ब्रह्मणि वाक्यं समन्वितमित्युपसंहरति
तस्मादिति ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 आकाशवाक्योक्तन्यायं तदुत्तरवाक्येऽतिदिशति अत एव प्राणः । उद्गीथप्रकरणमिति ज्ञापनार्थमुद्गीथ इति भाष्यपदम् । उद्गीथप्रकरणे श्रूयत इत्यन्वयः । कश्चिदृषिश्चाक्रायणः प्रस्तोतारमुवाच, हे प्रस्तोतः, या देवता प्रस्तावं सामभक्तिमनुगता ध्यानार्थम् , तां चेदज्ञात्वा मम विदुषो निकटे प्रस्तोष्यसि मूर्धा ते पतिष्यतीति । ततो भीतः सन् पप्रच्छ, कतमा सा देवतेति । उत्तरम् , प्राण इति । प्राणमभिलक्ष्य सम्यग्विशन्ति लीयन्ते, तमभिलक्ष्योज्जिहते उत्पद्यन्त इत्यर्थः । अतिदेशत्वात्पूर्ववत्संशयादि द्रष्टव्यमित्युक्तं विवृणोति प्राणेति । मनौपाधिको जीवः प्राणेन ब्रह्मणा बध्यते सुषुप्तावेकीभवति । प्राणस्य वायोः प्राणम्प्रेरकं तस्य सत्तास्फूर्तिप्रदमात्मानं ये विदुस्ते ब्रह्मविद इत्यर्थः । पूर्वेण गतर्थात्वात्पृथक्सूत्रं व्यर्थमिति शङ्कते ननु पूर्ववदिति । अधिकाशङ्कानिरासार्थमतिदेशसूत्रमिति मत्वा शङ्कामाह न । मुख्येऽपीति । तर्हि तदा चक्षुरप्येतीत्येवंप्रकारेण सर्वत्र सम्बन्धः । नन्वत्रेन्द्रियाणां प्राणे लयोदयौ श्रूयेते, तावता महाभूतलयादिप्रतिपादकवाक्यशेषोपपत्तिः कथमित्यत आह इन्द्रियसारत्वादिति । 'तस्य ह्येष रसः' इति श्रुतेः । इन्द्रियाणि लिङ्गात्मरूपाणि अपञ्चीकृतभूतानां साराणि तेषां लयाद्युक्त्या भूतानामपि प्राणे लयादिसिद्धेः वाक्यशेषोपपत्तिरित्यर्थः । अब्रह्मसहपाठाच्च प्राणो न ब्रह्मेत्याह अपि चेति । उद्गातृप्रतिहर्तृभ्यामुद्गीथे प्रतिहारे च का देवतेति पृष्टेन चाक्रायणेनादित्योऽन्नं च निर्दिश्यते । 'आदित्य इति होवाच' 'अन्नमिति होवाच' इति श्रुतावित्यर्थः । सामान्यं सन्निधानम् । संनिध्यनुग्रहीतप्रथमश्रुतप्राणश्रुत्या मुख्यप्राणनिर्णये तद्दृष्ट्या प्रस्तावोपास्तिरिति पूर्वपक्षफलम् , सिद्धान्ते ब्रह्मदृष्टिरूपोपास्तिः । तस्याधिकरणस्यातिदेशत्वमेव पूर्वेण सङ्गतिरिति विभागः । भवन्तीति भूतानीति व्युत्पत्या यत्किञ्चिद्भवनधर्मकं कार्यमात्रम् , तस्य लयोदयौ वायुविकारे प्राणे न युक्तावित्युक्त्वा भूतशब्दस्य रूढार्थग्रहेऽपि लयादेर्ब्रह्मनिर्णायकत्वमित्याह यदापीति । भैतिकप्राणस्य भूतयोनित्वायोगादित्यर्थः । तस्य तद्योनित्वं श्रुत्याशङ्कते नन्विति । अथ यदा सुषुप्तो जीवः प्राणे ब्रह्मण्येकीभवति तदा एनं प्राणं सविषयवागादयोऽपियन्तीत्यर्थः । अत्र जीवाभिन्नत्वे सर्वलयाधारत्वलिङ्गान्न मुख्यः प्राण इत्याह तत्रापीति । वाक्यान्तरसंनिध्यपेक्षया स्ववाक्यगतंलिङ्गं बलीय इत्याह तदयुक्तमिति । एकवाक्यत्वं वाक्यशेषः तस्य बलं तद्गतं लिङ्गं तेनेत्यर्थः । प्राणमेवेत्यवधारणेन सर्वभूतप्रकृतित्वलिङ्गेन च प्राणपदेन तत्कारणं ब्रह्म लक्ष्यमित्याह तदाकाशशब्दस्येवेति । वृत्तिकृतामुदाहरणं संशयाभावेनायुक्तमित्याह अत्रेत्यादिना । शब्दभेदमुक्त्वा प्रकरणं प्रपञ्चयति
यस्य चेति ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 ज्योतिश्चरणाभिधानात् । छान्दोग्यमेवोदाहरति इदमिति । गायत्र्युपाधिकब्रह्मोपास्त्यानन्तर्यार्थोऽथशब्दः । अतो दिवो द्युलोकात्परः परस्ताद्यज्ज्योतिर्दीप्यते तद्यतदिदमिति जाठराग्नावध्यस्यते । कुत्र दीप्यते, तत्राह विश्वत इति । विश्वस्मात्प्राणिवर्गादुपरि सर्वस्माद्भूरादिलोकादुपरि ये लोकास्तेषूत्तमेषु न विद्यन्ते उत्तमा येभ्य इत्यनुत्तमेषु सर्वसंसारमण्डलातीतं परं ज्योतिरिदमेव, यद्देहस्थमित्यर्थः । अस्य पूर्वेणागतार्थत्वं वदन्प्रत्युदाहरणसङ्गतिमाह अर्थान्तरेति । अत्र स्ववाक्ये स्पष्टब्रह्मलिङ्गाभावेऽपि 'पादोस्य' इति पूर्ववाक्ये भूतपादत्वं लिङ्गमस्तीति पादसङ्गतिः । पूर्वोत्तरपक्षयोर्जडब्रह्मज्योतिषोरुपास्तिः फलमिति भेदः । नन्वज्ञानतमोविरोधित्वाद्ब्रह्मापि ज्योतिःपदशक्यतया प्रसिद्धमस्ति, नेत्याह चक्षुरिति । शर्वर्यां रात्रौ भवं शार्वरम् । नीलमिति यावत् । अनेनावरकत्वाद्रूपवत्त्वाच्च कुड्यवद्भावरूपं तम इत्यर्थादुक्तं भवति । ज्योतिःश्रुतेरनुग्राहकलिङ्गान्याह तथेत्यादिना । भास्वररूपात्मिका दीप्तिस्तेजस एव लिङ्गमित्याह न हीति । मास्तु मर्यादेत्याशङ्क्य श्रुतत्वान्मैवमित्याह परो दिव इति । मर्यादां ब्रूत इति शेषः । ब्रह्मवत्कार्यस्यापि मर्यादायोगान्निरर्थकं ब्राह्मणमिति कश्चिदाक्षिपति नन्विति । एकदेशी ब्रूते अस्त्विति । स्वर्गादौ जातं किञ्चिदतीन्द्रियं तेजो दिवः परस्तादस्ति, श्रुतिप्रामाण्यादित्यर्थः । अध्ययनविध्युपात्तश्रुतेर्निष्फलं वस्तु नार्थ इत्याक्षिप्य ब्रूते नेति । ध्यानं फलमित्याशङ्क्य निष्फलस्य क्वापि ध्यानं नास्तीत्याह इदमेवेत्यादिना । प्रयोजनान्तरं तमोनाशादिकम् । अत्रिवृत्कृतं तेजोऽङ्गीकृत्याफलत्वमुक्त्वा तदेव नास्तीत्याह तासामिति । तेजोऽबन्नानां देवतानामेकैकं द्विधा विभज्य पुनश्चैकैकं भागं द्वेधा कृत्वा स्वभागादितरभागयोर्निक्षिप्य तन्त्रिगुणरज्जुवन्त्रिवृत्तं करवाणीत्यविशेषोक्तेर्नास्त्यत्रिवृत्कृतं किञ्चिदित्यर्थः । किञ्चात्र 'यदतः परः' इति यच्छब्देनान्यतः प्रसिद्धं द्युमर्यादत्वं ध्यानायानूद्यते न चात्रिवृत्कृतस्य तस्य तत्क्वचित्प्रसिद्धमित्याह न चेति । एकदेशिमते निरस्ते साक्षात्पूर्वपक्षी ब्रूते अस्तु तर्हीति । प्रदेशविशेषः दिवः परस्ताद्देदीप्यमानः सूर्यादितेजोवयवविशेषः, तस्य परिग्रह उपसनार्थो न विरुद्ध्यत इत्यन्वयः । स एव कौक्षेये ज्योतिषि उपास्यते । तस्यापि तेजस्त्वादिति भावः । ब्रह्मणोऽपि ध्यानार्थं प्रदेशस्थत्वं कल्प्यताम् , नेत्याह नत्विति । निष्प्रदेशस्य निरवयवस्य विशेषेऽपि दिवः परस्ताद्देदीप्यमानब्रह्मावयवकल्पना भागिनी युक्ता न त्वित्यन्वयः । अप्रमाणिकगौरवापातादिति भावः । ततः किम् , तत्राह सारूप्येति । यथा एकत्वसाम्याद्भूरितिव्याहृतौ प्रजापतेः शिरोदृष्टिः श्रुता तथा जाठराग्नावब्रह्मत्वं घोषादिश्रुत्या प्रसिद्धमिति जडज्योतिष्ट्वं साम्यं वाच्यमित्यर्थः । यद्देहस्पर्शनेनौष्ण्यज्ञानं प्रसिद्धं सैषा तस्य जाठराग्नेर्दृष्टिः, यत्कर्णपिधानेन घोषश्रवणम् , सैषा तस्य श्रुतिरित्यर्थः । ज्योतिषो जडत्वे लिङ्गान्तरमाह तदेतदिति । ज्योतिरित्यर्थः । चक्षुष्यश्चक्षुर्हितः सुन्दरः, श्रुतो विख्यातः । न चान्यदपीति । ब्रह्मलिङ्गमपि किञ्चिदन्यन्नास्तीत्यन्वयः । ननु 'त्रिपादस्यामृतं दिवि' इति पूर्ववाक्योक्तं ब्रह्मात्र ज्योतिःपदेन गृह्यतामित्याशङ्क्याह न चेति । ननु सर्वात्मकत्वामृतत्वाभ्यां ब्रह्मोक्तमित्यत आह अथापीति । कथञ्चिच्छन्दोद्वारेत्यर्थः । दिवि दिव इति विभक्तिभेदान्न प्रत्यभिज्ञेत्यर्थः । प्रकृतेर्जातं प्राकृतम् , कार्यमित्यर्थः । आचारं निरस्यति पादेति । 'गायत्री वा इदं सर्वं भूतम्' 'वाग्वै गायत्री' 'येयं पृथिवी' 'यदिदं शरीरम्' 'यदस्मिन्पुरुषे हृदयम्' 'इमे प्राणाः' इति भूतवाक्पृथिवीशरीरहृदयप्राणात्मिका षड्विधा षड्भिरक्षरैश्चतुष्पदा गायत्रीति । यदुक्तं तावान् तत्परिमाणः सर्वः प्रपञ्चोऽस्य गायत्र्यनुगतस्य ब्रह्मणो महिमा विभूतिः, पुरुषस्तु पूर्णब्रह्मरूपः, अतः प्रपञ्चाज्ज्यायानधिकः । आधिक्यमेवाह पाद इति । सर्वं जगदेकः पादोऽंशः, 'विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्' इति स्मृतेः । अस्य पुरुषस्य दिवि स्वप्रकाशस्वरूपे त्रिपादमृतं रूपमस्ति, दिवि सूर्यमण्डले वा ध्यनार्थमस्ति, कल्पिताज्जगतो ब्रह्मस्वरूपामनन्तमस्तीत्यर्थः । यथा लोके पादात्पादत्रयमधिकं तथेदमधिकमिति बोधनार्थं त्रिपादमृतमित्युक्तम् , न त्रिपादत्वं विवक्षितमिति मन्तव्यम् । 'यदतः परः' इति यच्छब्दस्य प्रसिद्धार्थवाचित्वात्पूर्ववाक्यप्रसिद्धं ब्रह्म ग्राह्ममित्याह तत्रेति । ननु 'यदाग्नेयोऽष्टाकपालः' इत्यत्र यत्पदस्याप्रकृतार्थकत्वं दृष्टमित्यत आह तत्परित्यज्येति । तत्र यागस्यान्यतः प्रसिद्धेरभावेनापूर्वत्वादगत्या यदोऽप्रसिद्धार्थत्वमाश्रितम् । इह तु पूर्ववाक्यप्रसिद्धस्य ब्रह्मणो द्युसम्बन्धेन प्रत्यभिज्ञातस्य यदर्थत्वनिश्चयाद्यत्पदैकार्थकज्योतिःपदस्यापि स एवार्थ इत्यर्थः । सन्दंशन्यायादप्येवमित्याह न केवलमिति । 'सर्वं खल्विदं ब्रह्म' इत्युत्तरत्र ब्रह्मानुवृत्तेर्मध्यस्थं ज्योतिर्वाक्यं ब्रह्मपरमित्यर्थः । प्रकरणादिति । प्रकृतापेक्षयत्पदश्रुत्या द्युसम्बन्धभूतपादत्वादिलिङ्गैश्चेत्यर्थः । अतः प्रकरणाज्ज्योतिःश्रुतिबाधो न युक्त इति निरस्तम् । अविशेषकत्वादिति । ब्रह्मव्यावर्तकत्वाभावादित्यर्थः । येन चेतसा चैतन्येनेद्धः प्रकाशितः सूर्यस्तपति प्रकाशयति तं बृहन्तमवेदविन्न मनुत इत्यर्थः । ज्योतिःशब्दस्य कार्यज्योतिष्येव शक्तिरित्यङ्गीकृत्य कारणब्रह्मलक्षकत्वमुक्त्वा ब्रह्मण्यपि शक्तिमाह यद्वेति । गाढान्धकारे वाचैव ज्योतिषा लोक आसनादिव्यवहारं करोतीत्यर्थः । आज्यं जुषतां पिबतां मनो ज्योतिः प्रकाशकं भवति इत्याज्यस्तुतिः । यथा गच्छन्तमनुगच्छतः स्वस्यापि गतिरस्ति तथा सर्वस्य स्वनिष्ठं भानं स्यादित्यत आह तस्य भासेति । तत्कालानवच्छिन्नं ब्रह्म सूर्यादिज्योतिषां साक्षिभूतमायुरमृतमिति च देवा उपासत इत्यर्थः । योषितोऽग्नित्ववत्द्युमर्यादत्वादिकं ध्यानार्थं कल्पितं ब्रह्मणो युक्तमित्याह अत्रोच्यत इत्यादिना । दिवः परमपीत्यन्वयः । आरोप्यस्य ध्येयस्यालम्बनस्य च सादृश्यनियमो नास्तीत्याह परस्यापीति । भविष्यति ब्रह्मज्योतिष इति शेषः । 'तं यथा यथोपासते तथा तथा फलं भवति' इति श्रुतेरित्याह न हीयत इति । ज्ञानफलवदुपास्तिफलमेकरूपं किं न स्यादत आह यत्र हीति । ज्ञेयैकत्वादित्यर्थः । ध्येयं तु नानेत्याह यत्र त्विति । ईश्वरो जीवरूपेणान्नमत्तीत्यन्नादः अन्नस्यासमन्ताद्दाता वा वसु हिरण्यं ददातीति वसुदान इति गुणविशेषसम्बन्धं यो वेद स धनं विन्दते, दीप्ताग्निश्च भवति । नाम्नो वागुत्तमा, मनो वा प्रतीकं वाचो भूय इति प्रतीकविशेषध्यानश्रुतिसङ्ग्रहार्थमाद्यपदम् । संनिधेः श्रुतिर्बलीयसीति शङ्कते कथं पुनरिति । अथ प्रथमश्रुत्यनुसारेण चरमश्रुतिर्नीयत इत्याह नैष इति ।
सर्वनाम्ना स्वसामर्थ्येन स्वस्य सर्वनाम्नः सामर्थ्यं संनिहितवाचित्वं तद्बलेन परामृष्टे सतीति योजना । अर्थाद्यत्पदसामानाधिकरण्यादित्यर्थः ॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 छन्दोभिधानाद्ब्रह्म प्रकृतं नास्तीति शङ्कामेकदेशी दूषयति कथमिति । शङ्कां साधयति नैतदित्यादिना । चतुष्पदत्वादिकं पूर्वमेव व्याख्यातम् । य एतामेवमिति । वेदरहस्यभूतां मधुविद्यामेवमुक्तरीत्या यः कश्चिद्वेद तस्योदयास्तमयरहितब्रह्माप्राप्तिर्भवतीत्यर्थः । तथाच वेदत्वाद्गायत्र्यां ब्रह्मशब्दो युक्त इति भावः । गायत्रीशब्देन तदुपादानत्वेनानुगतब्रह्मलक्षणायां बीजमनुपपत्तिमाह न ह्यक्षरेति । ब्रह्मणोऽपि कथं सर्वात्मकत्वम् , तत्राह कार्यं चेति । नच गायत्र्या ध्यानार्थं सर्वात्मत्वारोप इति वाच्यम् , स्वतः सर्वात्मनो ध्यानसम्भवेनासदारोपायोगादीति भावः । 'तथाहि दर्शनम्' इति सूत्रशेषं व्याचष्टे तथान्यत्रेति । दृश्यत इति दर्शनम् । दृष्टमित्यर्थः । एतं परमात्मानं बह्वृचा ऋग्वेदिनो महत्युक्थे शस्त्रे तदनुगतमुपासते । एतमेवाग्निरहस्ये 'तमेतमग्निरित्यध्वर्यव उपासते' इति श्रुतेः यजुर्वेदिनोऽग्नौ उपासते । एतमेव छन्दोगाः सामवेदिनो महाव्रते क्रतौ उपासत इत्यैतरेयके दृष्टमित्यर्थः । गायत्रीशब्दो ब्रह्मलक्षक इति व्याख्याय गौण इत्याह अपर इति । साक्षादेव । वाच्यार्थग्रहणं विनैवेति यावत् । पूर्वं तूपास्यतया गायत्रीपदेनाजहल्लक्षणया गायत्रीब्रह्मणी द्वे अपि लक्षिते । नच गायत्री सर्वमित्यन्वयासम्भवः, घटो रूपीति पदार्थैकदेशे व्यक्तौ रूपान्वयवत् , गायत्रीपदार्थैकदेशे गायत्र्यनुगते ब्रह्मणि प्रधाने सर्वात्मकत्वान्वयसम्भवादिति भावः । तथाच सूत्रे सिद्धान्तभागस्यायमर्थः- तथा गायत्रीवच्चतुष्पात्वगुणसामान्यात् , चेतो ब्रह्मणि समर्प्यते येन स चेतोर्पणो गायत्रीशब्दस्तेन ब्रह्मण एव निगदादभिधानात् छन्दोभिधानमसिद्धमिति । अधुना 'तथाहि दर्शनम्' इति शेषं व्याचष्टे तथेति । संवर्गविद्यायामाधिदैवमग्निसूर्यचन्द्राम्भांसि वायौ लीयन्ते, अध्यात्मं वाक्चक्षुःश्रोत्रमनांसि प्राणमपियन्तीत्युक्तम् । ते वा एते पञ्चान्ये आधिदैविकाः, पञ्चान्ये आध्यात्मिकास्ते मिलित्वा दशसङ्ख्याकाः सन्तः कृतमित्युच्यन्ते । सन्ति हि कृतत्रेताद्वापरकलिसंज्ञकानि चत्वारि द्युतानि क्रमेण चतुरङ्कत्र्यङ्कद्व्यङ्कैकाङ्कानि । तत्र कृतं दशात्मकं भवति, चतुर्ष्वङ्केषु त्रयाणां त्रिषु द्वयोर्द्वयोरेकस्य चान्तर्भावात् । तथाच दशत्वगुणेन वाय्वादयः कृतशब्देनोच्यन्ते । एवं कृतत्वं वाय्वादीनामुपक्रम्याह सैषेति । विधेयापेक्षया स्त्रीलिङ्गनिर्देशः । विराट्पदं छन्तोवाचकम् , 'दशाक्षरा विराट्' इति श्रुतेः । दशत्वसाम्येन वाय्वादयो विराडित्युच्यन्ते । एवंच दशत्वद्वारा वाय्वादिषु कृतत्वं विराट्त्वं च ध्येयम् । तत्र विराट्त्वध्यानात्सर्वमस्यान्नं भवति, 'अन्नं विराट्' इति श्रुतेः । कृतत्वध्यानादन्नादो भवति, कृतद्यूतस्यान्नादत्वात् । कृतं हि स्वीयचतुरङ्गेषु त्र्यङ्कादिकमन्तर्भावयदन्नमत्तीव लक्ष्यते । अत एव कृतजयादितरद्यूतजयः श्रुत्युक्तः 'कृतायविजितायाधरेयाः संयन्ति' इति । अयो द्यूतम् , कृतसंज्ञोऽयः कृतायः स विजितो येन तस्मै, अधरेयास्त्र्यङ्कादयः अयाः संयन्ति उपनमन्ते । तेन जिता भवन्तीत्यर्थः । एवंच सा वाय्वादिदशात्मिका एषा कृतशब्दिता विराडन्नम् , कृतत्वादन्नादिनीत्यर्थः । सर्वथापीति ।
गायत्रीति पदस्य लक्षकत्वे गौणत्वेऽपि चेत्यर्थः । अत्रापर आहेत्यपरपदेन गौणत्वे स्वमतं नेति द्योतयति । अजहल्लक्षणापक्षे हि 'वाग्वै गायत्री' इति वागात्मत्वं गायति च त्रायते च इति निरुक्तनामकत्वं च गायत्र्या उपाधित्वेनोपास्यत्वादुपपन्नतरम् । गौणपक्षे गायत्रीत्यागात्तदुभयं सर्वात्मकत्वमात्रेणोपपादनीयम् । एवं गायत्रीपदस्य स्वार्थत्यागः, अप्रसिद्धचतुष्पात्त्वगुणद्वारा विप्रकृष्टलक्षणा चेति बह्वसमञ्जसम् ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 ननु 'गायत्री वा इदं सर्वम्' इति प्रथम गायत्रीश्रुतेः कथं लक्षणेत्याशङ्क्य वाक्यशेषगतसर्वात्मकत्वाद्यनेकबलवत्प्रमाणसंवादेन ब्रह्मणि तात्पर्यावगमादित्याह भूतादिपादेति । एवं पदार्थमाह इतश्चेति । सूत्रस्थादिपदार्थं दर्शयति भूतपृथिवीति । अत्र सूत्रभाष्यकारयोर्भूतादिभिश्चतुष्पदा गायत्रीति संमतम् , षडक्षरैश्चतुष्पात्वं वृत्तिकारोक्तमप्रसिद्धं चकारसूचितम् । युक्त्यन्तरमाह अपि चेति । ब्रह्मपरसूक्तोत्पन्नत्वाच्च तस्यास्तत्परत्वमित्याह पुरुषेति । ब्रह्मपदस्य छन्दोवाचित्वमुक्तं निरस्यति यद्वै तद्ब्रह्मेति । पूर्वस्यामृचि ब्रह्मोक्तावित्यर्थः । हृदयस्य चतुर्दिक्षूर्ध्वं च पञ्च सुषयः सन्ति । तेषु ब्रह्मस्थानहृन्नगरस्य प्रागादिद्वारेषु क्रमेण प्राणव्यानापानसमानोदानाः पञ्चद्वारपाला इति ध्यानार्थं श्रुत्या कल्पितम् । तत्र हृदयच्छिद्रस्थप्राणेषु ब्रह्मपुरुषत्वश्रुतिर्हृदि गायत्र्याख्यब्राह्मण उपासनासम्बन्धितायां ब्रह्मणो द्वारपालत्वाद्ब्रह्मपुरुषा इति सम्भवतीत्याह
पञ्च ब्रह्मेति ॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 दिवि दिव इति विभक्तिभेदात्प्रकृतप्रत्यभिज्ञा नास्तीत्युक्तं नोपक्षणीयमित्याह तत्परिहर्तव्यमिति । परिहारं प्रतीजानीते अत्रेति । सूत्रे नञर्थं वदन्परिहारमाह नायमिति । एवं सर्वत्र व्याख्येयम् । प्रधानप्रातिपदिकार्थद्युसम्बन्धेन प्रत्यभिज्ञाया विभक्त्यर्थभेदो न प्रतिबन्धकः, कथञ्चिदाधारस्यापि मर्यादात्वसम्भवात् । यथा वृक्षाग्रं स्वलग्नभागावच्छिन्नश्येनस्याधारः सन्नेव स्वालग्नभागावच्छिन्नस्य तस्यैव मर्यादा भवति, एवं दिवि सूर्ये हार्दाकाशे वा मुख्ये आधारे सब्रह्मदिवो मर्यदात्वं तदलग्नाकाशावच्छिन्नं ब्रह्म प्रति कल्पयित्वा दिवः परमित्युच्यत इत्यर्थः । यद्याकाशेन अनवच्छिन्नं ब्रह्म गृहीत्वा पञ्चम्या दिवो मर्यादात्वमेव मुख्यं तदा गङ्गायां घेष इतिवत्सप्तम्या सामीप्यलक्षणयाधारत्वं व्याख्येयमित्याह अपर इति ।
सम्बद्धं प्रत्याधारत्वं मुख्यं पूर्वमुक्तं दिव्येव सदिति । असम्बद्धं प्रति मर्यादात्वं मुख्यमधुनोच्यते दिवः परमपीति भेदः । तस्माज्ज्योतिर्वाक्यमुपास्ये ब्रह्मणि समन्वितमिति सिद्धम् ॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 प्राणस्तथानुगमात् । दिवोदासस्यापत्यं दैवोदासिः प्रतर्दनो नाम राजा युद्धेन पुरुषकारेण च कारणेनेन्द्रस्य प्रेमास्पदं गृहं जगाम । तं ह इन्द्र उवाच, प्रतर्दन वरं ते ददानीति । स होवाच प्रतर्दनः, यं त्वं मर्त्याय हिततमं मन्यसे तं वरं त्वमेवालोच्य मह्यं देहीति । तत इन्द्र इदमाह 'प्राणोऽस्मि' इत्यादि । मुख्यं प्राणं निरसितुं प्रज्ञात्मत्वमुक्तम् । निर्विशेषचिन्मात्रं निरस्यति तं मामिति । इदं प्राणस्येन्द्रदेवतात्वे लिङ्गम् । मुख्यप्राणत्वे लिङ्गमाह अथेति । वागादीनां देहधारणशक्त्यभावनिश्चयानन्तरमित्यर्थः । प्राणस्य देहधारकत्वमुत्थापकत्वं च प्रसिद्धमिति वक्तुं खल्वित्युक्तम् । प्राणस्य जीवत्वे वक्तृत्वं लिङ्गमाह न वाचमिति । आनन्दत्वादिकं ब्रह्मलिङ्गमाह अन्ते चेति । अनेकेषु लिङ्गेषु दृश्यमानेषु बलाबलनिर्णयार्थमिदमधिकरणममित्यगतार्थमाह अनेकलिङ्गेति । पूवर्त्र प्रकृतब्रह्मवाचकयच्छब्दबलाज्ज्योतिःश्रुतिःब्रह्मपरेत्युक्तम् , न तथेह प्राणश्रुतिभङ्गे किञ्चिद्बलमस्ति, मिथो विरुद्धानेकलिङ्गानामनिश्चायकत्वादिति प्रत्युदाहरणसङ्गत्या पूर्वपक्षयति तत्रेति । पूर्वं प्रधानप्रातिपदिकार्थबलात्विभक्त्यर्थबाधवद्वाक्यार्थज्ञानं प्रति हेतुत्वेन प्रधानानेकपदार्थबलादेकवाक्यताभङ्ग इति दृष्टान्तसङ्गतिर्वास्तु । पूर्वपक्षे प्राणाद्यनेकोपास्तिः, सिद्धान्ते प्रत्यग्ब्रह्मधीरिति विवेकः । तथा ब्रह्मपरत्वेन पदानामन्वयावगमादिति हेत्वर्थमाह तथाहीति । हिततमत्वकर्मक्षयादिपदार्थानां सम्बन्धो ब्रह्मणि तात्पर्यनिश्चायक उपलभ्यत इत्युक्तं विवृणोति उपक्रम इत्यादिना । यं मन्यसे तं वरं त्वमेव प्रयच्छेत्यर्थः । स यः कश्चिन्मां ब्रह्मरूपं वेदसाक्षादनुभवति, तस्य विदुषो लोको मोक्षो महतापि पातकेन न ह मीयते नैव हिंस्यते न प्रतिबध्यते ज्ञानाग्निना कर्मतूलराशेर्दग्धत्वादित्याह स य इति ।
साध्वसाधुनी पुण्यपापे । ताभ्यामस्पृष्टत्वम् , तत्कारयितृत्वम् , निरङ्कुशैश्वर्यं च सर्वमेतदित्यर्थः ॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 अहङ्कारवादेन स्वात्मवाचकशब्दैराचचक्षे, उक्तवानित्यर्थः । वाक्यस्य इन्द्रोपासनापरत्वे लिङ्गान्तरमाह तथा विग्रहेति । त्रीणि शीर्षाणि यस्येति त्रिशीर्षा त्वष्टुः पुत्रो विश्वरूपो नाम ब्राह्मणः तं हतवानस्मि । रौति यथार्थं शब्दयतीति रुत् वेदान्तवाक्यम् , तन्मुखे येषां ते रुन्मुखास्तेभ्योऽन्यान्वेदान्तबहिर्मुखान् यतीनरण्यश्वभ्यो दत्तवानस्मीत्यर्थः । इन्द्रे प्राणशब्दोपपत्तिमाह प्राणत्वं चेति । वदन्ति लौकिका अपीत्यर्थः । बलवाचिना प्राणशब्देन बलदेवता लक्ष्यत इति भावः । इन्द्रो हितप्रदातृत्वाद्धिततमः, कर्मानधिकारादपाप इत्येवं व्याख्येयानीत्याह निश्चिते चेति । किमिन्द्रपदेन विग्रहोपलक्षितं चिन्मात्रमुच्यते उत विग्रहः । आद्ये वाक्यस्य ब्रह्मपरत्वं सिद्धम् । न द्वितीय इत्याह अध्यात्मेति । आत्मनि देहेऽधिगत इत्यध्यात्मं प्रत्यगात्मा । स सम्बध्यते यैः शरीरस्थत्वादिभिरिन्द्रतनावसम्भावितैर्धर्मैस्ते अध्यात्मसम्बन्धास्तेषां भूमेत्यर्थः । आयुरत्र देहे प्राणवायुसञ्चारः । अस्तित्वे प्राणस्थितौ प्राणानामिन्द्रियाणां स्थितिरित्यर्थतः श्रुतिमाह अस्तित्व इति । 'अथातो निश्रेयसादानम्' इत्याद्या श्रुतिः । इन्द्रियस्थापकत्ववद्देहोत्थापकत्वमाह तथेति । वक्तृत्वमुक्त्वा सर्वाधिष्ठानत्वं दर्शितमित्याह इति चोपक्रम्येति । तत्तत्र नानाप्रपञ्चस्यात्मनि कल्पनायां यथा दृष्टान्तः, लोके प्रसिद्धस्य रथस्यारेषु नेमिनाभ्योर्मध्यस्थशलाकासु चक्रोपान्तरूपा नेमिरर्पिता, नाभौचक्रपिण्डिकायामरा अर्पिताः, एवं भूतानि पञ्च पृथिव्यादीनि मीयन्त इति, मात्राः भोग्याः शब्दादयः पञ्चेति दश भूतमात्राः प्रज्ञामात्रासु दशस्वर्पिताः । इन्द्रियजाः पञ्च शब्दादिविषयप्रज्ञाः मीयन्ते आभिरिति मात्राः पञ्च धीन्द्रियाणि । नेमिवद्ग्राह्यं ग्राहकेषु अरेषु कल्पितमित्युक्त्वा नाभिस्थानीये प्राणे सर्वं कल्पितमित्याह प्राणेऽर्पिता इति । स प्राणो मम स्वरूपमित्याह स म इति । तर्हि प्रत्यगात्मनि समन्वयो न तु ब्रह्मणि, तत्राह
अयमिति ॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 सूत्रमुत्तरम् । तद्व्याख्याति इन्द्र इति । जन्मान्तरकृतश्रवणादिना अस्मिञ्जन्मनि स्वतःसिद्धं दर्शनमार्षम् । विज्ञेयेन्द्रस्तुत्यर्थ उपन्यासो न चेत्कथं तर्हि स इति पृच्छति कथमिति । ब्रह्मज्ञानस्तुत्यर्थः स इत्याह विज्ञानेति । नियामकं ब्रूते यदिति । परेण । 'तस्य मे' इत्यादिना वाक्येनेत्यन्वयः । स्तुतिमाह एतदुक्तमिति । तस्माज्ज्ञानं श्रेष्ठमिति शेषः । स्तुतज्ञानविषय इन्द्र इत्यत आह
विज्ञेयं त्विति ॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 अहङ्कारवादस्य गतिं पृच्छति कथमिति । देहोत्थापनं जीवलिङ्गं किं न स्यात् , तत्राह शरीरधारणं चेति । सर्वे वागादयः प्राणा अहमहं श्रेष्ठ इति विवदमानाः प्रजापतिमुपजग्मुः । स च तानुवाच, यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरं पतिष्यति स वः श्रेष्ठ इति तथाक्रमेण वागादिषूत्क्रान्तेष्वपि मूकादिभावेन शरीरं स्वस्थमस्थात् । मुख्यप्राणस्य तु उच्चिक्रमिषायां सर्वेषां व्याकुलत्वाप्तौ तान्वागादीन्वरिष्ठः प्राण उवाच, यूयं मोहं मापद्यथ यतोऽहमेवैतत्करोमि । किं तत् , पञ्चधा प्राणापानादिभावेनात्मानं विभज्य एतद्वाति गच्छतीति वानं तदेव बाणमस्थिरं शरीरमवष्टभ्याश्रित्य धारयामीत्यर्थः । द्विवचनसहवासोत्क्रान्तिश्रुतेश्च न ब्रह्म ग्राह्यमित्याह जीवमुख्येति । अभेदनिर्देशमाह यो वा इति । भेदमाह सहेति । यदि जीवमुख्यप्राणयोर्लिङ्गादुपास्यत्वं तर्हि ब्रह्मणोऽपि लिङ्गानामुक्तत्वादुपासनं स्यात् । न चेष्टापत्तिः । उपक्रमादिन निश्चितैकवाक्यताभङ्गप्रसङ्गादित्याह नैतदेवमित्यादिना । नच स्वतन्त्रपदार्थभेदाद्वाक्यभेदः किं न स्यादिति वाच्यम् , जीवमुख्यप्राणयोरुक्तलिङ्गानां ब्रह्मणिनेतुं शक्यतया स्वातन्त्र्यासिद्धेः, अफलपदार्थस्य फलवद्वाक्यार्थशेषत्वेन प्रधानवाक्यार्थानुसारेण तल्लिङ्गनयस्योचितत्वाच्च । नहि प्रधानवाक्यार्थब्रह्मलिङ्गमन्यथा नेतुं शक्यम् , न वा तदुचितमित्याह नच ब्रह्मलिङ्गमिति । सूत्रशेषं व्याचष्टे आश्रितत्वाच्चेति । अन्यत्र 'अत एव प्राणः' इत्यादौ वृत्तेराश्रितत्वादिहापि तस्य ब्रह्मलिङ्गस्य योगाद्ब्रह्मपर एव प्राणशब्द इत्यर्थः । प्राणादिलिङ्गानि सर्वात्मके ब्रह्मण्यनायासेन नेतुं शक्यनीत्याह यत्त्वित्यादिना । यस्मिन्नेतौ प्रेर्यत्वेन स्थितौ तेनेतरेण ब्रह्मणा सर्वे प्राणादिव्यापारं कुर्वन्तीत्यर्थः । विशेषं परिच्छेदाभिमानमित्यर्थः । 'वक्तारं विद्यात्' इति न वक्तुर्ज्ञेयत्वमुच्यते, तस्य लोकसिद्धत्वात् , किन्तु तस्य ब्रह्मत्वं बोध्यते । तद्बोधाभिमुख्याय लिङ्गादय इत्यत्र श्रुत्यन्तरमाह यद्वाचेति । येन चैतन्येन वागभ्युद्यते स्वकार्याभिमुख्येन प्रेर्यते तदेव वागादिरगम्यं ब्रह्मेत्यर्थः । तत्त्वम्पदवाच्ययोः स्वरूपतो भेदस्ताभ्यामुपलक्ष्यात्मस्वरूपाभेदादेकत्वं निर्दिश्यत इत्याह नैष दोष इति । स्वमतेन सूत्रं व्याख्याय वृत्तिकृन्मतेन व्याचष्टे अथवेति । उपासनात्रित्वप्रसङ्गादिति पूर्वमुक्तम् । अत्र त्रिप्रकारकस्यैकब्रह्मविशेषेकस्यैकस्योपासनस्य विवक्षितत्वादित्यर्थः । अतो न वाक्यभेद इति भावः । देहचेष्टात्मकजीवनहेतुत्वं प्राणस्यायुष्ट्वं देहापेक्षया तस्य आमुक्तेरवस्थानादमृतत्वम् , उत्थापयतीत्युक्थत्वमिति प्राणधर्मः । जीवधर्मानाह अथेति । बुद्धिप्राणयोः सहस्थित्युत्क्रान्त्युक्त्यनन्तरमित्यर्थः । अत्र प्रज्ञापदेन साभासा जीवाख्या बुद्धिरुच्यते । तस्याः सम्भन्धीनि दृश्यानि सर्वाणि भूतानि यथैकं भवन्त्यधिष्ठानचिदात्मना तथा व्याख्यास्याम इत्युपक्रम्योक्तम् 'वागेव' इत्यादि । चक्षुरेवास्या एकमङ्गमदूदुहदित्यादिपर्यायाणां सङ्क्षिप्तार्थमुच्यते । उत्पन्नाया असत्कल्पनायाः साभासबुद्धेर्नामप्रपञ्चविषयित्वमर्धं शरीरम् , अर्थात्मकरूपप्रपञ्चविषयित्वमर्धं शरीरमिति मिलित्वा विषयित्वाख्यं पूर्णं शरीरमिन्द्रियसाध्यम् । तत्र कर्मेन्द्रियेषु वागेवास्याः प्रज्ञाया एकमङ्गं देहार्धमदूदुहत्पूरयामास । वागिन्द्रियद्वारा नामप्रपञ्चविषयित्वं बुद्धिर्लभत इत्यर्थः । चतुर्थी षष्ठ्यर्था । तस्याः पुनर्नाम किल चक्षुरादिना प्रतिविहिता ज्ञापिताभूतमात्रा रूपाद्यर्थरूपा परस्तादपरार्धे कारणं भवति । ज्ञानकारणद्वरार्थप्रपञ्चविषयित्वं बुद्धिः प्राप्नोतीत्यर्थः । एवं बुद्धेः सर्वार्थद्रष्टृत्वमुपपाद्य तन्निष्ठचित्प्रतिबिम्बद्वारा साक्षिणि द्रष्टृत्वाध्यासमाह प्रज्ञयेति । बुद्धिद्वारा चिदात्मा वाचमिन्द्रियंसमारुह्य तस्याः प्रेरको भूत्वा वाचा करणेन सर्वाणि नामानि वक्तव्यत्वेनाप्नोति, चक्षुषा सर्वाणि रूपाणि पश्यतीत्येवं द्रष्टा भवतीत्यर्थः । तथाच सर्वद्रष्टृत्वं चिदात्मनि द्रष्टृत्वाध्यासनिमित्तत्वं च बुद्धेर्धर्म इत्युक्तं भवति सर्वाधारत्वानन्दत्वादिः ब्रह्मधर्म इत्याह ता वा इति । दशत्वं व्याख्यातम् । प्रज्ञा इन्द्रियजात्या अधिकृत्य ग्राह्या भूतमात्रा वर्तन्ते, प्रज्ञामात्रा इन्द्रियाणि ग्राह्यं भूतजातमधिकृत्य वर्तन्त इति ग्राह्य ग्राहकयोर्मिथः सापेक्षत्वमुक्तं साधयति यदिति । तदेव स्फुटयति न हीति । ग्राह्येण ग्राह्यस्वरूपं न सिध्यति किन्तु ग्राहकेण । एवं ग्राहकमपि ग्राह्यमनपेक्ष्य न सिध्यति । तस्मात्सापेक्षत्वादेतद्ग्राह्यग्राहकद्वयं वस्तुतो न भिन्नं किन्तु चिदात्मन्यरोपितमित्याह नो इति । तद्यथेत्यादि कृतव्याख्यानम् । सूत्रार्थमुपसंहरति तस्मादिति । अन्यधर्मेणान्यस्योपासनं कथमित्याशङ्क्याश्रितत्वादित्याह अन्यत्रापीति । उपाधिर्जीवः । तत् अन्यधर्मेणोपासनम् । इयमसङ्गता व्याख्या । तथाहिन तावदारुण्याद्यनेकगुणविशिष्टप्राप्तक्रयणवदुपासात्रयविशिष्टस्य ब्रह्मणो विधिः सम्भवति, सिद्धस्य विध्यनर्हत्वात् । नापि ब्रह्मानुवादेनोपासात्रयविधिः, वाक्यभेदात् । नच नानाधर्मविशिष्टमेकमुपासनं विधीयत इति वाच्यम् , तादृशविधिवाक्यस्यात्राश्रवणात् । नच 'तं मामायुरमृतमित्युपाःस्व' इत्यत्र मामिति जीवेन, आयुरिति प्राणेन, अमृतमिति ब्रह्मणा स्वस्वधर्मवता विशिष्टोपासनाविधिरिति वाच्यम् , सर्वेषां धर्माणामश्रवणात् , ब्रह्माश्रुतेश्च । 'प्राणो वा अमृतम्' इति प्राणस्यैवामृतत्वश्रुतेः । अत उपासनाविधिलुब्धेन 'वक्तारं विद्यात्' 'एतदेवोक्थमुपासीत' 'स म आत्मेति विद्यात्' इति जीवप्राणब्रह्मोपासनविधयः, अन्ये गुणविधय इति स्वीकृत्यैकवाक्यत्वं त्याज्यम् , तच्चायुक्तम् , उपक्रमादिनैकवाक्यतानिर्णयादिति । तस्माज्ज्ञेयप्रत्यग्ब्रह्मपरमिदं वाक्यमित्युपसंहरति
तस्मादिति ॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्यायस्य प्रथमः पादः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 प्रथमाध्याये द्वितीयः पादः ।
श्रीरामं सिद्धमत्तारं गुहाशायिनमान्तरम् । अन्तर्यामिणमज्ञेयं वैश्वानरमहं भजे ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वपादेनोत्तरपादयोः सङ्गतिं वक्तुं वृत्तमनुवदति प्रथम इति । जगत्कारणत्वोक्त्या व्यापित्वादिकमर्थात्सिद्धम् । तदुपजीव्योत्तरं पादद्वयं प्रवर्तत इति हेतुहेतुमद्वावः सङ्गतिः । कथं पादभेद इत्याशङ्क्य पादानां प्रमेयभेदमाह अर्थान्तरेति । आकाशादिशब्दानां स्पष्टब्रह्मलिङ्गैर्ब्रह्मणि समन्वयो दर्शितः । अस्पष्टब्रह्मलिङ्गवाक्यसमन्वयः पादद्वये वक्ष्यते । प्रायेणोपास्यज्ञेयब्रह्मभेदात्पादयोरवान्तरभेद इति भावः । छान्दोग्यवाक्यमुदाहरति इदमिति । तस्माज्जायत इति तज्जम् , तस्मिंल्लीयत इति तल्लम् , तस्मिन्ननिति चेष्टत इति तदनम् , तज्जं च तल्लं च तदनं चेति तज्जलान् । कर्मधारयेऽस्मिन् शाकपार्थिवन्यायेन मध्यमपदस्य तच्छब्दस्य लोपः । तज्जलानमिति वाच्ये छान्दसोऽवयवलोपः । इतिशब्दो हेतौ । सर्वमिदं जगद्ब्रह्मैव, तद्विवर्तत्वादित्यर्थः । ब्रह्मणि मित्रामित्रभेदाभावाच्छान्तो रागादिरहितो भवेदिति गुणविधिः । सक्रतुमुपासनं कुर्वीतेति विहितोपासनस्य 'उपासीत' इत्यनुवादात्फलमाह अथेति । क्रतुमयः सङ्कल्पविकार इत्यर्थः । पुरुषस्य ध्यानविकारत्वं स्फुटयति यथेति । इह यध्यायति, मृत्वा ध्यानमहिम्ना तध्येयरूपेण जायत इत्यर्थः । क्रतुमयः सङ्कल्पप्रधान इति वार्थः । क्रतोर्विषयमाह मन इति । ब्रह्मेत्युपक्रमान्मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमन्तर्ह्रदये ध्येयमित्यर्थः । पूर्वत्र ब्रह्मलिङ्गैरब्रह्मलिङ्गबाध उक्तः, न तथेहोपक्रमे ब्रह्मणो लिङ्गमस्ति, किन्तु प्रकरणम् । तच्च शान्तिगुणविधानार्थमन्यथासिद्वम् । अतो जीवलिङ्गं बलीय इति प्रत्युदाहरणेन पूर्वपक्षयति शारीर इत्यादिना । श्रुतिमाशङ्क्यान्यथासिद्ध्या परिहरति नैष दोष इति । शमविधिपरत्वे हेतुमाह यत्कारणमिति । यत एवमाह तस्माच्छमविधिपरमित्यन्वयः । [अत्रेदंशब्दः प्रकृतब्रह्मपरामर्शार्थो नतु जगत्परामर्शार्थः, जगद्विशेषणे प्रयोजनाभावात् । अत्र प्रयोजनाभावेऽपि यत्र प्रयोजनं तत्र भवत्येव जगद्विशेषणम् , यथा 'आत्मैवेदं सर्वम्' । अत्र बाधायां समानाधिकरणदार्ढ्यार्थं विशेषणमावश्यकम् , तद्वाक्यस्य ज्ञेयब्रह्मविषयत्वात् । अत्र तूपासनायां बाधानावश्यकत्वाद्विषयाभेदेन ब्रह्मण उपास्यत्वात् । ] नच शमेति । शमध्यानयोर्विधौ वाक्यभेदापत्तेरित्यर्थः । जन्मपरम्परया जीवस्यापि सर्वकर्मत्वादिसम्भवमाह सर्वकर्मेति । सर्वाणि कर्माणि यस्य । सर्वे कामा भोग्या यस्य । सर्वगन्धः सर्वरस इत्यादिरादिशब्दार्थः । आराग्रमात्रस्येति । तोत्रप्रोतायःशलाकाग्रपरिमाणस्येत्यर्थः । सर्वत्र प्रसिद्वब्रह्मण एवात्रोपास्यत्वोपदेशान्न जीव उपास्य इति सूत्रार्थमाह सर्वत्रेति । यत्र फलं नोच्यते तत्र पूर्वोत्तरपक्षसिद्विः फलमिति मन्तव्यम् । यद्यपि निराकाङ्क्षं ब्रह्म तथापि मनःप्रचुरमुपधिरस्य, प्राणः शरीरमस्येति समासान्तर्गतसर्वनाम्नः संनिहितविशेष्याकाङ्क्षत्वाद्ब्रह्म सम्बध्यते । 'स्योनं ते सदनं करोमि' इति संस्कारार्थसदनस्य निराकाङ्क्षस्यापि 'तस्मिन्सीद' इति साकाङ्क्षतच्छब्देन परामर्शदर्शनादित्याह अत्रोच्यत इति । स्योनं पात्रं ते पुरोडाशस्येति श्रुत्यर्थः । जीवोऽपि लिङ्गात्संनिहित इत्यत आह जीवस्त्विति । इदं हि लिङ्गद्वयं लोकसिद्वं जीवं न संनिधापयति, दुःखिन उपास्त्ययोग्यत्वात्फलाभावाच्च । अतो विश्वजिन्न्यायेन सर्वाभिलषितमानन्दरूपं ब्रह्मैवोपासनाक्रियानुबन्धीति भावः । किञ्च ब्रह्मपदश्रुत्या लिङ्गबाध इत्याह नचेति ।
अन्यतराकाङ्क्षानुगृहीतं फलवत्प्रकरणं विफललिङ्गाद्वलीय इति समुदायार्थः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 वस्तुनो विवक्षायाः फलमुपादानं स्वीकारः, स च प्रकृतेषु गुणेष्वस्तीति विवक्षोपचार इत्याह तथाप्युपादानेनेति । नन्विदं ग्राह्यमिदं त्याज्यमिति धीर्विवक्षाधीना वेदे कुतः स्यादित्यत आह उपादानानुपादाने त्विति । तात्पर्यं नाम फलवदर्थप्रतीत्यनुकूलत्वं शब्दधर्मः । उपक्रमादिना तस्य ज्ञानात्तयोरवगम इत्यर्थः । तदिहेति । तत्तस्मात् । तात्पर्यवत्त्वादित्यर्थः । सर्वात्मत्वे प्रमाणमाह तथाचेति ।
जीर्णः स्थविरो यो दण्डेन वञ्चति गच्छति सोऽपि त्वमेव । यो जातो बालः स त्वमेव । सर्वतः सर्वासु दिक्षु श्रुतयः श्रोत्राण्यस्येति सर्वतः श्रुतिमत् । सर्वजन्तूनां प्रसिद्वाः पाण्यादयस्तस्येति सर्वात्मत्वोक्तिः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 ननु जीवधर्माःश्चेत्ब्रह्मणि योज्यन्ते तर्हि ब्रह्मधर्मा एव जीवे किमिति न योज्यन्ते, तत्राह अनुपपत्तेरिति । सूत्रं व्याचष्टे पूर्वेणेति । सर्वात्मत्वादिरूक्तन्यायः । कल्पितस्य धर्मा अधिष्ठाने सम्बध्यन्ते, नाधिष्ठानधर्माः कल्पित इति भावः । अधिष्ठानज्ञानकाले कल्पितधर्माभावात् । वागेव वाकः सोऽस्यास्तीति वाकी, न वाकी अवाकी । अनिन्द्रिय इत्यर्थः । कुत्राप्यादरः कामोऽस्य नास्तीत्यनादरः । नित्यतृप्त इत्यर्थः । ज्यायस्त्वाद्यनुपपत्तौ शारीर इति परिच्छेदो हेतुः सूत्रोक्तः । स तु जीवस्यैव नोश्वरस्येत्याह
सत्यमित्यादिना ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 प्रापकत्वेन व्यपदिशतीति सम्बन्धः । कर्मकर्तृव्यपदेशपदस्यार्थान्तरमाह
तथोपास्येति ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】
एकार्थत्वं प्रकरणस्य समानत्वम् । अन्तरात्मन्निति विभक्तिलोपश्छान्दसः । शब्दयोर्विशेषो विभक्तिभेदः । तस्मात्तदर्थयोर्भेद इति सूत्रार्थः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 स्मृतौ हृदिस्थस्य जीवाद्भेदोक्तेरत्रापि हृदिस्थो मनोमय ईश्वर इत्याह स्मृतेश्चेति । भूतानि जीवान् । यन्त्रं शरीरम् । अत्र सूत्रकृता सत्यभेद उक्त इति भ्रान्तिनिरासायेक्षत्यधिकरणे निरस्तमपि चोद्यमुद्भाव्य निरस्यति अत्राहेत्यादिना । त्वदुक्तरीत्या वस्तुत एकत्वमेव, भेदस्तु कल्पितः सूत्रेष्वनूद्यत इत्याह
सत्यमिति ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 अर्भकमोको यस्य सोऽर्भकौकाः तस्य भावस्तत्त्वं तस्मादार्थिकमल्पत्वम् । अणीयानित्यल्पत्ववाचकशब्देनापि श्रुतमित्याह स्वशब्देनेति । नायं दोष इत्युक्तं विवृणोति न तावदिति । कथमपि । ब्रह्मभावापेक्षयापीत्यर्थः । परिच्छेदत्यागं विना ब्रह्मत्वासम्भवात्तत्त्यागे च ब्रह्मण एवोपास्यत्वमायातीति भावः । विभोः परिच्छेदोक्तौ दृष्टान्तमाह यथा समस्येति । सर्वेश्वरस्यायोध्यायां स्थित्यपेक्षया परिच्छेदोक्तिवदल्पहृदि ध्येयत्वेन तथोक्तिरित्यर्थः । ननु किमिति हृदयमेव प्रायेणोच्यते, तत्राह तत्रेति । हृदये परमात्मनो बुद्विवृत्तिरर्ग्राहिका भवति । अत ईश्वराभिव्यक्तिस्थानत्वात्तदुक्तिरित्यर्थः । व्योमदृष्टान्तासिना शङ्कालतापि काचिच्छिन्नेत्याह तत्र यदाशङ्क्यत इत्यादिना ।
भिन्नायतनत्वेऽपि व्योम्नः सत्यभेदाद्यभावादिति भावः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मणो हार्दत्वेऽनिष्टसम्भोगापत्तेर्जीव एव हार्द उपास्य इति शङ्कां व्याचष्टे व्योमवदिति । ब्रह्म भोक्तृ स्यात्, हार्दत्वे सति चेतनत्वात् , जीवाभिन्नत्वाच्च जीववदित्युक्तं निरस्यति न । वैशेष्यादिति । धर्माधर्मवत्त्वमुपाधिरित्यर्थः । अयमेव विशेषो वैशेष्यम् । स्वार्थे ष्यञ्प्रत्ययः । विशेषस्यातिशयार्थो वा । धर्मादेः स्वाश्रये फलहेतुत्वमतिशयः, तस्मादिति सूत्रार्थः । किञ्च विभवो बहव आत्मान इति वादिनामेकस्मिन्देहे सर्वात्मनां भोक्तृत्वप्रसङ्गः, स्वकर्मार्जित एव देहे भोग इति परिहारश्च तुल्य इति न वयं पर्यनुयोज्या इत्याह सर्वगतेति । वस्तुतस्तेषामेव भोगसाङ्कर्यमित्यग्रे वक्ष्यते । ब्रह्मणो जीवाभिन्नत्वं श्रुत्या निश्चित्य तेन भोक्तृत्वानुमाने उपजीव्यश्रुतिबाधमाह यथाशास्त्रमिति । अर्थं मुखमात्रं जरत्या वृद्धायाः कामयते नाङ्गानीति सोऽयमर्धजरतीयन्यायः । स चात्र न युक्तः । न ह्यभेदमङ्गीकृत्याभोक्तृत्वं त्यक्तुं युक्तम् , श्रुत्यैवाभेद सिद्ध्यर्थं भोक्तृत्ववारणादित्याह शास्त्रं चेति । नन्वेकत्वं मया श्रुत्या न गृहीतम् , योनोपजीव्यबाधः स्यात् । किन्तु त्वदुक्त्या गृहीतमित्याशङ्क्य बिम्बप्रतिबिम्बयोः कल्पितभेदेन भोक्तृत्वाभोक्तृत्वव्यवस्थोपपत्तेरप्रयोजको हेतुरित्याह अथागृहीतमित्यादिना । कल्पितासङ्गित्वमधिष्ठानस्य वैशेष्यमित्यस्मिन्नर्थेऽपि सूत्रं पातयति तदाहेति ।
ब्रह्मणो हार्दत्वे बाधकाभावच्छाण्डिल्यविद्यावाक्यं ब्रह्मण्युपास्ये समन्वितमिति सिद्वम् ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 अत्ताचराचरग्रहणात् । 'यस्य ब्रह्मक्षत्रादिजगदोदनः, मृत्युः सर्वप्राणिमारकोऽपि यस्योपसेचनमोदनसंस्कारकघृतप्रायः', सोऽत्ता यत्र शुद्धे चिन्मात्रेऽभेदकल्पनया वर्तते तच्छुद्धं ब्रह्म इत्था इत्थमीश्वरस्याप्यधिष्ठानभूतं को वेद । चित्तशुद्ध्याद्युपायं विना कोऽपि न जानातीत्यर्थः ।' संशयबीजमाह विशेषेति । 'स त्वमग्निं प्रब्रूहि' इत्यग्नेः, 'येयं प्रेते विचिकित्सा' इति जीवस्य, 'अन्यत्र धर्मात्'इति ब्रह्मणः प्रश्नः । 'लोकादिमग्निं तमुवाच' इत्यग्नेः, 'हन्त त इदं प्रवक्ष्यामि' इतीतरयोः प्रतिवचनमुपलभ्यत इत्यर्थः । पूर्वत्र ब्रह्मणो भोक्तृत्वं नास्तीत्युक्तम् , तदुपजीव्य पूर्वपक्षयति किं तावदिति । अग्निप्रकरणमतीतमित्यरुचेराह जीवो वेति । पूर्वपक्षे जीवोपास्तिः, सिद्वान्ते निर्विशेषब्रह्मज्ञानमिति फलभेदः । ओदनशब्दो भोग्यवाचीति पूर्वपक्षः । सिद्वान्तस्तु ब्रह्मक्षत्रशब्दैरूपस्थापितकार्यमात्रे गौण ओदनशब्दः । गुणश्चात्र मृत्यूपसेचनपदेन संनिधापितं प्रसिद्वौदनगतं विनाश्यत्वं गृह्यते, गौणशब्दस्य संनिहितगुणग्राहित्वात् । तथाच सर्वस्य विनाश्यत्वेन भानाल्लिङ्गादीश्वरोऽत्तेत्या ह नैष दोष इति । तस्य संनिहितत्वादिति ।
'पिप्पलं स्वाद्वत्ति' इति भोगस्य पूर्वोक्तत्वादित्यर्थः ॥ ९ ॥ ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 अत्तृवाक्यानन्तरवाक्यस्यापि ज्ञेयात्मनि समन्वयमाह गुहामिति । ऋतमवश्यम्भावि कर्मफलं पिबन्तौ भुञ्जानौ, सुकृतस्य कर्मणो लोके कार्ये देहे परस्य ब्रह्मणोऽर्धं स्थानमर्हतीति परार्धं हृदयं परमं श्रेष्ठं तस्मिन्या गुहा नभोरूपा बुद्विरूपा वा तां प्रविश्य स्थितौ छायातपवत् मिथो विरुद्वौ तौ च ब्रह्मविदः कर्मिणश्च वदन्ति । त्रिर्नाचिकेतोऽग्निश्चितो यैस्ते त्रिणाचिकेताः तेऽपि वदन्तीत्यर्थः । नाचिकेतवाक्यानामध्ययनम् , तदर्थज्ञानम् , तदनुष्ठानं चेति त्रित्वं बोध्यम् । बुद्ध्यवच्छिन्नजीवस्य परमात्मनश्च प्रकृतत्वात्संशयमाह तत्रेति । पूर्वोत्तरपक्षयोः फलं स्वयमेवाह यदीत्यादिना । तदपि जीवस्य बुद्विवैलक्षण्यमपीत्यर्थः । मनुष्ये प्रेते मृते सति येयं विचिकित्सा संशयः परलोके भोक्तास्तीत्येके, नास्तीत्यन्ये । अतस्त्वयोपदिष्टोऽहमेतदात्मतत्त्वं जानीयामित्यर्थः । तदपि परमात्मस्वरूपमपीत्यर्थः । उभयोर्भोक्तृत्वायोगेन संशयमाक्षिपति अत्राहेति । छत्रिपदेन गन्तार इव पिबत्पदेनाजहल्लक्षणया प्रविष्टावुच्येते इत्याह अत्रोच्यत इति । पानकर्तृवाचिपदेन पानानुकूलौ वा लक्ष्यावित्याह यद्वेति । नियतपूर्वभाविकृतिमत्त्वरूपमनुकूलत्वं कर्तृकारयित्रोः साधारणम् । यः कारयति स करोत्येवेति न्यायादिति भावः । अत्र प्रकृतिर्मुख्यार्था शतृप्रत्यये लक्षणा । मिश्रास्तु कृतिः, प्रत्ययार्थो मुख्यः । प्रकृत्या त्वजहल्लक्षणया पायनं लक्ष्यमित्याहुः । पूर्वपक्षे 'पिबन्तौ' इति कर्तृवाचिशतृप्रत्ययेन बुद्धिजीवसाधारणं कारकत्वं लक्ष्यमित्याह बुद्वीति । एधांसि काष्ठानि पचन्तीत्याख्यातेन कारकत्वं लक्ष्यम् , प्रकृतिस्तु मुख्यैवेति भावः । मुख्यपातारौ प्रसिद्वपक्षिणौ ग्राह्यावित्यत आह न चेति । ब्रह्मक्षत्रपदस्य संनिहितमृत्युपदादनित्यवस्तुपरत्ववदिहापि पिबत्पदस्य संनिहितगुहापदाद्बुद्धिजीवपरतेति दृष्टान्तेन पूर्वपक्षयति किं तावदिति । गोचरः फलम् । एकस्मिञ्जातिमति कॢप्ते सजातीयमेव द्वितीयं ग्राह्यम् , व्यक्तिमात्रग्रहे लाघवात् । न विजातीयम् , जातिव्यक्त्युभयकल्पनागौरवात् । न चास्तु कारकत्वेन सजातीया बुद्विरेव जीवस्य द्वितीयेति वाच्यम् , चेतनत्वस्य जीवस्वभावस्य कारकत्वादन्तरङ्गत्वात् । तथाच लोके द्वितीयस्यान्तरङ्गजातिमत्त्वदर्शनाज्जीवस्य द्वितीयश्चेतन एवेति सूत्रार्थमाह सङ्ख्याश्रवणे चेति ।
गुहायां बुद्वौ स्थितम् , गह्वरेऽनेकानर्थसङ्कुले देहे स्थितं पुराणमनादिपुरुषं विदित्वा हर्षशोकौ जहाति । परमे श्रेष्ठे, व्योमन् हार्दाकाशे या गुहा बुद्धिः तस्यां निहितं ब्रह्म यो वेद सोऽश्नुते सर्वान्कामानित्यन्वयः । अन्विच्छ विचारयेत्यर्थः ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 विशेषणं गन्तृगन्तव्यत्वादिकं लिङ्गमाह विशेषणाच्चेति । स जीवोऽध्वनः संसारमार्गस्य परमं पारम् , किं तत् , विष्णोर्व्यापनशीलस्य परमात्मनः पदं स्वरूपमाप्नोतीत्यर्थः । दुर्दर्शं दुर्ज्ञानम् , तत्र हेतुर्गूढं मायावृतं मायानुप्रविष्टं पश्चाद्गुहाहितं गुहाद्वारा गह्वरेष्ठम् , एवं बहिरागतमात्मानम् , अध्यात्मयोगः स्थूलसूक्ष्मकारणदेहलयक्रमेण प्रत्यगात्मनि चित्तसमाधानं तेनाधिगमो महावाक्यजा वृत्तिस्तया विदित्वेत्यर्थः । ऋतपानमन्त्रे जीवानुवादेन वाक्यार्थज्ञानाय तत्पदार्थो ब्रह्म प्रतिपाद्यत इत्युपसंहरति तस्मादिहेति । उक्तन्यायमतिदिशति एष इति । द्वा द्वौ । छान्दसो द्विवचनस्याकारः । सुपर्णाविव सहैव युज्येते नियम्यनियामकभावेनेति सयुजौ । सखायौ चेतनत्वेन तुल्यस्वभावौ । समानमेकं वृक्षं छेदनयोग्यं शरीरमाश्रित्य स्थितावित्यर्थः । गुहां प्रविष्टाविति यावत् । एतावात्मानौ, तल्लिङ्गदर्शनादित्याह तयोरन्य इति । विशेषणाच्चेत्याह अनन्तरे चेति । अनीशया स्वस्येश्वरत्वाप्रतीत्या देहे निमग्नः पुरुषो जीवः शोचति । निमग्नपदार्थमाह मुह्यमान इति । नरोऽहमिति भ्रान्त इत्यर्थः । जुष्टं ध्यानादिना सेवितं यदा ध्यानपरिपाकदशायामीशमन्यं विशिष्टरूपाद्भिन्नं शोधितचिन्मात्रं प्रत्यक्त्वेन पश्यति तदास्य महिमानं स्वरूपमेति प्राप्नोतीव । ततो वीतशोको भवतीत्यर्थः । 'द्वा सुपर्णा' इति वाक्यं जीवेश्वरपरं कृत्वा चिन्तितम् । अधुनाकृत्वाचिन्तामुद्धाटयति अपर इति । अन्यथा बुद्धिविलक्षणत्वं पदलक्ष्यपरत्वेनेत्यर्थः । सत्त्वं बुद्धिरिति शङ्कते सत्त्वशब्द इति । बुद्धिजीवौ चेत्पूर्वपक्षार्थः स्यादित्यत आह नापीति । पूर्वपक्षार्थस्तदा स्यात् , यद्यत्र बुद्धिभिन्नः संसारी प्रतिपाद्येत । नह्यत्र संसारी विवक्ष्यते किन्तु शोधितस्त्वमर्थो ब्रह्मेत्यर्थः । श्रुतिस्मृतिभ्यश्चायमर्थो युक्त इति शेषः । तावता मन्त्रव्याख्यामात्रेण । एवमेव जीवस्य ब्रह्मत्वोक्तावेव । नाहि जीवो बुद्धिभिन्न इति विवेकमात्रेणोपसंहारो युक्तः । भेदज्ञानस्य भ्रन्तित्वाद्वैफल्याच्चेति भावः । अविद्या विदुषि किमपि स्वकार्यं नाध्वंसते न सम्पादयति, ज्ञानाग्निना स्वस्या एव दग्धत्वादित्यर्थः । अविद्या नागच्छतीति वार्थः । जीवस्य ब्रह्मत्वपरमिदं वाक्यमिति पक्षे शङ्कते कथमिति । बुद्धेर्भौक्तृत्वोक्तावतात्पर्यान्नात्र युक्तिचिन्तया मनः खेदनीयमित्याह उच्यत इति । तदर्थं ब्रह्मत्वभोधनार्थं भोक्तृत्वमुपाधिमस्तके निक्षिपतीत्यर्थः । वस्तुतो जीवस्याभोक्तृत्वे भोक्तृत्वधीः कथमित्यत आह इदं हीति । चित्तादात्म्येन कल्पिता बुद्धिः सुखादिरूपेण परिणमते । बुद्ध्यविवेकाच्चिदात्मनः सुखादिरूपवृत्तिव्यक्तचैतन्यवत्त्वं भोक्तृत्वं भातीत्यर्थः । भोक्तृत्वमाविद्यकम् , न वस्तुत इत्यत्र मानमाह तथाचेति ।
यत्राविद्याकाले चैतन्यं भिन्नमिव भवति तदा । द्रष्टृत्वादिकं न वस्तुनि ज्ञात इत्यर्थः । तस्मात् 'ऋतं पिबन्तौ' इति वाक्यमेव गुहाधिकरणविषय इति स्थितम् ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 अन्तर उपपत्तेः । उपकोसलविद्यावाक्यमुदाहरति य इति । तदक्षिस्थानमसङ्गत्वेन ब्रह्मणोऽनुरूपं यतोऽस्मिन्क्षिप्तं वर्त्मनी पक्ष्मणी एव गच्छतीत्यर्थः । दर्शनस्य लौकिकत्वशास्त्रीयत्वाभ्यां संशयमाह तत्रेति । पूर्वं 'पिबन्तौ' इति प्रथमश्रुतचेतनत्वानुसारेण चरमश्रुता गुहाप्रवेशादयो नीताः, तद्वदिहापि दृश्यत इति चाक्षुषत्वानुसारेणामृतत्वादयो ध्यानार्थं कल्पितत्वेन नेया इति दृष्टान्तेन पूर्वपक्षयति छायात्मेति । पूर्वपक्षे प्रतिबिम्बोपास्तिः, सिद्वान्ते ब्रह्मोपास्तिरिति फलम् । प्रसिद्ववदिति । चाक्षुषत्वेनेत्यर्थः । सम्भावनामात्रेण पक्षान्तरमाह विज्ञानात्मन इत्यादिना । 'मनो ब्रह्म' इतिवत् , 'एतद्ब्रह्मेति' इति वाक्यस्येतिपदशिरस्कत्वान्न स्वार्थपरत्वमिति पूर्वपक्षः । 'मनो ब्रह्मेत्युपासीत' इत्यत्र इतिपदस्य प्रत्ययपरत्वात् , इह च ब्रह्मेत्युवाचेत्यन्वयेन इतिपदस्योक्तिसम्बन्धिनोऽर्थपरत्वाद्वैषम्यमिति सिद्वान्तयति परमेश्वर एवेति । बहुप्रमाणसंवादस्तात्पर्यानुग्राहक इति न्यायानुगृहीताभ्यामात्मब्रह्मश्रुतिभ्यां दृश्यलिङ्गं बाध्यमित्याह संयद्वामेति । वामानि कर्मफलान्येतमक्षिपुरुषमभिलक्ष्य संयन्ति उत्पद्यन्ते । सर्वफलोदयहेतुरित्यर्थः । लोकानां फलदाताप्ययमेवेत्याह वामनीरिति । नयति फलानि लोकान्प्रापयतीत्यर्थः । भामानि भानानि नयत्ययमित्याह भामनीरिति ।
सर्वार्थप्रकाशक इत्यर्थः ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 स्थाननामरूपाणां ध्यानार्थं श्रुत्यन्तरेऽप्युपदेशादक्षिस्थानत्वोक्तिरत्र न दोष इति सूत्रयोजना । अनवकॢप्तिः अकॢप्तकल्पना तदा भवेत् , यद्यत्रैव निर्दिष्टं भवेदित्यन्वयः । नन्वनुचितबाहुल्योक्तिरसमाधानमित्याशङ्क्य युक्तिमाह
निर्गुणमपीति ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकरणादपि ब्रह्म ग्राह्यमित्याह सुखविशिष्टेति । ध्यानार्थं भेदकल्पनया सुखगुणविशिष्टस्य ब्रह्मणः प्रकृतस्य य एष इति सर्वनाम्नाभिधानादन्तरः परमात्मा स्यादिति सूत्रार्थः । ननु प्रकरणात्प्रबलेन दृश्यत्वलिङ्गेनोपस्थापितश्छायात्मा सर्वनामार्थ इत्यत आह आचार्यस्त्विति । उपकोसलो नाम कश्चिद्ब्रह्मचारी जाबालस्याचार्यस्याग्नीन्द्वादशवत्सरान्परिचचार । तमनुपदिश्य देशान्तरगते जाबाले गार्हपत्याद्यग्निभिर्दयया 'प्राणो ब्रह्म' इत्यात्मविद्यामुपदिश्योक्तम् आचार्यस्त्विति । तवात्मविद्याफलावाप्तये मार्गमर्चिरादिकं वदिष्यतीत्यर्थः । पश्चादाचार्येणागत्य 'य एषोऽक्षिणि' इत्युक्तार्चिरादिका गतिरुक्ता । तथा चाग्निभिरुक्तात्मविद्यावाक्यस्य गतिवाक्येनैकवाक्यता वाच्या, सा च सर्वनाम्ना प्रकृतात्मग्रहे निर्वहतीत्येकवाक्यतानिर्वाहकं प्रकरणं वाक्यभेदकाल्लिङ्गाद्बलवदिति भावः । श्रुतिं व्यचष्टे उच्यत इति । प्राणश्च सूत्रात्मा बृहत्त्वाद्ब्रह्मेति यत्तज्जानामि, कं विषयसुखं खं च भूताकाशं ब्रह्मत्वेन ज्ञातुं न शक्नोमीत्यर्थः । खं कथम्भूतम् , यत्कं तदेव खमिति सुखेन विशेषितस्य खस्य भूतत्वनिरासः । तथा कं कथम्भूतम् , यत्खं तदेव कमिति विभुत्वेन विशेषितस्य कस्य जन्यत्वनिरास इति व्यतिरेकमुखेनाह तत्र खमित्यादिना । 'आत्मविद्या' इति श्रुतिविरोधात्प्रतीकध्यानमत्रानिष्टमिति भावः । सामय इति । आमयो दोषः साधनपारतन्त्र्यानित्यत्वादिः, तत्सहित इत्यर्थः । प्रत्येकग्रहणे दोषमुक्त्वा द्वयोर्ग्रहणे फलितमाह इतरेतरेति । विशेषितार्थकावित्यर्थः । नन्वेकं ब्रह्मैवात्र ध्येयं चेद्ब्रह्मपदान्तरं किमर्थमित्यत आह तत्रेति । विशेषणत्वेन खस्य भूतत्वव्यावर्तकत्वेनेत्यर्थः । ब्रह्मशब्दः शिरो ययोस्तत्त्वमिति विग्रहः । अध्येयत्वे को दोषः, तत्राह इष्टं हीति । मार्गोक्त्या सुगुणविद्यात्वावगमादिति भावः । आत्मविद्यापदेनोपसंहारादपि प्रकृतं ब्रह्मेत्याह प्रत्येकं चेति । पृथिव्यग्निरन्नमादित्य इति मम चतस्रस्तनवो विभूतिरिति गार्हपत्य उपदिदेश । आपो दिशो नक्षत्राणि चन्द्रमा इत्यन्वाहार्यपचन उवाच । प्राण आकाशो द्यौर्विद्युदिति स्वमहिमानमाहवनीयो जगादेति विभागः । इयमस्माकमग्नीनां विद्या प्रत्येकमुक्ता । आत्मविद्या तु पूर्वमस्माभिर्मिलित्वा 'प्राणो ब्रह्म' इत्युक्तेत्यर्थः । उच्यतामग्निभिर्ब्रह्म, छायात्मा गुरुणोच्यतां वक्तृभेदादिति तत्राह आचार्यस्त्विति ।
एकवाक्यतानिश्चयाद्वक्तृभेदेऽपि नार्थभेद इत्यर्थः ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 श्रुता अनुष्ठिता उपनिषत्रहस्यं सगुणब्रह्मोपासनं येन तस्य या गतिः श्रुतौ स्मृतौ च प्रसिद्वा तस्या अत्राभिधानाल्लिङ्गादिति सूत्रार्थमाह इतश्चेति । यस्मादृश्यते तत्तस्मादिहेत्यन्वयः । श्रुतिमाह अथेति ।
देहपातानन्तरमित्यर्थः । स्वधर्मस्तपः तपोब्रह्मचर्यश्रद्धाविद्याभिरात्मानं ध्यात्वा तया ध्यानविद्ययोत्तरं देवयानमार्गं प्राप्यते नोत्तरेण पथा । आदित्यद्वारा सगुणब्रह्मस्थानं गच्छन्ति, एतद्वै ब्रह्म प्राणानां व्यष्टिसमष्टिरूपाणामायतनं लिङ्गात्मकं हिरण्यगर्भरूपम् , वस्तुतस्त्वेतदमृतादिरूपं निर्गुणं सर्वाधिष्ठानम् । अतः कार्यं ब्रह्म प्राप्य तत्स्वरूपं निर्गुणं ज्ञात्वा मुच्यन्त इत्यर्थः । अग्निरेव ज्योतिर्देवता एवमहराद्या देवता एव स्मृतावुक्ताः । अस्मिन्नुपासके मृते सति यदि पुत्रादयः शव्यं शवसंस्कारादिकं कुर्वन्ति यदि च न कुर्वन्ति उभयथाप्युपास्तिमहिम्ना अर्चिरादिदेवान्क्रमेण गच्छन्ति । आर्चिषमग्निम् , ततोऽहः, अह्नः शुक्लपक्षम् , तत्र उत्तरायणम् , तस्मात्संवत्सरम् , ततो देवलोकम् , ततो वायुम् , वायोरादित्यम् , ततश्चन्द्रम् , चन्द्राद्विद्युतं गत्वा तत्र विद्युल्लोके स्थितानुपासकानमानवः पुरुषो ब्रह्मलोकादागत्य कार्यं ब्रह्मलोकं प्रापयति । एषोऽर्चिरादिभिर्देवैर्विशिष्टो देवपथो गन्तव्येन ब्रह्मणा योगाद्ब्रह्मपथश्च । त एतत्कार्यं ब्रह्म प्रतिपद्यमाना उपासका इमं मानवं मनोः सर्गमावर्तं जन्ममरणावृत्तियुक्तं नावर्तन्ते नागच्छन्तीत्यर्थः ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 चक्षुरासीदतीति । उपगच्छतीत्यर्थः । अनवस्थितस्योपास्यत्वं सदा न सिद्ध्यतीति भावः । किञ्चाव्यवधानात्स्वाक्षिस्थ उपास्यः । नच तस्य स्वचक्षुषा दर्शनं सम्भवतीत्याह य एष इति । अस्तु तर्हि परेण दृश्यमानस्योपास्तिरित्यत आह नचेति । कल्पनागौरवादित्यर्थः । युक्तिसिद्धानवस्थितत्वे श्रुतिमाह अस्येति । छायाकरस्य बिम्बस्य नाशमदर्शनमनुसृत्यैष छायात्मा नश्यतीत्यर्थः । जीवं निरस्यति तथेति । जात्यन्धस्याप्यहमित्यविशेषण जीवस्याभिव्यक्तेश्चक्षुरेव स्थानमित्ययुक्तमित्यर्थः । दृष्ट इति । श्रुताविति शेषः । ननु 'चक्षोः सूर्यो अजायत' 'सूर्योऽस्तमेति' इति वाक्यममरा देवा इति प्रसिद्धिबाधितमित्याशङ्क्याह अमरत्वमपीति । भीषा भयेनास्मादीश्वराद्वायुश्चलति । अग्निश्चेन्द्रश्च स्वस्वकार्यं कुरुतः । उक्तापेक्षया पञ्चमो मृत्युः समाप्तायुषां निकटे धावतीत्यर्थः । ईश्वरपक्षे दृश्यत इत्युक्तम् , तत्राह अस्मिन्निति ।
दर्शनमनुभवः । तस्यशास्त्रे श्रुतस्य शास्त्रमेव करणं कल्प्यम् , संनिधानात् । तथाच शास्त्रकरणको विद्वदनुभव उपासनास्तुत्यर्थ उच्यत इत्यर्थः । तस्मादुपकोसलविद्यावाक्यमुपास्ये ब्रह्मणि समन्वितमिति सिद्धम् ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् । बृहदारण्यकवाक्यमुदाहरति य इति । अन्तर्यामिब्रह्मणे प्रतीयमानार्थमाह अत्रेति । 'यः पृथिव्याम्' इत्यादिना देवताः पृथिव्याद्या अधिकृत्य यमयिता श्रूयते । तथा 'यः सर्वेषु लोकेषु' इत्यधिलोकम् , 'यः सर्वेषु वेदेषु' इत्यधिवेदम् , 'यः सर्वेषु यज्ञेषु' इत्यधियज्ञम् , 'यः सर्वेषु भूतेषु' इत्यधिभूतम् , 'यः प्राणे तिष्ठन्' इत्यादि 'य आत्मानि' इत्यन्तमध्यात्मं चेति विभागः । अशरीरस्य नियन्तृत्वसम्भवासम्भवाभ्यां संशयः । पूर्वत्रेश्वरस्याक्षिस्थानत्वसिद्धये पृथिव्यादिस्थाननिर्देशो दृष्टान्त उक्तः, तस्य दृष्टान्तवाक्यस्येश्वरपरत्वमत्राक्षिप्य समाधीयत इत्याक्षेपसङ्गतिः । अतः पूर्वफलेनास्य पलवत्त्वम् । अवान्तरफलं तु पूर्वपक्षे अनीश्वरोपास्तिः, सिद्वान्ते प्रत्यग्ब्रह्मज्ञानमिति मन्तव्यम् । स्वयमेवारुचिं वदन्पक्षान्तरमाह अथवेति । अनिश्चितार्थे फलाभावेनाफलस्य वेदार्थत्वायोगादिति भावः । तथाच श्रूयते वेदे । पृथिवी यस्य देवस्यायतनं शरीरम् , लोक्यतेऽनेनेति लोकश्चक्षुः, ज्योतिः सर्वार्थप्रकाशकं मन इत्यर्थः । उपक्रमादिनान्तर्याम्यैक्यनिश्चयादनेकदेवपक्षो न युक्त इत्यरुचेराह योगिनो वेति । आगन्तुकसिद्धस्यान्तर्यामित्वेऽप्रसिद्धसाधनकल्पनागौरवान्नित्यसिद्ध एवान्तर्यामीति सिद्धान्तयति एवं प्राप्त इति । देवतानिरासे हेत्वन्तरमाह यं पृथिवीति । ईश्वरो न नियन्ता, अशरीरत्वात् , घटवदियुक्तं निरस्यति नैष दोष इति । नियम्यातिरिक्तशरीरशून्यत्वं वा हेतुः, शरीरासम्बन्धित्वं वा । आद्ये, स्वदेहनियन्तरि जीवे व्यभिचारः । द्वितीयस्त्वसिद्धः, ईश्वरस्य स्वाविद्योपार्जितसर्वसम्बन्धित्वादित्याह यान्नियच्छतीति । सशरीरो नियन्तेतिलोकदृष्टिमनुसृत्यैतदुक्तम् । वस्तुतस्तु चेतनसांनिध्याज्जडस्य व्यापारो नियमनं तच्छक्तिमत्त्वं नियन्तृत्वम् । तच्चाचिन्त्यमायाशक्तेश्चिदात्मनः शरीरं विनैवोपपन्नम् । ननु देहनियन्तुर्जीवस्यान्यो नियन्ता चेत्तस्याप्यन्य इत्यनवस्थेत्यत आह तस्यापीति ।
निरङ्कुशं सर्वनियन्तृत्वमीश्वरस्य श्रुतम् , तस्य नियन्त्रन्तरानुमाने श्रुतिबाध दति नानवस्थेत्यर्थः । यद्वा ईश्वराद्भेदकल्पनया जीवस्य नियन्तृत्वोक्तेः सत्यभेदाभावान्नानवस्थेत्यर्थः ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 प्रधानं महदादिक्रमेण कथं प्रवर्तत इति तर्कस्याविषय इत्याह अप्रतर्क्यमिति ।
रूपादिहीनत्वादविज्ञेयम् , सर्वतो दिक्षु प्रसुप्तमिव तिष्ठति जडत्वादित्यर्थः । अतत् अप्रधानं चेतनम् , तस्य धर्माणामभिधानादिति हेत्वर्थः ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 दृष्टेर्द्रष्टारमात्मानं तया दृश्यया दृष्ट्या न विषयीकुर्या इत्यादिश्रुतेश्चादृष्टत्वादिधर्माः शारीरस्येत्याह नेति । अपिशब्दसूचितं हेतुमुक्त्वा कण्ठोक्तं हेतुमाह अपि चोभयेऽपीति । भेदेनेति सूत्रात्तात्त्विकभेदभ्रान्तिं निरसितुं शङ्कते कथमिति । नन्वत्रैको भोक्ता जीवः, ईश्वरस्त्वभोक्तेति न विरोध इति शङ्कते का पुनरिति । तयोर्भेदः श्रुतिविरुद्ध इति पूर्ववाद्याह नान्य इति । स एव श्रुत्यर्थमाह अत्रेति । श्रुतेरर्थान्तरमाशङ्क्य निषेधति नियन्त्रन्तरेत्यादिना । न केवलमप्रसक्तप्रतिषेधः, किन्त्वविशेषेण द्रष्ट्रन्तरनिषेधश्रुतेरन्तर्याम्यन्तरनिषेधार्थत्वे बाधश्चेत्याह अविशेषेति । तस्मात्सूत्रे, 'य आत्मानि तिष्ठन्' इति श्रुतौ च द्रष्टृभेदोक्तिरयुक्ता, 'नान्यः' इति वाक्यशेषे भेदनिरासादिति प्राप्ते, भेद उपाधिकल्पितः श्रुतिसूत्राभ्यामनूद्यत इति समाधत्ते अत्रोच्यत इति । भेदः सत्यः किं न स्यादत आह एको हीति । गौरवेण द्वयोरहन्धीगोचरत्वासम्भावदेक एव तद्गोचरः । तदगोचरस्य घटवदनात्मत्वान्नात्मभेदः सत्य इत्यर्थः । ततश्चेति ।
कल्पितभेदाङ्गीकाराद्भेदापेक्षं सर्वं युज्यत इत्यर्थः । तस्मादन्तर्यामिब्राह्मणं ज्ञेये ब्रह्मणि समन्वितमिति सिद्धम् ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 उत्तरसूत्रनिरस्याशङ्कामाह यदि प्रधानमित्यादिना । अमृतश्चेति । विनाशिनो देहान्तरभोगानुपपत्तेरित्यर्थः । यथा देवदत्तकर्तृकगमनक्रियाया ग्रामः कर्म न देवदत्तः, तथात्मकर्तृकदर्शनादिक्रियाया अनात्मा विषयः न त्वात्मा, क्रियायाः कर्तृविषयत्वायोगादित्याह कर्तरीति । क्रियायां गुणः कर्ता, प्रधानं कर्म, तत्रैकस्यां क्रियायामेकस्य गुणत्वप्रधानत्वयोर्विरोधान्न कर्तुः कर्मत्वमित्यर्थः । अदृश्यत्वादिगुणको धर्मोक्तेः । मुण्डकवाक्यमुदाहरति अथेति । कर्म विद्यारूपापरविद्योक्त्यनन्तरं यया निर्गुणं ज्ञायते परा सोच्यते । तामैव विषयोक्त्या निर्दिशति यत्तदिति । अद्रेश्यमदृश्यं ज्ञानेन्द्रियैः, अग्राह्यं कर्मेन्द्रियैः, गोत्रं वंशः, वर्णो ब्राह्मणत्वादिजातिः, चक्षुःश्रोत्रशून्यमचक्षुःश्रोत्रम् , पाणिपादशून्यमपाणिपादम् , ज्ञानकर्मेन्द्रियविकलमित्यर्थः । विभुं प्रभुम् , सुसूक्ष्मं दुर्ज्ञेयत्वात् । नित्याव्ययपदाभ्यां नाशापक्षययोर्निरासः । भूतानां योनिं प्रकृतिं यत्पश्यन्ति धीराः पण्डितास्तदक्षरं तद्विद्या परेत्यन्वयः । अद्रेश्यत्वादिगुणानां ब्रह्मप्रधानसाधारणत्वात्संशयः । पूर्ववद्रष्टृत्वादीनां चेतनधर्माणामत्राश्रुतेरस्तु प्रधानमिति प्रत्युदाहरणेन पूर्वपक्षयति तत्रेति । पूर्वपक्षे प्रधानाद्युपास्तिः, सिद्वान्ते निर्गुणधीरिति फलम् । ऊर्णनाभिर्लूताकीटः तन्तून्स्वदेहात्सृजति, उपसंहरति चेत्यर्थः । सतो जीवतः । ननु पूर्वं निरस्तं प्रधानं कथमुत्थाप्यते, तत्राह अपिचेति । अत्र प्रधाने विरुध्यमानोऽसम्भावितो वाक्यशेषः श्रुत इति शङ्कते ननु य इति । पञ्चम्यन्ताक्षरश्रुत्या भूतप्रकृतेः प्रत्यभिज्ञानात्प्रथमान्तपरशब्दोक्तस्य जगन्निमित्तेश्वरस्य सर्वज्ञत्वादिकमित्याह अत्रोच्यत इति । 'सन्दिग्धे तु वाक्यशेषात्' इति न्यायेन सिद्धान्तयति एवं प्राप्त इति । चेतनाचेतनत्वेन सन्दिग्धे भूतयोनौ 'यः सर्वज्ञः' इति वाक्यशेषादीश्वरत्वनिर्णय इत्ययुक्तम् , वाक्यशेषे भूतयोनेः प्रत्यभिज्ञापकाभावादिति शङ्कते नन्विति । 'जनिकर्तुः प्रकृतिः' इति सूत्रेण प्रकृतेरपादानसंज्ञायां पञ्चमीस्मरणादक्षरात्सम्भवतीति प्रकृतित्वेनोक्ताक्षरस्य भूतयोनेर्वाक्यशेषे तस्मादिति प्रकृतित्वलिङ्गेन प्रत्यभिज्ञानमस्तीति समाधत्ते अत्रोच्यत इति । एतत्कार्यं ब्रह्म सूक्ष्मात्मकं नाम रूपम् , स्थूलं ततोऽन्नं व्रीह्यादीत्यर्थः । यदुक्तं पञ्चम्यन्ताक्षरश्रुत्या भूतयोनेः प्रत्यभिज्ञानादचेतनत्वमिति, तत्राह अक्षरात्परत इति । नायमक्षरशब्दो भूतयोनिं परामृशति, परविद्याधिगम्यत्वेनोक्तस्याक्षरस्य भूतयोनेः 'अक्षरं पुरुषं वेदा' इत्यक्षरश्रुत्या वेद्यत्वलिङ्गवत्या पूर्वमेव ब्रह्मत्वेन परामर्शादित्याह येनेति । येन ज्ञानेनाक्षरं भूतयोनिं सर्वज्ञं पुरुषं वेद तां ब्रह्मविद्यां योग्याय शिष्याय प्रब्रूयादित्युपक्रम्य 'अप्राणो ह्यमनाः शुभ्रः' 'अक्षरात्परतः परः' इत्युच्यमानः परो भूतयोनिरिति गम्यत इत्यर्थः । तर्हि पञ्चम्यन्ताक्षरशब्दार्थः क इत्याशङ्क्याज्ञानमिति वक्ष्यत इत्याह कथमिति । परविद्येति समाख्ययापि तद्विषयस्य ब्रह्मत्वमित्याह अपिचेति । ननु प्रधानविद्यापि कारणविषयत्वात्परेत्यत आह परापरविभागो हीति । अनित्यफलत्वेनापरविद्यां निन्दित्वा मुक्त्यर्थिने ब्रह्मविद्यां प्रोवाचेति वाक्यशेषोक्तेरित्यर्थः । अस्तु प्रधानविद्यापि मुक्तिफलत्वेन परेत्यत आह नचेति । ननु 'यः सर्वज्ञः' इत्यग्रे परविद्याविषय उच्यते, अद्रेश्यवाक्येन तु प्रधानविद्योच्यत इत्यत आह तिस्रश्चेति । इतश्च भूतयोनेर्ब्रह्मत्वमित्याह कस्मिन्निति । अचेतनमात्रस्यैकायतनमुपादानं तज्ज्ञानात्कार्यज्ञानेऽपि तदकार्याणामात्मनां ज्ञानं न भवति । एवं जीवे ज्ञाते तदकार्यस्य भोग्यस्य ज्ञानं न भवतीत्यर्थः । ब्रह्मविद्याशब्दाच्च भूतयोनिर्ब्रह्मेत्याह अपिचेति । स ब्रह्मविद्यां सर्वविद्यानां प्रतिष्ठां समाप्तिभूमिं ब्रह्मविद्यामुवाच । ब्रह्मणि सर्वविद्यानां विद्याफलानां चान्तर्भावाद्ब्रह्मविद्या सर्वविद्याप्रतिष्ठा । नन्वपरविद्या परप्रकरणे किमर्थमुक्तेत्यत आह अपरेति । प्लवन्ते गच्छन्तीति प्लवा विनाशिनः, अदृढानित्यफलसम्पादनाशक्ताः, षोडशर्त्विजः पत्नीयजमानश्चेत्यष्टादश । यज्ञेन नामनिमित्तेन निरूप्यन्त इति यज्ञरूपाः । तथाहि ऋतुषु याचयन्ति यज्ञं कारयन्तीत्यृत्विजः, यजत इति यजमानः, 'पत्युर्नो यज्ञसंयोगे' इति सूत्रेण पतिशब्दस्य नकारोऽन्तादेशो यज्ञसम्बन्धे विहित इति पत्नी, एवमृत्विगादिनामप्रवृत्तिनिमित्तं यज्ञ इति यज्ञरूपाः । येष्ववरमनित्यफलकं कर्म श्रुत्युक्तम् , एतदेव कर्म श्रेयो नान्यदात्मज्ञानमिति ये मूढास्तुष्यन्ति ते पुनः पुनर्जन्ममरणमाप्नुवन्तीत्यर्थः । तद्विज्ञानार्थं ब्रह्मविज्ञानार्थं गुरुमभिगच्छेदेवेति नियमः । ब्रह्मनिष्ठस्याप्यनधीतवेदस्य गुरुत्वं वारयति श्रोत्रियमिति । कार्यमुपादानाभिन्नमित्यंशे दृष्टान्तः । सर्वसाम्ये तवाप्यनिष्टापत्तेरित्याह
अपिच स्थूला इति ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 विशेषणान्न जीवो भेदोक्तेर्न प्रधानमिति हेतुद्वयं विभज्य व्याचष्टे विशिनष्टि हीत्यादिना । दिव्यो द्योतनात्मकः स्वयञ्ज्योतिः, अमूर्तः पूर्णः, पुरुषः पुरिशयः प्रत्यगात्मा, बाह्यं स्थूलमाभ्यन्तरं कारणं सूक्ष्मं ताभ्यां सहाधिष्ठानत्वेन तिष्ठतीति सबाह्याभ्यन्तरः, हि तथा श्रुतिषु प्रसिद्ध इत्यर्थः । अविद्याकृतं नामरूपात्मकं शरीरं तेन परिच्छेदोऽल्पत्वम् । तस्य शरीरस्य धर्माज्जाड्यमूर्तत्वादीनित्यर्थः । नन्वक्षरशब्देन प्रधानोक्तावशब्दत्वं प्रधानस्य प्रतिज्ञातं बाध्येत, तत्राह अक्षरमव्याकृतमिति । अश्नोति व्याप्नोति स्वविकारजातमित्यक्षरम् । अव्याकृतमव्यक्तम् । अनादीति यावत् । नामरूपयोर्बीजमीश्वरः तस्य शक्तिरूपम् । परतन्त्रत्वादुपादानमपि शक्तिरित्युक्तम् । भूतानां सूक्ष्माः संस्कारा यत्र तद्भूतसूक्ष्ममीश्वरश्चिन्मात्र आश्रयो यस्य तत्तथा । तस्यैव चिन्मात्रस्य जीवेश्वरभेदोपाधिभूतम् । यत्तु ईश्वर आश्रयो विषयो यस्येति नानाजीववादिनां व्याख्यानं तद्बाष्यबहिर्भूतम् , 'एतस्मिन्खल्वक्षरे गार्गि आकाश ओतश्च प्रोतश्च' इत्योतप्रोतभावेनाव्याकृतस्य चिदाश्रयत्वश्रुतेराश्रयपदलक्षणाया निर्मूलत्वात् । नहि मूलप्रकृतेर्भेदे किञ्चिन्मानमस्ति । नच 'इन्द्रो मायाभिः' इति श्रुतिर्मानम् , 'अजामेकाम्' इत्याद्यनेकश्रुतिबलेन लाघवतर्कसहायेन तस्याः श्रुतेर्बुद्धिभेदेन मायाभेदानुवादित्वात् । तदुक्तं सुरेश्वराचार्यैः 'स्वतस्त्वविद्याभेदोऽत्र मनागपि न विद्यते' इति । साङ्ख्ययोगाचार्याः पुराणेतिहासकर्तारश्च मूलप्रकृत्यैक्यं वदन्ति । नन्वविद्यैक्ये बन्धमुक्तिव्यवस्था कथम् । नच व्यवस्था नास्तीति वाच्यम् , श्रवणे प्रवृत्त्यादिबाधापातादिति चेत् , उच्यतेये ह्यविद्यानानात्वमिच्छन्ति तैरपि परिणामित्वेन सांशत्वमविद्याया अङ्गीकार्यम् , तथा चानर्थात्मकस्वीयसङ्घातात्मना परिणताविद्यांशोपहितजीवभेदाद्व्यवस्था सिध्यति । यस्य ज्ञानमन्तःकरणे जायते तस्यान्तः करणपरिणाम्यज्ञानांशनशो मुक्तिरिति । एवं च श्रोतुः स्वरूपानन्दप्राप्तिः, श्रवणादो प्रवृत्तिः, विद्वदनुभवः, जीवन्मुक्तिशास्त्रं चेति सर्वमबाधितं भवति । नचैवं नानाजीवपक्षादविशेषः, मूलप्रकृतिनानात्वाभावादित्यलम् । परत्वेहेतुः अविकार इति । ननु सूत्रकृता श्रुतौ प्रधानाद्भेदव्यपदेश उक्तस्तत्र कथमज्ञानाद्भेदोक्तिर्व्याख्यायते, तत्राह नात्रेति ।
कार्यात्मना प्रधीयत इति प्रधानमज्ञानमेव । ततोऽन्यस्याप्रामाणिकत्वादित्यर्थः । अतोऽत्राज्ञानमेव भूतयोनिरिति पूर्वपक्षं कृत्वा निरस्यते । तन्निरासेनार्थात्साङ्ख्याकल्पितप्रधाननिरास इति मन्तव्यम् ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 वृत्तिकृन्मतेनादौ सूत्रं व्याचष्टे अपिचेत्यादिना । 'प्राणो मनः सर्वेन्द्रियाणि च खं वायुर्ज्योतिरापः पृथिवी' इति श्रुतिः । अग्निर्धुलोकः, 'असौ वाव लोको गौतमाग्निः' इति श्रुतेः । विवृता वेदाः वागित्यन्वयः । पद्भ्यां पादावित्यर्थः । यस्येदं रूपं स एष सर्वप्राणिनामन्तरात्मेत्यर्थः । तनुमहिम्न इति । अल्पशक्तेरित्यर्थः । यथा कश्चिब्रह्मवित्स्वस्य सर्वात्मत्वप्रकटनार्थमहमन्नमिति साम गायति न त्वन्नत्वादिकमात्मनो विवक्षति, अफलत्वात् , तथेहापीत्याह अहमन्नमिति । वृत्तिकृद्व्याख्यां दूषयति अन्ये पुनरिति । एष सर्वभूतान्तरात्मा सूत्रात्मा एतस्माद्भूतयोनेर्जायत इति श्रुत्यन्वयेन हिरण्यगर्भस्यात्र जायमानत्वेनोपन्यासादित्यर्थः । निरदिक्षदवोचदित्यर्थः । अग्निर्द्युलोको यस्य, यस्य समिद्रूपः सूर्यः सोऽपिद्युलोकाग्निस्तस्मादजायतेत्यर्थः । 'तस्मादित्य एव समित्' इति श्रुत्यन्तरात् । अतो मध्येऽपि सृष्टिरेव वाच्या न रूपमिति भावः । यदुक्तम् 'अग्निर्मूर्धा' इत्यत्र भूतयोनेः सर्वात्मत्वं विवक्षितमिति, तत्रेत्याह सर्वात्मत्वमपीति । ननु हिरण्यगर्भस्य जन्मान्यत्रानुक्तं कथमत्र वक्तव्यम् , तत्राह श्रुतीति । अग्रे समवर्तत जातः सन्भूतग्रामस्यैकः पतिरीश्वरप्रसादादभवत् । स सूत्रात्मा द्यामिमां पृथिवीं च स्थूलं सर्वमधारयत् । कशब्दस्य प्रजापतिसंज्ञात्वे सर्वनामत्वाभावेन स्मा इत्ययोगादेकारलोपेनैकस्मै देवाय प्राणात्मने हविषा विधेम परिचरेमेति व्याख्येयम् , 'कतम एको देव इति प्राणः' इति श्रुतेः । यद्वा यस्मादयं जातस्तस्मा एकस्मै देवायेत्यर्थः, 'एको देवः सर्वभूतेषु गूढः' इति श्रुत्यन्तरात् । ननु तस्य भूतान्तरात्मत्वं कथम् , तत्राह विकारेति । पूर्वकल्पे प्रकृष्टोपासनाकर्मसमुच्चयानुष्ठानदस्मिन्कल्पे सर्वप्राणिव्यष्टिलिङ्गानां व्यापकं सर्वप्राण्यन्तर्गतं ज्ञानकर्मेन्द्रियप्राणात्मकं समष्टिलिङ्गशरीरं जायते तद्रूपस्य सूत्रात्मनः सर्वभूतान्तरात्मत्वं युक्तमित्यर्थः । स्वपक्षे सूत्रार्थमाह अस्मिन्पक्ष इति ।
कर्म सफलं सर्वं श्रौतस्मार्तादिकं तपश्च पुरुष एवेति सर्वान्तरत्वरूपोपन्यासाच्च भूतयोनौ ज्ञेये वाक्यं समन्वितमित्यर्थः ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 वैश्वानरः । छान्दोग्यमुदाहरति को न इति । प्राचीनशालसत्ययज्ञेन्द्रद्युम्नजनबुडिला मिलित्वा मीमांसां चक्रुः 'को न आत्मा किं ब्रह्म' इति । आत्मैव ब्रह्मेति ज्ञापनार्थं पदद्वयम् । ते पञ्चापि निश्चयार्थमुद्दालकमाजग्मुः । सोऽपि सम्यङ्न वेदेति तेनोद्दालकेन सह षडप्यश्वपतिं कैकेयं राजानमागत्योचुः आत्मानमिति । अध्येषि स्मरसि तमेव नो ब्रूहीति । राजा तु तेषां भ्रान्तिनिरासार्थं तान्प्रत्येकमपृच्छत् 'कं त्वमात्मानमुपाःसे' इति । ते च प्राचीनशालादयः क्रमेण प्रत्येकमूचुःदिवमेवाहं वैश्वानरं वेद्मि । आदित्यमेवाहं वेद्मि । वायुमेव । आकाशमेव । अप एव । पृथिवीमेवाहं वेद्मीति । ततो राजा द्युसूर्यादीनां षण्णां यथाक्रमेण सुतेजस्त्वविश्वरूपत्वपृथग्वर्त्मात्मत्वबहुलत्वरयित्वप्रतिष्ठात्वगुणान्विधाय भवन्तो यदि मामपृष्ट्वा द्युसूर्यादिषु भगवतो वैश्वानरस्याङ्गेष्वेव प्रत्येकं वैश्वानरत्वदृष्टयो भवेयुस्तदा क्रमेण मूर्धपातान्धत्वप्राणोत्क्रमणदेहविशीर्णत्वबस्तिभेदपादशोषा भवतां स्युरिति प्रत्येकोपासनं निन्दित्वा, सुतेजस्त्वगुणको द्युलोकोऽस्यात्मनो वैश्वानरस्य मूर्धा, विश्वरूपत्वगुणकः सूर्योऽस्य चक्षुरित्येवं द्युसूर्यादीनां मूर्धादिभावमुपदिश्य समस्तवैश्वानरध्यानविधिराम्नायते यस्त्वेतमिति । आभिमुख्येनापरोक्षतया विश्वं मिमीते जानातीत्यभिविमानः । तं सर्वज्ञं स तदुपासकः सर्वत्र भोगं भुङ्क्त इत्यर्थः । लोका भूरादयः, भूतानि शरीराणि, आत्मानो जीवा इति भेदः । सुष्ठु तेजः कान्तिर्यस्य द्युलोकस्य स सुतेजाः । विश्वानि रूपाण्यस्य सूर्यस्य, 'एष शुक्ल एष नीलः' इति श्रुतेः । पृथक्नानाविधं वर्त्म गमनमात्मा स्वभावो यस्य वायोः स नानागतित्वगुणकोऽस्य प्राणः । बहुलत्वं व्यापित्वं तद्गुण आकाशोऽस्य सन्देहो देहमध्यम् । रयित्वं धनत्वं तद्गुणा आपो यस्य बस्तिर्मूत्रस्थानम् । प्रतिष्ठात्वगुणा पृथिवी तस्य पादौ । तस्य होमाधारत्वं सम्पादयति उर एवेत्यादिना । पूर्वमुपक्रमस्थादृश्यत्वादिसाधारणधर्मस्य वाक्यशेषस्थसर्वज्ञत्वादिलिङ्गेन ब्रह्मनिष्ठत्वमुक्तम् , तद्वदत्राप्युपक्रमस्थसाधारणवैश्वानरशब्दस्य वाक्यशेषस्थहोमाधारत्वलिङ्गेन जाठरनिष्ठत्वमिति दृष्टान्तेन पूर्वपक्षयति किन्तावदित्यादिना । पूर्वोत्तरपक्षयोर्जाठरब्रह्मणोर्ध्यानं फलम् । यदद्यते तदन्नम् , येन पच्यते सोऽयं पुरुषशरीरेऽन्तरस्तीत्यर्थः । पक्षान्तरमाह अग्निमात्रं वेति । विश्वस्मै भुवनाय वैश्वानरमग्निमह्नां केतुं चिह्नं सूर्यं देवा अकृण्वन् कृतवन्तः । सूर्योदये दिनव्यवहारादित्यर्थः । स्याद्वैश्वानर इत्यनुषङ्गः । हि यस्मात्कं सुखप्रदो भुवनानां राजा वैश्वानरोऽभिमुखा श्रीरस्येत्यभिश्रीरीश्वरः, तस्मात्तस्य वैश्वानरस्य सुमतौ वयं स्याम तस्यास्मद्विषया शुभमतिर्भवत्वित्यर्थः । पक्षत्रयेऽप्यरुचिं वदन्कल्पान्तरमाह अथेत्यादिना । 'आत्मा वैश्वानरः' इति श्रुतेरित्यर्थः । केवलत्वं वैश्वानरशब्दशून्यत्वम् । अत्र जाठरो वैश्वानर इति मुख्यः पूर्वपक्षः, प्राणाग्निहोत्रहोमाधारत्वलिङ्गात् । तस्य देहव्यापित्वादात्मत्वं श्रुत्या द्युमूर्धत्वादिकल्पनया बृहत्त्वाद्ब्रह्मत्वमिति ध्येयम् । सिद्वान्तयति तत इदमिति । साधारणश्रुत्योरूपक्रमस्थयोर्विशेषात्प्रथमश्रुतमुख्यत्रैलोक्यशरीरलिङ्गात्सर्वात्मकेश्वरपरत्वं युक्तम् , न चरमश्रुतकल्पितहोमाधारत्वलिङ्गेन जाठरत्वमित्यर्थः । ननु निर्विशेषस्य कुतो विशेष इत्यत आह अत्र हीति । अवस्थान्तरगतः त्रैलोक्यात्मना स्थित इत्यर्थः । जाठरस्यापि ध्यानार्थं विशेषकल्पनेति चेत् , न, असत्कल्पनापत्तेः । ईश्वरस्य तु उपादानत्वाद्विशेषः सन्नेव ध्यानार्थमुच्यतामित्याह कारणत्वादिति । लिङ्गान्तराण्याह स सर्वेष्वित्यादिना ।
यथाग्नौ निक्षिप्तमिषीकातूलं दह्यते एवं हास्य विदुष इत्यर्थः ॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 नन्वसदारोपेणापि स्तुतिसम्भवान्न मूलश्रुत्यपेक्षेत्याशङ्क्याह यद्यपि स्तुतिरिति । तथापीतिपदमर्थतः पठति स्तुतित्वमपीति ।
द्युमूर्धत्वादिरूपेण स्तुतिर्नरमात्रेण कर्तुमशक्या विना श्रुतिमित्यर्थः । सता रूपेण स्तुति सम्भवान्नासदारोप इति भावः ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 शब्दादीनां गतिं वक्तुमुक्तसिद्वान्तमाक्षिप्य समाधत्ते शब्दादिभ्य इति । 'स एषोऽग्निर्वैश्वानरः' इत्यग्निरहस्ये वैश्वानरविद्यायां श्रुतोऽग्निशब्द ईश्वरे न सम्भवतीत्यन्वयः । सूत्रस्थादिशब्दार्थमाह आदिशब्दादिति । भक्तमन्नम् , होमीयं होमसाधनम् , तेन प्राणाग्निहोत्रं कार्यमित्यर्थः । वाजसनेयिनामग्निरहस्ये सप्रपञ्चां वैश्वानरविद्यामुक्त्वा 'स यो हैतमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद स सर्वत्रान्नमत्ति' इत्युक्तं देहान्तःस्थत्वं जाठरे सम्भवति, प्रसिद्धेरित्याह तथेति । अत्र सूत्रे आदिपदेनैवान्तःप्रतिष्ठानस्य ग्रहे सम्भवति पृथगुक्तिः साधारणलिङ्गत्वद्योतनार्था । शब्दादिबलादिदमपि जाठरं गमयतीत्यभ्युच्चयः । यद्यपि द्युमूर्धत्वादिविशेष ईश्वरपक्षपाती होमाधारत्वादिर्जाठरपक्षपातीति प्रतिभानं समं तथापि पारमेश्वरो विशेषो जाठरे न सम्भवतीति बलवानित्यत आह अथवेति । एष द्युमूर्धत्वादिनिर्देश इत्यर्थः । इमां पृथिवीं द्यामपि ते एव द्यावापृथिव्यौ रोदसी तथोर्मध्यमन्तरिक्षं च यो भूताग्निर्भानुरूपेणाततान व्याप्तवान् स ध्यातव्य इत्यर्थः । जडमात्रस्य न ध्येयत्वमित्यत आह अथवेति । सिद्धान्तयति न तथादृष्ट्युपदेशादितीति । परमेश्वरदृष्ट्योपास्यजाठराग्निप्रतीकवाचकाभ्यामग्निवैश्वानरशब्दाभ्यां द्युमूर्धत्वादिमानीश्वरो लक्ष्य इत्युक्त्वा कल्पान्तरमाह अथवा जाठरेति । अस्मिन्पक्षे प्राधान्येनेश्वरोपास्यता पूर्वत्र गुणतयेति भेदः । उपाधिवाचिभ्यां पदाभ्यामुपहितो लक्ष्य इत्यर्थः । लक्षणाबीजमसम्भवं व्याचष्टे यदि चेति । पुरुषमपीत्यादिसूत्रशेषं व्याचष्टे यदि च केवल इति । ईश्वरप्रतीकत्वोपाधित्वशून्यैत्यर्थो विवक्ष्येत तदेति शेषः । यत्यः, पुरुषः, स एषोऽग्निर्वैश्वानरशब्दितजाठरोपाधिक इति श्रुत्यर्थः । यो वेद स सर्वत्र भुङ्क्त इत्यर्थः । पुरुषत्वं पूर्णत्वमचेतनस्य जाठरस्य नेत्युक्त्वा पाठान्तरे पुरुषविधत्वं देहाकारत्वं तस्य नेत्याह ये त्विति । ननु जाठरस्यापि देहव्यापित्वात्तद्विधत्वं स्यादित्यत आह पुरुषविधत्वं च प्रकरणादिति ।
न देहव्यापित्वं पुरुषविधत्वं किन्तु विराड्देहाकारत्वम् , अधिदैवं पुरुषविधत्वमध्यात्मं चोपासकमूर्धादिचुबुकान्तेष्वङ्गेषु सम्पन्नत्वमीश्वरस्य पुरुषविधत्वमित्यर्थः ॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 ईश्वरस्याङ्गेषु सम्पत्तिर्वक्ष्यते । एवं जाठरं निरस्य पक्षद्वयं निरस्यति अत एवेति । सूत्रं व्याचष्टे यत्पुनरित्यादिना । द्युमूर्धत्वादिः, सर्वलोकफलभाक्त्वम् , सर्वपाप्मप्रदाहः, आत्मब्रह्मशब्दोपक्रम उक्तहेतवः । तानेव स्मारयति न हि भूताग्नेरित्यादिना ।
'यो भानुना' इति मन्त्रेणेश्वरदृष्ट्या महिमोक्त इति भावः ॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वमग्निवैश्वानरशब्दावीश्वरलक्षकावित्युक्तम् । अधुना प्रतीकोपाधिपरित्यागेन विराट्पुरुषाकारस्य भगवतो वैश्वानरस्याध्यात्मं मूर्धादिचुबुकान्तेषु सम्पाद्योपास्यत्वाङ्गीकारेऽपि न शब्दादिविरोधः शब्दयोरीश्वरे योगवृत्त्या मुख्यत्वात् , अन्तःस्थत्वादीनां च तत्र सम्भवादित्याह साक्षादपीति । साक्षात्पदस्यार्थमाह विनैवेति । जाठराग्निसम्बन्धं विनेश्वरस्योपास्यत्वेऽपि शब्दाद्यविरोधं जैमिनिर्मन्यत इत्यर्थः । इदमन्तस्थत्वमुदरस्थत्वरूपं नोच्यते किन्तु नखादिशिखान्तावयवसमुदायात्मकपुरुषशरीरे मूर्धादिचिबुकान्ताङ्गानि वृक्षे शाखावत्प्रतिष्ठितानि, तेषु सम्पन्नो वैश्वानरः पुरुषेऽन्तःप्रतिष्ठित इत्युच्यते । अतो यथा शाखास्थस्य पक्षिणो वृक्षान्तःस्थत्वं तथा वैश्वानरस्य पुरुषान्तःस्थत्वमित्याह न हीह पुरुषविधमित्यादिना । अग्न्यादिशब्दस्येश्वरवाचित्वाज्जाठराग्नेरसंशब्दितत्वम् । अत्रेश्वरस्य पुरुषावयवेषु सम्पादनात्पुरुषविधत्वमन्तःस्थत्वं चेत्यर्थः । पक्षान्तरमाह अथवेति । पुरुषविधत्वं पूर्ववत् । अन्तःस्थत्वं माध्यस्थ्यं साक्षित्वमित्यर्थः । एवमन्तःस्थत्वमीश्वरे व्याख्याय शब्दादीनि व्याचष्टे निश्चिते चेति । विश्वश्चायं नरो जीवश्च सर्वात्मत्वात् । विश्वेषां विकाराणां वा नरः कर्ता । विश्वे सर्वे नरा जीवा अस्यात्मत्वेन नियम्यत्वेन वा सन्तीति विश्वानरः । रक्ष एव राक्षस इतिवत्स्वार्थे तद्धितप्रत्ययः । 'नरे संज्ञायां' इति पूर्वपदस्य दीर्घता । अगिधातोर्गत्यर्थस्य निप्रत्ययान्तस्य रूपमग्निरिति । अङ्गयति गमयत्यग्रं कर्मणः फलं प्रापयतीति अग्निरग्रणीरुक्तः । अभितोऽग इति वा अग्निः । वैश्वानरोपासकस्यातिथिभोजनात्पूर्वं प्राणाग्निहोत्रं विद्याङ्गत्वेन विहितम् , तदर्थमग्नित्रेतादिकल्पनं प्रधानाविरोधेन नेतव्यमित्याह
गार्हपत्येति ॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】
मात्रां परिमाणमतिक्रान्तोऽतिमात्रः तस्य विभोरित्यर्थः । उपासकानां कृतेऽनुग्रहाय प्रादेशमात्रोऽभिव्यज्यते, प्रदेशेषु वा मीयतेऽभिव्यज्यत इति प्रादेशमात्रः ॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 मतान्तरमाह अनुस्मृतेरिति । प्रादेशेन मनसा मितः प्रादेशमात्र इत्यर्थः । यथाकथञ्चिदिति । मनःस्थं प्रादेशमात्रत्वं स्मृतिद्वारा स्मर्यमाणे कल्पितं श्रुतेरालम्बनमित्यर्थः । सूत्रस्यार्थान्तरमाह
प्रादेशेति ॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 सम्प्रति श्रुत्युक्तां प्रादेशमात्रश्रुतेर्गतिमाह सम्पत्तेरिति । ब्राह्मणं पठति प्रादेशमात्रमिवेति । अपरिच्छिन्नमपीश्वरं प्रादेशमात्रत्वेन सम्पत्त्या कल्पितं सम्यग्विदितवन्तो देवास्तमेवेश्वरमभि प्रत्यक्त्वेन सम्पन्नाः प्राप्तवन्तः, ह वै पूर्वकाले, ततो वो युष्मभ्यम् , तथा द्युप्रभृतीनवयवान्वक्ष्यामि यथा प्रादेशमात्रं प्रादेशपरिमाणमनतिक्रम्य मूर्धाद्यध्यात्माङ्गेषु वैश्वानरं सम्पादयिष्यामीति प्राचीनशालदीन्प्रति राजा प्रतिज्ञाय स्वकीयमूर्धानमुपदिशन् करेण दर्शयन्नुवाचएष वै मे मूर्धा भूरादींल्लोकानतीत्य उपरि तिष्ठतीत्यतिष्ठाासौ द्युलोको वैश्वानरः । तस्य मूर्धेति यावत् । अध्यात्ममूर्धाभेदेनाधिदैवमूर्धा सम्पाद्य ध्येय इत्यर्थः । एवं चक्षुरादिषूहनीयम् । स्वकीयचक्षुषी दर्शयन् 'एष वै सुतेजाः सूर्यो वैश्वानरस्य चक्षुरित्युवाच' । नासिकापदेन तन्निष्ठः प्राणो लक्ष्यते तस्मिन्नाध्यात्मिकप्राणेऽधिदैवप्राणस्य वायोर्दृष्टिमाह नासिक इति । अत्र सर्वत्र वैश्वानरशब्दस्तदङ्गपरः । मुखस्थं मुख्यं तस्मिन्नधिदैवं बहुलाकशदृष्टिः मुखस्थलालारूपास्वप्सु रैशब्दिततदीयबस्तिस्थोदकदृष्टिः चिबुके प्रतिष्ठा पादरूपा पृथिवी द्रष्टव्या । ननु गुणवैषम्येण विद्ययोर्भेदादग्निरहस्ये श्रुत्यनुसारेण छान्दोग्यस्थप्रादेशमात्रक्षुतिः कथं व्याख्येयेत्याशङ्क्याह यद्यपीत्यादिना ।
एतावताल्पवैषम्येण बहुतरप्रत्यभिज्ञासिद्धं विद्यैक्यं न हीयते । शाखाभेदेऽपि सर्वशाखासु प्रतीयमानं वैश्वानराद्युपासनमेकमिति न्यायस्य वक्ष्यमाणत्वाच्च । अतिष्ठात्वगुणश्छान्दोग्य उपसंहर्तव्यः । विश्वरूपत्वगुणश्च वाजिभिर्ग्राह्यः । तथाच द्युसूर्ययोः सुतेजस्त्वं सममतिष्ठात्वविश्वरूपत्वयोर्व्यवस्था । यद्वा शाखाभेदेन गुणव्यवस्थास्तु न विद्याभेद इति भावः ॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 प्रादेशत्वस्य सम्पत्तिप्रयुक्तत्वे श्रुत्यन्तरं संवादयति आमनन्तीति । य एषोऽनन्तोऽपरिच्छिन्नः अतोऽव्यक्तो दुर्विज्ञेयस्तं कथं जानीयामित्यत्रेः प्रश्ने याज्ञवल्क्यस्योत्तरम् , स ईश्वरोऽविमुक्ते कामादिभिर्बद्धे जीवे भेदकल्पनया प्रतिष्ठित उपास्यः । पुनरत्रिप्रश्नः स इति, उत्तरं वरणायामिति । एवं प्रश्नोत्तरे अग्रेऽपि ज्ञेये । तत्र च श्रुतौ इमामेव भ्रूसहितां नासिकां निरुच्येति भाष्ययोजना । सर्वानिन्द्रयकृतान्दोषान्वारयतीति वरणा भ्रूः, सर्वान्दोषान्नाशयतीति नासी नासिकेति निर्वचनं श्रुतम् । नासाभ्रुवोर्जीवद्वारेश्वरस्थानत्वध्यानात्पापवारकत्वमिति मन्तव्यम् । तयोर्मध्येऽपि विशिष्य जीवस्य स्थानं पृच्छति कतमदिति, भ्रुवोरित्युत्तरम् । प्राणस्येति पाठेऽपि घ्राणस्येत्यर्थः । स एष सन्धिर्द्युलोकस्य स्वर्गस्य परस्य च ब्रह्मलोकस्य सन्धित्वेन ध्येय इत्याह स एष इति ।
आभिमुख्येनाहं ब्रह्मेति विमीयते ज्ञायते इत्यभिविमानः प्रत्यगात्मा । अभिगतश्चासौ विमानश्च, सर्वस्वरूपत्वे सत्यानन्त्यात् । मानमत्र परिमाणम् । अभिविमिमीते निर्मिमीते । तस्माद्वैश्वानरवाक्यमुपास्ये ब्रह्मणि समन्वितमिति सिद्धम् ॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्यायस्य द्वितीयः पादः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 प्रथमाध्याये तृतीयः पादः
द्युभ्वोतभूमपदमक्षरमीक्षणीयं श्रीराममल्पह्रदि भान्तमधीशितारम् । इन्द्रादिवेद्यमखिलस्य च शासितारं ज्योतिर्नभः पदमनिद्रमजं भजेऽहम् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 एवं रूढिपदबहुलानां प्रायेण सविशेषवाक्यानां समन्वयो द्वितीयपादे दर्शितः । अधुना यौगिकपदबहुलानां निर्विशेषप्रधानानां वाक्यानां समन्वयं वक्तुं तृतीयः पाद आरभ्यते । अतोऽत्राधिकरणानां श्रुत्यध्यायपादसङ्गतयः । तत्र पूर्वमुपक्रमस्थसाधारणशब्दस्य वाक्यशेषस्थद्युमूर्धत्वादिना ब्रह्मपरत्वमुक्तम् , तद्वदत्राप्युपक्रमस्थसाधारणायतनत्वस्य वाक्यशेषस्थसेतुश्रुत्या वस्तुतः परिच्छिन्ने प्रधानादौ व्यवस्थेति दृष्टान्तलक्षणाधिकरणसङ्गतिः । पूर्वपक्षे प्रधानाद्युपास्तिः, सिद्वान्ते निर्विशेषब्रह्मधीरिति फलम् । मुण्डकवाक्यमुदाहरति इदमिति । यस्मिन् लोकत्रयात्मा विराट् , प्राणैः सर्वैः सह मनः सूत्रात्मकम् , चकारादव्याकृतं कारणमोतं कल्पितं तदपवादेन तमेवाधिष्ठानात्मानं प्रत्यगभिन्नं जानथ श्रवणादिना । अन्या अनात्मवाचो विमुञ्चथ विशेषेण निःशेषं त्यजथ । एष वाग्विमोकपूर्वकात्मसाक्षात्कारोऽमृतस्य मोक्षस्यासारापारदुर्वारसंसारवारिधेः परपारस्य सेतुरिव सेतुः प्रापक इति मातृवच्छ्रुतिर्मुमुक्षूनुपदिशति । तत्रायतनत्वस्य साधारणधर्मस्य दर्शनात्संशयमाह तत्किमिति । अमृतस्य ब्रह्मणः सेतुरिति षष्ठ्या ब्रह्मणो भिन्नत्वेन सेतोः श्रुतत्वादेषशब्दपरामृष्टं द्युभ्वाद्यायतनमब्रह्मैव सेतुरिव सेतुरित्याह अमृतस्येति । भेदश्रवणात्सेतुरिति श्रवणच्चेत्यर्थः । तत्र भेदश्रवणं व्याख्यातम् । सेतुश्रवणं स्वयं विवृणोति पारवानिति । अनन्तं कालतः । अपारं देशतः । जलविधारकमुख्यसेतोर्ग्रहणासम्भवाद्गौणसेतुग्रहे कर्तव्ये मुख्यसेत्वविनाभूतपारवत्त्वगुणवानेव कश्चिद्ग्राह्यः । नतु मुख्यस्यानियतविधारणगुणवानीश्वर इति भावः । यथा लोके मणयः सूत्रेण ग्रथिता एवं हे गौतम, समष्टिलिङ्गात्मकवायुना स्थूलानि सर्वाणि सन्दृब्धानि ग्रथितानि भवन्तीति श्रुत्यर्थः । आत्मशब्दात्पक्षद्वयमप्ययुक्तमित्यत आह शारीरो वेति । सद्वितीयत्वेन सेतुशब्दोपपत्तेश्चेत्यर्थः । नन्वात्मशब्दो जीवे सम्भवतीत्यत आह आत्मशब्दश्चेति । उपाधिपरिच्छिन्नस्य जीवस्य सर्ववस्तु प्रत्येकं मुख्यं नास्तीत्यर्थः । उपक्रमस्थसाधारणायतनस्य गौणसेतुत्वलिङ्गात्प्रथमश्रुतात्मश्रुत्या ब्रह्मनिश्चय इति भावः । स्वशब्दादित्यस्यार्थान्तरमाह क्वचिच्चेति । प्रजानामुत्पत्तौ सदेव मूलम् , स्थितावायतनम् , लये प्रतिष्ठेति ब्रह्मवाचिसत्पदेन छान्दोग्ये ब्रह्मण आयतनत्वश्रुतेरत्रापि तथेत्यर्थः । अर्थान्तरमाह स्वशब्देनैवेति । 'यस्मिन् द्यौः' इति वाक्यात्पूर्वोत्तरवाक्ययोः पुरुषब्रह्मादिशब्देन ब्रह्मसङ्कीर्तनान्मध्येऽपि ब्रह्म ग्राह्यमित्यर्थः । पुरुष इति पूर्ववाक्यम् , ब्रह्मैवेत्युत्तरवाक्यम् , सर्वासु दिक्षु स्थितं सर्वं ब्रह्मैवेत्यर्थः । उत्तरेणोत्तरस्यां दिशि । उदाहृतवाक्यस्य सविशेषब्रह्मपरत्वमाशङ्क्य वाक्यं व्याचष्टे तत्रेत्यादिना । सामानाधिकरण्याद्विचित्र आत्मेति सम्बन्धः । यस्मिन् सर्वमोतं तमेवैकमित्येवकारैकशब्दाभ्यां निर्विशेषं ज्ञेयमित्युक्त्वा हेत्वन्तरमाह विकारानृतेति । विकारेऽनृते कल्पिते अभिसन्धोऽभिमानो यस्य तस्यानर्थभाक्त्वेन निन्दाश्रुतेश्च कूटस्थसत्यं ज्ञेयमित्यर्थः । कथं तर्हि सामानाधिकरण्यम् , तत्राह सर्वं ब्रह्मेति । यश्चोरः स स्थाणुरितिवत्यत्सर्वं तद्ब्रह्मेति सर्वोद्देशेन ब्रह्मत्वविधानाद्बाधनार्थम् , न तु यद्ब्रह्म तत्सर्वमिति नानारसत्वार्थमित्यर्थः । तत्र नियामकमाह स यथेति । लवणपिण्डोऽन्तर्बहिश्च रसान्तरशून्यः सर्वो लवणैकरसो यथा, एवमरे मैत्रेयि, चिदेकरस आत्मेत्यर्थः । यद्यपि पारवत्त्वसावयवत्वादिकं मुख्यसेत्वव्यभिचारि तथापि सेतोर्जलादिबन्धनरूपं यद्विधारणं तदेव व्यभिचारित्वेऽपि सेतुपदार्थैकदेशत्वाद्गुणत्वेन ग्राह्यं नतु पदार्थबहिर्भूतं पारवत्त्वादिकमित्याह अत्रोच्यत इति । दृष्टत्वात्तद्ग्रहेऽतिप्रसङ्गमाह नहीति । अत्र श्रुतौ परेणेति शेषः । विधारणस्य शब्दार्थत्वं स्फुटयति षिञिति । सिनोति बध्नातीति सेतुपदार्थैकदेशो विधारणमित्यर्थः । तथा चामृतपदस्य भावप्रधानत्वादमृतत्वस्य सेतुर्विधारकं ब्रह्म । अस्यैवामृतत्वं नान्यस्येत्यर्थः । यद्वा द्युभ्वाद्याधारो ब्रह्म न सेतुशब्दार्थः किन्त्वव्यवहितं ज्ञानमित्याह अपर इति । फलितमाह तत्र यदुक्तमिति ।
ज्ञाने सेतौ गृहीते सतीत्यर्थः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 मुक्तैरूपसृप्यं प्रत्यक्त्वेन प्राप्यं यद्ब्रह्म तस्यात्रोक्तेरिति सूत्रार्थः । मुक्तिप्रतियोगिनं बन्धं दर्शयति देहादिष्विति । तद्विपर्ययेणेति । उक्तपञ्चक्लेशात्मकबन्धनिवृत्त्यात्मना स्थितमित्यर्थः । यथा नद्यो गङ्गाद्या नामरूपे विहाय समुद्रात्मना तिष्ठन्ति तथा ब्रह्मात्मविदपि संसारं विहाय परात्कारणादव्यक्तात्परं पूर्णं स्वयञ्ज्योतिरानन्दं प्रत्यक्त्वेन प्राप्य तिष्ठतीत्याह तथा विद्वानिति । इदं प्रधानादेः किं न स्यादत आह ब्रह्मणश्चेति । अस्य मुमुक्षोः, हृदीति पदेनात्मधर्मत्वं कामानां निरस्तम् । यदा कामनिवृत्तिरथ तदामृतो भवति, मरणहेत्वभावात् । न केवलमनर्थनिवृत्तिः किन्त्वत्र देहे तिष्ठन्नेव ब्रह्मानन्दमश्नुत इत्यर्थः । लिङ्गान्तरमाह अपिचेति । धीरो विवेकी तमेवात्मानं विज्ञाय विशुद्दं लक्ष्यपदार्थं ज्ञात्वा वाक्यार्थज्ञानं कुर्यात् । ज्ञानार्थिनो ज्ञानप्रतिबन्धककर्मकाण्डादेर्वैमुख्यमाह नेति ।
बहूनित्युक्त्या अल्पान्वेदान्तशब्दानङ्गीकरोति । 'अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्थता । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च' ॥ इत्येतानि वागिन्द्रियस्थानत्वाद्वाक्शब्देनोच्यन्ते । तेषां शोषणमात्रमनात्मशब्दोच्चारणफलं तद्ध्यानान्मनसो ग्लानिमात्रमित्यर्थः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 वैशेषिक इति । असाधारण आत्मशब्दादिरित्यर्थः । अतच्छब्दादित्यस्यार्थान्तरमाह तद्विपरीतस्येति ।
अत एवातच्छब्दादेव ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 प्राणभृच्चेति । सूत्रे चकारः पूर्वसूत्रस्थनञोऽनुषङ्गार्थः । सर्वज्ञपदसमानाधिकरणमात्मशब्दो न जीववाचीत्यतच्छब्दस्तस्मादित्यर्थः । ननु 'नानुमानप्राणभृतावतच्छब्दात्' इत्येकमेव सूत्रं किमर्थं न कृतमुभयनिरासहेतोरेकत्वादित्यत आह पृथगिति ।
योगः सूत्रम् । उत्तरसूत्रस्थहेतूनां जीवमात्रनिरासेनान्वयेऽपि सुबोधार्थं प्राणभृच्चेति पृथक्सूत्रकरणमित्यर्थः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】
एवं च जीवत्वलिङ्गविशिष्टत्वेन जीवस्य द्युभ्वादिवाक्यार्थत्वं निरस्यते न शुद्धरूपेणेति मन्तव्यम् ॥ ५ ॥ ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 तानेव हेतूनाकाङ्क्षाद्वारा व्याचष्टे कुतश्चेत्यादिना । यद्यपि विशुद्धः प्रत्यगात्मैवात्र ज्ञेयः तथापि जीवत्वाकारेण ज्ञातुर्ज्ञेयाद्भेदान्न ज्ञेयरूपत्वमित्यर्थः । ननु स्थित्येश्वरस्यादनाजीवस्य 'द्वा सुपर्णा' इत्यत्रोक्तावपि ईश्वर आयतनवाक्येन किमर्थं ग्राह्य इत्यत आह यदि चेश्वर इति । अत्र चेश्वरः शुद्धचिन्मात्रो ग्राह्यः, न सर्वज्ञत्वादिविशिष्टः, तस्यात्राप्रतिपाद्यत्वात् । तथा चाप्रतिपाद्यार्थस्याकस्मान्मध्ये वचनासम्भवादाद्यवाक्येन ग्रहणं कार्यमित्यभिसन्धिः । तमज्ञात्वा शङ्कते ननु तवापीति । ब्रह्मस्वरूपप्रतिपादनार्थमकस्मादप्रकृतस्यापि लोकप्रसिद्धस्य जीवस्यानुवादसम्भव इति परिहरति नेति । ननु 'द्वा सुपर्णा' इत्यत्र बुद्धिजीवयोरुक्तेः कथमिदं सूत्रमित्यत आह गुहामिति । स्थित्यदनाभ्यामीश्वरक्षेत्रज्ञयोरनुवादेनैक्यं दर्शितमित्यर्थः । नन्वत्र जीवेशौ नानुवाद्यौ, पैङ्गिव्याख्याविरोधादतः सूत्रासङ्गतिरित्यत आह यदापीति । तदापि सूत्रस्यासङ्गतिर्नास्तीत्यर्थः । अदनवाक्येन बुद्धिमनूद्य स्थितिवाक्येन बुद्ध्यादिविलक्षणशुद्धप्रत्यग्ब्रह्मणो ज्ञेयस्योक्तेर्द्युभ्वादिवाक्ये तदेव ग्राह्यम् , न बुद्ध्युपहितो जीव इति सूत्रसङ्गतिमाह कथमित्यादिना । नन्वत्रानुपहितो जीव उक्तो न परं ब्रह्मेत्यत आह यस्त्विति । पौनरुक्त्यं शङ्कते तदेतदिति । द्युभ्वादिवाक्यस्य ब्रह्मपरत्वमित्यर्थः । समाधत्ते प्रपञ्चार्थमिति ।
सेतुशब्दव्याख्यानेन भूतयोनेः प्रत्यगात्मत्वस्फुटीकरणार्थमित्यर्थः । तस्मान्मुण्डकोपनिषद्ब्रह्मणि समन्वितेति सिद्धम् ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 भूमा । छान्दोग्यमुदाहरति इदमिति । नाल्पे सुखमस्ति भूमैव सुखम् , तस्मान्निरतिशयसुखार्थिना भूमैव विचार्य इति नारदं प्रति सनत्कुमारेणोक्ते सति नारदो ब्रूते भूमानमिति । भूम्नो लक्षणमद्वितीयत्वमाह यत्रेति । भूमलक्षणं परिच्छिन्नलक्षणोक्त्या स्फुटयति अथेति । अत्र संशयबीजं प्रश्नपूर्वकमाह कुत इत्यादिना । बहोर्भाव इति विग्रहे 'पृथ्वादिभ्य इमनिच्' इतीमन्प्रत्यये कृते 'बहोर्लोपो भू च बहोः' इति सूत्रेण बहोः परस्येमनिच्प्रत्ययस्यादेरिकारस्य लोपः स्यात् , बहोः स्थाने भूरित्यादेशश्च स्यादित्युक्तेर्भूमन्निति शब्दो निष्पन्नः । तस्य भावार्थकेमन्प्रत्ययान्तत्वाद्बहुत्वं वाच्यम् । तत्किन्धर्मिकमित्याकाङ्क्षायां संनिहितप्रकरणस्थः प्राणो धर्मो भाति । वाक्योपक्रमस्थ आत्मापि स्वप्रतिपादनापेक्षो धर्मित्वेन भातीति संनिहितव्यवहितप्रकरणाभ्यां संशय इत्यर्थः । पूर्वमात्मशब्दात्द्युभ्वाद्यायतनं ब्रह्मेत्युक्तम् , तदयुक्तम् , 'तरति शोकमात्मवित्' इत्यब्रह्मण्यप्यात्मशब्दप्रयोगादित्याक्षेपसङ्गत्या पूर्वपक्ष्यति प्राणो भूमेति । धर्मधर्मिणोरभेदात्सामानाधिकरण्यं दृष्टव्यम् । पूर्वोत्तरपक्षयोः प्राणोपास्तिः ब्रह्मज्ञानं च फलं क्रमेण मन्तव्यम् । अत्राध्याये भूयः प्रश्नोत्तरभेदादर्थभेदो दृश्यते । भूमा तु प्राणात्परं भूयःप्रश्नं विनैवोक्तलिङ्गेन प्राणादभिन्न इत्याह कस्मादित्यादिना । प्राणाद्भूय इति न दृश्यत इति पूर्वेण सम्बन्धः । ननु 'एष तु वा अतिवदति' इति तुशब्देन प्राणप्रकरणविच्छेदान्न प्राणो भूमेत्यत आह प्राणमेवेति । नामाद्याशान्तानुपास्यानतीत्य प्राणं श्रेष्ठं वदतीत्यतिवादि प्राणविद्तं प्रति अतिवाद्यसीति केनचित्प्रश्ने कृते अस्मीति ब्रूयात् , नाहमतिवादीत्यपह्नवं न कुर्यादित्युक्तम् । प्राणविदमेष इति परामृश्य सत्यवचनध्यानमननश्रद्धादिधर्मपरम्परां विधाय भूमोपदेशान्न प्रकरणविच्छेदः । तुशब्दो नामाद्युपासकस्यातिवादित्वनिरासार्थ इत्यर्थः । भूम्नो लक्षणवचनं सुखत्वममृतत्वं च प्राणे प्रश्नपूर्वकं योजयति कथं पुनरित्यादिना । प्राणग्रस्तेषु प्राणे लीनेषु न शृणोति सुषुप्तपुरुष इति शेषः । 'गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचन आहवनीयः प्राणः' इति श्रुतेः प्राणा अग्नय इह पुरे शरीरे जाग्रति सव्यापारा एव तिष्ठन्तीत्यर्थः । देवो जीवः । अथ तदा स्वप्नादर्शनकाले सुखश्रवणात्प्राणस्य सुखत्वमविरुद्धमित्यन्वयः । आत्मपदेनोपक्रमविरोधं परिहरति प्राण एवेति । प्राणस्यात्मत्वं कथमित्याशङ्क्य श्रुतत्वादित्याह तथा हीति । सर्वं समर्पितमिति च सर्वाधिष्ठानं प्राणं स्वीकरोति श्रुतिरित्यन्वयः । अत आत्मत्वं प्राणेपि मुख्यमिति भावः । भूमरूपत्वं योजयति - सर्वात्मत्वेति । सम्प्रसादशब्देन प्राणं लक्षयितुं मुख्यार्थं दर्शयति सम्प्रसाद इति । स वा एष एतस्मिन्सम्प्रसादे स्थित्वा पुनराद्रवतीति प्रयोगाच्च । तत्पदं सुषुप्तिवाचकमित्याह बृहदिति । वाच्यार्थसम्बन्धात्प्राणो लक्ष्य इत्याह तस्यां चेति । अत्र सूत्र इत्यर्थः । भूमा प्राणाद्भिन्नोऽत्राध्याये, तस्मादूर्ध्वमुपदिष्टत्वात् , नामादेरूर्ध्वमुपदिष्टवागादिवदित्यर्थः । विपक्षहेतूच्छेदं बाधकमाह प्राण एव चेदिति । स्वस्यैव स्वस्मादूर्ध्वमुपदिष्टत्वमयुक्तम् , नामादिष्वदृष्टं चेत्यर्थः । हेत्वसिद्धिं शङ्कते नन्विहेति । प्रकृतप्राणवित्परामर्शक एषशब्दो न भवति, तस्य यच्छब्दपरतन्त्रत्वेन सत्यवादिवाचित्वात् । अतः प्राणप्रकरणं विच्छिन्नमिति हेतुसिद्विरित्याह अत्रोच्यत इति । सत्येनातिवादित्वं विशेषः, तद्वतो य एष इत्युक्तेर्न पूर्वानुकर्ष इत्यर्थः । य एष प्राणविदतिवदतीत्यनूद्य स सत्यं वदेदिति विधानान्न प्राणप्रकरणविच्छेद इति दृष्टान्तेन शङ्कते नन्विति । सत्यशब्दो ह्यबाधिते रूढो ब्रह्मवाचकः, तदन्यस्य मिथ्यात्वात् । सत्यवचने त्वबाधितार्थसम्बन्धाल्लाक्षणिक इति नात्र लक्ष्यवचनविधिरित्याह नेति ब्रूम इति । किञ्च सत्येन ब्रह्मणातिवदतीति तृतीयाश्रुत्या ब्रह्मकरणकमतिवादित्वं श्रुतम् , तस्य प्रकरणाद्बाधो न युक्त इत्याह श्रुत्या हीत्यादिना । अत्रेति । सत्यवाक्य इत्यर्थः । एवं सत्येनेति श्रुत्या प्रकरणं बाध्यमित्युक्त्वा तुशब्देनापि बाध्यमाह प्रकृतेति । विजिज्ञास्यत्वलिङ्गाच्च पूर्वोक्ताद्भिन्नमित्याह सत्यं त्वेवेति । प्रकरणविच्छेदे दृष्टान्तमाह तस्मादिति । श्रुतिलिङ्गबलादेतत्सत्यं प्रकृतात्प्राणात्प्राधान्येन भिन्नं द्रष्टव्यमित्यर्थः । एवमतिवादित्वस्य ब्रह्मसम्बन्धोक्त्या प्राणलिङ्गत्वं निरस्तम् । यत्तु प्रश्नं विनोक्तत्वलिङ्गाद्भूमा प्राण इति, तन्न, तस्याप्रयोजकत्वादित्याह न चेति । प्रश्नभेदादर्थभेद इति न नियमः, एकस्यात्मनो मैत्रेय्या बहुशः पृष्टत्वात् । प्रश्नं विनोक्तचातुर्वेदस्य प्रकृतैकवेदाद्भिन्नत्वदर्शनाच्चेत्यर्थः । तत्र यथा चतुर्वेदत्वस्य प्रकृतासम्बन्धादर्थभेदः, एवमिहापीति स्फुटयति तत्रेत्यदिना । सत्यपदेन प्राणोक्तिरित्यत आह तत्र सत्यमिति । विज्ञानं निदिध्यासनम् । आदिपदान्मननश्रद्धाश्रवणमनःशुद्धिनिष्टातद्धेतुकर्माणि गृह्यन्ते । इमान्यपि श्रवणादीनि ज्ञेयस्य सत्यस्य ब्रह्मत्वे लिङ्गानि । एवं श्रुतिलिङ्गैः प्राणस्यावान्तरप्रकरणं बाधित्वा प्रस्तुतं सत्यं ब्रह्म भूमपदोक्तबहुत्वधर्मीत्याह तत्र यदिति । किञ्च 'संनिहितादपि व्यवहितं साकाङ्क्षं बलीयः' इति न्यायेन संनिहितं निराकाङ्क्षं प्राणं दृष्ट्वा वाक्योपक्रमस्थ आत्मा स्वप्रतिपादनाय भूमवाक्यापेक्ष इह भूमा ग्राह्य इत्याह एवं चेति । किञ्च शोकस्य पारमित्युपक्रम्य तमसः पारमित्युपसंहारात् , शोकस्य मूलोच्छेदं विना तरणायोगाच्च, शोकपदेन मूलतमो गृह्यते । तन्निवर्तकज्ञानगम्यत्वलिङ्गादात्मा ब्रह्मेत्याह न चान्यत्रेति । ब्राह्मणमात्मायत्तत्वं प्राणस्य वदतीति सम्बन्धः । नन्विदं चरमं ब्राह्मणं ब्रह्मपरमस्तु, ततः प्रागुक्तो भूमा प्राण इति शङ्कते प्रकरणान्त इति । तच्छब्देन भूमानुकर्षान्मैवमित्याह
नेति ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 भूम्नो ब्रह्मत्वे लिङ्गान्तरमाह धर्मेति । सूत्रम् । यदुक्तं भूम्नो लक्षणं सुखत्वममृतत्वं च प्राणेषु योज्यमिति तदनूद्य विघटयति योऽप्यसावित्यादिना ।
सति बुद्ध्याद्युपाधावात्मनो द्रष्टृत्वादिः, तदभावे सुषुप्तौ तदभाव इत्यसङ्गत्वज्ञानार्थं प्रश्नोपनिषदि 'न शृणोति न पश्यति' इति परमात्मानं प्रकृत्योक्तम् । तथा तत्रैवात्मनः सुखत्वमुक्तं न प्राणस्य । यतः श्रुत्यन्तरमात्मन एव सुखत्वमाह तस्मादित्यर्थः । आमयो नाशादिदोषः तत्सहितं सामयम् । आर्तं नश्वरम् । 'स एवाधस्तात्स उपरिष्टात्' इति सर्वगतत्वम् , 'स एवेदं सर्वम्' इति सर्वात्मत्वं च श्रुतम् , तस्माद्भूमाध्यायो निर्गुणे समन्वित इति सिद्धम् ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 अक्षरमम्बरान्तधृतेः । बृहदारण्यकं पठति कस्मिन्न्विति । यद्भूतं भवच्च भविष्यच्च तत्सर्वं कस्मिन्नोतमिति गार्ग्या पृष्टेन मुनिना याज्ञवल्क्येनाव्याकृताकाशः कार्यमात्राश्रय उक्तः । आकाशः कस्मिन्नोत इति द्वितीयप्रश्ने स मुनिरुवाच, तदव्याकृतस्याधिकरणमेतदक्षरमस्थूलादिरूपमित्यर्थः । उभयत्राक्षरशब्दप्रयोगात्संशयः । यथा सत्यशब्दो ब्रह्मणि रूढ इति ब्रह्म भूमेत्युक्तं तथाक्षरशब्दो वर्णे रूढ इति दृष्टान्तेन पूर्वपक्षः । तत्र ओङ्कारोपास्तिः फलम् , सिद्धान्ते निर्गुणब्रह्मधीरिति विवेकः । ननु न क्षरतीत्यचलत्वानाशित्वयोगाद्ब्रह्मण्यप्यक्षरशब्दो मुख्य इत्यत आह प्रसिद्ध्यतिक्रमस्येति । 'रूढिर्योगमपहरति' इति न्यायादित्यर्थः । वर्णस्य ओङ्कारस्य सर्वाश्रयत्वं कथमित्याशङ्क्य ध्यानार्थमिदं यथा श्रुत्यन्तरे सर्वात्मत्वमित्याह ओङ्कार इति । प्रश्नप्रतिवचनाभ्यामाकाशान्तजगदाधारत्वे तात्पर्यनिश्चयान्न ध्यानार्थता, अतस्तल्लिङ्गबलाद्रूढिं बाधित्वा योगवृत्तिर्ग्राह्येति सिद्वान्तयति
एवमित्यादिना ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 चेतनकर्तृकशिक्षाया अत्र श्रुतेर्मैवमित्याह सा चेति । सूत्रं व्याचष्टे सा चेति ।
चकार आकाशस्य भूतत्वनिरासार्थः । भूताकाशस्य कार्यन्तःपातिनः श्रुतसर्वकार्याश्रयत्वायोगादव्याकृतमज्ञानमेवाकाशः प्रधानशब्दित इति तदाश्रयत्वाच्चाक्षरं न प्रधानमित्यर्थः । विधृतौ विषयत्वेन धृतौ ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 आकाशं भूतं कृत्वा शङ्कते स्यादेतदिति । प्रश्नपूर्वकं सूत्रं व्याकरोति किमिदमिति । घटत्वाद्व्यावृत्तिरिति भ्रान्तिं निरस्यति एतदिति । अम्बरान्तस्याधारमक्षरं श्रुतिरचेतनत्वाद्व्यावर्तयतीत्यर्थः । जीवनिरासपरत्वेनापि सूत्रं योजयति तथेति । अन्यभावो भेदस्तन्निषेधादिति सूत्रार्थः । तर्हि शोधितो जीव एवाक्षरं न पर इत्यत आह नहीति ।
शोधिते जीवत्वं नास्तीत्यर्थः । तस्माद्गार्गिब्राह्मणं निर्गुणाक्षरे समन्वितमिति सिद्धम् ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 ईक्षतिकर्मव्यपदेशात्सः । प्रश्नोपनिषदमुदाहरति एतदिति । पिप्पलादो गुरुः सत्यकामेन पृष्टो ब्रूते, हे सत्यकाम, परं निर्गुणमपरं सगुणं ब्रह्मैतदेव योऽयमोङ्कारः । स हि प्रतिमेव विष्णोस्तस्य प्रतीकः । तस्मात्प्रणवं ब्रह्मात्मना विद्वानेतेनैव ओङ्कारध्यानेनायतनेन प्राप्तिसाधनेन यथाध्यानं परमपरं वान्वेति प्राप्नोतीति प्रकृत्य मध्ये एकमात्रद्विमात्रोङ्कारयोर्ध्यानमुक्त्वा ब्रवीति यः पुनरिति । इत्थम्भावे तृतीया, ब्रह्मोङ्कारयोरभेदोपक्रमात् । यो ह्यकारादिमात्रात्रये एकस्या मात्राया अकारस्य ऋष्यादिकं जाग्रदादिविभूतिं च जानाति तेन सम्यग्ज्ञाता एका मात्रा यस्योङ्कारस्य स एकमात्रः । एवं मात्राद्वयस्य सम्यग्विभूतिज्ञाने द्विमात्रस्तथा त्रिमात्रः । तमोङ्कारं पुरुषं योऽभिध्यायीत स ओङ्कारविभूतित्वेन ध्यातैः सामभिः सूर्यद्वारा ब्रह्मलोकं गत्वा परमात्मानं पुरुषमीक्षत इत्यर्थः । संशयं तद्बीजं चाह किमित्यादिना । अस्मिन् त्रिमात्रवाक्य इत्यर्थः । पूर्वत्र पूर्वपक्षत्वेनोक्ते ओङ्कारे बुद्धिस्थं ध्यातव्यं निश्चीयत इति प्रसङ्गसङ्गतिः । यद्वा पूर्वत्र वर्णे रूढस्याक्षरशब्दस्य लिङ्गाद्ब्रह्मणि वृत्तिरुक्ता, तद्वदत्रापि ब्रह्मलोकप्राप्तिलिङ्गात्परशब्दस्य हिरण्यगर्भे वृत्तिरिति दृष्टान्तेन पूर्वपक्षयति तत्रापरमिति । कार्यपरब्रह्मणोरूपास्तिरूभयत्र फलम् । स उपासकः । सूर्ये सम्पन्नः प्रविष्टः । ननु वसुदान ईश्वर इति ध्यानाद्विन्दते वस्वित्यल्पमपि फलं ब्रह्मोपासकस्य श्रुतमित्यत आह नहीति । अन्यत्र तथात्वेऽपि अत्र परवित्परमपरविदपरमन्वेतीत्युपक्रमात्परविदोऽपरप्राप्तिरयुक्ता, उपक्रमविरोधात् । न चात्र परप्राप्तिरेवोक्तेति वाच्यम् , परस्य सर्वगतत्वादत्रैव प्राप्तिसम्भवेन सूर्यद्वारा गतिवैयर्थ्यात् । तस्मादुपक्रमानुगृहीतादपरप्राप्तिरूपाल्लिङ्गात्परं पुरुषमिति परश्रुतिर्बाध्येत्यर्थः । परश्रुतेर्गतिं पृच्छति नन्विति । पिण्डः स्थूलो विराट्तदपेक्षया सूत्रस्य परत्वमिति समाध्यर्थः । सूत्रे सशब्द ईश्वरपर इति प्रतिज्ञतत्वेन तं व्याचष्टे परमेवेति । स उपासक एतस्माद्धिरण्यगर्भात्परं पुरुषं ब्रह्माहमितीक्षत इत्यर्थः । नन्वीक्षणविषयोऽप्यपरोस्तु, तत्राह तत्राभिध्यायतेरिति । नन्वीक्षणं प्रमात्वाद्विषयसत्यतामपेक्षत इति भवतु सत्यः पर ईक्षणीयः । ध्यातव्यस्त्वसत्योऽपरः किं न स्यादित्यत आह स एवेति । श्रुतिभ्यां प्रत्यभिज्ञानात्स एवायमिति सौत्रः सशब्दो व्याख्यातः । अत्रैवं सूत्रयोजना ओङ्कारे यो ध्येयः स पर एवात्मा, वाक्यशेषे ईक्षणीयत्वोक्तेः । अत्र च श्रुतिप्रत्यभिज्ञानात्स एवायमिति । ननु शब्दभेदान्न प्रत्यभिज्ञेति शङ्कते नन्विति । परात्पर इति शब्दभेदमङ्गीकृत्य श्रुतिभ्यामुक्तप्रत्यभिज्ञाया अविरोधमाह अत्रेति । ननु 'एतस्माज्जीवघनात्परात्' इत्येतत्पदेनोपक्रान्तध्यातव्यपरामर्शादीक्षणीयः परात्मा ध्येयादन्य इत्यत आह न चात्रेति । ध्यानस्य तत्फलेक्षणस्य च लोके समानविषयत्वाद्ध्येय एवेक्षणीयः । एवं चोपक्रमोपसंहारयोरेकवाक्यता भवतीति भावः । ''स सामभिरून्नीयते ब्रह्मलोकम्” 'स एतस्माज्जीवघनात्' इत्येतत्पदेन संनिहिततरो ब्रह्मलोकस्वामी परामृश्यत इति प्रश्नपूर्वकं व्याचष्टे कस्तर्हीत्यादिना । 'मूर्तौ घनः' इति सूत्रादिति भावः । सैन्धवखिल्यो लवणपिण्डः । खिल्यवदल्पो भावः परिच्छेदो यस्य स खिल्यभावः । एतत्पदेन ब्रह्मलोको वा परामृश्यत इत्याह अपर इति । जीवघनशब्दस्य ब्रह्मलोके लक्षणां दर्शयति जीवानां हीति । व्यष्टिकरणाभिमानिनां जीवानां घनः सङ्घातो यस्मिन्सर्वकरणाभिमानिनि स जीवघनः तत्स्वामिकत्वात्परम्परासम्बन्धेन लोको लक्ष्य इत्यर्थः । तस्मात्परः सर्वलोकातीतः शुद्ध इत्यर्थः । परपुरुषशब्दस्य परमात्मनि मुख्यत्वाच्च स एव ध्येय इत्याह परमिति । यस्मात्परं नापरमस्ति किञ्चित्स एवं मुख्यः परः न तु पिण्डात्परः सूत्रात्मेत्यर्थः । किञ्च परशब्देनोपक्रमे निश्चितं परं ब्रह्मैवात्र वाक्यशेषे ध्यातव्यमित्याह परं चापरं चेति । पापनिवृत्तिलिङ्गाच्चेत्याह यथेति । पादोदरः सर्पः । ओङ्कारे परब्रह्मोपासनया सूर्यद्वारा ब्रह्मलोकं गत्वा परब्रह्मेक्षित्वा तदेव शान्तमभयं परं प्राप्नोतीत्यविरोधमाह अत्रोच्यत इति ।
एवमेकवाक्यतासमर्थनप्रकरणानुगृहीतपरपुरुषश्रुतिभ्यां परब्रह्मप्रत्यभिज्ञया ब्रह्मलोकप्राप्तिलिङ्गं बाधित्वा वाक्यं प्रणवध्येये ब्रह्मणि समन्वितमिति सिद्धम् ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 दहर उत्तरेभ्यः । छान्दोग्यमुदाहरति अथेति । भूमविद्यानन्तरं दहरविद्याप्रारम्भार्थोऽथशब्दः । ब्रह्मणोऽभिव्यक्तिस्थानत्वाद्ब्रह्मपुरं शरीरम् । अस्मिन् यत्प्रसिद्धं दहरमल्पं हृत्पद्मं तस्मिन्हृदये यदन्तराकाशशब्दितं ब्रह्म तदन्वेष्टव्यं विचार्य ज्ञेयमित्यर्थः । अत्राकाशो जिज्ञास्यः, तदन्तःस्थं वेति प्रथमं संशयः कल्प्यः । तत्र यद्याकाशस्तदा संशयद्वयम् । तत्राकाशशब्दादेकं संशयमुक्त्वा ब्रह्मपुरशब्दात्संशयान्तरमाह तथा ब्रह्मपुरमितीति । अत्र शब्दे । जीवस्य ब्रह्मणो वा पुरमिति संशयः । तत्र तस्मिन्संशये सतीति योजना । परपुरुषशब्दस्य ब्रह्मणि मुख्यत्वाद्ब्रह्म ध्येयमित्युक्तम् । तथेहाप्याकाशपदस्य भूताकाशे रूढत्वाद्भूताकाशो ध्येय इति दृष्टान्तेन पूर्वपक्षयति तत्राकाशेत्यादिना । दहरवाक्यस्यानन्तरप्रजापतिवाक्यस्य च सगुणे निर्गुणे च समन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे भूताकाशाद्युपास्तिः, सिद्धान्ते सगुणब्रह्मोपास्त्या निर्गुणधीरिति फलभेदः । नच 'आकाशस्तल्लिङ्गात्' इत्यनेनास्य पुनरुक्तता शङ्कनीया । अत्र तस्मिन् 'यदन्तस्तदन्वेष्टव्यम्' इत्याकाशान्तः स्थस्यान्वेष्टव्यत्वादिलिङ्गान्वयेन दहराकाशस्य ब्रह्मत्वे स्पष्टलिङ्गाभावात् । ननु भूताकाशस्याल्पत्वं कथम् , एकस्योपमानत्वमुपमेयत्वं च कथम् , 'उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते । उभावग्निश्च वायुश्च' इत्यादिना श्रुतसर्वाश्रयत्वं च कथमित्याशङ्क्य क्रमेण परिहरति तस्येत्यादिना । हृदयापेक्षया अल्पत्वम् , ध्यानार्थं कल्पितभेदात्सादृश्यम् , स्वत एकत्वात्सर्वाश्रयत्वमित्यर्थः । ननु 'एष आत्मा' इत्यात्मशब्दो भूते न युक्त इत्यरूचेराह अथवेति । भक्त्येति । चैतन्यगुणयोगेनेत्यर्थः । मुख्यं ब्रह्म गृह्यतामित्यत आह न हीति । अस्तु पुरस्वामीजीवः, हृदयस्थाकाशस्तु ब्रह्मेत्यत आह तत्रेति । पुरस्वामिन एव तदन्तःस्थत्वसम्भवान्नान्यापेक्षेत्यर्थः । व्यापिनोऽन्तःस्थत्वं कथमित्यत आह मन इति । आकाशपदेन दहरमनुकृष्योक्तोपमादिकं ब्रह्माभेदविवक्षया भविष्यतीत्याह आकाशेति । ननु जीवस्याकाशपदार्थत्वमयुक्तमित्याशङ्क्य तर्हि भूताकाश एव दहरोऽस्तु तस्मिन्नन्तःस्थं किञ्चिद्ध्येयमिति पक्षान्तरमाह न चात्रेति । परमन्तःस्थं वस्तु, तद्विशेषणत्वेनाधारत्वेन दहराकाशस्य तच्छब्देनोपादानादित्यर्थः । यद्वा अन्वेष्यत्वादिलिङ्गाद्दहरस्य ब्रह्मत्वनिश्चयात् 'आकाशस्तल्लिङ्गात्' इत्यनेन गतार्थत्वमिति शङ्कात्र निरसनीया । अन्वेष्यत्वादेः परविशेषणत्वेन ग्रहणाद्दरहस्य ब्रह्मत्वे लिङ्गं नास्तीत्यर्थः । अपहतपाप्मत्वादिलिङ्गोपेतात्मकश्रुत्या केवलाकाशश्रुतिर्बाध्येति सिद्धान्तयति परमेश्वर इत्यादिना । आकाशस्याक्षेपपूर्वकमिति सम्बन्धः । तमाचार्यं प्रति यदि ब्रूयुः, हृदयमेव तावदल्पं तत्रत्याकाशोऽल्पतरः किं तदत्राल्पे विद्यते यद्विचार्य ज्ञेयमिति, तदा स आचार्यो ब्रूयादाकाशस्याल्पतानिवृत्तिमित्यर्थः । वाक्यस्य तात्पर्यमाह तत्रेति । निवर्तयति । आचार्य इति शेषः । नन्वाकाशशब्देन रूढ्या भूताकाशस्य भानात्कथं तन्निवृत्तिरित्याशङ्क्याह यद्यपीति । ननु 'रामरावणयोर्युद्धं रामरावणयोरिव' इत्यभेदेऽप्युपमा दृष्टेतिचेत् , न अभेदे सादृश्यस्यानन्वयेन युद्धस्य निरूपमत्वे तात्पर्यादयमनन्वयालङ्कार इति काव्यविदः । पूर्वोक्तमनूद्य निरस्यति नन्वित्यादिना । 'सीताश्लिष्ट इवाभाति कोदण्डप्रभया युतः' इत्यादौ प्रभायोगसीताश्लेषरूपविशेषणभेदाद्भेदाश्रयणमेकस्यैव श्रीरामस्योपमानोपमेयभावसिद्ध्यर्थमगत्या कृतमित्यनुदाहरणं द्रष्टव्यम् । नैवमत्राश्रयणं युक्तम् । वाक्यस्याल्पत्वनिवृत्तिपरत्वेन गतिसद्भावात् । किञ्च हार्दाकाशस्यान्तरत्वात्यागे अल्पत्वेन व्यापकबाह्याकाशसादृश्यं न युक्तमित्याह अपिचेति । आन्तरत्वत्यागे तु अत्यन्ताभेदान्न सादृश्यमिति भावः । ननु हार्दाकाशस्याल्पत्वनिवृत्तौ तावत्त्वे च तात्पर्यं किं न स्यादित्यत आह उभयेति । अतोऽल्पावनिवृत्तावेव तात्पर्यमिति भावः । एवमाकाशोपमितत्वाद्दहराकाशो न भूतमित्युक्तम् । सर्वाश्रयत्वादिलिङ्गेभ्यश्च तथेत्याह नचेत्यादिना । विगता जिघत्सा जग्धुमिच्छा यस्य सोऽयं विजिघत्सः । बुभुक्षाशून्य इत्यर्थः । प्रथमश्रुतब्रह्मशब्देन तत्सापेक्षचरमश्रुतषष्ठीविभक्त्यर्थः सम्बन्धो नेयः, न तु ब्रह्मणः पुरमिति षष्ठ्यर्थः स्वस्वामिभावो ग्राह्यः 'निरपेक्षेण तत्सापेक्षं बाध्यम्' इति न्यायादित्याह अत्र ब्रूम इति । शरीरस्य ब्रह्मण तदुपलब्धिस्थानत्वरूपे सम्बन्धे मानमाह स इति । पूर्षु शरीरेषु, पुरि हृदये शय इति पुरुष इत्यन्वयः । ननु ब्रह्मशब्दस्य जीवेऽप्यन्नादिना शरीरवृद्धिहेतौ मुख्यत्वान्न षष्ठ्यर्थः कथञ्चिन्नेय इत्यत आह अथवेति । बृंहयति देहमिति ब्रह्म जीवः तत्स्वामिके पुरे हृदयं ब्रह्मवेश्म भवतु, राजपुरे मैत्रसद्भावदित्यर्थः । अनन्तफललिङ्गादपि दहरः परमात्मेत्याह तद्यथेति । अथ कर्मफलाद्वौराग्यानन्तरमिह जीवदशायामात्मानं दहरं तदाश्रितांश्च सत्यकामादिगुणानाचार्योपदेशमनुविद्य ध्यानेनानुभूय ये परलोकं गच्छन्ति तेषां सर्वलोकेष्वनन्तमैश्वर्यं स्वेच्छया सञ्चलनादिकं भवतीत्यर्थः । दहरे उक्तलिङ्गान्यन्यथासिद्धानि तेषां तदन्तःस्थगुणत्वादियुक्तं स्मारयित्वा दूषयति यदपीत्यादिना । उत्तरत्राकाशस्वरूपप्रतिपादनान्यथानुपपत्त्या पूर्वं तस्यान्वेष्यत्वादिकमित्यत्रान्यथोपपत्तिं शङ्कते नन्विति । एतत् आकाशस्वरूपम् । आक्षेपबीजमाकाशस्याल्पत्वमुपमया निरस्यान्तःस्थवस्तूक्तेस्तदन्तःस्थमेव ध्येयमित्यर्थः । तर्हि जगदेव ध्येयं स्यादित्याह नैतदेवमिति । अस्तु को दोषः, तत्राह तत्रेति । सर्वनामभ्यां दहराकाशमाकृष्यात्मत्वादिगुणानुक्त्वा गुणैः सह तस्यैव ध्येयत्वं वाक्यशेषो ब्रूते तद्विरोध इत्यर्थः । 'तस्मिन् यदन्तः'इति तत्पदेन व्यवहितमपि हृदयं योग्यतया ग्राह्यमित्याह तस्मादिति । यद्वा आकाशस्तस्मिन् यदन्तस्तदुभयमन्वेष्टव्यमिति योजनां सूचयति
सहान्तःस्थैरिति ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 दहराकाशस्य ब्रह्मत्वे हेत्वन्तरमाह गतीति । प्रजा जीवा एतं हृदयस्थं दहरं ब्रह्मस्वरूपं लोकमहरहः प्रत्यहं स्वापे गच्छन्त्यस्तदात्मना स्थिता अप्यनृताज्ञानेनावृतास्तं न जानन्ति अतः पुनरुत्तिष्ठन्तीत्यर्थः । नन्वेतत्पदपरामृष्टदहरस्य स्वापे जीवगम्यत्वेऽपि ब्रह्मत्वे किमायातमित्यशङ्क्य 'तथा हि दृष्टम्' इति व्याचष्टे तथा हीति । लोकेऽपि दृष्टमित्यर्थान्तरमाह लोकेऽपीति । गतिलिङ्गं व्याख्याय शब्दं व्याचष्टे तथेति । जीवभूताकाशयोर्ब्रह्मलोकशब्दस्याप्रसिद्धेरिति भावः । ब्रह्मण्यपि तस्याप्रसिद्धिं शङ्कते नन्विति । निषादस्थपतिन्यायेन समाधत्ते गमयेदिति । षष्ठे चिन्तितम् स्थपतिर्निषादः, शब्दसामर्थ्यात् । रौद्रीमिष्टिं विधाय 'एतया निषादस्थपतिं याजयेत्' इत्याम्नायते । तत्र निषादानां स्थपतिः स्वामीति षष्ठीसमासेन त्रैवर्णिको ग्राह्यः, अग्निविद्यादिसामर्थ्यात् । न तु निषादश्चासौ स्थपतिरिति कर्मधारयेण निषादो ग्राह्यः, असामर्थ्यादिति प्राप्ते सिद्धान्तः । निषाद एव स्थपतिः स्यात् , निषादशब्दस्य निषादे शक्तत्वात् , तस्याश्रुतषष्ठ्यर्थसम्बन्धलक्षकत्वकल्पनायोगात्श्रुतद्वितीयाविभक्तेः पूर्वपदसम्बन्धकल्पनायां लाघवात् , अतो निषादस्येष्टिसामर्थ्यमात्रं कल्प्यमिति । तद्वद्ब्रह्मलोकशब्दे कर्मधारय इत्यर्थः । कर्मधारये लिङ्गं चास्तीति व्याचष्टे एतदेवेति ।
