Ṛgveda Saṃhitā — Maṇḍala 10
Tradição Védica (Ṛṣis)
मण्डल १० अग्रे बृहन्न् उषसाम् ऊर्ध्वो अस्थान् निर्जगन्वान् तमसो ज्योतिषागात् । अग्निर् भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्य् अप्राः
स जातो गर्भो असि रोदस्योर् अग्ने चारुर् विभृत ओषधीषु । चित्रः शिशुः परि तमाꣳस्य् अक्तून् प्र मातृभ्यो अधि कनिक्रदद् गाः
विष्णुर् इत्था परमम् अस्य विद्वाञ् जातो बृहन्न् अभि पाति तृतीयम् । आसा यद् अस्य पयो अक्रत स्वꣳ सचेतसो अभ्य् अर्चन्त्य् अत्र
अत उ त्वा पितुभृतो जनित्रीर् अन्नावृधम् प्रति चरन्त्य् अन्नैः । ता ईम् प्रत्य् एषि पुनर् अन्यरूपा असि त्वꣳ विक्षु मानुषीषु होता
होतारꣳ चित्ररथम् अध्वरस्य यज्ञस्य-यज्ञस्य केतुꣳ रुशन्तम् । प्रत्यर्धिꣳ देवस्य-देवस्य मह्ना श्रिया त्व् अ१ग्निम् अतिथिꣳ जनानाम्
स तु वस्त्राण्य् अध पेशनानि वसानो अग्निर् नाभा पृथिव्याः । अरुषो जातः पद इळायाः पुरोहितो राजन् यक्षीह देवान्
आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ । प्र याह्य् अच्छोशतो यविष्ठाथा वह सहस्येह देवान्
पिप्रीहि देवाꣳ उशतो यविष्ठ विद्वाꣳ ऋतूꣳर् ऋतुपते यजेह । ये दैव्या ऋत्विजस् तेभिर् अग्ने त्वꣳ होतॄणाम् अस्य् आयजिष्ठः
वेषि होत्रम् उत पोत्रꣳ जनानाम् मन्धातासि द्रविणोदा ऋतावा । स्वाहा वयꣳ कृणवामा हवीꣳषि देवो देवान् यजत्व् अग्निर् अर्हन्
आ देवानाम् अपि पन्थाम् अगन्म यच् छक्नवाम तद् अनु प्रवोळ्हुम् । अग्निर् विद्वान् स यजात् सेद् उ होता सो अध्वरान् स ऋतून् कल्पयाति
यद् वो वयम् प्रमिनाम व्रतानि विदुषाꣳ देवा अविदुष्टरासः । अग्निष् टद् विश्वम् आ पृणाति विद्वान् येभिर् देवाꣳ ऋतुभिः कल्पयाति
यत् पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः । अग्निष् टद् धोता क्रतुविद् विजानन् यजिष्ठो देवाꣳ ऋतुशो यजाति
विश्वेषाꣳ ह्य् अध्वराणाम् अनीकꣳ चित्रꣳ केतुꣳ जनिता त्वा जजान । स आ यजस्व नृवतीर् अनु क्षाः स्पार्हा इषः क्षुमतीर् विश्वजन्याः
यꣳ त्वा द्यावापृथिवी यꣳ त्वापस् त्वष्टा यꣳ त्वा सुजनिमा जजान । पन्थाम् अनु प्रविद्वान् पितृयाणꣳ द्युमद् अग्ने समिधानो वि भाहि
इनो राजन्न् अरतिः समिद्धो रौद्रो दक्षाय सुषुमाꣳ अदर्शि । चिकिद् वि भाति भासा बृहतासिक्नीम् एति रुशतीम् अपाजन्
कृष्णाꣳ यद् एनीम् अभि वर्पसा भूज् जनयन् योषाम् बृहतः पितुर् जाम् । ऊर्ध्वम् भानुꣳ सूर्यस्य स्तभायन् दिवो वसुभिर् अरतिर् वि भाति
भद्रो भद्रया सचमान आगात् स्वसारꣳ जारो अभ्य् एति पश्चात् । सुप्रकेतैर् द्युभिर् अग्निर् वितिष्ठन् रुशद्भिर् वर्णैर् अभि रामम् अस्थात्
अस्य यामासो बृहतो न वग्नून् इन्धाना अग्नेः सख्युः शिवस्य । ईड्यस्य वृष्णो बृहतः स्वासो भामासो यामन्न् अक्तवश् चिकित्रे
स्वना न यस्य भामासः पवन्ते रोचमानस्य बृहतः सुदिवः । ज्येष्ठेभिर् यस् तेजिष्ठैः क्रीळुमद्भिर् वर्षिष्ठेभिर् भानुभिर् नक्षति द्याम्
अस्य शुष्मासो ददृशानपवेर् जेहमानस्य स्वनयन् नियुद्भिः । प्रत्नेभिर् यो रुशद्भिर् देवतमो वि रेभद्भिर् अरतिर् भाति विभ्वा
स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योर् अरतिर् युवत्योः । अग्निः सुतुकः सुतुकेभिर् अश्वै रभस्वद्भी रभस्वाꣳ एह गम्याः
प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु । धन्वन्न् इव प्रपा असि त्वम् अग्न इयक्षवे पूरवे प्रत्न राजन्
यꣳ त्वा जनासो अभि सꣳचरन्ति गाव उष्णम् इव व्रजꣳ यविष्ठ । दूतो देवानाम् असि मर्त्यानाम् अन्तर् महाꣳश् चरसि रोचनेन
शिशुꣳ न त्वा जेन्यꣳ वर्धयन्ती माता बिभर्ति सचनस्यमाना । धनोर् अधि प्रवता यासि हर्यञ् जिगीषसे पशुर् इवावसृष्टः
मूरा अमूर न वयꣳ चिकित्वो महित्वम् अग्ने त्वम् अङ्ग वित्से । शये वव्रिश् चरति जिह्वयादन् रेरिह्यते युवतिꣳ विश्पतिः सन्
कूचिज् जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः । अस्नातापो वृषभो न प्र वेति सचेतसो यम् प्रणयन्त मर्ताः
तनूत्यजेव तस्करा वनर्गू रशनाभिर् दशभिर् अभ्य् अधीताम् । इयꣳ ते अग्ने नव्यसी मनीषा युक्ष्वा रथꣳ न शुचयद्भिर् अङ्गैः
ब्रह्म च ते जातवेदो नमश् चेयꣳ च गीः सदम् इद् वर्धनी भूत् । रक्षा णो अग्ने तनयानि तोका रक्षोत नस् तन्वो३ अप्रयुच्छन्
एकः समुद्रो धरुणो रयीणाम् अस्मद् धृदो भूरिजन्मा वि चष्टे । सिषक्त्य् ऊधर् निण्योर् उपस्थ उत्सस्य मध्ये निहितम् पदꣳ वेः
समानꣳ नीळꣳ वृषणो वसानाः सꣳ जग्मिरे महिषा अर्वतीभिः । ऋतस्य पदꣳ कवयो नि पान्ति गुहा नामानि दधिरे पराणि
ऋतायिनी मायिनी सꣳ दधाते मित्वा शिशुꣳ जज्ञतुर् वर्धयन्ती । विश्वस्य नाभिꣳ चरतो ध्रुवस्य कवेश् चित् तन्तुम् मनसा वियन्तः
ऋतस्य हि वर्तनयः सुजातम् इषो वाजाय प्रदिवः सचन्ते । अधीवासꣳ रोदसी वावसाने घृतैर् अन्नैर् वावृधाते मधूनाम्
सप्त स्वसॄर् अरुषीर् वावशानो विद्वान् मध्व उज् जभारा दृशे कम् । अन्तर् येमे अन्तरिक्षे पुराजा इच्छन् वव्रिम् अविदत् पूषणस्य
सप्त मर्यादाः कवयस् ततक्षुस् तासाम् एकाम् इद् अभ्य् अꣳहुरो गात् । आयोर् ह स्कम्भ उपमस्य नीळे पथाꣳ विसर्गे धरुणेषु तस्थौ
असच् च सच् च परमे व्योमन् दक्षस्य जन्मन्न् अदितेर् उपस्थे । अग्निर् ह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश् च धेनुः
अयꣳ स यस्य शर्मन्न् अवोभिर् अग्नेर् एधते जरिताभिष्टौ । ज्येष्ठेभिर् यो भानुभिर् ऋषूणाम् पर्येति परिवीतो विभावा
यो भानुभिर् विभावा विभात्य् अग्निर् देवेभिर् ऋतावाजस्रः । आ यो विवाय सख्या सखिभ्यो ऽपरिह्वृतो अत्यो न सप्तिः
ईशे यो विश्वस्या देववीतेर् ईशे विश्वायुर् उषसो व्युष्टौ । आ यस्मिन् मना हवीꣳष्य् अग्नाव् अरिष्टरथः स्कभ्नाति शूषैः
शूषेभिर् वृधो जुषाणो अर्कैर् देवाꣳ अच्छा रघुपत्वा जिगाति । मन्द्रो होता स जुह्वा३ यजिष्ठः सम्मिश्लो अग्निर् आ जिघर्ति देवान्
तम् उस्राम् इन्द्रꣳ न रेजमानम् अग्निꣳ गीर्भिर् नमोभिर् आ कृणुध्वम् । आ यꣳ विप्रासो मतिभिर् गृणन्ति जातवेदसꣳ जुह्वꣳ सहानाम्
सꣳ यस्मिन् विश्वा वसूनि जग्मुर् वाजे नाश्वाः सप्तीवन्त एवैः । अस्मे ऊतीर् इन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व
अधा ह्य् अग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ । तꣳ ते देवासो अनु केतम् आयन्न् अधावर्धन्त प्रथमास ऊमाः
स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर् धेहि यजथाय देव । सचेमहि तव दस्म प्रकेतैर् उरुष्या ण उरुभिर् देव शꣳसैः
इमा अग्ने मतयस् तुभ्यꣳ जाता गोभिर् अश्वैर् अभि गृणन्ति राधः । यदा ते मर्तो अनु भोगम् आनड् वसो दधानो मतिभिः सुजात
अग्निम् मन्ये पितरम् अग्निम् आपिम् अग्निम् भ्रातरꣳ सदम् इत् सखायम् । अग्नेर् अनीकम् बृहतः सपर्यꣳ दिवि शुक्रꣳ यजतꣳ सूर्यस्य
सिध्रा अग्ने धियो अस्मे सनुत्रीर् यꣳ त्रायसे दम आ नित्यहोता । ऋतावा स रोहिदश्वः पुरुक्षुर् द्युभिर् अस्मा अहभिर् वामम् अस्तु
द्युभिर् हितम् मित्रम् इव प्रयोगम् प्रत्नम् ऋत्विजम् अध्वरस्य जारम् । बाहुभ्याम् अग्निम् आयवो ऽजनन्त विक्षु होतारꣳ न्य् असादयन्त
स्वयꣳ यजस्व दिवि देव देवान् किꣳ ते पाकः कृणवद् अप्रचेताः । यथायज ऋतुभिर् देव देवान् एवा यजस्व तन्वꣳ सुजात
भवा नो अग्ने ऽवितोत गोपा भवा वयस्कृद् उत नो वयोधाः । रास्वा च नः सुमहो हव्यदातिꣳ त्रास्वोत नस् तन्वो३ अप्रयुच्छन्
प्र केतुना बृहता यात्य् अग्निर् आ रोदसी वृषभो रोरवीति । दिवश् चिद् अन्ताꣳ उपमाꣳ उद् आनळ् अपाम् उपस्थे महिषो ववर्ध
मुमोद गर्भो वृषभः ककुद्मान् अस्रेमा वत्सः शिमीवाꣳ अरावीत् । स देवतात्य् उद्यतानि कृण्वन् स्वेषु क्षयेषु प्रथमो जिगाति
आ यो मूर्धानम् पित्रोर् अरब्ध न्य् अध्वरे दधिरे सूरो अर्णः । अस्य पत्मन्न् अरुषीर् अश्वबुध्ना ऋतस्य योनौ तन्वो जुषन्त
उष-उषो हि वसो अग्रम् एषि त्वꣳ यमयोर् अभवो विभावा । ऋताय सप्त दधिषे पदानि जनयन् मित्रꣳ तन्वे३ स्वायै
भुवश् चक्षुर् मह ऋतस्य गोपा भुवो वरुणो यद् ऋताय वेषि । भुवो अपाꣳ नपाज् जातवेदो भुवो दूतो यस्य हव्यꣳ जुजोषः
भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः । दिवि मूर्धानꣳ दधिषे स्वर्षाꣳ जिह्वाम् अग्ने चकृषे हव्यवाहम्
अस्य त्रितः क्रतुना वव्रे अन्तर् इच्छन् धीतिम् पितुर् एवैः परस्य । सचस्यमानः पित्रोर् उपस्थे जामि ब्रुवाण आयुधानि वेति
स पित्र्याण्य् आयुधानि विद्वान् इन्द्रेषित आप्त्यो अभ्य् अयुध्यत् । त्रिशीर्षाणꣳ सप्तरश्मिꣳ जघन्वान् त्वाष्ट्रस्य चिन् निः ससृजे त्रितो गाः
भूरीद् इन्द्र उदिनक्षन्तम् ओजो ऽवाभिनत् सत्पतिर् मन्यमानम् । त्वाष्ट्रस्य चिद् विश्वरूपस्य गोनाम् आचक्राणस् त्रीणि शीर्षा परा वर्क्
आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन । महे रणाय चक्षसे
यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः
तस्मा अरꣳ गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः
शꣳ नो देवीर् अभिष्टय आपो भवन्तु पीतये । शꣳ योर् अभि स्रवन्तु नः
ईशाना वार्याणाꣳ क्षयन्तीश् चर्षणीनाम् । अपो याचामि भेषजम्
अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा । अग्निꣳ च विश्वशम्भुवम्
आपः पृणीत भेषजꣳ वरूथꣳ तन्वे३ मम । ज्योक् च सूर्यꣳ दृशे
इदम् आपः प्र वहत यत् किꣳ च दुरितम् मयि । यद् वाहम् अभिदुद्रोह यद् वा शेप उतानृतम्
आपो अद्यान्व् अचारिषꣳ रसेन सम् अगस्महि । पयस्वान् अग्न आ गहि तम् मा सꣳ सृज वर्चसा
ओ चित् सखायꣳ सख्या ववृत्याꣳ तिरः पुरू चिद् अर्णवꣳ जगन्वान् । पितुर् नपातम् आ दधीत वेधा अधि क्षमि प्रतरꣳ दीध्यानः
न ते सखा सख्यꣳ वष्ट्य् एतत् सलक्ष्मा यद् विषुरूपा भवाति । महस् पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन्
उशन्ति घा ते अमृतास एतद् एकस्य चित् त्यजसम् मर्त्यस्य । नि ते मनो मनसि धाय्य् अस्मे जन्युः पतिस् तन्व१म् आ विविश्याः
न यत् पुरा चकृमा कद् ध नूनम् ऋता वदन्तो अनृतꣳ रपेम । गन्धर्वो अप्स्व् अप्या च योषा सा नो नाभिः परमꣳ जामि तन् नौ
गर्भे नु नौ जनिता दम्पती कर् देवस् त्वष्टा सविता विश्वरूपः । नकिर् अस्य प्र मिनन्ति व्रतानि वेद नाव् अस्य पृथिवी उत द्यौः
को अस्य वेद प्रथमस्याह्नः क ईꣳ ददर्श क इह प्र वोचत् । बृहन् मित्रस्य वरुणस्य धाम कद् उ ब्रव आहनो वीच्या नॄन्
यमस्य मा यम्य१ꣳ काम आगन् समाने योनौ सहशेय्याय । जायेव पत्ये तन्वꣳ रिरिच्याꣳ वि चिद् वृहेव रथ्येव चक्रा
न तिष्ठन्ति न नि मिषन्त्य् एते देवानाꣳ स्पश इह ये चरन्ति । अन्येन मद् आहनो याहि तूयꣳ तेन वि वृह रथ्येव चक्रा
रात्रीभिर् अस्मा अहभिर् दशस्येत् सूर्यस्य चक्षुर् मुहुर् उन् मिमीयात् । दिवा पृथिव्या मिथुना सबन्धू यमीर् यमस्य बिभृयाद् अजामि
आ घा ता गच्छान् उत्तरा युगानि यत्र जामयः कृणवन्न् अजामि । उप बर्बृहि वृषभाय बाहुम् अन्यम् इच्छस्व सुभगे पतिम् मत्
किम् भ्रातासद् यद् अनाथम् भवाति किम् उ स्वसा यन् निरृतिर् निगच्छात् । काममूता बह्व् ए३तद् रपामि तन्वा मे तन्व१ꣳ सम् पिपृग्धि
न वा उ ते तन्वा तन्व१ꣳ सम् पपृच्याम् पापम् आहुर् यः स्वसारꣳ निगच्छात् । अन्येन मत् प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्य् एतत्
बतो बतासि यम नैव ते मनो हृदयꣳ चाविदाम । अन्या किल त्वाꣳ कक्ष्येव युक्तम् परि ष्वजाते लिबुजेव वृक्षम्
अन्यम् ऊ षु त्वꣳ यम्य् अन्य उ त्वाम् परि ष्वजाते लिबुजेव वृक्षम् । तस्य वा त्वम् मन इच्छा स वा तवाधा कृणुष्व सꣳविदꣳ सुभद्राम्
वृषा वृष्णे दुदुहे दोहसा दिवः पयाꣳसि यह्वो अदितेर् अदाभ्यः । विश्वꣳ स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियाꣳ ऋतून्
रपद् गन्धर्वीर् अप्या च योषणा नदस्य नादे परि पातु मे मनः । इष्टस्य मध्ये अदितिर् नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति
सो चिन् नु भद्रा क्षुमती यशस्वत्य् उषा उवास मनवे स्वर्वती । यद् ईम् उशन्तम् उशताम् अनु क्रतुम् अग्निꣳ होतारꣳ विदथाय जीजनन्
अध त्यꣳ द्रप्सꣳ विभ्वꣳ विचक्षणꣳ विर् आभरद् इषितः श्येनो अध्वरे । यदी विशो वृणते दस्मम् आर्या अग्निꣳ होतारम् अध धीर् अजायत
सदासि रण्वो यवसेव पुष्यते होत्राभिर् अग्ने मनुषः स्वध्वरः । विप्रस्य वा यच् छशमान उक्थ्य१ꣳ वाजꣳ ससवाꣳ उपयासि भूरिभिः
उद् ईरय पितरा जार आ भगम् इयक्षति हर्यतो हृत्त इष्यति । विवक्ति वह्निः स्वपस्यते मखस् तविष्यते असुरो वेपते मती
यस् ते अग्ने सुमतिम् मर्तो अक्षत् सहसः सूनो अति स प्र शृण्वे । इषꣳ दधानो वहमानो अश्वैर् आ स द्युमाꣳ अमवान् भूषति द्यून्
यद् अग्न एषा समितिर् भवाति देवी देवेषु यजता यजत्र । रत्ना च यद् विभजासि स्वधावो भागꣳ नो अत्र वसुमन्तꣳ वीतात्
श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथम् अमृतस्य द्रवित्नुम् । आ नो वह रोदसी देवपुत्रे माकिर् देवानाम् अप भूर् इह स्याः
द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा । देवो यन् मर्तान् यजथाय कृण्वन् सीदद् धोता प्रत्यङ् स्वम् असुꣳ यन्
देवो देवान् परिभूर् ऋतेन वहा नो हव्यम् प्रथमश् चिकित्वान् । धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान्
स्वावृग् देवस्यामृतꣳ यदी गोर् अतो जातासो धारयन्त उर्वी । विश्वे देवा अनु तत् ते यजुर् गुर् दुहे यद् एनी दिव्यꣳ घृतꣳ वाः
अर्चामि वाꣳ वर्धायापो घृतस्नू द्यावाभूमी शृणुतꣳ रोदसी मे । अहा यद् द्यावो ऽसुनीतिम् अयन् मध्वा नो अत्र पितरा शिशीताम्
किꣳ स्विन् नो राजा जगृहे कद् अस्याति व्रतꣳ चकृमा को वि वेद । मित्रश् चिद् धि ष्मा जुहुराणो देवाञ् छ्लोको न याताम् अपि वाजो अस्ति
दुर्मन्त्व् अत्रामृतस्य नाम सलक्ष्मा यद् विषुरूपा भवाति । यमस्य यो मनवते सुमन्त्व् अग्ने तम् ऋष्व पाह्य् अप्रयुच्छन्
यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते । सूर्ये ज्योतिर् अदधुर् मास्य् अ१क्तून् परि द्योतनिꣳ चरतो अजस्रा
यस्मिन् देवा मन्मनि सꣳचरन्त्य् अपीच्ये३ न वयम् अस्य विद्म । मित्रो नो अत्रादितिर् अनागान् सविता देवो वरुणाय वोचत्
श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथम् अमृतस्य द्रवित्नुम् । आ नो वह रोदसी देवपुत्रे माकिर् देवानाम् अप भूर् इह स्याः
युजे वाम् ब्रह्म पूर्व्यꣳ नमोभिर् वि श्लोक एतु पथ्येव सूरेः । शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः
यमे इव यतमाने यद् ऐतम् प्र वाम् भरन् मानुषा देवयन्तः । आ सीदतꣳ स्वम् उ लोकꣳ विदाने स्वासस्थे भवतम् इन्दवे नः
पञ्च पदानि रुपो अन्व् अरोहꣳ चतुष्पदीम् अन्व् एमि व्रतेन । अक्षरेण प्रति मिम एताम् ऋतस्य नाभाव् अधि सम् पुनामि
देवेभ्यः कम् अवृणीत मृत्युम् प्रजायै कम् अमृतꣳ नावृणीत । बृहस्पतिꣳ यज्ञम् अकृण्वत ऋषिम् प्रियाꣳ यमस् तन्व१म् प्रारिरेचीत्
सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्य् अवीवतन्न् ऋतम् । उभे इद् अस्योभयस्य राजत उभे यतेते उभयस्य पुष्यतः
परेयिवाꣳसम् प्रवतो महीर् अनु बहुभ्यः पन्थाम् अनुपस्पशानम् । वैवस्वतꣳ सꣳगमनꣳ जनानाꣳ यमꣳ राजानꣳ हविषा दुवस्य
यमो नो गातुम् प्रथमो विवेद नैषा गव्यूतिर् अपभर्तवा उ । यत्रा नः पूर्वे पितरः परेयुर् एना जज्ञानाः पथ्या३ अनु स्वाः
मातली कव्यैर् यमो अङ्गिरोभिर् बृहस्पतिर् ऋक्वभिर् वावृधानः । याꣳश् च देवा वावृधुर् ये च देवान् स्वाहान्ये स्वधयान्ये मदन्ति
इमꣳ यम प्रस्तरम् आ हि सीदाङ्गिरोभिः पितृभिः सꣳविदानः । आ त्वा मन्त्राः कविशस्ता वहन्त्व् एना राजन् हविषा मादयस्व
अङ्गिरोभिर् आ गहि यज्ञियेभिर् यम वैरूपैर् इह मादयस्व । विवस्वन्तꣳ हुवे यः पिता ते ऽस्मिन् यज्ञे बर्हिष्य् आ निषद्य
अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । तेषाꣳ वयꣳ सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम
प्रेहि प्रेहि पथिभिः पूर्व्येभिर् यत्रा नः पूर्वे पितरः परेयुः । उभा राजाना स्वधया मदन्ता यमम् पश्यासि वरुणꣳ च देवम्
सꣳ गच्छस्व पितृभिः सꣳ यमेनेष्टापूर्तेन परमे व्योमन् । हित्वायावद्यम् पुनर् अस्तम् एहि सꣳ गच्छस्व तन्वा सुवर्चाः
अपेत वीत वि च सर्पतातो ऽस्मा एतम् पितरो लोकम् अक्रन् । अहोभिर् अद्भिर् अक्तुभिर् व्यक्तꣳ यमो ददात्य् अवसानम् अस्मै
अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा । अथा पितॄन् सुविदत्राꣳ उपेहि यमेन ये सधमादम् मदन्ति
यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसौ । ताभ्याम् एनम् परि देहि राजन् स्वस्ति चास्मा अनमीवꣳ च धेहि
उरूणसाव् असुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनाꣳ अनु । ताव् अस्मभ्यꣳ दृशये सूर्याय पुनर् दाताम् असुम् अद्येह भद्रम्
यमाय सोमꣳ सुनुत यमाय जुहुता हविः । यमꣳ ह यज्ञो गच्छत्य् अग्निदूतो अरꣳकृतः
यमाय घृतवद् धविर् जुहोत प्र च तिष्ठत । स नो देवेष्व् आ यमद् दीर्घम् आयुः प्र जीवसे
यमाय मधुमत्तमꣳ राज्ञे हव्यꣳ जुहोतन । इदꣳ नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः
त्रिकद्रुकेभिः पतति षळ् उर्वीर् एकम् इद् बृहत् । त्रिष्टुब् गायत्री छन्दाꣳसि सर्वा ता यम आहिता
उद् ईरताम् अवर उत् परास उन् मध्यमाः पितरः सोम्यासः । असुꣳ य ईयुर् अवृका ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु
इदम् पितृभ्यो नमो अस्त्व् अद्य ये पूर्वासो य उपरास ईयुः । ये पार्थिवे रजस्य् आ निषत्ता ये वा नूनꣳ सुवृजनासु विक्षु
आहम् पितॄन् सुविदत्राꣳ अवित्सि नपातꣳ च विक्रमणꣳ च विष्णोः । बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस् त इहागमिष्ठाः
बर्हिषदः पितर ऊत्य् अ१र्वाग् इमा वो हव्या चकृमा जुषध्वम् । त आ गतावसा शꣳतमेनाथा नः शꣳ योर् अरपो दधात
उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । त आ गमन्तु त इह श्रुवन्त्व् अधि ब्रुवन्तु ते ऽवन्त्व् अस्मान्
आच्या जानु दक्षिणतो निषद्येमꣳ यज्ञम् अभि गृणीत विश्वे । मा हिꣳसिष्ट पितरः केन चिन् नो यद् व आगः पुरुषता कराम
आसीनासो अरुणीनाम् उपस्थे रयिꣳ धत्त दाशुषे मर्त्याय । पुत्रेभ्यः पितरस् तस्य वस्वः प्र यच्छत त इहोर्जꣳ दधात
