Daśaślokī
Śrī Ādi Śaṅkarācārya
न भूमिर्न तोयं न तेजो न वायुः न खं नेन्द्रियं वा न तेषां समूहः । अनेकान्तिकत्वात् सुषुप्त्येकसिद्धः तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ १॥
न वर्णा न वर्णाश्रमाचारधर्मा न मे धारणाध्यानयोगादयोऽपि । अनात्माश्रयाहंममाध्यासहानात् तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ २॥
न माता पिता वा न देवा न लोका न वेदा न यज्ञा न तीर्थं ब्रुवन्ति । सुषुप्तौ निरस्तातिशून्यात्मकत्वात् तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ३॥
न साङ्ख्यं न शैवं न तत्पाञ्चरात्रं न जैनं न मीमांसकादेर्मतं वा । विशिष्टानुभूत्या विशुद्धात्मकत्वात् तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ४॥
न चोर्ध्वं न चाधो न चान्तर्न बाह्यं न मध्यं न तिर्यङ् न पूर्वाऽपरा दिक् । वियद्व्यापकत्वादखण्डैकरूपः तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ५॥
न शुक्लं न कृष्णं न रक्तं न पीतं न कुब्जं न पीनं न ह्रस्वं न दीर्घम् । अरूपं तथा ज्योतिराकारकत्वात् तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ६॥
न शास्ता न शास्त्रं न शिष्यो न शिक्षा न च त्वं न चाहं न चायं प्रपञ्चः । स्वरूपावबोधो विकल्पासहिष्णुः तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ७॥
न जाग्रन् न मे स्वप्नको वा सुषुप्तिः न विश्वो न वा तैजसः प्राज्ञको वा । अविद्यात्मकत्वात् त्रयाणां तुरीयः तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ८॥
अपि व्यापकत्वात् हितत्त्वप्रयोगात् स्वतः सिद्धभावादनन्याश्रयत्वात् । जगत् तुच्छमेतत् समस्तं तदन्यत् तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ९॥
न चैकं तदन्यद् द्वितीयं कुतः स्यात् न केवलत्वं न चाकेवलत्वम् । न शून्यं न चाशून्यमद्वैतकत्वात् कथं सर्ववेदान्तसिद्धं ब्रवीमि ॥ १०॥
Using this in academic work? Get formal citation
Śrī Ādi Śaṅkarācārya (2026). Daśaślokī. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/dashashloki
Śrī Ādi Śaṅkarācārya. "Daśaślokī." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/dashashloki.
Śrī Ādi Śaṅkarācārya. "Daśaślokī." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/dashashloki.