सूत्रे चकार उक्तन्यायसमुच्चयार्थः ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वजगद्धारणलिङ्गाच्च दहरः पर इत्याह धृतेरिति । नन्वथशब्दाद्दहरप्रकरणं विच्छिद्य श्रुता धृतिर्न दहरलिङ्गमिति शङ्कते कथमिति । 'य आत्मा’ इति प्रकृताकर्षादथशब्दो दहरस्य धृतिगुणविधिप्रारम्भार्थ इत्याह दहरोऽस्मिन्नित्यादिना । श्रुतौ विधृतिशब्दः कर्तृवाचित्वात् क्तिजन्तः । सूत्रे तु महिमशब्दसामानाधिकरण्याद्धृतिशब्दः क्तिन्नन्तो विधारणं ब्रूते, 'स्त्रियां क्तिन्' इति भावे क्तिनो विधानादिति विभागः । सेतुरसङ्करहेतुः, विधृतिस्तु स्थितिहेतुरित्यपौनरुक्त्यमाह यथोदकेति । सूत्रं योजयति एवमिहेति । धृतेश्च दहरः परः अस्य धृतिरूपस्य नियमनस्य च महिम्नोऽस्मिन्परमात्मन्येव श्रुत्यन्तर उपलब्धेरिति सूत्रार्थः । धृतेश्चेति चकारात्सेतुपदोक्तनियामकत्वलिङ्गं ग्राह्यम् । तत्र नियमने श्रुत्यन्तरोपलब्धिमाह एतस्येति । धृतौ तमाह
तथेति ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】
आ समन्तात्काशते दीप्यत इति स्वयञ्ज्योतिषि ब्रह्मण्याकाशशब्दस्य विभुत्वगुणतो वा प्रसिद्धिः प्रयोगप्राचुर्यम् ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 यदि 'एष आत्मापहतपाप्मा' इत्यादिवाक्यशेषबलेन दहरः परस्तर्हि जीवोऽपीत्याशङ्क्य निषेधति इतरेति । जीवस्यापि वाक्यशेषमाह अथेति । दहरोक्त्यनन्तरं मुक्तोपसृप्यं शुद्धं ब्रह्मोच्यते । य एष सम्प्रसादो जीवोऽस्मात्कार्यकरणसङ्घातात्सम्यगुत्थाय आत्मानं तस्माद्विविच्य विविक्तमात्मानं स्वेन ब्रह्मरूपेणाभिनिष्पद्य साक्षात्कृत्य तदेव प्रत्यक्परं ज्योतिरूपसम्पद्यते प्राप्नोतीति व्याख्येयम् । यथा मुखं व्यादाय स्वपितीति वाक्यं सुप्त्वा मुखं व्यादत्ते इति व्याख्यायते तद्वत् । ज्योतिषोऽनात्मत्वं निरस्यति एष इति । 'सम्प्रसादे रत्वाचरित्वा’ इति श्रुत्यन्तरम् । अवस्थावदुत्थानमपि जीवस्य लिङ्गमित्याह तथेति । तदाश्रितस्य तस्मात्समुत्थाने दृष्टान्तः यथेति । ननु क्वाप्याकाशशब्दो जीवे न दृष्ट इत्याशङ्क्योक्तावस्थोत्थानलिङ्गबलात्कल्प्य इत्याह यथा चेति । नियामकाभावाज्जीवो दहरः किं न स्यादिति प्राप्ते नियामकमाह नैतदित्यादिना । दहरे श्रुतधर्माणामसम्भवान्न जीवो दहर इत्यर्थः । तर्हि पुनरुक्तिः, तत्राह अतिरेकेति । उत्तराच्चेत्याधिकाशङ्कानिरासार्थमित्यर्थः । का तर्हि जीवपरामर्शस्य गतिः, तत्राह पठिष्यतीति ।
जीवस्य स्वापस्थानभूतब्रह्मज्ञानार्थोऽयं परामर्श इति वक्ष्यते ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 असम्भवादिति हेतोरसिद्धिमाशङ्क्य परिहरति उत्तराच्चेदिति । सूत्रनिराकृताया जीवाशङ्कायाः प्रजापतिवाक्यबलात्पुनः समुत्थानं क्रियते । तत्र जीवस्यैवापहतपाप्मत्वादिग्रहणेनासम्भवासिद्धेरित्यर्थः । कथं तत्र जीवोक्तिः, तत्राह तत्रेत्यादिना । यद्यप्युपक्रमे जीवशब्दो नास्ति तथाप्यपहतपाप्मत्वादिगुणकमात्मानमुपक्रम्य तस्य जाग्रदाद्यवस्थात्रयोपन्यासादवस्थालिङ्गेन जीवनिश्चयात्तस्यैव ते गुणाः सम्भवन्तीति समुदायार्थः । इन्द्रं प्रजापतिर्बूते य एष इति । प्राधान्यादक्षिग्रहणं सर्वैरिन्द्रियैर्विषयदर्शनरूपजाग्रदवस्थापन्नमित्याह द्रष्टारमिति । महीयमानः वासनामयैर्विषयैः पूज्यमान इति स्वप्नपर्याये, तद्यत्रेति सुषुप्तिपर्याये च जीवमेव प्रजापतिर्व्याचष्ट इत्यन्वयः । यत्र काले तदेतत्स्वपनं यथा स्यात्तथा सुप्तः, सम्यकस्तो निरस्तः करणग्रामो यस्य स समस्तः, अत एवोपहृतकरणत्वात्तत्कृतकालुष्यहीनः सम्प्रसन्नः, स्वप्नं प्रपञ्चमज्ञानमात्रत्वेन विलापयति अतोऽज्ञानसत्त्वात्मुक्ताद्विलक्षणः प्राज्ञ एष स्वचैतन्येन कारणशरीरसाक्षी तस्य साक्ष्यस्य सत्तास्फूर्तिप्रदत्वादात्मेत्यर्थः । चतुर्थपर्याये ब्रह्मोक्तेस्तस्यैवापहतपाप्मत्वादिगुणा इत्याशङ्क्य तस्यापि पर्यायस्य जीवत्वमाह नाहेति । अहेति निपातः खेदार्थे । खिद्यमानो हीन्द्र उवाच, न खलु सुप्तः पुमानयं सम्प्रति सुषुप्त्यवस्थायामयं देवदत्तोऽहमित्येवमात्मानं जानाति । नो एव नैवेमानि भूतानि जानाति किन्तु विनाशमेव प्राप्तो भवति, नाहमत्र भोग्यं पश्यामीति दोषमुपलभ्य पुनः प्रजापतिमुपससार । तं दोषं श्रुत्वा प्रजापतिराह एतमिति । एतस्मात्प्रकृतादात्मनोऽन्यत्रान्यं न व्याख्यास्यामीत्युपक्रम्य 'मघवन्मर्त्यं वा इदं शरीरम्'इति निन्दापूर्वकं जीवमेव दर्शयतीत्यर्थः । तस्मात्प्रजापतिवाक्यात् । अतः सम्भवासिद्धेः । सिद्धान्तयति तं प्रतीति । अवस्थात्रयशोधनेनाविर्भूतत्वं शोधितत्वमर्थस्य वाक्योत्थवृत्त्यभिव्यक्तत्वमित्यर्थः । तर्हि सूत्रे पुंलिङ्गेन जीवोक्तिः कथम् , ज्ञानेन जीवत्वस्य निवृत्तत्वादित्यत आह भूतपूर्वेति । ज्ञानात्पूर्वमविद्यातत्कार्यप्रतिबिम्बितत्वरूपं जीवत्वमभूदिति कृत्वा ज्ञानानन्तरं ब्रह्मरूपोऽपि जीवनाम्नोच्यत इत्यर्थः । विश्वतैजसप्राज्ञतुरीयपर्यायचतुष्टयात्मकप्रजापतिवाक्यस्य तात्पर्यमाह एतदिति । जन्मानाशवत्त्वात् । प्रतिबिम्बवद्बिम्बदेहो नात्मेति ज्ञापनार्थं प्रजापतिरिन्द्रविरोचनौ प्रत्युवाच, उदशराव आत्मानमवेक्ष्य यदात्मनो रूपं न विजानीथस्तन्मे ब्रूतमित्यादि ब्राह्मणेनेत्याह उदशरावेति । उदकपूर्णे शरावे प्रतिबिम्बात्मानं देहं दृष्ट्वा स्वस्याज्ञातं यत्तन्मह्यं वाच्यमित्युक्तश्रुत्यर्थः । व्युत्थाप्य विचार्य । अभिनिष्पद्यत इत्यत्रैतदुक्तं भवतीति सम्बन्धः । किमुक्तमित्यत आह यदस्येति । जीवत्वरूपेण जीवं न व्याचष्टे, लोकसिद्धत्वात्, किन्तु तमनूद्य परस्परव्यभिचारिणीभ्योऽवस्थाभ्यो विविच्य ब्रह्मस्वरूपं बोधयति, अतो यद्ब्रह्म तदेवापहतपाप्मत्वादिधर्मकं न जीव इत्युक्तं भवति, शोधितस्य ब्रह्माभेदेन तद्धर्मोक्तेरित्यर्थः । एवमवस्थोपन्यासस्य विवेकार्थत्वान्न जीवलिङ्गत्वम् , 'एतदमृतमभयमेतब्रह्म' इति लिङ्गोपेतश्रुतिविरोधादितिमन्तव्यम् । ननु जीवत्वब्रह्मत्वविरुद्धधर्मवतोः कथमभेदः, तत्राह तदेवेति । अन्वयव्यतिरेकाभ्यां जीवत्वस्याविद्याकल्पितत्वादविरोध इति मत्वा दृष्टान्तेनान्वयमाह यावदिति । व्यतिरेकमाह यदेति । अविद्यायां सत्यां जीवत्वम् , वाक्योत्थप्रभोधात्तन्निवृत्तौ तन्निवृत्तिरित्याविद्यकं तदित्यर्थः । संसारित्वस्य कल्पितत्वे सिद्धं निगमयति तदेव चास्येति । 'समुत्थाय स्वेन रूपेणाभिनिष्पद्यते’ इति श्रुतिं व्याख्यातुमाक्षिपति कथं पुनरित्यादिना । कूटस्थनित्यस्य स्वरूपमित्यन्वयः । मनःसङ्गिनो हि क्रियया मलनाशादभिव्यक्तिर्न तु कूटस्थस्यासङ्गिन इत्याह सुवर्णेति । द्रव्यान्तरं पार्थिवो मलः । अभिभूतेत्यस्य व्याख्यानमनभिव्यक्तेति । असाधारणो भास्वरत्वादिः । अभिभावकः सौरालोकः । जीवस्वरूपस्याभिभवे बाधकमाह दृष्टेति । 'विज्ञानघन एव’ इति श्रुत्या चिन्मात्रस्तावदात्मा । तच्चैतन्यं चक्षुरादिजन्यवृत्तिव्यक्तं दृष्ट्यादिपदवाच्यं सत्व्यवहाराङ्गं जीवस्य स्वरूपं भवतीति तस्याभिभूतत्वे दृष्टो व्यवहारो विरुध्येत । हेत्वभावाद्व्यवहारो न स्यादित्यर्थः । अज्ञस्यापि स्वरूपं वृत्तिषु व्यक्तमित्यङ्गीकार्यम् , व्यवहारदर्शनादित्याह तच्चेति । अन्यथेत्युक्तं स्फुटयति तच्चेदिति । स्वरूपं चेज्ज्ञानिन एव व्यज्येत ज्ञानात्पूर्वं व्यवहारोच्छित्तिरित्यर्थः । अतः सदैव व्यक्तस्वरूपत्वादित्यर्थः । सदा वृत्तिषु व्यक्तस्य वस्तुतोऽसङ्गस्यात्मन आविद्यकदेहाद्यविवेकरूपस्य मलसङ्गस्य सत्त्वात्तद्विवेकापेक्षया समुत्थानादिश्रुतिरित्युत्तरमाह अत्रेति । वेदना हर्षशोकादिः । अविविक्तमिवेति तादात्म्यस्य सङ्गस्य कल्पितत्वमुक्तम् । तत्र कल्पितसङ्गे दृष्टान्तः यथेति । श्रुतिकृतमिति । त्वम्पदार्थश्रुत्या 'योऽयं विज्ञानमयः प्राणेषु' इत्याद्यया सिद्धमित्यर्थः । प्राणादिभिन्नशुद्धत्वम्पदार्थज्ञानस्य वाक्यार्थसाक्षात्कारः फलमित्याह केवलेति । सशरीरत्वस्य सत्यत्वात्समुत्थानमुत्क्रान्तिरिति व्याख्येयं न विवेक इत्याशङ्क्याह तथा विवेकेति । उक्तश्रुत्यनुसारेणेत्यर्थः । शरीरेष्वशरीरमवस्थितमिति श्रुतेरविवेकमात्रकल्पितं सशरीरत्वम् । अतो विवेक एव समुत्थानमित्यर्थः । ननु स्वकर्मार्जिते शरीरे भोगस्यापरिहार्यत्वात्कथं जीवत एव स्वरूपाविर्भाव इत्यत आह शरीरस्थोऽपीति । अशरीरत्ववच्छरीरस्थस्यापि बन्धाभावस्मृतेर्जीवतो मुक्तिर्युक्तेत्यर्थः । अविरुद्धे श्रुत्यर्थे सूत्रशेषो युक्त इत्याह तस्मादिति । अन्यादृशौ सत्यावित्यर्थः । ज्ञानाज्ञानकृतावाविर्भावतिरोभावाविति स्थिते भेदोऽप्यंशांशित्वकृतो निरस्त इत्याह एवमिति । अंशादिशून्यत्वमसङ्गत्वम् । आत्मा द्रव्यत्वव्याप्यजातिशून्यः विभुत्वात् , व्योमवदित्यात्मैक्यसिद्धेर्भेदो मिथ्येत्यर्थः । प्रजापतिवाक्याच्च भेदो मिथ्येत्याकाङ्क्षापूर्वकमाह कुतश्चेत्यादिना । एतद्भेदस्य सत्यत्वमेव नास्तीति कुत इत्यन्वयः । छायायां ब्रह्मदृष्टिपरमिदं वाक्यं नाभेदपरमित्यत आह नापीति । यस्य ज्ञानात्कृतकृत्यता सर्वकामप्राप्तिस्तमात्मानमन्विच्छाव इति प्रवृत्तयोरिन्द्रविरोचनयोर्यद्यनात्मच्छायां प्रजापतिर्ब्रूयात्तदा मृषावादी स्यादित्यर्थः । प्रथमवत्द्वितीयादिपर्याये व्यावृत्तास्ववस्थासु अनुस्यूतात्मा ब्रह्मत्वेनोक्त इत्याह तथेति । अवस्थाभेदेऽप्यनुस्यूतौ युक्तिमाह किञ्चेति । सुषुप्तौ ज्ञातुर्व्यावृत्तिमाशङ्क्याह तथा तृतीय इति । सषुप्तौ निर्विकल्पज्ञानरूप आत्मास्तीयत्र बृहदारण्यकश्रुतिमाह नहीति । बुद्धेः साक्षिणो नाशो नास्ति, नाशकाभावादित्यर्थः । एतमवस्थाभिरसङ्गत्वेनोक्त आत्मैव तुरीयेऽपि ब्रह्मत्वेनोक्त इत्याह तथेति । श्रुतेरेकदेशिव्याख्यां दूषयति केचित्त्विति । जीवपरयोर्भदादिति भावः । श्रुतिबाधान्मैवमित्याह तेषामिति । संनिहितो जीव एव सर्वनामार्थ इत्यर्थः । उक्तस्य पुनरुक्तौ भूय इति युज्यते । तव तु उपक्रान्तपरमात्मनश्चतुर्थ एवोक्तेस्तद्बाध इत्याह भूय इति । लोकसिद्धजीवानुवादेन ब्रह्मत्वं बोध्यत इति स्वमतमुपसंहरति तस्मादिति । व्याख्यानान्तरसम्भवादित्यर्थः । विलयनं शोधनम् । विद्यया महावाक्येनेति यावत् । ये तु संसारं सत्यमिच्छन्ति तेषामिदं शारीरकमेवोत्तरमित्याह अपरे त्वित्यादिना । शारीरकस्यार्थं सङ्क्षेपेणोपदिशति एक एवेति । अविद्यामाययोर्भेदं निरसितुं सामानाधिकरण्यम् , आवरणविक्षेपशक्तिरूपशब्दप्रवृत्तिनिमित्तभेदात्सहप्रयोगः । ब्रह्मैवाविद्यया संसरति न ततोऽन्यो जीव इति शारीरकार्थ इत्यर्थः । तर्हि सूत्रकारः किमिति भेदं ब्रूते, तत्राह यस्त्त्विति । परमात्मनोऽसंसारित्वसिद्यर्थं जीवाद्भेदं द्रढयति । तस्यासंसारित्वनिश्चयाभावे तदभेदोक्तावपि जीवस्य संसारित्वानपायादित्यर्थः । अधिष्ठानस्य कल्पिताद्भेदेऽपि कल्पितस्याधिष्ठानान्न पृथक्सत्त्वमित्याह जीवस्यत्विति । कल्पितभेदानुवादस्य फलमाह एवं हीति । सूत्रेष्वभेदो नोक्त इति भ्रान्तिं निरस्यति प्रतिपाद्यमिति । आत्मेति तूपगच्छन्तीत्यादिसूत्राण्यादिपदार्थः । नन्वद्वैतस्य शास्त्रार्थत्वे द्वैतापेक्षविधिविरोधः तत्राह वर्णितश्चेति ।
अद्वैतमजानतः कल्पितद्वैताश्रया विधयो न विदुष इति सर्वमुपपन्नमित्यर्थः ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 एवं प्रजापतिवाक्ये जीवानुवादेन ब्रह्मण एवापहतपाप्मत्वाद्युक्तेर्जीवे तदसम्भवान्न जीवो दहर इत्युक्तम् । तर्हि जीवपरामर्शस्य का गतिरित्यत आह अन्यार्थश्चेति । सूत्रं व्याचष्टे अथेत्यादिना । प्रकृते दहरे विशेषो गुणस्तदुपदेशोऽपि नेत्यर्थः । तत्र दहरवाक्यशेषरूपं सम्प्रसादवाक्यमाशङ्कापूर्वकं दहरब्रह्मपरत्वेन व्याचष्टे
कथमित्यादिना ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 उपास्यत्वादल्पत्वमुक्तमिति व्याख्याय श्रुत्या निरस्तमित्यर्थान्तरमाह श्रुत्यैव चेदमिति ।
एवं दहरवाक्यं प्रजापतिवाक्यं च सगुणे निर्गुणे च समन्वितमिति सिद्धम् ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 अनुकृतेस्तस्य च । मुण्डकवाक्यमुदाहरति न तत्रेति । तस्मिन् ब्रह्मणि विषये न भाति, तं न भासयतीति यावत् । यदा चन्द्रभास्करादिर्न भासयति तदा अल्पदीप्तेरग्नेः का कथेत्याह कुत इति । किञ्च सर्वस्य सूर्यादेस्तद्भास्यत्वान्न तद्भासकत्वमित्याह तमेवेति । अनुगमनवदनुमानं स्वगतमिति शङ्कां निरस्यति तस्येति । तत्रेति सप्तम्याः सति विषये च साधारण्यात्संशयमाह तत्रेति । पूर्वत्रात्मश्रुत्यादिबलादाकाशशब्दस्य रूढित्यागादीश्वरे वृत्तिराश्रिता । तथेहापि सतिसप्तमीबलाद्वर्तमानार्थत्यागेन यस्मिन्सति सूर्यादयो न भास्यन्ति स तेजोविशेष उपास्य इति भविष्यदर्थे वृत्तिराश्रयणीया । अधुना भासमाने सूर्यादौ न भातीति विरोधादिति दृष्टान्तेन पूर्वपक्षयति तेजोधातुरिति । तेजोधानम् , निर्गुणस्वयञ्ज्योतिरात्मज्ञानमित्युभयत्र फलम् । तेजोधातुत्वे लिङ्गमाह तेजोधातूनामिति । यत्तेजसोऽभिभावकं तत्तेज इति व्याप्तिमाह तेजःस्वभावकमिति । यस्मिन्सति यन्न भाति तदनु तद्भातीति विरुद्धमित्यत आह अनुभानमिति । ततो निकृष्टभानं विवक्षितमिति भावः । मुख्यसम्भवे विवक्षानुपपत्तेः मुख्यानुभानलिङ्गात्सर्वभासकः परमात्मा स्वप्रकाशकोऽत्र ग्राह्य इति सिद्धान्तमाह प्राज्ञ इति । प्राज्ञत्वं स्वप्रकाशकत्वं भासकत्वार्थमुक्तम् । तत्र श्रुतिमाह भारूप इति । मानाभावाच्च तेजोधातुर्न ग्राह्य इत्याह न त्विति । किञ्च सूर्यादयस्तेजोन्तरभानमनु न भान्ति, तेजस्त्वात् , प्रदीपवदित्याह समत्वाच्चेति । योऽयमनुकरोति स तज्जातीय इति नियमो नास्तीत्याह नायमेकान्त इति । पौनरुक्त्यमाशङ्क्योक्तानुवादपूर्वकं सूत्रोक्तं हेत्वन्तरं व्याचष्टे अनुकृतेरिति । 'तमेव भान्तम्’ इत्येवकारोक्तं तद्भानं विना सर्वस्य पृथग्भानाभावरूपमनुभानमनुकृतेरित्यनेनोक्तम् तस्य चेति । सर्वभासकत्वमुक्तमित्यपौनरुक्त्यमित्यर्थः । आत्मनः सूर्यादिभासकत्वं श्रुत्यन्तरप्रसिद्धमविरुद्धं चेत्याह तद्देवा इति । सर्वशब्दः प्रकृतसूर्यादिवाचकत्वेन व्याख्यातः । सम्प्रति तस्यासङ्कुचद्वृत्तितां मत्वार्थान्तरमाह अथवेति । तत्रेति सर्वनामश्रुत्या प्रकृतं ब्रह्म ग्राह्यमित्याह न तत्र सूर्य इति । किञ्च स्पष्टब्रह्मपरपूर्वमन्त्राकाङ्क्षापूरकत्वादयं मन्त्रो ब्रह्मपर इत्याह अनन्तरं चेति । हिरण्मये ज्योतिर्मये अन्नमयाद्यपेक्षया परे कोशे आनन्दमयाख्ये पुच्छशब्दितं ब्रह्म विरजमागन्तुकमलशून्यम् , निष्कलं निरवयवम् , शुभ्रं नैसर्गिकमलशून्यम् , सूर्यादिसाक्षिभूतं ब्रह्मवित्प्रसिद्धमित्यर्थः । सतिसप्तमीपक्षमनुवदति यदपीति । सूर्याद्यभिभावकतेजोधातौ प्रामाणिके तस्येह ग्रहणशङ्का स्यात् , न तत्र प्रमाणमस्तीत्याह तत्रेति । सिद्धान्ते तत्रेति वाक्यार्थः । कथमित्याशङ्क्याह ब्रह्मण्यपीति । सतिसप्तमीपक्षे न भातीति श्रुतं वर्तमानत्वं त्यक्त्वा तस्मिन्सति न भास्यन्तीत्यश्रुतभविष्यत्त्वं कल्पनीयं प्रत्यक्षविरोधनिरासाय । विषयसप्तमीपक्षे तु न भासयतीत्यश्रुतणिजध्याहारमात्रं कल्प्यं न श्रुतत्याग इति लाघवम् , अतो ब्रह्मणि विषये सूर्यादेर्भासकत्वनिषेधेन ब्रह्मभास्यत्वमुच्यत इत्यर्थः । येनान्याभास्यत्वेन हेतुना सूर्यादयस्तस्मिन्ब्रह्मणि विषये भासकाः स्युस्तथा तु ब्रह्मान्येन नोपलभ्यते स्वप्रकाशत्वादिति योजना । उक्तमेव श्रुत्यन्तरेण द्रढयति ब्रह्मेति ।
स्वप्रकाशत्वेऽन्याभास्यत्वे च श्रुतिद्वयम् । ग्रहणायोग्यत्वादग्राह्य इत्यर्थः ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 णिजध्याहारपक्षे स्मृतिबलमप्यस्तीत्याह अपिचेति । सूत्रं व्याचष्टे अपिचेति ।
अभास्यत्वे सर्वभासकत्वे च श्लोकद्वयं द्रष्टव्यम् । तस्मादनुभानमन्त्रो ब्रह्मणि समन्वित इति सिद्धम् ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 शब्दादेव प्रमितः । काठकवाक्यं पठति अङ्गुष्ठेति । पुरुषः पूर्णोऽप्यात्मनि देहमध्ये अङ्गुष्ठमात्रे हृदये तिष्ठतीत्यङ्गुष्ठमात्र इत्युच्यते, तस्यैव परमात्मत्ववादिवाक्यान्तरमाह तथेति । अधूमकमिति पठनीयम् । योऽङ्गुष्ठमात्रो जीवः स वस्तुतो निर्धूमज्योतिर्वन्निर्मलप्रकाशरूप इति तमर्थं संशोध्य तस्य ब्रह्मत्वमाह ईशान इति । तस्याद्वितीयत्वमाह स एवेति । कालत्रयेऽपि स एवास्ति नान्यत्किञ्चित् । यन्नचिकेतसा पृष्टं ब्रह्म तदेतदेवेत्यर्थः । परिमाणेशानशब्दाभ्यां संशयमाह तत्रेति । यथानुभानादिलिङ्गात्णिजध्याहरेण सूर्याद्यगोचरो ब्रह्मेत्युक्तं तथा प्रथमश्रुतपरिमाणलिङ्गाज्जीवप्रतीतावीशानोऽस्मीति ध्यायेदिति विध्यध्याहरेण ध्यानपरं वाक्यमिति पूर्वपक्षयति तत्र परिमाणेति । पूर्वपक्षे ब्रह्मदृष्ट्या जीवोपास्तिः, सिद्धान्ते तु प्रत्यग्ब्रह्मैक्यज्ञानं फलमिति मन्तव्यम् । आयामो दैर्घ्यम् , विस्तारो महत्त्वमिति भेदः । कयाचिदिति । अङ्गुष्ठमात्रहृदयस्य विज्ञानशब्दितबुद्ध्यभेदाध्यासकल्पनयेत्यर्थः । स्मृतिसंवादादप्यङ्गुष्ठमात्रो जीवैत्याह स्मृतेश्चेति । अथ मरणानन्तरं यमपाशौर्बद्धं कर्मवशं प्राप्तमित्यर्थः । तत्रापीश्वरः किं न स्यादित्यत आह नहीति । 'प्रभवति संयमने ममापि विष्णुः’ इति यमस्येश्वरनियम्यत्वस्मरणादिति भावः । भूतभव्यस्वेत्युपपदाद्बाधकाभावाच्च ईशान इतीशत्वशब्दान्निरङ्कुशमीशिता भातीति श्रुत्या लिङ्गं बाध्यमिति सिद्धान्तयति परमात्मैवेति । प्रकरणाच्च ब्रह्मपरमिदं वाक्यमित्याह एतदिति ।
शब्दो वाक्यं लिङ्गाद्दुर्बलमित्याशङ्क्याहशब्दादिति ॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 करः सकनिष्ठोऽरत्निः । मुख्याङ्गुष्ठमात्रो जीवो गृह्यतां किं गौणग्रहणेनेत्यत आह न चान्य इति । सति सम्भवे मुख्यग्रहो न्याय्यः । अत्र तु श्रुतिविरोधादसम्भव इति गौणग्रह इत्यर्थः । मनुष्यानेवेति । त्रैवर्णिकानेवेत्यर्थः । शक्तत्वादित्यनेन पश्वादीनां देवानामृषीणां चाधिकारो वारितः । तत्र पश्वादीनां शास्त्रार्थज्ञानादिसामग्र्यभावात्कर्मण्यशक्तिः । इन्द्रादेः स्वदेवताके कर्मणि स्वोद्देशेन द्रव्यत्यागायोगादशक्तिः । ऋषीणामार्षेयवरणे ऋष्यन्तराभावादशक्तिः । अर्थित्वादित्यनेन निष्कामानां मुमुक्षूणां स्थावराणां चाधिकारो वारितः । तत्र मुमुक्षूणां शुद्ध्यर्थित्वे नित्यादिष्वधिकारो न काम्येषु । शुद्धचित्तानां मोक्षार्थित्वे श्रवणादिषु व्यञ्जकेष्वधिकारो न कर्मस्विति मन्तव्यम् । शूद्रस्याधिकारं निरस्यति अपर्युदस्तत्वादिति । शूद्रो 'यज्ञेऽवनकॢप्तः' इति पर्युदासात् , 'उपनयीत तमध्यापयीत' इति शास्त्राच्च न शूद्रस्य वैदिके कर्मण्यधिकारः । तस्यैकजातित्वस्मृतेरूपनयनप्रयुक्तद्विजातित्वाभावेन वेदाध्ययनाभावात् । अत्रापेक्षितो न्यायः षष्ठाध्याये वर्णित इत्याह वर्णितमिति । 'स्वर्गकामो यजेत’ इत्यादिशास्त्रस्याविशेषेण सर्वान्फलार्थिनः प्रति प्रवृत्तत्वात् , प्राणिमात्रस्य सुखार्थित्वाच्च फलार्थे कर्मणि पश्वादीनामप्यधिकार इत्याशङ्क्योक्तरीत्यातेषां शक्तत्वाद्यभावात्स्वर्गकामपदं मनुष्यपरतया सङ्कोच्य मनुष्याधिकारत्वे स्थापिते चातुर्वर्ण्याधिकारित्वमाशङ्क्य 'वसन्ते ब्राह्मणोऽग्नीनादधीत ग्रीष्मे राजन्यः शरदि वैश्यः' इति त्रयाणामेवाग्निसम्बन्धश्रवणात्तेषामेवाधिकार इति वर्णितमित्यर्थः । अस्तु, प्रस्तुते किमायातम् , तत्राह मनुष्याणां चेति । प्रायेण सप्तवितस्तिपरिमितो मनुष्यदेह इत्यर्थः । एवमङ्गुष्ठशब्दो हृत्परिमाणवाचकस्तत्रस्थं ब्रह्म लक्षयतीत्युक्तम् । सम्प्रति तच्छब्देनाङ्गुष्ठमात्रं जीवमनूद्यायमीशान इति ब्रह्माभेदो बोध्य इति वक्तुमनुवदति यदपीति । प्रतिपाद्याभेदविरोधादनुवाद्याङ्गुष्ठमात्रत्वं बाध्यम् , तात्पर्यार्थस्य बलवत्त्वादित्याह तदिति । क्वचित् 'अस्थूलम्' इत्यादौ । क्वचित् 'तत्त्वमसि' इत्यादौ । [ननु परमात्मनोऽङ्गुष्ठपरिमाणत्वं न सम्भवतीति सूत्रकारेण हृदयापेक्षमङ्गुष्ठमात्रत्वमुक्तम् , द्विविधेत्यादिभाष्यात्तु जीवमुद्दिश्य ब्रह्मत्वबोधनमिति प्रतीयत इति सूत्रार्थास्पर्शित्वाद्भाष्यमनुपपन्नमिति चेत् , न, भाष्यतात्पर्यानभिज्ञानात् । कठवल्लीवाक्यस्यावान्तरतात्पर्यमेकं महातात्पर्यं चैकम् । तत्रावान्तरतात्पर्यमुपास्ये ब्रह्मणि, महातात्पर्यं च ज्ञेये ब्रह्मणि । अत एव भाष्यकारैर्वाक्यद्वयोपन्यासःकृतः । अत एवोपासनाफलं कठवल्ल्यामेव 'शतं चैका च हृदयस्य नाड्यः' इत्यादिना बोधितम् । अत एव चतुर्थाध्याये द्वितीयचरणे 'तदोकः' इति सूत्रे हार्दविद्यां प्रकृत्य समामनन्ति इति भाष्यकारैः प्रथमवाक्यस्य उपास्ये ब्रह्मणि तात्पर्यमिति प्रकटीकृतम् । इत्थं चात्रत्यभाष्यं महातात्पर्याभिप्रायकमिति द्रष्टव्यम् । रामानुजभाष्यकृता तु पूर्वपक्षोऽस्मद्भाष्यतात्पर्याज्ञानेनैव कृत इत्यवधेयम् । ] एकत्वार्थे वाक्यशेषमनुकूलयति एतमिति ।
श्रुतिर्यमो वा द्रष्टव्यः । तं जीवं प्रवृहेत्पृथक्कुर्यात् , धैर्येण बलवदिन्द्रियनिग्रहादिना, तं विविक्तमात्मानं शुक्लं स्वप्रकाशममृतं कूटस्थं ब्रह्म जानीयादित्यर्थः । तस्मात्कठवाक्यं प्रत्यग्ब्रह्मणि ज्ञेये समन्वितमिति सिद्धम् ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 शास्त्रस्य मनुष्याधिकारत्वे देवादीनां ब्रह्मविद्यायामप्यनधिकारः स्यादित्याशङ्क्याह तदुपर्यपि बादरायणः सम्भवात् । ननु समन्वयाध्यायेऽधिकारचिन्ता न सङ्गतेत्यत आह अङ्गुष्ठेति । स्मृतस्योपेक्षानर्हत्वं प्रसङ्गः । अत्र मनुष्याधिकारत्वोक्त्या स्मृतानां देवादिनां वेदान्तश्रवणादावधिकारोऽस्ति न वेति सन्देहे भोगासक्तानां वैराग्याद्यसम्भवान्नेति प्राप्ते सिद्धान्तमाह बाढमिति । एवमधिकारविचारात्मकाधिकरणद्वयस्य प्रासङ्गिकी सङ्गतिः । अत्र पूर्वपक्षे देवादिनां ज्ञानानधिकाराद्देवत्वप्राप्तिद्वारा क्रममुक्तिफलासु दहराद्युपासनासु क्रममुक्त्यर्थिनां मनुष्याणामप्रवृत्तिः फलम् , सिद्धान्ते तु प्रवृत्तिः । उपासनाभिर्देवत्वं प्राप्तानां श्रवणादिना ज्ञानान्मुक्तिसम्भवादिति सफलोऽयं विचारः । ननु भोगासक्तानां तेषां मोक्षार्थित्वाभावान्नाधिकार इत्यत आह अर्थित्वं तावदिति । विकारत्वेनानृतविषयसुखस्य क्षयासूयादिदोषद्दष्ट्या निरतिशयसुखमोक्षार्थित्वं सत्त्वप्रकृतीनां देवानां सम्भवतीत्यर्थः । नन्विन्द्राय स्वाहेत्यादौ चतुर्थ्यन्तशब्दातिरिक्ता विग्रहवती देवता नास्ति, शब्दस्य चासामर्थ्यान्नाधिकार इत्यत आह तथेति । अर्थित्ववदित्यर्थः । अपर्युदस्तत्वमाह नचतेषामिति । 'शूद्रो यज्ञे नवक्लृप्तः' इतिवद्देवादीनां विद्याधिकारनिषेधो नास्तीत्यर्थः । ननु विग्रहवत्त्वेन दृष्टसामर्थ्ये सत्यप्युपनयनाभावाच्छास्त्रीयं सामर्थ्यं नास्तीत्यत आह न चेति । जन्मान्तराध्ययनबलात्स्वयमेव प्रतिभाताः स्मृता वेदा येषां ते तथा तद्भावादित्यर्थः । बालादिषु प्रविष्टपिशाचादीनां वेदोद्घोषदर्शनाद्देवयोनीनां जन्मान्तरस्मरणमस्तीति स्मृतवेदान्तानामर्थविचारो युक्त इत्यर्थः । देवानामृषीणां च विद्याधिकारे कारणमर्थित्वादिकमुक्त्वा श्रौतं गुरुकुलवासादिलिङ्गमाह अपिचेति । ननु ब्रह्मविद्या देवादीन्नाधिकरोति, वेदार्थत्वात् , अग्निहोत्रवदित्यत आह यदपीति । देवानां कर्मसु नाधिकारः, देवतान्तराणामुद्देश्यानामभावादिति प्रथमसूत्रार्थः । ऋषीणामनधिकारः, ऋष्यन्तराभावादृषियुक्ते कर्मण्यशक्तेरिति द्वितीयसूत्रार्थः । असामर्थ्यमुपाधिरिति परिहरति न तदिति । असामर्थ्यरूपं कारणमित्यर्थः । न ह्यस्ति येनासामर्थ्यं स्यादिति शेषः । 'तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणाम्' इतिवाक्यबाधोऽप्यनुमानस्य द्रष्टव्यः । ननु देवादीन्प्रत्यङ्गुष्ठमात्रश्रुतिः कथम् , तेषां महादेहत्वेन हृदयस्यास्मदङ्गुष्ठमात्रत्वाभावात् । अतः श्रुतिषु तेषां नाधिकार इत्यत आह
देवाद्यधिकारेऽपीति ॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 ननु मन्त्रादीनां प्रतीयमानविग्रहवत्त्वे तात्पर्यं कल्पयित्वा देवादीनामधिकार उक्तः, स चायुक्तः, अन्यपराणां तेषां प्रत्यक्षादिविरोधेन स्वार्थे तात्पर्यकल्पनानुपपत्तेरित्याक्षिप्य सूत्रचतुष्टयेन परिहरति विरोधःकर्मणीत्यादिना । वर्ण्येत, तर्हीति शेषः । स्वरूपं विग्रहः । अभ्युपगमे प्रत्यक्षेण देवता दृश्येत, नच दृश्यते, अतो योग्यानुपलब्ध्या देवताया विग्रहवत्या अभावात्सम्प्रदानकारकाभावेन कर्मनिष्पत्तिर्न स्यादित्याह तदा चेति । विग्रहस्याङ्गत्वमुपलब्धिबाधितं युक्त्या च न सम्भवतीत्याह न चेति । तस्मादर्थोपहितशब्द एव देवता, तस्या अचेतनत्वान्न विद्याधिकार इति शङ्कार्थः । परिहरति नायमिति । एकस्यापि देवस्य योगबलादनेकदेहप्राप्तिः श्रुतिस्मृतिदर्शनात्सम्भवति । अतो न कर्मणि विरोध इति व्याचष्टे कस्मादित्यादिना । वैश्वदेवशस्त्रे शस्यमानदेवाः कतीति शाकल्येन पृष्टो याज्ञवल्क्यो निविदा 'त्रयश्च' इत्यादिरूपयोत्तरं ददौ । निविन्नाम शस्यमानदेवसङ्ख्यावाचकः शब्दः । षडधिकानि त्रीणि शतानि त्रीणि सहस्राणीति सङ्ख्योक्तौ सङ्ख्येयस्वरूपप्रश्ने, महिमानो विभूतयः सर्वे देवा एषां त्रयस्त्रिंशद्देवानामतोऽष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रः प्रजापतिश्चेति त्रयस्त्रिंशदेवास्तेऽपि षण्णामग्निपृथिवीवाय्वन्तरिक्षादित्यदिवां महिमानस्तेऽपि षट्सु देवेष्वन्तर्भवन्ति । षट्देवास्त्रिषु लोकेषु त्रयश्च द्वयोरन्नप्राणयोर्द्वै च एकस्मिन्प्राणे हिरण्यगर्भेऽन्तर्भवत इति दर्शितमित्यर्थः । त्रयस्त्रिंशतोऽपि देवानामिति सम्बन्धः । दर्शनं श्रौतं व्याख्याय स्मार्तं व्याचष्टे तथा स्मृतिरिति । बलं योगसिद्धिम् । 'अणिमा महिमा चैव लघिमा प्राप्तिरीशिता । प्राकाम्यं च वशित्वं च यत्रकामावसायिता' ॥ इत्यष्टैश्वर्याणि । क्षणेन अणुर्महान् लघुर्गुरुश्च भवति योगी । अङ्गुल्या चन्द्रस्पर्शः प्राप्तिः । ईशिता सृष्टिशक्तिः । प्राकाम्यमिच्छानाभिघातः । वशित्वं नियमनशक्तिः । सङ्कल्पमात्रादिष्टलाभो यत्रकामावसायितेति भेदः । आजानसिद्धानां जन्मना सिद्धानामित्यर्थः । फलितमाह अनेकेति । अनेकेषु कर्मस्वेकस्य प्रतिपत्तिरङ्गभावः । तस्य लोके दर्शनादिति वक्तुं व्यतिरेकमाह क्वचिदेक इति । प्रकृतोपयुक्तमन्वयदृष्टान्तमाह
क्वचिच्चेति ॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 कर्मण्यविरोधमङ्गीकृत्य शब्दप्रामाण्यविरोधमाशङ्क्य परिहरति - शब्द इति चेदिति । मा प्रसञ्जि प्रसक्तो मा भून्नामेत्यर्थः । औत्पत्तिकसूत्रे शब्दार्थयोरनाद्योः सम्बन्धस्यानादित्वाद्वेदस्य स्वार्थे मानान्तरानपेक्षत्वेन प्रामाण्यमुक्तम् । इदानीमनित्यविग्रहव्यक्त्यभ्युपगमे तत्सम्बन्धस्याप्यनित्यत्वान्मानान्तरेण व्यक्तिं ज्ञात्वा शब्दस्य सङ्केतः पुंसा कर्तव्य इति मानान्तरापेक्षत्वात्प्रामाण्यस्य विरोधः स्यादित्याह कथमित्यादिना । किं शब्दानामनित्यतया सम्बन्धस्य कार्यत्वमापद्यते, उतार्थानामनित्यतया । नाद्य इत्याह नायमपीति । कर्मण्यविरोधवदित्यपेरर्थः । देवादिव्यक्तिहेतुत्वेन प्रागेव शब्दानां सत्त्वान्नानित्यत्वमिति भावः । अत्र पूर्वापरविरोधं शङ्कते नन्विति । शब्दस्य निमित्तत्वेन ब्रह्मसहकारित्वादविरोध इत्याशङ्क्य द्वितीयं कल्पमुत्थापयति अपिचेति । अनित्यत्वं सादित्वम् । व्यक्तिरूपार्थानामनित्यतया शब्दानां सम्बन्धस्यानित्यत्वं दुर्वारम् , तस्मात्पौरुषेयसम्बन्धसापेक्षत्वात्प्रामाण्यविरोध इत्यर्थः । नच व्यक्तिनामनित्यत्वेऽपि घटत्वादिजातिसमवायवच्छब्दसम्बन्धोऽपि नित्यः स्यादिति वाच्यम् , उभयाश्रितसम्बन्धस्यान्यतराभावे स्थित्ययोगेन दृष्टान्तासिद्वेरिति भावः । यथा गोत्वादयो गवादिशब्दवाच्यास्तथा वसुत्वाद्याकृतयो वस्वादिशब्दार्था न व्यक्त्य इति परिहरति नेत्यादिना । शब्दानां तदर्थानां जातीनां च नित्यत्वात्तत्सम्बन्धोऽपि नित्य इति प्रतिपादयति नहीत्यादिना । व्यक्तीनामानन्त्यादिति । नच गोत्वावच्छेदेन व्यक्तिषु शक्तिः सुग्रहेति वाच्यम् , सामान्यस्याप्रत्यासत्तित्वेन सर्वव्यक्त्युपस्थित्यभावात् , गोत्वं शक्यतावच्छेदकमिति ग्रहापेक्षया गोत्वं शक्यमिति लाघवात् , निरूढाजहल्लक्षणया व्यक्तेर्लाभेनान्यलभ्यत्वाभावाच्चेति भावः । यद्वा केवलव्यक्तिषु शक्तिरत्र निरस्यते, अनुपपत्तिज्ञानं विनैव व्यक्तेः शब्दशक्त्यायत्तजातिज्ञानविषयत्वेनोभयशक्तेरावश्यकत्वात् । तथाच नित्यजातितादात्म्येन व्यक्तेरनादित्वात्तत्सम्बन्धोऽप्यनादिः, सत्कार्यवादात् । अत एव वाक्यवृत्तौ तत्त्वमस्यादिवाक्ये भागलक्षणोक्ता युज्यते, केवलसामान्यस्य वाच्यत्वेऽखण्डार्थस्य वाच्यैकदेशत्वाभावात् । 'अतःप्रभवात्' इति सूत्रस्वारस्याच्च केवलव्यक्तिशक्तिनिरास इति गम्यते । केवलव्यक्तिवचनाः खलु डित्थादिशब्दा अर्थानन्तरभाविनः साङ्केतिकाः गवादिशब्दास्तु व्यक्तिप्रभवहेतुत्वेन प्रागेवसन्धीति न व्यक्तिमात्रवचनाः साङ्केतिकाः किन्तु स्थूलसूक्ष्मभावेनानुस्यूतव्यक्त्यविनाभूतसामान्यवचना इति मन्तव्यम् । न चेन्द्रादिव्यक्तेरेकत्वेन जात्यभावादाकाशशब्दवदिन्द्रचन्द्रादिशब्दाः केवलव्यक्तिवचना इति साम्प्रतम् । अतीतानागतव्यक्तिभेदेन जात्युपपत्तेरित्यलं प्रपञ्चेन । दृष्टान्तमुपसंहृत्य दार्ष्टान्तिकमाह व्यक्तिष्वित्यादिना । आकृतिर्जातिः । ननु का सा व्यक्तिः, यदनुगतेन्द्रत्वादिजातिः शब्दार्थः स्यादित्यत आह आकृतिविशेषस्त्विति । 'वज्रहस्तःपुरन्दरः' इत्यादिभ्य इत्यर्थः । इन्द्रादिशब्दानां जातिरिन्द्रादिषु प्रवृत्तिनिमित्तमित्युक्त्वा उपाधिनिमित्तमाह स्थानेति । व्यक्तिप्रलयेऽपि स्थानस्य स्थायित्वाच्छब्दार्थसम्बन्धनित्यतेत्यत आह ततश्चेति । उक्तं पूर्वापरविरोधं परिहरति नचेति । शब्दो निमित्तमित्यविरोधं मत्वा सूत्रशेषमवतारयति कथं पुनरिति । स्मृत्या स्वप्रामाण्यार्थं मूलश्रुतिरनुमीयत इत्यनुमानं स्मृतिः । 'एते असृग्रमिन्दवस्तिरः पवित्रमाशवः । विश्वान्यस्याभिसौभगा' । इत्येतन्मन्त्रस्थैः पदैः स्मृत्वा ब्रह्मा देवादीनसृजत् । तत्रैत इति पदं सर्वनामत्वाद्देवानां स्मारकम् । असृग्रुधिरं तत्प्रधाने देहे रमन्त इति असृग्रा मनुष्याः । चन्द्रस्थानां पितृणामिन्दुशब्दः स्मारकः । पवित्रं सोमं स्वान्तस्तिरस्कुर्वतां ग्रहाणां तिरः पवित्रशब्दः । ऋचोऽश्नुवतां स्तोत्राणां गीतिरूपाणामाशुशब्दः । 'ऋच्यध्यूढं साम' इति श्रुतेः । स्तोत्रानन्तरं प्रयोगं विशतां शस्त्राणां विश्वशब्दः । सर्वत्र सौभाग्ययुक्तानामभिसौभगशब्दःस्मारक इति छन्दोगब्राह्मणवाक्यार्थः । स प्रजापतिर्मनसा वाचं त्रयीं मिथुनं समभवत्मनोवाग्रूपं मिथुनं सम्भावितवान् । मनसा त्रयीप्रकाशितां सृष्टिमालोचितवानित्यर्थः । 'रश्मिरित्येवादित्यमसृजत' इत्यादिश्रुतिरादिशब्दार्थः । सम्प्रदायो गुरुशिष्यपरम्पराध्ययनम् । संस्था अवस्थाः । या प्रजापतिसृष्टिः सा शब्दपूर्विका, सृष्टित्वात् , प्रत्यक्षघटादिवदिति प्रत्यक्षानुमानाभ्यामित्यस्यार्थान्तरमाह अपिचेति । अतः प्रभवत्वप्रसङ्गाच्छब्दस्वरूपं वक्तुमुक्तमाक्षिपति किमात्मकमिति । वर्णरूपं तदतिरिक्तस्फोटरूपं वेति किंशब्दार्थः । तत्र वर्णानामनित्यत्वात्स्फोटस्य चासत्त्वान्न जगद्धेतुत्वमित्याक्षेपे द्वितीयपक्षं वैयाकरणो गृह्णाति स्फोटमिति । स्फुट्यते वर्णैर्व्यज्यत इति स्फोटोवर्णाभिव्यङ्ग्योऽर्थस्तस्य व्यञ्जको गवादिशब्दो नित्यस्तमभिप्रेत्येदमुच्यत इति पूर्वेणान्वयः । स एवाद्यपक्षं दूषयति वर्णेति । सोऽयं गकार इति प्रत्यभिज्ञया वर्णनित्यत्वसिद्धेर्नानुपपत्तिरित्यत आह उत्पन्नेति । तारत्वमन्द्रत्वादिविरुद्धधर्मवत्त्वेन तारो गकारो मन्द्रो गकार इति प्रतीयमानगकारस्य भेदानुमानात्प्रत्यभिज्ञा गत्वजातिविषयेत्यर्थः । ननु विरुद्धधर्मज्ञानं ध्वन्युपाधिकं भ्रम इत्यत आह नचेति । तथाच वर्णानामनित्यत्वान्न जगद्धेतुत्वमिति भावः । किञ्च तेषामर्थबोधकत्वायोगात्स्फोटोऽङ्गीकार्य इत्याह नच वर्णेभ्य इत्यादिना । व्यभिचारादेकस्माद्वर्णादर्थप्रतीत्यदर्शनात् , वर्णान्तरवैयर्थ्यप्रसङ्गाच्चेत्यर्थः । तर्हि वर्णानां समुदायो बोधक इत्याशङ्क्य क्षणिकानां स नास्तीत्याह नचेति । वर्णानां स्वतः साहित्याभावेऽपि संस्कारलक्षणापूर्वद्वारा साहित्यमाग्नेयादियागानामिवेति शङ्कते पूर्वेति । किमयं संस्कारो वर्णैर्जनितोऽपूर्वाख्यः कश्चित् , उत वर्णानुभवजनितो भावनाख्यः । नाद्यः, मानाभावात् । किञ्चायमज्ञातो ज्ञातो वार्थधीहेतुः । नाद्य इत्याह तन्नेति । संस्कारसहितः शब्दो ज्ञात एवार्थधीहेतुः, सम्बन्धग्रहणमपेक्ष्य बोधकत्वात् , धूमादिवदित्यर्थः । द्वितीये किं प्रत्यक्षेण ज्ञात उत कार्यलिङ्गेन । नाद्य इत्याह नचेति । द्वितीयं शङ्कते कार्येति । कार्यमर्थधीस्तस्यां जातायां संस्कारप्रत्ययः तस्मिञ्जाते सेति परस्पराश्रयेण दूषयति नेति । पदार्थस्मरणस्यापि पदज्ञानान्तरभावित्वात्तेन संस्कारसहितान्त्यवर्णात्मकपदस्य ज्ञानं न युक्तमित्यक्षरार्थः । अपिशब्दः परस्पराश्रयद्योतनार्थः । एतेन भावानासंस्कारपक्षोऽपि निरस्तः । तस्य वर्णस्मृतिमात्रहेतुत्वेनार्थधीहेतुत्वायोगात् । न चान्त्यवर्णसाहित्यादर्थधीहेतुत्वम् , केवलसंस्कारस्य तु वर्णस्मृतिहेतुत्वमिति वाच्यम् , अर्थधीपूर्वकाले भावनाया ज्ञानाभावेनार्थधीहेतुत्वायोगात् । नच वर्णस्मरणेनानुमिता सा अन्त्यवर्णसहितार्थधीहेतुरिति वाच्यम् , तत्कार्यस्य क्रमिकस्य वर्णस्मरणस्याप्यन्त्यवर्णानुभवानन्तरभावित्वेन तेनानुमितभावनानामन्त्यवर्णसाहित्याभावादिति भावः । वर्णानामर्थबोधकत्वासम्भवे फलमाह तस्मादिति । स्फोटेऽपि किं मानमित्याशङ्क्यैकं पदमिति प्रत्यक्षप्रमाणमित्याह स चेति । यथा रत्नतत्त्वं बहुभिश्चाक्षुषप्रत्ययैः स्फुटं भासते तथा गवादिपदस्फोटो गकारद्येकैकवर्णकृतप्रत्ययैः स्फोटविषयैराहिताः संस्कारा बीजं यस्मिन् चित्ते तस्मिन् अन्त्यवर्णकृतप्रत्ययेन जनितः परिपाकोऽन्त्यः संस्कारोयस्मिंस्तस्मिन्प्रत्ययिनि चित्ते एकं गौरितिपदमिति प्रत्ययः प्रत्यक्षस्तद्विषयतया स्पष्टमवभासत इत्यर्थः । अनेन वर्णान्वयव्यतिरेकयोः स्फोटज्ञानेऽन्यथासिद्धिः । नचैकस्माद्वर्णात्सम्यक्स्फोटाभिव्यक्तिः, येन वर्णान्तरवैयर्थ्यं किन्तु रत्नवद्बहुप्रत्ययसंस्कृते चित्ते सम्यक्स्फोटाभिव्यक्तिरित्युक्तं भवति । नन्वेकपदमेकं वाक्यमिति प्रत्ययः पदवाक्यस्फोटयोर्न प्रमाणम् , तस्य वर्णसमूहालम्बनस्मृतित्वादित्याशङ्क्य निषेधति न चेति । स्फोटस्य जगद्धेतुत्वार्थं नित्यत्वमाह तस्य चेति । ननु तदेवेदं पदमिति प्रत्यभिज्ञा भ्रमः, उदात्तादिभेदप्रत्ययादित्यत आह भेदेति । आचार्यसम्प्रदायोक्तिपूर्वकं सिद्धान्तयति वर्णा एवेति । वर्णातिरिक्तस्फोटात्मकशब्दस्यानुभवानारोहादित्यर्थः । सादृश्यदोषादियं भ्रान्तिरिति शङ्कते सादृश्यादिति । वपनानन्तरं त एवेमे केशा इति धीर्भ्रान्तिरिति युक्तम् , भेदधीविरोधात् । स एवायं वर्ण इति धीस्तु प्रमैव, बाधकाभावादित्याह नेति । गोत्वादिप्रत्यभिज्ञावद्वर्णेषु प्रत्यभिज्ञा गवादिविषयेति शङ्कते प्रत्यभिज्ञानमिति । व्यक्तिभेदे सिद्धे प्रत्यभिज्ञाया जातिविषयत्वं स्यात् , यत्त्वया पीतं जलं तदेव मया पीतमित्यादौ । न तथेह व्यक्तिभेदः सिद्ध इति परिहरति न । व्यक्तीति । न त्वेतदिति । व्यक्त्यन्यत्वज्ञानमित्यर्थः । उदात्तत्वादिविरुद्धधर्मत्वाद्व्यक्तिभेदोऽनुमानसिद्ध इत्यनुवदति नन्विति । भेदप्रत्ययस्य कुम्भकूपाकाशभेदप्रत्ययवदौपाधिकभेदविषयत्वादन्यथासिद्धेरनन्यथासिद्धव्यक्त्यैक्यप्रत्यभिज्ञया निरपेक्षस्वरूपालम्बनया बाध इत्युत्तरमाह अत्रेति । ताल्वादिदेशैः कोष्ठस्थवायुसंयोगविभागाभ्यां विचित्राभ्यां व्यङ्ग्यत्वाद्वर्णेषु वैचित्र्यधीरित्यर्थः । कल्पनागौरवाच्च वर्णेषु स्वतो भेदो नास्तीत्याह अपिचेति । अनन्ता गकारादिव्यक्तयस्तासु प्रत्यभिज्ञानार्थं गत्वादिजातयस्तासु चोदात्तत्वादिभेदस्यौपाधिकत्वमिति कल्पनाद्वरं वर्णव्यक्तिभेदमात्रस्यौपाधिकत्वकल्पनमिति व्यक्त्यानन्त्यस्य जातीनां च कल्पनमयुक्तमित्यर्थः । ननु भेदस्य बाधकाभावान्नौपाधिकत्वमित्यत आह एष इति । अस्तु तर्हि प्रत्ययद्वयप्रामाण्याय भेदाभेदयोः सत्यत्वम् , तत्राह कथं हीति । उभयोरेकत्वविरोधाद्भेद औपाधिक एवेत्यर्थः । ननु वायुसंयोगादेरतीन्द्रियत्वान्न तद्गतवैचित्र्यस्योदात्तत्वादेर्वर्णेषु प्रत्यक्षारोपः सम्भवतीत्यरुचिं वदिष्यन्स्वमतमाह अथवेति । ध्वनिधर्मा उदात्तत्वादयो ध्वन्यभेदाध्यासाद्वर्णेषु भान्तीत्यर्थः । प्रश्नपूर्वकं ध्वनिस्वरूपमाह क इति । अवतरति स ध्वनिरिति शेषः । वर्णातिरिक्तः शब्दो ध्वनिरित्यर्थः । समीपं गतस्य पुंसस्तारत्वमन्दत्वादिधर्मान्स्वगतान्वर्णेषु स एवारोपयतीत्याह प्रत्यासीदतश्चेति । आदिपदं विवृणोति तदिति । नन्वव्यक्तवर्ण एव ध्वनिर्नातिरिक्त इत्यत आह वर्णानामिति । प्रत्युच्चारणं वर्णा अनुवर्तन्ते ध्वनिर्व्यावर्तत इति भेद इत्यर्थः । अन्यथा वाचिके जपे वर्णेष्वव्यक्तेषु ध्वनिबुद्धिः स्यात् , दुन्दुभ्यादिध्वनौ शब्दत्वमात्रेण गृह्यमाणे अयमव्यक्तो वर्ण इति धीः स्यादिति मन्तव्यम् । एवं ध्वन्युपाधिकत्वे स्वमते गुणं वदन्वायूपाधिकत्वे पूर्वोक्तामरुचिं दर्शयति एवंचेत्यादिना । अस्तु को दोषः, तत्राह संयोगेति । वायुसंयोगादेरश्रावणत्वादित्यर्थः । तस्मात्श्रावणध्वनिरेवोदात्तत्वाद्यारोपोपाधिरिति भावः । एवं विरुद्धधर्मकध्वनीनां भेदेऽपि न तेष्वनुगता वर्णा भिद्यन्त इत्युक्तम् । तदेव दृष्टान्तेन द्रढयति अपिचेति । यथा खण्डमुण्डादिविरुद्धानेकव्यक्तिष्वभिन्नं गोत्वं तथा ध्वनिषु वर्णा अभिन्ना एवेत्यर्थः । उदात्तादिर्ध्वनिस्तद्भेदेन हेतुना वर्णानामपीति योजना । प्रत्यभिज्ञाविरोधादित्यक्षरार्थः । यद्वा उदात्तत्वादिभेदविशिष्टतया प्रत्यभिज्ञायमानत्वाद्वर्णानां भेद इत्याशङ्कां दृष्टान्तेन निरस्यति अपिचेति । वर्णानां स्थायित्वं प्रसाध्य तेषामेव वाचकत्वं वक्तुं स्फोटं विघटयति वर्णेभ्यश्चेति । कल्पनामसहमान आशङ्कते नेति । चक्षुषा दर्पणयुक्तायां बुद्धौ मुखवच्छ्रोत्रेण वर्णयुक्तायां बुद्धौ विनैव हेत्वन्तरं स्फोटः प्रत्यक्ष इत्याह झटितीति । यस्यां संविदि योऽर्थो भासते सा तत्र प्रमाणम् । एकपदमिति बुद्धौ वर्णा एव स्फुरन्ति नातिरिक्तस्फोट इति न सा स्फोटे प्रमाणमित्याह न । अस्या अपीत्यादिना । ननु गोपदबुद्धेः स्फोटो विषयो गकारादीनां तु व्यञ्जकत्वादनुवृत्तिरित्यत आह यदि हीति । व्यङ्ग्यवह्निबुद्धौ व्यञ्जकधूमानुवृत्तेरदर्शनादित्यर्थः । वर्णसमूहालम्बनत्वोपपत्तेर्न स्फोटः कल्पनीयः, पदार्थान्तरकल्पनागौरवादित्याह तस्मादिति । अनेकस्याप्यौपाधिकमेकत्वं युक्तमित्याह सम्भवतीति । ननु तत्रैकदेशादिरूपाधिरस्ति, प्रकृते क उपाधिरित्यत आह या त्विति । एकार्थे शक्तमेकं पदम् , प्रधानार्थ एकस्मिन् तात्पर्यवदेकं वाक्यमित्येकार्थसम्बन्धादेकत्वोपचार इत्यर्थः । न चैकपदत्वे ज्ञाते एकार्थज्ञानम् , अस्मिंज्ञाते तदित्यन्योन्याश्रय इति वाच्यम् , उत्तमवृद्धोक्तानां वर्णानां क्रमेणान्त्यवर्णश्रवणानन्तरं बालस्यैकस्मृत्यारूढानां मध्यमवृद्धस्य प्रवृत्त्यादिलिङ्गानुमितैकार्थधीहेतुत्वनिश्चये सत्येकपदवाक्यत्वनिश्चयात् । वर्णसाम्येऽपि पदभेददृष्टेर्वर्णातिरिक्तं पदं स्फोटाख्यमङ्गीकार्यमिति शङ्कते अत्राहेति । क्रमभेदाद्वर्णेष्वेव पदभेददृष्टिरिति परिहरति अत्रेति । ननु नित्यविभूनां वर्णानां कथं क्रमः कथं वा पदत्वज्ञानेनार्थधीहेतुत्वम् , तत्राह वृद्धेति । व्युत्पत्तिदशायामुच्चारणक्रमेणोपलब्धिक्रममुपलभ्यमानवर्णेष्वारोप्यैते वर्णा एतत्क्रमैतत्सङ्ख्यावन्त एतदर्थशक्ता इति गृहीताः सन्तः श्रोतुः प्रवृत्तिकाले तथैव स्मृत्यारूढाः स्वस्वार्थं बोधयन्तीत्यर्थः । स्थायिवर्णवादमुपसंहरति वर्णेति । दृष्टं वर्णानामर्थबोधकत्वम् , अदृष्टः स्फोटः । सम्प्रति वर्णानामस्थिरत्वमङ्गीकृत्य प्रौढिवादेन स्फोटं विघटयति अथापीति । स्थिराणि गत्यादिसामान्यानि क्रमविशेषवन्ति गृहीतसङ्गतिकान्यर्थबोधकानीति कॢप्तेषु सामान्येषु प्रक्रिया सञ्चारयितव्या न त्वकॢप्तः स्फोटः कल्पनीय इत्यर्थः । वर्णानां स्थायित्ववाचकत्वयोः सिद्धौ फलितमाह
ततश्चेति ॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वतन्त्रवृत्तानुवादपूर्वकं सूत्रं व्याचष्टे कर्तुरित्यादिना ।
पूर्वतन्त्रसिद्धमेव वेदस्य नित्यत्वं देवादिव्यक्तिसृष्टौ तद्वाचकशब्दस्यापि सृष्टेरसिद्धमित्याशङ्क्य नित्याकृतिवाचकाच्छब्दाद्व्यक्तिजन्मोक्त्या साङ्केतिकत्वं निरस्य वेदोऽवान्तरप्रलयावस्थायी जागद्धेतुत्वादीश्वरवदित्यनुमानेन द्रढयतीत्यर्थः । यज्ञेन पूर्वसुकृतेन वाचो वेदस्य लाभयोग्यतां प्राप्ताः सन्तो याज्ञिकास्तामृषिषु स्थितां लब्धवन्त इति मन्त्रार्थः । अनुविन्नामुपलब्धाम् । पूर्वमवान्तरकल्पादौ ॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 ननु महाप्रलये जातेरप्यसत्त्वाच्छब्दार्थसम्बन्धानित्यत्वमित्याशङ्क्याह समानेति । सूत्रनिरस्यां शङ्कामाह अथापीति । व्यक्तिसन्तत्या जातीनामवान्तरप्रलये सत्त्वात्सम्बन्धस्तिष्ठति, व्यवहाराविच्छेदाज्ज्ञायते चेति वेदस्यानपेक्षत्वेन प्रामाण्ये न कश्चिद्विरोधः स्यात् । निर्लेपलये तु सम्बन्धनाशात्पुनः सृष्टौ केनचित्पुंसा सङ्केतः कर्तव्य इति पुरुषबुद्धिसापेक्षत्वेन वेदस्याप्रामाण्यम् , अध्यापकस्याश्रयस्य नाशादाश्रितस्य तस्यानित्यत्वं च प्राप्तमित्यर्थः । महाप्रलयेऽपि निर्लेपलयोऽसिद्धः, सत्कार्यवादात् । तथाच संस्कारात्मना शब्दार्थतत्सम्बन्धानां सतामेव पुनः सृष्टावभिव्यक्तेर्नानित्यत्वम् । अभिव्यक्तानां पूर्वकल्पीयनामरूपसमानत्वान्न सङ्केतः केनचित्कार्यः । विषमसृष्टौ हि सङ्केतापेक्षा न तुल्यसृष्टाविति परिहरति तत्रेदमित्यादिना । नन्वाद्यसृष्टौ सङ्केतः केनचित्कार्य इत्यत आह तदापीति । महासर्गप्रलयप्रवृत्तावपीत्यर्थः । नन्वस्त्वनादिसंसारे सम्बन्धस्यानादित्वं तथापि महाप्रलयव्यवधानादस्मरणे कथं वेदार्थव्यवहारः, तत्राह अनादौ चेति । न कश्चिद्विरोधः, शब्दार्थसम्बन्धस्मरणादेरिति शेषः । स्वापप्रबोधयोर्लयसर्गासिद्धिमाशङ्क्य श्रुतिमाह स्वापेति । अथ तदा सुषुप्तौ प्राणे परमात्मनि जीव एकीभवति एनं प्राणं स जीवः तदैतीति शेषः । एतस्मात्प्राणात्मनः । आयतनं गोलकम् । आनन्तर्ये पञ्चमी प्राणेभ्य इत्याद्या द्रष्टव्या । स्वप्नवत्कल्पितस्याज्ञातसत्त्वाभावात् दर्शनं सृष्टिः अदर्शनं लय इति दृष्टिसृष्टिपक्षः श्रुत्यभिप्रेत इति भावः । दृष्टान्तवैषम्यमाशङ्क्य परिहरति स्यादित्यादिना । अविरुद्धमनुसन्धानादिकमिति शेषः । हिरण्यगर्भादयः पूर्वकल्पानुसन्धानशून्यः । संसारित्वात् , अस्मादादिवादित्याशङ्क्याह यद्यपीति । इति यद्यपि तथापि न प्राकृतवदिति योजना । ज्ञानादेर्निकर्षवदुत्कर्षोऽप्यङ्गीकार्यः, बाधाभावादिति न्यायानुगृहीतश्रुत्यादिभिः सामान्यतो दृष्टानुमानं बाध्यमित्याह यथा हीत्यादिना । ननु तथापि पूर्वकल्पेश्वराणां मुक्तत्वादस्मिन्कल्पे कोऽनुसन्धातेत्यत आह ततश्चेति । ज्ञानाद्युत्कर्षादित्यर्थः । मुक्तेभ्योऽन्येऽनुसन्धातार इति भावः । परमेश्वरानुगृहीतानां ज्ञानातिशये पूर्वोक्तश्रुतिस्मृतिवादानाह तथा चेति । पूर्वं कल्पादौ सृजति तस्मै ब्रह्मणे प्रहिणोति गमयति तस्य बुद्धौ वेदानाविर्भावयति यस्तं देवं स्वात्माकारं महावाक्योत्थबुद्धौ प्रकाशमानं शरणं परममभयस्थानं निःश्रेयसरूपमहं प्रपद्य इत्यर्थः । न केवलमेकस्यैव ज्ञानातिशयः किन्तु बहूनां शाखाद्रष्टृणामिति विश्वासार्थमाह स्मरन्तीति । ऋग्वेदो दशमण्डलावयवास्तत्र भवा ऋचो दाशतम्यः । वेदान्तरेऽपि काण्डसूक्तमन्त्राणां द्रष्टारो बौधायनादिभिः स्मृता इत्याह प्रतीति । किञ्च मन्त्राणामृष्यादिज्ञानावश्यकत्वज्ञापिका श्रुतिर्मन्त्रदृगृषीणां ज्ञानातिशयं दर्शयतीत्याह श्रुतिरपीति । आर्षेय ऋषियोगः, छन्दो गायत्र्यादि, दैवतमग्न्यादि, ब्राह्मणं विनियोगः, एतान्यविदितानि यस्मिन्मन्त्रे तेनेत्यर्थः । स्थाणुं स्थावरम् , गर्तं नरकम् । तथाच ज्ञानाधिकैः कल्पान्तरितं वेदं स्मृत्वा व्यवहारस्य प्रवर्तितत्वाद्वेदस्यानादित्वमनपेक्षत्वं चाविरूद्धमिति भावः । अधुना समाननामरूपत्वं प्रपञ्चयति प्राणिनां चेति । ततः किम् , तत्राह दृष्टेति । ऐहिकामुष्मिकविषयसुखरागकृतधर्मस्य फलं पश्वादिकं दृष्टपश्वादिसदृशमिति युक्तम् , विसदृशे कामाभावेन हेत्वभावात् । तथा दृष्टदुःखद्वेषकृताधर्मफलं दृष्टसदृशदुःखमेव न सुखम् , कृतहान्यादिदोषापत्तेरित्यर्थः । तर्कितेऽर्थे मानमाह स्मृतिश्चेति । उत्तरसृष्टिः पूर्वसृष्टिसजातीया, कर्मफलत्वात् , पूर्वसृष्टिवदित्यनुमानं चशब्दार्थः । तेषां प्राणिनां मध्ये तान्येव तज्जातीयान्येव । तानि दर्शयन् तत्प्राप्तौ हेतुमाह हिंस्रेति । कर्माणि विहितनिषिद्धत्वाकारेणापूर्वम् , क्रियात्वेन संस्कारं च जनयन्ति । तत्रापूर्वात्फलं भुङ्क्ते, संस्कारभावितत्वात्पुनस्तज्जातीयानि करोतीत्यर्थः । संस्कारे लिङ्गमाह तस्मादिति । संस्कारवशादेव पुण्यं पापं वा रोचते । अतोऽभिरुचिलिङ्गात्पुण्यापुण्यसंस्कारोऽनुमेयः । स एव स्वभावः प्रकृतिर्वासनेति च गीयते । एवं कर्मणां सृष्टिसादृश्यमुक्त्वा स्वोपादाने लीनकार्यसंस्काररूपशक्तिबलादपि सादृश्यमाह प्रलीयमानमिति । इतरथा निःसंस्कारप्रलये जगद्वैचित्र्यस्याकस्मिकत्वं स्यादित्यर्थः । ननु जगद्वैचित्र्यकारिण्योऽन्याः शक्तयः कल्प्यन्ताम् , तत्राह नचेति । अविद्यायां लीनकार्यात्मकसंस्कारादन्याः शक्तयो न कल्प्याः मनाभावाद्गौरवाच्च । स्वोपादाने लीनकार्यरूपा शक्तिस्तु 'महान्न्यग्रोधस्तिष्ठति' 'श्रद्धत्स्व सोम्य' इतिश्रुतिसिद्धा, अतोऽविद्यातत्कार्यादन्याः शक्तयो न सन्ति आत्माविद्यैव तच्छक्तिरिति सिद्धान्त इत्यर्थः । निमित्तेष्वप्युपादनस्थं कार्यमेवाविद्याघटनया शक्तिरन्या वेत्यनाग्रहः । उपादाने कार्यसंस्कारसिद्धेः फलमाह ततश्चेति । यथा सुप्तोत्थितस्य पूर्वचक्षुर्जातीयमेव चक्षुर्जायते तच्च पूर्वरूपजातीयमेव रूपं गृह्णाति न रसादिकम् , एवं भोग्या लोका भोगाश्रयाः प्राणिनिकाया भोगहेतुकर्माणि संस्कारबलात्पूर्वलोकादितुल्यान्येवेति नियम इत्यर्थः । निकायाः समूहाः । दृष्टान्तासिद्धिमाशङ्क्यमाह न हीति । यथा षष्ठेन्द्रियस्य मनसोऽसाधारणविषयो नास्ति, सुखादेः साक्षिवेद्यत्वात् , तथा व्यवहारान्यथात्वमसदित्यर्थः । षष्ठमिन्द्रियं तद्विषयश्चासन्निति वार्थः । उक्तार्थं सङ्क्षिपति अतश्चेति । व्यवहारसाम्यात्सम्भवाच्च व्यवह्रियमाणा व्यक्तयः समाना एवेत्यर्थः । सूत्रे योजयति समानेत्यादिना ।
भाविदृष्ट्या यजमानोऽग्निः अन्नादोऽरग्निरहं स्यामिति कामयित्वा कृत्तिकानक्षत्राभिमानिदेवायाग्नये अष्टसु कपालेषु पचनीयं हविर्निरुप्तवानित्यर्थः । नक्षत्रव्यक्तिबहुत्वाद्बहुवचनम् । [ननु यजमानोऽग्निर्भावी उद्देश्याग्निना समाननामरूपः कल्पान्तरे भवति । एवं 'रुद्रो वा अकामयत' 'विष्णुर्वा अकामयत' इत्यत्रापि तथा वक्तव्यम् , तदयुक्तम् । न ह्यग्नेरिव विष्णुरुद्रयोरधिकारिपुरुषत्वम् , तयोर्जगत्कारणत्वश्रवणात् । 'एक एव रुद्रो न' इति । 'एको विष्णुः' इत्यादि श्रुतिस्मृतिविरोधादिति । ] स्मृतौ वेदेष्विति विषयसप्तमी । शर्वर्यन्ते प्रलयान्ते । ऋतूनां वसन्तादीनां लिङ्गानि नवपल्लवादिनि । पर्यये घटीयन्त्रवदावृत्तौ । भावाः पदार्थाः तुल्या इति शेषः । तस्माज्जन्मनाशवद्विग्रहाङ्गीकारेऽपि कर्मणि शब्दे च विरोधाभावाद्देवानामस्ति विद्याधिकार इति स्थितम् ॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 आक्षिपति मध्वादिष्विति । ब्रह्मविद्या देवादीन्नाधिकरोति, विद्यात्वात् , मध्वादिविद्यावदित्यर्थः । दृष्टान्तं विवृणोति कथमित्यादिना । द्युलोकाख्यवंशदण्डे अन्तरिक्षरूपे मध्वपूपे स्थित आदित्यो देवानां मोदनान्मध्विव मध्वित्यारोप्य ध्यानं कार्यम् । तत्रादित्यस्याधिकारो न युक्तः, ध्यातृध्येयभेदाभावादित्याह देवादिष्विति । अस्तु वस्वादीनां तत्राधिकार इत्याशङ्क्य तेषामपि तत्र ध्येयत्वात्प्राप्यत्वाच्च न ध्यातृत्वमित्याह पुनश्चेति । चतुर्वेदोक्तकर्माणि प्रणवश्चेति पञ्च कुसुमानि, तेभ्यः सोमाज्यादिद्रव्याणि हुतानि लोहितशुक्लकृष्णपरः कृष्णगोप्याख्यानि पञ्चामृतानि तत्तन्मन्त्रभागैः प्रागाद्यूर्ध्वान्तरपञ्चदिगवस्थिताभिरादित्यरश्मिनाडीभिर्मध्वपूपस्थितच्छिद्ररूपाभिरादित्यमण्डलमानीतानि यशस्तेज इन्द्रियवीर्यान्नात्मना परिणतानि पञ्चदिक्षु स्थितैर्वस्वादिभिरूपजीव्यानीति ध्यायतो वस्वादिप्राप्तिरुक्तेत्यर्थः । सूत्रस्थादिपदार्थमाह तथाग्निरिति । आकाशब्रह्मणश्चत्वारः पादाः, द्वौ कर्णौ, द्वे नेत्रे, द्वे नासिके, एका वागिति सप्तस्विन्द्रियेषु शिरश्चमसतीरस्थेषु सप्तर्षिध्यानं कार्यमित्याह तथेमावेवेति ।
अथ दक्षिणः कर्णः गौतमः, वामो भारद्वाजः, एवं दक्षिणनेत्रनासिके विश्वामित्रवसिष्ठौ, वामे जमदग्निकश्यपौ, वागत्रिरित्यर्थः । अत्र ऋषीणां ध्येयत्वान्नाधिकारः ॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 किञ्च विग्रहाभावाद्देवादीनां न क्वाप्यधिकार इत्याह ज्योतिषि भावाच्चेति । आदित्यः सूर्यश्चन्द्रः शुक्रोऽङ्गारक इत्यादिशब्दानां ज्योतिःपिण्डेषु प्रयोगस्य भावात्सत्त्वान्न विग्रहवान्देवः कश्चिदस्तीत्यर्थः । 'आदित्यः पुरस्तादुदेता पश्चादस्तमेता' इति मधुविद्यावाक्यशेषे ज्योतिष्येवादित्यशब्दः प्रसिद्धः । तर्हि ज्योतिःपिण्डानामेवाधिकारोऽस्तु, तत्राह न चेति । अग्न्यादीनामधिकारमाशङ्क्याह एतेनेति । अग्निर्वायुर्भूमिरित्यादिशब्दानामचेतनवाचित्वेनेत्यर्थः । सिद्धान्ती शङ्कते स्यादेतदित्यादिना । 'वज्रहस्तः पुरन्दरः' इत्यादयो मन्त्राः । 'सोऽरोदीत्' इत्यादयोऽर्थवादाः । 'इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः' । 'ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः' । इत्यादीतिहासपुराणानि । लोकेऽपि यमं दण्डहस्तं लिखन्ति, इन्द्रं वज्रहस्तमिति विग्रहादिपञ्चकसद्भावादनधिकारदोषो नास्तीत्यर्थः । 'विग्रहो हविषां भोग ऐश्वर्यं च प्रसन्नता । फलप्रदानमित्येतत्पञ्चकं विग्रहादिकम् ' ॥ मानाभावादेतन्नास्तीति दूषयति नेत्यादिना । न चात्रेति । विग्रहादावित्यर्थः । आर्थवादा मन्त्रा वा मूलमित्याशङ्क्याह अर्थवादा इत्यादिना ।
व्रीह्यादिवद्प्रयोगविधिगृहीता मन्त्राः प्रयोगसम्बन्द्धाभिधानार्था नाज्ञातविग्रहादिपरा इति मीमांसका आचक्षत इत्यर्थः । तस्मात् विग्रहाभावादित्यर्थः ॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】 सूत्राभ्यां प्राप्तं पूर्वपक्षं निरस्यति तुशब्द इत्यादिना । ब्रह्मविद्या देवादीन्नाधिकरोति, विद्यात्वात् , मध्वादिविद्यावदिति उक्तहेतुरप्रयोजक इत्याह यद्यपीति । दर्शादिकम् , न ब्राह्मणमधिकरोति, कर्मत्वात् , राजसूयादिवदिति आभाससाम्यं विद्यात्वहेतोराह नचेति । यत्र यस्याधिकारः सम्भवति स तत्राधिकारीति न्यायस्तुल्य इत्यर्थः । यतः सर्वेषां सर्वत्राधिकारो न सम्भवति ततो न चापोद्येतेत्यन्वयः । तद्ब्रह्म यो यो देवादीनां मध्ये प्रत्यक्त्वेनाबुध्यत स तद्ब्रह्माभवदित्यर्थः । ते ह देवा ऊचुरन्योन्यम् , तत इन्द्रविरोचनौ सुरासुरराजौ प्रजापतिं ब्रह्मविद्याप्रदं जग्मतुरिति च लिङ्गमस्तीत्यर्थः । किमत्र ब्रह्मामृतमिति गन्धर्वप्रश्ने याज्ञवल्क्य उवाच तमिति मोक्षधर्मेषु श्रुतं देवादीनामधिकारलिङ्गमित्याह स्मार्तमिति । यथा बालानां गोलकेषु चक्षुरादिपदप्रयोगेऽपि शास्त्रज्ञैर्गोलकातिरिक्तेन्द्रियाणि स्वीक्रियन्ते, यथा ज्योतिरादौ सूर्यादिशब्दप्रयोगेऽपि विग्रहवद्देवता स्वीकार्या इत्याह ज्योतिरादीति । तथा चेतनत्वेन व्यवहारादित्यर्थः । एकस्य जडचेतनोभयरूपत्वं कथम् , तत्राह अस्तिहीति । तथाहि विग्रहवत्तया देवव्यवहारःश्रूयते । सुब्रह्मण्य उद्गातृगणस्थ ऋत्विक्तत्सम्बन्धी योऽर्थवादः इन्द्र, अगच्छऽइत्यादिः । तत्र मेधातिथेर्मेष, इतीन्द्रसम्बोधनं श्रुतम् , तद्व्याचष्टे मेधेति । मुनिं मेषो भूत्वा जहारेति ज्ञापनार्थं मेष, इतीन्द्रसम्बोधनमित्यर्थः । यदुक्तमादित्यादयो मृदादिवदचेतना एवेति, तन्न, सर्वत्र जडजडांशद्वयसत्त्वादित्याह मृदिति । आदित्यादौ को जडभागः कश्चेतनांश इति, तत्राह ज्योतिरादेस्त्विति । मन्त्रादिकं पदशक्त्या भासमानविग्रहादौ स्वार्थे न प्रमाणम् , अन्यपरत्वात् , विषं भुङ्क्ष्वेति वाक्यवदित्याह यदपीति । अन्यपरादपि वाक्याद्बाधाभावे स्वार्थो ग्राह्य इत्याह अत्र ब्रूम इति । तात्पर्यशून्येऽप्यर्थे प्रत्ययमात्रेणास्तित्वमुदाहरति तथाहीति । तृणादौ प्रत्ययोऽस्ति विग्रहादौ स नास्तीति वैषम्यं शङ्कते अत्राहेति । विध्युद्देशो विधिवाक्यम् , तदेकवाक्यतया प्रशस्तो विधिरित्येवार्थवादेषु प्रत्ययः । वृत्तान्तो भूतार्थः । विग्रहादिः तद्विषयः प्रत्ययो नास्तीत्यर्थः । नन्ववान्तरवाक्येन विग्रहादिप्रत्ययोऽस्त्वित्यत आह नहीति । सुरापानप्रत्ययोऽपि स्यादिति भावः । पदैकवाक्यत्ववाक्यैकवाक्यत्ववैषम्यान्मैवमित्याह अत्रोच्यत इति । नञ्पदमेकं यदा सुरां पिबेदिति पदाभ्यामन्वेति तदा पदैकवाक्यमेकमेवार्थानुभवं करोति नतु पदद्वयं पृथक्सुरापानं बोधयति, तस्य विधौ निषेधानुपपत्तेर्वाक्यार्थानुभवं प्रत्यद्वारत्वात् । अर्थवादस्तु भूतार्थसंसर्गं स्तुतिद्वारं बोधयन्विधिना वाक्यैकवाक्यतां भजत इत्यस्ति विग्रहाद्यनुभव इत्यर्थः । नन्वर्थवादस्थपदानामवान्तरसंसर्गबोधकत्वं विना साक्षादेव विध्यन्वयोऽस्तु तत्राह यथा हीति । साक्षादन्वयायोगं दर्शयति न हीति । अर्थवादात्सर्वत्र स्वार्थग्रहणमाशङ्क्यार्थवादान्विभजते तद्यत्रेति । तत्तत्रार्थवादेषु यत्र 'अग्निर्हिमस्य भेषजम्' इत्यादावित्यर्थः । 'आदित्यो यूपः' इत्यभेदो बाधित इति तेजस्वित्वादिगुणवादः । यत्र 'वज्रहस्तः पुरन्दरः' इत्यादौ मानान्तरसंवादविसंवादौ न स्तस्तत्र भूतार्थवाद इत्यर्थः । इति विमृश्येत्यध्याहारः । विग्रहार्थवादः स्वार्थेऽपि तात्पर्यवान्, अन्यपरत्वे सत्यज्ञाताबाधितार्थकशब्दत्वात् , प्रयाजादिवाक्यवदिति न्यायं मन्त्रेष्वतिदिशति एतेनेति । वेदान्तानुवादगुणवादानां निरासाय हेतौ पदानि । न चोभयपरत्वे वाक्यभेदः, अवान्तरार्थस्य महावाक्यार्थत्वादिति भावः । विध्यनुपपत्त्यापि स्वर्गवद्देवताविग्रहोऽङ्गीकार्य इत्याह अपिचेति । ननु क्लेशात्मके कर्मणि विधिः फलं विनानुपपन्न इति भवतु 'यन्न दुःखेन सम्भिन्नम्' इत्यर्थवादसिद्धः स्वर्गो विधिप्रमाणकः । विग्रहं विना विधेः कानुपपत्तिः, तामाह न हीति । उद्दिश्य त्यागानुपपत्त्या चेतस्यारोहोऽङ्गीकार्य इत्यत्र श्रुतिमप्याह यस्या इति । अतश्चेतस्यारोहार्थं विग्रह एष्टव्यः । किञ्च कर्मप्रकरणपाठाद्विग्रहप्रमितिः प्रयाजवत्कर्माङ्गत्वेनाङ्गीकार्या, तां विना कर्मापूर्वासिद्धेः । किञ्च सुप्रसन्नविग्रहवद्देवतां त्यक्त्वा शब्दमात्रं देवतेति भक्तिरयुक्तेत्याह नच शब्देति । न चाकृतिमात्रं शब्दशक्यमस्तु किं विग्रहेणेति वाच्यम् , निर्व्यक्त्याकृत्ययोगात् । अतः शब्दस्यार्थाकाङ्क्षायां मन्त्रादिप्रमितविग्रहोऽङ्गीकार्य इत्याह तत्रेति । एवं मन्त्रार्थवादमूलकमितिहासादिकमपि विग्रहे मानमित्याह इतिहासेति । प्रमाणत्वेन सम्भवदित्यर्थः । व्यासादीनां योगिनां देवतादिप्रत्यक्षमपीतिहासादेर्मूलमित्याह प्रत्यक्षेति । व्यासादयो देवादिप्रत्यक्षशून्याः, प्राणित्वात् , अस्मद्वदित्यनुमानमतिप्रसङ्गेन दूषयति यस्त्वित्यादिना । सर्वं घटाभिन्नम् , वस्तुत्वात् , घटवदिति जगद्वैचित्र्यं नास्तीत्यपि स ब्रूयात् । तथा क्षत्रियाभावं वर्णाश्रमाभावं वर्णाश्रमाद्यव्यवस्थां च ब्रूयात् , निरङ्कुशबुद्धित्वात् । तथाच राजसूयादिशास्त्रस्य कृतादियुगधर्मव्यवस्थाशास्त्रस्य बाध इत्यर्थः । योगसूत्रार्थादपि देवादिप्रत्यक्षसिद्धिरित्याह अपिचेति । मन्त्रजपाद्देवतासांनिध्यं तत्सम्भाषणं चेति सूत्रार्थः । योगमाहात्म्यस्य श्रुतिस्मृतिसिद्धत्वाद्योगिनामस्ति देवादिप्रत्यक्षमित्याह योग इति । पादतलादाजानोर्जानोरानाभेर्नाभेराग्रीवं ग्रीवायाश्चाकेशप्ररोहं ततश्चब्रह्मरन्ध्रं पृथिव्यादिपञ्चके समुत्थिते धारणया जिते योगगुणे चाणिमादिके प्रवृत्ते योगाभिव्यक्तं तेजोमयं शरीरं प्राप्तस्य योगिनो न रोगादिस्पर्श इत्यर्थः । चित्रकारादिप्रसिद्धिरपि विग्रहे मानमित्याह लोकेति । अधिकरणार्थमुपसंहरति तस्मादिति । चिन्तायाः फलमाह क्रमेति ।
एवमेव देवादीनां ब्रह्मविद्याधिकारे सत्येव देवत्वप्राप्तिद्वारा क्रममुक्तिफलान्युपासनानि युज्यन्ते । देवानामनधिकारे ज्ञानाभावात्क्रममुक्त्यर्थिनामुपासनेषु प्रवृत्तिर्न स्यात् , अतोऽधिकारनिर्णयात्प्रवृत्तिसिद्धिरिति भावः ॥ ३३ ॥ 【भाष्यम्】 【भाष्यम्】 शुगस्यसूच्यते हि । पूर्वेणास्य दृष्टान्तसङ्गतिमाह यथेति । पूर्वत्र देवादीनामधिकारसिध्यर्यं मन्त्रादीनां भूतार्थे विग्रहादौ समन्वयोक्त्या वेदान्तानामपि भूतार्थे ब्रह्मणि समन्वयो दृढीकृतः । अत्रापि शूद्रशब्दस्य श्रौतस्य क्षत्रिये समन्वयोक्त्या स दृढीक्रियत इत्यधिकरणद्वयस्य प्रासङ्गिकस्यास्मिन्समन्वयाध्यायेऽन्तर्भाव इति मन्तव्यम् । पूर्वपक्षे शूद्रस्यापि द्विजवद्वेदान्तश्रवणे प्रवृत्तिः, सिद्धान्ते तदभाव इति फलम् । अत्र वेदान्तविचारो विषयः, स किं शूद्रमधिकरोति न वेति सम्भवासम्भवाभ्यां सन्देहे पूर्वपक्षमाह तत्र शूद्रस्यापीत्यादिना । तस्मादनग्नित्वादनवल्कृप्तोऽसमर्थः । विद्यार्थिनि शूद्रशब्दप्रयोगाल्लिङ्गादपि शूद्रस्याधिकार इत्याह भवतिचेति । जानश्रुतिः किल षट्शतानि गवां रथं च रैक्वाय गुरवे निवेद्य मां शिक्षयेत्युवाच । ततो रैक्वो विधुरः कन्यार्थी सन्निदमुवाच । अहेति निपातः खेदार्थः । हारेण निष्केण युक्त इत्वा गन्ता रथो हारेत्वा स च गोभिः सह हे शूद्र, तवैवास्तु किमल्पेनानेन मम गार्हस्थ्यानुपयोगिनेति भावः । अर्थित्वादिसम्भवे श्रेयःसाधने प्रवृत्तिरुचिता स्वाभाविकत्वादिति न्यायोपेताल्लिङ्गादित्याह तस्मादिति । सूत्राद्बहिरेव सिद्धान्तयति न शूद्रस्याधिकार इत्यादिना । आपाततो विदितो वेदार्थो येन तस्येत्यर्थः । अध्ययनविधिना संस्कृतो वेदस्तदुत्थमापातज्ञानं च वेदार्थविचारेषु शास्त्रीयं सामर्थ्यम् , तदभावाच्छूद्रस्यार्थित्वादिसम्भवन्यायासिद्धेर्नास्ति वेदान्तविचाराधिकार इत्यर्थः । यद्वाध्ययनसंस्कृतेन वेदेन विदितो निश्चितो वेदार्थो येन तस्य वेदार्थेषु विधिष्वधिकारो नान्यस्य, अनधीतवेदस्यापि वेदार्थानुष्ठानाधिकारेऽध्ययनविधिवैयर्थ्यापातात् । अतः फलपर्यन्तब्रह्मविद्यासाधनेषु श्रवणादिविधिषु शूद्रस्यानधिकार इत्यर्थः । अधीतवेदार्थज्ञानवत्त्वरूपस्याध्ययनविधिलभ्यस्य सामर्थ्यस्याभावादिति न्यायस्य तुल्यत्वात् , यज्ञपदं वेदार्थोपलक्षणार्थमित्याह न्यायस्य साधारणत्वादिति । तस्माच्छूद्र इति तच्छब्दपरामृष्टन्यायस्य यज्ञब्रह्मविद्ययोस्तुल्यत्वादित्यर्थः । पूर्वोक्तं लिङ्गं दूषयति यदिति । असामर्थ्यन्यायेनार्थित्वादिसम्भवन्यायस्य निरस्तत्वादित्यर्थः । ननु 'निषादस्थपतिं याजयेत्' इत्यत्राध्ययनाभावोऽपि निषादशब्दान्निषादस्येष्टाविव शूद्रशब्दाच्छूद्रस्य विद्यायामधिकारोऽस्त्वित्याशङ्क्य संवर्गविद्यायामधिकारमङ्गीकरोति काममिति । तद्विषयत्वात्तत्र श्रुतत्वादित्यर्थः । वस्तुतस्तु विधिवाक्यस्थत्वान्निषादशब्दोऽप्यधिकारिसमर्पकः, शूद्रशब्दस्तु विद्याविधिपरार्थवादस्थो नाधिकारिणं बोधयति, असामर्थ्यन्यायविरोधेनान्यपरशब्दस्य स्वार्थबोधित्वासम्भवादिति मत्वाङ्गीकारं त्यजति अर्थवादेति । तर्हि शूद्रशब्दस्यात्र श्रुतस्य कोऽर्थ इत्याशङ्क्य सूत्रेणार्थमाह शक्यते चेत्यादिना ।
जानश्रुतिर्नाम राजा निदाघसमये रात्रौ प्रासादतले सुष्वाप, तदा तदीयान्नदानादिगुणगणतोषिता ऋषयोऽस्य हितार्थं हंसा भूत्वा मालारूपेण तस्योपर्याजग्मुः, तेषु पाश्चात्यो हंसोऽग्रेसरं हंसमुवाच, भो भो भद्राक्ष, किं न पश्यसि जानश्रुतेरस्य तेजः स्वर्गं व्याप्य स्थितम् , तत्त्वां धक्ष्यति न गच्छेति । तमग्रेसर उवाच, कमप्येनं वराकं विद्याहीनं सन्तम् , अरे, सयुग्वानं युग्वा गन्त्री शकटी तया सह स्थितं रैक्वमिवैतद्वचनमात्थ । रैक्वस्य हि ब्रह्मिष्ठस्य तेजो दुरतिक्रमं नास्यानात्मज्ञस्येत्यर्थः । अस्मद्वचनखिन्नो राजा शकटलिङ्गेन रैक्वं ज्ञात्वा विद्यावान्भविष्यतीति हंसानामभिप्रायः । कमु अरे इति पदच्छेदः । उशब्दोऽप्यर्थः । तेषां हंसानामनादरवाक्यश्रवणादस्य राज्ञः शुगुत्पन्ना, सा शूद्रशब्देन रैक्वेण सूच्यते हीति सूत्रान्वयः । श्रुतयौगिकार्थलाभे सति अनन्वितरूढ्यर्थस्त्याज्य इति न्यायद्योतनार्थो हिशब्दः । तदाद्रवणात्तया शुचा आद्रवणात् । शूद्रः शोकं प्राप्तवान् । शुचा वा कर्त्र्या राजाभिदुद्रुवे प्राप्तः । शुचा वा करणेन रैक्वं गतवानित्यर्थः ॥ ३४ ॥ 【भाष्यम्】 【भाष्यम्】 शूद्रशब्दस्य यौगिकत्वे लिङ्गमाह क्षत्रियत्वेति । संवर्गविद्याविध्यनन्तरमर्थवाद आरभ्यते । शुनकस्यापत्यं कपिगोत्रं पुरोहितमभिप्रतारिनामकं राजानं च कक्षसेनस्यापत्यं सूदेन परिविष्यमाणौ तौ भोक्तुमुपविष्टौ बटुर्भिक्षितवानित्यर्थः । नन्वस्य चैत्ररथित्वं न श्रुतमित्यत आह चैत्ररथित्वं चेति । एतेन द्विरात्रेणेति छान्दोग्यश्रुत्यैव पूर्वं चित्ररथस्य कापेययोग उक्तः । अभिप्रतारिणोऽपि तद्योगाच्चित्ररथवंश्यत्वं निश्चीयते । राजवंश्यानां हि प्रायेण पुरोहितवंश्या याजका भवन्तीत्यर्थः । नन्वस्त्वभिप्रतारिणश्चैत्ररथित्वम् , तावता कथं क्षत्रियत्वम् , तत्राह तस्मादिति ।
चित्ररथादित्यर्थः । क्षत्ता सूतस्तस्य रैक्वान्वेषणाय प्रेषणमन्नगोदानादिकं च जानश्रुतेः क्षत्रियत्वे लिङ्गम् ॥ ३५ ॥ 【भाष्यम्】 【भाष्यम्】 अत्र शूद्रशब्दो यौगिक एवेति न शूद्रस्याधिकार इति स्थितम् । तत्र लिङ्गान्तरमाह संस्कारेति । उपनयनं वेदग्रहणाङ्गं शूद्रस्य नास्तीति पूर्वमुक्तम् । इह विद्याग्रहणाङ्गस्योपनयनसंस्कारस्य सर्वत्र परामर्शाच्छूद्रस्य तदभावान्न विद्याधिकारः इत्युच्यते । भाष्ये आदिपदेनाध्ययनगुरुशुश्रूषादयो गृह्यन्ते । तं शिष्यमाचार्य उपनीतवानित्यर्थः । नारदोऽपि विद्यार्थी मन्त्रमुच्चारयन्सनत्कुमारमुपगत इत्याह अधीति । उपदिशेति यावत् । ब्रह्मपरा वेदपारगाः सगुणब्रह्मनिष्ठाः परं निर्गुणं ब्रह्मान्वेषमाणा एष पिप्पलादस्तज्जिज्ञासितं सर्वं वक्ष्यतीति निश्चित्य ते भरद्वाजादयः षडृषयस्तमुपगता इत्यर्थः । ननु वैश्वानरविद्यायामृषीन् राजाऽनुपनीयैव विद्यामुवाचेति श्रुतेरनुपनीतस्याप्यस्ति विद्याधिकार इत्यत आह तान्हेति ।
ते ह समित्पाणयः पूर्वाह्ने प्रतिचक्रमिर इति पूर्ववाक्ये ब्राह्मणा उपनयनार्थमागता इति उपनयनप्राप्तिं दर्शयित्वा निषिध्यते । हीनवर्णेनोत्तमवर्णाऽनुपनीयैवोपदेष्टव्या इत्याचारज्ञापनार्थमित्यर्थः । एकजातिरनुपनीतः । पातकमभक्ष्यभक्षणकृतम् ॥ ३६ ॥ 【भाष्यम्】 【भाष्यम्】 सत्यकामः किलमृतपितृको जबालां मातरमपृच्छत् , किङ्गोत्रोऽहमिति । तं मातोवाच भर्तृसेवाव्यग्रतयाहमपि तव पितुर्गोत्रं न जानामि, जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति एतावज्जानामीति । ततः स जाबालो गौतममागत्य तेन किङ्गोत्रोऽसीति पृष्ट उवाच, नाहं गोत्रं वेद्मि न माता वेत्ति परन्तु मे मात्रा कथितम् , उपनयनार्थमाचार्यं गत्वा सत्यकामो जाबालोऽस्मीति ब्रूहीति । अनेन सत्यवचनेन तस्य शूद्रत्वाभावो निर्धारितः । अब्राह्मण एतत्सत्यं विविच्य वक्तुम् , नार्हतीति निर्धार्य, हे सोम्य, सत्यात्त्वं नागाः सत्यं न त्यक्तवानसि, अतस्त्वामुपनेष्ये, तदर्थं समिधमाहरेति गौतमस्य प्रवृत्तेश्च लिङ्गान्न शूद्रस्याधिकार इत्याह
तदभावेति ॥ ३७ ॥ 【भाष्यम्】 【भाष्यम्】 स्मृत्या श्रवणादिनिषेधाच्च नाधिकार इत्याह श्रवणेति । अस्य शूद्रस्य द्विजैः पठ्यमानं वेदं प्रमादाच्छृण्वतः सीसलाक्षाभ्यां तप्ताभ्यां श्रोत्रद्वयपूरणं प्रायश्चित्तं कार्यमित्यर्थः । पद्यु पादयुक्तं सञ्चरिष्णुरूपमिति यावत् । भवति च । स्मृतिरिति शेषः । मतिर्वेदार्थज्ञानम् । दानं नित्यं निषिध्यते शूद्रस्य । नैमित्तिकं तु दानमस्त्येव । यदुक्तं विदुरादीनां ज्ञानित्वं दृष्टमिति, तत्राह येषामिति । सिद्धानां सिद्धेर्दुरपह्नवत्वेऽपि साधकैः शूद्रैः कथं ज्ञानं लब्धव्यमित्यत आह
श्रावयेदिति ॥ ३८ ॥ 【भाष्यम्】 【भाष्यम्】 कम्पनात् । अस्यापि प्रासङ्गिकत्वमाशङ्क्याह अवसित इति । समाप्त इत्यर्थः । काठकं पठति यदिदमिति । सर्वं जगत्प्राणान्निःसृतमुत्पन्नं प्राणे चिदात्मनि प्रेरके सति एजति चेष्टते, तच्च प्राणाख्यं कारणं महद्ब्रह्म बिभेत्यस्मादिति भयम् । तस्मिन् भयहेतुत्वे दृष्टान्तमाह वज्रमिति । यथोद्यतं वज्रं भयं तथेत्यर्थः । य एतत्प्राणाख्यं ब्रह्म निर्विशेषं विदुस्ते मुक्ता भवन्तीत्याह य इति । नन्वस्मिन्सूत्रे कथमिदं वाक्यमुदाहृतमित्यत आह एतदिति । एजत्यर्थस्य कम्पनस्य सूत्रितत्वादेजतिपदयुक्तं वाक्यमुदाहृतमित्यर्थः । प्रासङ्गिकाधिकारचिन्तयास्य सङ्गतिर्नापेक्षितेति 'शब्दादेव प्रमितः' इत्यनेनोच्यते । तत्राङ्गुष्ठवाक्ये जीवानुवादो ब्रह्मैक्यज्ञानार्थ इत्युक्तम् , न तथेह प्राणानुवाद ऐक्यज्ञानार्थः सम्भवति, प्राणस्य स्वरूपेण कल्पितस्यैक्यायोगात् । अतः प्राणोपास्तिपरं वाक्यमिति प्रत्युदाहरणेन पूर्वपक्षयति प्रसिद्धेः पञ्चवृत्तिरिति । ननु 'अत एव प्राणः' इत्यादौ ब्रह्मणि लिङ्गात्प्राणश्रुतिर्नीता, अत्रापि सर्वचेष्टाभयहेतुत्वं ब्रह्मलिङ्गमस्तीति नास्ति पूर्वपक्षावसरो गतार्थत्वादिति, अत आह वायोश्चेति । प्रतिष्ठाय स्थितिं लब्ध्वा प्राणे वायौ निमित्ते जगच्चलतीति प्रसिद्धम् । अतः स्पष्टं ब्रह्मलिङ्गं नास्तीति भावः । वज्रलिङ्गाच्च वायुरित्याह वाय्विति । व्यष्टिर्विशेषः । समष्टिः सामान्यम् । सूत्राद्वहिरेव सिद्धान्तं प्रतिजानीते ब्रह्मैवेति । पूर्वोत्तरवाक्यैकवाक्यतानुगृहीतं सर्वाश्रयत्वं लिङ्गं वाक्यभेदकप्राणश्रुतेर्बाधकमित्याह पूर्वत्रेत्यादिना । शुक्रं स्वप्रकाशम् । तदु नात्येति ब्रह्मानाश्रितः कोऽपि लोको नास्त्येवेत्युकारार्थः । सौत्रं लिङ्गं व्याचष्टे एजयितृत्वमिति । सवायुकस्य सर्वस्य कम्पनश्रवणादपि प्राणः परमात्मैवेत्यर्थः । ब्रह्मणि वज्रशब्दः कथमित्याशङ्क्य गौण इत्याह वज्रशब्द इति । बृहदारण्यके 'वायुरेव व्यष्टिः' इत्यत्र 'अपपुनर्मृत्युम्' इत्यपमृत्युजयरूपमापेक्षिकममृतत्वमुच्यते न मुख्यामृतत्वम् , तत्रैव वायूपास्तिप्रकरणं समाप्य 'अथ हैनमुषस्तः पप्रच्छ' इति ज्ञेयात्मानमुक्त्वा वाय्वादेर्नाशित्वोक्तेरित्याह यत्तु वाय्वित्यादिना ।
तस्मात्काठकवाक्यं ज्ञेये समन्वितविति सिद्धम् ॥ ३९ ॥ 【भाष्यम्】 【भाष्यम्】 ज्योतिर्दर्शनात् । छान्दोग्ये प्रजापतिविद्यावाक्यमाह एष इति । परञ्ज्योतिः श्रुतिभ्यां संशयमाह तत्रेति । घटादिविषयावरकतमोनाशकं सौरमित्यर्थः । पूर्वत्र ब्रह्मप्रकरणस्यानुग्राहकः सर्वशब्दसङ्कोचाद्ययोगोऽस्तीति प्राणश्रुतिर्ब्रह्मणि नीता । न तथात्र 'य आत्मापहतपाप्मा' इति प्रकरणस्यानुग्राहकं पश्याम इति प्रत्युदाहरणेन पूर्वपक्षमाह प्रसिद्धमेवेत्यादिना । पूर्वपक्षे सूर्योपास्तिः, सिद्धान्ते ब्रह्मज्ञानान्मुक्तिरिति फलम् । ननु ज्योतिरधिकरणे ज्योतिःशब्दस्य ब्रह्मणि वृत्तेरुक्तत्वात्कथं पूर्वपक्ष इत्यत आह ज्योतिरिति । तत्र गायत्रीवाक्ये प्रकृतब्रह्मपरामर्शकयच्छब्दसामानाधिकरण्याज्ज्योतिःशब्दस्य स्वार्थत्यागः कृतः, तथात्र स्वार्थत्यागे हेत्वदर्शनात्पूर्वपक्ष इत्यर्थः । ज्योतिःश्रुतेरनुग्राहकत्वेनार्चिरादिमार्गस्थत्वं लिङ्गमाह तथाचेति । 'ता वा एता हृदयस्य नाड्यः' इति कण्डिकया नाडीनां रश्मीनां च मिथः संश्लेषमुक्त्वा अथ संज्ञालोपानन्तरं यत्र काले एतन्मरणं यथा स्यात्तथोत्क्रामति अथ तदा एतैर्नाडीसंश्लिष्टरश्मिभिरूर्ध्वः सन्नुपरि गच्छति, गत्वादित्यं ब्रह्मलोकद्वारभूतं गच्छतीत्यभिहितम् , तथैवात्रापि शरीरात्समुत्थाय मृत्वा परं ज्योतिरादित्याख्यमुपसम्पद्य तद्द्वारा ब्रह्मलोकं गत्वा स्वस्वरूपेणाभिनिष्पद्यत इति वक्तव्यम् । समुत्थायोपसम्पद्येति क्त्वाश्रुतिभ्यां ज्योतिषोऽर्चिरादिमार्गस्थत्वभानादित्यर्थः । अतो मार्गस्थसूर्योपास्त्या क्रममुक्तिपरं वाक्यमिति प्राप्ते सिद्धान्तयति एवमिति । व्याख्येयत्वेनोपक्रान्त आत्मैवात्र ज्योतिःशब्देन व्याख्येय इति ज्योतिर्वाक्येनैकवाक्यताप्रयोजकप्रकरणानुगृहीतोत्तमपुरुषश्रुत्या वाक्यभेदकज्योतिःश्रुतिर्बाध्येति भावः । अशरीरत्वफललिङ्गाच्च ब्रह्मैव ज्योतिर्न सूर्य इत्याह अशरीरमिति । नच सूर्यप्राप्त्या क्रमेणाशरीरत्वं स्यादिति वाच्यम् , परत्वेन विशेषितस्य ज्योतिष एव स उत्तम इति परामर्शेनाशरीरत्वनिश्चयादित्याह परमिति । पूर्वोक्तलिङ्गं दूषयति यत्त्विति ।
नाडीखण्डे दहरोपासकस्य या सूर्यप्राप्तिरुक्ता स न मोक्ष इति युक्ता सूर्योक्तिः, अत्र तु प्रजापतिवाक्ये निर्गुणविद्यायामर्चिरादिगतिस्थसूर्यस्यानन्वयादनर्थकत्वात्श्रुतिव्यत्यासेन स्वरूपं साक्षात्कृत्य परं ज्योतिस्तदेवोपसम्पद्यत इति व्याख्येयमिति भावः ॥ ४० ॥ 【भाष्यम्】 【भाष्यम्】 आकाशो व्यपदेशात् । छान्दोग्यमुदाहरति आकाश इति । यथोपक्रमबलाज्ज्योतिःश्रुतिबाधस्तथाकाशोपक्रमाद्ब्रह्मादिशब्दबाध इति दृष्टान्तेन पूर्वपक्षयति भूतेति । श्रुतैर्गुणैराकाशोपास्तिर्निर्गुणब्रह्मज्ञानं चेत्युभयत्र फलम् । 'आकाशस्तल्लिङ्गात्’ इत्यनेन पौनरुक्त्यमाशङ्क्य तद्वदत्र स्पष्टलिङ्गाश्रवणादिति परिहरति स्रष्टृत्वादेश्चेति । वै नामेति प्रसिद्धिलिङ्गस्याकाशश्रुतेश्च वाक्यशेषगताभ्यां ब्रह्मात्मश्रुतिभ्यामनेकलिङ्गोपेताभ्यां बाधो युक्तः । यत्र बहुप्रमाणसंवादस्तत्र वाक्यस्य तात्पर्यमिति निर्णयादिति सिद्धान्तयति परमेवेत्यादिना । नामरूपे शब्दर्थौ तदन्तःपातिनस्तद्भिन्नत्वे तत्कर्तृत्वं चायुक्तमित्यर्थः । नामादिकर्तृत्वं न ब्रह्मलिङ्गम् , जीवस्थत्वादिति शङ्कते नन्विति । 'अनेन जीवेन’ इत्यत्र जीवस्य ब्रम्हाभेदेन तत्कर्तृत्वमुच्यते साक्षादयोगादिति परिहरति बाढमिति । यच्चोक्तं स्पष्टं लिङ्गं नास्तीति, तत्राह नामेति । तर्हि पुनरुक्तिः, तत्राह आकाशेति ।
तस्यैव साधकोऽयं विचारः । अत्राकाशशब्दस्य ब्रह्मणि वृत्तिं सिद्धवत्कृत्य तत्र संशयादिप्रवृत्तेरुक्तत्वादिति न पौनरुक्त्यमिति भावः ॥ ४१ ॥ 【भाष्यम्】 【भाष्यम्】 सुषुप्त्युत्क्रान्त्योर्भेदेन । अहन्धीगम्येषु कतम आत्मेति जनकप्रश्ने याज्ञवल्क्य आह योऽयमिति । विज्ञानं बुद्धिस्तन्मयस्तत्प्रायः । सप्तमी व्यतिरेकार्था । प्राणबुद्धिभ्यां भिन्न इत्यर्थः । वृत्तेरज्ञानाच्च भेदमाह अन्तर्ज्योतिरिति । पुरुषः पूर्ण इत्यर्थः । उभयलिङ्गानां दर्शनात्संशयमाह तत्किमिति । पूर्वत्र नामरूपाभ्यां भेदोक्तेराकाशो ब्रह्मेत्युक्तम् , तदयुक्तम् , 'प्राज्ञेनात्मना सम्परिष्वक्तः' इत्यभिन्नेऽपि जीवात्मनि भेदोक्तिवदौपचारिकभेदोक्तिसम्भवादित्याक्षेपसङ्गतिः । पूर्वपक्षे कर्मकर्तृजीवस्तुतिः, सिद्धान्ते जीवानुवादेन ततः कल्पितभेदभिन्नस्य प्राज्ञस्य परमात्मनः स्वरूपैक्यप्रमितिरिति फलम् । बुद्धान्तो जाग्रदवस्था । आदिमध्यावसानेषु जीवोक्तेर्जीवस्तावकमिदं वाक्यमिति प्राप्ते सिद्धान्तयति परमेश्वरेत्यादिना । वाक्यस्य जीवस्तावकत्वे जीवाद्भेदेन प्राज्ञस्याज्ञातस्योत्तरोक्तिरसङ्गता स्यात् , अतो ज्ञाताज्ञातसंनिपाते ज्ञातानुवादेनाज्ञातं प्रतिपादनीयम् , 'अपूर्वे वाक्यतात्पर्यम्' इति न्यायादिति सिद्धान्ततात्पर्यम् । पुरुषः शरीरं प्राज्ञो जीव इति भ्रान्तिं वारयति तत्र पुरुष इत्यादिना । देहस्य वेदनाप्रसक्तेर्निषेधायोगात्पुरुषो जीव एव, प्राज्ञस्तु रूढ्या पर एवेत्यर्थः । अन्वारूढोऽधिष्ठितः । उत्सर्जन् घोराञ्शब्दान्मुञ्चन् । बुद्धौ ध्यायन्त्यामात्माध्यायतीव चलन्त्यां चलतीव । वस्तुतः सर्वविक्रियाशून्य इत्युक्तेर्न संसारिणि तात्पर्यमित्याह यत इति । उपक्रमवदुपसंहारवाक्येऽप्यैक्यं विविक्षितमित्याह तथेति । व्याचष्टे योऽयमिति । अवस्थोपन्यासस्य त्वमर्थशुद्धिद्वारैक्यपरत्वान्न जीवलिङ्गत्वमित्याह यतो न बुद्धान्तेति । प्रश्नोत्तराभ्यामसंसारित्वं गम्यत इत्याह यदत ऊर्ध्वमिति । कामादिविवेकानन्तरमित्यर्थः । भवतीति चेति ।
यद्यस्माद्वक्ति तस्मादवगम्यत इति योजना । तेनावस्थाधर्मेणानन्वागतोऽस्पृष्टो भवति, असङ्गत्वात् । सुषुप्तावप्यात्मतत्त्वं पुण्यपापाभ्यामस्पृष्टं भवति । हि यस्मादात्मा सुषुप्तौ सर्वशोकातीतः तस्माधृदयस्यैव सर्वे शोका इति श्रुत्यर्थः ॥ ४२ ॥ 【भाष्यम्】 【भाष्यम्】 वाक्यस्य ब्रह्मात्मैक्यपरत्वे हेत्वन्तरमाह पत्यादीति । सूत्रं व्याचष्टे इतश्चेति ।
वशी स्वतन्त्रः । अपराधीन इति यावत् । ईशानो नियमनशक्तिमान् । शक्तेः कार्यमाधिपत्यमिति भेदः । तस्माच्छोधितत्वमर्थैक्ये षष्ठाध्यायसमन्वय इति सिद्धम् ॥ ४३ ॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्याये तृतीयः पादः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 प्रथमाध्याये चतुर्थः पादः ।
अव्यक्तेशमजं पञ्चजनाधारं च कारणम् । वेदितन्यं प्रियं वन्दे प्रकृतिं पुरुषं परम् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 अस्मिन्पादेऽधिकरणत्रयस्येक्षत्यधिकरणेन सङ्गतिं वक्तुं वृत्तमनुवदति ब्रह्मेति । तदशब्दत्वेन । प्रधानस्य वैदिकशब्दशून्यत्वेनेत्यर्थः । ईक्षत्यधिकरणे गतिसामान्यमशब्दत्वं च प्रतिज्ञातम् , तत्र ब्रह्मणि वेदान्तानां गतिसामान्यं प्रपञ्चितम् , अधुना प्रधानस्याशब्दत्वमसिद्धमित्याशङ्क्य निरूप्यत इत्याक्षेपसङ्गतिः । तेनाशब्दत्वनिरूपणेन ब्रह्मणि वेदान्तानां समन्वयो दृढीकृतो भवतीत्यध्यायसङ्गतिरप्यधिकरणत्रयस्य ज्ञेया । अत्राव्यक्तपदं विषयः । तत्किं प्रधानपरं पूर्वोक्तशरीरपरं वेति स्मृतिप्रकरणाभ्यां संशये पूर्वमप्रसिद्धब्रह्मपरत्वं यथा षष्ठाध्यायस्य दर्शितं तद्वदव्यक्तपदमप्रसिद्धप्रधानपरमिति पूर्वपक्षयति आनुमानिकमिति । अपिशब्दाद्ब्रह्माङ्गीकारेणायमशब्दत्वाक्षेप इति सूचयति । तथा च ब्रह्मप्रधानयोर्विकल्पेन कारणत्वात् ब्रह्मण्येव वेदान्तानां समन्वय इति नियमासिद्धिः फलम् , सिद्धान्ते नियमसिद्धिरिति विवेकः । पदविचारत्वादधिकरणानामेतत्पादसङ्गतिर्बोध्या । स्मार्तक्रमरूढिभ्यामव्यक्तशब्दः प्रधानपरः शब्दस्पर्शादिशून्यत्वेन योगसम्भवाच्चेत्याह शब्दादीति । प्रधानस्य वैदिकशब्दवाच्यत्वे का क्षतिरित्यत आह तदेवेति । 'अजामेकाम्' इत्याद्या श्रुतिः । 'हेतुः प्रकृतिरुच्यते' इत्याद्या स्मृतिः । 'यदल्पं तज्जडप्रकृतिकम्' इति न्यायः । ततो ब्रह्मैव कारणमिति मतक्षतिरिति भावः । सूत्रे नञर्थं वदन्सिद्धान्तयति नैतदिति । प्रधानं वैदिकं नेत्यत्र तात्पर्याभावं हेतुमाह नहीति । ननु प्रधानस्यात्र प्रत्यभिज्ञानाद्वैदिकत्वमित्यत आह न ह्यत्रेति । ननु शब्दप्रत्यभिज्ञायामर्थोऽपि प्रत्यभिज्ञायत इत्याशङ्क्य यौगिकाच्छब्दादसति नियामके नार्थविशेषधीरित्याह स चेति । रूढ्या तद्धीरित्याशङ्क्य रूढिः किं लौकिकी स्मार्ता वा । नाद्य इत्याह न चेति । द्वितीयंप्रत्याह या त्विति । पुरुषसङ्केतो नानादिवेदार्थनिर्णयहेतुः, पुंमतेर्विचित्रत्वादित्यर्थः । यत्तु स्मार्तक्रमप्रत्यभिज्ञया क्रमिकार्थः स्मार्त एवेति, तत्राह नच क्रमेति । स्थानात्तद्रूपप्रत्यभिज्ञानाशङ्कायामसतीत्यन्वयान्नञो व्यत्यासेनातद्रूपस्य तद्रूपविरुद्धस्य प्रत्यभिज्ञाने सतीत्यर्थः । पूर्वज्ञातरूपार्थस्य स्थाने तद्विरुद्धार्थज्ञाने सति तस्य धीर्नास्तीत्यत्र दृष्टान्तमाह न हीति । प्रकृते नास्ति विरुद्धज्ञानमित्याशङ्क्य प्रकरणाच्छरीरज्ञानमस्तीत्याह प्रकरणेति । शरीरमेव रूपकेण रथसादृश्येन विन्यस्तं शरीररूपकविन्यस्तम् , तस्य पूर्ववाक्ये आत्मबुद्ध्योर्मध्यस्थानपठितस्यात्रापि मध्यस्थेनाव्यक्तशब्देन ग्रहणान्न प्रधानस्य वैदिकत्वमिति सूत्रार्थः । स्मार्तक्रमः किमिति त्यक्तव्य इत्याशङ्क्य श्रौतक्रमस्य प्रकरणाद्यनुग्रहेण बलवत्त्वादित्याह कुत इत्यादिना । तदुभयं विवृणोति तथा हीति । रूपककॢप्तिः सादृश्यकल्पना । प्रग्रहोऽश्वरशना । यदा बुद्धिसारथिर्विवेकी तदा मनसेन्द्रियहयान्विषमविषयमार्गादाकर्षति । यद्यविवेकी तदा मनोरशनाबद्धांस्तान् प्रवर्तयतीति मनसः प्रग्रहत्वं युक्तम् । तेषु हयेषु । गोचरान्मार्गान् । ननु स्वतश्चिदात्मनो भोगसम्भवात्किं रथादिनेत्यत आह आत्मेति । आत्मा देहः, देहादिसङ्ककल्पनया भोक्तृत्वं न स्वतोऽसङ्गत्वादित्यर्थः । अधुना रथादिभिर्गन्तव्यं वदन्नाकाङ्क्षापूर्वकमुत्तरवाक्यमाह तैश्चेत्यादिना । शरीरस्य प्रकृतत्वेऽप्यव्यक्तपदेन प्रधानं गृह्यतामित्यत आह तत्र य एवेति । एवं प्रकरणं शोधयित्वा शरीरस्य परिशेषतामानयति तत्रेन्द्रियेत्यादिना । अर्थानां पूर्वमनुक्तिशङ्कां वारयन् परत्वमुपपादयति अर्था इति । गृह्णन्ति पुरुषपशुं बध्नन्तीति ग्रहा इन्द्रियाणि । तेषां ग्रहत्वं विषयाधीनम् । असति विषये तेषामकिञ्चित्करत्वात् । ततो ग्रहेभ्यः श्रेष्ठा अतिग्रहा विषया इति बृहदारण्यके श्रवणात् । परत्वं श्रैष्ठ्याभिप्रायम् , न त्वान्तरत्वेनेति भावः । सविकल्पकं ज्ञानं मनः, निर्विकल्पकं निश्चयात्मिका बुद्धिः, आत्मशब्दात्स एव बुद्धेः परः, प्रत्यभिज्ञायत इति शेषः । हिरण्यगर्भाभेदेन ब्रह्मादिपदवेद्या समष्टिबुद्धिर्महानित्याह अथवेति । मननशक्तिः, व्यापिनी, भाविनिश्चयः, ब्रह्मा आत्मा, भोग्यवर्गाश्रयः, तात्कालिकनिश्चयः, कीर्तिशक्तिः, नियमनशक्तिः, त्रैकालनिश्चयः, संविदभिव्यञ्जिका चिदध्यस्तातीतसर्वार्थग्राहिणी समष्टिबुद्धिरित्यर्थः । हिरण्यगर्भस्येयं बुद्धिरस्तीत्यत्र श्रुतिमाह य इति । नन्वप्रकृता सा कथमुच्यते, तदुक्तौ च प्रधानेन किमपराद्धमित्यत आह सा चेति । हिरुक्पृथक् । पूर्वं व्यष्टिबुद्ध्यभेदेनोक्तात्र ततो भेदेन परत्वमुच्यत इत्यर्थः । तर्हि रथरथिनौ द्वौ परिशिष्टौ स्याताम् , नेत्याह एतस्मिंस्त्विति । अतो रथ एव परिशिष्ट इत्याह तदेवमिति । तेषु पूर्वोक्तेषु षट्पदार्थेष्वित्यर्थः । परिशेषस्य फलमाह इतराणीति । वेदो यमो वेति शेषः । दर्शयति चेति सूत्रभागो व्याख्यातः । किञ्च ब्रह्मात्मैकत्वपरत्वे ग्रन्थे भेदवादिनां प्रधानस्यावकाशो नास्तीत्याह शरीरेत्यादिना । भोगो वेदना । काठकग्रन्थस्यैक्यतात्पर्ये गूढत्वज्ञेयत्वज्ञानहेतुयोगविधयो लिङ्गानि सन्तीत्याह तथा चैष इत्यादिना ।
अग्र्या समाधिपरिपाकजा । वागित्यत्र द्वितीयालोपश्छान्दसः, मनसीति दैर्घ्यं च ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 शङ्कोत्तरत्वेन सूत्रं व्याचष्टे उक्तमेतदित्यादिना । कार्यकारणयोरभेदान्मूलप्रकृतिवाचकाव्यक्तशब्देन विकारो लक्ष्यत इत्यर्थः । गोभिर्गोविकारैः पयोभिर्मत्सरं सोमं श्रीणीत । मिश्रितं कुर्यादिति यावत् । 'श्रीञ्पाके' इति धातोर्लोटि मध्यमपुरुषबहुवचनमेतत् । अव्यक्तात्मना कार्यस्याव्यक्तशब्दयोग्यत्वे मानमाह श्रुतिश्चेति ।
तर्हि प्रागवस्थायामिदं जगदव्याकृतमासीत् ह किलेत्यर्थः । बीजरूपा शक्तिः संस्कारस्तदवस्थम् ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 अपसिद्धान्तशङ्कोत्तरत्वेन सूत्रं व्याचष्टे अत्राहेत्यादिना । तर्हि तदा । एवं सति सूक्ष्मशब्दितप्रागवस्थाभ्युपगमे सति । ईश्वरे कल्पिता तन्नियम्येत्यङ्गीकारान्नापसिद्धान्त इत्याह अत्रोच्यत इत्यादिना । कूटस्थब्रह्मणः स्रष्टृत्वसिद्ध्यर्थमविद्या स्वीकार्येत्युक्तम् । बन्धमुक्तिव्यवस्थार्थमपि सा स्वीकार्येत्याह मुक्तानामिति । यन्नाशान्मुक्तिः सा स्वीकार्या, तां विनैव सृष्टौ मुक्तानां पुनर्बन्धापत्तेरित्यर्थः । तस्याः परपरिकल्पितसत्यस्वतन्त्रप्रधानाद्वैलक्षण्यमाह अविद्येत्यादिना । मायामयी प्रसिद्धमायोपमिता । लोके मायाविनो मायावत्परतन्त्रेत्यर्थः । जीवभेदोपाधित्वेनापि सा स्वीकार्येत्याह महासुषुप्तिरिति । बुद्ध्याद्युपाधिभेदाज्जीवा इति बहूक्तिः । अविद्यायां श्रुतिमप्याह तदेतदिति । आकाशहेतुत्वादाकाशः । ज्ञानं विनान्ताभावादक्षरम् । विचित्रकारित्वान्मायेति भेदः । इदानीमविद्याया ब्रह्माभेदान्यत्वाभ्यामनिर्वाच्यत्वेनाव्यक्तशब्दार्हत्वमाह अव्यक्तेति । तस्य महतः परत्वं कथमित्यत आह तदिदमिति । यदा बुद्धिर्महांस्तदा तद्धेतुत्वात्परत्वमित्युक्तमित्यन्वयः । प्रतिबिम्बस्योपाधिपरतन्त्रत्वादुपाधेः प्रतिबिम्बात्परत्वमाह यदा त्विति । हेतुं स्फुटयति अविद्येति । अव्यक्तस्य परत्वेऽपि शरीरस्य किं जातम् , तदाह तच्चेति । नन्विन्द्रियादीनामप्यव्यक्ताभेदादव्यक्तत्वं परत्वं च किमिति नोच्यते, तत्राह सत्यपीति । सूत्रद्वयस्य वृत्तिकृद्ध्याख्यानमुत्थापयति अन्ये त्विति । पञ्चीकृतभूतानां सूक्ष्मा अवयवाः स्थूलदेहारम्भकाः । सूक्ष्मशरीरं प्रतिजीवं लिङ्गस्याश्रयत्वेन नियतमस्तीति वक्ष्यते । देहान्तरप्राप्तौ तेन युक्तो गच्छति परलोकमित्यर्थः । कथं तस्य महतो जीवात्परत्वमित्याशङ्क्य द्वितीयसूत्रं व्याचष्टे तदधीनत्वाच्चेति । अर्थवदिति । सूत्रस्थदृष्टान्तमाह यथेति । तद्ध्याख्यानं दूषयति तैरिति । अव्यक्तपदबलात्प्रकृतमपि स्थूलं त्यज्यत इति शङ्कते आम्नातस्येति । एकार्थबोधकानां शब्दानां मिथ आकाङ्क्षयैकस्यां बुद्धावारूढत्वमेकवाक्यता । तव मते तस्या अभावात्कुतोऽर्थबोध इति समाधत्ते नेति । तां विनाप्यर्थधीः किं न स्यादित्यत आह नहीति । शरीरशब्देन रूढ्या स्थूलं प्रकृतम् , तस्य हानिरप्रकृतस्य भूतसूक्ष्मस्याव्यक्तपदेन ग्रहणमन्याय्यं स्यादित्यर्थः । अस्त्वेकवाक्यतेत्यत आह न चेति । ततः किं तत्राह तत्रेति । आकाङ्क्षया वाक्यैकवाक्यत्वे सति प्रकृतं शरीरद्वयमव्यक्तपदेन ग्राह्यम् । आकाङ्क्षायास्तुल्यत्वादिति भावः । अनात्मनिश्चयः शुद्धिः, तदर्थं सूक्ष्ममेवाकाङ्क्षितं ग्राह्यम् , तस्य सूक्ष्मत्वेनात्माभेदेन गृहीतस्य दुःशोधत्वात् । स्थूलस्य दृष्टदौर्गन्ध्यादिना लशुनादिवदनात्मत्वधीवैराग्ययोः सुलभत्वादिति शङ्कते न चेति । दृष्टा बीभत्सा घृणा यस्मिन् तस्य भावस्तत्ता तयेत्यर्थः । दूषयति यत इति । वैराग्यायशुद्धिरत्र न विवक्षिता, विध्यभावात् , किन्तु वैष्णवं परमं पदं विवक्षितमिति तद्दर्शनार्थं प्रकृतं स्थूलमेवाव्यक्तपदेन ग्राह्यमिति भावः । किञ्च सूक्ष्मस्य लिङ्गान्तःपातिन इन्द्रियादिग्रहणेनैव ग्रहणान्न पृथगव्यक्तशरीरपदाभ्यां ग्रहः । अभ्युपेत्याह सर्वथेति । स्थूलस्य सूक्ष्मस्य वा ग्रहेऽपीत्यर्थः । तथा नामेति ।
सूक्ष्ममेवाव्यक्तमस्त्वित्यर्थः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 अत्राव्यक्तं प्रधानं नेत्यत्र हेत्वन्तरार्थं सूत्रम् ज्ञेयत्वेति । सत्त्वादिगुणरूपात्प्रधानात्पुरुषस्यान्तरं भेदस्तज्ज्ञानादित्यर्थः । नहि शक्यमिति च वदद्भिः प्रधानं ज्ञेयत्वेन स्मर्यत इति सम्बन्धः । न केवलं भेदप्रतियोगित्वेन प्रधानस्य ज्ञेयत्वं तैरिष्टं किन्तु तस्योपासनयाणिमादिप्राप्तयेऽपीत्याह क्वचिच्चेति । ज्ञानविध्यभावेऽप्यव्यक्तपदजन्यज्ञानगम्यत्वमार्थिकं ज्ञेयत्वमस्तीत्यत आह न चानुपदिष्टमिति । उपदिष्टं हि ज्ञानं फलवदिति ज्ञातुं शक्यं निष्फलस्योपदेशायोगादव्यक्तस्य च ज्ञानानुपदेशात्फलवज्ज्ञानगम्यत्वासिद्धिरित्यर्थः । फलितमाह तस्मादिति । साङ्ख्येष्टसफलज्ञानगम्यत्वावचनाच्चेत्यर्थः । ननु शरीरस्यापि ज्ञेयत्वानुक्तेः कथमिह ग्रहणम् , तत्राह अस्माकं त्विति ।
अस्मन्मते विष्ण्वाख्यपदस्यैकस्यैव ज्ञेयत्वात्तद्दर्शनार्थमव्यक्तपदेन शरीरोपन्यासो युक्त इत्यर्थः । साधारणशब्दमात्रान्न प्रधानस्य प्रत्यभिज्ञा स्मार्तलिङ्गस्यानुक्त्या नियामकाभावादिति तात्पर्यम् ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 लिङ्गोक्तिमाशङ्क्य निषेधति वदतीति चेदिति ।
अत्र हि तादृशमेव निर्दिष्टमित्यन्वयः । स्पष्टमन्यत् ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 किञ्चात्र कठवल्ल्यां प्रधानस्य प्रश्नोत्तरयोरसत्त्वान्न ग्रहणमित्याह त्रयाणामिति । मृत्युना नचिकेतसं प्रति त्रीन्वरान्वृणीष्वेत्युक्तेः त्रयाणामेव प्रश्नो नचिकेतसा कृतः । उपन्यासश्च मृत्युना कृतः । नान्यस्येत्यर्थः । प्रश्नत्रयं क्रमेण पठति तत्र तावदिति । हे मृत्यो, स मह्यं दत्तवरस्त्वं स्वर्गहेतुमग्निं स्मरसि । प्रेते मृते । देहादन्योऽस्ति न वेति संशयोऽस्ति । अत एतदात्मतत्त्वमसन्दिग्धं जानीयामित्यर्थः । क्रमेणोत्तरत्रयमाह प्रतिवचनमपीति । लोकहेतुविराडात्मनोपास्यत्वाल्लोकादिश्चित्योऽग्निस्तं मृत्युरुवाच नचिकेतसे । याः स्वरूपतो यावतीः सङ्ख्यातो यथा वा क्रमेणाग्निश्चीयते तत्सर्वमुवाचेत्यर्थः । हन्तेदानीं ब्रह्म वक्ष्यामीति ब्रह्मवाक्येन जीवप्रश्नाद्व्यवहितमपि 'यथा च मरणं प्राप्य' इत्यादि वाक्यं जीवविषयमुत्तरम् , योग्यत्वादित्यर्थः । वाक्यार्थस्तु आत्मा मरणं प्राप्य यथा भवति तथा वक्ष्यामीति । प्रतिज्ञातमाह योनिमिति । चराचरदेहप्राप्तौ निमित्तमाह यथेति । श्रुतमुपासनम् । सूत्रे आद्यश्चकारो यत इत्यर्थे । एवं च त्रयाणामेवोपन्यासः प्रश्नश्च यतः अतो न प्रधानमव्यक्तमिति योजना । उक्तार्थे सूत्रमाक्षिपति अत्राहेति । एकः प्रश्नः द्वौ प्रश्नौ वेति पक्षद्वये फलितं पृच्छति किञ्चात इति । सप्तम्यर्थे तसिः । अत्र च पक्षद्वयेऽपि किमित्यर्थः । प्रश्नैक्ये सूत्रासङ्गतिः । भेदे प्रधानस्य श्रौतत्वसिद्धिरिति पूर्ववाद्याह स एवेत्यादिना । प्रश्नैक्यपक्षमादाय सिद्धान्त्याह अत्रोच्यत इति । येन प्रधानसिद्धिः स्यादिति शेषः । चतुर्थप्रश्नकल्पने वरत्रित्वोपक्रमविरोधः स्यादिति विवृणोति वरेत्यादिना । वरप्रदानमुपक्रमो यस्याः सा । प्रहिताय यमलोकं प्रति प्रेषिताय । इतः पुनः मर्त्यलोकं प्राप्तस्य मम पिता यथापूर्वं सुमनाः स्यादिति प्रथमं वव्रे । ननु द्वितीयवरो जीवविद्या तृतीयो ब्रह्मविद्येति प्रश्नभेदः किं न स्यादित्यत आह येयमिति । प्रेते इत्युपक्रम्य तृतीयत्वोक्तिलिङ्गाज्जीवात्मविद्यैव तृतीयो वर इत्यर्थः । एवं वाक्योपक्रमे सति प्रश्नान्तरं न युक्तमित्याह तत्रेति । मरणधर्माद्यस्पर्शलिङ्गाभ्यां प्रष्टव्ययोर्जीवेश्वरयोर्भेदात्प्रश्नभेदसिद्धेर्वाक्यबाधो युक्त इति शङ्कते नन्वित्यादिना । गोचरत्वादाश्रयत्वात् । न केवलं प्रष्टव्यभेदात्प्रश्नभेदः किन्तु प्रश्नवाक्ययोः सादृश्याभावादपीत्याह प्रश्नच्छायेति । प्रष्टव्यभेदोऽसिद्ध इति परिहरति नेत्यादिना । किञ्च ब्रह्मप्रश्ने जन्मादिनिषेधेन जीवस्वरूपं वदन् यमस्तयोरैक्यं सूचयतीत्याह इह चान्यत्रेति । तन्निषेधवाक्ये शिवोक्तिरसिद्धेत्यत आह सतीति । भागी युक्तः । तस्मादविद्यया जीवस्य प्राप्तजन्मादिनिषेधेन स्वरूपमुक्तमित्यर्थः । किञ्च जीवो ब्रह्माभिन्नः, मोक्षहेतुज्ञानविषयत्वात् , ब्रह्मवदित्याह तथा स्वप्नेति । अन्तोऽवस्था । येन साक्षिणा प्रमाता पश्यति तमात्मानमिति सम्बन्धः । हेतोरप्रयोजकत्वमाशङ्क्य 'तमेव विदित्वा' इति श्रुतिविरोधमाह प्राज्ञेति । किञ्चाभेदमुक्त्वा भेदस्य निन्दितत्वादभेद एव सत्य इत्याह तथेति । इह देहे यच्चैतन्यं तदेवामुत्र सूर्यादौ । एवमिहाखण्डैकरसे ब्रह्मणि यो नानेव मिथ्याभेदं पश्यति स भेददर्शी मरणान्मरणं प्राप्नोति संसारभयान्न मुच्यत इत्यर्थः । किञ्च जीवप्रश्नानन्तरं 'तं दुर्दर्शम्' इति यदुत्तरमुवाच तेनाप्युत्तरेणाभेदो गम्यत इति सम्बन्धः । प्रष्टृप्रश्नयोः प्रशंसयापि लिङ्गेन पृष्टस्य दौर्लभ्यद्योतनाद्ब्रह्मत्वसिद्धिरित्याह अन्यं वरमित्यादिना । पुत्रादिकं वृणीष्वेत्युक्तेऽपि विषयांस्तुच्छीकृत्यात्मज्ञानान्न चचाल 'नान्यं तस्मान्नचिकेता वृणीते' इति श्रवणात् । तदा सन्तुष्टो यमः 'अन्यच्छ्रेयोऽन्यदुतैव प्रेयः' इति भोगापवर्गमार्गयोर्वैलक्षण्यं प्रतिज्ञाय 'दूरमेते विपरीते विषूची अविद्या या च विद्या' इति दर्शितवानित्यर्थः । प्रेयः प्रियतमं स्वर्गादिकम् , विषूची विरुद्धफले, अविद्या कर्म, विद्या तत्त्वधीः । विद्याभीप्सिनं विद्यार्थिनं त्वामहं मन्ये, यतः त्वा त्वां बहवोऽपि कामाः पुत्रादयो मया दीयमाना दुर्लभा अपि नालोलुपन्त लोभवन्तं न कृतवन्त इति प्रष्टारं स्तुत्वा प्रश्नमपि 'त्वादृङ्नो भूयान्नचिकेतः प्रष्टा' इति स्तुवन्नित्यक्षरार्थः । इयं प्रशंसा प्रश्नभेदपक्षे न घटत इत्याह यत्प्रश्नेति । यत्प्रश्नेन स्तुतिं लब्धवांस्तं प्रश्नं विहाय यद्यन्यमेवोत्थापयेत्तर्ह्यनवसरे स्तुतिः कृता स्यादित्यर्थः । तस्मादिति । प्रष्टव्यभेदाभावादित्यर्थः । प्रश्नवाक्यव्यक्त्योः सादृश्याभावात्प्रश्नभेद इत्युक्तं निरस्यति यत्त्वित्यादिना । धर्माद्याश्रयस्य जीवस्य ब्रह्मत्वं कथमित्यत आह यावदिति । अविद्यानाशानन्तरं ब्रह्मत्वं चेदागन्तुकमनित्यं च स्यादित्यत आह न चाविद्यावत्त्व इति । जीवस्य ब्रह्मत्वे स्वाभाविके सति ब्रह्मप्रश्नस्य यदुत्तरं तज्जीवप्रश्नस्यापि भवतीति लाभं दर्शयति ततश्च न जायत इति । जीवब्रह्मैक्ये 'त्रयाणाम्' इति सूत्रं कथमित्यत आह सूत्रं त्विति । कल्पितभेदात्प्रश्नभेदकल्पनेत्याह ततश्चेति ।
परमात्मनः सकाशात्प्रधानस्य वैषम्यमनात्मत्वेन तृतीयवरान्तर्भावायोगादिति भावः ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 श्रौतोऽव्यक्तशब्दो न साङ्ख्यासाधारणतत्त्वगोचरः, वैदिकशब्दत्वात् , महच्छब्दवदित्याह महद्वच्चेति । सूत्रं व्याचष्टे यथेत्यादिना । न चाकाशादिशब्दे व्यभिचारः, आकाशादेर्मतान्तरसाधारणत्वेन साङ्ख्यासाधारणत्वासिद्धेः साध्यस्यापि सत्त्वादिति मन्तव्यम् । सत्तामात्रे । सत्त्वप्रधानप्रकृतेराद्यपरिणामे । निर्विकल्पकबुद्धावित्यर्थः । आत्मा महानित्यात्मशब्दप्रयोगात् , तं मत्वा न शोचति, 'तमसः परस्तादि' त्यादिना शोकात्ययतमः परत्वादिभ्यश्च महच्छब्दः साङ्ख्यतत्त्वं नाभिधत्त इति सम्बन्धः । अधिकरणार्थमुपसंहरति
अतश्चेति ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 चमसवदविशेषात् । अत्राजापदं विषयः, तत्किं प्रधानपरं मायापरं वेति रूढ्यर्थासम्भवात्संशये पूर्वत्राव्यक्तशब्दमात्रेण प्रधानस्याप्रत्यभिज्ञायामप्यत्र त्रिगुणत्वादिलिङ्गोपेतादजापदात्प्रत्यभिज्ञास्तीति प्रत्युदाहरणेन पूर्वपक्षयति पुनरपीति । फलं पूर्वपक्षे ब्रह्मणि समन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति पूर्ववद्द्रष्टव्यम् । रागहेतुत्वादिगुणयोगात् लोहितादिशब्दै रजआदिगुणलाभेऽपि कथं प्रधानलाभः, तत्राह तेषां साम्येति । अवयवाः प्रधानस्य रजआदयस्तेषां धर्मा रञ्जकत्वादयः तैर्निमित्तैर्लोहितादिशब्दैः प्रधानमुच्यत इत्यर्थः । गुणाभेदात्प्रधानलाभ इति भावः । तत्राजाशब्दं योजयति नेति । 'रूढिर्योगमपहरति' इति न्यायेन शङ्कते नन्विति । रूढ्यसम्भवाद्योग आश्रयणीय इत्याह बाढमिति । अजाशब्दितप्रकृतित्वपुरुषभेदलिङ्गाभ्यामपि प्रधानप्रत्यभिज्ञेत्याह सा चेत्यादिना । प्रजायन्त इति प्रजा महदादयः । त्रैगुण्यं सुखदुःखमोहाः । अनुशयनं विवृणोति तामेवाविद्ययेति । अविवेकेनेत्यर्थः । विषयधीर्भोगः । गुणभिन्नात्मख्यातिरपवर्गः । सिद्धान्तयति एवं प्राप्त इति । मायादावपि साधारणान्मन्त्राद्विशेषार्थग्रहो न युक्तः, विशेषग्रहहेतोः प्रकरणादेरभावादिति हेतुं व्याख्याय दृष्टान्तं व्याचष्टे चमसवदिति ।
सर्वत्र गिरिगुहादावपि ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 चतुर्विधस्येति । जरायुजाण्डजस्वेदजोद्भिज्जरूपस्येत्यर्थः । स्मृत्युक्ता कुतो न ग्राह्येति शङ्कते कस्मादिति । श्रुतेः श्रुत्यन्तरादर्थग्रहो युक्तः, साजात्यान्मूलानपेक्षत्वाच्चेत्याह तथा हीति । शाखिनश्छन्दोगाः । किञ्च लोहितादिशब्दैरपि द्रव्यलक्षणा न्याय्या अव्यवधानात्न तु रञ्जनीयत्वादिगुणव्यवहिता सत्त्वादिगुणलक्षणेत्याह लोहितादीनां चेति । ननु शाखान्तरेण शाखान्तरस्थमन्त्रस्य निर्णयः कथमित्यत आह असन्दिग्धेनेति । सर्वशाखाप्रत्ययन्यायादिति भावः । यथा शाखान्तरवाक्यान्न प्रधानग्रहस्तथेहापि श्वेताश्वतरोपनिषदि मायाप्रकरणान्न तद्ब्रह्म इत्याह तथेति । सृष्ट्यादौ किंसहायं ब्रह्मेति विमृश्यते । ब्रह्मवादिनो ध्यानाख्ययोगेन परमात्मानमनुप्रविष्टाः सन्तः तत्रैव देवस्यात्मभूतामैक्येनाध्यस्तां शक्तिं परतन्त्रां मायां सत्त्वादिगुणवतीं ब्रह्मणः सहायमपश्यन्नित्यन्वयः । मायाया एकत्वेऽपि तदंशानां जीवोपाधीनां तत्तत्सङ्घातयोनीनामविद्याख्यानां भेदाद्वीप्सा । अव्याकृते अनभिव्यक्ते नामरूपे यस्यां सा । अनेन 'तद्धेदं तर्ह्यव्याकृतमासीत्' इति श्रुत्यन्तरप्रसिद्धिरुक्ता । तस्यां शक्तौ व्यक्ताव्यक्तकार्यलिङ्गकानुमानं सूचयति नामेति । मायाया रोहितादिरूपवत्त्वं कथमित्यत आह तस्या इति ।
विषय आश्रयः ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 उत्तरसूत्रव्यावर्त्यां शङ्कामाह तत्र त्विदमिति । लौकिकाजाशब्दसादृश्यकल्पनया तेजोऽबन्नानामजात्वोपदेशाद्गौणोऽयं शब्द इति परिहरति कल्पनेति । अनियमो यदृच्छा । बर्करो बालपशुः । यदुक्तं जीवभेदेन प्रधानवादप्रत्यभिज्ञेति, तन्नेत्याह न चेदमिति । व्यवस्थार्थो भेदोऽप्यर्थात्प्रतिपाद्यत इत्याह प्रसिद्धं त्विति । सत्य एव प्रसिद्ध इत्यत आह भेदस्त्विति । कल्पनोपदेशे दृष्टान्तं व्याचष्टे मध्विति ।
नच योगस्य मुख्यवृत्तित्वात्तेन प्रधानग्रहो न्याय्य इति वाच्यम् , रूढार्थानपेक्षाद्योगात्तदाश्रितगुणलक्षणाया बलीयस्त्वात् । गुणवृत्तौ हि रूढिराश्रिता भवति । तथाच रोहितादिशब्दसमभिव्याहारानुगृहीतया रूढ्याश्रितया गुणवृत्त्या प्रधाने योगं बाधित्वावान्तरप्रकृतिरजाशब्देन ग्राह्या, यथा मध्वादिशब्दैः प्रसिद्धमध्वाद्याश्रितगुणलक्षणया आदित्यादयो गृह्यन्ते तद्वत् । तस्मादशब्दं प्रधानमिति सिद्धम् ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 एवं प्रकरणबलान्मायैवाजेति भाष्यकृन्मतम् । छान्दोग्यश्रुत्या तेजोऽबन्नलक्षणावान्तरप्रकृतिरजेति सूत्रकृन्मतेनोत्तरसूत्रव्यावर्त्यं शङ्कते कथमिति । किं तेजोबन्नेष्वजाशब्दो रूढो, न जायत इति यौगिको वा । नाद्यः, तेष्वजात्वजातेरसत्त्वादित्याह यावतेति । यत इत्यर्थः । अतो न रूढ इति शेषः । न द्वितीय इत्याह नचेति । जातिर्जन्म । अजातिरजन्म । न सङ्ख्योपसङ्ग्रहात् । पञ्चजनशब्दः साङ्ख्यतत्त्वपरोऽन्यपरो वेति योगरूढ्योरनिश्चयात्संशये यथा तत्त्वविद्याधिकारे छागायां तात्पर्याभावादजापदे रूढित्यागस्तथा पञ्चमनुष्येषु तात्पर्याभावात्पञ्चजनशब्देन रूढिं त्यक्त्वा तत्त्वानि ग्राह्याणीतिदृष्टान्तसङ्गतिं सूचयन्मन्त्रमुदाहृत्य पूर्वपक्षयति एवमित्यादिना । फलं पूर्ववत् । प्राणचक्षुःश्रोत्रान्नमनांसि वाक्यशेषस्थाः पञ्चजनाः पञ्च । तत्र चत्वारः सूत्रमन्नं विराट्तयोः कारणमव्याकृतमाकाशश्च यस्मिन्नध्यस्तास्तमेवात्मानममृतं ब्रह्म मन्ये । तस्मान्मननात् विद्वानहममृतोऽस्मीति मन्त्रदृशो वचनम् । नन्वस्तु पञ्चत्वविशिष्टेषु पञ्चजनेषु पुनः पञ्चत्वान्वयात्पञ्चविंशतिसङ्ख्याप्रतीतिः, तावता कथं साङ्ख्यतत्त्वग्रह इत्याशङ्क्य सङ्ख्याया धर्म्याकाङ्क्षायां तत्त्वानि ग्राह्याणीत्याह तथेति । जगतो मूलभूता प्रकृतिस्त्रिगुणात्मकं प्रधानमनादित्वादविकृतिः । कस्यचित्कार्यं न भवतीत्यर्थः । महदहङ्कारपञ्चतन्मात्राणीति सप्त प्रकृतयो विकृतयश्च । तत्र महान्प्रधानस्य विकृतिरहङ्कारस्य प्रकृतिः । अहङ्कारस्तामसः पञ्चतन्मात्राणां शब्दादीनां प्रकृतिः, सात्त्विक एकादशेन्द्रियाणाम् । पञ्च तन्मात्राश्च पञ्चानां स्थूलभूतानामाकाशादीनां प्रकृतयः पञ्च स्थूलभूतान्येकादशेन्द्रियाणि चेति षोडशसङ्ख्याको गणो विकार एव न प्रकृतिः, तत्त्वान्तरोपादानत्वाभावात् । पुरुषस्तूदासीन इति साङ्ख्यकारिकार्थः । सङ्ख्यया तत्त्वानामुपसंग्रहात् शब्दवत्त्वमिति प्राप्ते सिद्धान्तयति नेति । नानात्वमिष्टमित्यत आह नैषामिति । पञ्चसु पञ्चसु साधारणस्येतरपञ्चकाद्व्यावृत्तस्य धर्मस्याभावोऽत्र नानात्वं विवक्षितमित्यर्थः । यद्यपि ज्ञानकर्मेन्द्रियेषु दशसु ज्ञानकरणत्वं कर्मकरणत्वं च पञ्चकद्वयेऽस्ति, पञ्चतन्मात्रासु पञ्चसु स्थूलप्रकृतित्वं च, तथापि यस्मिन्नित्यात्मन आकाशस्य च पृथगुक्तेः सत्त्वरजस्तमोमहदहङ्काराः पञ्च कर्तव्याः, मनश्चत्वारि भूतानि च पञ्च । अस्मिन् पञ्चकद्वये मिथोऽनुवृत्तेतरपञ्चकव्यावृत्तधर्मो नास्तीत्यभिप्रायः । मास्त्वित्यत आह येनेति । धर्मेणेत्यर्थः । तदेव स्फुटयति नहीति । महासङ्ख्यायामवान्तरसङ्ख्याः प्रविशन्ति, यथा द्वावश्विनौ सप्तर्षयोऽष्टौ वसवश्चेति सप्तदशेत्यत्राश्वित्वादिकमादाय द्वित्वादयः प्रविशन्ति । नान्यथेत्यर्थः । पञ्चशब्दद्वयेन स्ववाच्यन्यूनसङ्ख्याद्वारेण तद्व्याप्या महासङ्ख्यैव लक्ष्यत इति सदृष्टान्तं शङ्कते अथेति । मुख्यार्थस्य वक्ष्यमाणत्वाल्लक्षणा न युक्तेति परिहरति तदपि नेति । पञ्चजनशब्दयोरसमासमङ्गीकृत्य पञ्चविंशतिसङ्ख्याप्रतीर्निरस्ता । सम्प्रति समासनिश्चयान्न तत्प्रतीतिरित्याह परश्चेति । समासे हेतुमाह पारिभाषिकेणेति । अयमर्थः अस्मिन्मन्त्रे प्रथमःपञ्चशब्द आद्युदात्तः । द्वितीयः सर्वानुदात्तः । जनशब्दश्चान्तोदात्तः । तथाच न द्वितीयपञ्चशब्दजनशब्दयोः समासं विनान्त्यस्याकारस्योदात्तत्वं पूर्वेषामनुदात्ततत्वं च घटते 'समासस्य' इति सूत्रेण समासस्यान्तोदात्तविधानात् । 'अनुदात्तं पदमेकवर्जम्' इति च सूत्रेण यस्मिन्पदे उदात्तः स्वरितो वा यस्य वर्णस्य विधीयते तमेकं वर्जयित्वावशिष्टं तत्पदमनुदात्तं भवतीति विधानादेव मान्त्रिकान्तोदात्तस्वरेणैकपदत्वनिश्चयः भाषिकाख्ये तु शतपथब्राह्मणस्वरविधायकग्रन्थे 'स्वरितोऽनुदात्तो वा' इति सूत्रेण यो मन्त्रदशायामनुदात्तः स्वरितो वा स ब्राह्मणदशायामुदात्तो भवतीत्यपवाद आश्रितः । तथा चान्त्यादाकारात्पूर्वेषामनुदात्तानामुदात्तत्वं ब्राह्मणावस्थायां प्राप्तम् , 'उदात्तमनुदात्तमनन्त्यम्' इति सूत्रेण मन्त्र दशायामुदात्तस्यानन्त्यस्य परलग्नतयोच्चार्यमाणस्यानुदात्तत्वं विहितम् , तथा चान्त्यनकारादुपरितन आकार आकाशश्चेत्यनेन श्लिष्टतया पठ्यमानोऽनुदात्तो भवति, अयमन्तानुदात्तस्वरः पारिभाषिकस्तेन ब्राह्मणस्वरेणैकपदत्वं निश्चीयत इति । प्रकटार्थकारैस्तु पाठकप्रसिद्धोऽन्तोदात्तस्वरः पारिभाषिक इति व्याख्यातम् । तद्व्याख्यानं कल्पतरुकारैर्दूषितम् । अन्तानुदात्तं हि समाम्नातारः पञ्चजनशब्दमधीयत इति पाठकप्रसिद्धिरसिद्धेति । तथा च पञ्च पञ्चजना इति मान्त्रिकान्तोदात्तः स्वरः, यस्मिन् पञ्च पञ्चजना इत्यन्तानुदात्तो ब्राह्नणस्वर इति विभागः । उभयथाप्यैकपद्यात्समाससिद्धिरिति । तैत्तिरीयकप्रयोगादप्येकपदत्वमित्याह प्रयोगान्तरे चेति । आज्य, त्वा त्वां पञ्चानां पञ्चजनानां देवविशेषाणां यन्त्राय धर्त्राय गृह्णामि इत्याज्यग्रहणमन्त्रशेषः । देवतानां कर्मणि यन्त्रवदवस्थितं शरीरं तदेव धर्त्रम् इहामित्रभोगाधारम् , तस्मै तस्यावैकल्यार्थमिति यजमानोक्तिः । अस्तु समासस्ततः किमित्यत आह समस्तत्वाच्चेति । आवृतिर्वीप्सा तदभावे पञ्चकद्वयाग्रहणात्पञ्चविंशतिसङ्ख्याप्रतीतिरसिद्धेति भावः । जनपञ्चकमेकं पञ्चकानां पञ्चकं द्वितीयमिति पञ्चकद्वयं तस्य पञ्चपञ्चेति ग्रहणं नेत्यक्षरार्थः । किञ्चासमासपक्षेऽपि किं पञ्चशब्दद्वयोक्तयोः पञ्चत्वयोः परस्परान्वयः, किं वा तयोः शुद्धजनैरन्वयः, अथवा पञ्चत्वविशिष्टैर्जनैरपरपञ्चत्वस्यान्वयः । नाद्य इत्याह नच पञ्चसङ्ख्याया इति । विशेषणमन्वयः । अनन्वये हेतुमाह उपसर्जनस्येति । अप्रधानानां सर्वेषां प्रधानेनैव विशेष्येणैवान्वयो वाच्यः । गुणानां परस्परान्वये वाक्यभेदापातादित्यर्थः । द्वितीये दशसङ्ख्याप्रतीतिः स्यान्न पञ्चविंशतिसङ्ख्याप्रतीतिः । तृतीयमुत्थापयति नन्विति । पञ्चत्वविशिष्टेषु पञ्चत्वान्तरान्वये विशेषणीभूतपञ्चत्वेऽपि पञ्चत्वान्वयात्पञ्चविंशतित्वप्रतीतिरित्यर्थः । दृष्टान्तवैषम्येण परिहरति नेति ब्रूम इति । पञ्चानां पूलानां समाहारा इत्यत्र 'सङ्ख्यापूर्वो द्विगुः' इति समासो विहितः । ततो 'द्विगोः' इति सूत्रेण ङीपो विधानात्समाहारप्रतीतौ समाहाराः कतीत्याकाङ्क्षायां सत्यां पञ्चेतिपदान्तरान्वयो युक्तः । पञ्चजना इत्यत्र तु ङीबन्तत्वाभावेन समाहारस्याप्रतीतेः जनानां चादित एव पञ्चत्वोपादानात्सङ्ख्याकाङ्क्षाया असत्त्वात्पञ्चेति पदान्तरं नान्वेति । आकाङ्क्षाधीनत्वादन्वयस्येत्यर्थः । भेदो विशेषणम् । ननु जनानां निराकाङ्क्षत्वेऽपि तद्विशेषणीभूतपञ्चत्वानि कतीत्याकाङ्क्षायां पञ्चत्वान्तरं विशेषणं भवत्वित्याशङ्कते भवदपीति । नोपसर्जनस्योपसर्जनान्तरेणान्वयः किन्तु प्रधानेनैवेति नोपसर्जनन्यायविरोध उक्त इति परिहरति तत्र चेति । एवं नानाभावादिति व्याख्यायातिरेकाच्चेति व्याचष्टे अतिरेकाच्चेत्यादिना । अतिरेक आधिक्यम् । जनशब्दितपञ्चविंशतितत्त्वेषु आत्मान्तर्भूतो न वा । नाद्य इत्युक्त्वा द्वितीये दोषमाह अर्थान्तरेति । तथाकाशं विकल्प्य दूषयति तथेति । उक्तो दोषः सङ्ख्याधिक्यम् । पञ्चविंशतिजना आत्माकाशौ चेति सप्तविंशतिसङ्ख्या स्यादित्यर्थः । नच सत्त्वरजस्तमसां पृथग्गणनया सेष्टेति वाच्यम् , आकाशस्य पृथगुक्तिवैयर्थ्यात् , यस्मिन्नित्यात्मनि तत्त्वानां प्रतिष्ठोक्तिविरोधात्तव मते स्वतन्त्रप्रधानस्यैवानाधारत्वात् , 'नेह नानास्ति' इति वाक्यशेषविरोधाच्च तव सत्यद्वैतवादित्वात् । किं च पञ्चविंशतिसङ्ख्याप्रतीतावपि न साङ्ख्यतत्त्वानां ग्रहणमित्याह कथं चेति । किं जनशब्दात्तत्त्वग्रहः उत सङ्ख्ययेति कथंशब्दार्थः । नाद्य इत्याह जनेति । न द्वितीय इत्याह अर्थान्तरेति । किं तदर्थान्तरं यदर्थकमिदं वाक्यमिति पृच्छति कथमिति । पञ्च च ते जनाश्चेति कर्मधारयादिसमासान्तरात्संज्ञासमासस्याप्तोक्त्या बलवत्त्वं तावदाह उच्यत इति ।
विग्वाचिनः सङ्ख्यावाचिनश्च शब्दाः संज्ञायां गम्यमानायां सुबन्तेनोत्तरपदेन समस्यन्ते । यथा दक्षिणाग्निः सप्तर्षय इत्यादि । अयं च समासस्तत्पुरुषभेदः ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 पञ्चजनशब्दस्य प्राणादिषु कया वृत्त्या प्रयोग इति शङ्कते कथं पुनरिति । यथा तव तत्त्वेषु जनशब्दस्य लक्षणया प्रयोगस्तथा मम प्राणादिषु पञ्चजनशब्दस्य लक्षणयेत्याह तत्त्वेष्विति । तर्हि रूढ्यतिक्रमसाम्यात्तत्त्वान्येव ग्राह्याणीत्यत आह समाने त्विति । संनिहितसजातीयानपेक्षश्रुतिस्था एव ग्राह्याः । न तु व्यवहितविजातीयसापेक्षस्मृतिस्था इत्यर्थः । लक्षणाबीजं सम्बन्धमाह जनेति । जनः पञ्चजन इति पर्यायः । पुरुषमित्रादिशब्दवच्च पञ्चजनशब्दस्य प्राणादिलक्षकत्वं युक्तमित्याह जनवचनश्चेति । ननु जायन्त इति जना महदादयः, जनकत्वाज्जनः प्रधानमिति योगसम्भवे किमिति रूढिमाश्रित्य लक्षणाप्रयास इत्यत आह समासेति । यथा अश्वकर्णशब्दस्य वर्णसमुदायस्य वृक्षे रूढिरेवं पञ्चजनशब्दस्य रूढिरेव नावयवशक्त्यात्मको योग इत्यर्थः । पूर्वकालिकप्रयोगाभावान्न रूढिरित्याक्षिपति कथमिति । 'स्युः पुमांसः पञ्चजनाः' इत्यमरकोशादौ प्रयोगोऽस्त्येव, तदभावमङ्गीकृत्याप्याह शक्येति । जनसम्बन्धाच्चेति पूर्वभाष्ये नरेषु पञ्चजनशब्दस्य रूढिमाश्रित्य प्राणादिषु लक्षणोक्ता । इह तु प्रौढिवादेन प्राणादिषु रूढिरुच्यत इति मन्तव्यम् । सङ्गृहीतं विवृणोति प्रसिद्धेत्यादिना । 'उद्भिदा यजेत पशुकामः' इत्यत्रोद्भित्पदं विधेयगुणार्थकं कर्मनामधेयं वेति संशये खनित्रादावुद्भित्पदस्य प्रसिद्धेर्यागनामत्वे प्रसिद्धिविरोधाज्ज्योतिष्टोमे गुणविधिरिति प्राप्ते राद्धान्तःयजेत यागेनेष्टं भावयेदित्यर्थः । ततश्चोद्भिदेत्यप्रसिद्धस्य तृतीयान्तस्य यागेनेत्यनेन प्रसिद्धार्थकेन सामानाधिकरण्येन तन्नामत्वं निश्चीयते, उद्भिनत्ति पशून्साधयतीति प्रसिद्धेरविरोधादप्रकृतज्योतिष्टोमे गुणविध्ययोगात् , तद्विधौ चोद्भिदाख्यगुणवता यागेनेति मत्वर्थसम्बन्धलक्षणाप्रसङ्गाच्चेति कर्मनामैवोद्भित्पदम् । तथा छिनत्तीति प्रसिद्धार्थच्छेदनयोग्यार्थकशब्दसमभिव्याहाराद्दारुविशेषो यूपशब्दार्थः करोतीति समभिव्याहाराद्वेदिशब्दार्थः संस्कारयोग्यस्थण्डिलविशेष इति गम्यते । तथा प्रसिद्धार्थकप्राणादिशब्दसमभिव्याहारात्पञ्चजनशब्दः प्राणाद्यर्थक इति निश्चीयत इत्यर्थः । एकदेशिनां मतद्वयमाह कैश्चिदित्यादिना । शूद्रायां ब्राह्मणाज्जातो निषादः । श्रुत्या पञ्चजनशब्दस्यार्थान्तरमाह क्वचिच्चेति । पाञ्चजन्यया प्रजया विशतीति विट् तया विशापुरुषरूपयेन्द्रस्याह्वानार्थं घोषाः सृष्टा इति यत्तद्युक्तम् , घोषातिरेकेणेन्द्राह्वानायोगादिति श्रुत्यनुसारेण प्रजामात्रग्रहेऽपि न विरोध इत्यर्थः । सूत्रविरोधमाशङ्क्याह आचार्यस्त्विति ।
अतः साङ्ख्यतत्त्वातिरिक्तयत्किञ्चित्परतया पञ्चजनशब्दव्याख्यायामविरोध इति भावः ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 पञ्चजनशब्दस्य संज्ञात्वमुक्त्वा संज्ञिकथनार्थं सूत्रं गृह्णाति के पुनस्त इति । श्रुतौ उतशब्दोऽप्यर्थः । ये प्राणादिप्रेरकं तत्साक्षिणमात्मानं विदुस्ते ब्रह्मविद इत्यर्थः । नन्विदं षष्ठ्यन्तज्योतिःपदोक्तं सूर्यादिकं ज्योतिः शाखाद्वयेऽप्यस्ति, तत्काण्वानां पञचत्वपूरणाय गृह्यते नान्येषामिति विकल्पो न युक्त इति शङ्कते कथं पुनरिति । आकाङ्क्षाविशेषाद्विकल्पो युक्त इत्याह सिद्धान्तीअपेक्षेति । यथा अतिरात्रे षोडशिनं गृह्णाति न गृह्णाति इति वाक्यभेदाद्विकल्पस्तद्वच्छाखाभेदेनान्नपाठापाठाभ्यां ज्योतिषो विकल्प इत्यर्थः । ननु क्रियायां विकल्पो युक्तो न वस्तुनीति चेत् । सत्यम् । अत्रापि शाखाभेदेन सान्ना ज्योतिःसहिता वा पञ्च प्राणादयो यत्र प्रतिष्ठितास्तन्मनसानुद्रष्टव्यमिति ध्यानक्रियायां विकल्पोपपत्तिरित्यनवद्यम् । उक्तं प्रधानस्याशब्दत्वमुपसंहरति तदेवमिति । तथापि स्मृतियुक्तिभ्यां प्रधानमेव जगत्कारणमित्यत आह
