Hastāmalakīyam
Hastāmalaka
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 यमग्न्युष्णवन्नित्यबोधस्वरूपं मनश्चक्षुरादीन्यबोधात्मकानि । प्रवर्तन्त आश्रित्य निष्कम्पमेकं
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 मुखाभासको दर्पणे दृश्यमानो मुखत्वात्पृथक्त्वेन नैवास्ति वस्तु । चिदाभासको धीषु जीवोऽपि तद्व —
त्स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 यथा दर्पणाभाव आभासहानौ मुखं विद्यते कल्पनाहीनमेकम् । तथा धीवियोगे निराभासको यः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 मनश्चक्षुरादेर्वियुक्तः स्वयं यो मनश्चक्षुरादेर्मनश्चक्षुरादिः । मनश्चक्षुरादेरगम्यस्वरूपः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 य एको विभाति स्वतः शुद्धचेताः प्रकाशस्वरूपोऽपि नानेव धीषु । शरावोदकस्थो यथा भानुरेकः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 यथानेकचक्षुःप्रकाशो रविर्न क्रमेण प्रकाशीकरोति प्रकाश्यम् । अनेका धियो यस्तथैकप्रबोधः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 विवस्वत्प्रभातं यथारूपपक्षं प्रगृह्णाति नाभातमेवं विवस्वान् । यदाभात आभासयत्यक्षमेकः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 यथा सूर्य एकोऽप्स्वनेकश्चलासु स्थिरास्वप्यनन्वग्विभाव्यस्वरूपः । चलासु प्रभिन्नासु धीष्वेवमेकः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 घनच्छन्नदृष्टिर्घनच्छन्नमर्कं यथा निष्प्रभं मन्यते चातिमूढः । तथा बद्धवद्भाति यो मूढदृष्टेः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 समस्तेषु वस्तुष्वनुस्यूतमेकं समस्तानि वस्तूनि यं न स्पृशन्ति । वियद्वत्सदा शुद्धमच्छस्वरूपः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 उपाधौ यथा भेदता सन्मणीनां तथा भेदता बुद्धिभेदेषु तेऽपि । यथा चन्द्रिकाणां जले चञ्चलत्वं
तथा चञ्चलत्वं तवापीह विष्णो ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】
Using this in academic work? Get formal citation
Hastāmalaka (2026). Hastāmalakīyam. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/hastamalakiyam
Hastāmalaka. "Hastāmalakīyam." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/hastamalakiyam.
Hastāmalaka. "Hastāmalakīyam." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/hastamalakiyam.