ये नः पूर्वे पितरः सोम्यासो ऽनूहिरे सोमपीथꣳ वसिष्ठाः । तेभिर् यमः सꣳरराणो हवीꣳष्य् उशन्न् उशद्भिः प्रतिकामम् अत्तु
ये तातृषुर् देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः । आग्ने याहि सुविदत्रेभिर् अर्वाङ् सत्यैः कव्यैः पितृभिर् घर्मसद्भिः
ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथꣳ दधानाः । आग्ने याहि सहस्रꣳ देववन्दैः परैः पूर्वैः पितृभिर् घर्मसद्भिः
अग्निष्वात्ताः पितर एह गच्छत सदः-सदः सदत सुप्रणीतयः । अत्ता हवीꣳषि प्रयतानि बर्हिष्य् अथा रयिꣳ सर्ववीरꣳ दधातन
त्वम् अग्न ईळितो जातवेदो ऽवाड् ढव्यानि सुरभीणि कृत्वी । प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वꣳ देव प्रयता हवीꣳषि
ये चेह पितरो ये च नेह याꣳश् च विद्म याꣳ उ च न प्रविद्म । त्वꣳ वेत्थ यति ते जातवेदः स्वधाभिर् यज्ञꣳ सुकृतꣳ जुषस्व
ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते । तेभिः स्वराळ् असुनीतिम् एताꣳ यथावशꣳ तन्वꣳ कल्पयस्व
मैनम् अग्ने वि दहो माभि शोचो मास्य त्वचꣳ चिक्षिपो मा शरीरम् । यदा शृतꣳ कृणवो जातवेदो ऽथेम् एनम् प्र हिणुतात् पितृभ्यः
शृतꣳ यदा करसि जातवेदो ऽथेम् एनम् परि दत्तात् पितृभ्यः । यदा गच्छात्य् असुनीतिम् एताम् अथा देवानाꣳ वशनीर् भवाति
सूर्यꣳ चक्षुर् गच्छतु वातम् आत्मा द्याꣳ च गच्छ पृथिवीꣳ च धर्मणा । अपो वा गच्छ यदि तत्र ते हितम् ओषधीषु प्रति तिष्ठा शरीरैः
अजो भागस् तपसा तꣳ तपस्व तꣳ ते शोचिस् तपतु तꣳ ते अर्चिः । यास् ते शिवास् तन्वो जातवेदस् ताभिर् वहैनꣳ सुकृताम् उ लोकम्
अव सृज पुनर् अग्ने पितृभ्यो यस् त आहुतश् चरति स्वधाभिः । आयुर् वसान उप वेतु शेषः सꣳ गच्छताꣳ तन्वा जातवेदः
यत् ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः । अग्निष् टद् विश्वाद् अगदꣳ कृणोतु सोमश् च यो ब्राह्मणाꣳ आविवेश
अग्नेर् वर्म परि गोभिर् व्ययस्व सम् प्रोर्णुष्व पीवसा मेदसा च । नेत् त्वा धृष्णुर् हरसा जर्हृषाणो दधृग् विधक्ष्यन् पर्यङ्खयाते
इमम् अग्ने चमसम् मा वि जिह्वरः प्रियो देवानाम् उत सोम्यानाम् । एष यश् चमसो देवपानस् तस्मिन् देवा अमृता मादयन्ते
क्रव्यादम् अग्निम् प्र हिणोमि दूरꣳ यमराज्ञो गच्छतु रिप्रवाहः । इहैवायम् इतरो जातवेदा देवेभ्यो हव्यꣳ वहतु प्रजानन्
यो अग्निः क्रव्यात् प्रविवेश वो गृहम् इमम् पश्यन्न् इतरꣳ जातवेदसम् । तꣳ हरामि पितृयज्ञाय देवꣳ स घर्मम् इन्वात् परमे सधस्थे
यो अग्निः क्रव्यवाहनः पितॄन् यक्षद् ऋतावृधः । प्रेद् उ हव्यानि वोचति देवेभ्यश् च पितृभ्य आ
उशन्तस् त्वा नि धीमह्य् उशन्तः सम् इधीमहि । उशन्न् उशत आ वह पितॄन् हविषे अत्तवे
यꣳ त्वम् अग्ने समदहस् तम् उ निर् वापया पुनः । कियाम्ब्व् अत्र रोहतु पाकदूर्वा व्यल्कशा
शीतिके शीतिकावति ह्लादिके ह्लादिकावति । मण्डूक्या३ सु सꣳ गम इमꣳ स्व् अ१ग्निꣳ हर्षय
त्वष्टा दुहित्रे वहतुꣳ कृणोतीतीदꣳ विश्वम् भुवनꣳ सम् एति । यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश
अपागूहन्न् अमृताम् मर्त्येभ्यः कृत्वी सवर्णाम् अददुर् विवस्वते । उताश्विनाव् अभरद् यत् तद् आसीद् अजहाद् उ द्वा मिथुना सरण्यूः
पूषा त्वेतश् च्यावयतु प्र विद्वान् अनष्टपशुर् भुवनस्य गोपाः । स त्वैतेभ्यः परि ददत् पितृभ्यो ऽग्निर् देवेभ्यः सुविदत्रियेभ्यः
आयुर् विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् । यत्रासते सुकृतो यत्र ते ययुस् तत्र त्वा देवः सविता दधातु
पूषेमा आशा अनु वेद सर्वाः सो अस्माꣳ अभयतमेन नेषत् । स्वस्तिदा आघृणिः सर्ववीरो ऽप्रयुच्छन् पुर एतु प्रजानन्
प्रपथे पथाम् अजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः । उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन्
सरस्वतीꣳ देवयन्तो हवन्ते सरस्वतीम् अध्वरे तायमाने । सरस्वतीꣳ सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यꣳ दात्
सरस्वति या सरथꣳ ययाथ स्वधाभिर् देवि पितृभिर् मदन्ती । आसद्यास्मिन् बर्हिषि मादयस्वानमीवा इष आ धेह्य् अस्मे
सरस्वतीꣳ याम् पितरो हवन्ते दक्षिणा यज्ञम् अभिनक्षमाणाः । सहस्रार्घम् इळो अत्र भागꣳ रायस् पोषꣳ यजमानेषु धेहि
आपो अस्मान् मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु । विश्वꣳ हि रिप्रम् प्रवहन्ति देवीर् उद् इद् आभ्यः शुचिर् आ पूत एमि
द्रप्सश् चस्कन्द प्रथमाꣳ अनु द्यून् इमꣳ च योनिम् अनु यश् च पूर्वः । समानꣳ योनिम् अनु सꣳचरन्तꣳ द्रप्सꣳ जुहोम्य् अनु सप्त होत्राः
यस् ते द्रप्सः स्कन्दति यस् ते अꣳशुर् बाहुच्युतो धिषणाया उपस्थात् । अध्वर्योर् वा परि वा यः पवित्रात् तꣳ ते जुहोमि मनसा वषट्कृतम्
यस् ते द्रप्सः स्कन्नो यस् ते अꣳशुर् अवश् च यः परः स्रुचा । अयꣳ देवो बृहस्पतिः सꣳ तꣳ सिञ्चतु राधसे
पयस्वतीर् ओषधयः पयस्वन् मामकꣳ वचः । अपाम् पयस्वद् इत् पयस् तेन मा सह शुन्धत
परम् मृत्यो अनु परेहि पन्थाꣳ यस् ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाꣳ रीरिषो मोत वीरान्
मृत्योः पदꣳ योपयन्तो यद् ऐत द्राघीय आयुः प्रतरꣳ दधानाः । आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत यज्ञियासः
इमे जीवा वि मृतैर् आववृत्रन्न् अभूद् भद्रा देवहूतिर् नो अद्य । प्राञ्चो अगाम नृतये हसाय द्राघीय आयुः प्रतरꣳ दधानाः
इमꣳ जीवेभ्यः परिधिꣳ दधामि मैषाꣳ नु गाद् अपरो अर्थम् एतम् । शतꣳ जीवन्तु शरदः पुरूचीर् अन्तर् मृत्युꣳ दधताम् पर्वतेन
यथाहान्य् अनुपूर्वम् भवन्ति यथ ऋतव ऋतुभिर् यन्ति साधु । यथा न पूर्वम् अपरो जहात्य् एवा धातर् आयूꣳषि कल्पयैषाम्
आ रोहतायुर् जरसꣳ वृणाना अनुपूर्वꣳ यतमाना यति ष्ठ । इह त्वष्टा सुजनिमा सजोषा दीर्घम् आयुः करति जीवसे वः
इमा नारीर् अविधवाः सुपत्नीर् आञ्जनेन सर्पिषा सꣳ विशन्तु । अनश्रवो ऽनमीवाः सुरत्ना आ रोहन्तु जनयो योनिम् अग्रे
उद् ईर्ष्व नार्य् अभि जीवलोकꣳ गतासुम् एतम् उप शेष एहि । हस्तग्राभस्य दिधिषोस् तवेदम् पत्युर् जनित्वम् अभि सम् बभूथ
धनुर् हस्ताद् आददानो मृतस्यास्मे क्षत्राय वर्चसे बलाय । अत्रैव त्वम् इह वयꣳ सुवीरा विश्वाः स्पृधो अभिमातीर् जयेम
उप सर्प मातरम् भूमिम् एताम् उरुव्यचसम् पृथिवीꣳ सुशेवाम् । ऊर्णम्रदा युवतिर् दक्षिणावत एषा त्वा पातु निरृतेर् उपस्थात्
उच् छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपवञ्चना । माता पुत्रꣳ यथा सिचाभ्य् एनम् भूम ऊर्णुहि
उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रम् मित उप हि श्रयन्ताम् । ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मै शरणाः सन्त्व् अत्र
उत् ते स्तभ्नामि पृथिवीꣳ त्वत् परीमꣳ लोगꣳ निदधन् मो अहꣳ रिषम् । एताꣳ स्थूणाम् पितरो धारयन्तु ते ऽत्रा यमः सादना ते मिनोतु
प्रतीचीने माम् अहनीष्वाः पर्णम् इवा दधुः । प्रतीचीꣳ जग्रभा वाचम् अश्वꣳ रशनया यथा
नि वर्तध्वम् मानु गातास्मान् सिषक्त रेवतीः । अग्नीषोमा पुनर्वसू अस्मे धारयतꣳ रयिम्
पुनर् एना नि वर्तय पुनर् एना न्य् आ कुरु । इन्द्र एणा नि यच्छत्व् अग्निर् एना उपाजतु
पुनर् एता नि वर्तन्ताम् अस्मिन् पुष्यन्तु गोपतौ । इहैवाग्ने नि धारयेह तिष्ठतु या रयिः
यन् नियानꣳ न्ययनꣳ सꣳज्ञानꣳ यत् परायणम् । आवर्तनꣳ निवर्तनꣳ यो गोपा अपि तꣳ हुवे
य उदानड् व्ययनꣳ य उदानट् परायणम् । आवर्तनꣳ निवर्तनम् अपि गोपा नि वर्तताम्
आ निवर्त नि वर्तय पुनर् न इन्द्र गा देहि । जीवाभिर् भुनजामहै
परि वो विश्वतो दध ऊर्जा घृतेन पयसा । ये देवाः के च यज्ञियास् ते रय्या सꣳ सृजन्तु नः
आ निवर्तन वर्तय नि निवर्तन वर्तय । भूम्याश् चतस्रः प्रदिशस् ताभ्य एना नि वर्तय
भद्रꣳ नो अपि वातय मनः
अग्निम् ईळे भुजाꣳ यविष्ठꣳ शासा मित्रꣳ दुर्धरीतुम् । यस्य धर्मन् स्व१र् एनीः सपर्यन्ति मातुर् ऊधः
यम् आसा कृपनीळम् भासाकेतुꣳ वर्धयन्ति । भ्राजते श्रेणिदन्
अर्यो विशाꣳ गातुर् एति प्र यद् आनड् दिवो अन्तान् । कविर् अभ्रꣳ दीद्यानः
जुषद् धव्या मानुषस्योर्ध्वस् तस्थाव् ऋभ्वा यज्ञे । मिन्वन् सद्म पुर एति
स हि क्षेमो हविर् यज्ञः श्रुष्टीद् अस्य गातुर् एति । अग्निꣳ देवा वाशीमन्तम्
यज्ञासाहꣳ दुव इषे ऽग्निम् पूर्वस्य शेवस्य । अद्रेः सूनुम् आयुम् आहुः
नरो ये के चास्मद् आ विश्वेत् ते वाम आ स्युः । अग्निꣳ हविषा वर्धन्तः
कृष्णः श्वेतो ऽरुषो यामो अस्य ब्रध्न ऋज्र उत शोणो यशस्वान् । हिरण्यरूपꣳ जनिता जजान
एवा ते अग्ने विमदो मनीषाम् ऊर्जो नपाद् अमृतेभिः सजोषाः । गिर आ वक्षत् सुमतीर् इयान इषम् ऊर्जꣳ सुक्षितिꣳ विश्वम् आभाः
आग्निꣳ न स्ववृक्तिभिर् होतारꣳ त्वा वृणीमहे । यज्ञाय स्तीर्णबर्हिषे वि वो मदे शीरम् पावकशोचिषꣳ विवक्षसे
त्वाम् उ ते स्वाभुवः शुम्भन्त्य् अश्वराधसः । वेति त्वाम् उपसेचनी वि वो मद ऋजीतिर् अग्न आहुतिर् विवक्षसे
त्वे धर्माण आसते जुहूभिः सिञ्चतीर् इव । कृष्णा रूपाण्य् अर्जुना वि वो मदे विश्वा अधि श्रियो धिषे विवक्षसे
यम् अग्ने मन्यसे रयिꣳ सहसावन्न् अमर्त्य । तम् आ नो वाजसातये वि वो मदे यज्ञेषु चित्रम् आ भरा विवक्षसे
अग्निर् जातो अथर्वणा विदद् विश्वानि काव्या । भुवद् दूतो विवस्वतो वि वो मदे प्रियो यमस्य काम्यो विवक्षसे
त्वाꣳ यज्ञेष्व् ईळते ऽग्ने प्रयत्य् अध्वरे । त्वꣳ वसूनि काम्या वि वो मदे विश्वा दधासि दाशुषे विवक्षसे
त्वाꣳ यज्ञेष्व् ऋत्विजꣳ चारुम् अग्ने नि षेदिरे । घृतप्रतीकम् मनुषो वि वो मदे शुक्रꣳ चेतिष्ठम् अक्षभिर् विवक्षसे
अग्ने शुक्रेण शोचिषोरु प्रथयसे बृहत् । अभिक्रन्दन् वृषायसे वि वो मदे गर्भꣳ दधासि जामिषु विवक्षसे
कुह श्रुत इन्द्रः कस्मिन्न् अद्य जने मित्रो न श्रूयते । ऋषीणाꣳ वा यः क्षये गुहा वा चर्कृषे गिरा
इह श्रुत इन्द्रो अस्मे अद्य स्तवे वज्र्य् ऋचीषमः । मित्रो न यो जनेष्व् आ यशश् चक्रे असाम्य् आ
महो यस् पतिः शवसो असाम्य् आ महो नृम्णस्य तूतुजिः । भर्ता वज्रस्य धृष्णोः पिता पुत्रम् इव प्रियम्
युजानो अश्वा वातस्य धुनी देवो देवस्य वज्रिवः । स्यन्ता पथा विरुक्मता सृजानः स्तोष्य् अध्वनः
त्वꣳ त्या चिद् वातस्याश्वागा ऋज्रा त्मना वहध्यै । ययोर् देवो न मर्त्यो यन्ता नकिर् विदाय्यः
अध ग्मन्तोशना पृच्छते वाꣳ कदर्था न आ गृहम् । आ जग्मथुः पराकाद् दिवश् च ग्मश् च मर्त्यम्
आ न इन्द्र पृक्षसे ऽस्माकम् ब्रह्मोद्यतम् । तत् त्वा याचामहे ऽवः शुष्णꣳ यद् धन्न् अमानुषम्
अकर्मा दस्युर् अभि नो अमन्तुर् अन्यव्रतो अमानुषः । त्वꣳ तस्यामित्रहन् वधर् दासस्य दम्भय
त्वꣳ न इन्द्र शूर शूरैर् उत त्वोतासो बर्हणा । पुरुत्रा ते वि पूर्तयो नवन्त क्षोणयो यथा
त्वꣳ तान् वृत्रहत्ये चोदयो नॄन् कार्पाणे शूर वज्रिवः । गुहा यदी कवीनाꣳ विशाꣳ नक्षत्रशवसाम्
मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः । यद् ध शुष्णस्य दम्भयो जातꣳ विश्वꣳ सयावभिः
माकुध्र्यग् इन्द्र शूर वस्वीर् अस्मे भूवन्न् अभिष्टयः । वयꣳ-वयꣳ त आसाꣳ सुम्ने स्याम वज्रिवः
अस्मे ता त इन्द्र सन्तु सत्याहिꣳसन्तीर् उपस्पृशः । विद्याम यासाम् भुजो धेनूनाꣳ न वज्रिवः
अहस्ता यद् अपदी वर्धत क्षाः शचीभिर् वेद्यानाम् । शुष्णम् परि प्रदक्षिणिद् विश्वायवे नि शिश्नथः
पिबा-पिबेद् इन्द्र शूर सोमम् मा रिषण्यो वसवान वसुः सन् । उत त्रायस्व गृणतो मघोनो महश् च रायो रेवतस् कृधी नः
यजामह इन्द्रꣳ वज्रदक्षिणꣳ हरीणाꣳ रथ्य१ꣳ विव्रतानाम् । प्र श्मश्रु दोधुवद् ऊर्ध्वथा भूद् वि सेनाभिर् दयमानो वि राधसा
हरी न्व् अस्य या वने विदे वस्व् इन्द्रो मघैर् मघवा वृत्रहा भुवत् । ऋभुर् वाज ऋभुक्षाः पत्यते शवो ऽव क्ष्णौमि दासस्य नाम चित्
यदा वज्रꣳ हिरण्यम् इद् अथा रथꣳ हरी यम् अस्य वहतो वि सूरिभिः । आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस् पतिः
सो चिन् नु वृष्टिर् यूथ्या३ स्वा सचाꣳ इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते । अव वेति सुक्षयꣳ सुते मधूद् इद् धूनोति वातो यथा वनम्
यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान । तत्-तद् इद् अस्य पौꣳस्यꣳ गृणीमसि पितेव यस् तविषीꣳ वावृधे शवः
स्तोमꣳ त इन्द्र विमदा अजीजनन्न् अपूर्व्यम् पुरुतमꣳ सुदानवे । विद्मा ह्य् अस्य भोजनम् इनस्य यद् आ पशुꣳ न गोपाः करामहे
माकिर् न एना सख्या वि यौषुस् तव चेन्द्र विमदस्य च ऋषेः । विद्मा हि ते प्रमतिꣳ देव जामिवद् अस्मे ते सन्तु सख्या शिवानि
इन्द्र सोमम् इमम् पिब मधुमन्तꣳ चमू सुतम् । अस्मे रयिꣳ नि धारय वि वो मदे सहस्रिणम् पुरूवसो विवक्षसे
त्वाꣳ यज्ञेभिर् उक्थैर् उप हव्येभिर् ईमहे । शचीपते शचीनाꣳ वि वो मदे श्रेष्ठꣳ नो धेहि वार्यꣳ विवक्षसे
यस् पतिर् वार्याणाम् असि रध्रस्य चोदिता । इन्द्र स्तोतॄणाम् अविता वि वो मदे द्विषो नः पाह्य् अꣳहसो विवक्षसे
युवꣳ शक्रा मायाविना समीची निर् अमन्थतम् । विमदेन यद् ईळिता नासत्या निरमन्थतम्
विश्वे देवा अकृपन्त समीच्योर् निष्पतन्त्योः । नासत्याव् अब्रुवन् देवाः पुनर् आ वहताद् इति
मधुमन् मे परायणम् मधुमत् पुनर् आयनम् । ता नो देवा देवतया युवम् मधुमतस् कृतम्
भद्रꣳ नो अपि वातय मनो दक्षम् उत क्रतुम् । अधा ते सख्ये अन्धसो वि वो मदे रणन् गावो न यवसे विवक्षसे
हृदिस्पृशस् त आसते विश्वेषु सोम धामसु । अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे
उत व्रतानि सोम ते प्राहम् मिनामि पाक्या । अधा पितेव सूनवे वि वो मदे मृळा नो अभि चिद् वधाद् विवक्षसे
सम् उ प्र यन्ति धीतयः सर्गासो ऽवताꣳ इव । क्रतुꣳ नः सोम जीवसे वि वो मदे धारया चमसाꣳ इव विवक्षसे
तव त्ये सोम शक्तिभिर् निकामासो व्य् ऋण्विरे । गृत्सस्य धीरास् तवसो वि वो मदे व्रजꣳ गोमन्तम् अश्विनꣳ विवक्षसे
पशुꣳ नः सोम रक्षसि पुरुत्रा विष्ठितꣳ जगत् । समाकृणोषि जीवसे वि वो मदे विश्वा सम्पश्यन् भुवना विवक्षसे
त्वꣳ नः सोम विश्वतो गोपा अदाभ्यो भव । सेध राजन्न् अप स्रिधो वि वो मदे मा नो दुःशꣳस ईशता विवक्षसे
त्वꣳ नः सोम सुक्रतुर् वयोधेयाय जागृहि । क्षेत्रवित्तरो मनुषो वि वो मदे द्रुहो नः पाह्य् अꣳहसो विवक्षसे
त्वꣳ नो वृत्रहन्तमेन्द्रस्येन्दो शिवः सखा । यत् सीꣳ हवन्ते समिथे वि वो मदे युध्यमानास् तोकसातौ विवक्षसे
अयꣳ घ स तुरो मद इन्द्रस्य वर्धत प्रियः । अयꣳ कक्षीवतो महो वि वो मदे मतिꣳ विप्रस्य वर्धयद् विवक्षसे
अयꣳ विप्राय दाशुषे वाजाꣳ इयर्ति गोमतः । अयꣳ सप्तभ्य आ वरꣳ वि वो मदे प्रान्धꣳ श्रोणꣳ च तारिषद् विवक्षसे
प्र ह्य् अच्छा मनीषाः स्पार्हा यन्ति नियुतः । प्र दस्रा नियुद्रथः पूषा अविष्टु माहिनः
यस्य त्यन् महित्वꣳ वाताप्यम् अयꣳ जनः । विप्र आ वꣳसद् धीतिभिश् चिकेत सुष्टुतीनाम्
स वेद सुष्टुतीनाम् इन्दुर् न पूषा वृषा । अभि प्सुरः प्रुषायति व्रजꣳ न आ प्रुषायति
मꣳसीमहि त्वा वयम् अस्माकꣳ देव पूषन् । मतीनाꣳ च साधनꣳ विप्राणाꣳ चाधवम्
प्रत्यर्धिर् यज्ञानाम् अश्वहयो रथानाम् । ऋषिः स यो मनुर्हितो विप्रस्य यावयत्सखः
आधीषमाणायाः पतिः शुचायाश् च शुचस्य च । वासोवायो ऽवीनाम् आ वासाꣳसि मर्मृजत्
इनो वाजानाम् पतिर् इनः पुष्टीनाꣳ सखा । प्र श्मश्रु हर्यतो दूधोद् वि वृथा यो अदाभ्यः
आ ते रथस्य पूषन्न् अजा धुरꣳ ववृत्युः । विश्वस्यार्थिनः सखा सनोजा अनपच्युतः
अस्माकम् ऊर्जा रथम् पूषा अविष्टु माहिनः । भुवद् वाजानाꣳ वृध इमꣳ नः शृणवद् धवम्
असत् सु मे जरितः साभिवेगो यत् सुन्वते यजमानाय शिक्षम् । अनाशीर्दाम् अहम् अस्मि प्रहन्ता सत्यध्वृतꣳ वृजिनायन्तम् आभुम्
यदीद् अहꣳ युधये सꣳनयान्य् अदेवयून् तन्वा३ शूशुजानान् । अमा ते तुम्रꣳ वृषभम् पचानि तीव्रꣳ सुतम् पञ्चदशꣳ नि षिञ्चम्
नाहꣳ तꣳ वेद य इति ब्रवीत्य् अदेवयून् समरणे जघन्वान् । यदावाख्यत् समरणम् ऋघावद् आद् इद् ध मे वृषभा प्र ब्रुवन्ति
यद् अज्ञातेषु वृजनेष्व् आसꣳ विश्वे सतो मघवानो म आसन् । जिनामि वेत् क्षेम आ सन्तम् आभुम् प्र तꣳ क्षिणाम् पर्वते पादगृह्य
न वा उ माꣳ वृजने वारयन्ते न पर्वतासो यद् अहम् मनस्ये । मम स्वनात् कृधुकर्णो भयात एवेद् अनु द्यून् किरणः सम् एजात्
दर्शन् न्व् अत्र शृतपाꣳ अनिन्द्रान् बाहुक्षदः शरवे पत्यमानान् । घृषुꣳ वा ये निनिदुः सखायम् अध्य् ऊ न्व् एषु पवयो ववृत्युः
अभूर् व् औक्षीर् व्य् उ१ आयुर् आनड् दर्षन् नु पूर्वो अपरो नु दर्षत् । द्वे पवस्ते परि तꣳ न भूतो यो अस्य पारे रजसो विवेष
गावो यवम् प्रयुता अर्यो अक्षन् ता अपश्यꣳ सहगोपाश् चरन्तीः । हवा इद् अर्यो अभितः सम् आयन् कियद् आसु स्वपतिश् छन्दयाते
सꣳ यद् वयꣳ यवसादो जनानाम् अहꣳ यवाद उर्वज्रे अन्तः । अत्रा युक्तो ऽवसातारम् इच्छाद् अथो अयुक्तꣳ युनजद् ववन्वान्
अत्रेद् उ मे मꣳससे सत्यम् उक्तꣳ द्विपाच् च यच् चतुष्पात् सꣳसृजानि । स्त्रीभिर् यो अत्र वृषणम् पृतन्याद् अयुद्धो अस्य वि भजानि वेदः
यस्यानक्षा दुहिता जात्व् आस कस् ताꣳ विद्वाꣳ अभि मन्याते अन्धाम् । कतरो मेनिम् प्रति तम् मुचाते य ईꣳ वहाते य ईꣳ वा वरेयात्
कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसा वार्येण । भद्रा वधूर् भवति यत् सुपेशाः स्वयꣳ सा मित्रꣳ वनुते जने चित्
पत्तो जगार प्रत्यञ्चम् अत्ति शीर्ष्णा शिरः प्रति दधौ वरूथम् । आसीन ऊर्ध्वाम् उपसि क्षिणाति न्यङ्ङ् उत्तानाम् अन्व् एति भूमिम्
बृहन्न् अच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति गर्भः । अन्यस्या वत्सꣳ रिहती मिमाय कया भुवा नि दधे धेनुर् ऊधः
सप्त वीरासो अधराद् उद् आयन्न् अष्टोत्तरात्तात् सम् अजग्मिरन् ते । नव पश्चातात् स्थिविमन्त आयन् दश प्राक् सानु वि तिरन्त्य् अश्नः
दशानाम् एकꣳ कपिलꣳ समानꣳ तꣳ हिन्वन्ति क्रतवे पार्याय । गर्भम् माता सुधितꣳ वक्षणास्व् अवेनन्तꣳ तुषयन्ती बिभर्ति
पीवानम् मेषम् अपचन्त वीरा न्युप्ता अक्षा अनु दीव आसन् । द्वा धनुम् बृहतीम् अप्स्व् अ१न्तः पवित्रवन्ता चरतः पुनन्ता
वि क्रोशनासो विष्वञ्च आयन् पचाति नेमो नहि पक्षद् अर्धः । अयम् मे देवः सविता तद् आह द्र्वन्न इद् वनवत् सर्पिरन्नः
अपश्यꣳ ग्रामꣳ वहमानम् आराद् अचक्रया स्वधया वर्तमानम् । सिषक्त्य् अर्यः प्र युगा जनानाꣳ सद्यः शिश्ना प्रमिनानो नवीयान्
एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर् मुहुर् इन् ममन्धि । आपश् चिद् अस्य वि नशन्त्य् अर्थꣳ सूरश् च मर्क उपरो बभूवान्
अयꣳ यो वज्रः पुरुधा विवृत्तो ऽवः सूर्यस्य बृहतः पुरीषात् । श्रव इद् एना परो अन्यद् अस्ति तद् अव्यथी जरिमाणस् तरन्ति
वृक्षे-वृक्षे नियता मीमयद् गौस् ततो वयः प्र पतान् पूरुषादः । अथेदꣳ विश्वम् भुवनम् भयात इन्द्राय सुन्वद् ऋषये च शिक्षत्
देवानाम् माने प्रथमा अतिष्ठन् कृन्तत्राद् एषाम् उपरा उद् आयन् । त्रयस् तपन्ति पृथिवीम् अनूपा द्वा बृबूकꣳ वहतः पुरीषम्
सा ते जीवातुर् उत तस्य विद्धि मा स्मैतादृग् अप गूहः समर्ये । आविः स्वः कृणुते गूहते बुसꣳ स पादुर् अस्य निर्णिजो न मुच्यते
विश्वो ह्य् अ१न्यो अरिर् आजगाम ममेद् अह श्वशुरो ना जगाम । जक्षीयाद् धाना उत सोमम् पपीयात् स्वाशितः पुनर् अस्तꣳ जगायात्
स रोरुवद् वृषभस् तिग्मशृङ्गो वर्ष्मन् तस्थौ वरिमन्न् आ पृथिव्याः । विश्वेष्व् एनꣳ वृजनेषु पामि यो मे कुक्षी सुतसोमः पृणाति
अद्रिणा ते मन्दिन इन्द्र तूयान् सुन्वन्ति सोमान् पिबसि त्वम् एषाम् । पचन्ति ते वृषभाꣳ अत्सि तेषाम् पृक्षेण यन् मघवन् हूयमानः
इदꣳ सु मे जरितर् आ चिकिद्धि प्रतीपꣳ शापꣳ नद्यो वहन्ति । लोपाशः सिꣳहम् प्रत्यञ्चम् अत्साः क्रोष्टा वराहꣳ निर् अतक्त कक्षात्
कथा त एतद् अहम् आ चिकेतꣳ गृत्सस्य पाकस् तवसो मनीषाम् । त्वꣳ नो विद्वाꣳ ऋतुथा वि वोचो यम् अर्धꣳ ते मघवन् क्षेम्या धूः
एवा हि माꣳ तवसꣳ वर्धयन्ति दिवश् चिन् मे बृहत उत्तरा धूः । पुरू सहस्रा नि शिशामि साकम् अशत्रुꣳ हि मा जनिता जजान
एवा हि माꣳ तवसꣳ जज्ञुर् उग्रꣳ कर्मन्-कर्मन् वृषणम् इन्द्र देवाः । वधीꣳ वृत्रꣳ वज्रेण मन्दसानो ऽप व्रजम् महिना दाशुषे वम्
देवास आयन् परशूꣳर् अबिभ्रन् वना वृश्चन्तो अभि विड्भिर् आयन् । नि सुद्र्व१ꣳ दधतो वक्षणासु यत्रा कृपीटम् अनु तद् दहन्ति
शशः क्षुरम् प्रत्यञ्चꣳ जगाराद्रिꣳ लोगेन व्य् अभेदम् आरात् । बृहन्तꣳ चिद् ऋहते रन्धयानि वयद् वत्सो वृषभꣳ शूशुवानः
सुपर्ण इत्था नखम् आ सिषायावरुद्धः परिपदꣳ न सिꣳहः । निरुद्धश् चिन् महिषस् तर्ष्यावान् गोधा तस्मा अयथꣳ कर्षद् एतत्
तेभ्यो गोधा अयथꣳ कर्षद् एतद् ये ब्रह्मणः प्रतिपीयन्त्य् अन्नैः । सिम उक्ष्णो ऽवसृष्टाꣳ अदन्ति स्वयम् बलानि तन्वः शृणानाः
एते शमीभिः सुशमी अभूवन् ये हिन्विरे तन्व१ः सोम उक्थैः । नृवद् वदन्न् उप नो माहि वाजान् दिवि श्रवो दधिषे नाम वीरः
वने न वा यो न्य् अधायि चाकञ् छुचिर् वाꣳ स्तोमो भुरणाव् अजीगः । यस्येद् इन्द्रः पुरुदिनेषु होता नृणाꣳ नर्यो नृतमः क्षपावान्
प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् । अनु त्रिशोकः शतम् आवहन् नॄन् कुत्सेन रथो यो असत् ससवान्
कस् ते मद इन्द्र रन्त्यो भूद् दुरो गिरो अभ्य् उ१ग्रो वि धाव । कद् वाहो अर्वाग् उप मा मनीषा आ त्वा शक्याम् उपमꣳ राधो अन्नैः
कद् उ द्युम्नम् इन्द्र त्वावतो नॄन् कया धिया करसे कन् न आगन् । मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यद् असन् मनीषाः
प्रेरय सूरो अर्थꣳ न पारꣳ ये अस्य कामꣳ जनिधा इव ग्मन् । गिरश् च ये ते तुविजात पूर्वीर् नर इन्द्र प्रतिशिक्षन्त्य् अन्नैः
मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर् मज्मना पृथिवी काव्येन । वराय ते घृतवन्तः सुतासः स्वाद्मन् भवन्तु पीतये मधूनि
आ मध्वो अस्मा असिचन्न् अमत्रम् इन्द्राय पूर्णꣳ स हि सत्यराधाः । स वावृधे वरिमन्न् आ पृथिव्या अभि क्रत्वा नर्यः पौꣳस्यैश् च
व्य् आनळ् इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः । आ स्मा रथꣳ न पृतनासु तिष्ठ यम् भद्रया सुमत्या चोदयासे
प्र देवत्रा ब्रह्मणे गातुर् एत्व् अपो अच्छा मनसो न प्रयुक्ति । महीम् मित्रस्य वरुणस्य धासिम् पृथुज्रयसे रीरधा सुवृक्तिम्
अध्वर्यवो हविष्मन्तो हि भूताच्छाप इतोशतीर् उशन्तः । अव याश् चष्टे अरुणः सुपर्णस् तम् आस्यध्वम् ऊर्मिम् अद्या सुहस्ताः
अध्वर्यवो ऽप इता समुद्रम् अपाꣳ नपातꣳ हविषा यजध्वम् । स वो ददद् ऊर्मिम् अद्या सुपूतꣳ तस्मै सोमम् मधुमन्तꣳ सुनोत
यो अनिध्मो दीदयद् अप्स्व् अ१न्तर् यꣳ विप्रास ईळते अध्वरेषु । अपाꣳ नपान् मधुमतीर् अपो दा याभिर् इन्द्रो वावृधे वीर्याय
याभिः सोमो मोदते हर्षते च कल्याणीभिर् युवतिभिर् न मर्यः । ता अध्वर्यो अपो अच्छा परेहि यद् आसिञ्चा ओषधीभिः पुनीतात्
एवेद् यूने युवतयो नमन्त यद् ईम् उशन्न् उशतीर् एत्य् अच्छ । सꣳ जानते मनसा सꣳ चिकित्रे ऽध्वर्यवो धिषणापश् च देवीः
यो वो वृताभ्यो अकृणोद् उ लोकꣳ यो वो मह्या अभिशस्तेर् अमुञ्चत् । तस्मा इन्द्राय मधुमन्तम् ऊर्मिꣳ देवमादनम् प्र हिणोतनापः
प्रास्मै हिनोत मधुमन्तम् ऊर्मिꣳ गर्भो यो वः सिन्धवो मध्व उत्सः । घृतपृष्ठम् ईड्यम् अध्वरेष्व् आपो रेवतीः शृणुता हवम् मे
तꣳ सिन्धवो मत्सरम् इन्द्रपानम् ऊर्मिम् प्र हेत य उभे इयर्ति । मदच्युतम् औशानꣳ नभोजाम् परि त्रितन्तुꣳ विचरन्तम् उत्सम्
आवर्वृततीर् अध नु द्विधारा गोषुयुधो न नियवꣳ चरन्तीः । ऋषे जनित्रीर् भुवनस्य पत्नीर् अपो वन्दस्व सवृधः सयोनीः
हिनोता नो अध्वरꣳ देवयज्या हिनोत ब्रह्म सनये धनानाम् । ऋतस्य योगे वि ष्यध्वम् ऊधः श्रुष्टीवरीर् भूतनास्मभ्यम् आपः
आपो रेवतीः क्षयथा हि वस्वः क्रतुꣳ च भद्रम् बिभृथामृतꣳ च । रायश् च स्थ स्वपत्यस्य पत्नीः सरस्वती तद् गृणते वयो धात्
प्रति यद् आपो अदृश्रम् आयतीर् घृतम् पयाꣳसि बिभ्रतीर् मधूनि । अध्वर्युभिर् मनसा सꣳविदाना इन्द्राय सोमꣳ सुषुतम् भरन्तीः
एमा अग्मन् रेवतीर् जीवधन्या अध्वर्यवः सादयता सखायः । नि बर्हिषि धत्तन सोम्यासो ऽपाꣳ नप्त्रा सꣳविदानास एनाः
आग्मन्न् आप उशतीर् बर्हिर् एदꣳ न्य् अध्वरे असदन् देवयन्तीः । अध्वर्यवः सुनुतेन्द्राय सोमम् अभूद् उ वः सुशका देवयज्या
आ नो देवानाम् उप वेतु शꣳसो विश्वेभिस् तुरैर् अवसे यजत्रः । तेभिर् वयꣳ सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम
परि चिन् मर्तो द्रविणम् ममन्याद् ऋतस्य पथा नमसा विवासेत् । उत स्वेन क्रतुना सꣳ वदेत श्रेयाꣳसꣳ दक्षम् मनसा जगृभ्यात्
अधायि धीतिर् अससृग्रम् अꣳशास् तीर्थे न दस्मम् उप यन्त्य् ऊमाः । अभ्य् आनश्म सुवितस्य शूषꣳ नवेदसो अमृतानाम् अभूम
नित्यश् चाकन्यात् स्वपतिर् दमूना यस्मा उ देवः सविता जजान । भगो वा गोभिर् अर्यमेम् अनज्यात् सो अस्मै चारुश् छदयद् उत स्यात्
इयꣳ सा भूया उषसाम् इव क्षा यद् ध क्षुमन्तः शवसा समायन् । अस्य स्तुतिꣳ जरितुर् भिक्षमाणा आ नः शग्मास उप यन्तु वाजाः
अस्येद् एषा सुमतिः पप्रथानाभवत् पूर्व्या भूमना गौः । अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः
किꣳ स्विद् वनꣳ क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । सꣳतस्थाने अजरे इतऊती अहानि पूर्वीर् उषसो जरन्त
नैतावद् एना परो अन्यद् अस्त्य् उक्षा स द्यावापृथिवी बिभर्ति । त्वचम् पवित्रꣳ कृणुत स्वधावान् यद् ईꣳ सूर्यꣳ न हरितो वहन्ति
स्तेगो न क्षाम् अत्य् एति पृथ्वीम् मिहꣳ न वातो वि ह वाति भूम । मित्रो यत्र वरुणो अज्यमानो ऽग्निर् वने न व्य् असृष्ट शोकम्
स्तरीर् यत् सूत सद्यो अज्यमाना व्यथिर् अव्यथीः कृणुत स्वगोपा । पुत्रो यत् पूर्वः पित्रोर् जनिष्ट शम्याꣳ गौर् जगार यद् ध पृच्छान्
उत कण्वꣳ नृषदः पुत्रम् आहुर् उत श्यावो धनम् आदत्त वाजी । प्र कृष्णाय रुशद् अपिन्वतोधर् ऋतम् अत्र नकिर् अस्मा अपीपेत्
प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर् वराꣳ अभि षु प्रसीदतः । अस्माकम् इन्द्र उभयꣳ जुजोषति यत् सोम्यस्यान्धसो बुबोधति
वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसा पुरुष्टुत । ये त्वा वहन्ति मुहुर् अध्वराꣳ उप ते सु वन्वन्तु वग्वनाꣳ अराधसः
तद् इन् मे छन्त्सद् वपुषो वपुष्टरम् पुत्रो यज् जानम् पित्रोर् अधीयति । जाया पतिꣳ वहति वग्नुना सुमत् पुꣳस इद् भद्रो वहतुः परिष्कृतः
तद् इत् सधस्थम् अभि चारु दीधय गावो यच् छासन् वहतुꣳ न धेनवः । माता यन् मन्तुर् यूथस्य पूर्व्याभि वाणस्य सप्तधातुर् इज् जनः
प्र वो ऽच्छा रिरिचे देवयुष् पदम् एको रुद्रेभिर् याति तुर्वणिः । जरा वा येष्व् अमृतेषु दावने परि व ऊमेभ्यः सिञ्चता मधु
निधीयमानम् अपगूळ्हम् अप्सु प्र मे देवानाꣳ व्रतपा उवाच । इन्द्रो विद्वाꣳ अनु हि त्वा चचक्ष तेनाहम् अग्ने अनुशिष्ट आगाम्
अक्षेत्रवित् क्षेत्रविदꣳ ह्य् अप्राट् स प्रैति क्षेत्रविदानुशिष्टः । एतद् वै भद्रम् अनुशासनस्योत स्रुतिꣳ विन्दत्य् अञ्जसीनाम्
अद्येद् उ प्राणीद् अममन्न् इमाहापीवृतो अधयन् मातुर् ऊधः । एम् एनम् आप जरिमा युवानम् अहेळन् वसुः सुमना बभूव
एतानि भद्रा कलश क्रियाम कुरुश्रवण ददतो मघानि । दान इद् वो मघवानः सो अस्त्व् अयꣳ च सोमो हृदि यम् बिभर्मि
प्र मा युयुज्रे प्रयुजो जनानाꣳ वहामि स्म पूषणम् अन्तरेण । विश्वे देवासो अध माम् अरक्षन् दुःशासुर् आगाद् इति घोष आसीत्
सम् मा तपन्त्य् अभितः सपत्नीर् इव पर्शवः । नि बाधते अमतिर् नग्नता जसुर् वेर् न वेवीयते मतिः
मूषो न शिश्ना व्य् अदन्ति माध्यः स्तोतारꣳ ते शतक्रतो । सकृत् सु नो मघवन्न् इन्द्र मृळयाधा पितेव नो भव
कुरुश्रवणम् आवृणि राजानꣳ त्रासदस्यवम् । मꣳहिष्ठꣳ वाघताम् ऋषिः
यस्य मा हरितो रथे तिस्रो वहन्ति साधुया । स्तवै सहस्रदक्षिणे
यस्य प्रस्वादसो गिर उपमश्रवसः पितुः । क्षेत्रꣳ न रण्वम् ऊचुषे
अधि पुत्रोपमश्रवो नपान् मित्रातिथेर् इहि । पितुष् टे अस्मि वन्दिता
यद् ईशीयामृतानाम् उत वा मर्त्यानाम् । जीवेद् इन् मघवा मम
न देवानाम् अति व्रतꣳ शतात्मा चन जीवति । तथा युजा वि वावृते
प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः । सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर् मह्यम् अच्छान्
न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यम् आसीत् । अक्षस्याहम् एकपरस्य हेतोर् अनुव्रताम् अप जायाम् अरोधम्
द्वेष्टि श्वश्रूर् अप जाया रुणद्धि न नाथितो विन्दते मर्डितारम् । अश्वस्येव जरतो वस्न्यस्य नाहꣳ विन्दामि कितवस्य भोगम्
अन्ये जायाम् परि मृशन्त्य् अस्य यस्यागृधद् वेदने वाज्य् अ१क्षः । पिता माता भ्रातर एनम् आहुर् न जानीमो नयता बद्धम् एतम्
यद् आदीध्ये न दविषाण्य् एभिः परायद्भ्यो ऽव हीये सखिभ्यः । न्युप्ताश् च बभ्रवो वाचम् अक्रतꣳ एमीद् एषाꣳ निष्कृतꣳ जारिणीव
सभाम् एति कितवः पृच्छमानो जेष्यामीति तन्वा३ शूशुजानः । अक्षासो अस्य वि तिरन्ति कामम् प्रतिदीव्ने दधत आ कृतानि
अक्षास इद् अङ्कुशिनो नितोदिनो निकृत्वानस् तपनास् तापयिष्णवः । कुमारदेष्णा जयतः पुनर्हणो मध्वा सम्पृक्ताः कितवस्य बर्हणा
त्रिपञ्चाशः क्रीळति व्रात एषाꣳ देव इव सविता सत्यधर्मा । उग्रस्य चिन् मन्यवे ना नमन्ते राजा चिद् एभ्यो नम इत् कृणोति
नीचा वर्तन्त उपरि स्फुरन्त्य् अहस्तासो हस्तवन्तꣳ सहन्ते । दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयꣳ निर् दहन्ति
जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्व स्वित् । ऋणावा बिभ्यद् धनम् इच्छमानो ऽन्येषाम् अस्तम् उप नक्तम् एति
स्त्रियꣳ दृष्ट्वाय कितवꣳ ततापान्येषाꣳ जायाꣳ सुकृतꣳ च योनिम् । पूर्वाह्णे अश्वान् युयुजे हि बभ्रून् सो अग्नेर् अन्ते वृषलः पपाद
यो वः सेनानीर् महतो गणस्य राजा व्रातस्य प्रथमो बभूव । तस्मै कृणोमि न धना रुणध्मि दशाहम् प्राचीस् तद् ऋतꣳ वदामि
अक्षैर् मा दीव्यः कृषिम् इत् कृषस्व वित्ते रमस्व बहु मन्यमानः । तत्र गावः कितव तत्र जाया तन् मे वि चष्टे सवितायम् अर्यः
मित्रꣳ कृणुध्वꣳ खलु मृळता नो मा नो घोरेण चरताभि धृष्णु । नि वो नु मन्युर् विशताम् अरातिर् अन्यो बभ्रूणाम् प्रसितौ न्व् अस्तु
अबुध्रम् उ त्य इन्द्रवन्तो अग्नयो ज्योतिर् भरन्त उषसो व्युष्टिषु । मही द्यावापृथिवी चेतताम् अपो ऽद्या देवानाम् अव आ वृणीमहे
दिवस्पृथिव्योर् अव आ वृणीमहे मातॄन् सिन्धून् पर्वताञ् छर्यणावतः । अनागास्त्वꣳ सूर्यम् उषासम् ईमहे भद्रꣳ सोमः सुवानो अद्या कृणोतु नः
द्यावा नो अद्य पृथिवी अनागसो मही त्रायेताꣳ सुविताय मातरा । उषा उच्छन्त्य् अप बाधताम् अघꣳ स्वस्त्य् अ१ग्निꣳ समिधानम् ईमहे
इयꣳ न उस्रा प्रथमा सुदेव्यꣳ रेवत् सनिभ्यो रेवती व्य् उच्छतु । आरे मन्युꣳ दुर्विदत्रस्य धीमहि स्वस्त्य् अ१ग्निꣳ समिधानम् ईमहे
प्र याः सिस्रते सूर्यस्य रश्मिभिर् ज्योतिर् भरन्तीर् उषसो व्युष्टिषु । भद्रा नो अद्य श्रवसे व्य् उच्छत स्वस्त्य् अ१ग्निꣳ समिधानम् ईमहे
अनमीवा उषस आ चरन्तु न उद् अग्नयो जिहताꣳ ज्योतिषा बृहत् । आयुक्षाताम् अश्विना तूतुजिꣳ रथꣳ स्वस्त्य् अ१ग्निꣳ समिधानम् ईमहे
श्रेष्ठꣳ नो अद्य सवितर् वरेण्यम् भागम् आ सुव स हि रत्नधा असि । रायो जनित्रीꣳ धिषणाम् उप ब्रुवे स्वस्त्य् अ१ग्निꣳ समिधानम् ईमहे
पिपर्तु मा तद् ऋतस्य प्रवाचनꣳ देवानाꣳ यन् मनुष्या३ अमन्महि । विश्वा इद् उस्राः स्पळ् उद् एति सूर्यः स्वस्त्य् अ१ग्निꣳ समिधानम् ईमहे
अद्वेषो अद्य बर्हिषः स्तरीमणि ग्राव्णाꣳ योगे मन्मनः साध ईमहे । आदित्यानाꣳ शर्मणि स्था भुरण्यसि स्वस्त्य् अ१ग्निꣳ समिधानम् ईमहे
आ नो बर्हिः सधमादे बृहद् दिवि देवाꣳ ईळे सादया सप्त होतॄन् । इन्द्रम् मित्रꣳ वरुणꣳ सातये भगꣳ स्वस्त्य् अ१ग्निꣳ समिधानम् ईमहे
त आदित्या आ गता सर्वतातये वृधे नो यज्ञम् अवता सजोषसः । बृहस्पतिम् पूषणम् अश्विना भगꣳ स्वस्त्य् अ१ग्निꣳ समिधानम् ईमहे
तन् नो देवा यच्छत सुप्रवाचनꣳ छर्दिर् आदित्याः सुभरꣳ नृपाय्यम् । पश्वे तोकाय तनयाय जीवसे स्वस्त्य् अ१ग्निꣳ समिधानम् ईमहे
विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः । विश्वे नो देवा अवसा गमन्तु विश्वम् अस्तु द्रविणꣳ वाजो अस्मे
यꣳ देवासो ऽवथ वाजसातौ यꣳ त्रायध्वे यम् पिपृथात्य् अꣳहः । यो वो गोपीथे न भयस्य वेद ते स्याम देववीतये तुरासः
उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा । इन्द्रꣳ हुवे मरुतः पर्वताꣳ अप आदित्यान् द्यावापृथिवी अपः स्वः
द्यौश् च नः पृथिवी च प्रचेतस ऋतावरी रक्षताम् अꣳहसो रिषः । मा दुर्विदत्रा निरृतिर् न ईशत तद् देवानाम् अवो अद्या वृणीमहे
विश्वस्मान् नो अदितिः पात्व् अꣳहसो माता मित्रस्य वरुणस्य रेवतः । स्वर्वज् ज्योतिर् अवृकꣳ नशीमहि तद् देवानाम् अवो अद्या वृणीमहे
ग्रावा वदन्न् अप रक्षाꣳसि सेधतु दुष्ष्वप्न्यꣳ निरृतिꣳ विश्वम् अत्रिणम् । आदित्यꣳ शर्म मरुताम् अशीमहि तद् देवानाम् अवो अद्या वृणीमहे
एन्द्रो बर्हिः सीदतु पिन्वताम् इळा बृहस्पतिः सामभिर् ऋक्वो अर्चतु । सुप्रकेतꣳ जीवसे मन्म धीमहि तद् देवानाम् अवो अद्या वृणीमहे
दिविस्पृशꣳ यज्ञम् अस्माकम् अश्विना जीराध्वरꣳ कृणुतꣳ सुम्नम् इष्टये । प्राचीनरश्मिम् आहुतꣳ घृतेन तद् देवानाम् अवो अद्या वृणीमहे
उप ह्वये सुहवम् मारुतꣳ गणम् पावकम् ऋष्वꣳ सख्याय शम्भुवम् । रायस् पोषꣳ सौश्रवसाय धीमहि तद् देवानाम् अवो अद्या वृणीमहे
अपाम् पेरुꣳ जीवधन्यम् भरामहे देवाव्यꣳ सुहवम् अध्वरश्रियम् । सुरश्मिꣳ सोमम् इन्द्रियꣳ यमीमहि तद् देवानाम् अवो अद्या वृणीमहे
सनेम तत् सुसनिता सनित्वभिर् वयꣳ जीवा जीवपुत्रा अनागसः । ब्रह्मद्विषो विष्वग् एनो भरेरत तद् देवानाम् अवो अद्या वृणीमहे
ये स्था मनोर् यज्ञियास् ते शृणोतन यद् वो देवा ईमहे तद् ददातन । जैत्रꣳ क्रतुꣳ रयिमद् वीरवद् यशस् तद् देवानाम् अवो अद्या वृणीमहे
महद् अद्य महताम् आ वृणीमहे ऽवो देवानाम् बृहताम् अनर्वणाम् । यथा वसु वीरजातꣳ नशामहै तद् देवानाम् अवो अद्या वृणीमहे
महो अग्नेः समिधानस्य शर्मण्य् अनागा मित्रे वरुणे स्वस्तये । श्रेष्ठे स्याम सवितुः सवीमनि तद् देवानाम् अवो अद्या वृणीमहे
ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः । ते सौभगꣳ वीरवद् गोमद् अप्नो दधातन द्रविणꣳ चित्रम् अस्मे
सविता पश्चातात् सविता पुरस्तात् सवितोत्तरात्तात् सविताधरात्तात् । सविता नः सुवतु सर्वतातिꣳ सविता नो रासताꣳ दीर्घम् आयुः
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतꣳ सपर्यत । दूरेदृशे देवजाताय केतवे दिवस् पुत्राय सूर्याय शꣳसत
सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च यत्र ततनन्न् अहानि च । विश्वम् अन्यन् नि विशते यद् एजति विश्वाहापो विश्वाहोद् एति सूर्यः
न ते अदेवः प्रदिवो नि वासते यद् एतशेभिः पतरै रथर्यसि । प्राचीनम् अन्यद् अनु वर्तते रज उद् अन्येन ज्योतिषा यासि सूर्य
येन सूर्य ज्योतिषा बाधसे तमो जगच् च विश्वम् उदियर्षि भानुना । तेनास्मद् विश्वाम् अनिराम् अनाहुतिम् अपामीवाम् अप दुष्ष्वप्न्यꣳ सुव
विश्वस्य हि प्रेषितो रक्षसि व्रतम् अहेळयन्न् उच्चरसि स्वधा अनु । यद् अद्य त्वा सूर्योपब्रवामहै तꣳ नो देवा अनु मꣳसीरत क्रतुम्
तꣳ नो द्यावापृथिवी तन् न आप इन्द्रः शृण्वन्तु मरुतो हवꣳ वचः । मा शूने भूम सूर्यस्य सꣳदृशि भद्रꣳ जीवन्तो जरणाम् अशीमहि
विश्वाहा त्वा सुमनसः सुचक्षसः प्रजावन्तो अनमीवा अनागसः । उद्यन्तꣳ त्वा मित्रमहो दिवे-दिवे ज्योग् जीवाः प्रति पश्येम सूर्य
महि ज्योतिर् बिभ्रतꣳ त्वा विचक्षण भास्वन्तꣳ चक्षुषे-चक्षुषे मयः । आरोहन्तम् बृहतः पाजसस् परि वयꣳ जीवाः प्रति पश्येम सूर्य
यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते अक्तुभिः । अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नो वस्यसा-वस्यसोद् इहि
शꣳ नो भव चक्षसा शꣳ नो अह्ना शम् भानुना शꣳ हिमा शꣳ घृणेन । यथा शम् अध्वञ् छम् असद् दुरोणे तत् सूर्य द्रविणꣳ धेहि चित्रम्
अस्माकꣳ देवा उभयाय जन्मने शर्म यच्छत द्विपदे चतुष्पदे । अदत् पिबद् ऊर्जयमानम् आशितꣳ तद् अस्मे शꣳ योर् अरपो दधातन
यद् वो देवाश् चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेळनम् । अरावा यो नो अभि दुच्छुनायते तस्मिन् तद् एनो वसवो नि धेतन
अस्मिन् न इन्द्र पृत्सुतौ यशस्वति शिमीवति क्रन्दसि प्राव सातये । यत्र गोषाता धृषितेषु खादिषु विष्वक् पतन्ति दिद्यवो नृषाह्ये
स नः क्षुमन्तꣳ सदने व्य् ऊर्णुहि गोअर्णसꣳ रयिम् इन्द्र श्रवाय्यम् । स्याम ते जयतः शक्र मेदिनो यथा वयम् उश्मसि तद् वसो कृधि
यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति । अस्माभिष् टे सुषहाः सन्तु शत्रवस् त्वया वयꣳ तान् वनुयाम सꣳगमे
यो दभ्रेभिर् हव्यो यश् च भूरिभिर् यो अभीके वरिवोविन् नृषाह्ये । तꣳ विखादे सस्निम् अद्य श्रुतꣳ नरम् अर्वाञ्चम् इन्द्रम् अवसे करामहे
स्ववृजꣳ हि त्वाम् अहम् इन्द्र शुश्रवानानुदꣳ वृषभ रध्रचोदनम् । प्र मुञ्चस्व परि कुत्साद् इहा गहि किम् उ त्वावान् मुष्कयोर् बद्ध आसते
यो वाम् परिज्मा सुवृद् अश्विना रथो दोषाम् उषासो हव्यो हविष्मता । शश्वत्तमासस् तम् उ वाम् इदꣳ वयम् पितुर् न नाम सुहवꣳ हवामहे
चोदयतꣳ सूनृताः पिन्वतꣳ धिय उत् पुरꣳधीर् ईरयतꣳ तद् उश्मसि । यशसम् भागꣳ कृणुतꣳ नो अश्विना सोमꣳ न चारुम् मघवत्सु नस् कृतम्
अमाजुरश् चिद् भवथो युवम् भगो ऽनाशोश् चिद् अवितारापमस्य चित् । अन्धस्य चिन् नासत्या कृशस्य चिद् युवाम् इद् आहुर् भिषजा रुतस्य चित्
युवꣳ च्यवानꣳ सनयꣳ यथा रथम् पुनर् युवानꣳ चरथाय तक्षथुः । निष् टौग्र्यम् ऊहथुर् अद्भ्यस् परि विश्वेत् ता वाꣳ सवनेषु प्रवाच्या
पुराणा वाꣳ वीर्या३ प्र ब्रवा जने ऽथो हासथुर् भिषजा मयोभुवा । ता वाꣳ नु नव्याव् अवसे करामहे ऽयꣳ नासत्या श्रद् अरिर् यथा दधत्
इयꣳ वाम् अह्वे शृणुतम् मे अश्विना पुत्रायेव पितरा मह्यꣳ शिक्षतम् । अनापिर् अज्ञा असजात्यामतिः पुरा तस्या अभिशस्तेर् अव स्पृतम्
युवꣳ रथेन विमदाय शुन्ध्युवꣳ न्य् ऊहथुः पुरुमित्रस्य योषणाम् । युवꣳ हवꣳ वध्रिमत्या अगच्छतꣳ युवꣳ सुषुतिꣳ चक्रथुः पुरꣳधये
युवꣳ विप्रस्य जरणाम् उपेयुषः पुनः कलेर् अकृणुतꣳ युवद् वयः । युवꣳ वन्दनम् ऋश्यदाद् उद् ऊपथुर् युवꣳ सद्यो विश्पलाम् एतवे कृथः
युवꣳ ह रेभꣳ वृषणा गुहा हितम् उद् ऐरयतम् ममृवाꣳसम् अश्विना । युवम् ऋबीसम् उत तप्तम् अत्रय ओमन्वन्तꣳ चक्रथुः सप्तवध्रये
युवꣳ श्वेतम् पेदवे ऽश्विनाश्वꣳ नवभिर् वाजैर् नवती च वाजिनम् । चर्कृत्यꣳ ददथुर् द्रावयत्सखम् भगꣳ न नृभ्यो हव्यम् मयोभुवम्
न तꣳ राजानाव् अदिते कुतश् चन नाꣳहो अश्नोति दुरितꣳ नकिर् भयम् । यम् अश्विना सुहवा रुद्रवर्तनी पुरोरथꣳ कृणुथः पत्न्या सह
आ तेन यातम् मनसो जवीयसा रथꣳ यꣳ वाम् ऋभवश् चक्रुर् अश्विना । यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः
ता वर्तिर् यातꣳ जयुषा वि पर्वतम् अपिन्वतꣳ शयवे धेनुम् अश्विना । वृकस्य चिद् वर्तिकाम् अन्तर् आस्याद् युवꣳ शचीभिर् ग्रसिताम् अमुञ्चतम्
एतꣳ वाꣳ स्तोमम् अश्विनाव् अकर्मातक्षाम भृगवो न रथम् । न्य् अमृक्षाम योषणाꣳ न मर्ये नित्यꣳ न सूनुꣳ तनयꣳ दधानाः
रथꣳ यान्तꣳ कुह को ह वाꣳ नरा प्रति द्युमन्तꣳ सुविताय भूषति । प्रातर्यावाणꣳ विभ्वꣳ विशे-विशे वस्तोर्-वस्तोर् वहमानꣳ धिया शमि
कुह स्विद् दोषा कुह वस्तोर् अश्विना कुहाभिपित्वꣳ करतः कुहोषतुः । को वाꣳ शयुत्रा विधवेव देवरम् मर्यꣳ न योषा कृणुते सधस्थ आ
प्रातर् जरेथे जरणेव कापया वस्तोर्-वस्तोर् यजता गच्छथो गृहम् । कस्य ध्वस्रा भवथः कस्य वा नरा राजपुत्रेव सवनाव गच्छथः
युवाम् मृगेव वारणा मृगण्यवो दोषा वस्तोर् हविषा नि ह्वयामहे । युवꣳ होत्राम् ऋतुथा जुह्वते नरेषꣳ जनाय वहथः शुभस् पती
युवाꣳ ह घोषा पर्य् अश्विना यती राज्ञ ऊचे दुहिता पृच्छे वाꣳ नरा । भूतम् मे अह्न उत भूतम् अक्तवे ऽश्वावते रथिने शक्तम् अर्वते
युवꣳ कवी ष्ठः पर्य् अश्विना रथꣳ विशो न कुत्सो जरितुर् नशायथः । युवोर् ह मक्षा पर्य् अश्विना मध्व् आसा भरत निष्कृतꣳ न योषणा
युवꣳ ह भुज्युꣳ युवम् अश्विना वशꣳ युवꣳ शिञ्जारम् उशनाम् उपारथुः । युवो ररावा परि सख्यम् आसते युवोर् अहम् अवसा सुम्नम् आ चके
युवꣳ ह कृशꣳ युवम् अश्विना शयुꣳ युवꣳ विधन्तꣳ विधवाम् उरुष्यथः । युवꣳ सनिभ्यः स्तनयन्तम् अश्विनाप व्रजम् ऊर्णुथः सप्तास्यम्
जनिष्ट योषा पतयत् कनीनको वि चारुहन् वीरुधो दꣳसना अनु । आस्मै रीयन्ते निवनेव सिन्धवो ऽस्मा अह्ने भवति तत् पतित्वनम्
जीवꣳ रुदन्ति वि मयन्ते अध्वरे दीर्घाम् अनु प्रसितिꣳ दीधियुर् नरः । वामम् पितृभ्यो य इदꣳ समेरिरे मयः पतिभ्यो जनयः परिष्वजे
न तस्य विद्म तद् उ षु प्र वोचत युवा ह यद् युवत्याः क्षेति योनिषु । प्रियोस्रियस्य वृषभस्य रेतिनो गृहꣳ गमेमाश्विना तद् उश्मसि
आ वाम् अगन् सुमतिर् वाजिनीवसू न्य् अश्विना हृत्सु कामा अयꣳसत । अभूतꣳ गोपा मिथुना शुभस् पती प्रिया अर्यम्णो दुर्याꣳ अशीमहि
ता मन्दसाना मनुषो दुरोण आ धत्तꣳ रयिꣳ सहवीरꣳ वचस्यवे । कृतꣳ तीर्थꣳ सुप्रपाणꣳ शुभस् पती स्थाणुम् पथेष्ठाम् अप दुर्मतिꣳ हतम्
क्व स्विद् अद्य कतमास्व् अश्विना विक्षु दस्रा मादयेते शुभस् पती । क ईꣳ नि येमे कतमस्य जग्मतुर् विप्रस्य वा यजमानस्य वा गृहम्
समानम् उ त्यम् पुरुहूतम् उक्थ्य१ꣳ रथꣳ त्रिचक्रꣳ सवना गनिग्मतम् । परिज्मानꣳ विदथ्यꣳ सुवृक्तिभिर् वयꣳ व्युष्टा उषसो हवामहे
प्रातर्युजꣳ नासत्याधि तिष्ठथः प्रातर्यावाणम् मधुवाहनꣳ रथम् । विशो येन गच्छथो यज्वरीर् नरा कीरेश् चिद् यज्ञꣳ होतृमन्तम् अश्विना
अध्वर्युꣳ वा मधुपाणिꣳ सुहस्त्यम् अग्निधꣳ वा धृतदक्षꣳ दमूनसम् । विप्रस्य वा यत् सवनानि गच्छथो ऽत आ यातम् मधुपेयम् अश्विना
अस्तेव सु प्रतरꣳ लायम् अस्यन् भूषन्न् इव प्र भरा स्तोमम् अस्मै । वाचा विप्रास् तरत वाचम् अर्यो नि रामय जरितः सोम इन्द्रम्
दोहेन गाम् उप शिक्षा सखायम् प्र बोधय जरितर् जारम् इन्द्रम् । कोशꣳ न पूर्णꣳ वसुना न्यृष्टम् आ च्यावय मघदेयाय शूरम्
किम् अङ्ग त्वा मघवन् भोजम् आहुः शिशीहि मा शिशयꣳ त्वा शृणोमि । अप्नस्वती मम धीर् अस्तु शक्र वसुविदम् भगम् इन्द्रा भरा नः
त्वाꣳ जना ममसत्येष्व् इन्द्र सꣳतस्थाना वि ह्वयन्ते समीके । अत्रा युजꣳ कृणुते यो हविष्मान् नासुन्वता सख्यꣳ वष्टि शूरः
धनꣳ न स्यन्द्रम् बहुलꣳ यो अस्मै तीव्रान् सोमाꣳ आसुनोति प्रयस्वान् । तस्मै शत्रून् सुतुकान् प्रातर् अह्नो नि स्वष्ट्रान् युवति हन्ति वृत्रम्
यस्मिन् वयꣳ दधिमा शꣳसम् इन्द्रे यः शिश्राय मघवा कामम् अस्मे । आराच् चित् सन् भयताम् अस्य शत्रुर् न्य् अस्मै द्युम्ना जन्या नमन्ताम्
आराच् छत्रुम् अप बाधस्व दूरम् उग्रो यः शम्बः पुरुहूत तेन । अस्मे धेहि यवमद् गोमद् इन्द्र कृधी धियꣳ जरित्रे वाजरत्नाम्
प्र यम् अन्तर् वृषसवासो अग्मन् तीव्राः सोमा बहुलान्तास इन्द्रम् । नाह दामानम् मघवा नि यꣳसन् नि सुन्वते वहति भूरि वामम्
उत प्रहाम् अतिदीव्या जयाति कृतꣳ यच् छ्वघ्नी विचिनोति काले । यो देवकामो न धना रुणद्धि सम् इत् तꣳ राया सृजति स्वधावान्
गोभिष् टरेमामतिꣳ दुरेवाꣳ यवेन क्षुधम् पुरुहूत विश्वाम् । वयꣳ राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम
बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु
अच्छा म इन्द्रम् मतयः स्वर्विदः सध्रीचीर् विश्वा उशतीर् अनूषत । परि ष्वजन्ते जनयो यथा पतिम् मर्यꣳ न शुन्ध्युम् मघवानम् ऊतये
न घा त्वद्रिग् अप वेति मे मनस् त्वे इत् कामम् पुरुहूत शिश्रय । राजेव दस्म नि षदो ऽधि बर्हिष्य् अस्मिन् सु सोमे ऽवपानम् अस्तु ते
विषूवृद् इन्द्रो अमतेर् उत क्षुधः स इद् रायो मघवा वस्व ईशते । तस्येद् इमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः
वयो न वृक्षꣳ सुपलाशम् आसदन् सोमास इन्द्रम् मन्दिनश् चमूषदः । प्रैषाम् अनीकꣳ शवसा दविद्युतद् विदत् स्व१र् मनवे ज्योतिर् आर्यम्
कृतꣳ न श्वघ्नी वि चिनोति देवने सꣳवर्गꣳ यन् मघवा सूर्यꣳ जयत् । न तत् ते अन्यो अनु वीर्यꣳ शकन् न पुराणो मघवन् नोत नूतनः
विशꣳ-विशम् मघवा पर्य् अशायत जनानाꣳ धेना अवचाकशद् वृषा । यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः
आपो न सिन्धुम् अभि यत् समक्षरन् सोमास इन्द्रꣳ कुल्या इव ह्रदम् । वर्धन्ति विप्रा महो अस्य सादने यवꣳ न वृष्टिर् दिव्येन दानुना
वृषा न क्रुद्धः पतयद् रजःस्व् आ यो अर्यपत्नीर् अकृणोद् इमा अपः । स सुन्वते मघवा जीरदानवे ऽविन्दज् ज्योतिर् मनवे हविष्मते
उज् जायताम् परशुर् ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत् । वि रोचताम् अरुषो भानुना शुचिः स्व१र् ण शुक्रꣳ शुशुचीत सत्पतिः
गोभिष् टरेमामतिꣳ दुरेवाꣳ यवेन क्षुधम् पुरुहूत विश्वाम् । वयꣳ राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम
बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु
आ यात्व् इन्द्रः स्वपतिर् मदाय यो धर्मणा तूतुजानस् तुविष्मान् । प्रत्वक्षाणो अति विश्वा सहाꣳस्य् अपारेण महता वृष्ण्येन
सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ । शीभꣳ राजन् सुपथा याह्य् अर्वाङ् वर्धाम ते पपुषो वृष्ण्यानि
एन्द्रवाहो नृपतिꣳ वज्रबाहुम् उग्रम् उग्रासस् तविषास एनम् । प्रत्वक्षसꣳ वृषभꣳ सत्यशुष्मम् एम् अस्मत्रा सधमादो वहन्तु
एवा पतिꣳ द्रोणसाचꣳ सचेतसम् ऊर्जः स्कम्भꣳ धरुण आ वृषायसे । ओजः कृष्व सꣳ गृभाय त्वे अप्य् असो यथा केनिपानाम् इनो वृधे
गमन्न् अस्मे वसून्य् आ हि शꣳसिषꣳ स्वाशिषम् भरम् आ याहि सोमिनः । त्वम् ईशिषे सास्मिन्न् आ सत्सि बर्हिष्य् अनाधृष्या तव पात्राणि धर्मणा
पृथक् प्रायन् प्रथमा देवहूतयो ऽकृण्वत श्रवस्यानि दुष्टरा । न ये शेकुर् यज्ञियाꣳ नावम् आरुहम् ईर्मैव ते न्य् अविशन्त केपयः
एवैवापाग् अपरे सन्तु दूढ्यो ऽश्वा येषाꣳ दुर्युज आयुयुज्रे । इत्था ये प्राग् उपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना
गिरीꣳर् अज्रान् रेजमानाꣳ अधारयद् द्यौः क्रन्दद् अन्तरिक्षाणि कोपयत् । समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शꣳसति
इमम् बिभर्मि सुकृतꣳ ते अङ्कुशꣳ येनारुजासि मघवञ् छफारुजः । अस्मिन् सु ते सवने अस्त्व् ओक्यꣳ सुत इष्टौ मघवन् बोध्य् आभगः
गोभिष् टरेमामतिꣳ दुरेवाꣳ यवेन क्षुधम् पुरुहूत विश्वाम् । वयꣳ राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम
बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु
दिवस् परि प्रथमꣳ जज्ञे अग्निर् अस्मद् द्वितीयम् परि जातवेदाः । तृतीयम् अप्सु नृमणा अजस्रम् इन्धान एनꣳ जरते स्वाधीः
विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा । विद्मा ते नाम परमꣳ गुहा यद् विद्मा तम् उत्सꣳ यत आजगन्थ
समुद्रे त्वा नृमणा अप्स्व् अ१न्तर् नृचक्षा ईधे दिवो अग्न ऊधन् । तृतीये त्वा रजसि तस्थिवाꣳसम् अपाम् उपस्थे महिषा अवर्धन्
अक्रन्दद् अग्निः स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीम् इद्धो अख्यद् आ रोदसी भानुना भात्य् अन्तः
श्रीणाम् उदारो धरुणो रयीणाम् मनीषाणाम् प्रार्पणः सोमगोपाः । वसुः सूनुः सहसो अप्सु राजा वि भात्य् अग्र उषसाम् इधानः
विश्वस्य केतुर् भुवनस्य गर्भ आ रोदसी अपृणाज् जायमानः । वीळुꣳ चिद् अद्रिम् अभिनत् परायञ् जना यद् अग्निम् अयजन्त पञ्च
उशिक् पावको अरतिः सुमेधा मर्तेष्व् अग्निर् अमृतो नि धायि । इयर्ति धूमम् अरुषम् भरिभ्रद् उच् छुक्रेण शोचिषा द्याम् इनक्षन्
दृशानो रुक्म उर्विया व्य् अद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । अग्निर् अमृतो अभवद् वयोभिर् यद् एनꣳ द्यौर् जनयत् सुरेताः
यस् ते अद्य कृणवद् भद्रशोचे ऽपूपꣳ देव घृतवन्तम् अग्ने । प्र तꣳ नय प्रतरꣳ वस्यो अच्छाभि सुम्नꣳ देवभक्तꣳ यविष्ठ
आ तम् भज सौश्रवसेष्व् अग्न उक्थ-उक्थ आ भज शस्यमाने । प्रियः सूर्ये प्रियो अग्ना भवात्य् उज् जातेन भिनदद् उज् जनित्वैः
त्वाम् अग्ने यजमाना अनु द्यून् विश्वा वसु दधिरे वार्याणि । त्वया सह द्रविणम् इच्छमाना व्रजꣳ गोमन्तम् उशिजो वि वव्रुः
अस्ताव्य् अग्निर् नराꣳ सुशेवो वैश्वानर ऋषिभिः सोमगोपाः । अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे सुवीरम्
प्र होता जातो महान् नभोविन् नृषद्वा सीदद् अपाम् उपस्थे । दधिर् यो धायि स ते वयाꣳसि यन्ता वसूनि विधते तनूपाः
इमꣳ विधन्तो अपाꣳ सधस्थे पशुꣳ न नष्टम् पदैर् अनु ग्मन् । गुहा चतन्तम् उशिजो नमोभिर् इच्छन्तो धीरा भृगवो ऽविन्दन्
इमꣳ त्रितो भूर्य् अविन्दद् इच्छन् वैभूवसो मूर्धन्य् अघ्न्यायाः । स शेवृधो जात आ हर्म्येषु नाभिर् युवा भवति रोचनस्य
मन्द्रꣳ होतारम् उशिजो नमोभिः प्राञ्चꣳ यज्ञꣳ नेतारम् अध्वराणाम् । विशाम् अकृण्वन्न् अरतिम् पावकꣳ हव्यवाहꣳ दधतो मानुषेषु
प्र भूर् जयन्तम् महाꣳ विपोधाम् मूरा अमूरम् पुराꣳ दर्माणम् । नयन्तो गर्भꣳ वनाꣳ धियꣳ धुर् हिरिश्मश्रुꣳ नार्वाणꣳ धनर्चम्
नि पस्त्यासु त्रितः स्तभूयन् परिवीतो योनौ सीदद् अन्तः । अतः सꣳगृभ्या विशाꣳ दमूना विधर्मणायन्त्रैर् ईयते नॄन्
अस्याजरासो दमाम् अरित्रा अर्चद्धूमासो अग्नयः पावकाः । श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः
प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसा पृथिव्याः । तम् आयवः शुचयन्तम् पावकम् मन्द्रꣳ होतारꣳ दधिरे यजिष्ठम्
द्यावा यम् अग्निम् पृथिवी जनिष्टाम् आपस् त्वष्टा भृगवो यꣳ सहोभिः । ईळेन्यम् प्रथमम् मातरिश्वा देवास् ततक्षुर् मनवे यजत्रम्
यꣳ त्वा देवा दधिरे हव्यवाहम् पुरुस्पृहो मानुषासो यजत्रम् । स यामन्न् अग्ने स्तुवते वयो धाः प्र देवयन् यशसः सꣳ हि पूर्वीः
जगृभ्मा ते दक्षिणम् इन्द्र हस्तꣳ वसूयवो वसुपते वसूनाम् । विद्मा हि त्वा गोपतिꣳ शूर गोनाम् अस्मभ्यꣳ चित्रꣳ वृषणꣳ रयिꣳ दाः
स्वायुधꣳ स्ववसꣳ सुनीथꣳ चतुःसमुद्रꣳ धरुणꣳ रयीणाम् । चर्कृत्यꣳ शꣳस्यम् भूरिवारम् अस्मभ्यꣳ चित्रꣳ वृषणꣳ रयिꣳ दाः
सुब्रह्माणꣳ देववन्तम् बृहन्तम् उरुꣳ गभीरम् पृथुबुध्नम् इन्द्र । श्रुतऋषिम् उग्रम् अभिमातिषाहम् अस्मभ्यꣳ चित्रꣳ वृषणꣳ रयिꣳ दाः
सनद्वाजꣳ विप्रवीरꣳ तरुत्रꣳ धनस्पृतꣳ शूशुवाꣳसꣳ सुदक्षम् । दस्युहनम् पूर्भिदम् इन्द्र सत्यम् अस्मभ्यꣳ चित्रꣳ वृषणꣳ रयिꣳ दाः
अश्वावन्तꣳ रथिनꣳ वीरवन्तꣳ सहस्रिणꣳ शतिनꣳ वाजम् इन्द्र । भद्रव्रातꣳ विप्रवीरꣳ स्वर्षाम् अस्मभ्यꣳ चित्रꣳ वृषणꣳ रयिꣳ दाः
प्र सप्तगुम् ऋतधीतिꣳ सुमेधाम् बृहस्पतिम् मतिर् अच्छा जिगाति । य आङ्गिरसो नमसोपसद्यो ऽस्मभ्यꣳ चित्रꣳ वृषणꣳ रयिꣳ दाः
वनीवानो मम दूतास इन्द्रꣳ स्तोमाश् चरन्ति सुमतीर् इयानाः । हृदिस्पृशो मनसा वच्यमाना अस्मभ्यꣳ चित्रꣳ वृषणꣳ रयिꣳ दाः
यत् त्वा यामि दद्धि तन् न इन्द्र बृहन्तꣳ क्षयम् असमꣳ जनानाम् । अभि तद् द्यावापृथिवी गृणीताम् अस्मभ्यꣳ चित्रꣳ वृषणꣳ रयिꣳ दाः
अहम् भुवꣳ वसुनः पूर्व्यस् पतिर् अहꣳ धनानि सꣳ जयामि शश्वतः । माꣳ हवन्ते पितरꣳ न जन्तवो ऽहꣳ दाशुषे वि भजामि भोजनम्
अहम् इन्द्रो रोधो वक्षो अथर्वणस् त्रिताय गा अजनयम् अहेर् अधि । अहꣳ दस्युभ्यः परि नृम्णम् आ ददे गोत्रा शिक्षन् दधीचे मातरिश्वने
मह्यꣳ त्वष्टा वज्रम् अतक्षद् आयसम् मयि देवासो ऽवृजन्न् अपि क्रतुम् । ममानीकꣳ सूर्यस्येव दुष्टरम् माम् आर्यन्ति कृतेन कर्त्वेन च
अहम् एतꣳ गव्ययम् अश्व्यम् पशुम् पुरीषिणꣳ सायकेना हिरण्ययम् । पुरू सहस्रा नि शिशामि दाशुषे यन् मा सोमास उक्थिनो अमन्दिषुः
अहम् इन्द्रो न परा जिग्य इद् धनꣳ न मृत्यवे ऽव तस्थे कदा चन । सोमम् इन् मा सुन्वन्तो याचता वसु न मे पूरवः सख्ये रिषाथन
अहम् एताञ् छाश्वसतो द्वा-द्वेन्द्रꣳ ये वज्रꣳ युधये ऽकृण्वत । आह्वयमानाꣳ अव हन्मनाहनꣳ दृळ्हा वदन्न् अनमस्युर् नमस्विनः
अभी३दम् एकम् एको अस्मि निष्षाळ् अभी द्वा किम् उ त्रयः करन्ति । खले न पर्षान् प्रति हन्मि भूरि किम् मा निन्दन्ति शत्रवो ऽनिन्द्राः
अहꣳ गुङ्गुभ्यो अतिथिग्वम् इष्करम् इषꣳ न वृत्रतुरꣳ विक्षु धारयम् । यत् पर्णयघ्न उत वा करञ्जहे प्राहम् महे वृत्रहत्ये अशुश्रवि
प्र मे नमी साप्य इषे भुजे भूद् गवाम् एषे सख्या कृणुत द्विता । दिद्युꣳ यद् अस्य समिथेषु मꣳहयम् आद् इद् एनꣳ शꣳस्यम् उक्थ्यꣳ करम्
प्र नेमस्मिन् ददृशे सोमो अन्तर् गोपा नेमम् आविर् अस्था कृणोति । स तिग्मशृङ्गꣳ वृषभꣳ युयुत्सन् द्रुहस् तस्थौ बहुले बद्धो अन्तः
आदित्यानाꣳ वसूनाꣳ रुद्रियाणाꣳ देवो देवानाꣳ न मिनामि धाम । ते मा भद्राय शवसे ततक्षुर् अपराजितम् अस्तृतम् अषाळ्हम्
अहꣳ दाꣳ गृणते पूर्व्यꣳ वस्व् अहम् ब्रह्म कृणवम् मह्यꣳ वर्धनम् । अहम् भुवꣳ यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन् भरे
माꣳ धुर् इन्द्रꣳ नाम देवता दिवश् च ग्मश् चापाꣳ च जन्तवः । अहꣳ हरी वृषणा विव्रता रघू अहꣳ वज्रꣳ शवसे धृष्ण्व् आ ददे
अहम् अत्कꣳ कवये शिश्नथꣳ हथैर् अहꣳ कुत्सम् आवम् आभिर् ऊतिभिः । अहꣳ शुष्णस्य श्नथिता वधर् यमꣳ न यो रर आर्यꣳ नाम दस्यवे
अहम् पितेव वेतसूꣳर् अभिष्टये तुग्रꣳ कुत्साय स्मदिभꣳ च रन्धयम् । अहम् भुवꣳ यजमानस्य राजनि प्र यद् भरे तुजये न प्रियाधृषे
अहꣳ रन्धयम् मृगयꣳ श्रुतर्वणे यन् माजिहीत वयुना चनानुषक् । अहꣳ वेशꣳ नम्रम् आयवे ऽकरम् अहꣳ सव्याय पड्गृभिम् अरन्धयम्
अहꣳ स यो नववास्त्वम् बृहद्रथꣳ सꣳ वृत्रेव दासꣳ वृत्रहारुजम् । यद् वर्धयन्तम् प्रथयन्तम् आनुषग् दूरे पारे रजसो रोचनाकरम्
अहꣳ सूर्यस्य परि याम्य् आशुभिः प्रैतशेभिर् वहमान ओजसा । यन् मा सावो मनुष आह निर्णिज ऋधक् कृषे दासꣳ कृत्व्यꣳ हथैः
अहꣳ सप्तहा नहुषो नहुष्टरः प्राश्रावयꣳ शवसा तुर्वशꣳ यदुम् । अहꣳ न्य् अ१न्यꣳ सहसा सहस् करꣳ नव व्राधतो नवतिꣳ च वक्षयम्
अहꣳ सप्त स्रवतो धारयꣳ वृषा द्रवित्न्वः पृथिव्याꣳ सीरा अधि । अहम् अर्णाꣳसि वि तिरामि सुक्रतुर् युधा विदम् मनवे गातुम् इष्टये
अहꣳ तद् आसु धारयꣳ यद् आसु न देवश् चन त्वष्टाधारयद् रुशत् । स्पार्हꣳ गवाम् ऊधःसु वक्षणास्व् आ मधोर् मधु श्वात्र्यꣳ सोमम् आशिरम्
एवा देवाꣳ इन्द्रो विव्ये नॄन् प्र च्यौत्नेन मघवा सत्यराधाः । विश्वेत् ता ते हरिवः शचीवो ऽभि तुरासः स्वयशो गृणन्ति
प्र वो महे मन्दमानायान्धसो ऽर्चा विश्वानराय विश्वाभुवे । इन्द्रस्य यस्य सुमखꣳ सहो महि श्रवो नृम्णꣳ च रोदसी सपर्यतः
सो चिन् नु सख्या नर्य इनः स्तुतश् चर्कृत्य इन्द्रो मावते नरे । विश्वासु धूर्षु वाजकृत्येषु सत्पते वृत्रे वाप्स्व् अ१भि शूर मन्दसे
के ते नर इन्द्र ये त इषे ये ते सुम्नꣳ सधन्य१म् इयक्षान् । के ते वाजायासुर्याय हिन्विरे के अप्सु स्वासूर्वरासु पौꣳस्ये