स्मृतीति ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 शङ्कोत्तरत्वेन सूत्रं गृह्णाति भवेयुरिति । ज्योतिषां सूर्यादीनां ज्योतिस्तद्ब्रह्म देवा उपासत इत्यर्थः । कारणत्वेन चाकाशादिषु तथाव्यपदिष्टोक्तेः । पूर्वग्रन्थेनास्य सङ्गतिं वक्तुं वृत्तमनुवदति प्रतिपादितमिति । अधिकरणत्रयेण प्रधानस्याश्रौतत्वोक्त्या जगत्कारणत्वलक्षणेन ब्रह्मण एव बुद्धिस्थता, तस्मिन्नेव बुद्धिस्थे निर्विशेषे ब्रह्मणि वेदान्तानां समन्वय इति साधितं पूर्वसूत्रसन्दर्भेण । तत्र लक्षणसमन्वययोरसिद्धिरेव, श्रुतीनां विरोधदर्शनादित्याक्षेपरूपां तेनास्य सङ्गतिमाह तत्रेति । न चाविरोधचिन्ताया द्वितीयाध्याये सङ्गतिर्नास्मिन्नध्याय इति वाच्यम् , सिद्धे समन्वये स्मृत्यादिमानान्तरविरोधनिरासस्य द्वितीयाध्यायार्थत्वात् , तत्पदवाच्यजगत्कारणवादिश्रुतीनां मिथो विरोधाद्वाच्यार्थानिर्णयेन लक्ष्ये समन्वयासिद्धौ प्राप्तायां तत्साधकाविरोधचिन्ताया अत्रैव सङ्गतत्वात् । न चैवं सृष्टिश्रुतीनामप्यविरोधोऽत्रैव चिन्तनीय इति वाच्यम् , स्वप्नवत्कल्पितसृष्टौ विरोधस्यैवाभावात् । किमर्थं तर्हि द्वितीये तच्चिन्तनम् , स्थूलबुद्धिसमाधानार्थमिति ब्रूमः । इह तु सूक्ष्मदृशां वाक्यार्थे समन्वयज्ञानाय तत्पदार्थश्रुतिविरोधः परिह्रियते । यद्यपि त्वम्पदार्थश्रुतिविरोधोऽत्र परिहर्तव्यः तथापि प्रथमसूत्रेण बन्धमिथ्यात्वसूचनादविरोधः सिद्धः । प्रपञ्चस्तु स्थूलबुद्धिसमाधनप्रसङ्गेन भविष्यतीति मन्यते सूत्रकारः । अत्र जगत्कारणश्रुतयो विषयः । ताः किं ब्रह्मणि मानं न वेति संशयेऽन्नज्योतिषोः सङ्ख्यादृष्टिक्रियायां विकल्पेऽपि कारणे वस्तुन्यसद्वा सद्वा कारणमित्यादिविकल्पासम्भवादप्रामाण्यमिति प्रत्युदाहरणेन पूर्वपक्षयन्नुक्ताक्षेपं विवृणोति प्रतिवेदान्तमित्यादिना । वेदान्तानां समन्वयसाधनाच्छ्रुत्यध्यायसङ्गतिः । असदादिपदानां सत्कारणे समन्वयोक्तेः पादसङ्गतिः । पूर्वपक्षे समन्वयासिद्धिः फलम् , सिद्धान्ते तत्सिद्धिरिति विवेकः । क्रमाक्रमाभ्यां सृष्टिविरोधं तावद्दर्शयतितथाहि क्वचिदित्यादिना । स परमात्मा लोकानसृजत । अंमयशरीरप्रचुरस्वर्गलोकोऽम्भः शब्दार्थः । सूर्यरश्मिमव्याप्तोऽन्तरिक्षलोको मरीचयः । मरो मर्त्यलोकः । अब्बहुलाः पाताललोका आप इति श्रुत्यर्थः । सृष्टिविरोधमुक्त्वा कारणविरोधमाह तथेति । असदनभिव्यक्तनामरूपात्मकं कारणम् , ततः कारणात्सदभिव्यक्तम् । एतत्तुल्यार्थं छान्दोग्यवाक्यमाह असदेवेति । किं शून्यमेव, नेत्याह तत्सदिति । अबाधितं ब्रह्मैवासीदित्यर्थः । तद्ब्रह्मात्मना स्थितं जगत्सृष्टिकाले सम्यगभिव्यक्तमभवत् । प्रक्रिया सृष्टिः । तत्तत्र कारणे । एके बाह्याः । तेषां मतं श्रुतिरेव दूषयति कुत इति । कुत एवंपदयोरर्थमाह कथमिति । स्वमतमाह सदिति । तदिदं जगद्ध किल तर्हि प्राक्कालेऽव्याकृतं कारणात्मकमासीत् । श्रुतीनां विरोधमुपसंहरति एवमिति । किमत्र न्याय्यमित्याशङ्क्य मानान्तरसिद्धप्रधानलक्षकत्वं वेदान्तानां न्याय्यमित्याह स्मृतीति । तत्र सृष्टौ विरोधमङ्गीकृत्य स्रष्टरि विरोधं परिहरति सत्यपीति । आकाशादिषु ब्रह्मणः कारणत्वे विरोधो नैवास्तीति प्रतिज्ञायां हेतुमाह कुत इति । यथाभूतत्वमेवाह सर्वज्ञ इति । कारणस्य सर्वज्ञत्वादिकं प्रतिवेदान्तं दृश्यत इत्याह तद्यथेत्यादिना । तद्विषयेण ब्रह्मविषयेण । चेतनं सर्वज्ञम् । 'तदात्मानं स्वयमकुरुत' इति श्रुतेरपरप्रयोज्यत्वम् । 'तस्माद्वा एतस्मादात्मनः' इति प्रत्यगात्मत्वम् । स्वस्य बहुरूपत्वकामनया स्थितिकालेऽप्यद्वितीयत्वम् । यथा तैत्तिरीयके सर्वज्ञत्वादिकं कारणस्य तथा छान्दोग्यादावपि दृश्यत इत्याह तदत्र यल्लक्षणमिति । मिषत्सव्यापारम् । अविगीतार्थत्वादविरुद्धार्थकत्वात्कारणे नास्ति विप्रतिपत्तिरिति शेषः । तथापि कार्ये विरोधात्कारणेऽपि विरोधः स्यादित्याशङ्क्य निषेधति कार्यविषयं त्वित्यादिना । स्वप्नसृष्टीनां प्रत्यहमन्यथात्वेन सोऽहमिति प्रत्यभिज्ञायमाने द्रष्टर्यपि नानात्वं प्रसज्येतेत्याह अतिप्रसङ्गादिति । सृष्टिविरोधमङ्गीकृत्य स्रष्टरि न विरोध इत्युक्तम् । अधुनाङ्गीकारं त्यजति समाधास्यति चेति । किमर्थं तर्हि श्रुतयः सृष्टिमन्यथान्यथा वदन्तीत्याशङ्क्य सृष्टावतात्पर्यज्ञापनायेत्याह भवेदित्यादिना । अतात्पर्यार्थविरोधो न दोषायेत्यतात्पर्यं साधयति नहीति । फलवद्ब्रह्मवाक्यशेषत्वेन सृष्टिवाक्यानामर्थवत्त्वसम्भवान्न स्वार्थे पृथक्फलं कल्प्यम् , वाक्यभेदापत्तेरित्याह नच कल्पयितुमिति । न्यायादेकवाक्यत्वं सिद्धं श्रुतिरपि दर्शयतीत्याह दर्शयति चेति । शुङ्गेन कार्येण लिङ्गेन कारणब्रह्मज्ञानार्थत्वं सृष्टिश्रुतीनामुक्त्वा कारणस्याद्वयत्वज्ञानं फलान्तरमाह मृदादीति । एवं निष्फलायामन्यार्थायां सृष्टौ तात्पर्याभावाद्विरोधो न दोष इत्यत्र वृद्धसंमतिमाह तथाचेति । अन्यथान्यथेति वीप्सा द्रष्टव्या । अवताराय ब्रह्माधिजन्मने । अतस्तदन्यथात्वेऽपि ब्रह्मणि न भेदः । ज्ञेये न विगानमित्यर्थः । ब्रह्मज्ञानस्य सृष्टिशेषित्वमुक्तम् , तन्निर्वाहाय तस्य फलमाह ब्रह्मेति ।
मृत्युमत्येतीत्यन्वयः ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 सदात्मसमाकर्षादतीन्द्रियार्थकासत्पदेन ब्रह्म लक्ष्यत इत्याह तस्मादिति । नच प्रधानमेव लक्ष्यतामिति वाच्यम् । चेतनार्थकब्रह्मादिशब्दानामनेकेषां लक्षणागौरवादिति भावः । तैत्तिरीयकश्रुतौ सूत्रं योजयित्वा छान्दोग्यादौ योजयति एषैवेति । सदेकार्थकतत्पदेन पूर्वोक्तासतः समाकर्षान्न शून्यत्वमित्यर्थः । नन्वसत्पदलक्षणा न युक्ता, श्रुतिभिरेव स्वमतभेदेनोदितानुदितहोमवद्विकल्पस्य दर्शितत्वादित्यत आह तद्धैक इति । एके शाखिन इत्यर्थो न भवति, किन्तु अनादिसंसारचक्रस्था वेदबाह्या इत्यर्थः । शून्यनिरासेन श्रुतिभिः सद्वादस्यैवेष्टत्वात्तासां विरोधस्फूर्तिनिरासाय लक्षणा युक्तेति भावः । यदुक्तं क्वचिदकर्तृका सृष्टिः कथितेति, तन्नेत्याह तद्धेदमिति । अध्यक्षः कर्ता । ननु कर्त्रभाव एव परामृश्यत इत्यत आह चेतनस्य चायमिति । चक्षुर्द्रष्टा, श्रोत्रं श्रोता, मनो मन्तेत्युच्यत इत्यर्थः । आद्यकार्यं सकर्तृकम् , कार्यत्वात् , घटवदित्याह अपिचेति । अद्यत्वे इदानीम् । ननु कर्मकारकादन्यस्य कर्तुः सत्त्वे कर्मण एव कर्तृवाचिलकारो विरुद्ध इत्यत आह व्याक्रियत इति । अनायासेन सिद्धिमपेक्ष्य कर्मणः । कर्तृत्वमुपचर्यत इत्यर्थः । व्याक्रियते जगत्स्वयमेव निष्पन्नमिति व्याख्याय केनचिद्व्याकृतमिति व्याचष्टे यद्वेति ।
अतः श्रुतीनामविरोधात्कारणद्वारा समन्वय इति सिद्धम् ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 एवं सृष्टिद्वारकं विरोधमुत्सूत्रं समाधाय कारणस्य सदसत्त्वादिना साक्षाच्छ्रुतिविरोधनिरासार्थं सूत्रमादत्ते यत्पुनरिति । यतोऽस्तित्वलक्षणं ब्रह्म निर्धार्य तस्मिन्नेव श्लोकमुदाहरति, अतोऽत्र श्लोके निरात्मकमसन्न श्राव्यत इति योजना । तत्तत्र सदात्मनि श्लोको मन्त्रो भवति । जगद्वाचित्वात् । विषयमाह कौषीतकीति । बलाकाया अपत्यं बालाकिर्ब्राह्मणस्तं प्रति राजोवाच यो वा इति । न केवलमादित्यादीनां कर्ता किन्तु सर्वस्य जगत इत्याह यस्येति । एतज्जगद्यस्य कर्म । क्रियते इति व्युत्पत्त्या कार्यमित्यर्थः । कर्मेतिशब्दस्य योगरूढिभ्यां संशयमाह तत्रेति । पूर्वत्रैकवाक्यस्थसदादिशब्दबलादसच्छब्दो नीतः । इह तु वाक्यभेदात् 'ब्रह्म ते ब्रवाणि' इति बालाकिवाक्यस्थब्रह्मशब्देन प्राणादिशब्दो ब्रह्मपरत्वेन नेतुमशक्य इति प्रत्युदाहरणेन पूर्वपक्षमाह किं तावदिति । पूर्वपक्षे वाक्यस्य प्राणाद्युपास्तिपरत्वाद्ब्रह्मणि समन्वयासिद्धिः सिद्धान्ते ज्ञेये समन्वयसिद्धिरिति फलम् । अथ सुषुप्तौ । द्रष्टेति शेषः । श्रुतं पुरुषकर्तृत्वं प्राणस्य कथमित्यत आह ये चैत इति । सूत्रात्मकप्राणस्य विकाराः सूर्यादय इत्यत्र मानमाह क्रतम इति । यस्य महिमानः सर्वे देवा इति पूर्ववाक्ये दर्शितम् , अतः सर्वदेवात्मकत्वात् , स प्राणो ब्रह्म । त्यत् परोक्षम् । शास्त्रैकवेद्यत्वादित्यर्थः । पूर्वपक्षान्तरमाह जीवो वेति । यत्कारणं यस्माज्जीवं बोधयति तस्मादस्ति सुप्तोत्थापनं जीवलिङ्गमिति योजना । तौ ह पुरुषं सुप्तमाजग्मतुः । तं राजा हे बृहत्पाण्डरवासः सोमराजन्नित्यामन्त्र्य सम्बोध्य सम्बोधनानभिज्ञत्वात्प्राणादेरनात्मत्वमुक्त्वा यष्ठ्याघातेनोत्थाप्य जीवं बोधितवानित्यर्थः । श्रेष्ठी प्रधानः स्वैर्भृत्यैर्ज्ञातिभिरुपहृतं भुङ्क्ते स्वाः ज्ञातयश्च तमुपजीवन्ति, एवं जीवोऽपि आदित्यादिभिः प्रकाशादिना भोगोपकरणैर्भुङ्क्ते ते च हविर्ग्रहणादिना जीवमुपजीवन्तीत्युक्तं भोक्तृत्वं जीवलिङ्गम् । ननु 'प्राण एवैकधा भवति' इति श्रुतः प्राणशब्दो जीवे कथमित्यत आह प्राणभृत्त्वाच्चेति । सूत्राद्बहिरेव सिद्धान्तयति एवमिति । स च बालाकिर्ब्रह्मत्वभ्रान्त्या व्यष्टिलिङ्गरूपान्पुरुषानुक्त्वा राज्ञा निरस्तस्तूष्णीं स्थितः । त्वदुक्तं ब्रह्म मृषेत्युक्त्वा राज्ञोच्यमानं ब्रह्मैवेति वक्तव्यमन्यथाराज्ञोऽपि मृषावादित्वप्रसङ्गादित्याह यदि सोऽपीति । वेदितव्योऽपीत्यर्थः । मुख्यं पुरुषकर्तृत्वं ब्रह्मण एव लिङ्गम् , प्राणजीवयोस्तन्नियम्यत्वेनास्वातन्त्र्यादित्याह कर्तृत्वं चेति । यदुक्तं चलनादृष्टयोर्वाचकः कर्मशब्दः प्राणजीवयोरुपस्थापक इति, तन्नेत्याह यस्येति । अनेकार्थकाच्छब्दादन्यतरार्थस्य प्रकरणादुपपदाद्वा ग्रहणं न्याय्यम् । अत्र प्रकरणोपपदयोरसत्त्वात्कस्य ग्रहणमिति संशये पुरुषकर्तृपदसांनिध्यात्क्रियत इति योगाज्जगद्ग्रहणमित्यर्थः । एतत्कर्मेतिप्रकृतपरामर्शात्पुरुषाः पूर्वोक्तः कर्मशब्देन निर्दिश्यन्तामित्यत आह नापीति । पौनरुक्त्यातात्पुरुषाणां नपुंसकैकवचनेन परामर्शायोगाच्चेत्यर्थः । ननु पुरुषोत्पादकस्य कर्तुर्व्यापारः करोत्यर्थमुत्पादनं तस्यफलं पुरुषजन्म तदन्यतरवाची कर्मशब्दोऽस्त्वित्यत आह नापीति । कर्तृशब्देनेति । क्रियाफलाभ्यां विना कर्तृत्वायोगात्कर्तृशब्देनैव तयोर्ग्रहणमित्यर्थः । जगतोऽपि प्रकरणोपपदे न स्त इत्युक्तमङ्गीकरोति सत्यमिति । प्रकरणादिकं हि सर्वनाम्नः सङ्कोचकम् , तस्मिन्नसति सामान्येन बुद्धिस्थं सर्वमेव गृह्यते । अत्र च सङ्कोचकासत्त्वात्सर्वार्थकेन सर्वनाम्ना बुद्धिस्थस्य कार्यमात्रस्य कर्मशब्दो वाचक इत्याह तथापीति । किञ्च जगदेकदेशोक्त्या जगत्प्रकृतमित्याह पूर्वत्रेति । जगद्ग्रहे पुरुषाणामपि ग्रहात्पृथगुक्तिर्व्यर्थेत्यत आह एतदुक्तमिति । स वेदितव्य इति सम्बन्धः । पुरुषमात्रनिरूपितं कर्तृत्वमिति भ्रान्तिनिरासार्थो वाशब्दः । ब्राह्मणा भोजयितव्याः परिव्राजकाश्चेत्यत्र यथा ब्राह्मणशब्दः परिव्राजकान्यविषयः तथात्र कर्मशब्दः पुरुषान्यजगद्वाचीत्याह एवमिति । अस्तु जगत्कर्ता वेदितव्यः, परमेश्वरस्य किमायातमित्यत आह
परमेश्वरेति ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 सिद्धान्तमुक्त्वा पूर्वपक्षबीजमनूद्य दूषयति जीवमुख्यप्राणलिङ्गादिति । उक्तमेव स्मारयति त्रिविधमिति । श्रैष्ठ्यं गुणाधिक्यम् , आधिपत्यं नियन्तृत्वम् । स्वाराज्यमनियम्यत्वमिति भेदः । 'सम्भवत्येकवाक्यत्वे वाक्यभेदो हि नेष्यते' इत्युक्तं चेत्पुनरुक्तिः स्यादिति शङ्कते नन्वेवमिति । कर्मपदस्य रूढ्या पूर्वपक्षप्राप्तौ तन्निरासार्थमस्यारम्भो युक्त इत्याह नेत्यादिना । प्राणशब्दजीवलिङ्गयोर्गतिमाह प्राणशब्दोऽपीति ।
मनो जीवः ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 जीवलिङ्गेन ब्रह्मैव लक्ष्यत इत्युक्तम् । इदानीं तल्लिङ्गेन जीवोक्तिद्वारा ब्रह्म ग्राह्यमित्याह अन्यार्थमिति । जीवपरामर्शस्य जीवाधिकरणब्रह्मज्ञानार्थत्वे प्रश्नमाह क्वैष इति । हे बालाके, एतच्छयनं विशेषज्ञानाभावरूपं यथा स्यात्तथैष पुरुषः क्वाशयिष्ट । कस्मिन्नधिकरणे शयनं कृतवानित्यर्थः । एकीभावाश्रयज्ञानार्थं पृच्छति क्व वेति । एतद्भवनमेकीभावरूपं यथा स्यात्तथा एष पुरुषः क्वाभूत्सुप्तः । केनैक्यं प्राप्नोतीति यावत् । उत्थानापादानं पृच्छति कुत इति । एतदागमनमैक्यभ्रंशरूपं यथा स्यात्तथा पुरुषः कुत आगत इत्यर्थः । प्रश्नमुक्त्वा व्याख्यानमाह प्रतिवचनमिति । शयनभवनयोराधार उत्थानापादानं च प्राणशब्दितं ब्रह्मैवेत्यर्थः । उत्तरे प्राणोक्तेः प्रश्नोऽपि प्राणविशय इत्यत आह सुषुप्तिकाले चेति । जगद्धेतुत्व जीवैक्याभ्यां प्राणोऽत्र ब्रह्मेत्यर्थः । जीवोक्तेरन्यार्थत्वमुपसंहरति तस्मादिति । निःसम्बोधता विशेषधीशून्यता । स्वच्छता विक्षेपमलशून्यता । भेदभ्रान्तिशून्यता स्वरूपैक्यमाह उपाधीति । प्रश्नव्याख्यानयोर्ब्रह्मविषयत्वे शाखान्तरसंवादमाह अपि चैवमेके शाखिन इति । ननु तत्राकाशः सुषुप्तिस्थानमुक्तं न ब्रह्मेत्यत आह आकाशेति । उपाधिद्वारा प्रमात्रात्मजन्महेतुत्वाच्चाकाशो ब्रह्मेत्याह सर्व इति । एवं जीवनिरासार्थकत्वेन सूत्रं व्याख्याय प्राणनिरासपरत्वेनापि व्याचष्टे प्राणेति ।
अस्मिन्वाक्ये प्राणोपदेशं ब्रह्मज्ञानार्थं मन्यते जैमिनिः, उक्तप्रश्नव्याख्यानाभ्यां वाक्यस्य ब्रह्मपरत्वावगमात् । अपि चैके शाखिन एवमेव प्राणातिरिक्तं जीवात्मानमामनन्तः प्राणस्य वाक्यार्थत्वं वारयन्तीति सूत्रयोजना । अतिरिक्तजीवोपदेशः प्राणनिराकरणस्याप्यभ्युच्चयो हेत्वन्तरमिति भाष्यार्थः । तस्मादिदं वाक्यं ब्रह्मणि समन्वितमिति सिद्धम् ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 वाक्यान्वयात् । विषयवाक्यमाह बृहदिति । पत्यादेरात्मशेषत्वेन प्रियत्वादात्मैव सर्वशेषी प्रियतमः, अतोऽन्यत्परित्यज्यात्मैव द्रष्टव्यः । दर्शनार्थं श्रवणादिकं कार्यमित्यर्थः । प्रियसंसूचितेनेति । पतिजायादिभिः । प्रियैर्भोग्यैर्जीवतयानुमितेनेत्यर्थः । यथा 'ब्रह्म ते ब्रवाणि' इत्युपक्रमबलाद्वाक्यस्य ब्रह्मपरत्वं तथात्र जीवोपक्रमादस्य वाक्यस्य जीवपरत्वमिति दृष्टान्तेन पूर्वपक्षयति किं तावदिति । पूर्वपक्षे वाक्यस्य जीवोपास्तिपरत्वम् , सिद्धान्ते ज्ञेये प्रत्यग्ब्रह्मणि समन्वय इति फलम् । इदं प्रत्यक् । महदपरिच्छिन्नम् । भूतं सत्यम् । अनन्तं नित्यम् । अपारं सर्वगतं चिदेकरसम् । एतेभ्यःकार्यकारणात्मना जायमानेभ्यो भूतेभ्यः साम्येनोत्थाय भूतोपाधिकं जन्मानुभूय तान्येव भूतानि नीयमानान्यनुसृत्य विनश्यति । औपाधिकमरणानन्तरं विशेषधीर्नास्तीति श्रुत्यर्थः । विज्ञातारं विज्ञानकर्तारम् । भोक्तरि ज्ञाते भोग्यं ज्ञातमित्युपचारः । मोक्षसाधनज्ञानगम्यत्वादिलिङ्गैर्वाक्यस्यान्वयाद्ब्रह्मण्येव तात्पर्यावगमाद्ब्रह्मप्रमापकत्वमिति सिद्धान्तयति एवमिति । न वित्तेन । तत्साध्येन कर्मणेत्यर्थः । भेदनिन्दापूर्वकमभेदसाधनेनैकविज्ञानात्सर्वविज्ञानस्य समर्थनादौपचारिकत्वं न युक्तमित्याह न चैतदौपचारिकमित्यादिना । पराकरोति । श्रेयोमार्गाद्भ्रंशयति । यथा दुन्दुभिशङ्खवीणाशब्दसामान्यग्रहणेनैव गृह्यमाणास्तदवान्तरविशेषाः शुक्तिग्रहणग्राह्यरजतवत्सामान्ये कल्पितास्ततो न भिद्यन्ते, एवमात्मभानभास्यं सर्वमात्ममात्रमिति निश्चितमित्याह दुन्दुभ्यादिति । एवमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया मुख्यत्वाद्ब्रह्मनिश्चयः । सर्वस्रष्टृत्वलिङ्गादपीत्याह अस्यमहत इति । ऋग्वेदादिकं नाम । इष्टं हुतमिति कर्म । अयं च लोकः परश्च लोक इति रूपम् । किञ्च 'स यथा सर्वासामपां समुद्र एकायनम्' इति कण्डिकया सर्वप्रपञ्चस्य मुख्यलयाधारत्वमात्मनो ब्रह्मत्वे लिङ्गमित्याह
तथैवैकायनेति ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】
जीवब्रह्मणोर्भेदाभेदसत्त्वादभेदांशेनेदं जीवोपक्रमणं प्रतिज्ञासाधकमित्याश्मरथ्यमतम् ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 सत्यसंसारदशायां भेद एव, मुक्तावेवाभेद इत्यौडुलोमिमतम् । तत्र मानमाह श्रुतिश्चेति । समुत्थानमुत्क्रान्तिः । ननु संसारस्यौपाधिकत्वात्सर्वदैवाभेद इत्याशङ्क्य दृष्टान्तबलेन संसारस्य स्वाभाविकत्वमित्याह क्वचिच्चेति । 'यथा नद्यः स्यन्दमानाः समुद्रेस्तं गच्छन्ति नामरूपे विहाय' इति नदीनिदर्शनं व्याचष्टे
यथा लोक इति ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 सिद्धान्तमाह अवस्थितेरिति । अत्यन्ताभेदज्ञापनार्थं जीवमुपक्रम्य द्रष्टव्यत्वादयो ब्रह्मधर्मा उक्ता इत्यर्थः । एतेन जीवलिङ्गानां ब्रह्मपरत्वकथनार्थमिदमधिकरणं न भवति, प्रतर्दनाधिकरणे कथितत्वात् । नापि जीवानुवादेन ब्रह्मप्रतिपादनार्थम् , 'सुषुप्त्युत्क्रान्त्योः' इत्यत्र गतत्वात् । अतो व्यर्थमिदमधिकरणमिति निरस्तम् । जीवोद्देशेन ब्रह्मत्वप्रतिपादने भेदोऽप्यावश्यक इति भेदाभेदशङ्काप्राप्तौ कल्पितभेदेनोद्देश्यत्वादिकं स्वतोऽत्यन्ताभेद इति ज्ञापनार्थमस्यारम्भात् । ज्ञापने चात्र लिङ्गमात्मशब्देनोपक्रान्तस्य जीवस्य धर्मिणो ब्रह्मणो धर्म्यन्तरस्य ग्रहणं विनैव ब्रह्मधर्मकथनं भेदाभेदे धर्मिद्वयग्रहः स्यादिति मन्तव्यम् । धीरः सर्वज्ञः । सर्वाणि रूपाणि कार्याणि विचित्य सृष्ट्वा तेषां नामानि च कृत्वा तेषु बुद्ध्यादिषु प्रविश्याभिवदनादिकं कुर्वन् यो वर्तते तद्विद्वानिहैवामृतो भवतीति मन्त्रोऽपि जीवपरयोरैक्यं दर्शयतीत्याह मन्त्रेति । जीवस्य ब्रह्मविकारत्वान्नैक्यमित्यत आह नच तेज इति । मतत्रयं विभज्य दर्शयति काशेत्यादिना । कियानपीति । अभेदवद्भेदोऽपीत्यर्थः । तत्रान्त्यस्य मतस्योपादेयत्वमाह तत्र काशेति । सोऽयं देवदत्त इतिवत्तत्त्वमस्यादिवाक्येभ्यः परापरयोरत्यन्ताभेदः प्रतिपादयितुमिष्टोऽर्थः, तदनुसारित्वादित्यर्थः, ज्ञानान्मुक्तिश्रुत्यन्यथानुपपत्त्याप्ययमेव पक्ष आदेय इत्याह एवं चेति । अत्यन्ताभेदे सतीत्यर्थः । कल्पितस्य भेदस्य ज्ञानान्निवृत्तिः सम्भवति न सत्यस्येत्यपि द्रष्टव्यम् । यदुक्तं नदीदृष्टान्तात्संसारः स्वाभाविक इति, तन्नेत्याह अतश्चेति । अनामरूपब्रह्मत्वाज्जीवस्येत्यर्थः । उत्पत्तिश्रुत्या जीवस्य ब्रह्मणा भेदाभेदावित्यत आह अत एवेति । उत्पत्तेः स्वाभाविकत्वे मुक्त्ययोगादेवेत्यर्थः । अत्र पूर्वपक्षे बीजत्रयमुक्तं जीवेनोपक्रमः परस्यैव समुत्थानश्रुत्या जीवाभेदाभिधानं विज्ञातृशब्दश्चेति । तत्राद्यं बीजं त्रिसूत्र्या निरस्तम् । सम्प्रति द्वितीयमनूद्य तथैव निराचष्टे यदप्युक्तमित्यादिना । आत्मज्ञानात्सर्वविज्ञानं यत्प्रतिज्ञातं तत्र हेतुः 'इदं सर्वं यदयमात्मा' इत्यव्यतिरेक उक्तस्तस्य प्रतिपादनात्तदेव प्रतिज्ञातमुपपादितमिति योजना । एकस्मात्प्रसवो यस्य, एकस्मिन्प्रलयो यस्य तद्भावादित्यर्थः । समुत्थानमभेदाभिधानमिति यावत् । जन्मनाशावुक्तौ नाभेद इत्याक्षिप्य परिहरति नन्वित्यादिना । मृतस्य संज्ञा नास्तीति वाक्येऽत्रैव मां मोहितवानसि ज्ञानरूपस्यात्मनो ज्ञानाभावे नाशप्रसङ्गादिति मैत्रेय्योक्तो मुनिराह न वा अरे इति । मोहं मोहकरं वाक्यम् , अविनाशी नाशहेतुशून्यः, अत उच्छित्तिधर्मा नाशवान्न भवतीत्यनुच्छित्तिधर्मेत्यर्थः । तृतीयं बीजं तृतीयेन मतेनैव निरसनीयमित्याह यदपीत्यादिना । आद्यमतद्वयेऽपि सत्यभेदाङ्गीकारात्केनेत्याक्षेपो न युक्तः । काशकृत्स्नस्य मते त्वत्यन्ताभेदाद्विज्ञानस्य कारकाभावात्स युक्त इति श्रुत्यनुसारित्वात्तन्मते मनःकल्पितं विज्ञातृत्वं मुक्ते ब्रह्मात्मनि भूतपूर्वगत्योक्तमिति परिहरणीयमित्यर्थः । किञ्च पूर्वापरपर्यालोचनया वाक्यस्य मुक्तात्मपरत्वावगमाद्विज्ञातृत्वं कल्पितमेवानूद्यत इति न तल्लिङ्गेन जीवपरत्वमित्याह अपि चेति । आर्षेषु पक्षेषु काशकृत्स्नपक्षस्यैवादेयत्वे किं बीजम् , तदाह दर्शितमिति । अतश्चश्रुतिमत्त्वाच्च । पुनरपि श्रुतिस्मृतिमत्त्वमाह सदेवेत्यादिना । हेतूनां भेदो न पारमार्थिक इति प्रतिज्ञया सम्बन्धः । भेदाभेदपक्षे जीवस्य जन्मादिविकारवत्त्वात्तन्निषेधो न स्यादित्याह स वा एष इति । भेदस्य सत्यत्वे तत्प्रमया बाधादहं ब्रह्मेति निर्बाधं ज्ञानं न स्यादित्याह अन्यथाचेति । अभेदस्यापि सत्त्वात्प्रमेत्याशङ्क्य भेदाभेदयोर्विरोधात्संशयः स्यादित्याह सुनिश्चितेति । मास्तु निर्बाधज्ञानमित्यत आह निरपवादमिति । अहं ब्रह्मेत्यबाधितनिश्चयस्यैव शोकादिनिवर्तकत्वमित्यत्र स्मृतिमप्याह स्थितेति । आत्यन्तिकैकत्वे हि प्रज्ञा प्रतिष्ठिता भवति न भेदाभेदयोरिति भावः । ननु जीवपरमात्मानौ स्वतो भिन्नौ, अपर्यायनामवत्त्वात् , स्तम्भकुम्भवदित्यत आह स्थिते चेति । कथं तर्ह्यपर्यायनामभेद इत्याशङ्क्य जीवत्वेश्वरत्वादिनिमित्तभेदादित्याह एको हीति । किञ्चाविद्यातज्जबुद्धिरूपायां गुहायां स्थितो जीवो भवति, तस्यामेव ब्रह्म निहितमिति श्रुतेः । स्थानैक्याज्जीव एव ब्रह्मेत्याह नहीति । काञ्चिदेवैकामिति । जीवस्थानादन्यामित्यर्थः । नन्वेकस्यां गुहायां द्वौ किं न स्यातामित्यत आह नचेति । स्रष्टुरेव प्रवेशेन जीवत्वान्न भेदः । नन्वत्यन्ताभेदे जीवस्य स्पष्टभानाद्ब्रह्मापि स्पष्टं स्यादतः स्पष्टत्वास्पष्टत्वाभ्यां तयोर्भेद इति चेत् । न । दर्पणे प्रतिबिम्बस्य स्फुटत्वेऽपि बिम्बस्यास्फुटत्ववत्कल्पितभेदेन विरुद्धधर्मव्यवस्थोपपत्तेः । सत्यभेदे येषामाग्रहस्तेषां दोषमाह ये त्विति ।
सोऽयमितिवत्तत्त्वमसीत्यकार्यकारणद्रव्यसामानाधिकरण्यादत्यन्ताभेदो वेदान्तार्थस्तद्बोध एव निःश्रेयससाधनं तस्य बाधो न युक्त इत्यर्थः । किञ्च भेदभेदवादिनो ज्ञानकर्मभ्यां कृतकं मोक्षं कल्पयन्ति, तत्रानित्यत्वं दोषः । यत्तु कृतकमपि नित्यमिति, तच्च 'यत्क्रियासाध्यं तदनित्यम्' इति न्यायबाधितम् । अस्माकं त्वनर्थध्वंसस्य ज्ञानसाध्यत्वान्नित्यमुक्तात्ममात्रत्वाच्च नानित्यत्वदोष इति भावः । तस्मान्मैत्रेयीब्राह्मणं प्रत्यग्ब्रह्मणि समन्वितमिति सिद्धम् ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकृतिश्चेति । लक्षणसूत्रेणास्य सङ्गतिं वक्तुं वृत्तं स्मारयति यथेति । तत्र हि ब्रह्मणो बुद्धिस्थत्वार्थं सामान्यतो जगत्कारणत्वं लक्षणमुक्तम् , तेन बुद्धिस्थे ब्रह्मणि कृत्स्नवेदान्तसमन्वयं प्रतिपाद्य तत्कारणत्वं किं कर्तृत्वमात्रमुत प्रकृतित्वकर्तृत्वोभयरूपमिति । विशेषजिज्ञासायमिदमारभ्यते । तथाच सामान्यज्ञानस्य विशेषचिन्ताहेतुत्वात्तेनास्य सङ्गतिः । यद्यपि तदानन्तर्यमस्य युक्तं तथापि निश्चिततात्पर्यैर्वेदान्तैः कर्तृमात्रेश्वरमतनिरासः सुकर इति समन्वयान्ते इदं लिखितम् । लक्षणसूत्रस्याध्यायादिसङ्गतत्वादस्याप्यध्यायादिसङ्गतिः । पूर्वत्र सर्वविज्ञानप्रतिज्ञाया मुख्यत्वाद्वाक्यस्य जीवपरत्वं निरस्तम् , तदयुक्तम् , कर्त्रुपादनयोर्भेदेन प्रतिज्ञाया गौणत्वादित्याक्षिपति तत्र निमित्तेत्यादिना । पूर्वोत्तरपक्षयोर्द्वैताद्वैतसिद्धिः फलम् ईक्षापूर्वकेति । ईक्षणश्रुत्या कर्तृत्वं निश्चितम् , तथा च ब्रह्म न प्रकृतिः, कर्तृत्वात् , यो यत्कर्ता स तत्प्रकृतिर्न, यथा घटकर्ता कुलाल इत्यर्थः । जगत्भिन्नकर्त्रुपादानकम् , कार्यत्वात्घटवदित्याह अनेकेति । ब्रह्म नोपादानम् , ईश्वरत्वात् , राजादिवदित्याह ईश्वरत्वेति । जगन्न ब्रह्मप्रकृतिकम् , तद्विलक्षणत्वात् , यदित्थं तत्तथा कुलालविलक्षणघटवदित्याह कार्यं चेति । निष्कलं निरवयवम् , निष्क्रियमचलम् , शान्तमपरिणामि, निरवद्यं निरस्तसमस्तदोषम् । तत्र हेतुः निरञ्जनमिति । अञ्जनतुल्यतमःशून्यमित्यर्थः । तर्हि जगतः सदृशोपादानं किमित्यत आह पारिशेष्यादिति । ब्रह्मनिषेधे प्रधानं परिशिष्यत इत्यभिमन्यमानः सिद्धान्तयति प्रकृतिश्चेति । चकारान्निमित्तत्वग्रहः । एवमुभयरूपे कारणत्वे तयोरबाधो भवतीत्याह एवमिति । कर्तृज्ञानादपि सर्वकार्यज्ञानं किं न स्यादित्यत आह निमित्तकारणाव्यतिरेकस्त्विति । मृदादीनामुपादानानां दृष्टान्तत्वाद्दार्ष्टान्तिकस्य ब्रह्मण उपादानत्वं वाच्यमित्याह दृष्टान्तोऽपीति । वागारभ्यं नाममात्रं विकारो न वस्तुतोऽस्तीति सत्यकारणज्ञानाद्विकारज्ञानं युक्तमित्यर्थः । गतिसामान्यार्थं मुण्डकेऽपि प्रतिज्ञादृष्टान्तावाह तथान्यत्रापीति । बृहदारण्यकेऽपि तावाह तथात्मनीति । घटः स्फुरतीत्यनुगतस्फुरणं प्रकृतिस्तदतिरेकेण विकारा न सन्तीति सोऽयमर्थो यथा स्फुटः तथा दृष्टान्तः स उच्यते । हन्यमानदुन्दुभिजन्याच्छब्दसामान्याद्बाह्यान् विशेषशब्दान् सामान्यग्रहणातिरिकेण पृथग्ग्रहीतुं श्रोता न शक्नुयात् । सामान्यस्य तु ग्रहणेन दुन्दुभ्याघातजशब्दविशेषो गृहीतो भवति, तस्य वा ग्रहणेन तदवान्तरविशेषशब्दो गृहीतो भवति । अतः शब्दसामान्यग्रहणग्राह्या विशेषाः सामान्ये कल्पिताः, तद्वदात्मभानभास्या घटादय आत्मनि कल्पिता इत्यर्थः । प्रतिज्ञादृष्टान्तानुपरोधाल्लिङ्गाद्ब्रह्मणः प्रकृतित्वमुक्त्वा पञ्चमीश्रुत्याप्याह यत इति । 'यतो वा' इत्यत्र श्रुतौ यत इति पञ्चमी प्रकृतौ द्रष्टव्येत्यन्वयः । जनिकर्तुर्जायमानस्य कार्यस्य प्रकृतिरपादानसंज्ञिका भवतीति सूत्रार्थः । संज्ञायाः फलं 'अपादाने पञ्चमी' इति सूत्रात्प्रकृतौ पञ्चमीलाभः । एवं ब्रह्मणः प्रकृतित्वं प्रसाध्य कर्तृत्वं साधयति निमित्तत्वमिति । ब्रह्म स्वातिरिक्तकर्त्रधिष्ठेयम् , प्रकृतित्वात् , मृदादिवदित्याद्यनुमानानामागमबाधकमाह प्रागुत्पत्तेरिति । जगत्कर्तृ ब्रह्मैवेत्यत्रापि सूत्रं योजयति
अधिष्ठात्रन्तरेति ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】
अभिध्या सृष्टिसङ्कल्पः ॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 एकस्योभयरूपं कारणत्वमविरुद्धमिति सूत्रचतुष्टयेन साधयति कुतश्चेत्यादिना । अभ्युच्चयो
हेत्वन्तरम् । आकाशादेवेत्येवकारसूचितमुपादानान्तरानुपादानमग्रहणं साक्षादितिपदेन सूत्रकारो दर्शयतीति योजना ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मसम्बन्धिनी कृतिरात्मकृतिः । सम्बन्धश्चात्मनः कृतिं प्रति विषयत्वमाश्रयत्वं च । ननु कृतेराश्रयःसिद्धोभवति विषयस्तु साध्य इत्येकस्योभयं विरुद्धमित्याशङ्कते कथं पुनरिति । यथा मृदः साध्यपरिणामाभेदेन कृतिविषयत्वं तद्वदात्मन इत्याह परिणामादिति । आत्मानमिति । अविरोध इति शेषः । सिद्धस्यापि साध्यत्वे दृष्टान्तमाह विकारात्मनेति । ननु ब्रह्मण आत्मानमिति द्वितीयया कार्यात्मना साध्यत्वश्रुत्यास्तु प्रकृतित्वं कर्ता त्वन्योऽस्त्वित्यत आह स्वयमिति चेति । ब्रह्मणः कृतिकर्मत्वोपपादनार्थं परिणामादिति पदं व्याख्यायान्यथापि व्याचष्टे पृथक्सूत्रमिति ।
मृद्घट इतिवद्ब्रह्म सच्च त्यच्चेति परिणामसामानाधिकरण्यश्रुतेर्ब्रह्मणः प्रकृतित्वमित्यर्थः । सत्प्रत्यक्षं भूतत्रयम् , त्यत्परोक्षं भूतद्वयम् , निरुक्तं वक्तुं शक्यं घटादि, अनिरुक्तं वक्तुमशक्यं कपोतरूपादिकं च ब्रह्मैवाभवदित्यर्थः । अत्र सूत्रे परिणामशब्दः कार्यमात्रपरः, नतु सत्यकार्यात्मकपरिणामपरः, 'तदनन्यत्वम्' इति विवर्तवादस्य वक्ष्यमाणत्वात् ॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 योनिशब्दाच्च प्रकृतित्वमित्याह योनिश्चेति । कर्तारं क्रियाशक्तिमन्तम् , ईशं नियन्तारम् , पुरुषं प्रत्यञ्चम् , ब्रह्म पूर्णम् , योनिं प्रकृतिम् , धीरा ध्यानेन पश्यन्तीत्यर्थः । नन्वनुपादानेऽपि स्त्रीयोनौ योनिशब्दो दृष्ट इत्यत आह स्त्रीयोनेरिति । शोणितमवयवशब्दार्थः । योनिशब्दस्य स्थानमप्यर्थो भवति सोऽत्र भूतयोन्यादिशब्दैर्न ग्राह्यः, उर्णनाभ्यादिप्रकृतदृष्टान्तवाक्यशेषविरोधादित्याह क्वचिदिति । हे इन्द्र, ते तव निषदे उपवेशनाय योनिः, स्थानं मया अकारि कृतमित्यर्थः । पूर्वपक्षोक्तानुमानानि अनूद्यागमबाधमाह यत्पुनरित्यादिना । नन्वनुमानस्य श्रुत्यनपेक्षत्वान्न तया बाध इत्यत आह नहीति । जगत्कर्ता पक्षः श्रुत्यैव सिद्ध्यति, या कृतिः सा शरीरजन्येति व्याप्तिविरोधेन नित्यकृतिमतोऽनुमानासम्भवात् । अतः श्रौतमीश्वरं पक्षीकृत्यानुपादानत्वसाधने भवत्येवोपजीव्यया प्रकृतित्वबोधकश्रुत्या बाध इत्यर्थः । यदुक्तं विलक्षणत्वाद्ब्रह्मणो न जगदुपादानत्वमिति, तत्राह पुनश्चेति ।
'न विलक्षणत्वात्' इत्यारभ्येत्यर्थः । अत उभयरूपं कारणत्वं ब्रह्मणो लक्षणमिति सिद्धम् ॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 एतेन सर्वे व्याख्याताः । अस्यातिदेशाधिकरणस्य तात्पर्यं वक्तुं वृत्तमनुवदति ईक्षतेरिति । प्रधानवादस्य प्राधान्येन निराकरणे हेतूनाह तस्य हीत्यादिना । तर्ह्यण्वादिवादा उपेक्षणीयाः, दुर्बलत्वादित्यत आह तेऽपि त्विति । निर्मूलास्ते कथं प्रतिपक्षा इत्यत आह तेषामिति । तथा हि छान्दोग्ये जगत्कारणत्वज्ञापनार्थं पिता पुत्रमुवाच, आसां वटधानानां मध्ये एकां भिन्धीति । भिन्ना भगव इत्युवाच पुत्रः । पुनः पित्रा किमत्र पश्यसीत्युक्ते न किञ्चन भगव इत्याह । तत्र पित्राणिमानं न पश्यसीत्युक्तम् , तथा च न किञ्चनशब्दाच्छून्यस्वभाववादौ प्रतीयेते, अणुशब्दात्परमाणुवाद इति । एवं 'असदेवेदमग्र आसीत्','अणोरणीयान्' इत्यादिलिङ्गं द्रष्टव्यम् । अत्राण्वादिवादाः श्रौता न वेति संशये सत्यसदण्वादिशब्दबलाच्छ्रौता इति प्राप्तेऽतिदिशति एतेनेति ।
अस्यातिदेशत्वान्न पृथक्सङ्गत्याद्यपेक्षा । न किञ्चनासच्छब्दयोः प्रत्यक्षायोग्यवस्तुपरत्वादाणुशब्दस्य सूक्ष्माभिप्रायत्वादशब्दत्वम् , तेषां वादानां प्रधानवादवदश्रौतत्वम् , ब्रह्मकारणश्रुतिबाधितत्वं च, तस्माद्ब्रह्मैव परमकारणम् , तस्मिन्नेव सर्वेषां वेदान्तानां समन्वय इति सिद्धम् ॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्यायस्य यतुर्थः पादः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥१॥ 【भाष्यम्】 【भाष्यम्】 साङ्ख्यादिस्मृतियुक्तिभिर्न चलितो वेदान्तसिद्धान्तगो निर्मूलैर्विविधागमैरविदितो व्योमादिजन्माप्ययः ।
उत्पत्त्यन्तविवर्जितश्चितिवपुर्व्यापी च कर्तांशको लिङ्गेन प्रथितोऽपि नामतनुकृत्तं जानकीशं भजे ॥२॥ 【भाष्यम्】 【भाष्यम्】 'नामरूपे व्याकरवाणि' इति श्रुतेर्नामतनुकृदपि संज्ञामूर्तिव्याकर्तापि लिङ्गशरीरोपाधिना कर्तेति अंश इति च प्रथितः प्रसिद्धो यस्तं प्रत्यगभिन्नं परमात्मानं मूलप्रकृतिनियन्तारं भजे इत्यर्थः । स्मृतिप्रसङ्गात्पूर्वोत्तराध्याययोर्विषयविषयिभावसङ्गतिं वक्तुं वृत्तं कीर्तयति - प्रथमेऽध्याय इति । जन्मादिसूत्रमारभ्य जगदुत्पत्त्यादिकारणं ब्रह्मेति प्रतिपादितम् , 'शास्त्रदृष्ट्या तु' इत्यादिसूत्रेषु स एवाद्वितीयः सर्वात्मेत्युक्तम् , 'आनुमानिकम्' इत्यादिना कारणान्तरस्याश्रौतत्वं दर्शितमित्यर्थः । एवं प्रथमाध्यायस्यार्थमनूद्य तस्मिन् विषये विरोधपरिहारविषयिणं द्वितीयाध्यायस्यार्थं पादशः सङ्क्षिप्य कथयति - इदानीमिति । अत्र प्रथमपादे समन्वयस्य साङ्ख्यादिस्मृतियुक्तिभिर्विरोधपरिहारः क्रियते । द्वितीयपादे साङ्ख्याद्यागमानां भ्रान्तिमूलत्वमविरोधाय कथ्यते । तृतीयपादे प्रतिवेदान्तं सृष्टिश्रुतीनां जीवात्मश्रुतीनां च व्योमादिमहाभूतानां जन्मलयक्रमादिकथनेनाविरोधः प्रतिपाद्यते । चतुर्थपादे लिङ्गशरीरश्रुतीनामविरोध इत्यर्थः । अयमेवार्थः सुखबोधार्थं श्लोकेन सङ्गृहीतः 'द्वितीये स्मृतितर्काभ्यामविरोधोऽन्यदुष्टता ।भूतभोक्तृश्रुतेर्लिङ्गश्रुतेरप्यविरुद्धता ॥ ' इति । तत्राज्ञाते विषये विरोधशङ्कासमाध्ययोगात्समन्वयाध्यायानन्तर्यमविरोधाध्यायस्य युक्तम् । तत्र प्रथमाधिकरणतात्पर्यमाह - प्रथममिति । श्रौते समन्वये विरोधनिरासार्थत्वादस्य पादस्य श्रुतिशास्त्राध्यायसङ्गतयः स्वमतस्थापनात्मकत्वात्सर्वेषामधिकरणानामेतत्पादसङ्गतिः । अत्र पूर्वपक्षे स्मृतिविरोधादुक्तसमन्वयासिद्धिः फलम् , सिद्धान्ते तत्सिद्धिरिति विवेकः । तत्र ब्रह्मण्युक्तवेदान्तसमन्वयो विषयः । स किं साङ्ख्यस्मृत्या विरुध्यते न वेति स्मृतिप्रामाण्याप्रामाण्याभ्यां सन्देहे पूर्वपक्षमाह - यदुक्तमिति । तन्त्र्यन्ते व्युत्पाद्यन्ते तत्त्वान्यनेनेति तन्त्रं शास्त्रं कपिलोक्तम् , अन्याश्च पञ्चशिखादिभिः प्रोक्ताः, एवं सति वेदान्तानामद्वयब्रह्मसमन्वये निरर्थकाः स्युरित्यर्थः । तासामपि ब्रह्मार्थकत्वमस्तीत्यविरोध इत्यत आह -- तासु हीति । ननु साङ्ख्यस्मृतिप्रामाण्याय प्रधानवादग्रहे मन्वादिस्मृतीनामप्रामाण्यं स्यादित्याशङ्क्य तासां धर्मे सावकाशत्वात्प्रामाण्यं स्यादित्याह - मन्वादीति । तर्हि साङ्ख्यादिस्मृतीनामपि धर्मे तात्पर्येण प्रामाण्यमस्तु, तत्त्वं तु ब्रह्मैवेत्यविरोध इत्यत आह - नैवमिति । तत्त्वे विकल्पनानुपपत्तेर्निरवकाशस्मृत्यनुसारेण श्रुतिव्याख्यानमुचितम् , सावकाशनिरवकाशयोर्निरवकाशं बलीय इति न्यायादित्याह - तस्मादिति । श्रुतिविरोधे स्मृत्यप्रामाण्यस्येष्टत्वात्पूर्वपक्षो न युक्त इति शङ्कते - कथमिति । ये स्वातन्त्र्येण श्रुत्यर्थं ज्ञातुं शक्नुवन्ति तेषामयं पूर्वपक्षो न भवेत् , साङ्ख्यवृद्धेषु श्रद्धालूनां तु भवेदित्याह - भवेदिति । तेषामतीन्द्रियार्थज्ञानवत्त्वाच्च तत्र श्रद्धा स्यादित्याह - कपिलप्रभृतीनां चेति । 'आदौ यो जायमानं च कपिलं जनयेदृषिम् । प्रसूतं बिभृयाज्ज्ञानैस्तं पश्येत्परमेश्वरम् ॥ ' इति श्रुतियोजना । यथा साङ्ख्यस्मृतिविरोधाद्ब्रह्मवादस्त्याज्य इति त्वयोच्यते तथा स्मृत्यन्तरविरोधात्प्रधानवादास्त्याज्य इति मयोच्यत इति सिद्धान्तयति - तस्य समाधिरिति । तस्माद्ब्रह्मणः सकाशादव्यक्तं मायायां लीनम् । सूक्ष्मात्मकं जगदिति यावत् । इतिहासवाक्यान्युक्त्वा पुराणसम्मतिमाह - अतश्चेति । प्रभवत्यस्मादिति प्रभवो जन्महेतुः । प्रलीयते तस्मिन्निति प्रलयो लयाधिष्ठानम् । तस्मात्कर्तुरीश्वरात्काया ब्रह्मादयः प्रभवन्ति । स एव मूलमुपादानम् । किं परिणामि, न, शाश्वतिकः कूटस्थः । अतः स नित्य इत्यर्थः । ननु श्रुतिविरोधः किमिति नोक्त इत्यत आह - स्मृतिबलेनेति । स्मृतीनां मिथो विरोधे कथं तत्त्वनिर्णयः, तत्राह - दर्शितं त्विति । श्रुतिभिरेव तत्त्वनिर्णय इत्यर्थः । स्मृतीनां का गतिरित्यत आह - विप्रतिपत्तौ चेति । वस्तुतत्त्वे स्मृतीनां मिथो विरोधे वस्तुनि विकल्पायोगात्कॢप्तश्रुतिमूलाः स्मृतयः प्रमाणम् , इतरास्तु कल्प्यश्रुतिमूला न प्रमाणमित्यर्थः । कॢप्तश्रुतिविरोधे स्मृतिर्न प्रमाणमित्यतः जैमिनीयन्यायमाह - तदुक्तमिति । 'औदुम्बरीं स्पृष्ट्वोद्गायेत्' इति प्रत्यक्षश्रुतिविरुद्धा 'सा सर्वा वेष्टयितव्या' इति स्मृतिर्मानं न वेति सन्देहे, मूलश्रुत्यनुमानान्मानमिति प्राप्ते सिद्धान्तः - कॢप्तश्रुतिविरोधे स्मृतिप्रामाण्यमनपेक्षमपेक्षाशून्यम् । हेयमिति यावत् । हि यतोऽसति विरोधे श्रुत्यनुमानं भवति, अत्र तु विरोधे सति श्रुत्यनुमानायोगान्मूलाभावात्सर्ववेष्टनस्मृतिरप्रमाणमित्यर्थः । अस्तु साङ्ख्यस्मृतिः प्रत्यक्षमूलेत्यत आह - न चेति । योगिनां सिद्धिमहिम्नातीन्द्रियज्ञानं सम्भावयितुं शक्यमिति शङ्क्यते - शक्यमिति । कपिलादिभिः किलादौ वेदप्रामाण्यं निश्चित्य तदर्थस्य धर्मस्यानुष्ठानेन सिद्धिः सम्पादिता, तया सिद्ध्या प्रणीतस्मृत्यनुसारेणानादिश्रुतिपीडा न युक्तोपजीव्यविरोधादिति परिहरति - न । सिद्धेरपीति । अतिशङ्कितुमिति । श्रुतीनां मुख्यार्थमतिक्रम्योपचरितार्थत्वं शङ्कितुं न शक्यत इत्यर्थः । स्वतःसिद्धेर्वेदो नोपजीव्य इतिचेन्न । अनीश्वरस्य स्वतःसिद्धौ मानाभावात् । अङ्गीकृत्याप्याह - सिद्धेति । सिद्धानां वचनमाश्रित्य वेदार्थकल्पनायामपि सिद्धोक्तीनां मिथो विरोधे श्रुत्याश्रितमन्वाद्युक्तिभिरेव वेदार्थनिर्णयो युक्त इत्यर्थः । श्रुतिरूपाश्रयं विना सिद्धोक्तिमात्रं न तत्त्वनिर्णयकारणमित्यक्षरार्थः । ननु मन्दमतेः साङ्ख्यस्मृतौ श्रद्धा भवति तस्य मतिर्वेदान्तमार्गे कथमानेयेत्यत आह - परतन्त्रेत्यादिना । ननु श्रुत्या कपिलस्य सर्वज्ञत्वोक्तेस्तन्मते श्रद्धा दुर्वारेत्यत आह - या त्विति । कपिलशब्दमात्रेण साङ्ख्यकर्ता श्रौत इति भ्रान्तिरयुक्ता, तस्य द्वैतवादिनः सर्वज्ञत्वायोगात् । अत्र च सर्वज्ञानसम्भृतत्वेन श्रुतः कपिलो वासुदेवांश एव । स हि सर्वात्मत्वज्ञानं वैदिकं साङ्ख्यमुपदिशतीति सर्वज्ञ इति भावः । प्रतप्तुः प्रदाहकस्य । किञ्च यः कपिलं ज्ञानैर्बिभर्ति तमीश्वरं पश्येदिति विधीयते, तथा चान्यार्थस्य ईश्वरप्रतिपत्तिशेषस्य कपिलसर्वज्ञत्वस्य दर्शनमनुवादस्तस्य मानान्तरेण प्राप्तिशून्यस्य स्वार्थसाधकत्वायोगान्नानुवादमात्रात्सर्वज्ञात्वप्रसिद्धिरित्याह - अन्यार्थेति । द्वैतवादिनः कपिलस्य श्रौतत्वं निरस्य ब्रह्मवादिनो मनोः श्रौतत्वमाह - भवति चेति । इतिहासेऽपि कापिलमतनिन्दापूर्वकमद्वैतं दर्शितमित्याह - महाभारतेऽपीति । पुरुषा आत्मानः किं वस्तुतो भिन्ना उत सर्वदृश्यानां प्रत्यगात्मः एक इति विमर्शार्थः । बहूनां पुरुषाकाराणां देहानां यथैका योनिरुपादानं पृथ्वी तथा तं पुरुषमात्मानं विश्वं सर्वोपादानत्वेन सर्वात्मकं सर्वज्ञत्वादिगुणैः सम्पन्नं कथयिष्यामि । विश्वे सर्वे लोकप्रसिद्धा देवतिर्यङ्मनुष्यादीनां मूर्धानोऽस्यैवेति विश्वमूर्धा, एकस्यैव सर्वक्षेत्रेषु प्रतिबिम्बभावेन प्रविष्टत्वात् । एवं विश्वयुजत्वादियोजना । सर्वभूतेष्वेकश्चरत्यवगच्छति । सर्वत्र इत्यर्थः । स्वैरचारी स्वतन्त्रः । नास्य नियन्ता कश्चिदस्ति । सर्वेश्वर इत्यर्थः । यथासुखमिति । विशोकानन्दस्वरूप इति यावत् । कापिलतन्त्रस्य वेदमूलस्मृतिविरोधमुक्त्वा साक्षाद्वेदविरोधमाह - श्रुतिश्चेति । यस्मिञ्ज्ञानकाले केवलं स्वतन्त्रप्रकृतिकल्पनयैव वेदविरुद्धं न किन्त्वात्मभेदकल्पनयापीति सिद्धमिति सम्बन्धः । स्मृतिविरोधे वेदस्यैवाप्रामाण्यं किं न स्यादित्यत आह - वेदस्य हीति । वेदस्य प्रामाण्यं स्वतःसिद्धमपौरुषेयत्वात् । पौरुषेयवाक्यानां स्वार्थस्मृतितन्मूलानुभवयोः कल्पनया प्रामाण्यं ज्ञेयमिति व्यवहितं परतःप्रामाण्यमिति विप्रकर्षः । श्रुतिस्मृत्योर्विशेष इत्यक्षरार्थः । समयोर्विरोधे हि निरवकाशेन सावकाशं बाध्यम् । इह स्वतःपरतःप्रमाण्ययोर्वैषम्याज्झटिति निश्चितप्रामाण्येन चानुपसंजातविरोधिना वेदवाक्येन विरुद्धस्मृतेरेव बाध इति भावः । तस्मादिति ।
विशेषादित्यर्थः । भ्रान्तिमूलत्वसम्भवादिति भावः ॥१॥ 【भाष्यम्】 【भाष्यम्】 महदहङ्कारौ तावदप्रसिद्धौ, अहङ्कारप्रकृतिकत्वेन तन्मात्राण्यप्यप्रसिद्धानि स्मर्तुं न शक्यन्त इत्याह - इतरेषां चेति । ननु 'महतः परमव्यक्तम्' इतिश्रुतिप्रसिद्धानि महदादीनीत्यत आह - यदपीति । सूत्रतात्पर्यमाह - कार्येति । साङ्ख्यस्मृतेर्महदादिष्विव प्रधानेऽपि प्रामाण्यं नेति निश्चीयत इत्यर्थः । साङ्ख्यस्मृतेर्बाधेऽपि तदुक्तयुक्तीनां कथं बाध इत्यत आह -
तर्केति ॥२॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मण्युक्तसमन्वयः प्रधानवादियोगस्मृत्या विरुध्यते न वेति सन्देहे पूर्वन्यायमतिदिशति - एतेन योगः प्रत्युक्तः । अतिदेशत्वात्पूर्ववत्सङ्गत्यादिकं द्रष्टव्यम् । पूर्वत्रानुक्तनिरासं पूर्वपक्षमाह - अस्तिह्यत्रेति । निदिध्यासनं योगः । त्रीणि उरोग्रीवाशिरांस्युन्नतानि यस्मिञ्शरीरे तत्त्र्युन्नतं त्रिरुन्नतमितिपाठश्चेच्छान्दसः । युञ्जीतेति शेषः । न केवलं योगे विधिः किन्तु योगस्य ज्ञापकान्यर्थवादवाक्यान्यपि सन्तीत्याह - लिङ्गानि चेति । तां पूर्वोक्तां धारणां योगविदो योगं परमं तप इति मन्यन्ते । उक्तामेतां ब्रह्मविद्यां योगविधिं ध्यानप्रकारं च मृत्युप्रसादान्न चिकेता लब्ध्वा ब्रह्म प्राप्त इति सम्बन्धः । योगस्मृतिः प्रधानादितत्त्वांशेऽपि प्रमाणत्वेन स्वीकार्या । सम्प्रतिपन्नः प्रामाणिकोऽर्थैकदेशो योगरूपो यस्यास्तत्त्वादित्यर्थः । 'अष्टकाः कर्तव्याः', 'गुरुरनुगन्तव्यः' इत्यादिस्मृतीनां वेदाविरुद्धार्थकत्वान्मूलश्रुत्यनुमानेन प्रामाण्यमुक्तं प्रमाणलक्षणे । एवं योगस्मृतेर्योगे प्रामाण्यात्तत्त्वांशेऽपि प्रामाण्यमिति पूर्वपक्षमनूद्य सिद्धान्तयति - इयमिति । ननु बौद्धादिस्मृतयोऽत्र किमिति न निराकृता इत्यत आह - सतीष्वपीति । तासां प्रतारकत्वेन प्रसिद्धत्वादशिष्टैः पशुप्रायैर्गृहीतत्वाद्वेदबाह्यत्वाच्चात्रोपेक्षेति भावः । तत्कारणमिति । तेषां प्रकृतानां कामानां कारणं साङ्ख्ययोगाभ्यां विवेकध्यानाभ्यामभिपन्नं प्रत्यक्तया प्राप्तं देवं ज्ञात्वा सर्वपाशैरविद्यादिभिर्मुच्यत इत्यर्थः । समूलत्वे स्मृतिद्वयस्य निरासः किमिति कृत इत्यत आह - निराकरणं त्विति । इति हेतोः । कृतमिति शेषः । प्रत्यासत्तेरिति । श्रुतिस्थसाङ्ख्ययोगशब्दयोः सजातीयश्रुत्यर्थग्राहित्वादिति यावत् । किं सर्वांशेषु स्मृत्यप्रामाण्यम् , नेत्याह - येन त्वंशेनेति । ब्रह्मवादस्य कणभक्षादिभिर्विरोधमाशङ्क्यातिदिशति - एतेनेति । श्रुतिविरोधेनेत्यर्थः । उपकारकबाधो न युक्त इत्याशङ्क्य योंऽश उपकारकः स न बाध्यः किन्तु तत्त्वांश इत्याह - तान्यपीति ।
तर्कोऽनुमानम् ,तदनुग्राहिको युक्तिरुपपत्तिः ॥३॥ 【भाष्यम्】 【भाष्यम्】 स्मृतीनामप्रामाण्यात्ताभिः समन्वयस्य न विरोध इति सिद्धान्तलक्षणत्वाद्वृत्तानुवादेनास्याधिकरणस्य तात्पर्यमाह - ब्रह्मास्येति । पूर्वपक्षमाक्षिपति - कुतःपुनरिति । अनवकाशे हेतुमाह - ननु धर्म इवेति । मानान्तरानपेक्षे वेदैकसमधिगम्ये ब्रह्मण्यनुमानात्मकतर्कस्याप्रवेशः । तेनाक्षेपस्यानवकाशो भिन्नविषयत्वात्तर्कवेदयोरित्यर्थः । सिद्धस्य मानान्तरगम्यत्वादेकविषयत्वाद्विरोध इति पूर्वपक्षं समर्थयते - भवेदयमिति । अवष्टम्भो दृष्टान्तः । नन्वेकविषयत्वेन विरोधेऽपि श्रुतिविरोधान्मानान्तरमेव बाध्यतामित्यत आह - यथा चेति । प्रबलश्रुत्या दुर्बलश्रुतिबाधवन्निरवकाशमानान्तरेण लक्षणावृत्त्या सावकाशश्रुतिनयनं युक्तमित्यर्थः । किञ्च ब्रह्मसाक्षात्कारस्य मोक्षहेतुत्वे प्रधानस्यान्तरङ्गं तर्कस्तस्यापरोक्षदृष्टान्तगोचरत्वेन प्रधानवदपरोक्षार्थविषयत्वात् । शब्दस्तु परोक्षार्थकत्वाद्बहिरङ्गमतस्तर्केण बाध्य इत्याह - दृष्टेति । ऐतिह्यमात्रेण । परोक्षतयेति यावत् । अनुभवस्य प्राधान्यं दर्शयति - अनुभवावसानं चेति । 'नैषा तर्केण मतिः' इत्यर्थवादेन तर्कस्य निषेधमाशङ्क्य विधिविरोधान्मैवमित्याह - श्रुतिरपीति । एवं पूर्वपक्षं सम्भाव्य चेतनब्रह्मकारणवादिवेदान्तसमन्वयः, क्षित्यादिकं न चेतनप्रकृतिकम् , कार्यद्रव्यत्वात् , घटवदिति साङ्ख्ययोगन्यायेन विरुध्यते न वेति सन्देहे स्मृतेर्मूलाभावाद्दुर्बलत्वेऽप्यनुमानस्य व्याप्तिमूलत्वेन प्राबल्यात्तेन विरुध्यत इति प्रत्युदाहरणेन पूर्वपक्षयति - न विलक्षणत्वादिति । पूर्वोत्तरपक्षयोः समन्वयासिद्धिः, तत्सिद्धिश्चेति पूर्ववत्फलम् । जगन्न ब्रह्मप्रकृतिकम् , तद्विलक्षणत्वात् , यद्यद्विलक्षणं तन्न तत्प्रकृतिकम् , यथा मृद्विलक्षणा रुचकादय इत्यर्थः । सुखदुःखमोहाः सत्त्वरजस्तमांसि । तथा च जगत्सुखदुःखमोहात्मकं सामान्यप्रकृतिकम् , तदन्वितत्वात् , यदित्थं तत्तथा यथा मृदन्विता घटादय इत्याह - मृदैवेति । विलक्षणत्वं साधयति - ब्रह्मविलक्षणत्वं चेति । यथा हि एक एव स्त्रीपिण्डः पतिसपत्न्युपपतीनां प्रीतिपरितापविषादादीन्करोति, एवमन्येऽपि भावा द्रष्टव्याः । तत्र प्रीतिः सुखम् , परितापः शोकः, विषादो भ्रमः, आदिपदाद्रागादिग्रहः । उभयोश्चेतनत्वेन साम्यादुपकार्योपकारकभावो न स्यादित्ययुक्तम् , स्वामिभृत्ययोर्व्यभिचारादिति शङ्कते - ननु चेतनमपीति । भृत्यदेहस्यैव स्वामिचेतनोपकारकत्वान्न व्यभिचार इत्याह - नेत्यादिना । उत्कर्षापकर्षशून्यत्वाच्चेतनानां मिथो नोपकारकत्वमित्याह - निरतिशया इति । तस्मादुपकारकत्वात् । श्रुतचेतनप्रकृतिकत्वबलेन जगच्चेतनमेवेत्येकदेशिमतमुत्थापयति - योऽपीति । घटादेश्चेतनत्वमनुपलब्धिबाधितमित्यत आह - अविभावनं त्विति । अन्तःकरणान्यपरिणामत्वात्सतोऽपि चैतन्यस्यानुपलब्धिरित्यर्थः । अन्तःकरणादन्यस्य वृत्त्युपरागदशायामेव चैतन्याभिव्यक्तिर्नान्यदेति भावः । वृत्त्यभावे चैतन्यानभिव्यक्तौ दृष्टान्तः - यथेति । आत्मानात्मनोश्चेतनत्वे स्वस्वामिभावः कुत इत्यत आह - एतस्मादेवेति । साम्येऽपि प्रातिस्विकस्वरूपविशेषात् शेषित्वे दृष्टान्तः - यथा चेति । चेतनाचेतनभेदः कथमित्यत आह - प्रविभागेति । चैतन्याभिव्यक्त्यनभिव्यक्तिभ्यामित्यर्थः । सर्वस्य चेतनत्वमेकदेश्युक्तमङ्गीकृत्य साङ्ख्यः परिहरति - तेनापि कथञ्चिदिति । अङ्गीकारं त्यक्त्वा सूत्रशेषेण परिहरति - न चेत्यादिना ।
इतरच्चेतनाचेतनत्वरूपम् । वैलक्षण्यं तथात्वशब्दार्थः । श्रुतार्थापत्तिः शब्देन बाध्येति भावः ॥४॥ 【भाष्यम्】 【भाष्यम्】 मृदादीनां वक्तृत्वादिश्रुतेस्तदभिमानिविषयत्वात् , तथा 'विज्ञानं चाविज्ञानं च' इति चेतनाचेतनविभागशब्दस्योपचरितार्थत्वं न युक्तमिति साङ्ख्यः समाधत्ते - अभिमानीति । संवदनं विवादः । न भूतमात्रमिन्द्रियमात्रं वा चेतनत्वेन व्यपदिश्यते । लोकवेदप्रसिद्धविभागबाधायोगादित्यर्थः । विशेषपदस्यार्थान्तरमाह - अपि चेति । अहंश्रेयसे स्वस्वश्रेष्ठत्वाय प्राणा विवदमाना इत्युक्तप्राणानां चेतनवाचिदेवतापदेन विशेषितत्वात्प्राणादिपदैरभिमानिव्यपदेश इत्यर्थः । प्राणे निःश्रेयसं श्रैष्ठ्यं विदित्वा प्राणाधीना जाता इत्यर्थः । अनुगतिं बहुधा व्याचष्टे - अनुगताश्चेति ।
तस्मै प्राणाय, बलिहरणं वागादिभिः स्वीयवसिष्ठत्वादिगुणसमर्पणं कृतम् । तेजआदिनामीक्षणं त्वयैवेक्षत्यधिकरणे चेतननिष्ठतया व्याख्यातं द्रष्टव्यमित्यर्थः । यस्मान्नास्ति जगतश्चेतनत्वं तस्मादिति पूर्वपक्षोपसंहारः ॥५॥ 【भाष्यम्】 【भाष्यम्】 श्रुतिसाहाय्यान्न बाध्येत्युत्तरसूत्रव्यावर्त्यं शङ्कते - नन्विति । किं यत्किञ्चिद्वैलक्षण्यं हेतुः, बहुवैलक्षण्यं वा । आद्ये व्यभिचारमाह - नायमेकान्तः । दृश्यते हीति । हेतोरसत्त्वान्न व्यभिचार इति शङ्कते - नन्विति । यत्किञ्चिद्वैलक्षण्यमस्तीति व्यभिचार इत्याह - उच्यत इति । शरीरस्य केशादीनां च प्राणित्वाप्राणित्वरूपं वैलक्षण्यमस्तीत्यर्थः । द्वितीयेऽपि तत्रैव व्यभिचारमाह - महानिति । परिणामिकः । केशादीनां स्वगतपरिणामात्मक इत्यर्थः । किञ्च ययोः प्रकृतिविकारभावस्तयोः सादृश्यं वदता वक्तव्यं किमात्यन्तिकं यत्किञ्चिद्वेति । आद्ये दोषमाह - अत्यन्तेति । द्वितीयमाशङ्क्य ब्रह्मजगतोरपि तत्सत्त्वात्प्रकृतिविकृतित्वसिद्धिरित्याह - अथेत्यादिना । विलक्षणत्वं विकल्प्य दूषणान्तरमाह - विलक्षणत्वेनेत्यादिना । जगति समस्तस्य ब्रह्मस्वभावस्य चेतनत्वादेरननुवर्तनान्न ब्रह्मकार्यमिति पक्षे सर्वसाम्ये प्रकृतिविकारत्वमित्युक्तं स्यात् , तदसङ्गतमित्याह - प्रथम इति । तृतीये तु दृष्टान्ताभाव इति । न च जगन्न ब्रह्मप्रकृतिकमचेतनत्वादविद्यावदिति दृष्टान्तोऽस्तीति वाच्यम् , अनादित्वस्योपाधित्वात् । न च ध्वंसे साध्याव्यापकता, तस्यापि कार्यसंस्कारात्मकस्य भावत्वेन ब्रह्मप्रकृतिकत्वादभावत्वाग्रहे चानादिभावत्वस्योपाधित्वादिति । सम्प्रति कल्पत्रयसाधारणं दोषमाह - आगमेति । पूर्वोक्तमनूद्य ब्रह्मणः शुष्कतर्कविषयत्वासम्भवान्न तर्केणाक्षेप इत्याह - यत्तूक्तमित्यादिना । लिङ्गसादृश्यपदप्रवृत्तिनिमित्तानामभावादनुमानोपमानशब्दानामगोचरः । ब्रह्म लक्षणया वेदैकवेद्यमित्यर्थः । एषा ब्रह्मणि मतिस्तर्केण स्वतन्त्रेण नापनेया न सम्पादनीया । यद्वा कुतर्केण न बाधनीया । कुतार्किकादन्येनैव वेदविदाचार्येण प्रोक्ता मतिः सुज्ञानायानुभवाय फलाय भवति । हे प्रेष्ठ, प्रियतमेति न चिकेतसं प्रति मृत्योर्वचनम् । इयं विविधा सृष्टिर्यतः आ समन्ताद्बभूव तं को वा अद्धा साक्षाद्वेद । तिष्ठतु वेदनम् , क इह लोके तं प्रवोचत्प्रावोचत् । छान्दसो दीर्घलोपः । यथावद्वक्तापि नास्तीत्यर्थः । प्रभवं जन्म न विदुः मम सर्वादित्वेन जन्माभावात् । मिषेण मननविधिव्याजेन । शुष्कः श्रुत्यनपेक्षः । श्रुत्या तत्त्वे निश्चिते सत्यनु पश्चात्पुरुषदोषस्यासम्भावनादेर्निरासाय गृहीतः श्रुत्यनुगृहीतः । तमाह - स्वप्नान्तेति । जीवस्यावस्थावतो देहादिप्रपञ्चयुक्तस्य निष्प्रपञ्चब्रह्मैक्यमसम्भवि, द्वैतग्राहिप्रमाणविरोधाद्ब्रह्मणश्चाद्वितीयत्वमयुक्तमित्येवं श्रौतार्थासम्भावनायाम् , तन्निरासाय सर्वास्ववस्थास्वात्मनोऽनुगतस्य व्यभिचारिणीभिरवस्थाभिरनन्वागतत्वमसंस्पृष्टत्वमवस्थानां स्वाभाविकत्वे वह्न्यौष्णवदात्मव्यभिचारायोगात्सुषुप्तौ प्रपञ्चभ्रान्त्यभावे 'सता सोम्य' इत्युक्ताभेददर्शनान्निष्प्रपञ्चब्रह्मैक्यसम्भवः, यथा घटादयो मृदभिन्नास्तथा जगद्ब्रह्माभिन्नं तज्जत्वादित्यादिस्तर्क आश्रीयत इत्यर्थः । इतोऽन्यादृशतर्कस्यात्र ब्रह्मण्यप्रवेशादस्य चानुकूलत्वान्न तर्केणाक्षेपावकाश इति भावः । ब्रह्मणि शुष्कतर्कस्याप्रवेशः सूत्रसम्मत इत्याह - तर्काप्रतिष्ठानादिति । विप्रलम्भकत्वमप्रमापकत्वम् । यदुक्तमेकदेशिना सर्वस्य जगतश्चेतनत्वोक्तौ विभागश्रुत्यनुपपत्तिरिति दूषणं साङ्ख्येन । तन्न । तत्र तेनैकदेशिना विभागश्रुतेश्चैतन्याभिव्यक्त्यनभिव्यक्तिभ्यां योजयितुं शक्यत्वात् । साङ्ख्यस्य त्विदं दूषणं वज्रलेपायते, प्रधानकार्यत्वे सर्वस्याचेतनत्वेन चेतनाचेतनकार्यविभागासम्भवादित्याह - योऽपीत्यादिना । सिद्धान्ते चेतनाचेतनवैलक्षण्याङ्गीकारे कथं ब्रह्मणः प्रकृतित्वमित्यत आह - प्रत्युक्तत्वादिति ।
अप्रयोजकत्वव्यभिचाराभ्यां निरस्तत्वादित्यर्थः ॥६॥ 【भाष्यम्】 【भाष्यम्】 कार्यमुत्पत्तेः प्रागसदेव स्यात् , स्वविरुद्धकारणात्मना सत्त्वायोगादित्यपसिद्धान्तापत्तिमाशङ्क्य मिथ्यात्वात्कार्यस्य कालत्रयेऽपि कारणात्मना सत्त्वमविरुद्धमिति समाधत्ते - असदिति चेदित्यादिना । असत्यादिति सत्त्वप्रतिषेधो निरर्थक इत्यर्थः । कार्यसत्यत्वाभावे श्रुतिमाह - सर्वं तमिति । मिथ्यात्वमजानतः शङ्कामनूद्य परिहरति - नन्वित्यादिना । विस्तरेण चैतदिति ।
मिथ्यात्वमित्यर्थः ॥७॥ 【भाष्यम्】 【भाष्यम्】 सत्कार्यवादसिद्ध्यर्थं कार्याभेदे कारणस्यापि कार्यवदशुद्ध्यादिप्रसङ्ग इति शङ्कासूत्रं व्याचष्टे - अत्राहेति । प्रतिसंसृज्यमानपदस्य व्याख्या - कारणेति । यथा जले लीयमानं लवणद्रव्यं जलं दूषयति तद्वदित्यर्थः । सूत्रस्य योजनान्तरमाह - अपि चेति । सर्वस्य कार्यस्यापीतौ कारणवदेकरूपत्वप्रसङ्ग इत्यर्थः । अर्थान्तरमाह - अपि चेति । कर्मादीनामुत्पत्तिनिमित्तानां प्रलयेऽपि भोक्तृणामुत्पत्तौ तद्वदेव मुक्तानामप्युत्पत्तिप्रसङ्गादित्यर्थः । शङ्कापूर्वकं व्याख्यान्तरमाह - अथेति ।
यदि लयकालेऽपि कार्यं कारणाद्विभक्तं तर्हि स्थितिकालवल्लयाभावप्रसङ्गात्कार्येण द्वैतापत्तेश्चासमञ्जसमिदं दर्शनमित्यर्थः ॥८॥ 【भाष्यम्】 【भाष्यम्】 अपीतौ जगत्स्वकारणं न दूषयति, कारणे लीनत्वात् , मृदादिषु नीलघटादिवदिति सिद्धान्तसूत्रं व्याचष्टे - नैवेत्यादिना । अपिगच्छत् लीयमानम् । विभागावस्था स्थितिकालः । त्वत्पक्षस्येति । मधुरजलं लवणस्याकारणमित्यदृष्टान्तः । किञ्च दूषकत्वे कार्यस्य स्थितिः स्याल्लवणवदित्याह - अपीतिरेवेति । असति कार्ये तद्धर्मेण कारणस्य योगो न सम्भवति । धर्म्यसत्त्वे धर्माणामप्यसत्त्वादिति भावः । ननु सत्कार्यवादे लयेऽपि कार्यस्य कारणाभेदेन सत्त्वाद्दूषकत्वं स्यादित्यत आह - अनन्यत्वेऽपीति । कल्पितस्याधिष्ठानधर्मवत्त्वमभेदान्न त्वधिष्ठानस्य कल्पितकार्यधर्मवत्त्वं तस्य कार्यात्पृथक्सत्त्वादित्यर्थः । किञ्चापीताविति विशेषणं व्यर्थमिति प्रतिबन्द्या समाधत्ते - अत्यल्पं चेति । परिणामदृष्टान्तं व्याख्याय विवर्तदृष्टान्तं व्याचष्टे - अस्ति चेति । मायाव्यनुपादानमित्यरुच्या दृष्टान्तान्तरमाह - यथेति । अस्त्येव स्वप्नकाले दृष्टः संसर्ग इत्यत आह - प्रबोधेति । जाग्रत्सुषुप्त्योः स्वप्नेनात्मनोऽस्पर्शात्तत्कालेऽप्यस्पर्श इत्यर्थः । यद्यज्ञस्य जीवस्यावस्थाभिरसंसर्गस्तदा सर्वज्ञस्य किं वाच्यमिति दार्ष्टान्तिकमाह - एवमिति । यद्वा जागज्जन्मस्थितिलया ईश्वरस्यावस्थात्रयम् । तदसङ्गित्वे वृद्धसम्मतिमाह - अत्रोक्तमिति । यदा तत्त्वमसीत्युपदेशकाले प्रबुध्यते मायानिद्रां त्यजति तदा जन्मलयस्थित्यवस्थाशून्यमद्वैतमीश्वरमात्मत्वेनानुभवतीत्यर्थः । फलितमाह - तत्रेति । द्वितीयमसामञ्जस्यमनूद्य तेनैव सूत्रेण परिहरति - यत्पुनरिति । सुषुप्तावज्ञानसत्त्वे पुनर्विभागोत्पत्तौ च मानमाह - श्रुतिश्चेति । सति ब्रह्मण्येकीभूय न विदुरित्यज्ञानोक्तिः । इह सुषुप्तेः प्राक्प्रबोधे येन जात्यादिना विभक्ता भवन्ति तदा पुनरुत्थानकाले तथैव भवन्तीति विभागोक्तिः । ननु सुषुप्तौ पुनर्विभागशक्त्यज्ञानसत्त्वेऽपि सर्वप्रलये तत्सत्त्वं कुत इत्यत आह - यथा हीति । यथा सुषुप्तौ परमात्मनि सर्वकार्याणामविभागेऽपि पुनर्विभागहेत्वज्ञानशक्तिरस्ति एवमपीतौ महाप्रलयेऽपि मिथ्याभूताज्ञानसम्बन्धात्पुनः सृष्टिविभागशक्तिरनुमास्यते । यतः स्थिताविदानीं मिथ्याज्ञानकार्यो विभागव्यवहारस्तत्त्वबोधाभावात्स्वप्नवदबाधितो दृश्यते, अतः कार्यदर्शनात्कारणसत्त्वसिद्धिरित्यर्थः । अज्ञानां जीवानां महाप्रलयेऽप्यज्ञानशक्तिनियमात्पुनर्जन्मनियम इति भावः । एतेनेति ।
जन्मकारणाज्ञानशक्त्यभावेनेत्यर्थः ॥९॥ 【भाष्यम्】 【भाष्यम्】 वैलक्षण्यादीनां साङ्ख्यपक्षेऽपि दोषत्वान्नास्माभिस्तन्निरासप्रयासः कार्य इत्याह - स्वपक्षेति । सूत्रं व्याचष्टे - स्वेति । प्रादुःष्युः प्रादुर्भवेयुः । अत एवेति । सत्यकार्यस्य विरुद्धकारणात्मना सत्त्वायोगात्साङ्ख्यस्यैवायं दोषो न कार्यमिथ्यात्ववादिन इति मन्तव्यम् । 'अपीतौ' इति सूत्रोक्तदोषचतुष्टयमाह - तथापीताविति ।
कार्यवत्प्रधानस्य रूपादिमत्त्वप्रसङ्गः । इदं कर्मादिकमस्योपादानं भोग्यमस्य नेत्यनियमः । बद्धमुक्तव्यवस्था च । यदि व्यवस्थार्थं मुक्तानां भेदाः सङ्घातविशेषाः प्रधाने लीयन्ते बद्धानां भेदास्तु न लीयन्त इत्युच्येत तर्ह्यलीनानां पुरुषवत्कार्यत्वव्याघात इत्यर्थः ॥१०॥ 【भाष्यम्】 【भाष्यम्】 किञ्च तर्कस्य सम्भावितदोषत्वात्तेन निर्दोषवेदान्तसमन्वयो न बाध्य इत्याह - तर्काप्रतिष्ठानादपीति । पुरुषमतीनां विचित्रत्वेऽपि कपिलस्य सर्वज्ञत्वात्तदीयतर्के विश्वास इति शङ्कते - अथेति । 'कपिलो यदि सर्वज्ञः कणादो नेति का प्रमा' इति न्यायेन परिहरति - एवमपीति । सूत्रमध्यस्थशङ्काभागं व्याचष्टे - अथोच्येतेति । विलक्षणत्वादितर्काणामप्रतिष्ठितत्वेऽपि व्याप्तिपक्षधर्मतासम्पन्नः कश्चित्तर्कः प्रतिष्ठितो भविष्यति तेन प्रधानमनुमेयमित्यर्थः । ननु सोऽप्यप्रतिष्ठितः तर्कजातीयत्वाविलक्षणत्वादिवदित्यत आह - न हीति । तर्कजातीयत्वादिति तर्कः प्रतिष्ठितो न वा । आद्येऽत्रैवाप्रतिष्ठितत्वसाध्याभावाद्वयभिचारः । द्वितीयेऽपि न सर्वतर्काणामप्रतिष्ठितत्वं हेत्वभावादित्यभिसन्धिमानाह - एतदपीति । किञ्चानागतपाक इष्टसाधनम् , पाकत्वात् , अतीतपाकवदित्यादिष्टानिष्टसाधनानुमानात्मकतर्कस्य प्रवृत्तिनिवृत्तिव्यवहारहेतुत्वान्नाप्रतिष्ठेत्याह - सर्वतर्केति । अध्वा विषयः पाकभोजनादिर्विषभक्षणादिश्च, तत्सामान्येन पाकत्वादिनानागतविषये पाकादौ सुखदुःखहेतुत्वानुमित्या प्रवृत्त्यादिरित्यर्थः । किञ्च पूर्वोत्तरमीमांसयोस्तर्केणैव वाक्यतात्पर्यनिर्णयस्य क्रियमाणत्वात्तर्कः प्रतिष्ठित इत्याह - श्रुत्यर्थेति । मनुरपि केषाञ्चित्तर्काणां प्रतिष्ठां मन्यत इत्याह - मनुरिति । धर्मस्य शुद्धिरधर्माद्भेदनिर्णयः । कस्यचित्तर्कस्याप्रतिष्ठितत्वमङ्गीकरोति - अयमेवेति । सर्वतर्काणां प्रतिष्ठायां पूर्वपक्ष एव न स्यादिति भावः । पूर्वपक्षतर्कवत्सिद्धान्ततर्कोऽप्यप्रतिष्ठितः, तर्कत्वाविशेषादिति वदन्तमुपहसति - न हीति । क्वचित्तर्कस्य प्रतिष्ठायामपि जगत्कारणविशेषे तर्कस्य स्वातन्त्र्यं नास्तीति सूत्रशेषं व्याचष्टे - यद्यपीत्यादिना । अतिगम्भीरत्वं ब्रह्मणो वेदान्यमानागम्यत्वम् । भावस्य जगत्कारणस्य याथात्म्यमद्वयत्वम् । मुक्तिनिबन्धनं मुक्त्यालम्बनम् । ब्रह्मणो वेदान्यमानागम्यत्वं दर्शयति - रूपादिति । अविमोक्षो मुक्त्यभाव इत्यर्थान्तरमाह - अपि चेत्यादिना । एकरूपवस्तुज्ञानस्य सम्यग्ज्ञानत्वेऽपि तर्कजन्यत्वं किं न स्यादित्यत आह - तत्रैवं सतीति । तर्कोत्थज्ञानानां मिथो विप्रतिपत्तेर्न सम्यग्ज्ञानत्वम् । सम्यग्ज्ञाने विप्रतिपत्त्ययोगादित्यर्थः । एकरूपेणानवस्थितो विषयो यस्य तत्तर्कप्रभवं कथं सम्यग्ज्ञानं भवेदिति योजना । ननु साङ्ख्यस्य श्रेष्ठत्वात्तज्ज्ञानं सम्यगित्याशङ्क्य हेत्वसिद्धिमाह - न च प्रधानेति । ननु सर्वतार्किकैर्मिलित्वा निश्चिततर्कोत्था मतिर्मुक्तिहेतुरित्यत आह - न च शक्यन्त इति । तस्मात्तर्कोत्थज्ञानान्मुक्त्ययोगात्तर्केण वेदान्तसमन्वयबाधो न युक्तः, तद्बाधे सम्यग्ज्ञानालाभेनानिर्मोक्षप्रसङ्गादिति सूत्रांशार्थमुपसंहरति - अतोऽन्यत्रेति । समन्वयस्य तर्केणाविरोधे फलितमधिकरणार्थमुपसंहरति -
अत आगमेति ॥११॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्म जगदुपादानमिति ब्रुवन् वेदान्तसमन्वयो विषयः । स किं यद्विभु तन्न द्रव्योपादानमिति वैशेषिकादिन्यायेन विरुध्यते न वेति सन्देहे साङ्ख्यवृद्धानां तर्काकुशलमतित्वेऽपि वैशेषिकादीनां तर्कमतिकुशलत्वप्रसिद्धेस्तदीयन्यायस्याबाधितत्वाद्विरुध्यत इति प्रत्युदाहरणेन प्राप्तेऽतिदिशति - एतेनेति । फलं पूर्ववत् । ननु साङ्ख्यमतस्योपदेशस्तार्किकमतस्यातिदेशः किमिति कृतो वैपरीत्यस्यापि सम्भवादित्याशङ्क्य पूर्वोत्तराधिकरणयोरुपदेशातिदेशभावे कारणमाह - वैदिकस्येति । सत्कार्यत्वात्मासङ्गत्वस्वप्रकाशत्वाद्यंशैर्वेदान्तशास्त्रस्य प्रत्यासन्नः प्रधानवादः शिष्टैर्देबलादिभिः सत्कार्यत्वांशेन स्वीकृत इति प्रबलत्वादुपदेशः । अण्वादिवादानां निर्मूलत्वेन दुर्बलत्वेन दुर्बलत्वादतिदेश इति भावः । किं निराकरणकारणमिति प्रष्टव्यं नास्तीत्याह - तुल्यत्वादिति । कारणमेवाह - तुल्यमिति ।
यदुक्तं विभुत्वान्न द्रव्योपादानं ब्रह्मेति, तत्र पक्षसाधकत्वेन श्रुतेरुपजीव्यत्वात्तया बाधः । महापरिमाणवत्त्वस्य सर्वसंयोगिकत्वरूपविभुत्वस्य निर्गुणे ब्रह्मण्यसिद्धेश्चेति द्रष्टव्यम् । अतः समन्वयस्य तार्किकन्यायेन न विरोध इति सिद्धम् ॥१२॥ 【भाष्यम्】 【भाष्यम्】 अद्वितीयाद्ब्रह्मणो जगत्सर्गादिवादी वेदान्तसमन्वयो विषयः । स किं यन्मिथो भिन्नं तन्नाद्वितीयकारणाभिन्नं यथा मृत्तन्तुजौ घटपठाविति तर्कसहितभेदप्रत्यक्षादिना विरुध्यते न वेति सन्देहे ब्रह्मणि तर्कस्याप्रतिष्ठितत्वेऽपि जगद्भेदे प्रतिष्ठितत्वाद्विरुध्यत इति पूर्वपक्षयति - भोक्त्रापत्तेरिति । विरोधादद्वैतासिद्धिः पूर्वपक्षफलम् , सिद्धान्ते तत्सिद्धिरिति भेदः । अनपेक्षश्रुत्या स्वार्थनिर्णयात्तर्केणाक्षेपो न युक्त इत्युक्तमिति शङ्कते - यद्यपीति । मानान्तरायोग्यश्रुत्यर्थे भवत्यनाक्षेपः । यस्त्वद्वितीयब्रह्माभेदाद्भूजलादीनामभेदो ब्रह्मोपादानकत्वश्रुतिविषयः स 'आदित्यो यूपः' इत्यर्थवादार्थवन्मानान्तरयोग्य एवेति द्वैतप्रमाणैरपह्रियत इति समाधत्ते - तथापीति । अन्यपरत्वं गौणार्थकत्वम् । स्वविषये जगद्भेदे तर्कस्य प्रतिष्ठितत्वात्तेनाक्षेप इत्याह - तर्कोऽपीति । तर्कादेर्द्वैते प्रामाण्येऽपि ततः समन्वयविरोधे किमायातमिति शङ्कते - किमत इति । पूर्वपक्षी समाधत्ते - अत इति । तर्कादेः प्रामाण्यात् द्वैतबाधकत्वं श्रुतेरयुक्तमित्यद्वैतसमन्वयबाधो युक्त इत्यर्थः । इयमर्थं शङ्कापूर्वकं स्फुटयति - कथमित्यादिना । ननु भोक्तृभोग्ययोर्मिथ एकत्वं केनोक्तमित्याशङ्क्य श्रुतार्थापत्त्येत्याह - तयोश्चेति । तयोरेकब्रह्माभेदश्रवणादेकत्वं कल्प्यते, एकस्मादभिन्नयोर्भेदे एकस्यापि भेदापत्तेः । ततश्च भेदो बाध्येतेत्यर्थः । इष्टापत्तिं वारयति - न चास्येति । श्रुतेर्गौणार्थत्वेन सावकाशत्वान्निरवकाशद्वैतमानबाधो न युक्त इत्यर्थः । ननु विभागस्याधुनिकत्वादनाद्यद्वैतश्रुत्या बाध इत्यत आह - यथेति । अतीतानागतकालौ भोक्त्रादिविभागाश्रयौ, कालत्वात् , वर्तमानकालवदित्यनुमानाद्विभागोऽनाद्यनन्त इत्यर्थः । एवं प्राप्ते परिणामदृष्टान्तेनापाततः सिद्धान्तमाह - स्याल्लोकवदिति । दृष्टान्तेऽपि कथमेकसमुद्राभिन्नानां परिणामानां मिथो भेदः, कथं वा तेषां भेदे सत्येकस्मादभिन्नत्वमित्याशङ्क्य न हि दृष्टेनुपपत्तिरिति न्यायेनाह - न चेति । एवं भोक्तृभोग्ययोर्मिथो भेदो ब्रह्माभेदश्चेत्याह - एवमिहेति । जीवस्य ब्रह्मविकारत्वाभावाद्दृष्टान्तवैषम्यमिति शङ्कते - यद्यपीति । औपाधिकं जन्मास्तीति तरङ्गादिसाम्यमाह - तथापीति । विभागो जन्म । यद्वा तथापीतिशब्देनैवोक्तः परिहारः । ननु भोक्तुः प्रतिदेहं विभागः कथमित्यत आह - कार्यमनुप्रविष्टस्येति । औपाधिकविभागे फलितमुपसंहरति - इत्यत इति ।
एकब्रह्माभिन्नत्वेऽपि भोक्त्रादेस्तरङ्गादिवद्भेदाङ्गीकारान्न द्वैतमानेनाद्वैतसमन्वयस्य विरोध इत्यर्थः ॥१३॥ 【भाष्यम्】 【भाष्यम्】 पूर्वस्मिन्नेव पूर्वपक्षे विवर्तवादेन मुख्यं समाधानमाह - तदनन्यत्वमिति । समानविषयत्वं सङ्गतिं वदन्नुभयोः परिहारयोः परिणामविवर्ताश्रयत्वेनार्थभेदमाह - अभ्युपगम्येति । प्रत्यक्षादीनाम् उत्सर्गिकप्रामाण्यमङ्गीकृत्य स्थूलबुद्धिसमाधानार्थं परिणामदृष्टान्तेन भेदाभेदावुक्तौ, सम्प्रत्यङ्गीकृतं प्रामाण्यम् , तत्त्वावेदकत्वात्प्रच्याव्य व्यावहारिकत्वे स्थाप्यते, तथा च मिथ्याद्वैतग्राहिप्रमाणैरद्वैतश्रुतेर्न बाधः, एकस्यां रज्ज्वां दण्डस्रगादिद्वैतदर्शनादित्ययं मुख्यः परिहार इति भावः । एवमद्वैतसमन्वयस्याविरोधार्थं द्वैतस्य मिथ्यात्वं साधयति - यस्मात्तयोरिति । स्वरूपैक्ये कार्यकारणत्वव्याघात इत्यत आह - व्यतिरेकेणेति । कारणात्पृथक्सत्त्वशून्यत्वं कार्यस्य साध्यते नैक्यमित्यर्थः । वागारभ्यं नाममात्रं विकारो न कारणात्पृथगस्तीत्येवकारार्थ इति श्रुतिं योजयति - एतदुक्तमिति । आरम्भणशब्दार्थान्तरमाह - पुनश्चेति । अपागादग्नित्वमपगतं कारणमात्रत्वात् । त्रीणि तेजोबन्नानां रूपाणि रूपतन्मात्रात्मकानि सत्यम् । तेषामपि सन्मात्रत्वात्सदेव शिष्यत इत्यभिप्रायः । जीवगजतोर्ब्रह्मान्यत्वे प्रतिज्ञाबाध इत्याह - न चान्यथेति । तयोरनन्यत्वे क्रमेण दृष्टान्तावाह - तस्माद्यथेति । प्रतिज्ञाबलादित्यर्थः । दृष्टं प्रातीतिकं नष्टमनित्यं यत्स्वरूपं तद्रूपेणानुपाख्यत्वात्सत्तास्फूर्तिशून्यत्वादनन्यत्वमिति सम्बन्धः । शुद्धाद्वैतं स्वमतमुक्त्वा भेदाभेदमतमुत्थापयति - नन्विति । अनेकाभिः शक्तिभिस्तदधीनप्रकृतिभिः परिणामैर्युक्तमित्यर्थः । भेदाभेदमते सर्वव्यवस्थासिद्धिरत्यन्ताभेदे द्वैतमानबाध इत्यभिमन्यमानो दूषयति - नैवं स्यादिति । एवकारवाचारम्भणशब्दाभ्यां विकारसत्तानिषेधात्परिणामवादः श्रुतिबाह्य इत्यर्थः । किञ्च संसारस्य सत्यत्वे तद्विशिष्टस्य जीवस्य ब्रह्मैक्योपदेशो न स्याद्विरोधादित्याह - स आत्मेति । एकत्वं ज्ञानकर्मसमुच्चयसाध्यमित्युपदेशार्थमित्याशङ्क्या असीतिपदविरोधान्मैवमित्याह - स्वयमिति । अतस्तत्त्वज्ञानबाध्यत्वात्संसारित्वं मिथ्येत्याह - अतश्चेति । स्वतःसिद्धोपदेशादित्यर्थः । यदुक्तं व्यवहारार्थं नानात्वं सत्यमिति, तत्किं ज्ञानादूर्ध्वं व्यवहारार्थं प्राग्वा । नाद्य इत्याह - बाधिते चेति । स्वभावोऽत्राविद्या तया कृतः स्वाभाविकः । ज्ञानादूर्ध्वं प्रमातृत्वादिव्यवहारस्याभावान्नानात्वं न कल्प्यमित्यर्थः । न द्वितीयः, ज्ञानात्प्राक्कल्पितनानात्वेन व्यवहारोपपत्तौ नानात्वस्य सत्यत्वासिद्धेः । यत्तु प्रमातृत्वादिव्यवहारः सत्य एव मोक्षावस्थायां निवर्तत इति, तन्नेत्याह - न चायमिति । संसारसत्यत्वे तदवस्थायां जीवस्य ब्रह्मत्वं न स्यात् , भेदाभेदयोरेकदैकत्र विरोधात् । अतोऽसंसारिब्रह्माभेदस्य सदातनत्वावगमात्संसारोऽपि मिथ्यैवेत्यर्थः । किञ्च यथा लोके कश्चित्तस्करबुद्ध्या भटैर्गृहीतोऽनृतवादी चेत्तप्तपरशुं गृह्णाति स दह्यते बध्यते च, तथा नानात्ववादी दह्यते सत्यवादी चेन्न दह्यते मुच्यते च । तथैतदात्म्यमिदं सर्वमित्येकत्वदर्शी मुच्यत इति श्रुतदृष्टान्तेनैकत्वं सत्यं नानात्वं मिथ्येत्याह - तस्करेति । व्यवहारगोचरो नानात्वव्यवहाराश्रयः । नानात्वनिन्दयाप्येकत्वमेव सत्यमित्याह - मृत्योरिति । किञ्चास्मिन्भेदाभेदमते जीवस्य ब्रह्माभेदज्ञानाद्भेदज्ञाननिवृत्तेर्मुक्तिरिष्टा सा न युक्ता, भेदज्ञानस्य भ्रमत्वानभ्युपगमात् , प्रमायाः प्रमान्तराबाध्यत्वादित्याह - न चास्मिन्निति । वैपरीत्यस्यापि सम्भवादिति भावः । इदानीं प्रत्यक्षादिप्रामाण्यान्यथानुपपत्त्या नानात्वस्य सत्यत्वमिति पूर्वपक्षबीजमुद्घाटयति - नन्वित्यादिना । एकत्वस्यैकान्तः कैवल्यम् । व्याहन्येरन्नप्रमाणानि स्युः । उपजीव्यप्रत्यक्षादिप्रामाण्याय वेदान्तानां भेदाभेदपरत्वमुचितमिति भावः । ननु कर्मकारकाणां यजमानादीनां विद्याकारकाणां शिष्यादीनां च कल्पितभेदमाश्रित्य कर्मज्ञानकाण्डयोः प्रवृत्तेः स्वप्रमेयस्य धर्मादेरबाधात्प्रामाण्यमव्याहतमित्याशङ्क्याह - कथं चानृतेनेति । धूलिकल्पितधूमेनानुमितस्य वह्नेरिव प्रमेयबाधापत्तेरिति भावः । तत्र द्वैतविषये प्रत्यक्षादीनां यावद्बाधं व्यावहारिकं प्रामाण्यमुपपद्यत इत्याह - अत्रोच्यत इत्यादिना । सत्यत्वं बाधाभावः । बाधो मिथ्यात्वनिश्चयः । वस्तुतो मिथ्यात्वेऽपि विकारेषु तन्निश्चयाभावेन प्रत्यक्षादिव्यवहारोपपत्तावुक्तदृष्टान्तं विवृणोति - यथा सुप्तस्य प्राकृतस्येति । एवं द्वैतप्रमाणानां व्यवहारकाले बाधशून्यार्थबोधकत्वं व्यावहारिकं प्रामाण्यमुपपाद्य द्वैतप्रमाणानां वेदान्तानां सर्वकालेषु बाधशून्यब्रह्मबोधकत्वं तात्त्विकं प्रामाण्यमुपपादयितुमुक्तशङ्कामनुवदति - कथं त्वसत्येनेति । किमसत्यात्सत्यं न जायते, किमुत सत्यस्य ज्ञानं न । आद्य इष्ट एव । न हि वयं वाक्योत्थज्ञानं सत्यमित्यङ्गीकुर्मः । अङ्गीकृत्यापि दृष्टान्तमाह - नैष दोष इति । सर्पेणादष्टस्यापि दष्टत्वभ्रान्तिकल्पितविषात्सत्यमरणमूर्च्छादिदर्शनादसत्यात्सत्यं न जायत इत्यनियम इत्यर्थः । दृष्टान्तान्तरमाह - स्वप्नेति । असत्यात्सर्पोदरादेः सत्यस्य दंशनस्नानादिज्ञानस्य कार्यस्य दर्शनाद्व्यभिचार इत्यर्थः । यथाश्रुतमादाय शङ्कते - तत्कार्यमपीति । उक्तमर्थं प्रकटयति - तत्र ब्रूम इत्यादिना । अवगतिर्वृत्तिः घटादिवत्सत्यापि प्रातिभासिकस्वप्नदृष्टवस्तुनः फलं चैतन्यं वा वृत्त्यभिव्यक्तमवगतिशब्दार्थः । प्रसङ्गाद्देहात्मवादोऽपि निरस्त इत्याह - एतेनेति । स्वप्नस्थावगतेः स्वप्नदेहधर्मत्व उत्थितस्य मया तादृशः स्वप्नोऽवगत इत्यबाधितावगतिप्रतिसन्धानं न स्यात् । अतो देहभेदेऽप्यनुसन्धानदर्शनाद्देहान्योऽनुसन्धातेत्यर्थः । असत्यात्सत्यस्य ज्ञानं न जायत इति द्वितीयनियमस्य श्रुत्या व्यभिचारमाह - तथा च श्रुतिरिति । न च स्त्रियो मिथ्यात्वेऽपि तद्दर्शनात्सत्यादेव सत्यायाः समृद्धेर्ज्ञानमिति वाच्यम् , विषयविशिष्टत्वेन दर्शनस्यापि मिथ्यात्वात्प्रकृतेऽपि सत्ये ब्रह्मणि मिथ्यावेदानुगतचैतन्याज्ज्ञानसम्भवाच्चेति भावः । असत्यात्सत्यस्येष्टस्य ज्ञानमुक्त्वानिष्टस्य ज्ञानमाह - तथेति । असत्यात्सत्यस्य ज्ञाने दृष्टान्तान्तरमाह - तथाकारादीति । रेखास्वकारत्वादिभ्रान्त्या सत्या अकारादयो ज्ञायन्त इति प्रसिद्धमित्यर्थः । एवमसत्यात्सत्यस्य जन्मोक्त्या तदर्थक्रियाकारि तत्सत्यमिति नियमो भग्नः, अनृतात्सत्यस्य ज्ञानोक्त्या यदनृतकरणगम्यं तद्बाध्यं कूटलिङ्गानुमितवह्निवदिति व्याप्तिर्भग्ना । तथा च कल्पितानामपि वेदान्तानां सत्यब्रह्मबोधकत्वं सम्भवतीति तात्त्विकं प्रामाण्यमिति भावः । यदुक्तमेकत्वनानात्वव्यवहारसिद्धये उभयं सत्यमिति, तन्न । भेदस्य लोकसिद्धस्यापूर्वफलवदभेदविरोधेन सत्यत्वकल्पनायोगात् । किञ्च यद्युभयोरेकदा व्यवहारः स्यात्तदा स्यादपि सत्यत्वम् । नैवमस्ति । एकत्वज्ञानेन चरमेणानपेक्षेण नानात्वस्य निःशेषं बाधात् , शुक्तिज्ञानेनेव रजतस्येत्याह - अपि चान्त्यमिति । ननूपजीव्यद्वैतप्रमाणविरोधादेकत्वावगतिर्नोत्पद्यत इत्यत आह - न चेयमिति । तत्किलात्मतत्त्वमस्य पितुर्वाक्यात्श्वेतकेतुर्विज्ञातवानिति ज्ञानोत्पत्तेः श्रुतत्वात्सामग्रीसत्त्वाच्चेत्यर्थः । व्यावहारिकगुरुशिष्यादिभेदमुपजीव्य ज्ञायमानवाक्यार्थावगतेः प्रत्यक्षादिगतं व्यावहारिकं प्रामाण्यमुपजीव्यम् , तच्च पारमार्थिकैकत्वावगत्या न विरुध्यते । किन्तु तया विरोधादनुपजीव्यं प्रत्यक्षादेस्तात्त्विकं प्रामाण्यं बाध्यत इति भावः । किञ्चैकत्वावगतेः फलवत्प्रमात्वान्निष्फलो द्वैतभ्रमो बाध्य इत्याह - न चेयमिति । ननु सर्वस्य द्वैतस्य मिथ्यात्वे स्वप्नो मिथ्या जाग्रत् सत्यमित्यादिर्लौकिको व्यवहारः, सत्यं चानृतं च सत्यमभवदिति वैदिकश्च कथमित्याशङ्क्य यथा स्वप्ने इदं सत्यमिदमनृतमिति तात्कालिकबाधाबाधाभ्यां व्यवहारस्तथा दीर्घस्वप्न 'पीत्युक्तस्वप्नदृष्टान्तं स्मारयति - प्राक्चेति । व्यवहारार्थे नानात्वं सत्यमिति कल्पनमसङ्गतमित्युपसंहरति - तस्मादिति । नेदं कल्पितम् , किन्तु श्रुतमिति शङ्कते - नन्विति । कार्यकारणयोरनन्यत्वांशेऽयं दृष्टान्तः, न परिणामित्वे, ब्रह्मणः कूटस्थत्वश्रुतिविरोधादिति परिहरति - नेत्युच्यत इति । सृष्टौ परिणामित्वं प्रलये तद्राहित्यं च क्रमेणाविरुद्धमिति दृष्टान्तेन शङ्कते - स्थितीति । कूटस्थस्य कदाचिदपि विक्रिया न युक्ता कूटस्थत्वव्याघातादित्याह - नेति । कूटस्थत्वासिद्धिमाशङ्क्याह - कूटस्थस्येति । कूटस्थस्य निरवयवस्य पूर्वरूपत्यागेनावस्थान्तरात्मकपरिणामायोगाच्छुक्तिरजतवद्विवर्त एव प्रपञ्च इति भावः । किञ्च निष्फलस्य जगतः फलवन्निष्प्रपञ्चब्रह्मधीशेषत्वेनानुवादान्न सत्यतेत्याह - न च यथेत्यादिना । 'तं यथा यथोपासते तदेव भवति' इति श्रुतेर्ब्रह्मणः परिणामित्वविज्ञानात्तत्प्राप्तिर्विदुषः फलमित्याशङ्क्याह - न हि परिणामवत्त्वेति । 'ब्रह्मविदाप्नोति परम्' इति श्रुतकूटस्थनित्यमोक्षफलसम्भवे दुःखानित्यपरिणामित्वफलकल्पनायोगादिति भावः । ननु पूर्वं 'जन्माद्यस्य यतः' इति ईश्वरकारणप्रतिज्ञा कृता । अधुना तदनन्यत्वमित्यन्ताभेदप्रतिपादने ईशित्रीशितव्यभेदाभावात्तद्विरोधः स्यादिति शङ्कते - कूटस्थेति । कल्पितद्वैतमपेक्ष्येश्वरत्वादिकं परमार्थतोऽनन्यत्वमित्यविरोधमाह - नेत्यादिना । अविद्यात्मके चिदात्मनि लीने नामरूपे एव बीजं तस्य व्याकरणं स्थूलात्मना सृष्टिस्तदपेक्षत्वादीश्वरत्वादेर्न विरोध इत्यर्थः । सङ्गृहीतार्थं विवृणोति - तस्मादित्यादिना । तत्वान्यत्वाभ्यामिति । नामरूपयोरीश्वरत्वं वक्युमशक्यं जडत्वात् । नापीश्वरादन्यत्वं कल्पितस्य पृथक्सत्तास्फूर्त्योरभावादित्यर्थः । संस्कारात्मकनामरूपयोरविद्यैक्यविवक्षया ब्रूते - मायेति । नामरूपे चेदीश्वरस्यात्मभूते तर्हीश्वरो जड इत्यत आह - ताभ्यामन्य इति । अन्यत्वे व्याकरणे च श्रुतिमाह - आकाश इत्यादिना । अविद्याद्युपाधिना कल्पितभेदेन बिम्बस्थानस्येश्वरत्वम् , प्रतिबिम्बभूतानां जीवानां नियम्यत्वमित्याह - स च स्वात्मभूतानिति । न चात्र नानाजीवा भाष्योक्ता इति भ्रमितव्यम् , बुद्ध्यादिसङ्घातभेदेन भेदोक्तेः । अविद्याप्रतिबिम्बस्त्वेक एव जीव इत्युक्तम् । परमार्थत ईश्वरत्वादिद्वैताभावे श्रुतिमाह - तथा चेति । कथं तर्हि कर्तृत्वादिकमित्यत आह - स्वभावस्त्विति । अनाद्यविद्यैव कर्तृत्वादिरूपेण प्रवर्तत इत्यर्थः । भक्ताभक्तयोः पापसुकृतनाशकत्वादीश्वरस्य वास्तवमीश्वरत्वमित्यत आह - नादत्त इति । न संहरतीत्यर्थः । तेन स्वरूपज्ञानावरणेन कर्ताहमीश्वरो मे नियन्तेत्येवं भ्रमन्ति । उक्तार्थः सूत्रकारसम्मत इत्याह - सूत्रकारोऽपीति । न केवलं लौकिकव्यवहारार्थं परिणामप्रक्रियाश्रयणं किन्तूपासनार्थं चेत्याह - परिणामप्रक्रियां चेति ।
तदुक्तम् 'कृपणाधीः परिणाममुदीक्षते क्षयितकल्मषधीस्तु विवर्तताम्' इति ॥१४॥ 【भाष्यम्】 【भाष्यम्】 एवं तदनन्यत्वे प्रत्यक्षादिविरोधं परिहृत्यानुमानमाह - भावे चेति । कारणस्य भावे सत्त्वे उपलब्धौ च कार्यस्य सत्त्वादुपलब्धेश्चानन्यत्वमिति सूत्रार्थः । घटो मृदनन्यः, मृत्सत्त्वोपलब्धिक्षणनियतसत्त्वोपलब्धिमत्त्वात्मृद्वत् । अन्यत्वेऽप्ययं हेतुः किं न स्यादित्यप्रयोजकत्वमाशङ्क्य निरस्यति - न चेति । मृद्घटयोरन्यत्वे गवाश्वयोरिव हेतूच्छित्तिः स्यादित्यर्थः । गवाश्वयोर्निमित्तनैमित्तिकत्वाभावाद्धेत्वभावः । अतो मृद्घटयोस्तेन हेतुना निमित्तादिभावः सिध्यति नानन्यत्वमित्यर्थान्तरतामाशङ्कायह - न च कुलालेति । न चोपादानोपादेयभावेनार्थान्तरता, मृद्दृष्टान्ते तद्भावाभावेऽपि हेतुसत्त्वादन्यत्वे गवाश्ववत्तद्भावायोगाच्चेति भावः । कुलालघटयोर्निमित्तादिभावे सत्यप्यन्यत्वात् कुलालसत्त्वनियतोपलब्धिर्घटस्य नैवेत्यक्षरार्थः । यथाश्रुतसूत्रस्थहेतोर्व्यभिचारं शङ्कते - नन्विति । अग्निभाव एव धूमोपलब्धिरिति नियमात्मको हेतुस्तत्र नास्तीत्याह - नेति । अविच्छिन्नमूलदीर्धरेखावस्थधूमे नियमोऽस्तीति व्यभिचार इत्याशङ्कते - अथेति । तद्भावनियतभावत्वे सति तद्बुद्ध्यनुरक्तबुद्धिविषयत्वस्य हेतोर्विवक्षितत्वान्न व्यभिचार इत्याह - नैवमिति । आलोकबुद्ध्यनुरक्तबुद्धिग्राह्ये रूपे व्यभिचारनिरासाय सत्यन्तम् । आलोकाभावेऽपि घटादिरूपसत्त्वान्न व्यभिचारः । उक्तधूमविशेषस्याग्निबुद्धिं विनाप्युपलम्भान्न तत्र व्यभिचार इत्यर्थः । तथा च तयोः कार्यकारणयोर्भावेन सत्तयानुरक्तां सहकृतामिति भाष्यार्थः । यद्वा । तद्भावः सामानाधिकरण्यं तद्विषयकबुद्धिग्राह्यत्वं हेतुं वदामः । मृद्घट इति सामानाधिकरण्यबुद्धिदर्शनादग्निधूर्म इत्यदर्शनादित्यर्थः । अनुमानार्थत्वेन सूत्रं व्याख्याय पाठान्तरेण प्रत्यक्षपरतया व्याचष्टे - भावाच्चेति । पूर्वसूत्रोक्तारम्भणशब्दसमुच्चयार्थश्चकारः । न चैकः पट इति प्रत्यक्षं पटस्य तन्तुभ्यः पृथक्सत्त्वे प्रमाणम् , अपृथक्सत्ताकमिथ्याकार्यविषयत्वेनाप्युपपत्तेः । अत आतानवितानसंयोगवन्तस्तन्तव एव पट इति प्रत्यक्षोपलब्धेः सत्त्वादनन्यत्वमित्यर्थः । पटन्यायं तन्त्वादावतिदिशति - तथेत्यादिना । प्रत्यक्षोपलब्ध्या तत्तत्कार्ये कारणमात्रं परिशिष्यत इत्यर्थः । यत्र प्रत्यक्षं नास्ति तत्र कार्ये विमतकारणादभिन्नम् , कार्यत्वात् , पटवदित्यनुमेयमित्याह - अनयेति । कारणपरिशेषे प्रधानादिकं परिशिष्यताम् , न ब्रह्मेत्यत आह - तत्र सर्वेति ।
ब्रह्मणि वेदान्तानां सर्वेषां तात्पर्यस्योक्तत्वात्तदेवाद्वितीयं परिशिष्यते न कारणान्तरमप्रामाणिकत्वादिति भावः ॥१५॥ 【भाष्यम्】 【भाष्यम्】 इदं जगत्सदात्मैवेति सामानाधिकरण्यश्रुत्या सृष्टेः प्राक्कार्यस्य कारणात्मना सत्त्वं श्रुतम् , तदन्यथानुपपत्त्योत्पन्नस्यापि जगतः कारणादनन्यत्वमित्याह सूत्रकारः - सत्त्वाच्चेति । श्रुत्यर्थे युक्तिमप्याह - यच्च यदात्मनेति । घटादिकं प्राग्मृदाद्यात्मना वर्तते तत उत्पद्यमानत्वात्सामान्यतो व्यतिरेकेण सिकताभ्यस्तैलवदित्यर्थः । कारणवत्कार्यस्यापि सत्त्वात्सत्त्वभेदे मानाभावात्कार्यस्य कारणादभिन्नसत्ताकत्वमिति सूत्रस्यार्थान्तरमाह - यथा चेति ।
इदानीं सतः कार्यस्य प्रागुत्तरकालयोरसत्त्वायोगात्सत्त्वाव्यभिचारः । तच्च सत्त्वं सर्वानुस्यूतचिन्मात्रमेकम् । तदभेदेन सती मृत्सन् घट इति भासमानयोः कार्यकारणयोरनन्यत्वमित्यर्थः ॥१६॥ न चैवं घटपटयोरप्यैकसत्त्वाभेदादनन्यत्वं स्यादिति वाच्यम् , वस्तुत एकसत्त्वात्मनानन्यत्वस्येष्टत्वात् । तर्हि मृद्घटयोः को विशेषः । तादात्म्यमिति ब्रूमः । वस्तुतः सर्वत्र सत्तैक्येऽपि घटपटयोर्भेदेन सत्ताया भिन्नत्वान्न तादात्म्यम् , कार्यकारणयोर्भेदस्य सत्ताभेदकत्वाभावादभिन्नसत्ताकत्वं तादात्म्यमिति विशेषः ॥१६॥ 【भाष्यम्】 【भाष्यम्】 उक्तं कार्यस्य प्राक्कारणात्मना सत्त्वमसिद्धमित्याशङ्क्य समाधत्ते - असदिति । 'अक्ताः शर्करा उपदध्यात्' इत्युपक्रमे केनाक्ता इति सन्देहे 'तेजो वै घृतम्' इति वाक्यशेषाद्धृतेनेति यथा निश्चयः, एवमत्रापि 'तत्सत्' इति वाक्यशेषात्सन्निश्चय इत्यर्थः । आसीदित्यतीतकालसम्बन्धोक्तेश्चासदव्याकृतमेव न शून्यमित्याह - असतश्च पूर्वापरेति । उक्तन्यायं वाक्यान्तरेऽतिदिशति - असद्वेति ।
क्रियमाणत्वविशेषणं शून्यस्यासम्भवीति भावः ॥१७॥ 【भाष्यम्】 【भाष्यम्】 सत्त्वानन्यत्वयोर्हेत्वन्तरमाह सूत्रकारः - युक्तेरिति । दध्याद्यर्थिनां क्षीरादौ प्रवृत्त्यन्यथानुपपत्तिर्युक्तिस्तया कार्यस्य प्राक्कारणानन्यत्वेन सत्त्वं सिध्यतीत्यर्थः । असतोऽपि कार्यस्य तस्मादुत्पत्तेः कारणत्वधिया तत्र प्रवृत्तिरित्यन्यथोपपत्तिमाशङ्क्याह - अविशिष्टे हीति । असत उत्पत्त्यभावादुत्पत्तौ वा सर्वस्मात्सर्वोत्पत्तिप्रसङ्गात्तत्तदुपादानविशेषे प्रवृत्तिर्न स्यादित्यर्थः । तदुक्तं साङ्ख्यवृद्धैः 'असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम्' इति । शक्तस्य कारणस्य शक्यकार्यकारित्वाच्छक्तिविषयस्य कार्यस्य सत्त्वमसतोऽशक्यत्वात् । किञ्च सत्कारणाभेदात्कार्यं सदित्युत्तरार्धार्थः । कार्यस्यासत्त्वेऽपि कुतश्चिदतिशयात्प्रवृत्तिनियमोपपत्तिरिति शङ्कते - अथेति । अतिशयः कार्यधर्मः कारणधर्मो वा । आद्ये धर्मित्वात्प्रागवस्थारूपस्य कार्यस्य सत्त्वं दुर्वारमित्याह - तर्ह्यतिशयवत्त्वादिति । द्वितीयेऽपि कार्यसत्त्वमायातीत्याह - शक्तिश्चेति । कार्यकारणाभ्यामन्या कार्यवदसति वा शक्तिर्न कार्यनियामिका, यस्य कस्यचिदन्यस्य नरशृङ्गस्य वा नियामकत्वप्रसङ्गादन्यत्वासत्त्वयोः शक्तावन्यत्र चाविशेषात् । तस्मात्कारणात्मना लीनं कार्यमेवाभिव्यक्तिनियामकतया शक्तिरित्येष्टव्यम् , ततः सत्कार्यसिद्धिरित्यर्थः । किञ्च कार्यकारणयोरन्यत्वे मृद्घटौ भिन्नौ सन्ताविति भेदबुद्धिः स्यादित्याह - अपि चेति । तयोरन्यत्वेऽपि समवायवशात्तथा बुद्धिर्नोदेतीत्याशङ्क्य समवायं दूषयति - समवायेति । समवायः समवायिभिः सम्बद्धोन न वा । आद्ये स सम्बन्धः किं समवायः उत स्वरूपम् । आद्ये समवायानवस्था । द्वितीये मृद्घटयोरपि स्वरूपसम्बन्धादेवोपपत्तेः समवायासिद्धिः । असम्बद्ध इति पक्षे दोषमाह - अनभ्युपगम्यमान इति । द्रव्यगुणादीनां विशिष्टधीविरहप्रसङ्गः । असम्बद्धस्य विशिष्टधीनियामकत्वायोगादित्यर्थः । विशिष्टधीनियामको हि सम्बन्धः, न तस्य नियामकान्तरापेक्षा, अनवस्थानात् , अतः स्वपरनिर्वाहकः समवाय इति शङ्कते - अथेति । सम्बध्यते । स्वस्य स्वसम्बन्धिनश्च विशिष्टधियं करोतीत्यर्थः । प्रतिबन्द्या दूषयति - संयोगोऽपीति । यत्तु गुणत्वात्संयोगस्य समवायापेक्षा न सम्बन्धत्वादिति, तन्न, धर्मत्वात् समवायस्यापि सम्बन्धान्तरापत्तेरसम्बद्धस्याश्वत्वस्य गोधर्मत्वादर्शनात् । किञ्च 'निष्पापत्वादयो गुणाः' इति श्रुतिस्मृत्यादिषु 'व्यवहारादिष्टधर्मो गुणः' इति परिभाषया समायस्यापि गुणत्वाच्च । 'जातिविशेषो गुणत्वम्' इति परिभाषा तु समवायसिध्युत्तरकालीना, नित्यानेकसमवेता जातिरिति ज्ञानस्य समवायज्ञानाधीनत्वात् । अतः समवायसिद्धेः प्राक्संयोगस्य गुणत्वमसिद्धमिति दिक् । किञ्च प्रतीत्यनुसारेण वस्तु स्वीकार्यमन्यथा गोप्रतितेरश्व आलम्बनमित्यस्यापि सुवचत्वात् । तथा च मृद्घट इत्यभेदप्रतीतेरभेद एव स्वीकार्यः, ताभ्यामत्यन्तभिन्नस्य समवायस्य तन्नियामकत्वासम्भवादित्याह - तादात्म्येति । एवं प्रतीत्यनुसारेण कार्यस्य कारणात्मना सत्त्वम् , स्वरूपेण तु मिथ्यात्मेत्युक्तम् । वृत्त्यनिरूपणाच्च तस्य मिथ्यात्वमित्याह - कथं चेति । तत्राद्यमनूद्यवयविनः पटादेस्तन्त्वादिष्ववयवेषु त्रित्वादिवत्स्वरूपेण वृत्तिरुतावयवश इति विकल्पाद्यं दूषयति - यदीत्यादिना । व्यासज्यवृत्तिवस्तुप्रत्यक्षस्य यावदाश्रयप्रत्यक्षजन्यत्वात्संवृतपटादेर्यावदवयवानामप्रत्यक्षत्वादप्रत्यक्षत्वं प्रसज्येतेत्यर्थः । द्वितीयं शङ्कते - अथेति । यथा हस्ते कोशे चावयवशः खङ्गो वर्तमानो हस्तमात्रग्रहेऽपि गृह्यते, एवं यत्किञ्चिदवयवग्रहेणावयविनो ग्रहसम्भवेऽप्यवयवानामनवस्था स्यादिति दूषयति - तदापीति । आद्यद्वितीयमुद्भाव्य दूषयति - अथ प्रत्यवयवमित्यादिना । एकस्मिंस्तन्तौ पटवृत्तिकाले तन्त्वन्तरे वृत्तिर्न स्यात् , वृत्तावनेकत्वापत्तेरित्यर्थः । यथा युगपदनेकव्यक्तिषु वृत्तावपि जातेरनेकत्वदोषो नास्ति तथावयविन इत्याशङ्कते - गोत्वेति । जातिवदवयविनो वृत्तिरसिद्धा अनुभवाभाविदिति परिहरति - न, तथेति । दोषान्तरमाह - प्रत्येकेति । अधिकारात्सम्बन्धात् । यथा देवदत्तः स्वकार्यमध्ययनं ग्रामेऽरण्ये वा करोति, तथा गौरवयवी स्वकार्यं क्षीरादिकं शृङ्गपुच्छादावपि कुर्यादित्यर्थः । एवं वृत्त्यनिरूपणादनिर्वाच्यत्वं कार्यस्य दर्शितम् । सम्प्रत्यसत्कार्यवादे दोषान्तरमाह - प्रागिति । यथा घटश्चलतीत्युक्ते चलनक्रियां प्रत्याश्रयत्वरूपं कर्तृत्वं घटस्य भाति तथा पटो जायत इति जनिक्रियाकर्तृत्वमनुभूयते । अतो जनिकर्तुः जनेः प्राक्सत्त्वं वाच्यम् । कर्तुरसत्त्वे क्रियाया अप्यसत्त्वापत्तेरित्यर्थः । जनेरनुभवसिद्धेऽपि सकर्तृकत्वे क्रियात्वेनानुमानमाह - उत्पत्तिश्चेति । असतो घटस्योत्पत्तौ कर्तृत्वासम्भवेऽपि कुलालादेः सत्त्वात्कर्तृत्वमित्याशङ्कयाह - घटस्य चेति । घटोत्पत्तिवदसत्कपालाद्युत्पत्तिरित्यतिदिशति - तथेति । शङ्कामनूद्य दोषमाह - तथा चेति । अनुभवविरोध इत्यर्थः । उत्पत्तिर्भावस्याद्याविक्रियेति स्वमतेन कार्यसत्त्वमानीतम् , सम्प्रति कार्यस्योत्पत्तिर्नाम स्वकारणे समवायःस्वस्मिन् सत्तासमवायो वेति तार्किकमतमाशङ्कते - अथेति । तन्मतेनापि कार्यस्य सत्त्वमावश्यकम् , असतः सम्बन्धित्वायोगादित्याह - कथमिति । असतोर्वेति दृष्टान्तोक्तिः । ननु नरशृङ्गादिवत्कार्यं सर्वदा सर्वत्रासन्न भवति किन्तूत्पत्तेः प्राक्ध्वंसानन्तरं चासत्मध्ये तु सदेवेति वैषम्यात्सम्बन्धित्वोपपत्तिरित्याशङ्क्याह - अभावस्येति । अत्राभावशब्दा असच्छब्दापरपर्याया व्याख्येयाः । असतः कालेनासम्बन्धात्प्राक्त्वं न युक्तमित्यर्थः । ननु कारकव्यापारादूर्ध्वभाविनः कार्यस्य वन्ध्यापुत्रतुल्यत्वं कथमित्यत आह - यदि चेति । कार्याभावोऽसत्कार्यमित्यर्थ इत्युपापत्स्यत उपपन्नमभविष्यदित्यन्वयः । कस्तर्हि निर्णयः, तत्राह - वयं त्विति । 'नासतो विद्यते भावः' इति स्मृतेरिति भावः । सत्कार्यवादे कारकवैयर्थ्यं शङ्कते - नन्विति । सिद्धकारणानन्यत्वाच्च कार्यस्य सिद्धत्वमित्याह - तदनन्यत्वाच्चेति । अनिर्वाच्यकार्यात्मना कारणस्याभिव्यक्त्यर्थः कारकव्यापार इत्याह - नैष दोष इति । कार्यसत्यत्वमिच्छतां साङ्ख्यानां सत्कार्यवादे कारकवैयर्थ्यं दोष आपतति, अभिव्यक्तेरपि सत्त्वात् । अद्वैतवादिनां त्वघटितघठनावभासन चतुरमायामहिम्ना स्वप्नवद्यथादर्शनं सर्वमुपपन्नम् । विचार्यमाणे सर्वमयुक्तम् , युक्तत्वे द्वैतापत्तेरिति मुख्यं समाधानं समाधानान्तराभावात् । ननु कारणाद्भिन्नमसदेवोत्पद्यत इति समाधानं किं न स्यादित्याशङ्क्यासत्पक्षस्य दूषणमुक्तं स्मरेत्याह - कार्याकारोऽपीति । अतः कारणाद्भेदाभेदाभ्यां दुर्निरूपस्य सदसद्विलक्षणस्यानिर्वाच्याभिव्यक्तिरनिर्वाच्यकारकव्यापाराणां फलमिति पक्ष एव श्रेयानिति भावः । ननु मृद्यदृष्टः पृथुबुध्नत्वाद्यवस्थाविशेषो घटे दृश्यते । तथा च घटो मृद्भिन्नः, तद्विरुद्धविशेषवत्त्वात् , वृक्षवदित्यत आह - न चेति । वस्तुतोऽन्यत्वं सत्यो भेदः । हेतोर्व्यभिचारस्थलान्तरमाह - तथा प्रतिदिनमिति । प्रत्यहं पित्रादिदेहस्यावस्थाभेदेऽपि जन्मनाशयोरभावादभेदो युक्तः । दार्ष्टान्तिके तु मृदादिनाशे सति घटादिकं जायत इति जन्मविनाशरूपविरुद्धधर्मवत्त्वात्कार्यकारणयोरभेदो न युक्त इति शङ्कते - जन्मेति । कारणस्य नाशाभावाद्धेत्वसिद्धिरिति परिहरति - नेति । दधिघटादिकार्यान्वितत्वेन क्षीरमृदादीनां प्रत्यक्षत्वान्नाशासिद्धिरित्यर्थः । ननु यत्रान्वयो दृश्यते तत्र हेत्वसिद्धावपि यत्राङ्कुरादौ वटबीजादीनामन्वयो न दृश्यते तत्र हेतुसत्त्वाद्वसत्वन्यत्वं स्यादित्यत आह - अदृश्येति । तत्राप्यङ्कुरादौ बीजाद्यवयवानामन्वयान्न स्त एव जन्मविनाशौ किन्त्ववयान्तरोपचयापचयाभ्यां तद्व्यवहार इत्यर्थः । अस्तूपचयापचयलिङ्गेन वस्तुभेदानुमानं ततोऽसत उत्पत्तिः सतो नाश इत्याशङ्क्य व्यभिचारमाह - तत्रेदृगिति । पितृदेहेऽपि भेदसत्त्वान्न व्यभिचार इत्यत्र बाधकमाह - पित्रादीति । एतेनेति । कारणस्य सर्वकार्येष्वन्वयकथनेनेत्यर्थः । स्वपक्षे दोषं परिहृत्य परपक्षे प्रसञ्जयति - यस्य पुनरिति । असतः कार्यस्य कारकव्यापाराहितातिशयाश्रयत्वायोगादविषयत्वेऽपि मृदादेर्विषयत्वं स्यादिति शङ्कते - समवायीति । समवायिकारणात्कार्यं भिन्नमभिन्नं वेति विकल्प्याद्यं निरस्यति - नेत्यादिना । द्वितीयमाशङ्क्येष्टापत्तिमाह - समवायीति । कार्याणामवान्तरकारणानन्यत्वमुपसंहरति - तस्मादिति । परमकारणानन्यत्वं फलितमाह - तथा मूलेति । असत्कार्यवादे प्रतिज्ञाबाधः स्यादित्याह -
यदि तु प्रागुत्पत्तेरिति ॥१८॥ 【भाष्यम्】 【भाष्यम्】 कार्यमुपादानाद्भिन्नं तदुपलब्धावप्यनुपलभ्यमानत्वात्ततोऽधिकपरिमाणत्वाच्च मशकादिव शशक इत्यत्र व्यभिचारार्थं सूत्रम् - पटवच्चेति । द्वितीयहेतोर्व्यभिचारं स्फुटयति - यथा च संवेष्टनेति ।
आयामो दैर्घ्यम् ॥१९॥ 【भाष्यम्】 【भाष्यम्】 तत्रैव विलक्षणकार्यकारित्वं कार्यमुपादानाद्भिन्नम् , भिन्नकार्यकरत्वात् , सम्मतवदिति हेतुमाशङ्क्य व्यभिचारमाह सूत्रकारः - यथा च प्राणादीति । एवं जीवजगतेर्ब्रह्मानन्यत्वात्प्रतिज्ञासिद्धिरित्यधिकरणार्थमुपपसंहरति -
अतश्च कृत्स्नस्येति ॥२०॥ 【भाष्यम्】 【भाष्यम्】 जीवाभिन्नं ब्रह्म जगत्कारणमितिवदन्वेदान्तसमन्वयो विषयः । स यदि तादृग्ब्रह्मजगज्जनयेत्तर्हि स्वानिष्टं नरकादिकं न जनयेत्स्वतन्त्रचेतनत्वादिति न्यायेन विरुध्यते न वेति सन्देहे पूर्वोक्तजीवानन्यत्वमुपजीव्य जीवदोषा ब्रह्मणि प्रसज्येरन्निति पूर्वपक्षसूत्रं गृहीत्वा व्याचष्टे - इतरव्यपदेशादित्यादिना । पूर्वपक्षे जीवाभिन्ने समन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलम् । हिताकरणेत्यत्र नञ्व्यत्यासेनाहितकरणं दोषो व्याख्यातः । आदिपदोक्तं भ्रान्त्यादिकमापादयति -
न च स्वयमित्यादिना ॥२१॥ 【भाष्यम्】 【भाष्यम्】 जीवेशयोरभेदाज्जीवजगतेर्देषा ब्रह्मणि स्युः ब्रह्मगताश्च सृष्टिसंहारशक्तिसर्वस्मर्तृत्वादयो गुणा जीवे स्युः । न चेष्टापत्तिः । जीवस्य स्वशरीरेऽपि संहारसामर्थ्यादर्शनादिति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे - तुशब्द इत्यादिना । जीवेश्वरयोर्लोके बिम्बप्रतिबिम्बयोरिव कल्पितभेदाङ्गीकाराद्धर्मव्यवस्थेति सिद्धान्तग्रन्थार्थः । यदि वयं जीवं स्रष्टारं ब्रूमस्तदा दोषाः प्रसज्यन्ते न तु तं ब्रूम इत्यन्वयः । किञ्चाभेदाज्ञानादूर्ध्वं वा दोषा आपाद्यन्ते, पूर्वं वा । नाद्य इत्याह - अपि चेति । उक्तं मिथ्याज्ञानविजृम्भितत्वं स्फुटयति - अविद्येति । कर्तृत्वादिबुद्धिधर्माध्यासे देहधर्माध्यासं दृष्टान्तयति - जन्मेति । द्वितीयं प्रत्याह - अबाधिते त्विति ।
ज्ञानादूर्ध्वं स्रष्टृत्वादिधर्माणां बाधात्पूर्वं च कल्पितभेदेन व्यवस्थोपपत्तेर्न किञ्चिदवद्यमित्यर्थः ॥२२॥ 【भाष्यम्】 【भाष्यम्】 नन्वखण्डैकरूपे ब्रह्मणि कथं जीवेश्वरवैचित्र्यम् , कथं च तत्कार्यवैचित्र्यमित्यनुपपत्तिं दृष्टान्तैः परिहरति सूत्रकारः - अश्मादिवच्चेति । किम्पाको महातालफलम् । तत्तत्कार्यसंस्काररूपानादिशक्तिभेदाद्वैचित्र्यमिति भावः । सूत्रस्थचकारार्थमाह - श्रुतेश्चेति ।
ब्रह्म जीवगतदोषवत् , जीवाभिन्नत्वात् , जीववदित्याद्यनुमानं स्वतःप्रमाणनिरवद्यत्वादिश्रुतिबाधितम् । किञ्च कर्तृत्वभोक्तृत्वादिविकारस्य मिथ्यात्वाज्जीवस्यैव तावद्दोषो नास्ति कुतो बिम्बस्थानीयस्याशेषविशेषदर्शिनः परमेश्वरस्य दोषप्रसक्तिः । यत्तु ब्रह्म न विचित्रकार्यप्रकृति, एकरूपात्वात् , व्यतिरेकेण मृत्तन्त्वादिवदिति । तन्न । एकरूपे स्वप्नदृशीव विचित्रदृश्यवस्तुवैचित्र्यदर्शनेन व्यभिचारादित्यर्थः । तस्मात्प्रत्यगभिन्ने ब्रह्मणि समन्वयस्याविरोध इति सिद्धम् ॥२३॥ 【भाष्यम्】 【भाष्यम्】 उपसंहारदर्शनात् । असहायाद्ब्रह्मणो जगत्सर्गं ब्रुवन् समन्वयो विषयः । स किं यदसहायं तन्न कारणमिति लौकिकन्यायेन विरुध्यते न वेति सन्देहे पूर्वमौपाधिकजीवभेदाद्ब्रह्मणि जीवदोषा न प्रसज्यन्त इत्युक्तम् , सम्प्रति उपाधितोऽपि विभक्तं ब्रह्मणः प्रेरकादिकं सहकारि नास्ति ईशनानात्वाभावादिति प्रत्युदाहरणेन पूर्वपक्षसूत्रांशं व्याचष्टे - चेतनमित्यादिना । फलं पूर्ववत् । कारकाणामुपसंहारो मेलनम् । उक्तन्यायस्य क्षीरादौ व्यभिचार इति सिद्धान्तयति - नैष दोष इति । शुद्धस्य ब्रह्मणोऽकारणत्वमिष्टमेव । विशिष्टस्येश्वरस्य तु मायैव सहाय इति भावेनाह - बाह्यमिति । क्षीरस्याप्यातञ्चनादिसहायोऽस्तीत्यसहायत्वहेतोर्न व्यभिचार इत्याशङ्क्य सहायाभावेऽपि यस्य कस्यचित्परिणामस्य क्षीरे दर्शनाद्व्यभिचारतादवस्थ्यमित्याह - नन्वित्यादिना । तर्हि सहायो व्यर्थः, तत्राह - त्वार्यत इति । ननु त्वार्यते क्षीरं दधिभावाय शैघ्र्यं कार्यत इति किमर्थं कल्प्यते, स्वतोऽशक्तं क्षीरं सहायेन शक्तं क्रियत इति किं न स्यात् , तत्राह - यदि चेति । शक्तस्य सहायसम्पदा किं कार्यमित्यत्राह - साधनेति । सहायविशेषाभावे कश्चिद्विकारः क्षीरस्य भवति, तत्र आतञ्चनप्रक्षेपौष्ण्याभ्यां तूत्तमदधिभावसामर्थ्यं व्यज्यत इत्यर्थः । तर्हि शक्तिव्यञ्जकोऽपि सहायो ब्रह्मणो वाच्यः, तत्राह - परिपूर्णेति । निरपेक्षमायाशक्तिकमित्यर्थः । तादृशशक्तौ मानमाह -
श्रुतिश्चेति ॥२४॥ 【भाष्यम्】 【भाष्यम्】 ननु ब्रह्म न कारणं चेतनत्वे सत्यसहायत्वान्मृदादिशून्यकुलालादिवदिति न क्षीरादौ व्यभिचार इति सूत्रव्यावर्त्यां शङ्कामाह - स्यदेतदिति । तस्यापि हेतोर्देवादौ व्यभिचार इत्याह - देवादिवदिति । लोक्यते ज्ञायतेऽर्थोऽनेनेति लोको मन्त्रार्थवादादिशास्त्रं वृद्धव्यवहारश्च । अभिध्यानं सङ्कल्पः । ननु देवाद्यूर्णनाभान्तदृष्टान्तेषु शरीरेषु चेतनत्वं नास्ति, बलाकापद्मिनीचेतनयोर्गर्भप्रस्थानकर्तृत्वे मेघशब्दः शरीरं च सहायोऽस्ति, अतो विशिष्टहेतोर्न व्यभिचार इति शङ्कते - स यदि ब्रूयादित्यादिना । व्यभिचारोऽस्तीति परिहरति - तं प्रति ब्रूयादिति ।
अयं दोषः दृष्टान्तवैषम्याख्यः । अत्र हि हेतौ चेतनत्वमहन्धीविषयत्वरूपं चित्तादात्म्यापन्नदेहसाधारणं ग्राह्यं न तु मुख्यात्मत्वम् , तव कुलालदृष्टान्ते साधनवैकल्यापत्तेः । असहायत्वं च चेतनस्य स्वातिरिक्तहेतुशून्यत्वम् , तदुभयं देवादिष्वस्तीति व्यभिचारः, देहस्य स्वान्तःपातित्वेन स्वातिरिक्तत्वाभावात् । तथा च कुलालवैलक्षण्यं देवादीनां घटादिकार्ये स्वातिरिक्तानपेक्षत्वात् । देववैलक्षण्यं ब्रह्मणः देहस्याप्यनपेक्षणात् । नरदेवादीनां कार्यारम्भे नास्त्येकरूपा सामग्री । श्रूयते हि महाभारते श्रीकृष्णस्य सङ्कल्पमात्रेण द्रौपद्याः पटपरम्परोत्पत्तिः । अतः सिद्धमसहायस्यापि ब्रह्मणः कारणत्वम् ॥२५॥ 【भाष्यम्】 【भाष्यम्】 कृत्स्नप्रसक्तिः । क्षीरदृष्टान्तेन ब्रह्म परिणामीति भ्रमोत्पत्त्या पूर्वपक्षे प्राप्ते शास्त्रार्थो विवर्तो न परिणाम इति निर्णयार्थमिदमधिकरणमिति पूर्वाधिकरणेनोत्तराधिकरणस्य कार्यत्वं सङ्गतिमाह - चेतनमिति । निरवयवाद्ब्रह्मणो जगत्सर्गं वदन् समन्वयो विषयः । स किं यन्निरवयवं तन्न परिणामीति न्यायेन विरुध्यते न वेति सन्देहे विरुध्यत इति पूर्वपक्षसूत्रं व्याचष्टे - कृत्स्नेति । ब्रह्म परिणामीति वदता वक्तव्यं ब्रह्म निरवयवं सावयवं वा । आद्ये सर्वस्य ब्रह्मणः परिणामात्मना स्थितिः स्यादित्युक्तं व्यतिरेकदृष्टान्तेन विवृणोति - यदि ब्रह्मेत्यादिना । पर्यणंस्यत्परिणतोऽभविष्यत् । एकदेशश्चावास्थास्यदपरिणतोऽभविष्यत् । उक्तश्रुतिभ्यो निरवयवत्वसिद्धेः फलितं दोषमाह - ततश्चेति । यदा परिणामव्यतिरेकेण मूलब्रह्मात्मा नास्ति तदात्मा द्रष्टव्य इत्युपदेशोऽर्थशून्यः स्यादिति दोषान्तरमाह - द्रष्टव्यतेति । ब्रह्मणः परिणामात्मना जन्मनाशाङ्गीकारे 'अजोऽमरः' इति श्रुतिविरोधश्चेत्याह - अजत्वादीति । सावयवत्वपक्षमाशङ्क्य सूत्रशेषेण परिहरति -
अथेत्यादिना ॥२६॥ 【भाष्यम्】 【भाष्यम्】 परिणामपक्षो दुर्घट इति यदुक्तं तदस्मदिष्टमेवेति विवर्तवादेन सिद्धान्तयति - श्रुतेरिति । स्वपक्षे पूर्वोक्तदोषद्वयं नास्तीति सूत्रयोजनया दर्शयति - तुशब्देनेत्यादिना । ईक्षितृत्वेन व्याकर्तृत्वेन चेक्षणीयव्याकर्तव्यप्रपञ्चात्पृथगीश्वरसत्त्वश्रुतेर्न कृत्स्नप्रसक्तिरित्याह - सेयं देवतेति । न्यूनाधिकभावेनापि पृथक्सत्त्वं श्रुतमित्याह - तावानिति । इतश्चास्त्यविकृतं ब्रह्मेत्याह - तथेति । 'स वा एष आत्मा हृदि' इति श्रुतेरस्ति दृश्यातिरिक्तं ब्रह्म । 'तदा' इति सुषुप्तिकालरूपविशेषणाच्चेत्यर्थः । लिङ्गान्तरमाह - तथेन्द्रियेति । भूम्यादेर्विकारस्येन्द्रियगोचरत्वात् 'न चक्षुषा गृह्यते' इत्यादिश्रुत्या ब्रह्मणस्तत्प्रतिषेधादवाङ्मनसगोचरत्वश्रुतेश्चास्ति कूटस्थं ब्रह्मेत्यर्थः । कृत्स्नप्रसक्तिदोषो नास्तीत्युक्त्वा द्वितीयदोषोऽपि नास्तीत्याह - न चेति । ननु ब्रह्म कार्यात्मनाप्यस्ति, पृथगप्यस्ति चेत्सावयवत्वं दुर्वारम् , निरवयवस्यैकस्य द्विधा सत्त्वायोगात् , अतो यद्द्विधाभूतं तत्सावयमिति तर्कविरुद्धं ब्रह्मणो निरवयवत्वमिति विवर्तमजानतः शङ्कां गूढाशय एव परिहरति - शब्दमूलं चेति । यदा लौकिकानां प्रत्यक्षदृष्टानामपि शक्तिरचिन्त्या तदा शब्दैकसमधिगम्यस्य ब्रह्मणः किमु वक्तव्यम् । अतो ब्रह्मणो निरवयवत्वं द्विधाभावश्चेत्युभयं यथाशब्दमभ्युपगन्तव्यम् । न तर्केण बाधनीयमित्यर्थः । प्रकृतिभ्यः प्रत्यक्षदृष्टवस्तुस्वभावेभ्यो यत्परं विलक्षणं केवलोपदेशगम्यं तदचिन्त्यस्वरूपमिति स्मृत्यर्थः । आशयानवबोधेन शङ्कते - ननु शब्देनापीति । यद्वा ब्रह्म परिणामीत्येकदेशिनामियं सिद्धान्तसूत्रव्याख्या दर्शिता तामाक्षिपति - नन्विति । शब्दस्य योग्यताज्ञानसापेक्षत्वादित्यर्थः । ननु ब्रह्म सावयवं निरवयवं वेति विकल्पाश्रयणे सर्वश्रुतिसमाधानं स्यादित्यत आह - क्रियेति । निरवयवत्वे ब्रह्मणः प्रकृतित्वश्रुतिविरोधः, सावयवत्वे निरवयवत्वशब्दविरोधः, विकल्पश्च वस्तुन्ययुक्तः, अतः प्रकारान्तरानुपलम्भाच्छ्रुतीनां प्रामाण्यं दुर्घटमिति प्राप्ते स्वाशयमुद्धाटयति - नैष दोष इति । निरवयवस्य वस्तुनः कूटस्थस्याप्यविद्यया कल्पितनामरूपविकाराङ्गीकाराद्दुर्घटत्वदोषो नास्ति । वास्तवकौटस्थ्यस्य कल्पितविकारप्रकृतित्वेनाविरोधादित्यर्थः । रूपभेदाङ्गीकारे सावयवत्वं स्यादित्याशङ्क्योक्तं विवृणोति - न हीत्यादिना । कृत्स्नप्रसक्तिं निरस्य दोषान्तरं निरस्यति - वाचारम्भणेति । ननु श्रुतिप्रतिपाद्यस्य परिणामस्य कथं मिथ्यात्मत्वम् , तत्राह - न चेयमिति । निष्प्रपञ्चब्रह्मधीशेषत्वेन सृष्टिरनूद्यते न प्रतिपाद्यत इत्यसकृदावेदितम् , अतो विवर्तवादे न कश्चिद्दोष इत्युपसंहरति -
तस्मादिति ॥२७॥ 【भाष्यम्】 【भाष्यम्】 पूर्वावस्थानाशेनावस्थान्तरं परिणामः, यथा दुग्धस्य दधिभावः । पूर्वरूपानुपमर्देनावस्थान्तरं विवर्तः, यथा शुक्तेः रजतभावः । तत्र ब्रह्मणो विवर्तोपादानत्वं स्वप्नसाक्षिदृष्टान्तेन द्रढयन्मायावादं स्फुटयति सूत्रकारः - आत्मनि चेति ।
रथयोगाः अश्वाः ॥२८॥ 【भाष्यम्】 【भाष्यम्】 किञ्च कृत्स्नप्रसक्त्यादीनां साङ्ख्यादिपक्षेऽपि दोषत्वान्नास्मान् प्रत्युद्भावनीयत्वम् , 'यश्चोभयोः समो दोषः' इति न्यायादित्याह सूत्रकारः - स्वपक्षेति । प्रधानस्य निरवयवत्वे कृत्स्नप्रसक्तिः सावयवत्वे च निरवयवत्वाभ्युपगमविरोध इत्यत्र शङ्कते - नन्विति । किं साम्यावस्था गुणानां विकारः, समुदायो वा । आद्ये तस्या न मूलप्रकृतित्वम् , विकारत्वात् । द्वितीये प्रपञ्चाभावः, समुदायस्यावस्तुत्वेन मूलाभावात् । अथ निरवयवा गुणा एव विविधपरिणामानां प्रकृतिरिति चेत् , तर्हि कृत्स्नप्रसक्तेर्मूलोच्छेदो दुर्वार इत्यभिप्रेत्य परिहरति - नैवमित्यादिना । इति यतोऽतः समानत्वान्न वयं पर्यनुयोज्या इत्यन्वयः । प्रत्येकं सत्त्वादिकमितरगुणद्वयसचिवं निरवयवं यद्युपादानं तर्हि कृत्स्नस्योपादानस्य कार्यरूपत्वप्रसक्तेर्मूलोच्छेद इत्युक्तेर्निरवयवत्वसाधकतर्कस्याभासत्वाद्गुणानां सावयवत्वमेव परिणामित्वेन मृदादिवदतो न कृत्स्नप्रसक्तिरेकदेशपरिणामसम्भवादिति शङ्कते - तर्केति । एतद्दोषाभावेऽपि दोषान्तरं स्यादिति परिहरति - एवमपीति । ननु गुणानामवयवास्तन्तुवदारम्भका न भवन्ति किन्तु कार्यवैचित्र्यानुमितास्तद्गताः शक्तय इत्याशङ्क्य मायिकशक्तिभिर्ब्रह्मणोऽपि सावयवत्वं तुल्यमित्याह - अथेत्यादिना । अणुवादेऽपि दोषसाम्यमाह - तथेति । साङ्ख्यवद्दोषः समान इति सम्बन्धः । निरवयवयोः परमाण्वोः संयोगो व्याप्यवृत्तिरव्याप्यवृत्तिर्वा । आद्ये तत्कार्यस्य द्व्यणुकस्यैकपरमाणुमात्रत्वापत्तिः, प्रथिम्नोऽधिकपरिमाणस्यानुपपत्तेः । न ह्यणोरण्वन्तरेणोपर्यधः पार्श्वतश्च व्याप्तौ ततोऽधिकद्रव्यं सम्भवति । द्वितीये परमाण्वोः सावयवत्वापत्तिरित्यर्थः । ननु त्वं चोर इत्युक्ते त्वमपि चोर इतिवद्दोषसाम्योक्तिरयुक्तेत्यत आह - परिहृतस्त्विति ।
उक्तं हि मायावादे स्वप्नवत्सर्वं सामञ्जस्यम् , अतो निरवयवे ब्रह्मणि समन्वयस्याविरोध इति सिद्धम् ॥२९॥ 【भाष्यम्】 【भाष्यम्】 सर्वोपेता । मायाशक्तिमतो ब्रह्मणो जगत्सर्गं वदतः समन्वयस्याशरीरस्य न मायेति न्यायेन विरोधोऽस्ति न वेति सन्देहे न्यायस्यानाभासत्वादस्तीति पूर्वपक्षे पूर्वोक्तशक्तिमत्त्वसमर्थनादेकविषयत्वं सङ्गतिं वदन् सिद्धान्तसूत्रं व्याचष्टे - एकस्येत्यादिना ।
पूर्वोत्तरपक्षयोर्विरोधाविरोधौ फलमित्युक्तमेवापादसमाप्तेरवगन्तव्यम् । अभ्यात्तः अभितो व्याप्तः । अवाकी वागिन्द्रियशून्यः । अनादरो निष्कामः ॥३०॥ 【भाष्यम्】 【भाष्यम्】 पूर्वपक्षन्यायमनूद्य दूषयति - विकरणत्वादिति ।
देवादिचेतनानां शक्तानामपि देहाभिमाने सत्येव कर्तृत्वं दृष्टं तदभावे सुषुप्ते तन्न दृष्टम् , अतो ब्रह्मणः शक्तत्वेऽप्यदेहत्वान्न कर्तृत्वम् । नाप्यदेहस्य शक्तिः सम्भवतीति शङ्कार्थः । विकरणस्य जीवस्य कर्तृत्वासम्भवेऽपीश्वरस्य सम्भवतीति, 'देवादिवदपि लोके' इत्यत्रोक्तम् । तत्र शरीरस्य कल्पितस्य मायाश्रयत्वायोगान्निर्विशेषचिन्मात्रस्यैव मायाधिष्ठानत्वं युक्तमिति समाधानार्थः ॥३१॥ 【भाष्यम्】 【भाष्यम्】 न प्रयोजनवत्त्वात् । परितृप्ताद्ब्रह्मणो जगत्सर्गं वदन् समन्वयो विषयः । स किमभ्रान्तश्चेतनो यः स निष्फलं वस्तु न रचयतीति न्यायेन विरुध्यते न वेति सन्देहे पूर्वमदेहस्यापि श्रुतिबलात् शक्तत्वोक्त्या कर्तृत्वमुक्तं तदाक्षेपसङ्गत्या पूर्वपक्षसूत्रं व्याचष्टे - अन्यथेत्यादिना । ईश्वरस्य फलाभावेऽपि परप्रयोजनाय सृष्टौ प्रवृत्तिरस्त्वित्याशङ्क्य श्रुतिमाह - भवति चेति । या प्रेक्षावत्प्रवृत्तिः सा स्वफलार्थेति लोकप्रसिद्धिः । न च दयालुप्रवृत्तौ व्यभिचारः, तस्यापि परदुःखासहनप्रयुक्तस्वचित्तव्याकुलतानिवृत्त्यर्थित्वादिति भावः । किञ्च गुरुतरायासस्य फलं वाच्यमित्याह - गुरुतरेति । तर्ह्यस्तीश्वरस्यापि प्रवृत्तिः स्वार्थेत्यत आह - यदीयमपीति । अस्वार्थत्वे प्रवृत्त्यभावः पूर्वोक्तः स्यादित्यर्थः । ईश्वरः प्रेक्षावान्न भवतीत्याशङ्क्य श्रुतिविरोधमाह - अथेत्यादिना ।
बुद्धेरपराधो विवेकाभावः ॥३२॥ 【भाष्यम्】 【भाष्यम्】 उक्तन्यायस्य राज्ञां लीलायां व्यभिचार इति सिद्धान्तसूत्रं व्याचष्टे - तुशब्देनेति । व्यतिरिक्तम् । लीलातिरिक्तम् । क्रीडारूपा विहारा येषु रम्यदेशेषु तेष्वित्यर्थः । कदाचिद्राजादीनां लीलाया अपि किञ्चित्फलं सुखोल्लासादिकं सम्भाव्येत तथापि निःश्वासादौ प्रेक्षावत्प्रवृत्तित्वमस्ति न तु स्वस्य तत्रोद्देश्यं फलं किञ्चिदस्तीति व्यभिचारस्थलान्तरमाह - यथा चेति । प्राणस्य स्वभावश्चलत्वं प्रारब्धं वोच्छ्वासादिहेतुः, ईश्वरस्य स्वभावः कालकर्मसहितमाया । नन्वीश्वरस्य जगद्रचनायाः केवललीलात्वं किमित्युच्यते, फलमेव किञ्चित् कल्प्यताम् , तत्राह - न हीति । आप्तकामत्वव्याघातादित्यर्थः । नन्वीश्वरस्तूष्णीं किमिति न तिष्ठति, किमिति स्वस्याफलां परेषां दुःखावहां सृष्टिं करोति, तत्राह - न च स्वभाव इति । कालधर्मादिसामाग्र्यां सत्यां सृष्टेरपरिहार्यत्वादित्यर्थः । यदुक्तं गुरुतरायासत्वात्फलं वाच्यमिति, तत्र हेत्वसिद्धिमाह - यद्यपीत्यादिना । अल्पप्रवृत्तेरपि फलं वाच्यं लोके तथादर्शनादित्यादितर्कस्यागमबाधमाह - यदि नामेति । सृष्टिश्रुतेरप्रवृत्तिर्नास्ति, सर्वज्ञत्वश्रुतेरुन्मत्तता नास्तीति विभागः । स्वप्नसृष्टिवदस्याः सृष्टेर्मायामात्रत्वान्न फलापेक्षेत्याह - न चेयमिति ।
न च निष्फलसृष्टिश्रुतीनामानर्थक्यम् , सफलब्रह्मधीशेषत्वेनार्थवत्त्वादित्युक्तं न विस्मर्तव्यमित्यर्थः ॥३३॥ 【भाष्यम्】 【भाष्यम्】 वैषम्यनैर्घृण्ये न । निर्देषाद्ब्रह्मणो जगत्सर्गं ब्रुवन् समन्वयो विषयः । स किं यो विषमकारी स दोषवानिति न्यायेन विरुध्यते न वेति सन्देहे पूर्वत्र लीलया यत्स्रष्टृत्वमुक्तं तदेव कर्मादिसापेक्षस्य न युक्तमनीश्वरत्वापत्तेः, निरपेक्षत्वे रागादिदोषापत्तेरित्याक्षेपसङ्गत्या पूर्वपक्षयति - पुनश्चेत्यादिना । ब्रह्मैव जगत्कारणमिति जन्मादिसूत्रे प्रतिज्ञातोऽर्थः । पृथग्जनः पामरः, 'निरवद्यं निरञ्जनम्' इति श्रुतिः, 'न मे द्वेष्योऽस्ति न प्रियः' इति स्मृतिः । स्वच्छत्वादीत्यादिपदेन कूटस्थत्वाग्रहः, स्वच्छत्वादिश्चासावीश्वरस्वभावश्चेति विग्रहः । निमित्तमनपेक्ष्य विषमकारित्वे वैषम्यादिदोषः स्यात् , न त्वनपेक्षत्वमीश्वरस्यास्तीति सिद्धान्तयति - एवं प्राप्त इत्यादिना । न च सापेक्षत्वे अनीश्वरत्वम् , सेवामपेक्ष्य फलदातरि राज्ञीश्वरत्वानपायात् । ननु तर्हि धर्माधर्माभ्यामेव विचित्रा सृष्टिरस्तु किमीश्वरेणेत्यत आह - ईश्वरस्तु पर्जन्यवदिति ।
साधारणहेतुसहितस्यैवासाधारणहेतोः कार्यकारित्वान्नेश्वरवैयर्थ्यम् , अन्यथा पर्जन्यवैयर्थ्यप्रसङ्गादिति भावः । यं जनमुन्निनीषते ऊर्ध्वं नेतुमिच्छति तं साधु कारयत्येष ईश्वर इत्यन्वयः । न च कञ्चिज्जनं साधु कञ्चिदसाधु कर्म कारयतो वैषम्यं तदवस्थमिति वाच्यम् , अनादिपूर्वार्जितसाध्वसाधुवासनया स्वभावेन जनस्य तत्तत्कर्मसु प्रवृत्तावीश्वरस्य साधारणहेतुत्वात् । अतोऽनवद्य ईश्वर इति भावः ॥३४॥ 【भाष्यम्】 【भाष्यम्】 प्रथमसर्गस्य वैषम्यहेतुकर्माभावादेकरूपत्वं स्यात् , तथा तथा तदुत्तरकल्पानामपीत्याक्षिप्य समाधत्ते सूत्रकारः - न कर्मेति । प्रथमसृष्टेः पश्चाद्भाविकर्मकृतं वैषम्यमित्याशङ्क्यान्योन्याश्रयमाह - सृष्ट्युत्तरेति ।
आद्या सृष्टिरित्युपलक्षणम् । आदावेकरूपत्वे मध्ये विषमकर्मोत्पत्तौ हेत्वभावेनोत्तरसृष्टीनामपि तुल्यत्वस्य दुर्वारत्वादिति द्रष्टव्यम् । परिहारः सुगमः ॥३५॥ 【भाष्यम्】 【भाष्यम्】 उपपत्तिसहितश्रुत्यादिकं प्रमाणमिति सूत्रव्याख्यया दर्शयति - उपपद्यत इति । हेतुं विनैव सर्गाङ्गीकारे ज्ञानकर्मकाण्डवैयर्थ्यं स्यादित्यर्थः । ननु सुखादिवैषम्ये ईश्वरोऽविद्या वा हेतुरस्त्वित्याशङ्क्य क्रमेण दूषयति - न चेश्वर इत्यादिना । कस्तर्हि हेतुः, तत्राह - रागादीति । रागद्वैषमोहाः क्लेशास्तेषां वासनाभिराक्षिप्तानि कर्माणि धर्माधर्मव्यामिश्ररूपाणि, तदपेक्षा त्वविद्या सुखादिसर्गवैचित्र्यहेतुः । तस्मादविद्यासहकारित्वेन क्लेशकर्मणामनादिप्रवाहोऽङ्गीकर्तव्य इति भावः । किञ्च सृष्टेः सादित्वे प्रथमशरीरस्योत्पत्तिर्न सम्भवति, हेत्वभावात् । न च कर्म हेतुः, शरीरात्प्राक्कर्मासम्भवात् । तस्मात्कर्मशरीरयोरन्योन्याश्रयपरिहाराय सर्वैरेव वादिभिः संसारस्यानादित्वमङ्गीकार्यमित्याह - न चेति । सर्गप्रमुखे सृष्ट्यादौ प्रागनवधारितप्राणोऽपि सन् प्रत्यगात्मा भाविधारणनिमित्तेन जीवशब्देनोच्यतामित्यत्राह - न च धारयिष्यतीति ।
'गृहस्थः सदृशीं भार्यामुपेयात्' इत्यादावगत्या भाविवृत्त्याश्रयणमिति भावः । अस्य संसारवृक्षस्य स्वरूपं सत्यं मिथ्या वेत्युपदेशं विना नोपलभ्यते । ज्ञानं विनान्तोऽपि नास्ति । नाप्यादिरुपलभ्यते, असत्त्वादेव । न च सम्प्रतिष्ठा मध्ये स्थितिः, दृष्टनष्टस्वरूपत्वादिति गीतावाक्यार्थः । संसारस्यानादित्वेऽपि मिथ्यात्वात् 'एकमेवाद्वितीयम्' इत्यवधारणमुपपन्नम् । तस्मान्निरवद्ये ब्रह्मणि समन्वयाविरोध इति सिद्धम् ॥३६॥ 【भाष्यम्】 【भाष्यम्】 प्रथमः सर्गः कश्चिन्नास्तीत्यत्र प्रमाणं पृच्छति - कथं पुनरिति । सर्वधर्मोपपत्तेश्च । निर्गुणस्य ब्रह्मणो जगदुपादनत्ववादिवेदान्तसमन्वयो विषयः स किं यन्निर्गुणं तन्नोपादानं यथा रूपमिति न्यायेन विरुध्यते न वेति सन्देहे, भवत्वीश्वरस्य विषमसृष्टिनिमित्तत्वं तत्प्रयोजकस्य कर्मणः सत्त्वात् , न तूपादानत्वं तद्व्यापकस्य सगुणत्वस्याभावादिति प्रत्युदाहरणेन प्राप्ते सिद्धान्तसूत्रतात्पर्यमाह - चेतनमिति । विवर्तोपादानत्वं निर्गुणस्याप्यविरुद्धम् , अज्ञातत्वस्य भ्रमाधिष्ठानत्वप्रयोजकस्य सत्त्वात् , सगुणत्वं त्वव्यापकं शब्दादिगुणेषु नित्यत्वादिभ्रमदर्शनादिति भावः । यद्यपि सर्वज्ञत्वं सर्वशक्तित्वं च लोके कारणधर्मत्वेनाप्रसिद्धं तथापि यो यस्य कर्ता स तस्य सर्वस्य ज्ञाता शक्तश्चेति प्रसिद्धम् , ईश्वरस्यपि सर्वकर्तृत्वश्रवणात्प्रसिद्ध्यनुसारेणार्थान्निरतिशयसर्वज्ञत्वं सर्वशक्तित्वं च सिध्यतीत्यभिसन्धायाह - सर्वज्ञं सर्वशक्तीति । महामायमिति ।
कर्तृत्वोपादानत्वकथने सर्वशङ्कापङ्कक्षालनायोक्तम् । तस्मादौपनिषदसिद्धान्ते न कश्चिद्दोष इति सिद्धम् ॥३७॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयस्याध्यायस्य प्रथमपादः समाप्तः ॥१॥ 【भाष्यम्】 【भाष्यम्】 साङ्ख्यतार्किकबौद्धाश्च जैनाः पाशुपतादयः ।
यस्य तत्त्वं न जानन्ति तं वन्दे रघुपुङ्गवम् ॥१॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मणि सर्वधर्मोपपत्तिवत्प्रधानेऽपि तदुपपत्तिमाशङ्क्य निराचष्टे - रचनानुपपत्तेश्च नानुमानम् । ननु मुमुक्षूणां वाक्यार्थनिर्णयप्रतिबन्धनिरासाय वेदान्तानां तात्पर्यं निश्चेतुमिदं शास्त्रमारब्धं तच्च निर्देषतया निश्चितम् , ततः परपक्षनिरासात्मकोऽयं पादोऽस्मिन् शास्त्रे न सङ्गतः, तन्निरासस्य मुमक्ष्वनपेक्षितत्वादित्याक्षिपति - यद्यपीति । परपक्षनिराकरणं विनास्वपक्षस्थैर्यायोगात्तत्कर्तव्यमित्याह - तथापीति । तर्हि स्वपक्षस्थापनात्प्रागेव परपक्षप्रत्याख्यानं कार्यमित्यत आह - वेदान्तार्थेति । वेदान्ततात्पर्यनिर्णयस्य फलवज्ज्ञानकरणान्तर्भावादभ्यर्हितत्वम् । ननु रागद्वेषकरणत्वात्परमतनिराकरणं न कार्यमिति शङ्कते - नन्विति । तत्त्वनिर्णयप्रधाना खल्वियं कथारब्धा,तत्त्वनिर्णयश्च परमतेष्वश्रद्धां विना न सिध्यति, सा च तेषु भ्रान्तिमूलत्वनिश्चयं विना न सिध्यति, स च इमं पादं विना नेति स्वसिद्धान्तसंरक्षणार्थत्वात्प्रधानसिध्यर्थत्वादयं पादोऽस्मिन् शास्त्रे सङ्गतः, सङ्गतत्वाद्वीतरागेणापि कर्तव्य इत्यभिसन्धायोक्ताङ्गीकारेण समाधत्ते - बाढमित्यादिना । अपदेशेन व्याजेन । मन्दमतीनां तेषु श्रद्धानिमित्तानि बहूनि सन्तीति तन्निरासाय यत्नः क्रियत इत्यर्थः । स्वमतश्रद्धापरमतद्वेषौ तु प्रधानसिद्ध्यर्थत्वादङ्गीकृतौ । नाप्ययं द्वेषः । परपक्षत्वबुद्ध्या हि निरासो द्वेषमावहति न तु तत्त्वनिर्णयेच्छया कृत इति मन्तव्यम् । पौनरुक्त्यं शङ्कते - नन्वीक्षतेरिति । पूर्वं साङ्ख्यादीनां श्रुत्यर्थानुग्राहकतर्कनिरासादश्रौतत्वमुक्तम् , सम्प्रति श्रुत्यनपेक्षास्तदीयाः स्वतन्त्रा युक्तयो निरस्यन्त इत्यर्थभेदान्न पुनरुक्तिरित्याह - तदुच्यत इति । प्रधानमचेतनं जगदुपादानमिति साङ्ख्यसिद्धान्तोऽत्र विषयः स किं प्रमाणमूलो भ्रान्तिमूलो वेति सन्देहे 'सर्वधर्मोपपत्तेश्च' इत्युक्तधर्माणां प्रधाने सम्भवात्तदेवोपादानमित्याक्षेपसङ्गत्या प्रमाणमूलत्वं दर्शयन् पूरवपक्षमाह - तत्र साङ्ख्या इति । स्वसिद्धान्तज्ञानस्य परमतनिरासं प्रत्युपजीव्यत्वात्पादयोः सङ्गतिः । परमतनिरासात्मकत्मात्सर्वेषामधिकरणानामेतत्पादसङ्गतिः । पूर्वपक्षे प्रमाणमूलमतविरोधादुक्तश्रुत्यर्थसमन्वयासिद्धिः फलम् , सिद्धान्ते तत्सिद्धिरित्यापादं द्रष्टव्यम् । मूलश्रौतसमन्वयदार्ढ्यार्थत्वादस्य पादस्य श्रुतिसङ्गतिरिति विवेकः । भिद्यन्त इति भेदा विकाराः, ये विकारा येनान्वितास्ते तत्प्रकृतिका इति व्याप्तिमाह - यथेति । सर्वं कार्यं सुखदुःखमोहात्मकवस्तुप्रकृतिकम् , तदन्वितत्वात् , घटादिवदित्यनुमानमाह - तथेति । किमर्थं प्रधानं परिणमते, तत्राह - चेतनस्येति । अर्थो भोगापवर्गरूपः, तदर्थं स्वभावत एव प्रवर्तते न तु केन चिच्चेतनेन प्रेर्यत इत्यर्थः । तदुक्तम् 'पुरुषार्थ एव हेतुर्न केन चित्कार्यते करणम्' इति । अनुमानान्तराणि तैरुक्तानि स्मारयति - तथेति । उक्तं हि 'भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ ' इति । अत्र कारिकायां समन्वयादिति लिङ्गं व्याख्यातम् । शिष्टानि व्याख्यायन्ते । तथा हि क्षित्यादीनां भेदानां कारणमव्यक्तमस्ति, परिमितत्वात् , घटवत् । न च दृष्टान्ते साध्यवैकल्यम् , घटोत्पत्तेः प्रागनभिव्यक्तघटादिरूपकार्यविशिष्टत्वेन मृदोऽप्यव्यक्तत्वात् । तथा घटादीनां कारणशक्तितः प्रवृत्तेर्महदादिकार्याणामपि कारणशक्तितः प्रवृत्तिर्वाच्या, तच्छक्तिमत्कारणमव्यक्तम् । किञ्च कारणात्कार्यस्य विभागो जन्म दृश्यते क्षितेर्मृत्तिका जायते ततो घट इति । एवमविभागः प्रातिलोम्येन प्रलयो दृश्यते घटस्य मृत्तिकायां लयः तस्याः क्षितौ क्षितेरप्सु अपां तेजसीति । एतौ विभागाविभागौ वैश्वरूप्यस्य विचित्रस्य भावजातस्य दृश्यमानौ पृथक्पक्षीकृतौ क्वचित्कारणे विश्रान्तौ विभागत्वादविभागत्वाच्च मृदि घटविभागाविभागवदित्यर्थः । सिद्धान्तयति - तत्र वदाम इति । किमनुमानैरचेतनप्रकृतिकत्वं जगतः साध्यते, स्वतन्त्राचेतनप्रकृतिकत्वं वा । आद्ये सिद्धसाधनता, अस्माभिरनादित्रिगुणमायाङ्गीकारात् । द्वितीये घटादिदृष्टान्ते साध्याप्रसिद्धिरित्याह - यदीति । स्वतन्त्रमचेतनं प्रकृतिरित्येतद्दृष्टान्तबलेन तदा निरूप्येत यदि दृष्टान्तः क्वचित्स्यात् । न तु दृष्टः क्वचिदित्यन्वयः । स्वतन्त्रपदार्थमाह - चेतनानधिष्टितमिति । परकीयस्य साध्यस्याप्रसिद्धिमुक्त्वा सत्प्रतिपक्षं वक्तुं यद्विचित्ररचनात्मकं कार्यं तच्चेतनाधिष्ठिताचेतनप्रकृतिकमिति व्याप्तिमाह - गेहेति । इदं जगच्चेतनाधिष्ठिताचेतनप्रकृतिकम् , कार्यत्वात् , गेहवदिति प्रयोगः । विपक्षे विचित्ररचनानुपपत्तिरूपं सूत्रोक्तं बाधकतर्कं वक्तुं जगतो वैचित्र्यमाह - तथेति । बाह्यं पृथिव्यादि भोग्यम् , आध्यात्मिकं शरीरादि च भोगाधिष्ठानमिति विभागः । प्रतिनियतोऽसाधारणोऽवयवानां विन्यासो रचना यस्य तदित्यर्थः । इत्थं विचित्रं जगच्चेतनानधिष्ठिता जडप्रकृतिः कथं रचयेत् । न कथमपीत्यर्थः । यच्चेतनानधिष्ठितमचेतनं तन्न कार्यकारीति व्याप्तिमुक्ततर्कमूलभूतामाह - लोष्टेति । चेतनाप्रेरितेषु लोष्टादिषु कार्यकारित्वादर्शनादित्यर्थः । किञ्चानादिजडप्रकृतिश्चेतनाधिष्टिता, परिणामित्वात् , मृदादिवदित्याह - मृदिति । ननु मृदादिदृष्टान्ते द्वयमप्यस्त्यचेतनत्वं चेतनाधिष्ठितत्वं चेति, तत्र परिणामित्वहेतोरचेतनत्वमेव व्यापकं मृदादिस्वरूपत्वेनान्तरङ्गत्वात् , न तु चेतनाधिष्ठितत्वं व्यापकम् , तस्य मृदादिबाह्यकुलालादिसापेक्षत्वेन बहिरङ्गत्वात् , तथा च परिणामित्वेऽपि मूलप्रकृतेरचेतनत्वधर्मेणैव योगो न चेतनाधिष्ठितत्वेनेत्याशङ्क्य निषेधति - न चेति । महानसदृष्टान्तेऽन्तरङ्गस्यापि महानसस्वरूपस्य धूमव्यापकत्वं नास्ति तद्भिन्नस्य बहिरङ्गस्यापि वह्नेस्तदस्तीत्यन्तरङ्गत्वं व्यापकत्वे प्रयोजकं न भवतीति भावः । किञ्च यदचेतनं तच्चेतनाधिष्ठितमेव परिणमत इत्यङ्गीकारे बाधकाभावात्प्रत्युत श्रुत्यनुग्रहाच्च तथाङ्गीकार्यमित्याह - न चैवं सतीति । सुखदुःखमोहान्वयादिति हेतोरसिद्धिद्योतनार्थं सूत्रे चकार इत्याह - अन्वयाद्यनुपपत्तेश्चेति । नानुमानं युक्तमित्यर्थः । आदिशब्दः परिमाणादिग्रहार्थः । श्ब्दादीनां बाह्यत्वानुभवादान्तरसुखाद्यात्मकत्वमसिद्धं तन्निमित्तत्वाच्च । न हि निमित्तनैमित्तिकयोरभेदेन योगोऽस्ति, दण्डघटयोरदर्शनादित्यर्थः । किञ्च यदि घटे मृद्वत्सुखादिकं शब्दाद्यन्वितं स्यात्तर्हि सर्वैरविशेषेण सुखादिकमुपलभ्येत घटे मृद्वत् । न तथोपलब्धिरस्तीति योग्यानुपलब्ध्या हेत्वभावनिश्चय इत्याह - शब्दादीति । विषयस्यैकत्वेऽपि पुरुषवासनावैचित्र्यात्कस्यचित्सुखबुद्धिः कस्यचिद्दुःखबुद्धिः कस्यचिन्मोहबुद्धिर्दृश्यतेऽतो विषयाः सुखाद्यात्मका न भवन्तीत्यर्थः । एवं समन्वयादिति हेतुं दूषयित्वा परिमाणादिहेतून् दूषयति - तथेति । बुद्ध्यादीनां परिमितत्वेन संसर्गपूर्वकत्वसिद्धौ संसृष्टान्यनेकानि सत्त्वरजस्तमांसि सिद्ध्यन्ति, एकस्मिन् संसर्गासम्भवान्न ब्रह्मसिद्धिरिति साङ्ख्यस्य भावः । किमिदं परिमितत्वम् , न तावद्देशतः परिच्छेदः, पक्षान्तर्गताकाशे तस्याभावेन भावासिद्धेः । नापि कालतः परिच्छेदः, साङ्ख्यैः कालस्यानङ्गीकारात् , अविद्यागुणसंसर्गेण सिद्धसाधनाच्च । नापि वस्तुतः परिच्छेदः, सत्त्वादीनां परस्परं भिन्नत्वे सत्यपि साध्याभावेन व्यभिचारादित्याह - सत्त्वेति । यदुक्तं कार्यकारणविभागो यत्र समाप्यते तत्प्रधानमिति । तन्न । ब्रह्मणि मायायां वा समाप्तिसम्भवात् । न च यः कार्यस्य विभागः स चेतनानधिष्ठिताचेतने समाप्त इति व्याप्तिरस्ति, सर्वत्राचेतनेषु चेतनाधिष्ठानदर्शनादित्याह - कार्येति ।
एतेनाविभागोऽपि व्याख्यातः । यत्तु यत्परिमितं तदव्यक्तप्रकृतिपूर्वकमिति व्याप्त्यन्तरम् , तस्यापि गुणेष्वनादिषु परिमितेषु व्यभिचारः । एतेन सदृशयोरेव प्रकृतिविकारभावादचेतनविकाराणामचेतनमेव प्रकृतिरिति निरस्तम् । चेतनाधिष्ठिताचेतनप्रकृतिकत्वेऽपि सादृश्योपपत्तेः, 'न विलक्षणत्वात्' इत्यत्र सादृश्यनियमस्य निरस्तत्वाच्च । एवं चेतनाधीनकारणशक्तितः कार्यप्रवृत्तिसम्भवात् शक्तितः प्रवृत्तिलिङ्गमन्यथासिद्धमिति भावः ॥१॥ 【भाष्यम्】 【भाष्यम्】 स्वतन्त्रमचेतनं कारणत्वेन नानुमातव्यम् , तस्य सृष्ट्यर्थं प्रवृत्तेरनुपपत्तेरिति चकारेणानुपपत्तिपदमनुषज्य सूत्रं योजनीयम् । रचनाप्रवृत्त्योः को भेद इत्याशङ्क्य प्रवृत्तिस्वरूपमाह - साम्येति । गुणानां किल साम्यावस्था तत्त्वानां प्रलयः, तदा न किञ्चित्कार्यं भवति प्रलयाभावप्रसङ्गात् । किन्त्वादौ साम्यप्रच्युतिरूपं वैषम्यं भवति, ततः कस्यचिद्गुणस्याङ्गित्वमुद्भूतत्वेन प्राधान्यं कस्यचिदङ्गत्वं शेषत्वमित्यङ्गाङ्गिभावो भवति, तस्मिन् सति महदादिकार्योत्पादनात्मिका प्रवृत्तिः, तया विविधकार्यविन्यासो रचनेति भेद इत्यर्थः । गुणानां प्रवृत्तिश्चेतनाधिष्ठानपूर्विका, प्रवृत्तित्वात् , रथादिप्रवृत्तिवदित्याह - सापीति । विपक्षे स्वतन्त्रे प्रवृत्त्यनुपपत्तिरित्यर्थः । केचित्तु भेदानां प्रवृत्तिशक्तिमत्वाच्चेतनानधिष्ठताचेतनप्रकृतिकत्वमिति शक्तितः प्रवृत्तिरिति लिङ्गं व्याचक्षते । अस्यापि गुणेषु व्यभिचारः । कार्यत्वविशेषणे च विरुद्धता, प्रवृत्तिशक्तिमत्वे सति कार्यत्वस्य घटादिषु चेतनाधिष्टितप्रकृतिकत्वेनोक्तसाध्यविरुद्धेन व्याप्तिदर्शनादिति 'प्रवृत्तेश्च' इति सूत्रेण ज्ञापितम् । ननु लोके स्वतन्त्राचेतनानां प्रवृत्यदर्शनेऽपि प्रधाने सा प्रवृत्तिः सिध्यतु, तत्राह - दृष्टाच्चेति । अनुमानशरणस्य तव दृष्टन्तं विनातीन्द्रियार्थसिद्ध्ययोगादिति भावः । ननु प्रधानस्य प्रवृत्तिं खण्डयता चेतनस्य सृष्टौ प्रवृत्तिर्वाच्या सा न युक्तेति साङ्ख्यः शङ्कते - नन्विति । शुद्धचेतनस्य प्रवृत्त्ययोगमङ्गीकरोति - सत्यमिति । तर्हि केवलस्याचेतनस्य प्रवृत्तिसिद्धिरन्यथा सृष्ट्ययोगात् , तत्राह - तथापीति । केवलस्य चेतनस्याप्रवृत्तावपि चेतनाचेतनयोर्मिथः सम्बन्धात्सृष्टिप्रवृत्तिरिति भावः । इमं वेदान्तसिद्धान्तं साङ्ख्यो दूषयति - न त्विति । सर्वा प्रवृत्तिरचेतनाश्रयैव दृष्टा । न त्वचेतनसम्बन्धेनापि चेतनस्य क्वचित्प्रवृत्तिर्दृष्टा । तस्मान्न चेतनात्सृष्टिरित्यर्थः । मतद्वयं श्रुत्वा मध्यस्थः पृच्छति - किं पुनरिति । यस्मिन्न चेतने रथादौ प्रवृत्तिर्दृष्टा तस्यैव सा न चेतनस्तत्र हेतुरिति किं साङ्ख्यमतं साधु उत येन चेतनेनाश्वादिना संयोगादचेतनस्य प्रवृत्तिस्तत्प्रयुक्ता सेति वेदान्तिमतं वा साध्विति प्रश्नार्थः । साङ्ख्य आह - नन्विति । उभयोः । प्रवृत्तितदाश्रययोरित्यर्थः । दृष्टाश्रयेणैव प्रवृत्तेरुपपत्तावदृष्टचेतनप्रवृत्तिर्न कल्प्येति भावः । आत्मनोऽप्रत्यक्षत्वे कथं सिद्धिः, तत्राह - प्रवृत्तीति । जीवद्देहस्य रथादिभ्यो वैलक्षण्यं प्राणादिसत्त्वं लिङ्गं दृष्टमिति कृत्वा चेतनस्य सिद्धिरित्यन्वयः । जीवद्देहः सात्मकः प्राणादिमत्वात् , व्यतिरेकेण रथादिवदित्यात्मसिद्धिरित्यर्थः । देहप्रवृत्तिः स्वाश्रयादन्येन ज्ञानवता सहभूता, प्रवृत्तित्वात् , रथप्रवृत्तिवदित्यनुमानान्तरसूचनाय प्रवृत्त्याश्रयेत्युक्तम् , सद्भावसिद्धिरेव न प्रवर्तकत्वमित्येवकारार्थः । अनुमितस्य सद्भावमात्रेण प्रवृत्तिहेतुत्वे सर्वत्राकाशस्यापि हेतुत्वप्रसङ्गादिति भावः । आत्मनोऽप्रत्यक्षत्वे चार्वाकाणां भ्रमोऽपि लिङ्गमित्याह - अत एवेति । अप्रत्यक्षत्वादेवेत्यर्थः । देहान्यात्मनः प्रत्यक्षत्वे भ्रमासम्भवादिति भावः । दर्शनात् । प्रवृत्तिचैतन्ययोरिति शेषः । प्रवृत्तिं प्रत्याश्रयत्वमचेतनस्यैवेत्युक्तमङ्गीकृत्य चेतनस्य प्रयोजकत्वं सिद्धान्ती साधयति - तदभिधीयत इति । रथादिप्रवृत्तावश्वादिचेतनस्यान्वयव्यतिरेकौ स्फुटौ ताभ्यां चेतनस्य प्रवर्तकत्वं बाह्यानामपि सम्मतमित्याह - लौकायतिकानामपीति । यः प्रवर्तकः सः स्वयं प्रवृत्तिमानश्वादिवदिति व्याप्तेरात्मनि व्यापकाभावान्न प्रवर्तकत्वमिति कश्चिच्छङ्कते - नन्विति । मण्यादौ व्यभिचारान्न व्याप्तिरिति परिहरति - नेति । वस्तुत एकत्वेऽपि कल्पितं द्वैतं प्रवर्त्यमस्तीत्याह - न । अविद्येति ।
अविद्याकल्पिते नामरूपप्रपञ्चे तयैवाविद्यारूपया मायया य आवेशश्चिदात्मनः कल्पितः सम्बन्धस्तस्य वशः सामर्थ्यं तेनान्तर्यामित्वादिकमीश्वरस्येत्युक्तत्वान्न चोद्यावसर इत्यर्थः ॥२॥ 【भाष्यम्】 【भाष्यम्】 अनादिजडस्य प्रवृत्तिश्चेतनादिना, प्रवृत्तित्वात् , रथादिप्रवृत्तिवदिति स्थितम् । तत्र क्षीरादौ व्यभिचारमाशङ्क्य तस्यापि पक्षसमत्वेनोक्तानुमानादागमेन च साध्यसिद्धिर्न व्यभिचार इति सूत्रं व्याचष्टे - स्यादेतदित्यादिना । साध्यपक्षेति । साध्यवता पक्षेणतुल्यत्वादित्यर्थः । अनुपन्यासः । न व्यभिचारभूमिरिति यावत् । क्षीरे प्रवर्तकत्वेन धेन्वादेः सत्त्वाच्च न व्यभिचार इत्याह - चेतनायाश्चेति । उपदर्शितम् । अनुमानागमाभ्यामिति शेषः । सूत्रकारस्य 'क्षीरवद्धि', 'तत्रापि' इति च वक्तुः पूर्वापरविरोधमाशङ्क्य लोकदृष्ट्या शास्त्रदृष्ट्या च सूत्रद्वयमित्यविरोधमाह -
उपसंहारेति ॥३॥ 【भाष्यम्】 【भाष्यम्】 अस्तु प्रधानस्यापि धर्मादि कर्म पुरुषो वा प्रवर्तक इत्याशङ्क्य सूत्रं प्रवृत्तम् , तद्व्याचष्टे - साङ्ख्यानामित्यादिना ।
प्रधानव्यतिरेकेण कर्मणोऽनवस्थितेः पुरुषस्योदासीनत्वात्कदाचित्सृष्टिप्रवृत्तिः कदाचित्प्रलय इत्ययुक्तमित्यर्थः । कर्मणोऽपि प्रधानात्मकस्याचेतनत्वात्सदासत्त्वाच्च न कादाचित्कप्रवृत्तिनियामकत्वमिति भावः ॥४॥ 【भाष्यम्】 【भाष्यम्】 पुनरपि दृष्टान्तबलात्प्रधानस्य स्वत एव कादाचित्कप्रवृत्तिरित्याशङ्क्य निषेधति सूत्रकारः - अन्यत्रेत्यादिना । पृच्छति - कथमिति । उत्तरम् - निमित्तान्तरेति । धेन्वादिनिमित्तान्तरमस्तीति सिद्धान्तयति - अत्रोच्यत इति । प्रहीणं नष्टम् । यदुक्तं क्षीरस्य स्वेच्छया सम्पादयितुमशक्यत्वात्स्वाभाविकत्वमिति, तत्राह -
न च यथाकाममिति ॥५॥ 【भाष्यम्】 【भाष्यम्】 प्रधानस्य न स्वतःप्रवृत्तिः, स्वतःप्रवृत्त्यभ्युपगमे पुरुषार्थस्याप्यपेक्षाभावप्रसङ्गादित्येकोऽर्थः । तत्रेष्टापत्तिं निरस्यति - इत्यतः प्रधानमिति । उक्तप्रसङ्गस्येष्टत्वे प्रतिज्ञाहानिः स्यादित्यर्थः । अर्थासम्भवान्न स्वतःप्रवृत्तिरित्यर्थान्तरं शङ्कापूर्वकमाह - स यदीत्यादिना । प्रयोजनमपेक्षितं चेद्वक्तव्यमित्याह - तथापीति । कूटस्थे पुरुषे स्वतःसुखादिरूपस्यातिशयस्याधातुमशक्यत्वादध्यासानङ्गीकाराच्च भोगो न युक्तः । किं च प्रधानप्रवृत्तेर्भोगार्थत्वे मोक्षहेतुविवेकख्यात्यभावादनिर्मोक्षप्रसङ्गश्च, अपवर्गार्थत्वे स्वरूपावस्थानरूपमुक्तेः स्वतःसिद्धत्वात्प्रवृत्तिवैयर्थ्यम् , भोगाभावप्रसङ्गश्चेत्यर्थः । तृतीयं दूषयति - उभयार्थतेति । मीयन्ते भुज्यन्त इति मात्रा भोग्याः । औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तमिति कारिकोक्तं दूषयति - न चेति । औत्सुक्यमिच्छाविशेषः केवलजडस्यात्मनो वा न युक्त इत्यर्थः । अस्ति पुरुषस्य दृक्शक्तिश्चिद्रूपत्वात् , अस्ति च प्रधानस्य सर्गशक्तिस्त्रिगुणत्वात् , तयोः शक्त्योर्दृश्यसृष्टी विना सार्थक्यायोगात्प्रधानस्य सृष्टौ प्रवृत्तिरिति चेत् । न । शक्त्योर्नित्यत्वात्सृष्टिनित्यत्वापत्तिरित्याह -
दृक्शक्तीति ॥६॥ 【भाष्यम्】 【भाष्यम्】 पुरुषस्य प्रवर्तकत्वं निरस्तमपि दृष्टान्तेन पुनराशङ्क्य निषेधति - पुरुषाश्मवदिति चेत्तथापि । प्रधानस्य स्वातन्त्र्यं पुरुषस्यौदासीन्यं चाभ्युपेतं त्यज्यत इति वदन्तं साङ्ख्यम्प्रत्याह - कथं चेति । पुरुषस्य परिस्पन्दः प्रयत्नगुणो वा नास्तीति वक्तुं हेतुद्वयम् । प्रधानपुरुषयोर्नित्यत्वाद्व्यापित्वाच्च नित्यः सन्निधिः, अश्मनस्तु परिमार्जनमृजुत्वेन स्थापनमनित्यसन्निधिश्चेति व्यापारोऽस्तीत्यनुपन्यासः, समदृष्टान्तोपन्यासो न भवतीत्यर्थः । ननु चिज्जडयोर्द्रष्टृदृश्यभावयोग्यतास्ति, तया तद्भावः सम्बन्ध इत्यत आह - योग्यतेति । चिज्जडत्वरूपाया योग्यताया नित्यत्वात्सम्बन्धनित्यत्वापत्तिरित्यर्थः । यथा स्वतन्त्रप्रधानप्रवृत्तिपक्षो भोगोऽपवर्ग उभयं वा फलमिति विकल्प्य दूषितः, एवं पुरुषाधीनप्रधानप्रवृत्तिपक्षोऽपि फलाभावेन दूषणीय इत्याह - पूर्ववच्चेति । सिद्धान्ते परमात्मन उदासीनस्य कथं प्रवर्तकत्वमित्याशङ्क्याह - परमात्मेति ।
साङ्ख्यमते उभयं विरुद्धं सत्यत्वात् ।अस्मन्मते कल्पिताकल्पितयोरविरोध इत्यतिशयः ॥७॥ 【भाष्यम्】 【भाष्यम्】 किं प्रधानावस्था कूटस्थवन्नित्या, उत विकारिणी । आद्ये दोषमाह - तस्यामिति । अङ्गाङ्गिभावे साम्यस्वरूपनाशः स्यात् , ततः कौटस्थ्यभङ्ग इति भयादङ्गाङ्गित्वानुपपत्तेः सृष्ट्यनुपपत्तिरित्यर्थः । द्वितीयं दूषयति - बाह्यस्येति ।
चिरकालस्थितस्य साम्यस्य च्युतौ निमित्तं वाच्यं तन्नास्तीत्यर्थः ॥८॥ 【भाष्यम्】 【भाष्यम्】 गुणानां मिथोऽनपेक्षस्वभावत्वान्न स्वतो वैषम्यमित्युक्तम् , तत्र हेत्वसिद्धिमाशङ्क्य सूत्रकारः परिहरति - अन्यथेति । अनपेक्षस्वभावादन्यथा सापेक्षत्वेन गुणानामनुमानात्पूर्वसूत्रोक्तो दोषो न प्रसज्यते । न चैवमपसिद्धान्तः, कार्यानुसारेण गुणस्वभावाङ्गीकारादित्याह - चलं गुणवृत्तमिति । पूर्वसूत्रोक्ताङ्गाङ्गित्वानुपपत्तिदोषाभावमङ्गीकृत्य परिहरति - एवमपीति । कार्यार्थं ज्ञानशक्तिकल्पने ब्रह्मवादः स्यादित्यर्थः । अङ्गीकारं त्यजति -
वैषम्येति ॥९॥ 【भाष्यम्】 【भाष्यम्】 सूत्रं व्याचष्टे - परस्परेति । त्वङ्मात्रमेव ज्ञानेन्द्रियमेकमनेकशब्दादिज्ञानकारणम् , पञ्च कर्मेन्द्रियाणि मनश्चेति सप्तेन्द्रियाणि, ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च मनश्चेत्येकादश । बुद्धिरहङ्कारो मन इति त्रीणि । एकमिति बुद्धिरेव । एवं पूर्वापरविरोधादिति व्याख्याय श्रुतिस्मृतिविप्रतिषेधाच्चेत्यर्थान्तरमाह - प्रसिद्ध इति । तस्माद्भ्रान्तिमूलत्वात्साङ्ख्यशास्त्रस्य तेन निर्देषवेदान्तसमन्वयस्य न विरोध इति सिद्धम् । स्वमतासामञ्जस्यमसहमानः साङ्ख्यः प्रत्यवतिष्ठते - अत्राहेति । तप्यो जीवस्तापकः संसारस्तयोर्भेदानङ्गीकाराल्लोकप्रसिद्धस्तप्यतापकभावो लुप्येतेत्यर्थः । विवृणोति - एकं हीति । तथा च भेदव्यवहारलोप इत्यसमञ्जसमित्यर्थः । ननु तयोरुपादानैक्येऽपि मिथो भेदोऽस्त्येव यथैकवह्न्यात्मकयोरौष्ण्यप्रकाशयोः, अतो न व्यवहारलोप इत्याशङ्क्य वह्नेरिव ताभ्यामात्मनोमोक्षो न स्यादित्याह - यदि चेत्यादिना । ननु सत्यपि धर्मिणि स्वभावनाशो मोक्ष उपपद्यते, सत्येव जले वीच्यादिनाशदर्शनादित्याशङ्क्य दृष्टान्तासिद्धिमाह - योऽपीति । किञ्च भेदाङ्गीकारेऽपसिद्धान्तः, अनङ्गीकारे लेकप्रसिद्धिबाध इत्याह - प्रसिद्धश्चेति । अर्थो ह्यर्जनालाभादिनार्थिनं तापयतीति तापकः, अर्थी तप्यस्तयोरभेदे बाधकमाह - यदीति । अर्थिनोऽन्यस्यार्थस्याभावादर्थित्वाभाववदर्थादन्यस्यार्थिनोऽसत्त्वादर्थत्वाभावः प्रसज्येतेत्याह - तथार्थस्यापीति । प्रसङ्गस्येष्टत्वं निराकरोति - न चैतदस्तीति । अर्थत्वं हि कामनाविषयत्वम् , तच्च काम्यादन्यस्य कामयितुरसत्त्वान्न स्यात् । न हि स्वस्य स्वार्थत्वमस्ति काम्यस्यैव कामयितृत्वायोगात् । तस्माद्भेदोऽङ्गीकार्य इत्यर्थः । इतश्च भेद इत्याह - सम्बन्धीति । तथानर्थानर्थिनावपि भिन्नावित्यन्वयः । अर्थानर्थयोः स्वरूपोक्तिपूर्वकं तापकत्वं स्फुटयति - अर्थिनोऽनुकूल इति । अद्वैतमते मुक्तेरयोगमुक्त्वा स्वमते योगमाह - जात्यन्तरेति । तया तप्यया बुद्ध्या पुरुषस्य संयोगः स्वस्वामिभावस्तस्य हेतुरनादिरविवेकस्तस्य परिहारो विवेकस्तस्मान्नित्यमुक्तस्यापि पुरुषस्य कथञ्चिदुपचारान्मोक्षोपपत्तिरित्यर्थः । यथा योद्धृगतौ जयपराजयौ राजन्युपचर्येते तथा पुरुषादत्यन्तभिन्नबुद्धिगतौ बन्धमोक्षौ पुरुषे उपचर्येते । तदुक्तम् 'सैव च बध्यते मुच्यते च' इति । सिद्धान्तयति - अत्रेति । किं परमार्थदृष्ट्या तप्यतापकभावानुपपत्तिरुच्यते, व्यवहारदृष्ट्या वा । नाद्य इत्याह - न । एकत्वादेवेति । दोषत्वमिति शेषः । तस्या अदोषत्वं विवृणोति - भवेदित्यादिना । एतत्तात्त्विकं विषयविषयित्वं न त्वस्तीत्यर्थः । यत्र तप्यतापकभावो दृष्टस्तत्रैवेति व्यवहारपक्षमादाय सिद्धान्ती ब्रूते - किं न पश्यसीति । देहस्य तप्यत्वे देहात्मवादापत्तिरिति शङ्कते - नन्विति । अचेतनस्यैव देहस्य तप्तिर्नेति वदता साङ्ख्येन वक्तव्यं किं चेतनस्य केवलस्य तप्तिः, किं वा देहसंहतस्य, उत तप्तेः, आहोस्वित्सत्त्वस्य । नाद्य इत्याह - उच्यत इति । न द्वितीयतृतीयावित्याह - नापीत्यादिना । चतुर्थं शङ्कते - सत्त्वमिति । सत्त्वरजसोस्तप्यतापकत्वे पुरुषस्य बन्धाभावाच्छास्त्रारम्भवैयर्थ्यमिति परिहरति - न । ताभ्यामिति । असङ्गत्वेऽपि पुरुषस्य तप्यसत्त्वप्रतिबिम्बत्वात्तप्तिरिति शङ्कते - सत्त्वेति । तर्हि जलचन्द्रस्य चलनवन्मिथ्यैव तप्तिरित्यस्मत्पक्ष आगत इत्याह - परमार्थत इति । इवशब्दमात्रेण कथं मिथ्या तप्त्यवगम इति चेत्तदुच्यते - इवशब्दस्तप्यबुद्धिसत्त्वसादृश्यं ब्रूते, तच्च सादृश्यं पुरुषस्य तप्यत्वरूपं चेत्कल्पितमेव वस्तुतस्तप्त्यभावादित्युपपादयति - न चेदिति । पुरुषो वस्तुतस्तप्तिशून्यश्चेदिवशब्दो न दोषाय मिथ्यातप्तिपरत्वादित्यर्थः । मिथ्यासादृश्यमेव दोष इति चेत् , नेत्याह - न हीति । सविषयत्वं निर्विषयत्वं चेवशब्दार्थः कल्पित एव द्रष्टव्यः । साङ्ख्यस्याविद्यके तप्यतापकत्वे सति ममापि किञ्चिन्न दुष्यति किन्तु दृष्टमेव सम्पन्नमित्यर्थः । यदि मिथ्यातप्यत्वाङ्गीकारेऽपसिद्धान्तः स्यादिति भीत्या सत्यं तप्यत्वं पुरुषस्योच्यते तथाप्यपसिद्धान्तः, कौटस्थ्यहानात् । अनिर्मोक्षश्च, सत्यस्यात्मवन्निवृत्त्योगादित्याह - अथेत्यादिना । किञ्च रजसो नित्यत्वाद्दुःखसातत्यमित्याह - नित्यत्वेति । अत्र साङ्ख्यः शङ्कते - तप्येति । सत्त्वं पुरुषो वा तप्यशक्तिः, तापकशक्तिस्तु रजः, निमित्तमविवेकात्मकदर्शनं तमस्तेन सहितः सनिमित्तः संयेगः पुरुषस्य गुणस्वामित्वरूपस्तदपेक्षत्वादित्यर्थः । मोक्षस्तप्त्यभावः । निमित्तस्य निवृत्त्यभावान्न मोक्ष इति सिद्धान्ती परिहरति - नेति । तमसो निवृत्त्यभावेऽपि विवेकेनोपरमान्मोक्ष इत्यत आह - गुणानां चेति । 'चलं गुणवृत्तम्' इत्यङ्गीकारादिति भावः । परपक्षे बन्धमोक्षानुपपत्तिमुक्त्वा स्वपक्षमुपसंहरति - औपनिषदस्य त्विति ।
वस्तुत एकत्वेन बन्धाभावान्न मुक्त्यभावशङ्कावसरः । व्यवहारस्तु भेदाङ्गीकारात्तप्यतापकभावो बन्धः तत्त्वज्ञानात्तन्निवृत्तिश्चोपपद्यत इति न चोद्यावसर इत्यर्थः ॥१०॥ 【भाष्यम्】 【भाष्यम्】 चेतनाद्ब्रह्मणो जगत्सर्गवादी वेदान्तसमन्वयो विषयः । स किं यः समवायिकारणगुणः स कार्यद्रव्ये स्वसमानजातीयगुणारम्भकस्तन्तुशौक्ल्यवदिति न्यायेन विरुध्यते न वेति सन्देहे न्यायस्याव्यभिचाराद्विरुध्यत इति प्राप्ते व्यभिचारान्न तद्विरोध इति सिद्धान्तसूत्रं व्याचष्टे - एषेत्यादिना । यद्यपि 'न विलक्षणत्वात्' इत्यत्र चेतनादचेतनसर्गः साधितस्तथापि वैशेषिकन्यायस्य तदीयप्रक्रियया व्यभिचारोक्त्यर्थत्वादस्य सूत्रस्य न गतार्थता । प्रलयकाले परमाणवो निश्चला असंयुक्तास्तिष्ठन्ति सर्गकाले चादृष्टवदात्मसंयोगात्तेषु कर्म भवति, तेन संयोगाद्द्रव्यान्तरसृष्टिर्भवति, कारणगुणाः कार्ये गुणान्तरमानभन्त इति सामान्येन प्रक्रियामुक्त्वा विशेषतस्तामाह - यदा द्वाविति । परमाणुः परिमण्डलः, तद्गतं परिमाणं पारिमाण्डल्यमित्युच्यते, तच्च स्वसमानजातीयगुणारम्भकं न भवतीत्युक्तन्यायस्य व्यभिचार इति भावः । व्यभिचारस्थलान्तरमाह - यदापि द्वे इति । द्वे द्वे इति शब्दद्वयं पठितव्यम् , एवं सति चतुर्भिर्द्व्यणुकैश्चतुरणुकारम्भ उपपद्यते, यथाश्रुते तु द्वाभ्यां द्व्यणुकाभ्यां महतश्चतुरणुकस्यारम्भो न युज्यते, कारणगतं महत्वं बहुत्वं वा विना कार्ये महत्वायोगादिति मन्तव्यम् । प्रकटार्थकारास्तु यद्द्वाभ्यां द्व्यणुकाभ्यामारब्धं कार्ये महत्वं दृश्यते तस्य हेतुः प्रचयो नाम प्रशिथिलावयवसंयोग इति रावणप्रणीते भाष्ये दृश्यत इति चिरन्तनवैशेषिकदृष्ट्येदं भाष्यमित्याहुः । सर्वथापि द्व्यणुकगतह्रस्वत्वाणुत्वपरिमाणयोरनारम्भकत्वाद्व्यभिचरः । यद्यपि तार्किका द्वाभ्यामेव परमाणुभ्यां द्व्यणुकं त्रिभिर्द्व्यणुकैस्त्र्यणुकमिति कल्पयन्ति तथापि तर्कस्याप्रतिष्ठानान्न नियम इति मत्वा ब्रूते - यदापि बहव इति । कारकगुणाः शुक्लादयः समानजातीयगुणारम्भकाः, कार्यद्रव्यपरिमाणं तु न कारणपरिमाणारभ्यं किन्तु कारणगतसङ्ख्यारभ्यमिति प्रक्रिया तुल्येत्यर्थः । एवं प्रक्रियां दर्शययित्वा सूत्रं योजयन् व्यभिचारमाह - तदेवमिति । परमाणुभ्य एव महद्दीर्घं चेत्यनियतप्रक्रियामाश्रित्योक्तम् । नियतप्रक्रियामाश्रित्य व्यभिचारमाह - यथा वेति । अणुह्रस्वेभ्यो द्व्यणुकेभ्योऽणुद्रव्यं न जायते ह्रस्वमपि न जायत इति व्यभिचार इत्यर्थः । सूत्रे वाशब्दश्चार्थोऽनुक्ताणुसमुच्चयार्थः । तथा च ह्रस्वपरिमण्डलाभ्यां द्व्यणुकपरमाणुभ्यां महद्दीर्घाणुवच्चेतनादचेतनं जायत इति सूत्रयोजना । तत्र ह्रस्वान्महद्दीर्घं त्र्यणुकं परिमण्डलादणु द्व्यणुकमिति विभागः । दृष्चान्तवैषम्यं शङ्कते - अथ मन्यस इति । अचेतनैव विरोधिगुण इत्यत आह - न ह्यचेतनेति । कार्यद्रव्यस्य परिमाणान्तराक्रान्तत्वमङ्गीकृत्य विवक्षितांशसाम्यमाह - मैवमिति । अङ्गीकारं त्यजति - न चेति । उत्पन्नं हि परिमाणान्तरं विरोधि भवति, तदुत्पत्तेः प्राग्विरोध्यभावात् द्व्यणुके पारिमाण्डल्यारम्भः किं न स्यादित्यर्थः । ननु विरोधिपरिमाणेन सहैव द्रव्यं जायत इत्यत आह - आरब्धमपीति । सहोत्पत्तावपसिद्धान्तः । अतो विरोध्यभावः सिद्ध इति भावः । अणुत्वाद्यारम्भे व्यग्रत्वात्पारिमाण्डल्यादेः स्वसमानगुणानारम्भकत्वमित्याशङ्क्य निषेधति - न चेति । व्यग्रत्वमन्यथासिद्धम् । तत्र हेतुः - परिमाणन्तरस्येति । अन्यहेतुकत्वे सूत्राण्युदाहरति - कारणेति । कारणानां द्व्यणुकानां बहुत्वात्त्र्यणुके महत्वं मृदो महत्वात् घटे महत्वम् , द्वितूलपिण्डारब्धेऽतिस्थूलतूलपिण्डे प्रचयादवयवसंयोगविशेषान्महत्वमित्यर्थः । महत्वविरुद्धमणुत्वं परमाणुगतद्वित्वसङ्ख्यया द्व्यणुके भवतीत्याह - तदिति । यन्महत्वस्यासमवायिकारणं तदेव महत्वसमानाधिकरणस्य दीर्घत्वस्य, यच्चाणुत्वस्यासमवायिकारणं तदेवाणुत्वाविनाभूतहृस्वत्वस्यासमवायिकारणमित्यतिदिशति - एतेनेति । अतो महत्वादावहेतुत्वात्पारिमाण्डल्यादीनां व्यग्रत्वमसिद्धमिति भावः । तेषां सन्निधिविशेषाभावान्न समानगुणारम्भकत्वमित्यपि न वाच्यमित्याह - न चेति । पारिमाण्डल्यादीनामपि बहुत्वादिवत्समवायिकारणगतत्वाविशेषादित्यर्थः । तेषामनारम्भकत्वे कार्यद्रव्यस्य विरोधिगुणाक्रान्तत्वं व्यग्रत्वमसन्निधिर्वा न हेतुरित्युक्तिफलमाह - तस्मादिति । यत्तु कारणगुणः स्वसमानगुणारम्भक इति व्याप्तेः सामान्यगुणेषु पारिमाण्डल्यादिषु व्यभिचारेऽपि यो द्रव्यसमवायिकारणगतो विशेषगुणः स स्वसमानजातीयगुणारम्भक इति व्याप्तेश्चैतन्यस्य विशेषगुणत्वादारम्भकत्वं दुर्वारमिति, तन्मन्दम् , चित्रपटहेतुतन्तुगतेषु नीलादिरूपेषु विजातीयचित्ररूपहेतुषु व्यभिचाराच्चैतन्यस्यात्मत्वेन गुणत्वाभावाच्चेति मन्तव्यम् । तस्माच्चेतनाद्विजातीयारम्भो युक्त इति स्थितम् । तत्रोदाहणान्तरमाह - संयोगाच्चेति । ननु चेतनं ब्रह्म कार्योपादानत्वाद्द्रव्यम् , तन्न विलक्षणस्योपादानमिति प्रकृते किञ्चिद्द्रव्यमेव विलक्षणकार्यकरमुदाहर्तव्यम् , न संयोगस्य गुणस्योदाहरणमिति शङ्कते - द्रव्य इति । गुणात् द्रव्यवच्चेतनादचेतनारम्भ इति विलक्षणारम्भकत्वांशेऽयं दृष्टान्त इति परिहरति - नेति । अनियमः कणादसम्मत इत्याह - सूत्रकारोऽपीति । एतावता कथमनियमः, तत्राह - एतदुक्तमिति । न विलक्षणत्वन्यायेन पुनरुक्त्यभावेऽतिदेशाधिकरणेन पुनरुक्तिरिति शङ्कते - नन्वतिदेश इति । समानगुणारम्भनियमस्य पारिमाण्डल्यादिदृष्टान्तेन भङ्गार्थमस्यारम्भ इत्याह - सत्यमिति ।
तस्यैवातिदेशस्येत्यर्थः ॥११॥ 【भाष्यम्】 【भाष्यम्】 वृत्तानुवादेन 'महद्दीर्घवत्' इति स्वमतस्थापनात्मकाधिकरणस्य सङ्गतिमाह - प्रधानेति । यद्यपि साङ्ख्यमतनिरासानन्तरं परमाणुवादो निराकर्तव्यः स्वमतस्थापनस्य स्मृतिपादे सङ्गतत्वात्तथापि पूर्वत्र प्रधानगुणानां सुखादीनां जगत्यनन्वयात्प्रधानस्यानुपादानत्वमुक्तम् , तथा ब्रह्मगुणचैतन्यानन्वयाद्ब्रह्मणोऽपि नोपादानत्वमिति दोषो दृष्टान्तसङ्गतिलाभादत्र समाधीयत इत्यर्थः । वैशेषिकमतपरीक्षामारभते - उभयथापि न कर्मातस्तदभावः । नास्य प्रासङ्गिकेन पूर्वाधिकरणेन सङ्गतिरपेक्षितेति मन्वानः प्रधानस्येश्वरानधिष्ठितस्याकारणत्वेऽपि परमाणूनां तदधिष्ठितानां कारणत्वमस्त्विति प्रत्युदाहरणसङ्गत्या साङ्ख्याधिकरणानन्तर्यमस्य वदंस्तात्पर्यमाह - इदानीमिति । द्व्यणुकादिक्रमेण परमाणुभिर्जगदारभ्यत इति वैशेषिकराद्धान्तोऽत्र विषयः । स किं मानमूलो भ्रान्तिमूलो वेति सन्देहे पूर्वपक्षयति - स चेति । तैः पटादिभिः सामान्यं क्षित्यादेः कार्यर्द्रव्यत्वं तेनेत्यर्थः । विमतं सावयवं क्षित्यादिकं स्वन्यूनपरिमाणसंयोगसचिवानेकद्रव्यारब्धम् , कार्यद्रव्यत्वात् , पटादिवदिति प्रयोगः । स्वेष्टपरमाणुसिद्ध्यर्थानि साध्यविशेषणानि । नन्वेतावता कथं परमाणुसिद्धिः, तत्राह - स चायमिति । विमतं सावयवत्वं पक्षतावच्छेदकं यतो निवर्तते स न्यूनपरिमाणस्यापकर्षस्य पर्यन्तत्वेनावसानभूमित्वेनावगतः परमाणुरित्यर्थः । यावत्सावयवमनुमानप्रवृत्तेः द्व्यणुकन्यूनद्रव्यं निरवयवं सिद्ध्यतीति भावः । जगन्नित्यत्ववादात्कार्यद्रव्यत्वहेत्वसिद्धिरिति वदन्तं प्रत्याह - सर्वं चेति । विमतमाद्यन्तवत् , सावयवत्वात् , पटवदित्यर्थः । हेतोरसिद्धिं निरस्याप्रयोजकत्वं निरस्यति - न चेति । ते कतिविधा इत्याकाङ्क्षायामाह - तानीति । प्रलये चैषामपि नाशान्न जगत्कारणत्वमित्याशङ्क्याह - तेषां चेति । अवयवानां विभागान्नाशाद्वावयविनो नाशः । परमाणूनां निरवयवत्वेनावयवविभागादेर्नाशहेतोरसम्भवान्न नाश इत्यर्थः । तेषां नित्यत्वे फलितं सृष्टिक्रममाह - तत इति । एवं काणादमतस्य मानमूलत्वात्तेन वेदान्तसमन्वयस्य विरोधादसिद्धिरिति पूर्वपक्षे फलम् । तस्य भ्रान्तिमूलत्वादविरोध इति सिद्धान्तयति - तत्रेदमिति । प्रलये विभक्तानां परमाणूनामन्यतरकर्मणोभयकर्मणा वा संयोगो वाच्यः, कर्मणश्च निमित्तं प्रयत्नादिकं दृष्टम् , यथा प्रयत्नवदात्मकसंयोगाद्देहचेष्टा, वाय्वाद्यभिघाताद्वृक्षादिचलनम् , हस्तनोदनादिष्वादिगमनम् , तद्वदणुकर्मणो दृष्टं निमित्तमभ्युपगम्यते न वा । द्वितीये कर्मानुत्पत्तिः नाद्यः, प्रयत्नादेः सृष्ट्युत्तरकालीनत्वादित्युभयथापि न कर्म सम्भवति । अतः कर्मासम्भवात्तस्य संयोगपूर्वकद्व्यणुकादिसर्गस्याभाव इति सूत्रार्थः । स्थिरस्य वेगवद्द्रव्यसंयोगाविशेषोऽभिघातः स एव चलस्य नोदनमिति भेदः । दृष्टनिमित्ताभावेऽप्यदृष्टवदात्मसंयोगादणुषु कर्मेति शङ्कते - अथादृष्टमिति । विकल्पपुरःसरं दूषयति - तत्पुनरिति । जडात्मवदणोराश्रयत्वं किं न स्यादिति मत्वा विकल्पः कृत इति मन्तव्यम् । अत्रापि सूत्रं योजयति - उभयथेति । जीवाधिष्ठितमदृष्टं निमित्तमस्त्वित्यत आह - आत्मनश्चेति । अचेतनत्वान्नाधिष्ठातृत्वमिति शेषः । भिन्नेश्वरस्याधिष्ठातृत्वमग्रे निराकरिष्यते । अचेतनत्वमदृष्टस्य कर्मनिमित्तत्वाभावे हेतुरुक्तः । हेत्वन्तरमाह - आत्मसमवायित्वेति । गुरुत्ववददृष्टमपि स्वाश्रयसंयुक्ते क्रियाहेतुरिति शङ्कते - अदृष्टवतेति । विभुसंयोगस्याणुषु सदा सत्त्वात्क्रियासातत्ये प्रलयाभावः स्यादिति दूषयति - सम्बन्धेति । कादाचित्कप्रवृत्तेरदृष्टनियम्यत्वायोगेऽपीश्वरान्नियम इत्यत आह - नियामकान्तरेति । यज्ज्ञानं तच्छरीरजन्यमिति व्याप्तिविरोधेन नित्यज्ञानासिद्धेस्तद्गुण ईश्वरो नास्ति, अस्तित्वेऽपि सदा सत्त्वान्न नियामकत्वमिति भावः । सूत्रार्थं निगमयति - तदेवमिति । संयोगस्य हेतुत्वं खण्डयित्वा स्वरूपं खण्डयति - संयोगश्चाणोरिति । संयोगस्य व्याप्यवृत्तित्वे एकस्मिन्नितरस्यान्तर्भावात्कार्यस्य पृथुत्वायोगात्सर्वं कार्यं परमाणुमात्रं स्यादित्यर्थः । किञ्च सांशद्रव्ये संयोगस्यैकांशवृत्तित्वं दृष्टं तद्विरोधाद्व्याप्यवृत्तित्वं न कल्प्यमित्याह - दृष्टेति । परमाणोः संयोग एकदेशेन चेदिति सम्बन्धः । दिग्भेदेन कल्पितप्रदेशस्थसंयोगस्यापि कल्पितत्वात्ततः कार्यं नोत्पद्येत, उत्पन्नं वा मिथ्या स्यादित्यपसिद्धान्त इत्यर्थः । काणादानां सर्गप्रत्युक्तौ सूत्रं योजयित्वा प्रलयनिरासेऽपि सूत्रं योजयति - यथा चेति ।
परमाणूनां कर्मणा संयोगात्सर्गः, विभागात्प्रलय इति प्रक्रिया न युक्ता, युगपदनन्तपरमाणूनां विभागे नियतस्याभिघातादेर्दृष्टस्य निमित्तस्यासत्त्वात् धर्माधर्मरूपादृष्टस्य सुखदुःखार्थत्वेन सुखदुःखशून्यप्रलयप्रयोजकत्वायोगान्नादृष्टनिमित्तेन कर्मणा विभागः सम्भवति । तथा च दृष्टादृष्टनिमित्तयोरसत्त्वादुभयथापि संयोगार्थत्वेन विभागार्थत्वेन च कर्म नास्ति, अतः कर्माभावात्तयोः संयोगविभागपूर्वकयोः सर्गप्रलययोरभाव इति सूत्रयोजना ॥१२॥ 【भाष्यम्】 【भाष्यम्】 समवायाभ्युपगमाच्च तदभावः । अणुवादासम्भव इति योग्यतया सम्बध्यते द्व्यणुकसमवाययोः परमाणुभिन्नत्वसाम्यात् द्व्यणुकवत्समवायस्यापि समवायान्तरमित्यनवस्थितिरित्यर्थः । नन्विह तन्तुषु पट इत्यादिविशिष्टधीनियामकः समवायो न सम्बन्धान्तरमपेक्षते, स्वरूपेणैव नित्यसम्बद्धत्वादिति शङ्कते - नन्विहेति । संयोगस्यापि स्वरूपसम्बन्धोपपत्तेः समवायो न स्यादिति दूषयति - नेति । सम्बन्धिभिन्नत्वाच्चेदपेक्षा समवायस्यापि तुल्या । गुणपरिभाषायाश्चेति ।
गुणत्वाभावेऽपि कर्मसामान्यादीनां समवायाङ्गीकाराद्गुणत्वं समवायित्वे न व्यापकम् । नापि व्याप्यम् , गुणस्यापि समवायवत्स्वरूपसम्बन्धसम्भवेन व्याप्त्यनुकूलतर्काभावात् । तस्मात्सम्बन्धिभिन्नत्वमेव सम्बन्धान्तरापेक्षायां कारणम् , तस्य समवायेऽपि तुल्यत्वादनवस्था दुर्वारा । सा च मूलक्षयकारी । तया समवायासिद्धौ समवेतद्व्यणुकासिद्धिरित्यर्थः ॥१३॥ 【भाष्यम्】 【भाष्यम्】 सूत्रं व्याचष्टे - अपि चेति ।
अनुभवस्वभावत्वे नैमित्तिकी प्रवृत्तिर्वाच्या, निमित्तं च कालादृष्टादिकं नित्यसन्निहितमिति नित्यमेव प्रवृत्तिप्रसङ्गः, तस्यानिमित्तत्वे प्रवृत्त्यभाव इत्यर्थः ॥१४॥ 【भाष्यम्】 【भाष्यम्】 किं च परमाणवः समवायिकारणवन्तः कारणापेक्षया स्थूला अनित्याश्च, रूपवत्त्वात् रसवत्त्वाद्गन्धवत्त्वात्स्पर्शवत्त्वात् घटवदिति सूत्रं योजयितुं परप्रक्रियामाह - सावयवानामित्यादिना । नन्वत्र परमाणुत्वं पक्षतावच्छेदकं तद्विरुद्धं स्थूलत्वं कथं साध्यत इति चेत् । न । वायुत्वतेजस्त्वादेः पृथगवच्छेदकत्वात् । न चाप्रयोजकता, कारणशून्यत्वे नित्यत्वे चात्मवद्रूपादिमत्त्वायोगात् । न च तर्हि वायुः कारणवानिति पृथक्साधने रूपादिहेतूनां भागासिद्ध्यभावेऽपि सिद्धसाधनता स्यादिति वाच्यम् , यत्र स्पर्शस्तत्सकारणम् , यत्र रूपं तत्सकारणमिति व्याप्तिग्रहकाले वायुत्वाद्यवच्छेदेन साध्यसिद्ध्यभावादिति भावः । परमाणवो नित्याः, सत्त्वे सत्यकारणवत्त्वात् , आत्मवदिति सत्प्रतिपक्षमुत्थाप्य विशेष्यासिद्ध्या दूषयति - यच्च नित्यत्व इति । सत्त्वं भावत्वं प्रागभावनिरासार्थम् । नित्यत्वप्रतिषेधः सप्रतियोगिकः, अभावत्वात् , घटाभावावदिति नित्यस्य क्वचित्सिद्धौ कार्यमनित्यमिति विशेषतः कार्ये नित्यत्वप्रतिषेधात्कारणभूतपरमाणुषु नित्यत्वं सिध्यति, अन्यथा प्रतियोग्यभावे प्रतिषेधानुपपत्तेरिति कणादोक्तमनूद्यान्यथासिद्ध्या दूषयति - यदपीति । कार्ये नित्यत्वप्रतिषेधव्यवहारमङ्गीकृत्य ब्रह्मणि प्रतियोगिप्रसिद्धिरुक्ता । वस्तुतस्तु विशेषव्यवहार एवासिद्धः, कारणनित्यत्वस्य प्रमाणान्तरेण ज्ञानं विना कार्यमनित्यमिति व्यवहारायोगादित्याह - न च शब्देति । यदि प्रमाणान्तरं कारणनित्यत्वे स्यात्तदायं व्यवहारः समूलो भवति, ततो मूलज्ञानात्प्राग्व्यवहारमात्रान्न वस्तुसिद्धिः, वटे यक्षव्यवहारादपि तत्सिद्धिप्रसङ्गात् मूलज्ञाने तु तेनैव अशेषसिद्धेर्व्यवहारोपन्यासवैयर्थ्यमिति भावः । एवं परमाणुनित्यत्वे काणादसूत्रद्वयं निरस्य तृतीयं निरस्यति - यदपीति । सतामणूनां दृश्यमानस्थूलकार्याणां प्रत्यक्षेण कारणज्ञानमविद्येति यदि सूत्रार्थः, तर्ह्यप्रत्यक्षकारणत्वं नित्यत्वे हेतुः स्यात् । तन्न द्व्यणुके व्यभिचारादित्यर्थः । यद्यारम्भकद्रव्यशून्यत्वं हेतुविशेषेणं तदा विशेष्यवैयर्थ्यमापद्येत, पुनरुक्तिश्चेत्याह - अथेत्यादिना । परमाणवो नित्याः, नाशकानुपलम्भात् , आत्मवदिति सूत्रार्थमाशङ्कते - अथापीति । तन्त्वाद्यवयवानां विभागान्नाशाद्वा पटादिनाशो दृष्टः, तच्च द्वयं निरवयवाणूनां नास्तीति नित्यत्वमित्यर्थः । परिणामवादमाश्रित्याणूनां नाशकं किञ्चित्सम्भवतीति परिहरति - नेति । अवयवानां संयोगेन द्रव्यान्तरोत्पत्तिरारम्भ इति यदि मतं स्यात् , तदा द्रव्यविनाशो द्वाभ्यामेवेतिनियमः स्यात् । नारम्भे मानमस्ति संयुक्ततन्त्वन्यवपटादर्शनात् । अतः कारणमेव स्वतो निर्विशेषं विशेषवदवस्थात्मना कार्यमित्यनुभवबलादास्थेयम् । तथा चाणूनामप्यविद्यापरिणामरूपाणां प्रलयनिमित्तेन कालादिना पिण्डात्मकस्वरूपतिरोभावेन कारणभावापत्तिर्विनाश उपपद्यते । यथाग्निसम्पर्काद्घृतकाठिन्यमवयवसंयोगस्यावयवानां च नाशं विनैव लीयते तद्वत् । न च काठिन्यस्य संयोगविशेषत्वेन गुणत्वाद्द्रव्यनाशेऽनुदाहरणत्वमिति शङ्क्यम् , गुणवद्द्रव्यस्यापि कुतश्चिद्विनाश इत्यंशेनोदहरणात् , गुणपरिभाषायाश्चातन्त्रत्वात् । वस्तुतस्तु घृतं कठिनं द्रवमित्यनुस्यूतघृतपरिणामविशेषो द्रव्यमेव काठिन्यम् । न च द्रव्यत्वेऽप्यवयवविभागादेव तस्य नाश इति वाच्यम् , घृतस्य परिणामिन एकत्वेन विभागासम्भवात् , परमाणुकाठिन्यनाशे तदसम्भवाच्चेति भावः । किञ्च प्रलये नासीद्रजो नान्यत्किञ्चनेत्यणूनां नाशसिद्धिः । तस्मान्न तेषां परमकारणत्वमित्युपसंहरति -
तस्मादिति ॥१५॥ 【भाष्यम्】 【भाष्यम्】 यद्यस्मादधिकगुणवत्तत्तस्मात्स्थूलमिति व्याप्तिमुक्त्वा विकल्पयति - तद्वदिति । पार्थिवः परमाणुरधिकगुणस्तत एकैकन्यूनगुणा जलादिपरमाणव इति कल्प्यते, न वा । आद्ये दोषमाह - कल्प्यमान इति । मूर्त्युपचयात्स्थौल्यादित्यर्थः । पार्थिवोऽणुराप्यात्स्थूलः, अधिकगुणत्वात् , घटवदित्येवं प्रयोक्तव्यः । अप्रयोजकत्वं निरस्यति - न चान्तरेणेति । दृष्टविरोधः स्यादिति भावः । नेति पक्षे सर्वेषामणूनां साम्यार्थमेकैकगुणवत्त्वं वा स्याच्चतुर्गुणवत्वं वा । उभयथापि दोषमाह -
अकल्प्यमाने त्वित्यादिना ॥१६॥ 【भाष्यम्】 【भाष्यम्】 न केवलमणुवादस्यायुक्तत्वादुपेक्षा किन्तु शिष्टबहिष्कृतत्वाद्ग्रन्थतोऽर्थतश्चाग्राह्यत्वमित्याह - अपरिग्रहाच्चेति । चकारार्थं प्रपञ्चयितुमुपक्रमते - अपि चेति । अत्यन्तभेदज्ञापकमाह - भिन्नलक्षणादिति । द्रव्यगुणकर्मणां द्रव्यत्वगुणत्वकर्मत्वजातयो लक्षणानि, गुणाश्रयत्वाद्युपाधयो वा, निर्गुणत्वे सति जातिमदक्रियत्वं गुणलक्षणम् , संयोगविभागयोर्निरपेक्षकारणं कर्म, नित्यमेकमनेकसमवेतं सामान्यम् , नित्यद्रव्यवृत्तयो विशेषाः, नित्यः सम्बन्धः समवाय इति भिन्नानि लक्षणानि । तैर्मिथोऽत्यन्तभेदसिद्धिरित्यर्थः । तथात्वमत्यन्तभिन्नत्वम् । तेन विरुद्धो यो धर्मधर्मिभावः । गुणादयो न द्रव्यधर्माः स्युः, ततोऽत्यन्तभिन्नत्वात् , शशकुशादिवदित्यर्थः । भेदबाधकत्वमुपन्यस्याभेदमाह - अथ भवतीति । गुणादिषु तदधीनत्वं तावदन्वयव्यतिरेकसिद्धम् , तथा च गुणादयो द्रव्याभिन्नाः, द्रव्याधीनत्वात् , यद्यस्माद्भिन्नं तन्न तदधीनम् , यथा शशभिन्नः कुश इत्यर्थः । अभेदे द्रव्यं गुण इति शब्दप्रत्ययभेदः कथम् , तत्राह - द्रव्यमिति । कल्पितभेदोऽप्यस्तीत्याशयः । अन्यथात्यन्तभेदवदत्यन्ताभेदेऽपि धर्मधर्मित्वायोगादिति मन्तव्यम् । अस्तु गुणादीनां द्रव्यतादात्म्यमिति वदन्तं तार्किकमन्यं प्रत्याह - तथा सतीति । साङ्ख्योऽत्र वेदान्ती ग्राह्यः । यद्वा कापिलस्यापि तादात्म्यसिद्धान्त इति साङ्ख्यग्रहणम् । यद्यपि तदधीनत्वं तद्धर्मत्वम् , तच्च धूमे नास्ति, अग्निं विनापि भावात् , तथापि तत्कार्यत्वं तदधीनत्वं मत्वा व्यभिचारं शङ्कते - नन्विति । कार्यत्वमन्यत्वं चाङ्गीकरोति - सत्यमिति । तथापि तादात्म्येन प्रतीयमानत्वस्य हेतोर्विवक्षितत्वान्न व्यभिचार इत्याशयः । अस्य हेतोरन्यथासिद्धिमाशङ्कते - गुणादीनामिति । गुणादीनां द्रव्येणाभेदाभावेऽप्ययुतसिद्धत्वेन तादात्म्यप्रतीतिसिद्धिरित्यर्थः । दूषयितुं विकल्पयति - तत्पुनरिति । शौक्ल्यस्य पटनिष्ठत्वात्पटस्य तन्तुदेशत्वात्पटशौक्ल्ययोरपृथग्देशत्वाभावाच्छुक्लः पट इति सामानाधिकरण्यप्रतीतिर्न स्यादित्याद्यं दूषयति - अपृथग्देशत्व इति । काणादसूत्रद्वयं व्याचष्टे - तन्तवो हीति । स्वभावो हि स्वरूपं तस्यापृथक्त्वेऽस्मदिष्टाभेदसिद्धिरित्याह - अपृथक्त्वभावत्व इति । अभेदे युक्तिमाह - तस्येति । गुणस्येत्यर्थः । एवं षट्पदार्था अत्यन्तभिन्ना इति सिद्धान्तोऽनुभवविरोधेन दूषितः । सिद्धान्तान्तरं दूषयति - युतेति । अयुतसिद्धत्वं किमुभयोरुतान्यतरस्य । नाद्य इत्याह - प्रागिति । द्वितीयमाशङ्क्य दूषयति - अथेत्यादिना । कारणस्य पृथक्सिद्धत्वेऽपि कार्यमपृथक्सिद्धमित्युक्तमुपेत्य सम्बन्धोऽसिद्धस्य सिद्धस्य वेति विकल्प्याद्यं दूषयित्वा द्वितीयं शङ्कते - सिद्धं भूत्वेति । सतोरप्राप्तयोः प्राप्तिः संयोग इत्यभ्युपगमात्तन्तुपटयोरपि संयोगापत्तिरित्यपसिद्धान्तः स्यादित्यर्थः । सद्योजातपटस्य क्रियाभावात्कथं संयोगः, तत्राह - यथेति । किञ्च सम्बन्धस्यापि सम्बन्धेऽनवस्थानादसम्बद्धस्यानियामकत्वात्सम्बन्धोऽपि दुर्निरूप इत्याह - नापीति । सम्बन्धः सम्बन्धिभिन्नः, तद्विलक्षणशब्दधीगम्यत्वात् , वस्त्वन्तरवदिति शङ्कते - सम्बन्धीति । कल्पितभेदसाधने सिद्धसाधनता, वस्तुभेदसाधने तु व्यभिचार इति समाधत्ते - न । एकत्वेऽपीति । स्वरूपेणैव मनुष्यादिशब्दभागेव पुत्राद्यपेक्षया पितेत्यादिविलक्षणशब्दधीगम्यो भवति, न च भिद्यत इति व्यभिचार इत्यर्थः । फलितमाह - इत्युपलब्धीति । विलक्षणशब्दधीगम्यत्वादित्युपलब्धिघटितेन लक्षणेन लिङ्गेन प्राप्तस्य वस्त्वन्तरस्य संयोगादेः सम्बन्धिव्यतिरेकेणानुपलब्धेरभावो निश्चीयत इत्यर्थः । न ह्यङ्गुलिद्वयस्य नैरन्तर्यातिरेकेण संयोग उपलभ्यते । समवायस्तु न कस्यापि क्वचिदप्यनुभवमारोहतीति भावः । सम्बन्धस्य सम्बन्ध्यभेदे सम्बन्धिनः सदा सत्त्वात्सर्वदा सम्बन्धबुद्धिप्रसङ्ग इति शङ्कां निषेधति - नापीति । परापेक्षया नैरन्तर्यावस्थायामङ्गुल्योः रूपरूपिणोश्च सम्बन्धिधीः, न स्वत इत्युक्तमित्यर्थः । पूर्वं परमाण्वोः संयोगनिरासेन द्व्यणुकादिसृष्टिर्निरस्ता, सम्प्रत्यदृष्टवदात्मनाणूनां संयोगोऽणुषु क्रियाहेतुः, आत्ममनसोः संयोगो बुद्ध्याद्यसमवायिकारणं निरस्यते - तथाण्वात्मेति । निरस्तमपि कल्पितप्रदेशपक्षमतिप्रसङ्गाख्यदोषान्तरं वक्तुं पुनरुद्भावयति - कल्पिता इति । कल्पनमूहः । ऊहितार्थाः सन्तोऽसन्तो वा । द्वितीये न संयोगसिद्धिः स्वस्वाभावयोरेकत्र वृत्त्यवच्छेदकासत्त्वात् । आद्ये तूहमात्रेण सर्वार्थसिद्धिप्रसङ्गः, ऊहस्य स्वाधीनत्वात् । प्रभूतत्वं निरवधित्वं तत्सम्भवाच्चेत्यर्थः । यद्यूहात्सर्वसिद्धिस्तदा पदार्थबन्धमुक्तिनियमा लुप्येरन्नित्याह - न चेत्यादिना । संयोगं दूषयित्वा समवायं दूषयति - किञ्चान्यदिति । तन्मते दूषणान्तरमुच्यत इत्यर्थः । संश्लेषः सङ्ग्रहः । यत एकाकर्षणेनापराकर्षणं तस्यानुपपत्तिरित्यर्थः । द्व्यणुकं निरवयवासमवेतम् , सावयवत्वात् , आकाशासमवेतभूमिवदिति भावः । ननु द्व्यणुकस्यासमवेतत्वे तदाश्रितत्वं न स्यात् , सम्बन्धं विना तदयोगात् । न च संयोगादाश्रितत्वं कार्यद्रव्यस्य प्रकृत्यसंयोगादिति शङ्कते - कार्येति । प्रकृतिविकारयोरभेदादाश्रयाश्रयिभावानुपपत्तिरिष्टेति परिहरति - नेति । भेदात्तद्भाव इति वदन्तं प्रत्याह - इतरेतराश्रयत्वादिति । कथं तर्हि कार्यस्य कारणाश्रितत्वव्यवहारः कल्पितभेदादित्याह - कारणस्यैवेति । परमाणूनां निरवयवत्वमप्ययुक्तमित्याह - किञ्चेति । परमाणवः सावयवाः, अल्पत्वात् , घटवत् । विपक्षे तेषां दिग्भेदावधित्वं न स्यादात्मवदित्यर्थः । ननु परमाण्वपेक्षया योऽयं प्राची दक्षिणेत्यादिदिग्भेदव्यवहारस्तदवधित्वेन येऽवयवास्त्वयोच्यन्ते त एव मम परमाणवस्तेऽपि सावयवाश्चेत्तदवयवा एवेति, एवं यतः परं न विभागः स एव निरवयवः परमाणुरिति शङ्कते - यांस्त्वमिति । परिहरति - न । स्थूलेति । अयमर्थः - यत्सवात्मना विभागायोग्यं वस्तु स परमाणुरिति यद्युच्येत तर्हि ब्रह्मण एव परमाणुसंज्ञा कृता स्यात् , तदन्यस्याल्पस्य दिग्विभागार्हत्वेनावयवविभागावश्यं भावात् । यदि पृथिव्यादिजातीयोऽल्पपरिमाणविश्रान्तिभूमिर्यः स परमाणुरित्युच्येत तर्हि तस्य न मूलकारणत्वम् , विनाशित्वात् , घटवत् । न च हेत्वसिद्धिः, अणवो विनाशिनः, पृथिव्यादिजातीयत्वात् , घटवदिति साधनादिति । सम्प्रति निरवयवद्रव्यस्य नाशहेत्वभावादात्मवदविनाश इत्याशङ्क्य पूर्वोक्तं परिहारं स्मारयति - विनश्यन्त इत्यादिना । ब्रह्मातिरिक्तस्याज्ञानिकत्वाच्च द्रव्यस्य निरवयवत्वमसिद्धम् । निमित्तादृष्टादिनाशाद्विनाशः प्रलये सम्भवति, मुक्तौ ज्ञानादज्ञाननाशे तत्कार्याणुनाशसम्भव इति भावः । यदुक्तं यत्कार्यद्रव्यं तत्संयोगसचिवानेकद्रव्यारब्धमिति, तन्नेत्याह - तथा कार्यारम्भोऽपीति । कैवल्यं प्राधान्यम् । कार्यद्रव्यस्थितावपि हेतुत्वात्संयोगस्य क्षीरारम्भकसंयोगाद्दध्यारम्भकं न संयोगान्तरम् , तथा च दध्यादौ व्यभिचारान्न व्याप्तिरित्यर्थः । किञ्च यत्कार्यद्रव्यं तद्द्रव्यारभ्यमित्येव व्याप्तिरस्तु लाघवात् , न तु संयोगसचिवस्वन्यूनपरिमाणानेकद्रव्यारभ्यमिति, गौरवात् , दीर्घविस्तृतदुकूलारब्धरज्जौ न्यूनपरिमाणायां व्यभिचाराच्च । न च रज्जुर्न द्रव्यान्तरमिति वाच्यम् , अवयविमात्रविप्लवापातात् । किञ्च निरवयवद्रव्यत्वस्यैकात्मवृत्तित्वे लाघवान्न निरवयवानेकाणुसिद्धिः । यत्त्वणुत्वतारतम्यविश्रान्तिभूमित्वेन तत्सिद्धिरिति । तन्न । त्र्यणुकत्वेनोक्तत्रुटिषु विश्रान्तेः । न च त एव त्रुटिनामानो जगद्धतेव इति वाच्यम् , पृथिवीत्वादिना सावयवत्वानित्यत्वयोरनुमानात् । न चावयवत्वस्य क्वचिद्विश्रान्तौ परमाणुसिद्धिरविश्रान्तावनवस्थेति वाच्यम् , मायायां ब्रह्मणि वावयवत्वविश्रान्तिसम्भवात् । अतो न किञ्चिदणुसद्भावे प्रमाणम् । निरवयवानां संयोगसमवाययोरसम्भवात्समवेतद्व्यणुकाद्यारम्भकत्वायोग इत्यादि बाधकमुक्तमेव । सम्प्रति 'अपरिग्रहाच्च' इति सूत्रवाक्यशेषं पूरयन्नधिकरणार्थमुपसंहरति - तदेवमिति ।
तस्माद्भ्रान्तिमूलेन वैशेषिकमतेन वेदान्ततात्पर्यस्याविरोध इति सिद्धम् ॥१७॥ 【भाष्यम्】 【भाष्यम्】 वैशेषिकं निरस्य वैनाशिकं निरस्यति - समुदाय इति । परिमाणभेदेन देहादेराशुतरविनाशाङ्गीकारादर्धवैनाशिको वैशेषिकस्तस्य निरासानन्तरं सर्वक्षणिकवादी बुद्धिस्थो निरस्यत इति प्रसङ्गसङ्गतिमाह - वैशेषिकेति । 'नाभाव उपलब्धेः' इति निरसनीयसिद्धान्तादत्र निरस्यसिद्धान्तस्य भेदं वक्तुं तत्सिद्धान्तं विभजते - स चेति । ननु सुगतप्रोक्तागमस्यैक्यात्कुतो बहुप्रकारता, तत्राह - प्रतिपत्तीति । एकस्यैवागमव्याख्यातुः शिष्यस्यावस्थाभेदेन बुद्धिभेदात् , मन्दमध्यमोत्तमधियां शिष्याणां वा भेदाद्बहुप्रकारतेत्यर्थः । तानेव प्रकारानाह - तत्रेति । सौत्रान्तिको वैभाषिको योगाचारी माध्यमिकश्चेति चत्वारः शिष्याः । तेष्वाद्ययोर्बाह्यार्थानां परोक्षत्वापरोक्षत्वविवादेऽप्यस्तित्वसम्प्रतिपत्तेस्तयोः सिद्धान्तमेकीकृत्य निरस्यत इत्याह - तत्र ये सर्वास्तित्वेति । भूतं भौतिकं बाह्यम् , चित्तं चैत्तं च कामाद्यान्तरमिति विभागः । तत्र सन्दिह्यते किं मानमूलो भ्रान्तिमूलो वायं सिद्धान्त इति । तत्र प्रमाणमूल इति पूर्वपक्षयन् सिद्धान्तं तदीयं दर्शयति - तत्र भूतमिति । स्थिरः प्रपञ्चो ब्रह्महेतुक इति वेदान्तसिद्धान्तस्य मानमूलक्षणिकसिद्धान्तविरोधादसिद्धिः पूर्वपक्षे फलम् , सिद्धान्ते तदविरोध इति ज्ञेयम् । पृथिव्यादिभूतचतुष्टयं विषयेन्द्रियात्मकं भौतिकं च परमाणुसमुदाय एव नावयव्यन्तरमिति मत्वा परमाणून् विभजते - चतुष्टये चेति । चतुर्विधा इत्यर्थः । खरः कठिनस्तत्स्वभावाः पार्थिवाः परमाणवः, स्निग्धा आप्याः, उष्णास्तैजसाः, ईरणं चलनस्वभावो वायव्यानामिति । बाह्यसमुदायमुक्त्वाध्यात्मिकसमुदायमाह - तथेति । सविषयेन्द्रियाणि रूपस्कन्धः विषयाणां बाह्यत्वेऽपि देहस्थेन्द्रियग्राह्यत्वादाध्यात्मिकत्वम् , अहमहमित्यालयविज्ञानप्रवाहो विज्ञानस्कन्धः, सुखाद्यनुभवो वेदनास्कन्धः, गौरश्व इत्येवं नामविशिष्टसविकल्पकप्रत्ययः संज्ञास्कन्धः, रागद्वेषमोहधर्माधर्माः संस्कारस्कन्धः । तत्र विज्ञानस्कन्धश्चित्तमात्मेति गीयते । अन्ये चत्वारः स्कन्धाश्चैत्तास्तेषां सङ्घात आध्यात्मिकः । सकललोकयात्रानिर्वाहक इत्यर्थः । अवयवातिरिक्तावयव्यनुपलब्धेरवयवाः शिष्यन्ते, यत्सत्तत्क्षणिकम् , यथा विद्युदिति तेषां क्षणिकत्वमिति मानमूलोऽयं सिद्धान्त इति प्राप्ते सिद्धान्तसूत्रं योजयति - योऽयमिति । सर्गादौ परमाणूनां च स्कन्धानां च स्वतःसङ्घातस्तावन्न सम्भवति, अचेतनत्वात् । नापि चित्ताख्यमभिज्वलनं विज्ञानं समुदायहेतुः, सङ्घाते देहाकारे जाते विज्ञानं विज्ञाने जाते सङ्घात इत्यन्योन्याश्रयात् । न च क्षणिकविज्ञानादन्यः कश्चिज्जीव ईश्वरो वा त्वयाभ्युपगम्यते यः सङ्घातकर्ता भवेत् । न च कर्तारमनपेक्ष्याणवः स्कन्धाश्च स्वयमेव सङ्घातार्थं प्रवर्तन्त इति वाच्यम् , अनिर्मोक्षप्रसङ्गात् । नन्वालयविज्ञानसन्तानः संहन्तास्त्वित्यत आह - आशयस्येति । आशेरतेऽस्मिन् रागादय इत्याशयः सन्तानः, स किं सन्तानिभ्योऽन्यो विज्ञानिभ्योऽन्योऽनन्यो वा । आद्येऽपि स्थिरः क्षणिको वा । नाद्यः, अस्मदिष्टनित्यात्मवादप्रसङ्गात् । द्वितीये दोषमाह - क्षणिकत्वेति ।
क्षणिकस्य जन्मातिरिक्तव्यापारो नास्ति, तस्मात्तस्य परमाण्वादिमेलनार्थं प्रवृत्तिरनुपपन्ना । क्षणिकत्वव्याघातादित्यर्थः । एतेनानन्यः सन्तान इति पक्षो निरस्तः, क्षणिकस्य मेलकत्वानुपपत्तेः । तस्मात्संहन्तुरसत्त्वात्सङ्घातानुपपत्तिरित्यर्थः ॥१८॥ 【भाष्यम्】 【भाष्यम्】 संहन्तुरभावेऽपि सङ्घातोपपत्तिमाशङ्क्य निषेधति - इतरेति । कार्यं प्रत्ययते गच्छतीति प्रत्ययः कारणम् । अविद्यादिभिरेवार्थात्सङ्घातसिद्धौ व्यवहारोपपत्तिरित्यर्थः । अविद्यादीनाह - ते चेति । क्षणिकेषु स्थिरत्वबुद्धिरविद्या, ततो रागद्वेषमोहाः संस्कारा भवन्ति, तेभ्यो गर्भस्थस्याद्यं विज्ञानमुत्पद्यते, तस्माच्चालयविज्ञानात्पृथिव्यादिचतुष्टयं नामाश्रयत्वान्नाम भवति । ततो रूपं सितासितात्मकं शुक्रशोणितं निष्पद्यते ।गर्भस्य कललबुद्बुदावस्था नामरूपशब्दार्थ इति निष्कर्षः । विज्ञानं पृथिव्यादिचतुष्टयं रूपं चेति षडायतनानि यस्येन्द्रियजातस्य तत्षडायतनम् , नामरूपेन्द्रियाणां मिथः संयोगः स्पर्शः, ततः सुखादिका वेदना, तया पुनर्विषयतृष्णा, तया प्रवृत्तिरूपादानम् , तेन भवत्यस्माज्जन्मेति भवो धर्मादिः, ततो जातिर्देहजन्म पञ्चस्कन्धसमुदाय इति यावत् । जातानां स्कन्धानां परिपाको जरास्कन्धः, मरणं नाशः, म्रियमाणस्य पुत्रादिस्नेहादन्तर्दाहः शोकः, तेन हा पुत्रेत्यादिविलापः परिदेवना, अनिष्टानुभवो दुःखम् , तेनं दुर्मनस्ता मानसी व्यथा, इतिशब्दो मानापमानादिक्लेशसङ्ग्रहार्थः । न केवलं सुगतानामेवाविद्यादयः सम्मताः, किन्तु सर्ववादिनामपीत्याह - सर्वेषामिति । अविद्यादिहेतुका जन्मादयो जन्मादिहेतुकाश्चाविद्यादय इति मिथो हेतुहेतुमद्भावादर्थात्सङ्घातसिद्धिरिति शङ्कामुपसंहरति - तदेवमिति । सिद्धान्तभागं व्याचष्टे - तन्नेति । अविद्यादीनामुत्तरोत्तरहेतुत्वमङ्गीकृत्य सङ्घातहेत्वभावात्सङ्घातो न स्यादित्युक्ते पूर्वोक्तं स्मारयति - नन्विति । किमविद्यादयः सङ्घातस्य गमका उतोत्पादका इति विकल्प्याद्ये सङ्घातस्योत्पादकं किञ्चिद्वाच्यम् , तन्नास्तीत्याह - अत्रोच्यते, यदीति । आश्रयाश्रयिभूतेष्विति भोक्तृविशेषणम् । अदृष्टाश्रयेष्वित्यर्थः । यदा स्थिरेष्वणुषु सङ्घातयोग्येषु कर्तृषु चादृष्टसहायेषु सत्सु ज्ञानाभावमात्रेण संहतिकर्तृत्वायोगात्सङ्घातापत्तेर्निमित्तं नास्तीत्युक्तं तदा क्षणिकपक्षे तन्नास्तीति किमु वक्तव्यमित्याह - किमिति । आश्रयाश्रयः सङ्घातकर्ता तच्छून्येष्वित्यर्थः । 'आश्रयाश्रयिशून्येषु' इति पाठे उपकार्योपकारकत्वशून्येष्वित्यर्थः । द्वितीयं शङ्कते - अथायमिति । सङ्घातस्याविद्यादीनां चोत्पत्तावन्योन्याश्रयः स्यादिति दूषयति - कथमिति । स्वाभाविकः खल्वयं सङ्घातानां हेतुहेतुमद्भावेन प्रवाहो न संहन्तारमपेक्षते, पूर्वसङ्घाताश्रया अविद्यादय उत्तरसङ्घातप्रवर्तका इति नान्योन्याश्रयदोषोऽपीत्याशङ्कते - अथ मन्यस इति । स्वभावस्य नियमानियमयोरपसिद्धान्तापातः स्यादिति परिहारार्थः । पूर्यते गलति चेति पुद्गलो देहः । किञ्च भोक्तुः क्षणिकत्वपक्षे भोगापवर्गव्यवहारोऽपि दुर्घट इत्याह - अपि चेति । यो यदिच्छति स तत्काले नास्ति चेदिच्छा व्यर्था, अस्ति चेत्क्षणिकत्वभङ्ग इत्यर्थः । प्रकृतं सङ्घातनिरासमुपसंहरति -
तस्मादिति ॥१९॥ 【भाष्यम्】 【भाष्यम्】 द्विविधो हि कार्यसमुत्पादः सुगतसम्मतो हेत्वधीनः कारणसमुदायाधीनश्चेति । तत्राविद्यातः संस्कारस्ततो विज्ञानमित्येवंरूपः प्रथमः, पृथिव्यादिसमुदायात्काय इत्येवं द्वितीयः । तत्राद्यमङ्गीकृत्य द्वितीयः सङ्घातकर्त्रभावेन दूषितः । सम्प्रत्याद्यं दूषयति सूत्रकारः - उत्तरेति । क्षणिकोऽर्थः क्षणिक इत्युच्यते । निरुध्यमानत्वं विनाशकसान्निध्यम् , निरुद्धत्वमतीतत्वम् । ननु कार्यकाले विनाशव्याप्तत्वेऽपि पूर्वक्षणे सत्त्वात्क्षणिकार्थस्य हेतुत्वमक्षतमिति शङ्कते - अथ भावेति । सद्रूप इत्यर्थः । किं हेतोरुत्पत्त्यतिरिक्तः कार्योत्पादनाख्यो व्यापारः, अनतिरिक्तो वा । नाद्य इत्युक्त्या द्वितीयं शङ्कते - अथेति । भाव उत्पत्तिः । उक्तं हि 'भूतिर्येषां क्रिया सैव कारकं सैव चोच्यत' इति । येषां क्षणिकभावानां या भूतिः सैव क्रिया कारकं चेत्यर्थः । नष्टस्यापि निमित्तत्त्वं स्यान्नोपादानत्वम् , तथा च मृदादेर्घटादिकालासत्त्वे घटाद्यनुत्पत्तिः । सत्त्वे च क्षणिकत्वहानिरिति परिहरति - तथापीत्यादिना । प्रथमपक्षेक्तदोषं द्रढयति - विनैवेति । वस्तुनो जन्मध्वंसानिरूपाणाच्च न क्षणिकत्वमित्याह - अपि चेति । तयोः स्वरूपत्वे वस्तुन्यन्तर्भावाद्वस्तुनोऽनाद्यनन्तत्वमित्यपि द्रष्टव्यम् । द्वितीयं शङ्कते - अथास्तीति । विशेषमेवाह - उत्पादेति । दूषयति - एवमपीति । ताभ्यां संसर्गे वस्तुनः क्षणिकत्वभङ्गः स्यात् । संसर्ग एव नास्तीति तृतीयकल्पमुत्थाप्य दूषयति -
अथात्यन्तेति ॥२०॥ 【भाष्यम्】 【भाष्यम्】 सूत्रं व्याख्यातुं वृत्तं स्मारयति - क्षणभङ्गेति । किं कार्योत्पत्तिर्निर्हेतुका सहेतुका वा । आद्ये प्रतिज्ञाहानिरित्याह - अथासत्येवेत्यादिना । विषयकरणसहकारिसंस्काराश्चतुर्विधा हेतवस्तान् प्रतीत्य प्राप्य चित्तं रूपादिविज्ञानं चैत्ताश्चित्तात्मकाः सुखादयश्च जायन्त इति प्रतिज्ञार्थः । यथा नीलविज्ञानस्य नीलवस्त्वालम्बनप्रत्ययो विषयः, चक्षुः करणमधिपतिप्रत्ययः, सहकारिप्रत्यय आलोकः, समनन्तरपूर्वप्रत्ययः संस्कार इति भेदः । प्रतिज्ञाहानिं पुरुषदोषमुक्त्वा वस्तुदोषमप्याह - निर्हेतुकायां चेति । सहेतुकत्वपक्षेऽन्वयिकारणस्य मृदादेः कार्यसहभावापत्त्या क्षणिकत्वप्रतिज्ञाहानिरिति सूत्रशेषं व्याचष्टे - अथोत्तरक्षणेत्यादिना ।
सम्यक्क्रियन्त इति संस्काराः । आद्यन्तवन्तो भावा इत्यर्थः ॥२१॥ 【भाष्यम्】 【भाष्यम्】 एवमाद्यसूत्राभ्यां समुदायो निरस्तः । उत्तरसूत्राभ्यां कार्यकारणभावक्षणिकत्वे निरस्ते । सम्प्रति तदभिमतं द्विविधं विनाशं दूषयति - प्रतिसङ्ख्येति । संस्कृतमुत्पाद्यं बुद्धिबोध्यं प्रमेयमात्रम् , त्रयात्तुच्छरूपादन्यदित्यर्थः । किं तत्त्रयम् , तदाह - तदपीति । निरुपाख्यं निःस्वरूपम् । प्रतीपा प्रतिकूला सङ्ख्या सन्तं भावमसन्तं करोमीत्येवंरूपा बुद्धिः प्रतिसङ्ख्या, तया निरोधः कस्यचिद्भावस्य भवति । अबुद्धिपूर्वकस्तु स्तम्भादीनां स्वरसभङ्गुराणामित्याह - तद्विपरीत इति । परक्रियामुक्त्वा सूत्रं व्याचष्टे - तेषामिति । भावाः सन्तानिनः । सन्तानो नाम भावानां हेतुफलभावेन प्रवाहः, तस्मिन् सन्ताने चरमक्षणः क्षणान्तरं करोति वा न वा । आद्ये चरमत्वव्याघातः, सन्तानाविच्छेदात् । द्वितीये चरमस्यासत्त्वप्रसङ्गः, अर्थक्रियाकारित्वं सत्त्वमिति स्वसिद्धान्तात् , चरमस्यासत्त्वे पूर्वेषामप्यसत्त्वप्रसङ्गः, अर्थक्रियाशून्यत्वात् । तस्मात्सन्तानस्य विच्छेदासम्भवान्निरोधाप्राप्तिरित्याह - न तावदिति । न द्वितीय इत्याह - नापीति । घटकपालचूर्णाद्यवस्थासु सेयं मृदिति प्रत्यभिज्ञानादन्वयिभावस्य मृदादेर्नात्यन्तिकविनाश इत्यर्थः । बीजस्याङ्कुरादिषु प्रत्यभिज्ञानादर्शनादन्वयिनो विच्छेद इत्यत आह - अस्पष्टेति ।
अङ्कुरादयोऽनुस्यूतान्वयिभावस्थाः, कार्यत्वात् पटवदित्यन्वय्यविच्छेदसिद्धिरित्यर्थः । यस्माद्भावानां स्थायित्वं तस्मात्प्रतिक्षणनिरोधासम्भव इत्युपसंहारः ॥२२॥ 【भाष्यम्】 【भाष्यम्】 अविद्यादीनां प्रतिसङ्ख्यानिरोधं तदभिमतं दूषयति - उभयथेति ।
यमनियमादयः परिकराः । सर्वं दुःखं क्षणिकमिति भावनोपदेशो मार्गोपदेशः ॥२३॥ 【भाष्यम्】 【भाष्यम्】 आगमप्रामाण्यादिति । तत्राकाशस्य कार्यत्वोक्त्या घटादिवद्वस्तुत्वं प्रसिध्यतीत्यर्थः । नन्वागमप्रामाण्ये विप्रतिपन्नान्सुगतान्प्रत्याकाशस्य वस्तुत्वं कथं सिध्यतीत्यत आह - विप्रतिपन्नानिति । शब्दो वस्तुनिष्ठः गुणत्वात् , गन्धादिवदित्यनुमानादाकाशस्य वस्तुत्वं सिध्यति । पृथिव्याद्यष्टद्रव्याणां श्रोत्रग्राह्यगुणाश्रयत्वायोगादित्यर्थः । आकाशस्य भावत्वं प्रसाध्याभावत्वं दूषयति - अपि चेति । यथैकघटसत्त्वेऽपि घटसामान्याभावो नास्ति तथैकपक्षिसत्त्वेऽपि मूर्तद्रव्यसामान्याभावात्मकाकाशो नास्त्येवेति पक्ष्यन्तरसञ्चारो न स्यादित्यर्थः । देशविशेषावच्छेदेनावरणाभावोऽस्तीत्याशङ्क्याभावावच्छेदकदेशविशेष एवाकाशो नाभाव इत्याह - यत्रेत्यादिना । पतिष्यति । पक्षी सञ्चरिष्यतीत्यर्थः । आकाशस्यावस्तुत्वं स्वग्रन्थविरुद्धं चेत्याह - अपि चेति । किं सम्यक् निश्रय आश्रयोऽस्या इति किंसन्निश्रया । अवस्तुनः शशविषाणस्याश्रयत्वादर्शनादिति । व्याघातान्तरमाह - अपि चेति ।
ध्वंसाप्रतियोगिताख्यो धर्मो नित्यत्वं नासति सम्भवति । धर्मिणोऽसत्त्वव्याघातादित्यर्थः ॥२४॥ 【भाष्यम्】 【भाष्यम्】 आत्मनः क्षणिकत्वं दूषयति - अनुस्मृतेरिति । अनुभवजन्यस्मृतिरनुस्मृतिस्तस्यामनुभवसमानाश्रयत्वात्तदुभयाश्रयात्मनः स्थायित्वमित्यर्थः । क्षणिकत्वे ज्ञानद्वयानुसन्धानं च न स्यादित्याह - कथं ह्यहमिति । पूर्वदर्शनकर्तुरद्राक्षमिति स्मरणकर्तैक्यप्रत्यभिज्ञानाच्चात्मानः स्थायित्वमित्याह - अपि चेति । योऽहमदः पूर्वमद्राक्षं स एवाहमद्य तत्स्मरामीति प्रत्यभिज्ञानाकारो द्रष्टव्यः । इदं पश्यामीति ज्ञानान्तरसम्बन्धकथनम् , योऽहमद्राक्षं सोऽहं पश्यामीति प्रत्यभिज्ञान्तरद्योतनार्थम् । विपक्षे बाधकमाह - यदि हीति । द्रष्टृस्मर्त्रोर्भेदेऽहं स्मरामि अन्योऽद्राक्षीदिति प्रतीतिः स्यादित्यत्र दृष्टान्तमाह - यत्रैवमिति । प्रत्ययमाह - स्मरामीति । स्मराम्यहमन्योऽद्राक्षीदिति प्रत्ययो यत्र तत्र भिन्नमेव कर्तारं लोकोऽवगच्छतीत्यविवादमित्यर्थः । प्रकृतप्रत्यभिज्ञायां तादृशभेदप्रत्ययस्य बाधकस्यादर्शनादात्मस्थायित्वं दुर्वारमित्याह - इह त्वहमद इति । यथाग्नेरौष्ण्यादिकं न बाधते कश्चित्तथा नाहमद्राक्षमिति पूर्वदर्शनं न निह्नुत इत्यनेन बाधाभावात्प्रत्यभिज्ञा प्रमेत्युक्तं भवति । तथा द्रष्टृस्मर्त्रोरैक्ये सति स्थायित्वं फलितमित्याह - तत्रैवं सतीति । क्षणद्वयसम्बन्धेऽप्यात्मनस्तृतीयक्षणे भङ्गोऽस्त्विति वदन्तं प्रत्याह - तथेति । वर्तमानदशामारभ्योत्तमादुच्छ्वासादामरणादनन्तरामनन्तरां स्वस्यैव प्रतिपत्तिमात्मैककर्तृकां प्रत्यभिजानन्ना जन्मनश्च वर्तमानदशापर्यन्तमतीताः प्रतिपत्तीः स्वकर्तृकाः प्रतिसन्दधानःसन्निति योजना । दीपज्वालास्विवात्मनि प्रत्यभिज्ञानं सादृश्यदोषादिति शङ्कते - स इति । सादृश्यज्ञानस्य धर्मिप्रतियोगिज्ञानाधीनत्वात्स्थिरस्य ज्ञातुरसत्त्वान्न सादृश्यज्ञानं सम्भवति, सत्त्वे वापसिद्धान्तः स्यादिति परिहरति - तमित्यादिना । स्यादेतत् । न सादृश्यप्रत्ययः पूर्वोत्तरवस्तुद्वयज्ञानजन्यस्तद्द्वयसादृश्यावगाही, किं तर्हि कश्चिदेष विकल्पः स्वाकारमेव बाह्यत्वेन विषयीकुर्वाणः क्षणान्तरास्पर्शी, अतो न स्थिरद्रष्ट्रपेक्षेति शङ्कते - तेनेदमिति । अत्र वक्तव्यं सादृश्यप्रत्यये तेनेदं सदृशमिति वस्तुत्रयं भासते न वेति । नेति वदतः स्वानुभवविरोधः । किञ्चार्थभेदाभावात्पदत्रयप्रयोगो न स्यात् । तस्मात्पदत्रयेण मिथःसंसृष्टभिन्नार्थभानादभानमसिद्धमिति परिहरति - न तेनेति । अथ भासते वस्तुत्रयं तच्च प्रत्ययाभिन्नमेव न बाह्यमिति चेत् । न । त्रयाणामेकप्रत्ययाभेदे मिथोऽप्यभेदापत्तेः । इष्टापत्तिरिति ब्रुवाणं विज्ञानवादिनं प्रत्याह - यदा हीति । वस्तुत्रयं ज्ञेयं सादृश्यप्रत्ययाद्भिन्नं सर्वलोकप्रसिद्धं तच्चेन्नाङ्गीक्रियते स्थायिद्रष्टृप्रसङ्गभयेन, तर्हि तत्तदाकाराणां क्षणिकविज्ञानानां मिथो वार्तानभिज्ञत्वादेकस्मिन् धर्मिणि विरुद्धानेकपक्षस्फुरणात्मकविप्रतिपत्त्यसम्भवात्स्वपक्षसाधनादिव्यवहारो लुप्येत, अतो यथानुभवं ज्ञानज्ञेयभेदोऽङ्गीकार्यः । तथा च तेनेदं सदृशमिति बाह्यार्थयोर्ज्ञानपूर्वकं सादृश्यं जानत आत्मनः स्थायित्वं दुर्वारमित्यर्थः । ननु सन्त्येव बाह्यार्थाः क्षणिकस्वलक्षणा निर्विकल्पकग्राह्याः, सविकल्पाध्यवसेयास्तु स्थायित्वसादृश्यादयो बाह्याः कल्पिता अवभासन्ते, अतो विप्रतिपत्त्यादिव्यवहार इति बाह्यार्थवादमाशङ्क्य निरस्यति - एवमेवेति । यत्प्रमाणसिद्धं तदेव वक्तव्यम् । न हि क्षणिकत्वे किञ्चित्प्रमाणमस्ति । न चेदानीं घट इति प्रत्यक्षमवर्तमानकालासत्त्वं घटस्य गोचरयद्वर्तमानक्षणमात्रसत्त्वरूपे क्षणिकत्वे मानमिति वाच्यम् , तस्य वर्तमानत्वमात्रगोचरत्वेन कालान्तरासत्त्वासिद्धेः । न च यत्सत्तत्क्षणिकमिति व्याप्तिरस्ति, विद्युदादेरपि द्वित्रिक्षणस्थायित्वेन दृष्टान्ताभावात् । न च स्थायिनमनुमातारमन्तरेणानुमानं सम्भवति । तस्मादमानसिद्धार्थवक्ता तथागतोऽश्रद्धेयवचन इत्यर्थः । किञ्च सादृश्यं प्रत्यभिज्ञायां दोषतया निमित्तं विषयतया वा । आद्येऽपि स्वरूपसत् ज्ञातं वा । नाद्यः, मन्दान्धकारे शुक्तिमात्रग्रहे श्वैत्याज्ञानेऽपि रूप्याभेदभ्रमापत्तेः । न द्वितीयः, स्थायिज्ञातारं विना तज्ज्ञानासम्भवस्योक्तत्वात् । नापि विषयतया निमित्तमित्याह - न चेति । सोऽहमित्युल्लेखात्तेनाहं सदृश इत्यनुल्लेखादित्यर्थः । सोऽहमिति प्रत्यभिज्ञाया भ्रमत्वं निरस्य संशयत्वं निरस्यति - भवेदिति । जडार्थे प्रत्यभिज्ञातेऽपि बाधसम्भावनया संशयः कदाचित्स्यान्नात्मनीत्यर्थः । असन्दिग्घाविपर्यस्तप्रत्यभिज्ञाविरोधादात्मक्षणिकत्वमतमत्यन्तासङ्गतमित्युपसंहरति -
तस्मादिति ॥२५॥ 【भाष्यम्】 【भाष्यम्】 अभावः शशविषाणवदत्यन्तासन्नित्यङ्गीकृत्य मृदादिनाशादसतो घटादिकं जायते इति सुगता वदन्ति, तद्दूषयति - नासत इति । न केवलं बलादापद्यते किन्तु स्वयं दर्शयन्ति च । द्वौ नञौ प्रकृतार्थं गमयतः । मृदादिकमुपमृद्य घटादेः प्रादुर्भावादितीममर्थमाह - विनष्टादिति । कारणविनाशात्कार्यजन्मेत्यत्र युक्तिमाह - कूटस्थादिति । विनाशशून्यात् । नित्यादित्यर्थः । नित्यस्य निरतिशयस्य कार्यशक्तत्वे तत्कार्याणि सर्वाण्येकस्मिन्नेव क्षणे स्युः, तथा चोत्तरक्षणे कार्याभावादसत्त्वापत्तिः । न च सहकारिकृतातिशयक्रमात्कार्यक्रम इति युक्तम् । अतिशयस्यातिशयान्तरापेक्षायामनवस्थानात् । अनपेक्षायां कार्यस्याप्यतिशयानपेक्षत्वेन सहकारिवैयर्थ्यात् । तस्मान्न स्थायिभवात्कार्यजन्मेत्यर्थः । क्षणिकभावस्य हेतुत्वम् 'उत्तरोत्पादे च' इत्यत्र निरस्तम् । अभावस्य हेतुत्वनिरासार्थं सूत्रं व्याचष्टे - तत्रेदमिति । यदि बीजाभावस्याभावान्तराद्विशेषः स्यात् , तदा विशेषवदभावद्वारा बीजादेवाङ्कुर इति लौकायतिकानामभ्युपगमोऽर्थवान्स्यात् , न सोऽस्तीत्याह - येनेति । सूत्रं योजयति - निर्विशेषस्येति । शशविषाणादेः कार्यकारित्वस्यादृष्टत्वान्नाभावस्यासतो हेतुत्वमित्यर्थः । अस्त्वभावस्यापि विशेष इत्यत आह - यदीति । अभावस्य हेतुत्वेऽतिप्रसङ्ग इति तर्कमुक्त्वानुमानमाह - नापीति । अभावो न हेतुः, असत्त्वात् । सम्मतवदित्यर्थः । अभावो न प्रकृतिः, कार्यानन्वितत्वात् , यथा शरावाद्यनन्वितस्तन्तुर्न शरावादिप्रकृतिरिति तर्कपूर्वकमाह - अभावाच्चेति । अतोऽन्वितत्वान्मृदादिर्भाव एव प्रकृतिरित्याह - मृदिति । स्थायिनः कारणत्वायोगमुक्तमनूद्य दूषयति - यत्तूक्तमित्यादिना । अनुभवबलात्स्थिरस्वभावानामेव सहकारिसन्निधिक्रमेण कार्यक्रमहेतुत्वमङ्गीकार्यम् । न च शक्तस्य सहकार्यपेक्षा न युक्तेति वाच्यम् , यतोऽशक्तस्यापि नापेक्षेत्यसहकारि विश्वं स्यात् । ततः स्वर्णादौ स्वतोऽतिशयशून्येऽग्नितापादिसहकारिकृतातिशयक्रमाद्रुचकादिकार्यक्रमः । न चातिशयस्यातिशयान्तरानपेक्षत्वे कार्यस्याप्यनपेक्षेति वाच्यम् , पटस्य मृदनपेक्षत्वे कार्यत्वाविशेषाद्घटस्यापि मृदनपेक्षाप्रसङ्गादन्वयव्यतिरेकाभ्यामपेक्षा सहकारिष्वपि तुल्या । यदुक्तं कार्याभावदशायां कारणस्यासत्त्वापत्तिरिति । तन्न । अकारणस्यापि बाधाभावेन सत्त्वोपपत्तेः । न ह्यर्थक्रियाकारित्वमेव सत्त्वम् , असतस्तदयोगेन सत्त्वस्य ततो भेदात् । सतो ह्यर्थक्रियाकारित्वं नासतः । अतः कारणतावच्छेदकमबाधितस्वरूपात्मकं सत्त्वं कारणत्वाद्भिन्नमेव । तस्मादनुस्यूतस्थिरभावानां हेतुत्वमुपपन्नमिति भावः । पूर्वापरविरोधमप्याह -
अपि चेति ॥२६॥ 【भाष्यम्】 【भाष्यम्】 अभावादुत्पत्तौ शशविषाणादप्युत्पत्तिः स्यादित्युक्तम् । अतिप्रसङ्गान्तरमाह - उदासीनानामिति ।
अनीहमानानां प्रयत्नशून्यानाम् । अमत्रं घटादिपात्रम् । तन्वानस्यव्यापारयतः । तस्माद्भ्रान्तिमूलेन क्षणिकबाह्यार्थवादेन कूटस्थनित्यब्रह्मसमन्वयस्य न विरोध इति सिद्धम् ॥२७॥ 【भाष्यम्】 【भाष्यम्】 नाभाव उपलब्धेः । अखण्डनिर्विशेषं ब्रह्म विज्ञानं बाह्यार्थोपादानं वदतां वेदान्तानां भिन्नं साकारं क्षणिकं विज्ञानं न ततोऽन्योऽर्थोऽस्तीति योगाचारमतेन विरुध्यते न वेति तन्मतस्य मानभ्रान्तिमूलत्वाभ्यां संशये पूर्वोक्तबाह्यार्थवादनिरासमुपजीव्य पूर्वपक्षमाह - एवमित्यादिना । पूर्वोत्तरपक्षयोर्विरोधाविरोधौ फलम् । नन्वेकस्य सुगतागमस्य कथं बाह्यार्थसत्त्वासत्त्वयोस्तात्पर्यं विरोधादित्याशङ्क्याधिकारिभेदादविरोध इति वदन् विज्ञानवादिनः सुगताभिप्रायज्ञत्वेन मन्दाधिकारिभ्यो बाह्यार्थवादिभ्यः श्रैष्ठ्यमाह - केषाञ्चिदिति । उक्तं च धर्मकीर्तिना 'देशना लोकनाथानां सत्त्वाशयवशानुगाः' इति । सुगतानामुपदेशाः शिष्यमत्यनुसारिण इत्यर्थः । नन्वसति बाह्यार्थे मानमेयव्यवहारः कथम् , तत्राह - तस्मिन्निति । विज्ञानमेव कल्पितनीलाद्याकारत्वेन प्रमेयम् , अवभासात्मना मानफलम् , शक्त्यात्मना मानम् , शक्त्याश्रयत्वाकारेण प्रमातेति भेदकल्पनया व्यवहार इत्यर्थः । मुख्य एव भेदः किं न स्यादत आह - सत्यपीति । न हि बुद्ध्यनारूढस्य नीलादेः प्रमेयत्वव्यवहारोऽस्ति । अतो बुद्ध्यारूढाकार एव प्रमेयं न बाह्यमित्यर्थः । बाह्यार्थासत्त्वे प्रश्नपूर्वकं युक्तीरुपन्यस्यति - कथमित्यादिना । ज्ञेयं ज्ञानातिरेकेणासत् , तदतिरेकेणासम्भवात् , नरशृङ्गवदित्याह - तदसम्भवादिति । असम्भवं विवृणोति - स हीति । परमाणवश्चेदेकस्थूलस्तम्भ इति ज्ञानं न स्यात् । समूहस्त्वसन्नित्यर्थः । अवयव्यभावेऽपि जात्यादयो बाह्यार्थाः स्युः, तत्राह - एवमिति । जातिगुणकर्मणां धर्मिणः सकाशादभेदेऽत्यन्तभेदे वा धर्मिवद्धर्म्यन्तरवच्च न धर्मधर्मिभावः । भेदाभेदौ च विरुद्धाविति न सन्ति जात्याद्यर्था इत्यर्थः । किञ्च ज्ञानस्य ज्ञेयसारूप्यरूपविशेषसम्बन्धाभावे सर्वविषयत्वापत्तेर्विशेषोऽङ्गीकार्यः, तथा च ज्ञानगतविशेषस्यैव ज्ञानेन विषयीकरणान्न बाह्यार्थसिद्धिर्मानाभावाद्गौरवाच्चेत्याह - अपि चेति । पक्षपातो विषयविशेषवैशिष्ट्यव्यवहारः । किञ्च ज्ञेयं ज्ञानाभिन्नम् , ज्ञानोपलम्भक्षणनियतोपलम्भग्राह्यत्वात् , ज्ञानवदित्याह - अपि चेति । ज्ञानार्थयोः वास्तवभेदेऽपि सहोपलम्भनं स्यात् , ग्राह्यग्राहकभावादित्यत आह - न चैतदिति । क्षणिकज्ञानस्यार्थेन सम्बन्धहेत्वभावान्न ग्राह्यग्राहकभाव इत्यर्थः । किञ्च जाग्रद्विज्ञानं न बाह्यालम्बनम् , विज्ञानत्वात् , स्वप्नादिज्ञानवदित्याह - स्वप्नेति । विज्ञानानां वैचित्र्यानुपपत्तिबाधितमनुमानमिति शङ्कते - कथमिति । अन्यथोपपत्त्या परिहरति - वासनेति । अनादिसन्तानान्तर्गतपूर्वज्ञानमेव वासना, तद्वशादनेकक्षणव्यवधानेऽपि नीलाद्याकारज्ञानवैचित्र्यं भवति, यथा बीजवासनया कार्पासरक्तत्वं तद्वदित्यर्थः । उभयवादिसम्मतत्वाच्च वासना एव ज्ञानवैचित्र्यहेतवो न बाह्यार्था इत्याह - अपि चेति । क्षणिकविज्ञानमात्रवादस्य मानमूलत्वात्तेन नित्यविज्ञानवादो विरुध्यत इति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे - नाभाव इत्यादिना । किं बाह्यार्थस्यानुपलब्धेरभाव उत ज्ञानाद्भेदेनानुपलब्धेः । नाद्य इत्युक्तम् - उपलब्धेरिति । द्वितीयं शङ्कते - ननु नाहमिति । ज्ञानज्ञेययोर्विषयिविषयभावेन भेदस्य साक्षिप्रत्यक्षसिद्धत्वात्प्रत्यक्षविरुद्धमभेदाभिधानमित्याह - बाढमित्यादिना । त्वद्वचनादपि जनो बाह्यार्थं ज्ञानाद्भेदेनैवोपलभत इत्याह - अतश्चेति । बाह्यार्थस्यात्यन्तासत्त्वे प्रत्यक्षोपलम्भायोगात् , दृष्टान्तत्वासम्भवाच्च बहिर्वच्छब्दो न स्यादित्याह - इतरथेति । अबाधितभेदानुभवादेवकारो युक्तो न वत्कार इत्याह - तस्मादिति । ज्ञेयार्थो ज्ञानातिरेकेणासन्नसम्भवादित्युक्तबाधाद्वत्करणमिति शङ्कते - नन्विति । कोऽसावसम्भवः, असत्त्वं वा असत्त्वनिश्चयो वा अयुक्तत्वं वा उत्कटकोटिकसंशयात्मकसम्भवस्याभावो वा । नाद्यः, साध्याभेदात् । न द्वितीयः, स्थूलौ घटस्तम्भाविति समूहालम्बने स्थूलत्वद्वित्वघटत्वस्तम्भत्वरूपविरुद्धधर्मवतोरर्थयोरस्थूलादेकस्माद्वयावगाहिविज्ञानाद्भेदसत्त्वनिश्चये नासम्भवासिद्धरित्याह - नायं साधुरिति । सम्भवः सत्तानिश्चयः प्रमाणाधीनः । असम्भवोऽसत्त्वनिश्चयः प्रमाणाभावाधीनो न वैपरीत्यमिति व्यवस्थामेव स्फुटयति - यद्धीति । उक्तव्यवस्थायाः फलं बाह्यार्थस्य प्रत्यक्षादिभिः सम्भवं वदन्नेव तृतीयं दूषयति - इहेति । प्रमाणनिश्चितबाह्यार्थस्य स्तम्भादेः परमाणुभ्यो भेदाभेदविकल्पैरयुक्तत्वमात्रेणासत्त्वनिश्चयो न युक्तः, त्वत्पक्षेऽप्ययुक्तत्वस्य तुल्यत्वात् । न ह्यस्थूलस्यैकस्य विज्ञानस्य स्थूलानेकसमूहालम्बनस्य विषयाभेदो युक्तः, स्थूलत्वानेकत्वप्रसङ्गात् । न चेष्टापत्तिः, समूहालम्बनोच्छेदे विज्ञानानां मिथो वार्तानभिज्ञतया विषयद्वित्वादिव्यवहारलोपापत्तेः । तस्मादयुक्तत्वेऽपि यथानुभवं व्यवहारयोग्योऽर्थः स्वीकार्यः । न चतुर्थः, निश्चिते तादृशसम्भवस्यानुपयोगात् । तस्य क्वचित्प्रमाणप्रवृत्तेः पूर्वाङ्गत्वादिति भावः । यच्चोक्तं ज्ञानगतार्थसारूप्यस्यैव ज्ञानालम्बनत्वोपपत्तेर्बहिरर्थाभाव इति, तत्राह - न चेति । यत्तु गौरवमुक्तम् , तन्न दूषणम् , प्रामाणिकत्वादित्याह - बहिरिति । यत एव ज्ञानार्थयोर्भेदः सर्वलोके साक्ष्यनुभवसिद्धः, अत एव सहोपलम्भनियमोऽपि नाभेदसाधक इत्याह - अत एवेति । यथा चाक्षुषद्रव्यरूपस्यालोकोपलम्भनियतोपलब्धिकत्वेऽपि नालोकाभेदः, तथार्थस्य न ज्ञानाभेदः, भेदेऽपि ग्राह्यग्राहकभावेन नियमेपपत्तेः । न च ज्ञानस्य क्षणिकत्वात्स्वभिन्नग्राह्यसम्बन्धायोगः, स्थायित्वादिति भावः । विज्ञानमनेकार्थेभ्यो भिन्नम् , एकत्वात् , गोत्ववदिति सत्प्रतिपक्षमाह - अपि चेति । न च हेत्वसिद्धिः, ज्ञानं ज्ञानमित्येकाकारप्रतीतेर्ज्ञानैक्यनिश्चयात् । न च सा जातिविषया, व्यक्तिभेदानिश्चयादित्याह - न विशेष्यस्येति । घटादेश्चैतन्याद्भेदमुक्त्वा वृत्तिज्ञानाद्भेदमाह - तथेति । घटो द्वाभ्यां भिन्नः एकत्वात् , क्षीरवदित्यर्थः । ज्ञानभिन्नार्थानङ्गीकारे स्वशास्त्रव्यवहारलोपं बाधकमाह - अपि चेति । क्रमिकयोः स्वप्रकाशयोः क्षणिकज्ञानयोर्मिथो ग्राह्यग्राहकत्वमयुक्तमनभ्युपगतं च । तथा च तयोर्भेदप्रतिज्ञा न युक्ता, धर्मिप्रतियोगिनोर्मिथः परेण चाग्रहेण भेदग्रहायोगात् । तथा च तयोर्भेदग्राहकः स्थाय्यात्मा तद्भिन्न एवैष्टव्यः । एवं पक्षसाध्यहेतुदृष्टान्तभेदाभावे इदं क्षणिकमसदिति प्रतिज्ञा न युक्ता । सर्वतो व्यावृत्तं व्यक्तिमात्रत्वं स्वलक्षणम् , अनेकानुगतं सामान्यमतद्व्यावृत्तिरूपमिति प्रतिज्ञा न युक्ता, सर्वानेकार्थानां ज्ञानमात्रत्वे मिथः परेण वा दुर्ज्ञानत्वातुत्तरनीलज्ञानं वास्यं पूर्वनीलज्ञानं वासकमिति प्रतिज्ञा न युक्ता, तयोर्भिन्नस्य ज्ञातुरभावात् । किञ्चाविद्योपप्लवोऽविद्यासंसर्गः, तेन नीलमिति सद्धर्मः, नरविषाणमित्यसद्धर्मः, अमूर्तमिति सदसद्धर्मः, सतो विज्ञानस्यासतो नरविषाणस्य वामूर्तत्वादिप्रतिज्ञा दुर्लभा, अनेकार्थज्ञानसाध्यत्वात् । अज्ञानेनास्य बन्धो ज्ञानेनास्य मोक्ष इति च प्रतिज्ञा बह्वर्थज्ञानसाध्या । आदिपदेन सामान्यत इष्टं ग्राह्यमनिष्टं त्याज्यमिति शिष्यहितेपदेशोऽनेकज्ञानसाध्यो गृहीतः । तस्मात्प्रतिज्ञादिव्यवहाराय ग्राह्यग्राहकभेदोऽङ्गीकार्य इत्यर्थः । ज्ञानार्थयोभेदे युक्त्यन्तरमस्तीत्याह - किञ्चान्यदिति । ज्ञानवदर्थस्याप्यनुभवाविशेषात्स्वीकारो युक्त इत्यर्थः । स्वविषयत्वाद्विज्ञानं स्वीक्रियते नार्थः परग्राह्यत्वादिति शङ्कते - अथ विज्ञानमिति । विरुद्धं स्वीकृत्याविरुद्धं त्यजता बौद्धतनयेन मौढ्यं दर्शितमित्याह - अत्यन्तेति । ज्ञानं स्ववेद्यमित्यङ्गीकृत्य मौर्ख्यमापादितम् , वस्तुतः स्ववेद्यत्वमयुक्तमित्याह - न चेति । कर्तरि क्रियां प्रति गुणभूते प्रधानत्वाख्यकर्मत्वायोगात्स्वकर्तृकवेदनकर्मत्वमसदित्यर्थः । न च स्वविषयत्वमात्रं स्ववेद्यत्वमिति वाच्यम् , अभेदे विषयविषयित्वस्याप्यसम्भवादिति भावः । ज्ञानस्य स्ववेद्यत्वाभावे दोषद्वयं स्यादिति शङ्कते - नन्विति । अनवस्था च साम्यं चेति दोषद्वयं परिहरति - तदुभयमपीति । अनित्यज्ञानस्य जन्मादिमत्वेन घटवज्जडस्य स्वेन स्वीयजन्मादिग्रहायोगादस्ति ग्राहकाकाङ्क्षा, साक्षिणस्तु सत्तायां स्फूर्तौ च निरपेक्षत्वान्नानवस्था । नापि साम्यम् । चिज्जडत्ववैषम्यादित्यर्थः । साक्षी क्वेत्यत आह - स्वयंसिद्धस्येति । निरपेक्षस्य साक्षिणोऽसत्त्वे क्षणिकविज्ञानभेदासिद्धेः सोऽङ्गीकार्य इत्यर्थः । अनित्यज्ञानस्वरूपसाधकत्वाच्च साक्षी स्वीकार्य इत्याह - किञ्चेति । विज्ञानं ज्ञानान्तरानपेक्षमिति ब्रुवता तस्याप्रामाणिकत्वमुक्तं स्यात् , स्वयं प्रथत इति ब्रुवता ज्ञातृशून्यत्वं चोक्तं स्यात् , तथा च ज्ञातृज्ञानाविषयत्वाच्छिलास्थप्रदीपवदसदेव विज्ञानं स्यात् । अतस्तत्साक्ष्येष्टव्य इत्यर्थः । विज्ञानस्य स्वान्यज्ञातृशून्यत्वमिष्टमेव त्वयापाद्यते न चासत्त्वापत्तिः ज्ञात्रभावादिति वाच्यम् , स्वस्यैव ज्ञातृत्वादिति शाक्यः शङ्कते - बाढमिति । अभेदे ज्ञातृज्ञेयत्वायोगाज्ज्ञात्रन्तरमावश्यकमिति परिहरति - नेति । विमतं विज्ञानं स्वातिरिक्तवेद्यम् , वेद्यत्वात् , देहवदित्यर्थः । अतिरिक्तः साक्षी किमन्यवेद्यः स्ववेद्यो वा । आद्येऽनवस्था । द्वितीये विज्ञानवाद एव भङ्ग्यन्तरेणोक्तः स्यादितिशङ्कते - साक्षिण इति । त्वया विज्ञानं जन्मविनाशयुक्तमुच्यते । अतः कार्यस्य जडत्वनियमात्स्वातिरिक्तवेद्यत्वमस्माभिः साधितम् , कूटस्थचिदात्मनो ग्राहकानपेक्षत्वान्नानवस्थेति चोक्तमतो महद्वैलक्षण्यमावयोरेति परिहरति -
न । विज्ञानस्येति ॥२८॥ 【भाष्यम्】 【भाष्यम्】 एवं वेद्यविज्ञानवदर्थस्याप्युपलब्धेर्न बाह्यार्थाभाव इत्युक्तम् । सम्प्रति जाग्रद्विज्ञानं स्वप्नादिविज्ञानवन्न बाह्यालम्बनमित्यनुमानं दूषयति - वैधर्म्याच्चेति । किमत्र निर्विषयत्वं साध्यमुत पारमार्थिकविषयशून्यत्वम् , अथवा व्यावहारिकविषयशून्यत्वम् । नाद्यः, स्वप्नादिविभ्रमाणामपि मिथ्यार्थालम्बनत्वेन दृष्टान्ते साध्यवैकल्यात् । न द्वितीयः, सिद्धसाधनादिति सूत्रस्थचकारार्थः । तृतीये तु व्यवहारदशायां बाधितार्थग्राहित्वमुपाधिरित्याह - बाध्यते हीत्यादिना । निद्राग्लानमिति । करणदोषोक्तिः । साधनव्यापकत्वनिरासायाह - न चैवमिति । किञ्च प्रमाणजानुभव उपलब्धिः पक्षोऽप्रमाणजं स्वप्नज्ञानं दृष्टान्त इति वैधर्म्यान्तरम् । परमतेन स्वप्नस्य स्मृतित्वमङ्गीकृत्याह - अपि चेति । स्मृतिप्रत्यक्षोपलब्ध्योर्वैधर्म्यान्तरमाह - अर्थविप्रयोरेति । असम्बन्धश्चावर्तमानश्च स्मृतेरर्थो विषय इति निरालम्बनत्वमप्यस्याः कदाचिद्भवेत् , न सम्प्रयुक्तवर्तमानार्थमात्रग्राहिण्या उपलब्धेरिति भावः । पूर्वोक्तप्रमाणाप्रमाणजत्ववैधर्म्योक्तिफलमाह - तत्रैवंसतीति । वैधर्म्ये सतीत्यर्थः । अप्रमाणजत्वोपाधेर्निरालम्बनत्वानुमानं न युक्तमिति भावः । वैधर्म्यासिद्धिं निरस्यति - न चेति । बाधमप्याह - अपि चेति । वस्तुतो घटाद्यनुभवस्य निरालम्बनत्वं धर्मो यदि स्यात्तदा किं दृष्टान्ताग्रहेण, प्रत्यक्षतोऽपि वक्तुं शक्यत्वात् । न हि वह्नेरौष्ण्यं दृष्टान्तेन वक्तव्यम् । यदि न वस्तुतो धर्मोऽस्ति तदा किं दृष्टान्तेन, बाधितस्य दृष्टान्तसहस्रेणापि दुःसाध्यत्वात् । अतः स्वतो निरालम्बनत्वोक्तौ सालम्बनत्वानुभवबाधभिया त्वयानुमातुमारब्धं तथापि बाधो न मुञ्चतीत्यर्थः । उक्तोपाधिरपि न विस्मर्तव्य इत्याह -
दर्शितं त्विति ॥२९॥ 【भाष्यम्】 【भाष्यम्】 सूत्रव्यावर्त्यं स्मारयित्वा दूषयति - यदप्युक्तमित्यादिना । भाव उत्पत्तिः सत्ता वा । ननु बाह्यार्थानुपलब्धावपि पूर्वपूर्ववासनाबलादुत्तरोत्तरविज्ञानवैचित्र्यमस्तु बीजाङ्कुरवदनादित्वादित्यत आह - अनादित्वेऽपीति । बीजादङ्कुरो दृष्ट इत्यदृष्टेऽपि तज्जातीययोः कार्यकारणभावकल्पना युक्ता, इह त्वर्थानुभवनिरपेक्षवासनोत्पत्तेरादावेव कल्प्यत्वादनादित्वकल्पना निर्मूलेति नाभिप्रेतधीवैचित्र्यसिद्धिरित्यर्थः । ननु निरपेक्षवासनानां सत्त्वे धीवैचित्र्यमसत्त्वे तु नेति स्वप्ने दृष्टमिति समूलानवस्थेत्यत आह - याविति । वासनानां बाह्यार्थानुभवकार्यत्वे सति नैरपेक्ष्यासिद्धेर्नान्वयादिदृष्टिरित्यर्थः । कार्यत्वग्राहकं व्यतिरेकमाह - विनेति । अर्थानुभवकार्याणां वासनानां तदनपेक्षत्वायोगान्न त्वदुक्तान्वयादिदृष्टिरित्युक्तम् । अभिनवार्थोपलब्धिवैचित्र्यस्य वासनां विनापि भावेन व्यतिरेकव्यभिचाराच्च न क्वापि वासनामात्रकृतं धीवैचित्र्यं किन्त्वर्थानुभवे सति वासनासति नेत्यन्वयव्यतिरेकाभ्यां वासनामूलानुभवावच्छेदकार्थकृतमेवेति बाह्यार्थसद्भावसिद्धिरित्याह - अपि चेति । यः संस्कारः स साश्रयो लोके दृष्टः यथा वेगादिरिष्वाद्याश्रयः, अतो विज्ञानसंस्काराणां न भाव आश्रयानुपलब्धेरित्यर्थान्तरमाह -
अपि चेति ॥३०॥ 【भाष्यम्】 【भाष्यम्】 अस्त्वालयविज्ञानमाश्रय इत्यत आह - क्षणिकत्वाच्चेति । सूत्रं व्याचष्टे - यदपीति । सहोत्पन्नयोः सव्येतरविषाणवदाश्रयाश्रयिभावायोगात् , पौर्वापर्ये चाधेयक्षणेऽसत आधारत्वायोगात् , सत्त्वे क्षणिकत्वव्याघातान्नाधारत्वमालयविज्ञानस्य क्षणिकत्वान्नीलादिविज्ञानवदित्यर्थः । अस्तु तर्ह्यालयविज्ञानसन्तानाश्रया वासनेत्यत आह - न हीति । सविकारः कूटस्थो वा स्थाय्यात्मा यदि नास्ति तदा सन्तानस्यावस्तुत्वाद्देशाद्यपेक्षया यद्वासनानामाधानं निक्षेपो ये च स्मृतिप्रत्यभिज्ञे यश्च तन्मूलो व्यवहारः, तत्सर्वं न सम्भवतीत्यर्थः । यदि व्यवहारार्थमात्मस्थायित्वं तदापसिद्धान्त इत्याह - स्थिरेति । सूत्रमतिदेशार्थत्वेनापि व्याचष्टे - अपि चेति । मतद्वयनिरासमुपसंहरति - एवमिति । ज्ञानज्ञेयात्मकस्य सर्वस्य सत्त्वासत्त्वाभ्यां विचारासहत्वाच्छून्यतावशिष्यत इति माध्यमिकपक्षस्यापि मानमूलत्वमाशङ्क्य सूत्रकारः किमिति न निराचकारेत्यत आह - शून्येति । आदरः पृथक्सूत्रारम्भो न क्रियते । एतान्येव तन्मतनिरासार्थत्वेनापि योज्यन्त इत्यर्थः । तथा हि ज्ञानार्थयोर्नाभावः, प्रमाणत उपलब्धेः । ननु जाग्रत्स्वप्नौ ज्ञानार्थशून्यौ, अवस्थात्वात् , सुषुप्तिवदित्यत आह 'वैधर्म्याच्च न स्वप्नादिवत्' । स्वप्न आदिर्यस्याः सुषुप्तेस्तद्वन्नेतरावस्थयोः शून्यत्वम् , उपलब्ध्यनुपलब्धिवैधर्म्यलक्षणाबाधितज्ञानार्थोपलब्धिबाधात् । सुषुप्तावप्यात्मज्ञानसत्त्वेन साध्यवैकल्याच्च नानुमानमित्यर्थः । किञ्च निरधिष्ठाननिषेधायोगादधिष्ठानमेव तत्त्वं वाच्यम् , तस्य त्वन्मते न भावः । मानतोऽनुपलब्धेरित्याह 'न भावोऽनुपलब्धेः' । तदर्थमाह - न ह्ययमिति ।
यद्भाति तन्नासदित्युत्सर्गतः प्रपञ्चस्य न शून्यत्वम् । बाधाभावादित्यर्थः । न च सत्त्वासत्त्वाभ्यां विचारासहत्वाच्छून्यत्वम् । मिथ्यात्वसम्भवादिति भावः । 'क्षणिकत्वाच्च' इति सूत्रं 'क्षणिकत्वोपदेशाच्च' इति पठनीयम् । शून्यत्वविरुद्धक्षणिकत्वोपदेशादसङ्गतप्रलापी सुगत इत्यर्थः ॥३१॥ 【भाष्यम्】 【भाष्यम्】 सुगतमतासाङ्गत्यमुपसंहरति - सर्वथेति । सर्वज्ञस्य कथं विरुद्धप्रलापः, तत्राह - प्रद्वेषो वेति ।
वेदबाह्या अत्र प्रजा ग्राह्याः । अतो भ्रान्त्येकमूलसुगतसिद्धान्तेन वेदान्तसिद्धान्तस्य न विरोध इति सिद्धम् ॥३२॥ 【भाष्यम्】 【भाष्यम्】 नैकस्मिन्नसम्भवात् । मुक्तकच्छमते निरस्ते मुक्ताम्बराणां मतं बुद्धिस्थं भवति तन्निरस्यत इति प्रसङ्गसङ्गतिमाह - निरस्त इति । एकरूपं ब्रह्मेति वैदिकसिद्धान्तस्यानैकान्तवादेन विरोधोऽस्ति न वेति तद्वादस्य मानभ्रान्तिमूलत्वाभ्यां सन्देहे मानमूलत्वाद्विरोध इति पूर्वपक्षफलमभिसन्धाय तन्मतमुपन्यस्यति - सप्त चेति । जीवाजीवौ भोक्तृभोग्यौ, विषयाभिमुख्येनेन्द्रियाणां प्रवृत्तिराश्रवः, तां संवृणोति इति संवरो यमनियमादिः, निर्जरयति नाशयति कल्मषमिति निर्जरस्तप्तशिलारोहणादिः, बन्धः कर्म, मोक्षः कर्मपाशनाशे सत्यलोकाकाशप्रविष्टस्य सततोर्ध्वगमनम् । नन्वास्रवादीनां भोग्यान्तर्भावात्कथं सप्तत्वमित्यत आह - सङ्क्षेपतस्त्विति । सङ्क्षेपविस्तराभ्यामुक्तार्थेषु मध्यमरीत्या विस्तरान्तरमाह - तयोरिति । अस्तिकायशब्दः साङ्केतिकः पदार्थवाची । जीवश्चासावस्तिकायश्चेत्येवं विग्रहः । पूर्यन्ते गलन्तीति पुद्गलाः परमाणुसङ्घाः कायाः, सम्यक्प्रवृत्त्यनुमेयो धर्मः, ऊर्ध्वगमनशीलस्य जीवस्य देहे स्थितिहेतुरधर्मः, आवरणाभाव आकाश इत्यर्थः । पञ्चपदार्थानामवान्तरभेदमाह - सर्वेषामिति । अयमर्थः - जीवास्तिकायस्त्रिविधः कश्चिज्जीवो नित्यसिद्धोऽर्हन्मुख्यः, केचित्साम्प्रतिकमुक्ताः, केचिद्बद्धा इति । पुद्गलास्तिकायः षोढापृथिव्यादीनि चत्वारि भूतानि, स्थावरं जङ्गमं चेति । प्रवृत्तिस्थितिलिङ्गौ धर्माधर्मावुक्तौ । आकाशास्तिकायो द्विविधः - लोकाकाशः सांसारिकः, अलोकाकाशो मुक्ताश्रय इति । बन्धाख्यं कर्माष्टविधं चत्वारि घातिकर्माणि चत्वार्यघातीनि । तत्र ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायं चेति घातिकर्माणि । तत्त्वज्ञानान्न मुक्तिरिति ज्ञानमाद्यं कर्म, आर्हततन्त्रश्रवणान्न मुक्तिरिति ज्ञानं द्वितीयम् , बहुषु तीर्थकरप्रदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयम् , मोक्षमार्गप्रवृत्तिविघ्नकरणमन्तरायम् , इमानि चत्वारि श्रेयोहन्तृत्वात् घातिकर्माणि । अथाघातीनि चत्वारि कर्माणि वेदनीयं नामिकं गोत्रिकमायुष्कमिति । मम वेदितव्यं तत्त्वमस्तीत्यभिमानो वेदनीयम् , एतन्नामाहमस्मीत्यभिमानो नामिकम् , अहमत्र भवतो देशिकस्यार्हतः शिष्यवंशे प्रविष्टोऽस्मीत्यभिमानो गोत्रिकम् , शरीरस्थित्यर्थं कर्म आयुष्कम् । अथवा शुक्रशोणितमिश्रितमायुष्कम् , तस्य तत्त्वज्ञानानुकूलदेहपरिणामशक्तिर्गोत्रिकम् , शक्तस्य तस्य द्रवीभावात्मककललावस्थाया बुद्बुदावस्थायाश्चारम्भकः क्रियाविशेषो नामिकम् , सक्रियस्य बीजस्य जाठराग्निवायुभ्यामीषद्घनीभावो वेदनीयम् , तत्त्ववेदनानुकूलत्वात् । तान्येतानि तत्त्वावेदकशुक्लपुद्गलार्थत्वादघातीनि । तदेतत्कर्माष्टकं जन्मार्थत्वाद्बन्ध आस्रवादिद्वारेति । इयं प्रक्रिया मानशून्येति द्योतयति - स्वसमयपरिकल्पितानिति । स्वीयतन्त्रसङ्केतमात्रकल्पितानित्यर्थः । स्वीयतन्त्रसङ्केतमात्रकल्पितानित्यर्थः । पदार्थानामुक्तानामनैकान्तत्वं वदन्तीत्याह - सर्वत्रेति । अस्तित्वनास्तित्वादिविरुद्धधर्मद्वयमादाय वस्तुमात्रे न्यायं योजयन्ति । सप्तानामस्तित्वादीनां भङ्गानां समाहारः सप्तभङ्गी, तस्या नयो न्यायः । घटादेर्हि सर्वात्मना सदैकरूपत्वे प्राप्यात्मनाप्यस्त्येव स इति तत्प्राप्तये यत्नो न स्यात् । अतो घटत्वादिरूपेण कथञ्चिदस्ति, प्राप्यत्वादिरूपेण कथञ्चिन्नास्तीत्येवमनेकरूपत्वं वस्तुमात्रस्यास्थेयमिति भावः । के ते सप्तभङ्गाः, तानाह - स्यादस्तीति । स्यादित्यव्ययं तिङन्तप्रतिरूपकं कथञ्चिदर्थकम् । स्यादस्ति । कथञ्चिदस्तीत्यर्थः । एवमग्रेेऽपि । तत्र वस्तुनोऽस्तित्ववाञ्छायां स्यादस्तीत्याद्यो भङ्गः प्रवर्तते । नास्तित्ववाञ्छायां स्यान्नास्तीति द्वितीयो भङ्गः । क्रमेणोभयवाञ्छायां स्यादस्ति च नास्ति चेति तृतीयो भङ्गः । युगपदुभयवाञ्छायामस्ति नास्तीति शब्दद्वयस्य सकृद्वक्त्तुमशक्यत्वात्स्यादवक्तव्य इति चतुर्थो भङ्गः । आद्यचतुर्थभङ्गयोर्वाञ्छायां स्यादस्ति चावक्तव्यश्चेति पञ्चमो भङ्गः । द्वितीयचतुर्थेच्छायां स्यान्नास्ति चावक्तव्यश्चेति षष्ठो भङ्गः । तृतीयचतुर्थेच्छायां स्यादस्ति च नास्ति चावक्तव्यश्चेति सप्तमो भङ्ग इति विभागः । एवमेकत्वमनेकत्वं चेति द्वयमादाय स्यादेकः स्यादनेकः स्यादेकोऽनेकश्च स्यादवक्तव्यः स्यादेको वक्तव्यः स्यादनेकोऽवक्तव्यः स्यादेकोऽनेकश्चावक्तव्यश्चेति, तथा स्यान्नित्यः स्यादनित्य इत्याद्यूह्यम् । एवमनेकरूपत्वे वस्तुनि प्राप्तित्यागादिव्यवहारः सम्भवति, एकरूपत्वे सर्वं सर्वत्र सर्वदास्त्येवेति व्यवहारविलोपापत्तिः स्यात् , तस्मादनैकान्तं सर्वमित्येकरूपब्रह्मवादबाध इति प्राप्ते सिद्धान्तयति - अत्रेति । यदस्ति तत्सर्वत्र सर्वदास्त्येव यथा ब्रह्मात्मा । न चैवं तत्प्राप्तये यत्नो न स्यादिति वाच्यम् , अप्राप्तिभ्रान्त्या यत्नसम्भवात् । यन्नास्ति तन्नास्त्येव, यथा शशविषाणादि । प्रपञ्चस्तूभयविलक्षण एवेत्येकान्तवाद एव युक्तो नानैकान्तवादः । तथा हि किं येनाकारेण वस्तुनः सत्त्वं तेनैवाकारेणासत्त्वमुताकारान्तरेण । द्वितीये वस्तुन आकारान्तरमेवासदिति वस्तुनः सदैकरूपत्वमेव । न हि दूरस्थग्रामस्य प्राप्तेरसत्त्वे ग्रामोऽप्यसन् भवति, प्राप्यासत्त्वे प्राप्तियत्नानुपपत्तेः । अतो यथाव्यवहारं प्रपञ्चस्यैकरूपत्वमास्थेयम् । नाद्य इत्याह - नायमिति । ननु विमतमनैकात्मकम् , वस्तुत्वात् , नारसिंहवदिति चेत् । न । घट इदानीमस्त्येवेत्यनुभवबाधात् । किञ्च जीवादिपदार्थानां सप्तत्वं जीवत्वादिरूपं चास्त्येव नास्त्येवेति च नियतमुतानियतम् । आद्ये व्यभिचार इत्याह - य इति । द्वितीये पदार्थनिश्चयो न स्यादित्याह - इतरथेति । अनैकान्तं सर्वमित्येव निश्चय इति शङ्कते - नन्विति । तस्य निश्चयरूपत्वं नियतमनियतं वा । आद्ये वस्तुत्वस्य तस्मिन्नेवैकरूपे निश्चये व्यभिचारः । द्वितीये तस्य संशयत्वं स्यादित्याह - नेति ब्रूम इति । प्रमायामुक्तन्यायं प्रमात्रादावतिदिशति - एवमिति । निर्धारणं फलं यस्य प्रमाणादेस्तस्येत्यर्थः । इत्येवं सर्वत्रानिर्धारणे सत्युपदेशो निष्कम्पप्रवृत्तिश्च न स्यादित्याह - एवं सतीति । अनैकान्तवादे अस्तिकायपञ्चत्वमपि न स्यादित्याह - तथा पञ्चानामिति । यदुक्तमवक्तव्यत्वं तत्किं केनापि शब्देनावाच्यत्वमुत सकृदनेकशब्दावाच्यत्वम् । नाद्यः, व्याघातादित्याह - न चैषामिति । उच्यन्ते च । अवक्तव्यादिपदैरिति शेषः । न द्वितीयः, सकृदेकवक्तृमुखजानेकशब्दानामप्रसिद्धेर्निषेधायोगात् , शेषस्यापि मुखभेदात् । न चार्थस्य युगपद्विरुद्धधर्मवाञ्छायां वक्तुर्मूकत्वमात्रमवक्तव्यपदेन विवक्षितमिति वाच्यम् , तादृशवाञ्छाया एवानुत्पत्तेरिति । किञ्च विरुद्धानेकप्रलापित्वादर्हन्ननाप्त इत्याह - उच्यमानाश्चेत्यादिना । इति च प्रलपन्नित्यन्वयः । अर्हन्निति शेषः । अनाप्तपक्षस्यैवान्तर्गतः स्यान्नाप्तपक्षस्येत्यर्थः । इतश्चासङ्गतोऽनैकान्तवाद इत्याह - स्वर्गेति । किञ्चानादिसिद्धोऽर्हन्मुनिः, अन्ये तु हेत्वनुष्ठानान्मुच्यन्ते, अननुष्ठानाद्बध्यन्त इत्यार्हततन्त्रावधृतस्वभावानां त्रिविधजीवानां त्रैविध्यनियमोऽपि न स्यादित्याह - अनादीति । प्रपञ्चितं सूत्रार्थं निगमयति - एवमिति । एतेनेति । सत्त्वासत्त्वयोरेकत्र निरासेनेत्यर्थः । परमाणुसङ्घाताः पृथिव्यादय इति । दिगम्बरसिद्धान्तः किमिति सूत्रकृतोपेक्षितः, तत्राह -
यत्त्विति ॥३३॥ 【भाष्यम्】 【भाष्यम्】 जीवस्य देहपरिमाणतां दूषयति - एवं चेति । अकार्त्स्न्यं मध्यमपरिमाणत्वम् । तेनानित्यत्वं स्यादित्यर्थः । अर्थान्तरमाह - शरीराणां चेति । विपाकः कर्मणामभिव्यक्तिः । जीवस्य कृत्स्नगजशरीरव्यापित्वमकार्त्स्न्यम् । शरीरैकदेशो निर्जीवः स्यादित्यर्थः । पुत्तिकादेहे कृत्स्नो जीवो न प्रविशेत् । देहाद्बहिरपि जीवः स्यादित्यर्थः । किञ्च बालदेहमात्र आत्मा ततः स्थूले युवदेहे क्वचित्स्यादिति कृत्स्नदेहः सजीवो न स्यादित्याह - समान इति । यथा दीपावयवानां घटे सङ्कोचो गेहे विकासस्तथा जीवावयवानामिति देहमानत्वनियमं शङ्कते - स्यादिति । दीपांशवज्जीवांशा भिन्नदेशा एकदेशा वेति विकल्प्याद्येऽल्पदेहाद्बहिरपि जीवः स्यादिति दूषयति - तेषामित्यादिना । दीपस्य तु न घटाद्बहिः सत्त्वमधिकावयवानां विनाशात् । द्वितीयं दूषयति - अप्रतिघात इति । अवयवानां नित्यत्वं चासिद्धमल्पत्वाद्दीपांशवदित्याह -
अपि चेति ॥३४॥ 【भाष्यम्】 【भाष्यम्】 सूत्रेण परिहरति - न चेति । आगमापायौ पर्यायः । किमागमापायिनामवयवानामात्मत्वमस्ति न वा । आद्ये आह - विकारादिदोषेति । कोऽसौ बन्धमोक्षाभ्युपगम इत्यत आह - कर्माष्टकेति । व्याख्यातमेतत् । आद्ये कल्पे दोषान्तरं वदन् कल्पान्तरमादाय दूषयति - किञ्चेति । अवशिष्टकूटस्थावयवस्य दुर्ज्ञानत्वादात्मज्ञानाभावान्न मुक्तिरित्यर्थः । यथा दीपावयवनामाकारस्तेजस्तथात्मावयवनामाकारकारणाभावान्नागमापायौ युक्तावित्याह - किञ्चेति । सर्वजीवसाधारणः प्रतिजीवमसाधारणो वेत्यर्थः । किञ्चात्मन आगमापायिशीलावयवत्वे सति कियन्त आयान्त्यवयवाः कियन्तोऽपयन्तीत्यज्ञानादात्मनिश्चयाभावादनिर्मोक्षः स्यादित्याह - किञ्चेति । अपि चावयवारब्धावयवित्वे जीवस्यानित्यत्वम् , अवयवसमूहत्वे चासत्त्वम् , आत्मत्वस्य यावदवयववृत्तित्वे यत्किञ्चिदवयवापायेऽपि सद्यः शरीरस्याचेतनत्वम् , गोत्ववत्प्रत्येकं समाप्तावेकस्मिञ्छरीर आत्मनानात्वं स्यादतो न देहपरिमाणत्वसावयवत्वे आत्मन इत्युपसंहरति - अत इति । सूत्रस्यार्थान्तरमाह - अथवेति । स्थूलसूक्ष्मशरीरप्राप्तावकार्त्स्न्योक्तिद्वारेणात्मानित्यतायामुक्तायां सुगतवत्सन्तानरूपेणात्मनित्यतामाशङ्क्यानेनोत्तरमुच्यत इत्यन्वयः । पर्यायेणेत्यस्य व्याख्या - स्रोत इति । देहभेदेन परिमाणस्यात्मनश्चानवस्थानेऽपि नाशेऽपि । स्रोतः प्रवाहः । तदात्मकस्यात्मव्यक्तिसन्तानस्य नित्यतयात्मनित्यता स्यादित्यत्र दृष्टान्तमाह - यथेति ।
सिग्वस्त्रं विगतं येभ्यस्ते विसिचो दिगम्बरास्तेषामित्यर्थः । पर्यायात्सन्तानादप्यात्मनित्यत्वस्याविरोध इति न च । कुतः । विकारादिभ्यः । सन्तानस्यावस्तुनः आत्मत्वे शून्यवादः, सन्तानस्य वस्तुत्वे सन्तान्यतिरेके च कूटस्थात्मवादः, अनतिरेके जन्मादिविकारो विनाशो मुक्त्यभाव इत्युक्तदोषप्रसङ्गात्सन्तानात्मपक्षोऽनुपपन्न इति सूत्रार्थः ॥३५॥ 【भाष्यम्】 【भाष्यम्】 एवं जीवावयवा नित्या इति मते देहमानत्वं निरस्तम् । सम्प्रति जीवस्य केचिदेव कूटस्था अवयवा अन्ये त्वागमापायिन इति शङ्कते - अथेति । बृहत्तनुकायाप्तौ जीवस्यावयवागमापायाभ्यां देहमानत्वमित्यर्थः । यं स्थूलं वा सूक्ष्मं वा देहं गृह्णाति तद्देहपरिमाण एव जीव इति नियमं दूषयति - अन्त्येति । अन्त्यशरीरपरिमाणस्यावस्थितेर्नित्यत्वदर्शनादुभयोराद्यमध्यमपरिमाणयोर्नित्यत्वप्रसङ्गादविशेषस्त्रयाणां नित्यपरिमाणानां साम्यं स्याद्विरुद्धपरिमाणानामेकत्रायोगादिति सूत्रयोजना । आद्यमध्यमपरिमाणे नित्ये, आत्मपरिमाणत्वात् , अन्त्यपरिमाणवत् । न चाप्रयोजकता, परिमाणनाशे सत्यात्मनोऽपि नाशादन्त्यपरिमाणनित्यत्वायोगादिति भावः । परिमाणत्रयसाम्यापादानफलमाह - एकेति । अन्त्यशरीरसामान्येव पूर्वशरीराणि स्युः, विषमशरीरप्राप्तावात्मनस्तत्परिमाणत्वे परिमाणत्रयसाम्यानुमानविरोधादित्यर्थः । पूर्वं कालत्रये परिमाणत्रयमङ्गीकृत्यान्त्यदृष्टान्तेन नित्यत्वमनुमाय साम्यमापादितम् । सम्प्रत्यन्त्यस्य मुक्तपरिमाणस्याणुत्वस्थूलत्वयोरन्यतरत्वेनावस्थितेस्तदेवान्त्यमाद्यमध्यमकालयोरपि नित्यत्वात्स्यात् , प्रागसतो नित्यत्वायोगात् , तथा चाविशेषः कालत्रयेऽपि जीवपरिमाणाभेद इत्याह - अथवेति ।
तस्माद्भ्रान्त्येकशरणक्षपणकसिद्धान्तेनाविरोधः समन्वयस्येति सिद्धम् ॥३६॥ 【भाष्यम्】 【भाष्यम्】 लुञ्चितकेशमतनिरसनानन्तरं जटाधारिशैवमतं बुद्धिस्थं निराक्रियत इति प्रसङ्गसङ्गतिमाह - इदानीमिति । सामान्यत ईश्वरनिरास एवात्र किं न स्यादिति शङ्कते - तदिति । स्वोक्तिविरोधान्मैवमित्याह - प्रकृतिश्चेत्यादिना । प्रतिष्ठापितत्वात्केवलनिमित्तेश्वरप्रतिषेधोऽवगम्यत इत्यन्वयः । व्याहतो विरुद्धोऽभिव्याहार उक्तिर्यस्य स तथा । अद्वितीयब्रह्मप्रकृतिकं जगदिति वदतो वेदान्तसमन्वयस्य कर्तैवेश्वरो न प्रकृतिरिति शैवादिमतेन विरोधोऽस्ति न वेति सन्देहे तन्मतस्य मानमूलत्वाद्विरोधे सति वेदान्तोक्ताद्वयब्रह्मासिद्धिरिति फलमभिप्रेत्य सत्त्वासत्त्वयोरेकत्रासम्भववत्कर्तृत्वोपादानत्वयोरप्येकत्रासम्भवात्कर्तैवेश्वर इति पूर्वपक्षं कुर्वन्नवान्तरमतभेदमाह - सा चेति । सेश्वराः साङ्ख्याः साङ्ख्यशब्दार्थः । चत्वारो माहेश्वराः शैवाः पाशुपताः कारुणिकसिद्धान्तिनः कापालिकाश्चेति । सर्वोऽप्यमी महेश्वरप्रोक्तागमानुगामित्वान्माहेश्वरा उच्यन्ते । कार्यं महदादिकम् , कारणं प्रधानमीश्वरश्च, योगः समाधिः, विधिस्त्रिषवणस्नानादिः , दुःखान्तो मोक्ष इति पञ्च पदार्थाः । पशवो जीवास्तेषां पाशो बन्धस्तन्नाशायेत्यर्थः । पाशुपतागमप्रमाण्यात्पशुपतिर्निमित्तमेवेति मतमुक्त्वानुमानिकेश्वरमतमाह - तथेति । विमतं सकर्तृकम् , कार्यत्वात् , घटवदिति वैशेषिकाः कर्तारमीश्वरं साधयन्ति । कर्मफलं सपरिकराभिज्ञदातृकम् , कालान्तरभाविफलत्वात् , सेवाफलवदिति गौतमा दिगम्बराश्च । ज्ञानैश्वर्योत्कर्षः क्वचिद्विश्रान्तः, सातिशयत्वात् , परिमाणवदिति साङ्ख्यसौगतपातञ्जला इति मत्वोक्तम् - केचित्कथञ्चिदिति । सिद्धान्तयति - अत इति । आगमादिना निर्देषेश्वरसिद्धेः कथं दोषवत्वमित्याह - किमिति । न तावत्स्वस्वागमादीश्वरनिर्णयः, आगमानां निर्मूलत्वेनाप्रामाण्यात् । न च सर्वज्ञज्ञानं मूलम् , तत्र मानाभावात् । न चागम एव मानम् , आगममानत्वनिश्चये मूलनिश्चयस्तन्निश्चये तन्निश्चय इत्यन्योन्याश्रयात् । न च पुरुषवचसां स्वतोमानत्वं युक्तम् , मिथो विरोधेन तत्त्वाव्यवस्थानाच्च । नाप्यनुमानादीश्वरः सर्वज्ञः कर्तैवेति निर्णयः सम्भवति, अनुमानस्य दृष्टानुसारित्वेन दृष्टविपरीतार्थासाधकत्वात् । तथा च लोके यादृशाः कर्तारो दृष्टास्तादृशा एव जगत्कर्तारो रागद्वेषादिमन्तः सिध्येयुः । यदि लोके विचित्रप्रासादादिकर्तुरेकत्वाद्यदर्शनेऽपि जगत्कर्तरि लाघवादेकत्वं नित्यज्ञानं निर्देषत्वं च कल्प्येत, तर्हि द्रव्योपादानत्वमपि कल्प्यताम् , कर्तुरेवोपादानत्वेन लाघवात् , अन्यथा स्वतन्त्रप्रधानपरमाण्वाद्युपादानकल्पनागौरवात् । अदृष्टत्वाच्चेत्कर्तुर्द्रव्योपादानत्वासिद्धिरेकत्वादिकमपि न सिध्येत् । अस्माकं त्वपौरुषेयतया स्वतःसिद्धप्रमाणभावया श्रुत्या स्वप्रमेयबोधने दृष्टान्तानपेक्षया भवत्येव लौकिककर्तृविपरीताद्वितीयकर्त्रुपादानात्मकसर्वज्ञनिर्दोषेश्वरनिर्णयः । निर्णीते च तस्मिन् धर्मिग्राहकमानबाधान्न रागादिदोषापादानस्यावकाश इत्यानुमानिकेश्वरवादिभ्यो वैषम्यम् , तदभिप्रेत्याश्रौतस्येश्वरस्यासामञ्जस्यमाह - हीनेति । यदि कर्तुरुपादानत्वमदृष्टत्वान्न कल्प्यते तर्हि निर्देषत्वस्याप्यदृष्टत्वाद्यो विषमकारी स दोषवानिति व्याप्तिदृष्टेश्च जगत्कर्ता दोषवान् स्यात् । न चात्र धर्मिग्राहकानुमानबाधः, कार्यत्वलिङ्गस्य कर्तृमात्रसाधकत्वेन निर्दोषत्वादावुदासीनत्वात् । न चोत्कर्षसमा जातिः, व्यापकधर्मापादानात् , दोषाभावे तद्व्याप्यविषमकर्तृत्वायोगाच्च । दृष्टान्तस्थाव्यापकधर्माणां पक्षे आपादनं ह्युत्कर्षसमा जातिः । यथा शब्दो यदि कृतकत्वेन हेतुना घटवदनित्यः स्यात्तर्हि तेनैव हेतुना सावयवोऽपि स्यादिति । न ह्यनित्यत्वस्य व्यापकं सावयवत्वं गन्धादौ व्यभिचारादिति भावः । ननु प्राणिकर्मप्रेरित ईश्वरो विषमफलान् प्राणिनः करोति न स्वेच्छयेति शङ्कते - प्राणीति । जडस्य कर्मणः प्रेरकत्वायोगान्मैवमित्याह - नेति । न चेश्वरप्रेरितं कर्मेश्वरस्य प्रेरकमिति वाच्यमित्याह - कर्मेति । अतीतकर्मणा प्रेरित ईश्वरो वर्तमानं कर्म तत्फलाय प्रेरयतीत्यनादित्वात्प्रेर्यप्रेरकभावस्य नानुपपत्तिरिति शङ्कते - नानादित्वादिति । अतीतकर्मणोऽपि जडत्वान्नेश्वरप्रेरकता । न च तदपीश्वरेण प्रेरितं सदीश्वरं प्रेरयति, उक्तान्योन्याश्रयात् । ततोऽप्यतीतकर्मप्रेरितेश्वरप्रेरितं तदेवेश्वरं वर्तमाने कर्मणि फलदानाय प्रेरयतीति चेत् । न । मानहीनाया मूलक्षयावहाया अनवस्थायाः प्रसङ्गात् । अतः कर्मनिरपेक्ष एवेश्वरो विषमस्रष्टेत्यसामञ्जस्यं दुर्वारमित्यर्थः । यत्तु फलदाने ईश्वरस्य कर्म निमित्तमात्रं न प्रेरकमिति नोक्तदोष इति । तन्न । विषमकर्मकारयितुरीश्वरस्य दोषवत्त्वानपायात् , पूर्वकर्मापेक्षया कर्मकारयितृत्वे चोक्ताप्रामाणिकानवस्थानात् । अस्माकं तु 'एष ह्येव साध्वसाधु कारयति' इति, 'निरवद्यम्' इति च श्रुतिमूलं पूर्वकर्मापेक्षाकल्पनमिति वैषम्यम् । किञ्च परमतानुसारेणापीश्वरस्य रागादिमत्त्वं प्राप्नोतीत्याह - अपि चेति । प्रवर्तकत्वलिङ्गाद्दोषा इति तार्किकाणां स्थितिः, तथा चेश्वरः स्वार्थे रागादिमान् , प्रवर्तकत्वात् , सम्मतवत् । न च कारुणिके व्यभिचारः, परदुःखप्रयुक्तस्वदुःखनिवृत्त्यर्थित्वात्तस्येत्यर्थः । उदासीनः प्रवर्तक इति च व्याहतमिति योगान्प्रत्याह -
पुरुषेति ॥३७॥ 【भाष्यम्】 【भाष्यम्】 प्रधानवादे दोषान्तरमाह सूत्रकारः - सम्बन्धेति । ईश्वरेणासम्बद्धस्य प्रधानादेः प्रेर्यत्वायोगात्सम्बन्धो वाच्यः । स च संयेगः समवायो वा नास्तीत्यर्थः । कार्यबलात्प्रेरणयोग्यत्वाख्यः सम्बन्धः कल्प्यतामित्यत आह - नाप्यन्य इति । ईश्वरप्रेरितप्रधानकार्यं जगदिति सिद्धं चेत्सम्बन्धकल्पना स्यात् । तच्चाद्याप्यसिद्धमित्यर्थः । मायाब्रह्मणोस्त्वनिर्वाच्यतादात्म्यसम्बन्धः, 'देवात्मशक्तिम्' इति श्रुतेः । किञ्च वेदस्यापूर्वार्थत्वान्न लोकदृष्टमृत्कुलालसम्बन्धो वैदिकेनानुसर्तव्यः । आनुमानिकेन त्वनुसर्तव्य इति विशेषमाह - अपि चेति । सर्वज्ञस्यागमप्रामाण्यस्य च ज्ञप्तावन्योन्याश्रयः, अनुमानात्सर्वज्ञसिद्धेर्निरस्तत्वात् । न ह्यमनस्कस्य ज्ञानं सम्भवति, ज्ञानं मनोजन्यमिति व्याप्तिविरोधान्नित्यज्ञानकल्पनानवकाशादिति भावः । प्रधानवत्परमाणूनामपि निरवयवेश्वरेण संयोगाद्यसत्त्वात्प्रेर्यत्वायोगः , प्रेरकत्वे चेश्वरस्य दोषवत्त्वमित्याह -
एवमन्यास्वपीति ॥३८॥ 【भाष्यम्】 【भाष्यम्】 ईश्वरस्य प्रधानादिप्रेरणानुपपत्तेश्चासामञ्जस्यमित्याह सूत्रकारः - अधिष्ठानेति ।
प्रधानादिकं चेतनस्यानधिष्ठेयम् , अप्रत्यक्षत्वात् , ईश्वरवत् , व्यतिरेकेण मृगादिवच्चेत्यर्थः ॥३९॥ 【भाष्यम्】 【भाष्यम्】 चक्षुरादौ व्यभिचारमाशङ्क्य निषेधति - करणवदिति । रूपमुद्भूतं नास्तीत्यप्रत्यक्षत्वं स्फुटयति - रूपेति । स्वभोगाहेतुत्वे सतीति विशेषणान्न व्यभिचार इत्याह - तथापीति । भोगः सुखदुःखानुभवः । आदिपदाद्विषयानुभवग्रहः । न च यद्येनाधिष्ठेयं तत्तदीयभोगहेतुत्वे सति प्रत्यक्षमिति व्यतिरेकव्याप्तौ करणेषु व्यभिचारतादवस्थ्यमिति वाच्यम् , भोगाहेतुत्वविशिष्टाप्रत्यक्षत्वस्य हेतुत्वात् , करणेषु च विशेषणाभावेन विशिष्टस्य हेतोरभावात् । न च विशेष्यवैयर्थ्यम् , परार्थपाचकाधिष्ठेयकाष्ठादौ व्यभिचारात् । न च प्रधानादेरीश्वरप्रत्यक्षत्वाद्विशेष्यासिद्धिः, अतीन्द्रियत्वरूपाप्रत्यक्षत्वस्य सत्त्वादित्यभिप्रायः । जीवे करणकृता भोगदयो दृश्यन्ते, ईश्वरे तु प्रधानकृतास्ते न दृश्यन्त इत्यक्षरार्थः । विपक्षे दोषं वदन्नप्रयोजकत्वं हेतोर्निरस्यति - करणेति । प्रधानादेः प्रेर्यत्वाङ्गीकारे प्रेरकभोगहेतुत्वं स्यात् । अतीन्द्रियस्य प्रेर्यस्य भोगहेतुत्वनियमादित्यर्थः । सूत्रद्वयस्यार्थान्तरमाह - अन्यथा वेति । यः प्रवर्तकश्चेतनः स शरीरीति लोके व्याप्तिदृष्टेरीश्वरस्य च शरीरानुपपत्तेर्न प्रवर्तकत्वमिति सूत्रार्थमाह - इतश्चेति । विमतं सेश्वरम् , कार्यत्वात् , राष्ट्रवदिति कल्पयतो राजवत्सशरीर एवेश्वरः स्यादित्युक्तम् । तत्रेष्टापत्तिं निरस्यति - न च तद्वर्णयितुमिति । न च नित्यं शरीरं सर्गात्प्रागपि सम्भवतीति वाच्यम् , शरीरस्य भौतिकत्वनियमादित्यर्थः । अस्त्वशरीर एवेश्वर इत्यत आह - निरधिष्ठानत्वे चेति । जीवस्यैव शरीरं भौतिकमीश्वरस्य तु स्वेच्छानिर्मितं प्रागपि स्यादित्याशङ्कां निरस्यति - करणवदिति ।
करणान्यत्र सन्तीति करणवच्छरीरम् । इच्छामयशरीरकल्पनैवानुपपन्ना, मानाभावाद्दृष्टभौतिकत्वनियमविरोधाच्चेति मन्तव्यम् ॥४०॥ 【भाष्यम्】 【भाष्यम्】 एवमीश्वरस्य शुष्कतर्केण कर्तृत्वनिर्णयो नेत्युपपाद्य नित्यत्वसर्वज्ञत्वनिर्णयोऽपि न सम्भवतीत्याह सूत्रकारः - अन्तवत्वमिति । प्रधानपुरुषेश्वरत्रयमनित्यम् , इयत्तापरिच्छिन्नत्वात्घटवदित्याह - पूर्वस्मिन्निति । सङ्ख्या वा परिमाणं वेयत्ता । तथा च निश्चितसङ्ख्यत्वान्निश्चितपरिमाणत्वाच्चेति हेतुद्वयम् । यद्यपि सङ्ख्यावत्वमात्रं हेतुः सम्भवति तथापि सर्वज्ञनिश्चयेन हेत्वसिद्धिनिरासं द्योतयितुं निश्चितपदम् । तत्राद्यहेतोरसिद्धिर्नास्तीत्याह - सङ्ख्यापरिमाणमिति । सङ्ख्यास्वरूपमित्यर्थः । द्वितीयहेतुं साधयति - स्वरूपेति । प्रधानादयो निश्चितपरिमाणाः, वस्तुतो भिन्नत्वात् , घटवदित्यर्थः । ननु प्रधानपुरुषेश्वरास्त्रय इति ज्ञातेऽपि जीवानामानन्त्यात्कथं सङ्ख्यानिश्चयः, तत्राह - पुरुषेति । जीवसङ्ख्यापीश्वरेण निश्चीयते । अनिश्चये सर्वज्ञत्वायोगादित्यर्थः । हेतुसिद्धेः फलमाह - ततश्चेति । माषराशिवत्केषाञ्चिज्जीवानां सङ्घस्तद्बन्धश्च नश्येदित्येवं सर्वमुक्तेरिदानीं शून्यं जगत्स्यादित्यर्थः । नित्यस्यानवशेषादिति भावः । ननु ईश्वरः शिष्यतामिति चेत् । न । तस्यापि भिन्नित्वेनान्तवत्त्वात् । किञ्चेशितव्याभावादीश्वराभावः स्यादित्याह - प्रधानमिति । दोषान्तरमाह - प्रधानेति । इयत्तानिश्चयाभावान्न शून्यतेति द्वितीयं शङ्कते - अथेति । इयत्ता नास्ति न निश्चीयते चेत्यर्थः । प्रदानादयः सङ्ख्यापरिमाणवन्तः, द्रव्यत्वात् , माषादिवदित्यनुमानादस्तीयत्ता, तदज्ञाने स्यादसर्वज्ञता, इयत्तायां चान्तवत्त्वमप्यक्षतमिति परिहरति - तत इति ।
तस्मात्केवलकर्त्रीश्वरवादस्य निर्मूलत्वान्न कर्त्रुपादानाद्वयेश्वरसमन्वयविरोध इति सिद्धम् ॥४१॥ 【भाष्यम्】 【भाष्यम्】 पञ्चपदार्थवादिमाहेश्वरमतनिरासानन्तरं चतुर्व्यूहवादं बुद्धिस्थं निरस्यति - उत्पत्त्यसम्भवात् । अधिकरणतात्पर्यमाह - येषामिति । अधिकरणारम्भमाक्षिपति - नन्विति । वेदाविरुद्धांशमङ्गीकृत्य वेदविरुद्धं जीवोत्पत्त्यंशं निराकर्तुमधिकरणारम्भ इत्याह - उच्यत इति । अत्र भागवतपञ्चरात्रागमो विषयः । स किं जीवोत्पत्त्याद्यंशे मानं न वेति सन्देहे बाधानुपलम्भान्मानमिति पूर्वपक्षयति - तत्रेति । पूर्वपक्षे तदागमविरोधाज्जीवाभिन्नब्रह्मसमन्वयासिद्धिः, सिद्धान्ते तदंशे तस्यामानत्वादविरोधात्तत्सिद्धिरिति फलभेदः । सावयवत्वं निरस्यति - निरञ्जनेति । कथं तर्ह्यद्वितीये वासुदेवे मूर्तिभेदः, तत्राह - स इति । व्यूहो मूर्तिः । सविशेषं शास्त्रार्थमुक्त्वा सहेतुं पुरुषार्थमाह - तमित्थम्भूतमिति । यथोक्तव्यूहवन्तं सर्वप्रकृतिं निरञ्जनं विज्ञानरूपं परमात्मानमिति यावत् । वाक्कायचेतसामवधानपूर्वकं देवतागृहगमनमभिगमनम् । पूजाद्रव्याणामर्जनमुपादानम् । इज्या पूजा । स्वाध्यायोऽष्टाक्षरादि जपः । योगो ध्यानम् । तत्राविरुद्धांशमुपादत्ते - तत्रेति । 'समाहितः श्रद्धावित्तो भूत्वा' इति, 'तं यथा यथोपासते' इत्याद्या च श्रुतिः । 'मत्कर्मकृन्मत्परमः' इत्याद्या स्मृतिः । विरुद्धांशमनूद्य दूषयति - यत्पुनरिति ।
कृतहान्यादिदोष आदिशब्दार्थः । न्यायोपेतया 'अज आत्मा' इत्यादिश्रुत्या पञ्चरात्रागमस्योत्पत्त्यंशे मानत्वाभावनिश्चयाज्जीवाभिन्नब्रह्मसमन्वयस्थैर्यमिति भावः ॥४२॥ 【भाष्यम्】 【भाष्यम्】 जीवस्योत्पत्तिं निरस्य जीवान्मनस उत्पत्तिं निरस्यति - न च कर्तुरिति । यस्मात्कर्तुः करणोत्पत्तिर्न दृश्यते तस्मादसङ्गता कल्पनेत्यन्वयः । सिद्धानां करणानां प्रयोक्ता कर्तेति प्रसिद्ध्यर्थो हिशब्दः । वर्णनं निर्मूलमित्याह - न चेति ।
ननु लोके कश्चिच्छिल्पिवरः कुठारं निर्माय तेन वृक्षं छिनत्तीति दृष्टमिति चेत् । सत्यम् । शिल्पिनो हस्तादिकरणान्तरसत्त्वात्कुठारकर्तृत्वं युक्तम् , जीवस्य तु करणान्तरासत्त्वान्न मनसः कर्तृत्वम् । विनैव करणं कर्तृत्वे वा मनोवैयर्थ्यमिति भावः ॥४३॥ 【भाष्यम्】 【भाष्यम्】 सङ्कर्षणादीनामुत्पत्त्यसम्भवेऽपि व्यूहचतुष्टयं स्यादिति सूत्रव्यावर्त्यमाशङ्कते - अथापि स्यादिति । ज्ञानैश्वर्ययोः शक्तिरान्तरं सामर्थ्यम् , बलं शरीरसामर्थ्यम् , वीर्यं शौर्यम् , तेजः प्रागल्भ्यमेतैरन्विता यस्मात्सङ्कर्षणादयस्तस्मादीश्वरा एवेत्यर्थः । सर्वेषामीश्वरत्वे पञ्चरात्रोक्तिमाह - वासुदेवा एवेति । निर्दोषा रागादिशून्याः । निरधिष्ठानाः प्रकृत्यजन्याः । निरवद्या नाशादिरहिता इत्यर्थः । ईश्वरत्वाज्जन्मासम्भवो गुण एवेत्याह - तस्मादिति । सूत्रेण सिद्धान्तयति - अत्रेति । एवमपि । चतुर्णामीश्वरत्वेन विज्ञानशक्त्यादिभावेऽपीत्यर्थः । प्रकारान्तरं पृच्छति - कथमिति । किं चत्वारः स्वतन्त्रा भिन्ना एव उतैकस्य विकारत्वेनाभिन्नाः । आद्यमनूद्य दूषयति - यदीत्यादिना । द्वितीये विकाराः प्रकृतितुल्या वा न्यूना वा । आद्यमुत्थाप्य निषेधति - अथेत्यादिना । न्यूनत्वपक्षेऽपसिद्धान्तमाह - न च पञ्चेति । यदि न्यूना अपि भगवतो व्यूहास्तदा चतुष्ट्वव्याघात इत्याह -
न चैत इति ॥४४॥ 【भाष्यम्】 【भाष्यम्】 इतश्च जीवोत्पत्तिवाद उपेक्ष्य इत्याह सूत्रकारः - विप्रतिषेधाच्चेति । स्वस्यैव गुणत्वं गुणित्वं च विरुद्धम् । आदिपदात्प्रद्युम्नानिरुद्धौ भिन्नावात्मन इत्युक्त्वात्मन एवैते इति विरुद्धोक्तिग्रहः । पूर्वापरविरोधादसाङ्गत्यमिति सूत्रार्थमुक्त्वार्थान्तरमाह - वेदेति ।
एकस्यापि तन्त्राक्षरस्याध्येता चतुर्वेदिभ्योऽधिक इति निन्दादिपदार्थः । तस्मान्मिथो विरुद्धाभिः पौरुषेयकल्पनाभिर्नापौरुषेयवेदान्तसमन्वयविरोध इति सिद्धम् ॥४५॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीपरमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयाध्यायस्य द्वितीयः पादः ॥२॥ 【भाष्यम्】 【भाष्यम्】 वियदादिविधातारं सीतास्याब्जमधुव्रतम् ।
नित्यचिद्विश्वकर्त्रात्माभिन्नं सर्वेश्वरं भजे ॥१॥ 【भाष्यम्】 【भाष्यम्】 जीवस्यानुत्पत्तिप्रसङ्गेनाकाशस्याप्युत्पत्त्यसम्भवमाशङ्क्य परिहरन्नादावेकदेशितमाह - न वियदश्रुतेः । वियत्प्राणापादयोरर्थं सङ्क्षिपन् पूर्वपादेन सङ्गतिमाह - वेदान्तेष्विति । भिन्नोपक्रमत्वमेवाह - केचिदित्यादिना । भूतभोक्तृश्रुतीनां मिथोविरोधशङ्कानिरासो वियत्पादार्थः । लिङ्गशरीरश्रुतीनां तन्निरासः प्राणपादार्थः । यथा मिथोविरोधात्पूर्वापरविरोधाच्च परपक्षा उपेक्ष्यास्तथा श्रुतिपक्षोऽपि उपेक्ष्य इति शङ्कोत्थाने पादद्वयस्यारम्भात्पूर्वपादेन दृष्टान्तसङ्गतिरिति समुदायार्थः । आकाशवाय्वोरुत्पत्तिमामनन्ति तैत्तिरीयकाः । नामनन्ति छन्दोगाः । जीवस्य प्राणानां चोत्पत्तिं 'सर्व एत आत्मनो व्युच्चरन्ति' इति वाजिनः । 'एतस्माज्जायते प्राणः' इत्याथर्वणिकाश्चामनन्ति नान्ये । एवमाकाशपूर्विका क्वचित्सृष्टिः, क्वचित्तेज पूर्विकेति क्रमविरोधः । आदिपदात् 'स इमांल्लोकानसृजत' इत्यक्रमः, क्वचित्सप्त प्राणाः, क्वचिदष्टावित्यादि सङ्ख्याद्वारकश्च विरोधो ग्राह्यः । प्रपञ्चः पादद्वयम् । तथा च पादद्वयस्य श्रुतीनां मिथोविरोधनिरासार्थत्वाच्छ्रुतिशास्त्राध्यायसङ्गतयः सिद्धाः । अत्राकाशस्योत्पत्त्यनुत्पत्तिश्रुत्योर्मिथोविरिधोऽस्ति न वेति वाक्यभेदैकवाक्यत्वाभ्यां सन्देहे यद्युत्पत्तिस्तदा वाक्यभेदेन विरोधादप्रामाण्यमनयोः श्रुत्योरिति पूर्वपक्षयिष्यन्नादावनुत्पत्तिपक्षमेकदेशि गृह्णातीत्याह - तत्र तावदिति ।
उत्पत्तिश्रुतिर्मुख्या नास्तीति गूढाभिसन्धिः ॥१॥ 【भाष्यम्】 【भाष्यम्】 सम्प्रति पूर्वपक्षयति सूत्रकारः - अस्ति त्विति । एकवाक्यत्वेन प्रामाण्यसम्भवे किमिति श्रुत्योरप्रामाण्यमिति शङ्कते - नन्वेकवाक्यतेति । एकवाक्यत्वासम्भवादप्रामाण्यं युक्तमित्याह - सत्यमित्यादिना । एकस्य युगपत्कार्यद्वयासम्बन्धेऽपि क्रमेण सम्बन्धसम्भवादेकवाक्यतेति मुख्यसिद्धान्ती शङ्कते - ननु सकृदिति । अप्रामाण्यवादी दूषयति - नैवमिति । क्रमो न युज्यते द्वयोः श्रुतप्राथम्यभङ्गापत्तेरित्यर्थः । एकस्माद्द्विदलबीजाद्दलद्वयवदस्तूभयं प्रथमजमित्यत आह - न चेति । वायोरग्निरिति क्रमश्रुतिभङ्गादिति शेषः । छान्दोग्यश्रुतेस्तित्तिरिश्रुतिविरुद्धार्थत्वमुक्त्वा तित्तिरिश्रुतेस्तद्विरुद्धार्थत्वमाह - एतेनेति । एतत्पदार्थमाह - तस्मादिति । छान्दोग्येऽपि श्रुतं तेजसः प्राथम्यमत्र दुर्योज्यमित्यर्थः । किञ्च सत्पदार्थ आत्मा छान्दोग्ये तेजस उपादानं श्रूयते, अत्र तु वायुरिति नैकवाक्यतेत्याह -
वायोरिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 तत्र श्रुत्योर्विरोधे सत्यध्ययनविध्युपात्तयोरप्रामाण्यायोगाद्वियदुत्पत्त्यसम्भवरूपतर्कानुगृहीतच्छान्दोग्यश्रुतिर्मुख्यार्था इतरा गौणीत्यविरोध इत्येकदेशिमतं विवृणोति - नास्तीत्यादिना । आकाशो नोत्पद्यते सामग्रीशून्यत्वात् , आत्मवत् । न चाविद्याब्रह्मणोः सत्त्वाद्धेत्वसिद्धिः, विजातीयत्वेनानयोरारम्भकत्वायोगादसंयुक्तत्वाच्च । संयोग एव हि द्रव्यस्यासमवायिकारणमतः समवाय्यसमवायिनोरभावान्न हेत्वसिद्धिरित्यर्थः । प्रागभावशून्यत्वाच्चात्मवदाकाशो नोत्पद्यत इत्याह - उत्पत्तिमतां चेति । प्रकाशश्चाक्षुषानुभवः । आदिपदात्तमोध्वंसपाकयोर्ग्रहणम् । मूर्तद्रव्याश्रयत्वं ह्यकाशस्य कार्यम् , तच्च प्रलयेऽप्यस्ति परमाण्वाश्रयत्वात् । अतो न प्रागभाव इत्यर्थः । प्रागभावसत्त्वं स्फुटयति - किं हीति । स्थूलाश्रयोऽवकाशः सूक्ष्माश्रयच्छिद्रमण्वाश्रयः सुषिरमिति भेदः । किञ्चात्मवदाकाशो न जायते, विभुत्वात् , अस्पर्शद्रव्यत्वाच्चेत्याह - पृथिव्यादीति । तस्मादुक्ततर्कबलाद्गौणी द्रष्टव्येत्यन्वयः । भेदोक्तेर्गौणत्वे वैदिकोदाहरणमाह - वेदेऽप्यारण्यानिति ।