भुवस् त्वम् इन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषु यज्ञियः । भुवो नॄꣳश् च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश् च मन्त्रो विश्वचर्षणे
अवा नु कꣳ ज्यायान् यज्ञवनसो महीꣳ त ओमात्राꣳ कृष्टयो विदुः । असो नु कम् अजरो वर्धाश् च विश्वेद् एता सवना तूतुमा कृषे
एता विश्वा सवना तूतुमा कृषे स्वयꣳ सूनो सहसो यानि दधिषे । वराय ते पात्रꣳ धर्मणे तना यज्ञो मन्त्रो ब्रह्मोद्यतꣳ वचः
ये ते विप्र ब्रह्मकृतः सुते सचा वसूनाꣳ च वसुनश् च दावने । प्र ते सुम्नस्य मनसा पथा भुवन् मदे सुतस्य सोम्यस्यान्धसः
महत् तद् उल्बꣳ स्थविरꣳ तद् आसीद् येनाविष्टितः प्रविवेशिथापः । विश्वा अपश्यद् बहुधा ते अग्ने जातवेदस् तन्वो देव एकः
को मा ददर्श कतमः स देवो यो मे तन्वो बहुधा पर्यपश्यत् । क्वाह मित्रावरुणा क्षियन्त्य् अग्नेर् विश्वाः समिधो देवयानीः
ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टम् अग्ने अप्स्व् ओषधीषु । तꣳ त्वा यमो अचिकेच् चित्रभानो दशान्तरुष्याद् अतिरोचमानम्
होत्राद् अहꣳ वरुण बिभ्यद् आयꣳ नेद् एव मा युनजन्न् अत्र देवाः । तस्य मे तन्वो बहुधा निविष्टा एतम् अर्थꣳ न चिकेताहम् अग्निः
एहि मनुर् देवयुर् यज्ञकामो ऽरꣳकृत्या तमसि क्षेष्य् अग्ने । सुगान् पथः कृणुहि देवयानान् वह हव्यानि सुमनस्यमानः
अग्नेः पूर्वे भ्रातरो अर्थम् एतꣳ रथीवाध्वानम् अन्व् आवरीवुः । तस्माद् भिया वरुण दूरम् आयꣳ गौरो न क्षेप्नोर् अविजे ज्यायाः
कुर्मस् त आयुर् अजरꣳ यद् अग्ने यथा युक्तो जातवेदो न रिष्याः । अथा वहासि सुमनस्यमानो भागꣳ देवेभ्यो हविषः सुजात
प्रयाजान् मे अनुयाजाꣳश् च केवलान् ऊर्जस्वन्तꣳ हविषो दत्त भागम् । घृतꣳ चापाम् पुरुषꣳ चौषधीनाम् अग्नेश् च दीर्घम् आयुर् अस्तु देवाः
तव प्रयाजा अनुयाजाश् च केवल ऊर्जस्वन्तो हविषः सन्तु भागाः । तवाग्ने यज्ञो३ ऽयम् अस्तु सर्वस् तुभ्यꣳ नमन्ताम् प्रदिशश् चतस्रः
विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन् निषद्य । प्र मे ब्रूत भागधेयꣳ यथा वो येन पथा हव्यम् आ वो वहानि
अहꣳ होता न्य् असीदꣳ यजीयान् विश्वे देवा मरुतो मा जुनन्ति । अहर्-अहर् अश्विनाध्वर्यवꣳ वाम् ब्रह्मा समिद् भवति साहुतिर् वाम्
अयꣳ यो होता किर् उ स यमस्य कम् अप्य् ऊहे यत् समञ्जन्ति देवाः । अहर्-अहर् जायते मासि-मास्य् अथा देवा दधिरे हव्यवाहम्
माꣳ देवा दधिरे हव्यवाहम् अपम्लुक्तम् बहु कृच्छ्रा चरन्तम् । अग्निर् विद्वान् यज्ञꣳ नः कल्पयाति पञ्चयामꣳ त्रिवृतꣳ सप्ततन्तुम्
आ वो यक्ष्य् अमृतत्वꣳ सुवीरꣳ यथा वो देवा वरिवः कराणि । आ बाह्वोर् वज्रम् इन्द्रस्य धेयाम् अथेमा विश्वाः पृतना जयाति
त्रीणि शता त्री सहस्राण्य् अग्निꣳ त्रिꣳशच् च देवा नव चासपर्यन् । औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा आद् इद् धोतारꣳ न्य् असादयन्त
यम् ऐच्छाम मनसा सो३ ऽयम् आगाद् यज्ञस्य विद्वान् परुषश् चिकित्वान् । स नो यक्षद् देवताता यजीयान् नि हि षत्सद् अन्तरः पूर्वो अस्मत्
अराधि होता निषदा यजीयान् अभि प्रयाꣳसि सुधितानि हि ख्यत् । यजामहै यज्ञियान् हन्त देवाꣳ ईळामहा ईड्याꣳ आज्येन
साध्वीम् अकर् देववीतिꣳ नो अद्य यज्ञस्य जिह्वाम् अविदाम गुह्याम् । स आयुर् आगात् सुरभिर् वसानो भद्राम् अकर् देवहूतिꣳ नो अद्य
तद् अद्य वाचः प्रथमम् मसीय येनासुराꣳ अभि देवा असाम । ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रꣳ जुषध्वम्
पञ्च जना मम होत्रꣳ जुषन्ताꣳ गोजाता उत ये यज्ञियासः । पृथिवी नः पार्थिवात् पात्व् अꣳहसो ऽन्तरिक्षꣳ दिव्यात् पात्व् अस्मान्
तन्तुꣳ तन्वन् रजसो भानुम् अन्व् इहि ज्योतिष्मतः पथो रक्ष धिया कृतान् । अनुल्बणꣳ वयत जोगुवाम् अपो मनुर् भव जनया दैव्यꣳ जनम्
अक्षानहो नह्यतनोत सोम्या इष्कृणुध्वꣳ रशना ओत पिꣳशत । अष्टावन्धुरꣳ वहताभितो रथꣳ येन देवासो अनयन्न् अभि प्रियम्
अश्मन्वती रीयते सꣳ रभध्वम् उत् तिष्ठत प्र तरता सखायः । अत्रा जहाम ये असन्न् अशेवाः शिवान् वयम् उत् तरेमाभि वाजान्
त्वष्टा माया वेद् अपसाम् अपस्तमो बिभ्रत् पात्रा देवपानानि शꣳतमा । शिशीते नूनम् परशुꣳ स्वायसꣳ येन वृश्चाद् एतशो ब्रह्मणस् पतिः
सतो नूनꣳ कवयः सꣳ शिशीत वाशीभिर् याभिर् अमृताय तक्षथ । विद्वाꣳसः पदा गुह्यानि कर्तन येन देवासो अमृतत्वम् आनशुः
गर्भे योषाम् अदधुर् वत्सम् आसन्य् अपीच्येन मनसोत जिह्वया । स विश्वाहा सुमना योग्या अभि सिषासनिर् वनते कार इज् जितिम्
ताꣳ सु ते कीर्तिम् मघवन् महित्वा यत् त्वा भीते रोदसी अह्वयेताम् । प्रावो देवाꣳ आतिरो दासम् ओजः प्रजायै त्वस्यै यद् अशिक्ष इन्द्र
यद् अचरस् तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु । मायेत् सा ते यानि युद्धान्य् आहुर् नाद्य शत्रुꣳ ननु पुरा विवित्से
क उ नु ते महिमनः समस्यास्मत् पूर्व ऋषयो ऽन्तम् आपुः । यन् मातरꣳ च पितरꣳ च साकम् अजनयथास् तन्व१ः स्वायाः
चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति । त्वम् अङ्ग तानि विश्वानि वित्से येभिः कर्माणि मघवञ् चकर्थ
त्वꣳ विश्वा दधिषे केवलानि यान्य् आविर् या च गुहा वसूनि । कामम् इन् मे मघवन् मा वि तारीस् त्वम् आज्ञाता त्वम् इन्द्रासि दाता
यो अदधाज् ज्योतिषि ज्योतिर् अन्तर् यो असृजन् मधुना सम् मधूनि । अध प्रियꣳ शूषम् इन्द्राय मन्म ब्रह्मकृतो बृहदुक्थाद् अवाचि
दूरे तन् नाम गुह्यम् पराचैर् यत् त्वा भीते अह्वयेताꣳ वयोधै । उद् अस्तभ्नाः पृथिवीꣳ द्याम् अभीके भ्रातुः पुत्रान् मघवन् तित्विषाणः
महत् तन् नाम गुह्यम् पुरुस्पृग् येन भूतꣳ जनयो येन भव्यम् । प्रत्नꣳ जातꣳ ज्योतिर् यद् अस्य प्रियम् प्रियाः सम् अविशन्त पञ्च
आ रोदसी अपृणाद् ओत मध्यम् पञ्च देवाꣳ ऋतुशः सप्त-सप्त । चतुस्त्रिꣳशता पुरुधा वि चष्टे सरूपेण ज्योतिषा विव्रतेन
यद् उष औच्छः प्रथमा विभानाम् अजनयो येन पुष्टस्य पुष्टम् । यत् ते जामित्वम् अवरम् परस्या महन् महत्या असुरत्वम् एकम्
विधुꣳ दद्राणꣳ समने बहूनाꣳ युवानꣳ सन्तम् पलितो जगार । देवस्य पश्य काव्यम् महित्वाद्या ममार स ह्यः सम् आन
शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनाद् अनीळः । यच् चिकेत सत्यम् इत् तन् न मोघꣳ वसु स्पार्हम् उत जेतोत दाता
ऐभिर् ददे वृष्ण्या पौꣳस्यानि येभिर् औक्षद् वृत्रहत्याय वज्री । ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्मम् उदजायन्त देवाः
युजा कर्माणि जनयन् विश्वौजा अशस्तिहा विश्वमनास् तुराषाट् । पीत्वी सोमस्य दिव आ वृधानः शूरो निर् युधाधमद् दस्यून्
इदꣳ त एकम् पर ऊ त एकꣳ तृतीयेन ज्योतिषा सꣳ विशस्व । सꣳवेशने तन्व१श् चारुर् एधि प्रियो देवानाम् परमे जनित्रे
तनूष् टे वाजिन् तन्व१ꣳ नयन्ती वामम् अस्मभ्यꣳ धातु शर्म तुभ्यम् । अह्रुतो महो धरुणाय देवान् दिवीव ज्योतिः स्वम् आ मिमीयाः
वाज्य् असि वाजिनेना सुवेनीः सुवितः स्तोमꣳ सुवितो दिवꣳ गाः । सुवितो धर्म प्रथमानु सत्या सुवितो देवान् सुवितो ऽनु पत्म
महिम्न एषाम् पितरश् चनेशिरे देवा देवेष्व् अदधुर् अपि क्रतुम् । सम् अविव्यचुर् उत यान्य् अत्विषुर् ऐषाꣳ तनूषु नि विविशुः पुनः
सहोभिर् विश्वम् परि चक्रमू रजः पूर्वा धामान्य् अमिता मिमानाः । तनूषु विश्वा भुवना नि येमिरे प्रासारयन्त पुरुध प्रजा अनु
द्विधा सूनवो ऽसुरꣳ स्वर्विदम् आस्थापयन्त तृतीयेन कर्मणा । स्वाम् प्रजाम् पितरः पित्र्यꣳ सह आवरेष्व् अदधुस् तन्तुम् आततम्
नावा न क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिर् अति दुर्गाणि विश्वा । स्वाम् प्रजाम् बृहदुक्थो महित्वावरेष्व् अदधाद् आ परेषु
मा प्र गाम पथो वयम् मा यज्ञाद् इन्द्र सोमिनः । मान्तः स्थुर् नो अरातयः
यो यज्ञस्य प्रसाधनस् तन्तुर् देवेष्व् आततः । तम् आहुतꣳ नशीमहि
मनो न्व् आ हुवामहे नाराशꣳसेन सोमेन । पितॄणाꣳ च मन्मभिः
आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यꣳ दृशे
पुनर् नः पितरो मनो ददातु दैव्यो जनः । जीवꣳ व्रातꣳ सचेमहि
वयꣳ सोम व्रते तव मनस् तनूषु बिभ्रतः । प्रजावन्तः सचेमहि
यत् ते यमꣳ वैवस्वतम् मनो जगाम दूरकम् । तत् त आ वर्तयामसीह क्षयाय जीवसे
यत् ते दिवꣳ यत् पृथिवीम् मनो जगाम दूरकम् । तत् त आ वर्तयामसीह क्षयाय जीवसे
यत् ते भूमिꣳ चतुर्भृष्टिम् मनो जगाम दूरकम् । तत् त आ वर्तयामसीह क्षयाय जीवसे
यत् ते चतस्रः प्रदिशो मनो जगाम दूरकम् । तत् त आ वर्तयामसीह क्षयाय जीवसे
यत् ते समुद्रम् अर्णवम् मनो जगाम दूरकम् । तत् त आ वर्तयामसीह क्षयाय जीवसे
यत् ते मरीचीः प्रवतो मनो जगाम दूरकम् । तत् त आ वर्तयामसीह क्षयाय जीवसे
यत् ते अपो यद् ओषधीर् मनो जगाम दूरकम् । तत् त आ वर्तयामसीह क्षयाय जीवसे
यत् ते सूर्यꣳ यद् उषसम् मनो जगाम दूरकम् । तत् त आ वर्तयामसीह क्षयाय जीवसे
यत् ते पर्वतान् बृहतो मनो जगाम दूरकम् । तत् त आ वर्तयामसीह क्षयाय जीवसे
यत् ते विश्वम् इदꣳ जगन् मनो जगाम दूरकम् । तत् त आ वर्तयामसीह क्षयाय जीवसे
यत् ते पराः परावतो मनो जगाम दूरकम् । तत् त आ वर्तयामसीह क्षयाय जीवसे
यत् ते भूतꣳ च भव्यꣳ च मनो जगाम दूरकम् । तत् त आ वर्तयामसीह क्षयाय जीवसे
प्र तार्य् आयुः प्रतरꣳ नवीयः स्थातारेव क्रतुमता रथस्य । अध च्यवान उत् तवीत्य् अर्थम् परातरꣳ सु निरृतिर् जिहीताम्
सामन् नु राये निधिमन् न्व् अन्नꣳ करामहे सु पुरुध श्रवाꣳसि । ता नो विश्वानि जरिता ममत्तु परातरꣳ सु निरृतिर् जिहीताम्
अभी ष्व् अ१र्यः पौꣳस्यैर् भवेम द्यौर् न भूमिꣳ गिरयो नाज्रान् । ता नो विश्वानि जरिता चिकेत परातरꣳ सु निरृतिर् जिहीताम्
मो षु णः सोम मृत्यवे परा दाः पश्येम नु सूर्यम् उच्चरन्तम् । द्युभिर् हितो जरिमा सू नो अस्तु परातरꣳ सु निरृतिर् जिहीताम्
असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः । रारन्धि नः सूर्यस्य सꣳदृशि घृतेन त्वꣳ तन्वꣳ वर्धयस्व
असुनीते पुनर् अस्मासु चक्षुः पुनः प्राणम् इह नो धेहि भोगम् । ज्योक् पश्येम सूर्यम् उच्चरन्तम् अनुमते मृळया नः स्वस्ति
पुनर् नो असुम् पृथिवी ददातु पुनर् द्यौर् देवी पुनर् अन्तरिक्षम् । पुनर् नः सोमस् तन्वꣳ ददातु पुनः पूषा पथ्या३ꣳ या स्वस्तिः
शꣳ रोदसी सुबन्धवे यह्वी ऋतस्य मातरा । भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किꣳ चनाममत्
अव द्वके अव त्रिका दिवश् चरन्ति भेषजा । क्षमा चरिष्ण्व् एककम् भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किꣳ चनाममत्
सम् इन्द्रेरय गाम् अनड्वाहꣳ य आवहद् उशीनराण्या अनः । भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किꣳ चनाममत्
आ जनꣳ त्वेषसꣳदृशम् माहीनानाम् उपस्तुतम् । अगन्म बिभ्रतो नमः
असमातिꣳ नितोशनꣳ त्वेषꣳ निययिनꣳ रथम् । भजेरथस्य सत्पतिम्
यो जनान् महिषाꣳ इवातितस्थौ पवीरवान् । उतापवीरवान् युधा
यस्येक्ष्वाकुर् उप व्रते रेवान् मराय्य् एधते । दिवीव पञ्च कृष्टयः
इन्द्र क्षत्रासमातिषु रथप्रोष्ठेषु धारय । दिवीव सूर्यꣳ दृशे
अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता । पणीन् न्य् अक्रमीर् अभि विश्वान् राजन्न् अराधसः
अयम् मातायम् पितायꣳ जीवातुर् आगमत् । इदꣳ तव प्रसर्पणꣳ सुबन्धव् एहि निर् इहि
यथा युगꣳ वरत्रया नह्यन्ति धरुणाय कम् । एवा दाधार ते मनो जीवातवे न मृत्यवे ऽथो अरिष्टतातये
यथेयम् पृथिवी मही दाधारेमान् वनस्पतीन् । एवा दाधार ते मनो जीवातवे न मृत्यवे ऽथो अरिष्टतातये
यमाद् अहꣳ वैवस्वतात् सुबन्धोर् मन आभरम् । जीवातवे न मृत्यवे ऽथो अरिष्टतातये
न्य१ग् वातो ऽव वाति न्यक् तपति सूर्यः । नीचीनम् अघ्न्या दुहे न्यग् भवतु ते रपः
अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः । अयम् मे विश्वभेषजो ऽयꣳ शिवाभिमर्शनः
इदम् इत्था रौद्रꣳ गूर्तवचा ब्रह्म क्रत्वा शच्याम् अन्तर् आजौ । क्राणा यद् अस्य पितरा मꣳहनेष्ठाः पर्षत् पक्थे अहन्न् आ सप्त होतॄन्
स इद् दानाय दभ्याय वन्वञ् च्यवानः सूदैर् अमिमीत वेदिम् । तूर्वयाणो गूर्तवचस्तमः क्षोदो न रेत इतऊति सिञ्चत्
मनो न येषु हवनेषु तिग्मꣳ विपः शच्या वनुथो द्रवन्ता । आ यः शर्याभिस् तुविनृम्णो अस्याश्रीणीतादिशꣳ गभस्तौ
कृष्णा यद् गोष्व् अरुणीषु सीदद् दिवो नपाताश्विना हुवे वाम् । वीतम् मे यज्ञम् आ गतम् मे अन्नꣳ ववन्वाꣳसा नेषम् अस्मृतध्रू
प्रथिष्ट यस्य वीरकर्मम् इष्णद् अनुष्ठितꣳ नु नर्यो अपौहत् । पुनस् तद् आ वृहति यत् कनाया दुहितुर् आ अनुभृतम् अनर्वा
मध्या यत् कर्त्वम् अभवद् अभीके कामꣳ कृण्वाने पितरि युवत्याम् । मनानग् रेतो जहतुर् वियन्ता सानौ निषिक्तꣳ सुकृतस्य योनौ
पिता यत् स्वाꣳ दुहितरम् अधिष्कन् क्ष्मया रेतः सꣳजग्मानो नि षिञ्चत् । स्वाध्यो ऽजनयन् ब्रह्म देवा वास्तोष् पतिꣳ व्रतपाꣳ निर् अतक्षन्
स ईꣳ वृषा न फेनम् अस्यद् आजौ स्मद् आ परैद् अप दभ्रचेताः । सरत् पदा न दक्षिणा परावृङ् न ता नु मे पृशन्यो जगृभ्रे
मक्षू न वह्निः प्रजाया उपब्दिर् अग्निꣳ न नग्न उप सीदद् ऊधः । सनितेध्मꣳ सनितोत वाजꣳ स धर्ता जज्ञे सहसा यवीयुत्
मक्षू कनायाः सख्यꣳ नवग्वा ऋतꣳ वदन्त ऋतयुक्तिम् अग्मन् । द्विबर्हसो य उप गोपम् आगुर् अदक्षिणासो अच्युता दुदुक्षन्
मक्षू कनायाः सख्यꣳ नवीयो राधो न रेत ऋतम् इत् तुरण्यन् । शुचि यत् ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः
पश्वा यत् पश्चा वियुता बुधन्तेति ब्रवीति वक्तरी रराणः । वसोर् वसुत्वा कारवो ऽनेहा विश्वꣳ विवेष्टि द्रविणम् उप क्षु
तद् इन् न्व् अस्य परिषद्वानो अग्मन् पुरू सदन्तो नार्षदम् बिभित्सन् । वि शुष्णस्य सꣳग्रथितम् अनर्वा विदत् पुरुप्रजातस्य गुहा यत्
भर्गो ह नामोत यस्य देवाः स्व१र् ण ये त्रिषधस्थे निषेदुः । अग्निर् ह नामोत जातवेदाः श्रुधी नो होतर् ऋतस्य होताध्रुक्
उत त्या मे रौद्राव् अर्चिमन्ता नासत्याव् इन्द्र गूर्तये यजध्यै । मनुष्वद् वृक्तबर्हिषे रराणा मन्दू हितप्रयसा विक्षु यज्यू
अयꣳ स्तुतो राजा वन्दि वेधा अपश् च विप्रस् तरति स्वसेतुः । स कक्षीवन्तꣳ रेजयत् सो अग्निꣳ नेमिꣳ न चक्रम् अर्वतो रघुद्रु
स द्विबन्धुर् वैतरणो यष्टा सबर्धुꣳ धेनुम् अस्वꣳ दुहध्यै । सꣳ यन् मित्रावरुणा वृञ्ज उक्थैर् ज्येष्ठेभिर् अर्यमणꣳ वरूथैः
तद्बन्धुः सूरिर् दिवि ते धियꣳधा नाभानेदिष्ठो रपति प्र वेनन् । सा नो नाभिः परमास्य वा घाहꣳ तत् पश्चा कतिथश् चिद् आस
इयम् मे नाभिर् इह मे सधस्थम् इमे मे देवा अयम् अस्मि सर्वः । द्विजा अह प्रथमजा ऋतस्येदꣳ धेनुर् अदुहज् जायमाना
अधासु मन्द्रो अरतिर् विभावाव स्यति द्विवर्तनिर् वनेषाट् । ऊर्ध्वा यच् छ्रेणिर् न शिशुर् दन् मक्षू स्थिरꣳ शेवृधꣳ सूत माता
अधा गाव उपमातिꣳ कनाया अनु श्वान्तस्य कस्य चित् परेयुः । श्रुधि त्वꣳ सुद्रविणो नस् त्वꣳ याळ् आश्वघ्नस्य वावृधे सूनृताभिः
अध त्वम् इन्द्र विद्ध्य् अ१स्मान् महो राये नृपते वज्रबाहुः । रक्षा च नो मघोनः पाहि सूरीन् अनेहसस् ते हरिवो अभिष्टौ
अध यद् राजाना गविष्टौ सरत् सरण्युः कारवे जरण्युः । विप्रः प्रेष्ठः स ह्य् एषाम् बभूव परा च वक्षद् उत पर्षद् एनान्
अधा न्व् अस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तद् ऊ नु । सरण्युर् अस्य सूनुर् अश्वो विप्रश् चासि श्रवसश् च सातौ
युवोर् यदि सख्यायास्मे शर्धाय स्तोमꣳ जुजुषे नमस्वान् । विश्वत्र यस्मिन्न् आ गिरः समीचीः पूर्वीव गातुर् दाशत् सूनृतायै
स गृणानो अद्भिर् देववान् इति सुबन्धुर् नमसा सूक्तैः । वर्धद् उक्थैर् वचोभिर् आ हि नूनꣳ व्य् अध्वैति पयस उस्रियायाः
त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः । ये वाजाꣳ अनयता वियन्तो ये स्था निचेतारो अमूराः
ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यम् अमृतत्वम् आनश । तेभ्यो भद्रम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवꣳ सुमेधसः
य उदाजन् पितरो गोमयꣳ वस्व् ऋतेनाभिन्दन् परिवत्सरे वलम् । दीर्घायुत्वम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवꣳ सुमेधसः
य ऋतेन सूर्यम् आरोहयन् दिव्य् अप्रथयन् पृथिवीम् मातरꣳ वि । सुप्रजास्त्वम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवꣳ सुमेधसः
अयꣳ नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस् तच् छृणोतन । सुब्रह्मण्यम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवꣳ सुमेधसः
विरूपास इद् ऋषयस् त इद् गम्भीरवेपसः । ते अङ्गिरसः सूनवस् ते अग्नेः परि जज्ञिरे
ये अग्नेः परि जज्ञिरे विरूपासो दिवस् परि । नवग्वो नु दशग्वो अङ्गिरस्तमः सचा देवेषु मꣳहते
इन्द्रेण युजा निः सृजन्त वाघतो व्रजꣳ गोमन्तम् अश्विनम् । सहस्रम् मे ददतो अष्टकर्ण्य१ः श्रवो देवेष्व् अक्रत
प्र नूनꣳ जायताम् अयम् मनुस् तोक्मेव रोहतु । यः सहस्रꣳ शताश्वꣳ सद्यो दानाय मꣳहते
न तम् अश्नोति कश् चन दिव इव सान्व् आरभम् । सावर्ण्यस्य दक्षिणा वि सिन्धुर् इव पप्रथे
उत दासा परिविषे स्मद्दिष्टी गोपरीणसा । यदुस् तुर्वश् च मामहे
सहस्रदा ग्रामणीर् मा रिषन् मनुः सूर्येणास्य यतमानैतु दक्षिणा । सावर्णेर् देवाः प्र तिरन्त्व् आयुर् यस्मिन्न् अश्रान्ता असनाम वाजम्
परावतो ये दिधिषन्त आप्यम् मनुप्रीतासो जनिमा विवस्वतः । ययातेर् ये नहुष्यस्य बर्हिषि देवा आसते ते अधि ब्रुवन्तु नः
विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानि वः । ये स्थ जाता अदितेर् अद्भ्यस् परि ये पृथिव्यास् ते म इह श्रुता हवम्
येभ्यो माता मधुमत् पिन्वते पयः पीयूषꣳ द्यौर् अदितिर् अद्रिबर्हाः । उक्थशुष्मान् वृषभरान् स्वप्नसस् ताꣳ आदित्याꣳ अनु मदा स्वस्तये
नृचक्षसो अनिमिषन्तो अर्हणा बृहद् देवासो अमृतत्वम् आनशुः । ज्योतीरथा अहिमाया अनागसो दिवो वर्ष्माणꣳ वसते स्वस्तये
सम्राजो ये सुवृधो यज्ञम् आययुर् अपरिह्वृता दधिरे दिवि क्षयम् । ताꣳ आ विवास नमसा सुवृक्तिभिर् महो आदित्याꣳ अदितिꣳ स्वस्तये
को वः स्तोमꣳ राधति यꣳ जुजोषथ विश्वे देवासो मनुषो यति ष्ठन । को वो ऽध्वरꣳ तुविजाता अरꣳ करद् यो नः पर्षद् अत्य् अꣳहः स्वस्तये
येभ्यो होत्राम् प्रथमाम् आयेजे मनुः समिद्धाग्निर् मनसा सप्त होतृभिः । त आदित्या अभयꣳ शर्म यच्छत सुगा नः कर्त सुपथा स्वस्तये