आकाशेष्विति भेदव्यपदेशो गौण इति सम्बन्धः ॥३॥ 【भाष्यम्】 【भाष्यम्】 एवं श्रुत्योर्विरोधादप्रामाण्यमिति पूर्वपक्षे प्राप्ते स एव वियदनुत्पत्तिवादि स्वमतेन प्रामाण्यं ब्रूत इत्याह - अस्मिन्निति । एवमाध्यायसमाप्तेरधिकरणेषु प्रथमं विरोधाच्छ्रुत्यप्रामाण्यमिति पूर्वपक्षफलं तत एकदेशिसिद्धान्तः, पश्चान्मुख्यसिद्धान्ते श्रुतीनामविरोधेनैक वाक्यतया ब्रह्मणि समन्वयसिद्धिरिति फलं क्रमश्चेत्यवगन्तव्यम् । न केवलं तर्कादाकाशस्यानुत्पत्तिः, किन्तु श्रुतितोऽपीत्याहसूत्रकारः - शब्दाच्चेति ।
नित्यभावस्यानादित्वादिति भावः । आत्मेति च शब्द इहोदाहरणमित्यन्वयः । आकाशः शरीरमस्येति बहुव्रीहिणात्यन्तसाम्यभानाद्ब्रह्मवदाकाशस्यानादित्वमित्यर्थः ॥४॥ 【भाष्यम्】 【भाष्यम्】 पदोत्तरमिति । शङ्कोत्तरमिति यावत् । तान्येव शङ्कापदानि पठति - स्यादेतदिति । अधिकारे प्रकरणे । यथैकस्मिन्ब्रह्मप्रकरणे 'अन्नं ब्रह्म', 'आनन्दो ब्रह्म' इति वाक्ययोर्ब्रह्मशब्दस्यान्ने गौणत्वमानन्दे मुख्यता तथैकवाक्यस्थस्यैकस्यापि सम्भूतशब्दस्य गुणमुख्यार्थभेदो योग्यताबलादित्याह - स्याच्चेति । उदाहरणान्तरमाह - यथा चेति । अभेदोपचारो भक्तिः । मुख्यसिद्धान्त्याक्षिपति - कथं पुनरिति । स एवाक्षेपद्वयं स्पष्टयति - नन्विति । अद्वितीयत्वश्रुतिबाधः सर्वविज्ञानप्रतिज्ञाबाधश्चेत्यर्थः । प्रथमाक्षेपं दृष्टान्तेन परिहरति - एकमेवेति । कार्यरूपद्वितीयशून्यत्वं प्रागवस्थायामवधारणश्रुत्यर्थ इत्यर्थः । कुले गृहे । अमत्राणि घटादीनि पात्राणि । एकमेवेत्यवधारणव्यावर्त्यं कार्यमिति व्याख्यायाद्वितीयपदव्यावर्त्यमाह - अद्वितीयश्रुतिरिति । आकाशस्य द्वितीयत्वमङ्गीकृत्याद्वितीयादिपदसङ्कोचः कृतः, तदपि नास्तीत्याह - न च नभसापीति । धर्मसाम्ये ब्रह्मनभसोः कथं भेदः, तत्राह - सर्गकाले त्विति । धर्मसाम्यादद्वितीयत्वोपचार इत्यर्थे श्रुतिमाह - तथा चाकशेति । द्वितीयमाक्षेपं परिहरति - अत एवेति । अभेदोपचारादेवेत्यर्थः । नभसो ब्रह्मतत्कार्याभ्यासभिन्नदेशकालत्वाच्च तज्ज्ञाने तज्ज्ञानमित्याह -
अपि चेति ॥५॥ 【भाष्यम्】 【भाष्यम्】 एवमाकाशस्यानुत्पत्तौ सर्वश्रुतीनामविरोध इत्येकदेशिसिद्धान्तः प्राप्तस्तं मुख्यसिद्धान्ती दूषयति - प्रतिज्ञेति । अहानिरबाधः । सामयजुरथर्वणशाखाभेदज्ञापनार्था इति शब्दाः । न काचनेति । आत्मभिन्नं ज्ञेयं नास्तीत्यर्थः । ननु सर्वस्य ब्रह्माव्यतिरेकात्प्रतिज्ञाया अहानिरित्यस्तु, तथापि जीवादिवदनुत्पन्नस्यापि नभसो ब्रह्मणि कल्पितत्वेनाव्यतिरेकात्प्रतिज्ञासिद्धिः किं न स्यात् , किमुत्पत्त्येत्यत आह - शब्देभ्यश्चेति । अव्यतिरेक एव न्यायस्तेनेत्यर्थः ।अयं भावःजीवस्य तावदात्मत्वाद्ब्रह्माव्यतिरेकः । अज्ञानतत्सम्बन्धयोः कल्पितत्वेनाव्यतिरेकः । स्वतन्त्राज्ञानायोगादज्ञानान्यजडद्रव्यस्य तु कार्यत्वेनैवाव्यतिरेकसिद्धिः, तस्याकार्यत्वे प्रधानवत्स्वातन्त्र्यादव्यतिरेकायोगात् । तथाहुर्न्यायविदः 'नित्यद्रव्याणि स्वतन्त्राणि भिन्नान्यनाश्रितानि' इति । तस्मात्प्रतिज्ञासिद्धये आकाशस्य कार्यत्वेनैवाव्यतिरेको वाच्य इति दृष्टान्तसृष्टिसार्वात्म्यशब्दानाह - तथा हीति । तेन तेन दृष्टान्तेनेति । यजुषि दुन्दुभ्यादिदृष्टान्तेनाथर्वणे ऊर्णनाभ्यादिदृष्टान्तेनेत्यर्थः । यजुषि प्रतिज्ञासाधका' इदं सर्वम्' इतिशब्दाः, आथर्वणे 'ब्रह्मैवेदम्' इति शब्दा इति भावः । एवमाकाशोत्पत्तिकथनादेकदेशिमते दूषिते श्रुत्यप्रामाण्यवादी स्वोक्तं स्मारयति - सत्यं दर्शितमिति । मुख्यसिद्धान्त्याह - न । एकेति । 'तत्तेजोऽसृजत' इति सकृच्छ्रुतस्य स्रष्टुराकाशतेजोभ्यां युगपत्सम्बन्धे तित्तिरिक्रमबाधात् , क्रमेणाकाशं सृष्ट्वा तेजोऽसृजतेति सम्बन्धे तेजःप्राथम्यभङ्गप्रसङ्गात् , वस्तुनि विकल्पासम्भवेन तयोः शाखाभेदेन प्राथम्यव्यवस्थाया अयोगात् नैकवाक्यतेति प्राप्ते मुख्य एव दूषयति - नैष दोष इति । अप्रामाण्यकल्पनाद्वरमपौरुषेयश्रुतीनामेकवाक्यत्वेन प्रामाण्यकल्पनम् , तच्चैकवाक्यत्वं बलवच्छ्रुत्या दुर्बलश्रुतेः कल्प्यम् , बलवती च तित्तिरिश्रुतिः, प्रकृतिपञ्चम्या पौर्वापर्याख्यक्रमस्य श्रुतत्वात् । छान्दोग्यश्रुतिस्तु दुर्बला, तेजःप्राथम्यश्रुत्यभावात् । तेजःसर्गमात्रं तु श्रुतं तृतीयत्वेन परिणेयमित्येकवाक्यतेत्यर्थः । यदुक्तमेकदेशिना छान्दोग्यश्रुत्याकाशोत्पत्तिर्वार्यत इति तन्निरस्तम् । किञ्च सा श्रुतिः किं तेजोजन्मपरा, उत तेजोजन्म वियदनुत्पत्तिश्चेत्युभयपरा । आद्ये न तद्वारणमित्याह - न हीति । अविरोधादित्यर्थः । न द्वितीयः, श्रुत्यन्तरविरोधेनोभयपरत्वकल्पनायोगाद्वाक्यभेदापत्तेश्चेत्याह - एकस्येति । नन्वेकस्य स्रष्टुरनेकार्थसम्बन्धवद्वाक्यस्याप्यनेकार्थता किं न स्यादित्यत आह - स्रष्टा त्विति । एकस्य कर्तुरनेकार्थसम्बन्धो दृष्टः । न त्वेकस्य वाक्यस्य नानार्थत्वं दृष्टम् । नानार्थकप्रयोगे तु पय आनयेत्यादावावृत्त्या वाक्यभेद एव । आनयनस्य जलक्षीराभ्यां पृथक्सम्बन्धादित्यर्थः । फलितमाह - इत्येकेति । एकस्य शब्दस्यावृत्तिं विनानेकार्थत्वं नास्ति चेदसृजतेति शब्दस्य छान्दोग्य उपसंहृताकाशादिसम्बन्धार्थमावृत्तिदोषः स्यादित्यत आह - न चेति । छान्दोग्यस्थतेजोजन्म आकाशादिजन्मपूर्वकम् , तेजोजन्मत्वात् , तित्तिरिस्थतेजोजन्मवदित्याकाशादिजन्मोपसंहारे 'तदाकाशमसृजत' इति वाक्यान्तरस्यैव कल्पनान्नावृत्तिदोष इत्यर्थः । श्रुत्यन्तरस्थः क्रमः श्रुत्यन्तरे ग्राह्य इत्यत्र दृष्टान्तमाह - यथा चेति । सृष्टौ तात्पर्यातात्पर्याभ्यां दृष्टान्तश्रुतिवैषम्यं शङ्कते - नन्वित्यादिना । तेजःप्राथम्यस्वीकारे आकाशसर्गो धर्मि तद्धर्मः प्राथम्यं चेति द्वयं श्रुतं बाधनीयमिति गौरवम् , आकाशप्राथम्ये त्वार्थिकतेजः सर्गप्राथम्यमात्रबाध इति लाघवमिति मत्वाह - नेत्युच्यत इति । किञ्च प्रधानधर्मित्यागाद्वरं गुणभूतस्य तेजःप्राथम्यस्य धर्मस्य त्याग इत्याह - न हीति । किञ्च किं सृष्टिपरश्रुतिसिद्धत्वात्तेजःप्राथम्यं गृह्यत उत प्रथमस्थाने तेजसः सर्गश्रुत्यार्थात्प्राथम्यभानात् । नाद्य इत्याह - अपि चेति । द्वितीयमनूद्य दूषयति - अर्थात्त्विति । यदुक्तं वस्तुनि विकल्पासम्भवादुभयोः प्राथम्यं शाखाभेदेन व्यवस्थितं न भवति, नाप्युभयोर्द्विदलाङ्कुरवत्समुच्चित्योत्पत्त्या प्राथम्यं वायोरग्निरिति क्रमबाधापातादिति, तदिष्टमेवेत्याह - विकल्पेति । न केवलं श्रुतिदेव्योरविरोधः सौहार्दं चास्तीत्याह - अपि चेति । वियदुपसङ्ग्राह्यमित्यन्वयः । वियदनुत्पत्तिवादिनोक्तमनूद्य प्रतिज्ञाया अद्वितीयश्रुतेश्च मुख्यार्थतात्पर्यावगमान्न गौणार्थतेति दूषयति - यच्चोक्तमित्यादिना । प्रकृतिविकारन्यायस्तदनन्यत्वन्यायः । उदकं क्षीरस्थमपि क्षीरज्ञानान्न गृह्यते भेदादिति भावः । मास्तु सम्यग्ज्ञानं श्रुतेर्भ्रान्तिमूलत्वसम्भवादित्याशङ्क्यापौरुषेयत्वान्मैवमित्याह - न च वेदस्येति । माया भ्रान्तिस्तयालीकं मिथ्याभाषणं तेन वञ्चनमयथार्थबोधनम् । आदिपदाद्विप्रलिप्साप्रमादकरणापाटवानि गृह्यन्ते । प्रतिज्ञामुख्यत्वमभिधायाद्वितीयश्रुतिमुख्यतामाह - सावधारणेति । सर्वद्वैतनिषेधपरेत्यर्थः । उभयगौणत्वेऽद्भुतवदुपन्यासो मृदादिदृष्टान्तैस्तत्साधनं च न स्यादिति दोषान्तरमाह -
न चेत्यादिना ॥६॥ 【भाष्यम्】 【भाष्यम्】 यो विभक्तः स विकार इत्यन्वयमुक्त्वा यस्त्वविकारः स न विभक्तो यथात्मेति व्यतिरिकव्याप्तिमाह - न त्वविकृतमिति । दिगादिषु व्यभिचारमाशङ्क्य पक्षसमत्वान्मैवमित्याह - एतेनेति । विभक्तत्वेनेत्यर्थः । आत्मनि व्यभिचारं शङ्कते - नन्विति । धर्मिसमानसत्ताकविभागस्य हेतुत्वात्परमार्थात्मनि विभागस्य कल्पितत्वेन भिन्नसत्ताकत्वान्न व्यभिचार इत्याह - नेति । अत्र चाज्ञानान्यद्रव्यत्वं विशेषणम् , अतो नाज्ञानतत्सम्बन्धादौ व्यभिचारः । नन्वात्मा कार्यः, विभक्तत्वात् , वस्तुत्वाद्वा, घटवदित्याभासतुल्यमिदमनुमानमित्याशङ्क्यात्मनः परमकारणत्वेन श्रुतस्य कार्यत्वे शून्यताप्रसङ्ग इति बाधकसत्त्वात्तस्याभावत्वम् , नात्र किञ्चिद्बाधकमस्ति प्रत्युत आकाशस्याकार्यत्वे नित्यानेकद्रव्यकल्पना श्रौतप्रतिज्ञाहान्यादयो बाधकाः सन्तीति नाभासतुल्यतेत्याह - आत्मन इति । इष्टप्रसङ्ग इति वदन्तं प्रत्याह - आत्मत्वादिति । आत्माभावः केन चिज्ज्ञायते न वा । आद्ये यो ज्ञाता स परिशिष्यत इति न शून्यता । द्वितीयेऽपि न शून्यता मानाभावादित्यर्थः । किञ्च यद्धि कार्यं सत्तास्फूर्त्योरन्यापेक्षं तन्निराकार्यम् , आत्मा त्वकार्यो निरपेक्षत्वान्न बाधयोग्य इत्याह - नह्यात्मेत्यादिना । कस्यचित्कारणस्यागन्तुकः कार्यो न हि । सत्तास्फूर्त्योः सिद्ध्योरनन्यायत्तत्वादित्यक्षरार्थः । तत्र स्फूर्तेरनन्यायत्तत्वं विवृणोति - न हीति । यदुक्तं सुरेश्वराचार्यैः 'प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा । यस्य प्रसादात्सिध्यन्ति तत्सिद्धौ किमपेक्ष्यते ।' इति । यथा श्रुतिराह 'पुरुषः स्वयं ज्योतिः', 'तस्य भासा सर्वमिदं विभाति' इति च । नन्वात्मनः स्वतः सिद्धौ प्रमाणवैयर्थ्यम् , तत्राह - तस्येति । ननु प्रमेयस्यापि स्वप्रकाशत्वं किं न स्यादित्यत आह - न हीति । अतो न प्रमाणवैयर्थ्यमिति भावः । आत्मापि मानाधीनसिद्धिकः किं न स्यादित्यत आह - आत्मा त्विति । अयमर्थः - निश्चितसत्ताकं हि ज्ञानं प्रमेयसत्तानिश्चायकम् , गेहे घटो दृष्टो न वेति ज्ञानसंशये न दृष्ट इति व्यतिरेकनिश्चये चार्थस्वरूपनिश्चयात् । ज्ञानसत्तानिश्चयश्च न स्वतः, कार्यस्य स्वप्रकाशत्वायोगात् । नापि ज्ञानान्तरात् , अनवस्थानात् । अतः साक्षिणैव ज्ञानसत्तानिश्चयो वाच्यः । तत्र साक्षिणश्चेज्ज्ञानाधीनसत्तानिश्चयः, अन्योन्याश्रयः स्यात् । अतः सर्वसाधकत्वादात्मा स्वतः सिद्ध इति । स्वप्रकाशस्यापि बाधः किं न स्यादित्यत आह - न चेति । जडं हि परायत्तप्रकाशत्वादागन्तुकं बाधयोग्यं न प्रकाशात्मस्वरूपम् , तस्य सर्वबाधसाक्षिस्वरूपस्य निराकर्त्रन्तराभावात् , स्वस्य च स्वनिराकर्तृत्वायोगात् । न हि सुनिपुणेनापि स्वाभावो द्रष्टुं शक्यत इत्यर्थः । एवं स्वतः स्फूर्तित्वादात्मा न बाध्य इत्युक्त्वा स्वतः सत्ताकत्वाच्च न बाध्य इत्याह - तथाहमेवेति । ज्ञानज्ञेययोः सत्ताव्यभिचारेऽपि ज्ञातुः सदैकरूपत्वान्न सत्ताव्यभिचार इत्यर्थः । मास्तु जीवतो ज्ञातुरन्यथास्वभावः, मृतस्य तु स्यादित्यत आह - तथेति । उच्छेदो विनाशः । अन्यथास्वभावत्वं मिथ्यात्वं वा सम्भावयितुमपि न शक्यम् , अहमस्मीत्यनुभवसिद्धसत्स्वभावस्य बाधकाभावादित्यर्थः । एवमात्मनः शून्यत्वनिरासेन शून्यताप्रसङ्गस्यानिष्टत्वमुक्तम् , ततश्चात्मनः कार्यत्वनुमानमाभास इत्याह - एवमिति । अकार्यात्मनः सिद्धौ तस्याविद्यासहितस्योपादानस्यादृष्टादिनिमित्तस्य च सत्त्वादाकाशानुत्पत्तिहेतोः सामग्रीशून्यत्वस्य स्वरूपासिद्धेरुक्तसत्प्रतिपक्षबाधाच्चाकाशस्य कार्यत्वं निरवद्यमित्याह - कार्यत्वं चेति । आत्माविद्ययोर्विजातीयत्वान्नाकाशारम्भकत्वमित्युक्तमनूद्य निरस्यति - यत्त्वित्यादिना । किं कारणमात्रस्य साजात्यनियम उत समवायिनः । तत्राद्यं निरस्य द्वितीयं शङ्कते - स्यादेतदिति । किं समवायितावच्छेदकधर्मेण साजात्यमुत सत्त्वादिना । नाद्य इत्याह - तदपीति । न च रज्जवादि न द्रव्यान्तरमिति वाच्यम् , पटादेरपि तथात्वापातात् । द्वितीयोऽस्मदिष्टः, आत्माविद्ययोर्वस्तुत्वेन साजात्यादित्याह - सत्त्वेति । उपादानस्य साजात्यनियमं निरस्य संयुक्तानेकत्वनियममद्वितीयस्यासङ्गस्याप्यात्मन उपादानत्वसिद्धये निरस्यति - नापीत्यादिना । किमारम्भकमात्रस्यायं नियम उत द्रव्यारम्भकस्य । नाद्य इत्याह - अण्विति । द्ध्वयणुकस्य ज्ञानस्य चासमवायिकारणसंयोगजनकमाद्यं कर्म । यद्यप्यदृष्टवदात्मसंयुक्ते अणुमनसी आद्यकर्मारम्भके तथापि कर्मसमवायिन एकत्वादनेकत्वनियमभङ्ग इत्याह - एकैको हीति । द्रव्यान्तरैः । समवायिभिरित्यर्थः । द्वितीयमुत्थाप्यारम्भवादानङ्गीकारेण दूषयति - द्रव्येत्यादिना । न त्वभ्युपगम्यते तस्मान्नैष नियम इति शेषः । यत्तु क्षीरपरमाणुषु रसान्तरोत्पत्तौ तैरेव दध्यारम्भ इति । तन्न । क्षीरनाशे मानाभावात् , रसवद्दध्नोऽप्येकद्रव्यारभ्यत्वसम्भवाच्च, द्रव्यगुणसङ्केतस्य पौरुषेयस्य श्रुत्यर्थनिर्णयाहेततुत्वादिति भावः । लोके कर्तु सहायदर्शनादसहायाद्ब्रह्मणः कथं सर्ग इति, तत्राह - तथा चोक्तमिति । प्रागभावशून्यत्वहेतुरप्यसिद्ध इत्याह - यच्चोक्तमित्यादिना । शब्दाश्रयत्वं विशेषः । शब्दादिमानाकाशः प्रलये नास्ति, 'नासीद्रजो नो व्योम' इति श्रुतेः । नन्वाकाशाभावे काठिन्यं स्यादिति चेत् । सुशिक्षितोऽयं नैयायिकतनयः । न ह्याकाशाभावस्तद्धर्मो वा काठिन्यं किन्तु मूर्तद्रव्यविशेषस्तत्संयोगविशेषो वा काठिन्यम् , तच्च प्रलये नास्तीति भावः । 'आकाशशरीरं ब्रह्म' इति श्रुतेरग्न्यौष्ण्यवद्ब्रह्मस्वभावस्याकाशस्य सति ब्रह्मणि कथमभावः, तत्राह - यथा चेति । विभुत्वादाकाशसमं ब्रह्मेति श्रुत्यर्थः । विभुत्वात्स्पर्शद्रव्यत्वनिरवयवद्रव्यत्वलिङ्गानां विभक्तत्वादिलिङ्गसहितागमबाधमाह - यदपीत्यादिना । धर्मिविकाराभावे गुणनाशो न स्यादिति तर्कार्थमनित्यपदम् । गुणाश्रयत्वमेव हेतुः । तच्च स्वसमानसत्ताकगुणवत्त्वम् , अतो निर्गुणात्मनि न व्यभिचारः । भूतत्वमादिशब्दार्थः । स्वरूपासिद्धिमप्याह - विभुत्वादीनां चेति । सर्वमूर्तद्रव्यसंयोगः परिमाणविशेषो वा विभुत्वं निर्गुणात्मनि दृष्टान्ते नास्ति । संयोगस्य सावयवत्वनियतस्याजत्वसाध्यविरुद्धता च । स्वरूपोपचयरूपं तु विभुत्वमात्माकाशयोर्न समम् , 'ज्यायानाकाशात्' इति श्रुतेः । क्वचिदाकाशसाम्यं तु ब्रह्मणो यत्किञ्चिद्धर्मसम्बन्धेन व्यपदिश्यते । असक्तत्वेन वा । पञ्चीकरणादस्पर्शत्वमसिद्धम् , कार्यद्रव्यत्वान्निरवयवत्वमप्यसिद्धम् , द्रव्यत्वजातिश्चात्मन्यसिद्धेत्यर्थः । नित्य इत्यंशेन साम्यं न विवक्षितम् । ननु 'स यथानन्तोऽयमाकाश एवमनन्त आत्मा' इति श्रुतिर्नित्यत्वेनैव साम्यं ब्रूते, नेत्याह - एतेनेति । आकाशस्य कार्यत्वेनानित्यत्वादित्यर्थः । श्रुतिस्त्वापेक्षिकानन्त्यद्वारा मुख्यानन्त्यं बोधयतीति भावः । न्यूनत्वाच्चाकाशस्य न मुख्योपमानत्वमित्याह - ज्यायानिति । मुख्योपमानासत्त्वे श्रुतिः 'न तस्य' इति । तस्मादाकाशस्योपमानत्वमात्रेण नित्यत्वं नास्तीति भावः । अनित्यत्वेनासत्त्वे श्रुतिमाह - अतोऽन्यदिति । यत्त्वेकस्यैव सम्भूतशब्दस्य गौणत्वं मुख्यत्वं चेति । तन्न । आकाशेऽपि तस्य मुख्यत्वसम्भवादित्याह - तपसीति । बलवत्तित्तिरिश्रुत्या छान्दोग्यश्रुतेर्नयनादेकवाक्यतया स्रष्टरि ब्रह्मात्मनि समन्वय इत्युपसंहरति -
तस्मादिति ॥७॥ 【भाष्यम्】 【भाष्यम्】 कार्यमेव वस्त्वेकदेश आकाशो नोत्पद्यते सामग्रीशून्यत्वादित्यत्र आकाशो विकारः विभक्तत्वात् घटादिवदिति सत्प्रतिपक्षमाह - यत्पुनरित्यादिना । एतेन मातरिश्वा व्याख्यातः । अतिदेशत्वान्न पृथक्सङ्गत्याद्यपेक्षा । 'तत्तेजोऽसृजत' इति श्रुतेः । 'आकाशाद्वायुः' इति श्रुत्या विरोधोऽस्ति न वेति एकवाक्यत्वभावाभावाभ्यां संशये गौणपक्षपूर्वपक्षसिद्धान्तपक्षानतिदिशति - तत्रापीत्यादिना । पूर्वत्र ह्याकाशानन्तर्यं तेजसः स्थापितम् , तत्र वायुतेजसोस्तुल्यवदानन्तर्ये वायोरग्निरिति क्रमश्रुतिबाधात्पौर्वापर्ये तेजःप्राथम्यभङ्गान्नैकवाक्यतेति पूर्वपक्षे गौणवाद्यभिप्रायमाह - ततश्चेति । अस्तमयप्रतिषेधो मुख्योत्पत्त्यसम्भवे लिङ्गम् । 'वायुश्चान्तरिक्षं चैतदमृतम्' इति तस्यैव लिङ्गस्याभ्यासः । 'वायुरेव व्यष्टिः समष्टिश्च' इति सर्वात्मत्वलिङ्गान्तरमादिपदार्थः । तथा संवर्गविद्यायां 'वायुर्ह्येवैतान्सर्वानग्न्यादीन्संहरति' इति शब्दमात्रेणैश्वर्यश्रवणं लिङ्गान्तरं ग्राह्यम् । एतैर्लिङ्गैर्वायुरनाद्यनन्त इति प्रतीतेरुत्पत्तिर्गौणीत्यविरोधः श्रुत्योरिति प्राप्ते प्रतिपिपादयिषितप्रतिज्ञाश्रुतेर्बलीयस्त्वात्तत्साधकानां तत्र तत्र वायूत्पत्तिवाक्यानां भूयस्त्वादुक्तविभक्तत्वादिलिङ्गानुग्रहाच्च मुख्यैव वायोरुत्पत्तिः, तथा चाकाशं वायुं च सृष्ट्वा तेजोऽसृजतेति श्रुत्योरेकवाक्यतया ब्रह्मणि समन्वयः । लिङ्गानि तूपास्यवायुस्तावकत्वादापेक्षिकतया व्याख्येयानीति मुख्यसिद्धान्तमाह - प्रतिज्ञेत्यादिना । कृतं प्रतिविधानमापेक्षिकत्वेन समाधानं यस्य तत्तथा । अधिकरणारम्भमाक्षिप्योक्तामधिकाशङ्कामाह - नन्वित्यादिना । 'वायुर्ह्येवैतान्सवार्न्संवृङ्क्ते' इत्यादिशब्दमात्रं शङ्कामूलं नार्थ इति द्योतनार्थं मात्रपदम् । तामेव शङ्कामाह - संवर्गेति ।
व्यष्टिसमष्ट्युपास्तिः 'वायुं दिशां वत्सं वेद' इत्युपास्तिश्चादिशब्दार्थः ॥८॥ 【भाष्यम्】 【भाष्यम्】 असम्भवस्तु सतोऽनुपपत्तेः । 'अनाद्यनन्तं महतः परं ध्रुवम् ', 'न चास्य कश्चिज्जनिता' इत्यादि ब्रह्मानादित्वश्रुतीनां 'त्वं जातो भवसि विश्वतोमुखः' इत्युत्पत्तिश्रुत्या विरोधोऽस्ति न वेत्येकवाक्यत्वभावाभावाभ्यां सन्देहेऽस्ति विरोध इति पूर्वपक्षे यथा वाय्वादेरमृतत्वादिकमुत्पत्तिश्रुतिबलादापेक्षिकं तथा ब्रह्मानादित्वमापेक्षिकमिति दृष्टान्तसङ्गत्या एकदेशिपक्षं प्रापयति - वियदिति । ब्रह्म कुतश्चिज्जायते, कारणत्वात् , आकाशवादित्यनुमानानुग्रहाज्जन्मश्रुतिर्बलीयसीत्याह - तथेति । न चानादिकारणाभावेनानवस्था बीजाङ्कुरवदनादित्वोपपत्तेः । तथा च दीपाद्दीपवद्ब्रह्मान्तराद्ब्रह्मान्तरोत्पत्तिः, उत्पत्तिश्रुत्या चानादित्वश्रुतिर्नेयेत्यनाद्यनन्तब्रह्मसमन्वयासिद्धिरिति प्राप्ते मुख्यसिद्धान्तमाह - तामिति । ब्रह्म न च जायते, कारणशून्यत्वात् , नरविषाणवत् , व्यतिरेकेण घटवच्चेत्यनुमानानुग्रहाद्विपक्षे चाकारणककार्यवादप्रसङ्गाद्ब्रह्मानादित्वश्रुतयो बलीयस्य इति कारणत्वलिङ्गबाधाज्जन्मश्रुतिः कार्याभेदेन व्याख्येयेत्यनाद्यनन्तब्रह्मसमन्वयसिद्धिरिति सिद्धान्तफलम् । न हेत्वसिद्धिः, कारणस्यानिरूपणात् । तथा हि किं सन्मात्रस्य ब्रह्मणः सन्मात्रमेव सामान्यं कारणं सद्विशेषो वा असद्वा । न त्रेधापीत्याह - सन्मात्रं हीत्यादिना । दीपस्तु दीपान्तरे निमित्तमित्यनुदाहरणम् । वियत्पवनयोर्ब्रह्मणश्च विभक्तत्वाविभक्तत्वाभ्यां कारणभावाभावाभ्यां च वैषम्यम् । कारणत्वलिङ्गस्याप्रामाणिकानवस्था । तर्केणापि बाधमाह - न च विकारेभ्य इत्यादिना ।
कारणस्यानभ्युपगमे यदृच्छावादप्रसङ्गः, अनादिकारणानभ्युपगमेऽनवस्थाप्रसङ्गः, तदभ्युपगमे ब्रह्मवादप्रसङ्गः, कारणान्तरस्य प्रधानादेर्निरासादिति भावः ॥९॥ 【भाष्यम्】 【भाष्यम्】 तेजोऽतस्तथाह्याह । 'तत्तेजोऽसृजत' इति 'वायोरग्निः' इति च श्रुत्योर्विरोधोऽस्ति न वेति सन्देहे सामान्यात्सामान्योत्पत्त्यसम्भवेऽपि ब्रह्मवाय्वोः सामान्ययोस्तेजोरूपविशेषोपादानत्वसम्भवात्तुल्यबलतयास्ति विरोध इति प्रत्युदाहरणेन पूर्वपक्षः । सर्वत्राध्यायसमाप्तेरेकवाक्यत्वासम्भवासम्भवौ संशयबीजम् । पूर्वपक्षे श्रुतीनां विरोधादप्रामाण्यं फलम् , सिद्धान्ते प्रामाण्यमित्युक्तं न विस्मर्तव्यम् । एवं पूर्वपक्षे कार्यमात्रस्य विवर्तत्वात्कल्पितस्य वायोस्तेजःकल्पनाधिष्ठानत्वायोगाद्ब्रह्मैव तेजस उपादानं सर्वकार्याणां ब्रह्मैवोपादानमित्यर्थे श्रुतीनां भूयस्त्वाच्च तदनुरोधाद्वायोरिति क्रमार्था पञ्चमीत्यविरोध इत्येकदेशिसिद्धान्तं प्रापयति - प्राप्तं तावद्ब्रह्मयोनिकं तेज इत्यादिना । श्रुतीनां विरोधमात्रोपन्यासेन पूर्वपक्षः, अपसिद्धान्तेनाविरोधात्तावदेकदेशिपक्ष इति ज्ञेयम् । तदुभयमपि मुख्यसिद्धान्तापेक्षया पूर्वपक्षत्वेन व्यवह्रियते । सिद्धान्तयति - एवं प्राप्त इति । कदर्थिता । बाधितार्थेति यावत् । वायोस्तेजःप्रकृतित्वं पञ्चमीश्रुत्या निर्धारितम् , न च कल्पितस्योपादानत्वासम्भवः, अधिष्ठानत्वासम्भवेऽपि मृदादिवत्परिणामित्वसम्भवात् , स्वतस्तु ब्रह्मणश्छान्दोग्ये स्रष्टृत्वमात्रं श्रुतं नोपादानत्वम् । न च 'बहु स्याम्' इति कार्याभेदे क्षणलिङ्गादुपादानत्वसिद्धिः लिङ्गाच्छ्रुतेर्बलीयस्त्वेन श्रुत्यविरोधेन लिङ्गस्य नेयत्वात् । नयनं चेत्थं वायोर्ब्रह्मानन्यत्वाद्वायुजस्यापि तेजसो ब्रह्मप्रकृतिकत्वमविरुद्धमिति सिद्धान्तग्रन्थाशयः । इहाधिकारादिति । वायोरग्निः सम्भूत इति वाक्ये सम्बन्धादित्यर्थः । तदधिकारे सम्भूत्यधिकारे । निरपेक्षकारकविभक्तेरूपपदसापेक्षविभक्त्यपेक्षया प्रबलत्वाच्च न क्रमार्था पञ्चमीत्याह - अपि चेति । ऊर्ध्वमनन्तरमिति वोपपदं विना पञ्चमीमात्रात्क्रमो न भातीति कल्प्य उपपदार्थयोगः । प्रकृत्याख्यापादानकारकं तु निरपेक्षपञ्चम्या भाति । विशेषतोऽत्र प्रकरणादपादानार्थत्वं पञ्चम्याः कॢप्तं कॢप्तेन च कल्प्यं सति विरोधे बाध्यमिति स्थितिरित्यर्थः । पारम्पर्यजत्वमेवाह - यदापीति । तस्या धेनोः शृतं तप्तं क्षीरं साक्षात्कार्यम् , दध्यादिकं तु पारम्पर्यजमित्यर्थः । दधिसंसृष्टं कठिनक्षीरमामिक्षा । ब्रह्मणे वायुभावे मानमाह - दर्शयति चेति । पारम्पर्यजस्यापि तज्जत्वव्यपदेशे स्मृतिमाह - तथा चेति । अन्तःकरणादिभ्यो जायमानबुद्ध्यादीनां मत्त एवेत्यवधारणं कथमित्याशङ्क्याह - यद्यपीत्यादिना । प्रनाड्या परम्परयेश्वरवंश्यत्वात्तज्जत्वात्परमकारणान्तरनिरासार्थमवधारणं युक्तमिति शेषः । एतत्पदार्थमाह - तासामिति ।
'तज्जलान्' इत्याद्युक्तश्रुतीनां साक्षात्प्रनाड्या वा ब्रह्मजत्वमात्रेणोपपत्तेरित्यर्थः । अक्रमश्रुतीनां बलवत्क्रमश्रुत्यनुसारेणेकवाक्यत्वाद्वियद्वायुद्वारा तेजःकारणे ब्रह्मणि इति सिद्धम् ॥१०॥ 【भाष्यम्】 【भाष्यम्】 आपः । अतिदेशोऽयम् । तथा ह्याथर्वणे मुण्डकग्रन्थे 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणिच । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी' इति मन्त्रेऽपां ब्रह्मजत्वं श्रुतम् । 'अग्नेरापः' इति श्रुत्या तस्य विरोधोऽस्ति न वेति सन्देहे तुल्यत्वादस्ति विरोध इति पूर्वपक्षे अपामग्निदाह्यत्वेन विरोधादग्निजत्वासम्भवात्क्रमार्था पञ्चमीत्यविरोध इत्यधिकाशङ्कायामुक्ततेजोन्यायमतिदिश्य व्याचष्टे - अत इति । प्रत्यक्षविरोधे कथमपामग्निजत्वनिर्णयः, तत्राह - सति वचन इति । त्रिवृत्कृतयोरप्तेजसोर्विरोधेऽप्यग्नेराप इति वचनादतीन्द्रिययोस्तयोर्नास्ति विरोध इति निर्णीयत इत्यर्थः । न केवलं श्रुत्यविरोधज्ञानायायमतिदेशः किन्तु पञ्चभूतोत्पत्तिक्रमनिर्णयार्थं चेत्याह - तेजसस्त्विति ।
तस्मात्तेजोभावापन्ने ब्रह्मणि श्रुतिसमन्वय इति सिद्धम् ॥११॥ 【भाष्यम्】 【भाष्यम्】 पृथिव्यधिकाररूपशब्दान्तरेभ्यः । विषयमुक्त्वान्नशब्दमहाभूतप्रकरणाभ्यां संशयमाह - ता इति । अभ्यवहार्यं भक्ष्यम् । अत्र श्रुतौ यद्यन्नमोदनादिकं तदा 'अद्भ्यः पृथिवी' इति श्रुत्या विरोधः, यदि पृथिवी तदा न विरोध इति फलं बोध्यम् । अप्पृथिव्योः कार्यकारणभावादधिकरणसङ्गतिः । अन्नश्रुतिवृष्टिभवनत्वलिङ्गाभ्यां पूर्वपक्षः । तदेव तत्रैवेति श्रुत्यर्थः । तथा च क्वचिदन्नं क्वचिदद्भयः पृथिवी ततोऽन्नमिति विरोधान्नैकवाक्यतेति प्राप्ते सिद्धान्तयति - एवं प्राप्त इति । अधिकारः प्रकरणम् । रूपं लिङ्गम् । पयः क्षीरं तद्वत्पाण्डुरं श्वेतम् , अङ्गारवद्रोहितं रक्तम् । शब्दान्तरशब्दितं स्थानं व्याचष्टे - श्रुत्यन्तरमपीति । अबानन्तर्यं पृथिव्याः स्थानं श्रुत्यन्तरसिद्धं तेनाप्यन्नस्य पृथिवीत्वमित्यर्थः । तत्तत्र सृष्टिकाले यदपां शरः यो मण्डवद्घनीभाव आसीत्स एव समहन्यत कठिनः सङ्घातोऽभूत्सापां कठिना परिणतिः पृथिव्यभवदिति श्रुत्यर्थः । व्रीह्याद्यन्नसर्गः कस्मिन्स्थान इति विवक्षायामाह - पृथिव्यास्त्विति । पञ्चमीयम् । वृष्टिभवत्वलिङ्गसहितान्नश्रुतेः कथं प्रकरणलिङ्गस्थानैर्बाध इत्याशङ्क्याह - वाक्यशेषोऽपीति ।
प्रबलदुर्बलप्रमाणसन्निपाते बहूनां दुर्बलानामत्यन्तबाधाद्वरं प्रबलप्रमाणस्याल्पबाधेन कथञ्चिन्नयनमिति न्यायेन श्रुतिलिङ्गयोरन्नमात्रनिष्ठत्वं बाधित्वान्नानन्नात्मकपृथिवीनिष्ठत्वं नीयते । ताभ्यामन्नमात्रग्रहे प्रकरणादीनां पृथिवीमात्रविषयाणामत्यन्तबाधापत्तेरिति भावः । अन्नस्य वृष्टिजत्वोक्तिद्वारा पृथिव्या अब्जन्यत्वं सूच्यते । पृथिव्यब्जा, पृथिवीत्वात् , अन्नवदित्यनुमानादित्यक्षरार्थः । एवं तित्तिरिश्रुत्यनुसारेण छन्दोगश्रुतेर्नयनादविरुद्धो भूतसृष्टिश्रुतीनां ब्रह्मणि समन्वय इति सिद्धम् ॥१२॥ 【भाष्यम्】 【भाष्यम्】 सम्प्रति तानि भूतान्याश्रित्याश्रयाश्रयिभावसङ्गत्या तेषां स्वातन्त्र्यमाशङ्क्य निषेधति - तदभिध्यानादेव तु तल्लिङ्गात्सः । उक्तभूतान्याश्रित्य संशयपूर्वपक्षौ दर्शयति - किमिमानीत्यादिना । संशयबीजानुक्तौ पूर्वोत्तरपक्षयुक्तयो बीजमिति ज्ञेयम् । नन्वत्र भूतानां किं स्वातन्त्र्येणोपादानत्वमाशङ्क्यते कर्तृत्वं वा । नाद्यः, 'रचनानुपपत्तेः' इत्यादिन्यायविरोधादिति शङ्कते - नन्विति । न द्वितीयः, अचेतनत्वादिति भावः । यथा मनुष्यादिशब्दैस्तत्तद्देहाभिमानिनो जीवा उच्यन्ते तथा 'आकाशाद्वायुः' इत्यादिश्रुतावाकाशादिशब्दैस्तत्तद्भूताभिमानिदेवता उच्यन्ते, तासां स्वकार्ये वाय्वादौ कर्तृत्वसम्भवान्निरपेक्षनिमित्तत्वं पञ्चम्यर्थः । एवं 'तदात्मानं स्वयमकुरुत' इति श्रुतौ स्वयमिति विशेषणाद्ब्रह्मणोऽन्यानपेक्षसर्वकर्तृत्वसम्भवान्निरपेक्षनिमित्तत्वं श्रुतम् । तथा च मिथोनिरपेक्षेश्वरभूतकर्तृश्रुत्योर्विरोधान्न ब्रह्मणि समन्वय इति सफलं पूर्वपक्षमाह - नैष दोष इति । भूतानां तदभिमानिदेवतानामित्यर्थः । यथा आकाशादिभावापन्नब्रह्मणः सर्वोपादानत्वं तथा तदभिमानिदेवताजीवभावमापन्नब्रह्मणः कर्तृत्वमिति परम्परया ईश्वरकर्तृत्वश्रुत्यविरोधः । स्वयमिति विशेषणमीश्वरान्तरनिरासार्थं न जीवभावापेक्षानिरासार्थमित्येकदेशिसिद्धान्त ऊहनीयः । मुख्यसिद्धान्तमाह - एवं प्राप्त इति । आकाशादिशब्दैर्न देवतालक्षणा मुख्यार्थे बाधकाभावात्पञ्चम्यश्च प्रकृतित्वार्थास्तत्र रूढतरत्वात् , तथा चाचेतनानां भूतानां कर्तृत्वमेव नास्ति, कुत ईश्वरानपेक्षकर्तृत्वम् । यद्यपि देवतानां कर्तृत्वं सम्भवति तथापीश्वरनियम्यत्वश्रवणाच्चेतनानामपि न स्वातन्त्र्यम् , किमु वाच्यमचेतनानां भूतानां न स्वातन्त्र्यमिति मत्वोक्तम् - तल्लिङ्गादिति । तत्तदचेतनात्मनावस्थितस्य ब्रह्मण उपादानत्वेऽपि जीवव्यावृत्तेश्वरत्वाकारेणैव साक्षात्सर्वकर्तृत्वं न जीवत्वद्वारा तस्य सर्वनियन्तृत्वाल्लिङ्गादित्यर्थः । प्रकरणाच्च साक्षात्सर्वकर्तृत्वमित्याह - तथेति । पूर्वोक्तमनूद्य निरस्यति - यत्त्विति । परमेश्वरस्यान्तर्यामिभावेनावेशः सम्बन्धस्तद्वशाद्भूतेष्वीक्षणश्रवणं नैतावता तेषां चेतनत्वं स्वातन्त्र्यं वेत्यर्थः । अनेन 'तदभिध्यानात्' इति पदं व्याख्यातम् । इत्थं सूत्रयोजना - स ईश्वरस्तत्तदात्मना स्थितोऽपि साक्षादेव सर्वकर्ता तस्यान्तर्यामित्वलिङ्गात् । जीवत्वद्वारा कर्तृत्वं नाम जीवस्यैव कर्तृत्वमित्यन्तर्यामिणः कर्तृत्वासिद्धेरन्तर्यामित्वायोगात्तदभिध्यानादीश्वरेक्षणादेव भूतेषु श्रुतेक्षणोपपत्तेश्चेति । तत्तेज ऐक्षतेति श्रुत ईक्षिता परमात्मैवेत्यत्र श्रुत्यन्तरं प्रकरणं चाह - नान्य इति ।
तस्मादीश्वरपदार्थलोपप्रसङ्गेनेश्वरादन्यस्य स्वातन्त्र्याभावान्नेश्वरकर्तृत्वश्रुतेर्भूतश्रुत्या विरोध इति सिद्धम् ॥१३॥ 【भाष्यम्】 【भाष्यम्】 विपर्ययेण तु । यद्यप्यत्र श्रुतिविरोधो न परिह्रियत इत्यसङ्गतिस्तथाप्युत्पत्तिक्रमे निरूपिते लयक्रमो बुद्धिस्थो विचार्यत इति प्रासङ्गिक्यावेव पादावान्तरसङ्गती इति मत्वाह - भूतानामिति । अत्रोत्पत्तिक्रमाद्विपरीतक्रमनिर्णयात्सिद्धान्ते भूतानां प्रातिलोम्येन लयध्यानपूर्वकं प्रत्यग्ब्रह्मणि मनःसमाधानं फलम् , पूर्वपक्षे तु कारणनाशे सति कार्यनाश इति सर्वलयाधारब्रह्मासिद्धेरुक्तसमाध्यसिद्धिरिति भेदः । सति महाभूतानां लये क्रमचिन्ता स एव नास्तीति केचित्तान्प्रत्याह - त्रयोऽपीति । अनियम इत्यनास्थयोक्तं श्रौतस्य प्रलयस्य क्रमाकाङ्क्षायां श्रौत उत्पत्तिक्रम एव ग्राह्यः, श्रौतत्वेनान्तरङ्गत्वादित्येवं पूर्वपक्षः । सति कारणे कार्यं नश्यतीति लोके दृश्यते । तथा च श्रौतोऽप्युत्पत्तिक्रमो लये न गृह्यते किन्तु लौकिकक्रम एव गृह्यते श्रुतेर्लोकदृष्टपदार्थबोधाधीनत्वेन श्रौतादपि लौकिकस्यान्तरङ्गत्वाद्योग्यत्वाच्च । कारणमेव हि कार्यस्य स्वरूपमिति तदनन्यत्वन्यायेन स्थापितम् । न हि स्वरूपनाशे कार्यस्य क्षणमपि स्थितिर्युक्ता तस्मादयोग्य उत्पत्तिक्रमो लयस्य न ग्राह्यः लौकिकक्रमावरोधेन निराकाङ्क्षात्वादिति सिद्धान्तयति - ततो ब्रूम इत्यादिना । क्रमेण परम्परया सर्वकार्यलयाधारत्वं ब्रह्मणः किमित्याश्रीयते, साक्षादेव तत्किं न स्यादित्यत आह - न हि स्वकारणव्यतिक्रमेणेति ।
घटनाशे मृदनुपलब्धिप्रसङ्गादित्यर्थः । 'वायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयते' इति स्मृतिशेष आदिपदार्थः । 'योग्यताधीनः सम्बन्धः' इति न्यायादयोग्यक्रमबाध इति सिद्धम् ॥१४॥ 【भाष्यम्】 【भाष्यम्】 अन्तराविशेषात् । उक्तभूतोत्पत्तिलयक्रममुपजीव्य स किं करणोत्पत्तिक्रमेण विरुध्यते न वेति करणानामभौतिकत्वभौतिकत्वाभ्यां सन्देहे वृत्तानुवादपूर्वकं पूर्वपक्षमाह - भूतानामित्यादिना । करणान्येव न सन्तीति वदन्तं प्रत्याह - सेन्द्रियस्येति । 'मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ', 'श्रोत्रादीनीन्द्रियाण्यन्ये' इति स्मृतिर्द्रष्टव्या । अन्यपराः शब्दाः लिङ्गानीत्युच्यन्ते । करणानां क्रमाकाङ्क्षामाह - तयोरिति । आकाङ्क्षायां श्रुतिसिद्धः क्रमो ग्राह्य इत्याह - अपि चेति । विज्ञायतेऽनेनेति विज्ञानं सेन्द्रिया बुद्धिः । आत्मनो भूतानां चान्तरा मध्ये तल्लिङ्गात्सृष्टिवाक्यात् 'एतस्माज्जायते प्राणो मनः' इत्यादिरूपाद्विज्ञानमनसी अनुक्रम्येते । तथा च करणक्रमेण पूर्वोक्तक्रमभङ्ग इति शङ्कासूत्रांशार्थः । न च करणानां भौतिकत्वाद्भूतानन्तर्यमिति वाच्यम् , तेषां भौतिकत्वे मानाभावात् । तथा चात्मनः प्रथममाकाशस्य जन्म पश्चाद्वायोरित्युक्तक्रमस्यात्मनः करणानि ततो भूतानीति क्रमेण विरोध इति तित्तिर्यथर्वणश्रुत्योर्विरोधान्न ब्रह्मणि समन्वय इति पूर्वपक्षफलम् । सिद्धान्तयति - नेति । 'आत्मन आकाशः' इत्यादि तित्तिरिश्रुतौ पञ्चम्याः कार्यकारणभावेनार्थतः क्रमो भाति । न तस्याथर्वणपाठेन बाधः अर्थक्रमविरोधिक्रमविशेषस्याश्रुतेः पाठक्रमस्यार्थक्रमधीशेषस्य शेषिबाधकत्वायोगादितः श्रुत्यर्थक्रमाविरोधेन पाठस्य नेयत्वाद्भूतानन्तर्यं करणानामित्यर्थः । किञ्च भौतिकत्वात्तेषां तदानन्तर्यमित्याह - यदीति । न च प्राणस्याब्विकारत्वायोगादन्नमयमित्यादिमयटो न विकारार्थतेति वाच्यम् , करणानां विभक्तत्वेन कार्यतया कारणाकाङ्क्षायामन्नमयमित्यादिश्रुतेराकाङ्क्षितोक्त्यर्थमसति बाधके मयटो विकारार्थताया युक्तत्वात् । प्राचुर्यार्थत्वे त्वनाकाङ्क्षितोक्तिप्रसङ्गाच्छ्रुत्यैव तेजोबन्नप्राशने वाक्प्राणमनसां वृद्धिस्तदभावे तन्नाश इति विकारत्वस्य दर्शितत्वान्न विवादावसरः । यद्वा स्थूलभूताधीना तेषां वृद्धिर्विकारो मयडर्थः श्रूयमाणो भौतिकत्वे लिङ्गं प्राणेन्द्रियमनांसि भौतिकानि भूताधीनवृद्धिमत्त्वाद्देहवदिति भावः । ननु तेषां भौतिकत्वे कथमाथर्वणे पृथक्तज्जन्मकथनं भूतजन्मोक्त्यैव तज्जन्मसिद्धेरित्यत आह - व्यपदेशोऽपीति । प्रौढवादेन तेषामभौतिकत्वमुपेत्यापि श्रुत्यविरोधमाह - अथ त्विति । करणानां भूतानां च पूर्वापरत्वे मानाभावान्नोक्तभूतक्रमभङ्गः । न चाथर्वणवाक्यं मानं पाठमात्रत्वादित्यर्थः । तर्हि कथं क्रमनिर्णयः, तत्राह - तथेति । इदं स्थूलमुत्पत्तेः प्राक्प्रजापतिः सूत्रात्मासीत् । अत्र सूक्ष्मभूतात्मकप्रजापतिसर्गः प्रथमस्ततो मनआदिसर्ग इति क्रमो भातीति भावः । एवञ्च भूतकरणोत्पत्तिश्रुत्योरविरोधाद्ब्रह्मणि समन्वयसिद्धिरिति सिद्धान्तफलं निगमयति -
तस्मादिति ॥१५॥ 【भाष्यम्】 【भाष्यम्】 चराचरभावित्वात् । एवं तावत्तत्पदवाच्यकारणनिर्णयाय भूतश्रुतीनां विरोधो निरस्तः इदानीमा पादमाप्तेस्त्वम्पदार्थशुद्ध्यै जीवश्रुतीनां विरोधो निरस्यते । इह जीवो 'न जायते म्रियते' इत्यादिश्रुतेर्जातेष्टिश्राद्धशास्त्रेण विरोधोऽस्ति न वेति सन्देहे विरोधोऽस्तीति प्राप्ते लौकिकजन्मादिव्यपदेशसहायाज्जातेष्ट्यादिशास्त्रेण जीवाजत्वादिश्रुतिर्बाध्यत इति पूर्वपक्षयति - स्त इति । तथा च करणोत्पत्तिक्रमेण भूतक्रमस्य बाधाभावेऽपि जीवोत्पत्तिक्रमेण बाधः स्यादिति प्रत्युदाहरणसङ्गतिः । पूर्वपक्षे जीवब्रह्मैक्यासिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः । चेतनजन्माद्युद्देशेन चेतनस्य तस्य जन्मान्तरीयफलसाधनं जातकर्मादिसंस्कारो विधीयते । तथा चोद्देश्यविधेययोर्मिथोविरोधे सति 'विधेयाविरोधेनोद्देश्यं नेयम्' इति न्यायाज्जन्मादिकं देहोपाधिकं न स्वत इति सिद्धान्तयति - तामित्यादिना । जीवापेतं जीवेन त्यक्तमिदं शरीरम् । जन्मादिव्यपदेशश्चराचरदेहविषयो मुख्यः । जीवे तु भाक्तो गौण औपाधिकजन्मादिविषयः स्यादुपाधिजन्मभावे भावादसत्यभावादिति सूत्रार्थः । जीवस्यौपाधिकजन्ममृत्यौ श्रुतिमप्याह - स वा इति । जायमानपदार्थमाह - शरीरमिति । म्रियमाणत्वं व्याचष्टे - उत्क्रामन्निति । ननूत्तरत्र जीवस्य जन्मादि निरस्यते, अत्रापि तन्निरासे पुनरुक्तिरित्याशङ्क्याह - जीवस्येति ।
तदेवं जातेष्ट्यादिशास्त्रस्यौपाधिकजन्मादिविषयत्वान्न जीवाद्यजन्यत्वश्रुतिविरोध इति सिद्धम् ॥१६॥ 【भाष्यम्】 【भाष्यम्】 नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः । अग्नेर्विस्फुलिङ्गवदेतस्मात्परमात्मनः सर्वे जीवात्मानो व्युच्चरन्ति इत्यादिजीवोत्पत्तिश्रुतीनां 'स एष इह प्रविष्ट आनखाग्रेभ्यः ' 'अज आत्मा' इत्याद्यनुत्पत्तिश्रुतीनां च मिथोविरोधात्संशये मा भूतां देहजन्मनाशयोर्जीवजन्मनाशौ, देहान्तरभोग्यस्वर्गादिहेतुविध्याद्यसम्भवात् , कल्पाद्यन्तयोर्नभस इव जीवस्य तौ किं न स्यातां तत्सम्भवादिति प्रत्युदाहरणेन पूर्वपक्षमाह - तत्र प्राप्तं तावदिति । फलं पूर्ववत् । उपरोधो बाधः । नन्वविकृतं ब्रह्मैवात्र प्रविष्टं जीवो न तत्त्वान्तरमिति प्रतिज्ञासिद्धिः, तत्राह - न चेति । जीवः परस्माद्भिन्नः, विरुद्धधर्मवत्त्वाद्भिन्नस्याविकारत्वे प्रतिज्ञाबाध इति तर्कोपेतविभक्तत्वलिङ्गानुगृहीतोत्पत्तिश्रुतेर्बलीयस्त्वात्प्रवेशश्रुतिर्जीवरूपविकारात्मना प्रविष्ट ईश्वर इति व्याख्येयेति समुदायार्थः । सरूपेति । दृष्टान्तश्रुतेर्भावा जीवा इति निश्चीयते । ननु 'आत्मन आकाशः सम्भूतः' इत्यादौ जीवस्योत्पत्त्यश्रवणादनुपत्तिः, तत्राह - न चेति । एवं विकारत्वे सति विकारप्रपञ्चात्मना स्वात्मानमकुरुतेतिवद्विकारजीवात्मना प्रवेश इत्यर्थः । अजत्वादिश्रुतिः कल्पमध्ये जीवस्यानुत्पत्त्यादिविषया, तत्त्वमसीति श्रुतिश्च मृद् , घट इत्यभेदवाक्यवद्व्याख्येयेति प्राप्ते सिद्धान्तयति - एवमिति । धर्मिवत्सत्यो विभागो हेतुरौपाधिको वा । नाद्यः, असिद्धेरित्याह - अत्रोच्यते नास्येति । द्वितीये जीवस्य न स्वतो विकारत्वसिद्धिः, अप्रयोजकत्वादित्याह - बुद्ध्यादीति । औपाधिकभेदे मानमाह - तथा चेति । मयटो विकारार्थत्वमाशङ्क्याह - तन्मयत्वं चेति । जाल्मः कामजडः स्त्रीपरतन्त्रः । स्त्रीमय इतिवज्जीवस्य स्वरूपाज्ञानाद्बुद्ध्यादिपरतन्त्रत्वेन भेदकर्तृत्वादिभाक्त्वात्प्राचुर्यार्थे मयट्प्रयोग इत्यर्थः । लिङ्गं निरस्य तदनुग्राह्यश्रुतेर्गतिमाह - यदपीति । जीवस्यौपाधिकजन्मनाशयोः श्रुतिमाह - तथेति । एतेभ्यो देहात्मन परिणतेभ्यो भूतेभ्यः साम्येनोत्थाय जनित्वा तान्येव लीयमानान्यनु पश्चाद्विनश्यति । प्रेत्यौपाधिकमरणानन्तरं संज्ञा नास्तीत्यर्थः । ननु प्रज्ञानघनः, संज्ञा नास्तीति च विरुद्धमित्यत आह - तथेति । उपाधिलयाद्विशेषज्ञानाभाव एव संज्ञाभावो नात्मस्वरूपविज्ञानाभाव इत्युत्तरं प्रतिपादयति श्रुतिरित्यन्वयः । अत्रैवात्मनि विज्ञानघने प्रेत्यसंज्ञा नास्तीत्युक्त्या मा मोहान्तं मोहमध्यं भ्रान्तिमापीपददापादितवानिममर्थं न जानामि ब्रूहि त्वदुक्तेरर्थमिति मैत्रेयीप्रश्नार्थः । मुनिराह - न वा इति । मोहं मोहकरं वाक्यमुच्छित्तिः पूर्वावस्थानाशो धर्मोऽस्येत्युच्छित्तिधर्मा परिणामी स नेत्यनुच्छित्तिधर्मापरिणामी, तस्मादविनाशीत्यर्थः । तर्हि न प्रेत्य संज्ञेति कथमुक्तम् , तत्राह - मात्रेति । मात्राभिर्विषयैरसंसर्गात्तथोक्तमित्यर्थः । बिम्बप्रतिबिम्बयोरिव विरुद्धधर्मभेदोऽध्यस्त इत्यत्र हेतुमाह - अत ऊर्ध्वमिति ।
जीवस्य विकारित्वे मुक्त्ययोगात्तत्त्वमसीति वाक्यमखण्डार्थमिति च वक्तव्यम् , तथा च फलवत्प्रधानवाक्यापेक्षितजीवनित्यत्वश्रुतीनां बलवत्त्वादुत्पत्त्याधिकमध्यस्तमनुवदन्त्युत्पत्त्यादिश्रुतय इत्यविरोध इति सिद्धम् ॥१७॥ 【भाष्यम्】 【भाष्यम्】 ज्ञोऽत एव । 'आत्मैवास्य ज्योतिः' इत्याद्यात्मस्वप्रकाशत्वश्रुतीनां 'पश्यंश्चक्षुः शृण्वञ्च्छ्रोत्रम्' इत्यनित्यज्ञानवत्त्वश्रुतिभिर्विरोधोऽत्र निरस्यते । अस्य लोकस्य चक्षुर्द्रष्टा श्रोत्रं श्रोतेत्यर्थः । प्रागुक्तजीवानुत्पत्तिहेतुमादाय स्वप्रकाशत्वसाधनाद्धेतुसाध्यभावः सङ्गतिः । अनुत्पत्तौ हि स्वप्रकाशं ब्रह्मैवोपहितं जीव इति जीवस्य स्वप्रकाशता सिध्यति । न चैवं गतार्थता, अनुत्पन्नस्यापि जीवस्य स्वप्रकाशत्वे ज्ञानसाधनवैयर्थ्यमिति तर्कसहितानित्यज्ञानश्रुतिबलेन स्वप्रकाशत्वश्रुतेर्बाध्यतया ब्रह्मान्यत्वशङ्कायां तदैक्ययोग्यतायै स्वप्रकाशत्वस्यात्र साधनात् । तथा च पूर्वपक्षे जीवस्य ब्रह्मैक्यायोग्यता सिद्धान्ते तद्योग्यतेत्यापादसमाप्तेः फलमवगन्तव्यम् । इष्टापत्तिं निराचष्टे - ते पृष्टा इति । साधनाधीनज्ञानत्वान्न स्वप्रकाशो जीवो व्यतिरेकेणेश्वरवदित्याह - अतः कादाचित्केति । यथाश्रुते भाष्ये हेतोः साध्याविशेष इति मन्तव्यम् । अतो जीवस्य स्वप्रकाशत्वश्रुतिर्बाध्येति प्राप्ते सिद्धान्तयति - एवमिति । चेच्छब्दो निश्चयार्थः । न केवलं स्वप्रकाशब्रह्माभेदाज्जीवस्य स्वप्रकाशता किन्तु श्रुतितोऽपीत्याह - विज्ञानमयेति । योऽयं विज्ञानमय इति प्रकरण इत्यर्थः । असुप्तः स्वयं भासमान एवात्मा सप्तांल्लुप्तव्यापारान्वागादीनभिलक्ष्य चाकशीति । सुप्तार्थान्पश्यतीति यावत् । अत्र स्वप्ने विज्ञातुर्बुद्धिसत्त्वस्य साक्षिणो विज्ञातेर्विनाशो नास्तीत्यर्थः । घ्राणादिजन्यगन्धादिज्ञानानुसन्धानसिद्धये आत्मनो ज्ञानरूपत्वं वाच्यमिति श्रुत्यन्तरेणाह - अथेति । आत्मनो नित्यचिद्रूपत्वेऽपि स्वतोऽसङ्गतया गन्धाद्यसम्बन्धात्तत्सम्बन्धघटनात्मकवृत्त्यर्थानि ज्ञानसाधनानीति न तेषां वैयर्थ्यमित्याह - न गन्धेति । परिच्छेदो वृत्तिः । गन्धाय तद्गोचरान्तःकरणवृत्तये इत्यर्थः । सुप्ताद्यवस्थास्वात्मसत्त्वेऽपि चैतन्याभावान्नात्मा चिद्रूप इत्युक्तं दूषयति - यत्त्विति । तत्तदासुषुप्तौ न पश्यतीति यत्तत्पश्यन्नेवालुप्तज्ञान एव सन्न पश्यतीत्यत्र हेतुः - न हीति । नाशायोग्यत्वादित्यर्थः । किमिति न पश्यतीत्यत आह - न त्विति ।
वृत्तेः साधनाधीनत्वोक्त्या स्वरूपज्ञानस्यासाधनाधीनत्वं हेतुरसिद्ध इत्युक्तम् । साधनवैयर्थ्यतर्कोऽपि निरस्तः । शृण्वन्नित्याद्यनित्यज्ञानश्रुतीनां वृत्तिविषयत्वं व्याख्यातम् । आत्मा न ज्ञानम् , द्रव्यत्वात् , इत्यादितर्काश्चागमबाधिताः । फलवत्प्रधानवाक्यापेक्षितस्वप्रकाशत्वागमस्य बलवत्त्वात् । किञ्च निरवयवात्मनो मनःसंयोगान्नानित्यज्ञानगुणता समवायाभावाच्च न स्वसमवेतज्ञानवेद्यता कर्मकर्तृत्वविरोधाच्च । किञ्च ज्ञानत्वस्यैकवृत्तित्वे लाघवादात्मैव ज्ञानं वृत्तेश्च मनःपरिणामत्वश्रुत्या 'कामः सङ्कल्पः' इत्याद्यया जडत्वान्नास्माकं ज्ञानद्वैविध्यगौरवमित्यनवद्यमात्मनः स्वप्रकाशत्वमिति सिद्धम् ॥१८॥ 【भाष्यम्】 【भाष्यम्】 स्वप्रकाशत्वादात्मस्वरूपादीषद्बहिष्ठं परिमाणमेवाश्रिताश्रयत्वेनान्तर्बहिर्भावेन वा सङ्गत्या विचारयति - उत्क्रान्तिगत्यागतीनाम् । विषयसंशयौ दर्शयति - इदानीमिति । नात्माश्रुतेरित्यादिना गतार्थत्वमस्याशङ्क्यात्माणुत्वश्रुतीनां महत्त्वश्रुतीनां चाविरोधकथनार्थमस्याधिकरणस्यारम्भ इत्याह - नन्वित्यादिना । न केवलं श्रुतोत्क्रान्त्याद्यनुपपत्त्यात्मनोऽणुत्वं किन्त्वेषोऽणुरात्मेति श्रुत्यापीत्याह - स्वशब्देनेति । पूर्वपक्षे जीवस्याणुत्वाद्ब्रह्मैक्यासिद्धिः, सिद्धान्ते तत्सिद्धिरिति मत्वा सूत्रं व्याकुर्वन्पूर्वपक्षमाह - तत्र प्राप्तमित्यादिना ।
श्रुतेरणुरिति उत्तरसूत्रादाकृष्य सूत्रं पूरितम् । उत्क्रान्तिः श्रूयत इति शेषः । स मुमूर्षुः जीव एतैर्बुद्ध्यादिभिस्तस्माच्चन्द्रलोकादिमं लोकं प्रति कर्म कर्तुमायातीत्यर्थः ॥१९॥ 【भाष्यम्】 【भाष्यम्】 उत्क्रान्तिरात्मनो देहान्निर्गमो न भवति येनाणुत्वं स्यात्किन्तु स्वामित्वनिवृत्तिरिति केचित् । तदङ्गीकृत्याप्यणुत्वमावश्यकमित्याह - स्वात्मनेति । उत्क्रान्तेरुत्तरयोर्गत्यागत्योः स्वात्मना कर्त्रा सम्बन्धादणुत्वमिति सूत्रयोजना । पाकानाश्रयस्य पक्तृत्ववद्गत्यनाश्रयस्यापि गन्तृत्वोक्तिः किं न स्यादित्यत आह - गमेरिति । गमनस्य कर्तरि संयोगविभागरूपातिशयहेतुत्वात्कर्त्राश्रितत्वं लोकसिद्धमित्यर्थः । जीवोऽणुरमध्यमपरिमाणत्वे सति गतिमत्त्वात्परमाणुवदित्याह - अमध्यमेति । अङ्गीकारं त्यजति - सत्योश्चेति । न स्वाम्यनिवृत्तिमात्रमुत्क्रान्तिरित्यर्थः । देहान्निर्गम एवोत्क्रान्तिरित्यत्र लिङ्गान्तरमाह - देहप्रदेशानामिति । अपादानत्वमवधित्वम् । अन्येभ्यो वा मुखादिभ्य एष आत्मा निष्क्रामतीति शेषः । किञ्च देहमध्येऽपि जीवस्य गत्यागतिश्रुतेरणुत्वमित्याह - स इति ।
इन्द्रियाणि गृह्णन्स्वापादौ हृदयं स जीवो गच्छति शुक्रं प्रकाशकमिन्द्रियग्राममादाय पुनर्जागरितस्थानमागच्छतीत्यर्थः ॥२०॥ 【भाष्यम्】 【भाष्यम्】 इतराधिकारात् । ब्रह्मप्रकरणात् । ननु महत्त्वश्रुतेः कथं परप्रकरणस्थत्वमित्यत आह - परस्येति । या वेदान्तश्रुतिः सा परप्रकरणस्थेत्युत्सर्गात्तस्यास्तत्स्थत्वं ब्रह्मारभ्याधीतत्वाच्चेत्याह - विरज इति । निर्दोष इत्यर्थः । विज्ञानमयश्रुत्या प्रकरणं बाध्यमिति शङ्कते - नन्विति । अणोर्जीवस्य ब्रह्मणा भेदभेदाङ्गीकाराच्छास्त्रीयाभेददृष्ट्या महत्त्वोक्तिः, यथा वामदेवस्याहं मनुरिति सर्वात्मत्वोक्तिरित्यविरोधमाह -
शास्त्रेति ॥२१॥ 【भाष्यम्】 【भाष्यम्】 एवमुत्क्रान्त्यादिश्रुत्याणुत्वमनुमितम् , तत्र श्रुतिमप्याह - स्वशब्देति ।
बालाग्रादुद्धृतः शततमो भागस्तस्मादप्युद्धृतः शततमो भागो जीव इति, उद्धृत्य मानमुन्मानमत्यन्ताल्पत्वमित्यर्थः । बालः केशः, तोत्रप्रोतायःशलाकाग्रमाराग्रम् । तस्मादुद्धृता मात्रा मानं यस्य स जीवस्तथा ॥२२॥ 【भाष्यम्】 【भाष्यम्】 आत्मसंयुक्तायास्त्वचो देहव्यापिस्पर्शोपलब्धिकरणस्य महिम्नात्मनोव्यापिकार्यकारित्वमविरुद्धम् । - त्वगात्मनोरिति ।
सम्बन्धस्य त्वगवयविनिष्ठत्वादवयविनश्चैकत्वादात्मसंयोगस्य कृत्स्नत्वङ्निष्ठतेत्यर्थः ॥२३॥ 【भाष्यम्】 【भाष्यम्】 सिद्धे हीति । न तु सिद्धमित्यतुल्यतेत्यर्थः । विशेष एव वैशेष्यम् । चन्दनबिन्दोरल्पत्वस्य प्रत्यक्षत्वात्त्वग्व्याप्त्या व्यापिकार्यकारित्वकल्पना युक्ता, जीवस्य त्वणुत्वे सन्देहाद्व्यापिकार्यदृष्ट्या व्यापित्वकल्पनमेव युक्तम् । व्यापिकार्याश्रयो व्यापीत्युत्सर्गादिति सूत्रशङ्काभागार्थः । आत्माल्पः, व्यापिकार्यकारित्वात् , चन्दनबिन्दुवदित्यनुमानमयुक्तम् , त्वगादौ व्यभिचारादित्याह - न चात्रानुमानमिति । पूर्वोक्तश्रुतिभिर्जीवस्याणुत्वनिश्चयाद्धृदिस्थत्वश्रुतिभिरेकदेशस्थत्वनिश्चयाच्च न दृष्टान्तवैषम्यमिति परिहारभागार्थमाह -
अत्रोच्यत इति ॥२४॥ 【भाष्यम्】 【भाष्यम्】 आत्मवत्तद्धर्मज्ञानस्याप्यणुत्वं स्वतः, कादाचित्कं तु देहपरिमाणत्वमित्युक्त्वा स्वत एव व्यापित्वमिति मतान्तरमाह - गुणाद्वेति । वाशब्देन चन्दनदृष्टान्तापरितोषः सूचितस्तमाह -
स्यादिति ॥२५॥ 【भाष्यम्】 【भाष्यम्】 ननु विश्लिष्टावयवानामल्पत्वाद्रव्यक्षयो न भातीत्यत आह - अक्षीयमाणमपीति । अपिरवधारणे पूर्वावस्थालिङ्गेनाक्षीयमाणमेव तद्द्रव्यमनुमीयत इत्यर्थः । विमतमविश्लिष्टावयवम् , पूर्वावस्थातो गुरुत्वाद्यपचयहीनत्वात् , सम्मतवदिति भावः । शङ्कते - स्यादेतदिति । विश्लिष्टानामल्पत्वादित्युपलक्षणम् , अवयवान्तराणां प्रवेशादित्यपि द्रष्टव्यम् । विशेषोऽवयवानां विश्लेषप्रवेशरूपः सन्नपि न ज्ञायते, तथा च गुरुत्वापचयो न भवतीति हेतोरन्यथासिद्धिरिति शङ्कार्थः । आगच्छन्तोऽवयवाः परमाणवस्त्रसरेणवो वा, नाद्यः, तद्गतरूपवद्गन्धस्याप्यनुपलब्धिप्रसङ्गादिति परिहरति - नेति । द्वितीयं प्रत्याह - स्फुटेति । त्रसरेणुगन्धश्चेत्स्फुटो न स्यादित्यर्थः । अतो गन्धस्य पुष्पादिस्थस्यैव गुणव्यतिरेको वाच्य इति भावः । गन्धो न गुणिविश्लिष्टः गुणत्वात् , रूपवदिति शङ्कते - रूपेति । विश्लेषस्य प्रत्यक्षत्वाद्बाध इत्याह -
नेति ॥२६॥ 【भाष्यम्】 【भाष्यम्】 उत्तरसूत्रव्यावर्त्यं शङ्कते - कथमिति । ज्ञानं न गुणिव्यतिरिक्तदेशव्यापि, गुणत्वात् , रूपवत् , न च प्रभायां व्यभिचारस्तस्या अपि द्रव्यत्वादिति प्राप्ते गन्धे व्यभिचारमाह - अत उत्तरमिति । गुणस्य द्रव्यव्यतिरेक आश्रयविश्लेषः । आत्मनश्चैतन्यगुणेनैव देहव्याप्तिरित्यत्र श्रुतिमाह सूत्रकारः - तथा च दर्शयतीति । तद्व्याचष्टे -
हृदयेति ॥२७॥ 【भाष्यम्】 【भाष्यम्】 तत्रैव श्रुत्यन्तरार्थं सूत्रम् - पृथगिति ।
विज्ञानमिन्द्रियाणां ज्ञानशक्तिं विज्ञानेन चैतन्यगुणेनादाय शेत इत्यर्थः । एतं चैतन्यगुणव्याप्तिगोचरमभिप्रायम् ॥२८॥ 【भाष्यम्】 【भाष्यम्】 तत्रात्माणुत्वविभुत्वश्रुतीनां विरोधादप्रामाण्यप्राप्तावणुत्वं जीवस्य विभुत्वमीश्वरस्येत्यविरोध इत्येकदेशिपक्षो दर्शितः । तं दूषयन्सिद्धान्तसूत्रं व्याचष्टे - तुशब्द इत्यादिना । तस्माद्ब्रह्माभिन्नत्वाद्विभुर्जीवः ब्रह्मवदित्यनुमानानुगृहीते श्रुतिस्मृती आह - तथा च स वा एष इति । नित्यः सर्वगतः स्थाणुरित्याद्याः स्मार्तवादाः । एतेन जीवस्य ब्रह्माभेदज्ञानेऽणुत्वाभावधीस्तस्यां तदित्यन्योन्याश्रय इति निरस्तम् । प्रधानमहावाक्यानुगुणश्रुतिस्मृतिभिरणुत्वाभावनिश्चयानन्तरमभेदज्ञानात्प्रधानवाक्यविरोधे गुणभूताणुत्वश्रुतीनामौपाधिकाणुत्वविषयत्वकल्पनात् । 'गुणे त्वन्याय्यकल्पना' इति न्यायादिति भावः । किञ्च सर्वदेहव्यापिशैत्यानुभवान्यथानुपपत्त्याणुत्वश्रुतयोऽध्यस्ताणुत्वविषयत्वेन कथञ्चिदर्थवादा नेयाः । लौकिकन्यायादपि तेषां दुर्बलत्वादिति मत्वाह - न चाणोरिति । शङ्कते - त्वगिति । यद्यण्वात्मसम्बन्धस्य त्वग्व्याप्त्या देहव्यापिनी वेदना स्यात्तर्ह्यतिप्रसङ्ग इति दूषयति - नेति । प्रसङ्गस्येष्टत्वं निरस्यति - पादतल एवेति । तस्मादल्पमहतोः संयोगो न महद्व्यापी, कण्टकसंयोगस्य देहव्याप्त्यदर्शनात् , तथा चाण्वात्मसंयोगस्त्वगेकदेशस्थ एवेति देहव्यापिवेदनानुपपत्तिः । न च सिद्धान्ते त्वगात्मसम्बन्धस्य व्यापित्वात्कण्टकसम्बन्धे देहव्यापिवेदनाप्रसङ्ग इति वाच्यम् । यावती विषयसम्बद्धा त्वक्तावद्व्याप्यात्मसम्बन्धस्तावद्व्यापिवेदनाहेतुरिति नियमात् । न चैवं विषयत्वक्सम्बन्ध एव तद्धेतुरस्तु किमात्मव्याप्त्येति वाच्यम् । वेदना हि सुखं दुःखं तदनुभवश्च, न चैषां व्यापकानां कार्याणामल्पमुपादानं सम्भवति कार्यस्योपादानाद्विश्लेषानुपपत्तेः । न चैषां व्यापकत्वमसिद्धम् , सूर्यतप्तस्य गङ्गानिमग्नस्य सर्वाङ्गव्यापिदुःखसुखानुभवस्य दुरपह्नवत्वात् । यदुक्तं गुणस्यापि गुणिविश्लेषो गन्धवदिति, तन्नेत्याह - न चाणोरिति । गन्धो नाश्रयाद्विश्लिष्टः, गुणत्वात् , रूपवदित्यत्रागममाह - तथा चोक्तमिति । न च प्रत्यक्षबाधः, गन्धस्य प्रत्यक्षत्वेऽपि निराश्रयत्वस्याप्रत्यक्षत्वान्महतां त्रसरेणूनामनुद्भूतस्पर्शानामुद्भूतगन्धानामागमनात्स्फुटगन्धोपलम्भसम्भवः, अवयवान्तरप्रवेशान्न सहसा मूलद्रव्यक्षय इति भावः । पूर्वं चैतन्यस्य गुणत्वमुपेत्य तद्व्याप्त्या गुण्यात्माणुत्वं निरस्तम् , सम्प्रति तस्य गुणत्वमसिद्धमित्याह - यदि च चैतन्यमिति । उत्सूत्रं विभुत्वं प्रसाध्याणुत्वाद्युक्तेर्गतिप्रदर्शनार्थं सूत्रं व्याचष्टे - कथमित्यादिना । 'अन्तरा विज्ञानमनसी हृदि हि' इति च प्रकृता बुद्धिर्योग्यत्वात्तच्छब्देन परामृश्यते । बुद्धिगुणानामात्मन्यध्यासादणुत्वाद्युक्तिर्न स्वतः, आनन्त्यश्रुतिविरोधादित्याह - तथा चेति । अकार्यकारणद्रव्यसमानाधिकरणतया तत्त्वमसीति वाक्यस्य सोऽयमिति वाक्यवदखण्डाभेदार्थत्वादानन्त्यं सत्यमणुत्वमध्यस्तमित्यर्थः । उक्तं चैतदङ्गुष्ठाधिकरणे 'प्रतिपाद्यविरुद्धमुद्देश्यगतविशेषणमविवक्षितम्' इति । बालाग्रवाक्यमाराग्रवाक्यं चेत्युन्मानद्वयमुक्तम् । तत्राद्यं निरस्य द्वितीयं निरस्यति - तथेतरस्मिन्नपीति । बुद्धेर्गुणेन निमित्तेनात्मन्यध्यस्तो गुणो भवति तेनात्मगुणेनाध्यस्तेनैवाराग्रपरिमाणोऽपकृष्टश्च जीवो दृष्टः स्वतस्त्वनन्त एवेत्यर्थः । 'न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानः' इत्युक्त्वा 'एषोऽणुरात्मा' इत्युक्तः पर एव, यदि जीवस्तथाप्यध्यस्ताणुत्वमणुशब्दार्थ इत्याह - जीवस्यापीति । यदुक्तं पृथगुपदेशाच्चैतन्यगुणेनैवात्मनो देहव्याप्तिरिति, तत्राह - तथा प्रज्ञयेति । बुद्धिः प्रज्ञेत्यर्थः । यदि चैतन्यं प्रज्ञा तदा भेदोपचार इत्याह - व्यपदेशमात्रं वेति । ननु चैतन्यं गुण इति भेदो मुख्योऽस्तु, नेत्याह - न ह्यत्रेति । निर्गुणत्वश्रुतेरित्यर्थः । अन्यदपि पूर्वोक्तं बुद्ध्याद्युपाधिकमित्याह - हृदयेत्यादिना । सौत्रं दृष्टान्तं विवृणोति - यथेति ।
असत्त्वमित्यापाततः । असंसारित्वमापाद्यम् । शेषं सुबोधम् ॥२९॥ 【भाष्यम्】 【भाष्यम्】 ननु स्वतः संसारित्वमस्तु किं बुद्ध्युपाधिनेत्यत आह - यावदेव चायमिति । समानो बुद्धितादात्म्यापन्नः सन् विज्ञानं ब्रह्म तन्मयो विकारोऽणुरित्यर्थः । किं न स्यादित्यत आह - प्रदेशान्तर इति । विज्ञानमयो बुद्धिप्रचुर इत्यर्थः । केन समान इत्याकाङ्क्षायामिति शेषः । श्रुतिबलाद्बुद्धेर्यावत्संसार्यात्मभावित्वमुक्तम् , सति मूले कार्यस्य वियोगासम्भवाच्चेति युक्त्याप्याह - अपि च मिथ्येति । सम्यग्ज्ञानादेव बुद्ध्यादिबन्धध्वंस इत्यत्र श्रुतिमाह - दर्शयतीति ।
मृत्युमत्येतीत्यन्वयः । आदित्यवर्णं स्वप्रकाशम् । तमसः परस्तादज्ञानास्पृष्टमित्यर्थः ॥३०॥ 【भाष्यम्】 【भाष्यम्】 स्थूलसूक्ष्मात्मना बुद्धेर्यावदात्मभावित्वमस्तीत्याह - पुंस्त्वेति । पुंस्त्वं रेतः । आदिपदेन श्मश्वादिग्रहः । अस्य बुद्धिसम्बन्धस्येत्यर्थः । स्वापे बीजात्मना सतो बुद्धयादेः प्रबोधेऽभिव्यक्तिरित्यत्र श्रुतिमाह - दर्शयतीति ।
न विदुरित्यविद्यात्मकबीजसद्भावोक्तिः । ते व्याघ्रादयः पुनराविर्भवन्ति इत्यभिव्यक्तिनिर्देशः ॥३१॥ 【भाष्यम्】 【भाष्यम्】 यावदात्मभावित्वस्यासिद्धिं शङ्कते - नन्विति । सुषुप्तौ बुद्धिसत्त्वे ब्रह्मसम्पत्तिर्न स्यात् । प्रलये तत्सत्त्वे प्रलयव्याहतिरित्यर्थः । बुद्धिसद्भावे मानमाह सूत्रकारः - नित्येति । 'मनसा ह्येव पश्यति', 'बुद्धिश्च न विचेष्टति', 'विज्ञानं यज्ञं तनुते', 'चेतसा वेदितव्यः', 'चित्तं च चेतयितव्यम्' इति तत्र तत्र श्रुतिषु मनआदिपदवाच्यं तावद्बुद्धिद्रव्यं प्रसिद्धमित्यर्थः । कथमेकस्यानेकधोक्तिः, तत्राह - क्वचिच्चेति । गर्ववृत्तिकोऽहङ्कारो विज्ञानं चित्प्रधानं स्मृतिप्रधानं वा चित्तमित्यपि द्रष्टव्यम् । यद्यपि साक्षिप्रत्यक्षसिद्धमन्तःकरणं श्रुत्यनूदितं च तथापि प्रत्यक्षश्रुत्योर्विवदमानं प्रति व्यासङ्गानुपपत्त्या तत्साधयति - तच्चेत्यादिना । सूत्रं योजयति - अन्यथेति । पञ्चेन्द्रियाणां पञ्चविषयसम्बन्धे सति नित्यं युगपत्पञ्चोपलब्धयः स्युः, मनोऽतिरिक्तसामग्र्याः सत्त्वात् । यदि सत्यामपि सामग्र्यामुपलब्ध्यभावस्तर्हि सदैवानुपलब्धिप्रसङ्ग इत्यर्थः । अतः कादाचित्कोपलब्धिनियामकं मन एष्टव्यमिति भावः । ननु सत्यपि कराग्रिसंयोगे दाहकादाचित्कत्ववदुपलब्धिकादाचित्कत्वमस्तु किं मनसेत्याशङ्क्यान्यतरनियमो वेत्येतद्व्याचष्टे - अथवेति । सत्यां सामग्र्यां नित्योपलब्धिर्वाङ्गीकार्या अन्यतरस्य कारणस्य केनचिच्छक्तिप्रतिबन्धनियमो वाङ्गीकार्यः, यथा मणिनाग्निशक्तिप्रतिबन्ध इति वाकारार्थः । अस्तु प्रतिबन्ध इत्यत आह - न चेति । न चेन्द्रियस्यैवास्तु शक्तिप्रतिबन्ध इति वाच्यम् । प्रतिबन्धकाभावात् । न च दृष्टसामग्र्यां सत्यामदृष्टं प्रतिबन्धकमिति युक्तमतिप्रसङ्गात् । न च व्यासङ्गः, प्रतिबन्धकमनोऽसत्त्वे तस्यासम्भवात् । तथा हि - रसादीनां सहोपलब्धिप्राप्तौ रसबुभुत्सारूपो व्यासङ्गो रूपाद्युपलब्धिप्रतिबन्धको वाच्यः, स च गुणत्वाद्रूपवद्गुण्याश्रयः, तत्रात्मनोऽसङ्गनिर्गुणकूटस्थस्य गुणित्वायोगान्मन एव गुणित्वेनैष्टव्यमिति व्यासङ्गानुपपत्त्या मनःसिद्धिः । एतदभिप्रेत्योपसंहरति - तस्मादिति । अवधानं बुभुत्सा । न चानिच्छतोऽपि दुर्गन्धाद्युपलम्भान्न बुभुत्सोपलब्धिर्नियामिकेति वाच्यम् , अनेकविषयसन्निधौ क्वचिदेव तस्या नियामकत्वाङ्गीकारात् । तेषां मते पुनरिच्छादीनामात्मधर्मत्वं तेषां मनो दुर्लभमिति मन्तव्यम् । इच्छादिधर्मिणैवात्मना व्यासङ्गोपपत्तेः । सम्प्रति व्यासङ्गस्य मानसत्वे श्रुतिमाह - तथा चेति । न केवलं व्यासङ्गान्मनःसिद्धिः, किन्तु कामाद्याश्रयत्वेनापीत्याह - कामादयश्चेति । बुद्धेः प्रामाणिकत्वोक्तिफलमाह -
तस्मादिति ॥३२॥ 【भाष्यम्】 【भाष्यम्】 एवमात्मन्यणुत्वाध्यासोक्त्या स्वाभाविकं महत्त्वं स्थापितम् । सम्प्रति ततो बहिष्ठं कर्तृत्वं साधयति - कर्ता शास्त्रार्थवत्त्वात् । स नित्यश्चिद्रूपो महानात्मा कर्ता न वेत्यसङ्गत्वश्रुतीनां विध्यादिश्रुतीनां च विप्रतिपत्त्या संशये बुद्धिकर्तृत्वेनैव विध्यादिशास्त्रोपपत्तेरकर्तात्मेति साङ्ख्यपक्षप्राप्तौ सिद्धान्तयन्नैव तद्गुणसारत्वोक्त्यात्मनि कर्तृत्वाध्यासस्यापि सिद्धत्वात्पुनरुक्तिमाशङ्क्य साङ्ख्यपक्षनिरासार्थमात्मनि कर्तृत्वाध्यासप्रपञ्चनान्न पुनरुक्तिरित्याह - तद्गुणेति । अधिकारः प्रसङ्गः । वस्तुतोऽसङ्गत्वम् । अविद्यातः कर्तृत्वमित्यसङ्गत्वकर्तृत्वश्रुतीनामविरोधोक्तेः कर्तृत्वविचारात्मकाधिकरणत्रयस्य पादसङ्गतिः । श्रुतीनां मिथो विरोधाविरोधौ पूर्वोत्तरपक्षयोः फलम् । यद्वात्र पूर्वपक्षे बन्धाभावाच्छास्त्रवैयर्थ्यं फलम् , सिद्धान्ते कर्तृत्वादिसम्बन्धसत्त्वाच्छास्त्रार्थवत्तेति भेदः । ननु बुद्धिकर्तृत्वेन शास्त्रार्थवत्तास्तु किं जीवकर्तृत्वेन तत्राह - तद्धि कर्तुः सत इति ।
मयेदं कर्तव्यमिति बोधसमर्थस्य चेतनस्यैव कर्तृत्वं वाच्यं न त्वचेतनाया बुद्धेः । किं च भोक्तुरात्मन एव कर्तृता वाच्या 'शास्त्रफलं प्रयोक्तरि' इति न्यायादिति भावः ॥३३॥ 【भाष्यम्】 【भाष्यम्】
सन्ध्यं स्थानं स्वप्नः । अमृतः स आत्मा यथेष्टमीयते गच्छतीति विहारोपदेशात् , आत्मा कर्ता ॥३४॥ 【भाष्यम्】 【भाष्यम्】
प्राणानां मध्ये विज्ञानेन बुद्ध्या विज्ञानसमर्थमिन्द्रियजातमादाय शेते इति प्राणान् गृहीत्वा परिवर्तत इति उपादानकर्तृत्वमात्मनः अकर्तृत्वे उपादानानुपपत्तेरिति भावः ॥३५॥ 【भाष्यम्】 【भाष्यम्】
विज्ञानशब्दो जीवस्य निर्देशो न चेत्तदा प्रथमानिर्देशाद्विपर्ययः । करणद्योतितृतीयया निर्देशः स्यात् । तस्मादिह श्रुतौ तनुत इत्याख्यातेन कर्तृवाचिना विज्ञानपदस्य सामानाधिकरण्यनिर्देशात्क्रियायामात्मनः कर्तृत्वं सूच्यत इति सूत्रभाष्ययोरर्थः ॥३६॥ 【भाष्यम्】 【भाष्यम्】 सत्यपि स्वातन्त्र्ये कारकवैचित्र्यादनियता प्रवृत्तिरिति सूत्रेण परिहरति - यथेति । दृष्टान्तासम्प्रतिपत्त्या शङ्कते - उपलब्धावपीति । चक्षुरादीनां चैतन्येन विषयसम्बन्धार्थत्वात्स्वसम्बन्धोपलब्धौ चात्मनश्चैतन्यस्वभावत्वेन स्वातन्त्र्याद्दृष्टान्तसिद्धिरित्याह - नेति । नन्वात्मा विषयसम्बन्धाय करणान्यपेक्षते चेत्कथं स्वतन्त्र इत्याशङ्क्यमाह - अपि चेति ।
स्वातन्त्र्यं नाम न स्वान्यानपेक्षत्वम् , ईश्वरस्यापि प्राणिकर्मापेक्षत्वेनास्वातन्त्र्यप्रसङ्गात् । किं तु स्वेतरकारकप्रयोक्तृत्वे सति कारकाप्रेर्यत्वं स्वातन्त्र्यं तेन स्वतन्त्रोऽपि जीव इष्टसाधनत्वभ्रान्त्यनिष्टसाधनमप्यनुतिष्ठतीत्यनियता प्रवृत्तिः स्वातन्त्र्यं चेत्यविरुद्धमित्यर्थः ॥३७॥ 【भाष्यम्】 【भाष्यम्】 सूत्रान्तरमवतारयति - अत्राहेति । जीवः स्वतन्त्रश्चेदिष्टमेव कुर्यादस्वतन्त्रश्चेन्न कर्ता, 'स्वतन्त्रः कर्ता' इति न्यायादित्यर्थः । जीवस्य कर्तृत्वे हेत्वन्तरार्थं सूत्रम् - शक्तीति । बुद्धेः करणशक्तिविपरीता कर्तृशक्तिः स्यादित्यर्थः । ततः किम् , तत्राह - सत्यां च बुद्धेरिति ।
योऽहन्धीगम्यः । स कर्ता स एव जीवो यत्तदपेक्षितं करणं तन्मन इति जीवकर्तृत्वसिद्धिरिति भावः ॥३८॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानसाधनविध्यन्यथानुपपत्त्याप्यात्मनः कर्तृत्वं वाच्यमित्याह - समाधीति ।
मुक्तिफलभोक्तुरेव तदुपायसमाधिकर्तृत्वं युक्तम् , अन्यथात्मनोऽकर्तृत्वे बुद्धेरपि अभोक्त्र्याः कर्तृत्वायोगात्समाध्यभावप्रसङ्ग इत्यर्थः ॥३९॥ 【भाष्यम्】 【भाष्यम्】 यथा च तक्षोभयथा । उक्तमात्मनः कर्तृत्वमुपजीव्य संशयपूर्वपक्षावाह - एवं तावदित्यादिना । साङ्ख्यनिरासेनात्मनः कर्तृत्वे साधिते बाधकाभावात्तत्सत्यमिति मीमांसकादिपक्षः प्राप्तः । न चासङ्गत्वागमेन बाधः, अहं कर्तेत्यनुभवसहितकर्तृत्वश्रुतिबलेन तस्यागमस्य स्तावकत्वादिति प्राप्त उत्सूत्रमेव सिद्धान्तयति - न स्वाभाविकमिति । यदुक्तं बाधकाभावादिति तदसिद्धमित्याह - अनिर्मोक्षेति । ननु कर्तृत्वं नाम क्रियाशक्तिर्मुक्तावप्यस्ति तथापि शक्तिकार्यस्य क्रियारूपशक्यस्याभावान्मुक्तेः पुरुषार्थत्वसिद्धिरिति शङ्कते - ननु स्थितायामिति । सत्यां शक्तौ कथं कार्यपरिहारः, तत्राह - तत्परिहारश्चेति । मुक्तौ शक्तिसत्त्वे कार्यमपि स्यात् , शक्याभावे शक्त्ययोगात् । अस्ति हि प्रलयेऽपि कार्यं पुनरुद्भवयोग्यं सूक्ष्मं शक्यम् , तथा च शक्त्या धर्मादिनिमित्तैः सहितकार्याक्षेपान्मुक्तिलोप इति परिहरति - न निमित्तानामपीति । सनिमित्तस्य कार्यस्य शक्यत्वेन शक्त्या सम्बन्धान्नमित्तानामपि परम्परया शक्तिसम्बन्धित्वमुक्तं मन्तव्यम् । सम्बन्धेन सम्बन्धिनेत्यर्थः । यद्वा शक्तिर्लक्षणमाक्षेपकं यस्य कार्यस्य तेन कार्येण यः सम्बन्धस्तेनेति व्यधिकरणे तृतीये । ननु नरस्य कर्मणा देवत्ववच्छास्त्रबलात्कर्तुरेवाकर्तृतासिद्धिरिति शङ्कते - नन्विति । ज्ञानादकर्तृत्वाख्यमोक्षश्चेत्कर्तृत्वमाविद्यकं स्याद्यतो ज्ञानमज्ञानस्यैव निवर्तकम् । यदि कर्मणा मोक्षः तत्राह - नेति । आत्मनः स्वाभाविकं कर्तृत्वमभ्युपगम्यानिर्मोक्ष उक्तः । सम्प्रत्यसङ्गनिर्विकारत्वानेकश्रुतिव्याकोपात्तन्न स्वाभाविकमित्याह - अपि चेति । न चाभ्यस्तानेकश्रुतीनां स्तावकत्वकल्पनं युक्तम् , न चाहं कर्तेत्यनुभवो विरुध्यते, तस्य सत्यमिथ्योदासीनकर्तृत्वावगाहिनोऽध्यासत्वेनाप्युपपत्तेरित्यर्थः । कर्तृत्वस्याध्यस्तत्वे श्रुतिमाह - तथा चेति । विद्वदनुभवबाधितं च कर्तृत्वमित्याह - न हीति । बुद्ध्यादिसङ्घाताद्व्यतिरिक्तो यदि परस्मादन्यश्चेतनो न स्यात्तदा पर एव संसारी प्रसज्येत, तच्चानिष्टम् , परस्य नित्यमुक्तत्वव्याघातादिति शङ्कते - पर एवेति । न वयं शुद्धस्य चिद्धातोः परस्य बन्धं वदामः, किन्तु तस्यैवाविद्याबुद्ध्यादिप्रतिबिम्बितस्याविद्यया भिन्नस्य जीवत्वं प्राप्तस्य बन्धमोक्षाविति ब्रूमः । कल्पितभेदोऽपि लोके बिम्बप्रतिबिम्बयोर्धर्मव्यवस्थापको दृष्ट इति परिहरति - नाविद्येति । अविद्योपहिते बन्धो न शूद्धात्मनीत्यत्र श्रुतिमाह - तथा चेति । कर्तृत्वस्य बुद्ध्युपाध्यन्वयव्यतिरेकानुविधायित्वाच्छ्रुतेश्च न स्वाभाविकत्वमित्याह - तथा स्वप्नेति । आत्मैव काम्यते आनन्दत्वादित्यात्मकामं स्वरूपं स्वातिरिक्तकाम्यासत्त्वादकामम् , आत्मकामत्वादकामत्वाच्चाप्तकामं विशोकत्वाच्चेत्याह - शोकेति । शोकान्तरं दुःखास्पृष्टमित्यर्थः । तस्यैव सुषुप्तात्मरूपस्य परमपुरुषार्थतामाह - एष इति । गतिः प्राप्यम् , सम्पदैश्वर्यं लोको बोग्यं सुखम् , चैतस्मादन्यत्रास्तीत्यर्थः । आत्मा स्वतोऽकर्ता बुद्ध्याद्युपाधिना तु कर्तेत्युभयथाभाव उक्तः । तत्रार्थे सूत्रं योजयति - तदेतदाहेत्यादिना । सम्प्रसादः सुषुप्तिः । यथा स्फटिकस्य लौहित्यं कुसुमाद्युपाधिकं तथात्मनः कर्तृत्वं बुद्ध्याद्युपाधिकमन्वयव्यतिरेकाभ्यां सिद्धम् । न च तौ बुद्धेरात्मकर्तृत्वे करणत्वविषयौ नोपादानत्वविषयाविति युक्तम् , करणत्वात्कार्यान्वय्युपादानत्वस्यान्तरङ्गतया चित्संवलितबुद्धेस्ताभ्यामुपादानत्वस्यैव सिद्धेः, एवं चिदभेदेनाध्यस्तबुद्ध्याख्याहङ्कारस्य कर्तृत्वोपादानत्वेन महावाक्यसम्मतिश्चेति भावः । ननु तक्षा स्वहस्तादिना वास्यादिप्रेरणशक्तत्वात्स्वतः कर्ता आत्मा तु निरवयवत्वादशक्त इति दृष्टान्तवैषम्यमाशङ्क्यौपाधिककर्तृत्वांशेन विवक्षितेन साम्यमाह - तक्षदृष्टान्तश्चेति । शास्त्रेणानूद्यमानं कर्तृत्वं स्वाभाविकमेव किं न स्यादित्यत आह - न च स्वाभाविकमिति । उपाध्यभावकाले श्रुतं कर्तृत्वं स्वाभाविकमेवेति शङ्कते - ननु सन्ध्य इति । किञ्च करणैर्विशिष्टस्य कर्तृत्वे तेषां कर्त्रन्तर्भावात्तेष्वपि कर्तृविभक्तिः स्यात् । न चैवमस्ति ततः केवलात्मनः कर्तृत्वमित्याह - तथेति । स्वप्नविहारे तावदुपाध्यभावोऽसिद्ध इत्याह - न तावत्सन्ध्य इति । विहारस्य मिथ्यात्वात्तत्कर्तृत्वमपि मिथ्येत्याह - विहारोऽपीति । जक्षत्भुञ्जान इव । करणत्वविशिष्टस्य कर्तृत्वे करणेषु कर्तृविभक्तिः स्यात् , न करणविभक्तिरित्युक्तं प्रत्याह - भवति च लोक इति । कर्तृष्वपि करणविभक्तिर्न विरुध्यते दृष्टत्वात् । अस्ति च कर्तृत्वप्रयोगः, 'विज्ञानं यज्ञं तनुते' इत्यादाविति भावः । उपादानस्य सकर्तृकत्वमङ्गीकृत्य केवलात्मनः कर्तृत्वं निरस्तम् । इदानीं तस्याक्रियत्वान्न कर्त्रपेक्षेत्याह - अपि चेति । पूर्वं विज्ञानं जीव इत्यङ्गीकृत्य जीवस्य कर्तृत्वे तनुत इति श्रुतिरुक्ता, सम्प्रति तया श्रुत्यानुपहितात्मनः कर्तृत्वमिति प्राप्तौ विज्ञानं बुद्धिरेव तस्या एवात्र कर्तृत्वमुच्यते । तदुपहितात्मनः कर्तृत्वसिद्धय इत्यभिप्रेत्याह - यस्त्विति । 'योऽयं विज्ञानमयः' इत्यादिश्रुतिषु विज्ञानब्दस्य बुद्धौ प्रसिद्धत्वादत्र च मनोमयकोशानन्तरं पठितत्वाच्छ्रद्धादिलिङ्गाच्च बुद्धिरेव विज्ञानमित्यर्थः । तत्रैव लिङ्गान्तरमाह - विज्ञानं देवा इति । 'महद्यक्षं प्रथमजम्' इत्यादिश्रुतौ हिरण्यगर्भब्रह्मात्मकबुद्धेर्ज्येष्ठत्वोक्तेरत्र देवैरिन्द्रियैरूपास्यमानं ज्येष्ठं ब्रह्म विज्ञानं बुद्धिरेवेत्यर्थः । यक्षं पूज्यम् । किञ्च श्रुत्यन्तरे यज्ञस्य बुद्धिकार्यत्वोक्तेरत्रापि यज्ञकर्तृविज्ञानं बुद्धिरित्याह - स एष इति । चित्तेन ध्यात्वा वाचा मन्त्रोक्त्या यज्ञो जायते ततश्चित्तस्य वाचः पूर्वोत्तरभावो यज्ञ इत्यर्थः । यच्चोक्तं बुद्धेः कर्तृत्वे शक्तिवैपरीत्यप्रसङ्ग इति । तन्न विक्लिद्यन्ते तण्डुलाः, ज्वलन्ति काष्ठानि, बिभर्ति स्थालीति स्वस्वव्यापारेषु सर्वकारकाणां कर्तृत्वस्वीकारादित्याह - न चेति । तर्हि बुद्ध्यादीनां कर्तृत्वे करणत्ववार्ता तेषु न स्यादित्यत आह - उपलब्धीति । यथा काष्ठानां स्वव्यापारे कर्तृत्वेऽपि पाकापेक्षया करणत्वं तथा बुद्ध्यादीनामध्यवसायसङ्कल्पादिक्रियाकर्तृत्वेऽप्युपलब्ध्यपेक्षया करणत्वमित्यर्थः । ननु तर्ह्युपलब्धिः कस्य व्यापार इत्याह - सा चेति । तर्हि तस्यामात्मा केवलः कर्ता स्यात् , यस्य यो व्यापारः स तस्य कर्तेति स्थितेरित्यत आह - न चेति । उपलब्धेर्नित्यत्वे बुद्ध्यादीनां कथं करणत्वमुक्तमिति चेदुच्यते - अखण्डसाक्षिचैतन्यं बुद्धिवृत्तिभिर्भिन्नं सद्विषयावाच्छिन्नत्वेन जायते, तथा च विषयावच्छिन्न चैतन्याख्योपलब्धौ बुद्ध्यादीनां करणत्वं बुद्ध्याद्युपहितात्मनः कर्तृत्वं न केवलस्य, न च बुद्धेरेव तत्कर्तृत्वं चैतन्यस्य जडव्यापारत्वायोगादिति भावः । यच्चोक्तं बुद्धेः कर्तृत्वे स एवाहन्धीगम्यो जीव इति तस्य करणान्तरं कल्पनीयम् , तथा च नाममात्रे विवाद इति तत्र केवलात्मनः कर्तृत्वमुक्तमिति भ्रान्तिं निरस्यति - अहङ्कारेति ।
साङ्ख्यनिरासार्थं बुद्ध्यभेदेनाध्यस्तचिदात्मकाहङ्कारगतं कर्तृत्वं यदुक्तं तदहन्धीगम्यस्य बुद्धिविशिष्टात्मन एव न केवलस्य साक्षिणो भवितुमर्हति, दृश्यधर्मस्य साक्षिस्वभावत्वायोगात् । एवं विशिष्टात्मनः कर्तृत्वे विशेषणीभूताया जडबुद्धेरेव करणत्वोपपत्तेर्न करणान्तरकल्पनाप्रसङ्गः । अध्यासं विना केवलबुद्धिकर्तृत्ववादिनस्तु करणान्तरप्रसङ्गो दुर्वार इत्यर्थः । एवं शास्त्रार्थवत्त्वादिहेतूनामात्मनः कर्तृत्वमात्रसाधकत्वेऽपि स्वाभाविककर्तृत्वसाधनसामर्थ्याभावादध्यस्तमेव कर्तृत्वं विध्यादिकर्तृत्वश्रुतीनामुपजीव्यम् । तस्मादसङ्गत्वविध्यादिकर्तृत्वश्रुतीनामविरोध इति सिद्धम् ॥४०॥ 【भाष्यम्】 【भाष्यम्】 परात्तु तच्छ्रुतेः । यथा स्फटिके लौहित्याध्यासे लोहितद्रव्यं करणं तेनायं स्फटिको लोहित इत्यनुभवात् , तथा कामादिपरिणामिबुद्धिरात्मनि कर्तृत्वाद्यध्यासे करणमित्युक्तम् । तदध्यस्तं कर्तृत्वमुपजीव्य जीवस्य कारकसम्पन्नत्वादीश्वरस्य कारयितृत्वश्रुतेश्च संशयमाह - यदिदमिति । अत्र 'एष ह्येव' इत्यादिश्रुतीनां कर्तृस्वातन्त्र्यद्योतकविध्यादिश्रुतिभिर्विरोधसमाधानात्पादसङ्गतिः । कर्ममीमांसकमतेन पूर्वपक्षयति - तत्रेत्यादिना । बुद्ध्यादिकारकसम्पत्तावीश्वरव्यतिरेके कर्तृत्वव्यतिरेकानुपलब्धेर्नेश्वरः प्रयोजकः । किञ्च प्रयोजकत्वे नैर्घृण्यादिप्रसङ्ग इत्याह - क्लेशात्मकेन चेति । दत्तोत्तरमिदं चोद्यमिति शङ्कते - नन्विति । पूर्वं जीवस्य धर्माधर्मवत्त्वं सिद्धवत्कृत्य तत्सापेक्षत्वाद्विषमजगत्कर्तृत्वमविरुद्धमित्युक्तं सम्प्रति ईश्वराधीनत्वे जीवस्य कर्तृत्वे सिद्धे धर्माधर्मवत्त्वसिद्धिः, तद्वत्त्वसिद्धौ तत्सापेक्षकारयितृत्वसिद्धिः, ईश्वरस्य कारयितृत्वे सिद्धे जीवस्य कर्तृत्वसिद्धिरिति चक्रकापत्तेः कर्मसापेक्षत्वं न सम्भवतीत्युच्यत इत्याह - सत्यमिति । अस्तु कर्मानपेक्षस्य प्रवर्तकत्वम् , तत्राह - अकृतेति । अनपेक्षस्य प्रवर्तकत्वे धर्मवतो नरान् दुःखेनाधर्मवतः सुखेन योजयेत् , कारुणिकत्वे वा सर्वे सुखेन एकरूपाः स्युरिति जगद्वैचित्र्यं विध्यादिशास्त्रं च न स्यात् । तस्माद्विध्यादिशास्त्रार्थवत्त्वाय रागद्वेषायत्तं स्वत एव जीवस्य कर्तृत्वं वाच्यम् , तथा च कारयितृत्वश्रुतिविरोधः । ईश्वरस्ताविका वा सा श्रुतिरिति प्राप्ते सिद्धान्तयति - एतामिति ।
यथा चन्दनादिसामग्र्यां सत्यां धर्मव्यतिरेके सुखव्यतिरेकग्रहाभावेऽपि 'पुण्यो वै पुण्येन कर्मणा भवति' इत्यादिशास्त्रप्रामाण्यादेव धर्मस्य हेतुत्वसिद्धिः, एवमीश्वरस्यापि शास्त्रबलात्कारयितृत्वसिद्धिरिति भावः ॥४१॥ 【भाष्यम्】 【भाष्यम्】 धर्माधर्माभ्यामेव फलवैषम्यसिद्धेरलमीश्वरेणेत्याशङ्क्य बीजैरेवाङ्कुरवैषम्यसिद्धेः पर्जन्यवैयर्थ्यं स्यात् । यदि विशेषहेतूनां साधारणहेत्वपेक्षत्वान्न वैयर्थ्यं तर्हि ईश्वरस्यापि साधारणहेतुत्वान्न वैयर्थ्यमित्याह - पर्जन्यवदिति । दृष्टान्तं विवृणोति - यथेति । अतिदीर्घवल्लीग्रन्थयो गुच्छाः पुष्पस्तबका वा, गुल्मास्तु ह्रस्ववल्ल्य इति भेदः । किमीश्वरस्य कारयितृत्वे जीवस्य कर्तृत्वं न स्यादित्यापाद्यते उत चक्रकापत्तिर्वा । नाद्य इत्याह - नैष दोष इति । अध्यापकाधीनस्य बटोर्मुख्याध्ययनकर्तृत्वदर्शनादिति भावः । चक्रकं निरस्यति - अपि चेति । अनवद्यं जीवस्य कर्तृत्वमीश्वरस्य कारयितृत्वं चेति शेषः । ईश्वरस्य सापेक्षत्वे विध्यादिशास्त्रप्रामाण्यान्यथानुपपत्तिं प्रमाणयति - कथमित्यादिना । एवं सापेक्षत्वे सत्यवैयर्थ्यं भवति, अन्यथानपेक्षत्वे वैयर्थ्यं प्रपञ्चयति - ईश्वर इति । तयोः स्थाने स एव नियुज्येत अभिषिच्येत । तयोः कार्यं स एव कुर्यादिति यावत् । तथा च जीवस्य निरपेक्षेश्वरपरतन्त्रत्वाद्विध्यादिशास्त्रमकिञ्चित्करमनर्थकं स्यादिति सम्बन्धः । पुरुषकारः प्रयत्नः । आदिशब्दार्थमाह - तथेति ।
पूर्वोक्तदेषोऽकृताभ्यागमादिः । तस्मात्कर्मसापेक्षेश्वरस्य कारयितृत्वात् 'एष ह्येव' इत्यादिश्रुतेर्विध्यादिश्रुत्यविरोध इति सिद्धम् ॥४२॥ 【भाष्यम्】 【भाष्यम्】 अंश एके । 'नित्यः स्वप्रकाशोऽनणुरकर्ता जीव' इति शोधितत्वम्पदार्थस्यात्र ब्रह्मैक्यसाधनेन भेदाभेदश्रुतीनां विरोधसमाधानात्पादसङ्गतिः । पूर्वपक्षे प्रत्यगभिन्नब्रह्मसिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः । पूर्वोक्तोपकार्योपकारकभावाक्षिप्तं जीवेशयोः सम्बन्धं विषयीकृत्य द्विविधदृष्टान्तदर्शनात्संशयमाह - ततश्चेति । प्रसिद्धस्वस्वामित्वसम्बन्धसम्भवाद्यः कश्चित्सम्बन्ध इत्यनियमो न युक्त इत्यरुचेराह - अथवेति । अनेन 'य आत्मनि तिष्ठन्' इत्यादिश्रुतिप्रसिद्धभेदकोटिर्दर्शिता । एवं तत्त्वमसीत्यादिश्रुतिसिद्धा भेदकोटिर्द्रष्टव्या, तथा च भेदाभेदश्रुतीनां समबलत्वाद्विरोधे सति सम्बन्धानिश्चयात्सम्बन्धापेक्षस्य पूर्वोक्तोपकार्योपकारकभावस्यासिद्धिरित्याक्षेपात्सङ्गतिः । लोकसिद्धानर्थात्मकभेदानुवादित्वेन भेदश्रुतीनां दुर्बलत्वादज्ञातफलवदभेदश्रुत्यनुसारेण प्रकल्पितभेदनिबन्धनों 'शांशिभावः सम्बन्ध इति सिद्धान्तयति - अत इत्यादिना । अग्नेः सांशत्वेऽपि निष्कलेश्वरस्य कथं सांशत्वमत आह - अंश इवेति । जीव इत्यनुषङ्गः । भेद एव चेत्स्वस्वामिभावो युक्तो नांशांशिभाव इति शङ्कते - ननु चेति । अभेदस्यापि सत्त्वादंशांशिभाव इत्याह - अत इति । वञ्चसि गच्छसि यदास्ते यो नामरूपे निर्माय प्रविश्य व्यवहरन्वर्तते तं विद्वानमृतो भवतीति श्रुत्यर्थः । श्रुतिसिद्धाभेदे युक्तिमाह - चैतन्यं चेति ।
जीवो ब्रह्मैव चेतनत्वात् ब्रह्मवदित्यर्थः ॥४३॥ 【भाष्यम्】 【भाष्यम्】 अस्य सहस्रशीर्षपुरुषस्य तावान्प्रपञ्चो महिमा विभूतिः पुरुषस्तस्मात् प्रपञ्चात् ज्यायान्महत्तरः । भूतानि देहिनो जीवा इत्यत्र नियामकमाह - अहिंसन्निति । तीर्थानि शास्त्रोक्तकर्माणि, तेभ्योऽन्यत्र सर्वप्राणिहिंसामकुर्वन्ब्रह्मलोकमाप्नोतीत्यर्थः । अत्र भूतशब्दस्य प्राणिषु प्रयोगात्सूत्रोक्तमन्त्रेऽपि तथेति भावः । भूतानां पादत्वेऽप्यंशत्वं कुतः, तत्राह -
अंशः पाद इति ॥४४॥ 【भाष्यम्】 【भाष्यम्】 जीवस्य पुरुषसूक्तमन्त्रोक्तभगवदंशत्वे भगवद्गीतामुदाहरति सूत्रकारः - अपि चेति । अत्यन्तभिन्नेशित्रीशितव्यभावप्रसिद्धेः ईशितव्यजीवस्य कथमीश्वरांशत्वमित्याशङ्क्य कल्पितभेदेनापीशितव्यत्वोपपत्तेः, अनन्यथासिद्धाभेदशास्त्रबलादंशत्वमित्याह - यत्त्वित्यादिना । औपाधिके ईश्वरस्य नियन्तृत्वे जीव एव तन्नियन्ता किं न स्यादित्यत आह - निरतिशयेति ।
नितरां हीनः शरीराद्युपाधिः, आज्ञानिकोपाधितारतम्यादीशेशितव्यव्यवस्था, न वस्तुतः । तदुक्तं सुरेश्वराचार्यैः 'ईशेशितव्यसम्बन्धः प्रत्यगज्ञानहेतुजः । सम्यग्ज्ञाने तमोध्वस्तावीश्वराणामपीश्वरः ॥' इति ॥४५॥ 【भाष्यम्】 【भाष्यम्】 उत्तरसूत्रमवतारयति - अत्राहेति । ईश्वरः स्वांशदुःखैर्दुःखी, अंशित्वात् , देवदत्तवदित्यर्थः । ततः किम् , तत्राह - ततश्चेति । ज्ञानात्सर्वांशदुःखसमष्टिप्राप्त्यपेक्षया संसारो वरं तत्र स्वदुःखमात्रानुभवादित्यर्थः । नैवम्पर इति प्रतिज्ञानं विभजते - यथा जीव इति । देवदत्तदृष्टान्ते भ्रान्तिकामकर्मरूपदुःखसामग्रीमत्त्वमुपाधिः, तदभावान्नेश्वरस्य दुःखित्वप्राप्तिः । उक्तं चैतदभेदेऽपि बिम्बप्रतिबिम्बयोर्धर्मव्यवस्थेति भावः । दुःखस्य भ्रान्तिकृतत्वं प्रपञ्चयति - जीवस्यापीत्यादिना । भ्रान्तौ सत्यां दुःखमित्यन्वयमुक्त्वा भ्रान्त्यभावे दुःखाभावदर्शनाच्च भ्रान्तिकृतं दुःखमिति निश्चीयत इत्याह - व्यतिरेकेति । इतरेष्वभिमानशून्येष्वित्यर्थः । जीवस्यापि सम्यग्ज्ञाने दुःखाभावो दृष्टः किमु वाच्यं नित्यसर्वज्ञेश्वरस्येत्याह - अतश्चेति । एवमंशित्वे हेतोः सोपाधिकत्वमुक्त्वा यों 'शी स वस्तुतः स्वांशधर्मवानिती व्याप्तिं स्थलत्रये व्यभिचारयति - प्रकाशादिवदिति । वस्तुतः स्वांशदुःखित्वसाध्यस्य देवदत्तदृष्टान्ते वैकल्यमप्याह - जीवस्येति । कल्पितदुःखित्वसाध्यं तु भ्रान्त्याद्यभावादीश्वरे नास्तीत्युक्तम् । किञ्च जीवस्येश्वरस्य वा वस्तुतो दुःखित्वानुमानं न युक्तमागमबाधादित्याह - तथा चेति ।
दुःखित्वे तद्भावोपदेशो न स्यादित्यर्थः ॥४६॥ 【भाष्यम्】 【भाष्यम्】 स्मृत्याप्यनुमानं बाध्यमित्याह - स्मरन्ति चेति । सूत्रं व्याचष्टे - स्मरन्तीति । तत्र जीवपरयोर्मध्ये कर्मात्मा कर्माश्रयो जीवः । दशेन्द्रियाणि पञ्च प्राणाः मनो बुद्धिश्चेति सप्तदशसङ्ख्याको राशिर्लिङ्गम् । सूत्रे चशब्दः श्रुतिसमुच्चयार्थ इत्याह - चशब्दादिति । यथादित्यः प्राकाश्यदोषैर्न लिप्यते तथेत्यर्थः । यतो बाह्योऽसङ्गस्तस्मान्न लिप्यते एवमंशित्वकृतमीश्वरे दोषं निरस्यांश इत्युक्तं जीवस्यांशत्वं देहाद्युपाधिकमिति स्फुटयितुमत्यन्तस्वरूपैक्यमादायाक्षिपति - अत्राहेत्यादिना । कथं तर्हि इत्यन्वयः । तद्भेदादंशभेदात् । निरवयवब्रह्मणो मुख्यांशो न सम्भवतीति वदता सिद्धान्तिना भेदो नास्तीत्युक्तं भवति, भेदाभावे चांशांशित्वाभावादनुज्ञादिभेदव्यवहारानुपपत्तिरित्याक्षेपाभिप्रायः । न वयं भेदस्यासत्त्वं नरशृङ्गवद्ब्रूमः, किन्तु मिथ्यात्वं वदामः । तथा च देहाद्युपाधिभेदेनांशजीवानामाब्रह्मबोधात्कल्पितभेदाद्भेदव्यवहारोपपत्तिरिति सूत्रेण समाधत्ते -
तामित्यादिना ॥४७॥ 【भाष्यम्】 【भाष्यम्】 ननु भ्रान्तेः कुतश्चिन्निवृत्तौ व्यवहारविच्छेदः स्यादित्यत आह - न ह्यस्या इत्यादिना । प्रतता सन्तता, विशेषो भेदः । अनियोज्यत्वाद्ब्रह्मविदः शास्त्रानर्थक्यमिष्टमित्याह - न तस्येति । नियोगविषयद्वैताभावादात्मन्यसाध्ये नियोगानुपपत्तेर्न ब्रह्मविन्नियोज्य इत्यर्थः । नन्वामुष्मिकफलहेतुके कर्मणि देहभिन्नात्मविवेकिन एवाधिकारो वाच्यः । तथा च ब्रह्मविन्नियोज्यः, विवेकित्वात् , कर्माधिकारिवदिति शङ्कते - शरीरव्यतिरेकेति । परोक्षविवेकस्यापरोक्षभ्रमाविरोधित्वात्कर्मिणो देहाभेदभ्रमोऽस्ति, तथा च भ्रम उपाधिरिति परिहरति - नेत्यादिना । यथा व्योम देहाद्भिन्नं तद्वदहमित्यपश्यतः भ्रान्तस्येत्यर्थः । ब्रह्मविन्न नियोज्यः, अभ्रान्तत्वात् , सुषुप्तवदित्याह - न हीति । देहादिष्वसंहतत्वदर्शिनः संहतत्वदर्शनशून्यस्य भेदभ्रान्तिरहितस्य सुषुप्तस्येति यावत् । अज्ञस्यापि भ्रान्त्यभावकाले नियोज्यत्वं न दृष्टं किमु वाच्यमात्मविद इत्यर्थः । अनियोज्यत्वे बाधकमाशङ्क्य परिहरति - न चेति । विषयवैराग्यस्य ज्ञानार्थमभ्यस्तस्य ज्ञानानन्तरमनुवृत्त्या विषयेषु प्रवर्तकरागनिवृत्तेर्नातिप्रसङ्ग इत्यर्थः । तदुक्तं भगवता 'रसोऽप्यस्य परं दृष्ट्वा निवर्तते' इति । एवमनुज्ञादिप्रसङ्गेनानियोज्यम् , विदुष उक्त्वा प्रकृतिमुपसंहरति - तस्मादिति । एकस्याप्युपाधिभेदादनुज्ञापरिहारयोर्दृष्टान्तमाह - ज्योतिरिति ।
क्रव्यं मांसमत्तीति क्रव्यादशुचिः श्मशानाग्निरित्यर्थः ॥४८॥ 【भाष्यम्】 【भाष्यम्】 शङ्कोत्तरत्वेन सूत्रं व्याचष्टे - स्यातामित्यादिना ।
यद्यपि स्थूलदेहसम्बन्धादुपादानपरित्यागौ स्यातां तथाप्यन्यकृतकर्मफलमितरेणापि भुज्येतेति कर्मफलव्यतिकरः साङ्कर्यं स्याद्देहविशिष्टस्य स्वर्गादिभोगायोगेनाविशिष्टात्मन एकस्यैव भोक्तृत्वात् । तस्मात्स्वर्गी नरकी चेति व्यवस्थासिद्धये आत्मस्वरूपभेदो वाच्य इति शङ्कार्थः । भवेत्तदा साङ्कर्यं यद्यनुपहितात्मन एव भोक्तृत्वं स्यात् । न त्वेतदस्ति । 'तद्गुणसारत्वात्' इत्यत्र मोक्षस्यापि, बुद्ध्युपहितस्यैव कर्तृत्वादिस्थापनात् , तथा च बुद्धेः परदेहासम्बन्धात्तदुपहितजीवस्य नास्ति परदेहसम्बन्ध इति बुद्धिभेदेन भोक्तृभेदान्न कर्मादिसाङ्कर्यमिति समाधानार्थः ॥४९॥ 【भाष्यम्】 【भाष्यम्】 अंशेत्याद्यसूत्रे जीवस्यांशत्वं घटाकाशस्येवोपाध्यवच्छेदबुद्ध्योक्तम् , सम्प्रति एवकारेणावच्छेदपक्षारुचिं सूचयन् 'रूपं रूपं प्रतिरूपो बभूव' इत्यादिश्रुतिसिद्धम्प्रतिबिम्बपक्षमुपन्यस्यति भगवान् सूत्रकारः - आभास एव चेति । परमात्मैवानुपहितो जीवो न भवति, उपाध्यनुभवात् । नापि ततो भिन्नः, 'स एष इह प्रविष्टः' इत्याद्यभेदश्रुतिस्मृतिविरोधात् । तस्मादविद्यातत्कार्यबुद्ध्यादिप्रतिबिम्ब एव जीव इत्यर्थः । अस्मिन् पक्षे बुद्धिप्रतिबिम्बभेदात्स्वर्गी नारकीत्यादिव्यवस्था जीवत्वस्याविद्यकत्वाद्विद्यया मोक्षश्चेत्युपपद्यत इत्याह - अतश्चेत्यादिना । यस्त्वयं भास्करस्य प्रलापः प्रतिबिम्बस्य नोपाधिसंसृष्टतया कल्पितत्वं किन्तु स्वरूपेणैव, अतः कल्पितप्रतिबिम्बस्य मुक्तौ स्थित्ययोगान्न जीवत्वमिति स सिद्धान्तरहस्याज्ञानकृत इत्युपेक्षणीयः । यदि दर्पणे मुखं शुक्तौ रजतवत्कल्पितं स्यात्तदा नेदं रजतमिति स्वरूपबाधवन्नेदं मुखमिति बाधः स्यात् । अतो नास्ति दर्पणे मुखमिति संसर्गमात्रबाधान्मदीयं मुखमेवेदमित्यबाधितमुखाभेदानुभवात्संसृष्टत्वेनैव कल्पितत्वं प्रवेशवाक्यैश्चाविकृतब्रह्मण एव प्रतिबिम्बभावाख्यप्रवेशोक्तेर्न स्वरूपकल्पना, पराक्रान्तं चात्र दर्पणटीकायामाचार्यैरित्युपरम्यते । एवं स्वमते स्वरूपैक्येऽप्युपहितजीवभेदादसाङ्कर्यमुक्तम् , सम्प्रति सूत्रे चकारसूचितं परेषां साङ्कर्यं वक्तुमुपक्रमते - येषमित्यादिना । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावना नवात्मविशेषगुणाः, सन्निधानादीत्यादिपदादौदासीन्यमुक्तम् । साङ्ख्यः स्वाभिप्रायं शङ्कते - स्यादेतदिति । सर्वेषां पुंसां प्रकृतिसान्निध्याद्यविशेषेऽपि प्रकृतिरेव प्रतिपुरुषं नियमेन भोगापवर्गार्थं प्रवर्तते, तथा चोद्देश्यपुरुषार्थनियता प्रधानप्रवृत्तिरिति भोगादिव्यवस्था, अन्यथा नियतप्रवृत्त्यनङ्गीकारे स्वमाहात्म्यख्यापनार्था प्रधानस्य प्रवृत्तिरित्युद्देश्यविघातः स्यादित्यर्थः । जडप्रधानस्योद्देश्यविवेकाभावात्पुरुषार्थस्याप्यनागतस्याचेतनस्यानियामकत्वान्न व्यवस्था, मानयुक्तिशून्यत्वादित्याह - नैतदिति । यो हि नियामकभावेनोद्देश्यविघातमापादयति तं प्रति तस्यैवापादनमिष्टमिति भावः । तार्किकमतेऽपि भोगादिसाङ्कर्यमित्याह - काणादानामिति । हेतुर्मनःसंयोगः, फलं सुखादि, यदात्मादृष्टकृतो यो मनःसंयोगः स तदात्मन एव सुखादिहेतुरिति व्यवस्थां शङ्कते - स्यादेतदिति । सूत्रेण परिहरति -
नेत्याहेति ॥५०॥ 【भाष्यम्】 【भाष्यम्】 पूर्ववन्मनःसंयोगवददृष्टस्यापि सर्वात्मसाधरणत्वान्न व्यवस्थेत्यर्थः । रागादिनियमात्तज्जादृष्टनियम इत्याशङ्क्योत्तरत्वेन सूत्रं गृह्णाति -
स्यादेतदित्यादिना ॥५१॥ 【भाष्यम्】 【भाष्यम्】
अनियम उक्तदोषः । आत्मान्तरप्रदेशस्य परदेहे अन्तर्भावाद्व्यवस्थेति शङ्कार्थः ॥५२॥ 【भाष्यम्】 【भाष्यम्】 किं मनसा संयुक्तात्मैवात्मनः प्रदेशः । उत कल्पितः । आद्ये सर्वात्मनां सर्वदेहेषु अन्तर्भावादव्यवस्था । द्वितीयं दूषयति - तत्र न वैशेषिकैरिति । सर्वात्मसान्निध्ये सति कस्यचिदेव प्रदेशः कल्पयितुमशक्यः । नियामकभावादित्यर्थः । प्रदेशकल्पनामङ्गीकृत्याप्याह - कल्प्येति । कार्यमभिसन्ध्यादिकं यस्यात्मनो यच्छरीरं तत्र तस्यैव भोग इति व्यवस्थामाशङ्क्याह - शरीरमपीति । प्रदेशपक्षे दोषान्तरमाह - प्रदेशेति । यस्मिन्नात्मप्रदेशेऽदृष्टोत्पत्तिः स किं चलः स्थितो वा । नाद्यः, अचलें 'शिन्यंशस्य चलनविभागयोरसम्भवादण्वात्मवादापाताच्च । द्वितीये तस्मिन्नेव प्रदेशे परस्यापि भोगदर्शनाददृष्टमस्तीत्येकेनापि शरीरेण द्वयोरात्मनोर्भोगप्रसङ्गः । यद्यात्मभेदात्प्रदेशयोर्भेदस्तदापि तयोरेकदेहान्तर्भावाद्भोगसाङ्कर्यं तदवस्थं सावयवात्मवादप्रपङ्गश्च । किञ्च यत्तु यत्रात्मनः प्रदेशे शरीरादिसंयोगाददृष्टमुत्पन्नं तत्तत्रैवाचलप्रदेशे स्थितमिति स्वर्गादिशरीरावच्छिन्नात्मन्यदृष्टाभावाद्भोगो न स्यादतः प्रदेशभेदो न व्यवस्थापकः । यत्त्वत्रोत्पन्नमदृष्टं स्वाश्रये यत्र क्वचिद्भोगहेतुरिति स्वर्गादिभोगसिद्धिरिति । तन्न । भोगशरीराद्दूरस्थादृष्टे मानाभावादिति भावः । यदपि केचिदाहुः - मनस एकत्वेऽप्यात्मनां भेदेन संयोगव्यक्तीनां भेदात्कयाचित्संयोगव्यक्त्या कस्मिंश्चेदेवात्मन्यदृष्टादिकमित्यसाङ्कर्यमिति । तन्न । संयोगव्यक्तीनां वैजात्याभावेन सर्वासामेवैकदेहान्तःस्थसर्वात्मस्वदृष्टहेतुत्वापत्तेः । तथा च सर्वात्मनामेकस्मिन् देहे भोक्तृत्वं दुर्वारम् । किञ्च बहूनां विभुत्वमङ्गीकृत्य साङ्कर्यमुक्तम् , सम्प्रति कर्तृणां विभुत्वमसिद्धमहमिहैवास्मि इत्यल्पत्वानुभवान्मानाभावाच्चेत्याह - सर्वगतत्वानुपपत्तिश्चेति । किञ्च बहूनां विभुत्वे समानदेशत्वं वाच्यम् , तच्चायुक्तमदृष्टत्वादित्याह - वदेति । ननु रूपरसादीनामेकघटस्थत्वं दृष्टमिति चेत् , नायमस्मत्सम्मतो दृष्टान्तः । रूपस्य तेजोमात्रत्वाद्रसस्य जलमात्रत्वाद्गन्धस्य पृथिवीमात्रत्वादित्येवं तत्तद्गुणस्य स्वस्वधर्म्यंशेनाभेदात्तेजआदिधर्म्यतिरिक्तघटाभावात् । किञ्चात्मनां बहुत्वमप्यसिद्धम् , आत्मत्वरूपलक्षणस्याभेदात् , तथा च देवदत्तात्मा यज्ञदत्तात्मनो न भिन्नः आत्मत्वात् , यज्ञदत्तात्मवत् । अत्र वैशेषिकः शङ्कते - अन्त्यविशेषेति । नित्यद्रव्यमात्रवृत्तयो विशेषास्ते च स्वयं स्वाश्रयव्यावर्तका एव न स्वेषां व्यावर्तकमपेक्षन्त इत्यन्त्या उच्यन्ते । तथा च विशेषरूपलक्षणभेदाद्भवत्यात्मभेद इत्यर्थः । न तावदात्मन्यनात्मनः सकाशाद्भेदज्ञानार्था विशेषकल्पना, आत्मत्वादेवानात्मभेदसिद्धेः । नाप्यात्मनां मिथो भेदज्ञानार्थं तत्कल्पना, आत्मभेदस्याद्याप्यसिद्धेः । न च विशेषभेदकल्पनादेवात्मभेदकल्पना युक्ता, आत्मभेदज्ञप्तावात्मसु विशेषभेदसिद्धिस्तत्सिद्धौ तज्ज्ञप्तिरित्यन्योन्याश्रयादिति परिहारार्थः । यत्तु बहूनां विभुत्वे आकाशदिक्काला दृष्टान्त इति सोऽप्यसम्मत इत्याह - आकाशादीनामिति । विभुत्वस्यैकवृत्तित्वे लाघवान्न विभुभेदः । यथैकस्मिन्नाकाशे भेरीवीणादिभेदेन तारमन्द्रादिशब्दव्यवस्था एवमेकस्मिन्नप्यात्मनि बुद्ध्युपाधिभेदेन सुखादिव्यवस्थोपपत्तेरात्मभेदेऽपि व्यवस्थानुपपत्तेरुक्तत्वान्मुधा भेदकल्पनेत्युपसंहरति - तस्मादिति ।
एवं भूतभोक्तृश्रुतीनां विरोधाभावाद्ब्रह्मण्यद्वये समन्वय इति सिद्धम् ॥५३॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयाध्यायस्य तृतीयः पादः ॥३॥ 【भाष्यम्】 【भाष्यम्】 पूर्वाधिकरणे कर्तुः स्वरूपं विचार्य तदुपकरणानामिन्द्रियाणामुत्पत्तिं साधयति - तथा प्राणाः । भूतभोक्तृविचारानन्तरं भौतिकप्राणविचार इति हेतुहेतुमद्भावं पादयोः सङ्गतिमाह - वियदादीति । तमेव विप्रतिषेधमाह - तत्रेत्यादिना । यद्यपि प्राणानामनुत्पत्तौ एकविज्ञानप्रतिज्ञानुपपत्तेर्वियदधिकरणन्यायात्तेषामुत्पत्तिः सिध्यति तथापि प्रलये प्राणसद्भावश्रुतेर्गतिकथनार्थमेतदधिकरणमित्यपौनरुक्त्यम् । अत्र प्राणा विषयाः । ते किमुत्पद्यन्ते न वेति श्रुतीनां विप्रतिपत्त्या संशये तासां समबलत्वादनिर्णय इत्यप्रामाण्यमिति पूर्वपक्षफलम् , तत्र गौणवादी समाधानमाह - अथवेति । प्राणानां प्रलये सद्भावश्रुतेर्निरवकाशत्वेन बलीयस्त्वादुत्पत्तिश्रुतिर्जीवोत्पत्तिश्रुतिवद्गौणीत्यविरोध इत्यर्थः । अप्रमाणपक्षवद्गौणपक्षोऽपि मुख्यसिद्धान्तिनः पूर्वपक्ष एवेति ज्ञापनार्थमथवेत्युक्तम् । मुख्यसिद्धान्त्याह - अत इति । तथाशब्दमाक्षिपति - कथमिति । आनुलोम्यमाञ्जस्यमित्यर्थः । साम्यं स्फुटयति - यथादृष्टस्येति । दूषणवत्प्राणा इत्यनन्वितम् । यद्यप्यदृष्टवत्प्राणा अप्यनियता इति सूत्रमन्वेति तथापि पुनरुक्तम् । जीववत्प्राणा नोत्पद्यन्त इति सूत्रार्थश्चेदपसिद्धान्त इत्याक्षेपार्थः । समाधत्ते - न । उदाहरणेति । दृष्टान्तो दार्ष्टान्तिकसन्निहितो वाच्य इत्यङ्गीकृत्यैकवाक्यस्थत्वेन सान्निध्यमुक्तम् । सम्प्रति नायं नियमः । जैमिनिना भगवता व्यवहितदृष्टान्तस्याश्रितत्वादित्याह - अथवेति । अस्ति तृतीयाध्यायेऽश्वप्रतिग्रहेष्ट्यधिकरणम् , तस्येदं विषयवाक्यम् , 'यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेत्' इत्येतदुत्तराधिकरणे किमियं वारुणीष्टिर्दातुरुत प्रतिग्रहीतुरिति विशये 'प्रतिगृह्णीयात्' इति श्रुतेः प्रतिग्रहीतुरित्याशङ्क्य 'प्रजापतिर्वरुणायाश्वमनयत्' इत्युपक्रमे दातृकीर्तनाल्लिङ्गादश्वदातुरेवेति स्थास्यति, अतः प्रतिगृह्णीयादित्यस्य पदस्याश्वान् यः प्रतिग्राहयेदित्यर्थः दद्यादिति यावत् । 'योऽश्वदाता स वारुणीमिष्टिं कुर्यात्' इति वाक्यार्थे स्थिते चिन्ता - अश्वदाननिमित्तेयमिष्टिः किं लौकिकेऽश्वदाने वैदिके वेति । तत्र 'न केसरिणो ददाति ' इति निषिद्धलौकिकाश्वदाने दोषसम्भवात्तन्निरासार्थेयमिष्टिरिति दोषात्त्विष्टिर्लौकिके स्यादिति सूत्रेण प्राप्ते सिद्धान्तः 'अत्र हि वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति' इति दातुर्दोषं सङ्कीर्त्येष्टिर्विहिता । वरुणशब्दो जलोदराख्यरोगे रूढः । न च लौकिकेऽश्वदानेऽयं रोगो भवति इति प्रसिद्धम् । न चानेनैव वाक्येन प्रसिद्धिः । दाने दोषस्तन्निरासार्था चेष्टिरितिवदतोऽर्थभेदे वाक्यभेदात् । न च वृणोतीति व्युत्पत्त्या वरुणशब्दो निषेधातिक्रमकृतदोषानुवादक इति युक्तम् , रूढित्यागापातात् । तत्त्यागे च वैदिकेऽपि दानेऽश्वत्यागजन्यदुःखं प्राप्तमुक्तव्युत्पत्त्या शक्नोत्यनुवदितुम् , तस्मात्प्राप्तानुवाद्यर्थवादोऽयमिति यज्ञसम्बन्धिन्यश्वदाने इयमिष्टिरित्येवं विचार्योक्तम् - पानव्यापच्च तद्वदिति ।
सोमपाने क्रियमाणे व्यापद्वमनं यदि स्यात्तदा 'एतं सौमेन्द्रं श्यामाकं चरुं निर्वपेत्' इति श्रूयते । तत्राश्वप्रतिग्रहेष्ट्यधिकरणपूर्वपक्षन्यायो बहुसूत्रव्यवहितस्तद्वदिति परामृश्यते, तद्वल्लौकिके धातुसाम्यार्थं पीतसोमस्य वमनेऽयं चरुः स्याद्वमननिमित्तेन्द्रियशोषाख्यदोषस्य दृष्टस्य' इन्द्रियेण वीर्येण व्यृध्यते यः सोमं वमति' इत्यनुवादादिति पूर्वपक्षसूत्रार्थः । वैदिके तु सोमपाने शेषप्रतिपत्तेर्जातत्वाद्वमनेऽपि न दोष इति सिद्धान्तः । लोके वमनकृतेन्द्रियशोषस्य धातुसाम्यकरत्वेन गुणत्वान्न दोषता । वेदे तु 'मा मे वाङ्नाभिमतिगाः' इति सम्यग्जरणार्थमन्त्रलिङ्गाद्वमने कर्मवैगुण्यात्तस्य दोषता । तस्माद्वैदिकसोमवमने सौमेन्द्रश्चरुरिति स्थितमित्येवमादिषु सूत्रेष्वित्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 ननु प्रतिज्ञापि गौणी कं न स्यादित्यत आह - तथा च प्रतिज्ञातार्थमिति । उपक्रमोपसंहाराभ्यां प्रतिपिपादयिषिताद्वितीयत्वप्रतिज्ञानुरोधेन प्राणोत्पत्तिर्मुख्यैवेति भावः । मुण्डकवच्छ्रुत्यन्तरेऽपि प्रतिज्ञादर्शनात्सा मुख्येत्याह - तथेति । एषा प्रतिज्ञा प्राणोत्पत्तिमुख्यत्वे हेतुत्वेन द्रष्टव्येत्यर्थः । इदानीं प्रलये प्राणसत्वश्रुतेर्गतिं प्रश्नपूर्वकमाह - कथमित्यादिना । नेदं वाक्यं महाप्रलये परमकारणस्य ब्रह्मणः प्राणवत्त्वपरं किन्त्ववान्तरप्रलये हिरण्यगर्भाख्यावान्तरप्रकृतिरूपप्राणसद्भावपरमित्यर्थः । ननु हिरण्यगर्भरूपविकारस्य सत्त्वे कथं तदा विकारासत्त्वकथनम् , तत्राह - स्वविकारेति । स्वस्य कार्यब्रह्मणो यत्कार्यं स्थूलं तस्योत्पत्तिरित्यर्थः । ननु यथाश्रुति महाप्रलये प्राणसद्भावरूपं लिङ्गं प्राणानुत्पत्तिसाधकं किमित्यवान्तरप्रलयपरतया नीयत इति चेत् 'एतस्माज्जायते प्राणः' इत्यादि प्रबलजन्मश्रुतिबलादिति वदामः । ननु विकारस्य ब्रह्मणः कथं प्रकृतित्वमित्यत आह - व्याकृतेति । 'हिरण्यगर्भः समवर्तताग्रे' इत्यादिश्रुतौ 'आदिकर्ता स भूतानां' इत्यादि स्मृतौ च विकारात्मनामपि मूलकारणावस्थारूपाणां ब्रह्मविराडादीनां प्रकृतिविकारभावेन प्रसिद्धिरस्ति । पूर्वापेक्षया विकारस्याप्युत्तरापेक्षया प्रकृतित्वमित्यर्थः । केचिद्वियदधिकरणानुरोधेनेदं सूत्रं व्याचक्षते तान्दूषयति -
वियदिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 तस्य जायत इति पदस्याकाशादिषु मुख्यस्य पाठापेक्षया प्राचीनेषु प्राणेषु श्रुतेर्मुख्यं जन्मेति सूत्रयोजना - तत्सामान्यादिति । तेनाकाशादिजन्मना सामान्यमेकशब्दोक्तत्वं तस्मादित्यर्थः । एकस्मिन्वाक्ये एकस्य शब्दस्य क्वचिन्मुख्यत्वं क्वचिद्गौणत्वमिति वैरूप्यं न युक्तमिति न्यायमन्यत्राप्यतिदिशति -
यत्रापि पश्चाच्छ्रुत इति ॥३॥ 【भाष्यम्】 【भाष्यम्】 यच्चोक्तं छान्दोग्येऽपि प्राणानामुत्पत्तिर्न श्रूयत इति, तत्राह - तत्पूर्वकत्वाद्वाच इति ।
अत्र सूत्रे वाक्पदं प्राणमनसोरुपलक्षणम् । वाक्प्राणमनसां तेजोबन्नपूर्वकत्वोक्तेरश्रवणमसिद्धमिति योजना । तैर्वागादिभिश्चक्षुरादीनां सामान्यं करणत्वं तत्सामान्यादित्यर्थः । अत्र मयड्विकारे मुख्य इति पक्षे वर्तत एव प्राणानां ब्रह्मकार्यत्वं तेजोबन्नानां ब्रह्मविकारत्वात् । यदि प्राणस्य वायोर्जलविकारत्वायोगात्तदधीनस्थितिकत्वमात्रेण भाक्तस्तथापि प्राणानां विकारत्वे भूताधीनस्थितिकत्वं लिङ्गं मयटोक्तमिति सिद्धं ब्रह्मकार्यत्वं 'स प्राणमसृजत' इत्यादिश्रुत्यन्तरे स्पष्टं ब्रह्मकार्यत्वोक्तेश्च । तस्मात्प्राणानामुत्पत्तिश्रुतीनां सद्भावश्रुत्यविरोधात्कारणे ब्रह्मणि समन्वय इति सिद्धम् । लिङ्गशरीरविचारात्मकाधिकरणानां लिङ्गात्त्वम्पदार्थभेदधीः फलमिति द्रष्टव्यम् ॥४॥ 【भाष्यम्】 【भाष्यम्】 एवं जन्मलब्धसत्ताकानां प्राणानामुपजीव्योपजीवकत्वसङ्गत्या सङ्ख्यां निर्णेतुं श्रुतीनां विरोधात्संशये पूर्वपक्षयति - सप्तगतेर्विशेषितत्वाच्च । विशयः संशयः । इन्द्रियाण्यत्र विषयः । पञ्च धीन्द्रियाणि वाङ्मनश्चेति सप्त प्राणा एत एव हस्तेन सहाष्टौ । ग्रहत्वं बन्धकत्वम् । गृह्णन्ति बध्नन्तीति ग्रहा इन्द्रियाणि तेषां बन्धकत्वं विषयाधीनमित्यतिग्रहाः ग्रहानतिक्रान्ता विषया इत्यर्थः । द्वे श्रोत्रे द्वे चक्षुषि द्वे घ्राणे वाक्चेति सप्त शीर्ष्णि भवाः प्राणा द्वाववाञ्चौ पायूपस्थौ चेति नव, ज्ञानकर्मेन्द्रियाणि दशेमे पुरुषे देहे प्राणाः आत्मा मन एकादश प्राणा इति सिद्धान्तकोटिरुक्ता । एत एव हृदयाख्यया बुद्ध्या सहद्वादश । अहङ्कारेण सह त्रयोदश । श्रुतितः सप्तत्वावगतेर्ये शीर्षण्याः सप्त ते प्राणा इति शीर्षण्योद्देशेन प्राणत्वविशेषणाद्वा शीर्षण्यानां प्राणत्वशब्दिता, इन्द्रियत्वपरिसङ्ख्यया सप्तैव प्राणा इति सूत्रयोजना । सप्तत्वं वीप्साविरुद्धमिति शङ्कते - नन्विति । गुहायां हृदये शेरत इति गुहाशयाः । स्वस्थानेषु निहिता निक्षिप्ता इत्यर्थः । चित्तेन चतुर्दशत्वं मन्तव्यम् । पूर्वपक्षी परिहरति -
नैष दोष इति ॥५॥ 【भाष्यम्】 【भाष्यम्】 सम्बन्धमेवाह - हस्ताभ्यामिति । अतोऽधिकसङ्ख्याया न्यूनायामन्तर्भावायोगात्सप्तैव प्राणाः स्युर्लाघवानुरोधादित्येवं न मन्तव्यमित्यन्वयः । तर्हि कतीन्द्रियाणीत्याकाङ्क्षयामाह - उत्तरेति । 'श्रुतीनां मिथो विरोधे सति मानान्तरानुगृहीता श्रुतिर्बलीयसी' इति न्यायेन कार्यलिङ्गानुमानानुगृहीतैकादशप्राणश्रुत्यनुसारेणान्याः श्रुतयो नेया इत्यभिसन्धायाह - सत्यमिति । एकादशकार्यलिङ्गान्याह - शब्देति । त्रयः कालास्त्रैकाल्यं तद्विषया वृत्तिर्यस्य तत्रैकाल्यवृत्ति । इन्द्रियान्तराणां वर्तमानमात्राग्राहित्वादतीतादिज्ञानाय मनोऽङ्गीकार्यमित्यर्थः । विशेषितत्वादित्युक्तं निरस्यति - अपि च सप्तेति । न च तावतामिति । आदानादीनां श्रोत्रादिभ्योऽत्यन्तवैजात्यादित्यर्थः । तेषां तद्वृत्तित्वे बधिरादीनामादानादि न स्यादिति भावः । कथं तर्हि छिद्रे प्राणशब्द इत्याशङ्क्य लक्षणयेत्याह - मुख्यस्य त्विति । 'सप्त प्राणाः प्रभवन्ति' इत्युपासनार्थम् । 'अष्टौ ग्रहा' इति श्रुतिस्तूपलक्षणार्था । पायूपस्थपादानामपि बन्धकत्वाविशेषादिति विवेक्तव्यम् । नन्विदं सूत्रव्याख्यानमसङ्गतं पञ्चधीन्द्रियवाङ्मनसां सप्तत्वावगतिः शीर्षण्यानां चतुर्णां विशेषितत्वमिति हेतोर्वैयधिकरण्यादुक्तपरिसङ्ख्यादोषाच्चेत्यरुचेराह - इयमपरेति । इन्द्रियाणि कतीति सन्देहे पूर्वपक्षसूत्रं योजयति - सप्तेति । तं जीवात्मानं ये प्राणाः सह गच्छन्ति तेषामेव भोगहेतुत्वादिन्द्रियत्वमित्यर्थः । विपन्नावस्थायामेष चाक्षुषश्चक्षुषि स्थितोऽनुग्राहकसूर्यांशरूपः पुरुषः पराङ्पर्यावर्तते बहिर्देशात्स्वांशिनं सुर्यं प्रतिगच्छति । अथ तदानीमयं मुमूर्षुररूपज्ञो भवति । देवांशे देवं प्रविष्टे लिङ्गांशश्चक्षुर्हृदये मनसैकीभवति तदायं न पश्यतीति पार्श्वस्था आहुरित्यर्थः । आदिपदात् 'न जिघ्रति न वदति न रमयते न शृणोति न मनुते न स्पृशति न विजानाति' इति गृह्यते । सप्तानामेव जीवेन सह गतिरित्यसिद्धम् , ग्रहत्वश्रुत्या हस्तादीनामपि गतिप्रतीतेरिति सिद्धान्तयति - एवमित्यादिना । हस्तादिबन्धस्य प्राङ्मोक्षात्सहगतौ स्मृतिमाह - पुर्यष्टकेनेति । प्राणादिपञ्चकं भूतसूक्ष्मपञ्चकं ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकमन्तःकरणचतुष्टयमविद्या कामः कर्म चेति पुर्यष्टकमात्मनो ज्ञापकत्वाल्लिङ्गं सति सम्भवे सर्वश्रुतिसङ्कोचो न युक्त इत्याह - सर्वशब्दोऽपीति ।
तस्मात्सङ्ख्याश्रुतीनामविरोधादेकादशेन्द्रियकारणे ब्रह्मणि समन्वय इति सिद्धम् ॥६॥ 【भाष्यम्】 【भाष्यम्】 सिद्धान्तिनाप्येकादशसु मनोवृत्तिभेदान्निश्चयात्मिका बुद्धिः, गर्वात्मकोऽहङ्कारः, स्मरणात्मकं चित्तमिति द्वादशादिसङ्ख्यान्तर्भावनीया । ततो वरं प्राथमिकसप्तत्वेऽन्तर्भावः लाघवादिति प्राप्ते सिद्धान्तयति - अत्रेति । आदानेन कर्मणा गृहीतः सम्बद्धः । अणवश्च । 'प्राणाः सर्वेऽनन्ताः' इति श्रुतेरिन्द्रियाणां विभुत्वात्तेषामुत्क्रान्तिरसिद्धा किन्तु तत्तद्देहे तेषामभिव्यक्तिरूपाः प्रादेशिक्यो वृत्तयः सन्ति न तासामुत्क्रान्त्यादिरिति साङ्ख्यानामाक्षेपः, तत्सङ्गत्या प्राणाः किम्परिमाणा इति सन्देहे सिद्धान्तयति - अधुनेत्यादिना । उत्पत्तिसङ्ख्यानिर्णयानन्तरं परिमाणं निरूप्यत इत्यर्थः । अनुद्भूतरूपस्पर्शत्वं सूक्ष्मत्वम् । परिच्छेदोऽल्पत्वम् । बुद्ध्यादीनां विभुत्वे तदुपाधिकमात्मनोऽणुत्वादिकं न सिद्ध्येदित्युक्तन्यायविरोधमाह - तद्गुणसारत्वमिति । उक्ताक्षेपमनूद्य निरस्यति - सर्वगतानामिति ।
आनन्त्यश्रुतेरुपासनार्थत्वान्नोत्क्रान्त्यादिश्रुतीनां तया विरोध इति सिद्धम् ॥७॥ 【भाष्यम्】 【भाष्यम्】 श्रेष्ठश्च । अतिदेशत्वान्न सङ्गत्याद्यपेक्षा । 'तथा प्राणाः' इत्युक्तन्यायोऽत्रातिदिश्यते । ननु प्राणो जायते न वेति संशयाभावादतिदेशो न युक्त इत्याक्षिपति - किमर्थ इति । निश्चितमहाप्रलये प्राणसद्भावश्रुत्याधिकां शङ्कामाह - नासदासीये हीति । 'नासदासीत्' इत्यारभ्याधीत इत्यर्थः । तर्हि तदा प्रलयकाले मृत्युर्मारको मृत्युमत्कार्यं वा नासीत् , अमृतं च देवभोग्यं नासीत् , रात्र्याः प्रकेतश्चिह्नरूपश्चन्द्रः अह्नः प्रकेतः सूर्यश्च नास्ताम् , स्वधया सहेत्यन्वयः । पितृभ्यो देयमन्नं स्वधा । यद्वा स्वेन धृता माया स्वधा तया सह तदेकं ब्रह्मानीदासीदिति परमार्थः । अत्रानीदिति तच्चेष्टां कृतवदिति पूर्वपक्षार्थः । तस्माद्ब्रह्मणः परः परमुत्कृष्टमन्यच्च किमपि न बभूवेत्यर्थः । परिहारः सुबोधः । ननु श्रेष्ठशब्दस्य प्राणे प्रसिद्ध्यभावात्कथं सूत्रमिति, तत्राह - श्रेष्ठ इति चेति । श्रुतिं व्याचष्टे - ज्येष्ठश्च प्राण इत्यादिना ।
पूयेत पूयं भवेत् । न सम्भवेत्तद्गर्भो न भवेदित्यर्थः । वागादिजीवनहेतुत्वं प्राणस्य गुणः । एवमानीच्छ्रुत्यविरोधात्प्राणोत्पत्तिश्रुतीनां ब्रह्मणि समन्वय इति सिद्धम् ॥८॥ 【भाष्यम्】 【भाष्यम्】 इन्द्रियाणि विचार्य तद्व्यापारात्प्राणं पृथक्कर्तुमुत्पत्तिरतिदिष्टा । सम्प्रत्युत्पन्नप्राणस्वरूपं पृथक्करोति - न वायुक्रिये पृथगुपदेशात् । मुख्यः प्राणः किं वायुमात्रमुत करणानां साधारणव्यापार आहोस्वित्तत्त्वान्तरमिति वायुप्राणयोर्भेदाभेदश्रुतीनां मिथोविरोधात्संशये पूर्वपक्षमाह - तत्रेति । द्वितीयं साङ्ख्यपूर्वपक्षमाह - अथवेति । सिद्धान्तत्वेन सूत्रमादत्ते - अत्रोच्यत इति । मनोरूपब्रह्मणो वाक्प्राणचक्षुःश्रोत्रैश्चतुष्पात्त्वं श्रुतावुक्तम् , तत्र प्राणो वायुनाधिदैविकेन भात्यभिव्यञ्ज्यते अभिव्यक्तः संस्तपति । कार्यक्षमो भवतीत्यर्थः । श्रुतिषु तत्र तत्र प्राणस्य वागादीनां च मिथः संवादलिङ्गेन पृथगुत्पत्तिलिङ्गेन चेन्द्रियतदभिन्नव्यापारेभ्योऽपि भिन्नत्वमित्याह - तथेति । प्राणस्येन्द्रियवृत्तित्वं श्रुत्या निरस्य युक्त्यापि निरस्यति - न च समस्तानामिति । या चक्षुःसाध्या वृत्तिः सैव न श्रोत्रादिसाध्या, करणानां प्रत्येकमेकैकरूपग्रहादिवृत्तावैव हेतुत्वात् । न च समुदायस्य वृत्तिः सम्भवति तस्यासत्त्वादित्यर्थः । प्राणाभावादिति । श्रोत्रादीनामेकप्राणनाख्यवृत्त्यनुकूलपरिस्पन्देषु मानाभावात् , श्रवणादीनामपरिस्पन्दत्वेन विजातीयानाम् , परिस्पन्दरूपप्राणनाननुकूलत्वादवान्तरव्यापाराभावान्न समस्तकरणवृत्तिः प्राण इत्यर्थः । किञ्च प्राणस्य वृत्तित्वे वागादीनामेव प्राधान्यं वाच्यम् , नैतदस्तीत्याह - तथा प्राणस्येति । यथा मृदो घटो न वस्त्वन्तरं नापि मृण्मात्रं तद्विकारत्वात् , तथा वायोर्विकारः प्राण इत्यभेदश्रुतेर्गतिमाह - उच्यत इति ।
देहं प्राप्तः पञ्चावस्थो विकारात्मना स्थितो वायुरेव प्राण इत्यर्थः ॥९॥ 【भाष्यम्】 【भाष्यम्】 प्राणो न भोक्ता, भोगोपकरणत्वात् , चक्षुरादिवदिति सूत्रार्थमाह - तुशब्द इत्यादिना ।
यथा बृहद्रथन्तरयोः सर्वत्र सहप्रयुज्यमानत्वेन सामत्वेन वा साम्यात्सहपाठस्तथा करणैः सहोपकरणत्वेन साम्यात्प्राणस्य पाठ इति न हेत्वसिद्धिरित्यर्थः । किञ्च प्राणो न भोक्ता, सावयवत्वात् , जडत्वाद्भौतिकत्वाच्च, देहवत् ॥१०॥ 【भाष्यम्】 【भाष्यम्】 प्राणस्य करणवृत्तित्वाभावे जीववद्भोक्तृत्वं स्यादिति शङ्कते - स्यादेतदिति । उक्तव्याप्तेः शरीरे व्यभिचाराद्देहेन्द्रियधारणोत्क्रान्त्याद्यसाधारणकार्यसत्वाच्च निर्विषयस्यापि प्राणस्य शरीरवद्भोगोपकरणत्वमक्षतं न तु चक्षुरादिवज्ज्ञानकर्मकरणत्वमस्ति येन सविषयत्वं स्यादिति परिहरति - न तावदित्यादिना । अहंश्रेयसि स्वस्य श्रेष्ठतानिमित्तम् । व्यूदिरे विवादं चक्रिरे । तद्वृत्तिमात्रहीनमिति ।
मूकादिभावेन स्थितमित्यर्थः । अवरं नीचम् , कुलायं देहाख्यं गृहम् , प्राणेन रक्षञ्जीवः स्वपितीत्यर्थः । तदैव तदानीमेव । तेन प्राणेन यदश्नाति जीवस्तेन प्राणकृताशनेनेति यावत् । एवं श्रुतेः प्राणस्यासाधारणं कार्यमस्तीत्युक्तम् ॥११॥ 【भाष्यम्】 【भाष्यम्】 ननु यद्भोगोपकरणं तत्सविषयं दृष्टं यथा चक्षुरादिकम् , प्राणस्य तु निर्विषयत्वादसाधारणकार्याभावाच्च नोपकरणत्वमिति शङ्कते - स्यादेतदिति । तत्रैव हेत्वन्तरार्थं सूत्रं व्याचष्टे - इतश्चेत्यादिना । वृत्तिरवस्था । अग्निमन्थनादिकं वीर्यवत्कर्म । कामादिवृत्तिवज्ज्ञानेऽपि पञ्चत्वनियमो नास्तीत्यरुचिं स्वयमेवोद्भाव्य पक्षान्तरं गृह्णाति - नन्वत्रापीत्यादिना । प्रमाणं प्रमितिः विपर्ययो भ्रमः । शशविषाणादिज्ञानं विकल्पः । तामसी वृत्तिर्निद्रा । स्मृतिः प्रसिद्धा । भ्रमनिद्रयोरविद्यावृत्तित्वान्न मनोवृत्तित्वमित्यरुच्या स्वमतमाह - बह्विति । सूत्रस्यार्थान्तरमाह - जीवेति ।
तदेवं प्राणवायोर्भेदाभेदश्रुत्योरविरोध इति सिद्धम् ॥१२॥ 【भाष्यम्】 【भाष्यम्】 एवं मुख्यप्राणस्योत्पत्तिं स्वरूपं चोक्त्वा परिमाणसन्देहेऽणुत्वमुपदिशति - अणुश्चेति । अधिकाशङ्कामाह - ननु विभुत्वमपीति । प्लुषिर्मशकादपि सूक्ष्मो जन्तुः पुत्तिकेत्युच्यते । नागो हस्ती । प्राण उत्क्रामतीति श्रुत्याल्पत्वं प्राणस्य भाति, समोऽनेन सर्वेणेति, श्रुत्या विभुत्वमिति विरोधे आध्यात्मिकप्राणस्याल्पत्वमाधिदैविकस्य विभुत्वमिति विषयभेदाच्छ्रुत्योरविरोध इति समाधत्ते - तदुच्यत इति । किञ्चोपक्रमे प्राणस्य प्लुष्यादिसमत्वेनाल्पत्वोक्तेः सम एभिस्त्रिभिर्लोकैरिति विराड्देहसाम्यम् । समोऽनेनेति सूत्रात्मत्वमिति विषयव्यवस्था सुस्थेत्याह - अपि चेति ।
अणवश्चेत्यत्र सर्वेऽनन्ता इति इन्द्रियानन्त्यमुपासनार्थमिति समाहितम् , अत्र तु प्राणविभुत्वमाधिदैविकमिति समाधानान्तरोक्तेरपौनरुक्त्यम् । अन्ये तु प्रसङ्गात्तत्र साङ्ख्याक्षेपो निरस्तः, अत्र तु श्रुतिविरोधो निरस्त इत्यपौनरुक्त्यमाहुः ॥१३॥ 【भाष्यम्】 【भाष्यम्】 पूर्वं प्राणस्याध्यात्मिकाधिदैविकविभागेनाप्यणुत्वविभुत्वव्यवस्थोक्ता तत्प्रसङ्गेनाध्यात्मिकानां प्राणानामाधिदैविकाधीनत्वमाह - ज्योतिराद्यधिष्ठानं तु तदामननात् । 'वाचा हि नामान्यभिवदति चक्षुषा रूपाणि पश्यति' इति तृतीयाश्रुत्यान्वयव्यतिरेकवत्या वागादीनां निरपेक्षसाधनत्वोक्तिविरोधात् 'अग्निर्वाग्भूत्वा' इत्यादिश्रुतिस्तेषामचेतनाग्न्याद्युपादानकत्वपरा न तु तेषामधिष्ठातृदेवतापरा । न च स्वकार्ये शक्तानामपि वागादीनामचेतनत्वादधिष्ठात्रपेक्षा न विरुध्यत इति वाच्यम् , जीवस्याधिष्ठातृत्वात् । किञ्च देवतानामधिष्ठातृत्वे जीववद्भोक्तृत्वमस्मिन् देहे स्यात् , तथा चैकत्रानेकभोक्तृणां विरोधाद्दुर्बलस्य जीवस्य भोक्तृत्वं न स्यादिति पूर्वपक्षार्थः । सिद्धान्तयति - एवं प्राप्त इत्यादिना । अग्निर्वाग्भूत्वादित्यश्चक्षुर्भूत्वेति च तद्भावोऽत्राग्न्यादिदेवताधिष्ठेयत्वरूप एव सम्बन्धो न तदुपादानकत्वरूपो दूरस्थादित्यमण्डलादेर्मुखस्थचक्षुराद्युपादानत्वासम्भवादित्याह - अग्नेश्चायमिति । वायुः प्राणाधिष्ठाता भूत्वा नासापुटे प्राविशदिति व्याख्येयमित्याह - तथेति । भाति दीप्यते, तपति स्वकार्यं करोतीत्यर्थः । एतस्मिन्नधिष्ठात्रधिष्ठेयत्वरूपार्थे लिङ्गान्तरमाह - स वै वाचमिति । स प्राणो वाचं प्रथमामुद्गीथकर्मणि प्रधानामनृतादिपाप्मरूपं मृत्युमतीत्यावहन्मृत्युना मुक्तां कृत्वा अग्निदेवतात्मत्वं प्रापितवानित्यर्थः । किञ्च मृतस्याग्निं वागप्येति वातं प्राणः चक्षुरादित्यमित्यादिश्रुतिरप्यधिष्ठात्रधिष्ठेयत्वसम्बन्धं द्योतयतीत्याह - सर्वत्रेति । ननु शकटादीनां बलीवर्दादिप्रेरितानां प्रवृत्तिर्दृष्टा, क्षीरादीनां त्वनधिष्ठितानामपि दध्यादिप्रवृत्तिर्दृश्यते, तथा चोभयथासम्भवे कथं निश्चयः, तत्राह - उभयथोपपत्तौ चेति । शारीरेणैवेति । भोक्त्रेति शेषः । सम्बन्धो भोक्तृभोग्यभावः । अथ देहे प्राणप्रवेशानन्तरं यत्र गोलके एतच्छिद्रमनुप्रविष्टं चक्षुरिन्द्रियं तत्र चक्षुष्यभिमानी स आत्मा चाक्षुषः तस्य रूपदर्शनाय चक्षुः । यद्यप्यात्मा करणान्यपेक्षते तथापि ज्ञेयज्ञानतदाश्रयाहङ्कारान्यो वेद स आत्मा चिद्रूप एव, करणानि तु गन्धादिप्रवृत्तयेऽपेक्ष्यन्ते न चैतन्यायेति श्रुत्यर्थः । किञ्च योऽहं रूपमद्राक्षं स एवाहं शृणोमीति प्रतिसन्धानादेकः शारीर एव भोक्ता न बहवो देवा इत्याह -
अपि चेति ॥१५॥ 【भाष्यम्】 【भाष्यम्】 उक्तदोषान्तरनिरासाय सूत्रमवतारयति -
यदपीति ॥१४॥ 【भाष्यम्】 【भाष्यम्】 कदाचिद्देवानामत्र भोक्तृत्वं कदाचिज्जीवस्येत्यनियमोऽस्त्वित्याशङ्क्य स्वकर्मार्जिते देहे जीवस्य भोक्तृत्वनियमान्मैवमित्याह - सूत्रकारः - तस्य चेति । उत्क्रमाणादिषु जीवस्य प्राणाव्यभिचारात्तस्यैव प्राणस्वामित्वम् , देवतानां तु परस्वामिकरथसारथिवदधिष्ठातृत्वमात्रमिति व्याख्यान्तरमाह - शारीरेणैव च नित्य इति ।
यथा प्रदीपादिः करणोपकारकतया करणपक्षस्यान्तर्गतस्तथा देवाः करणोपकारिण एव न भोक्तार इत्यर्थः । जीवस्यादृष्टद्वारा करणाधिष्ठातृत्वाद्रथस्वामिवद्भोक्तृत्वम् , देवानां तु करणोपकाराभिज्ञतया सारथिवदधिष्ठातृत्वमिति न जीवेनान्यथासिद्धिः । देवानामधिष्ठातृत्वेनास्मिन्देहे भोक्तृत्वानुमानं तु 'न ह वै देवान् पापं गच्छति' इत्युक्तश्रुतिबाधितम् । तस्मात् 'चक्षुषा हि रूपाणि पश्यति' इति श्रुतेः साधनत्वमात्रबोधित्वादग्निर्वाग्भूत्वेत्याद्यधिष्ठातृदेवतापेक्षाबोधकश्रुतिभिरविरोध इति सिद्धम् ॥१६॥ 【भाष्यम्】 【भाष्यम्】 सत्स्विन्द्रियेषु तदधिष्ठातृदेवताचिन्ता, तान्येव प्राणवृत्तिव्यतिरेकेण न सन्तीत्याक्षेपं प्रत्याह - त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् । प्राणादिन्द्रियाणां भेदाभेदश्रुतिभ्यां संशयं वदन् पूर्वपक्षयति - मुख्यश्चेत्यादिना । हन्त इदानीमस्यैव मुख्यप्राणस्य सर्वे वयं स्वरूपं भवामेति सङ्कल्प्य ते वागादयस्तथाभवन्नित्यभेदश्रुत्यर्थः । ते प्राणादभिन्नाः, प्राणपदवाच्यत्वात् , प्राणवदित्याह - प्राणेति । ते प्राणाः श्रेष्ठादन्यत्र अन्ये इति प्रतिज्ञार्थत्वेन पदत्रयं व्याचष्टे - तत्त्वान्तराण्येवेति । तद्व्यपदेशादित्यत्र तच्चब्दः प्रतिज्ञातान्यत्वं परामृशति । प्राणा इन्द्रियाणीत्यपर्यायशब्दाभ्यामन्यत्वोक्तेरिति हेतूपपादनार्थत्वेन पुनस्तानि सूत्रपदानि योजयति - क इत्यादिना । सूत्रस्य विश्वतोमुखत्वादुभयार्थत्वमलङ्कार एव न दूषणम् । एतेन प्रतिज्ञाध्याहारः तच्छब्दस्याप्रकृतभेदपरामर्शित्वं चेति दोषद्वयमपास्तम् । शब्दभेदाद्वस्तुभेदसाधनेऽतिप्रसङ्गं शङ्कते - नन्विति । प्राणवन्मनसोऽपि इन्द्रियेभ्यो भेदः स्यादित्यर्थः । अपर्यायसंज्ञाभेदात्स्वतन्त्रसंज्ञिवस्तुभेद इत्युत्सर्गः । स च 'मनः षष्ठानीन्द्रियाणि' इत्यादिस्मृतिबाधान्मनस्यपोद्यते, प्राणे तु बाधकाभावादुत्सर्गसिद्धिरिति समाधत्ते - सत्यमित्यादिना । मन इन्द्रियाणि चेति भेदोक्तिर्गोबलीवर्दन्यायेन नेया । सिद्धान्ते मनसः प्रमोपादानत्वादात्मवदनिन्द्रियत्वमिष्टं ततो नोत्सर्गबाध इति केचित् । किञ्च 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति पृथग्जन्मव्यपदेशात्स्वतन्त्रवस्तुभेद इत्याह - व्यपदेशभेदश्चायमिति ।
एकस्मिन् वाक्ये प्राण इन्द्रियशब्दमैक्याल्लभते पुनरुक्तिभयान्न लभते चेति व्याघात इत्यर्थः ॥१७॥ 【भाष्यम्】 【भाष्यम्】 एवं भेदेनापर्यायसंज्ञाभ्यामुक्तेः पृथग्जनोक्तेश्चेति तद्व्यपदेशादिति हेतुर्व्याख्यातः । भेदश्रुतेरिति सूत्रेण प्रकरणभेदो हेतुरुक्त इति न पौनरुक्त्यम् । ते ह देवाः शास्त्रीयेन्द्रियमनोवृत्तिरूपा असुराणां पापवृत्तिरूपाणां जयार्थमुद्गीथकर्मणि प्रथमं व्यापृतां वाचमूचुस्तन्न उद्गायासुरनाशार्थमिति तथास्त्वित्यङ्गीकृत्योद्गायन्तीं वाचमनृतादिदोषेण विध्वंसितवन्तोऽसुरा इत्येवं क्रमेण सर्वेष्विन्द्रियेषु पापग्रस्तेषु पश्चादथेति प्रकरणं विच्छिद्य प्रसिद्धमास्ये भवमासन्यं मुख्यं प्राणमूचुस्तन्न तद्गायेति तेन प्राणेनोद्गात्रा निर्विषयतया सङ्गदोषशून्येनासुरा नष्टा इत्यसुराणां विध्वंसिनो मुख्यप्राणस्योक्तेर्भेदसिद्धिरित्याह - ते हेति ।
तानि त्रीण्यन्यान्यात्मने स्वार्थं प्रजापतिः कृतवानित्यर्थः ॥१८॥ 【भाष्यम्】 【भाष्यम्】 विरुद्धधर्मवत्त्वाच्च भेद इत्याह - वैलक्षण्याच्चेति ।
मृत्युरासङ्गदोषः । वाग्दध्रे व्रतं धृतवतीत्यर्थः । बहुभिर्भेदलिङ्गैर्विरोधाद्वागादीनां प्राणरूपभवनं प्राणाधीनस्थितिकत्वरूपं व्याख्येयम् । एतदेव प्राणशब्दस्येन्द्रियेषु लक्षणाबीजं श्रुतौ 'तस्मादेत एतेनाख्यायन्त' इति परामृष्टम् , इति न भेदाभेदश्रुत्योर्विरोध इति सिद्धम् ॥१९॥ 【भाष्यम्】 【भाष्यम्】 उत्पत्तिरुत्पादनेति च कार्यकर्त्रोर्व्यापारौ प्रसिद्धौ तत्र जगदुत्पत्तिश्रुतिविरोधः अतीतेन पादद्वयेन निरस्तः, सम्प्रत्युत्पादनश्रुतिविरोधो निरस्यते । तत्रापि सूक्ष्मभूतोत्पादनं पारमेश्वरमेवेति श्रुतिष्वविप्रतिपन्नम् , स्थूलभूतोत्पादने त्वस्ति श्रुतिविप्रतिपत्तिरिति तन्निरासार्थमाह - संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् । नामरूपभेदात्करणभिन्नः प्राण इत्युक्तम् , तत्प्रसङ्गेन स्थूलनामरूपकॢप्तिः किङ्कर्तृकेति चिन्त्यत इत्यवान्तरसङ्गतिः । प्रक्रिया प्रकरणम् । ईक्षणमेवाह - हन्तेत्यादिना । हन्त इदानीं देवताः सूक्ष्मा अनुप्रविश्येति सम्बन्धः । तासां तिसृणां देवतानामेकैकां देवतां तेजोबन्नात्मना त्र्यात्मिकां करिष्यामीति श्रुतिः पञ्चीकरणोपलक्षणार्था । छान्दोग्येऽप्याकाशवाय्वोरुपसंहारस्योक्तत्वात् । एवं स्थूलीकृतेषु भूतेषु प्राणिनां व्यवहारः सेत्स्यतीति परदेवतायास्तात्पर्यम् । जीवेनेतिपदस्य व्याकरवाणीत्यनेन सम्बन्धसम्भवासम्भवाभ्यां संशयमाह - तत्रेति । पूर्वपक्षे जीवस्यैव भौतिकस्रष्टृत्वाद्ब्रह्मणः सर्वस्रष्टृत्वासिद्धिः सिद्धान्ते तत्सिद्धिरिति फलम् । जीवेनेत्यस्य व्याकरवाणीतिप्रधानक्रियापदेन सम्बन्ध इति पूर्वपक्षमाह - तत्र प्राप्तमिति । परदेवताया अकर्तृत्वे कथमुत्तमपुरुषप्रयोग इत्याशङ्क्य प्रयोजकत्वात्कर्तृत्वोपचार इत्याह - यथा लोक इति । सिद्धान्तयति - तुशब्देनेत्यादिना । प्रत्याकृति । प्रतिजातीत्यर्थः । अनेन स्थूलसर्वसर्गे जीवस्यासामर्थ्यं द्योतितम् । तथा च पदान्वयस्य पदार्थयोग्यताधीनत्वाज्जीवरूपेण प्रविश्याहमेव व्याकरवाणीत्यन्वयः । न तु जीवेन व्याकरवाणीति । ननु तर्हि प्रवेशक्रिया जीवकर्तृका व्याकरणमीश्वरकर्तृकमिति कर्तृभेदात्क्त्वाप्रत्ययो न स्यादित्यत आह - न च जीवो नामेति । वस्तुतस्तु सूर्यो जले प्रविष्ट इति प्रतिबिम्बभावाख्यप्रवेशे सूर्यस्यैव कर्तृत्वप्रयोगाज्जीवात्मना प्रवेशेऽपीश्वर एव कर्तेति क्त्वाश्रुतिर्युक्तेति बोध्यम् । नन्वभेदश्चेज्जीव एव व्याकर्ता किं न स्यादित्याशङ्क्य कल्पनया भिन्नस्य तस्याशक्तत्वाच्छ्रुतिविरोधाच्च मैवमित्याह - परमेश्वर इति । प्रत्येकं महाभूतसर्गस्य प्रागुक्तत्वादिह व्याकरणवाक्ये यत्नपूर्वकं स्थूलभौतिकसर्ग उच्यत इति पाठव्यत्ययेन सूत्रसूचितं श्रुत्यर्थमाह - त्रिवृत्करणपूर्वकमिति । ईश्वरकृतं त्र्यात्मत्वमिति क्व दृष्टमित्यत आह - तच्चेति । इदानीं नामरूपव्याकरणे क्रममाह - तत्राग्निरिति । यद्यपि 'अतः प्रभवात्' इत्यत्र वेदशब्दपूर्विकार्थसृष्टिरुक्ता तथाप्यव्यक्तात्स्मृताच्छब्दादर्थसृष्टौ सत्यां स्फुटनामसम्बन्धाभिव्यक्तिरत्रोक्तेत्यविरोधः । नन्वग्न्यादीनां तैजसानामेव श्रुतावुदाहरणाद्भूजलयोस्त्र्यात्मकत्वं न विवक्षितमित्यत आह - अनेन चेति ।
उपक्रमे तासां मध्य इति शेषः । यत्कपोतरूपादिकं कृष्णत्वादिविशेषाकारेण विज्ञातमिव भवति तद्देवतानां समुदायरूपमित्यर्थः ॥२०॥ 【भाष्यम्】 【भाष्यम्】 नन्वन्नमयं मांसादि कथं भौममित्यत आह - त्रिवृत्कृता भूमिरेवेति ।
प्राणस्य वायोरप्कार्यत्वमौपचारिकं द्रष्टव्यम् ॥२१॥ 【भाष्यम्】 【भाष्यम्】 बाह्यं त्रिवृत्करणमुक्त्वाध्यात्मिकमपरं पूर्वोक्तविलक्षणं वदन्नुत्तरसूत्रमवतारयति - तासामित्यादिना । पुरुषशरीरं प्राप्यैकैका त्रिवृद्भवति कार्यत्रयात्मना भवतीत्यर्थः । उत्तरसूत्रेणाशङ्कितं दोषं निरसितुमादौ शङ्काविषयमाध्यात्मिकत्रिवृत्करणं दर्शयतीति भाष्यार्थः । तदुत्तरत्वेन सूत्रं व्याचष्टे - तुशब्देनेति । स्वभावाधिक्यं वैशेष्यं किमर्थं कृतमित्यत आह - व्यवहारप्रसिद्ध्यर्थमिति ।
एवं स्मृतिन्यायमतान्तरश्रुतिभिरविरोधो ब्रह्मणि वेदान्ततात्पर्यस्येति सिद्धम् ॥२२॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयाध्यायस्य चतुर्थः पादः ॥४॥ 【भाष्यम्】 【भाष्यम्】 एवं विषयमुक्त्वा दोषं शङ्कते - अत्राहेति । तृतीयाध्याये प्रथमः पादः । यं हि वैराग्यसंपन्नास्तत्त्वमर्थविवेकिनः ।
लभन्ते साधनैर्दान्तास्तं सीतानायकं भजे ॥१॥ 【भाष्यम्】 【भाष्यम्】 तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् । वृत्तमनूद्य तृतीयाध्यायार्थमाह - द्वितीय इत्यादिना । अविरुद्धे वेदान्तार्थे तज्ज्ञानसाधनचिन्तावसर इत्यनयोर्हेतुहेतुमद्भावः । लिङ्गोपाधिसिद्धौ तदुपहितजीवसंसारचिन्तेति पादयोरपि तद्भावसङ्गतिः । अत्र प्रथमपादे वैराग्यम् । द्वितीये स्वप्नाद्यवस्थोक्त्या त्वंपदार्थो ब्रह्मतत्त्वं चोच्ये । तृतीये वाक्यार्थस्तदर्थमुपासनाश्च विचार्यन्ते । चतुर्थपादार्थमाह - सम्यग्दर्शनादिति । दर्शनोपायाः संन्यासादयः । मुक्तिरूपफलस्य स्वर्गवत्तारतम्यनियमाभावः एकरूपत्वमिति यावत् । प्रसङ्गागतं देहात्मदूषणम् । पञ्चसु द्युपर्जन्यपृथिवीपुरुषयोषित्स्वग्नित्वध्यानं पञ्चाग्निविद्या । यस्मात्कर्मणा गत्यागतिरूपोऽनर्थस्तस्मात्कर्मफले जुगुप्सां घृणां विरक्तिं कुर्वीतेति पञ्चाग्निविद्योपसंहारे श्रवणाद्वैराग्यार्थं प्रदर्श्यते इत्यन्वयः । शास्त्रादिसूत्रे नित्यानित्यविवेककृतं वैराग्यमुक्तम्, इह तद्दार्ढ्याय गत्यागतिक्लेशभावनाकृतं तदुच्यत इत्यपौनरुक्त्यम् । अधिकरणविषयमाह - जीव इति । अविद्या प्रसिद्धा । विद्येति पाठे उपासना ग्राह्या । कर्म धर्माधर्माख्यं, पूर्वप्रज्ञा जन्मान्तरसंस्कारः । अथ मरणकाले प्राणा हृदये जीवेनैकीभवन्तीत्यर्थः । रूपं शरीरं, पञ्चीकृतभूतभागाः उत्तरदेहपरिणामिनो भूतसूक्ष्माः । वेदान्तार्थज्ञानसाधनविचारत्वात्सर्वाधिकरणानां, श्रुतिशास्त्राध्यायसङ्गतयः वैराग्यफलकत्वादेतत्पादसङ्गतिः । पूर्वाधिकरणे व्यवहारार्थं पञ्चीकरणमुक्तं स व्यवहारोऽत्र निरूप्यत इति फलफलिभावोऽवान्तरसङ्गतिः । अत्र पूर्वपक्षे निराश्रयप्राणगत्यभावात्, न वैराग्यं, सिद्धान्ते भूताश्रयप्राणगतेर्वैराग्यमिति फलभेदः । तेजोमात्राश्चक्षुरादयः, पश्यति जिघ्रतीति वाक्यशेषात् । आपः पञ्चस्वग्निषु हुताः पञ्चम्यामाहुतौ हुतायां यथा पुरुषशब्दवाच्याः पुरुषात्मना परिणमन्ते तथा किं त्वं वेत्थेति श्वेतकेतुं प्रति राज्ञः प्रवाहणस्य प्रश्नः, तस्य चोत्तराज्ञाने तत्पितरं प्रति राजोवाच 'असौ वाव लोको गौतमाग्निस्तत्र श्रद्धाख्या आपः आहुतिः पर्जन्याग्नौ सोमरूपा इह खल्वग्निहोत्रे श्रद्धया हुता दध्यादिरूपा आपो यजमानसंलग्नाः स्वर्गं लोकं प्रप्य सोमाख्यदिव्यदेहात्मना स्थिताः कर्मान्ते द्रुताः पर्जन्ये हूयन्ते ततो वृष्टिरूपाः पृथिव्या अन्नरूपाः पुरुषे रेतोरूपाः योषिति हुताः आपः पुरुषशब्दवाच्याः पुमात्मका भवन्ति' इति निरूपणं कृतम् । नन्वेतद्देहं त्यक्त्वाद्भिः सह गतस्य पश्चाद्देहान्तरप्राप्तिरित्ययुक्तम् । यथा तृणजलायुका तृणान्तरं गृहीत्वा पूर्वतृणं त्यजति तथा जीवो देहान्तरं गृहीत्वा पूर्वदेहं त्यजतीति श्रुतिविरोधादिति शङ्कते - नन्वन्येति । इहैव कर्मायत्तभाविदेहं देवोऽहमित्यादिभावनया गृहीत्वा पूर्वदेहं त्यजतीति श्रुत्यर्थः, अतो न विरोध इति समाधत्ते - तत्रापीति । भावनाया दीर्घीभावो भाविदेहविषयत्वम् । घटाकाशवदुपहितो जीवः सूक्ष्मोपाधिगत्या लोकान्तरं गच्छतीति पञ्चाग्निश्रुत्युक्तः प्रकारस्तद्विरोधादन्याः कल्पनाः सर्वा अनादर्तव्या इत्यन्वयः । साङ्ख्यकल्पनामाह - व्यापिनामिति । सुगतकल्पनामाह - केवलस्येति । निर्विकल्पकज्ञानसन्तानरूपस्यात्मनो देहान्तरे शब्दादिसविकल्पकज्ञानाख्यवृत्तिलाभो भवतीत्यर्थः । काणादकल्पनामाह - मन इति । देहान्तरं प्रति मनोमात्रं गच्छति, इन्द्रियाणि तु नूतनान्येवारभ्यन्ते । दिगम्बरकल्पनामाह -
जीव इति ॥१॥ 【भाष्यम्】 【भाष्यम्】 ननु पाकस्वेदगन्धरूपकार्यत्रयोपलब्धेस्त्र्यात्मको देह इत्ययुक्तम् । प्राणावकाशयोरप्युपलब्ध्या देहस्य पञ्चभूतात्मत्वादित्यरुच्या व्याख्यान्तरमाह - पुनश्चेति । देहधारकत्वाद्धातवस्तैस्त्रिधातुत्वात्र्यात्मक इत्यन्वयः । देहस्य केवलाब्जत्वे वातं पित्तं च वायव्यं तैजसं न स्यातामिति भावः । पृथिवीतरभूतापेक्षयापां बाहुल्यम् । किञ्च देहनिमित्तानां कर्मणामब्बाहुल्यात्ताभिर्भूतान्तराण्युपलक्ष्यन्त इत्याह -
कर्म चेत्यादिना ॥२॥ 【भाष्यम्】 【भाष्यम्】 उत्क्रान्तौ प्राणा देहबीजपञ्चभूताश्रयाः प्राणत्वाज्जीवद्देहस्थप्राणवदित्याह -
प्राणगतेश्चेति ॥३॥ 【भाष्यम्】 【भाष्यम्】 प्राणानां गतिरसिद्धेत्याशङ्क्य निषेधति - अग्न्यादीति ।
अदर्शनादोषधिवनस्पतिगमनस्येति शेषः । लोमान्यपियन्तीत्यर्थः । प्राणानामग्न्यादिषु लयस्य मुख्यत्वे जीवस्य गतिभोगयोरयोगात्सर्वे प्राणा अनूत्क्रामन्तीति विस्पष्टश्रुतेर्लोमादिगौणलयपाठाच्च गौणत्वमित्यर्थः ॥४॥ 【भाष्यम्】 【भाष्यम्】 भूतान्तरयुक्तानामपां गतिमुक्त्वा पुरुषवचस्त्वं तासामाक्षिप्य समाधत्ते - प्रथम इति । ननु प्रथमपदं व्यर्थमुत्तराग्निष्वप्यपामश्रवणादित्याशङ्क्य सोमवृष्ट्यन्नरेतसामब्रूपत्वादुत्तरत्र तासां श्रवणमस्ति, न प्रथम इत्याह - यदि नामेति । पञ्चाग्निष्वपामाहुतित्वे सिद्धे तासां पञ्चम्यामाहुतौ पुरुषवचस्त्वं भवेन्न तत्सिद्धं प्रथमाग्नौ तासामनाहुतित्वादिति शङ्कार्थः । एवं हि श्रद्धाशब्देनापां ग्रहे सति प्रश्नोत्तरोपसंहाराणां संगानादेकार्थत्वादेकवाक्यतोपपद्यते, अग्रहे तु चतुर्ष्वग्निष्वेवापामाहुतित्वाच्चतुर्थ्यामाहुताविति वाच्यं, अतः प्रश्नोपसंहारयोः पञ्चम्यामिति श्रवणात्, प्रथमाग्नावप्याप एव ग्राह्या इति समाधानार्थः । अनपः अद्भ्योऽन्यतः । एतदेवेति । श्रद्धाशब्दस्याबर्थकत्वं दर्शयतीत्यर्थः । उपपत्तेरित्यस्यार्थान्तरमाह - श्रद्धाकार्यमिति । तस्याः श्रद्धाहुतेः सोमः संभवतीत्यादिना श्रद्धासोमादीनां पूर्वपूर्वपरिणामत्वं श्रुतं ततो द्रवपरिणामत्वात्श्रद्धाया अप्त्वं प्रत्ययात्मकमुख्यश्रद्धाया आहुतित्वायोगाच्चेत्यर्थः । श्रद्धाशब्दस्याप्सु सूक्ष्मत्वगुणेन वृत्तिमुक्त्वा लक्षणां वक्तुं श्रद्धाया अद्भिरेककर्मयोगित्वं हेतुत्वं वा संबन्धमाह - श्रद्धापूर्वकेति ।
अस्मै यजमानाय । स्नानाद्यर्थमापः श्रद्धां संनमन्ते जनयन्तीति श्रुत्यर्थः ॥५॥ 【भाष्यम्】 【भाष्यम्】 अपां गतिमुपेत्याद्भिः सह जीवानां गतिमाक्षिप्य समाधत्ते - अथापीत्यादिना । द्युलोकाग्नौ श्रद्धाहुतेः सोमो राजा संभवतीत्युक्त्वा वाक्यशेषे धूमादिमार्गेण आकाशाच्चन्द्रमसं प्राप्ता इष्ट्यादिकारिण एष सोमो राजेत्युक्ताः, अतः सोमराजाशब्दसामान्यादिष्ट्यादिकारिणां जीवानां श्रद्धाशब्दिताद्भिः सह गतिरिह श्रद्धाहुतिवाक्ये प्रतीयत इत्यर्थः । तेषां सूक्ष्माभिर्द्रव्यापूर्वरूपाभिः पञ्चीकृताभिरद्भिः संबन्धं वदन् सहगतिं विवृणोति - तेषां चाग्निहोत्रेति । निधनं मरणं तन्निमित्तकमन्त्येष्टिविधानं, असौ यजमानः, स्वर्गाय गच्छत्विति मन्त्रार्थः । हुतद्रव्यरूपाणामपां गमने श्रुत्यन्तरमाह - तथा चेति ।
अग्निहोत्रप्रकरणे जनकेन याज्ञवल्क्यं प्रति 'नत्वेवैनयोः सायंप्रातराहुत्योस्त्वमुत्क्रान्तिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनं वेत्थ' इति षट्प्रश्नाः कृतास्तेषां निर्वचनमपि राज्ञैव 'ते वा एते आहुती हुते उत्क्रामतः तेऽन्तरिक्षद्वारा दिवं गच्छतस्ते दिवमेवाहवनीयं प्रतिष्ठां कुर्वाते दिवं तर्पयतस्ते ततः पुनरावर्तेते ततः पृथिव्यां पुरुषे योषिति च हुते पुरुषरूपेणोत्तिष्ठतः' इति वाक्यशेषेण कृतम् ॥६॥ 【भाष्यम्】 【भाष्यम्】 संप्रत्युत्तरसूत्रव्यावर्त्यं शङ्कते - कथमित्यादिना । अत्र सोमाख्यचन्द्रस्यान्नत्वमुक्तं नेष्टादिकारिणामिति भ्रान्तिनिरासार्थं श्रुत्यन्तरमाह - ते चन्द्रमिति । यथा यज्ञे चमसस्थं सोममृत्विज आप्यायस्वेति क्रियावृत्तौ लोट्पुनः पुनराप्याय्य पुनः पुनरपक्षय्य भक्षयन्ति । एवमेनानिष्टादिकारिणोऽन्नरूपान् भक्षयन्ति देवा इत्यर्थः । अधिक्रियते पुरुषो विधिना संबध्यतेऽनेनेत्यधिकारः फलकामना । शास्त्रानर्थक्यवारणाय अन्नत्वं गोणमिति भावः । केन दोषेण तेषां देवभोग्यतेत्यत आह - अनात्मवित्त्वाच्चेति । यथा पशुर्भोग्य एवमज्ञः स भेदधीमान् देवानां भोग्य इत्यर्थः । आत्मशब्दस्य मुख्यत्वबलेन सूत्रांशं व्याख्याय प्रकृतपञ्चाग्नयः सूत्रकृतात्मत्वेनोपचरिता इति व्याख्यान्तरमाह - अनात्मेत्यादिना । विद्यास्तुत्यर्थमन्नत्वं न मुख्यमित्यत्र श्रुत्यन्तरार्थं सूत्रशेषं व्याचष्टे - तथाहीति ।
एवं गतिपर्यालोचनया वैराग्यमिति सिद्धम् ॥७॥ 【भाष्यम्】 【भाष्यम्】 इदानीं गत्यन्तरभाविनीमागतिं निरूपयति - कृतात्यय इति । भोक्तव्यकर्मसमाप्त्यानन्तर्यमथशब्दार्थः । यथेतमित्यारभ्य श्वादियोनिमित्यन्तं वाक्यं यावत्तावदाम्नायत इति योजना । अत्र यावत्संपातमिति विशेषणाद्रमणीयचरणा इति वाक्याच्च संशयमाह - तत्रेति । अनुशयः कर्म, अत्र पूर्वपक्षे कर्माभावेनागतेरनियमाद्वैराग्यादार्ढ्यं, सिद्धान्ते कर्मसत्त्वेनागतिनियमाद्वैराग्यदार्ढ्यमिति भेदः । तेषामिष्टादिकारिणां यदा तत्कर्म पर्यवैति विपरिक्षीणं भवति तदा पुनरावर्तन्त इति श्रुत्यन्तरेणापि कृत्स्नकर्मणश्चन्द्रलोके भुक्तत्वमुच्यत इत्यर्थः । यावत्पदसङ्कोचो न युक्तः श्रुत्यन्तरविरोधादित्याह - नैवमिति । अयं नरो यत्किञ्चिदिह लोके कर्म करोति तस्यान्तं फलं परलोके प्राप्य कर्मार्थं पुनरायातीति श्रुत्यर्थः । कर्माभावे श्रुतिमुक्त्वा युक्तिमाह - अपिचेति । अभिव्यक्तिः फलोन्मुखता, मरणेनाभिव्यक्तस्य सर्वस्य कर्मणः परलोकभोगस्यावश्यंभावात्कर्माभाव इत्यर्थः । चरणाख्यशीलमात्रादवरोह इति प्राप्ते सिद्धान्तप्रतिज्ञां व्याचष्टे - येनेत्यादिना । तत्तत्रावरोहतां जीवानां मध्ये ये केचिदिह कर्मभूमौ रमणीयचरणाः पुण्यकर्माणः पुण्ययोनिभाज इति यत्ततभ्याशो ह अवश्यं हीत्यर्थः । कपूयं पापम् । दृष्टशब्दस्य श्रुत्यर्थमुक्त्वार्थान्तरमाह - दृष्टश्चेति । 'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' इत्यादिशास्त्रेण सुखदुःखयोर्धर्मार्धर्महेतुकत्वमवगतम् । ततश्च जन्मारब्य दृष्टो भोगः कर्महेतुकः भोगत्वात्, स्वर्गभोगवदित्यनुशयसिद्धिः, विपक्षे च हेत्वभावात्भोगस्याकस्मिकत्वप्रसङ्ग इत्यर्थः । स्मृतवाश्रमाः आश्रमिणः प्रेत्य मृत्वा लोकान्तरे कर्मफलं भुक्त्वा ततः शेषेण भुक्तादन्येन कर्मणा अनुशयाख्येन पुनर्जन्म प्रतिपद्यन्ते इति संबन्धः । विशिष्टा देशादयो मेधान्ता दश गुणा येषु ते तथोक्ताः । श्रुतं ज्ञानं, वृत्तमाचारः । स्वाभिमतानुशयं वक्तुं पृच्छति - कः पुनरिति । कृतस्य कर्मणः स्वर्गे भोगे सति भुक्तस्य कर्मणो लेशोऽनुशयस्तद्वानवरोहति भाण्डे स्नेहलेशस्य दृष्टत्वात्, ततः शेषेणेति स्मृतेश्चेत्येकदेशिव्याख्यामाह - केचिदित्यादिना । रिच्यमानं स्नेहेन वियुज्यमानम् । ननु भोगनाश्यत्वात्कर्मणो लेशो न युक्तः इति शङ्कते - नन्विति । कृत्स्नकर्मणो भोगे जाते नाशः स्यात्, नतु भोगो जात इति परिहारार्थः । भोगो न जायत इत्ययुक्तमिति शङ्कते - नन्विति । भोगः सावशेषो जात इति समाधत्ते - बाढमित्यादिना । इदमेकदेशिव्याख्यानं दूषयति - न चेति । 'स्वर्गकामो यजेत' इत्यादिशास्त्रेण स्वर्गभोगार्थं कर्म चोदितं, तच्छेषस्य मर्त्यभोगहेतुत्वे शास्त्रविरोध इत्यर्थः । किञ्च स्वर्गहेतुकर्मशेषादवरोहे कपूययोन्यापत्तिश्रुतिविरोध इत्याह - अवश्यं चेति । स्वाभिमतमनुशयमाह - तस्मादिति । पूर्वपक्षबीजमनूद्य दूषयति - यदित्यादिना । क्षपयित्वा पुनरागच्छन्तीति प्राप्यान्तमिति वाक्येन गम्यत इति योजना । जन्मारभ्य दृष्टभोगलिङ्गानुगृहीतया रमणीयकपूयचरणश्रुत्यैहिकानुशयाक्यकर्मविशेषपरया विरोधात्, यत्किञ्चेति यावत्संपातमिति च सामान्यशब्दयोरामुष्मिकविषयत्वेन सङ्कोचो न्याय्य इति भावः । मरणं कृत्स्नकर्माभिव्यञ्जकमित्ययुक्तम्, उक्तानुशयश्रुतिविरोधादित्याह - तदपीति । बलवदनारब्धकर्मप्रतिबन्धाच्च न कृत्स्नकर्माभिव्यक्तिरित्याह - अपिचेत्यादिना । तस्य कृत्स्नकर्मव्यञ्जकत्वे हेतुर्नास्तीति भावः । प्रश्नं मत्वोत्तरं शङ्कते - आरब्धेति । आरब्धवदनारब्धस्यापि बलवतः प्रतिबन्धकत्वान्न सर्वकर्मणः फलदानायाभिव्यक्तिरिति समाधत्ते - यथेति । अनारब्धफलत्वाविशेषात्सर्वकर्मणामभिव्यक्तिमाशङ्क्य मिथोविरुद्धस्वर्गनरकादिदेहफलानामेकदेहारम्भकत्वासंभव उक्तस्तं विवृणोति - न हीति । अस्तु तर्हि दुर्बलस्य कर्मणो नाश इत्यत आह - नापीति । नाभुक्तं क्षीयते कर्मेत्येकान्त उत्सर्गः स च प्रायश्चित्तब्रह्मज्ञानध्यानैर्बाध्यते न मरणमात्रणेत्यर्थः । मरणेन दुर्बलकर्माविनाशे मानमाह - स्मृतिरिति । कर्मनाशपक्षं निरस्य प्रकृतकृत्स्नकर्माभिव्यक्तिपक्षे दोषान्तरमाह - यदि चेति । कृत्स्नकर्मणामेकस्मिन् देवादिजन्मनि भोगेन क्षयान्न जन्मान्तरं स्यात्, ज्ञानाभावान्न मुक्तिरित्यज्ञदेवस्य कष्टान्तरालदशा स्यादित्यर्थः । 'श्वसूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् । चण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति ।' इत्यादिस्मृतिविरोधाच्च न सर्वकर्मणामेकजन्मारम्भकत्वमित्याह - ब्रह्मेति । नन्वेकस्य कर्मणः कथमनेकजन्मफलकत्वम्, अदृष्टत्वादित्याह - न चेति । किञ्च व्यञ्जकत्वेऽपि मरणस्य किं सर्वकर्मव्यञ्जकत्वं कल्प्यते उत यत्किञ्चित्कर्मव्यञ्जकत्वम् । नाद्यः, इह कृतकारीर्यादेरत्रैव फलहेतोर्मरणव्यज्यत्वासंभवादित्याह - न चेति । द्वितीयं निरस्यन् परोक्तं दृष्टान्तं विघटयति - प्रदीपेति । रूपाणां प्रदीपवत्, मरणं न कस्यचिदपि कर्मणो व्यञ्जकं किन्तु प्रबलकर्मप्रतिबन्धाभावे दुर्बलं व्यज्यत इत्यर्थः । एवं मरणस्य व्यञ्जकत्वानङ्गीकारेण प्रदीपदृष्टान्तो निरस्तः, अङ्गीकारेऽप्यनुकूलो दृष्टान्त इत्याह - स्थूलेति । सूक्ष्ममनुद्भूतरूपमिति मरणे सर्वकर्माभिव्यक्त्यसिद्धिरिति शेषः । एवं सर्वकर्मसङ्घ एकजन्मारम्भक इत्यैकभविकः कर्माशय इति मतनिरासमुपसंहरति - तस्मादिति । चरणश्रुत्या 'ततः शेषेण' इत्यादिस्मृत्या 'प्रबलप्रतिबन्धात्' इतिन्यायेन चानभिव्यक्तकर्मसद्भावादित्यर्थः । ननु मुक्त्यनुपपत्त्याङ्गीकार्य ऐकभविक इत्यत आह - शेषेति । सूत्रशेषं व्याचष्टे - ते चेत्यादिना ।
अवरोहमार्ग इत्थं श्रूयते 'तस्मिन् यावत्संपातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते अतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति तद्य इह रमणीयचरणा रमणीयां योनिमापद्यन्ते' इति । धूमाद्यध्वना यथेतं यथागतं तथेतमध्वानं पुनरायन्तीत्युक्त्वा धूमादिरूपपितृमार्गस्थरात्र्यादिकं नोक्तमधिकं चाभ्रादिकमुक्तमिति मत्वा सूत्रकृतोक्तं यथेतमनेवं चेति । अवशिष्टश्रुत्यर्थोऽग्रे स्फुटीभविष्यति ॥८॥ 【भाष्यम्】 【भाष्यम्】 संप्रति श्रुतिस्थचरणशब्दमाक्षेपपूर्वकं सूत्रकृद्व्याचष्टे - चरणादिति चेदिति ।
'अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च ज्ञानं च शीलमेतद्विदुर्बुधाः' इति स्मृतावुक्तावद्रोहादयः शास्त्रार्थज्ञानरूपं शीलं सर्वकर्माङ्गमुक्तं तद्बोधकं चरणपदमङ्गिनः श्रौतादिकर्मणो लक्षकं, कर्मण एवोत्तरावस्था धर्माधर्माख्यापूर्वमिति कर्मलक्षणयैव तदभिन्नापूर्वाख्यानुशयसिद्धिरिति कार्ष्णाजिनिमतम् ॥९॥ 【भाष्यम्】 【भाष्यम्】 तदेव शङ्कासमाधानाभ्यामाह - आनर्थक्यमिति चेदित्यादिना सूत्रेण । चरणशब्दवाच्यस्यैव ग्रहणसंभवान्न लक्षणा युक्तेति शङ्कित्वैव ब्रूते - नन्विति । प्रतिषिद्धं शीलं क्रोधानृतादिरूपम् । किञ्च शीलस्य निष्फलत्वायोगाच्छ्रुतयोन्यापत्तिस्तस्यैव फलं नानुशयस्येत्याह - अवश्यं चेति । वेदास्तदर्थकर्माण्याचारं विना न फलन्तीति स्मृत्या शीलस्य कर्माङ्गत्वान्न पृथक्फलापेक्षा, अङ्गिफलेनार्थवत्त्वात् । न चाङ्गमात्राद्योन्यापत्तिः फलमिति वाच्यम् । अङ्गस्य फलासंभवेन मुख्यार्थस्याचारस्य ग्रहणायोगाल्लक्षणा युक्तेति समाधानार्थः । यद्याचारस्य स्नानादिवत्पुरुषसंस्कारतया पुरुषार्थत्वं तदाप्यविरोध इत्याह - पुरुषार्थत्वेऽपीति । अङ्गावबद्धोपास्तिवदाचारोऽर्थवानित्यर्थः । अस्तु तर्हि शीलख्याचारादेव योन्यापत्तिरित्याशङ्क्य 'पुण्यो वै पुण्येन कर्मणा' इत्यादि श्रुत्या विरोधान्नैवमित्याह - कर्म चेति ।
पारयमाणः शक्तः ॥१०॥ 【भाष्यम्】 【भाष्यम्】 यद्यप्यक्रोधादिरूपं शीलं साधारणधर्मात्मकं विशेषरूपात्कर्मणोऽभिन्नं तथापि चरणाचारशब्दौ कर्मवाचिनावेव न शीलवाचकाविति न लक्षणावसर इति बादरिमतं मुख्यसिद्धान्तमाह - सुकृतेति । चरणशब्दार्थमुपसंहरति - आचारोऽपीति । कर्मण एवाचारत्वे यथाकारीत्यादिभेदोक्तिः कथमित्यत आह - भेदव्यपदेश इति ।
निरूपपदाचारशब्दात्सदाचाररूपो विशेषो भाति । अतस्तत्समभिव्याहृतः कर्मसामान्यवाचको यथाकारीति शब्दस्तदितरविशेषपरः एवमनवद्यानि कर्माणीति सामान्यतः, अस्माकं सुचरितानीति विशेष इति विवेकः । तस्मादनुशयबलादागत्यवश्यंभावानुसन्धानाद्वैराग्यमिति सिद्धम् ॥११॥ 【भाष्यम्】 【भाष्यम्】 एवं पुण्यात्मनां गत्यागतिचिन्तया वैराग्यं निरूप्य पापिनां तच्चिन्तया तन्निरूपयति - अनिष्टादिकारिणामपीति । 'ये वै के च' इत्यविशेषश्रुतेः, 'वैवस्वतं संगमनं जनानाम्' इति श्रुतेश्च संशये प्रथमाधिकरणेन सिद्धनियमाक्षेपसंगत्या पूर्वपक्षसूत्रं व्याचष्टे - तत्रेत्यादिना । यमराजं पापिजनानां सम्यग्गम्यं, हविषा प्रीणयतेति श्रुत्यर्थः । पूर्वपक्षे पुण्यवतामेव चन्द्रगतिरिति नियमाभावात्पुण्यवैयर्थ्यं पापाद्वैराग्यादार्ढ्यं चेति फलं, सिद्धान्ते पापिनां चन्द्रलोकदर्शनमपि नास्तीति पुण्यार्थवत्त्वं वैराग्यदार्ढ्यं चेति फलम् । पञ्चमाग्नौ देहारम्भ इति नियमात्पापिनामपि प्रथमद्युलोकाग्निप्राप्तिर्वाच्येत्याह - देहारम्भ इति ।
पापिनां स्वर्गभोगाभावेऽपि मार्गान्तराभावा चन्द्रगतिरिति भावः ॥१२॥ 【भाष्यम्】 【भाष्यम्】 सिद्धान्तसूत्रं व्याचष्टे - तुशब्द इत्यादिना ।
संयमने यमलोके यमकृता यातना अनुभूयावरोहन्तीत्येवमारोहावरोहाविति योजना सूत्रस्य ज्ञेया । प्रयतां मृत्वा गच्छताम् । सम्यक्परस्तात्प्राप्यत इति संपरायः परलोकः तदुपायः सांपरायः, बालमज्ञं, विशेषतो वित्तरागेण मूढं मोहात्प्रमादं कुर्वन्तं प्रति न भाति । स च बालोऽयं स्त्रीवित्तादिलोकोऽस्ति न परलोकोऽस्तीति मानी । स मे मम यमस्य वशमाप्नोतीत्यर्थः । पापिनां यमवश्यतावादिविशेषश्रुतिस्मृतिबलात् 'ये वै के च' इत्यविशेषश्रुतिरिष्टादिकारिविषयत्वेन व्याख्येयेति भावः ॥१३॥ सूत्रत्रयस्य भाष्यं सुबोधम् ॥१४ ॥ ॥१५ ॥ ॥१६॥ 【भाष्यम्】 【भाष्यम्】 यदुक्तं मार्गान्तराभावात्पापिनामपि चन्द्रगतिरिति । तन्न । तृतीयमार्गश्रुतेरित्याह - विद्याकर्मणोरिति । मार्गद्वितयोक्त्यनन्तरं तृतीयमार्गोक्तिप्रारम्भार्थः श्रुतावथशब्दः । एतयोर्विद्याकर्मणोः पथिद्वयसाधनयोरन्यतरेणापि साधनेन ये नरा न युक्तास्ते जन्ममरणावृत्तिरूपतृतीयमार्गस्थानि भूतानि भवन्ति, क्रियावृत्तौ लोट्, तेन पापिनां चन्द्रगत्यभावाच्चन्द्रलोको न संपूर्यत इति श्रुत्यर्थः । प्रतिपत्ताविति । प्राप्तिसाधने इत्यर्थः । अपिच पापिनां चन्द्रगतौ असौ लोकः संपूर्येत 'अतश्च न संपूर्यते' इत्येतत्प्रतिवचनं विरुद्धं प्रसज्येतेत्यन्वयः । अवरोहादसंपूरणमश्रुतं न कल्प्यं श्रुतहान्यापत्तेरित्याह - न अश्रुतत्वादिति । अवरोह एव तृतीयं स्थानं श्रुत्युक्तमित्यत आह - अवरोहस्येति ।
इममध्वानं पुनर्निवर्तन्त इति इष्टादिकारिणामवरोहोक्तेरनिष्टादिकारिणामपि अवरोहस्यार्थसिद्धत्वात्पुनरुक्तिर्व्यर्थेत्यर्थः । अथैतयोरिति मार्गान्तरोपक्रमबाधस्तृतीयशब्दबाधश्चेत्यतः स्थानशब्दो मार्गलक्षक इति द्रष्टव्यम् ॥१७॥ 【भाष्यम्】 【भाष्यम्】 एवमविशेषश्रुतेर्मार्गान्तराभावाच्चेति पूर्वपक्षबीजद्वयं निरस्य तृतीयबीजनिरासार्थं सूत्रमादत्ते - यत्पुनरित्यादिना । विद्याकर्मशून्यानां कृमिकीटादिभावेन जायस्वेत्यादिश्रुत्या निरन्तरजन्ममरणोपलब्धेर्नाहुतिसंख्यादर इत्यर्थः । पुरुषशब्दाच्चैवमित्याह - अपिचेति । मनुष्यदेहस्यापि नाहुतिसङ्ख्यानियम इत्याह - अपिचेत्यादिना ।
विधिनिषेधरूपार्थद्वये वाक्यभेदः स्यादित्यर्थः ॥१८॥ 【भाष्यम्】 【भाष्यम्】 अनियमे स्मृतिसंवादार्थं सूत्रम् - स्मर्यतेऽपीति । लोक्यतेऽनेनेति लोको भारतादिरुक्तः मुख्यार्थमप्याह -
बलाकेति ॥१९॥ 【भाष्यम्】 【भाष्यम्】 'अण्डजानि च जरायुजानि च स्वेदजानि चोद्भिज्जानि च' इतिश्रुत्यवष्टम्भेन सूत्रं व्याचष्टे - अपिचेति ।
अन्यत्राप्यनिष्टादिकारिष्वित्यर्थः ॥२०॥ 【भाष्यम्】 【भाष्यम्】 अनया श्रुत्या चातुर्विध्यं कथमुक्तं श्रुत्यन्तरे त्रीण्येवेत्यवधारणविरोधादिति शङ्कोत्तरत्वेन सूत्रमादत्ते - नन्वित्यादिना ।
जीवजं जरायुजं मनुष्यादि, भूमिमुद्भिद्य जायते वृक्षादिकं, उदकं भित्त्वा जायते यूकादि जङ्गममिति भेदः । संशोकः स्वेदः ॥२१॥ 【भाष्यम्】 【भाष्यम्】 एवं पापिनां गत्यागती विचार्य संप्रतीष्टादिकारिणामवरोहे विशेषमाह - साभाव्यापत्तिरूपपत्तेः । यथेतमनेवं चेत्युक्तरीत्या यथागतं धूमाद्यध्वानं पुनर्निवर्तन्ते, निवृत्ताश्चानुशयिनः कर्मान्ते द्रुतदेहा आकाशं गता आकाशसदृशा भवन्ति । आकाशसादृश्यानन्तरं पिण्डीकृता अतिसूक्ष्मलिङ्गोपहिताः वायुनेतस्ततश्च नीयमाना वायुसमा भवन्ति । सोऽनुशयी संघो वायुसमो भूत्वा धूमसंगतस्तत्समो भवति, धूमसमो भूत्वाभ्रसमो भवति । अपो बिभर्तीत्यभ्रं, मेहति सिञ्चतीति वृष्टिकर्ता मेघस्तत्समो भूत्वा वर्षधाराद्वारा पृथिवीं प्रविश्य व्रीहियवादिरूपो भवतीति सिद्धान्तगत्या श्रुत्यर्थः । पूर्वोत्तरयुक्तिद्वयं संश्यबीजं मन्तव्यं, पूर्वत्र मार्गद्वयमुक्त्वा तृतीयत्वोक्तेर्युक्तं स्थानशब्दस्य मार्गलक्षकत्वमिह तु दुग्धं दधि भवतीत्यादिप्रयोगे भवतिश्रुतेर्विकारस्वरूपापत्तौ मुख्यत्वात्सादृश्यापत्तिलक्षणाबीजं नास्तीति प्रत्युदाहरणसङ्गतिः । श्रुतिमुख्यत्वं फलमिति पूर्वपक्षः । अनुशयिनां पूर्वसिद्धाकाशादिस्वरूपापत्त्ययोगाल्लक्षणेति सिद्धान्तयति - एवमित्यादिना । समानो भावो धर्मो यस्य तद्भावः साभाव्यं साम्यमिति सूत्रपदार्थः । एवं ह्येतदिति । एतद्भवनमेवं सादृश्यरूपमेवोपपद्यत इत्यर्थः । अनुशयिनामाकाशादिभ्यो निर्गमनान्यथानुपपत्त्यापि सादृश्यलक्षणेत्याह - आकाशस्वरूपेति । संयोगलक्षणामाशङ्क्याह - विभुत्वादिति । भवतिश्रुत्या संयोगलक्षणायामनुवादः स्यादित्यर्थः । विविधभूतसाम्यमवरोहे भवतीत्यनुसंधानाद्वैराग्यमुपसंहरति -
अत इति ॥२२॥ 【भाष्यम्】 【भाष्यम्】 नातिचिरेण । उक्तं सादृश्यमुपजीव्य लोके गन्तृणां चिराचिरगतिदर्शनात्संशयं वदन् पूर्वपक्षयति - तत्रेत्यादिना । अनियमात्कदाचिद्विलम्बेन योन्यापत्तिरिति पूर्वपक्षफलं, सिद्धान्ते तु व्रीहियवादिभावादनुशयिनां विलम्बेन निर्गमनमिति विशेषादाकाशादिभावाच्छीघ्रं निर्गम इत्यविलम्बेन योन्यापत्तिरित्यनुसंधानाद्वैराग्यदार्ढ्यमिति विवेकः । नन्वाकाशादिष्वनुशयिनां सुखं व्रीहियवादिषु दुःखमिति दुःशब्दाद्भाति न चिराचिरनिर्गमनमित्यत आह - सुखदुःखताविशेषश्चायमिति ।
अवधिः कालः ॥२३॥ 【भाष्यम्】 【भाष्यम्】 अन्याभिलापात् । श्रुतिक्रमात् अर्थक्रमाच्चाधिकरणानां क्रमो बोध्यः । इह भूमौ वर्षधाराद्वारा पतितास्तेऽनुशयिनो व्रीह्यादिसाम्येन जायन्त इति श्रुत्यर्थः । अत्र जायन्त इति श्रुतेः पूर्वत्राकाशादिवर्षान्तसादृश्योक्तेश्च संशयमाह - तत्रेति । अस्मिन्नवधौ वर्षसादृश्यानन्तरमित्यर्थः । दुर्निष्प्रपतरशब्देन चिरनिर्गलनलक्षणोक्ता न युक्ता, दुःखेन निर्गमनमिति मुख्यसंभवादित्याक्षेपसङ्गत्या पूर्वपक्षयति - किं तावदित्यादिना । अत्र पूर्वपक्षे स्थावरत्वनिवृत्तयेऽधिकारिणां यत्नगौरवं, सिद्धान्ते व्रीह्यादिसंश्लेषमात्रं परिहर्तुं यत्नलाघवं वैराग्यदार्ढ्यं चेति विवेकः । ननु देहोत्पत्त्या जीवानां जन्म स्यान्न स्वतः, व्रीह्यादेस्तु न देहत्वमित्यत आह - स्थावरभावस्येति । 'स्थाणुमन्येऽनुसंयन्ति' इत्याद्या श्रुतिः । 'शरीरजैः कर्मदोषैर्याति स्थावरतां नरः' इत्याद्या स्मृतिः । ननु स्वर्गिणां पापाभावात्कथं स्थावरत्वं, तत्राह - पश्विति । सोमाद्युच्छिष्टभक्षणसुराग्रहावादिशब्दार्थः । क्रत्वर्थहिंसादेरपि हिंसात्वादिसामान्येन प्रवृत्तेर्न हिंस्यादित्यादिशास्त्रनिषिद्धत्वाकारेण दुरितापूर्वकारित्वमविरुद्धमिति साङ्ख्या आहुः । श्रुतोऽत्र व्रीह्यादिभावोऽनुशयिनां न जन्यरूपः कर्मविशेषपरामर्शं विनात्रोक्तत्वात्, पूर्वोक्ताकाशादिभाववदिति सिद्धान्तयति - एवं प्राप्त इत्यादिना । पूर्ववदिति पदं दृष्टान्तत्वेन हेत्वंशत्वेन च व्याख्यातं यदत्र प्रकरणे कर्मविशेषपरामर्शपूर्वकमुच्यते तज्जन्मेति व्यतिरेकदृष्टान्तमप्याह - यत्र त्विति । अपिच 'यो यो ह्यन्नमत्ति यो रेतः स्त्रियां सिञ्चति तद्भूय एव भवति' इति वाक्यशेषे व्रीह्यादिषु प्रविष्टस्यानुशयिसंघस्यान्नद्वारा रेतःसिक्पुरुषयोगः श्रुतस्तदन्यथानुपपत्त्यापि जन्मश्रुतिर्न मुख्येत्याह - अपिचेत्यादिना । व्रीह्यादिरूपदेहनाशे देहिनामुक्तान्तेरवश्यंभावाद्रेतः सिग्योगो न स्यादित्यर्थः । एतेनेति । उक्तानुमानार्थापत्तिभ्याम् । जायत इति श्रुतेर्मुख्यार्थत्वमनुशयिभोगायतनत्वं च व्रीह्यादेः प्रतिब्रूयादित्यर्थः । ननु व्रीह्यादेर्भोगायतनत्वानङ्गीकारे पूर्वोक्तश्रुतिस्मृतिप्रसिद्धिबाध इत्यत आह -
न चेति ॥२४॥ 【भाष्यम्】 【भाष्यम्】 वैदिकं कर्माशुद्धं न भवति शास्त्रविहितत्वादिति सूत्रार्थं प्रपञ्चयति - अयं धर्म इत्यादिना । शुचौ देशे प्रातः सायङ्काले जीवनादिनिमित्ते कृतमग्निहोत्रं धर्मो भवति स एवाशुचिदेशे मध्यरात्रे मरणादिनिमित्ते कृतः सन्नधर्मो भवतीति निर्णयः शास्त्रैकसाध्य इत्यर्थः । ततः किं तत्राह - शास्त्राच्चेति । ननु या हिंसा सोऽधर्म इत्युत्सर्गस्य विशेषविधिना बाधोऽत्र न युक्तः । नाभिचरेदिति निषिद्धश्येनस्य पुरुषार्थत्ववत् निषिद्धहिंसादेरपि क्रतूपकारकत्वाविरोधादिति, तत्राह - उत्सर्गापवादयोरिति ।
अयमर्थः काम्ये कर्मणि सर्वत्र करणांशे रागतः प्रवृत्तिः, अङ्गेषु विधित इति स्थितिः । तथाच श्येनाख्ये कर्मणि निषेधेऽपि रागप्राबल्यात्प्रवृत्तिः स्यात्क्रत्वङ्गहिंसादौ तु विधित एव प्रवृत्तिर्वाच्या । स च विधिर्यद्युत्सर्गप्राप्तमनर्थहेतुत्वं न बाधेत तर्हि प्रवर्तको न स्यात्, प्रवर्तकत्वे वा विधिरनर्थाय स्यात्, अतो निरवकाशो विधिः सावकाशमुत्सर्गमविहितहिंसादिषु स्थापयतीति । इदं च निषेधशास्त्रस्य हिंसात्वादिसामान्येन प्रवृत्तिमङ्गीकृत्योक्तम् । वस्तुतस्तस्य रागप्राप्तहिंसाविषयत्वाद्वैधहिंसायामप्रवृत्तेर्नाशुद्धत्वशङ्कावसर इति द्रष्टव्यम् । प्रतिरूपं दुःखरूपं तस्य फलं नेति योजना । इह व्रीह्यादिभावे कश्चिदधिकारः कर्मपरामर्शो नास्तीत्युक्तम् ॥२५॥ 【भाष्यम्】 【भाष्यम्】 अथ व्रीह्यादिभावानन्तरं रेतः सिग्भावः श्रुतः । तत्रान्नस्थानुशयिनो रेतः सेककर्तृत्वायोगाद्योगमात्रं वाच्यं तद्वदुपक्रमेऽपि योग एवास्थेयः, अन्यथोपक्रमोपसंहारयोर्विरोधः स्यादिति मत्वोक्तम् -
इत्यविरोध इति ॥२६॥ 【भाष्यम्】 【भाष्यम्】 योनेः शरीरश्रुतेर्न व्रीह्यादिशरीरत्वमनुशयिनामिति सूत्रार्थः । एवं कर्मिणां गत्यागतिसंसारो दुर्वार इत्यनुसन्धानात्कर्मफलाद्वैराग्यं तत्त्वज्ञानसाधनं सिद्धमिति पादार्थमुपसंहरति -
इति सिद्धमिति ॥२७॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमद्परमहंसपरिव्राजकाचार्य श्रीमद्गोविन्दभगवत्पादकृतौ शारीरकमीमांसाख्यायां भाष्यरत्नप्रभायां तृतीयाध्यायस्य प्रथमः पादः ॥ तृतीयाऽध्याये द्वितीयः पादः । संध्ये सृष्टिराह हि । उक्तवैराग्यसाध्यस्तत्त्वंपदार्थविवेको वाक्यार्थज्ञानसाधनमस्मिन् पादे निरूप्यत इति पादयोर्हेतुसाध्यभावसंगतिमाह - अतिक्रान्त इति । साधनविचारत्वादेवास्य पादस्यास्मिन्नध्याये संगतिः । अस्मिन् पादे 'न स्थानतोऽपि' इत्यतः प्रागुद्देश्यत्वेन प्रथमं जिज्ञासितत्वंपदार्थोऽवस्थाद्वारा विविच्यते, तदारभ्यापादसमाप्तेर्विधेयतत्पदार्थविवेकः, तत्र पूर्वं गत्यागतिचिन्तया जाग्रदवस्था निरूपिता तदनन्तरभाविनीं स्वप्नावस्थां श्रुत्युक्तां विषयीकृत्य तत्र स्वप्ने रथादिसृष्ट्युक्तेस्तदभावोक्तेश्च संशयं वदन् पूर्वपक्षसूत्रं योजयति - तत्र संशय इत्यादिना । स्वप्नरथादयो जाग्रद्रथादिवत् व्यावहारिकसत्ताका उत शुक्तिरजतवत्प्रातीतिका इति संशयार्थः । आरम्भणाधिकरणे प्रपञ्चस्य पारमार्थिकत्वनिषेधादिति मन्तव्यम् । अत्र पूर्वपक्षे जाग्रद्वत् स्वप्नाज्जीवस्य विवेकासिद्धिः । सिद्धान्ते प्रातीतिकदृश्यसाक्षितया विवेकात्स्वयञ्ज्योतिष्ट्वसिद्धिरिति फलम् । मुमूर्षोः सर्वेन्द्रियोपसंहारादेतल्लोकाननुभवे सति वासनामात्रेण इमं लोकं स्मरतः कर्मबलाद्धृदये मनसा परलोकस्फूर्तिरूपः स्वप्नो भवति, सोऽयं लोकद्वयसन्धौ भवतीति संध्यः स्वप्नः । तथा च श्रुतिः - 'तस्मिन् संध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्यति इदं च परलोकस्थानं च' इति । अयं स्वप्नः कादाचित्क इत्यरुच्या नित्यस्वप्नस्य प्रबोधसंप्रसादसंधिभवत्वमुक्तम् । अन्येतु मर्त्यचक्षुराद्यजन्यरूपादिसाक्षात्कारवत्त्वं परलोकलक्षणं, दैवचक्षुराद्यजन्यतद्वत्त्वं मर्त्यलोकलक्षणं च स्वप्नेऽस्तीति लक्षणतो लोकद्वयस्पर्शित्वात् नित्यस्वप्नस्यैव लोकद्वयसंध्यत्वं ग्रामद्वयस्पर्शिमार्गस्य तत्संध्यत्ववदिति व्याचक्षते । न केवलं श्रुत्या स्वप्नार्थानां व्यावहारिकसत्यत्वं किन्तु सकर्तृकत्वादपीत्याह -
स हि कर्तेति ॥१॥ 【भाष्यम्】 【भाष्यम्】 किञ्च स्वप्नार्थाः सत्याः, प्राज्ञनिर्मितत्वात्, आकाशादिवदिति सूत्रार्थमाह - अपिचेत्यादिना । रूढिमाशङ्क्य प्रकरणान्निरस्यति - नन्वित्यादिना । यः सुप्तेषु निर्व्यापारेषु करणेषु जागर्ति तदेव शुक्रं स्वप्रकाशं ब्रह्मेत्यर्थः । स्वप्नस्य जाग्रदर्थैः समानदेशत्वश्रुतेरभेदश्रुतेश्च सत्यत्वे तात्पर्यमित्याह -
अथो खल्वाहुरिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 स्वप्नरथादयः प्रातीतिका जाग्रद्रथादौ कॢप्तसामग्रीं विना दृष्टत्वाच्छुक्तिरूप्यादिवदिति सिद्धान्तयति - तुशब्द इत्यादिना । चिन्मात्रनिष्ठाविद्या चित्त्वावच्छेदेन जीवेऽपि स्थिता रथाद्याकारा मायेति सूत्रभाष्ययोरुक्ता मायाविद्ययोरभेदज्ञापनाय मात्रपदेन तु सति प्रमातर्यबाध्यत्वरूपस्य व्यावहारिकसत्यत्वस्य निरास उक्तः । कार्त्स्न्यमत्र जाग्रति या कॢप्तसामग्री, तज्जन्यत्वं परमार्थवस्तुनो जाग्रदर्थस्य कार्यस्य धर्मः । सत्यत्वव्यापकः तदभावं स्वप्ने विवृणोति - न तावादित्यादिना । संवृते सङ्कीर्णे, पर्येतुं गन्तुं, विपर्येतुमागन्तुं, श्रावयति प्रबुद्धो जनः, पार्श्वस्थान्प्रतीति शेषः । एतत्स्वप्नं यथा स्यात्तथा यत्र काले स्वप्न्यया वृत्त्या चरति तदा स्वशरीरे यथेष्टं चरतीत्यर्थः । बहिरिवेति । कुलायाद्देहात् बहिरिवामृत आत्मा चरित्वा यत्र कामं यथेष्टमीयते विहरतीत्यर्थः । गुणमाह - यो हीति । देहाभिमानहीनत्वगुणेन बहिष्ठवद्देहस्थोऽपि बहिरित्युक्त इत्यर्थः । एवं सति श्रुतियुक्तिभ्यामन्तरेव स्वप्ने सतीत्यर्थः । विप्रलम्भो विभ्रमः योग्यदेशाभावमुक्त्वा कालाभावमाह - कालेति ।
अत्र रात्रिसमयेऽपि केतुमालादिवर्षान्तरे वासरो भवति इति भारत इत्युक्तम् । पूर्वपक्षानुमानानां जाग्रदर्थदृष्टान्ते कॢप्तसामग्रीजन्यत्वमबाधयोग्यत्वं चोपाधिरिति सूत्रतात्पर्यम् ॥३॥ 【भाष्यम्】 【भाष्यम्】 स्वप्नस्य भ्रान्तिमात्रत्वे तत्सूचितोऽप्यर्थः सत्यो न स्यादिति शङ्कोत्तरत्वेन सूत्रान्तरं व्याचष्टे - मायेत्यादिना । मन्त्रेण देवतानुग्रहेणौषधिसेवया वा स्वप्नाः सत्यसूचकाश्चेत्सत्याः स्युरित्यत आह - तत्रापि भवतु नामेति । सत्यहर्षहेतोरपि शुक्तिरूप्यस्य सत्यत्वादर्शनादिति भावः । यथा कृषिद्वारा लाङ्गलस्य गवादिजीवननिमित्तत्वं तथा स्वप्नभोक्तुरदृष्टद्वारा स्वप्नसृष्टिनिमित्तत्वं न तु कुम्भं प्रति कुम्भकारस्येव साक्षाद्स्वप्नकर्तृत्वं सामग्र्यभावबाधयोरुक्तत्वादित्याह - यदुक्तमित्यादिना । तथा च स्वप्नस्य सकर्तृकत्वं मुख्यं नास्तीति हेत्वसिद्धिरिति भावः । श्रुतितात्पर्यविरोधाच्च न स्वप्नसत्यतेत्याह - अपिचेति । व्यतिकरः संकरः, श्रुत्या तत्परतयेत्यर्थः । जागरितादविशेषादिति भावः । फलितमाह - तस्मादिति । एतेनेति । भाक्तत्वेनेत्यर्थः । द्वितीयसूत्रोक्तप्राज्ञकर्तृकत्वहेतुरपि स्वप्नस्य किं श्रुतिसिद्ध उत प्राज्ञस्य सर्वेश्वरत्वात्सिद्धः, नाद्य इत्याह - यदप्युक्तमित्यादिना । स्वयं विहत्य जाग्रद्देहं निश्चेष्टं कृत्वा, स्वयं वासनया निर्माय, स्वेन भासा स्वीयबुद्धिवृत्त्या स्वेन ज्योतिषा स्वरूपचैतन्येन च स्वप्नमनुभवतीत्यर्थः । न केवलं बृहदारण्यके जीवस्य स्वप्नकर्तृत्वं श्रुतं किन्तु काठकेऽपीत्याह - इहापीति । जीवोक्तौ ब्रह्मप्रकरणविरोध इत्यत आह - तस्य त्विति । एवं हेतोः श्रुतिसिद्धत्वं निरस्य द्वितीयमङ्गीकरोति - न चास्माभिरिति । तर्हि हेतुसिद्धेः स्वप्नस्य सत्यत्वमित्याशङ्क्य सत्यत्वं व्यावहारिकं पारमार्थिकं वेति विकल्प्य व्यवहारकाले बाधदर्शनात्, नाद्य इत्याह - पारमार्थिकस्त्विति । द्वितीये दृष्टान्तस्य साध्यवैकल्यमित्याह - न चेति । कस्तर्हि स्वप्नस्य जाग्रतो विशेषोऽत्र कथ्यत इत्याशङ्क्य प्रातिभासिकत्वमित्याह -
प्रागिति ॥४॥ 【भाष्यम्】 【भाष्यम्】 पूर्वं कॢप्तसामग्र्यभावात्स्वप्नो मायेत्युक्तमयुक्तं सत्यसङ्कल्पमात्रेणापि सत्यसृष्टिसंभवादिति शङ्कां कृत्वा परिहरन् सूत्रं व्याचष्टे - अथपि स्यादित्यादिना । सत्यसंकल्पस्य हि संकल्पात्सृष्टिः सत्या भवति जीवस्य त्वसत्यसंकल्पत्वं प्रत्यक्षमिति परिहारार्थः । तर्हि विरुद्धधर्मवत्त्वाज्जीवस्येश्वरत्वं नास्त्येवेति शङ्कते - किमिति । नास्तीति न किन्त्वावृतमस्ति तत्पुनरीश्वरप्रसादात्कस्यचिद्व्यज्यत इत्याह - न नास्तीति । विधूतध्वान्तस्य निष्पापस्य संसिद्धस्याणिमादिविशिष्टस्येत्यर्थः । ब्रह्मैवाहमिति देवं ज्ञात्वा साक्षात्कृत्य सर्वपाशानामविद्यादिक्लेशानामपहानिरपक्षयस्तद्रूपो भवति । क्षीणैश्च क्लेशैस्तत्कार्यजन्ममरणात्मकबन्धध्वंस इति निर्गुणविद्याफलमुक्तम् । सगुणविद्याफलमाह - तस्येति ।
परस्याभिमुख्येनाहङ्ग्रहेण ध्यानाद्बन्धमोक्षापेक्षया मन्त्रोक्तहानिद्वयापेक्षया वा तृतीयं विश्वैश्वर्यमणिमादिरूपं मर्त्यदेहपाते सति सिद्धे देहे भवति तद्भोगानन्तरमात्मज्ञानात्केवलो द्वैतशून्य आप्तकामः प्राप्तस्वयञ्ज्योतिरानन्दो भवतीति क्रममुक्तिरित्यर्थः ॥५॥ 【भाष्यम्】 【भाष्यम्】 उक्तैश्वर्यतिरोभावे देहाभिमानो हेतुरिति कथनार्थं सूत्रं, तन्निरस्यां शङ्कामाह - कस्मादिति । सत्यावरणं नास्तीत्यङ्गीकृत्य कल्पितावरणं साधयति - उच्यत इत्यादिना । जीवस्येश्वरत्वमङ्गीकृत्यावरणकल्पनातो वरमन्यत्वकल्पनेत्याशङ्कामुद्भाव्य श्रुत्या निरस्यति - नन्वित्यादिना ।
स्वप्नेऽप्यालोकादेः सत्यत्वे जाग्रतीवात्मनः स्वप्रकाशत्वमस्फुटं स्यात्, प्रातिभासिकत्वे त्वालोकेन्द्रियाद्यसत्त्वेऽप्यर्थापरोक्ष्यमात्मज्योतिष एवेति स्फुटं सिध्यति । तस्माद्देशादिसाम्यवचनं स्वप्नस्य जाग्रत्तुल्यभानाभिप्रायमित्यर्थः ॥६॥ 【भाष्यम्】 【भाष्यम्】 एवं बाह्यकरणोपरमे सति मनोवासनोद्दीपिताविद्याविलासात्मकं स्वप्नमात्मनःसाक्षिणः स्वयञ्ज्योतिष्ट्वार्थं विचार्य प्रतियोग्यनुयोगिभावसङ्गत्या स्वप्नावस्थमनोलयात्मिकां सुषुप्तिं विचारयति - तदभावो नाडीषु तच्छ्रुतेरात्मनि च । तदेतत्स्वपनं यथा स्यात्तथा । यत्र काले सुप्तः सुषुप्तः समस्तो निरस्तबाह्यकरणो मनोलयात्सम्यक्प्रसङ्ग इत्यर्थः । स्वापे नाडीस्थानमुक्त्वा नाडीपुरीततोर्नाडीपरमात्मनोश्च समुच्चयश्रुती आह - अन्यत्रेति । परमात्ममात्रश्रुतीराह - तथान्यत्रेत्यादिना । नाडीपुरीतब्रह्मसु सप्तमीश्रुतेः समुच्चयश्रुतेश्च संशयमाह - तत्रेति । पूर्वपक्षे स्थानविकल्पाज्जीवस्य ब्रह्मैक्यानिर्णयः, सिद्धान्ते नाडीभिः पुरीततं गत्वान्तर्हृदि ब्रह्मण्येव शेत इति समुच्च्यात्तन्निर्णय इति विवेकः । एकपुरोडाशार्थत्वं व्रीहियवयोर्दृष्टं नाड्यादीनामेकस्मिन् स्वापरूपार्थे निरपेक्षस्थानत्वं तु कुत इत्यत आह - नाड्यादीनां चेति । सति ब्रह्मणि तृतीयाश्रुतेर्न सप्तमीति शङ्कार्थः । आयतनशब्दात्सप्तम्यर्थ आधारत्वं गम्यत इत्याह - नैष दोष इति । अन्यत्रावस्थाद्वये श्रान्तो जीवो विश्रान्तिस्थानं प्राणाख्यं सद्ब्रह्मोपसर्पति सुषुप्तावित्यर्थः । सप्तमीश्रुत्या निरपेक्षाधारत्वभानाद्विकल्प आस्थेयः कदाचित्समुच्चित्यापि नाड्यादीनां स्थानत्वमिति न समुच्चयश्रुतिविरोध इति पूर्वपक्षार्थः । सिद्धान्तयति - एवं प्राप्त इति । सूत्रे चकारः पुरीतत्समुच्चयार्थः । यदा नाड्यः सुषुप्तिस्थानं तदा पुरीतत्स्थानं न भवतीति श्रुतस्थानत्वस्य पक्षे बाधः स्यात्, स न युक्त इत्याह - विकल्पे ह्येषामिति । व्रीहियवयोस्त्वगत्या विकल्प इति भावः । यत्तु सप्तमीश्रुत्या नाड्यादीनामेकफलकत्वमिति, तन्नेत्याह - न ह्येकेति । प्रासादस्य पर्यङ्कधारणमर्थः । पर्यङ्कस्य तु शयनमिति फलभेदेऽप्येकविभक्तिर्दृश्यते, व्यवधानाव्यवधानाभ्यां शयनसाधनत्वात्समुच्चयश्च, तथेहापि नाडीपुरीततोर्जीवस्य संचारद्वारा ब्रह्मण्येव सुप्तिरिति समुच्चय इत्यर्थः । नाडीनां प्राणस्य च एकेन वाक्येनोपादानान्मिथः समुच्चय इत्याह - एकवाक्येति । आधारत्वमात्रं सप्तम्यर्थो न निरपेक्षत्वमतो न समुच्चयस्य सप्तम्या बाध इत्याह - न चैवमपीति । समुच्चयेऽपीत्यर्थः । अत्र नाडीश्रुतौ नाडीषु भोक्तुः सुप्तिर्न विवक्षिता रश्मिसंबन्धनाडीरूपमार्गस्तुत्यर्थत्वादित्याह - अपि चेति । पित्तेन विषयेक्षणाभावे सुखदुःखयोरभावात्तद्धेतुधर्माधर्मात्मकपाप्मास्पर्श इत्यर्थः । अपहतपाप्मब्रह्मसंपत्त्या वा पाप्मास्पर्श इत्याह - अथवेति । अस्मिन् व्याख्याने लाभमाह - एवं च सतीति । 'तासु तदा भवत्यथास्मिन् प्राण एवैकधा भवति' इति श्रुतेः समुच्चय आश्रितो भवतीत्यर्थः । नाडीब्रह्मणोर्गुणप्रधानभावेन सुप्तौ समुच्चयवत्पुरीतद्ब्रह्मणोरपीत्याह - तथेत्यादिना । आकाशे ब्रह्मणि शेत इत्युपक्रम्य ताभिः प्रत्यवसृप्य पुरीतति शेत इत्युक्तं, तथाच नाडीद्वारा पुरीततं गत्वा ब्रह्मणि शेत इति समुच्चयः सिद्ध इत्याह - तथा नाडीति । सता संपन्नो भवति प्राज्ञेन संपरिष्वक्त इति सत्प्राज्ञयोः श्रुतेः पञ्च सुप्तिस्थानानीत्यत आह - सत्प्राज्ञयोरिति । किञ्च प्रकृतदर्शादिसाधनैकपुरोडाशनिष्पत्तौ मिथोऽनपेक्षतया समर्थत्वाद्युक्तो व्रीहियवयोर्विकल्पः, नाड्यादीनां तु ब्रह्मनिरपेक्षतया सुषुप्तजीवाधारत्वासामर्थ्यान्न विकल्प इत्याह - अपि च नाड्य इति । उपाधिलिङ्गाश्रयनाडीपुरीततोरुपहितजीवाश्रयत्वं परम्परया वाच्यं, तदपि सुषुप्तौ न संभवति, उपाधिलयादित्यर्थः । ननु ब्रह्मापि जीवस्य न मुख्यं स्थानमभेदादित्यत आह - ब्रह्माधारत्वमिति । जीवस्य ब्रह्मण्यभेदेनावस्थानं नाडीपुरीततोस्तु लीनोपाधेर्जीवस्य स्थितिरेव न संभवतीत्येकार्थसामर्थ्याभावान्न विकल्प इत्यर्थः । सुषुप्तौ जीवस्य भेदकोपाधिलयाच्चौत्सर्गिकब्रह्माभेदस्य विकल्पो न युक्त इत्याह - अपिचेति । किञ्च नाड्यादीनामन्यतमस्थाने क्वचित्सुप्तिवादिनापि सुषुप्तं न विशिष्यत इति वक्तव्यं, तच्च वक्तुं न शक्यत इत्याह - अपिच स्थानेति । भेदाभावो हि भेदज्ञानाभावे हेतुः, नाडीपूरितद्रतस्य तु जीवस्य भेदावस्थत्वाद्भेदाविज्ञाने करणं नास्तीत्यर्थः । द्वैतावस्थस्यापि द्वैताज्ञाने हेतुं शङ्कते - ननु भेदेति । द्रष्टुर्दृश्याद्दूरस्थत्वं स्वाभाविकमौपाधिकं वा । तत्राद्यं सदृष्टान्तमनूद्य प्रत्याह - बाढमित्यादिना । द्वितीयमनूद्य दूषयति - उपाधिगतमेवेति । उपाधिसंभिन्नस्यैव नाड्यादौ स्वापे कतिपयसंनिकृष्टार्थज्ञानप्रसङ्गात्सुषुप्तिव्याघातः स्यात् । उपाधिलये त्वन्यत्र जीवस्य स्थित्ययोगाद्ब्रह्मण्येव स्वाप आस्थेय इत्यर्थः । एवं विकल्पं निरस्य नाडीपुरीततोर्ब्रह्मणा सह तुल्यवत्समुच्चयमफलत्वेन दूषयन् गुणप्रधानत्वेन समुच्चयमुपसंहरति -
न च वयमित्यादिना ॥७॥ 【भाष्यम्】 【भाष्यम्】 किञ्च ब्रह्मणः सकाशाज्जीवस्योत्थानश्रुतेर्ब्रह्मैव सुषुप्तिस्थानमित्याह सूत्रकारः - अतः प्रबोध इति ।
नाडीपुरीततोः क्वाप्युत्थानापादानत्वाश्रवणान्न सुषुप्तिस्थानत्वमित्यर्थः, तस्मादुपाधिलये जीवस्य ब्रह्माभेदादौपाधिक एव भेद इति विवेकाद्वाक्यार्थाभेदसिद्धिरिति स्थितम् ॥८॥ 【भाष्यम्】 【भाष्यम्】 स एव तु कर्मानुस्मृतिशब्दविधिभ्यः । सुषुप्तौ उपाधिनाशात्कर्मानुस्मृत्यादेर्दर्शनाच्च संशये सत्यस्माद्ब्रह्मणो जीवस्योत्थानश्रुतेर्ब्रह्मैव सुषुप्तिस्थानमित्युक्तमयुक्तम् । सुप्तादन्यस्याप्युत्थानसंभवेन सुषुप्तस्य नाड्यादिस्थानत्वसंभवादित्याक्षेपसंगत्या नियामकाभावादनियम इति पूर्वपक्षमाह - तस्याः पुनरित्यादिना । पूर्वपक्षे ज्ञानवैयर्थ्यं सुषुप्त्यैवापुनरावृत्तिरूपमुक्तिसिद्धेः, सिद्धान्ते तु अज्ञातब्रह्मात्मना स्थितस्याज्ञानबलेन पुनस्तस्यैवोत्थानावश्यंभावादज्ञाननाशाय ज्ञानापेक्षेति फलम् । ईश्वरो वेत्यनियमदार्ढ्यायोक्तम् । स वान्यो वेत्येव पूर्वपक्षः । ज्ञानं विना बुद्ध्याद्युपाधेरत्यन्तनाशाभावाद्यया बुद्ध्योपहितो जीवः सुषुप्तौ कारणात्मना स्थितस्तस्यैव नानाकर्मानुभवसंस्कारवत्योपहित उत्तिष्ठतीति सिद्धान्तयति - स एव त्वित्यादिना । सामिकृतस्यार्धकृतस्य एकस्यैव ज्योतिष्टोमादेरनेकयजमानकत्वापातोऽतिप्रसङ्गः । स्मृतिमुक्त्वानुशब्दसूचितां प्रत्यभिज्ञामाह - सोऽहमिति । अयनं गमनम् आयः । योनिः तत्तदिन्द्रियस्थानम् । प्रतिनियतं गमनं यथा भवति तथा प्रतियोन्यागच्छति जागरणायेति श्रुत्यर्थः । न विन्दतीत्यज्ञानसत्त्वात्सुप्तस्योत्थाननियम उक्तः । इह पूर्वप्रबोधे ये भवन्ति त एव तदोत्तरप्रबोधे भवन्तीत्यर्थः । विधिं व्याचष्टे - कर्मेति । स एवोत्तिष्ठतीति निश्चीयते इत्यर्थः । अत्रैवोत्सूत्रं युक्त्यन्तरमाह - अपि चेत्यादिना । अन्योत्थाने सुखादेर्न पूर्वकर्मकार्यतेत्यकृतसुखाद्यागमः पूर्वसुप्तजीवकृतकर्मनाशश्चेत्यर्थः । पूर्वपक्ष्युक्तं दृष्टान्तं वैषम्येण दूषयति - यत्पुनरित्यादिना । अस्मदाद्यशक्यमपि विवेचनं प्राण्यदृष्टापेक्ष ईश्वरः करोतीति मत्वा दृष्टान्तमाह - दृश्यते चेति । ब्रह्माभेदाच्च जीवस्य जलबिन्दुवैषम्यमित्याह - अपि चेति । अभेदे स वान्यो वोत्तिष्ठति इति चिन्तानवकाश इत्याशङ्क्य बुद्धिभेदेन जीवभेदाच्चिन्तेत्याह - एवं सतीति । सुषुप्तौ बुद्धिनाशेन प्रत्यहं बुद्ध्युपाधिभेदादेकजीवस्य व्यवहारो न स्यादित्यत आह - स एवायमिति ।
स्थूलसूक्ष्मात्मना तिष्ठत्येकोपाधिरित्यर्थः ॥९॥ 【भाष्यम्】 【भाष्यम्】 अवस्थात्रयादात्मानं विविच्य मूर्च्छातो विवेचयति - मुग्धेऽर्धसंपत्तिः परिशेषात् । मूर्च्छा प्रसिद्धावस्थान्तर्गता वा पञ्चमावस्था वेति । अवस्थाचतुष्टयसिद्धेर्मुग्धस्य तद्वैलक्षण्याच्च संशये सोऽहमिति प्रत्यभिज्ञयोत्थितस्य सुप्ताभेदवद्विशेषज्ञानाभावाविशेषेण लिङ्गेन सुषुप्तिरेव मूर्च्छेति प्रत्यभिज्ञानात्सुषुप्त्यन्तर्गता मूर्च्छेति दृष्टान्तसंगत्या पूर्वपक्षमाह - तिस्रस्तावदिति । पूर्वपक्षे प्रसिद्धावस्थातः पृथगात्मनो मूर्च्छातो विवेकार्थं यत्नासिद्धिः फलं, सिद्धान्ते पृथग्यत्नध्रौव्यमिति भेदः । परिशेषं दर्शयन् सिद्धान्तयति - न तावदित्यादिना । जाग्रदपि जागरावस्थोऽपीत्यर्थः । ऐन्द्रियकमर्थज्ञानं देहधारणं च तस्यास्ति न मुग्धस्येति वैषम्योक्त्या दूषयति - नेत्यादिना । मूर्च्छाया जागराद्भेदमुक्त्वा स्वप्नमृतिभ्यां भेदमाह - नापीत्यादिना । आलभन्ते स्पृशन्ति । दिष्टं मरणम् । सुषुप्तिमूर्च्छयोः किञ्चित्सारूप्येऽपि बहुवैलक्षण्याद्भेद इत्याह - नेति । लक्षणभेदमुक्त्वा निमित्तभेदमाह - निमित्तेति । प्रत्यभिज्ञाप्यसिद्धेत्याह - न चेति । उक्तसारूप्यवैरूप्याभ्यामर्धसंपत्तिः सर्वैः सुषुप्तिधर्मैरसंपन्नो मुग्धः सुषुप्तो न भवति, सर्वैर्मरणावस्थाधर्मैरसंपत्तेर्मृतोऽपि न किन्तु अवस्थान्तरं गत इति सूत्रार्थः । अत्र सूत्रे जीवस्य ब्रह्मणार्धसंपत्तिरुक्तेति भ्रान्तः शङ्कते - कथमिति । यत्सुप्तं प्रति सत्संपन्नत्वं श्रुतं तदुपाध्यभावाभिप्रायम् । उपाध्यभावश्च मुग्धस्यापि मम इति यतस्तस्मात्कृत्स्नसंपत्तिरेवेत्यर्थः । सुषुप्तिकाले कर्मासंबन्धे पुनरुत्थानं कथमित्याशङ्क्य तत्कार्याभावात्तदसंबन्धोक्तिरित्याह - जीवे हीति । ब्रह्मणा कृत्स्नसंपत्तिमङ्गीकृत्य परिहरति - न ब्रूम इति । मुग्धत्वं हि सुषुप्तस्यार्धेन निःसंज्ञत्वादिधर्मेण साम्येन संपन्नं भवति, मरणास्यार्धेन कम्पादिना संपन्नमित्यर्धसंपत्तिरित्यर्थः । इतोऽपि सुषुप्तिवैषम्यमित्याह - द्वारं चेति । अप्रसिद्धिमङ्गीकृत्योक्तं प्रसिद्धिरप्यस्तीत्याह - प्रसिद्धा चेति । नायुर्वेदो वैद्यशास्त्रम् । प्रसिद्धौ कथं विवाद इत्याशङ्क्य पञ्चमत्वेनाप्रसिद्धेरित्याह - अर्धेति ।
सुषुप्तिमृतिधर्मार्धसंपत्त्या तदन्तर्भावबुद्धिर्लोकानामित्यर्थः ॥१०॥ 【भाष्यम्】 【भाष्यम्】 सर्वाभिरवस्थाभिरलिप्तस्त्वमर्थ इति विचार्यापादसमाप्तेस्तत्पदार्थ निरूपयितुकामः प्रथमं तस्य निर्विशेषत्वमाह - न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि । उद्देश्यत्वम्पदार्थजिज्ञासोपरमानन्तरं तत्स्वरूपब्रह्मविचारस्यावसरसंगतिमाह - येनेति । निर्विशेषत्वंसविशेषत्वं चेत्युभयं लिङ्ग्यते ज्ञाप्यते याभिस्ता उभयलिङ्गाः श्रुतयः संशयबीजत्वेन सन्तीत्यर्थः । यथा विरुद्धसुषुप्तिमरणोभयरूपं मुग्धत्वं तथा श्रुतिप्रामाण्यादुभयरूपं ब्रह्म ध्येयमिति दृष्टान्तेन पूर्वपक्षः । निर्विशेषमेकरूपमेव ज्ञेयमिति सिद्धान्तयति - एवमिति । किमुभयरूपत्वं स्वतः, उत स्वतो निर्गुणस्य सर्वगन्धत्वादिविशेष उपाधितः सत्यः, आहोस्वित्स्वतः सविशेषमेव ब्रह्मेति । तत्राद्य निरस्य द्वितीयमनूद्य दूषयति - अस्तु तर्हीति । स्थानमुपाधिः । ब्रह्मणि विशेषः कल्पितः, औपाधिकत्वात्स्फटिकलौहित्यवदित्यर्थः । उपाधेः सत्यत्वेऽपि तत्कृतं मिथ्येति दृष्टं ब्रह्मणि तूपाधीनां मिथ्यात्वात्तत्कृतो विशेषो मिथ्येति किमु वाच्यमित्याह - उपाधीनामिति । तृतीयं निरस्यति - अतश्चेति । सर्वस्य विशेषस्य कल्पितत्वादेवेत्यर्थः । निषेधश्रुतेश्चैवमित्याह -
सर्वत्र हीति ॥११॥ 【भाष्यम्】 【भाष्यम्】 भिद्यत इति भेदो विशेषः, निर्विशेषत्वश्रुतावपि विशेषस्यापि श्रुतेरुभयरूपत्वं स्यादिति शङ्कां व्याचष्टे - अथापि स्यादिति । पूर्वोक्तं विरोधं स्मारयति - ननूक्तमिति । भेदश्रुतिप्रामाण्यार्थमौपाधिकरूपभेदस्वीकारादविरोध इति समाध्यर्थः । किमुपाधिगत एव रूपभेदो ब्रह्मण्युपचर्यते ध्यानार्थमुतोपाधियोगात्सत्यविरुद्धरूपवत्तया ब्रह्मणो भेदो भवतीति । आद्येऽस्मादिष्टसिद्धिः, द्वितीयमभेदश्रुत्या दूषयति -
नेति ब्रूम इति ॥१२॥ 【भाष्यम्】 【भाष्यम्】 द्वैतनिन्दापूर्वकमद्वैतोक्तेश्च निर्विशेषं तत्त्वमिति सूत्रार्थमाह - अपि चेति ।
भोक्ता जीवो भोग्यं शब्दादि तयोः प्रेरितारमीश्वरं च मत्वा विचार्य मे मम प्रोक्तं तत्सर्वं त्रिविधं ब्रह्मैवेति जानीयादित्यर्थः ॥१३॥ 【भाष्यम्】 【भाष्यम्】 द्विविधश्रुतिषु सतीषु निर्विशेषत्वे किं नियामकमिति शङ्कते - कथं पुनरिति । तत्परातत्परविरोधे तत्परं बलवदिति न्यायो नियामक इत्याह - अरूपवदेवेति । उपासनापरवाक्येषु आकारे तात्पर्याभावेऽपि देवताविग्रहादिवदाकारसिद्धिमाशङ्क्य निष्प्रपञ्चपरश्रुतिविरोधान्मैवमित्याह -
तेष्वसतीति ॥१४॥ 【भाष्यम्】 【भाष्यम्】 कल्पितद्वैते सावकाशत्वाच्च सप्रपञ्चत्वश्रुतयो दुर्बला इत्याह - प्रकाशवच्चेति । नन्वाकारवाक्यानामुपाधिकल्पितसर्वगन्धत्वादिनार्थवत्त्वं किमिति वर्ण्यते वैयर्थ्यमेवोच्यताम्, तत्राह - न हि वेदवाक्यानामिति । नन्वेवमपीति । उक्तरीत्योभयरूपत्वाङ्गीकारेण श्रुतीनां व्यवस्थितत्वेऽपीत्यर्थः । उपाधीनां कल्पितत्वादौपाधिकस्य सत्यत्वादुपपत्तेर्न सत्यमुभयरूपत्वमिति पूर्वमुक्तं, संप्रति सत्यं निर्विशेषत्वं मिथ्या सविशेषत्वमित्युच्यत इत्युभयरूपत्वाङ्गीकारेऽपि न पूर्वापरविरोध इत्याह - नेति ब्रूम इति । द्वैतस्य मिथ्यात्वे ज्ञानेन बाधादुपासनादिव्यवहारो न स्यादित्याशङ्क्य बाधात्प्रागेव स इत्याह -
सत्यमिति ॥१५॥ 【भाष्यम्】 【भाष्यम्】 यतः श्रुतिश्चिन्मात्रमाहातश्च विशेषो मिथ्येति सूत्रार्थमाह - आह चेति ।
सैन्धवघनो लवणपिण्डः ॥१६॥ 【भाष्यम्】 【भाष्यम्】 किञ्च श्रुतिस्मृत्योः परनिषेधेन ब्रह्मोपदेशान्निष्प्रपञ्चं ब्रह्मेत्याह - दर्शयति चेति ।
अथ द्वैतोक्त्यनन्तरं ज्ञानहेतुत्वान्नेति नेति उपदेशः क्रियत इत्यर्थः । अधि अन्यत्पुनः पुनरधीहि भो इति निर्बन्धकारिणं तं द्वितीये तृतीये च प्रश्ने तूष्णीं भावं त्यक्त्वोवाच । उपशान्तो निरस्तद्वैतः । अतस्तस्य तूष्णींभाव एवोत्तरमिति सौत्रश्च अतोशब्दस्तथार्थकः आदिमत्कार्यं तन्न भवतीत्यनादिमत् । सत् इन्द्रियवेद्यम् । असत् परोक्षं च न स्वप्रकाशत्वादित्यर्थः । सर्वभूतगुणैर्दिव्यगन्धादिभिर्युक्तं मां मूर्तिमन्तं पश्यसीति यत्सा माया, अत एव सद्वैतो भगवानिति मां द्रष्टुं नार्हसि वस्तुतो द्वैतातीतत्वादित्यर्थः ॥१७॥ 【भाष्यम्】 【भाष्यम्】 किञ्च यथा जलाद्युपाधिकल्पितः सूर्यचन्द्रादेर्भेदचलनादिर्धर्म एवमात्मन इति दृष्टान्तश्रुतेश्च निर्विशेषं तत्त्वमित्याह - अत एव चोपमेति ।
जलस्थप्रतिबिम्बत्वाकारेण सूर्यस्याभासत्वद्योतनाय सूर्यकेति कप्रत्ययः । यथायं ज्योतिर्मयो विवस्वान्स्वत एकोऽपि घटभेदेन भिन्नाः अपोऽनुगच्छन् बहुधा क्रियते एवमजोऽयमात्मा देवः स्वप्रकाश एकोऽप्युपाधिना मायया क्षेत्रेष्वनुगच्छन् भेदरूपः क्रियत इति योजना ॥१८॥ 【भाष्यम्】 【भाष्यम्】 इहात्मन्युक्तदृष्टान्तवैषम्यशङ्कासूत्रम् - अम्बुवदिति ।
आत्मनो नीरूपत्वाद्दूरस्थोपाध्यभावाच्च मायया बुद्ध्यादिषु प्रतिबिम्बभेदो न युक्त इत्यर्थः ॥१९॥ 【भाष्यम्】 【भाष्यम्】 उपाध्यन्तर्भावेन तत्कल्पितधर्मवत्त्वमत्र विवक्षितांशस्तेन साम्येन समाधानसूत्रम् - वृद्धिहासेति । दृष्टान्तसाम्येऽपि नीरूपात्मनः प्रतिबिम्बं स्वबुद्ध्या कथं कल्प्यत इत्यत आह - न चेदमिति । श्रूयते न कल्प्यत इत्यर्थः । श्रुतदृष्टान्तस्य 'सूर्यकादिवत्' इत्युपन्यासेन किं फलमित्यत आह - शास्त्रेति ।
आत्मनो निर्विशेषत्वं फलमित्यर्थः । अविरोध इति न वैषम्यमित्यर्थः । आत्मा प्रतिबिम्बशून्यः, नीरूपद्रव्यत्वात्, वायुवदित्यनुमाने आकाशे व्यभिचारः । अल्पजलेऽविदूराकाशप्रतिबिम्बदर्शनादुपाधिदूरस्थत्वमपि क्वचिदनपेक्षितमिति भावः ॥२०॥ 【भाष्यम्】 【भाष्यम्】 प्रवेशश्रुतेश्चोक्तानुमानबाध इत्याह सूत्रकारः - दर्शनाच्चेति । द्विपदः पुरो मनुष्यादिदेहांश्चक्रे चतुष्पदः पुरः पशून्कृत्वा पुरश्चक्षुराद्यभिव्यक्तेः पुरस्तात्स ईश्वरः पक्षी लिङ्गशरीरी भूत्वा पुर उक्तानि शरीराण्याविशत्, स च प्रविष्टोऽपि पुरुषः पूर्ण एवेत्यर्थः । तैत्तिरीयके लिङ्गस्य पक्षाद्युक्तेः पक्षित्वं मन्तव्यम् । एवं प्रतिबिम्बभावेन भेदादेः कल्पितत्वात्निर्विशेषं ब्रह्मेति स्वमतमुपसंहरति - तस्मादिति । एकदेशिव्याख्यामुत्थापयति - अत्रेति । न स्थानतोऽपीत्याद्येकमधिकरणं, तत्र ब्रह्मणो निष्प्रपञ्चत्वे स्थिते किंलक्षणं ब्रह्मेति संदेहे प्रकाशवच्चेत्यादिद्वितीयमधिकरणं प्रवृत्तं, न सद्रूपमेव ब्रह्म किन्तु प्रकाशवच्च चिद्रूपं च । कुतःवैयर्थ्यात् । सत्यं ज्ञानं सदेव सोम्येत्युभयश्रुतेर्द्विरूपे ब्रह्मण्यर्थवत्त्वादिति पूर्वपक्षे सिद्धान्तः आह च तन्मात्रम् । सन्मात्रं ब्रह्म श्रुतिराह, 'ज्ञानस्य सत्तानतिरेकात्' इति । इदं द्वितीयाधिकरणं दूषयति - अत्र वयमिति । द्वितीयाधिकरणस्य किं ब्रह्मणोऽनेकरूपत्वनिरासः फलम्, उत बोधरूपत्वनिरास आहोस्वित्सत्तानिरास इति विकल्प्य सर्वथाप्यानर्थक्यं प्रपञ्चयन्नाद्ये गतार्थतामाह - यदि तावदिति । न हि द्वितीय इत्याह - न चेति । ब्रह्मणो बोधरूपत्वनिरासे जडत्वाज्जीवाभेदश्रुतिबाधश्च स्यादित्याह - कथं वेति । न तृतीय इत्याह - नापीति । सत्तानिरासे बोधस्य तुच्छत्वं च स्यादित्याह - कथमिति । न च बोधस्य सत्तानतिरेकान्न तुच्छतेति वाच्यम् । सद्बोधपदयोर्वाच्यानतिरेके पर्यायत्वप्रसङ्गात् । एवं सिद्धान्तं फलाभावेन दूषयित्वा पूर्वपक्षं दूषयति - नापीति । प्रसङ्गमेवाह - सत्तेति । व्यावृत्तत्वं भिन्नत्वम् । निष्प्रपञ्चैकरूपत्वसिद्धान्तविरोधात्भिन्नोभयरूपत्वपूर्वपक्षानुत्थानमित्यर्थः । उभयश्रुतिबलादुत्थानमिति शङ्कते - श्रुतत्वादिति । मेरुविन्ध्यवत्परस्परं भिन्नसत्ताबोधयोरेकब्रह्माभेदशङ्का श्रुतिशतेनापि न युक्तेत्याह - नेति । सद्बोधयोर्भेदोऽस्ति न वा । आद्ये श्रुतेरपि विरुद्धार्थत्वानुपपत्तेर्न पूर्वपक्षोत्थानमित्युक्तम् । संप्रति द्वितीयं शङ्कते - अथ सत्तैवेति । सद्बोधपदयोर्वाच्यभेदेऽपि लक्ष्यैक्योपपत्तिरखण्डार्थस्वीकारादित्यर्थः । अखण्डार्थस्य पूर्वपक्षत्वं न स्यात्सिद्धान्तत्वात् । किञ्चात्र संशयोऽप्ययुक्त इत्याह - तथापीति । एकाधिकरणपक्षे सूत्राणि कथं नेयानीत्यत आह - सूत्राणीति । स्वपक्षे सूत्रसामञ्चस्यं चेत्याह - अपि चेति । अवश्यापेक्षितगत्यर्थत्वेनोत्तरसूत्राणां पूर्वैकवाक्यत्वान्नाधिकरणभेद इति भावः । आकारश्रुतीनां कल्पिताकारो गतिरिति स्वमतमुक्तं, प्रपञ्चविलयवादिनस्तु 'मनोमयः प्राणशरीरः सत्यकामः' इत्याद्याकारश्रुतीनां तदितराकारप्रविलयो गतिरित्याहुः । मनोमय इति कोऽर्थः, मनोऽतिरिक्तोपाधिशून्य इत्यर्थः । एवं प्राणशरीरपदेन प्राणातिरिक्तोपाधिनिषेधान्मनसोऽप्यभावसिद्धिः, एवं सर्वे शब्दा अनाकारब्रह्मपरा एवेति तन्मतमनूद्य दूषयति - यदपीत्यादिना । किं ज्ञेयब्रह्मप्रकरणस्थानामाकारशब्दानां निषेधपरत्वमुतोपासनाप्रकरणस्थानामपि । तत्राद्यमङ्गीकरोति - ये हीति । अस्य जीवभावं प्राप्तस्येश्वरस्य दश हरयो विषया हरणाद्दशेन्द्रियाणि प्राणिभेदापेक्षया शतानि सहस्राणि च तेषामीश्वराद्भेदमाशङ्क्याह - अयमिति । ईश्वर एव हरय इत्यर्थः । द्वितीयं दूषयति - ये पुनरिति । मनोमयादिशब्दानां मुख्यवृत्त्या गुणपरत्वसंभवे निषेधलक्षणापि न युक्तेत्याह - श्रुत्या चेति । किं चाकारानाकारश्रुतिद्वैविध्ये सति ब्रह्मानाकारमेवेत्यत्र किं विनिगमकमिति शङ्कोत्थानादस्थूलादिश्रुतीनां निराकारतात्पर्यं नियामकमिति कथनार्थमिदं सूत्रमर्थवद्भवति । सर्वश्रुतीनां निषेधार्थत्वे तु शङ्कानुत्थानान्नियामकसूत्रं व्यर्थं स्यादित्याह - सर्वेषां चेति । ननूपासनाऽर्थकवाक्यानां स्वार्थे फलाभावात्सफलनिषेधवाक्यशेषत्वमित्याशङ्क्य फलस्य श्रुतत्वान्नान्यशेषतेत्याह - फलमपीति । अर्थैक्याभावाच्च नैकवाक्यतेत्याह - कथं चेति । अर्थैक्यं शङ्कते - एकेति । यथा फलवत्परमापूर्वाख्यनियोगैक्यादङ्गप्रधानवाक्यानामेकवाक्यता तथा तत्त्वावबोधकामस्य प्रपञ्चप्रविलयविषयक एको नियोगरूपोऽर्थोऽस्तीत्याकारानाकारवाक्यानां सर्वेषामेकवाक्यतेत्यर्थः । नियोगासिद्ध्या दूषयति - नेति । विषयं शङ्कते - ननु द्वैतेति । प्रत्यनीकं प्रतिबन्धकम् । ननु प्रपञ्चविलये ब्रह्मलयः स्यादभेदादित्यत आह - ब्रह्मस्वभावो हि प्रपञ्च इति । कारणं हि कार्यस्य स्वरूपमतः कार्यनाशेऽपि कारणस्य न लयः, घटनाशेऽपि मृद्दर्शनादित्यर्थः । प्रपञ्चस्य सत्यस्य कल्पितस्य वा लये विधिरिति विकल्प्याद्यं दूषयति - तत्र यदि तावदिति । सत्यस्य ज्ञानादध्वस्तेः मुसलादिना च कृत्स्नद्वैतध्वंसायोगात् नभोग्रसनविधिवदशक्यविषयोऽयं विधिः, किञ्च शुकादिमुक्त्या सर्वमुक्तिः स्यादित्यर्थः । द्वितीयमनूद्य दूषयति - अथेत्यादिना । उपदेशजन्यज्ञानादेवाविद्यातज्जप्रपञ्चलयसिद्धेर्नियोगो वृथैवेत्यर्थः । किञ्च ब्रह्मज्ञानादौ विधिः किं ब्रह्मण्यज्ञाते ज्ञाते वा । नाद्यः, अशक्यत्वादित्याह - अनावेदिते त्विति । द्वितीयं शङ्कते - नन्विति । उपदेशादेव ज्ञाते ब्रह्मणि साक्षात्कारद्वैतबाधयोः सिद्धेर्विधिवैयर्थ्यं सिद्धस्य विधिना कर्तुमयोगादित्याह - नेति । एवंविषयाभावान्नियोगाभावमुक्त्वा नियोज्याभावात्तदभावमाह - नियोज्योऽपि चेति । प्रपञ्चान्तर्भूतो ब्रह्म वेत्यर्थः । आद्ये जीवनाशाद्विध्ययोगः, द्वितीये नियोज्यासिद्धिः,तर्हि ज्ञाने विधिप्रत्ययानां का गतिरित्यत आह - द्रष्टव्यादिशब्दा इति । ननु श्रुतं ज्ञानं त्यक्त्वा तत्साधनव्यापारविधिः किमिति कल्प्यत इत्याशङ्क्य ज्ञानस्य पुरुषकृत्यसाध्यत्वादित्याह - ज्ञेयाभिमुखस्यापीति । किञ्च ज्ञानविधिवादिना ज्ञेयं ब्रह्मावश्यं वेदान्तैर्ज्ञापनीयं विषयानवबोधे विधिबोधायोगात् । तथाच वेदान्तैरेव ज्ञानेत्पत्तेर्विध्यानर्थक्यमित्याह - तस्मादिति । तं ज्ञानार्थिनं प्रतीत्यर्थः । ननूत्पन्नं ज्ञानमन्यथाकर्तुं विधिरर्थवानिति, नेत्याह - न चेति । नन्वनग्निर्योषिदिति प्रत्यक्षप्रमाणादुत्पन्नमपि ज्ञानं तामग्निं ध्यायेदिति । विधिनान्यथाकृतं दृश्यत इत्यत आह - यदीति । अन्यथाधीः कृतिसाध्या चेत्क्रियैव, कृतिं विनैव चेद्भ्रान्तिरेवातो मानं विना विधितो ज्ञानासिद्धेर्मानवस्तुतन्त्रे ज्ञाने विधिर्मृषेत्यर्थः । वेदान्तेषु विधिवादिनोऽन्यच्च दूषणमस्तीत्याह - किञ्चान्यदिति । ब्रह्मात्मैक्येनियोगे च वेदान्तवाक्यस्य प्रामाण्यमाशङ्क्यार्थभेदाद्वाक्यभेदो विरुद्धार्थत्वादप्रामाण्यं चेति दूषयति - अथेत्यादिना । किञ्च श्रुतं ब्रह्म न श्रुतो विधिर्वेदान्तेषु तत्कल्पने च कर्मजन्यत्वान्मोक्षस्यानित्यत्वसातिशयत्वादिप्रसङ्ग इत्याह - नियोगपरतायां चेति । फलितमाह - अतश्चेति । इदानीं प्रौढवादेन नियोगमङ्गीकृत्य तदेकत्वं खण्डयति - अभ्युपगम्यमानेऽपीति । भिन्नक्रियावाचिशब्दः शब्दान्तरं यथा यजति ददातीति तथेहापि वेदोपासीतेति शब्दभेदः । निर्गुणसगुणरूपभेदःप्रकरणभेदः मुक्त्यभ्युदयफलभेद इत्येतैः प्रमाणैर्निर्गुणज्ञानसगुणोपासनाविषयकनियोगभेद इत्यर्थः । कथं तर्ह्यङ्गाङ्गिवाक्येषु नियोगैक्यं, तत्राह - प्रयाजेति । एकस्यैव स्वर्गकामस्य साङ्गप्रधानाधिकारात्तत्साध्यफलापूर्वैक्यादेकवाक्यतेत्यर्थः । इहापि निर्गुणसगुणविद्ययोरेकाधिकारात्नियोगैक्यमस्तु, नेत्याह - न त्विहेति । मुक्त्यभ्युदयार्थिभेदान्मिथो विरुद्धार्थविद्ययोरङ्गाङ्गित्वायोगाच्च न वियोगैक्यम् । न च निर्गुणविद्यानियोग एक एव सगुणविद्यानङ्गीकारादिति वाच्यम् । अहो विपरीतं पाण्डित्यमायुष्मतः, विघ्न्ययोग्यविद्यायां विधिर्विधियोग्यायामविधिरिति, तस्मात्साकारवाक्यानामाकारलयद्वारा निर्गुणवाक्यैकवाक्यतागतिरसद्गतिरेव, किन्तु तेषां कल्पिताकारो गतिस्तदुपासनयाभ्युदयसिद्धेः, निर्गुणवाक्यानां तु परमार्थालम्बनत्वमित्यस्मदुक्त एव विभागः साधीयानित्युपसंहरति -
तस्मादिति ॥२१॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मणो निर्विशेषचिन्मात्रत्वमुक्त्वा सर्वनिषेधावधित्वेन सद्रूपत्वमाह - प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति । पृथिव्यप्तेजोभूतत्रयं मूर्तं वाय्वाकाशद्वयममूर्तमिति राशिद्वयमुक्त्वा भूतद्वयस्यामूर्तस्य सारः 'करणात्मा हिरण्यगर्भो य एष एतस्मिन् सूर्यमण्डले पुरुषो यश्चायं दक्षिणेऽक्षिणि पुरुषः' इत्युक्तः, तस्य वासनामयानि स्वप्नरूपाणि 'तद्यथा माहारजनं, वासो यथा पाण्ड्वाविकं यथेन्द्रगोपः' इत्युपमाभिरुक्तानि विचित्राणि, तत्र महारजनं हरिद्रा तया लिप्तं वस्त्रं माहारजनं, पाण्ड्वादिकमिति धवलं कम्बलादि । केचित्तु श्रुतिमुपलक्षणं कृत्वा सूक्ष्मपञ्चभूतान्यमूर्तानि पञ्चीकृतानि मूर्तानि ततश्चामूर्तरसत्वोक्त्या करणानां पाञ्चभौतिकत्वसिद्धिरिति व्याचक्षते । अथ सत्पदात्मकप्रपञ्चोक्त्यनन्तरं, अत उक्तारोपस्य निषेधार्थत्वान्नेति नेतीति निषेधेनोपदेशः क्रियत इत्यर्थः । नेतिशब्दार्थमाह - न हीति । एतस्मादात्मनोऽन्यन्नास्तीति नेतीत्युच्यत इत्यर्थः । शून्यतानिरासार्थं परं ब्रह्मास्तीत्युक्तमिति सिद्धान्तरीत्या श्रुत्यर्थः । अत्र निषेध्यविशेषानुपलम्भात्संशयमाह - तत्र कोऽस्येत्यादिना । नञ्प्रयोगस्य नकारास्येतिशब्दोपस्थापितवस्तुनिषेधकत्वादित्यर्थः । इतिशब्दान्निषेध्यसामान्यसमर्पणे विशेषाकाङ्क्षायां प्रकरणाद्रूपद्वयस्य रूपिब्रह्मणश्च निषैध्यत्वभानात्संशयमुक्त्वा पूर्वोक्तं निर्विशेषं ब्रह्म नास्तीत्याक्षेपसङ्गत्या पूर्वपक्षयति - तत्र प्रकृतत्वेति । पूर्वपक्षे तत्पदार्थाभावाद्वाक्यार्थाभेदासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलम् । निरधिष्ठाननिषेधादर्शनात्सर्वनिषेधो न युक्त इत्यरुच्या प्रपञ्चे ब्रह्मनिषेध इत्याह - अथवेति । एकब्रह्मण एव निषेधे नकारद्वयस्य पौनरुक्त्यामित्यत आह - अभ्यासस्त्विति । उत्सूत्रमेव तावत्सिद्धान्तमुपक्रमते - एवमिति । शून्यप्रसङ्ग इष्ट इति वदन्तं प्रत्याह - किञ्चिद्धीति । तच्चेति प्रतिषेधनमित्यर्थः । अधिष्ठानानवशेषे तत्प्रमारूपहेत्वभावात् निषेधवाक्यार्थः प्रमा न स्यात् 'इदमत्र नास्ति' इति लोके निषेधस्य साधिष्ठानस्यैव प्रमितिदर्शनादित्यर्थः । किञ्च यद्भाति तत्सदित्युत्सर्गस्य भानार्थाभावाधिष्ठानप्रमितिरपवादस्तया पूर्वभानस्य भ्रमत्वनिश्चयेनार्थसत्त्वापलापात् । अपवादानङ्गीकारे तूत्सर्गतः प्रपञ्चस्य सत्यत्वापत्तेर्निषेधानुपपत्तिरित्याह - अपरिशिष्यमाणे चेति । अधिष्ठानसत्त्वं विना भ्रान्तिनिषेधयोरयोगाच्छून्यवादो न युक्त इत्युक्त्वा पूर्ववादिनः पक्षान्तरं दूषयति - नापीति । देहात्माभिमानवल्लौकिकमानप्राप्तद्वैतस्य निषेधो युक्तो न वेदान्तप्रमितब्रह्मण इति भावः । यदुक्तं वाङ्मनसातीतत्वात् निषेधार्हं ब्रह्म इति तत्राह - वाङ्मनसेति । ब्रह्मणो वागाद्यतीतत्वं निषेधार्थं न चेत्किमर्थं तदुक्तिरित्यत आह - प्रतिपादनेति । उक्तार्थे सूत्रं योजयति - तदेतदित्यादिना । 'द्वे वाव ब्रह्मणो रूपे' इति रूपद्वयस्यैव प्राधान्येन प्रकृतत्वान्नेतीति निषेध इत्यर्थः । ननु 'आदित्यमण्डले पुरुष' इति ब्रह्माप्यत्र प्राधान्येनोक्तमित्याशङ्क्य पुरुषो लिङ्गात्मा अमूर्तरसत्वश्रुत्या भूतजनितत्वभानात्स्वप्नरूपत्वश्रुतेश्चेत्याह - तज्जनितमेवेति । रूपरूपिणोरभेद उक्तः । ननु वासनामयं रूपमेव किमित्युपमीयते प्रसिद्धरूपमेव किं न स्यादित्यत आह - अमूर्तरसस्येति । रूपद्वयस्यैव प्राधान्येन प्रकृतत्वे फलितमाह - तदिति । प्रतियोगित्वेन समर्प्यत इत्यर्थः । न चार्थतः प्राधान्यद्ब्रह्मणो निषेधः राज्ञो भृत्यो नास्तीत्यत्र राजनिषेधप्रसङ्गादिति भावः । किञ्चात्र ब्रह्मणः प्रतिपाद्यत्वात्न निषेध इत्याह - प्रपञ्चिते चेति । ननु ब्रह्मणि निषिद्धस्याप्यन्यत्र स्थितिसंभवात्कथं कल्पितत्वमित्यत आह - तदास्पदमिति । उपादाने निषिद्धस्यान्यत्र न स्थितिरित्यर्थः । यत्तु द्वैतनिषेधे प्रत्यक्षादिविरोध इति, तत्राह - युक्तं चेति । स्थापितं हि आरम्भणाधिकरणे प्रत्यक्षादेर्व्यावहारिकं प्रामाण्यं न तत्वावेदकमिति, अतस्तत्त्वतो निषेधान्न विरोध इति भावः । ननु वस्तुत्वाद्वैतवद्ब्रह्मणोऽपि निषेधोऽस्तु, नेत्याह - नत्विति । द्वैतभावाभावसाक्षित्वादशक्यो निषेध इत्यर्थः । न चेत्यादि स्पष्टार्थम् । यच्चोक्तं निषेधाभ्यां रूपं रूपि ब्रह्म च निषिध्यत इति, तत्राह - द्वौ चैताविति । उद्देश्यविधेयार्थानां संख्यासाम्ये यथाक्रमं संबन्ध इति न्यायः 'यथासङ्ख्यमनुदेशः समानाम्' इति पाणिनिसूत्रसिद्धस्तेनात्र रूपद्वयोद्देशेन निषेधद्वयविधिरित्यर्थः । वीप्सापक्षे सर्वदृश्यनिषेधाज्जिज्ञासाशान्तिरिति विशेषमाह - परिगणितेति । मूर्तं नामूर्तं नेत्येवं विशिष्यनिषेधे जिज्ञासा न शाम्यतीत्यर्थः । सूत्रशेषं व्याचष्टे - इतश्चेति । प्रतिषेधानुपपत्त्या ब्रह्मास्तीत्यवगतं भूयः पुनः परमस्तीति श्रुतिः साक्षादपि ब्रवीतीत्यर्थः । तच्चेति ।
अवशिष्टं ब्रह्मेत्यर्थः । स्पष्टमन्यत् ॥२२॥ 【भाष्यम्】 【भाष्यम्】 नन्वग्राह्यत्वाद्ब्रह्म नास्तीति शङ्कानिरासार्थं सूत्रं व्याचष्टे - यत्प्रतिषिद्धादिति ।
रूपाद्यभावादव्यक्तमिन्द्रियाग्राह्यं न त्वसत्त्वादित्यर्थः । अन्यैर्देवैरिन्द्रियान्तरैर्न गृह्यत इत्यन्वयः ॥२३॥ 【भाष्यम्】 【भाष्यम्】 तर्हि कदा ग्राह्यमिति शङ्कोत्तरं सूत्रं व्याख्याति - अपि चैनमिति ।
चस्त्वर्थः । इन्द्रियैर्न गृह्यते अपि तु संराधनेन शास्त्रसंस्कृतमनसेत्यर्थः । भक्तिध्यानाभ्यां प्रत्यगात्मनश्चित्ते प्रकर्षेण निधानं स्थापनं प्रणिधानम् । जपनमस्कारादिरादिशब्दार्थः । स्वयंभूरीश्वरः । स्वानीन्द्रियाणि । पराञ्च्यनात्मग्राहकाणि कृत्वा व्यतृणत् नाशितवान् । स हि तेषां नाशो यदसदर्थग्राहितया सर्जनं तस्मात्तेषां तथा सृष्टत्वात्, सर्वो लोकः परागर्थमेव पश्यति नान्तरात्मानम् । कश्चित्तु धीरो धीमानावृत्तचक्षुर्निरुद्धेन्द्रियः शुद्धे चेतसि प्रत्यगात्मनं शास्त्रेण पश्यति मोक्षार्थीत्यर्थः । ततः कर्मणा विशुद्धचित्तो ज्ञानाख्यसत्त्वोत्कर्षेण संध्यायंस्तं निष्कलं पश्यतीत्यर्थः । विनिद्राः वितमस्काः, तत्र हेतुर्जितश्वासत्वं प्राणायामनिष्ठत्वं, युञ्चाना ध्यायिनः योगलभ्यः आत्मा योगात्मा ॥२४॥ यथा प्रकाशादय उपाधिषु भिद्यन्ते न स्वतः, एवं प्रकाशश्चिदात्मापि ध्यानादिकर्मण्युपाधौ भिद्यते स्वतस्तस्यावैशेष्यमेकरसत्वमेव तत्त्वमसीत्यभ्यासादिति सूत्रयोजना ॥२५॥ 【भाष्यम्】 【भाष्यम्】 जीवस्य ब्रह्मात्मत्वफलश्रुतिरूपलिङ्गादपि भेद औपाधिक एवेत्याह सूत्रकारः-
अतोऽनन्तेनेति ॥२६॥ 【भाष्यम्】 【भाष्यम्】 भेदाभेदपूर्वपक्षसूत्रद्वयस्य संगतिमाह - तस्मिन्नेवेति ।
यथाहित्वेनाभेदः । कुण्डलाख्यस्य सर्पावस्थाविशेषस्य कुण्डलत्वेन भेदः । तथा जीवस्य ब्रह्मत्वेनाभेदो जीवत्वेन भेदः । यद्वा सूर्यप्रकाशयोरेकतेजस्त्वधर्मावच्छेदेन भेदाभेदवज्जीवपरयोरपि एकेनैवात्मत्वधर्मेण भेदाभेदौ श्रुतिबलात्स्वीकार्याविति सूत्रद्वयार्थः । कुण्डलत्वं वलयाकारत्वं, आभोगत्वं वक्राकारत्वं, प्रांशुत्वं दीर्घदण्डाकारत्वमुद्गतमुखत्वमादिशब्दार्थः ॥२७ ॥ ॥२८॥ 【भाष्यम्】 【भाष्यम्】 सिद्धान्तसूत्रम् - पूर्ववद्वेति ।
धर्मभेदेनैकधर्मेण वा भेदाभेदस्वीकारे भेदस्य सत्यत्वादभेदवदनिवृत्तिः स्यात् । एकत्रैव भेदाभेदस्वीकारे लोके विरोधकथोच्छेद इत्यपि द्रष्टव्यं, तस्मात् निष्प्रपञ्चं चिदेकरसं ब्रह्म तत्पदलक्ष्यमस्तीति सिद्धम् ॥२९ ॥ ॥३०॥ 【भाष्यम्】 【भाष्यम्】 यदुक्तं नेति नेतीत्यादिश्रुतिभिः ब्रह्मातिरिक्तं वस्तु निषिध्यत इति, तदयुक्तम् । सेत्वादिश्रुतिभिर्वस्त्वन्तरास्तित्वभानादित्याक्षिपति - परमत इति । यद्यपि द्युभ्वाद्यधिकरणे सेतुशब्दो विधारकत्वेन गौणो व्याख्यातस्तथाप्युन्मानादिश्रुतीनां गतिमजानतोऽयं पूर्वपक्षः, तत्रोन्मानादिश्रुतीनां मुख्यत्वात्, सद्वयं ब्रह्मेति फलं सिद्धान्ते तूक्ताद्वितीयतत्पदलक्ष्यसिद्धिरिति विवेकः । ब्रह्म सद्वयं, सेतुत्वात्, लौकिकसेतुवत् । तीर्णत्वश्रुतेश्चेत्याह - सेतुं तीर्त्वेति । जाङ्गलं वातभूयिष्ठमिति वैद्योक्तेः वातप्रचुरो देशो जाङ्गलं, इह तु देशमात्रं ग्राह्यम् । दिशश्चतस्रः कलाः प्रकाशवान्नाम पादः, पृथिव्यन्तरिक्षं द्यौः समुद्र इत्यनन्तवान्नाम पादः, अग्निः सूर्यश्चन्द्रो विद्युदिति ज्योतिष्मान्नाम पादः, चक्षुः श्रोत्रं वाङ्मन इत्यायतनवान्नाम पाद इति चतुष्पाद्ब्रह्मेति पादानामर्धानि अष्टौ शफा अस्येत्यष्टाशफं, पादेषु चतुर्षु प्रत्येकं चतस्रः कला इति षोडशकलमित्यर्थः । षोडशपणपरिमितं ताम्रं कार्षापणसंज्ञं भवति तद्वत्सद्वयं ब्रह्म, परिमितत्वादित्यर्थः । संबन्धित्वाच्च नगरवदित्याह - तथा संबन्धेति । अन्यदमितमिति असङ्ख्यातमित्यर्थः । अन्यस्पर्शे अल्पत्वेन मितत्वनियमादिति मन्तव्यम् । भेदेनोक्तत्वाच्च घटवदित्याह - भेदव्यपदेशश्चेति । अस्याक्षिस्थस्यामुनादित्यस्थेन सहेति यावत् । आधारतोऽतिदेशतश्च भेदमुक्त्वावधितोऽपि तमाह -
सावधिकं चेति ॥३१॥ 【भाष्यम्】 【भाष्यम्】 सिद्धान्तसूत्रं व्याचष्टे - तुशब्देनेत्यादिना । यदन्यत्तत्किं साद्यनादि वा, नाद्यः मानाभावात्कार्यस्य ब्रह्मानन्यत्वनिर्गुणयाच्चेत्युक्त्वा न द्वितीयः प्रागुत्पत्तेरद्वयत्वावधारणादित्याह - न च ब्रह्मव्यतिरिक्तमिति । उक्तानुमानानामागमबाध इति भावः । उक्तं स्मारयित्वा हेतुनामसिद्धिमाह - ननु सेत्वित्यादिना । किं सेतुश्रुत्या परसिद्धिरर्थाद्वा, नाद्य इत्युक्त्वा द्वितीयं शङ्कते - तत्र परस्मिन्निति । सेतुत्वलिङ्गेनाद्वितीयत्वश्रुतिबाधनमन्याय्यमित्याह - न चेति । लिङ्गं चासिद्धमित्याह - अपि चेति । विधारकत्वं तु कल्पितद्वितीयापेक्षयापि युज्यत इति भावः । तीर्णत्वहेतुरप्यसिद्ध इत्याह -
सेतुं तीर्त्वेति ॥३२॥ 【भाष्यम्】 【भाष्यम्】 परिमितत्वमप्यसिद्धमित्याह - बुद्ध्यर्थ इति । वाक्प्राणचक्षुःश्रोत्राणि मनसः पादा अग्निवाय्वादित्यदिश आकाशस्य पादा ध्यानार्थं कल्पितास्तद्वद्ब्रह्मण उन्मानमित्यर्थः । लौकिकं दृष्टान्तमाह - अथवेति । पादकल्पनां विनापि व्यवहारः किं न स्यादित्यत आह - न हीति ।
कार्षापणस्य व्यवहाराय पादकल्पनावत्मन्दधियां ध्यानव्यवहाराय ब्रह्मण उन्मानकल्पनेत्यर्थः ॥३३॥ 【भाष्यम्】 【भाष्यम्】 संबन्धभेदौ कल्पितौ न सत्यद्वितीयसाधकावित्याह - स्थानेति ।
स्थानमुपाधिबुद्ध्यादिः । एकस्यैवोपाधिना भिन्नस्योपाधिशान्तौ सत्यां संबन्ध उपचर्यते । यथा सौरालोकादेरङ्गुल्याद्युपाधिना भिन्नस्योपाधिवियोगे महालोकाद्यात्मना संबन्धोपचारस्तद्वत्तथादित्य चक्षुषोः स्थानयोर्भेदाद्धिरण्मयपुरुषभेदकल्पनेत्यर्थः ॥३४॥ 【भाष्यम्】 【भाष्यम्】 मुख्यावेव संबन्धभेदौ किं न स्यातामित्यत्र सूत्रम् -
उपपत्तेश्चेति ॥३५॥ 【भाष्यम्】 【भाष्यम्】
स्वरूपेण ब्रह्मणा जीवस्य संबन्धो भेदनिवृत्तिरूपो युज्यते न मुख्यः संयोगादिः वस्तुद्वयासत्त्वात्तथा भेदोऽपि न स्वत एकत्वश्रुतेरित्यर्थः ॥३६॥ 【भाष्यम्】 【भाष्यम्】 ननु द्वितीयाभावे सर्वगतत्वश्रुतिविरोध इत्यत आह - अनेन सर्वगतत्वमिति ।
द्वितीयं सत्यं चेत्सेत्वादिवद्ब्रह्मणोऽल्पतास्यात् 'यत्रान्यत्पश्यति तदल्पम्' इति श्रुतेः किञ्च निरवयवासंगब्रह्मणः सत्यप्रपञ्चसंबन्धायोगात्तवैव सर्वगतत्वश्रुतिविरोध इति भावः अधिष्ठानेनाध्यस्तं जगद्व्याप्तमध्यस्तत्वात् रज्ज्वा व्याप्तसर्पवत्, इति न्यायः ॥३७॥ 【भाष्यम्】 【भाष्यम्】 एवं तत्पदलक्ष्यं संशोध्य वाच्यार्थमाह - फलमत उपपत्तेः । निर्विशेषत्वादन्यः स्वभावः फलहेतुत्वाख्यः इष्टं सुखं देवादीनां, अनिष्टं दुःखं नारकिणां, व्यामिश्रं मनुष्याणां, संसारो जन्ममृतिप्रवाहः गोचरः आश्रयो यस्य तत्संसारगोचरम् । अत्र कर्मेश्वरयोः फलहेतुत्वश्रुतेः संशयमाह - किमिति । अत्र पूर्वपक्षे फलदातुरीश्वरस्य तत्पदवाच्यस्यासिद्धेर्लक्ष्यासिद्धिः सिद्धान्ते तत्सिद्धिरिति फलभेदः । पूर्वोक्तनिर्विशेषत्वमुपजीव्य फलदातृत्वमपीश्वरस्य नास्तीति पूर्वपक्षोत्थानात्संगतिः । यद्यपि सर्वगतत्ववत्फलदातृत्वं व्यवहारदशायां सिध्यति यथापि कर्मण एव फलदातृत्वमिति शङ्कानिरासेनोक्तलक्ष्यार्थनिर्वाहकवाच्यार्थनिर्णयार्थमस्याधिकरणस्यारम्भ इति मत्वा सिद्धान्तं तावदाह - तत्र तावदिति । स्वर्गादिकं विशिष्टदेशकालकर्माभिज्ञदातृकं, कर्मफलत्वात्, सेवाफलवदित्युपपत्तिः । यागादिक्रियाख्यं कर्म तावत्क्षणिकं तत्किं स्वनाशात्फलं जनयत्युत फलमुत्पाद्य नश्यति, आहोस्विदपूर्वात्फलसिद्धिः, नाद्य इत्याह - अभावादिति । द्वितीयं शङ्कते - स्यादिति । कर्मनाशक्षणमारभ्यामभिव्यक्तस्वर्गसुखादिसत्त्वे मानं नास्तीतिदूषयति - तदपीत्यादिना । तृतीयं शङ्कते - अथेति । अपूर्वं किं स्वतन्त्रमेव फलदानाय प्रवर्तते, चेतनाधिष्ठितं वा, नाद्य इत्याह - तदपीति । द्वितीये त्वदृष्टानभिज्ञजीवस्याधिष्ठातृत्वायोगादीश्वरस्याधिष्ठातृत्वसिद्धिरिति भावः । प्रौढवादेनापूर्वं नास्तीत्याह - तदस्तित्व इति ।
क्षणिकयागादेः श्रुतस्वर्गादिहेतुत्वानुपपत्त्या स्थाय्यपूर्वसिद्धिरिति चेत् । न । कर्मभिराराधितादीश्वरादेव स्थायिनः फलसिद्धेरित्यर्थः । न केवलतर्केणापूर्वं सिध्यतीति भावः ॥३८॥ 【भाष्यम्】 【भाष्यम्】 'कृतात्ययेऽनुशयवान्' इत्यत्रोदाहृताभिः 'य इह रमणीयचरणाः' इत्यादिश्रुतिस्मृतिभिरपूर्वसिद्धिश्चेत्ताभिरीश्वरस्यापि फलदातृत्वं स्वीकार्यमित्याह - श्रुतत्वाच्चेतिसूत्रकारः ।
अन्नमासमन्तात्प्राणिभ्यो ददातीत्यन्नादः, वसुदानो धनदाता, कर्मणोऽपूर्वस्य वा जडत्वेनोपकरणमात्रत्वात्स्वतन्त्र ईश्वर एव फलदातेति सिद्धान्तो दर्शितः ॥३९॥ 【भाष्यम्】 【भाष्यम्】 इदानीं पूर्वपक्षयति - धर्ममिति । विधिश्रुतिर्विध्यर्थः, तस्य लिङर्थस्य प्रेरणात्मनो यागो विषयस्तद्भावावगमाद्यागः स्वर्गसाधनमिति गम्यते । यागस्येष्टसाधनत्वाभावे प्रेरणानुपपत्तेरित्यर्थः । अपूर्वद्वारा कर्मणः फलमुपपद्यत इत्युक्त्वा सिद्धान्तं दूषयति - ईश्वरस्त्विति । ईश्वरः किं कर्मानपेक्षः फलं ददाति तत्सापेक्षो वा, आद्य आह - अविचित्रस्येत्यादिना ।
द्वितीये संवेष्टनसंस्कारमात्रात्कटादौ वेष्टनवत्कर्मापूर्वादेव फलसिद्धेः किमीश्वरेणेति भावः । अत्र वयं वदामः - चन्दनकण्टकादिदृष्टसंपत्त्यैव सुखादिसंभवे कृतं धर्माधर्माभ्यामिति श्रुतिस्मृतिबलात्तदपेक्षायामीश्वरेण किमपराद्धम् । अतः ईश्वरानपेक्षात्केवलात्कर्मणः फलमित्ययुक्तमिति ॥४०॥ 【भाष्यम्】 【भाष्यम्】 सिद्धान्तयति - पूर्वं त्विति ।
अचेतनस्य कर्मणः स्वतः प्रवृत्त्ययोगात्सेवादिदृष्टान्तानुसारिश्रुतेर्बलीयस्त्वात्सर्ववेदान्तेष्वीरश्वस्य जगद्धेतुत्वश्रुतेश्चेश्वराधिष्ठितात्कर्मणो जगदन्तःपातिफलसिद्धिरिति समुदायार्थः ॥४१॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां तृतीयस्याध्यायस्य द्वितीयः पादः ॥ ॥ इति तृतीयाध्यायस्य तत्त्वंपदार्थपरिशोधनाख्यो द्वितीयः पादः ॥ तृतीयाऽध्याये तृतीयः पादः । मार्तण्डं ध्वान्तनाशाय तिलकस्वामिनं मुदे । विघ्नेशं विघ्नविध्वस्त्यै प्रणमामि मुहुर्मुहुः ॥ ब्रह्मस्वरूपं निर्धार्य तज्ज्ञानसाधनोपासनास्वरूपमाह - सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषादिति । पादसंगतिमाह - व्याख्यातमिति । पूर्वपादे तत्त्वंपदार्थविवेकः कृतः । इह तत्फलं वाक्यार्थज्ञानमानन्दादयः प्रधानस्येति सूत्रेणापुनरुक्तापेक्षिततत्पदतद्वाच्यार्थोपसंहारेण निर्धार्यत इति फलफलिभावः संगतिः । सगुणवाक्यार्थविद्याचिन्ता तु तद्विद्यानां चित्तैकाग्र्यद्वारा निर्गुणज्ञानसाधनत्वात्क्रियत इति मन्तव्यम् । संप्रति निर्गुणज्ञानं भेदाभेदविचारविषयत्वेनोक्तमिति मन्वान आक्षिपति - नन्विति । वेद्यभेदे विद्याभेदचिन्ता स्यात् ब्रह्मणस्तु वेद्यस्यैक्यान्न चिन्तावसर इत्यर्थः । ब्रह्मैक्येऽपि धर्मभेदाच्चिन्तेत्यत आह - एकरूपत्वाच्चेति । निर्धर्मत्वादित्यर्थः । एकरूपेऽपि ब्रह्मण्यनेकप्रकारसंभवाद्भेदशङ्का इत्यत आह - न चेत्यादिना । पूर्वपक्षे ज्ञानभेदशङ्कानुपपत्तिमुक्त्वा चोदनाद्यभेदाज्ज्ञानाभेद इति सिद्धान्तोऽप्ययुक्त इत्याह - नाप्यस्येति । एवं पादारम्भमाक्षिप्य समाधत्ते - तदुच्यत इति । सगुणविद्यास्वेव भेदाभेदचिन्ता क्रियते निर्गुणविद्यायां त्वैक्यं सिद्धमिति वाच्यार्थरूपगुणोपसंहारमात्रं क्रियते वाक्यार्थनिर्णयायेति भावः । पञ्चाग्निप्राणदहरशाण्डिल्यवैश्वानरादिविद्या मिथोभिन्ना इति 'नानाशब्दादिभेदात्' इत्यत्र वक्ष्यते । अत्र तु मिथोभिन्नास्ताः किं प्रतिशाखं भिद्यान्ते न वेति नामादिभेदाच्चोदनाद्यविशेषाच्च संशयः । पूर्वपक्षे विद्याभेदाद्गुणानुपसंहारः सिद्धान्ते त्वभेदादुपसंहार इति फलभेदः । पूर्वतन्त्रे शाखान्तराधिकरणपूर्वपक्षसूत्रं नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरे कर्मभेदः स्यादिति । तत्रोक्ता हेतवो नामादयो विद्याभेदार्थमिहोच्यन्ते 'अथैष ज्योतिरथैष सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेत' इत्यत्र प्रकृतज्योतिष्टोमानुवादेन सहस्रदक्षिणाख्यगुणविधिमाशङ्क्य ज्योतिरितिपदस्य कर्मान्तरनामत्वसंभवे ज्योतिष्टोमलक्षकत्वायोगादथेति प्रकरणविच्छेदाच्च ज्योतिष्टोमात्कर्मान्तरं विशिष्टदक्षिणाकं विधीयत इति नाम्नः कर्मभेदकत्वमुक्तम् । ज्योतिरादिष्वित्यादिपदेनाध्वर्यवं हौत्रमिति संज्ञाभेदात्कर्मभेदो ग्राह्यः । तप्तं क्षीरं दध्ना कठिनमामिक्षा, तत्र द्रवं जलरूपं वाजिनमिति भेदः,'तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्' इत्यत्र वैश्वदेव्यामिक्षायागे वाजिनाख्यगुणविधिः वाजिभ्य इति विश्वेदेवानुवादादित्याशङ्क्यामिक्षां प्रत्युपसर्जनत्वेनोक्तविश्वेदेवानां वाजिभ्य इत्यनुवादायोगादुत्पत्तिशिष्टामिक्षावरुद्धे कर्मणि वाजिनद्रव्यस्यानाकाङ्क्षितस्य विध्ययोगाद्वाजिदेवताको वाजिनयागः कर्मान्तरमिति द्रव्यदेवताख्यरूपभेदात्कर्मभेदः सिद्धान्तितः । आदिपदात् 'ऐन्द्रं दध्यैन्द्रं पयः' इति द्रव्यभेदाद्यागभेदो ग्राह्यः । एवमिहापि पञ्चाग्निषडग्निरूपभेदाद्विद्याभेदो वाजिच्छन्दोगयोः । तथा रेतोन्यूना वागादयश्छान्दोग्ये तत्सहिता वाजिनामिति प्राणविद्याभेदः, कारीरिवाक्याध्ययने तैत्तिरीयकाणां भूमौ भोजनं धर्मविशेषो नान्येषां, अग्न्यध्ययने केषाञ्चिदुपाध्यायार्थमुदकाहरणं धर्मो नान्येषां, अश्वमेधाध्ययनेऽश्वघासानयनं केषाञ्चिदेव नान्येषां, नच तान्येव कारीर्यादीनि कर्माणि धर्मविशेषमपेक्षन्ते नापेक्षन्ते चेति युक्तं, अतो धर्मविशेषाच्छाखान्तरे कर्मभेदः शङ्कितस्तथात्रापि मुण्डकाध्ययनेन केषाञ्चिदेव शिरस्यङ्गारपात्रधारणरूपं व्रतं नान्येषामिति विद्याभेदः स्यात् पुनरुक्तिरभ्यासः । यथा 'समिधो यजति तनूनपातं यजति' इति यजत्यभ्यासात्प्रयाजानां भेद उक्तस्तथा शाखान्तरेऽभ्यासाद्विद्याभेदः । आदिपदान्निन्दादिग्रहः,'प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम्' इत्यनुदितहोमस्य 'यदुदिते सूर्ये प्रातर्जुहुयाद्यथातिथये प्रद्रुताय शून्यायावसाथायाहार्यं हरन्ति तादृगेव तत्' इत्युदितहोमस्य च निन्दाश्रुतेर्भेदः, एकस्यैवोदितेऽनुदिते चानुष्ठानायोगात्, तथोदितानुदितहोमातिक्रमकृतप्रायश्चित्तादप्यग्निहोत्रभेदः शङ्कितः । एते निन्दाप्रयश्चित्ते वेदान्तविद्यासु न विद्येते इति नोदाह्रियेते । यथा सर्वशाखाविहितस्य कर्मणो ज्ञातुं कर्तुं चाऽशक्तेर्भेदस्तथा सर्ववेदान्ताध्ययनज्ञानाद्यशक्तेस्तत्तद्वेदान्तविद्याभेदः स्यात्, तथा शाखानां सर्वासामेकरूपा समाप्तिर्नोच्यते किन्तु कस्याश्चित्क्वचित्कर्मणि समाप्तिरतः समाप्तिवचनभेदात्प्रतिशाखं कर्मभेदः शङ्कितः, तथा कस्यचिद्वेदान्तस्योङ्कारसार्वात्म्ये समाप्तिः कस्यचिदन्यत्रेति विद्याभेदः, अन्यार्थदर्शनमर्थवादस्तद्भेदात्कर्मभेदवद्विद्याभेद इति पूर्वपक्षसूत्रोक्ता हेतवो दर्शितास्ते केचित्सिद्धान्ते पूर्वपक्षे चात्रोपयुञ्जन्त इति । तथा शब्दान्तराभ्याससंख्यागुणप्रक्रियानामधेयानि कर्मभेदकानि, तत्र नामधेयं गुणो रूपमभ्यासश्चेति त्रयं व्याख्यातं, यजेद्दद्याज्जुहुयादिति प्रकृतिशब्दभेदेन धात्वर्थभेदात्तदवच्छिन्नभावनाख्यकर्मभेद उक्तस्तथात्र वेदोपास्त इत्यादिशब्दभेदाद्विद्याभेदः, 'तिस्र आहुतीर्जुहोति' इति संख्यया कर्मभेदवत् 'वायुप्राणौ' इति द्वित्वसंख्यया संवर्गविद्याभेदः स्यात् । नित्याग्निहोत्रप्रकरणात्प्रकरणान्तरे कुण्डपायिनामयने 'मासमग्निहोत्रं जुह्वति' इति श्रुतमग्निहोत्रं प्रकरणान्तरस्थत्वात्कर्मान्तरमिति सिद्धान्तितम् । तथात्र वेदान्तभेदे प्रकरणभेदादुपास्तिभेद इति पूर्वपक्षः । सिद्धान्तयति - एवमिति । सर्वैर्वेदान्तैः प्रतीयन्त इति सर्ववेदान्तप्रत्ययानि तैर्विहितानीत्यर्थः । उक्तनामादिभिरग्निहोत्रादिकर्मणां प्रतिशाखं भेदे प्राप्ते शाखान्तराधिकरणसिद्धान्तसूत्रं 'एकं वा संयोगरूपचोदनाख्याविशेषात्' इति । तत्र चोदनाविधायकः शब्दश्चोदितः प्रयत्नो वा । तस्या अविशेषमाह - यथैकस्मिन्निति । एकधात्वर्थहोमावच्छिन्नप्रयत्नैक्यादुपास्तियत्नैक्यमित्यर्थः । यथा ज्येष्ठत्वादिगुणकप्राणविद्या सर्वशाखास्वेका तथा पञ्चाग्निविद्याप्येका फलसंयोगाद्यविशेषात्, तथान्यापि विद्याऽभिन्नेत्याह - एवं पञ्चाग्नीति । पूर्वपक्षहेतून्निराचष्टे - ये त्विति ।
काठकमित्यादिनाम्ना कर्मभेदो न युक्तः, कुतः अचोदनाभिधानत्वात्काठकादिशब्दानां ग्रन्थनामतया कर्मवाचित्वाभावादतो भिन्ननामकशाखाग्रन्थभेदेऽपि ताद्विहितं कर्मैकमेव, अल्परूपभेदोऽपि न कर्मैक्यविरोधी, धर्मविशेषस्त्वध्ययनाङ्गं न कर्माङ्गमतो न कर्मभेदकः, शाखाभेदे पुनरुक्तिरसिद्धा, निन्दान्यार्थदर्शनयोरपि न भेदकत्वं तत्तद्विधिस्तुतिमात्रत्वाद्बहुशाखाध्ययनाशक्तावपि स्वशाखानुक्तविशेषस्यापेक्षितस्यान्यतो ग्रहणसंभवादशक्तिरभेदिका, एकस्मिन्नपि कर्मण्यङ्गलोपादिना प्रायश्चित्तं संभवति । एवं समाप्तिवचनभेदोऽप्यप्रयोजक इत्यैवं कर्माभेदप्रमाणप्राबल्ये भेदहेतवः परिहृता इत्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 तर्हि शाखान्तरन्यायेनैव कर्मैक्यवद्विद्यैक्यसिद्धेः पुनरुक्तिरित्यत आह - इहापीति । रूपस्योत्पत्तिशिष्टत्वं विशेषः । पञ्चाग्नीन्वेदेत्याद्युपासनोत्पत्तिविधिस्थपञ्चाग्न्यादिरूपभेदादुपासनाभेदः स्यादामिक्षावाजिनरूपभेदात्कर्मभेदवदित्यधिकाशङ्कानिरासार्थत्वान्न पौनरुक्त्यमस्याधिकरणस्येति मत्वा शङ्कां व्याचष्टे - स्यादित्यादिना । अस्य पृथक्शास्त्रत्वात्कर्मन्यायानां मानसविद्यासु विना सूत्रं दुर्योजत्वाच्च पुनरुक्तिगन्धोऽपि नास्तीति मन्तव्यम् । ननु तस्य मृतस्य दाहार्थमग्निरन्त्येष्टिगतः षष्ठो यः प्रसिद्धवद्वाजिभिरुक्तः स छान्दोग्ये उपसंहार्य इति न रूपभेदः, तत्राह - न चात्रेति । अस्तु प्रजननगुणवतो रेतसो वाजिनामावापश्छन्दोगानां च तस्योद्वापस्ततः किमित्यत आह - आवापेति । छान्दोग्ये षष्ठाग्न्यभावमङ्गीकृत्याल्परूपभेदो न विद्यैक्यविरोधीति परिहरति - नैष इत्यादिना । अङ्गीकारं त्यजति - पठ्यतेऽपीति । इतोऽस्माल्लोकादिष्टं लोकान्तरं प्रेतं गतं ज्ञातयोऽग्नये हरन्तीत्यर्थः । ननु छान्दोग्येऽग्निमात्रं श्रुतं वाजिभिस्तु समिदादिविशेषः पठ्यते इति रूपभेदस्तदवस्थः, तत्राह - वाजसनेयिनस्त्विति । षष्ठाग्नेस्तद्विशेषस्य चानुवादमात्रत्वेनानुपास्यत्वात्पञ्चाग्नय एवोपास्या उभयत्रेति न रूपभेद इत्यर्थः । सविशेषस्य षष्ठाग्नेरूपास्यत्वेऽपि न रूपभेद इत्याह - अथापीति । द्युलोकादीनां पञ्चानामनग्नीनामग्नित्वसंपत्तिविधिनैवार्थात्पञ्चत्वं संपत्तिकल्पिताग्नीनां सिद्धमनूद्यते न ध्येयत्वेन विधीयत इत्यर्थः । छन्दोगैर्वाजिशाखास्थं रेत उपसंहर्तव्यमित्युक्त्वाऽनुपसंहारेऽपि न विद्याभेद इत्याह -
न चावापेति ॥२॥ 【भाष्यम्】 【भाष्यम्】 एवं रूपभेदो न विद्याभेदक इत्युक्त्वा धर्मविशेषोऽपि न भेदक इत्याह - स्वाध्यायस्येति । गोदानवदध्ययनाङ्गत्वेन शिरोव्रतमाथर्वणिकानां सूत्रे विहितं न विद्याङ्गमित्यर्थः । अधिकाराच्चेति व्याचष्टे - नैतदिति । एतत्प्रकृतं मुण्डकमननुष्ठितशिरोव्रतो नरो नाधीत इति श्रुतेर्मुण्डकाध्ययनाङ्गमेव शिरोव्रतमित्यर्थः । ननु विद्याङ्गत्वेनापि इदं व्रतं श्रुतमिति शङ्कते - नन्विति । सर्वशाखासु ब्रह्मविद्यैकैव चेद्विद्यासंयुक्तं व्रतमपि सर्वत्र संबध्येत । नच संबध्यत इति विद्याभेद इत्यर्थः । प्रकृतग्रन्थवाच्यैतच्छब्दबलाद्ब्रह्मप्रकाशग्रन्थपरो ब्रह्मविद्याशब्द इति परिहरति - नेति ।
तस्य शिरोव्रतस्य मुण्डकाध्ययने नियम इत्यत्र सववदिति निदर्शननिर्देशः । सवा होमाः । अथर्वणैः स्वसूत्रे उदित एकोऽग्निरेकर्षिसंज्ञया प्रसिद्धस्तस्मिन्नग्नौ कार्या इति यथा नियम्यन्ते तथेत्यर्थः ॥३॥ 【भाष्यम्】 【भाष्यम्】 किञ्च वेद्यैक्येन निर्गुणब्रह्मविद्यैक्यं तावच्छ्रुतिर्दर्शयति, तत्संनिधिपाठात्सगुणविद्यानामपि सर्वशाखास्वैक्यसिद्धिरित्याह सूत्रकारः - दर्शयति चेति । सगुणमप्येकं वेदत्रये वेद्यं दर्शयतीत्याह - तथेति । किञ्च शाखान्तरोक्तपादार्थस्य शाखान्तरे सिद्धवत्परामर्शो विद्यैक्यं दर्शयतीत्याह - तथा महद्भयमित्यादिना । एष नर एतस्मिन्नद्वयेऽल्पमप्यन्तरं भेदं यदा पश्यत्यथ तदा तस्य संसारभयं भवत्येव, यस्माद्विदुषो नरस्य भेददर्शिनस्तदेव ब्रह्म भयङ्करं भवति, ब्रह्मैवाहमित्यमन्वानस्येत्यर्थः । प्रादेशमात्रमुपास्त इति सिद्धवदुपादानं वैश्वानरविद्यैक्यं दर्शयतीत्याह - तथेति । किञ्च सर्वेषु वेदान्तेषूक्थादीनां प्रतीयमानत्वेन हेतुनैतदवगम्यते अन्यत्रोक्तानां तेषामन्यत्रोपास्त्यर्थमुपादानमिति । ततस्तदुपास्तीनामपि सर्ववेदान्तप्रमाणकत्वेनैक्यं बाहुल्येन सिध्यतीत्याह - तथेति ।
ब्रह्मविद्यैक्यवदुक्थादिविद्यैक्यमित्यर्थः ॥४॥ 【भाष्यम्】 【भाष्यम्】 सर्वशाखासु विद्यैक्यचिन्तायाः फलमाह - उपसंहार इति । शाखाभेदे समानविद्यायां श्रुता गुणा यथाश्रुति व्यवस्थिता उत एकत्राश्रुता इतरशाखात उपसंहर्तव्या इति संदेहे विद्यैक्येऽपि तत्र तत्रोक्तैरेव गुणैर्विद्योपकारसिद्धेः शाखाभेदेन गुणा व्यवस्थिता इति पूर्वपक्षः, तत्र प्रकृतविद्यैक्यचिन्तानैष्फल्यमिति फलम् । सिद्धान्तत्वेन सूत्रं व्याचष्टे - स्थिते चेत्यादिना । गुणानां गुण्यविनाभावादेतच्छाखास्था विद्या शाखान्तरोक्ततद्विद्यागुणवती, तदभिन्नत्वात्, तद्विद्यावदित्यनुमानद्विद्यैक्ये गुणोपसंहारसिद्धिरित्यर्थः । प्रधानैक्ये तत्तदुपकारकाणामङ्गानामुपसंहारे दृष्टान्तमाह - विधिशेषवदिति । उक्तमेव व्यतिरेकमुखेनाह - यदि हीति । नन्वाग्नेययागावरुद्धानां गुणानां ततोऽभिन्ने सौर्ये प्राप्तिवद्विद्यान्तरस्थगुणानां विद्यान्तरे प्राप्तिः किं स्यादित्यत आह - प्रकृतीति । प्रकृतिगुणानां विकारे प्राप्तिर्युक्ता विद्यानां तु प्रकृतिविकृतिभावासिद्धेर्न तत्प्राप्तिरित्यर्थः । नैवमिति गुणानुपसंहारो नेत्यर्थः । उत्तरसूत्राणामनेन सूत्रेण पौनरुक्त्यं वारयति -
अस्यैवेति ॥५॥ 【भाष्यम्】 【भाष्यम्】 पूर्वं चोदनाद्यविशेषादुत्सर्गतो विद्यैक्यमुक्तं तस्यापवादं वक्तुमाह - अन्यथात्वमिति । अत्र वाजिनामुद्रीयब्राह्मणं छन्दोगानामुद्गीथाध्यायं च विषयमाह - वाजेत्यादिना । 'ते ह देवाः सात्त्विकवृत्तयः प्राणा अन्योन्यमुचूर्हन्तेदानीमस्मिन्यज्ञे उद्गीथेनौद्गात्रेण कर्मणा रजस्तमोवृत्तिरूपानसुरानतीत्य देवत्वं गच्छामः' इति ते चैवं निर्देषमुद्गीथकर्तारमुपास्यं निर्धारयितुं कृतसंवादाः प्रथमं वाच्यं परीक्षितवन्तस्त्वमौद्गात्रं नोऽस्माकं कुर्विति तया त्वनृतं कृतं तथा घ्राणचक्षुःश्रोत्रमनांस्यपि कामेनासुरपाप्मना ग्रस्तानीति निन्दित्वा आसन्यमास्ये भवं मुखमध्यस्थं प्राणमुपास्यं निर्धारितवन्त इत्यर्थः । तत्तत्रान्योन्यभिभवात्मकयुद्धे प्रवृत्ते देवाः पूर्ववदुद्गीथमाहृतवन्तः अनेनोद्गीथेनैनानसुराञ्जयेमेत्यर्थः । भेदाभेदमानाभ्यां संशयमाह - तत्रेति । अत्र पूर्वाधिकरणसिद्धान्तन्यायेनोद्गीथविद्येति संज्ञैक्येन विद्यैक्यमिति पूर्वपक्षे मिथो गुणोपसंहारः फलं, सिद्धान्ते संज्ञैक्येऽपि विद्यैक्यापवादादनुपसंहार इति । एवं यत्र पूर्वन्यायेन पूर्वपक्षः तत्रापवादिकी संगतिरिति मन्तव्यम् । सूत्रस्थसिद्धान्तिशङ्काभागं व्याचष्टे - ननु न युक्तमिति । संपूर्णोद्गीथकर्मकर्ता प्राणो वाजिनामुपास्यः, उद्गायेति कर्तृशब्दाच्छन्दोगानां तूद्गीथावयव ओङ्कारः प्राणदृष्ट्योपास्यः, ओमित्येतदक्षरमुद्गीथमित्युपक्रम्य प्राणमुद्गीथमिति कर्मरूपत्वशब्दात्, तथाच कर्तृकर्मणोरूपास्ययोर्भेदाद्विद्ययोरन्यथात्वं भेद इति शङ्कार्थः । उद्गीथत्वेनेति ओङ्कारत्वेनेत्यर्थः । अल्परूपभेदो न विद्यैक्यविरोधीत्युक्तन्यायेन पूर्वपक्षी परिहरति - नैष इति । असुरात्ययाभिप्रायः असुरजयार्थं संवादः, यथाश्मानं प्राप्य लोष्टो विध्वंसते तथा प्राणं हन्तुमागता असुरास्तस्य वीर्येण स्वयमेव ध्वस्ता इति श्रुतमुभयत्रेत्यर्थः । अल्परूपभेदमङ्गीकृत्यापि विद्यैक्यमुक्तं सोऽपि नास्तीत्याह - वाजेति ।
उद्गीथकर्तृरूपत्वेन प्राणस्योभयत्र श्रुतत्वादेकत्र श्रुतं कर्तृत्वमप्युभयत्र द्रष्टव्यमित्यर्थः ॥६॥ 【भाष्यम्】 【भाष्यम्】 बहुविरुद्धरूपभेदात् न विद्यैक्यमिति सिद्धान्तयति - न वेति । अक्षरं विशिनष्टि - उद्गीथमिति । तदवयवमित्यर्थः । पृथिव्यादिरसानां रसतम ओङ्कारः, आप्तिः समृद्धिरिति गुणानुक्त्वा गुणवत्योङ्कारे प्राणदृष्टिविधानायाख्यायिका प्रस्तुतेत्याह - रसतमेति । ननु वाजिवाक्यैकवाक्यत्वार्थं छान्दोग्योपक्रमस्थमुद्गीथपदं संपूर्णसामभक्तिपरमस्तु, प्राणमुद्गीथमित्यत्राप्युद्गीथकर्ता प्राण उपास्य इति व्याख्यायतामित्यत आह - तत्र यद्युद्गीथेति । ओङ्कारोपास्त्युपक्रमभङ्ग उद्गीथपदे कर्तृलक्षणा चेति दोषद्वयं स्यादित्यर्थः । ननु सिद्धान्तेऽपि तत्पदेऽवयवलक्षणा स्वीकार्या ततो वरं कर्तृलक्षणा श्रुत्यन्तरानुग्रहात्तथा चोपसंहारे कर्तृप्राणोपास्तिनिश्चयादुपक्रमेऽपि तन्निश्चय इत्यत आह - उपक्रमेति । संदिग्धोपक्रमो हि वाक्यशेषान्निश्चीयते । यथा 'अक्ताः शर्कराः' इत्यत्राञ्जनद्रव्यसंदेहे 'तेजो घृतम्' इति शेषान्निश्चयः । इह तूपक्रमेऽक्षरस्योपास्यत्वं निश्चितं, तत्समानाधिकरणोद्गीथपदस्यावयवलक्षणा च विनिश्चितेति प्राणमुद्गीथमित्युपसंहारस्तदेकार्थतया नेय इत्यर्थः । एवं छान्दोग्ये ओङ्कार उपास्य उक्त इतरत्र तु प्राण इत्युपास्यभेदाद्विद्याभेद इत्याह - वाजेति । यदुक्तं वाजिश्रुतावपि प्राणस्योद्गीथरूपत्वश्रुतेरूपास्यैक्यमिति तद्दूषयति - यदपीत्यादिना । तत्रोद्गीथ उपास्यतया नोक्तः किन्तु प्राणस्योपास्यस्य गुणतयेत्यर्थः । किञ्चोद्गीथ ओङ्कारश्छान्दोग्येऽत्र तु भक्तिरित्युपास्यभेद इत्याह - सकलेति । प्राणस्य जडत्वान्नोद्गातृत्वं किन्तूद्गीथत्वमेव वाजिभरपि ग्राह्यमित्यैक्यमाशङ्क्याह - न चेति । स उद्गाता वाग्विशिष्टप्राणेनौद्गात्रं कृतवानिति श्रुतेरसंभवोऽपि नेत्यर्थः । यदुक्तं बहुतरार्थाविशेषाद्धि विद्यैक्यमिति, तत्राह - न चेति । एकत्रोद्गाता प्राण उपास्योऽन्यत्रोङ्कार इत्यन्तरङ्गोपास्यरूपभेदे स्पष्टे सति बहिरङ्गार्थवादसाम्यमात्रेण नोपासनैक्यं युक्तमित्यर्थः । वाक्यसाम्यमात्रेणार्थैक्यं नास्तीत्यत्र दृष्टान्तमाह - तथा हीति । 'वि वा एतं प्रजया पशुभिरर्धयति वर्धयत्यस्य भ्रातृव्यं यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्याद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुं येऽणिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुम्' इत्यभ्युदयवाक्यम् । अस्यार्थः - यस्य यजमानस्य चतुर्दश्यामेवामावास्याभ्रान्त्यादर्शकर्मार्थं प्रवृत्तस्य पुरस्तात्पूर्वं हविस्तण्डुलदधिपयोरूपं निरुप्तं दर्शदेवताभ्योऽग्न्यादिभ्यः सङ्कल्पितं चन्द्रमाश्च पश्चादभ्युदेति तमेतं यजमानं कालव्यत्ययापराधात्तदेव निरुप्तं हविः प्रजादिनार्धयति वियोजयति शत्रुं चास्य वर्धयति यस्मात्कालभ्रान्तिमान्यजमानः, ये मध्यमादिभावेन त्रेधा भूतास्तण्डुला दध्यादिसहिता निरुप्तास्तान्विभजेदग्न्यादिभ्यो वियोजयद्वियोज्य च दातृत्वादिगुणकाग्न्यादिभ्यो दर्शदेवभिन्नेभ्यो निर्वपेदिति दधन् दधनि स्थविष्ठतण्डुलचरुं शृते दुग्धेऽणिष्ठचरुमित्यर्थः । अत्र कालापराधे देवान्तरयुक्तं प्रायश्चित्तरूपं दर्शाद्भिन्नं कर्म विधीयत इति प्राप्ते तण्डुलत्रेधात्वाद्यनुवादेन विभजेदिति हविषः प्रकृतदेववियोगेन तस्मिन्नेव दर्शकर्मणि देवतान्तरसंबन्धमात्रविधानं न कर्मान्तरमिति सिद्धान्तितम् । एवमभ्युदयवाक्ये कालापराधेनोपक्रमाद्दर्शकर्मण्येव हविषः पूर्वदेवताभ्योऽपनयो वियोगोऽध्यवसितः, पशुकामवाक्ये तु यद्यपि ये स्थविष्ठास्तानग्नये सनिमतेऽष्टाकपालं निर्वपेद्ये मध्यमास्तान् विष्णवे शिपिविष्टाय शृते चरुं ये क्षोदिष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुमिति निर्देशोऽभ्युदयवाक्येन समोऽस्ति, तथापि यः पशुकामः स्यात्सोऽमावास्यामिष्ट्वा वत्सानपाकुर्यादिति नित्यं दर्शकर्म समाप्य पुनर्दोहार्थं वत्सापाकरणविध्युपक्रमात्पशुकामस्य यागान्तरविधिरेव नाभ्युदयवाक्येनार्थैक्यमिति तथा प्रकृतेऽपि निर्देशसाम्यं न विद्यैक्यप्रयोजकमित्यर्थः । वत्सानपाकुर्यान्मातृदेशाद्देशान्तरं नयेदित्यर्थः । सूत्रोक्तं दृष्टान्तं व्याचष्टे - परोवरीयस्त्वादिवदिति ।
पर इति सकारान्तं परस्मात्परश्चासौ वराच्च वरतर इति परोवरीयानित्येकं पदम् । अनन्तश्च आकाशाख्यः परमात्मा तद्दृष्ट्यालम्बनत्वादुद्गीथस्तथोक्त इत्यर्थः । आकाशात्मना हिरण्यश्मश्रुपुरुषात्मना चोद्गीथोपास्तिसाम्येऽपि विद्याभेदवदिहापि भेद इत्यर्थः ॥७॥ 【भाष्यम्】 【भाष्यम्】 संज्ञैक्यं पूर्वपक्षबीजमुद्भाव्य दूषयति - संज्ञात इति । उपास्यरूपभेदाद्विद्यानानात्वं यदुक्तं तच्छ्रुत्यक्षरानुगतं बलवत्, संज्ञा तु पौरुषेयी दुर्बलेत्यर्थः । संज्ञैक्यं कर्मैक्यव्यभिचारि चेत्याह - अस्ति चेति । किं संज्ञैक्यं सर्वत्राप्रमाणमेव नेत्याह - यत्र त्विति ।
असति बाधके संज्ञैक्यमपि मानं यथा संवर्गविद्येति संज्ञैक्यात्सर्वशाखासु तद्विद्यैक्यं, तथा पञ्चाग्न्यादिविद्यैक्यमित्याद्यसूत्रे दर्शितमित्यर्थः ॥८॥ 【भाष्यम्】 【भाष्यम्】 व्याप्तेश्च समञ्जसम् । सामानाधिकरण्यं विषयीकृत्य संशयमाह - ओमित्येतदिति । अध्यासादिपदार्थान्व्याचष्टे - तत्राध्यास इत्यादिना । बुद्धिपूर्वकाभेदारोपोऽध्यासः, बाधोऽपवादः, एकत्वं वास्तवाभेदः, विशेषणं व्यावर्तकमिति विवेकः । पूर्वमुद्गातृकर्मात्मकोद्गीथावयवत्वमोङ्कारस्य ध्येयस्य विशेषणं सिद्धवत्कृत्य ध्येयभेदाद्विद्याभेदः सिद्धान्तितः स न युक्त इत्याक्षेपसंगत्या पूर्वपक्षयति - तत्रेति । अत्र पूर्वपक्षे पूर्वोक्तसिद्धान्तासिद्धिः फलं सिद्धान्ते तत्सिद्धिरिति मत्वा सिद्धान्तसूत्रं व्याचष्टे - चशब्द इत्यादिना । पक्षत्रयस्य दुष्टत्वं प्रतिज्ञायाध्यासपक्षे दोषमाह - तत्राध्यास इति । यस्योद्गीथस्य बुद्धिरोङ्कारेऽध्यस्यते तद्वाचकोद्गीथशब्दस्योङ्कारे लक्षणा स्यात्तद्बुद्धिविषयत्वगुणपरत्वात्तथा संबन्धोऽप्यसिद्धः कल्पनीयः, प्रतीकोपास्तेः फलं च कल्प्यमिति गौरवं स्यादित्यर्थः । फलं न कल्प्यमिति शङ्कते - श्रूयत इति । आप्त्यादीति । 'ओङ्कार आप्तिः समृद्धिरिति' 'य उपास्ते स कामानाप्नोति' इति श्रुतं फलं नाध्यासस्येत्यर्थः । उद्गीथोङ्कारयोरन्यतरबुद्यान्यतरबुद्यपवादमङ्गीकृत्यान्यतरमिथ्याबुद्धिनिवृत्तिवैफल्यमुक्तं संप्रत्यन्यतरबुद्धेरभ्रान्तित्वान्नापवाद इत्याह - न च कदाचिदपीति । भ्रान्तिश्चेत्निवर्तेत न तु निवर्तत इत्यभ्रन्तिरित्यर्थः । किञ्च तत्त्वबोधकाद्वाक्याद्भ्रान्त्यपवादो भवति नेदं वाक्यं तत्त्वपरमित्याह - न चेति । घटकुम्भशब्दयोरिवोङ्कारोद्गीथशब्दयोः पर्यायत्वपक्षं दूषयति - नापीति । पर्यायत्वमपि नास्तीत्याह - न चेति । परिशिष्टविशेषणपक्षे सूत्रं योजयति - व्याप्तेरिति ।
'ओमित्यक्षरमुपासीत' इत्युक्ते सर्ववेदव्याप्योङ्कार इहोपास्तौ प्रसज्येत तन्निरासार्थमुद्गीथावयवत्वं विशेषणं समञ्जसमित्यर्थः । अध्यासपक्षे तद्बुद्धिविषयत्वगुणयोगरूपः संबन्धः कल्प्य इति विप्रकृष्टा लक्षणा, अवयवलक्षणा तु संनिकृष्टा अवयवावयविसंबन्धस्य कॢप्तत्वात्, पटावयवे दग्धे पटो दग्ध इति लोके प्रयोगाच्च । नामादौ ब्रह्मशब्दस्य त्वगत्या ब्रह्मबुद्धिग्राह्यत्वगुणलक्षणाश्रिता तत्र प्रतीकोपास्तेर्विवक्षितत्वात् । इह तु प्रतीकोपास्तिविधिकल्पने आप्त्यादिगुणकोङ्कारे प्राणदृष्टिविधाने च वाक्यभेदः स्यादतः सर्ववेदव्याप्योङ्कारनिरासेनोङ्कारे प्राणदृष्टिविधानार्थं विशेषणमेव समञ्जसं कल्पनालाघवादिति सिद्धम् ॥९॥ 【भाष्यम्】 【भाष्यम्】 सर्वाभेदादन्यत्रेमे । विषयं वक्तुं संमतमर्थमाह - वाजिनामिति । वाचो वसिष्ठत्वं गुणो वाग्मिनः सुखवासदर्शनात् । चक्षुषः प्रतिष्ठा गुणः चक्षुष्मतः पादप्रतिष्ठादर्शनात् । श्रोत्रं संपद्गुणकं श्रवणात्सर्वार्थसंपत्तेः । मन आयतनत्वगुणं तस्य वृत्तिद्वारा सर्वभोग्याश्रयत्वात् । ते च गुणाः प्राणस्य श्रैष्ठ्यं निश्चित्य वागादिभिस्तस्मिन्नर्पिता इति शाखाद्वयसंमतोऽर्थः । विषयमाह - अन्येषामित्यादिना । निश्रेयसस्य श्रैष्ठ्यस्यादानं निर्धारणं प्रस्तूयत इत्यर्थः । देवता वागादयोऽहंश्रेयसे स्वश्रैष्ठ्यायेत्यर्थः । एवंशब्दाच्छ्रैष्ठ्यगुणकप्राणप्रत्यभिज्ञानाच्च संशयमाह - तत्रेति । गुणानामनुपसंहारोपसंहारावेव पूर्वोत्तरपक्षयोः फलम् । उद्गीथत्वविशेषणादोङ्कारस्य सर्ववेदव्याप्तिव्यावृत्तिवत्प्रकृतगुणमात्रग्राहकैवंशब्दाच्छाखान्तरगुणव्यावृत्तरिति दृष्टान्तेन पूर्वपक्षयति - तत्र प्राप्तमिति । यथा वागादिभ्यः प्राणश्रैष्ठ्यं सिद्धमथो तथा य एवं श्रैष्ठ्यगुणं विद्वानुपास्ते स प्राणे श्रैष्ठ्यं विदित्वा श्रेष्ठो भवतीति श्रुत्यर्थः । एवं जातीयकविद्यैक्यात्प्राप्तमार्थिकं वसिष्ठत्वादिगुणजातमेवंशब्दो न गृह्णाति श्रुतावलम्बित्वादिति प्राप्ते सिद्धान्तयति - अस्येरन्निति । वाजसनेयिब्राह्मणे तावदेवंशब्देन वसिष्ठत्वादिगुणजातस्य प्राणविद्यासंबन्धः सिद्धः सैव विद्या कौषीतकिश्रुतौ प्रत्यभिज्ञायते, तथाच गुणानां गुण्यविनाभावेनार्थतः प्राप्तानामपि श्रुतगुणैरविरोधात्सहैव श्रुतमार्थं च गुणजातं श्रुत्यर्थाभ्यां संनिहितत्वाविशेषात्कौषीतकिगतेनैवंशब्देन परामृश्यत इत्याह - तथापीति । कौषीतकिश्रुतिस्थः प्राणो वसिष्ठत्वादिगुणकः, श्रेष्ठप्राणत्वात्, वाजिश्रुतिस्थप्राणवदित्यश्रुतगुणानुमाने सति श्रुतहानिर्नास्ति, अविरोधादित्युक्तं स्पष्टयति - न चैवं सतीति । अपरिगणिता अपि गुणाः श्रुता एवेत्यत्र दृष्टान्तमाह - न हीति । फलितमाह -
तस्मादिति ॥१०॥ 【भाष्यम्】 【भाष्यम्】 आनन्दादयः प्रधानस्य । ब्रह्मणो ज्ञेयस्यैक्यान्निर्विशेषत्वाच्च संशयमाह - तेषु संशय इति । पूर्वपक्षे सत्यादिपदानुपसंहाराद्वाक्यार्थानवधारणं, सिद्धान्ते त्ववधारणमिति फलम् । प्राणस्यसविशेषत्वाद्युक्तः शाखान्तरीयवसिष्ठत्वाद्युपसंहारः, ब्रह्मणस्तु निर्विशेषत्वात्स्वशाखागतपदैरेव प्रमितिसिद्धेर्व्यर्थः पदान्तरोपसंहार इति प्रत्युदाहरणेन पूर्वपक्षः । सिद्धान्तमाह - इदमिति ।
आनन्दत्वसत्यत्वज्ञानत्वादिसामान्यानि ब्रह्मणि कल्पिता धर्मास्तेषां सर्वशाखासूपसंहारो नाम तद्वाचकानन्दादिपदानामेकवाक्यतयोच्चारणमानन्दः सत्यं ज्ञानमनन्तं ब्रह्म शुद्धमद्वयमात्मेति । तानि च समानाधिकरणानि पदानि विरुद्धधर्मत्यागेन सर्वाधिष्ठानभूतामेकामखण्डव्यक्तिं लक्षयन्ति । न चैकेनैव पदेन लक्ष्यसिद्धेः पदान्तरं व्यर्थमिति वाच्यं, एकस्मिन्पदे विरोधाभावेन लक्षणानवतारात् । यद्यपि पदद्वयेऽपि लक्षणावतरति तथाप्यानन्दो ब्रह्मेत्युक्ते दुःखत्वाल्पत्वभ्रन्तिनिरासेऽप्यसत्त्वजडत्वादिभ्रमो भवेदतस्तन्निरासार्थं सत्यज्ञानादिपदानि प्रयोक्तव्यानि । न च भ्रमस्यानवधित्वाद्वाक्यमपर्यवसितं स्यादिति वाच्यम् । सच्चिदानन्दात्मकं सर्वधर्मशून्यमद्वयमविकल्पं ब्रह्माहमिति विशेषदर्शने सर्वभ्रमनिरासात् । तच्च विशेषदर्शनं यावद्भिः पदैर्भवति तावन्ति पदान्युपसंहर्तव्यानीति भावः ॥११॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मैक्याच्चेदानन्दत्वादिधर्माणां सर्वत्र प्राप्तिस्तर्हि सगुणब्रह्मविद्यागतधर्मप्राप्तिरपि स्यादिति शङ्कानिरासार्थं सूत्रं व्याचष्टे - प्रियेति । पुत्रदर्शनसुखं प्रियं तद्वार्तादिना मोदस्तस्य विद्याद्यतिशये प्रमोद इत्येवं तारतम्यवन्तो धर्मास्त्वद्वये ज्ञेये न प्राप्नुवन्ति तेषामब्रह्मस्वरूपाणां ब्रह्मज्ञानानुपयोगादिति भावः । तेषां ब्रह्म धर्मत्वं चासिद्धमित्याह - न चैत इति । ब्रह्मणि चित्तावतारोपायत्वेऽपि तेषां प्राप्तिः स्यादित्याशङ्क्याह - एवमपीति । अज्ञेयत्वादेषां न ज्ञेये ब्रह्मणि प्राप्तिरित्यर्थः । किमर्थं तर्हि सूत्रमित्यत आह - ब्रह्मधर्मानिति । कृत्वाचिन्ताफलमाह - स चेति । ज्ञेये बाह्यधर्माणामनुपयोगादप्राप्तिरिति न्यायात्संयद्वामत्वादीनामप्राप्तिरिति सूत्रं व्याख्येयमित्यर्थः । ज्ञानानुपयोगेऽपि ध्याने तेषां धर्माणामुपयोगादुपास्यब्रह्मैक्यात्प्राप्तिरन्योन्यविद्यासु स्यादित्याशङ्क्याह - तेषु हीति ।
ध्यानविधिपरतन्त्राणां धर्माणां यथाविधि व्यवस्थेत्यर्थः ॥१२॥ 【भाष्यम्】 【भाष्यम्】 संयद्वामत्वादिधर्मेभ्य आनन्दादीनां वैषम्यं ज्ञानोपयोगित्वादित्याह - इतरे त्विति ।
सत्यज्ञानानन्दात्मब्रह्मशब्दाः पञ्च सर्वत्रोपसंहर्तव्या इति सिद्धम् ॥१३॥ 【भाष्यम्】 【भाष्यम्】 आध्यानाय वाक्यभेदाभेदानवधारणात्संशयमाह - तत्रेति । पूर्वपक्षे वाक्यभेदाद्विद्याभेदः, सिद्धान्ते वाक्यैक्याद्विद्यैक्यमिति फलम् । पूर्वत्र ब्रह्मस्वभावानामानन्दादीनामुपसंहार्याणां ब्रह्मज्ञानफलोपायत्वमुक्तम्, अत्रत्वब्रह्मस्वभावस्यार्थादिपरत्वस्यानुपसंहार्यस्य तदुपायत्वमुच्यत इत्येकफलकत्वं संगतिः, तत्तत्परत्वविशिष्टत्वेनार्थादीनामपूर्वतया प्रतिपाद्यानां भेदाद्वाक्यभेदो न दोष इति पूर्वपक्षः । उत्सूत्रसिद्धान्तं प्रतिज्ञाय सौत्रं हेतुं व्याचष्टे - पुरुष एवेति । फलवत्त्वे सत्यपूर्वत्वात्पुरुषस्यैव प्राधान्येन प्रतिपाद्यत्वमफलार्थादीनां परत्वं तु तच्छेषत्वेनोच्यत इत्यर्थः । किञ्च 'पुरुषान्न परं किञ्चित्सा काष्ठा' इति वेदः परनिषेधलिङ्गेन सर्वबाधावधित्वलिङ्गेन च पुरुषे तात्पर्यं दर्शयन्पूर्वस्मात्पूर्वस्मादपरस्यापरस्य परत्वोक्तिस्तदर्थेति दर्शयतीत्याह - अपि चेति । अर्थादीनामत्रोक्तिराध्यानाय तत्तत्परत्वाध्यानपूर्वकं पुरुषदर्शनायैव स्वतः प्रयोजनाभावादिति सूत्रं योजयति -
आध्यानायेति ॥१४॥ 【भाष्यम्】 【भाष्यम्】 आत्मत्वादिलिङ्गैश्च पुरुष एव प्रतिपाद्य इत्याह - आत्मशब्दाच्चेति । किञ्च 'तद्विष्णोः परमं पदं, पुरषान्न परं किञ्चित्' इत्युपक्रमोपसंहारयोरैकरूप्यात्कॢप्तफलवदेकपुरुषपरत्वेनैकवाक्यत्वनिश्चये सति वाक्यभेदफलभेदकल्पना न युक्ता गौरवादित्याह -
अपि चेति ॥१५॥ 【भाष्यम्】 【भाष्यम्】 आत्मगृहीतिः । मिषत् चलत् । लोकानाह - अम्भ इति । अम्भः स्वर्गः, मरीचयोऽन्तरिक्षलोकः, मरो मर्त्यलोकः, आपः पाताललोक इत्यर्थः । आत्मशब्दस्य ब्रह्मणि सूत्रात्मनि च प्रयोगात्संशयमाह - तत्रेति । अत्र पूर्वपक्षे वाक्यस्य सूत्रोपास्तिपरत्वात्परब्रह्मधर्माणामानन्दादीनामैतरेयकेऽनुपसंहारः, सिद्धान्ते ब्रह्मपरत्वादुपसंहार इति फलम् । पुरुषवाक्याद्भेदप्रसङ्गादर्थादिवाक्यानां नार्थादिप्रतिपादकत्वमित्युक्तं तद्वदिहापि प्रजापते रेतो देवा इति पूर्वस्मात्प्रजापतिवाक्याद्भेदप्रसङ्गादात्मा वा इत्यादिवाक्यस्य न ब्रह्मपरत्वमिति दृष्टान्तेन पूर्वपक्षयति - न परमात्मेत्यादिना । वाक्यस्य प्रजापतौ तात्पर्यदर्शनादित्यर्थः । पूर्वपक्षमाक्षिप्य लोकस्रष्टृत्वलिङ्गान्न प्रजापतौ वाक्यान्वय इत्याह - नन्वित्यादिना । लोका एव महाभूतानीत्यत आह - लोकाश्चेति । लोकशब्दस्य महाभूतेष्वरूढत्वाद्भौतिका एव लोकाः । निर्वचनाच्चेत्याह - तथा चेति । अम्भो मरीचीर्मरमाप इति सूत्रयित्वा स्वयमेव श्रुतिर्व्याचष्टे - परेण दिवं दिवः परस्ताद्दिवि प्रतिष्ठितश्चन्द्राऽम्भसा व्याप्तो यो लोकः तदम्भः, अन्तरिक्षं मरीचयः, पृथिवी मरः, या अधस्तात्ता आप इति । ननु लोकसृष्टिरपीश्वरादेवास्तु नेत्याह - लोकेति । पुरुषविधो नराकारः । आत्मा हिरण्यगर्भः, आपिपीलिकाभ्यः सर्वमसृजतेत्यर्थः । भूतानां लोकानामित्यर्थः । प्रकरणादपि लोकस्रष्टा प्रजापतिरित्याह - ऐतरेयिणोऽपीति । रेतः कार्यमिति यावत् । ब्रह्मलिङ्गानि प्रजापतौ योजयति - आत्मशब्दोऽपीत्यादिना । किञ्च प्रजाः सृष्ट्वा ताः प्रति भोगार्थं गामानयल्लोकस्रष्टा तथाऽश्वमानयत् । तास्तु गवाश्वप्राप्त्या न तृप्तास्ततः पुरुषशरीरे आनीते ता अब्रुवंस्तृप्ताः स्म इति । अयं च व्यवहारो लोकस्रष्टुः प्रजापतित्वे लिङ्गमित्याह - अपि चेति । आत्मशब्दस्य चिदात्मनि मुख्यत्वान्मुख्यग्रहे बाधकाभावादुत्तरस्येक्षणादेरनुकूलत्वात्परमात्मग्रहणमिति सिद्धान्तयति - एवं प्राप्त इति ।
महाभूतसृष्टिपूर्वकं लोकानासृजतेति श्रुतिर्व्याख्येयेति भावः ॥१६॥ 【भाष्यम्】 【भाष्यम्】 पूर्वपक्षबीजमनूद्य दूषयति - अन्वयादिति । 'आत्मा वा इदमेक एवाग्र आसीत्' इति 'प्रज्ञानं ब्रह्म' इति चोपक्रमोपसंहारस्थात्मब्रह्मश्रुतिभ्यामेकत्वावधाराणात्प्रवेशादिलिङ्गैश्च लोकस्रष्टृत्वादिलिङ्गबाधेन प्रत्यग्ब्रह्म ग्राह्यमिति भावः । स परमेश्वरः । एतमेव सीमानं मूर्ध्नः केशविभागावसानं विदार्य छिद्रं कृत्वा एतया ब्रह्मरन्ध्राख्यया द्वारा लिङ्गविशिष्टः प्रविष्टवानित्यर्थः । मां विना यदि वागादिभिः स्वस्वव्यापारः कृतः, अथ तदाहं क इति त्वंपदार्थं विचार्य स्वयमेतमेव शोधितमात्मानं ब्रह्म ततमं व्याप्ततममपश्यत् । तकारलोपश्छान्दसः । प्रज्ञा चिदात्मा नेत्रं नीयतेऽनेनेति नियामकं यस्य तत्प्रज्ञानेत्रं चिदात्मनियम्यमित्यर्थः । उक्तव्याख्याने गुणोपसंहारस्यास्फुटत्वान्न पादसंगतिरिति मत्वैव व्याख्यान्तरमाह - अपरेति । उदर्क उपसंहारः । सच्छब्दस्यात्मानात्मसाधारण्यात्संशयमाह - तत्रेति । पूर्वपक्षे सत्तासामान्ये ब्रह्मात्मत्वसंपदुपास्तिश्छान्दोग्ये, वाजश्रुतौ निर्गुणविद्येति भेदान्मिथोगुणानुपसंहारः । सिद्धान्ते तूभयत्र निर्गुणविद्यैक्यादुपसंहार इति फलभेदः । पदानां जातौ शक्तिग्रहात्सच्छब्दोऽपि सत्ताजातिवाचीत्युपक्रमस्य निश्चितार्थत्वादसंजातविरोध्युपक्रमबलेन तादात्म्योपदेशः संपत्तिपरतया नेय इति पूर्वपक्षनिष्कर्षः । पूर्वत्र वाक्यैक्यादर्थादिपरत्वं त्यक्त्वा विद्यैक्यमुक्तमिह तु सदात्मशब्दाभ्यां जात्यात्मवाचिभ्यामुपक्रमभेदाद्वाक्यभेदे सति विद्याभेद इति प्रत्युदाहरणसंगतिः । न चात्मशब्दो जातिवाचकः, आत्मव्यक्त्यैक्याज्जात्यभावात्किन्तु सर्वान्तरवस्तुवाचकः । कल्पितजातिवाचित्वेऽप्युपक्रमभेदः स्फुट एव सत्तात्मत्वयोर्भेदादिति मन्तव्यम् । सिद्धान्तयति - तथेत्यादिना । उपक्रमान्वयादिति । उपक्रमाधीनत्वादुपसंहारस्येत्यर्थः । तच्चावधारणं सत्पदेनात्मगृहीतौ सत्यां युज्यत इत्याह - तच्चेति । सदेकमेवेत्यवधारणं, अनेन जीवेनात्मनेति सद्देवताकर्तृको जीवस्यात्मशब्देन परामर्शः, सुप्तौ जीवः सता संपन्नौ भवतीति कथनम् । भूय एव मा भगवान् विज्ञापयत्विति परिचोदना । सदितिपदेन सत्ताश्रया उच्यते न जातिमात्रं, कर्तृवाचिशतृप्रत्ययान्तत्वात् । तथा चोपक्रमे सत्ताश्रयसामान्योक्तौ क आश्रय इत्याकाङ्क्षायां वाक्यशेषादात्मेति निश्चीयत इत्याह - न चेति । सच्छब्दस्यात्मानात्मसाधारण्यमुपेत्योक्तं तदपि नास्ति आत्मपदवत्सत्पदस्य व्यक्तिवाचित्वाद्व्यक्तिश्च बाधायोग्या चिदात्मैवेति न वाचिछन्दोगयोरूपक्रमवैषम्यमित्याह - सच्छब्देति । वैषम्यमुपेत्याप्याह - आम्नानेति । वाजिवाक्ये त्वमर्थस्य तदर्थपर्यन्तस्य लक्ष्यस्य प्रतिपादनं छान्दोग्यवाक्ये तु तदर्थस्य त्वमर्थपर्यन्तस्य प्रतिपादनमिति प्रकारभेदेऽपि वाक्यार्थैक्याद्विद्यैक्यमिति फलितमाह -
तस्मादिति ॥१७॥ 【भाष्यम्】 【भाष्यम्】 कार्याख्यानादपूर्वम् । 'मे किमन्नं किं वासः' इति प्राणेन पृष्टा वागादयः ऊचुः, 'यदिदं किं चाश्वभ्य आ कृमिभ्यस्तत्तेऽन्नमापो वासः' इति सर्वप्राणिभिर्भुज्यमानं यदिदं प्रसिद्धं श्वादिपर्यन्तमन्नं तत्प्राणस्य तवान्नमाप आच्छादनमित्युपासकेन चिन्तनीयमित्यर्थः । शाखाद्वयेऽप्यविशेषश्रुतिमुक्त्वा विशेशषश्रुतिभेदमाह - अनन्तरं चेति । तस्मादपां प्राणवस्त्रत्वादशिशष्यन्तोऽशनं कुर्वन्तः श्रोत्रिया एतत्कुर्वन्ति । किं तत्, भोजनात्पूर्वमूर्ध्वं चाचामन्तीति यत्तदद्भिः प्राणं परिदधत्याच्छादयन्तीत्यर्थः । पूर्वोत्तराचमनसंबन्धिनीष्वप्सु प्राणवासस्त्वचिन्तनरूपमनग्नताध्यानं कार्यमिति भावः । तत्तस्मादित्युक्तार्थं यतः पूर्वे विद्वांसोऽशनात्प्रागूर्ध्वं चाचामन्त एतमेवान्नं प्राणं तत्तेनाचमनेनानग्नमाच्छादितं कुर्वन्तो मन्यन्ते चिन्तयन्ति, तस्मादेवंविदिदानीन्तनोऽप्युपासक एवं कुर्यादिति वाजिश्रुत्यर्थः । अत्रोभयोरप्यपूर्वत्वात्संशयमाह - तत्किमिति । संदिग्धसदुपक्रमस्य वाक्यशेषान्निर्णयवदाचामन्तीति पदस्य विधित्वसंदेहे आचामेदिति वाक्यशेषाद्विधित्वनिर्णय इति दृष्टान्तसंगत्या पूर्वपक्षमाह - किं तावदिति । ज्ञानसाधनोपासनाङ्गविधिविचारात्पादसङ्गतिर्बोध्या । पूर्वपक्षे प्राणविद्याङ्गत्वेनापूर्वाचमनं विहितमन्यत्रोपसंहर्तव्यमिति फलं सिद्धान्ते तस्याविधेयत्वान्नाङ्गत्वेनोपसंहार इति विवेकः । उभयविधाने वाक्यभेदः स्यादित्यरुच्यापक्षान्तरमाह - अथवेति । प्रशस्तं हीदमाचमनं यस्मादनेन प्राणमनग्नं मन्यन्त इति स्तुतिः । प्रसिद्धानुवादेनाप्रसिद्धं विधेयमिति न्यायेन सिद्धान्तयति - एवमिति । प्रयतस्य प्रयत्नवतो भावः प्रायत्यंशुद्धिस्तदर्थमित्यर्थः । स्मृत्या शुद्यर्थं कार्यत्वेन विहितसकलकर्माङ्गतया प्राप्ताचमनानुवादेनापूर्वमनग्नताध्यानमेव विधीयत इति सूत्रार्थः । स्मार्तमाचमनं श्रुत्या नानूद्यते किं त्वनया श्रुत्या विहितं स्मृत्यानूद्यत इति शङ्कते - नन्विति । श्रुतिस्मृत्योरनयोर्न मूलमूलिभावो भिन्नविषयत्वादिति परिहरति - नेति । 'द्विजो नित्यमुपस्पृशेत्' इत्याद्या स्मृतिः । आचमनान्तरविधिमुपेत्य मूलमूलित्वं निरस्तं, संप्रति विधिरसिद्ध इत्याह - न चेयं श्रुतिरिति । अत एवेति आचमनविध्यभावादेवेत्यर्थः । अप्सु प्राणवासस्त्वध्यानाख्यः संकल्पः प्राणविद्याङ्गत्वेन विधीयत इत्याह - तस्मादिति । स्वयं चेति अपूर्वत्वादित्यर्थः । शुद्यर्थं विनियुक्तस्याचमनस्य प्राणाच्छादनार्थत्वं विरुद्धमित्याशङ्क्याह - न चैवं सतीति । आचमनस्याच्छादनार्थत्वमसिद्धमित्यर्थः । किञ्च यथा पूर्ववाक्ये प्राणस्यान्नध्यानमङ्गं विहितं तथात्राप्सु वासोध्यानं विधीयते अन्यथाचमनविधौ पूर्वत्र ध्यानविधिरुत्तरत्र क्रियाविधिरित्यर्धवैशसं स्यादित्याह - अपि चेति । भक्षयेदिति शब्दाभावाच्छ्वाद्यन्नस्य सर्वस्य मनुष्वेणोपासकेन भोक्तुमशक्यत्वाच्च न पूर्ववाक्ये क्रियाविधिरित्यर्थः । इतश्चाचमनमत्र न विधेयमित्याह - अपि चेति । अनग्नं मन्यन्त इत्यत्र वासस्त्वध्यानमपि न विधेयं दोषसाम्यदिति शङ्कते - नन्विति । उभयोरप्यनुवादत्वे वैफल्यादवश्यमेकानुवादेनैकं विधेयं तच्च विधेयं वासोध्यानमेव वासः कार्यस्यानग्नत्वस्याख्यानादपूर्वत्वाच्चेति समाधानार्थः । पूर्ववदिति स्मृत्या प्राप्तमित्यर्थः । आचामेदिति न विधिः किन्तु विष्णुरूपांशु यष्टव्य इतिवदनुवाद इत्यत्र लिङ्गमाह - अत एवेति । तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदिति वाक्यस्याविधित्वे काण्वैरपठनं लिङ्गमित्यर्थः । तर्हि पाठबलान्माध्यन्दिने आचमनविधिः काण्वे ध्यानविधिरिति कस्यचिन्मतं निराकरोति -
योऽपीति ॥१८॥ 【भाष्यम्】 【भाष्यम्】 समान एवञ्चाभेदात् । शाण्डिल्येन दृष्टा तन्नाऽम्नाङ्किता, अन्तर्हृदये व्रीह्यादिवत्सूक्ष्मस्तिष्ठतीत्यर्थः । अभ्यासप्रत्यभिज्ञाभ्यां संशयमाह - तत्रेति । गुणानुपसंहारोपसंहारौ पूर्वोत्तरपक्षयोः फलम् । पूर्वत्र प्राप्ताचमनानुवादेनानग्नताध्यानविधिरुक्तः । इह त्वेकशाखायां विप्रकृष्टदेशस्थवाक्ययोरेकस्य विधित्वमन्यस्यानुवादत्वमित्यनिश्चयाद्द्वयोरपि विद्याविधित्वमिति प्रत्युदाहरणेन पूर्वपक्षयति - किं तावदिति । यत्पुनरुक्तं, तद्विद्यान्तरमिति न व्याप्तिः प्राणपञ्चाग्न्यादिविद्यासु व्यभिचारादित्याशङ्क्य शाखाभेदे पुनरुक्तिरसिद्धेत्युक्तमित्याह - भिन्नास्विति । यथाऽग्निहोत्रवाक्ये कर्मविधिः, 'दध्ना जुहोति' इति वाक्ये गुणविधिस्तथात्राप्यस्तु न विद्याभेद इत्याशङ्क्याह - न चात्रैकमिति । उक्तगुणानां पुनरुक्तिर्वृथास्यादतोऽभ्यासाद्विद्याभेदः प्रयाजभेदवदिति भावः । उक्तगुणोक्तिर्न वृथा कतिपयगुणविशिष्टोपास्याभेदप्रत्यभिज्ञानार्थत्वादत उपास्यरूपाभेदाद्भिन्नशाखास्विव समानशाखायामपि विद्यैक्यमिति सिद्धान्तसूत्रं योजयति - यथेति ।
सौत्रश्चकारोऽप्यर्थो व्याख्यातः । यत्र बहवो गुणाः श्रुतास्तत्र प्रधानविधिरन्यत्र तदनुवादेन गुणविधिरिति निश्चयादग्निरहस्ये प्रधानविधिवदुत्तरत्र गुणविधिरिति भावः ॥१९॥ 【भाष्यम्】 【भाष्यम्】 संबन्धादेवमन्यत्रापि । सद्भूतत्रयं त्यद्वाय्वाकाशात्मकं, सत्यं परोक्षभूतात्मकं हिरण्यगर्भाख्यं ब्रह्मोपक्रम्य, तदुक्तं यत्सत्यं तत्स योऽसावादित्यः किं मण्डलं न तत्र स्थाने पुरुषः करणात्मकः स एवाध्यात्ममक्षिस्थानस्थ इत्युपदिश्य 'तस्य भूरिति शिरो भुव इति बाहुः स्वरिति पादौ' इति व्याहृतिरूपं शरीरमुक्त्वा द्वे उपनिषदौ रहस्यदेवतानामनी उपदिश्येते तस्यादित्यमण्डलस्थस्याहरिति नाम प्रकाशकत्वात्तस्याक्षिस्थस्याहमिति नाम प्रत्यक्त्वादिति । इदं नामद्वयं विषयस्तत्र नामिनः सत्याख्यस्य ब्रह्मण एकत्वात्स्थानभेदोक्तेश्च संशयमाह - तत्रेति । पूर्वपक्षे प्रतिस्थानं नामद्वयानुष्ठानं सिद्धान्ते यथाश्रुत्यैकैकनामानुष्ठानमिति फलम् । दृष्टान्तसंगत्या पूर्वपक्षसूत्रं व्याचष्टे - यथेति । यथा विद्यैक्यादुपसंहार उक्त एवमन्यत्राप्येकाविद्यायामुपसंहारो भवितुमर्हतीत्यर्थः । सत्यं ब्रह्मेत्युपक्रमाभेदस्तावेतावक्ष्यादित्यपुरुषावन्योन्यस्मिन्प्रतिष्ठितौ, आदित्यरश्मीनां चक्षुषि चक्षुषश्चादित्ये प्रतिष्ठानादिति व्यतिषक्तपाठो मिथः संश्लेषपाठस्ताभ्यां विद्यैक्यसिद्धिः । विद्यैक्येऽपि किं स्यात्तत्राह - कथमिति । विद्यैक्येऽपि स्थानभेदादुपनिषदोरसंकरः स्यादित्याशङ्कां दृष्टान्तेन परिहरति -
यो हीति ॥२०॥ 【भाष्यम्】 【भाष्यम्】 नाम्यैक्यात् नामसंकरो युक्तः, तथा चाक्षिस्थोऽहरिति नामवान् सत्यब्रह्मत्वादादित्यस्थवदिति प्राप्ते सिद्धान्तसूत्रं योजयति - न वेति । नाम्नोरूपासनस्थानविशिष्टसंबन्धित्वादित्यर्थः । तस्योपनिषदहरहमिति च वाक्यद्वयेन तच्छब्दपरामृष्टयोः संनिहितस्थानविशिष्टयोः पुरुषयोर्नामसंबन्धपरेणोपसंहारानुमानं बाध्यमिति भावः । विशेष्यैक्यान्नामसंकर इत्याशङ्क्य स्थानभेदेन विशिष्टपुरुषभेदान्नामव्यवस्थामाह - नन्वित्यादिना । विशिष्टसंबन्धे दृष्टान्तमाह - अस्तीति । प्रतिदृष्टान्तस्य स्वरूपसंबन्धित्वाद्विशिष्टे ध्येये प्रकृते दृष्टान्तत्वे नास्तीत्याह -
ग्रामेति ॥२१॥ 【भाष्यम्】 【भाष्यम्】 उक्तनामव्यवस्थायामतिदेशो लिङ्गमित्याह - दर्शयति चेति ।
विद्यैक्यादेवोपसंहारसिद्धावतिदेशो वृथा स्यात्तस्मादेकविद्यायामपि स्थानभेदेनोक्तगुणानां विनातिदेशमनुपसंहार इति सिद्धम् ॥२२॥ 【भाष्यम्】 【भाष्यम्】 संभृतिद्युव्याप्त्यपि चातः । ब्रह्मैव ज्येष्ठं कारणं येषां तानि ब्रह्मज्येष्ठानि, निलोपश्छान्दसः, वीर्याणि पराक्रमविशेषा आकाशोत्पादनादयः, तानि च वीर्याणि संभृतानि निर्विघ्नं समृद्धानि, सर्वनियन्तुः कार्ये विघ्नकर्तुरसत्त्वात् । तच्च ज्येष्ठं ब्रह्माग्ने देवाद्युत्पत्तेः प्रागेव दिवं स्वर्गमाततान व्याप्तवत्सदा सर्वव्यापकमित्यर्थः । सर्वप्राथम्यं स्पर्धानर्हत्वमिति वाक्यशेषस्था गुणाः प्रभृतिपदग्राह्याः । खिलेष्विति विधिनिषेधशून्यवाक्येष्वित्यर्थः । ब्रह्मसंबन्धाद्विद्याभेदभानाच्च संशयमाह - तास्विति । अनारभ्याधीतब्रह्मविभूतीनां ब्रह्मसंबन्धेन सर्वब्रह्मविद्यासु प्रत्यभिज्ञानादुपसंहार इति पूर्वपक्षः । सिद्धान्तमाह - संभृतीति । संभृतिश्च द्युव्याप्तिश्च संभृतिद्युव्याप्ति तदपि सर्वत्र नोपसंहर्तव्यमुपनिषदोरिव व्यवस्थापकविशेषयोगादिति सूत्रयोजना । आध्यात्मिकायतनविशेषयुक्तासु विद्यास्वाधिदैविकविभूतीनां प्रत्यभिज्ञाने हेत्वभावान्न प्राप्तिरित्युक्ते हेतुं शङ्कते - नन्वेतास्विति । आधिदैविकत्वसाम्यादाध्यात्मिकायतनहीनत्वसाम्याद्वा तत्तद्विद्यासु संभृत्यादीनां प्राप्तिरिति शङ्कार्थः । उक्तहेतुद्वयं न गुणप्रापकमाधिदैविकविद्यानां शाण्डिल्यदहरादीनामायतनहीनविद्यायां च मिथोगुणसांकर्यप्रसङ्गात्, तस्मात्कतिपयसमानगुणविशिष्टोपास्यरूपैक्यं विद्यैक्यमावहद्गुणप्राप्तिहेतुस्तदभावान्न प्राप्तिरिति परिहरति - सत्यमित्यादिना । स्थानविशिष्टभेदान्नाम्नोर्व्यवस्थावत्संभृत्यादिगुणविशिष्टस्य ब्रह्मणः शाण्डिल्यादिविद्योक्तगुणविशिष्टब्रह्मणश्च मिथो भेदेन रूपभेदात्संभृत्यादीनां नोपसंहार इत्युक्तन्यायातिदेशत्वादस्य न संगत्याद्यपेक्षा यथैकस्मिन्नुद्गीथे परोवरीयस्त्वादिगुणोपास्तेर्हिरण्यश्मश्रुत्वाद्युपास्तिर्भिद्यते तथैकस्मिन्नपि ब्रह्मणि विद्याभेदोपपत्तेः ब्रह्मप्रत्यभिज्ञा न गुणप्रापिकेत्याह - परोवरीयस्त्वादिवदिति ।
तस्मात्संभृत्यादिगुणविशिष्टविद्यान्तरविधिरिति सिद्धम् ॥२३॥ 【भाष्यम्】 【भाष्यम्】 पुरुषविद्यायां छान्दोग्यस्थां विद्यामाह - अस्तीति । 'पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशति वर्षाणि तत्प्रातः सवनमथ यानि चतुश्चत्वारिंशद्वर्षाणि तन्माध्यन्दिनं सवनमथ यान्यष्टाचत्वारिंशद्वर्षाणि तत्तृतीयं सवनम्' इति प्रसिद्धयज्ञसाम्यार्थं सवनत्रयं कल्पितं, 'स यदशिशिषति यत्पिपासति यन्न रमते ता दीक्षा अथ यदश्नाति यत्पिबति यद्रमते ता उपसदः अथ यद्धसति यज्जक्षति यन्मैथुनं चरति तानि स्तुतशस्त्राणि अथ यत्तपोदानादि सा दक्षिणा मरणमेवावभृथः वस्वादिरूपा मे प्राणा इदं सवनत्रयं यावदायुरनुसंतनुते' इत्याशीः 'अक्षितमस्यच्युतमसि प्राणं संशितमसि' इति मन्त्रत्रयप्रयोगः । षोडशाधिकशतवर्षजीवित्वं फलमिति दर्शितम् । संशयार्थं शाखान्तरीयपुरुषविद्यामाह - तैत्तिरीयका इति । अत्र विदुषो यज्ञस्येति षष्ठ्योःसामानाधिकरण्यवैयधिकरण्यानिश्चयात्संशयमाह - तत्रेति । उपसंहारानुपसंहारावेव फलम् । पूर्वत्रासाधारणगुणप्रत्यभिज्ञानाभावात्संभृत्यादौ विद्याभेद उक्तः । इह त्वसाधारणमरणावभृथगुणविशिष्टपुरुषयज्ञरूपैक्यप्रत्यभिधानाद्विद्यैक्यमिति प्रत्युदाहरणेन प्राप्ते सिद्धान्तयति - नोपसंहर्तव्या इति । 'तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपोऽग्निर्दमः शमयिता दक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युर्मनो ब्रह्मा' इति बहुतरधर्मवैलक्षण्यान्न रूपैक्यप्रत्यभिज्ञेत्यर्थः । वेदः कुशमुष्टिः शमयिता दमो दक्षिणेत्यन्वयः । किञ्च छान्दोग्ये त्रिधाविभक्तायुषि सवनत्वकल्पना, अत्र तु सायङ्कालादाविति वैरूप्यमाह - यदपीति । यन्मरणं तदवभृथो यद्रमते तदुपसद इति तित्तिरिश्रुतौ सारूप्यमपि भातीत्यत आह - यदपि किञ्चिदिति । गजोष्ट्रयोश्चतुष्पात्त्वसारूप्यवदिदं सारूप्यं नैक्यप्रयोजकमित्यर्थः । किञ्च छान्दोग्ये पुरुषयज्ञयोरैक्यं श्रुतमत्र तु भेद इति वैरूप्यान्तरमाह - न चेति । यद्यपि निषादस्थपतिन्यायेन सामानाधिकरण्यं षष्ठ्योर्युक्तं तथाप्यप्रसिद्धैक्यकल्पनागौरवाद्यज्ञस्यात्मेति भेदोक्तेरेकस्यैव यज्ञत्वयजमानत्वविरोधादात्मविदो यो यज्ञः प्रसिद्धस्तस्येति वैयधिकरण्यमेव युक्तम् । किञ्च विद्वत्संबन्धियज्ञरूपविशेष्यानुवादेन विद्वदङ्गैरङ्गसंपद्विधावेकवाक्यता प्रतीयते तस्यां सत्यां विशेष्यस्याङ्गानां च पृथग्विधिवादिनस्तव वाक्यभेददोषः स्यादित्यर्थः । किञ्च सत्यादिभ्यो न्यास एवापरे च यदिति संन्यासमुक्त्वा सर्वैः सर्वमिदं जगदित्येवं तमात्मानं ज्ञात्वा भूयो न मृत्युमुपयाति विद्वानिति संन्याससाध्यात्मविद्यां पुरस्तात्प्राजापत्यानुवाके उपदिश्यानन्तरानुवाके तस्यैवं विदुष इत्युक्तात्मविद्यानुवादेन प्रशंसार्थत्वेन, तच्छेषतयायज्ञसंपत्तिः क्रियते फलैक्यश्रुतेः, छन्दोगानां तु स्वतन्त्रविद्याविधिरित्याह - अपि च ससंन्यासामिति । चिन्ताफलमाह -
तस्मादिति ॥२४॥ 【भाष्यम्】 【भाष्यम्】 वेधाद्यर्थभेदात् । देवतामभिचारकर्ता प्रार्थयते - सर्वमिति । हे देवते, मद्रिपोः सर्वमङ्गं प्रविध्य विदारय विशेषतश्च हृदयं भिन्धि धमनीः शिराः प्रवृञ्जय त्रोटय शिरश्चाभितो नाशय, एवं त्रिधा विपृक्तो विश्लिष्टो भवतु मे शत्रुरित्यर्थः । हे देव सवितः, यज्ञं तत्पतिं च प्रसुव निर्वर्तयेत्यर्थः । उच्चैः श्रवाः श्वेतोऽश्वो यस्येन्द्रस्य स त्वं हरितमणिवन्नीलोऽसीत्यर्थः । नोऽस्माकं शं सुखकरो भवत्वित्यर्थः । अग्निष्टोमो ब्रह्मैव स यस्मिन्नहनि क्रियते तदपि ब्रह्म तस्माद्य एतदहः साध्यं कर्मोपयन्त्यनुतिष्ठिन्ति ते ब्रह्मणैव साधनेन ब्रह्मोपयन्ति ते च क्रमेणामृतत्वमाप्नुवन्तीति योजना । मन्त्रादिषु तत्तदुपनिषद्विद्याशेषत्वे प्रमाणभावाभ्यां संशयमाह - किमिति । फलं पूर्ववत् । ननु तेषां शेषत्वे मानाभावान्नोपसंहार इति शङ्कते - नन्वेषामिति । मन्त्रादयस्तत्तद्विद्याशेषाः फलवद्विद्यासंनिहितत्वात्तैत्तिरीयकगतपुरुषयज्ञवदिति समाधत्ते - बाढमिति । तथा च दृष्टान्तसंगतिः । सिद्धान्तिपक्षे संनिधिवैयर्थ्यं बाधकमाह - न हीति । अफलमन्त्रादीनां फलवच्छेषत्वबोधनं संनिधेरर्थवत्त्वं तत्संभवे सत्यकस्मादर्थशून्यत्वेनासौ संनिधिराश्रयितुं नहि युक्त इत्यर्थः । नञ्पाठेत्वकस्माद्धेतुं विनाऽसावर्थो नाश्रयितुं नहि युक्त इत्यर्थः । ननु मन्त्राणां विद्यासमवेतार्थप्रकाशनसामर्थ्याभावान्न विद्याशेषत्वमिति शङ्कते - नन्विति । पुरस्तादुपसदां प्रवर्ग्येण प्रचरन्तीति वाक्येन प्रवर्ग्यस्य क्रतुशेषत्वं श्रुतं, अग्निष्टोमादेश्च तत्तद्वाक्येन स्वर्गाद्यर्थत्वमतो न विद्यार्थत्वमित्याह - कथं चेति । मन्त्राणां विद्यासमवेतहृदयनाड्यादिप्रकाशकत्वमस्तीत्याह - नैष इति । उपास्तिषु मन्त्रप्रयोगः क्वापि न दृष्ट इत्यत आह - दृष्टश्चेति । पुत्रस्य दीर्घायुष्यार्थं छान्दोग्ये त्रैलोक्यस्य कोशत्वेनोपास्तिरुक्ता तत्र पितुरयं प्रार्थनामन्त्रः । तत्रामुनेति पुत्रस्य त्रिर्णाम गृह्णाति अमुना पुत्रेण सह भूरितीमं लोकममुं च प्रपद्ये न मे पुत्रवियोगः स्यादित्यर्थः । तत्तद्वाक्येनान्यत्र विनियुक्तानामपि कर्मणां संनिधिना विद्यासु विनियोगो न विरुध्यत इत्यत्र दृष्टान्तमाह - वाजपेय इति । 'ब्रह्मवर्चसकामो बृहस्पतिसवेन यजेत' इति वाक्येन ब्रह्मवर्चसफले विनियुक्तस्यापि बृहस्पतिसवस्य 'वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत' इति वाजपेयप्रकरणप्रकरणस्थ वाक्येन वाजपेयोत्तराङ्गतया विनियोगवदविरोध इत्यर्थः । यद्यप्येकेन वाक्येन प्रकरणान्तरस्थबृहस्पतिसवस्य प्रत्यभिज्ञानमङ्गत्वविधानं च कर्तुमयुक्तं वाक्यभेदप्रसङ्गादतो मासाग्निहोत्रवत्कर्मान्तरमेव बृहस्पतिसवाख्यमङ्गतया विधीयत इति न विनियुक्तस्य विनियोग इति भट्टगुरुतन्त्रद्वयसिद्धं, तथापि यथा नित्याग्निहोत्रस्याश्वमेधप्रकरणे वाग्यतस्यैतां रात्रिमग्निहोत्रं जुहोतीति नाम्ना प्रत्यभिज्ञा, यथावा दर्शपूर्णमासविकृतीष्टावाज्यभागौ यजतीत्येकस्मिन्वाक्ये प्रकृतिस्थाज्यभागयोः पदेन प्रत्यभिज्ञानं वाक्येन विधानं तथात्रापि बृहस्पतिसवपदेन प्रत्यभिज्ञानं वाक्येनाङ्गताविधानं किं न स्यात् । न च साध्यभावार्थविधायकाख्यातपरतन्त्रं नामपदं न सिद्धकर्मप्रत्यभिज्ञाक्षममिति वाच्यं, सिद्धस्याप्यङ्गतया पुनः साध्यत्वसंभवेऽन्यथासिद्धाख्यातस्यैव प्रसिद्धार्थकनामपारतन्त्र्योपपत्तेः । न चैवं सति कुण्डपायिसत्रेऽप्यङ्गत्वेन नित्याग्निहोत्रस्यैव विधिः स्यादिति वाच्यं, इष्टत्वात् । न च पूर्वतन्त्रविरोधः उत्तरतन्त्रस्य बलीयस्त्वात् । पूर्वतन्त्रस्य स्वतन्त्रपरतन्त्रभावनाभेदे तात्पर्याच्च । तस्मादेकस्यैव बृहस्पतिनामकस्य धात्वर्थस्य ब्रह्मवर्चसे विनियुक्तस्यापि वाजपेयाङ्गतया विनियोग इति भगवत्पादतात्पर्यम् । अस्ति च विनियुक्तस्य विनियोगे सर्वसंमतमुदाहरणं खादिरत्वादिकं तस्य क्रतौ विनियुक्तस्य वीर्यादिफलेऽपि विनियोगात् । तथा मन्त्रकर्मणामन्यत्र विनियुक्तानां विद्याशेषत्वमिति प्राप्ते सिद्धान्तयति - नैषामित्यादिना । विद्यासु हृदयादिसंबन्धेऽपि वेधाद्यर्थानामसंबन्धात्कृत्स्नमन्त्रार्थानामभिचारादिसंबन्धलिङ्गेन संनिधेर्बलीयसाभिचारादावेव मन्त्राणां विनियोग इत्यर्थः । 'देव सवितः प्रसुव' इति प्रदक्षिणतोऽग्निं पर्युक्षेदिति वाक्यादग्निपर्युक्षणे 'सावित्रं जुहोति कर्मणः पुरस्तात्सवने सवने जुहोति' इति वाक्याद्वाजपेये कर्मविशेषे संबन्धोऽस्य मन्त्रस्येत्याह - तद्विशेषेति । उक्तन्यायं श्वेताश्व इत्यादिष्वतिदिशति - एवमन्येषामिति । प्रमाणान्तरं प्रकरणादिकम् । ननु लिङ्गादिभिरन्यत्र विनियुक्तानामपि संनिधिना विद्यास्वपि विनियोगोऽस्त्वविरोधादित्युक्तं, तत्राह - दुर्बलो हीति । समवाये समानविषयत्वेन द्वयोर्विरोधे, परस्य दौर्बल्यं, कुतः अर्थविप्रकर्षात्, स्वार्थबोधने परस्य पूर्वव्यवधानेन प्रवृत्तेरित्यर्थः । अयमाशयः- एकत्र विनियुक्तस्य निराकाङ्क्षत्वादन्यत्र विनियोगो विरुद्ध एव परन्तु विनियोजकप्रमाणयोः समबलत्वेऽन्यतरविनियोगत्यागायोगादगत्याकाङ्क्षोत्पादनेन विनियुक्तविनियोगः स्वीक्रियते 'यथा खादिरो यूपो भवति' 'खादिरं वीर्यकामस्य यूपं कुर्यात्' इति वाक्याभ्यां क्रतौ विनियुक्तस्य खादिरत्वस्य वीर्यफले विनियोगः । यत्र तु प्रमाणयोरतुल्यत्वं तत्र न स्वीक्रियते प्रबलप्रमाणेन दुर्बलविनियोगबाधात् । यथा 'कदाचन स्तरीरसि' इत्यस्या ऋच ऐन्द्र्या गार्हपत्यमुपतिष्ठत इति तृतीयाविभक्तिश्रुत्यान्यनिरपेक्षतया गार्हपत्योपस्थानशेषत्वबोधिकयेन्द्रप्रकाशनसामार्थ्यरूपलिङ्गप्राप्तमिन्द्रशेषत्वं बाध्यते । लिङ्गं हि न साक्षाच्छेषत्वं बोधयति किन्त्विन्द्रप्रकाशनमात्रं करोति, तेन च लिङ्गेनानेन मन्त्रेण इन्द्र उपस्थापयितव्य इति श्रुतिः कल्पनीया, तया शेषत्वबोध इति श्रुतिव्यवधानेन शेषत्वबोधकं लिङ्गं झटिति स्वार्थबोधकश्रुत्या बाध्यम् । तथा लिङ्गेन वाक्यं बाध्यं यथा 'स्योऽनं ते सदनं करोमि घृतस्य धारया सुवेशं कल्पयामि', 'तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः' इति मन्त्राभागयोः प्रत्येकं सदनकरणे पुरोडाशासादने च तत्प्रकाशनसामर्थ्यलिङ्गेन श्रुतिद्वारा विनियोगे सति प्रतीतमेकवाक्यत्वं बाध्यते, तस्य कृत्स्नेऽपि मन्त्रे सदनकरणप्रकाशनसामर्थ्यं पुरोडाशासादनप्रकाशनसामर्थ्यं च लिङ्गं कल्पयित्वा श्रुतिकल्पनयोभयत्र कृत्स्नमन्त्रविनियोगबोधने द्वाभ्यां लिङ्गश्रुतिभ्यां व्यवधानेन श्रुत्येकव्यवहितकॢप्तलिङ्गाद्दुर्बलत्वात् । न च सामर्थ्यं न कल्प्यमिति वाच्यं, असमर्थस्य विनियोगायोगात् अत एव गङ्गापदस्य तीरबोधविनियोगे लक्षणारूपं सामर्थ्यं कल्प्यते । तथा वाक्येन प्रकरणं बाध्यं यथा साह्नप्रकरणाम्नातद्वादशोपसदां द्वादशाहीनस्येति वाक्येनाहीनाङ्गत्व बोधकेन प्रकरणप्राप्तसाह्नाङ्गत्वबाधादुत्कर्षः । प्रधानस्याङ्गाकाङ्क्षारूपं प्रकरणं तस्याङ्गप्रधानवाक्यैकवाक्यतासामर्थ्यश्रुतिभिः कल्प्यमानाभिः स्वार्थविनियोगप्रमितौ व्यवधानेनाङ्गसामर्थ्यश्रुत्योर्द्वयोः कल्पकवाक्याद्दुर्बलत्वात् । तथा प्रकरणेन संनिधिर्बाध्यः । यथा राजसूयप्रकरणेन तदन्तर्गताभिषेचनीयाख्यसोमयागविशेषसंनिधिपाठप्राप्तं शुनःशेपोपाख्यानादेरभिषेचनीयशेषत्वं बाधित्वा कृत्स्नराजसूयशेषत्वमापादितं संनिधेः प्रकरणादिकल्पकत्वेन कॢप्तप्रकरणाद्दुर्बलत्वात्तथा संनिधिना समाख्या बाध्यते । तथा हि पौरोडाशिकसमाख्याके काण्डे आग्नेयपुरोडाशादिकर्मणां क्रमेण मन्त्रा आम्नातास्तत्र दधिपयोरूपसान्नाय्यसन्निधौ 'शुन्धध्वं दैव्याय कर्मणे' इति मन्त्र आम्नातस्तत्र समाख्याबलेनास्य मन्त्रस्य पुरोडाशपात्रशुन्धनशेषत्वं प्राप्तं संनिधिना बाधित्वा सान्नाय्यपात्रशुन्धनशेषत्वमापाद्यते । पुरोडाशसंबन्धिकाण्डं पौरोडाशिकमिति पौरुषसमाख्यायाः काण्डान्तर्गतमन्त्रस्य पुरोडाशसंबन्धसामान्यबोधकत्वेऽपि शेषशेषिभावरूपविनियोगबोधकत्वे संनिध्याद्यपेक्षत्वेन दुर्बलत्वादिति । एवं विरोधे सति श्रुतिर्बाधिकैव समाख्या बाध्यैव, मध्यस्थानां तु चतुर्णां पूर्वबाध्यत्वं परबाधकत्वं चेति श्रुतिलिङ्गसूत्रार्थः । तस्माल्लिङ्गादिनान्यत्र विनियुक्तानां मन्त्राणां दुर्बलसंनिधिना न विद्यासु विनियोग इति सिद्धम् । तथा कर्मणामिति । कर्मणां विद्योपकारत्वे ताभिः सहैकफलत्वे च मानं किञ्चिन्नास्तीत्यर्थः । अपि चेत्युक्तार्थम् । ननु तर्हि वेधादिवाक्यानामुपनिषद्भिः सह पाठस्य का गतिस्तामाह - अरण्येति ।
तस्माद्वेधादिमन्त्रकर्मणां विद्यास्वनुपसंहार इति सिद्धम् ॥२५॥ 【भाष्यम्】 【भाष्यम्】 हानौ तूक्तम् । यथाऽश्वो रजोयुक्तानि जीर्णरोमाणि त्यक्त्वा निर्मलो भवति तथाहमपि पापं विधूय कृतात्मा निर्मलीकृतचित्तः सन् यथा वा राहुग्रस्तश्चन्द्रो राहुमुखात्प्रमुच्य स्पष्टो भवति तथा शरीरं धूत्वा त्यक्त्वा देहाभिमानान्मुक्तः सन्नकृतं कूटस्थं ब्रह्मात्मकं लोकम् अभिप्रत्यक्त्वेन संभवामीत्यर्थः । यथा नद्यः समुद्रं प्राप्य नामरूपे त्यजन्ति तथा विद्वानित्यर्थः । तस्य मृतस्य विदुषः, दायं धनं, तत्तेन विद्याबलेन सुकृतदुष्कृते त्यजतीत्यर्थः । उपायनं ग्रहणं तस्य त्यागपूर्वकत्वात्, अत्यक्तयोर्ग्रहणायोगात्त्यागोऽर्थादायति । यत्र तु त्याग एव श्रुतः तत्र हानोपायनयोः सहभावस्यावश्यकत्वानावश्यकत्वाभ्यां संशयमाह - यत्र त्विति । अत्र पूर्वपक्षे स्तुतिप्रकर्षासिद्धिः सिद्धान्ते तत्सिद्धिरिति फलम् । यद्यपि ताण्ड्याथर्वणश्रुत्योर्निर्गुणविद्यार्थयोः कर्महानमेव श्रुतं नोपायनं तथापि कौषीतकिश्रुतौ पर्यङ्कस्थसगुणब्रह्मविद्यायामुपायनं श्रुतमत्रोपसंहर्तव्यमित्याशङ्क्य विद्याभेदान्नोपसंहार इत्याह - विद्यान्तरेति । किञ्च यथा मन्त्रकर्मणामनावश्यकत्वाद्विद्यास्वनुपसंहार उक्तः तथा परैरुपादानं विनापि हानसंभवेनोपादनस्यानावश्यकत्वान्न प्राप्तिरिति दृष्टान्तसंगत्या प्राप्ते सिद्धान्तयति - हानौ त्वित्यादिना । उपायनशब्दस्य शेषत्वाद्धानशब्देनापेक्षितत्वादिति सूत्रार्थः । अश्वरोमदृष्टान्तेन विधूतयोः पुण्यपापयोः परत्रावस्थानसापेक्षत्वात्परैरुपादानं वाच्यमिति भावः । विद्याभेदे गुणानुपसंहार इति व्यवस्थाऽनुष्ठानविषया न स्तुतिविषयेत्याह - तदुच्यत इति । मन्यते सूत्रकार इत्यर्थः । ननु श्रुतहानार्थवादेनापि स्तुतिसिद्धौ किमर्थमुपायनार्थवाद आनीयते, तत्राह - स्तुतिप्रकर्षलाभायेति । नन्वर्थवादस्य विधिना संबन्धः प्रसिद्धो नार्थवादान्तरेणेत्यत आह - प्रसिद्धा चेति । इतो भूलोकादित्यर्थः । हेमन्तशिशिरयोरैक्यात्पञ्चर्तवः । यज्ञस्य पुरुषरूपकल्पनायां सेन्द्रियत्वाय त्रिष्टुभौ भवत इत्युक्तं बह्वृचब्राह्मणे, तत्र त्रिष्टुभश्छन्दोमात्रत्वात्कथमिन्द्रियत्वकल्पनेत्याकाङ्क्षायां यजुर्वाक्यं संवाद्यत इत्यर्थः । नन्वमूर्तयोः पुण्यपापयोः उपादानस्यासंभवादनुपसंहार इत्यत आह - विद्यास्तुत्यर्थत्वाच्चेति । विद्वन्निष्ठयोरेव तयोः फलं परे प्राप्नुवन्ति विद्यासामर्थ्यादित्युपयन्तिपदेनोच्यत इत्यर्थः । नन्वन्यनिष्टकर्मणोरन्यत्र फलसंचारः कथम् । ननु वचनबलादिति चेत् । न । फलमुपयन्तीत्यश्रुतेः । न च यथा पुत्रकृतश्राद्धस्य पितृषु फलं तथात्रेति वाच्यं, यस्य फलमुद्दिश्य यत्कर्म विहितं तस्य तत्फलमिति न्यायेन पितृणां तृप्त्युद्देशेन कृतकर्मणो व्यधिकरणफलत्वेऽपि विदुषः कर्मकालेऽनुद्दिष्टव्यधिकरणफलायोगात् । किञ्च विदुषो देहपाते कर्मणोऽसत्त्वाद्यावज्जीवं विद्वत्सेवकस्य तद्द्वेषिणो वा फलं स्यादित्यत आह - नातीवाभिनिवेष्टव्यमिति । विद्वत्सेवाद्वेषाभ्यां विद्वन्निष्ठपुण्यपापतुल्ये पुण्यपापे सेवकद्वेषिणोर्जायेते जातयोः फलतः स्वीकार उपायनमिति परिहारस्य सुलभत्वादनाग्रह इत्यर्थः । उपायनादेः स्तुतित्वे लिङ्गमाह - उपायनेति । उपायनविवक्षायामुपायनस्यैवोपसंहारं सूत्रकारो ब्रूयादतः शब्दस्य तं ब्रुवन्स्तुतिं सूचयतीत्यर्थः । विद्याविचारात्मके पादे स्तुतिविचारस्य का संगतिरित्यत आह - तस्मादिति । शाखान्तरस्थो विशेषः शाखान्तरेऽपि ग्राह्य इत्यत्र दृष्टान्तमाह - कुशेति । कुशा उद्गातृणां स्तोत्रगणनार्थाः शलाका दारुमय्यः, भो कुशाः, यूयं वानस्पत्याः वनस्थमहावृक्षो वनस्पतिः तत्प्रभवाः स्थ ता इत्थंभूता यूयं मा पात मां रक्षतेति यजमानप्रार्थना । अत्र ता इति स्त्रीलिङ्गनिर्देशादौदुम्बर्य इति भाष्याच्च शलाकासु कुशशब्दस्य स्त्रीत्वं मन्तव्यं दर्भविषयस्य न स्त्रीत्वं, अस्त्री कुशमित्यनुशासनात् । छन्दोदृष्टान्तं व्याचष्टे - यथा चेति । नवाक्षराणि छन्दांसि आसुराण्यन्यानि दैवानि तेषां क्वच्छिन्दोभिः स्तुवत इत्यत्राविशेषप्राप्तौ पैङ्गिवाक्याद्विशेषग्रह इत्यर्थः । स्तुतिं विवृणोति - यथेति । आतिरात्रे षोडशिनो ग्रहस्याङ्गभूतं स्तोत्रं कदेति छन्दोगादीनामाकाङ्क्षायामुदयसमयाविष्टे सूर्ये षोडशिनः स्तोत्रमित्यार्चश्रुतेः कालविशेषग्रह इत्यर्थः । ऋचोऽधीयत इत्यार्चाः । उपगानं विभजते - यथेति । 'ऋत्विज उपगायन्ति' इत्यविशेषश्रुतेः 'नाध्वर्युरूपगायति' इति श्रुत्यन्तरादध्वर्युभिन्ना ऋत्विज उपगायन्तीति विशेषग्रह इत्यर्थः । ननु कुशादिवाक्यानामपि किमिति विशेषश्रुत्यन्तरैकवाक्यताऽभ्युपगम्यते, तत्राह - श्रुत्यन्तरकृतं हीति । सामान्यविशेषयोरेकवाक्यतारूपायां गतौ सत्यां वाक्यभेदं कृत्वा नाध्वर्युरिति निषेधादविशेषश्रुतेश्चाध्वर्युरुपगायति नोपगायति चेत्येवं सर्वत्र विकल्पो न युक्तः, व्रीहियवयोस्त्वगत्या विकल्प आश्रित इत्यर्थः । विकल्पस्यान्याय्यत्वमष्टदोषदुष्टत्वात् । तथा हि यदि व्रीहिवाक्यमाश्रीयते तदा यववाक्यस्येष्टप्रामाण्यत्यागः, अनिष्टाप्रामाण्यस्वीकारः, कदाचिद्यववाक्याश्रयणे त्यक्तप्रामाण्यस्वीकारः, स्वीकृताप्रामाण्यत्यागश्चेत्येकस्मिन्यववाक्ये चत्वारो दोषा भवन्ति । एवं व्रीहिवाक्येऽपि चत्वारो दोषा इत्येवं दुष्टविकल्पपरिहाराय भिन्नशाखश्रुत्योरप्येकवाक्यता जैमिनिसंमतेत्याह - तदुक्तमिति । ज्योतिष्टोमप्रकरणे 'दीक्षितो न जुहोति', इति श्रुतं 'यावज्जीवमग्निहोत्रं जुहुयात्' इति चान्यत्र श्रुतं तत्र यदि नदीक्षितवाक्यं होमप्रतिषेधकं स्यात्तदा क्रत्वर्थत्वान्निषेधोऽनुष्ठेयः, यावज्जीवविधिना होमो वानुष्ठेय इति विकल्पः स्यात्, स चान्याय्यः । अपि तु यावज्जीववाक्यं प्रति नदीक्षितवाक्यस्य शेषत्वान्नकार इतरपर्युदासार्थकः स्याद्दीक्षितान्यलक्षकः स्यात्, न होमप्रतिषेधकः, तस्माददीक्षितो यावज्जीवं जुहुयादित्येकवाक्यतेति नदीक्षिताधिकरणसिद्धान्तसूत्रार्थः । अत्र भगवत्पादैः सूत्रमेव पठितं, मिश्रैस्तु पर्युदासाधिकरणसिद्धान्तसूत्रं 'अपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात्' इति स्थितमत्रार्थतः पठितमित्युक्तं तच्चिन्त्यम् । सूत्रार्थस्तु यज्ञमात्रे येयजामहे इति प्रयोक्तव्यमिति श्रुतं, नानुयाजेषु येयजामहं करोतीत्यपि श्रुतं, तत्र नकारस्य निषेधकत्वेऽप्यतिरात्रे षोडशिग्रहणाग्रहणयोरिवानुयाजेषु यज्ञत्वाविशेषात्प्रयोक्तव्यं निषेधान्न प्रयोक्तव्यमिति विकल्पः स्यात्, तस्यान्याय्यत्वात्येयजामहविधेरेव नानुयाजवाक्यमेकदेशः स्यात्, पर्युदासवृत्त्या विधिवाक्यशेषः स्यादिति यावत् । तथा चानुयाजभिन्नेषु यागेषु येयजामह इति प्रयोक्तव्यमित्येकवाक्यतेति । वर्णकान्तरमाह - अथवेति । पूर्वत्रविधूननं कर्महानिरिति सिद्धवत्कृत्य उपायनोपसंहार उक्तः, अत्र सैव साध्यत इति भेदः । उभयत्र लक्षणासाम्यात्संशयमाह - किमिति । विधूननस्य हि फलद्वयमश्वरोमादिषु दृष्टं पूर्वस्वभावात्च्युतिरन्यत्र संक्रान्तिश्चेति । तत्र संक्रान्तिरूपहानिर्लक्षणीया किंवा च्युतिरिति संशयार्थः । तत्र विधूननशब्दस्य कम्पनं मुख्यार्थ इति तावत्सर्वसंमतम् । तच्चामूर्तयोः पुण्यपापयोर्न संभवति । अतस्तयोर्यः स्वभावः फलदातृत्वशक्तिस्ततश्चालनं विद्यया प्रतिबन्धाच्च्युतिः सा लक्षणीया न हानिरमूर्तयोरन्यत्र संक्रान्त्ययोगादन्यसापेक्षत्वाच्चेति पूर्वपक्षार्थः । सिद्धान्तयति - हानावेवेति । यदि च्युतिमात्रं लक्ष्यं तदोपयन्तीत्यनन्वितं स्यात् । न च यत्र धुनोतेरूपायनशब्दसांनिध्यं तत्र हानिर्लक्ष्यते न केवलधुनोतेर्हानिश्चान्यत्र विदुषः सेवकादौ तुल्यकर्मसंक्रान्तिरिति नासंभव इति वाच्यं, केवलधुनोतेरपि मुख्यार्थासंभवेनान्यत्र लक्ष्यतया बुद्धिस्थहानिलक्षणाया एव युक्तत्वादिति भावः । उपायनस्यामुख्यत्वान्न क्वापि हानिलक्षणाबीजत्वमिति शङ्कित्वा पुण्यपापयोः फलतः स्वीकारात्मकमुपायनं हानिं विनानुपपन्नं सल्लक्षणानिर्णायकमिति परिहरति - यद्यपीत्यादिना । यथान्यत्रश्रुतमौदुम्बरत्वादिकं कुशादिनिर्णायकं तथेदमुपायनं विधूननस्य हानत्वे निश्चायकमित्याह - क्वचिदपीति । विधूननं मुख्यं किमिति नोच्यते, तत्राह - न चेति । तथापि हानं कथं लक्ष्यत इत्याशङ्क्य मुख्यसंबन्धादित्याह - अश्वश्चेति । अनुपपत्तिसंबन्धौ लक्षणाबीजरूपामुक्त्वा लक्षकं पदं निर्दिशति - अश्व इवेति । विधूयेति पदं दृष्टान्ते हानपर्यन्तं सद्दार्ष्टान्तिकेऽपि हानलक्षकमित्यर्थः । यद्वा हानवाचकमेवास्तु नच धूञ्कम्पन इति धातुपाठविरोधस्तस्योपलक्षणार्थत्वादित्याह - अनेकेति ।
शाखान्तरस्थमुपायनं विधूननस्य हानत्वनिश्चायकमित्यत्र जैमिनिसूत्रं तदुक्तमिति गृहीतपूर्वं व्याख्यातमित्यर्थः । एवं विधूननस्य हानित्वसिद्धेः केवलहानावुपायनोपसंहार इति सिद्धम् ॥२६॥ 【भाष्यम्】 【भाष्यम्】 संपराये अन्ये । व्यध्वनि अर्धमार्गे । पूर्वोक्तं विधूननस्य हानत्वमुपजीव्य हानस्य नदीतरणानन्तर्यश्रुतेरश्वैव रोमाणि इत्यादौ देहत्यागात्प्राक्कालत्वश्रुतेश्च संशयमाह - तत्किमिति । ब्रह्मलोकमार्गमध्ये विरजाख्यां नदीमत्येति तत्सुकृतदुष्कृते विधूनुते, इत्यत्र तदितिसर्वनामश्रुत्यास्तेनेत्यर्थतया संनिहितनदीतरणस्य कर्महानिहेतुत्वोक्तेरर्धपथे कर्मक्षय इति पूर्वपक्षः । तत्र विद्यायाः कर्मक्षयहेतुत्वासिद्धेः पूर्वपक्षे, सिद्धान्ते तत्सिद्धिरिति मत्वा सिद्धान्तयति - सांपराय इति । मरणात्प्रागित्यर्थः । संपरेतस्य मृतस्य कञ्चित्कालं कर्मसत्त्वे फलाभावाद्देवयानमार्गप्रवेशायोगाच्चादावेव क्षय इत्यर्थः । क्षयहेतोर्विद्याया मध्येमार्गमसत्त्वाच्चेत्याह - विद्याविरुद्धेति । नदीतरणानन्तरपाठस्तु बाध्यः, अर्थविरोधादित्याह - तस्मादिति ।
तदिति सर्वनाम्नापि प्रकृतविद्यैवोच्यत इति भावः ॥२७॥ 【भाष्यम्】 【भाष्यम्】 किञ्च मृतस्य छन्दतो यथाकामं विद्यानुष्ठानानुपपत्तेरुभ्योर्विद्याकर्मक्षययोः श्रुतो हेतुफलभावो विरुध्यते । किञ्च सति पुष्कलहेतौ न कार्यविलम्ब इति न्यायोपेतताण्ड्यादिश्रुतिविरोधस्तव स्यादस्मत्पक्षे त्वविरोध इत्याह - छन्दत इति ।
तस्मात्कर्महानस्य विद्याफलत्वात्केवलहानावुपायनोपसंहारो विद्यास्तुतय इति सिद्धम् ॥२८॥ 【भाष्यम्】 【भाष्यम्】 गतेरर्थवत्त्वं क्वचित्सगुणविद्यायां मार्गः श्रूयते निर्गुणविद्यायां न श्रूयते । तत्र हानसंनिधौ मार्गस्य श्रुतत्वादनपेक्षितत्वाच्च संशये दृष्टान्तसंगत्या पूर्वपक्षमाह - यथा तावदिति ।
उपायनवन्मार्गस्यापि क्वचिच्छ्रुतत्वात्सर्वत्रोपसंहार इत्यर्थः । अत्र निर्गुणविदोऽपि मुक्त्यर्थं मार्गापेक्षा पूर्वपक्षे, सिद्धान्ते त्वनपेक्षेति फलम् । देशादिव्यवहितवस्तुप्राप्तौ मार्गस्यापेक्षेतिन्यायानुगृहीतश्रुतिविरोधान्नोपसंहार इति सिद्धान्तः । निरञ्जनोऽसङ्गः, साम्यं ब्रह्म ॥२९॥ 【भाष्यम्】 【भाष्यम्】 ननु तर्हि सगुणविद्यायामपि मार्गो व्यर्थ इत्यत आह - उपपन्न इति ।
सा गतिर्लक्षणं कारणं यस्यार्थस्य स तल्लक्षणार्थः ॥३०॥ 【भाष्यम्】 【भाष्यम्】 अनियमः सर्वासाम् । अत्राप्यर्चिरादिमार्ग एव विषयस्तत्र विद्याविशेषप्रकरणादविशेषश्रुतेश्च संशये पूर्वपक्षमाह - किं तावदिति । सगुणनिर्गुणविद्यासु मार्गस्य भावाभावव्यवस्थावत्सगुणास्वपि व्यवस्थेति दृष्टान्तेन प्राप्तौ सिद्धान्ते व्यवस्थापवादाद्गतिनियमोऽनियम उभयत्र फलम् । नियमे प्रकरणमुक्त्वा पुनरुक्तिं लिङ्गमाह - अपि चेति । एकत्रोक्तगतेरन्यत्र प्राप्तौ पुनरुक्तिर्वृथा स्यादित्यर्थः । सिद्धान्तयति - सर्वासामिति । अभ्युदयो ब्रह्मलोकः । अविशेषश्रुत्यादिना प्रकरणबाधो न दोष इत्याह - नैष इति । तत्तत्र अधिकृतानां मध्ये य इत्थं पञ्चाग्नीन्विदुर्ये चामी अरण्ये श्रद्धातप इत्युपासते श्रद्धातपौपलक्षितं ब्रह्म ध्यायन्ति तेऽर्चिषमभिसंभवन्तीत्यन्वयः । ननु श्रद्धातपोमात्रश्रुतेस्ताभ्यामेवार्चिरादिगमनं स्यान्न वैश्वानरादिविद्याशीलानामिति शङ्कते - कथं पुनरिति । अविदुषां गतिनिषेधाच्छ्रद्धातपःशब्दाभ्यां तत्साध्यब्रह्मविद्यालक्षणेति परिहरति - नैष दोष इति । तत् ब्रह्मलोकस्थानं, परागताः परावृत्ताः, कामक्रोधदोषा न सन्तीति यावत् । दक्षिणाः केवलकर्मिणस्तपस्विनोऽप्यविद्वांसो न गच्छन्तीत्यर्थः । लक्षणादोषहीनं वाक्यमाह - वाजसनेयिनस्त्विति । किञ्च विद्याकर्मलक्षणमार्गद्वयभ्रष्टानामधोगतिश्रुतेः वैश्वानराद्युपासकानामर्चिरादिमार्गप्राप्तिरित्याह - अथ य एताविति । दन्दशूकः सर्पः । किञ्च 'अग्निर्ज्योतिरहःशुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः' इत्यविशेषेणोपासकानामर्चिरादिगतिमुक्त्वोपसंहारस्मृतेश्च तेषां तत्प्राप्तिरित्याह - स्मृतिरिति । शुक्लागतिरर्चिरादिका, कृष्णा धूमादिका, जगतो विद्याकर्माधिकृतस्य, शाश्वते ध्रुवे संमते । तत्रैकया शुक्लया पुनरावृत्तिवर्जं कार्यं ब्रह्म गच्छति; अन्यया स्वर्गे गत्वा पुनरायातीत्यर्थः । पुनरुक्तिदोषं दूषयति - यत्पुनरिति ।
तत्र तत्र मार्गश्रुतिरन्वहं मार्गचिन्तनार्थं, प्रकरणेन मार्गध्यानस्य विद्याङ्गत्वावगमात् । तथा च वक्ष्यति सूत्रकारः - 'तच्छेषगत्यनुस्मृतियोगाच्च' इति । येषां न श्रुतो मार्गस्ते मार्गध्यानं विनापि विद्यासामर्थ्यान्मार्गं लभन्त इति ज्ञापनार्था पुनरुक्तिरित्यर्थः । तस्मात्सर्वोपासनासु प्रतीकभिन्नास्वर्चिरादिप्राप्तिरिति सिद्धम् ॥३१॥ 【भाष्यम्】 【भाष्यम्】 यावदधिकारम् । निर्गुणविद्यायां गतिर्व्यर्था मुक्तिफलत्वात्, सगुणविद्यासु सर्वत्रार्थवती ब्रह्मलोकफलत्वादिति व्यवस्था कृता, सा न युक्ता, तत्त्वज्ञानिनामपीतिहासादौ पुनर्जन्मदर्शनेन ज्ञानस्य मुक्तिफलत्वाभावादित्याक्षेपात्संगतिः । ज्ञानिनां पुनर्जन्मदर्शनं संशयबीजं भाष्ये दर्शितम् । पूर्वपक्षे ज्ञानान्मुक्तिश्रुतीनां ज्ञानस्तुतिमात्रत्वेन ज्ञानस्य मुक्तिफलत्वाभावे सति ब्रह्मलोकफलत्वाविशेषादर्चिरादिमार्गोपसंहारः फलं, सिद्धान्ते तूक्तव्यवस्थासिद्धिरिति विवेकः । श्रुतावपीति । मेधातिथेर्मेषेतिमन्त्रे इन्द्रस्य मेषजन्मोपलभ्यते । वसिष्ठ उर्वशीपुत्रो जात इत्येवमर्थो बह्वृचार्थवाद इत्यर्थः । पाक्षिकमित्यापाततः । अहेतुत्वमेवेति पूर्वपक्षः । ज्ञानस्य मुक्त्यहेतुत्वं नेति सिद्धान्तयति - ते चेति । लोकव्यवस्थासु स्वामित्वमधिकारः, तत्प्रापकं प्रारब्धं यावदस्ति तावत्कालं जीवन्मुक्तत्वेनाधिकारिकाणामवस्थितिः, प्रारब्धक्षये प्रतिबन्धकाभावाद्विदेहकैवल्यमित्यत्र मानमाह - अथेति । अथ प्रारब्धक्षयानन्तरम् । ततः पश्चादूर्ध्वो विलक्षणः केवलः ब्रह्मस्वरूपः सन् उदेत्योद्गम्य देहं त्यक्त्वेति यावत् । एकल एव अद्वितीयः, मध्ये उदासीनात्मकस्वरूपे तिष्ठतीत्यर्थः । ननु ज्ञानिनामपि जन्मान्तरं चेत्कथं मुक्तिरित्यत आह - सकृत्प्रवृत्तमिति । यदि ज्ञानिनां प्रारब्धातिरिक्तकर्माधीनं जन्मान्तरं स्यात्तदा ज्ञानान्मुक्त्यभावः स्यात् । नैतदस्ति । किन्तु बहुजन्मफलाय सकृदुद्भूतं प्रारब्धं ते क्षपयन्ति, जन्मग्रहणेऽपि ज्ञानयोगबलान्न शोचन्ति प्रारब्धसमाप्तौ मुच्यन्त इत्यर्थः । ज्ञानिनां जन्मान्तरस्य पूर्वजन्महेतुप्रारब्धाधीनतायामलुप्तस्मृतित्वं हेतुः । यो ह्यजातिस्मरत्वे सति कर्मान्तराधीनजन्मान्तरवान्, स लुप्तस्मृतिरिति व्याप्तेः । ज्ञानिषुव्यापकाभावाद्विशिष्टव्याप्याभावसिद्धिः । ननु तेषां जातिस्मरत्वादलुप्तस्मृतित्वमन्यथासिद्धिमित्यत आह - न चैत इति । तथा च तेषामजातिस्मरत्वरूपविशेषणे सति विशेष्याभावादेव विशिष्टाभावसिद्धिरित्यर्थः । पूर्वदेहनामप्रत्यभिज्ञानहीनाः परतन्त्राः साभिमाना जातिस्मराः, आधिकारिकास्तु पूर्वनामानः स्वतन्त्रा निरभिमाना इति वैषम्यम् । तेन जनकेन सह व्युद्य विवादं कृत्वेत्यर्थः । विदुषः प्रारब्धातिरिक्तकर्माभावान्न बन्धः । निमित्ताभावे नैमित्तिकाभाव इति न्यायानुगृहीतानां ज्ञानान्मुक्तिश्रुतीनां न स्तुतिमात्रत्वमितीममर्थमुपपादयति - यदि ह्युपयुक्त इत्यादिना । श्रुतिस्मृत्युक्तार्थे युक्तिमप्याह - न चाविद्येति । विद्यया क्लेशदाहात्तत्कार्यकर्मक्षयश्चेत्तर्हि प्रारब्धस्य कथं स्थितिः, तत्राह - प्रवृत्तफलस्येति । विदुषो देहपातावधिश्रुतेरनुभवाच्च ज्ञानस्यावरकाज्ञानांशनिवर्तकस्य प्रारब्धविक्षेपस्थित्यनुकूलाज्ञानांशनिवर्तनसामर्थ्याभावसिद्धेर्भोगेनैव प्रारब्धक्षय इति भावः । ज्ञानिनामधिकारिकत्वं कथमित्याशङ्क्य ज्ञानात्प्राक्कृतोपासनादिवशादित्याह - ज्ञानान्तरेषु चेति । प्रतिसंचरो महाप्रलयः, परस्य हिरण्यगर्भस्य, अधिकारान्ते साक्षात्कृतात्मानो मुच्यन्ते इत्यर्थः । ब्रह्मभावफलस्याऽपि भावित्वमाशङ्क्य तत्त्वमसीति श्रुतिबाधमाह - न हीति ।
तस्मान्निर्गुणविद्यायां मार्गानुपसंहार इति सिद्धम् ॥३२॥ 【भाष्यम्】 【भाष्यम्】 अक्षरधियाम् । अत्राक्षरब्रह्मप्रमापका निषेधशब्दा विषयाः, तेषु यत्र यावन्तः श्रुतास्तत्र तावतामशेषद्वैतनिषेधकत्वसंभवासंभवाभ्यां संशयमाह - तासामिति । यथा निर्गुणविद्यायां मार्गस्यानपेक्षितत्वादनुपसंहारस्तथा श्रुतनिषेधानामुपलक्षणतया सर्वद्वैतनिषेधसंभवाच्छाखान्तरीयनिषेधशब्दानामनपेक्षितत्वादनुपसंहार इति दृष्टान्तेन पूर्वपक्षस्तत्र लाघवं फलम् । सिद्धान्ते तु दोषद्वयाभावः फलम् । तथा हि यदि श्रुतशब्दैरश्रुतनिषेधा लक्ष्यन्ते तदा लक्षणादोषः, यदि न लक्ष्यन्ते तदा सर्वद्वैतनिषेधासिद्धेर्निर्विशेषप्रमित्यभावदोष इति विवेकः । अक्षरे धर्मिणि द्वैतनिषेधधियोऽक्षरधियस्तद्धेतवः शब्दा इति यावत्, तासामवरोध उपसंहार इति सूत्रयोजना । शेषिब्रह्मणः सर्वशाखासु भावात्तत्प्रमितेः समानत्वाच्छेषाणामुसंहारः इति चेत्तर्हि न्यायसाम्यात्पुनरुक्तितादवस्थ्यमित्यत आह - प्रपञ्चार्थ इति । आनन्दादीनां स्वरूपत्वादस्तूपसंहारः निषेधानामनात्मत्वादानन्त्याच्चानुपसंहार इत्यधिकारशङ्कायां तेषामनात्मवेऽपि निर्विशेषब्रह्मप्रमित्यर्थत्वादविद्यातज्जनिषेधत्वेन संग्रहसिद्धेश्च निरपेक्षास्थूलानणुवाक्यस्थतया कॢप्तनिषेधशब्दानामन्यत्रश्रुतिनिषेधवाक्यैकवाक्यतयोपसंहार इति चिन्ता युक्तेत्यर्थः । अन्यत्रश्रुतशेषाणामन्यत्रस्थशेषिसंबन्धे दृष्टान्तं व्याचष्टे - यथेति ।
'जमदग्निः पुष्टिकामश्चतूरात्रेणायजत' इत्युपक्रम्य विहितो जमदग्निना कृतो जामदग्न्यः, अहीनश्चतूरात्रः क्रतुस्तस्मिन्पुरोडाशिन्य उपसदो भवन्तीति पुरोडाशसाध्या इष्टयस्तैत्तिरीयके विहिताः, तासामध्वर्युकर्तृकत्वात्सामवेदोत्पन्नमन्त्राणां तात्सु विनियोगादध्वर्युणैव प्रयोगो नोद्गात्रेत्यर्थः । वेर्देवगणस्य होत्रमध्वरं च कर्माग्नेस्त्वत्त एवेत्यग्न्यामन्त्रणमन्त्रार्थः । उत्पत्तिविधिर्गुणः फलापेक्षत्वादुत्पन्नस्य फले विनियोगविधिर्मुख्यः सफलत्वात् । तथाच मन्त्रणामुद्गातृवेदोत्पन्नत्वादुद्गात्रा प्रयोगः, विनियोगविधिनाध्वर्युणा प्रयोग इति गुणमुख्ययोर्व्यतिक्रमे विरोधे सति मुख्येन बलीयसा मन्त्रात्मकवेदस्याध्वर्युणा संप्रयोग उत्पत्तेर्विनियोगार्थत्वादिति जैमिनिसूत्रार्थः । यद्यपि शाबरभाष्ये वारवन्तीयादिसाम्नामुच्चैः स्वरकसामवेदोत्पन्नत्वादाधानाङ्गत्वेनोच्चैः स्वरप्रयोगः 'य एवं विद्वान्वारवन्तीयं गायति यज्ञायज्ञीयं गायति वामदेव्यं गायति' इत्याधाने तेषां विनियोगविधिना याजुषेण याजुषस्योपांशुस्वरस्य प्रयोग इति गुणमुख्ययोर्विरोधे सत्त्युत्पत्तेर्विनियोगार्थत्वान्मुख्यविनियोगबलेन साम्नां यजुर्वेदस्वरसंयोग इति सूत्रं व्याख्यातं, तथापि न्यायसाम्यादौपसदमन्त्राः सूत्रविषयत्वेनोदाहृता इत्यविरोधः ॥३३॥ 【भाष्यम्】 【भाष्यम्】 इयदामननात् । मन्त्रद्वयेऽपि प्रतिपादनप्रकारभेदात् ज्ञेयैक्यभानाच्च संशयमाह - किमत्रेति ।
ऋतपानवाक्ये 'अक्षरं ब्रह्म यत्परम्' इति गुणाः श्रुताः, सुपर्णवाक्येऽनश्नत्वादयस्तेषां मिथोऽनुपसंहार इति पूर्वपक्षफलं, सिद्धान्ते तूपसंहारे ब्रह्मस्वरूपवाक्यार्थैक्यादुपसंहार इति विवेकः । अस्तु वेद्यैक्यादक्षरधियामुपसंहारः । इह तु वेद्यभेदान्नोपसंहार इति प्रत्युदाहरणेन पूर्वपक्षः । नन्वयं गुणाधिकरणे निरस्त इति चेत्, सत्यं, किन्तु पिबत्पदस्य मुख्यार्थत्वाय स्वतः कल्पनया च पानकृत्याश्रयौ बुद्धिजीवौ पिबन्तौ ग्राह्यौ, सुपर्णौ तु जीवेश्वरावित्यधिकाशङ्कायां मन्त्रद्वयेऽपि द्विवचनशब्दसामान्यादौत्पत्तिकद्वित्वविशिष्टतया तुल्यवस्तुद्वयप्रत्यभिज्ञानस्य बाधकाभावात्प्रकरणाद्यनुग्रहाच्च जीवानुवादेनासंसारिब्रह्मणि मन्त्रद्वयतात्पर्यमिति प्रपञ्चार्थमिदं सूत्रमिति भावः ॥३४॥ 【भाष्यम्】 【भाष्यम्】 अन्तरा भूतग्रामवत्स्वात्मनः ।
घटादिकं चिद्विषयत्वेनापरोक्षं, ब्रह्म तु साक्षादविषयत्वेनापरोक्षमिति । प्रथमार्थे पञ्चमि । अत्र श्रुतावात्मधर्मोऽपरोक्षत्वं ब्रह्मण्युक्तं, ब्रह्मधर्मः सर्वान्तरत्वमात्मन्युक्तं, तेन तयोरैक्यं दृढीकृतं मन्तव्यं, तन्मे व्याचक्ष्वेत्युषस्तप्रश्ने याज्ञवल्क्येन प्राणादिप्रेरको दृष्ट्यादिसाक्षी प्रतिपादितः । तथैव 'यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तन्मे व्याचक्ष्व' इति कहोलप्रश्नेऽशनायाद्यतीतः प्रतिपादितः । तत्र ब्राह्मणद्वयेऽपि प्रश्नादभ्यासात्सर्वान्तरत्वप्रत्यभिज्ञानाच्च संशये मन्त्रयोर्वेद्यैक्यादस्तु विद्यैक्यं, इह तु ब्राह्मण्योर्वेद्यैक्येऽपि अभ्यासाद्विद्याभेदः, यजत्यभ्यासात्प्रयाजभेदवदिति प्रत्युदाहरणेन पूर्वपक्षः, तत्र मिथो धर्मानुपसंहारः फलं, सिद्धान्ते तूपसंहार इति विवेकः । द्वयोः सर्वान्तरत्वानुपपत्त्या तावद्ब्राह्माणयोरेकवस्तुपरत्वं सिद्धम् । तथाच वेद्यैक्यान्निर्गुणविद्यैक्ये न विवादः ॥३५॥ 【भाष्यम्】 【भाष्यम्】 ननु अन्यथा
विद्यैक्याङ्गीकारे अभ्यासानुपपत्तिरिति चेदुच्यते स एवाभ्यासः कर्मभेदको यो निरर्थकः, इह तूषस्तब्राह्मणोक्तात्मन एवाशनायाद्यत्ययरूपविशेषकथनार्थत्वादभ्यासोऽन्यथासिद्धो न विद्याभेदक इति समुदायार्थः ॥३६॥ 【भाष्यम्】 【भाष्यम्】 व्यतिहारः । जीवेशयोर्मिथो विशेषणविशेष्यभावो व्यतिहारः, तस्य श्रुतत्वात्, उत्कृष्टदृष्टिर्निकृष्टे कृता फलवतीति न्यायाच्च संशये जीवे ईश्वरत्वमतिरेव कार्या उक्तन्यायात्, व्यतिहारश्रुतिस्तु तस्या एव दृढीकरणार्थत्वेनाभ्यासवदन्यथासिद्धेति दृष्टान्तेन पूर्वपक्षः । तत्र लाघवं फलं लिद्धान्ते तु श्रुत्यर्थवत्त्वमिति विवेकः । एकेनैव त्वमहमस्मीत्युच्चारणेनैकत्वमतेः कृतत्वादहं त्वमसि इति वृथा स्यादित्यर्थः । उक्तदोषं स्मारयति - नन्विति । संदिग्धेऽर्थे न्यायः सावकाशः, इह तु श्रुतत्वादन्योन्यात्मत्वं ध्येयं, ब्रह्मणि मनोमयत्वादिवज्जीवात्मत्वस्य ध्यानार्थमारोपेऽपि निकर्षप्रसक्त्यभावादिति परिहरति - नैष दोष इति । ब्रह्मणि निकर्षं हित्वा जीवतादात्म्यध्याने मदुक्तमेवागतमिति शङ्कते - नन्वेवमिति । मतेर्द्विरूपत्वं त्वदनुक्तमस्माभिरुच्यते ध्यानपरं वाक्यमिदमेकत्वं तु मानान्तराविरोधात्सिध्यतीति समाधत्ते - न वयमिति । अहङ्ग्रहोपास्तिष्वयं व्यतिहार उपसंहर्तव्य इत्याह -
तस्मादिति ॥३७॥ 【भाष्यम्】 【भाष्यम्】 सैव हि सत्यादयः । स यः कश्चिदधिकारी महद्व्यापकं यक्षं पूज्यं भौतिकेषु प्रथमजमेतत्सच्च त्यच्चेति सत्त्यं ब्रह्म हिरण्यगर्भाख्यं वेदोपास्ते तस्य लोकजयः फलमित्यर्थः । सत्यमिति नाम त्र्यक्षरं सतियमिति, तत्र प्रथमोत्तमे अक्षरे सत्यं, मध्यस्थमक्षरमनृतमुभयतः सत्येन संपुटितत्वात्सत्त्यप्रायमेव भवतीति नामाक्षरोपासना सत्यविद्याङ्गत्वेनोक्ता । यत्तत्पूर्वप्रकृतं हृदयाख्यं तत्संप्रत्युक्तयक्षत्वादिगुणकं, सोऽसावादित्यमण्डलेऽक्षिणि च पुरुषस्तस्याहरित्यहमिति च नामद्वयज्ञानात्पापक्षयः फलमित्यर्थः । अत्र पूर्वोत्तरवाक्ययोः फलभेदश्रुतेः प्रकृताकर्षणाच्च संशयमाह - तत्रेति । पूर्वपक्षे गुणानां व्यवस्थयानुष्ठानं, सिद्धान्ते त्वनुष्ठानैक्यमिति फलम् । यथा जीवेशयोरन्योन्यात्मत्वश्रुतिभेदान्मतिद्वैरूप्यमुक्तं, तथात्र फलश्रुतिभेदाद्विद्याभेद इति दृष्टान्तेन पूर्वपक्षयति - द्वे इति । विशेष्यब्रह्ममात्राकर्षणमयुक्तं, तद्यत्तदिति सर्वनामभिः पूर्वोक्तगुणविशिष्टं ब्रह्म आकृष्यादित्याक्षिस्थानादिगुणविधानात्, तथाच वाक्यादेव विद्यैक्यसिद्धिरिति सिद्धान्तयति - एकैवेति । यथा दहरशाण्डिल्यविद्ययोर्ब्रह्मैक्यप्रत्यभिज्ञानमात्रं तथात्र नेत्याह - नैतदिति । कारणान्तरं प्रकरणभेदादिकम् । एवं विद्याभेदेऽप्येतदुपास्यैक्यज्ञानं स्यादत्र तूभयथासंभवे विद्यैक्यनानात्वसंशये सत्यमित्युपास्यरूपैक्यज्ञानाद्विद्यैक्यनिश्चय इत्यक्षरार्थः । असत्यपवादकारणे रूपैक्याद्विद्यैक्योत्सर्गसिद्धिर्न च फलभेदादपवादः । अङ्गे फलश्रुतेः श्रुतिमात्रतया फलभेदासिद्धिरित्याह - यत्पुनरित्यादिना । किञ्च यत्र प्रधानविधावेवङ्काम इति फलं श्रुतं, तत्र प्रधानफलेनैवाङ्गानां फलाकाङ्क्षानिवृत्तेरङ्गे फलश्रुतेः स्तुतिमात्रत्वं, इह तु प्रथमज सत्यं ब्रह्मेति वेदेति प्रधानविद्याविधिस्थत्वं लोकजयफलस्याभ्युपेत्यास्माभिर्नामरूपाङ्गस्य फलश्रुतेः स्तुतित्वमुक्तम् । वस्तुतस्तु प्रधानविधावप्येवङ्कामपदाभावाद्रात्रिसत्रन्यायेन फले कल्पनीये सति प्रधाने तदङ्गे वा यत्किञ्चित्फलं श्रुतं तस्य सर्वस्यापि श्रुतत्वाविशेषाज्जातेष्टिफलन्यायेन समुच्चित्यैकप्रधानफलत्वकल्पनात् फलभेदोऽसिद्ध इत्याह - अपि चेति । सूत्रं योजयति - तस्मादिति । एकदेशिव्याख्यामुद्भाव्य दूषयति - केचिदित्यादिना । छान्दोग्ये कर्माङ्गोद्गीथे हिरण्मयपुरुषदृष्टिरित्यत्र लिङ्गमाह - तत्रेति । पृथिव्यग्न्यात्मना दृष्टे ऋक्सामे गेष्णौ, तस्मादृक्सामगेष्णत्वात्, पुरुष उद्गीथ इत्येवं विद्वानुद्गाता कर्मफलसमृद्धिसमर्थ इति श्रुत्यर्थः । सत्यविद्या तु न कर्माङ्गाश्रितेत्याह - नैवमिति ।
अङ्गविद्यातः स्वतन्त्रहिरण्यगर्भविद्याया भेदान्न गुणोपसंहार इत्यर्थः ॥३८॥ 【भाष्यम्】 【भाष्यम्】 कामादीतरत्र । सगुणनिर्गुणविद्ययोः श्रुताः सत्यकामादयो वशित्वादयश्च गुणा मिथ उपसंहर्तव्या न वेत्युपसंहारस्य फलभावाभावाभ्यां संदेहे सत्यविद्याया एकत्वाद्गुणसांकर्येऽप्यत्र विद्ययोः सगुणनिर्गुणरूपभेदेन भेदान्निर्गुणविद्यायां गुणोपसंहारस्य फलाभावाच्चानुपसंहार इति बहिरेव प्राप्ते सिद्धान्तयति - तत्रेदमित्यादिना । एवं विद्याभेदे स्फुटे कथं गुणोपसंहारः, तत्राह - गुणवतस्त्विति ।
भिन्नविद्यास्थानामपि गुणानामायतनादिसाम्येन निर्गुणस्थले बुद्धिस्थानां स्तुत्यर्थमुपसंहारो युक्तः, ज्ञानस्तुतिप्रकर्षस्याकाङ्क्षितत्वात्, यत्र क्वचिद्दृष्टगुणैः स्तुतेः कर्तुं योग्यत्वात् । यद्यपि सगुणस्थसत्यकामादिषु निर्गुणस्थगुणा अन्तर्भूता एव तथापि नोपसंहारोक्तेर्वैयर्थ्यं निर्गुणस्तावकत्वेन श्रुतगुणानामन्यत्राप्यध्येयत्वमिति शङ्कानिरासेनान्तर्भावदार्ढ्यार्थत्वादित्यनवद्यम् ॥३९॥ 【भाष्यम्】 【भाष्यम्】 आदरादलोपः । अत्र यच्छब्दाग्निहोत्रशब्दाभ्यां संशयमाह - तत्रेदं विचार्यत इति । वैश्वानरोपासकेनातिथिभोजनात्प्राक्कार्यत्वेन विद्याङ्गप्राणाग्निहोत्रविचारात्पादसंगतिः । पूर्वपक्षे भोजनलोपेऽपि द्रव्यान्तरेण प्राणाग्निहोत्रानुष्ठानं, सिद्धान्ते तल्लेप इति भेदः । ननु यद्भक्तमिति यच्छब्देन भोजनाक्षिप्तं भक्तमनूद्य यद्धोमीयमिति होमसंयोगविधिनादाक्षेपकभोजनलोपे तदाक्षिप्तभक्ताश्रितहोमलोप इति सिद्धान्ती शङ्कते - तद्यदिति । निर्गुणस्योपास्तिलोपेऽपि स्तुत्यर्थगुणस्थैर्यवद्भोजनलोपेऽपि प्राणाग्निहोत्रस्यादरेण स्तुतिनिर्वाहार्थमलोप इति दृष्टान्तेन पूर्वपक्षसूत्रेण परिहरति - एवं प्राप्त इति । एवं तदिति स्वयं प्राणाग्निहोत्रमकृत्वातिथीनां तत्करणमित्यर्थः । उक्तं स्मारयित्वा परिहरति - नन्वित्यादिना ।
यथा कुण्डपायिसत्रगते मासाग्निहोत्रेऽग्निहोत्रशब्दाद्गौणान्नित्याग्निहोत्रवाचकान्नित्याग्निहोत्रधर्माणां पयोद्रव्यादीनां प्राप्तिस्तथेहापि प्राणाहुतिष्वग्निहोत्रशब्दवशात्पयोद्रव्यादीनामुत्सर्गतः प्राप्तौ सत्यां भोजनार्थभक्तद्रव्यविधिनापवादः कृतः, अतो भक्तविधेरपवादार्थत्वाद्भोजनलोपे भक्ताख्यगुणस्याङ्गस्य लोपेऽपि न मुख्यस्याग्निहोत्रस्य लोपः, अपवादाभावे उत्सर्गप्राप्तपयादिना तस्य निष्पत्तिसंभवादिति प्राप्तमित्यर्थः । 'गुणलोपे न मुख्यस्य' इति जैमिनिसूत्रम् । आधाने सन्ति पवमानेष्टयस्तत्राग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदिति निर्वापः श्रुतस्तदङ्गत्वेनाग्निहोत्रहवण्यां हवींषि निर्वपेदिति दर्शपूर्णामासाख्यप्रकृतौ विहिताग्निहोत्र हवण्यतिदेशेन प्राप्त आधानकाले चाग्निहोत्राभावात्तस्या गुणभूताया लोपेऽपि मुख्यस्य निर्वापस्य न लोप इत्यर्थः । आरब्धनित्यादिकर्मणोऽवश्यानुष्ठेयत्वाच्छ्रुतद्रव्यालाभे प्रतिनिहितद्रव्येणापि कर्म कर्तव्यमिति प्रतिनिधिन्यायः ॥४०॥ 【भाष्यम्】 【भाष्यम्】 सिद्धान्तयति - उपस्थितेऽतस्तद्वचनादिति । तद्धोमीयमिति तच्छब्देन भोजनार्थसिद्धभक्तमाश्रित्य होमविधानादित्यर्थः । सिद्धवद्भक्तोपनिपातः प्रकृतभक्तागमनं, तस्य तच्छब्देन परामर्शेनेत्यर्थः । आश्रित्य विहिताहुतीनामाश्रयलोपे लोपो एव न द्रव्यान्तराक्षेपकत्वं, यथा क्रतुप्रयुक्तात्प्रणयनाश्रितस्य गोदोहनस्य क्रतुलोपे लोपे न त्वाश्रयान्तरप्रयोजकत्वं तथेति फलितमाहता इतियदुक्तमग्निहोत्रशब्दाद्द्रव्यान्तरप्राप्तिरिति, तत्राह - न चात्रेति । तद्वद्भावो नित्याग्निहोत्रसादृश्यमर्थवादस्थशब्दस्य स्तुतित्वेनोपपत्तेरित्यर्थः । धर्मप्रापकत्वे दोषमाह - तद्धर्मप्राप्तौ चेति । अव एवेति तद्धर्मप्राप्त्यभावादेवेत्यर्थः । प्राप्तौ संपादनं वृथा स्यादिति भावः । मुख्याग्निहोत्राङ्गानि संपाद्यन्ते चेत्कथं तदनङ्गं वेदिरत्र संपाद्यते तत्राह - वेदिश्रुतिश्चेति । मुख्याग्निहोत्रस्याग्न्युद्धरणवत्सायंप्रातःकालद्वयस्यापि न प्राप्तिरिति - भोजनेनेति । उपस्थानपरिस्तरणादयोऽप्यग्न्यभावान्न प्राप्नुवन्तीत्याह - एवमिति । यस्मात्तद्धर्मप्राप्त्यभावस्तस्माद्भोजनद्रव्येणैव होम इत्युपसंहारः । प्राणाय स्वाहा इत्यादयो मन्त्राः । ननु स्वामिभोजनस्योत्तरकालत्वं श्रुत्यादिविहितं कथं पूर्वोऽतिथिभ्योऽश्नीयादितिवचने बाध्यते तत्राह - न ह्यस्तीति । उपासकान्यस्वामिविषयमुत्तरकालत्वविधानमित्यर्थः । न त्विति प्राथम्यमात्रेणेत्यर्थः । प्राणोपासकस्य प्राप्ते भोजने प्राथम्यार्थतयादरस्यान्यथासिद्धौ फलितमाह -
तस्मादिति ॥४१॥ 【भाष्यम्】 【भाष्यम्】 तन्निर्धारणा । उभयथा दृष्टान्तदर्शनात्संशयमाह - किं तानीति । यथानाराभ्याधीतपर्णमयीत्वं जुहूद्वारा क्रत्वङ्गतया कर्मसु नित्यं प्रयुज्यते, तथाङ्गाश्रितोपासनान्युद्गीथादिद्वाराऽङ्गतया नित्यानि, उत क्रत्वङ्गाप्प्रणयनश्रयो गोदोहनसंयोगः पशुफलार्थत्वादनित्यत्वेन यथा प्रयुज्यते यथा वा पश्वङ्गयूपाश्रयं बैल्वत्वमन्नाद्यफलत्वादनित्यं तथा कर्मसमृद्यादिफलकत्वादुपासनान्यनङ्गत्वेनानित्यानीति संशयार्थः । पूर्वपक्षे उपासनानां प्रयोगनित्यत्वं, सिद्धान्ते त्वनित्यत्वमिति फलभेदः । अनित्यभोजनाश्रयप्राणाग्निहोत्रस्यानित्यत्ववन्नित्यकर्माङ्गोपास्तीनां नित्यत्वमिति प्रत्युदाहरणदृष्टान्तेन पूर्वपक्षमाह - किं तावदिति । उपासनानि कर्माङ्गानि, अफलत्वे सति कर्माङ्गाश्रितत्वात्पर्णमयीत्वादिवत् । तथा चाङ्गतया प्रयोगविधिना नित्येन प्रयुज्यन्त इति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे - यानीत्यादिना । उद्गीथादयः कर्मणां गुणाः अङ्गानि तेषां याथात्म्यं रसतमत्वादिकं तन्निर्धारणान्युपासनानि यानि तानि कर्मसु नित्यपर्णमयीत्वादिवन्न नियम्येरन्नित्यर्थः । एषां कर्माङ्गत्वे तद्धीनस्याविदुषः कर्म न स्यादङ्गलोपात्, तस्मादविदुषोऽपि कर्मकर्तृत्वश्रुतिलिङ्गैरङ्गत्वानुमानबाध इत्याह - तद्दृष्टेरिति । तस्यानियमस्य दर्शनादित्यर्थः । तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते व्यपतिष्यतीति चाक्रायणेनर्त्विजामाक्षिप्तत्वादनुपासकानामपि कर्मप्रयोगोऽस्तीत्याह - प्रस्तावादीति । उपास्तीनां कर्मफलात्पृथक्फलश्रुतेर्न कर्माङ्गत्वमित्याह - अपि चेति । तेनोमित्यक्षरेण यश्चैतदक्षरमेवं रसतमत्वादिरूपेण वेदोपास्ते यश्च न वेद तावुभौ कर्म कुरुत एव यद्यपि तथापि तु विद्याविद्ययोर्नानात्वं भिन्नफलत्वम् । दृष्टं हि मणिविक्रये ज्ञानाज्ञानाभ्यां वणिक्शबरयोः फलवैषम्यं, तस्माद्यदेव कर्म विद्ययोद्गीथाद्युपास्त्या श्रद्धयास्तिक्यबुद्ध्योपनिषदा रहस्यदेवताध्यानेन करोति तदेव कर्म फलातिशयवदित्यर्थः । कर्मणो वीर्यवत्त्वं नाम फलवत्त्वं विद्याहीनस्यापि गम्यमानं विद्याया अनङ्गत्वे लिङ्गमिति भावः । साम्नि लोकादिदृष्ट्युपासनेषु कर्मसमृद्यतिरिक्तलोकादिफलश्रुतेश्च नाङ्गत्वमित्याह - तथेति । अस्मै विदुषे कल्पन्ते भोगाय समर्था भवन्ति भूमेरूर्ध्वा लोका आवृत्ता अधस्तनाश्चेत्यर्थः । तथा हि गुणवाद इति । फलश्रुतेरर्थवादमात्रत्वे स्तुतिलक्षणा स्यात्, सा न युक्ता, मुख्यवृत्त्या फलपरत्वसंभवात् । प्रयाजानुयाजकर्मणां तु प्रकरणाद्दर्शाद्यङ्गत्वलाभाद्भ्रातृव्याभिभूतिफलश्रुतेरगत्या स्तुतिलक्षकत्वं, यद्यपि पर्णमयीत्वादीनामङ्गत्वबोधकं प्रकरणं नास्ति तथापि तेषु फलश्रुतेः स्तुतित्वं, तेषामक्रियात्वेन क्रियासंबन्धं विना फलहेतुत्वानुपपत्तेरतस्तेषां फलार्थं क्रियापेक्षित्वात्क्रतोश्च जुहूप्रकृतिद्रव्याकाङ्क्षित्वात्पर्णमयी जुहूरित्यादिवाक्येनैव प्रकृतिद्रव्यार्पकेण जुहूद्वारा संनिहितक्रत्वङ्गत्वसिद्धेर्युक्तं फलश्रुतेरर्थवादत्वमिति भावः । अक्रियात्मकगोदोहनादेरपि फलश्रुतिरर्थवादः स्यादत आह - गोदोहनादीनां हीति । यदपः प्रणयेत्तत्पशुकामस्य सतो गोदोहनेन ब्रह्मवर्चसकामस्य कांस्येतीति फलार्थविधिरेव नार्थवादः गोदोहनादेः क्रत्वनाकाङ्क्षितत्वेनाङ्गत्वाभावात्, चमसेन निराकाङ्क्षक्रियासंबन्धितया स्वफलसाधकत्वसंभवात् । तथा खादिरत्वेन निराकाङ्क्षक्रत्वङ्गयूपमाश्रित्य बैल्वमन्नाद्यकामस्य खादिरं वीर्यकामस्येति फलार्थविधिरेवार्थः । पर्णमयीत्वादिषु फलविधिः किं न स्यादत आह - न त्विति । एवंविधो यूपादिवन्निराकाङ्क्ष इत्यर्थः । जुहूरेवाश्रय इत्यत आह - वाक्येनेति । जुह्वाः प्रकृतिद्रव्यापेक्षित्वादनेनैव वाक्येन क्रत्वङ्गतया जुहूप्रकृतिद्रव्यसंबन्धो विधेयः पश्चान्निराकाङ्क्षजुहूमाश्रित्य तस्यैव प्रकृतिद्रव्यस्य फलसंयोगो विधेय इति वाक्यभेद इत्यर्थः । पर्णतादिवैलक्षण्यमुपासनानामाह - उपासनानां त्विति ।
स्वयं क्रियात्वाद्यागादिवत्फलविशिष्टत्वेन विधानोपपत्तिरित्यर्थः । तस्मादिति अङ्गत्वावेदकमानाभावादित्यर्थः । अत एवेति अनङ्गत्वादेवेत्यर्थः । तस्मादङ्गोपास्त्यभावेऽपि कर्माधिकार इति सिद्धम् ॥४२॥ 【भाष्यम्】 【भाष्यम्】 प्रदानवदेव तदुक्तम् । वायुप्राणयोर्भेदाभेदवाक्याभ्यां संशयमाह - तत्रेति । अस्तु कर्माङ्गानां तत्संबद्धोपास्तीनां च फलभेदान्नित्यत्वानित्यत्वरूपः प्रयोगभेदः, इह तु वायुप्राणयोः स्वरूपाभेदात्तत्स्वरूपप्राप्तिलक्षणफलैक्याच्च ध्यानप्रयोगैक्यमिति पूर्वपक्षयति - अपृथगिति । 'अग्निर्वाग्भूत्वा' इत्यारभ्य 'वायुः प्राणो भूत्वा नासिके प्राविशत्' इत्यभेदं दर्शयतीत्यर्थः । यतश्चोदेति सूर्यस्तं वद' इति प्रश्ने सूत्रात्मकवायुर्वाच्यो वायुस्थाने प्राणं वदन्नेकत्वं तयोर्दर्शयतीत्याह - तथेति । किञ्च यदि वायुप्राणयोः पृथग्ध्यानं स्यात्तर्हि ध्यानाङ्गव्रतभेदोऽपि स्यादिह तु प्राणापाननिरोधात्मकव्रतैक्यश्रुतेर्ध्यानैक्यमित्याह - तस्मादिति । व्रतैक्यस्य प्रशस्तत्वादित्यर्थः । किञ्च वायुप्राणो संवर्गौ भेदेनोपक्रम्य परस्ताद्वाक्यशेषे संवर्गदेवैक्यश्रुतेः प्रयोगैक्यमित्याह - तथेति । महात्मन इति द्वितीयाबहुवचनम् । चतुरश्चतुःसंख्याकानग्निसूर्योदकचन्द्रानपरांश्च वाक्चक्षुःश्रोत्रमनोरूपानेको देवः कः प्रजापतिः जगार गीर्णवानुपसंहृतवानित्यर्थः । न ब्रवीति भेदमिति शेषः । यथा 'अग्निहोत्रं जुहोति' इत्युत्पन्नाग्निहोत्रस्यैकस्यैव दधितण्डुलादिगुणभेदेन सायंप्रातःकालभेदेन प्रयोगभेदस्तथा 'अन्नादो भवति य एवं वेद' इत्युत्पन्नायाः संवर्गविद्याया एकत्वेऽप्युत्पन्नशिष्टवायुप्राणाख्यगुणभेदात्प्रयोगभेद इत्युत्सूत्रं सिद्धान्तयति - पृथगेवेति । 'तौ वा एतौ द्वौ संवर्गौ' इत्युपास्यभेदवाक्यस्य प्रयोगभेदपरत्वाद्वाक्यादेव भेदसिद्धिरित्यर्थः । पूर्वपक्ष्युक्तमनूद्य प्रत्याह - ननूक्तमित्यादिना । उपास्यतया प्रधानभूतसंवर्गगुणविशिष्टोपास्यभेदवाक्यविरोधादनुपास्यवायुतत्त्वैक्यवचनं न प्रयोगैक्यप्रापकमिति भावः । सूर्योदयास्तमययोर्वाय्वधीनत्वात्तदभेदाभिप्रायेण प्राणात्तावुक्तौ । ततोऽध्यात्माधिदैवावस्थाभेदेनोक्तस्य ध्येयभेदस्य निरासे 'यतश्चोदेति' इति श्लोकस्य न शक्तिरित्याह - श्लोकेति । असामर्थ्ये लिङ्गमाह - स यथेति । श्लोकोपन्यासवद्व्रतैक्योपन्यासोऽपि तत्त्वाभेदाभिप्रायेणेत्याह - एतेनेति । नन्वेवकाराद्वायुव्रतनिवृत्तेः प्राण एवैको ध्येयो भातीत्यत आह - एकमेवेति । वदनदर्शनादीनि वाक्चक्षुरादीनां व्रतानि श्रमरूपमृत्युना भग्नानीत्युक्त्वा प्राणस्याभग्नव्रतत्वं निर्धारितं, तथा ज्वलनतापादीन्यग्न्यादित्यादीनां व्रतानि भग्नानीत्युक्त्वा वायोरभग्नव्रतत्वं निर्धारितं, 'स यथैषां प्राणानां मध्यमः प्राणः स्थिरव्रत एवमेतासां देवनां वायुर्म्लोचन्ति ह्यन्या देवता न वायुःसैषानस्तमिता देवता यद्वायुः' इति श्रुतेः । अतो भग्नव्रतनिरासार्थ एवकारो न वायुव्रतनिवृत्त्यर्थ इत्यर्थः । अत्रैवार्थे लिङ्गमाह - एकमिति । उकारश्चार्थः । तेन व्रतेन वायोः सायुज्यं समानदेहत्वं सलोकतां च जयतीत्यर्थः । नन्वत्र वायुप्राप्तिर्न श्रुतेत्यत्राह - देवतेति । तस्मात्तत्त्वाभेददृष्ट्या व्रतैक्यमिति स्थितं, संप्रति पूर्वोक्तं पृथगुपदेशं विवृणोति - तथा तौ वा इति । सौत्रं दृष्टान्तं व्याचष्टे - प्रदानवदिति । त्रयः पुरोडाशा अस्यां सन्तीति त्रिपुरोडाशिनीष्टिस्तस्यां किं सहप्रदानमुत भेदेनेति संदेहे पूर्वपक्षमाह - सर्वेषामिति । सर्वेषां देवानामाभिमुख्येन प्रापयन्हविरवद्यति गृह्णाति, अच्छंवट्कारं वषट्काराख्यदेवभागमित्यर्थः । यद्वा सर्वदेवार्थं युगपदवदानं कार्यमित्यत्र हेतुरच्छंवट्कारमिति अव्यर्थत्वायेत्यर्थः । एकार्थमवत्ते हविषि शेषो यागानर्हतया वृथा स्यादिति भावः । एवं सहावदानश्रुतेर्देवैक्याच्च पुरोडाशानां सहप्रक्षेपे प्राप्ते पृथक्प्रक्षेप इति सिद्धान्तमाह - राजेति । राजाधिराजस्वराजगुणभेदेन विशिष्टदेवताभेदादित्यर्थः । किञ्चाध्वर्युणा यजेति प्रैषे कृते होत्रा यो मन्त्रः पठ्यते सा याज्या, अनुब्रूहीति प्रैषानन्तरमन्त्रः पुरोनुवाक्येति भेदोऽस्ति, तत्रास्यामिष्टौ प्रथमपुरोडाशप्रदाने या कॢप्ता याज्या स द्वितीयप्रदाने पुरोनुवाक्या, या च पूर्वमनुवाक्य, स पश्चाद्याज्येति व्यत्यासमन्वाहेति श्रुत्या विधानात्, यथाश्रुति प्रक्षेपपृथक्त्वमित्याह - याज्येति । संकर्षो देवताकाण्डम् । वाशब्दोऽवधारणे, नानैव देवता राजादिगुणभेदेन भेदावगमादिति सूत्रार्थः । दृष्टान्ते देवताभेदात्कर्मभेदवद्विद्याभेदः स्यादित्यत आह - तत्र त्विति । कर्मोत्पत्तिवाक्यस्थदेवताभेदः कर्मभेदे हेतुरिह त्वन्नादो भवति य एवं वेदेत्युत्पत्तावेकत्वेन ज्ञातविद्यायाः पश्चाच्छ्रुतवायुप्राणभेदो न भेदकः, अग्निहोत्रस्येव दध्यादिद्रव्यभेद इत्यर्थः । तर्हि केनांशेन प्रदानस्य दृष्टान्तत्वमित्यत आह - विद्यैक्येऽपीति ।
अवस्थाभेदाद्देवताभेदः प्रयोगभेदश्चेत्यंशेनायं दृष्टान्त इत्यर्थः ॥४३॥ 【भाष्यम्】 【भाष्यम्】 लिङ्गभूयस्त्वात् । उत्पत्तेः प्रागिदं सर्वं नैव सदासीन्नाप्यसदित्युपक्रम्य मनः सृष्टिमुक्त्वा तन्मन आत्मानमैक्षतेतीक्षणपूर्वकमग्नीनपश्यदिति मनोऽधिकृत्य पठन्तीत्यर्थः । पुरुषायुष्ट्वेन कॢप्तशतवर्षान्तर्गतैः षट्रत्रिंशत्सहस्रैरहोरात्रैरवच्छिन्नतया मनोवृत्तीनामसङ्ख्येयानामपि षट्त्रिंशत्सहस्रत्वम् । ताभिरिष्टकात्वेन कल्पिताभिर्मनसैव संपादिता अग्नयो मनश्चितस्तानर्कान्पूज्यान्मनोमयान्मनोवृत्तिषुसंपादितानात्मनः स्वस्य संबन्धित्वेन मनोऽपश्यत्, तथा वाक्प्राणादयोऽपि स्वस्ववृत्तिरूपानग्नीनपश्यन्नित्याह - तथेति । प्राणो घ्राणं कर्मेन्द्रियेण हस्तादिना चितः कर्मचितः अग्निस्त्वक्पूर्वत्राग्निचयनप्रकरणात्किमेतेऽग्नयः क्रत्वर्था उत प्राधान्यज्ञापकलिङ्गादिभूयस्त्वात्पुरुषार्था वेति संशयमाह - तेष्विति । केवलविद्यात्मकाः क्रियाङ्गत्वं विना भावनामया इत्यर्थः । एकप्रयोगासंभवाद्वायुप्राणयोर्ध्यानप्रयोगभेदोऽस्तु, इह तु मनश्चिदाद्यग्नीनां प्रकरणात्कर्माङ्गत्वेनैकप्रयोगत्वमिति प्रापय्य सिद्धान्तमुपक्रमते - तत्रेत्यादिना । पूर्वपक्षे भावनाग्नीनां क्रत्वङ्गत्वमिष्टं तेषां क्रियाङ्गत्वं विकल्पः समुच्चयो वास्तु । सिद्धान्ते पुरुषार्थत्वमिति फलम् । तत्तत्र सर्वप्राणिमनोवृत्तिभिर्मम सदाग्नयः चीयन्त इति ध्यानदार्ढ्ये सति सर्वभूतानि यत्किञ्चित्मनसा संकल्पयन्ति तेषामेवाग्नीनां सा कृतिः करणमित्येकं लिङ्गं, क्रियाङ्गस्य यत्किञ्चित्करणेन सिद्ध्यदर्शनादित्याह - तद्यदिति ।
एवंविदे स्वपते जाग्रतेऽपि तदीयाग्नीन्भूतानि सर्वदा चिन्वन्तीति लिङ्गान्तरं, क्रियाङ्गस्य चोदितकालानुष्ठेयस्य सदा सर्वैरनुष्ठीयमानत्वायोगादित्यर्थः । षट्त्रिंशत्सहस्रसंख्याप्यनङ्गत्वे लिङ्गमेवञ्जातीयकपदेनोक्तम् ॥४४॥ 【भाष्यम्】 【भाष्यम्】 एवं सिद्धान्तमुपक्रम्य पूर्वपक्षयति - पूर्वेति । पूर्वस्येष्टकाभिरग्निं चिनुत इत्युक्तस्य स एष त्विष्टकाग्निरिति संनिहितस्यायं विकल्पविशेषोपदेशः संकल्पमयत्वाख्यप्रकारभेदोपदेशः क्रियाग्निवत्सांकल्पिकाग्नयोऽप्यङ्गमिति यावत् । किं विधिवाक्यस्थं लिङ्गं प्रकरणाद्बलीयः, अर्थवादस्थं वा । आद्यमङ्गीकरोति - सत्यमिति । न द्वितीय इत्याह - लिङ्गमिति । मानसाग्निविध्यर्थवादस्थलिङ्गानां स्वार्थप्रापकमानाभावाद्दौर्बल्यमित्यर्थः । सूत्रस्थक्रियापदं व्याचष्टे - तस्मादिति । ननु अक्रियारूपाग्नीनां ध्यानमयानां कथं क्रियाङ्गत्वं तत्राह - मानसवदिति । द्वादशाहस्याद्यन्ताहर्द्वयं त्यक्त्वा मध्यस्थदशरात्रस्यैव द्विरात्रादिषु प्रकृतित्वं, तद्धर्माणामेव तेष्वतिदेशात्तस्य मध्यदशरात्रस्य दशमेऽहन्यर्थादेकादशेऽहनि मानसग्रहः श्रूयते 'अनया त्वा पात्रेण समुद्रं रसया प्राजापत्यं मनोग्रहं गृह्णाति' इति । अनया रसया पृथिव्या पात्रेण समुद्रं त्वां प्रजापतिदेवताकं मनोग्रहं गृह्यते इति ग्रहः सोमरसः, मनसा रसत्वेन भावितमध्वर्युर्गृह्णातीत्यर्थः । अत एवर्त्विजां ध्यायितया विविधवाक्योच्चारणाभावादविवाक्यसंज्ञा अह्नः प्राप्ता । ग्रहणं नाम सोमपात्रस्योपादानं, गृहीतस्य स्वस्थाने स्थापनमासादनं सोमस्य होमो हवनं हुतशेषादानमाहरणं शेषभक्षणायर्त्विजां मिथोऽनुज्ञानकरणमुपह्वानं ततो भक्षणमित्येतानि मानसान्येवेत्यर्थः । स च मानसो ग्रहो द्वादशाहादहरन्तरं स्वतन्त्रमित्याशङड्क्य द्वादशाहसंज्ञाविरोधान्नाहरन्तरं किन्तु प्रकरणादविवाक्यस्याह्नोऽङ्गमिति सिद्धान्तमाह - स चेति ।
कल्पः कल्पनाप्रकारः । केचित्त्वत्र भाष्ये दशरात्रशब्दो विकृतिपरः, तत्रापि दशमेऽहन्यविवाक्यसंज्ञके मानसग्रहस्यातिदेशप्राप्ततयाङ्गत्वादित्याहुः ॥४५॥ 【भाष्यम्】 【भाष्यम्】 मनश्चिदादीनां क्रियाङ्गत्वे प्रकरणमुक्त्वा लिङ्गमाह - अतिदेशाच्चेति ।
क्रियाङ्गत्वसादृश्यादतिदेश इत्यर्थः ॥४६॥ 【भाष्यम्】 【भाष्यम्】 सिद्धान्तमाह -
विद्येति ॥४७॥ 【भाष्यम्】 【भाष्यम्】
न श्रुतिलिङ्गवाक्यैः प्रकरणं बाध्यमिति सूत्रत्रयार्थः ॥४८॥ 【भाष्यम्】 【भाष्यम्】 तत्रावधारणश्रुतेरन्यथासिद्धिं शङ्कते - नन्वबाह्येति । विद्याचित इतिपदेनैवाबाह्यसाधनत्वस्य लब्धत्वादवधारणं व्यर्थमित्याह - नेति । तर्हि कथमस्यार्थवत्त्वं तत्राह - अबाह्येति । लिङ्गं व्यनक्ति - तथेति । अग्नीनां सर्वकालव्यापित्वेनानङ्गत्वे दृष्टान्तमाह - यथेति । तदा ध्यानकाल इत्यर्थः । होमे यथा सातत्यमुच्यते तद्वदग्नीनां सातत्यदर्शनमित्यन्वयः । यदुक्तमर्थवादस्थत्वाल्लिङ्गं दुर्बलमिति तन्न । सर्वदा सर्वभूतानि मदर्थमग्नीन् चिन्वन्तीति ध्यायेदित्यपूर्वार्थतया विधिकल्पनात् । तथा च विधिवाक्यस्थत्वाल्लिङ्गं प्रकरणाद्बलवादित्याह - न चेदमित्यादिना । एतेनेति विधित्वेनेत्यर्थः । वाक्यं विवृणोति -
तथेति ॥४९॥ 【भाष्यम्】 【भाष्यम्】 संपदुपास्त्यै मनोवृत्तिषु क्रियाङ्गानां योजनमनुबन्धः श्रुत्या क्रियते तदन्यथानुपपत्त्याप्यग्नीनां पुरुषार्थत्वं क्रत्वर्थत्वेऽङ्गानां सिद्धत्वेन संपादनानुपपत्तेरित्याह - इतश्चेत्यादिना । ते अग्नयः, अधीयन्त तेषामाधानं मनसैव कुर्यादित्यर्थः । कालस्य छन्दस्यनियमात् । अचीयन्त इष्टकाश्चेतव्या इत्यर्थः । ग्रहाः पात्राणि, अस्तुवन्, उद्गातारः स्तुवन्ति, अशंसन् होतारः शंसन्ति, किं बहूक्त्या यत्किञ्चिद्यज्ञे कर्मारादुपकारकं यज्ञियं यज्ञस्वरूपोत्पादकं च तत्सर्वं मनोमयं कुर्यादिति श्रुत्यर्थः । वृत्तिष्वग्निध्यानस्य क्रियानङ्गत्वेऽप्युद्गीथध्यानवत्क्रियाङ्गाश्रितत्वं स्यान्नेत्याह - न चात्रोद्गीथेति । अङ्गावबद्धश्रुतितोऽस्याः श्रुतेर्वैरूप्यं स्फुटयति - न हीति । अनङ्गवृत्तिषु साङ्गक्रतुसंपादनं पुरुषस्य यज्ञत्वध्यानवत्स्वतन्त्रमित्यर्थः । अनादरार्थोऽतिदेशो न भवति किन्तु विकल्पार्थ इत्यत आह - न चेति । एकस्मिन्साध्ये निरपेक्षसाधनयोर्विकल्पो भवति यथा व्रीहियवयोरत्र तु क्रियाग्नेर्ध्यानाग्नीनां साध्यभेदान्न विकल्प इत्यर्थः । अत एव समुच्चयोऽपि निरस्तः । यदुक्तं क्रियाङ्गत्वसामान्येनातिदेश इति तन्नेत्याह - यत्त्विति । सूत्रे बहुवचनार्थमाह - श्रुत्यादीनि चेति । अनुबन्धातिदेशश्रुतिलिङ्गवाक्येभ्य इत्यर्थः । एवमिति । अर्थ इति शेषः । मनश्चिदादीनां स्वातन्त्र्ये क्रियाप्रकरणादुत्कर्षः स्यादित्याशङ्क्य स इष्ट इत्याह - दृष्टश्चेति ।
एकादशे चिन्तितं 'राजा स्वाराज्यकामो राजसूयेन यजेत' इति प्रकृत्यावेष्टिर्नाम काचिदिष्टिराम्नाता 'आग्नेयोऽष्टाकपालो हिरण्यं दक्षिणा', 'बार्हस्पत्यं चरुं शितिपृष्ठो दक्षिणा', 'ऐन्द्रमेकादशकपालमृषभो दक्षिणा' इति । तस्यां वर्णभेदेन प्रयोगभेदः, श्रूयते 'यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिमाहुतिं हुत्वाभिघारयेद्यदि वैश्यो वैश्वदेवं चरुं मध्ये निदध्याद्यदि राजन्यस्तदैन्द्रम्' इति । आग्नेयैन्द्रपुरोडाशयोर्मध्ये बार्हस्पत्यं चरुं निधायेत्यर्थः । तत्राग्नेयादिचरुषु अङ्गानां तन्त्रेण प्रयोगो भवति मध्येनिधानलिङ्गात्प्रयोगभेदे मध्ये निधानायोगादेतयान्नाद्यकामं याजयेदित्येकवचनाच्च । स च तन्त्रप्रयोगो राजसूयक्रतुबाह्यायामन्नाद्यकामवर्णत्रयकर्तृकायामेवावेष्टौ ज्ञेयो न तु क्रत्वन्तर्गतायाम् । ननु किमत्र नियामकं क्रत्वर्थायामप्यवेष्टौ तन्त्रप्रयोगः किं न स्यादिति चेत् । न । वर्णत्रयसंयुक्तानां काम्यायामेवाङ्गतन्त्रैक्यसाधकस्य मध्ये निधानादिलिङ्गस्य सत्त्वादतो लिङ्गैकवचनाभ्यां तन्त्रैक्ये सति हिरण्यादिका मिलितैकैवा दक्षिणादेया, अन्यथा प्रयोगैक्यायोगात् । राजमात्रकर्तृकक्रत्वन्तर्गतेष्टौ तु वर्णत्रयसंयोगाभावान्मध्ये निधानादिलिङ्गं नास्ति ततश्च तन्त्रैक्यसाधकाभावाद्दक्षिणाभेदेन तन्त्रभेद इत्यङ्गानामावृत्तिरेव चरुष्विति सूत्रार्थः । अत्र चैकप्रयोगलिङ्गस्य क्रत्वर्थेष्टावसंभवं काम्येष्टौ च संभवं वदताऽनेन सूत्रेण काम्येष्टेः क्रत्वर्थेष्टिविलक्षणत्वात्क्रतुप्रकरणादुत्कर्ष इति सूचितम् । स चोत्कर्षो युक्त एव, राजमात्रकर्तृकराजसूयक्रतौ वर्णत्रयकर्तृकेष्टेरन्तर्भावायोगादिति स्थितं, तथा मनश्चिदादीनामुत्कर्ष इति भावः ॥५०॥ 【भाष्यम्】 【भाष्यम्】 एवं दृष्टान्तं विघटयति - न सामान्यादिति ।
क्रत्वर्थत्वपुरुषार्थत्ववैषम्येऽपि मानसत्वसामान्यं न विरुध्यते विषमयोरपि साम्यदर्शनादित्यर्थः ॥५१॥ 【भाष्यम्】 【भाष्यम्】 किञ्च पूर्वोत्तरब्राह्मणयोः स्वतन्त्रविद्याविधानात्तन्मध्यस्थस्यापि ब्राह्मणस्य स्वतन्त्रविद्याविधिपरत्वमित्याह - परेण चेति । चितेऽग्नौ लोकदृष्टिविधानं स्वतन्त्रमुत्तरत्र गम्यते पूर्वत्र मण्डलपुरुषोपास्तिस्तत्सांनिध्यान्मध्येऽपि मानसाग्नयः स्वतन्त्रा इत्यर्थः । तर्हि क्रियाग्निना सह पाठः किमर्थमित्यत आह -
भूयांसस्त्विति ॥५२॥ 【भाष्यम्】 【भाष्यम्】 मनश्चिदादीनां पुरुषार्थत्वमुक्तं तदयुक्तं देहातिरिक्तपुरुषाभावादित्याक्षिपति - एक आत्मनः शरीरे भावात् । सिद्धान्तफलमाह - बन्धेति । पूर्वपक्षे तु परलोकार्थकर्मसु मोक्षार्थविद्यायां चाप्रवृत्तिरिति व्यतिरेकमुखेन फलमाह - न ह्यसतीति । व्यतिरिक्तात्मविचारस्य पूर्वतन्त्रे कृतत्वात्पौनरुक्त्यमित्याशङ्क्य तत्रत्यविचारस्यापीदमेव सूत्रं मूलं जैमिनिसूत्राभावादतः क्व पुनरुक्तिरित्याह - ननु शास्त्रेत्यादिना । 'यज्ञायुधी यजमानः स्वर्गं लोकमेति' इत्यादिवाक्यस्य भोक्तुरभावादप्रामाण्यप्राप्तावित एवाकृष्य भोक्तुर्विचारः कृत इत्यत्र वृत्तिकारवचनं लिङ्गमाह - अत एवेति । तत्र सूत्राभावादेवेत्यर्थः । उद्धार उपरमः । अस्याधिकरणस्यास्मिन्पादे प्रसङ्गसंगतिरित्याह - इह चेति । आमुष्मिकफलोपासनानिर्णयप्रसङ्गेन तदपेक्षितात्मास्तित्वमुच्यत इत्यर्थः । एतत्सिद्धवत्कृत्य प्रथमसूत्रेऽथशब्देनाधिकारी चिन्तितस्तस्मादिदमधिकरणं सर्वशास्त्राङ्गमिति शास्त्रसंगतिमाह - कृत्स्नेति । आक्षेपलक्षणामवान्तरसंगतिमाह - अपि चेति । देहातिरिक्त आत्मास्ति न वेति वादिविप्रतिपत्तेः संशये पूर्वपक्षमाह - अत्रैक इति । यद्यपि समस्तेषु मिलितेषु भूतेषु चैतन्यं न दृष्टं तप्तोदकुम्भस्य ज्ञानाभावाद्व्यस्तेषु तु नास्त्येव तथापि देहात्मकभूतेषु स्यादिति तेभ्यो भूतेभ्यश्चैतन्यं संभावयन्तो मदशक्तिवद्विज्ञानं संघातजं तद्विशिष्टसंघात आत्मेत्याहुरित्यन्वयः । यथा मादकद्रव्येषु ताम्बूलपत्रादिषु प्रत्येकमदृष्टापि मदशक्तिस्तत्संघाताज्जायते तद्वदित्यर्थः । ननु देहः स्वयं न चेतनः घटवद्भौतिकत्वात्किन्तु चेतनः कश्चित्स्वर्गादिभोक्तास्ति तत्सांनिध्याद्देहस्य चैतन्यविभ्रम इत्यत आह -
न स्वर्गेति ॥५३॥ 【भाष्यम्】 【भाष्यम्】 मनुष्योऽहं जानामिति देहस्य ज्ञातृतायाः प्रत्यक्षत्वादात्मधर्मत्वेन प्रसिद्धानां धर्माणां देहान्वयव्यतिरेकानुभवात्तदन्यात्मनि प्रत्यक्षाभावादप्रत्यक्षस्याप्रामाणिकत्वाद्देह एवात्मेति प्राप्ते सूत्रस्थनत्वितिपदेन सिद्धान्तं प्रतिजानीते - नत्वेतदिति । अनुमानस्य तावत्प्रामाण्यमनिच्छताप्यास्थेयमन्यथा व्यवहारासिद्धेः । न ह्यनागतपाकादाविष्टसाधनतानुमितिं विना प्रवृत्तिः संभवति । तथा च ज्ञानादयो देहव्यतिरिक्ताश्रया देहसत्त्वेऽप्यसत्त्वाद्व्यतिरेकेण देहरूपादिवदित्याह - व्यतिरेक एवास्येति । न चादौ श्यामदेहस्य पश्चाद्रूपान्तरे व्यभिचारः, गुणत्वसाक्षाद्व्याप्यजात्यवच्छेदेन असत्त्वस्य विवक्षितत्वात् देहेऽवस्थिते सदा रूपत्वावच्छिन्नमस्त्येव । ज्ञानत्वावच्छिन्नं तु नास्तीति न ज्ञानं देहधर्मः । किञ्च एते न देहगुणाः परैरदृश्यत्वादित्याह - देहधर्माश्चेति । किञ्च देहव्यतिरेके तेषामभावस्य संदिग्धत्वान्न देहधर्मत्वनिश्चय इत्याह - अपि चेति । न चानुपलम्भात्तेषामभावनिश्चयस्तवानुपलब्धेरमानत्वात्, तद्धर्म्यात्मनो देहान्तरप्राप्त्याप्यनुपलम्भोपपत्तेश्चेति भावः । उपलब्धिवदिति सूत्रस्थं पदं व्याख्यातुमुपक्रमते - किमात्मकमिति । तत्किं भूतातिरिक्तं तत्त्वमुत रूपादिवद्भूतधर्मः । नाद्यः, अपसिद्धान्तादित्युक्त्वा द्वितीयमाशङ्क्य निषेधति - यदनुभवनमित्यादिना । देहात्मकभूतानां चैतन्यं प्रति विषयत्वात्कर्तृकर्मविरोधेन विषयस्य कर्तृत्वायोगान्न भूतकर्तृकत्वं चैतन्यस्येत्यर्थः । किञ्च ज्ञानस्य भूतधर्मत्वे रूपादिवज्जाड्यापत्तेर्न तद्धर्मत्वमित्याह - न हीति । फलितं सूत्रपदार्थमाह - अतश्चेति । या देहातिरिक्ता सद्रूपोपलब्धिः स एवात्मा चेदनित्यः स्यादुपलब्धेरनित्यत्वादित्यत आह - नित्यत्वं चेति । घटः स्फुरति पटः स्फुरतीति सर्वत्र स्फूर्तेरभेदान्नित्यत्वं विषयोपरागनाशे तु नाशभ्रम इत्यर्थः । एवमात्मा देहाद्भिन्न उपलब्धिरूपत्वादुपलब्धिवदित्युक्तम् , किञ्च जाग्रत्स्वप्नयोर्देहभेदेऽप्यात्मैकत्वप्रत्यभिज्ञानादात्मभेदे चान्यानुभूतेऽन्यस्य स्मृतीच्छानुपपत्तेः स्वप्नस्मृत्यादिमानात्मा देहाद्भिन्न इत्याह - अहमिति । निरस्तमप्यधिकाभिधित्सयानुवदति - यत्तूक्तमिति । उपलब्धेर्देहान्वयव्यतिरेकौ न देहधर्मत्वसाधकौ तन्निमित्तत्वेनान्यथासिद्धेरित्यधिकमाह - अपि चेति । उपलब्धिमात्रे देहस्य निमित्तत्वमप्यसिद्धमित्याह - न चात्यन्तमिति । स्वप्नोपलब्धिर्न देहजन्या, देहव्यापारं विनापि भावाद्वृक्षवत् । अत एव तन्वभावेऽपि स्वप्नवद्योगिनां भोगं सूत्रकृद्वक्ष्यति । जाग्रदुपलब्धेर्देहजत्वमस्तीत्यत्यन्तमित्युक्तम् । तस्मादुक्तानुमानानुगृहीतान्मम शरीरमिति भेदानुभावादहं मनुष्य इत्यभेदज्ञानं भ्रम इत्युपसंहरति -
तस्मादिति ॥५४॥ 【भाष्यम्】 【भाष्यम्】 अङ्गावबद्धाः । उद्गीथावयवोङ्कारे प्राणदृष्टिः,'पृथिवी हिङ्कारेऽग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनम्' , इति हिङ्कारादिपञ्चविधे साम्नि पृथिव्यादिलोकदृष्टिः, उक्थाख्यशस्त्रे पृथिवीदृष्टिः, इष्टकाचिताग्नौ लोकदृष्टिरित्येवं कर्माङ्गाश्रितोपास्तयः सन्ति, तासूद्गीथादिसाधारणश्रुत्या विशेषसंनिधिना च संशयः । ननूद्गीथादीनां सर्वशाखास्वेकत्वादुपास्तयः सर्वत्रेति वेद्यैक्यान्निश्चये कथं संशय इत्यत आह - प्रतिशाखं चेति । यथा देहात्मनोर्भेदादात्मधर्मा देहे न संभवन्ति तथा प्रतिवेदमुद्गीथादीनां भिन्नत्वादेकस्मिन्वेदे विहितोद्गीथाद्युपास्तयो वेदान्तरस्थोद्गीथादिषु न संभवन्तीति दृष्टान्तेन पूर्वपक्षयति - स्वशाखेति । उद्गीथमुपासीतेति विधिवाक्यस्थोद्गीथत्वसामान्यस्य व्यक्त्यपेक्षत्वास्त्वशाखासंनिहितव्यक्तिग्रह इत्यर्थः । सामान्यश्रुतेः संनिहितव्यक्तिग्रहाख्यसंकोचस्तत्र कर्तव्यो यत्र व्यक्तिमात्रग्रहो नोपपद्यते, यथा शुक्लां गामानयेत्यत्र गोश्रुतेः संनिहितशुक्लव्यक्तिपरतया संकोचः, अत्र नानुपपत्त्यभावाद्व्यक्तिमात्रसंबन्धसामान्यमुपास्यमिति सिद्धान्तयति -
एवमित्यादिना ॥५५॥ 【भाष्यम्】 【भाष्यम्】 पूर्वं शाखान्तरविहितोपास्तीनां शाखान्तरस्थाङ्गसंबन्धे यः प्रतीतो विरोधस्तमङ्गीकृत्य संबन्ध उक्तः, संप्रति विरोध एव नास्ति, शाखान्तरविहिताङ्गानां शाखान्तरस्थाङ्गिसंबन्धवदुक्तसंबन्धोपपत्तेरित्याह - अथवेत्यादिना । यजुर्वेदिनां कुक्कुटोऽसीति मन्त्रोऽस्ति कुटरुरसीति नास्ति तथापि तण्डुलपेषणार्थाश्मादाने मन्त्रद्वयस्य विकल्पेन विनियोगात्सोऽपि प्राप्नोतीत्यर्थः । सूत्रस्थादिपदोपात्तकर्मणामुदाहरणमाह - येषामिति । मैत्रायणीयानामित्यर्थः । हेमन्तशिशिरयोरैक्यादृतवः पञ्च तद्वत्पञ्चसंख्याकाः प्रयाजाः समानत्र तुल्यकर्मस्थले होतव्या इति पञ्चत्वगुणविधानाद्गुणिनः शाखान्तरविहिताः सम्बध्यन्त इति भावः । गुणमुदाहरति - तथा येषामिति । यजुर्वेदिनामग्नीषोमीयः पशुः श्रुतो नाज इति जातिविशेषस्तथापि प्रैषमन्त्रलिङ्गाज्जातिविशेषसंग्रह इत्यर्थः । मन्त्राणमुदाहरणान्तरमाह - तथेति ।
सामवेदस्थानां यजुर्वेदे परिग्रह इत्यर्थः । तथेति 'स जनास इन्द्र' इत्यनेनोपलक्षितं सूक्तं सजनीयं तस्य याजुषाध्वर्युकर्तृकप्रयोगे शंसनं दृष्टमित्यर्थः । यो जातो बाल एव प्रथमो गुणैः श्रेष्ठो मनस्वान्विवेकवान्स इन्द्र एवंविधो हे जानसो जना इति श्रुत्यर्थः ॥५६॥ 【भाष्यम्】 【भाष्यम्】 भूम्नः क्रतुवत् । द्युलोकादिषु प्रत्येकं वैश्वानरत्वोपास्तिर्व्यस्तोपास्तिस्तदवयव्युपास्तिः समस्तोपास्तिरिति भेदः । आख्यायिका पूर्वमेव व्याख्याता । अत्रोभयत्र विधिफलयोः श्रवणादेकवाक्यत्वोपपत्तेश्च संशयमाह - तत्रेति । 'सैव हि सत्यादयः' इत्यत्र तद्यत्तत्सत्यमिति प्रकृताकर्षाद्विद्यैक्यमुक्तं तद्वदत्रैक्यहेत्वभावादगतार्थत्वं मत्वा पूर्वत्रोद्गीथादिश्रुत्या संनिधिबाधेनोद्गीथाद्युपास्तीनां सर्वशाखासूपसंहारवद्व्यस्तोपास्तीनां विधिश्रुतेः फलश्रवणस्य च समस्तोपास्तिसंनिधिप्राप्तं स्तुत्यर्थत्वं बाधित्वा तद्विधेयत्वमिति पूर्वपक्षमाह - प्रत्यवयवमिति । फलानुक्तौ पूर्वोत्तरपक्षसिद्धिरेव फलं मन्तव्यम् । सुतं खण्डितं सोमद्रव्यं तस्यैव प्रसुतत्वमासमन्तात् सुतत्वमवस्थाभेदः । सोमयागसंपत्तिस्तव कुले दृश्यत इति यावत् । आत्मनो वैश्वानरस्य मूर्धेव सुतेजा इति वाक्यप्रकरणाभ्यां व्यस्तोपास्तीनां समस्तोपास्त्यन्तर्भावेन प्रयाजदर्शवदेकप्रयोगत्वे सिद्धे प्रधानतदङ्गफलानामर्थवादगतानामेकप्रधानफलतयोपसंहाराद्वाक्यभेदो न युक्त इति सिद्धान्त्याशयः । एकदेशिव्याख्यामनूद्य दूषयति - केचिदिति । यद्युभयथोपासनं सिद्धान्तस्तर्हि व्यस्तोपासनमेवेति पूर्वपक्षो वक्तव्यः, स च न संभवतीत्याह - स्पष्टे चेति । कथं तर्हि सूत्रे ज्यायस्त्वोक्तिस्तत्राह - सौत्रस्येति ।
व्यस्तोपास्तीनामप्रामाणिकत्वद्योतनार्थं तदुक्तिरिति भावः ॥५७॥ 【भाष्यम्】 【भाष्यम्】 नाना शब्दादिभेदात् । शाण्डिल्यादिब्रह्मविद्यैका नाना वा तथा संवर्गादि प्राणविद्यैका नाना वेति रूपैक्यभावाभावाभ्यां संशये दृष्टान्तसंगत्या पूर्वपक्षमाह - पूर्वस्मिन्निति । रूपैक्याच्च विद्यैक्यमित्याह - अपि चेति । विद्यैक्यं चेदेकश्रुत्युक्तविद्यायाः श्रुत्यन्तरेऽप्युक्तिर्वृथेत्यत आह - श्रुतिनानात्वमपीति । पूर्वपक्षफलमाह - तस्मादिति । सिद्धान्ते तु गुणानुपसंहार इति मत्वा सूत्रं योजयति - वेद्याभेदेऽपीति । ननु भिन्नभावार्थवाचकशब्दः शब्दान्तरं यथा 'यजति ददाति जुहोति' इति तस्मिञ्शब्दभेदे कर्मशब्दितविध्यर्थभावानाया भेदो युक्तस्तस्याः कृतानुबन्धत्वाद्भेदेन स्वीकृतविषयत्वाद्भावार्थभेदादिति यावत् । प्रकृते तु वेदोपासीतेत्यादिशब्दार्थोपास्तेर्यागदानहोमवत्स्वतो भेदाभावात्सिद्धगुणकब्रह्मण एकत्वेन विषयतोऽपि भेदाभावात्कथमुपास्तिभेद इति शङ्कते - नन्विति । अत्र सूत्रे शब्दभेदोऽभ्युच्चयमात्रतयोक्तः, विद्यानानात्वे सम्यग्घेतवस्त्वादिपदोपात्ता गुणादय एव । तथा हि सिद्धस्यापि गुणस्य कार्यान्वयितया कार्यत्वमस्ति । यथा आरुण्यादिगुणानां क्रयणभावनान्वयितया कार्यत्वं तथाच तत्तत्प्रकरणेषूत्पत्तिशिष्टैरुपास्तिभावनान्वयितया साध्यैस्तत्तद्गुणैर्विशिष्टतयोपास्यरूपभेदादुपासनाभेदः । यथा छत्रचामरादिगुणभेदेन राजोपास्तिभेदः, यथावामिक्षावाजिनगुणभेदेन यागभेदस्तद्वत् । तथा प्रतिविद्यं फलसंयोगभेदाद्दहरशाण्डिल्यादिसमाख्याभेदाद्भेद इति समाधत्ते - नैष दोष इत्यादिना । यदुक्तं श्रुतिनानात्वं गुणान्तरविध्यर्थमिति तन्नेत्याह - न चात्रैक इति । किञ्च प्राप्तविद्यानुवादेनाप्राप्तानेकगुणविधाने वाक्यभेदः स्यादित्याह - अनेकत्वाच्चेति । किञ्च विद्यैक्यपक्षे गुणानां पुनरुक्तिर्वृथा, नच प्रत्यभिज्ञानार्था ब्रह्मैक्यादेव तत्सिद्धेः, विद्यानानात्वपक्षे तु गुणानामप्राप्तेः सा प्राप्त्यर्थेत्याह - न चास्मिन्पक्ष इति । फलभेदाच्चोदनैक्याभावात्सर्वगुणध्यानस्याशक्यत्वाच्च विद्या नानेत्याह - प्रतिप्रकरणं चेत्यादिना । दहरध्यातुः सर्वेषु लोकेषु कामचारो भवति वैश्वानरध्याता सर्वत्रान्नमत्तीत्यादिफलभेद इत्यर्थः । ननु विद्यानानात्वे सिद्धे पश्चाद्दहरादिविद्या प्रतिवेदान्तमेकाऽनेका वेति चिन्तोचिता तत्कथमादौ सा कृतेत्यत आह - स्थिते चेति ।
विद्यानानात्वाधिकरणं पादादावेव संगतमत्र प्रासङ्गिकमिति भावः ॥५८॥ 【भाष्यम्】 【भाष्यम्】 विकल्पः । विद्यानां स्वरूपमुक्त्वानुष्ठानप्रकारोऽत्र निरूप्यत इत्युपजीव्यत्वसंगतिमाह - स्थित इति । विद्यास्त्रिविधाः अहङ्ग्रहास्तटस्था अङ्गाश्रिताश्चेति । तत्राहङ्ग्रहविद्यासु याथाकाम्यविकल्पयोर्विद्यानानात्वसाम्यात्संशयमाह - किमिति । पूर्वपक्षे यथेच्छमनुष्ठानमित्यनियमः सिद्धान्ते विकल्पेनानुष्ठानमिति नियम इति फलभेदः । तत्रानियमं साधयति - तत्र स्थितत्वादित्यादिना । एकपुरोडाशफलत्वाद्यथा व्रीहियवयोर्विकल्पस्तथा विकल्पनियम एवासां विद्यानां न्याय्यः, तुल्यफलत्वात् । न च फलभूयस्त्वार्थिनः काम्यकर्मसमुच्चयोऽपि दृष्ट इति वाच्यम्, ईश्वरसाक्षात्कारात्परं फलभेदेऽप्यासामहङ्ग्रहोपास्तीनां साक्षात्कारात्मकफलस्य तुल्यत्वात्, तस्य चैकयाकृतत्वे अन्यस्याः कृत्याभावाच्चित्तविक्षेपकतया तद्विघातकत्वाच्चेति सिद्धान्तभाष्यार्थः । मास्तु साक्षात्कार इत्यत आह - साक्षात्करणसाध्यं चेति । यस्य पुंसः, अद्धा ईश्वरोऽहमिति साक्षात्कारः स्याद्विचिकित्सा च नास्ति अहमीश्वरो न वेति तस्यैवेश्वरप्राप्तिरित्यर्थः । जीवन्नेव भावनया देवत्वं साक्षात्कृत्य देहपातोत्तरकालं देवान्प्राप्नोतीति श्रुत्यन्तरार्थः । अहङ्ग्रहाणामनुष्ठानप्रकारमुपसंहरति -
तस्मादिति ॥५९॥ 【भाष्यम्】 【भाष्यम्】 काम्यास्तु । तटस्थोपास्तयोऽत्र विषयस्तासु किं विकल्प उत यथाकाममनुष्ठानमिति पूर्ववत्संशये सत्युपास्तित्वाविशेषादहङ्ग्रहवद्विकल्प इति प्राप्तावपवादं सिद्धान्तयति - अविशिष्टेति ।
स यः कश्चिदेतं वायुमेवं गोत्वेन कल्पितानां दिशां वत्सं वेदोपास्ते नासौ पुत्रमरणनिमित्तं रोदनं रोदिति लभते नित्यमेव जीवत्पुत्रो भवतीत्यर्थः । अहङ्ग्रहदृष्टान्ते साक्षात्कारद्वारत्वमुपाधिरिति भावः ॥६०॥ 【भाष्यम्】 【भाष्यम्】 संप्रत्यङ्गावबद्धोपास्तीनामनुष्ठानक्रमं वक्तुं पूर्वपक्षयति - अङ्गेष्विति । अङ्गाश्रितत्वात्सफलत्वाच्च संशयमाह - किमिति ।
यथा क्रत्वनुष्ठाने तदाश्रिताङ्गानां समुच्चित्यानुष्ठाननियमस्तथाङ्गानुष्ठाने तदाश्रितोपास्तीनां तन्नियम इति सूत्रार्थः । ननु तन्निर्धारणानियम इत्यत्राङ्गाश्रितानां गोदोहनवदनङ्गत्वमुक्तं तत्कथमनङ्गानामङ्गवत्समुच्चयशङ्केत्युच्यते । अङ्गान्यनुष्ठापयन्प्रयोगविधिर्यद्युपासनानि नानुष्ठापयेत्तर्हि तेषां तदाश्रितत्वं व्यर्थमिति मन्वानस्य शङ्केति भावः ॥६१॥ 【भाष्यम्】 【भाष्यम्】 तर्हि गोदोहनस्यापि समुच्चयः स्यादित्यत आह - शिष्टेश्चेति ।
शिष्टिः शासनं विधानमिति यावत् । विहितत्वाविशेषात्समुच्चयोऽङ्गत्वादित्यर्थः । गोदोहनस्य तु नानुष्ठाननियमः, चमसस्थाने विहितत्वात्तन्नियमे चमसविधिवैयर्थ्यात् । उपासनानां तु न कस्यचिदङ्गस्य स्थाने विहितत्वमिति समुच्चयनियमो न विरुध्यत इति भावः ॥६२॥ 【भाष्यम्】 【भाष्यम्】 समुच्चये लिङ्गम् - समाहारादिति । 'ऋग्वेदिनां यः प्रणवः स सामवेदिनामुद्गीथः' इति छान्दोग्ये प्राणवोद्गीथयोरैक्यध्यानविधिरस्ति, तस्य फलार्थवादो होतृषदनादित्यादिः । होतुः शंसनस्थलवाचिना होतृषदनशब्देन शंसनं लक्ष्यते । उद्गाता स्वरादिप्रमादाद्दुष्टमप्युद्गीथं सम्यक्कृताद्धोतृशंसनादनुसमाहारत्येव निर्देषं करोत्येव किल, शंस्यमानप्रणवेन स्वीयोद्गीथस्यैक्यध्यानबलादित्यर्थः । ततः किं तत्राह - इति ब्रुवन्निति ।
सामवेदस्थोद्गीथध्यानस्य ऋग्वेदोक्तप्रणवसंबन्धो यो दृष्टः स एवाङ्गानां सर्ववेदान्तविहितोपास्तिसमुच्चये लिङ्गं प्रणवरूपपदार्थस्योपास्तीनां च वेदान्तरोक्तत्वसादृश्याद्वेदान्तरोक्ताङ्गसंबन्धस्यापि समानत्वादित्यर्थः ॥६३॥ 【भाष्यम्】 【भाष्यम्】 ओङ्कारस्य ध्येयस्य साधारण्यादपि तदाश्रितध्यानानां समुच्चित्यानुष्ठानं गम्यत इति लिङ्गान्तरमाह - गुणेति । तेनोङ्कारेण, वेदत्रयोक्तं कर्म प्रवर्तत इत्यर्थः । अन्वयमुखेनोक्तमेवार्थं व्यतिरेकतोऽपि व्याचष्टे -
अथवेति ॥६४॥ 【भाष्यम्】 【भाष्यम्】 फलेच्छाया अनियमादुपास्त्यनियम एव युक्तः, अङ्गवत्समुच्चयनियमे मानाभावादिति सिद्धान्तयति - न वेति । प्रयोगविधिः खलु साङ्गप्रधानानुष्ठाननियामको न त्वनङ्गानां सङ्ग्राहक इत्याह - नेति ब्रूम इति । विमतोपास्तयः क्रतौ न समुच्चित्यानुष्ठोयाः, भिन्नफलत्वाद्गोदोहनवदिति भावः । शिष्टेश्चेत्युक्तं निरस्यति - अयमेवेति । समाहाराद्गुणसाधारण्यश्रुतेश्चेत्युक्तं लिङ्गद्वयमपि मानान्तरप्राप्तस्य द्योतकं न स्वयं साधकमर्थवादस्थत्वादित्याह - परं चेति । गुणसाधारण्यसूत्रस्य द्वितीयां व्याख्यां दूषयति - न चेति । तत्प्रयुक्तत्वाभावे तदाश्रितत्वं कथमित्यत आह - आश्रयेति ।
इदमेव तेषामङ्गाश्रितत्वं यदङ्गाभावे सत्यसत्त्वं न त्वङ्गव्यापकत्वमित्यर्थः ॥६५॥ 【भाष्यम्】 【भाष्यम्】 किञ्च विदुषा ब्रह्मणान्येषामृत्विजां पाल्यत्ववचनान्न सर्वोपास्तीनां सहप्रयोग इत्याह - दर्शनाच्चेति ।
ऋग्वेदादिविहिताङ्गलोपे व्याहृतिहोमप्रायश्चित्तादिविज्ञानवत्त्वमेवंवित्त्वं ब्रह्मण इत्यर्थः ॥६६॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकव्याख्यायां भाष्यरत्नप्रभायां तृतीयाध्यायस्य तृतीयः पादः ॥३॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति तृतीयाध्यायस्य परापरब्रह्मविद्यागुणोपसंहाराख्यस्तृतीयः पादः ॥ तृतीयाऽध्याये चतुर्थः पादः । कर्माङ्गविद्याप्रसङ्गाद्ब्रह्मज्ञानस्य कर्माङ्गत्वमाशङ्क्याह - पुरुषार्थोऽतः शब्दादिति बादरायणः । पूर्वपादे परापरविद्यानां गुणोपसंहारोक्त्या स्वरूपं निश्चितमस्मिन्पादे तासां कर्मानङ्गतया पुरुषार्थहेतुत्वं निरूप्यते । ततोऽङ्गाकाङ्क्षायां यज्ञादीनि बहिरङ्गानि शमाद्दीन्यन्तरङ्गानि च निरूप्यन्त इत्येकविद्याविषयत्वं पादयोः संगतिः । तत्रादौ तत्त्वज्ञानं विषयीकृत्य वादिविप्रतिपत्त्या संशयमाह - अथेति ।
पूर्वपक्षे ज्ञानकर्मणोरङ्गाङ्गित्वेन समुच्चयः । सिद्धान्ते केवलज्ञानान्मुक्तिरिति फलभेदः । 'य आत्मेति' प्रजापत्युक्तब्रह्मविद्यायां लोकादिकं सगुणविद्याफलं मोक्षानन्देऽन्तर्भावाभिप्रायेणोक्तमिति मन्तव्यम् ॥१॥ 【भाष्यम्】 【भाष्यम्】 एवं सिद्धान्तमुपक्रम्य पूर्वपक्षयति - शेषत्वादिति । सूत्रेऽर्थवादपदमावर्तनीयम् । ज्ञानात्पुरुषार्थवादोर्ऽथवाद इत्यर्थः । ज्ञानं कर्माङ्गम्, अफलत्वे सति कर्मेशेषाश्रयत्वात्प्रोक्षणपर्णमयीत्वादिवदिति भावः । तत्त्वनिर्णयार्थं गुरुशिष्ययोः कथावादोऽयमिति ज्ञापनार्थं जैमिनिग्रहणम् । अङ्गिफलेनाङ्गभूत आत्मावगतप्रयोजनस्तदाश्रये तत्संस्कारे ज्ञाने फलश्रुतिरर्थवाद इत्यत्र दृष्टान्तः - यथेति । पर्णमयी द्रव्यं, यजमानस्याञ्जनं संस्कारः, प्रयाजादीनि कर्माणि तेष्वित्यर्थः । वर्म कवचम् । आत्मज्ञानं न कर्माङ्गं मानाभावादिति सिद्धान्ती शङ्कते - कथमिति । पूर्वपक्ष्याह - कर्त्रिति । युक्तो ह्यनारभ्याधीतायाः पर्णताया जुहूद्वारेण वाक्यात्क्रत्वङ्गभावो जुह्वाः क्रतुव्याप्यतया क्रतूपस्थापकत्वात्, न तथात्मविज्ञानस्यऽआत्मा द्रष्टव्यःऽइति वाक्यात्क्रतुसंबन्ध उपपद्यते, आत्मनः क्रतुव्याप्त्यभावादिति सिद्धान्ती दूषयति - नेति । देहभिन्नत्वेन ज्ञातात्मनः क्रतुव्याप्यत्वमस्तीति पूर्वपक्षी समाधत्ते - न व्यतिरेकेति । सर्वथेति । देहात्मत्वेनापीत्यर्थः । देहभिन्नकर्तृज्ञानस्याङ्गत्वेऽप्यकर्तृब्रह्मात्मज्ञानस्य नाङ्गत्वमिति शङ्कते - नन्वपहतेति । यस्यार्थे जायादिकं प्रियं भोग्यं स आत्मा द्रष्टव्य इति भोग्यलिङ्गेन सूचितभोक्तृभिन्नमकर्तृस्वरूपं नास्तीति समाध्यर्थः । जन्मादिसूत्रमारभ्य साधितं स्वरूपं कथं नास्तीति शङ्कते - नन्विति । स्वरूपज्ञानं वेदान्तानां फलं, तस्य क्रत्वर्थत्वपुरुषार्थत्वविचारेण दार्ढ्यं क्रियत इत्याह -
सत्यमिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मविदां कर्माचारदर्शनं ब्रह्मविद्यायाः कर्माङ्गत्वे लिङ्गमित्याह - आचारेति । ईजे यागं कृतवानित्यर्थः । हे भगवन्त इति ब्राह्मणान्संबोध्य ब्रह्मवित्कैकेयराजो ब्रूते अहं यक्ष्यमाणो यागं करिष्यमाणोऽस्मि वसन्त्वत्र भगवन्त इत्यर्थः । अन्यपरेष्विति विद्याविधिपरेष्वित्यर्थः । अल्पायासं मुक्तेरूपायं ज्ञानं लब्ध्वा बह्वायासं कर्म न कुर्युरित्यत्र दृष्टान्तमाह - अक्व इति ।
समीप इत्यर्थः ॥ अर्क इति पाठेऽप्ययमेवार्थः ॥३॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मविद्यायाः कर्माङ्गत्वे तृतीया श्रुतिरप्यस्तीत्याह -
तच्छ्रुतेरिति ॥४॥ 【भाष्यम्】 【भाष्यम्】 लिङ्गान्तरमाह - समिति ।
तं परलोकं गच्छन्तं विद्याकर्मणी अनुगच्छत इत्यर्थः ॥५॥ गुरोः शुश्रूषारूपं कर्म कुर्वन्नतिशेषेणावशिष्टेन कालेन यथाविधानं वेदमधीत्यानन्तरमाचार्यस्य कुलाद्गृहात् । ब्रह्मचर्यादिति यावत् । अभिसमावर्तनं कृत्वा कुटुम्बे गार्हस्थ्ये स्थितः प्रत्यहं शुचौ देशे स्वाध्यायाध्ययनं कुर्वन्नन्यांश्च नित्यादिधर्माननुतिष्ठन्ब्रह्मलोकं प्राप्नोतीति श्रुत्यर्थः । यथावघातस्तुषविमोकपर्यन्त एवमध्ययनमर्थावबोधान्तम् । दृष्टेर्ऽथावबोधाख्ये फले संभवति अध्ययनस्यादृष्टार्थत्वायोगादिति पूर्वतन्त्रे स्थितम् । ततश्च ब्रह्मापि वेदार्थ इति तदवबेधवतः कर्मविधानमित्यर्थः ॥६॥ 【भाष्यम्】 【भाष्यम्】 यावज्जीवं कर्मनियमोऽप्यत्र लिङ्गमित्याह - नियमाच्चेति ।
इह देहे कर्माणि कुर्वन्नेव शतं संवत्सराञ्जीवितुमिच्छेदेवं कर्मित्वेन जीवति त्वयि नरे कर्म पापं न लिप्यते । इतः कर्मणोऽन्यथा नास्ति । कर्म विना श्रेयो नास्तीत्यर्थः । जरामर्यं जरामरणावधिकमित्यर्थः ॥७॥ 【भाष्यम्】 【भाष्यम्】 कर्तुरधिकस्यासंसार्यात्मनः कर्मशेषत्वाभावात्तत्त्वज्ञानं कर्माङ्गं नेति सिद्धान्तयति - अधिकेति । अस्य महत इति वाक्यशेषात्प्रियसंसूचित आत्मा पर एव द्रष्टव्यः । यः प्राणादि प्रेरयति सोऽप्यशनायाद्यत्ययवाक्यशेषात्पर एव । तथाक्षिपुरुषोऽप्यवस्थासाक्षि परञ्ज्योतिरिति वाक्यशेषात्पर इति विभागः । जीवानुकर्षणमभेदाभिप्रायमित्यङ्गीकारे न विरोध इति कथम्, अभेदे जीवत्वविरोधादित्यत आह - पारमेश्वरमिति ।
ज्ञानं कर्माङ्गमफलत्वे सति कर्मशेषाश्रयत्वादित्युक्तो हेतुरसिद्ध इति भावः ॥८॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मविदां कर्मवत्संन्यासस्यापि दर्शनात्तेषां कर्मदर्शनात्मकं लिङ्गं लोकसंग्रहार्थत्वेनान्यथासिद्धमित्याह - तुल्यं त्विति । किञ्च यस्य कर्म स न ब्रह्मविदित्याह - अपि चेति । तर्हि वैश्वानरविद्यायाः कर्माङ्गत्वं स्यादित्यत आह - नत्विति ।
ब्रह्मविदां लोकसंग्रहार्थं क्रियमाणमपि कर्म न भवति अभिमानाभावेनानधिकारित्वादिति भावः ॥९ ॥ ॥१०॥ 【भाष्यम्】 【भाष्यम्】 समन्वारम्भवचनस्य मुमुक्षुविषयत्वमङ्गीकृत्य विद्या अन्यं मुमुक्षुं मुक्तत्वेनान्वारभत इति विभाग उक्तः सूत्रकृताः । वस्तुतस्तु तन्नास्तीत्याह - न चेदं समन्वारम्भवचनमिति । तत्र संसारिविषये तं विद्येत्यादिवाक्ये यथाप्राप्तानुवादिनि विद्यादिपदार्थमाह - तत्रेति ।
विहितोद्गीथादिविद्या प्रतिषिद्धा नग्निस्त्रीध्यानादिरूपा ॥११॥ 【भाष्यम्】 【भाष्यम्】 यच्चैतदिति । उक्तमिति शेषः । अविद्यत्वाद्वेदार्थज्ञानशून्यत्वादित्यर्थः । मात्रपदमात्मज्ञानस्य व्यावर्तकं न कर्मज्ञानस्येत्याह -
नैष दोष इति ॥१२ ॥ ॥१३॥ 【भाष्यम्】 【भाष्यम्】 नियमवाक्यमज्ञविषयमित्युक्तं विदुषो ज्ञानस्तुत्यर्थं वेत्याह - स्तुतय इति ।
एवं कर्म कुर्वित्यपि त्वयि नरे नेतो विद्यालब्धाद्ब्रह्मभावादन्यथास्ति कर्मणा संसारो नास्तीति यावत् । यतः कर्म न लिप्यते । अपूर्वरूपलेपाय न भवतीत्यर्थः श्रुतेरिति भावः ॥१४॥ 【भाष्यम्】 【भाष्यम्】 स्वेच्छातः कर्मसाधनप्रजादित्यालिङ्गाच्च विद्या स्वतन्त्रफलेत्याह - कामेति । तदेतद्ब्रह्म येषां नोऽस्माकमयमपरोक्ष आत्मा अयमेव लोकः पुरुषार्थस्ते वयं किं प्रजादिना करिष्याम इत्यालोच्य कर्म त्यक्तवन्त इत्यर्थः । नन्वयं लोक इति ज्ञानफलस्य प्रत्यक्षत्वोक्तिरयुक्ता कर्मफलवददृष्टत्वादित्यत आह -
अनुभवेति ॥१५॥ 【भाष्यम्】 【भाष्यम्】 न केवलमनुपयोगाज्ज्ञानस्य कर्मानङ्गत्वं किन्तु कर्मनाशकत्वाच्चेत्याह -
उपमर्दं चेति ॥१६॥ 【भाष्यम्】 【भाष्यम्】 किञ्च कर्मतत्त्वज्ञाने नाङ्गाङ्गिभूते भिन्नाधिकारिस्थत्वाद्राजसूयबृहस्पतिसववदित्याह - ऊर्ध्वेति । त्रयो धर्मस्कन्धाः कर्मप्रधाना आश्रमाश्चतुर्थो ब्रह्मसंस्थ इत्यर्थः । 'ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एव वा अनृणः' इति श्रुतेः । 'ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः' इति स्मृतेश्च प्राप्तगार्हस्थ्यस्यैव निरस्तर्णत्रयस्य पारिव्राज्यमित्यपि शङ्का न कार्या । ब्रह्मचर्यादेव प्रव्रजेदिति द्वितीयमाश्रममिच्छेत्तमावसेदिति च विधिश्रुतिस्मृतिविरोधेन अर्थवादश्रुतिस्मृत्योरविरक्तविषयत्वागमादित्याह - प्रतिपन्नेति ।
तस्मादि ति संन्यासनिष्ठत्वादित्यर्थः ॥१७॥ 【भाष्यम्】 【भाष्यम्】 संन्यासो नास्तीत्याक्षिपति - परामर्शं जैमिनिरिति । ऊर्ध्वरेतः शब्दितं पारिव्राज्यमनुष्ठेयं न वेति मानभ्रान्तिमूलत्वाभ्यां संदेहे भ्रान्तिमूलत्वान्नानुष्ठेयमित्याह - त्रय इति । आश्रमाणामवान्तरभेदापेक्षया बहुवचनम् । तथाच काण्वायनस्मृतिरर्थतोऽनुक्रम्यते । गायत्रो ब्राह्मः प्राजापत्यो बृहन्निति ब्रह्मचारीचतुर्विधः । तत्रोपनयनादूर्ध्वं यस्त्रिरात्रमक्षारालवणाशी गायत्रीमधीते स गायत्रः । यस्तु वेदस्य ग्रहणान्तं ब्रह्मचर्यं चरति स ब्राह्मः । ऋतुकाले स्वदारगामी नित्यं परस्त्रीविमुखः प्राजापत्यः, संवत्सरं वेदव्रतकृद्वटुर्वा प्राजापत्यः । आमरणं गुरुकुलवासी नैष्ठिको बृहन्नित्युच्यते । गृहस्थोऽपि चतुर्विधः वार्ताको यायावरः शालीनो घोरसंन्यसिकश्चेति । तत्र कृषिगोरक्षादिकया वैश्यादिवृत्त्या जीवन्नित्यादिक्रियापरो वार्ताकवृत्तिः । यायावरस्त्वयाचितवृत्तिर्याजनाध्यापनप्रतिग्रहविमुखः । शालीनस्तु षट्कर्मनिरतो याजनादिवृत्तिः संचयी । उद्धृतपरिपूताभिरद्भिः कार्यं कुर्वन्प्रत्यहं कृतोञ्छवृत्तिर्ग्रामवासी घोरसंन्यसिक इत्युच्यते, हिंसाविमुखत्वात् । वानप्रस्थोऽपि चतुर्विधः वैखानस औदुम्बरो वालखिल्यः फेनपश्चेति । तत्राकृष्टपच्यौषधीभिर्ग्रामबहिष्कृताभिरग्निहोत्रादिकुर्वन्वैखानस उच्यते । यस्तु प्रातरुथाय यां दिशं पश्यति तत्रत्यौदुम्बरबदरीनीवारश्यामाकैः कर्मपरः स औदुम्बरः । यस्तु जटावल्कलधारी अष्टौ प्रातसान्वृत्त्युपार्जनं कृत्वा चातुर्मास्ये संगृहीताशी कार्तिक्यां संगृहीतपुष्पफलत्यागी स वालखिल्यः । फेनपास्तु शीर्णपर्णफलवृत्तयो यत्र क्वचिद्वसन्तः कर्मपरा इति । तथा परिव्राजाकाश्चतुर्विधाः कुटीचका बहूदका हंसाः परमहंसाश्चेति । तत्र स्वपुत्रगृहे भिक्षां चरन्तस्त्रिदण्डिनः कुटीचकाः । बहूदकास्तु त्रिदण्डिनः शिक्यजलपवित्रपादुकासनशिखायज्ञोपवीतकौपीनकाषायवेषधारास्तीर्थान्यटन्तो भैक्षं चरन्त आत्मानं प्रार्थयन्ते । हंसास्तु एकदण्डिनः शिखावर्जं यज्ञोपवीतधराः शिक्यकमण्डलुपाणयः ग्रामैकरात्रवासिनः कृच्छ्रचान्द्रायणपराः । परमहंसास्त्वेकदण्डधरा मुण्डा अयज्ञोपवीतिनः त्यक्तसर्वकर्माण आत्मनिष्ठा इति । अत्र पूर्वपक्षे संन्यासाभावाञ्ज्ञानस्य स्वतन्त्रफलत्वासिद्धिः सिद्धान्ते तद्भावात्तत्सिद्धिरिति फलभेदः । स्कन्धा आश्रमाः आत्मानं शरीरमाचार्यस्य कुले गृहे कर्शयन्नैष्ठिक इत्यर्थः । स्कन्धश्रुतावाश्रमा न विधीयन्ते किन्तु ब्रह्मसंस्थतास्तुर्थमनूद्यन्त इत्युक्ते शङ्कते - ननु परामर्शेऽपीति । अनुवादापेक्षितपुरोवादात्प्रतीतिमङ्गीकरोति - सत्यमिति । प्रत्यक्षा स्कन्धश्रुतिरेव पुरोवादोऽस्तु नानुवाद इत्यत आह - स्मृतीति । तयोरपि इयमेव श्रुतिर्मूलमस्तु । कॢप्तश्रुतौ विधिमात्रकल्पनालाघवात् । अस्या अनुवादत्वे तु मूलत्वेन साग्निकानग्निकाश्रमश्रुतिस्तत्र विधिश्चेति द्वयकल्पनागौरवादित्यत आह - अतश्चेति । स्मार्तत्वादाश्रमाः प्रत्यक्षयावज्जीवकर्मविधिश्रुत्यविरुद्धा ग्राह्याः । विरुद्धास्त्वनग्निकाश्रमा उपेक्ष्याः कर्मानधिकृतैरन्धादिभिर्वा अनुष्ठेया इत्यर्थः । यावज्जीवश्रुतिविरोधाल्लाघवं त्याज्यमिति भावः । स्कन्धश्रुतावनुवाद्यत्वाविशेषाद्गार्हस्थ्यवदितरेषामनुष्ठेयत्वमाशङ्क्य तस्य श्रौतत्वादनुष्ठानं नेतरेषामश्रौतत्वादतो ब्रह्मसंस्थतास्तुतिपरमिदं स्कन्धवाक्यमित्याह - नन्वित्यादिना । तन्तुं संततिम् । तथा ये चेति । तेऽर्चिषमभिसंभवन्तीति वाक्यशेषादित्यर्थः । स्कन्धशब्दस्य आश्रमेष्वरूढत्वाच्चात्र नाश्रमिविधिरित्याह - संदिग्धं चेति । तर्हि प्रव्रजन्तीत्याश्रमविधिरीत्यत आह - तथैतमिति । आत्मलोको महीयान् यदर्थमशक्यां प्रव्रज्यामपि कुर्वन्तीति स्तुतिर्वर्तमानापदेशादित्यर्थः । संप्रति पूर्वपक्षमाक्षिप्येयं श्रुतिर्नास्तीतिकृत्वा चिन्त्यत इत्याह -
नन्वित्यादिना ॥१८॥ 【भाष्यम्】 【भाष्यम्】 स्कन्धश्रुतावितराश्रमाः श्रुत्यन्तरविहिता अनूद्यन्ते एतद्वाक्यानुवाद्यत्वाद्गार्हस्थ्यवदिति सिद्धान्तयति - अनुष्ठेयमिति । अनुवादस्य क्वचिद्विधिपूर्वकत्वे दृष्टान्तमाह - यथा चेति । निवीतं मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवानामिति वाक्ये दैवे कर्मण्युपवीतं विधीयते । तत्स्तुतये द्वयमनूद्यते । मानुषक्रियासु देहार्धवस्त्रबन्धनाख्यनिवीतस्य सौकर्यार्ततया प्राप्तत्वात्पित्र्ये कर्मणि प्राचीनावीतस्यापि विध्यन्तरप्राप्तत्वादित्यर्थः । वाक्यान्तरे च साक्षादेव पारिव्राज्यविधिर्विधेयैः साहित्यादित्याह - तथैतमेवेति । अस्येति पारिव्राज्योक्तिः । विधेयवेदानुवचनादिसाहित्यात्पारिव्राज्यस्य विधेयतेत्यर्थः । वाक्यान्तरेऽपि साम्यश्रुतिमाह - ये चेति । अस्येति वानप्रस्थोक्तिः । विधेयपञ्चाग्निविद्यया तानप्रस्थस्य सहोक्त्या तदपि विधेयमित्यर्थः । श्रुतत्रित्वान्यथानुपपत्त्या स्कन्धशब्दस्य आश्रमपरत्वनिश्चय इत्याह - यत्तूक्तमित्यादिना । उत्पत्तिभिन्ना इति ।
यजेताध्येतव्यं दद्यादीति पृथगुत्पन्ना इत्यर्थः ॥१९॥ 【भाष्यम्】 【भाष्यम्】 स्कन्धश्रुतेरनुवादकत्वमङ्गीकृत्य विध्यन्तरकल्पनेनाश्रमा अनुष्ठेया इत्युक्तम् । इदानीं विधित्वं तस्या एव कल्प्यं लाघवादित्याह - विधिर्वेति । यावज्जीवादिश्रुतेरविरक्तविषयत्वान्न लाघवबाधकत्वमिति भावः । अल्पफलत्वेनाश्रमत्रयनिन्दया ब्रह्मसंस्थतास्तुतिपरमेकमिदं वाक्यं भाति । तत्राश्रमविधिचतुष्टयमयुक्तमिति शङ्कते - नन्विति । आश्रमाणां विध्यन्तरप्राप्त्यभावादनुवादायोगात् । स्तुतिलक्षणादोषाच्च वरं विस्पष्टाश्रमविधिभेदकल्पनमपूर्वत्वादित्याह - सत्यमित्यादिना । प्रतीतैकवाक्यत्वभङ्गेन भेदकल्पने दृष्टान्तमाह - धारणवदिति । महापितृयज्ञे प्रेताग्निहोत्रे च स्रुचि प्रक्षिप्तं हविराहवनीयं प्रति यदा नीयते तस्य हविषःऽअधस्तात्समिधं धारयन्ननुद्रवेत्ऽइति विहिताधोधारणस्तावकतयोपरि हीत्यस्यैकवाक्यत्वभानेऽपि दैवे होमे स्रुग्दण्डोपरि समिद्धारणे विधिरेवापूर्वत्वादिति वाक्यभेदस्तृतीयाध्याये जैमिन्याचार्येणोक्त इत्यर्थः । एवं चत्वार आश्रमा विधीयन्त इति पक्ष उक्तः । संप्रत्याश्रमत्रयानुवादेन पारिव्राज्यमेकमेव विधीयत इति पक्षान्तरमाह - यदापीत्यादिना । ब्रह्मसंस्थताविधौ कथं पारिव्राज्यविधिरित्याशङ्क्य विचारयति - सा चेति । ननु त्रय इति वाक्य आश्रमचतुष्टयस्याप्राप्तेर्निर्बीजोऽयं विचार इत्याशङ्क्य तद्वाक्ये परिव्राजकः परामृष्टो न वेति संदिह्याद्ये पूर्वपक्षप्राप्तिमाह - यदि चेति । नन्वनाश्रम्येव ब्रह्मसंस्थः किं न स्यादत आह - अनाश्रमित्वेति । अनाश्रमी न तिष्ठेतेति निषेधादिति भावः । द्वितीये सिद्धान्प्राप्तिमाह - अथेति । एवं परामर्शतदभावाभ्यां संशयमुक्त्वा पूर्वपक्षयति - तत्रेति । वनस्थस्य ह्यसाधारणं कृच्छ्रादिकं तप इति प्रसिद्धम् । तेनैकेन तपः शब्देनोभयग्रहणमन्याय्यं भिक्षोस्तपस्वित्वप्रसिद्ध्याभावाच्च ॥ तथा च यज्ञाद्यसाधारणधर्मद्वारा गृहस्थाद्याश्रमत्रयवद्ब्रह्मसंस्थशब्देनैव ब्रह्मनिष्ठाप्रधानश्चतुर्थाश्रमो गृह्यते । स च स्तुतिसामर्थ्यात्सह ब्रह्मसंस्थया विधीयत इति सिद्धान्तयति - तदयुक्तमित्यादिना । पृथग्व्यपदेशाच्च ब्रह्मसंस्थः पूर्वोक्तेभ्य आश्रमिभ्यः पृथग्भूत इत्याह - अपि चेति । न चावस्थाभेदेन तेषामेव ब्रह्मसंस्था स्यादिति वाच्यम् । कालभेदेनापि सति मन्दप्रज्ञत्वे प्रज्ञाधिक्यवत्सति कर्मित्वे तेषां विक्षिप्तचेतसां ब्रह्मसंस्थानुपपत्तेः । कर्मत्यागे च परिव्राडेव ब्रह्मसंस्थ इत्यस्मदिष्टसिद्धिरिति भावः । इममेवार्थं स्पष्टयितुं शङ्कते - कथं पुनरिति । यद्यपि ब्रह्मसंस्थशब्दः संन्यासाश्रमे न रूढस्तथापि योगात्तमेवोपस्थापयति । अन्याश्रमेषु यौगिकार्थासमवायादित्याह - अत्रोच्यत इति । सर्वकर्मत्यागिनः प्रणवार्थब्रह्मनिष्ठातिरेकेणानुष्ठेयं नास्तीत्यत्र मानमाह - तथा चेति । न्यासः संन्यासो ब्रह्मेति स्तुतौ हेतुमाह - ब्रह्मा हीति । हिरण्यगर्भो हि पर इति प्रसिद्धः अतो ब्रह्मत्वेन स्तुतः संन्यासः पर एवेति स्तुत्वा कर्माणि निन्दति तानीति । ततो न्यास एव ज्ञानद्वारा मोचकत्वादधिक इत्यर्थः । तद्बुद्धये ब्रह्मचित्तास्तदात्मानो ब्रह्मस्वरूपास्तन्निष्ठाः श्रवणादिपरास्तत्परायणाः ब्रह्मप्रेप्सवः निष्कामा इति यावत् । एवं ब्रह्मसंस्थशब्दस्य ज्ञानप्रधानाश्रमवाचित्वादमृतत्वकामस्त्वमुमाश्रममनुतिष्ठेदिति विधिः परिणम्यते । अतो न ज्ञानानर्थक्यदोष इत्युपसंहरति - तस्मादिति । संप्रति कृत्वाचिन्तामुद्धाटयति - अनपेक्ष्येति । शिष्यबुद्धिवैशद्यार्थं स्कन्धश्रुतिमादाय चिन्ता कृतेति भावः । यदिवेतरथेति । ब्रह्मचर्ये स्थितस्यैव पूर्वसुकृतपरिपाकाद्वैराग्यं यदि स्यादित्यर्थः । यदुक्तं कर्मानधिकृतान्धादिविषयः संन्यास इति तन्नेत्याह - न चेति । सामान्यश्रुतेः संकोचहेत्वभावादिति भावः । पृथगिति । संन्यासस्येति शेषः । व्रती गोदानादिवेदव्रतवान् । गुरुकुलान्निवृत्तिरूपस्नानानन्तरमकृतगार्हस्थ्यो गुरुसेवी स्नातकः उत्सन्नाग्निर्विधुरः अगृहीताग्निरनग्निकः प्रव्रजेदित्यन्वयः । सकलाङ्गानमेव कथञ्चित्कर्मानधिकृतानां संन्यासो युक्तः विकलाङ्गानां त्वन्धादीनां न ज्ञानप्रधानसंन्यासाधिकार इत्याह - ब्रह्मेति । दृष्टिपूतसंचारश्रवणादिकं विना ज्ञानानुत्पत्तेः । 'शरीरं मे विचर्षणं जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरिविश्रुवम्' इत्यङ्गसाकल्यप्रार्थनालिङ्गाच्च नान्धपङ्गुमूकबधिरदीनामधिकार इत्यर्थः । तच्चेति ।
पारिव्राज्यस्य ब्रह्मज्ञानाङ्गत्वं चेत्यर्थः । ब्रह्मभूयाय ब्रह्मसाक्षात्कारायेति यावत् ॥२०॥ 【भाष्यम्】 【भाष्यम्】 स्तुतिमात्रम् । पृथिव्यबोषधिपुरुषवागृक्साम्नां सप्तानां रसानां रसतमोऽष्टम उद्गीथावयव ओङ्कारः परमः परमात्मप्रतीकत्वात्परस्य ब्रह्मणोर्ऽधं स्थानं तदर्हतीति परार्ध्यमित्यर्थः । आसु श्रुतीष्वङ्गोपादानादपूर्वार्थत्वाच्च संशयमाह - किमिति । यथानुष्ठेयगार्हस्थ्यसाम्यश्रुतेः पारिव्राज्यस्यानुष्ठेयत्वं तद्वदासां श्रुतीनां जुह्वादिस्तुतिश्रुतिसाम्यात्स्तुतित्वमिति पूर्वपक्षयति - स्तुत्यर्था इति । जुहूरियमेव पृथिवीति स्तूयते । चयनस्थः कूर्म आदित्य इति । आहवनीयः स्वर्गलोक इति स्तुतिः । तथोद्गीथादीनां रसतमत्वादिगुणैः स्तुतिरित्यर्थः । स्तुतिलक्षणातो वरं विधिकल्पनमनुष्ठानफललाभादिति सिद्धान्तयति - न हि स्तुतीति । पूर्वपक्षे स्वननुष्ठानं फलं सिद्धान्ते त्वनुष्ठानं फलमिति मन्तव्यम् । स्तावकत्वेनार्थवत्त्वं किं न स्यादित्यत आह - विधायकस्येति ।
युक्तमियमेव जुहूरित्यादिश्रुतीनां फलवज्जुह्वादिविधिप्रकरणस्थतया स्तावकत्वेनार्थवत्त्वं॑रसतमादिश्रुतीनां तु क्रत्वङ्गविधिप्रकरणस्थत्वाभावात्फलवदपूर्वोपास्तिविधायकत्वमेव युक्तं क्रत्वन्तरश्रुतिवदिति भावः ॥२१॥ 【भाष्यम्】 【भाष्यम्】 किञ्चात्र विधिकल्प्य इति कृत्वाचिन्तयोक्तं वस्तुतस्तु न कल्प्यः कॢप्तत्वादित्याह - भावेति । न चैवमुपासानाविधिस्तावकत्वं रसतमादिश्रुतीनामिति सांप्रतम् । विध्यपेक्षितविषयार्पकत्वसंभवे स्तुतिलक्षणयोगादिति भावः । देवो मदिष्टं कुर्यादिति प्रार्थनादावपि लिङ्गादिप्रयोगादुपासीतेत्यादिशब्दानां कथं विधिपरत्वनिश्चय इत्यत आह - तथा चेति । एतल्लिङ्गादिकं वेदेषूत्सर्गतो नियमेनेष्टसाधनत्वाख्यविधेर्लक्षणं ज्ञापकं स्यात् । उपपदादिबाधके त्वन्यार्थपरमित्यर्थः । तदिदमाह - लिङादीति । न च श्लोके पञ्चममित्युक्तेः पञ्चपदानामेव विधिलक्षणत्वं नोपासीतेत्यादीनामिति भ्रमितव्यम् । क्रियासामान्यवाचिनां कृभ्वस्तीनामुदाहरणेन सर्वधातूपरक्तलिङादीनां विधिलक्षणत्वस्य विवक्षितत्वात्पञ्चमपदं तूक्तापेक्षया श्लोकपूरणार्थं मृत्युर्धावति पञ्चम इतिवत् । यद्यपि डुकृञ्करण इति धातेरेव करणशब्दितभावनाख्यक्रियासामान्यवाचित्वं नेतरयोर्धात्वोर्भू सत्तायामस्भुवीत्यर्थान्तरोक्तेः तथापि जन्माख्यभवनस्य तत्फलस्यास्तित्वस्य च प्रयोज्यनिष्ठस्य प्रयोजकव्यापारात्मकभावनाव्याप्तत्वात्तयोः क्रियासामान्यवाचित्वव्यवहारः । तत्र कुर्यादिति प्रकृत्यर्थभावनाख्यातेनानूद्यते यथा द्वाविति प्रयोगे प्रकृत्यर्थो द्वित्वं प्रत्ययेनानूद्यते । तद्वल्लिङा च तस्या इष्टसाधनत्वाख्यविधिर्बोध्यते । कर्ता तु तयाक्षिप्यत इत्याक्षिप्तकर्तृका भावनोदाहृता । तथा क्रियेतेत्यत्रापि प्रकृतिप्रत्ययार्थौ व्याख्यातौ । कर्मात्र प्राधान्येनाक्षिप्यत इत्याक्षिप्तकर्मिकाभावनोदाहृता । आख्यातानां कर्त्रादिकारके शक्त्य भावात्कर्तृकर्मणोराक्षेप एवेति मीमांसकमतम् । कर्तव्यमिति कृत्यप्रत्ययेन कर्मकारकमुच्यते । तस्योपसर्जनत्वेन प्रकृत्या भावनोक्तेति भेदः । तथा दण्डी भवेत्भूयते दण्डिना भवितव्यमित्युदाहर्तव्यम् । तथा स्याद्भूयेत भवितव्यमित्यस्तिधातोरप्युदाहरणं द्रष्टव्यम् । अस्तेर्भूरादेशात् । एतद्धातुत्रयोपरक्तलिङादिभिः सर्वधात्वर्थोपरक्तभावनागतेष्टसाधानत्वरूपो विधिरेक एवोच्यते । धातूनां प्रत्ययानां कर्त्रादिकारकाणां च भेदेऽपि विधिभेदो नास्तीति ज्ञापनार्थं प्रतिधातूदाहरणत्रयं दर्शितमिति सर्वमवदातम् । एवं सूत्रे भावो विधिरिति व्याख्याय चशब्दात्फलमिति व्याचष्टे - प्रतिप्रकरणमिति ।
एष ऋत्विगुपासकः कामागानस्य गानेन फलसंपादनस्येष्टे समर्थ इत्यर्थः । एवमङ्गाश्रितविद्या अपि स्वतन्त्रफलाः किमु वक्तव्यमनङ्गात्मविद्यायाः स्वातन्त्र्यमिति । आत्मविद्यास्वातन्त्र्यो चिन्ताया अस्याः पर्यवसानात्पादसंगतिर्बोध्याः ॥२२॥ 【भाष्यम्】 【भाष्यम्】 पारिप्लवार्थाः । अश्वमेधे पुत्रादिपरिवृताय राज्ञे पारिप्लवमाचक्षीतेति नानाविधाख्यानकथनात्मकः पारिप्लवप्रयोगो विहितः । तथा च वेदान्तस्थकथानामाख्यानत्वसामान्याद्विद्यासंनिधानाच्च संशयमाह - किमिति । पूर्वं स्तुत्यपेक्षया विझिर्ज्यायाननुष्ठानलाभादित्युक्तम् । तथैव कथानां न विद्यास्तावकत्वं पारिप्लवानुष्ठानलाभादिति पूर्वपक्षः । तत्र फलमाह - ततश्चेति । यथा देवस्य त्वा सवितुरित्यादिमन्त्रे कस्यचित्पदस्य प्रयोगसमवेतार्थतया शेषस्य प्रयोगाङ्गत्वं तथा वेदान्तस्थकथानां प्रयोगशेषत्वम् । तदेकवाक्यतया सर्ववेदान्तानां कर्मशेषत्वान्न विद्याप्राधान्यमित्यर्थः । कथानां गुरुशिष्यसमाचारप्रदर्शनेन बुद्धिसौकर्यद्वारा संनिहितविद्याशेषत्वं सामर्ध्यलिङ्गादतो विद्याप्राधान्यमिति फलं मत्वा सिद्धान्तयति - तन्नेत्यादिना ।
अश्वमेधे प्रथमऽहनि मनुर्वैवस्वत इति कथां ब्रूयाद्द्वितीयेऽहनि यमो वैवस्वत इति तृतीयेऽहनि वरुण आदित्य इति वाक्यशेषे कथानां विशिष्योक्तत्वादुपक्रमस्य संकोचो युक्त इति भावः ॥२३॥ 【भाष्यम्】 【भाष्यम्】 क्व तर्हि कथानांविनियोग इत्याशङ्क्य संनिधानाद्विद्यास्वित्याह - तथा चेति ।
प्ररोचनं प्रीतिजननं स प्रजापतिर्वपामुदखिदथोमायोद्धृतवानित्यस्य प्राजापत्यमजं तूपरमालभेतेति विधिशेषत्वे एवमन्येषां तत्तद्विधिशेषत्वं द्रष्टव्यम् ॥२४॥ 【भाष्यम्】 【भाष्यम्】 एवमाद्याधिकरणप्रमेयं विद्यास्वातन्त्र्यमधिकरणत्रयेण दृढीकृत्याद्याधिकरणस्य फलमाह - अत एव चेति । ब्रह्मविद्या स्वफले मोक्षे जनयितव्ये सहकारित्वेन कर्माण्यपेक्षते न वेति वादिविवादात्संशये तेनैति ब्रह्मवित्पुण्यकृत्तैजस इत्यादिश्रुत्या ज्ञानकर्मसमुच्चयेन मोक्षप्राप्तिकथनादपेक्षत इति प्राप्ते विद्याया मुक्तिहेतुत्वादविद्यानिवृत्त्याख्यमुक्तौ न कर्मापेक्षेति सिद्धान्तयति - पुरुषार्थ इति । अग्नीन्धनपदेन तत्साध्यकर्माणि लक्ष्यन्ते । पुण्यकृत्तैजसः शुद्धसत्वे ब्रह्मविद्भूत्वा तेन वेदनेनैति ब्रह्म प्राप्नोतीति श्रुतिर्व्याख्येयेति भावः । मुक्तावेव कर्मणामसामर्थ्यादनपेक्षा विद्यायां त्वस्ति चित्तशुद्धिद्वारा तेषामपेक्षेत्यधिकं वक्तुमयमुपसंहार इत्युपसंहारसूत्रस्य फलमाह -
अधिकेति ॥२५॥ 【भाष्यम्】 【भाष्यम्】 अधिकमाह - सर्वापेक्षा । यथा प्रमाफलत्वादविद्यानिवृत्तौ कर्मानपेक्षा तथा प्रमात्वाद्विद्यायामपि प्रमाकरणमात्रसाध्यायां नास्ति कर्मापेक्षेति पूर्वपक्षः । तत्र विद्यार्थं कर्मानुष्ठानासिद्धिः । फलं सिद्धान्ते तत्सिद्धिरिति भेदः । अत्र विविदिषायामिष्यमाणज्ञाने वा यज्ञादीनां कर्मणां हेतुत्वमपूर्वत्वाद्विधीयते । प्रमाया अप्युत्पत्तिप्रतिबन्धकदुरितक्षयाख्यशुद्धिद्वारा कर्मसाध्यत्वसंभवात् । नच पारंपर्ये तृतीयाश्रुतिविरोधः । ज्वालाद्वारा पारंपर्येऽपि काष्ठैः पचतीति प्रयोगात्, द्वारस्याव्यवधायकत्वात् । न च शुद्धेर्द्वारत्वे मानाभावः । 'ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते' इति स्मृतेः । 'अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते' इत्यादिश्रुत्या कर्मणा पापनिवृत्तौ ज्ञानेन मुक्त्यभिधानाच्चेति सिद्धान्तयति - इदमिति । नन्वत्र विविदिषन्तीति पञ्चमलकारेण विविदिषां भावयेयुरिति सनर्थेच्छैव भाव्यतया भाति । तां विषयसौन्दर्यलभ्यतयोल्लङ्घ्य वेदनं चेद्भाव्यमुच्यते तर्हि वेदनमप्युल्लङ्घ्य तत्फलं मोक्ष एव कर्मभिर्भाव्यः किं न स्यादित्यत आह - विविदिषासंयोगाच्चेति । इष्यमाणतया विद्यायाः शब्दतः फलत्वभानादश्रुतमोक्षो न फलमन्यथा काष्ठैः पचतीत्यत्रापि काष्ठानां पाकफलतृप्तिहेतुत्वप्रसङ्गादिति भावः । कर्मणां ज्ञानार्थत्वे लिङ्गवाक्यान्याह - अथेत्यादिना ।
कश्चिद्वेदभागः साक्षाद्ब्रह्माख्यं पदं ब्रूते । कश्चित्तु ज्ञानार्थकर्मद्वारेति मत्वा सर्वे वेदान्ता इत्युक्तम् । स्पष्टमन्यत् ॥२६॥ 【भाष्यम्】 【भाष्यम्】 एवं विद्योत्पत्तौ बहिरङ्गानि कर्माण्युक्त्वान्तरङ्गाण्याह - शमेति । विद्यास्तुत्यर्थत्वेनैकवाक्यत्वसंभवे वर्तमानोक्तिभङ्गेन विधिकल्पनमयुक्तं विद्यावाक्याद्भेदप्रसङ्गात् । अतस्तत्त्वमसीति शब्दमात्रलभ्या विद्येति पराभिप्रायमनूद्याङ्गीकरोति - तथापि त्विति । शमादेरावश्यकत्वान्न शब्दमात्रलभ्या विद्येत्यर्थः । यस्मादेवंविन्न लिप्यते कर्मणा पापकेन तस्मादेव विद्यार्थी शमाद्युपेतो भूत्वा विचारयेदिति विधिर्गम्यत इत्याह - नेति ब्रूम इति । अत्रोपरतपदेन संन्यास उक्तस्तस्य श्रवणाङ्गत्वमते शमादिविशिष्टश्रवणमत्र विधीयते । यदि तुऽलोकमिच्छन्तः प्रव्रजन्तिऽ,ऽज्ञानं पुरस्कृत्य संन्यसेत्ऽइत्यादि श्रुतिस्मृतिषु फलवत्त्वेनोत्पन्नसंन्यासस्याङ्गत्वायोगात्, श्रोतव्य इति विहितश्रवणानुवादेनानेकशमादिविधाने वाक्यभेदापातात्, पश्येदिति च प्रकृत्या श्रवणलक्षणादोषाच्च संन्यासो न श्रवणस्याङ्गं किन्तु ततः प्रागनुष्ठोयत्वेऽपि श्रवणवज्ज्ञानार्थ इति मतं तदा शमादिसमुच्चयेन ज्ञानं भावयेदिति ज्ञानार्थं शमादिसमुच्चयविधिरित्यनवद्यम् । यः पूर्वं यज्ञादिश्रुतेः स्तुत्यर्थत्वाङ्गीकारः आपाततो गुडजिह्विकान्यायेन शमादिस्वीकारार्थं कृतस्तमिदानीं त्यजति - यज्ञादीन्यपीति । यज्ञादीनां विद्यासाधनत्वरूपसंयोगस्यापूर्वत्वादवान्तरवाक्यभेदेन विधिः स्वीक्रियत । ब्रह्मविद्यावाक्येन महावाक्यैकवाक्यता चेत्यर्थः । परमप्रकरणेऽप्यवान्तरविधिरित्यत्र पूर्वतन्त्रसंमतिमाह - तस्मात्पूषेति । दर्शपूर्णमासप्रकरणे श्रुतं पूषा प्रपिष्टभाग इति । तत्र पूषा देवता पिष्टभागो वा दर्शपूर्ममासयोर्नास्ति । अतः समासात्प्रतीतस्य कालत्रयानवमृष्टस्य द्रव्यदेवतासंबन्धस्याविनाभावेन यागविध्युपस्थापकत्वात्प्रयोगज्ञानाय विधिपदमध्याहृत्य प्रकरणादुत्कर्षेण पूषोद्देशेन पिष्टभागः कर्तव्य इति विकृतौ संबन्धः । पौष्णं पेषणमिति सूत्रे विचारितमित्यर्थः । 'स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः' इत्याद्याः स्मृत्यः । कर्मणां ज्ञानहेतुत्वे शमादिवद्यावज्ज्ञानोदयमनुवृत्तिः स्यात्तथाच संन्यासाभाव इत्यत आह - तत्रापीति ।
दृष्टविक्षेपनिवृत्तिद्वारा शमादीनां शानार्थत्वादनुवृत्तिर्न कर्मणामदृष्टद्वारा ज्ञानार्थत्वादिति भावः ॥२७॥ 【भाष्यम्】 【भाष्यम्】 सर्वान्नानुमतिः । एवंविदि प्राणस्यान्नं सर्वमिति ध्यानवतीत्यर्थः । जग्धं भक्षितम् । अपूर्वत्वाद्विध्यश्रुतेश्च संशयः । अपूर्वत्वाद्यज्ञादिवद्विधिः कल्प्य इति इति पूर्वपक्षयति - विधिरिति । अत्र भक्ष्याभक्ष्यनियमत्यागस्य विद्याङ्गत्वसिद्धिः फलं सिद्धान्ते तु विद्यास्तुतिरिति विवेकः । न कलञ्जं भक्ष्येदिति शास्त्रं प्राणविद्व्यतिरिक्तविषयम् । यथा ग्राम्यकर्मणि वामदेव्यसामोपासकव्यतिरिक्तविषयं परस्त्रीनिषेधशास्त्रं तद्वदिति प्राप्ते सिद्धान्तं सूत्राद्बहिरेव दर्शयति - नेदमिति । प्राणविद्याविधिसंनिधेरशक्यत्वाच्च स्तुतिरेव न विधिः कल्प्यः निषेधशास्त्रविरोधात्कॢप्तो हि विधिः सामान्यशास्त्रबाधको नतु कल्प्य इति भावः । स्वस्थस्य प्राणविदो न सर्वान्नानुमतिरित्यत्र लिङ्गं वदन् सूत्रं योजयति - तद्दर्शयतीति ।
मटच्यो रक्तक्षुद्रपक्षिणस्तैर्हतेषु कुरुदेशस्थसस्येषु दुर्भिक्षे जाते बालया सह जायया मुनिर्देशान्तरं गच्छन्निभ्याग्रामे स्थितवानिभ्यो हस्तिपालकस्तेन सामिखादितानर्धभक्षितान् कुत्सितमाषान् याचयित्वा भक्षितवान् । इभ्वेन जलं गृहाणेत्युक्ते सत्युच्छिष्टं वै मे पीतं स्यादिति प्रतिषिध्य माषाः किं नोच्छिष्टा इतीभ्येनोक्ते सति माषभक्षणे जलत्यागे च कारणमुवाच । अन्नांशे मम आपदस्ति । जलपानं तु स्वेच्छातस्तडागादौ लभ्यत इति माषान् खादित्वावशिष्टाञ्जायायै दत्तवान् । सा चानापद्गता पत्युरापदं ज्ञात्वा माषान्संरक्ष्य प्रातस्तस्मै ददौ । स च तान् खादित्वा राज्ञो यज्ञं गत्वा प्रस्तोत्रादीनाक्षिप्य प्राणादिकां प्रास्तावादिदेवतामुपदीश्य धनं प्राप्य स्थित इति भावः । अत्रोच्छिष्टभक्षणजलत्यागात्मकशिष्टाचारलिङ्गाच्छ्रौतादनापदि विदुषाप्यभक्ष्यं न भक्षणीयमिति सूच्यत इति भावः ॥२८ ॥ ॥२९॥ 【भाष्यम्】 【भाष्यम्】 सुरापानेनापि जीवनमाशङ्क्य कदापि तन्न कार्यमित्याह - तथा मद्यं नित्यं ब्रह्मण इति । वर्जयोदिति शेषः । कुत इत्याशङ्क्य मरणान्तप्रायश्चित्तविधानादित्याह - सुरापस्येति । उष्णामतितप्तां सुरामिति शेषः । इतश्च सा न पेयेत्याह -
सुरापा इति ॥३०॥ 【भाष्यम्】 【भाष्यम्】 उदाहृतस्मृतीनां मूलश्रुतिमाह - शब्दश्चेति ।
कामकारो यथेष्टप्रवृत्तिः सोऽपि निषेधोऽपि उपपन्नतरो भवति । न ह वा एवंविदीत्यस्यार्थवादत्वात् । यद्ययमपि विधिः स्यात्तर्हि विहितप्रतिषिद्धत्वात्षोडशिग्रहणाग्रहणवत्सुरापाने विकल्पः स्यात्स च सर्वस्मृतिभिः शिष्टाचारेण च विरुद्ध इति तात्पर्यार्थः ॥३१॥ 【भाष्यम्】 【भाष्यम्】 विहितत्वाच्चाश्रमकर्मापि । नित्याग्निहोत्रादिकर्मसु विहितत्वाद्विनियुक्तविनियोगविरोधाच्च संशये शास्त्रान्तरविरोधात्सर्वान्नत्वोक्तेः स्तुतित्ववन्नित्यविनियुक्तत्वश्रुतिविरोधाद्विविदिषायां विनियोगश्रुतेः स्तुतित्वमिति पूर्वपक्षमाह - तत्रेति ।
ज्ञानकामनयानुष्ठाने कर्मणामनित्यत्वमनावश्यकत्वम् । तस्या अनित्यत्वाद्यावज्जीवादिविधिना तु नित्यत्वं चेति विरुद्धधर्मद्वयापाताद्विविदिषाश्रुतेः स्तुतित्वमिति फलं पूर्वपक्षे । सिद्धान्ते तूभयथानुष्ठानं फलम् ॥३२॥ 【भाष्यम्】 【भाष्यम्】 सह मिलित्वा शुद्धिद्वारा विद्यां कुर्वन्तीति सहकारीणि कर्माणि । तेषां भावस्तत्वं तेनेत्यर्थः । विद्यया सह फलकारित्वं सहकारिपदात्प्राप्तं निरस्यति - न चेदमिति ।
विद्याया अविहितत्वान्नाङ्गपेक्षास्ति । अतो विहितानि कर्माणि अविहिताया न सहकार्यङ्गानि मोक्षस्यासाध्यत्वाच्च न कर्माणां सहकारित्वसंभव इत्यर्थः । तुल्यबलश्रुतिद्वयेन विनियोगपृथक्त्वं संयोगभेदस्ततो न विरोधः । कामनाया अनित्यत्वेऽपि कर्मणां नानित्यत्वं नित्यविधिना प्रयोगस्य नित्यत्वात् । सत्यां कामनायां काम्यप्रयोगेनैव नित्यत्वसिद्धेर्न कश्चिद्विरोधः । इदञ्चऽएकस्य तूभयत्वे संयोगपृथक्त्वम्ऽइति सूत्रे चिन्तितम् । यथाऽखादिरो यूपो भवतिऽइति श्रुत्या खादिरत्वस्य क्रत्वर्थता खादिरं वीर्यकामस्येति श्रुत्या पुरुषार्थता चेति । अतः सति वाक्यद्वये विनियुक्तविनियोगो न विरुध्यत इत्यर्थः ॥३३॥ 【भाष्यम्】 【भाष्यम्】 ननु नित्याग्निहोत्रादिभ्यो भिन्ना एवापूयर्वज्ञादयो विविदिषायां विनियुज्यन्तां तत्र कुतो विनियुक्तविनियोगस्तत्राह - सर्वथापीति । नित्यत्वे काम्यत्वे चेत्यर्थः । कुण्डपायिनामयने मासमग्निहोत्रं जुह्वतीत्याख्यातस्य साध्यहोमवाचित्वात्तदेकार्थकाग्निहोत्रपदस्य व्यवहितसिद्धाग्निहोत्रपरामर्शकत्वायोगान्मासगुणविशिष्टं कर्मान्तरं विधीयत इति युक्तमिह तु यज्ञेनेत्यादि सुबन्तानामाख्यातेनैकार्थत्वाभावात्सिद्धव्यवहितकर्मानुवादकत्वात्तेषामेव कर्मणां ज्ञानार्थत्वविधिरिति भावः । सिद्धकर्मसु संस्कारत्वप्रसिद्धिरपि शुद्धाख्यसंस्कारद्वारा ज्ञानार्थककर्माभेदे लिङ्गमित्याह -
यस्यैत इति ॥३४॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मचर्यादिकर्मणां प्रतिबन्धध्वंसद्वारा विद्यार्थत्वे लिङ्गमाह -
अनभिभवं चेति ॥३५॥ 【भाष्यम्】 【भाष्यम्】 अन्तरा चापि तु तद्दृष्टेः ।
अनाश्रमिणां जपादिकर्मसत्त्वान्निन्दितत्वाच्च संशये सति आश्रमकर्मणामेव विद्याहेतुत्वश्रुतेरनाश्रमस्य निन्दितत्वाच्चानधिकार इति पूर्वपक्षः । तत्रानाश्रमकर्मणां विद्याहेतुत्वासिद्धिः । सिद्धान्ते तत्सिद्धिरिति फलम् ॥३६ ॥ ॥३७॥ 【भाष्यम्】 【भाष्यम्】 रैक्वादीनां विद्यावत्त्वलिङ्गस्य जन्मान्तराश्रमकर्मणान्यथासिद्धेरनाश्रमकर्मणो विद्यार्थत्वप्रापकं मानान्तरं वाच्यमिति शङ्कते - ननु लिङ्गमिति । अनाश्रमित्वाविरुद्धानां वर्णमात्रप्राप्तधर्माणां विद्यार्थत्वे मानमाह - तथा चेति । मैत्रो दयावानित्यर्थः । नन्वनाश्रमिणां कर्म भवतु विद्याहेतुस्तथापि तेषां न श्रवणादावधिकारः संन्यासाभावादित्यत आह - दृष्टार्था चेति ।
बन्धकाज्ञानध्वस्तिफलकविद्याकामस्य श्रवणेऽधिकारः । संन्यासोऽपि कदाचित्कृतो ज्ञान उपकरोति श्रवणं प्रत्यनङ्गत्वादिति भावः ॥३८॥ 【भाष्यम्】 【भाष्यम्】 तर्ह्याश्रमित्वं वृथेत्यत आह - अतस्त्विति ।
पुण्यकृत्तैजसः शुद्धसत्वस्तेन ज्ञानमार्गेणैति ब्रह्म प्राप्नोतीत्यर्थः ॥ अत्र पुण्यकृत्त्वलिङ्गादाश्रमित्वं ज्यायः पुण्योपचये शीघ्रं विद्यालाभादनाश्रमस्य निन्दितत्वाच्चेति भावः ॥३९॥ 【भाष्यम्】 【भाष्यम्】 तद्भूतस्य तु । उत्तमाश्रमात्पूर्वाश्रमं प्राप्तस्य प्रच्युतस्य कर्मापि विद्याहेतुरनाश्रमिकर्मवदिति संगतिः, पूर्वपक्षफलं चैतत् । सिद्धान्ते तु भ्रष्टस्य कर्म न हेतुरिति फलम् । रागादिप्राबल्यात्प्रच्युतिनिषेधाच्च प्रच्युतिः प्रामाणिकी न वेति संशयः । सिद्धान्तसूत्रे नियमं व्याचष्टे - तथा हीति । अत्यन्तमिति नैष्ठिकत्वनियमः । अरण्यमित्येकान्तोपलक्षितं पारिव्राज्यं गृह्यते । तदियाद्गच्छेदिति पदं शास्त्रमार्गस्ततस्तस्मात्पारिव्राज्यान्न पुनरेयान्न प्रच्यवेदिति उनिषद्रहस्यमित्यर्थः । अतद्रूपं प्रच्युतौ प्रमाणाभावं व्याचष्टे - यथा चेति । शिष्टाचाराभावमाह - न चैवमिति ।
'चण्डालाः प्रत्यवसिताः' इति स्मृतेश्च पतितानां कर्म निष्फलमिति भावः ॥४०॥ 【भाष्यम्】 【भाष्यम्】 न चाधिकारिकम् । अवकीर्येत व्यभिचरेदित्यर्थः । अवकीर्णं योनौ निषिक्तं रेतोऽस्यास्तीत्यवकीर्णी । अत्र प्रच्युतस्य प्रायश्चित्तं स्यान्नवेति उपपातकत्वात्पतनस्मृतेश्च संशयः । प्रच्युतस्य यज्ञादिकं निष्फलमित्युक्तं तद्वत्प्रायश्चित्तमापि निष्फलमिति पूर्वपक्षयति - नेत्युच्यत इति ।
अत्र कृतप्रायश्चित्तस्य कर्म ज्ञानहेतुर्न भवतीति फलं सिद्धान्ते तु भवतीतिदः । यथोपनयनकाले होमो लौकिकाग्नावेव कार्यः । दारसंबन्धोत्तरकालविहिताधानस्य संप्रत्यप्राप्तकालत्वेनाहवनीयाभावात्तद्वदवकीर्णिनो ब्रह्मचारिणः प्रायश्चित्तपशुर्गर्दभो लौकिकाग्नौ होतव्य इत्यधिकारलक्षणे षष्ठाध्याये निर्णीतं प्रायश्चित्तमाधिकारिकं तदुपकुर्वाणस्यैव न नैष्ठिकस्येति प्राप्ते सिद्धान्तयति ॥४१॥ 【भाष्यम्】 【भाष्यम्】 उपपूर्वमिति । उपपदं पूर्वं यस्य पातकस्य तदुपपातकमित्यर्थः । ऽप्रायश्चित्तं न पश्यामिऽइति दर्शनाभावस्मृतेः प्रायश्चित्ताभावापरत्वं कल्पयित्वा तन्मूलश्रुतिकल्पनात्प्रागेव कॢप्तसाधारणश्रुत्या प्रायश्चित्तसद्भावसिद्धेः । कल्पनं नोदेति कॢप्तश्रुतिविरोधादिति भावः । प्रायश्चित्तस्य भावाभावसिद्ध्योः समत्वेऽपि भावप्रसिद्धिः श्रुतिमूलत्वादादर्तव्येत्यत्र संमतिमाह - तदुक्तमिति । यवमयश्चरूरित्यत्र यवशब्दङ्केचिद्दीर्घशूके प्रयुञ्जते केचिद्देशविशेषे प्रियङ्गुषु । अतः कस्य चरुः कार्य इति संदेहे वृद्धप्रयोगसाम्यात्समा तुल्या विकल्पेन प्रतिपत्तिः स्यादिति प्राप्ते सिद्धान्तःशास्त्रमूला प्रतिपत्तिर्ग्राह्या शास्त्रनिमित्तत्वाद्धर्मादिज्ञानस्य । तथाचऽयदान्या ओषधयो म्लायन्त्यथैते यवा मोदमानास्तिष्ठन्ति, इति शास्त्रमूलत्वाद्दीर्घशूकप्रयोगस्यैवादर इत्यर्थः । स्मृतेर्गतिमाह - प्रायश्चित्तेति । ब्रह्मचर्यरक्षार्थं यत्नाधिक्यं कार्यमिति ज्ञापनार्थं प्रायश्चित्तं स्पष्टमपि न पश्यामीत्युक्तं भगवदत्रिणेत्यर्थः । नैष्ठिकवद्यतिवनस्थयोरपि प्रमादाद्ब्रह्मचर्यभङ्गे प्रायश्चित्तमस्तीत्याह - एवमिति ।
कृच्छ्रं प्राजापत्यं महाकक्षं बहुतृणकाष्ठदेशं जलदानादिना वर्धयेत । यतिस्तु सोमलतावर्जं वर्धयेत् । ऽसर्वपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् । भूयस्तपस्वी भवति पङ्क्तिपावन एव च । उपापातकसङ्घेषु पातकेषु महत्सु च । प्रविश्य रजनीपादं ब्रह्मध्यानं समाचरेत् ॥ ऽइत्यादिस्वशास्त्रविहितध्यानप्राणायामादिसंस्कारोऽपि भिक्षुणा कार्य इत्यर्थः । आदिपदात्ऽमनोवाक्कायजान्दोषानज्ञानोत्थान्प्रमादजान् । सर्वान्दहति योगाग्निस्तूलराशिमिवानलः । नित्यमेव तु कुर्वीत प्राणायामांस्तु षोडश । अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः । ऽइत्यादिवाक्यं ग्राह्यम् ॥४२॥ 【भाष्यम्】 【भाष्यम्】 बहिस्तूभयथापि । कृतप्रायश्चित्तैस्तैः सह कृतश्रवणादिकं ज्ञानसाधनं न वेति संदेहे तेषां शुद्धत्वात्साधनमिति प्राप्ते प्रायश्चित्तात्परलोके तेषां शुद्धत्वेऽप्यत्र शुद्धभावान्न साधनमिति सिद्धान्तयति - यद्यूर्ध्वेति ।
सुगमं भाष्यम् ॥४३॥ 【भाष्यम्】 【भाष्यम्】 स्वामिनः फलश्रुतेः । अङ्गाश्रितोपास्तिषूभयकर्तृकत्वसंभवात्संशयः । यः कृतप्रायश्चित्तः स संव्यवहार्य इत्युत्सर्गस्य निन्दातिशयस्मृत्या नैष्ठिकादिषु बाधवद्यो यदङ्गकर्ता स तदाश्रितस्य कर्तेत्युत्सर्गस्य कर्तुः फलश्रुत्या बाध इति पूर्वपक्षमाह - किमिति । अत्र कर्तृत्वभोक्तृत्वयोरैकाधिकरण्यं फलं सिद्धान्ते त्वङ्गाश्रिता ऋत्विक्कर्तृका अप्युपास्तयो यजमानगामिस्वतन्त्रफलाः किमु वाच्यं स्वनिष्ठब्रह्मविद्यायाः स्वातन्त्र्यमिति फलं विवेक्तव्यम् । अतः पादसंगतिः हिङ्कारप्रस्तावोद्गीथप्रतिहारनिधनाख्यपञ्चप्रकारे साम्नि वृष्टिध्यातुर्वर्षसमृद्धिः फलमिति श्रुत्यर्थः । श्रुतं फलमृत्विग्गतं किं न स्यादित्यत आह - तच्चेति । यथासाङ्गक्रत्वधिकृताधिकारत्वाद्गोदोहनस्य फलं क्रत्वधिकारिगतं तद्वदङ्गोपासनस्यापि फलं तद्गतमेवेत्यर्थः । अस्तु तस्य फलं तद्गतं कर्तात्वन्यः किं न स्यादित्यत आह - फलं चेति । यदुक्तं यजमानागामि फलमिति तस्यापवादं शङ्कते - नन्विति ।
उद्गानेन साधयतीत्यर्थः । याजमानं फलमित्युत्सर्गस्यासति बाधकवचने सिद्धिरिति समाध्यर्थः । तस्मात्फलभोक्तृत्वादित्यर्थः ॥४४॥ 【भाष्यम्】 【भाष्यम्】 उपासनमार्त्विज्यमृत्विक्कर्तृकमित्यत श्रौतं लिङ्गमाह - तथा चेति ।
तमुद्गीथाख्यं प्रणवं प्राणदृष्ट्या ध्यातवान्ध्यात्वा च नैमिशीयानां सत्रिणामुद्गातासीदित्यर्थः । यजमानेन स्वगामिफलकसाङ्गप्रयोगकरणायर्त्विजां क्रीतत्वात्कर्तृत्वेऽपि न तत्फलभाक्त्वमुत्सर्गस्य बाधकाभावादित्युक्तत्वात् । क्रयणद्वारा कर्तृत्वभोक्तृत्वसामानाधिकरण्यं चोपपद्यते भृत्यकर्तृके युद्धे राजा युध्यते जयति चेतिवदिति भावः ॥४५ ॥ ॥४६॥ 【भाष्यम्】 【भाष्यम्】 सहकार्यन्तरविधिः । यस्मात्पूर्वे ब्राह्मणा आत्मानं विदित्वा संन्यस्य भिक्षाचर्यं चरन्ति तस्मादद्यतनोऽपि ब्राह्मण आपातज्ञानरूपपण्डावान्पण्डितस्तस्य कृत्यं पाण्डित्यं श्रवणं तन्निर्विद्य निश्चयेन लब्ध्वा बाल्येन श्रवणजज्ञानस्य बलभावेन मननेनासंभावनानिरासेन बालस्य भावेन वा शुद्धचित्तत्वेन स्थातुमिच्छेदेवं मननश्रवणे कृत्वादानन्तरं मुनिर्निदिध्यासनकृत्स्यादेवममौनं च मौनादन्यद्बाल्यपाण्डित्यद्वयं मौनं च निदिध्यासनं लब्ध्वा अथ ज्ञानसामग्रीपौष्कल्यानन्तरं ब्रह्माहमिति साक्षात्कारवान् ब्राह्मणो भवतीत्यर्थः । मौनशब्दस्य सिद्धरूपे पारिव्राज्ये अनुष्ठेये च ध्याने प्रयोगात्संशयः । यथा तं ह बक इत्यादिवाक्यशेषादुद्गीथाद्युपासनस्यार्त्विज्यत्वनिर्णयस्तद्वदथ ब्राह्मण इति विधिहीनवाक्यशेषान्मौनस्याप्यविधेयत्वनिश्चय इति पूर्वपक्षमाह - न विधीयत इति । अत्र ध्यानस्याननुष्ठानं सिद्धान्ते त्वनुष्ठानमिति फलम् । यदि मौनं पारिव्राज्यं तदा वाक्यान्तरप्राप्तमनूद्यते बाल्यविधिप्रशंसार्थम् । यदि ज्ञानं तदा पाण्डित्यशब्दात्प्राप्तमिति पूर्वपक्षग्रन्थार्थः । मुनिशब्दाद्विज्ञानातिशयः प्रतीयते तस्य ज्ञानमात्रवाचिपाण्डित्यशब्दान्न प्राप्तिः । नापि मुनिशब्दः परिव्राड्वाचकः वाल्मीक्यादिषु प्रयुज्यमानत्वात् । तस्मादप्राप्तं मौनमपूर्वत्वाद्विधिं कल्प्यतीति सिद्धान्तयति - एवमित्यादिना । आपस्तम्बप्रयोगस्य गतिमाह - इतराश्रमेति । किञ्चामौनं च मौनं च निर्विद्येति श्रवणमननवदनुष्ठेयत्वोक्तेर्मौनस्य विधेयतेत्याह - निर्वेदनीयत्वेति । न च त्रयाणां विधाने वाक्यभेदो दोषः । उपरिधारणवदिष्टत्वात्तद्वाक्यभेदस्येति भावः । कस्येदं ध्यानं विधीयत इत्याह - तद्वत इति । आत्मानं विदित्वेति परोक्षज्ञानवतः संन्यासिनः प्रकृतत्वादित्यर्थः । सूक्ष्मार्थसाक्षात्कारसाधनत्वेन ध्यानादेः षड्जादौ लोकतः प्राप्तिं शङ्कित्वा नियमविधिमाह - नन्वित्यादिना । ननु ब्रह्मविद्यापरे वाक्ये कथं ज्ञानाङ्गमिति चेत्सफलक्रतुपरवाक्येऽङ्गविधिवदित्याह - विध्यादिवदिति ।
प्रधानमारभ्याङ्गपर्यन्तो विधिः । तत्र प्रधानः क्रतुर्विध्यादिरत एवाङ्गं विध्यन्त इत्युच्यत इत्यर्थः । एतत्सूत्रभाष्यभावानभिज्ञाः संन्यासाश्रमधर्मश्रवणादौ विधिर्नास्तीति वदन्ति । विधौ ह्यप्राप्तिमात्रमपेक्षितं तच्च भेददर्शनप्राबल्याद्दर्शितमिति संप्रदायविदः ॥४७॥ समावर्तनानन्तरं कुटुम्बे स्थितो ब्रह्मलोकं प्राप्नोति नच पुनरावर्तत इत्युपसंहारात्संन्यासो नास्तीति शङ्कार्थः । आयासविशिष्टकर्मबाहुल्याद्गृहिणोपसंहारः कृतो न संन्यासाभवादिति समाध्यर्थः ॥४८॥ 【भाष्यम्】 【भाष्यम्】 संन्यासगार्हस्थ्यद्वयमत्र सूत्रकृतोक्तम् । ततोऽन्यदाश्रमद्वयं नास्तीति कस्यचिद्भ्रमः स्यात्तं निरस्यति - मौनवदिति ।
आश्रमद्वयवदित्यर्थः । इतरयोरपीति वाच्ये बहूक्तिरवान्तरभेदमपेक्ष्य । स चास्माभिः प्राग्दर्शितः ॥४९॥ 【भाष्यम्】 【भाष्यम्】 अनाविष्कुर्वन्नन्वयात् । तत्र बाल्ये विषये तद्धितस्य भावार्थत्वासंभवात्कर्मार्थत्वं गृहीत्वा तिष्ठन्मूत्रत्वादिकर्मणोऽप्ररूढेन्द्रियत्वादिरूपभावशुद्धेश्च बालकर्मत्वाविशेषात्संशयमाह - तत्रेति । पूर्वपक्षे विद्याङ्गत्वेन तिष्ठन्मूत्रत्वादेरप्यनुष्ठानं सिद्धान्ते भावशुद्धेरेवेति फलम् । पूर्वत्र मौनशब्दस्य ज्ञानातिशये ध्याने प्रसिद्धत्वात्ध्यानं विधेयमित्युक्तम्, तद्वद्बाल्यशब्दस्य कामचारादौ प्रसिद्धेस्तद्विधिग्रहणमित्याह - किं ताविदिति । कामतश्चरणवदनभक्षणानि यस्य स कामचारवादभक्षणस्तस्य भावस्तत्तेत्यर्थः । यथोपपादं यथासंभवं मूत्रादि यस्य तद्भावस्तत्त्वं बाल्यविधिबलात्पातित्यशास्त्रमन्यविषयमिति भावः । 'यस्त्वविज्ञानवान्भवत्यमनस्कः सदाशुचिः । न स तत्पदमाप्नोति संसारं चाधिगच्छति' इत्यादि शौचभिक्षादिनियमविधिशास्त्राविरुद्धस्य भावशुद्धाख्यबाल्यस्य विधिसंभवान्न यथेष्टचेष्टाविधिरिति सिद्धान्तयति - एवमिति । प्रधानविरोधित्वाच्च न तद्विधिरित्याह - प्रधानेति ।
भावशुद्धेर्विद्योपकारकत्वेनान्वयादनाविष्कुर्वन्भवेदिति बाल्यविध्यर्थ इति सूत्रयोजना ॥५०॥ 【भाष्यम्】 【भाष्यम्】 ऐहिकमपि संन्यासादिबाल्यान्तं साधनजातमुक्त्वा तत्साध्यविद्याजन्म विचार्यत इति संगतिं वदन् साधनस्य द्विधा फलसंभवात्संशयमाह - सर्वेत्यादिना । कारीरीष्टिवदैहिकफलत्वनियमः श्रवणादीनामिति पूर्वपक्षमाह - किन्तावदिति । नन्वामुष्मिकफलकयज्ञादिसाध्यविद्यायाः कथमैहिकत्वनियम इत्यत आह - यज्ञादीन्यपीति । शुद्धिद्वारा यज्ञादिभिः श्रवणादिषु साक्षाद्विद्याहेतुषु घटितेषु विद्याविलम्बो न युक्तः । दृश्यते च विलम्बः अतः श्रवणादेर्विद्याहेतुत्वमसिद्धमिति पूर्वपक्षे फलम् । प्रतिबन्धकवशाद्विलम्बेऽपि हेतुत्वसिद्धिरिति सिद्धान्ते फलं मत्वा चित्रादिवदनियतफलं श्रवणादिकमिति सिद्धान्तयति - एवमिति । ननु प्रारब्धकर्मविशेषेण श्रवणादिफलप्रतिबन्धः किमिति क्रियते श्रवणादिनैव कर्मविपाकप्रतिबन्धः किं न स्यादित्यत आह - उपस्थितविपाकत्वं चेति । देशादिमहिम्ना कर्माणि विपच्यन्त इत्यर्थः । तेन श्रवणादिकमेव किमिति न विपच्यन्ते, तत्राह - यानि चेति । विपाचकत्वं पलौन्मुख्यहेतुत्वम् । ननु तर्हि श्रवणादिविपाचकदेशादिकं कीदृशमित्यत आह - शास्त्रमपीति । फलबलाद्देशादिज्ञानमिति भावः । तथापि कर्मणैव श्रवणादिप्रतिबन्धो न वैपरीत्यमित्यत्र को हेतुस्तमाह - साधनेति । प्रतिबन्धकत्वशक्तिरपि फलबलाज्ज्ञातव्येति भावः । प्रतिबन्धकसद्भावे श्रौतं स्मार्तं च लिङ्गमाह - तथा चेत्यादिना ।
शृण्वन्तोऽपि न विद्युरित्युक्तेः प्रतिबन्धसिद्धिः । आत्मनो यथावद्वक्ताप्याश्चर्यः अद्भुतवत्कश्चिदेव भवति । तिष्ठतु लब्धा साक्षात्कारवान्, परोक्षतो ज्ञाताप्याश्चर्यः । कुशलेनाचार्येणानुशिष्टोऽपीत्यर्थः ॥५१॥ 【भाष्यम्】 【भाष्यम्】 असति प्रारब्धकर्मप्रतिबन्धे श्रवणादिनेहैव विद्योदयः यज्ञादिभिः संचितपापप्रतिबन्धस्य निरस्तत्वात् । सति तु भोगेन तन्निरासादमुत्रेति विद्याया ऐहिकामुष्मिकत्वविशेषनियम उक्तस्तद्वत्फलेऽपि मोक्षे कश्चिदुत्कर्षादिविशेषः स्यादित्यत आह - एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः । मुक्तिरत्र विषयः । तस्यां विद्यावद्विशेषनियमोऽस्ति न वेति फलस्योभयथासंभवात्संशये पूर्वपक्षमाह - यथेति । मुक्तिः सविशेषा, फलत्वाद्विद्यावदतः कर्मसाध्या मुक्तिरिति फलम् । सिद्धान्ते तु निर्विशेषत्वावधारणश्रुतिबाधितमनुमानमतो ज्ञानैकव्यङ्ग्या मुक्तिरिति फलम् । किञ्च श्रवणादितारतम्याद्विद्यायां कञ्चिदतिशयमङ्गीकृत्य विद्यालभ्यमुक्तौ नातिशय इत्याह - अपि च विद्यासाधनमिति । ननु ब्रह्मणो नित्यसिद्धत्वादविद्यानिवृत्तेश्चान्यत्वे द्वैतापत्तेः, अनन्यत्वे चासाध्यत्वादिकं विद्याफलमित्यत आह - तद्धीति । विद्ययाभिव्यक्तत्वेन ब्रह्मानन्द एव मुख्यफलमभिव्यक्तिरविद्यानिवृत्तिरानन्दस्वरूपस्फूर्तिप्रतिबन्धकाभावतया विद्यया साध्यते सा चानिर्वाच्येति न द्वैतापत्तिः । अन्ये तु सा ब्रह्मानन्येत्याहुः । न च साध्यत्वानुपपत्तेस्तत्र विद्यावैयर्थ्यमिति वाच्यम् । यदभावे यदभावस्तत्तत्साध्यमिति ज्ञानात्सर्वो लोकः प्रवर्तते । यथा च विद्याया अभावे ब्रह्मस्वरूपमुक्तेरभावोऽनर्थरूपा अविद्यैवास्ति । अस्या अविद्याया एव मुक्तिर्नास्तीतिव्यवहारविषयत्वेन मुक्त्यभावत्वात् । तथा च विद्यां विना मुक्तिर्नास्तीति निश्चयाद्विद्यामुपादत्ते । विद्योदये च स्वतःसिद्धनित्यनिवृत्तानर्थस्वप्रकाशब्रह्मानन्दात्मनवतिष्ठत इत्यनवद्यम् । संप्रति विद्यायामतिशयाङ्गीकार त्यजति - न चेति । एकरूपे विषये प्रमायां तारतम्यानुपपत्तेरित्यर्थः । कथं तर्हि पूर्वाधिकरणे विद्याया विशेष उक्तः, तत्राह - तस्मादिति । सत्यामपि सामग्र्यां ज्ञाने विलम्ब उक्तो न तारतम्यमित्यर्थः । तर्हि सत्यपि ज्ञाने मुक्तौ विलम्बः किं न स्यादित्यत आह - नत्विति । वाय्वादिप्रतिबन्धाद्दिपोत्पत्तिविलम्बेऽप्युत्पन्ने तमोनिवृत्तिविलम्बादर्शनात्सति ज्ञाने नाज्ञाननिवृत्तौ विलम्ब इति भावः । किञ्च कर्मणामुपासनानां च गुणभेदेन तारतम्यात्फलतारतम्यं युक्तम् । निर्गुणविद्यायास्त्वेकरूपत्वात्तत्फलैकरूप्यमित्याह - विद्याभेदेत्यादिना ।
स्मृतौ कस्यचिन्निर्गुणविद इत्यर्थः । तस्माद्विद्यासमकालैव मुक्तिरिति सिद्धम् ॥५२॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्कृतौ शारीरकव्याख्याया भाष्यरत्नप्रभाटीकायां तृतीयस्याध्यायस्य चतुर्थः पादः ॥४॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति तृतीयाध्यायस्य निर्गुणविद्याया अन्तरङ्गबहिरङ्गसाधनविचाराख्यश्चतुर्थः पादः ॥ ॥ इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये साधनाख्यस्तृतीयोध्यायः ॥ चतुर्थेऽध्याये प्रथमः पादः । ओम् । यज्ज्ञानाज्जीवतो मुक्तिरुत्क्रान्तिगतिवर्जिता । लभ्यते तत्परं ब्रह्म रामनामास्मि निर्भयम् । आवृत्तिरसकृदुपदेशात् । साधनं निरूप्य फलं निरूप्यत इत्यध्याययोर्हेतुफलभावं सङ्गतिमाह - तृतीय इति । फलप्रसङ्गेनोत्क्रान्तिरर्चिरादिमार्गश्च विचार्यत इत्याह - प्रसङ्गेति । पूर्वं साक्षादेव श्रुत्युक्तं संन्यासादि साधनं चिन्तितम् , सम्प्रति फलार्थापत्तिगम्यमावृत्त्यादिकमद्याश्लेषाधिकरणात्प्राक्चिन्त्यते, तदारभ्य जीवन्मुक्तिस्ततो द्वितीयपादे उत्क्रान्तिस्तृतीये अर्चिरादिमार्गस्य गन्तव्यस्य च निर्णयश्चतुर्थे ज्ञानोपासनयोः फलनिर्णय इति पादार्थविवेकः । आद्याधिकरणस्य श्रवणादिसाधनं विषयमनूद्य द्वेधानुष्ठानदर्शनात्संशयमाह - आत्मा वा इति । श्रौतात्मधीसाधनफलविचारात्मकत्वात्सर्वाधिकरणानां श्रुतिशास्त्राध्यायसङ्गतय उक्ताः । तत्तत्पदार्थसम्बन्धात्तत्तत्पादसङ्गतिः । मोक्षे विशेषाभाववच्छ्रवणादावावृत्तिविशेषो नास्तीति दृष्टान्तलक्षणावान्तरसङ्गत्या पूर्वपक्षमाह - किं तावदिति । अत्र पूर्वपक्षे श्रवणादेः प्रयाजवददृष्टार्थत्वात्सकृदनुष्ठानं फलम् , सिद्धान्ते त्ववघातवद्दृष्टार्थत्वाद्यावत्फलमावृत्तिरिति भेदः । असकृदुपदेशान्यथानुपपत्त्या साधनावृत्तौ शास्त्रस्य तात्पर्यमिति शङ्कते - नन्वसकृदिति । श्रवणादीनां समुच्चयसिध्यर्थत्वेनासकृदुक्तेरन्यथोपपत्तेर्नावृत्तौ तात्पर्यमित्याह - एवमपीति । सगुणसाक्षात्कारसाधनेष्वप्यनावृत्तिमाह - सकृदिति । यद्यप्यसकृदुपदेशावृत्तिसमुच्चययोरन्यतरसूचकत्वेनान्यथासिद्धः, तथापि दृष्टे सम्भवत्यदृष्टमात्रकल्पनानुपपत्तेः श्रवणादेरावृत्तिद्वारा साक्षात्कारफलस्य षड्जादौ दृष्टत्वादसकृदुक्तिरावृत्तिं सूचयति दृष्टार्थत्वादिति न्यायानुग्रहादित्याह - न दर्शनपर्यवसानत्वादिति । ध्यानस्य त्वावृत्तेर्वेदोपासीतेति शब्दे श्रुतत्वान्न केवलार्थिकत्वमित्याह - अपि चेति । अस्त्युपास्तिशब्दस्यावृत्तिवाचित्वं तथापि वेदेतिशब्दोक्तवेदनेष्वहङ्ग्रहेषु कथमावृत्तिसिद्धिरित्यत आह - विद्युपास्त्योश्चेति । शब्दयोरेकार्थत्वमुदाहरति - क्वचिदिति ।
स रैक्वो यद्वेद तत्प्राणतत्त्वं रैक्वादन्योऽपि यः कश्चिद्वेद तत्फले सर्वमन्तर्भवतीत्येतदुक्ते इत्थं मयोत्कृष्टत्वेन स रैक्व उक्त इति हंसं प्रति हंसान्तरवचनम् , तच्छ्रुत्वा रैक्वं गत्वोवाच जानश्रुतिः, हे भगवः, एतां रैक्वविदितां देवतां मेऽनुशाधि मह्यमुपदिशेत्यर्थः । एवं सगुणनिर्गुणसाक्षात्कारसाधनध्यानस्यावृत्तिः श्रौती चार्थसिद्धा च दृष्टार्थत्वात्, श्रवणमननयोस्त्वसकृदुपदेशादर्थसिद्धैवावृत्तिरिति विशेषः ॥१॥ 【भाष्यम्】 【भाष्यम्】 आदित्यस्यैकस्यैवोद्गीथे सम्पाद्योपासनान्मम त्वमेक एव पुत्रोऽसीति कौषीतकिः पुत्रमुवाच, अतस्त्वं तथा माकृथाः किन्तु बहून् रश्मीनादित्यं च पर्यावर्तयतात्पृथगावर्तयस्वेत्यर्थः । तलोपश्छान्दसः । अत्र पर्यावृत्तिशब्दात्सिद्धवदुद्गीथध्यानस्यावृत्तिरुक्ता ततो ध्यानत्वसामान्यात्फलपर्यन्तत्वसामान्याद्वा लिङ्गात्सर्वत्र श्रवणमननध्यानेष्वावृत्तिसिद्धिरित्याह - लिङ्गाच्चेति । एवं तावत्सगुणनिर्गुणसाक्षात्कारसाधनेष्वावृत्तिरुक्ता तत्र सगुणध्यानादेरावृत्तिमङ्गीकृत्य निर्गुणश्रवणादिष्वावृत्तिमाक्षिपति - अत्राहेत्यादिना । वाक्यं निर्गुणसाक्षात्कारजनने शक्तं न वा, आद्ये सकृच्छ्रुतवाक्यात्साक्षात्कारसिद्धेरावृत्तिर्वृथेत्युक्त्वा द्वितीयं शङ्कते - सकृदिति । अशक्तस्यावृत्तावपि फलानुपपत्तिरित्याह - नेति । तथापीति स्वतोऽशक्तस्य युक्तिसाहित्याच्छक्तावपीत्यर्थः । वाक्ययुक्तिभ्यां परोक्षज्ञाने जातेऽप्यपरोक्षज्ञानार्थमावृत्तिरिति शङ्कते - अथापि स्यादिति । तयोः परोक्षज्ञानहेतुत्वस्वाभाव्यादावृत्तावपि न साक्षात्कारः स्यादिति परिहरति - नासकृदपीति । यदि तयोः साक्षात्कारसामर्थ्यं यदि वा परोक्षज्ञानसामर्थ्यमुभयथाप्यावृत्त्यनपेक्षेत्याह - तस्मादिति । प्रमातृवैचित्र्यादप्यावृत्त्यनियम इत्याह - न चेति । प्रमेयस्यानंशत्वाच्च तथेत्याह - अपि चेति । द्विविधो ह्यधिकारी स्यात्कश्चिज्जन्मान्तराभ्यासान्निरस्तसमस्तासम्भावनादिप्रतिबन्धः कश्चित्तु प्रतिबन्धवानिति । तत्राद्यं प्रत्यावृत्तेरानर्थक्यमिष्टम् , द्वितीयस्य तु प्रतिबन्धनिरासाय तदपेक्षेति समाधत्ते - अत्रोच्यत इति । आवृत्तेः प्रतिबन्धानिरासार्थत्वे लिङ्गमाह - तथा हीति । यथा षड्जादिस्वरभेदसाक्षात्कारशक्तमपि श्रोत्रमभ्यासमपेक्षते तथा ब्रह्मात्मसाक्षात्कारशक्तं वाक्यं तदपेक्षमित्यनुभवमाश्रित्याह - न हि दृष्टेऽनुपपन्नं नामेति । तत्त्वम्पदलक्ष्यार्थस्य दुर्बोधत्वादज्ञानप्रयुक्तसंशयादिप्रतिबन्धसम्भवात्तद्ध्वंसायावृत्तिरेष्टव्येति वाच्यलक्ष्यविवेकपूर्वकमाह - अपि चेत्यादिना । यदुक्तमनंशत्वात्प्रमेयस्यावृत्त्यानर्थक्यमिति, तत्राह - यद्यपीति । आरोपितांशनिरासाय न मे देहो नेन्द्रियमित्यभ्यासो युक्त इत्यर्थः । वाक्यार्थज्ञाने सति कथमभ्यासनियमः, प्रमाणज्ञानस्याभ्यासायोगाज्ज्ञानिनः श्रवणादिनियमायोगाच्चेत्यत आह - तत्त्विति । ज्ञानात्प्रागेव श्रवणादिव्यापारनियमनं क्रियत इत्यर्थः । अधिकं शङ्कितुमुक्तमनुवदति - येषामिति । अधिकं शङ्कते - सत्यमिति । दुःखित्वप्रत्यक्षविरोधाद्वाक्यादैक्यधीर्नोदेतीत्यर्थः । प्रत्यक्षस्य भ्रान्तित्वादविरोध इत्याह - नेत्यादिना । दुःखादयो नात्मधर्माः दृश्यत्वाद्देहादिवत्, नाप्यात्मस्वरूपाः आत्मनि सत्यप्यननुवृत्तित्वाद्व्यतिरेकेण चैतन्यवदित्यर्थः । निर्दुःखे चिदात्मनि दुःखादिधियो भ्रान्तित्वाद्वाक्यार्थानुभवो न विरुध्यत इत्याह - तस्मादिति । अनुभवे जातेऽप्यावृत्त्याद्यनुष्ठानं किं न स्यादित्यत आह - न चैवमिति । रतिः कामः आत्मकामतया तृप्तिर्विषयतृष्णाक्षयः तेन सन्तोषे आत्मानन्दानुभव इति भेदः । नन्वावृत्तौ नियोगात्प्रवृत्तिर्वाच्या तथा च नियुक्तत्वबुद्धेरकर्त्रात्मधीर्न स्यादित्यत आह - तत्रापीति । आवृत्त्यभ्युपगमेऽप्यकर्ताहमित्यनुभवात्प्रच्याव्य गुरुरन्यो वा नियोगान्न प्रवर्तयेदुक्तदोषादित्यर्थः । कथं तर्हि प्रवृत्तिरित्यत आह - यस्त्विति ।
अप्रतिभानादसम्भावनादिनेत्यर्थः । शिष्यबुद्ध्यनुसारेण त्रोतव्यादिवचोभिः प्रधानसिद्ध्यर्थमावृत्त्यादौ प्रवर्तयेदित्यर्थः ॥२॥ 【भाष्यम्】 【भाष्यम्】 आत्मेति तूपगच्छन्ति ग्राहयन्ति च । पूर्वत्र ध्यानादेरावृत्तिरुक्ता तामुपजीव्य तत्त्वज्ञानार्थं ध्यानावृत्तिकाले किमहं ब्रह्मेति ध्यातव्यमुत मत्स्वामीश्वर इत्यैक्यभेदमानाभ्यां संशयमाह - य इति । शब्दादेव प्रमित इत्यादावयमात्मा ब्रह्मेत्याद्यभेदश्रुतिभिरैक्यनिर्णयात्संशयमाक्षिपति - कथमिति । भेदश्रुत्यनुग्रहाद्भेदप्रत्यक्षादिप्राबल्यमालम्ब्य संशय इत्याह - उच्यत इति । अभेदश्रुतीनां गौणत्वमुख्यत्वे उभयत्र फलम् , यद्यप्ययं प्रत्यक्षादिविरोधपरिहारो द्वितीयाध्यायसङ्गतस्तथाप्यैक्यश्रुतेरविरुद्धत्वनिश्चयस्य समाधावन्तरङ्गत्वादिह सङ्गतिः । विरुद्धयोरैक्यदृष्टिरसिद्धेत्याह - नाहमिति । किञ्च किमीश्वरस्य जीवमात्रत्वमैक्यं जीवस्येश्वरमात्रत्वं वेति विकल्प्य क्रमेण दूषयति - ईश्वरस्य चेत्यादिना । एकत्वश्रुतिप्रामाण्यायैक्यध्यानं कार्यमिति शङ्कते - अन्यत्वेऽपीति । एकत्वध्यानमस्मदिष्टमेव । एकत्वं तु नास्तीत्याह - काममिति । अभेदश्रुतीनां फलवदपूर्वार्थतात्पर्येण गौणत्वायोगाद्भेदश्रुतीनां कल्पितभेदानुवादित्वात्प्रत्यक्षादेरपि तद्विषयत्वाद्बिम्बप्रतिबिम्बयोरिव विरुद्धधर्माणां मिथ्यात्वान्मुख्यमैक्यमिति सिद्धान्ययति - एवमित्यादिना । ईश्वरस्य जीवत्वं न प्रतिपाद्यं येनेश्वराभावः स्यात्किन्तु जीवस्येश्वरत्वम् । न चैवमधिकार्यभावः । एकत्वप्रबोधात्प्रागधिकारिभेदाङ्गीकारादित्याह - यत्पुनरुक्तमित्यादिना । वेदसत्यत्वश्रद्धालुः शङ्कते - प्रत्यक्षाद्यभाव इति । वर्णेषु क्रमस्वरयोरभावादुपलब्धध्वनिस्थयोरारोपो वाच्यस्तथा चारोपितक्रमस्वरविशिष्टवर्णात्मकवेदस्य मिथ्यात्वं दुर्वारम् , वादिनां सत्यत्वाग्रहस्त्वविद्याविजृम्भित इति वेदसत्यत्वाभावो न दोष इत्याह - नेति । अविद्यामाक्षिपति - कस्येति । प्रश्नलिङ्गेन त्वय्येव तस्याः सिद्धेस्त्वदाक्षेपानुपपत्तिरित्याह - यस्त्वमिति । अज्ञानमूलत्वात्प्रश्नादेरिति भावः । सर्वज्ञाभिन्ने मयि कथमज्ञानमिति शङ्कते - नन्विति । अभेदज्ञानात्प्राक्चिन्मात्रस्य तवैवाज्ञानाश्रयत्वमनुभवसिद्धाज्ञानस्यापलापायोगात् । ज्ञाने त्वनिर्वाच्यस्य तस्य बाधान्नाश्रयापेक्षेत्याह - यद्येवमिति । अनिर्वाच्यत्वेन दोषान्तरमपि निरस्तमित्याह -
योऽपीति ॥३॥ 【भाष्यम्】 【भाष्यम्】 न प्रतीके न हि सः । उभयथा ध्यानसम्भवात्संशयः । यथा ब्रह्मण्यभेदसत्तवादहङ्ग्रह उक्त एवं प्रतीकेष्वपि ब्रह्मविकारतया जीवाभिन्नब्रह्माभिन्नत्वाज्जीवाभेदसत्त्वेनाहङ्ग्रहः कार्य इति दृष्टान्तेन पूर्वपक्षः । अत्र प्रतीकोपास्तीनामहङ्ग्रहोपास्तिभिरविशेषः । सिद्धान्ते तु विशेषसिद्धिरिति फलम् । एतदारभ्याधिकरणत्रयस्य प्रासङ्गिकी पादसङ्गतिः, ब्रह्मैक्यध्यानप्रसङ्गागतत्वादिति विवेकः । किं प्रतीकेष्वात्मत्वानुभवबलादहङ्ग्रह उत वस्तुतो जीवाभेदसत्त्वात् । नाद्य इत्याह - न हि स इति । नानुभवतीत्यर्थः । द्वितीयमप्यसिद्ध्या दूषयति - यत्पुनरिति । विकारस्य ब्रह्मणा स्वरूपैक्यायोगाद्बाधेनैक्यं वाच्यं प्रतीकबाधे चोपास्तिविधिर्न स्यादित्यर्थः । किञ्च कर्तृत्वाद्यबाधेनोपास्तिविधिप्रवृत्तिर्वाच्या बाधे तदयोगात् । तथा च बाधमूलब्रह्मैक्यज्ञानं द्वारीकृत्य प्रतीकेष्वहङ्ग्रहोपास्तिकल्पना न युक्ता, बाधविरोधादित्याह - न च ब्रह्मण इति । अतो जीवप्रतीकयोः स्वरूपभेदादहङ्ग्रहे विध्यश्रवणाच्च नाहङ्ग्रह इति फलितमाह - अतश्चेति ।
यथा रुचकस्वस्तिकयोः सुवर्णात्मनैक्येऽपि मिथो नैक्यं तथा जीवप्रतीकयोः ब्रह्मात्मनैक्येऽपि भेदः समः । यदि च धर्मिव्यतिरेकेण तयोरभावनिश्चयाद्वस्त्वैक्यं तदोपासनोच्छेद उक्त इत्यर्थः ॥४॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मदृष्टिरुत्कर्षात् । एकविषयत्वं सङ्गतिः । प्रश्नपूर्वकं संशयबीजमाह - कुत इत्यादिना । सामानाधिकरण्यं श्रुतं तन्न तावन्मुख्यम् , ब्रह्मविकारयोर्गवाश्वयोरिवाभेदायोगात् । नापि प्रकृतिविकारभावनिबन्धनम् , वाक्यस्य विकारबाधेन ब्रह्मपरत्वापातात् । न चेष्टापत्तिः । नाम ब्रह्मेत्युपासीतेति विधिश्रुतिविरोधात्, परिमितनामग्रहणानर्थक्यापाताच्च । ब्रह्मपरत्वे सर्वं ब्रह्मेति वक्तव्यत्वात् । अतः परिशेषादध्यास एव सामानाधिकरण्यकारणम् , अध्यासे च नियामकाभावात्संशय इत्यर्थः । उत्कृष्टनिकृष्टयोर्निकृष्टमप्युपास्यं फलवत्त्वादिति न्यायो नियामक इत्यरुचेराह - अथवेति । अत्र विकारदृष्टिभिर्ब्रह्मोपास्तिसिद्धिः फलम् , सिद्धान्ते तु विकारदृष्ट्या ब्रह्मण उपास्यत्वे निकर्षप्राप्तौ सत्यां फलवत्त्वासिद्धेर्विकारा एवोत्कृष्टब्रह्मदृष्ट्योपास्या इति फलम् । किञ्च लौकिकन्यायाविरुद्धार्थसम्भवे विरुद्धार्थो न ग्राह्यः प्रत्यवायप्रसङ्गात् । किञ्च प्रथमश्रुतानामादित्यादिपदानामसञ्जातविरोधितया मुख्यार्थत्वग्रहो न्याय्यः, ब्रह्मशब्दे च दृष्टिलक्षणाग्रहः, तथा चादित्यादयो ब्रह्मदृष्ट्योपास्या इत्येव वाक्यार्थ इत्याह - प्राथम्याच्चेति । ब्रह्मशब्दस्यैव दृष्ट्यर्थत्वे हेत्वन्तरमाह - इतिपरत्वादिति । इतिशब्दशिरस्कः शब्दः समभिव्याहृतक्रियालक्षक इति लोके प्रसिद्धमित्यर्थः । द्वितीयाश्रुतेश्चादित्यादीनामेवोपास्तिकर्मत्वमित्याह - वाक्यशेषोऽपीति । उत्कृष्टमेवोपास्यमिति न्यायमुक्तमनुवदति - यत्तूक्तमिति । द्वितीयेतिश्रुतिभ्यां लौकिकन्यायाच्चोक्तन्यायबाध इत्याह - तदिति । ब्रह्मणोऽनुपास्यत्वे कथं फलदातृत्वम् , तत्राह - फलं त्विति । किञ्च यद्दृष्ट्या विकारस्योत्कर्षः तस्य ब्रह्मणो विशेषणत्वेऽप्युपास्यत्वं चास्तीत्याह -
ईदृशं चेति ॥५॥ 【भाष्यम्】 【भाष्यम्】 आदित्यादि । पृथिव्यग्न्यन्तरीक्षादित्यद्युसंज्ञेषु लोकेषु हिङ्कारप्रस्तावोद्गीथप्रतीहारनिधनैरंशैः पञ्चांशम् , साम, तैरेवादिरिति उपद्रव इति च भक्तिद्वयाधिकैः सप्तांशं सामेति भेदः । अत विशेषाज्ञानात्संशयः । पूर्ववदुत्कर्षानवधारणादनियम इति प्रत्युदाहरणेन पूर्वपक्षमाह - तत्रेति । सिद्धरूपादित्यादिभ्यः कर्मरूपोद्गीथादीनां फलसन्निकर्षेणोत्कर्षाद्ब्रह्मवद्विशेषणत्वे नियम इति दृष्टान्तेन मुख्यं पूर्वपक्षमाह - अथवेति । तत्तत्पक्षसिद्धिरेव पूर्वोत्तरपक्षफलं मन्तव्यम् । किञ्चानङ्गेष्वेवाङ्गदृष्टिरित्यत्र तेष्वङ्गवाचिपदप्रयोगं लिङ्गमाह - तथा चेयमेवेति । तदेतदग्न्याख्यं साम एतस्यां पृथिवीरूपायामृच्यध्यूढमुपरिस्थितमित्यर्थः । ऋचि सामवत्पृथिव्यामग्निर्दृश्यते, अतः साम्यात्पृथिव्येवर्गग्निः सामेति ध्यानं विहितम् , तत्र यदि ऋक्सामात्मकयोः कर्माङ्गयोः पृथिव्यग्निदृष्ठिः स्यात्, तदा पृथिव्यग्न्योरृक्सामपदप्रयोगो न स्यादित्यत्र दृष्टान्तमाह - क्षत्तरीति । अतः प्रयोगान्यथानुपपत्त्या पृथिव्यग्न्योरृक्सामदृष्टिरित्यर्थः । विषयसप्तम्या चैवमेवेत्याह - अपि चेति । गायत्रसंज्ञं साम । किञ्च पूर्वाधिकरणसिद्धान्तन्यायेनाप्येवमित्याह - प्रथमेति । अनङ्गबुद्ध्याङ्गान्युपास्यानीति सिद्धान्तयति - एवमिति । उपास्तीनां हि कर्मसमृद्धिः फलं श्रूयते, सा च ताभिरङ्गेषु संस्क्रियमाणेषूपपद्यते, अङ्गानां समृद्ध्यनुकूलप्रकृतकर्मापूर्वजनकत्वादित्यर्थः । ननु यत्रोपास्तीनां प्रकृतकर्मापूर्वसन्निकृष्टाङ्गद्वारापेक्षं फलं श्रुतं तत्र फलोपपत्तयेऽङ्गानामुपास्यत्वं भवतु तदनपेक्षलोकादिफलेषु तूपासनेषु कथमुपास्यविवेक इति शङ्कते - भवत्विति । यथा स्वतन्त्रपशुफलस्यापि गोदोहनस्य अङ्गद्वारापेक्षयैव फलमिष्टं तद्वल्लोकादिफलेषूपासनेष्वपि कर्मापूर्वाङ्गद्वारैव फलकल्पना युक्ता, कर्माधिकृतस्यैवाङ्गाश्रितोपासनेष्वधिकारात्, अतोऽङ्गानामेवोपास्यत्वमिति समाधत्ते - तेष्वपीति । उत्कर्षानवधारणादनियम इत्युक्तं निरस्यति - फलात्मेति । उपक्रमबलाच्चाङ्गमुपास्यमित्याह - अपि चेति । रसतमत्वादिगुणाद्युपसङ्ख्यानमित्यर्थः । द्वितीयं पूर्वपक्षं दूषयति - यत्तूक्तमित्यादिना । कर्मभूयं कर्मात्मकत्वं प्राप्येत्यर्थः । सिद्धादित्याद्यात्मना कर्मणां दृष्टौ कर्मत्वहानिः स्यादित्यत आह - आदित्यादिभावेनेति । माणवकेऽग्निदृष्टिवदुद्गीथादिष्वादित्यादिधियां गौणत्वान्न कर्मत्वाभिभावकत्वमित्यङ्गेष्वनङ्गत्वधीरविरुद्धेत्याशयः । प्रयोगानुपपत्तिमुक्तां निरस्यति - तदेतदिति । लक्षणाबीजं सम्बन्धमाह - लक्षणा चेति । गङ्गायां घोष इत्यत्र सन्निकृष्टसंयोगसम्बन्धेन तीरलक्षणा, अग्निर्माणवक इत्यत्राग्निनिष्ठशुचित्वादिगुणवत्त्वरूपपरम्परासम्बन्धेन लक्षणा दृष्टा, तथा चात्र ऋक्सामयोः पृथिव्याग्निदृष्टिपक्षेऽपि ऋक्सामपदाभ्यां स्ववाच्यार्थे द्रष्टव्यताख्यपरम्परासम्बन्धेन पृथिव्यग्निलक्षणा युक्तेत्यर्थः । ननु प्रतीकवाचिपदस्य ध्येये अर्थे लक्षणा न युक्ता, क्षतृपदस्य राजन्यप्रयोगादिति शङ्कते - तत्र यद्यपीति । तथापि ऋक्सामसम्बन्धात्पृथिव्यग्न्योरेवैतस्यामृच्यध्यूढं सामेति एष ऋक्सामपदप्रयोगः इत्यन्वयः । ननु मुख्यार्थ एव न कुतो गृह्यते, तत्राह - प्रसिद्धयोरिति । तस्मात् ऋच्यध्यूढं सामेति मुख्ययोः पृथगुक्तेस्तदेतस्यामित्यत्रापि तयोर्ग्रहे पुनरुक्तिः स्यात्, अतः प्रतीकाभेददृष्ट्या पृथिव्यग्न्योः प्रतीकसन्निधानात्तयोरेव प्रतीकपदप्रयोगः कृतस्तदभेददार्ढ्यायेत्यर्थः । तर्हि क्षत्तृशब्दोऽपि राजनि स्यादित्यत आह - क्षत्रिति । स्थितप्रयोगस्य निमित्तं किमपि वाच्यं न तु निमित्तमस्तीति प्रयोग आपाद्य इति भावः । क्षत्ता सूतः, तस्य कार्यं रथचर्यादि यदा राजेव करोति तदा क्षत्तृशब्दो राजन्यप्यस्तीत्यक्षरार्थः । ऋगादावेव पृथिव्यादिदृष्टिरित्यत्र हेत्वन्तरमाह - इयमिति । सप्तम्या लोकानामुपास्यत्वमुक्तं निरस्यति - तथा लोकेष्विति । सामात्मना लोकानुपासीतेति द्वितीयासप्तम्योर्भङ्गस्त्वया कार्यस्ततो वरं लोकात्मना सामोपासीतेति सप्तमीमात्रभङ्ग इत्यर्थः । एतेनेति एकविभक्तिभङ्गलाघवेन प्राणात्मना गायत्रं सामोपास्यमिति व्याख्यातमित्यर्थः । ननु विभक्तिसाम्ये कथं निर्णयस्तत्राह - यत्रापीति । 'साम्न उपासनं साधु' इत्युपक्रम्य पृथिवी हिङ्गार इत्यादिना हिङ्गारादिपञ्चावयवस्य साम्न उपासनमुक्त्वा 'इति तु पञ्चविधस्योपासनम्' इत्युपसंहृत्य, अथेति सप्तविधस्य साम्न उपासनं प्रक्रम्य प्रपञ्चितमतः साम्न एवोपास्यत्वमित्यर्थः । यदुक्तं प्राथम्यात्पृथिव्यादेरूपास्यत्वमिति, तत्राह - एतस्मादेवेति ।
यद्यपि हिङ्कारोद्देशेन पृथिवीत्वविधेरुद्देश्यस्य प्रथमनिर्देशो वाच्यस्तथाप्युक्तन्यायबलाद्व्यत्ययो ग्राह्य इत्यर्थः ॥६॥ 【भाष्यम्】 【भाष्यम्】 आसीनः सम्भवात् । कर्मण उत्थितेनोपविष्टेन वानेकधानुष्ठानदर्शनात्संशयः कर्माङ्गाश्रितोपासनानामासननियमानपेक्षाणामनुष्ठानप्रकार उक्तस्तद्वदङ्गानाश्रितोपासनेष्वप्यनियम इति पूर्वपक्षयति - तत्रेति ।
अत्रासनाभ्यासासिद्धिः, सिद्धान्ते तु मनोदेहयोर्भिन्नत्वेऽपि देहचाञ्चल्ये मनसोऽनवस्थानस्य अनुभवसिद्धत्वान्मनोव्यापारेषूपासनेषु देहस्थैर्यार्थमासननियमापेक्षेति फलभेदः । तिष्ठत उत्थितस्य ॥७॥ 【भाष्यम्】 【भाष्यम्】 किञ्च ध्यातार आसीन एव स्युः ध्यायतिशब्दार्हत्वाद्बकादिवदित्याह -
ध्यानाच्चेति ॥८॥ 【भाष्यम्】 【भाष्यम्】 अत्रैव श्रौतं दृष्टान्तमाह -
अचलत्वं चेति ॥९॥ 【भाष्यम्】 【भाष्यम्】 बाह्यस्य शारीरस्य चासनस्य स्मरणान्नियम इत्याह -
स्मरन्ति चेति ॥१०॥ 【भाष्यम्】 【भाष्यम्】 यत्रैकाग्रता तत्राविशेषात् । तेष्वेवाङ्गानाश्रितोपासनेषु प्राच्यादिदिशि तीर्थादिदेशे प्रदोषादिकाले नियमोऽस्ति न वेत्युभयथासम्भवात्संशयः । एकविषयत्वं सङ्गतिरूपास्तीनां विहितत्वाद्यागादिवदस्ति दिगादिनियम इति पूर्वपक्षः । अत्र दिगादिष्वादरः फलं सिद्धान्ते त्वनादरः । ध्येये चित्तैकाग्र्यस्य प्राधान्यात्प्रधानाक्षिप्तदेशादिग्रहणस्योचितत्वादिविवेकः । अर्थलक्षण एवेति । ऐकाग्र्यफललिङ्गक एवेत्यर्थः । प्राचीनप्रवणे प्राग्देशे निम्नस्थाने वैश्वदेवं कुर्यादितिवदत्र दिगादिविशेषो न श्रूयते अतोऽनुमानमप्रयोजकमिति भावः । विशेषाश्रवणमसिद्धमिति शङ्कते - ननु विशेषमपीति ।
शर्कराः सूक्ष्मपाषाणाः । जलाश्रयवर्जनं शीतनिवृत्त्यर्थम् । चक्षुःपीडनो मशकः । वाचनिकं समदेशादिनियममङ्गीकृत्य चित्तैकाग्र्यविरुद्धेषु देशादिगतेषु प्राचीनप्रवणत्वादिष्वनादर इति सुहृद्भावेन सूत्रकृदुपदिशति । देशाद्याग्रहे चित्तविक्षेपात्समाधिभङ्गः स्यात्स माभूदिति ॥११॥ 【भाष्यम्】 【भाष्यम्】 आप्रायणात् । व्यवहितेनास्य सम्बन्धमाह - आवृत्तिरिति । अनियोज्ये ब्रह्मण्यात्मत्वप्रतिपत्तिर्यस्य तस्य विदुष इत्यर्थः । अहङ्ग्रहोपासनेष्वनुष्ठानस्योभयथादृष्टेः संशयमाह - यानि पुनरिति । यथा दिगादिनियमस्याविधेरनादरस्तद्वदामरणमुपास्यावृत्तेरविधानादिनियम इति पूर्वपक्षः । मरणपर्यन्तमावृत्तिरिति सिद्धान्तयति - एवमिति । उपास्तीनां कर्मणां चान्त्यकाले प्राप्तव्यफलस्फूर्तिद्वारा फलहेतुत्वे मानमाह - सविज्ञान इति । भावनामयं विज्ञानं फलस्फुरणं तेन सहितः सविज्ञानो विज्ञानस्फुरितफलं विज्ञानमित्यर्थः । यस्मिंल्लोके चित्तं सङ्कल्पोऽस्येति यच्चित्तस्तेन सङ्कल्पितेन लोकेन सह फलस्फूर्त्यनन्तरं मनः प्राणे लीयते इति यावत् । तेज उदानः । आत्मा जीवः । जलौकादृष्टान्तश्रुतेश्च भाविफलस्फूर्तिरस्तीत्यर्थः । अस्त्विदमन्त्यफलं विज्ञानं कर्मणामिवादृष्टद्वारोपास्तीनां ततः कुत आमरणमावृत्तिरित्यत आह - प्रत्ययास्त्विति ।
उपास्तिप्रत्ययानां धारावाहिकतया स्वरूपानिवृत्तिरेवान्त्यं विज्ञानम् , न त्वदृष्टद्वारकमन्यदपेक्षितं सर्वभावानामेव स्वसामानजातीयद्वारानपेक्षतया प्रत्ययानां प्रत्ययान्तरापेक्षायोगात्, कर्मणां तु दृष्टद्वारान्त्यधीफलत्वानुपपत्तेः अदृष्टद्वारकल्पनेति भावः । क्रतुर्ध्यानम् । उपासक एतत्त्रयम् 'अक्षितमसि', 'अच्युतमसि', 'प्राणसंशितमसि' इति मन्त्रत्रयं मरणकालेऽपि स्मरेदित्यर्थः ॥१२॥ 【भाष्यम्】 【भाष्यम्】 यथोपासकानां यावज्जीवं कर्तव्यमस्ति न तथात्मविदामिति कर्मक्षयलक्षणां जीवन्मुक्तिमाह - तदधिगम इति । ज्ञानसाधनेषु फलाधिक्यार्थं फलाध्यायेऽपि साधनविचारः कृतः, सम्प्रति फलाध्यायस्था फलचिन्ता क्रियत इत्याह - गत इति । कर्मणां फलान्तत्वशास्त्राज्ज्ञाननाश्यत्वशास्त्राच्च संशयः, पूर्वपक्षे ज्ञानिनोऽपि सञ्चितपापभोगानन्तरं मुक्तिः, सिद्धान्ते तु ज्ञानसमकालं पापनाशाज्जीवन्मुक्तिरिति फलम् । न हिंस्यादित्यादिनिषेधश्रुत्या दुरितादृष्टस्य दुःखदायिनी शक्तिरधिगता । 'नाभुक्तं क्षीयते कर्म' इति च स्मरन्ति । अतः फलान्तमेव पापं न मध्ये नश्यतीति पूर्वपक्षः । ननु तर्हि तन्नाशार्थं प्रायश्चित्तविधिर्न स्यादिति चेत् । न । यथा आहिताग्नेर्गृहदाहे निमित्ते सति 'अग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्' इति इष्टिविधिस्तद्वद्दोषे निमित्तमात्रे सति प्रायश्चित्तविधेर्दोषनाशार्थत्वासिद्धेः । ननु विषम उपन्यासः, युक्तं गृहदाहस्य सिद्धत्वादयोग्यत्वाच्चाफलतया निमित्तमात्रत्वं दोषवान्प्रायश्चित्तं कुर्यादित्यत्र तु मलिनः स्नायादितिवद्दोषपदस्य निवृत्तिद्वारा फलपरत्वसम्भवात् 'तरति ब्रह्महत्यां योऽश्वमेधेन यजते' इति प्रायश्चित्तात्पापनिवृत्तिश्रुतेश्चायुक्तं प्रायश्चित्तस्य नैमित्तिकत्वमित्यत आह - अपि चेति । ज्ञानस्य दोषनाशार्थतया विधानं नास्ति 'क्षीयन्ते चास्य कर्माणि' इत्यादेर्ज्ञानस्तावकमात्रत्वादित्यर्थः । कर्मभोगानन्तरं देशकालान्तरे मोक्षो भविष्यति शास्त्रप्रामाण्यादित्याह - नेत्युच्यत इति । ज्ञानात्कर्मक्षयस्यापूर्वत्वान्मानान्तरविरुद्धत्वाच्च तत्परानेकवाक्यानां स्तावकत्वायोगात्तस्यास्तित्वमिति सिद्धान्तयति - एवमित्यादिना । पापक्रियातोऽपूर्वानुत्पत्तिरश्लेषः । सगुणब्रह्मविद्यायां व्यपदेशमुक्त्वा निर्गुणायां तमाह - अयमपर इति । परोक्तं दूषयति - यदुक्तमित्यादिना । विधिनिषेधशास्त्रं 'नाभुक्तं क्षीयते' इत्यादि, स्मृतिश्च कर्मणः फलशक्तौ प्रमाणमतः शक्तस्यापि कुतश्चिन्नाशाङ्गीकारेण शास्त्रविरोध इत्यर्थः । तत्त्वज्ञानमात्मन्यशेषदुरितनाशकं तन्मूलाध्यासबाधकत्वात्स्वप्नदुरितमूलकर्तृत्वाध्यासबाधकजाग्रद्बोधवदित्याह - तथाप्यकर्त्रात्मबोधादिति । श्रुतार्थमेव युक्त्या द्रढयति - अश्लेष इति चेति । मूलाध्यासानुत्पत्तेः पापस्याश्लेषः, तन्नाशात्तद्विनाश इत्यर्थः । अध्यासाभावे विद्वदनुभवमाह - पूर्वेति । मोक्षशास्त्रबलाच्च ज्ञानात्कर्मक्षयसिद्धिरित्याह - एवमेवेति । ज्ञानात्कर्मक्षये सत्येवेत्यर्थः । मोक्षस्य कर्मफलसाम्यमुक्तं निरस्यति -
न चेति ॥१३॥ 【भाष्यम्】 【भाष्यम्】 इतरस्यापि तु । अतिदेशत्वान्न सङ्गत्याद्यपेक्षा । ज्ञानात्पुण्यं क्षीयते न वेति पूर्ववत्सन्देहे ज्ञानं तु न पुण्यनाशकं शास्त्रीयत्वात्पुण्यवदित्यधिकाशङ्कामुक्त्वातिदेशं व्याचष्टे - धर्मस्येत्यादिना । ज्ञानं पुण्यनाशकं समूलविद्याघातित्वादिति न्यायोपेतागमबाधितमनुमानमिति भावः । ननु क्षीयन्ते चेत्यविशेषश्रुतिः पापविषया सर्वं पाप्मानं तरतीति विशेषश्रुतेरित्यत आह - यत्रापि केवल इति । पापपुण्यक्षयपराधिकरणद्वयस्य फलमाह -
पाते त्विति ॥१४॥ 【भाष्यम्】 【भाष्यम्】 अनारब्धकार्ये एव तु । उक्तकर्मक्षयं विषयीकृत्य क्षीयन्ते चेत्यविशेषश्रुतेस्तस्य तावदेव चिरमिति श्रुतेश्च संशयमाह - पूर्वयोरिति । जीवन्मुक्त्यसिद्धिस्तत्सिद्धिश्चेत्युभयत्र फलम् । पूर्वसिद्धान्तन्यायेन पूर्वपक्षप्राप्तौ उक्तोत्सर्गतः कर्मक्षतिः प्रारब्धान्यकर्मविषयेत्यपवादं सिद्धान्यति - एवमिति । सामिशब्दोऽर्धवाचकः । प्रारब्धाद्यावन्न विमुच्यते तावानेव विलम्बस्तन्मोक्षे ब्रह्म सम्पद्यत इति श्रुत्यर्थः । देहपातावधिलिङ्गात्तत्त्वविदां याज्ञवल्क्यादीनां देहधारणश्रुतिस्मृतिलिङ्गाच्च प्रारब्धकर्मणस्तत्त्वज्ञानं प्रति हेतुत्वेनोपजीव्यत्वाच्च प्राबल्यसिद्धेस्तत्प्रतिबद्धं तत्त्वज्ञानं तत्सिद्ध्यर्थमविद्यांशं विक्षेपशक्त्याख्यं विहायावरकाविद्यांशं नाशयतीत्याह - उच्यते न तावदिति । विक्षेपकाविद्यालेश एव तत्संस्कारः । शिष्यान्प्रति जीवन्मुक्तौ स्वानुभवमाह -
अपि च नैवेति ॥१५॥ 【भाष्यम्】 【भाष्यम्】 अग्निहोत्रादि तु । नित्यं नैमित्तिकं कर्म ज्ञानान्नश्यति न वेति सन्देहे उभे पुण्यपापे तरतीत्यविशेषश्रुतेर्नश्यतीत्याशङ्क्योत्तरस्यापीत्युक्तातिदेशस्य नित्याद्यतिरिक्तकाम्यपुण्यविषयत्वेनात्रापवादं सिद्धान्तयति - पुण्यस्येत्यादिना । अत्र पूर्वपक्षे ज्ञानार्थं नित्याद्यनुष्ठानासिद्धिः पङ्कक्षालनन्यायात्, सिद्धान्ते तु ज्ञानोत्पत्त्यर्थत्वात्तत्सिद्धिरिति विवेकः । अत्र भाष्ये ज्ञानकर्मणोः साक्षादेककार्यत्वं परमतेनोक्त्वा साक्षात्पारम्पर्याभ्यां मोक्षहेतुत्वं स्वमतमुक्तमिति मन्तव्यम् । अत एवेति ज्ञानादूर्ध्वं कर्माभावात्पूर्वकर्मविषयमित्यर्थः । निर्गुणविद्यायाः कर्मसाहित्यं तृप्तिं प्रति भोजनस्य लाङ्गलेनेव दर्शितम् , सम्प्रति सगुणविद्यापरत्वेन सूत्रस्याञ्जस्यमाह -
सगुणास्विति ॥१६॥ 【भाष्यम्】 【भाष्यम्】 उत्तरसूत्रार्थं गृह्णाति - किमित्यादिना ।
यत्प्रारब्धादन्यत्काम्यं पुण्यं पापं च तदेव विद्वत्सुहृद्द्विषतोः स्वसमानजातीयं कर्म जनयति स्वयं च ज्ञानान्नश्यतीति भावः ॥१७॥ 【भाष्यम्】 【भाष्यम्】 यदेव विद्ययेति हि । उक्तनित्यादिकं विषयमुपजीव्य सबीजं संशयमुक्त्वा पूर्वपक्षमाह - विद्यासंयुक्तमेवेति ।
अत्र पूर्वपक्षे कर्माङ्गोपास्तिहीनकर्मणो ज्ञानार्थत्वासिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः । भवतु विद्याविशिष्टस्य कर्मणो ज्ञानं प्रति शीघ्रकारित्वाख्यः कश्चिदतिशयो विद्यासामर्थ्यात् । नैतावता केवलस्य वैयर्थ्यं विविदिषाश्रुतिविरोधात् । न च तत्र श्रुतौ यज्ञादिशब्दानां विद्योपेतकर्मपरतया सङ्कोचो युक्तः । हि यतः । 'यदेव विद्यया' इति श्रुतिः केवलस्यापि वीर्यवत्त्वं गमयतीति सिद्धान्तग्रन्थार्थः ॥१८॥ 【भाष्यम्】 【भाष्यम्】 भोगेन त्वितरे क्षपयित्वा सम्पद्यते । तत्त्वविदत्र विषयः, स किं प्रारब्धक्षयानन्तरं संसरत्युत नेति निमित्तभावाभावाभ्यां संशये सिद्धान्तमुपक्रमते - अनारब्धेति । अनारब्धकर्मणः क्षयोक्तावारब्धस्य कथं क्षय इत्याकाङ्क्षायामस्योत्थानात्सङ्गतिः । पूर्वपक्षे विदेहकैवल्यासिद्धिः सिद्धान्ते तत्सिद्धिरिति भेदः । देहपातोत्तरमपि तत्त्ववित्संसरति संसारयोग्यत्वाद्यथा देहपातात्पूर्वमित्यनारब्धाधिकरणदृष्टान्तेन पूर्वपक्षमाह - नन्विति ।
भोगनिमित्तकर्माभावाद्धेत्वसिद्धिः । यत्तु सञ्चितं कर्मान्तरं तन्न निमित्तं फलस्य, दग्धमूलत्वात् । अविद्यादयो हि क्लेशाः कर्मणस्तत्फलस्य च मूलम् । तदुक्तं योगशास्त्रे 'क्लेशमूलः कर्माशयः सति मूले तद्विपाकः' इति । तच्च मूलं ज्ञानाग्निना दग्धमिति कुतः पुनः संसारस्तस्माद्देहपाते कैवल्यमिति सिद्धम् ॥१९॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ भाष्यरत्नप्रभायां चतुर्थस्याध्यायस्य प्रथमः पादः ॥१॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति चतुर्थस्याध्याय जीवन्मुक्तिनिरूपणाख्यः प्रथमः पादः ॥ चतुर्थेऽध्याये द्वितीयः पादः । वाङ्मनसि दर्शनाच्छब्धाच्च । ज्ञानफलोक्त्यनन्तरमुपासनफलं ब्रह्मलोकस्थं वक्तव्यं तच्चार्चिरादिमार्गप्राप्यम् , मार्गप्राप्तिश्चोत्क्रान्तिसाध्या तस्मादुपास्तिफलक्षिप्तोत्क्रान्तिपादस्यास्त्याध्यायसङ्गतिः । युक्तं चास्य पूर्वपादानन्तर्यं ज्ञानफलोक्त्यनन्तरं वक्तव्योपास्तिफलेनाक्षिप्तत्वादित्याह - अथेति । ज्ञानिन इवोपासकस्याप्युत्क्रान्तिर्नेत्यत आह - समानेति । विद्वानुपासकः, तस्यानुपासकवदुत्क्रान्तिरस्ति, अज्ञत्वादिति वक्ष्यत इत्यर्थः । प्रयतो म्रियमाणस्येत्यर्थः । वाक्पदस्य करणभावव्युत्पत्तिभ्यां करणतद्वृत्त्योर्लयभानात्संशयः । पूर्वपक्षे करणानां स्वरूपलयान्मृतमात्रस्य मुक्तिः, सिद्धान्ते तु संसारसिद्धिः । अनुपादाने मनसि वाचस्तत्त्वलयायोगेन व्यापारमात्रोपशमादिति विवेकः । सूत्रे वृत्तिपदाध्याहारः कथमिति शङ्कते - कथमिति । उत्तरत्र हि सूत्रकृत्तत्त्वविद इन्द्रियाणां स्वरूपलयं वक्ष्यति तद्बलादिहाध्याहार उचितः । अज्ञस्यापि इन्द्रियलयसाम्ये वक्ष्यमाणविशेषोक्त्ययोगादिति समाध्यर्थः । प्रकृतावेव विकारलय इति न्यायविरुद्धार्थं श्रुतिरपि न ब्रूत इति सिद्धान्तयति - अतत्प्रकृतित्वादिति ।
न्यायस्य निरवकाशत्वाद्बलीयस्त्वं शब्दस्य तूक्तिर्वागिति व्युत्पत्त्या लक्षणया वा सावकाशत्वमिति द्योतयितुं शब्दाच्चेत्युक्तम् ॥१॥ 【भाष्यम्】 【भाष्यम्】 वाच्युक्तं न्यायं चक्षुरादिष्वतिदिशति - अत एवेति । उपशान्तदेहौष्ण्यस्तस्मादुत्क्रमणादूर्ध्वं पुनर्भवं प्रतिपद्यत इति श्रुत्यर्थः । इन्द्रियशब्दस्य श्रुतिस्थस्य वृत्तिपरतयोपपत्तेः । सर्वेन्द्रियवृत्तिलयश्चेदिष्टस्तर्हि वाङ्मनसीति पृथक्सूत्रं किमर्थमित्यत आह -
सर्वेषां करणानामिति ॥२॥ 【भाष्यम्】 【भाष्यम्】 तन्मनः प्राण उत्तरात् । वाक्यक्रमादर्थक्रमाच्चाधिकरणक्रमः । श्रुतिन्यायाभ्यां संशयः पूर्वं प्रबलन्यायविरोधाद्वागिति श्रुतेर्बाधः कृतः इह त्वबात्मकप्राणस्य अन्नात्मकमनःप्रकृतित्वेन प्रकृतौ विकारलय इति न्यायानुग्रहान्न मनःश्रुतिर्बाध्येति पूर्वपक्षफलं पूर्ववत्, सिद्धान्तस्त्वबन्नयोः प्रकृतिविकृतिभावेऽपि न तद्विकारयोः प्राणमनसोस्तद्भावो हिमघटयोरपि तद्भावप्रसङ्गादतो न्यायविरोधात्पूर्ववच्छ्रुतिर्बाध्येति विवेकः । आगृहीता बाह्येन्द्रियवृत्तयो येन तत्तथा लीनेन्द्रियवृत्तिकं मनोऽपि वृत्तिलयेनैव प्राणे लीयत इत्यर्थः । एवमपीति ।
प्राणस्याब्विकारत्वपक्षेऽपीत्यर्थः । तस्मादिति प्राणस्य साक्षान्मनःप्रकृतित्वाभावान्मनःशब्दो वृत्तिं लक्षयतीत्यर्थः ॥३॥ 【भाष्यम्】 【भाष्यम्】 सोऽध्यक्षे तदुपगमादिभ्यः । उक्तन्यायसिद्धं प्राणस्यापि वृत्तिलयमुपजीव्य 'प्राणस्तेजसि' इति श्रुतेरूपगमादिश्रुतेश्च संशयमुक्त्वा जीवे लयं विनापि उपगमादिसम्भव इति पूर्वपक्षयति - स्थितमित्यादिना । अत्र तेजःशब्दस्य मुख्यत्वम् , सिद्धान्ते तु भूतोपहितजीवलक्षकत्वमिति मत्वा सूत्रं योजयति - स प्रकृत इत्यादिना । अज्ञानकर्मवासनोपाधिक इत्यर्थः । तं जीवं प्रति प्राणानामुपगमानुगमनावस्थानश्रुतिभ्य इति हेत्वर्थः । यथा यात्रेच्छावन्तं राजानं भृत्या उपगच्छन्त्येवमेव परलोकं जिगमिषुं जीवं सर्वे प्राणा आभिमुख्येनायान्तीत्युपगमः श्रुतः । तमुत्क्रामन्तमित्यनुगमनं श्रुतम् । जीवे प्राणावस्थानश्रुतिमाह - सविज्ञान इति ।
जीवस्य प्राप्तव्यफलावगमाय हि विज्ञानसाहित्यश्रुत्या मुख्यप्राणसहितकरणानां जीवे स्थितिर्भातीत्यर्थः ॥४॥ 【भाष्यम्】 【भाष्यम्】 यद्यपि प्राणस्य तेजस्यव्यवधानेन लयः श्रुतस्तथाप्युभयश्रुत्यनुग्रहाय प्राणो जीवे लीयते, जीवद्वारा च तदुपाधिषु तेजआदिभूतेष्विति श्रुत्यर्थस्फुटीकरणार्थं सूत्रं गृह्णाति - कथं तर्हीति । न च लयं विनापि जीवं प्रत्युपगमादिसम्भवात्तेजःश्रुतिर्मुख्यास्त्विति वाच्यम् , जीवं प्रत्यागत्य प्राणस्य निर्व्यापारत्वेन स्थितेरेवात्र लयत्वादिति भावः । भूतेषु जीवस्थितिः किं बलाद्व्याख्यायत इत्याशङ्क्य 'सोऽध्यक्षे' इति सूत्रोदाहृतश्रुतिबलादित्याह - नन्वित्यादिना । प्राणस्य जीवद्वारा भूतप्राप्तौ दृष्टान्तमाह -
योऽपि हीति ॥५॥ 【भाष्यम्】 【भाष्यम्】 स्थूलदेहारम्भाय पञ्चीकृतभूतान्यावश्यकानीति रंहत्यधिकरणे व्याख्यातम् । अण्व्यः सूक्ष्माः, मीयन्त इति मात्राः परिच्छिन्नाः प्राङ्मोक्षादविनाशिन्यः, दशार्धानां पञ्चानां भूतानां सूक्ष्मभागा इति यावत् । जीवस्य भूताश्रयत्वं कर्माश्रयत्वश्रुतिविरुद्धमित्याशङ्क्य कर्म निमित्तत्वेनाश्रयः, भूतानि तु देहोपादानत्वेनेत्युभयमविरुद्धमित्याह - ननु चेत्यादिना ।
तौ याज्ञवल्क्यार्तभागौ यज्जीवाधारमूचतुस्तत्कर्मेति श्रुतेर्वचनम् ॥६॥ 【भाष्यम्】 【भाष्यम्】 एवं बाह्येन्द्रियाणां मनसि प्रथमं वृत्तिलयलाभात्ततो मनोवृत्तेः प्राणे लयः प्राणवृत्तेर्भूतोपहितजीवे लय इत्युत्क्रान्तिव्यवस्थोक्ता । सा च सर्वप्राणिषु तुल्येत्याह - समाना चानुपोष्य । 'पुरुषस्य प्रयतो वाङ्मनसि' इत्यविशेषश्रुतेः 'विद्ययामृतमश्नुते' इति श्रुतेश्च संशयमाह - सेयमिति । विशयानानां सन्दिहानानामित्यर्थः । पूर्वपक्षे सगुणब्रह्मविदसम्बन्धित्वमुत्क्रान्तेर्विशेषः साध्यते । ततोऽनूत्क्रान्त उपासको मुक्तिमश्नुत इति फलम् , सिद्धान्ते तूत्क्रान्तो ब्रह्मलोकभागीति फलभेदः । पूर्वपक्षमाक्षिप्य समाधत्ते - ननु विद्येत्यादिना । विद्ययामृतमिति श्रुतिनिर्गुणविद्यावत्परा । न तस्य प्राणा उत्क्रामन्तीति प्रतिषेधोऽपि तद्विषयः । अतः सगुणविदोऽप्यज्ञस्यैवोत्क्रान्तिरिति सिद्धान्तयति - एवमिति । सृतिर्मार्गस्तस्योपक्रमोऽर्चिःप्राप्तिस्ततः प्राक्तना उत्क्रान्तिस्तुल्या, तत उपासको मूर्धन्यनाडीद्वारार्चिरादिमार्गं प्राप्नोति नान्य इति विशेषः । यत्तु दहरोपासकस्यामृतत्वं श्रुतं 'तयोर्ध्वमायन्नमृतत्वमेति' इति तदापेक्षिकमेव न मुख्यं 'यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति' इति भोगश्रवणादित्याह - अनुपोष्य चेदमिति ।
उष दाह इति धातोरिदं रूपम् ॥७॥ 【भाष्यम्】 【भाष्यम्】 तदापीतेः । पूर्वोदाहृतोत्क्रान्तिवाक्यशेषं व्याख्याय लिङ्गाश्रयपञ्चभूतानां किमात्यन्तिको ब्रह्मणि लय उतानात्यन्तिक इति लयस्योभयथादर्शनात्संशयमाह - कीदृशी पुनरियमिति ।
पूर्वत्रापेक्षिकममृतत्वमित्युक्तं तदयुक्तमित्याक्षेपात्सङ्गतिः । पूर्वपक्षे मृतमात्रस्य मुक्तिसिद्धिः, सिद्धान्ते तु कर्मविद्याशास्त्रबलात्सावशेषलयसिद्धिरिति विवेकः ॥८॥ 【भाष्यम्】 【भाष्यम्】 ननु लिङ्गात्मकस्य तेजसः कथं सूक्ष्मतमनाडीद्वारा गतिः कुतो वा केनचिन्मूर्तेन प्रतिघातो नास्ति कुतो वा न दृश्यत इत्यत आह -
सूक्ष्ममिति ॥९॥ 【भाष्यम्】 【भाष्यम्】
प्रमाणसौक्ष्म्याद्गतिरनुद्भूतस्पर्शरूपवत्त्वाख्यस्वच्छत्वादप्रतिघातानुपलब्धी इत्यर्थः ॥१०॥ 【भाष्यम्】 【भाष्यम्】 लिङ्गसद्भावे चौष्ण्यलिङ्गकानुमानमाह -
अस्यैव चेति ॥११॥ 【भाष्यम्】 【भाष्यम्】 प्रतिषेधादिति चेन्न शारीरात् । पूर्वमनुपोष्येति पदेन दग्धाशेषक्लेशस्य निर्गुणज्ञानिन उत्क्रान्त्याद्यभावः सूचितस्तस्यात्राक्षिप्य समाधानाद्व्यवहितेनास्य सङ्गतिरित्याह - अमृतत्वं चेति । सकामस्य संसारोक्त्यनन्तरं निष्कामस्य मुक्तिप्रकरणार्थोऽथशब्दः आत्मकामत्वात्पूर्णानन्दात्मवित्त्वादाप्तकामः प्राप्तपरमानन्दः, अतो निष्कामः अनभिव्यक्तान्तरवासनात्मककामशून्यः, तस्मादकामः व्यक्तबहिष्कामरहितः, ईदृशो योऽकामयमानस्तस्येत्यन्वयः । ज्ञानिन उत्क्रान्तिरस्ति न वेति पञ्चमीषष्ठीश्रुतिभ्यां सन्देहे सिद्धान्तिशङ्कानिरासपूर्वकं पूर्वपक्षयति -
नेत्यादिना ॥१२॥ 【भाष्यम्】 【भाष्यम्】 काण्वश्रुतौ तावत्तस्येति सर्वनाम्ना प्रकृतं ज्ञानिनं परामृश्य सम्बन्धसामान्यमुक्तं तत्र माध्यन्दिनशाखायां तस्मादित्यपादानत्वरूपविशेष उक्तो ग्राह्यस्तथा च जीवात्प्राणोत्क्रान्तिप्रतिषेधो भाति न देहात्तच्छब्देन देहस्यानुक्तेस्तस्माज्ज्ञानिनोऽप्युत्क्रान्तिरस्तीति ज्ञानवैयर्थ्यमिति पूर्वपक्षफलम् । सिद्धान्ते तत्सार्थक्यमाह - स्पष्टो हीति । अत्र पुरुषशब्दवाच्यो देह एवस्मादित्युत्क्रान्त्यवधिरुच्यते । सशब्दपरामृष्टस्य प्रकृतस्य पुरुषस्योच्छ्वयनादिधर्मकस्य जीवत्वायोगादित्यर्थः । उच्छ्वयति बाह्यवायुपूरणाद्वर्धते, आध्मायति आर्द्रभेरीवच्छब्दं करोतीत्यर्थः । येषां पञ्चमीपाठस्तेषां यद्यपि देहिनः प्राधान्यं तथापि देहदेहिनोरभेदात्तस्मादिति देहं परामृश्य तदापादन एवोत्क्रान्तिप्रतिषेध इति व्याख्येयम् । तत्सामान्यादुक्तश्रुत्यास्य पाठस्यैकार्थत्वादिति योजना । इदानीं काण्वपाठस्यानुगुण्यमाह - येषां तु षष्ठीपाठ इति । सम्बन्धविशेषाकाङ्क्षायां भोक्ता प्राणानां भोगोपकरणत्वविशेषोऽत्रैव प्राणमयो मनोमयः इति पूर्वश्रुत्युक्तो ग्राह्यः । न शाखान्तरस्थमपादानत्वं ग्राह्यं जीवादुत्क्रान्तेरप्राप्तायाः प्रतिषेधायोगात् । अतो विद्वत्सम्बन्धिप्राणानामुत्क्रान्त्यपादानापेक्षायां चक्षुष्टो वा मूर्ध्नो वेत्युक्तदेहप्रदेशा एव ग्राह्याः । तथा चायमर्थः - तस्य विदुषो भोगोपकरणात्मकाः प्राणाः देहप्रदेशेभ्यो नोत्क्रामन्तीति । एवं च प्राप्तोत्क्रान्तिनिषेधार्थत्वं वाक्यस्येति सर्वं चतुरस्रम् । अपि चेति स्पष्टार्थम् । सम्यगात्मभावेन भूतानि पश्यतः अपदस्य प्राप्यपदरहितस्य पदैषिणो देवा अपि मार्गे मुह्यन्ति मार्गं न जानन्ति तदभावादिति स्मृतियोजना । समृत्यन्तरविरोधं शङ्कते - ननु गतिरपीति । सगुणविद्याबलेनैषा गतिरिति परिहरति - सशरीरस्येति । ननु तर्हि 'तयोर्ध्वमायन्नमृतत्वमेति', 'स एवैतान्ब्रह्म गमयति' इत्यादिश्रुतीनां का गतिः, तत्राह -
गतीति ॥१३ ॥ ॥१४॥ 【भाष्यम्】 【भाष्यम्】 तानि परे तथाह्याह । पूर्वत्र गतिनिषेधेन विद्वत्कलानां घ्राणादीनामत्रैव लय उक्तः । तमुपजीव्य स किं तत्तत्कलाप्रकृतिषु पृथिव्यादिषु स्यादुत परमात्मनीति श्रुतिद्वयदर्शनात्संशयः कार्यः । तत्र साक्षात्प्रकृतौ विकारलय इति न्यायानुगृहीतया 'गताः कलाः' इति श्रुत्या पूर्वपक्षमग्रे वदन्नादौ सिद्धान्तमाह - तानीति ।
यथा नद्यः समुद्रं प्राप्य लीयन्ते एवमेवास्य परितः सर्वत्र ब्रह्मद्रष्टुरिमाः प्राणश्रद्धाद्याः पुरुषायणाः पुरुषे कल्पिताः पुरुषमेव ज्ञेयं प्राप्य लयं गच्छन्तीत्यर्थः । मनःप्राणयोरेकीकरणेन कलानां पञ्चदशत्वम् । प्रतिष्ठा इति द्वितीयाबहुवचनम् । स्वस्य प्रकृतीः पृथिव्याद्या इत्यर्थः । वस्तुगत्या विद्वद्दृष्ट्या परमात्मनि कलालयेऽपि लोकदृष्ट्या प्रतिष्ठासु लयोक्तिरविरुद्धा । तथा च कलाः स्वप्रकृतिषु विलाप्य ताभिः सह पुरुषे लीयन्ते इति श्रुतिद्वयतात्पर्यम् ॥१५॥ 【भाष्यम्】 【भाष्यम्】 अविभागो वचनात् । उक्तलयमुपजीव्य लयस्य द्वेधादर्शनात्संशयमाह - स पुनरिति । मुक्त्यसिद्धिस्तत्सिद्धिश्चेत्युभयत्र फलम् । अवशेषो मूलकारणे शक्त्यात्मना स्थितिः । पुनर्जन्मयोग्यतेति यावत् । विमतः कलालयः सावशेषः, कलालयत्वात्सुषुप्तिवदिति पूर्वपक्षः । विमतो निरवशेषः, विद्याकृतत्वाद्रज्ज्वा विद्यया सर्पलयवदिति युक्त्युपेतश्रुत्या सिद्धान्तयति - ब्रवीतीति ।
नामरूपे शक्त्यात्मके अपि भिद्येते इत्यर्थः ॥१६॥ 【भाष्यम्】 【भाष्यम्】 तदोकोग्रज्वलनम् । सृतेर्मार्गस्योपक्रमो नाडीप्रवेशनियमस्तं वक्तुं सूत्रभागव्याख्याद्वाराधिकरणविषयमाह - तस्येति । स मुमूर्षुस्तेजोमात्रा इन्द्रियाणि । तस्य हृदयस्याग्रं नाडीमुखं तस्य ज्वलनं भाविफलस्फुरणं प्रद्योताख्यम् । चक्षुष्टो वेत्यनियमश्रुतेस्तयोर्ध्वमायन्निति विशेषश्रुतेश्च संशयः किमुपासकोऽप्यनुपासकवद्येन केनचिद्द्वारेण निर्गच्छति उत मूर्धन्यनाड्यैवेति । अत्र पूर्वपक्षे विद्याकृतातिशयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति विवेकः । वचनादविभागवदनियम इति प्राप्ते सिद्धान्तयति - आचष्ट इति ।
येन केनचिन्मार्गेण निर्गतस्यापि ब्रह्मलोकप्राप्तौ विद्याशेषत्वेन मार्गानुस्मृतिविधेः केवलादृष्टार्थत्वं स्यादतोऽन्वहं स्मृतेनैव मार्गेण गमनं युक्तमिति भावः । हार्दं ब्रह्म । विष्वङ्नानाविधा अन्या नाड्योऽन्येषामित्यर्थः । सुषुम्नाख्या नाडी हृदयान्निर्गता दक्षिणाक्षितालुकण्ठान्तस्तननासिकामध्यभित्तिद्वारा ब्रह्मरन्ध्रं प्राप्ता सूर्यरश्मिभिरेकीकृता ब्रह्मलोकमार्ग उपासकस्येति स्थितम् ॥१७॥ 【भाष्यम्】 【भाष्यम्】 रश्म्यनुसारी । प्रकरणशोधनपूर्वकमुपासकस्य रश्म्यनुसारित्वं विषयमाह - अस्तीत्यादिना । अथ प्रारब्धान्ते एतदुत्क्रमणं यदा स्यादथ तदा एतैरेव नाडीसम्बद्धै रश्मिभिरुत्क्रामतीत्यर्थः । अत्र सम्बन्धस्य कालविशेषाश्रवणाद्रात्रौ रश्म्यभावाच्च संशयमाह - तत्किमिति । पूर्वोक्तनाडीसम्बद्धरश्मीनामत्रोपजीव्यत्वात्सङ्गतिः । पूर्वपक्षे रात्रौ मृतस्य रश्मिप्राप्त्यर्थं सूर्योदयप्रतीक्षास्ति, सिद्धान्ते नास्तीति मत्वा सिद्धान्तं प्रतिजानीते -
अविशेषेणेति ॥१८॥ 【भाष्यम्】 【भाष्यम्】 पूर्वपक्षबीजमुपन्यस्य दूषयति - निशीत्यादिना । शिरा नाड्यः प्रतायन्ते विस्तृता भवन्ति, सृप्ताः सम्बद्धाः । श्रुतसम्बन्धस्य रात्रौ सत्त्वे युक्तिमाह - निदाघेति । तर्हि हेमन्तादिरात्रिष्वौष्ण्योपलब्धिः स्यादित्यत आह - स्तोकेति ।
सविता रात्रावप्यहर्दधातीति धारणाभिधानं स्तोकरश्म्यनुवृत्त्यभिप्रायमेवेत्यर्थः । किञ्च यदि रात्रौ मृतस्य रश्मियोगं विनैवोर्ध्वगतिः स्यात्तदा रश्मिश्रुतेर्दिवामृतविषयतया सङ्कोचः स्यादूर्ध्वगत्यभावे च विद्यायामप्रवृत्तिः स्यात् । न च प्रतीक्षयोर्ध्वगतिरिति वाच्यम् , रश्म्युदयात्प्राग्देहदाहे आदित्यप्रतीक्षावैयर्थ्यापातादप्रतीक्षाश्रुतिविरोधाच्च । तस्माद्यदा कदाचिन्मृतस्य रश्मिप्राप्त्या झटिति ब्रह्मलोकप्राप्तिरिति ॥१९॥ 【भाष्यम्】 【भाष्यम्】 एवं दक्षिणायने मृतो विद्वान्विद्याफलमाप्नोति न वेति विद्याया नित्यवत्फलश्रुतेरुत्तरायणप्राशस्त्यशास्त्राच्च सन्देहे पूर्वोक्तहेतूनतिदिशति - अतश्चायनेऽपि दक्षिणे । पूर्वपक्षमाशङ्क्यापनुदति - उत्तरायणेत्यादिना ।
अज्ञानामुत्तरायणे दैवान्मरणं चेत्प्रशस्तमित्यभिज्ञाभिवचनरूपाचारपरिपालनार्थं भीष्मस्य प्रतीक्षा । षण्मासानिति श्रुतिस्तूत्तरायणदेवतापरेति वक्ष्यते । तथा च देवतायाः सदा सत्त्वाद्विद्यया दक्षिणायनकालेऽपि तत्प्राप्तिरविरुद्धेति भावः ॥२०॥ 【भाष्यम्】 【भाष्यम्】 स्मृतिबलात्कालप्राधान्यं शङ्कते - ननु चेति । श्रौतदहराद्युपासकस्यास्माभिः कालानपेक्षोक्ता, स्मार्तयोगिनां तु कालापेक्षा स्मृतावुच्यत इत्यविरोधमाह - योगिन इति । योगी दहराद्युपासक एव स्मृत्युक्तः किं न स्यादित्यत आह - स्मार्ते चेति । भगवदाराधनबुद्ध्यानुष्ठितं कर्म योगः 'अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च' इति स्मृतेः । धारणापूर्वकोऽकर्तृत्वानुभवः साङ्ख्यम् , 'इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्' इति स्मृतेः । ननु श्रुतिस्मृत्योर्भिन्नार्थत्वमयुक्तं प्रत्यभिज्ञाविरोधादिति शङ्कते - नन्वग्निरिति ।
कालाग्रहिणं प्रति भिन्नार्थत्वमुक्तम् । यदि तु श्रौतार्थप्रत्यभिज्ञया कालशब्दो देवतापरस्तर्ह्यैकार्थ्यमेवेति समाध्यर्थः । तस्माद्विद्यासामर्थ्यात्सर्वदैव दिष्ठङ्गतस्य उपासकस्य फलप्राप्तिरिति सिद्धम् ॥२१॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दकृतौ श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां चतुर्थध्यायस्य द्वितीयः पादः ॥२॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति चतुर्थस्याध्यायस्योत्क्रान्तिगतिनिरूपणाख्यो द्वितीयः पादः ॥ चतुर्थेऽध्याये तृतीयः पादः । एवमुत्क्रान्तिं निरूप्य तत्साध्यं मार्गं गन्तव्यं च निरूपयितुं पादमारभते - अर्चिरादिना तत्प्रथितेः । वृत्तानुवादपूर्वकमाद्याधिकरणस्य विषयं मार्गमाह - आसृतीति । विरजा विरजसः निष्पापा इत्यर्थः । श्रुतिविप्रतिपत्त्या संशयः । पूर्वं यदाकदाचिन्मृतस्यापि फलप्राप्तिरुक्ता तद्वद्येन केनचिन्मार्गेण गतिरिति पूर्वपक्षफलं विकल्पः, सिद्धान्ते मार्गैक्यमिति विवेकः । उपासनाभेदात्तच्छेषत्वेन ध्येयानां मार्गाणां भेदः, एवकाराच्च । किञ्च मार्गभेदे सत्यस्मादयं मार्गस्त्वरया प्रापक इति युक्तं न मार्गैक्य इत्यर्थः । उपासनाभेदेऽप्युपास्यब्रह्मैक्यवन्मार्गैक्यमविरुद्धमिति सिद्धान्तयति - एवमिति । तस्य मार्गस्य प्रसिद्धत्वादिति हेत्वर्थः । ये चेत्यविशेषश्रुतिरश्रुतगतिविद्याविषयेति मार्गभेदं शङ्कते - स्यादेतदिति । एकस्यैव मार्गस्यानेकान्यग्न्यादीनि विशेषणानीत्युक्ते लाघवान्न मार्गभेदः । प्रत्यभिज्ञानाच्चेति समाध्यर्थः । गन्तव्यैक्यं विवृणोति - तथा हीति । परावतो दीर्घायुषो हिरण्यगर्भस्य परा दीर्घाः समाः संवत्सरान्वसन्ति कार्यब्रह्मणो या जितिः सर्वत्र जयः, व्युष्टिर्व्याप्तिस्तां लभत इत्यर्थः । एवं गन्तव्यैक्यवत्प्रत्यभिज्ञया मार्गैक्यनिश्चयात्प्रकरणभेदोऽप्रयोजक इत्युक्तं सम्प्रत्येवकारत्वरावचनयोर्गतिमाह - यत्त्वित्यादिना । रात्रौ स्पष्टरश्म्यभावाद्विदुषो रश्म्ययोगप्राप्तौ तन्निरासार्थमेवकारो नान्यव्यावृत्त्यर्थः । यथा लौकिकमार्गे विलम्बस्तथा अर्चिरादौ नेति त्वरावचनोपपत्तिरित्यर्थः । मार्गैक्ये लिङ्गमाह - अपि चेति । शुभमार्गबाहुल्ये तृतीयस्थानोक्तिर्न स्यादिति भावः । उत्तरमार्गैक्येऽप्यर्चिरादिनेति विशेषणे को हेतुरित्यत आह -
भूयांसीति ॥१॥ 【भाष्यम्】 【भाष्यम्】 उक्तं मार्गस्यैक्यमुपजीव्य पर्वक्रममाह - वायुमब्दात् । अर्चिरादिष्वस्मादयमनन्तर इति क्रमेण विशेषणविशेष्यभाव उच्यत इत्यधिकरणस्य तात्पर्यमुक्त्वा विषयमाह - स एतमिति । अत्राग्न्यनन्तरं पठितो वायुर्विषयः । स किमर्चिरात्मकाग्नेरनन्तरमुत संवत्सरात्पर इति पाठाद्वक्ष्यमाणविशेषश्रुतेश्च संशये सिद्धान्तमेवोपक्रमते - उच्यत इति । पुरुषः उपासकोऽस्माल्लोकाद्देहात्प्रैति निर्गच्छति तस्मै प्राप्ताय पुरुषाय स वायुस्तत्र स्वात्मनि विजिहीते छिद्रं करोति, तेन वायुदत्तेन रथचक्रछिद्रतुल्येन द्वारेणोर्ध्वमादित्यं गच्छतीति श्रुत्यर्थः । इदानीं पूर्वपक्षमाह - कस्मात्पुनरिति । पाठबलादर्चिषोऽनन्तरो वायुरित्यर्थः । कौषीतकिनां पाठमात्रम् , न क्रमविशेषवाची कश्चिच्छब्दोऽस्ति । काण्वानां तु तेनेत्यूर्ध्वमिति च शब्दाभ्यां क्रमनिश्चयात्पाठबाध इति सिद्धान्तार्थः । अस्त्वर्चिरादिमार्गे छान्दोग्यस्थे संवत्सरपाठाद्वायोरब्दात्परत्वम् , वाजिश्रुतिस्थे तु संवत्सरस्याश्रुतेः कथमब्दात्परो वायुरित्यत आह - वाजेति । तर्हि देवलोकाद्वायुमिति सूत्रं स्यादित्यत आह - वायुमब्दादिति त्विति ।
संवत्सरस्य मासावयवित्वान्मासानन्तर्यं संवत्सरात्परो देवलोकस्ततः परो वायुर्वायोः पर आदित्य इति श्रुतिद्वये क्रमो निष्पन्नः । तेनेति तृतीयाश्रुत्या वायोरादित्यपूर्वत्वावगमादिति, सूत्रे तु वायुपदं देवलोकपूर्वकवायुपरमिति स्थितम् ॥२॥ 【भाष्यम्】 【भाष्यम्】 एवं कौषीतकिभिरग्न्यनन्तरं पठितस्य वायोः स्थानमुक्त्वा वाय्वनन्तरं पठितस्य वरुणस्यार्चिरादिमार्गे स्थानमाह - तडितोऽधि वरुणः सम्बन्धात् । पठितो वरुणादिर्मार्गपर्वत्वेन सम्बध्यते न वेति सन्देहेऽर्चिषोऽहरित्यादि पञ्चम्यार्चिरादीनां क्रमेण मार्गपर्वतया बद्धत्वाद्वायोरिव स्थानविशेषश्रुत्यभावादलब्धस्थानो वरुणादिर्न सम्बध्यत इति प्राप्ते सिद्धान्तमाह - आदित्यादिति । अपां विद्युत्कार्यत्वेन सम्बन्धे मानमाह - विद्योतत इति ।
वरुणस्याब्द्वारा विद्युत्सम्बन्धात् 'आगन्तुकानामन्ते निवेशः' इति न्यायाच्च विद्युदानन्तर्ये सति यथापाठमिन्द्रप्रजापत्योः क्रम इत्यर्थः ॥३॥ 【भाष्यम्】 【भाष्यम्】 एवमर्चिरादीनां क्रमं निरूप्य स्वरूपं निरूपयति - आतिवाहिकास्तल्लिङ्गात् । चिह्ननिर्देशसाम्याल्लोकशब्दान्नेतृत्वलिङ्गाच्च संशयः । आद्यपक्षद्वयं पूर्वपक्षः । अर्चिरादयो विद्युदन्ताश्चेतना नेतारश्चामानवपुरूषेण नेत्रा सह पठितत्वादिति सिद्धान्तयति - एवमित्यादिना । यथाश्रुत्यमानवस्यास्तु नेतृत्वं नार्चिरादीनामिति शङ्कते - तद्वचनमिति । पुरुषस्यामानवत्वं नेतृत्वं चेत्युभयपरत्वे वाक्यभेदः स्यादतोऽर्चिरादिपदैर्नेतार एव मानवाः प्रकृताः प्रकरणबलाद्विद्युदनन्तरं मानवस्य नेतुः प्राप्तौ प्रकरणप्राप्तनेतृत्वानुवादेनामानवत्वमेकमेव प्रतिपाद्यत इति वक्तव्यमित्याह - नेति । नेतृप्रकरणानङ्गीकारे त्वमानवः पुरुषो गमयतीति वाक्यं भिद्येत अमानवत्ववन्नेतृत्वस्याप्यप्राप्तेरिति भावः । नेतृत्वानुवादलिङ्गस्यानुग्राहकन्यायपरं सूत्रं गृह्णाति -
नन्विति ॥४॥ 【भाष्यम्】 【भाष्यम्】 यद्यनेतारोऽचेतना एवार्चिरादयस्तर्हि मार्गतद्गन्त्रोरुभयोरपि व्यामोहादज्ञत्वादूर्ध्वगतिर्न स्यादतः स्वयं प्रयत्नशून्यश्चेतनान्तरेण नेय इति लौकिकन्यायानुग्रहात्तत्सिद्धेर्नेतृत्वसिद्धेरुक्तलिङ्गं न्यायोपेतमिति सूत्रार्थः । पूर्वपक्षद्वयं दूषयति - अनवस्थितत्वादित्यादिना । अर्चिरहरादीनामस्थिरत्वाद्रात्र्यादौ मृतस्य प्रतीक्षा नास्तीत्युक्तत्वाच्च न मार्गचिह्नत्वं भोग्यत्वं वा, देवतात्वे त्वस्थिरत्वदोषो नास्तीत्यर्थः । यत्तूपदेशस्वारस्याच्चिह्नत्वं भातीति, तत्राह - अर्चिषोऽहरिति । चिह्नत्वनेतृत्वसंशयाच्च वाक्यशेषान्निर्णय इत्याह - अपि चेति । यदुक्तं लोकशब्दाद्भोग्यत्वमिति तन्नेत्याह -
सम्पिण्डितेति । ॥५॥ 【भाष्यम्】 【भाष्यम्】 सूत्रान्तरं गृह्णाति - कथं पुनरिति
अमानवो विद्युल्लोकमागतो वैद्युतस्तेनेत्यर्थः । श्रुतौ वैद्युताल्लोकादित्यर्थः । श्रुत्या वरुणादीनां नेतृत्वाभावेऽप्यनुग्राहकत्वेन मार्गान्तर्भाव इति भावः ॥६॥ 【भाष्यम्】 【भाष्यम्】 एवं मार्गं निरूप्य गन्तव्यं चिन्तयति - कार्यं बादरिरस्य गत्युपपत्तेः । परं ब्रह्म गन्तव्यमिति पूर्वपक्षे मार्गस्य मुक्त्यर्थता कार्यं ब्रह्मेति सिद्धान्ते भोगार्थतेति मत्वा प्रथमं सिद्धान्तमाह - तत्र कार्यमेवेति ।
सर्वगतस्यापि प्रदेशान्तरविशिष्टत्वेनाकाशस्य गन्तव्यत्वं दृष्टम् , ब्रह्मणस्तु प्रत्यक्त्वान्न कथमपि गन्तव्यतेत्यर्थः ॥७॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मलोकेष्विति बहुवचनलोकशब्दाधारसप्तमीश्रुतिभिर्गन्तव्यस्य परस्माद्व्यावृत्तत्वाच्च न परं गन्तव्यमित्याह - विशेषितत्वाच्चेति ।
परब्रह्मणि भोग्यत्वोपचाराद्गौणी लोकश्रुतिरित्यर्थः । नपुंसकब्रह्मशब्देन कारणवाचिना कार्यं लक्ष्यते गन्तव्यत्वन्यायोपेतबहुवचनाद्यनेकश्रुत्यनुग्रहाय । न चानावृत्तिलिङ्गात्परस्य गन्तव्यता, क्रममुक्त्या लिङ्गस्यान्यथासिद्धेरिति भावः ॥८॥ 【भाष्यम्】 【भाष्यम्】 प्रतिसञ्चरो महाप्रलयः, तस्मिन्प्राप्ते परस्य हिरण्यगर्भस्यान्ते समष्टिलिङ्गशरीररूपविकारावसाने ब्रह्मलोकनिवासिनः कृतात्मानः शुद्धधियस्तत्रोत्पन्नसम्यग्धियः सर्वे ब्रह्मणा मुच्यमानेन सह परं पदं प्रविशन्तीति योजना । एवं सिद्धान्तमुक्त्वा तेन निरस्तं पूर्वपक्षमाह -
कं पुनरित्यादिना ॥९ ॥ ॥१० ॥ ॥११ ॥ ॥१२॥ 【भाष्यम्】 【भाष्यम्】
दहरविद्यायां कठवल्लीषु परब्रह्मप्रकरणे च तयोर्ध्वमायन्निति गतिर्दर्शिता ॥१३॥ 【भाष्यम्】 【भाष्यम्】 एवं ब्रह्मश्रुत्यमृतत्वलिङ्गाभ्यां प्रकरणाच्च परविषया गतिरित्युक्तम् , सम्प्रति प्रजापतेः सभां वेश्म प्राप्नुयामिति उपासकस्य मरणकाले कार्यप्राप्तिसङ्कल्पश्रुतेर्न परं गन्तव्यमिति शङ्कां निरस्यति - न च कार्य इति । परस्य प्रकृतत्वात्, यशःपदस्य परमात्मनामत्वप्रसिद्ध्या यशःपदेनात्मोक्तिः । यश आत्मा ब्राह्मणानामहं भवामि, तथा राज्ञां यशो विशां यश इति सार्वात्म्यलिङ्गाच्च परप्राप्तिसङ्कल्प एवायमित्यर्थः । अस्तु वेश्मप्रतिपत्तीच्छा परब्रह्मविषया तथापि सा कथं गतिपूर्विका स्यादित्यत आह - सा चेति । तत्तत्र ब्रह्मलोके विद्याविहीनेनापराजिता पूरस्ति ब्रह्मणो हिरण्यगर्भस्य तेनैव प्रभुणां विमितं निर्मितं हिरण्मयं वेश्मास्ति तत्प्रतिपद्यते विद्वानिति दहरविद्यायां गतिपूर्विका वेश्मप्राप्तिरुक्ता । तेन परब्रह्मण्यपि वेश्मप्रतिपत्तिशब्दसामान्याद्गतिपूर्वकत्वं तस्याः सिध्यतीत्यर्थः । किञ्च पद गताविति धातुपाठाद्वेश्म प्रपद्ये इत्यत्र मार्गापेक्षा भातीत्याह - पदेरपीति । पूर्वपक्षमुपसंहरति - तस्मादिति । आद्य एव सिद्धान्तपक्ष इति दृढीकर्तुमुपसङ्क्रमते - ताविति । ब्रह्मशब्दमुख्यत्वादिहेतूनामाभासत्वं स्फुटयति - न हीति । गन्तव्यत्वस्य ब्रह्मलोकेष्विति बहुवचनादेः सङ्कल्पादेव गन्धादिदिव्यभोगश्रुतेश्च परब्रह्मण्यसम्भवान्मुख्यार्थत्याग इत्यर्थः । यद्यप्येतद्वै सत्यकाम परं चापरं च ब्रह्मेत्यादिश्रुतिषु प्रयोगसाम्याद्ब्रह्मशब्द उभयत्र रूढतया मुख्य एव तथापि पूर्णे परस्मिन्नवयवार्थस्य निरतिशयमहत्त्वस्य लाभादपरब्रह्मण्यमुख्य इत्यङ्गीकृतमिति मन्तव्यम् । यदुक्तं कठवल्लीषु प्रकरणबलाद्गतिः परविषयेति, तत्राह - परेति । यथा विद्यासम्बद्धसुषुम्नास्तुत्यर्थं तदसम्बद्धनाड्यन्तरकीर्तनं तथा परविद्यास्तुत्यर्थं तत्प्रकरणेऽप्यपरविद्याश्रयगतिकीर्तनं युज्यते, गतिं विनापि हि परविद्या निरतिशयफला तस्यां त्वपरविद्याफलं गतिसाध्यमन्तर्भवतीति स्तुतिलाभादित्यर्थः । यदप्युक्तं प्राप्तिसङ्कल्पोऽपि प्रकृतपरविषय इति तन्नेत्याह - प्रजापतेरिति । प्रजापतिसभावेश्मश्रुतिभिस्तत्सङ्घातात्मकवाक्येन च प्रकरणं बाध्यम् , यशोऽहमिति सार्वात्म्यं तूपासनार्थमपरब्रह्मण्युपयुज्यत इत्यर्थः । स्वपक्षमुक्त्वा परमतं दूषयति - केचिदित्यादिना । सर्वगतस्य स्वात्मभूतस्यापि ब्रह्मणः संसारदेशाद्देशान्तरेण तत्कालात्कालान्तरेण विशिष्टतया गन्तव्यत्वं स्यादिति पृथिवीवयोदृष्टान्ताभ्यां शङ्कते - नन्विति । यत्नं विनैव प्राप्तमनन्यत्वम्, अवस्थातद्वतोरभेदात्स्वात्मभूतत्वम् । ननु युक्तं भूवयसोः प्राप्तयोरपि देशान्तरकालान्तरविशिष्टत्वेन गन्तव्यत्वं तयोर्गन्तृभिन्नत्वात्, ब्रह्मणस्तु गन्त्रभिन्नस्य कथं गन्तव्यत्वं तत्राह - सर्वशक्तीति । या प्राप्ता भूः सा न गन्तव्या यच्च गन्तव्यं देशान्तरं तत्त्वप्राप्तमिति कुतः प्राप्तस्य गन्तव्यता वयसोऽपि कालान्तरेऽभिव्यक्तिमात्रं न गन्तव्यत्वमिति वस्तुगतिः । अङ्गीकृत्य विशिष्टभूवयसोर्गन्तव्यतां परब्रह्मणो देशकालवैशिष्ट्याभावान्न कथञ्चिदपि गन्तव्यतेत्याह - नेत्यादिना । 'अनादिमत्परं ब्रह्म' इत्याद्या स्मृतिर्दृश्यविशेषस्य दृशि कल्पितत्वाद्दृगात्मनो निर्विशेषतेति न्यायः । सगुणमेव ब्रह्म सूत्रात्मापेक्षया परं गन्तव्यम् , निर्विशेषं तु नास्त्येवेति शङ्कते - जगदुत्पत्तीति । किं निर्विशेषस्यासत्त्वं मानाभावात्सविशेषश्रुतिविरोधाद्वा । नाद्य इत्याह - नेति । द्वितीयं शङ्कते - उत्पत्त्यादीति । सविशेषश्रुतीनां निर्विशेषश्रुतिशेषत्वान्न विरोध इत्याह - नेति । निर्विशेषश्रुतीनामेव सविशेषश्रुतिशेषत्वं किं न स्यादित्याह - कस्मादिति । तासां स्वार्थे फलवत्त्वेन निराकाङ्क्षत्वाच्छेषिता विशेषश्रुतीनां त्वफलत्वान्निषेध्यविशेषसमर्पणादिद्वारेण शेषत्वं फलवत्सन्निधावफलं तदङ्गमिति न्यायादित्याह - उच्यत इत्यादिना । न केवलं न्यायाच्छेषता किन्तु श्रुत्यापीत्याह - प्रत्यक्षं त्विति । तत्र मूलकारणे ब्रह्मण्येतच्छुङ्गं जगदात्मकं कार्यमुत्पन्नमित्युपक्रम्य तेन शुङ्गेन तन्मूलमन्विच्छेत्युपसंहारे सत एव ज्ञेयत्वमुक्तं छान्दोग्ये । तथा तैत्तिरीयकेऽपि जगज्जन्माद्यनुवादेन ब्रह्मण एव ज्ञेयत्वं दर्शितमतः सृष्टिश्रुतीनां श्रुत्यैव निर्विशेषधीशेषता भातीत्यर्थः । एवं ब्रह्मणो निर्विशेषत्वान्न गन्तव्यतेति फलितमाह - एवमिति । स्पष्टनिषेधाच्च परस्य न गन्तव्यतेत्याह - न तस्येति । एवं गन्तव्यालोचनया गतिं निरस्य गन्त्रालोचनयापि निरस्यति - गतिकल्पनायां चेत्यादिना । भेदाभेदेन द्वौ कल्पावत्यन्तभेदस्तृतीयः कल्पः । नन्वत्यन्ताभेदकल्पः किमिति नोक्तः, तत्राह - अत्यन्तेति । कल्पत्रये किं दूषणमिति पृच्छति - यद्येवमिति । कल्पद्वयेऽपि दोषान्तरमाह - विकारावयवपक्षयोश्चेति । विकारावयवरूपजीवविशिष्टस्य ब्रह्मणः स्थिरत्वाज्जीवानां गत्यागती न स्याताम् । न ह्यचलातिस्थूलपाषाणस्थयोर्मण्डूकपाषाणावयवयोश्चलनमस्तीत्यर्थः । अस्माकं त्वज्ञानात्कल्पितोपाधिभिर्गत्यागतिविभ्रम इति भावः । तृतीयकल्पमनूद्य विकल्प्य दूषयति - अथेत्यादिना । अभेदश्रुतिविरोधरूपो दोषो मम नास्तीति भेदाभेदवाद्याह - विकारावयवयोरिति । भिन्नयोरभेदो मुख्यो न युक्तो विरोधादिति परिहरति - नेति । किञ्च पक्षत्रयमप्ययुक्तं संसारित्वस्य तात्त्विकजीवभावस्य नाशे तात्त्विवजीवस्वरूपनाशप्रसङ्गात् । न चास्माभिरिव त्वया ब्रह्मात्मत्वं जीवस्य तात्त्विकरूपमङ्गीकृतं यदस्य संसारनाशेऽपि न नश्येदित्याह - सर्वेष्विति । ननु किं ब्रह्मत्वेन, संसाराभावः किल मोक्षः स च कर्माभावमात्रेण सेत्स्यतीति क्रमजडानां मतमुद्भाव्य निरस्यति - यत्त्वित्यादिना । तदिति । एवंवृत्तं मोक्षहेतुरित्यस्मिन्नर्थे मानाभावादित्यर्थः । तर्क एव मानमित्यत आह - न चैतत्तर्कयितुमिति । ननु तवाप्येतत्तर्कमात्रमेकस्मिञ्जन्मन्यनेकविरुद्धफलानां कर्मणां भोगायोगादस्त्यवशिष्टं कर्म जन्मान्तरस्य निमित्तमित्याशङ्क्य तत्र मानमाह - कर्मशेषसद्भावसिद्धिश्चेति । सन्त्वनारब्धफलानि पुण्यपापानि तेषां नित्याद्यनुष्ठानेन क्षयान्न जन्मान्तरमिति शङ्कते - स्यादेतदिति । पुण्येन पुण्यस्य न नाशः अविरोधादन्यथातिप्रसङ्गात् । पापस्यापि सर्वात्मना पुण्यनाश्यत्वे मानं नास्तीति सञ्चितपुण्यपापाभ्यां जन्मान्तरं दुर्वारमित्याह - तन्नेत्यादिना । क्रियमाणनित्यादिनापि जन्म स्यात्, कर्मणा पितृलोक इत्यविशेषश्रुतेः, स्मृतेश्चेत्याह - न च नित्येति । प्रत्यवायनिरासार्थे नित्याद्याचारे सत्यनु पश्चात्फलान्तरं निष्पद्यत इत्यत्र दृष्टान्तः । तद्यथेति । निर्मिते आरोपिते सतीत्यर्थः । तथापि काम्यादिकर्मसत्तानिश्चयो नास्त्यत आह - संशयितव्यं त्विति । ज्ञानं विना देहपाते मोक्ष एवेति निश्चयालाभात्त्वत्पक्षे क्षतिरिति भावः । ब्रह्मभिन्नस्य जीवस्य कर्तृत्वादिस्वभावस्य मोक्षाशापि न युक्तेत्याह - न चेति । कर्तृत्वादिरूपं कार्यं न स्वभावः किन्तु तच्छक्तिरिति शङ्कते - स्यादेतदिति । कार्यगम्यायाः शक्तेः कार्यस्यात्यन्तानुत्पादे सत्त्वमयुक्तमतः शक्तिसत्त्वे तद्विषयस्य कार्यस्यादृष्टदेशकालादिनिमित्तानां चात्मना शक्तिद्वारा नित्यसम्बद्धत्वान्मोक्षो न स्यादिति परिहरति - तच्चेत्यादिना । मोक्षसिद्ध्यर्थं जीवस्य ब्रह्मत्वाङ्गीकारे संसारानुपपत्तिमाशङ्क्याज्ञानादुपपत्तिमसकृदुक्तां स्मारयति - परस्मादित्यादिना । प्रासङ्गिकं परिहृत्य परमं प्रकृतमुपसंहरति - तदेवमिति । ननु परविद्यायामप्याप्नोतिपदेन गतिः श्रुतेत्यत आह - ब्रह्मविदाप्नोतीति । वैफल्याच्च गतेर्न परविषयत्वमित्याह - अपि चेति । अनुचिन्तनपक्षं प्रत्याह - न च नित्यसिद्धेति । कथं तर्हि कैश्चित्परविषयत्वं गतेरुक्तमित्याशङ्क्य भ्रान्त्येत्याह - तत्र परापरेति । प्रश्नपूर्वकं परापरब्रह्मविभागं वदन्नपरब्रह्मणि गतेरर्थवत्त्वमाह - किं द्वे इत्यादिना । व्यापिनो जीवस्य कथं गतिस्तत्राह -
सर्वगतत्वेऽपीति ॥१४॥ 【भाष्यम्】 【भाष्यम्】 एवं गन्तव्यं निरूप्य गन्तॄन्निर्धारयति - अप्रतीकेति । 'स एवैनान् ब्रह्म गमयति' इत्यविशेषश्रुतेः तत्क्रतुन्यायाच्च । संशयमाह - इदमिति ।
अनियमाधिकरणे तत्त्वविदोऽन्यत्र सर्वोपासकानां मार्गोपसंहार उक्तः, इदानीमप्रतीकोपासकानामेव मार्गो न सर्वेषां विकारोपासकानामित्युभयथाभावोक्तौ पूर्वोक्तविरोधः स्यात्, तस्मादुपासकमात्रस्योत्तरमार्गसिद्धिरिति पूर्वपक्षफलम् , सिद्धान्ते तूभयथाभावसिद्धिः । अदोषादिति सूत्रे पदच्छेदः, अविरोधादित्यर्थः । अनियमः सर्वासामिति सूत्रे सर्वशब्दस्य प्रतीकोपासकान्यपरत्वादिति भावः । यद्यपि प्रतीकध्यायिनां पितृयाणतृतीयस्थानयोरप्रवेशादर्चिरादिमार्गो वाच्यस्तथापि तेषां विद्युत्पर्यन्तमेव गमनमस्तु न ब्रह्मप्राप्तिर्ब्रह्मक्रतुत्वाभावात् । यो यत् ध्यायति स तत्प्राप्नोति हि तत्क्रतुन्यायः श्रुतिमूलः । प्रतीकेषु च नामादिषु ध्येयेषु ब्रह्मणो गुणत्वात्, न ब्रह्मध्यायित्वमस्ति । अस्य च न्यायस्य पञ्चाग्निविद्यायामाहत्यवादात्प्रत्यक्षवचनाद्बाध इष्ट इति सूत्रभाष्यार्थः ॥१५॥ 【भाष्यम्】 【भाष्यम्】 किञ्च प्रतीकतारतम्येन फलतारतम्यश्रुतेर्न प्रतीकध्यायिनां ब्रह्मप्राप्तिरित्याह - विशेषं चेति ।
तस्मादसति वचने ब्रह्मध्यायिन एव ब्रह्मगन्तार इति सिद्धम् ॥१६॥ 【भाष्यम्】 【भाष्यम्】
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्कृतौ भाष्यरत्नप्रभायां चतुर्थाध्यायस्य तृतीयः पादः ॥३॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति चतुर्थस्याध्यायस्य सगुणविद्यावतो मृतस्योत्तरमार्गामिधानाख्यस्तृतीयः पादः ॥ चतुर्थेऽध्याये चतुर्थः पादः । पूर्वपादे ब्रह्मोपासकानां कार्यब्रह्मप्राप्तिरुक्ता, सम्प्रति तेषामैश्वर्यविशेषं ब्राह्मलौकिकं पादस्योत्तरार्धेन प्रपञ्चयिष्यन्नादावभ्यर्हितपरविद्याप्राप्यं निर्विशेषब्रह्मभावमाह - सम्पद्याविर्भावः स्वेनशब्दात् । निर्गुणविद्याफलवाक्यमुदाहृत्य स्वशब्दस्य स्वीयागन्तुकरूपस्वात्मरूपवाचित्वाभ्यां संशयमाह - एवमिति । पूर्वपक्षे मोक्षस्य स्वर्गादविशेषः, सिद्धान्ते विशेष इति फलम् , तत्र मोक्ष आगन्तुकः, फलत्वात्स्वर्गवदिति न्यायोपेतयाभिनिष्पत्तिश्रुत्या पूर्वपक्षमाह - किमित्यादिना । स्वशब्दश्रुतिबाधितो न्यायः अभिनिष्पत्तिश्च साक्षात्कारवृत्त्यभिप्राया बन्धध्वंसजन्मन्यौपचारिक्येवेति मत्वा सिद्धान्तयति - एवमिति ।
मोक्षस्य फलत्वेन प्राप्तागन्तुकत्वनिरासार्थः स्वशब्द इति युक्तं स्वीयवाचित्वेऽत्वनर्थकानुवादः स्यादित्यर्थः ॥१॥ 【भाष्यम्】 【भाष्यम्】 सूत्रान्तरं गृह्णाति - कः पुनरिति ।
जागरिते ह्यान्ध्यादिदेहधर्मवान्भवति स्वप्ने तु हत एव केनचित् । अपि च पुत्रादिनाशाद्रोदितीव भवति, सुषुप्तौ तु विशेषाज्ञानाद्विनष्ट इवेति, बन्धदशायां कलुषितात्मना तिष्ठति मोक्षे तु विगलिताखिलदुःखः परितः प्रद्योतमानपूर्णानन्दात्मनावतिष्ठत इति महान् विशेष इत्यर्थः ॥२॥ 【भाष्यम्】 【भाष्यम्】 कार्यगोचरमिति । कार्यं ज्योतिःप्राप्तमित्यर्थः । कार्यं प्राप्तोऽपि मुक्तः किं न स्यादित्यत आह -
न चानतिवृत्त इति ॥३॥ 【भाष्यम्】 【भाष्यम्】 अविभागेन दृष्टत्वात् । स्वरूपस्थितमुक्तमुपजीव्य वादिविवादात् ब्रह्मभेदाभेदसंशये सत्यत्यन्तभेदं पूर्वपक्षमुक्त्वा सिद्धान्तमाह -
यस्येति ॥४॥ 【भाष्यम्】 【भाष्यम्】 ब्राह्मेण जैमिनिः । उक्तं ब्रह्म स्वरूपमुपजीव्य स किं सत्येन सर्वज्ञत्वादिधर्मेण युक्तस्तिष्ठति उत धर्मस्य शशशृङ्गवदत्यन्तासत्त्वाच्चिन्मात्रात्मना तिष्ठति किं वा वस्तुतश्चिन्मात्रोऽपि जीवान्तरव्यवहारदृष्ट्या कल्पितसर्वज्ञत्वादिमानिति मुनिविप्रतिपत्तेः संशये सत्याद्यं पूर्वपक्षमाह - अधुनेत्यादिना । तत्तत्पक्षसिद्धिरेव फलं द्रष्टव्यम् । सोऽन्वेष्टव्य इति विध्यर्थ उद्देशो य आत्मेत्यादिरुपन्यासशब्दार्थः । आदिपदाद्विधिव्यपदेशग्रहः । तत्राज्ञातज्ञापको विधिस्तमाह - तथा स तत्रेति ।
सर्वज्ञ इत्यादिस्तु व्यपदेशोऽयं हि नोद्देशः विध्यभावान्नापि विधिः सिद्धवन्निर्देशादित्यर्थः ॥५॥ 【भाष्यम्】 【भाष्यम्】 सत्यत्वादिधर्माणां सत्यत्वं दूषयन्नत्यन्तासत्त्वपक्षमाह - चितितन्मात्रेणेति । चितिश्चैतन्यम् , शब्दज्ञानाद्यो विकल्पोऽसन्प्रत्ययस्तज्जाः अत्यन्तासन्त इति यावत् । अस्त्वभावधर्माणामसत्त्वं भावधर्माणां तु सत्त्वमित्याशङ्क्य तेषामप्यौपाधिकत्वादसत्त्वमित्याह - सत्यकामेति । चिन्मात्रे मुक्ते जक्षणादिश्रुतिः कथं तत्राह - अत एव चेति ।
सर्वधर्मनिषेधादेवेत्यर्थः ॥६॥ 【भाष्यम्】 【भाष्यम्】 धर्माणां सत्यत्वमत्यन्तासत्त्वं चेति पक्षद्वयमयुक्तम् । अद्वैतश्रुतीनां सर्वज्ञत्वादिश्रुतिव्यवहारयोश्च बाधापातादतस्तृतीयपक्षः श्रेयानिति सिद्धान्तयति - एवमपीति ।
अत्र केचिन्मुह्यन्ति - अखण्डचिन्मात्रज्ञानान्मुक्तस्याज्ञानाभावात्कुत आज्ञानिकधर्मयोग इति, ते इत्थं बोधनीयाः । ये ईश्वरधर्मास्त एव चिदात्मनि मुक्ते जीवान्तरैर्व्यवह्रियन्ते इति । न च मूलाविद्यैक्यात्तन्नाशे कुतो जीवान्तरमिति वाच्यम् , न वयं तन्नाशे जीवान्तरव्यवहारं ब्रूमः, किन्तु तदंशनाशेनांशारब्धाध्यात्मिकशरीरद्वयाभिमानिनो मुक्तावंशान्तरोपाधिका जीवा व्यवहर्तार इति वदामः । तर्हि नानविद्यापक्ष एव कुतो नाद्रियते जीवभेदस्यावश्यकत्वादिति चेत् । न । प्रकृतिनानात्वं प्रतिजीवं प्रपञ्चभेद इत्याद्यप्रामाणिकानेकार्थगौरवादिति सर्ववृद्धसम्मत एकाविद्यापक्ष एव श्रेयान्, अंशभेदेन च बन्धमुक्तिव्यवस्थेति सङ्क्षेपः ॥७॥ 【भाष्यम्】 【भाष्यम्】 एवं परविद्याफलमुक्तमिदानीमपरविद्याफलं प्रपञ्चयति - सङ्कल्पादेव तु तच्छ्रुतेः । एवकारस्यायोगान्ययोगव्यवच्छेदसाधारण्यात्संशयः, ब्रह्मलोकं गतस्योपासकस्य सङ्कल्पो यत्नान्तरसापेक्षः, भोगसामग्रीसङ्कल्पत्वादस्मदादिसङ्कल्पवत् । न चैवकारविरोधः सङ्कल्पेन सामग्र्या अयोगव्यवच्छेदेन सौलभ्यार्थत्वात्, यत्नानङ्गीकारे भोगपुष्ट्यसिद्धेश्चेति पूर्वपक्षार्थः । अत्र लोकवृत्तानुसरणं फलम् , सिद्धान्ते तु विद्याबलेन सङ्कल्पस्यैव भोगपुष्टिकरत्वसिद्धिरिति भेदः । किञ्च यदि भोगसङ्कल्पानन्तरमपि यत्नान्तरसाध्यनिमित्तापेक्षा स्यात्तर्हि निमित्तप्राप्तेः प्राग्जातसङ्कल्पस्य वन्ध्यत्वं स्याद्भोगे विलम्बात्ततः सत्यसङ्कल्पश्रुतेर्न यत्नान्तरापेक्षेत्याह -
निमित्तान्तरमपि त्विति ॥८॥ 【भाष्यम्】 【भाष्यम्】 नन्वीश्वराधीनस्य विदुषः कथं सङ्कल्पमात्राद्भोगसिद्धिस्तत्राह - अत एवेति ।
ईश्वरधर्म एव विदुष्याविर्भूत इति न सङ्कल्पभङ्ग इति भावः ॥९॥ 【भाष्यम्】 【भाष्यम्】 एवकारवन्मनसेति विशेषणेनान्ययोगव्यवच्छेदाद्देहाद्यभाव इति पूर्वपक्षयति - अभावं बादरिराह ह्येवम् ।
अत्रापि वादिविवादात्संशयः, तत्र देहादयो न सन्त्येव सदा सन्त्येवेति च पक्षद्वयं पूर्वपक्षः । कालभेदेनेच्छया सन्ति न सन्ति चेति सिद्धान्तपक्षो द्रष्टव्यः । फलं तु तत्तच्छ्रुतेर्मुख्यत्वमिति विवेकः ॥१० ॥ ॥११॥ 【भाष्यम्】 【भाष्यम्】 द्वादशाहवदिति ।
य एवंविद्वांसः सत्रमुपयन्ति इत्युपायिचोदनागम्यत्वश्रुतेर्द्वादशाहस्य सत्रत्वम् , आसतेति चोपयन्तीति वा चोदितत्वं सत्रलक्षणमिति स्थितिः । तथा द्वादशाहेन प्रजाकामं याजयेदिति यजतिचोदनादर्शनान्नियतकर्तृकत्वावगमेन द्विरात्रादिवदहीनत्वं चेत्यर्थः ॥१२ ॥ ॥१३ ॥ ॥१४॥ 【भाष्यम्】 【भाष्यम्】 प्रदीपवदावेशः । सङ्कल्पमात्रान्निर्मितदेहानुपजीव्य तेषूभयथादर्शनात्संशयमाह - भावमिति । अनादिलिङ्गशरीरस्यैकस्मिन्नेव शरीरे भावान्निर्मितानेकदेहेषु भोगासिद्धिः पूर्वपक्षफलम् , सिद्धान्ते तत्सिद्धिरिति मत्वा सूत्रं व्याचष्टे - यथेत्यादिना । स एकधा त्रिधा पञ्चधेत्यादिश्रुत्या विदुष एवानेकधाभाव उक्तः । विद्वांस्तु न देहो नापि चिन्मात्रः । किन्तु लिङ्गोपहितात्मा । न च तस्य लिङ्गभेदं विनानेकत्वं सम्भवति । अतः श्रुतिबलादेकस्यैवानादिलिङ्गस्यानेकदेहेषु प्रवेशेन भेद एष्टव्यः । यद्यपि मूलप्रदीपस्य वर्त्यन्तरेषूत्पन्नदीपानां चात्यन्तभेदोऽस्ति लिङ्गस्य तु देहभेदकृतो भेदो न स्वतः, स्वतो लिङ्गभेदे तदुपहितजीवभेदादनुसन्धानानुपपत्तेः । आगन्तुकानेकलिङ्गसृष्टावसत्कार्यवादापाताच्च । तथापि प्रदीपत्वजात्यैक्येन व्यक्तिष्वैक्यारोपात्दृष्टान्तदार्ष्टान्तिकयोः साम्यं दृष्टव्यम् । तथा च यथा प्रदीपोऽनैकवर्तिषु प्रविशति एवं विद्यायोगबलाद्विद्वल्लिङ्गस्य व्यापित्वादनेकदेहेषु युगपदावेश इति सूत्रार्थः । विदुषोऽनेकधात्वं श्रुतमन्यथा न घटत इत्याह - नैतदिति । इतश्च सात्मकत्वमित्याह - न च निरात्मकानामिति । यदनादि मन एकदेहस्थं तदनुसारीणि देहान्तरस्थानि मनांसि भवन्ति तदवस्थानां तन्नियम्यत्वसम्भवादिति । अत्र योगशास्त्रसम्मतिमाह - एषैवेति ।
निर्माणचित्तान्यस्मितामात्रात्प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषामिति हि भगवत्पतञ्जलिना सूत्रितम् । योगिनोऽभिमानमात्रान्निर्माणचित्तानि निर्माणदेहेषु भवन्ति, तेषां नियामकमनादिचित्तमित्यर्थः ॥१५॥ 【भाष्यम्】 【भाष्यम्】 उत्तरसूत्रव्यावर्त्यशङ्कामाह - कथं पुनरिति । सलिलवत्सलिलः, स्वच्छ इत्यर्थः । न तु तद्द्वितीयमस्तीति क्वचित्सुषुप्तिमधिकृत्योक्तं 'तत्केन कम्' इत्यादि क्वचिन्मुक्तिं प्रकृत्योक्तम् । एवं विशेषज्ञानाभाववचनं सुषुप्तिमुक्त्यन्यतरापेक्षं सगुणोपासकस्य भोगोक्तौ न विरुध्यते भिन्नविषयत्वादित्याह - स्वाप्ययेति ।
तत्रैव श्रुतौ तदधिकारवशात्सुषुप्त्यादिप्रकरणबलात्, उक्तवचनानामन्यतरापेक्षत्वमाविष्कृतं हि यतस्ततोऽवगम्यत इत्यर्थः । अत्र समुत्थानादिवाक्यं मुक्तिविषयं यत्र सुप्त इति सुप्तिविषयमिति विभागः ॥१६॥ 【भाष्यम्】 【भाष्यम्】 जगद्व्यापारवर्जम् । सङ्कल्पादेवेत्यादिनोक्तैश्वर्यस्य जगत्सृष्ट्यादिव्यतिरिक्तविषयत्वेनात्रापवादात्सङ्गतिः । उभयथा दर्शनात्संशयः । ईश्वरनानात्वं पूर्वपक्षफलम् , सिद्धान्ते तु विद्यायोगिनामीश्वरनियम्यत्वादेकस्य नित्यसिद्धस्येश्वरस्यैव जगत्कर्तृत्वसिद्धिरिति विवेकः । प्रलयात्सर्गसमये यस्येक्षणपूर्वं कर्तृत्वं श्रुतौ प्रकृतं तस्यैव नियन्तृत्वादिर्जगद्व्यापारः । न ह्युपासकानां देहं विनेक्षणं सम्भवति । किञ्चेश्वरस्य नित्यसिद्धत्वाच्छब्दैकसमधिगम्यत्वाच्च जगत्स्रष्टृत्वं युक्तम् , न तु तत्प्रसादलब्धसिद्धीनां जीवानामित्याह - नित्यशब्दनिबन्धनत्वाच्चेति । किञ्च विदुषां समप्राधान्ये मिथो विरोधः । एकं प्रत्यन्येषां गुणत्वे त्वेक एवेश्वर इत्याह -
समनस्कत्वादिति ॥१७॥ 【भाष्यम्】 【भाष्यम्】 अधिकारे नियोजयत्यादित्यादीनित्याधिकारिकः, स चासौ मण्डलस्थश्च तस्य प्राप्यत्वोक्तेरित्यर्थः । मनसस्पतिः सूर्यमण्डलान्तःस्थः परमात्मा 'तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात्' इति श्रुतेः । तथा च यदि पूर्वं निरङ्कुशं स्वाराज्यमुक्तं स्यात्तर्हि ईश्वरस्याग्रे प्राप्यतां न ब्रूयात् । अतो भोगे स्वाराज्यं न जगज्जन्मादिष्विति भावः । वाक्पतित्वादिकमपीश्वराधीश्वराधीनमित्याह - तदनुसारेणेति । उक्तन्यायं कामचारादिवाक्येष्वतिदिशति -
एवमिति ॥१८॥ 【भाष्यम्】 【भाष्यम्】 जगद्व्यापार उपासकप्राप्यः तदुपास्यनिष्ठत्वात्सङ्कल्पसिद्ध्यादिवदित्याशङ्क्योपास्यस्थनिर्गुणस्वरूपे व्यभिचारमाह -
विकारावर्ति चेति ॥१९॥ 【भाष्यम्】 【भाष्यम्】 निर्गुणस्वरूपे प्रमाणमाह - दर्शयतश्चेति ।
यथा ज्ञानाभावान्निर्गुणं न प्राप्तं तथा ध्यानाभावाज्जगत्स्रष्टृत्वादि न प्राप्यते । ध्यानाभावश्च विध्यभावादिति भावः ॥२०॥ 【भाष्यम्】 【भाष्यम्】 तमुपासकं ब्रह्मलोकगतमाह हिरण्यगर्भः मया खल्विमा आपो अमृतरूपा मीयन्ते भुज्यन्ते तवाप्यसौ लोकोऽमृतोदकलक्षण इत्यर्थः । श्रुत्यन्तरमाह - स यथेति ।
भोगसाम्ये स दृष्टान्तो यथेत्यर्थः । तेनो इत्युशब्दोऽप्यर्थः । सलोकतामपीत्यन्वयः । सायुज्यं समानदेहत्वं क्रमेण मुक्तिर्वा ॥२१॥ 【भाष्यम्】 【भाष्यम्】 शास्त्रसमाप्तिं सूचयन्त्सूत्रकारं पूजयति - भगवानिति । भगवत्त्वं सर्वज्ञत्वम् । सूत्रद्वारा शिष्याणामाचारे स्थापनादाचार्यत्वम् । बादरायणपदेन बदरिकाश्रमवासोक्त्या नित्यसर्वज्ञस्य परमगुरोर्नारायणस्य प्रसादद्योतनात्तत्प्रणीतशास्त्रे निरवद्यतां द्योतयति । सगुणविद्यायाः सातिशयफलत्वेऽपि ततो निर्गुणविद्ययानावृत्तिरित्याह - अनावृत्तिः शब्दादनावृत्तिः शब्दात् । ये ब्रह्मलोकं गच्छन्ति ते तं प्राप्य नावर्तन्ते इति सम्बन्धः । लोकं विशिनष्टि - यस्मिन्निति । इतोऽस्मात्पृथिवीलोकात्तृतीयस्यां दिवि यो ब्रह्मलोकस्तस्मिन्नर इति ण्य इति चार्णकतुल्यौ सुधाहृदावित्यर्थः । ऐरमन्नमयम् , मदीयं मदकरं सरः, सोमसवनः अमृतवर्षी । यद्यपि तेषामिह न पुनरावृत्तिरिमं मानवमिति च श्रुतिष्विहेममिति विशेषणादस्मिन्कल्पे ब्रह्मलोकं गतानां कल्पान्तरे आवृत्तिर्भाति, तथापीश्वरोपास्तिं विना पञ्चाग्निविद्याश्वमेधदृढब्रह्मचर्यादिसाधनैर्ये गतास्तेषां तत्त्वज्ञाननियमाभावादावृत्तिः स्यात्, ये तु दहरादीश्वरोपास्त्या गतास्तेषां सगुणविद्याफलक्षयेऽपि निरवग्रहेश्वरानुग्रहलब्धात्मज्ञानान्मुक्तिरिति नियम इत्यभिप्रेत्याह - अन्तवत्त्वेऽपि त्विति । नन्वत्र सूत्रकृता सगुणविदामेवानावृत्तिक्रम उक्तो न निर्गुणविदां तत्र को हेतुरित्याशङ्क्य तेषामावृत्तिशङ्काभावादित्याह - सम्यगिति । तदाश्रयणेनेति । सगुणविदामावृत्तिप्राप्तौ सम्यग्दर्शनाश्रयणेनैवानावृत्तिः साधिता, अतः स्वत एव सम्यग्दर्शिनामावृत्तिशङ्का नेति किमु वाच्यमित्यर्थः । यत्राध्यायसमाप्तिस्तत्र पदमात्रस्याभ्यासो दर्शितः, इह सूत्रस्यैवाभ्यासाच्छास्त्रसमाप्तिर्द्येत्यत इत्याह - अनावृत्तिः शब्दादिति ।
एवं समन्वयोक्त्या ब्रह्मात्मैक्यस्य वेदान्तप्रमाणकत्वमवधारयितुं वाक्यार्थज्ञाने स्मृतितर्कादिसर्वप्रकारविरोधः परिहृतः, साधनसम्पत्तिश्च दर्शिता, तस्माद्विवेकादिसाधनसम्पन्नस्य श्रवणाद्यावृत्तिनिरस्तसमस्तप्रतिबन्धस्याखण्डात्मसम्बोधात्समूलबन्धध्वंसे सत्याविर्भूतनिष्कलङ्कानन्तस्वप्रकाशचिदानन्दात्मनावस्थानमिति सिद्धम् ॥२२॥ 【भाष्यम्】 【भाष्यम्】 नानाविधग्रन्थजातं वीक्ष्य सम्यग्यथामति ।
शारीकस्य भाष्यस्य कृता व्याख्या सतां मुदे ॥१॥ 【भाष्यम्】 【भाष्यम्】 अन्तर्यामी जगत्साक्षी सर्वकर्ता रघूद्वहः ।
अतोऽत्र दोषोऽशङ्क्यः स्यादेष ह्येवेति शासनात् ॥२॥ 【भाष्यम्】 【भाष्यम्】 वक्षस्यक्ष्णोश्च पार्श्वे करतलयुगले कौस्तुभाभां दयां च सीतां कोदण्डदीक्षामभयवरयुतां वीक्ष्य रामाङ्गसङ्गः ।
स्वस्याः क्व स्यादितीयं हृदि कृतमनना भाष्यरत्नप्रभाख्या, स्वात्मानन्दैकलुब्धा रघुवरचरणाम्भोजयुग्मं प्रपन्ना ॥३॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोपालसरस्वतीपूज्यपादशिष्यश्रीगोविन्दानन्दभगवत्कृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः ॥ ॥ इति चतुर्थस्याध्यायस्य ब्रह्मप्राप्तिब्रह्मलोकस्थितिनिरूपणाख्यश्चतुर्थः पादः ॥ ॥ इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये फलाख्यश्चतुर्थोऽध्यायः ॥ ॥ ओं तत्सत् ॥ प्रथमोऽध्यायः प्रथमः पादः जिज्ञासाधिकरणम् जन्माद्यधिकरणम् शास्त्रयोनित्वाधिकरणम् समन्वयाधिकरणम् ईक्षत्यधिकरणम् आनन्दमयाधिकरणम् अन्तरधिकरणम् आकाशाधिकरणम् प्राणाधिकरणम् ज्योतिश्चरणाधिकरणम् प्रतर्दनाधिकरणम् द्वितीयः पादः सर्वत्रप्रसिद्ध्यधिकरणम् अत्त्रधिकरणम् गुहाप्रविष्टाधिकरणम् अन्तराधिकरणम् अन्तर्याम्यधिकरणम् अदृश्यत्वाधिकरणम् वैश्वानराधिकरणम् तृतीयः पादः द्युभ्वाद्यधिकरणम् भूमाधिकरणम् अक्षराधिकरणम् ईक्षतिकर्माधिकरणम् दहराधिकरणम् अनुकृत्यधिकरणम् प्रमिताधिकरणम् देवताधिकरणम् अपशूद्राधिकरणम् कम्पनाधिकरणम् ज्योतिरधिकरणम् अर्थान्तरत्वादिव्यपदेशाधिकरणम् सुषुप्त्युत्क्रान्त्यधिकरणम् चतुर्थः पादः आनुमानिकाधिकरणम् चमसाधिकरणम् संख्योपसङ्ग्रहाधिकरणम् कारणत्वाधिकरणम् बालाक्यधिकरणम् वाक्यान्वयाधिकरणम् प्रकृत्यधिकरणम् सर्वव्याख्यानाधिकरणम् द्वितीयोऽध्यायः प्रथमः पादः स्मृत्यधिकरणम् योगप्रत्युक्त्यधिकरणम् नविलक्षणत्वाधिकरणम् शिष्टापरिग्रहाधिकरणम् भोक्त्रापत्त्यधिकरणम् आरम्भणाधिकरणम् इतरव्यपदेशाधिकरणम् उपसंहारदर्शनाधिकरणम् कृत्स्नप्रसक्त्यधिकरणम् सर्वोपेताधिकरणम् प्रयोजनवत्त्वाधिकरणम् वैषम्यनैर्घृण्याधिकरणम् सर्वधर्मोपपत्त्यधिकरणम् द्वितीयः पादः रचनानुपपत्त्यधिकरणम् महद्दीर्घाधिकरणम् परमाणुजगदकारणत्वाधिकरणम् समुदायाधिकरणम् अभावाधिकरणम् एकस्मिन्नसम्भवाधिकरणम् पत्यधिकरणम् उत्पत्त्यसम्भवाधिकरणम् तृतीयः पादः वियदधिकरणम् मातरिश्वाधिकरणम् असम्भवाधिकरणम् तेजोऽधिकरणम् अबधिकरणम् पृथिव्यधिकाराधिकरणम् तदभिध्यानाधिकरणम् विपर्ययाधिकरणम् अन्तराविज्ञानाधिकरणम् चराचरव्यपाश्रयाधिकरणम् आत्माधिकरणम् ज्ञाधिकरणम् उत्क्रान्तिगत्यधिकरणम् कर्त्रधिकरणम् तक्षाधिकरणम् परायत्ताधिकरणम् अंशाधिकरणम् चतुर्थः पादः प्राणोत्पत्त्यधिकरणम् सप्तगत्यधिकरणम् प्राणाणुत्वाधिकरणम् प्राणश्रैष्ठ्याधिकरणम् वायुक्रियाधिकरणम् श्रेष्ठाणुत्वाधिकरणम् ज्योतिराद्यधिकरणम् इन्द्रियाधिकरणम् संज्ञामूर्तिकॢप्त्यधिकरणम् तृतीयोऽध्यायः प्रथमः पादः तदन्तरप्रतिपत्त्यधिकरणम् कृतात्ययाधिकरणम् अनिष्टादिकार्यधिकरणम् साभाव्यापत्त्यधिकरणम् नातिचिराधिकरणम् अन्याधिष्ठिताधिकरणम् द्वितीयः पादः सन्ध्याधिकरणम् तदभावाधिकरणम् कर्मानुस्मृतिशब्दविध्यधिकरणम् मुग्धाधिकरणम् उभयलिङ्गाधिकरणम् प्रकृतैतावत्त्वाधिकरणम् पराधिकरणम् फलाधिकरणम् तृतीयः पादः सर्ववेदान्तप्रत्ययाधिकरणम् उपसंहाराधिकरणम् अन्यथात्वाधिकरणम् व्याप्त्यधिकरणम् सर्वाभेदाधिकरणम् आनन्दाद्यधिकरणम् आध्यानाधिकरणम् आत्मगृहीत्यधिकरणम् कार्याख्यानाधिकरणम् समानाधिकरणम् सम्बन्धाधिकरणम् सम्भृत्यधिकरणम् पुरुषविद्याधिकरणम् वेधाद्यधिकरणम् हान्यधिकरणम् साम्परायाधिकरणम् गतेरर्थवत्त्वाधिकरणम् अनियमाधिकरणम् यावदधिकाराधिकरणम् अक्षरध्यधिकरणम् इयदधिकरणम् अन्तरत्वाधिकरणम् व्यतिहाराधिकरणम् सत्याद्यधिकरणम् कामाद्यधिकरणम् आदराधिकरणम् तन्निर्धारणाधिकरणम् प्रदानाधिकरणम् लिङ्गभूयस्त्वाधिकरणम् ऐकात्म्याधिकरणम् अङ्गावबद्धाधिकरणम् भूमज्यायस्त्वाधिकरणम् शब्दादिभेदाधिकरणम् विकल्पाधिकरणम् काम्याधिकरणम् यथाश्रयभावाधिकरणम् चतुर्थः पादः पुरुषार्थाधिकरणम् परामर्शाधिकरणम् स्तुतिमात्राधिकरणम् पारिप्लवाधिकरणम् अग्नीन्धनाद्यधिकरणम् सर्वापेक्षाधिकरणम् सर्वान्नानुमत्यधिकरणम् आश्रमकर्माधिकरणम् विधुराधिकरणम् तद्भूताधिकरणम् आधिकारिकाधिकरणम् बहिरधिकरणम् स्वाम्यधिकरणम् सहकार्यन्तरविध्यधिकरणम् अनाविष्काराधिकरणम् ऐहिकाधिकरणम् मुक्तिफलाधिकरणम् चतुर्थोऽध्यायः प्रथमः पादः आवृत्त्यधिकरणम् आत्मत्वोपासनाधिकरणम् प्रतीकाधिकरणम् ब्रह्मदृष्ट्यधिकरणम् आदित्यादिमत्यधिकरणम् आसीनाधिकरणम् एकाग्रताधिकरणम् आप्रायणाधिकरणम् तदधिगमाधिकरणम् इतरासंश्लेषाधिकरणम् अनारब्धाधिकरणम् अग्निहोत्राद्यधिकरणम् विद्याज्ञानसाधनत्वाधिकरणम् इतरक्षपणाधिकरणम् द्वितीयः पादः वागधिकरणम् मनोऽधिकरणम् अध्यक्षाधिकरणम् आसृत्युपक्रमाधिकरणम् संसारव्यपदेशाधिकरणम् प्रतिषेधाधिकरणम् वागादिलयाधिकरणम् अविभागाधिकरणम् तदोकोऽधिकरणम् रश्म्यधिकरणम् दक्षिणायनाधिकरणम् तृतीयः पादः अर्चिराद्यधिकरणम् वाय्वधिकरणम् तडिदधिकरणम् आतिवाहिकाधिकरणम् कार्याधिकरणम् अप्रतीकालम्बनाधिकरणम् चतुर्थः पादः सम्पद्याविर्भावाधिकरणम् अविभागेन दृष्टत्वाधिकरणम् ब्राह्माधिकरणम् सङ्कल्पाधिकरणम् अभावाधिकरणम् प्रदीपाधिकरणम् जगद्व्यापाराधिकरणम्
Using this in academic work? Get formal citation
Govindānanda (2026). Bhāṣya Ratnaprabhā Vyākhyā. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/bhashya-ratnaprabha-vyakhya
Govindānanda. "Bhāṣya Ratnaprabhā Vyākhyā." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/bhashya-ratnaprabha-vyakhya.
Govindānanda. "Bhāṣya Ratnaprabhā Vyākhyā." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/bhashya-ratnaprabha-vyakhya.