य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर् जगतश् च मन्तवः । ते नः कृताद् अकृताद् एनसस् पर्य् अद्या देवासः पिपृता स्वस्तये
भरेष्व् इन्द्रꣳ सुहवꣳ हवामहे ऽꣳहोमुचꣳ सुकृतꣳ दैव्यꣳ जनम् । अग्निम् मित्रꣳ वरुणꣳ सातये भगꣳ द्यावापृथिवी मरुतः स्वस्तये
सुत्रामाणम् पृथिवीꣳ द्याम् अनेहसꣳ सुशर्माणम् अदितिꣳ सुप्रणीतिम् । दैवीꣳ नावꣳ स्वरित्राम् अनागसम् अस्रवन्तीम् आ रुहेमा स्वस्तये
विश्वे यजत्रा अधि वोचतोतये त्रायध्वꣳ नो दुरेवाया अभिह्रुतः । सत्यया वो देवहूत्या हुवेम शृण्वतो देवा अवसे स्वस्तये
अपामीवाम् अप विश्वाम् अनाहुतिम् अपारातिꣳ दुर्विदत्राम् अघायतः । आरे देवा द्वेषो अस्मद् युयोतनोरु णः शर्म यच्छता स्वस्तये
अरिष्टः स मर्तो विश्व एधते प्र प्रजाभिर् जायते धर्मणस् परि । यम् आदित्यासो नयथा सुनीतिभिर् अति विश्वानि दुरिता स्वस्तये
यꣳ देवासो ऽवथ वाजसातौ यꣳ शूरसाता मरुतो हिते धने । प्रातर्यावाणꣳ रथम् इन्द्र सानसिम् अरिष्यन्तम् आ रुहेमा स्वस्तये
स्वस्ति नः पथ्यासु धन्वसु स्वस्त्य् अ१प्सु वृजने स्वर्वति । स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन
स्वस्तिर् इद् धि प्रपथे श्रेष्ठा रेक्णस्वत्य् अभि या वामम् एति । सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा
एवा प्लतेः सूनुर् अवीवृधद् वो विश्व आदित्या अदिते मनीषी । ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन
कथा देवानाꣳ कतमस्य यामनि सुमन्तु नाम शृण्वताम् मनामहे । को मृळाति कतमो नो मयस् करत् कतम ऊती अभ्य् आ ववर्तति
क्रतूयन्ति क्रतवो हृत्सु धीतयो वेनन्ति वेनाः पतयन्त्य् आ दिशः । न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधि कामा अयꣳसत
नरा वा शꣳसम् पूषणम् अगोह्यम् अग्निꣳ देवेद्धम् अभ्य् अर्चसे गिरा । सूर्यामासा चन्द्रमसा यमꣳ दिवि त्रितꣳ वातम् उषसम् अक्तुम् अश्विना
कथा कविस् तुवीरवान् कया गिरा बृहस्पतिर् वावृधते सुवृक्तिभिः । अज एकपात् सुहवेभिर् ऋक्वभिर् अहिः शृणोतु बुध्न्यो३ हवीमनि
दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि । अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु
ते नो अर्वन्तो हवनश्रुतो हवꣳ विश्वे शृण्वन्तु वाजिनो मितद्रवः । सहस्रसा मेधसाताव् इव त्मना महो ये धनꣳ समिथेषु जभ्रिरे
प्र वो वायुꣳ रथयुजम् पुरꣳधिꣳ स्तोमैः कृणुध्वꣳ सख्याय पूषणम् । ते हि देवस्य सवितुः सवीमनि क्रतुꣳ सचन्ते सचितः सचेतसः
त्रिः सप्त सस्रा नद्यो महीर् अपो वनस्पतीन् पर्वताꣳ अग्निम् ऊतये । कृशानुम् अस्तॄन् तिष्यꣳ सधस्थ आ रुद्रꣳ रुद्रेषु रुद्रियꣳ हवामहे
सरस्वती सरयुः सिन्धुर् ऊर्मिभिर् महो महीर् अवसा यन्तु वक्षणीः । देवीर् आपो मातरः सूदयित्न्वो घृतवत् पयो मधुमन् नो अर्चत
उत माता बृहद्दिवा शृणोतु नस् त्वष्टा देवेभिर् जनिभिः पिता वचः । ऋभुक्षा वाजो रथस्पतिर् भगो रण्वः शꣳसः शशमानस्य पातु नः
रण्वः सꣳदृष्टौ पितुमाꣳ इव क्षयो भद्रा रुद्राणाम् मरुताम् उपस्तुतिः । गोभिः ष्याम यशसो जनेष्व् आ सदा देवास इळया सचेमहि
याम् मे धियम् मरुत इन्द्र देवा अददात वरुण मित्र यूयम् । ताम् पीपयत पयसेव धेनुꣳ कुविद् गिरो अधि रथे वहाथ
कुविद् अङ्ग प्रति यथा चिद् अस्य नः सजात्यस्य मरुतो बुबोधथ । नाभा यत्र प्रथमꣳ सꣳनसामहे तत्र जामित्वम् अदितिर् दधातु नः
ते हि द्यावापृथिवी मातरा मही देवी देवाञ् जन्मना यज्ञिये इतः । उभे बिभृत उभयम् भरीमभिः पुरू रेताꣳसि पितृभिश् च सिञ्चतः
वि षा होत्रा विश्वम् अश्नोति वार्यम् बृहस्पतिर् अरमतिः पनीयसी । ग्रावा यत्र मधुषुद् उच्यते बृहद् अवीवशन्त मतिभिर् मनीषिणः
एवा कविस् तुवीरवाꣳ ऋतज्ञा द्रविणस्युर् द्रविणसश् चकानः । उक्थेभिर् अत्र मतिभिश् च विप्रो ऽपीपयद् गयो दिव्यानि जन्म
एवा प्लतेः सूनुर् अवीवृधद् वो विश्व आदित्या अदिते मनीषी । ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन
अग्निर् इन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः । आदित्या विष्णुर् मरुतः स्वर् बृहत् सोमो रुद्रो अदितिर् ब्रह्मणस् पतिः
इन्द्राग्नी वृत्रहत्येषु सत्पती मिथो हिन्वाना तन्वा३ समोकसा । अन्तरिक्षम् मह्य् आ पप्रुर् ओजसा सोमो घृतश्रीर् महिमानम् ईरयन्
तेषाꣳ हि मह्ना महताम् अनर्वणाꣳ स्तोमाꣳ इयर्म्य् ऋतज्ञा ऋतावृधाम् । ये अप्सवम् अर्णवꣳ चित्रराधसस् ते नो रासन्ताम् महये सुमित्र्याः
स्वर्णरम् अन्तरिक्षाणि रोचना द्यावाभूमी पृथिवीꣳ स्कम्भुर् ओजसा । पृक्षा इव महयन्तः सुरातयो देवाः स्तवन्ते मनुषाय सूरयः
मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा न प्रयुच्छतः । ययोर् धाम धर्मणा रोचते बृहद् ययोर् उभे रोदसी नाधसी वृतौ
या गौर् वर्तनिम् पर्येति निष्कृतम् पयो दुहाना व्रतनीर् अवारतः । सा प्रब्रुवाणा वरुणाय दाशुषे देवेभ्यो दाशद् धविषा विवस्वते
दिवक्षसो अग्निजिह्वा ऋतावृध ऋतस्य योनिꣳ विमृशन्त आसते । द्याꣳ स्कभित्व्य् अ१प आ चक्रुर् ओजसा यज्ञꣳ जनित्वी तन्वी३ नि मामृजुः
परिक्षिता पितरा पूर्वजावरी ऋतस्य योना क्षयतः समोकसा । द्यावापृथिवी वरुणाय सव्रते घृतवत् पयो महिषाय पिन्वतः
पर्जन्यावाता वृषभा पुरीषिणेन्द्रवायू वरुणो मित्रो अर्यमा । देवाꣳ आदित्याꣳ अदितिꣳ हवामहे ये पार्थिवासो दिव्यासो अप्सु ये
त्वष्टारꣳ वायुम् ऋभवो य ओहते दैव्या होतारा उषसꣳ स्वस्तये । बृहस्पतिꣳ वृत्रखादꣳ सुमेधसम् इन्द्रियꣳ सोमꣳ धनसा उ ईमहे
ब्रह्म गाम् अश्वꣳ जनयन्त ओषधीर् वनस्पतीन् पृथिवीम् पर्वताꣳ अपः । सूर्यꣳ दिवि रोहयन्तः सुदानव आर्या व्रता विसृजन्तो अधि क्षमि
भुज्युम् अꣳहसः पिपृथो निर् अश्विना श्यावम् पुत्रꣳ वध्रिमत्या अजिन्वतम् । कमद्युवꣳ विमदायोहथुर् युवꣳ विष्णाप्व१ꣳ विश्वकायाव सृजथः
पावीरवी तन्यतुर् एकपाद् अजो दिवो धर्ता सिन्धुर् आपः समुद्रियः । विश्वे देवासः शृणवन् वचाꣳसि मे सरस्वती सह धीभिः पुरꣳध्या
विश्वे देवाः सह धीभिः पुरꣳध्या मनोर् यजत्रा अमृता ऋतज्ञाः । रातिषाचो अभिषाचः स्वर्विदः स्व१र् गिरो ब्रह्म सूक्तꣳ जुषेरत
देवान् वसिष्ठो अमृतान् ववन्दे ये विश्वा भुवनाभि प्रतस्थुः । ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः
देवान् हुवे बृहच्छ्रवसः स्वस्तये ज्योतिष्कृतो अध्वरस्य प्रचेतसः । ये वावृधुः प्रतरꣳ विश्ववेदस इन्द्रज्येष्ठासो अमृता ऋतावृधः
इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य ज्योतिषो भागम् आनशुः । मरुद्गणे वृजने मन्म धीमहि माघोने यज्ञꣳ जनयन्त सूरयः
इन्द्रो वसुभिः परि पातु नो गयम् आदित्यैर् नो अदितिः शर्म यच्छतु । रुद्रो रुद्रेभिर् देवो मृळयाति नस् त्वष्टा नो ग्नाभिः सुविताय जिन्वतु
अदितिर् द्यावापृथिवी ऋतम् महद् इन्द्राविष्णू मरुतः स्वर् बृहत् । देवाꣳ आदित्याꣳ अवसे हवामहे वसून् रुद्रान् सवितारꣳ सुदꣳससम्
सरस्वान् धीभिर् वरुणो धृतव्रतः पूषा विष्णुर् महिमा वायुर् अश्विना । ब्रह्मकृतो अमृता विश्ववेदसः शर्म नो यꣳसन् त्रिवरूथम् अꣳहसः
वृषा यज्ञो वृषणः सन्तु यज्ञिया वृषणो देवा वृषणो हविष्कृतः । वृषणा द्यावापृथिवी ऋतावरी वृषा पर्जन्यो वृषणो वृषस्तुभः
अग्नीषोमा वृषणा वाजसातये पुरुप्रशस्ता वृषणा उप ब्रुवे । याव् ईजिरे वृषणो देवयज्यया ता नः शर्म त्रिवरूथꣳ वि यꣳसतः
धृतव्रताः क्षत्रिया यज्ञनिष्कृतो बृहद्दिवा अध्वराणाम् अभिश्रियः । अग्निहोतार ऋतसापो अद्रुहो ऽपो असृजन्न् अनु वृत्रतूर्ये
द्यावापृथिवी जनयन्न् अभि व्रताप ओषधीर् वनिनानि यज्ञिया । अन्तरिक्षꣳ स्व१र् आ पप्रुर् ऊतये वशꣳ देवासस् तन्वी३ नि मामृजुः
धर्तारो दिव ऋभवः सुहस्ता वातापर्जन्या महिषस्य तन्यतोः । आप ओषधीः प्र तिरन्तु नो गिरो भगो रातिर् वाजिनो यन्तु मे हवम्
समुद्रः सिन्धू रजो अन्तरिक्षम् अज एकपात् तनयित्नुर् अर्णवः । अहिर् बुध्न्यः शृणवद् वचाꣳसि मे विश्वे देवास उत सूरयो मम
स्याम वो मनवो देववीतये प्राञ्चꣳ नो यज्ञम् प्र णयत साधुया । आदित्या रुद्रा वसवः सुदानव इमा ब्रह्म शस्यमानानि जिन्वत
दैव्या होतारा प्रथमा पुरोहित ऋतस्य पन्थाम् अन्व् एमि साधुया । क्षेत्रस्य पतिम् प्रतिवेशम् ईमहे विश्वान् देवाꣳ अमृताꣳ अप्रयुच्छतः
वसिष्ठासः पितृवद् वाचम् अक्रत देवाꣳ ईळाना ऋषिवत् स्वस्तये । प्रीता इव ज्ञातयः कामम् एत्यास्मे देवासो ऽव धूनुता वसु
देवान् वसिष्ठो अमृतान् ववन्दे ये विश्वा भुवनाभि प्रतस्थुः । ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः
इमाꣳ धियꣳ सप्तशीर्ष्णीम् पिता न ऋतप्रजाताम् बृहतीम् अविन्दत् । तुरीयꣳ स्विज् जनयद् विश्वजन्यो ऽयास्य उक्थम् इन्द्राय शꣳसन्
ऋतꣳ शꣳसन्त ऋजु दीध्याना दिवस् पुत्रासो असुरस्य वीराः । विप्रम् पदम् अङ्गिरसो दधाना यज्ञस्य धाम प्रथमम् मनन्त
हꣳसैर् इव सखिभिर् वावदद्भिर् अश्मन्मयानि नहना व्यस्यन् । बृहस्पतिर् अभिकनिक्रदद् गा उत प्रास्तौद् उच् च विद्वाꣳ अगायत्
अवो द्वाभ्याम् पर एकया गा गुहा तिष्ठन्तीर् अनृतस्य सेतौ । बृहस्पतिस् तमसि ज्योतिर् इच्छन्न् उद् उस्रा आकर् वि हि तिस्र आवः
विभिद्या पुरꣳ शयथेम् अपाचीꣳ निस् त्रीणि साकम् उदधेर् अकृन्तत् । बृहस्पतिर् उषसꣳ सूर्यꣳ गाम् अर्कꣳ विवेद स्तनयन्न् इव द्यौः
इन्द्रो वलꣳ रक्षितारꣳ दुघानाꣳ करेणेव वि चकर्ता रवेण । स्वेदाञ्जिभिर् आशिरम् इच्छमानो ऽरोदयत् पणिम् आ गा अमुष्णात्
स ईꣳ सत्येभिः सखिभिः शुचद्भिर् गोधायसꣳ वि धनसैर् अदर्दः । ब्रह्मणस् पतिर् वृषभिर् वराहैर् घर्मस्वेदेभिर् द्रविणꣳ व्य् आनट्
ते सत्येन मनसा गोपतिꣳ गा इयानास इषणयन्त धीभिः । बृहस्पतिर् मिथोअवद्यपेभिर् उद् उस्रिया असृजत स्वयुग्भिः
तꣳ वर्धयन्तो मतिभिः शिवाभिः सिꣳहम् इव नानदतꣳ सधस्थे । बृहस्पतिꣳ वृषणꣳ शूरसातौ भरे-भरे अनु मदेम जिष्णुम्
यदा वाजम् असनद् विश्वरूपम् आ द्याम् अरुक्षद् उत्तराणि सद्म । बृहस्पतिꣳ वृषणꣳ वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिर् आसा
सत्याम् आशिषꣳ कृणुता वयोधै कीरिꣳ चिद् ध्य् अवथ स्वेभिर् एवैः । पश्चा मृधो अप भवन्तु विश्वास् तद् रोदसी शृणुतꣳ विश्वमिन्वे
इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानम् अभिनद् अर्बुदस्य । अहन्न् अहिम् अरिणात् सप्त सिन्धून् देवैर् द्यावापृथिवी प्रावतꣳ नः
उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः । गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिम् अभ्य् अ१र्का अनावन्
सꣳ गोभिर् आङ्गिरसो नक्षमाणो भग इवेद् अर्यमणꣳ निनाय । जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूꣳर् इवाजौ
साध्वर्या अतिथिनीर् इषिराः स्पार्हाः सुवर्णा अनवद्यरूपाः । बृहस्पतिः पर्वतेभ्यो वितूर्या निर् गा ऊपे यवम् इव स्थिविभ्यः
आप्रुषायन् मधुन ऋतस्य योनिम् अवक्षिपन्न् अर्क उल्काम् इव द्योः । बृहस्पतिर् उद्धरन्न् अश्मनो गा भूम्या उद्नेव वि त्वचम् बिभेद
अप ज्योतिषा तमो अन्तरिक्षाद् उद्नः शीपालम् इव वात आजत् । बृहस्पतिर् अनुमृश्या वलस्याभ्रम् इव वात आ चक्र आ गाः
यदा वलस्य पीयतो जसुम् भेद् बृहस्पतिर् अग्नितपोभिर् अर्कैः । दद्भिर् न जिह्वा परिविष्टम् आदद् आविर् निधीꣳर् अकृणोद् उस्रियाणाम्
बृहस्पतिर् अमत हि त्यद् आसाꣳ नाम स्वरीणाꣳ सदने गुहा यत् । आण्डेव भित्त्वा शकुनस्य गर्भम् उद् उस्रियाः पर्वतस्य त्मनाजत्
अश्नापिनद्धम् मधु पर्य् अपश्यन् मत्स्यꣳ न दीन उदनि क्षियन्तम् । निष् टज् जभार चमसꣳ न वृक्षाद् बृहस्पतिर् विरवेणा विकृत्य
सोषाम् अविन्दत् स स्व१ः सो अग्निꣳ सो अर्केण वि बबाधे तमाꣳसि । बृहस्पतिर् गोवपुषो वलस्य निर् मज्जानꣳ न पर्वणो जभार
हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद् वलो गाः । अनानुकृत्यम् अपुनश् चकार यात् सूर्यामासा मिथ उच्चरातः
अभि श्यावꣳ न कृशनेभिर् अश्वꣳ नक्षत्रेभिः पितरो द्याम् अपिꣳशन् । रात्र्याꣳ तमो अदधुर् ज्योतिर् अहन् बृहस्पतिर् भिनद् अद्रिꣳ विदद् गाः
इदम् अकर्म नमो अभ्रियाय यः पूर्वीर् अन्व् आनोनवीति । बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर् नो वयो धात्
भद्रा अग्नेर् वध्र्यश्वस्य सꣳदृशो वामी प्रणीतिः सुरणा उपेतयः । यद् ईꣳ सुमित्रा विशो अग्र इन्धते घृतेनाहुतो जरते दविद्युतत्
घृतम् अग्नेर् वध्र्यश्वस्य वर्धनꣳ घृतम् अन्नꣳ घृतम् व् अस्य मेदनम् । घृतेनाहुत उर्विया वि पप्रथे सूर्य इव रोचते सर्पिरासुतिः
यत् ते मनुर् यद् अनीकꣳ सुमित्रः समीधे अग्ने तद् इदꣳ नवीयः । स रेवच् छोच स गिरो जुषस्व स वाजꣳ दर्षि स इह श्रवो धाः
यꣳ त्वा पूर्वम् ईळितो वध्र्यश्वः समीधे अग्ने स इदꣳ जुषस्व । स नः स्तिपा उत भवा तनूपा दात्रꣳ रक्षस्व यद् इदꣳ ते अस्मे
भवा द्युम्नी वाध्र्यश्वोत गोपा मा त्वा तारीद् अभिमातिर् जनानाम् । शूर इव धृष्णुश् च्यवनः सुमित्रः प्र नु वोचꣳ वाध्र्यश्वस्य नाम
सम् अज्र्या पर्वत्या३ वसूनि दासा वृत्राण्य् आर्या जिगेथ । शूर इव धृष्णुश् च्यवनो जनानाꣳ त्वम् अग्ने पृतनायूꣳर् अभि ष्याः
दीर्घतन्तुर् बृहदुक्षायम् अग्निः सहस्रस्तरीः शतनीथ ऋभ्वा । द्युमान् द्युमत्सु नृभिर् मृज्यमानः सुमित्रेषु दीदयो देवयत्सु
त्वे धेनुः सुदुघा जातवेदो ऽसश्चतेव समना सबर्धुक् । त्वꣳ नृभिर् दक्षिणावद्भिर् अग्ने सुमित्रेभिर् इध्यसे देवयद्भिः
देवाश् चित् ते अमृता जातवेदो महिमानꣳ वाध्र्यश्व प्र वोचन् । यत् सम्पृच्छम् मानुषीर् विश आयन् त्वꣳ नृभिर् अजयस् त्वावृधेभिः
पितेव पुत्रम् अबिभर् उपस्थे त्वाम् अग्ने वध्र्यश्वः सपर्यन् । जुषाणो अस्य समिधꣳ यविष्ठोत पूर्वाꣳ अवनोर् व्राधतश् चित्
शश्वद् अग्निर् वध्र्यश्वस्य शत्रून् नृभिर् जिगाय सुतसोमवद्भिः । समनꣳ चिद् अदहश् चित्रभानो ऽव व्राधन्तम् अभिनद् वृधश् चित्
अयम् अग्निर् वध्र्यश्वस्य वृत्रहा सनकात् प्रेद्धो नमसोपवाक्यः । स नो अजामीꣳर् उत वा विजामीन् अभि तिष्ठ शर्धतो वाध्र्यश्व
इमाम् मे अग्ने समिधꣳ जुषस्वेळस् पदे प्रति हर्या घृताचीम् । वर्ष्मन् पृथिव्याः सुदिनत्वे अह्नाम् ऊर्ध्वो भव सुक्रतो देवयज्या
आ देवानाम् अग्रयावेह यातु नराशꣳसो विश्वरूपेभिर् अश्वैः । ऋतस्य पथा नमसा मियेधो देवेभ्यो देवतमः सुषूदत्
शश्वत्तमम् ईळते दूत्याय हविष्मन्तो मनुष्यासो अग्निम् । वहिष्ठैर् अश्वैः सुवृता रथेना देवान् वक्षि नि षदेह होता
वि प्रथताꣳ देवजुष्टꣳ तिरश्चा दीर्घꣳ द्राघ्मा सुरभि भूत्व् अस्मे । अहेळता मनसा देव बर्हिर् इन्द्रज्येष्ठाꣳ उशतो यक्षि देवान्
दिवो वा सानु स्पृशता वरीयः पृथिव्या वा मात्रया वि श्रयध्वम् । उशतीर् द्वारो महिना महद्भिर् देवꣳ रथꣳ रथयुर् धारयध्वम्
देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदताꣳ नि योनौ । आ वाꣳ देवास उशती उशन्त उरौ सीदन्तु सुभगे उपस्थे
ऊर्ध्वो ग्रावा बृहद् अग्निः समिद्धः प्रिया धामान्य् अदितेर् उपस्थे । पुरोहिताव् ऋत्विजा यज्ञे अस्मिन् विदुष्टरा द्रविणम् आ यजेथाम्
तिस्रो देवीर् बर्हिर् इदꣳ वरीय आ सीदत चकृमा वः स्योनम् । मनुष्वद् यज्ञꣳ सुधिता हवीꣳषीळा देवी घृतपदी जुषन्त
देव त्वष्टर् यद् ध चारुत्वम् आनड् यद् अङ्गिरसाम् अभवः सचाभूः । स देवानाम् पाथ उप प्र विद्वाꣳ उशन् यक्षि द्रविणोदः सुरत्नः
वनस्पते रशनया नियूया देवानाम् पाथ उप वक्षि विद्वान् । स्वदाति देवः कृणवद् धवीꣳष्य् अवताꣳ द्यावापृथिवी हवम् मे
आग्ने वह वरुणम् इष्टये न इन्द्रꣳ दिवो मरुतो अन्तरिक्षात् । सीदन्तु बर्हिर् विश्व आ यजत्राः स्वाहा देवा अमृता मादयन्ताम्
बृहस्पते प्रथमꣳ वाचो अग्रꣳ यत् प्रैरत नामधेयꣳ दधानाः । यद् एषाꣳ श्रेष्ठꣳ यद् अरिप्रम् आसीत् प्रेणा तद् एषाꣳ निहितꣳ गुहाविः
सक्तुम् इव तितüना पुनन्तो यत्र धीरा मनसा वाचम् अक्रत । अत्रा सखायः सख्यानि जानते भद्रैषाꣳ लक्ष्मीर् निहिताधि वाचि
यज्ञेन वाचः पदवीयम् आयन् ताम् अन्व् अविन्दन्न् ऋषिषु प्रविष्टाम् । ताम् आभृत्या व्य् अदधुः पुरुत्रा ताꣳ सप्त रेभा अभि सꣳ नवन्ते
उत त्वः पश्यन् न ददर्श वाचम् उत त्वः शृण्वन् न शृणोत्य् एनाम् । उतो त्वस्मै तन्व१ꣳ वि सस्रे जायेव पत्य उशती सुवासाः
उत त्वꣳ सख्ये स्थिरपीतम् आहुर् नैनꣳ हिन्वन्त्य् अपि वाजिनेषु । अधेन्वा चरति माययैष वाचꣳ शुश्रुवाꣳ अफलाम् अपुष्पाम्
यस् तित्याज सचिविदꣳ सखायꣳ न तस्य वाच्य् अपि भागो अस्ति । यद् ईꣳ शृणोत्य् अलकꣳ शृणोति नहि प्रवेद सुकृतस्य पन्थाम्
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्व् असमा बभूवुः । आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे
हृदा तष्टेषु मनसो जवेषु यद् ब्राह्मणाः सꣳयजन्ते सखायः । अत्राह त्वꣳ वि जहुर् वेद्याभिर् ओहब्रह्माणो वि चरन्त्य् उ त्वे
इमे ये नार्वाङ् न परश् चरन्ति न ब्राह्मणासो न सुतेकरासः । त एते वाचम् अभिपद्य पापया सिरीस् तन्त्रꣳ तन्वते अप्रजज्ञयः
सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः । किल्बिषस्पृत् पितुषणिर् ह्य् एषाम् अरꣳ हितो भवति वाजिनाय
ऋचाꣳ त्वः पोषम् आस्ते पुपुष्वान् गायत्रꣳ त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्याꣳ यज्ञस्य मात्राꣳ वि मिमीत उ त्वः
देवानाꣳ नु वयꣳ जाना प्र वोचाम विपन्यया । उक्थेषु शस्यमानेषु यः पश्याद् उत्तरे युगे
ब्रह्मणस् पतिर् एता सꣳ कर्मार इवाधमत् । देवानाम् पूर्व्ये युगे ऽसतः सद् अजायत
देवानाꣳ युगे प्रथमे ऽसतः सद् अजायत । तद् आशा अन्व् अजायन्त तद् उत्तानपदस् परि
भूर् जज्ञ उत्तानपदो भुव आशा अजायन्त । अदितेर् दक्षो अजायत दक्षाद् व् अदितिः परि
अदितिर् ह्य् अजनिष्ट दक्ष या दुहिता तव । ताꣳ देवा अन्व् अजायन्त भद्रा अमृतबन्धवः
यद् देवा अदः सलिले सुसꣳरब्धा अतिष्ठत । अत्रा वो नृत्यताम् इव तीव्रो रेणुर् अपायत
यद् देवा यतयो यथा भुवनान्य् अपिन्वत । अत्रा समुद्र आ गूळ्हम् आ सूर्यम् अजभर्तन
अष्टौ पुत्रासो अदितेर् ये जातास् तन्व१स् परि । देवाꣳ उप प्रैत् सप्तभिः परा मार्ताण्डम् आस्यत्
सप्तभिः पुत्रैर् अदितिर् उप प्रैत् पूर्व्यꣳ युगम् । प्रजायै मृत्यवे त्वत् पुनर् मार्ताण्डम् आभरत्
जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः । अवर्धन्न् इन्द्रम् मरुतश् चिद् अत्र माता यद् वीरꣳ दधनद् धनिष्ठा
द्रुहो निषत्ता पृशनी चिद् एवैः पुरू शꣳसेन वावृधुष् ट इन्द्रम् । अभीवृतेव ता महापदेन ध्वान्तात् प्रपित्वाद् उद् अरन्त गर्भाः
ऋष्वा ते पादा प्र यज् जिगास्य् अवर्धन् वाजा उत ये चिद् अत्र । त्वम् इन्द्र सालावृकान् सहस्रम् आसन् दधिषे अश्विना ववृत्याः
समना तूर्णिर् उप यासि यज्ञम् आ नासत्या सख्याय वक्षि । वसाव्याम् इन्द्र धारयः सहस्राश्विना शूर ददतुर् मघानि
मन्दमान ऋताद् अधि प्रजायै सखिभिर् इन्द्र इषिरेभिर् अर्थम् । आभिर् हि माया उप दस्युम् आगान् मिहः प्र तम्रा अवपत् तमाꣳसि
सनामाना चिद् ध्वसयो न्य् अस्मा अवाहन्न् इन्द्र उषसो यथानः । ऋष्वैर् अगच्छः सखिभिर् निकामैः साकम् प्रतिष्ठा हृद्या जघन्थ
त्वꣳ जघन्थ नमुचिम् मखस्युꣳ दासꣳ कृण्वान ऋषये विमायम् । त्वꣳ चकर्थ मनवे स्योनान् पथो देवत्राञ्जसेव यानान्
त्वम् एतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ । अनु त्वा देवाः शवसा मदन्त्य् उपरिबुध्नान् वनिनश् चकर्थ
चक्रꣳ यद् अस्याप्स्व् आ निषत्तम् उतो तद् अस्मै मध्व् इच् चच्छद्यात् । पृथिव्याम् अतिषितꣳ यद् ऊधः पयो गोष्व् अदधा ओषधीषु
अश्वाद् इयायेति यद् वदन्त्य् ओजसो जातम् उत मन्य एनम् । मन्योर् इयाय हर्म्येषु तस्थौ यतः प्रजज्ञ इन्द्रो अस्य वेद
वयः सुपर्णा उप सेदुर् इन्द्रम् प्रियमेधा ऋषयो नाधमानाः । अप ध्वान्तम् ऊर्णुहि पूर्धि चक्षुर् मुमुग्ध्य् अ१स्मान् निधयेव बद्धान्
वसूनाꣳ वा चर्कृष इयक्षन् धिया वा यज्ञैर् वा रोदस्योः । अर्वन्तो वा ये रयिमन्तः सातौ वनुꣳ वा ये सुश्रुणꣳ सुश्रुतो धुः
हव एषाम् असुरो नक्षत द्याꣳ श्रवस्यता मनसा निꣳसत क्षाम् । चक्षाणा यत्र सुविताय देवा द्यौर् न वारेभिः कृणवन्त स्वैः
इयम् एषाम् अमृतानाꣳ गीः सर्वताता ये कृपणन्त रत्नम् । धियꣳ च यज्ञꣳ च साधन्तस् ते नो धान्तु वसव्य१म् असामि
आ तत् त इन्द्रायवः पनन्ताभि य ऊर्वꣳ गोमन्तꣳ तितृत्सान् । सकृत्स्व१ꣳ ये पुरुपुत्राम् महीꣳ सहस्रधाराम् बृहतीꣳ दुदुक्षन्
शचीव इन्द्रम् अवसे कृणुध्वम् अनानतꣳ दमयन्तम् पृतन्यून् । ऋभुक्षणम् मघवानꣳ सुवृक्तिम् भर्ता यो वज्रꣳ नर्यम् पुरुक्षुः
यद् वावान पुरुतमम् पुराषाळ् आ वृत्रहेन्द्रो नामान्य् अप्राः । अचेति प्रासहस् पतिस् तुविष्मान् यद् ईम् उश्मसि कर्तवे करत् तत्
प्र सु व आपो महिमानम् उत्तमꣳ कारुर् वोचाति सदने विवस्वतः । प्र सप्त-सप्त त्रेधा हि चक्रमुः प्र सृत्वरीणाम् अति सिन्धुर् ओजसा
प्र ते ऽरदद् वरुणो यातवे पथः सिन्धो यद् वाजाꣳ अभ्य् अद्रवस् त्वम् । भूम्या अधि प्रवता यासि सानुना यद् एषाम् अग्रꣳ जगताम् इरज्यसि
दिवि स्वनो यतते भूम्योपर्य् अनन्तꣳ शुष्मम् उद् इयर्ति भानुना । अभ्राद् इव प्र स्तनयन्ति वृष्टयः सिन्धुर् यद् एति वृषभो न रोरुवत्
अभि त्वा सिन्धो शिशुम् इन् न मातरो वाश्रा अर्षन्ति पयसेव धेनवः । राजेव युध्वा नयसि त्वम् इत् सिचौ यद् आसाम् अग्रम् प्रवताम् इनक्षसि
इमम् मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमꣳ सचता परुष्ण्य् आ । असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्य् आ सुषोमया
तृष्टामया प्रथमꣳ यातवे सजूः सुसर्त्वा रसया श्वेत्या त्या । त्वꣳ सिन्धो कुभया गोमतीꣳ क्रुमुम् मेहत्न्वा सरथꣳ याभिर् ईयसे
ऋजीत्य् एनी रुशती महित्वा परि ज्रयाꣳसि भरते रजाꣳसि । अदब्धा सिन्धुर् अपसाम् अपस्तमाश्वा न चित्रा वपुषीव दर्शता
स्वश्वा सिन्धुः सुरथा सुवासा हिरण्ययी सुकृता वाजिनीवती । ऊर्णावती युवतिः सीलमावत्य् उताधि वस्ते सुभगा मधुवृधम्
सुखꣳ रथꣳ युयुजे सिन्धुर् अश्विनꣳ तेन वाजꣳ सनिषद् अस्मिन्न् आजौ । महान् ह्य् अस्य महिमा पनस्यते ऽदब्धस्य स्वयशसो विरप्शिनः
आ व ऋञ्जस ऊर्जाꣳ व्युष्टिष्व् इन्द्रम् मरुतो रोदसी अनक्तन । उभे यथा नो अहनी सचाभुवा सदः-सदो वरिवस्यात उद्भिदा
तद् उ श्रेष्ठꣳ सवनꣳ सुनोतनात्यो न हस्तयतो अद्रिः सोतरि । विदद् ध्य् अ१र्यो अभिभूति पौꣳस्यम् महो राये चित् तरुते यद् अर्वतः
तद् इद् ध्य् अस्य सवनꣳ विवेर् अपो यथा पुरा मनवे गातुम् अश्रेत् । गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि प्रेम् अध्वरेष्व् अध्वराꣳ अशिश्रयुः
अप हत रक्षसो भङ्गुरावतः स्कभायत निरृतिꣳ सेधतामतिम् । आ नो रयिꣳ सर्ववीरꣳ सुनोतन देवाव्यम् भरत श्लोकम् अद्रयः
दिवश् चिद् आ वो ऽमवत्तरेभ्यो विभ्वना चिद् आश्वपस्तरेभ्यः । वायोश् चिद् आ सोमरभस्तरेभ्यो ऽग्नेश् चिद् अर्च पितुकृत्तरेभ्यः
भुरन्तु नो यशसः सोत्व् अन्धसो ग्रावाणो वाचा दिविता दिवित्मता । नरो यत्र दुहते काम्यम् मध्व् आघोषयन्तो अभितो मिथस्तुरः
सुन्वन्ति सोमꣳ रथिरासो अद्रयो निर् अस्य रसꣳ गविषो दुहन्ति ते । दुहन्त्य् ऊधर् उपसेचनाय कꣳ नरो हव्या न मर्जयन्त आसभिः
एते नरः स्वपसो अभूतन य इन्द्राय सुनुथ सोमम् अद्रयः । वामꣳ-वामꣳ वो दिव्याय धाम्ने वसु-वसु वः पार्थिवाय सुन्वते
अभ्रप्रुषो न वाचा प्रुषा वसु हविष्मन्तो न यज्ञा विजानुषः । सुमारुतꣳ न ब्रह्माणम् अर्हसे गणम् अस्तोष्य् एषाꣳ न शोभसे
श्रिये मर्यासो अञ्जीꣳर् अकृण्वत सुमारुतꣳ न पूर्वीर् अति क्षपः । दिवस् पुत्रास एता न येतिर आदित्यासस् ते अक्रा न वावृधुः
प्र ये दिवः पृथिव्या न बर्हणा त्मना रिरिच्रे अभ्रान् न सूर्यः । पाजस्वन्तो न वीराः पनस्यवो रिशादसो न मर्या अभिद्यवः
युष्माकम् बुध्ने अपाꣳ न यामनि विथुर्यति न मही श्रथर्यति । विश्वप्सुर् यज्ञो अर्वाग् अयꣳ सु वः प्रयस्वन्तो न सत्राच आ गत
यूयꣳ धूर्षु प्रयुजो न रश्मिभिर् ज्योतिष्मन्तो न भासा व्युष्टिषु । श्येनासो न स्वयशसो रिशादसः प्रवासो न प्रसितासः परिप्रुषः
प्र यद् वहध्वे मरुतः पराकाद् यूयम् महः सꣳवरणस्य वस्वः । विदानासो वसवो राध्यस्याराच् चिद् द्वेषः सनुतर् युयोत
य उदृचि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत् । रेवत् स वयो दधते सुवीरꣳ स देवानाम् अपि गोपीथे अस्तु
ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्ना शम्भविष्ठाः । ते नो ऽवन्तु रथतूर् मनीषाम् महश् च यामन्न् अध्वरे चकानाः
विप्रासो न मन्मभिः स्वाध्यो देवाव्यो३ न यज्ञैः स्वप्नसः । राजानो न चित्राः सुसꣳदृशः क्षितीनाꣳ न मर्या अरेपसः
अग्निर् न ये भ्राजसा रुक्मवक्षसो वातासो न स्वयुजः सद्यऊतयः । प्रज्ञातारो न ज्येष्ठाः सुनीतयः सुशर्माणो न सोमा ऋतꣳ यते
वातासो न ये धुनयो जिगत्नवो ऽग्नीनाꣳ न जिह्वा विरोकिणः । वर्मण्वन्तो न योधाः शिमीवन्तः पितॄणाꣳ न शꣳसाः सुरातयः
रथानाꣳ न ये१ ऽराः सनाभयो जिगीवाꣳसो न शूरा अभिद्यवः । वरेयवो न मर्या घृतप्रुषो ऽभिस्वर्तारो अर्कꣳ न सुष्टुभः
अश्वासो न ये ज्येष्ठास आशवो दिधिषवो न रथ्यः सुदानवः । आपो न निम्नैर् उदभिर् जिगत्नवो विश्वरूपा अङ्गिरसो न सामभिः
ग्रावाणो न सूरयः सिन्धुमातर आदर्दिरासो अद्रयो न विश्वहा । शिशूला न क्रीळयः सुमातरो महाग्रामो न यामन्न् उत त्विषा
उषसाꣳ न केतवो ऽध्वरश्रियः शुभꣳयवो नाञ्जिभिर् व्य् अश्वितन् । सिन्धवो न ययियो भ्राजदृष्टयः परावतो न योजनानि ममिरे
सुभागान् नो देवाः कृणुता सुरत्नान् अस्मान् स्तोतॄन् मरुतो वावृधानाः । अधि स्तोत्रस्य सख्यस्य गात सनाद् धि वो रत्नधेयानि सन्ति
अपश्यम् अस्य महतो महित्वम् अमर्त्यस्य मर्त्यासु विक्षु । नाना हनू विभृते सम् भरेते असिन्वती बप्सती भूर्य् अत्तः
गुहा शिरो निहितम् ऋधग् अक्षी असिन्वन्न् अत्ति जिह्वया वनानि । अत्राण्य् अस्मै पड्भिः सम् भरन्त्य् उत्तानहस्ता नमसाधि विक्षु
प्र मातुः प्रतरꣳ गुह्यम् इच्छन् कुमारो न वीरुधः सर्पद् उर्वीः । ससꣳ न पक्वम् अविदच् छुचन्तꣳ रिरिह्वाꣳसꣳ रिप उपस्थे अन्तः
तद् वाम् ऋतꣳ रोदसी प्र ब्रवीमि जायमानो मातरा गर्भो अत्ति । नाहꣳ देवस्य मर्त्यश् चिकेताग्निर् अङ्ग विचेताः स प्रचेताः
यो अस्मा अन्नꣳ तृष्व् आ३दधात्य् आज्यैर् घृतैर् जुहोति पुष्यति । तस्मै सहस्रम् अक्षभिर् वि चक्षे ऽग्ने विश्वतः प्रत्यङ्ङ् असि त्वम्
किꣳ देवेषु त्यज एनश् चकर्थाग्ने पृच्छामि नु त्वाम् अविद्वान् । अक्रीळन् क्रीळन् हरिर् अत्तवे ऽदन् वि पर्वशश् चकर्त गाम् इवासिः
विषूचो अश्वान् युयुजे वनेजा ऋजीतिभी रशनाभिर् गृभीतान् । चक्षदे मित्रो वसुभिः सुजातः सम् आनृधे पर्वभिर् वावृधानः
अग्निः सप्तिꣳ वाजम्भरꣳ ददात्य् अग्निर् वीरꣳ श्रुत्यꣳ कर्मनिःष्ठाम् । अग्नी रोदसी वि चरत् समञ्जन्न् अग्निर् नारीꣳ वीरकुक्षिम् पुरꣳधिम्
अग्नेर् अप्नसः समिद् अस्तु भद्राग्निर् मही रोदसी आ विवेश । अग्निर् एकꣳ चोदयत् समत्स्व् अग्निर् वृत्राणि दयते पुरूणि
अग्निर् ह त्यꣳ जरतः कर्णम् आवाग्निर् अद्भ्यो निर् अदहज् जरूथम् । अग्निर् अत्रिꣳ घर्म उरुष्यद् अन्तर् अग्निर् नृमेधम् प्रजयासृजत् सम्
अग्निर् दाद् द्रविणꣳ वीरपेशा अग्निर् ऋषिꣳ यः सहस्रा सनोति । अग्निर् दिवि हव्यम् आ ततानाग्नेर् धामानि विभृता पुरुत्रा
अग्निम् उक्थैर् ऋषयो वि ह्वयन्ते ऽग्निꣳ नरो यामनि बाधितासः । अग्निꣳ वयो अन्तरिक्षे पतन्तो ऽग्निः सहस्रा परि याति गोनाम्
अग्निꣳ विश ईळते मानुषीर् या अग्निम् मनुषो नहुषो वि जाताः । अग्निर् गान्धर्वीम् पथ्याम् ऋतस्याग्नेर् गव्यूतिर् घृत आ निषत्ता
अग्नये ब्रह्म ऋभवस् ततक्षुर् अग्निम् महाम् अवोचामा सुवृक्तिम् । अग्ने प्राव जरितारꣳ यविष्ठाग्ने महि द्रविणम् आ यजस्व
य इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता न्य् असीदत् पिता नः । स आशिषा द्रविणम् इच्छमानः प्रथमच्छद् अवराꣳ आ विवेश
किꣳ स्विद् आसीद् अधिष्ठानम् आरम्भणꣳ कतमत् स्वित् कथासीत् । यतो भूमिꣳ जनयन् विश्वकर्मा वि द्याम् और्णोन् महिना विश्वचक्षाः
विश्वतश्चक्षुर् उत विश्वतोमुखो विश्वतोबाहुर् उत विश्वतस्पात् । सम् बाहुभ्याꣳ धमति सम् पतत्रैर् द्यावाभूमी जनयन् देव एकः
किꣳ स्विद् वनꣳ क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन्
या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्न् उतेमा । शिक्षा सखिभ्यो हविषि स्वधावः स्वयꣳ यजस्व तन्वꣳ वृधानः
विश्वकर्मन् हविषा वावृधानः स्वयꣳ यजस्व पृथिवीम् उत द्याम् । मुह्यन्त्व् अन्ये अभितो जनास इहास्माकम् मघवा सूरिर् अस्तु
वाचस् पतिꣳ विश्वकर्माणम् ऊतये मनोजुवꣳ वाजे अद्या हुवेम । स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा
चक्षुषः पिता मनसा हि धीरो घृतम् एने अजनन् नन्नमाने । यदेद् अन्ता अददृहन्त पूर्व आद् इद् द्यावापृथिवी अप्रथेताम्
विश्वकर्मा विमना आद् विहाया धाता विधाता परमोत सꣳदृक् । तेषाम् इष्टानि सम् इषा मदन्ति यत्रा सप्तऋषीन् पर एकम् आहुः
यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । यो देवानाꣳ नामधा एक एव तꣳ सम्प्रश्नम् भुवना यन्त्य् अन्या
त आयजन्त द्रविणꣳ सम् अस्मा ऋषयः पूर्वे जरितारो न भूना । असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्न् इमानि
परो दिवा पर एना पृथिव्या परो देवेभिर् असुरैर् यद् अस्ति । कꣳ स्विद् गर्भम् प्रथमꣳ दध्र आपो यत्र देवाः समपश्यन्त विश्वे
तम् इद् गर्भम् प्रथमꣳ दध्र आपो यत्र देवाः समगच्छन्त विश्वे । अजस्य नाभाव् अध्य् एकम् अर्पितꣳ यस्मिन् विश्वानि भुवनानि तस्थुः
न तꣳ विदाथ य इमा जजानान्यद् युष्माकम् अन्तरम् बभूव । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश् चरन्ति
यस् ते मन्यो ऽविधद् वज्र सायक सह ओजः पुष्यति विश्वम् आनुषक् । साह्याम दासम् आर्यꣳ त्वया युजा सहस्कृतेन सहसा सहस्वता
मन्युर् इन्द्रो मन्युर् एवास देवो मन्युर् होता वरुणो जातवेदाः । मन्युꣳ विश ईळते मानुषीर् याः पाहि नो मन्यो तपसा सजोषाः
अभीहि मन्यो तवसस् तवीयान् तपसा युजा वि जहि शत्रून् । अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्य् आ भरा त्वꣳ नः
त्वꣳ हि मन्यो अभिभूत्योजाः स्वयम्भूर् भामो अभिमातिषाहः । विश्वचर्षणिः सहुरिः सहावान् अस्मास्व् ओजः पृतनासु धेहि
अभागः सन्न् अप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः । तꣳ त्वा मन्यो अक्रतुर् जिहीळाहꣳ स्वा तनूर् बलदेयाय मेहि
अयꣳ ते अस्म्य् उप मेह्य् अर्वाङ् प्रतीचीनः सहुरे विश्वधायः । मन्यो वज्रिन्न् अभि माम् आ ववृत्स्व हनाव दस्यूꣳर् उत बोध्य् आपेः
अभि प्रेहि दक्षिणतो भवा मे ऽधा वृत्राणि जङ्घनाव भूरि । जुहोमि ते धरुणम् मध्वो अग्रम् उभा उपाꣳशु प्रथमा पिबाव
त्वया मन्यो सरथम् आरुजन्तो हर्षमाणासो धृषिता मरुत्वः । तिग्मेषव आयुधा सꣳशिशाना अभि प्र यन्तु नरो अग्निरूपाः
अग्निर् इव मन्यो त्विषितः सहस्व सेनानीर् नः सहुरे हूत एधि । हत्वाय शत्रून् वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व
सहस्व मन्यो अभिमातिम् अस्मे रुजन् मृणन् प्रमृणन् प्रेहि शत्रून् । उग्रꣳ ते पाजो नन्व् आ रुरुध्रे वशी वशꣳ नयस एकज त्वम्
एको बहूनाम् असि मन्यव् ईळितो विशꣳ-विशꣳ युधये सꣳ शिशाधि । अकृत्तरुक् त्वया युजा वयꣳ द्युमन्तꣳ घोषꣳ विजयाय कृण्महे
विजेषकृद् इन्द्र इवानवब्रवो३ ऽस्माकम् मन्यो अधिपा भवेह । प्रियꣳ ते नाम सहुरे गृणीमसि विद्मा तम् उत्सꣳ यत आबभूथ
आभूत्या सहजा वज्र सायक सहो बिभर्ष्य् अभिभूत उत्तरम् । क्रत्वा नो मन्यो सह मेद्य् एधि महाधनस्य पुरुहूत सꣳसृजि
सꣳसृष्टꣳ धनम् उभयꣳ समाकृतम् अस्मभ्यꣳ दत्ताꣳ वरुणश् च मन्युः । भियꣳ दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम्
सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः । ऋतेनादित्यास् तिष्ठन्ति दिवि सोमो अधि श्रितः
सोमेनादित्या बलिनः सोमेन पृथिवी मही । अथो नक्षत्राणाम् एषाम् उपस्थे सोम आहितः
सोमम् मन्यते पपिवान् यत् सम्पिꣳषन्त्य् ओषधिम् । सोमꣳ यम् ब्रह्माणो विदुर् न तस्याश्नाति कश् चन
आच्छद्विधानैर् गुपितो बार्हतैः सोम रक्षितः । ग्राव्णाम् इच् छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः
यत् त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः । वायुः सोमस्य रक्षिता समानाम् मास आकृतिः
रैभ्य् आसीद् अनुदेयी नाराशꣳसी न्योचनी । सूर्याया भद्रम् इद् वासो गाथयैति परिष्कृतम्
चित्तिर् आ उपबर्हणꣳ चक्षुर् आ अभ्यञ्जनम् । द्यौर् भूमिः कोश आसीद् यद् अयात् सूर्या पतिम्
स्तोमा आसन् प्रतिधयः कुरीरꣳ छन्द ओपशः । सूर्याया अश्विना वराग्निर् आसीत् पुरोगवः
सोमो वधूयुर् अभवद् अश्विनास्ताम् उभा वरा । सूर्याꣳ यत् पत्ये शꣳसन्तीम् मनसा सविताददात्
मनो अस्या अन आसीद् द्यौर् आसीद् उत च्छदिः । शुक्राव् अनड्वाहाव् आस्ताꣳ यद् अयात् सूर्या गृहम्
ऋक्सामाभ्याम् अभिहितौ गावौ ते सामनाव् इतः । श्रोत्रꣳ ते चक्रे आस्ताꣳ दिवि पन्थाश् चराचारः
शुची ते चक्रे यात्या व्यानो अक्ष आहतः । अनो मनस्मयꣳ सूर्यारोहत् प्रयती पतिम्
सूर्याया वहतुः प्रागात् सविता यम् अवासृजत् । अघासु हन्यन्ते गावो ऽर्जुन्योः पर्य् उह्यते
यद् अश्विना पृच्छमानाव् अयातꣳ त्रिचक्रेण वहतुꣳ सूर्यायाः । विश्वे देवा अनु तद् वाम् अजानन् पुत्रः पितराव् अवृणीत पूषा
यद् अयातꣳ शुभस् पती वरेयꣳ सूर्याम् उप । क्वैकꣳ चक्रꣳ वाम् आसीत् क्व देष्ट्राय तस्थथुः
द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः । अथैकꣳ चक्रꣳ यद् गुहा तद् अद्धातय इद् विदुः
सूर्यायै देवेभ्यो मित्राय वरुणाय च । ये भूतस्य प्रचेतस इदꣳ तेभ्यो ऽकरꣳ नमः
पूर्वापरꣳ चरतो माययैतौ शिशू क्रीळन्तौ परि यातो अध्वरम् । विश्वान्य् अन्यो भुवनाभिचष्ट ऋतूꣳर् अन्यो विदधज् जायते पुनः
नवो-नवो भवति जायमानो ऽह्नाꣳ केतुर् उषसाम् एत्य् अग्रम् । भागꣳ देवेभ्यो वि दधात्य् आयन् प्र चन्द्रमास् तिरते दीर्घम् आयुः
सुकिꣳशुकꣳ शल्मलिꣳ विश्वरूपꣳ हिरण्यवर्णꣳ सुवृतꣳ सुचक्रम् । आ रोह सूर्ये अमृतस्य लोकꣳ स्योनम् पत्ये वहतुꣳ कृणुष्व
उद् ईर्ष्वातः पतिवती ह्य् ए३षा विश्वावसुꣳ नमसा गीर्भिर् ईळे । अन्याम् इच्छ पितृषदꣳ व्यक्ताꣳ स ते भागो जनुषा तस्य विद्धि
उद् ईर्ष्वातो विश्वावसो नमसेळा महे त्वा । अन्याम् इच्छ प्रफर्व्य१ꣳ सꣳ जायाम् पत्या सृज
अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम् । सम् अर्यमा सम् भगो नो निनीयात् सꣳ जास्पत्यꣳ सुयमम् अस्तु देवाः
प्र त्वा मुञ्चामि वरुणस्य पाशाद् येन त्वाबध्नात् सविता सुशेवः । ऋतस्य योनौ सुकृतस्य लोके ऽरिष्टाꣳ त्वा सह पत्या दधामि
प्रेतो मुञ्चामि नामुतः सुबद्धाम् अमुतस् करम् । यथेयम् इन्द्र मीढ्वः सुपुत्रा सुभगासति
पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहताꣳ रथेन । गृहान् गच्छ गृहपत्नी यथासो वशिनी त्वꣳ विदथम् आ वदासि
इह प्रियम् प्रजया ते सम् ऋध्यताम् अस्मिन् गृहे गार्हपत्याय जागृहि । एना पत्या तन्व१ꣳ सꣳ सृजस्वाधा जिव्री विदथम् आ वदाथः
नीललोहितम् भवति कृत्यासक्तिर् व्य् अज्यते । एधन्ते अस्या ज्ञातयः पतिर् बन्धेषु बध्यते
परा देहि शामुल्यम् ब्रह्मभ्यो वि भजा वसु । कृत्यैषा पद्वती भूत्व्य् आ जाया विशते पतिम्
अश्रीरा तनूर् भवति रुशती पापयामुया । पतिर् यद् वध्वो३ वाससा स्वम् अङ्गम् अभिधित्सते
ये वध्वश् चन्द्रꣳ वहतुꣳ यक्ष्मा यन्ति जनाद् अनु । पुनस् तान् यज्ञिया देवा नयन्तु यत आगताः
मा विदन् परिपन्थिनो य आसीदन्ति दम्पती । सुगेभिर् दुर्गम् अतीताम् अप द्रान्त्व् अरातयः
सुमङ्गलीर् इयꣳ वधूर् इमाꣳ समेत पश्यत । सौभाग्यम् अस्यै दत्त्वायाथास्तꣳ वि परेतन
तृष्टम् एतत् कटुकम् एतद् अपाष्ठवद् विषवन् नैतद् अत्तवे । सूर्याꣳ यो ब्रह्मा विद्यात् स इद् वाधूयम् अर्हति
आशसनꣳ विशसनम् अथो अधिविकर्तनम् । सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति
गृभ्णामि ते सौभगत्वाय हस्तम् मया पत्या जरदष्टिर् यथासः । भगो अर्यमा सविता पुरꣳधिर् मह्यꣳ त्वादुर् गार्हपत्याय देवाः
ताम् पूषञ् छिवतमाम् एरयस्व यस्याम् बीजम् मनुष्या३ वपन्ति । या न ऊरू उशती विश्रयाते यस्याम् उशन्तः प्रहराम शेपम्
तुभ्यम् अग्रे पर्य् अवहन् सूर्याꣳ वहतुना सह । पुनः पतिभ्यो जायाꣳ दा अग्ने प्रजया सह
पुनः पत्नीम् अग्निर् अदाद् आयुषा सह वर्चसा । दीर्घायुर् अस्या यः पतिर् जीवाति शरदः शतम्
सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयो अग्निष् टे पतिस् तुरीयस् ते मनुष्यजाः
सोमो ददद् गन्धर्वाय गन्धर्वो ददद् अग्नये । रयिꣳ च पुत्राꣳश् चादाद् अग्निर् मह्यम् अथो इमाम्
इहैव स्तम् मा वि यौष्टꣳ विश्वम् आयुर् व्य् अश्नुतम् । क्रीळन्तौ पुत्रैर् नप्तृभिर् मोदमानौ स्वे गृहे
आ नः प्रजाꣳ जनयतु प्रजापतिर् आजरसाय सम् अनक्त्व् अर्यमा । अदुर्मङ्गलीः पतिलोकम् आ विश शꣳ नो भव द्विपदे शꣳ चतुष्पदे
अघोरचक्षुर् अपतिघ्न्य् एधि शिवा पशुभ्यः सुमनाः सुवर्चाः । वीरसूर् देवकामा स्योना शꣳ नो भव द्विपदे शꣳ चतुष्पदे
इमाꣳ त्वम् इन्द्र मीढ्वः सुपुत्राꣳ सुभगाꣳ कृणु । दशास्याम् पुत्रान् आ धेहि पतिम् एकादशꣳ कृधि
सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वाम् भव । ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु
सम् अञ्जन्तु विश्वे देवाः सम् आपो हृदयानि नौ । सम् मातरिश्वा सꣳ धाता सम् उ देष्ट्री दधातु नौ
वि हि सोतोर् असृक्षत नेन्द्रꣳ देवम् अमꣳसत । यत्रामदद् वृषाकपिर् अर्यः पुष्टेषु मत्सखा विश्वस्माद् इन्द्र उत्तरः
परा हीन्द्र धावसि वृषाकपेर् अति व्यथिः । नो अह प्र विन्दस्य् अन्यत्र सोमपीतये विश्वस्माद् इन्द्र उत्तरः
किम् अयꣳ त्वाꣳ वृषाकपिश् चकार हरितो मृगः । यस्मा इरस्यसीद् उ न्व् अ१र्यो वा पुष्टिमद् वसु विश्वस्माद् इन्द्र उत्तरः
यम् इमꣳ त्वꣳ वृषाकपिम् प्रियम् इन्द्राभिरक्षसि । श्वा न्व् अस्य जम्भिषद् अपि कर्णे वराहयुर् विश्वस्माद् इन्द्र उत्तरः
प्रिया तष्टानि मे कपिर् व्यक्ता व्य् अदूदुषत् । शिरो न्व् अस्य राविषꣳ न सुगꣳ दुष्कृते भुवꣳ विश्वस्माद् इन्द्र उत्तरः
न मत् स्त्री सुभसत्तरा न सुयाशुतरा भुवत् । न मत् प्रतिच्यवीयसी न सक्थ्य् उद्यमीयसी विश्वस्माद् इन्द्र उत्तरः
उवे अम्ब सुलाभिके यथेवाङ्ग भविष्यति । भसन् मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्माद् इन्द्र उत्तरः
किꣳ सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने । किꣳ शूरपत्नि नस् त्वम् अभ्य् अमीषि वृषाकपिꣳ विश्वस्माद् इन्द्र उत्तरः
अवीराम् इव माम् अयꣳ शरारुर् अभि मन्यते । उताहम् अस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्माद् इन्द्र उत्तरः
सꣳहोत्रꣳ स्म पुरा नारी समनꣳ वाव गच्छति । वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्माद् इन्द्र उत्तरः
इन्द्राणीम् आसु नारिषु सुभगाम् अहम् अश्रवम् । नह्य् अस्या अपरꣳ चन जरसा मरते पतिर् विश्वस्माद् इन्द्र उत्तरः
नाहम् इन्द्राणि रारण सख्युर् वृषाकपेर् ऋते । यस्येदम् अप्यꣳ हविः प्रियꣳ देवेषु गच्छति विश्वस्माद् इन्द्र उत्तरः
वृषाकपायि रेवति सुपुत्र आद् उ सुस्नुषे । घसत् त इन्द्र उक्षणः प्रियꣳ काचित्करꣳ हविर् विश्वस्माद् इन्द्र उत्तरः
उक्ष्णो हि मे पञ्चदश साकम् पचन्ति विꣳशतिम् । उताहम् अद्मि पीव इद् उभा कुक्षी पृणन्ति मे विश्वस्माद् इन्द्र उत्तरः
वृषभो न तिग्मशृङ्गो ऽन्तर् यूथेषु रोरुवत् । मन्थस् त इन्द्र शꣳ हृदे यꣳ ते सुनोति भावयुर् विश्वस्माद् इन्द्र उत्तरः
न सेशे यस्य रम्बते ऽन्तरा सक्थ्या३ कपृत् । सेद् ईशे यस्य रोमशꣳ निषेदुषो विजृम्भते विश्वस्माद् इन्द्र उत्तरः
न सेशे यस्य रोमशꣳ निषेदुषो विजृम्भते । सेद् ईशे यस्य रम्बते ऽन्तरा सक्थ्या३ कपृद् विश्वस्माद् इन्द्र उत्तरः
अयम् इन्द्र वृषाकपिः परस्वन्तꣳ हतꣳ विदत् । असिꣳ सूनाꣳ नवꣳ चरुम् आद् एधस्यान आचितꣳ विश्वस्माद् इन्द्र उत्तरः
अयम् एमि विचाकशद् विचिन्वन् दासम् आर्यम् । पिबामि पाकसुत्वनो ऽभि धीरम् अचाकशꣳ विश्वस्माद् इन्द्र उत्तरः
धन्व च यत् कृन्तत्रꣳ च कति स्वित् ता वि योजना । नेदीयसो वृषाकपे ऽस्तम् एहि गृहाꣳ उप विश्वस्माद् इन्द्र उत्तरः
पुनर् एहि वृषाकपे सुविता कल्पयावहै । य एष स्वप्ननꣳशनो ऽस्तम् एषि पथा पुनर् विश्वस्माद् इन्द्र उत्तरः
यद् उदञ्चो वृषाकपे गृहम् इन्द्राजगन्तन । क्व१ स्य पुल्वघो मृगः कम् अगञ् जनयोपनो विश्वस्माद् इन्द्र उत्तरः
पर्शुर् ह नाम मानवी साकꣳ ससूव विꣳशतिम् । भद्रम् भल त्यस्या अभूद् यस्या उदरम् आमयद् विश्वस्माद् इन्द्र उत्तरः
रक्षोहणꣳ वाजिनम् आ जिघर्मि मित्रम् प्रथिष्ठम् उप यामि शर्म । शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम्
अयोदꣳष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः । आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृक्त्व्य् अपि धत्स्वासन्
उभोभयाविन्न् उप धेहि दꣳष्ट्रा हिꣳस्रः शिशानो ऽवरम् परꣳ च । उतान्तरिक्षे परि याहि राजञ् जम्भैः सꣳ धेह्य् अभि यातुधानान्
यज्ञैर् इषूः सꣳनममानो अग्ने वाचा शल्याꣳ अशनिभिर् दिहानः । ताभिर् विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ध्य् एषाम्
अग्ने त्वचꣳ यातुधानस्य भिन्धि हिꣳस्राशनिर् हरसा हन्त्व् एनम् । प्र पर्वाणि जातवेदः शृणीहि क्रव्यात् क्रविष्णुर् वि चिनोतु वृक्णम्
यत्रेदानीम् पश्यसि जातवेदस् तिष्ठन्तम् अग्न उत वा चरन्तम् । यद् वान्तरिक्षे पथिभिः पतन्तꣳ तम् अस्ता विध्य शर्वा शिशानः
उतालब्धꣳ स्पृणुहि जातवेद आलेभानाद् ऋष्टिभिर् यातुधानात् । अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास् तम् अदन्त्व् एनीः
इह प्र ब्रूहि यतमः सो अग्ने यो यातुधानो य इदꣳ कृणोति । तम् आ रभस्व समिधा यविष्ठ नृचक्षसश् चक्षुषे रन्धयैनम्
तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञम् प्राञ्चꣳ वसुभ्यः प्र णय प्रचेतः । हिꣳस्रꣳ रक्षाꣳस्य् अभि शोशुचानम् मा त्वा दभन् यातुधाना नृचक्षः
नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्य् अग्रा । तस्याग्ने पृष्टीर् हरसा शृणीहि त्रेधा मूलꣳ यातुधानस्य वृश्च
त्रिर् यातुधानः प्रसितिꣳ त एत्व् ऋतꣳ यो अग्ने अनृतेन हन्ति । तम् अर्चिषा स्फूर्जयञ् जातवेदः समक्षम् एनꣳ गृणते नि वृङ्धि
तद् अग्ने चक्षुः प्रति धेहि रेभे शफारुजꣳ येन पश्यसि यातुधानम् । अथर्ववज् ज्योतिषा दैव्येन सत्यꣳ धूर्वन्तम् अचितꣳ न्य् ओष
यद् अग्ने अद्य मिथुना शपातो यद् वाचस् तृष्टꣳ जनयन्त रेभाः । मन्योर् मनसः शरव्या३ जायते या तया विध्य हृदये यातुधानान्
परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि । परार्चिषा मूरदेवाञ् छृणीहि परासुतृपो अभि शोशुचानः
पराद्य देवा वृजिनꣳ शृणन्तु प्रत्यग् एनꣳ शपथा यन्तु तृष्टाः । वाचास्तेनꣳ शरव ऋच्छन्तु मर्मन् विश्वस्यैतु प्रसितिꣳ यातुधानः
यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः । यो अघ्न्याया भरति क्षीरम् अग्ने तेषाꣳ शीर्षाणि हरसापि वृश्च
सꣳवत्सरीणम् पय उस्रियायास् तस्य माशीद् यातुधानो नृचक्षः । पीयूषम् अग्ने यतमस् तितृप्सात् तम् प्रत्यञ्चम् अर्चिषा विध्य मर्मन्
विषꣳ गवाꣳ यातुधानाः पिबन्त्व् आ वृश्च्यन्ताम् अदितये दुरेवाः । परैनान् देवः सविता ददातु परा भागम् ओषधीनाꣳ जयन्ताम्
सनाद् अग्ने मृणसि यातुधानान् न त्वा रक्षाꣳसि पृतनासु जिग्युः । अनु दह सहमूरान् क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः
त्वꣳ नो अग्ने अधराद् उदक्तात् त्वम् पश्चाद् उत रक्षा पुरस्तात् । प्रति ते ते अजरासस् तपिष्ठा अघशꣳसꣳ शोशुचतो दहन्तु
पश्चात् पुरस्ताद् अधराद् उदक्तात् कविः काव्येन परि पाहि राजन् । सखे सखायम् अजरो जरिम्णे ऽग्ने मर्ताꣳ अमर्त्यस् त्वꣳ नः
परि त्वाग्ने पुरꣳ वयꣳ विप्रꣳ सहस्य धीमहि । धृषद्वर्णꣳ दिवे-दिवे हन्तारम् भङ्गुरावताम्
विषेण भङ्गुरावतः प्रति ष्म रक्षसो दह । अग्ने तिग्मेन शोचिषा तपुरग्राभिर् ऋष्टिभिः
प्रत्य् अग्ने मिथुना दह यातुधाना किमीदिना । सꣳ त्वा शिशामि जागृह्य् अदब्धꣳ विप्र मन्मभिः
प्रत्य् अग्ने हरसा हरः शृणीहि विश्वतः प्रति । यातुधानस्य रक्षसो बलꣳ वि रुज वीर्यम्
हविष् पान्तम् अजरꣳ स्वर्विदि दिविस्पृश्य् आहुतꣳ जुष्टम् अग्नौ । तस्य भर्मणे भुवनाय देवा धर्मणे कꣳ स्वधया पप्रथन्त
गीर्णम् भुवनꣳ तमसापगूळ्हम् आविः स्वर् अभवज् जाते अग्नौ । तस्य देवाः पृथिवी द्यौर् उतापो ऽरणयन्न् ओषधीः सख्ये अस्य
देवेभिर् न्व् इषितो यज्ञियेभिर् अग्निꣳ स्तोषाण्य् अजरम् बृहन्तम् । यो भानुना पृथिवीꣳ द्याम् उतेमाम् आततान रोदसी अन्तरिक्षम्
यो होतासीत् प्रथमो देवजुष्टो यꣳ समाञ्जन्न् आज्येना वृणानाः । स पतत्रीत्वरꣳ स्था जगद् यच् छ्वात्रम् अग्निर् अकृणोज् जातवेदाः
यज् जातवेदो भुवनस्य मूर्धन्न् अतिष्ठो अग्ने सह रोचनेन । तꣳ त्वाहेम मतिभिर् गीर्भिर् उक्थैः स यज्ञियो अभवो रोदसिप्राः
मूर्धा भुवो भवति नक्तम् अग्निस् ततः सूर्यो जायते प्रातर् उद्यन् । मायाम् ऊ तु यज्ञियानाम् एताम् अपो यत् तूर्णिश् चरति प्रजानन्
दृशेन्यो यो महिना समिद्धो ऽरोचत दिवियोनिर् विभावा । तस्मिन्न् अग्नौ सूक्तवाकेन देवा हविर् विश्व आजुहवुस् तनूपाः
सूक्तवाकम् प्रथमम् आद् इद् अग्निम् आद् इद् धविर् अजनयन्त देवाः । स एषाꣳ यज्ञो अभवत् तनूपास् तꣳ द्यौर् वेद तम् पृथिवी तम् आपः
यꣳ देवासो ऽजनयन्ताग्निꣳ यस्मिन्न् आजुहवुर् भुवनानि विश्वा । सो अर्चिषा पृथिवीꣳ द्याम् उतेमाम् ऋजूयमानो अतपन् महित्वा
स्तोमेन हि दिवि देवासो अग्निम् अजीजनञ् छक्तिभी रोदसिप्राम् । तम् ऊ अकृण्वन् त्रेधा भुवे कꣳ स ओषधीः पचति विश्वरूपाः
यदेद् एनम् अदधुर् यज्ञियासो दिवि देवाः सूर्यम् आदितेयम् । यदा चरिष्णू मिथुनाव् अभूताम् आद् इत् प्रापश्यन् भुवनानि विश्वा
विश्वस्मा अग्निम् भुवनाय देवा वैश्वानरꣳ केतुम् अह्नाम् अकृण्वन् । आ यस् ततानोषसो विभातीर् अपो ऊर्णोति तमो अर्चिषा यन्
वैश्वानरꣳ कवयो यज्ञियासो ऽग्निꣳ देवा अजनयन्न् अजुर्यम् । नक्षत्रम् प्रत्नम् अमिनच् चरिष्णु यक्षस्याध्यक्षꣳ तविषम् बृहन्तम्
वैश्वानरꣳ विश्वहा दीदिवाꣳसम् मन्त्रैर् अग्निꣳ कविम् अच्छा वदामः । यो महिम्ना परिबभूवोर्वी उतावस्ताद् उत देवः परस्तात्
द्वे स्रुती अशृणवम् पितॄणाम् अहꣳ देवानाम् उत मर्त्यानाम् । ताभ्याम् इदꣳ विश्वम् एजत् सम् एति यद् अन्तरा पितरम् मातरꣳ च
द्वे समीची बिभृतश् चरन्तꣳ शीर्षतो जातम् मनसा विमृष्टम् । स प्रत्यङ् विश्वा भुवनानि तस्थाव् अप्रयुच्छन् तरणिर् भ्राजमानः
यत्रा वदेते अवरः परश् च यज्ञन्योः कतरो नौ वि वेद । आ शेकुर् इत् सधमादꣳ सखायो नक्षन्त यज्ञꣳ क इदꣳ वि वोचत्
कत्य् अग्नयः कति सूर्यासः कत्य् उषासः कत्य् उ स्विद् आपः । नोपस्पिजꣳ वः पितरो वदामि पृच्छामि वः कवयो विद्मने कम्
यावन्मात्रम् उषसो न प्रतीकꣳ सुपर्ण्यो३ वसते मातरिश्वः । तावद् दधात्य् उप यज्ञम् आयन् ब्राह्मणो होतुर् अवरो निषीदन्
इन्द्रꣳ स्तवा नृतमꣳ यस्य मह्ना विबबाधे रोचना वि ज्मो अन्तान् । आ यः पप्रौ चर्षणीधृद् वरोभिः प्र सिन्धुभ्यो रिरिचानो महित्वा
स सूर्यः पर्य् उरू वराꣳस्य् एन्द्रो ववृत्याद् रथ्येव चक्रा । अतिष्ठन्तम् अपस्य१ꣳ न सर्गꣳ कृष्णा तमाꣳसि त्विष्या जघान
समानम् अस्मा अनपावृद् अर्च क्ष्मया दिवो असमम् ब्रह्म नव्यम् । वि यः पृष्ठेव जनिमान्य् अर्य इन्द्रश् चिकाय न सखायम् ईषे
इन्द्राय गिरो अनिशितसर्गा अपः प्रेरयꣳ सगरस्य बुध्नात् । यो अक्षेणेव चक्रिया शचीभिर् विष्वक् तस्तम्भ पृथिवीम् उत द्याम्
आपान्तमन्युस् तृपलप्रभर्मा धुनिः शिमीवाञ् छरुमाꣳ ऋजीषी । सोमो विश्वान्य् अतसा वनानि नार्वाग् इन्द्रम् प्रतिमानानि देभुः
न यस्य द्यावापृथिवी न धन्व नान्तरिक्षꣳ नाद्रयः सोमो अक्षाः । यद् अस्य मन्युर् अधिनीयमानः शृणाति वीळु रुजति स्थिराणि
जघान वृत्रꣳ स्वधितिर् वनेव रुरोज पुरो अरदन् न सिन्धून् । बिभेद गिरिꣳ नवम् इन् न कुम्भम् आ गा इन्द्रो अकृणुत स्वयुग्भिः
त्वꣳ ह त्यद् ऋणया इन्द्र धीरो ऽसिर् न पर्व वृजिना शृणासि । प्र ये मित्रस्य वरुणस्य धाम युजꣳ न जना मिनन्ति मित्रम्
प्र ये मित्रम् प्रार्यमणꣳ दुरेवाः प्र सꣳगिरः प्र वरुणम् मिनन्ति । न्य् अ१मित्रेषु वधम् इन्द्र तुम्रꣳ वृषन् वृषाणम् अरुषꣳ शिशीहि
इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपाम् इन्द्र इत् पर्वतानाम् । इन्द्रो वृधाम् इन्द्र इन् मेधिराणाम् इन्द्रः क्षेमे योगे हव्य इन्द्रः
प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात् प्र समुद्रस्य धासेः । प्र वातस्य प्रथसः प्र ज्मो अन्तात् प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः
प्र शोशुचत्या उषसो न केतुर् असिन्वा ते वर्तताम् इन्द्र हेतिः । अश्मेव विध्य दिव आ सृजानस् तपिष्ठेन हेषसा द्रोघमित्रान्
अन्व् अह मासा अन्व् इद् वनान्य् अन्व् ओषधीर् अनु पर्वतासः । अन्व् इन्द्रꣳ रोदसी वावशाने अन्व् आपो अजिहत जायमानम्
कर्हि स्वित् सा त इन्द्र चेत्यासद् अघस्य यद् भिनदो रक्ष एषत् । मित्रक्रुवो यच् छसने न गावः पृथिव्या आपृग् अमुया शयन्ते
शत्रूयन्तो अभि ये नस् ततस्रे महि व्राधन्त ओगणास इन्द्र । अन्धेनामित्रास् तमसा सचन्ताꣳ सुज्योतिषो अक्तवस् ताꣳ अभि ष्युः
पुरूणि हि त्वा सवना जनानाम् ब्रह्माणि मन्दन् गृणताम् ऋषीणाम् । इमाम् आघोषन्न् अवसा सहूतिꣳ तिरो विश्वाꣳ अर्चतो याह्य् अर्वाङ्
एवा ते वयम् इन्द्र भुञ्जतीनाꣳ विद्याम सुमतीनाꣳ नवानाम् । विद्याम वस्तोर् अवसा गृणन्तो विश्वामित्रा उत त इन्द्र नूनम्
शुनꣳ हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमꣳ वाजसातौ । शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तꣳ वृत्राणि सꣳजितꣳ धनानाम्
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिꣳ विश्वतो वृत्वात्य् अतिष्ठद् दशाङ्गुलम्
पुरुष एवेदꣳ सर्वꣳ यद् भूतꣳ यच् च भव्यम् । उतामृतत्वस्येशानो यद् अन्नेनातिरोहति
एतावान् अस्य महिमातो ज्यायाꣳश् च पूरुषः । पादो ऽस्य विश्वा भूतानि त्रिपाद् अस्यामृतꣳ दिवि
त्रिपाद् ऊर्ध्व उद् ऐत् पुरुषः पादो ऽस्येहाभवत् पुनः । ततो विष्वङ् व्य् अक्रामत् साशनानशने अभि
तस्माद् विराळ् अजायत विराजो अधि पूरुषः । स जातो अत्य् अरिच्यत पश्चाद् भूमिम् अथो पुरः
यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत । वसन्तो अस्यासीद् आज्यꣳ ग्रीष्म इध्मः शरद् धविः
तꣳ यज्ञम् बर्हिषि प्रौक्षन् पुरुषꣳ जातम् अग्रतः । तेन देवा अयजन्त साध्या ऋषयश् च ये
तस्माद् यज्ञात् सर्वहुतः सम्भृतम् पृषदाज्यम् । पशून् ताꣳश् चक्रे वायव्यान् आरण्यान् ग्राम्याश् च ये
तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे । छन्दाꣳसि जज्ञिरे तस्माद् यजुस् तस्माद् अजायत
तस्माद् अश्वा अजायन्त ये के चोभयादतः । गावो ह जज्ञिरे तस्मात् तस्माज् जाता अजावयः
यत् पुरुषꣳ व्य् अदधुः कतिधा व्य् अकल्पयन् । मुखꣳ किम् अस्य कौ बाहू का ऊरू पादा उच्येते
ब्राह्मणो ऽस्य मुखम् आसीद् बाहू राजन्यः कृतः । ऊरू तद् अस्य यद् वैश्यः पद्भ्याꣳ शूद्रो अजायत
चन्द्रमा मनसो जातश् चक्षोः सूर्यो अजायत । मुखाद् इन्द्रश् चाग्निश् च प्राणाद् वायुर् अजायत
नाभ्या आसीद् अन्तरिक्षꣳ शीर्ष्णो द्यौः सम् अवर्तत । पद्भ्याम् भूमिर् दिशः श्रोत्रात् तथा लोकाꣳ अकल्पयन्
सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः । देवा यद् यज्ञꣳ तन्वाना अबध्नन् पुरुषम् पशुम्
यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः
सꣳ जागृवद्भिर् जरमाण इध्यते दमे दमूना इषयन्न् इळस् पदे । विश्वस्य होता हविषो वरेण्यो विभुर् विभावा सुषखा सखीयते
स दर्शतश्रीर् अतिथिर् गृहे-गृहे वने-वने शिश्रिये तक्ववीर् इव । जनꣳ-जनꣳ जन्यो नाति मन्यते विश आ क्षेति विश्यो३ विशꣳ-विशम्
सुदक्षो दक्षैः क्रतुनासि सुक्रतुर् अग्ने कविः काव्येनासि विश्ववित् । वसुर् वसूनाꣳ क्षयसि त्वम् एक इद् द्यावा च यानि पृथिवी च पुष्यतः
प्रजानन्न् अग्ने तव योनिम् ऋत्वियम् इळायास् पदे घृतवन्तम् आसदः । आ ते चिकित्र उषसाम् इवेतयो ऽरेपसः सूर्यस्येव रश्मयः
तव श्रियो वर्ष्यस्येव विद्युतश् चित्राश् चिकित्र उषसाꣳ न केतवः । यद् ओषधीर् अभिसृष्टो वनानि च परि स्वयꣳ चिनुषे अन्नम् आस्ये
तम् ओषधीर् दधिरे गर्भम् ऋत्वियꣳ तम् आपो अग्निꣳ जनयन्त मातरः । तम् इत् समानꣳ वनिनश् च वीरुधो ऽन्तर्वतीश् च सुवते च विश्वहा
वातोपधूत इषितो वशाꣳ अनु तृषु यद् अन्ना वेविषद् वितिष्ठसे । आ ते यतन्ते रथ्यो३ यथा पृथक् छर्धाꣳस्य् अग्ने अजराणि धक्षतः
मेधाकारꣳ विदथस्य प्रसाधनम् अग्निꣳ होतारम् परिभूतमम् मतिम् । तम् इद् अर्भे हविष्य् आ समानम् इत् तम् इन् महे वृणते नान्यꣳ त्वत्
त्वाम् इद् अत्र वृणते त्वायवो होतारम् अग्ने विदथेषु वेधसः । यद् देवयन्तो दधति प्रयाꣳसि ते हविष्मन्तो मनवो वृक्तबर्हिषः
तवाग्ने होत्रꣳ तव पोत्रम् ऋत्वियꣳ तव नेष्ट्रꣳ त्वम् अग्निद् ऋतायतः । तव प्रशास्त्रꣳ त्वम् अध्वरीयसि ब्रह्मा चासि गृहपतिश् च नो दमे
यस् तुभ्यम् अग्ने अमृताय मर्त्यः समिधा दाशद् उत वा हविष्कृति । तस्य होता भवसि यासि दूत्य१म् उप ब्रूषे यजस्य् अध्वरीयसि
इमा अस्मै मतयो वाचो अस्मद् आꣳ ऋचो गिरः सुष्टुतयः सम् अग्मत । वसूयवो वसवे जातवेदसे वृद्धासु चिद् वर्धनो यासु चाकनत्
इमाम् प्रत्नाय सुष्टुतिꣳ नवीयसीꣳ वोचेयम् अस्मा उशते शृणोतु नः । भूया अन्तरा हृद्य् अस्य निस्पृशे जायेव पत्य उशती सुवासाः
यस्मिन्न् अश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुताः । कीलालपे सोमपृष्ठाय वेधसे हृदा मतिꣳ जनये चारुम् अग्नये
अहाव्य् अग्ने हविर् आस्ये ते स्रुचीव घृतꣳ चम्वीव सोमः । वाजसनिꣳ रयिम् अस्मे सुवीरम् प्रशस्तꣳ धेहि यशसम् बृहन्तम्
यज्ञस्य वो रथ्यꣳ विश्पतिꣳ विशाꣳ होतारम् अक्तोर् अतिथिꣳ विभावसुम् । शोचञ् छुष्कासु हरिणीषु जर्भुरद् वृषा केतुर् यजतो द्याम् अशायत
इमम् अञ्जस्पाम् उभये अकृण्वत धर्माणम् अग्निꣳ विदथस्य साधनम् । अक्तुꣳ न यह्वम् उषसः पुरोहितꣳ तनूनपातम् अरुषस्य निꣳसते
बळ् अस्य नीथा वि पणेश् च मन्महे वया अस्य प्रहुता आसुर् अत्तवे । यदा घोरासो अमृतत्वम् आशताद् इज् जनस्य दैव्यस्य चर्किरन्
ऋतस्य हि प्रसितिर् द्यौर् उरु व्यचो नमो मह्य् अ१रमतिः पनीयसी । इन्द्रो मित्रो वरुणः सꣳ चिकित्रिरे ऽथो भगः सविता पूतदक्षसः
प्र रुद्रेण ययिना यन्ति सिन्धवस् तिरो महीम् अरमतिꣳ दधन्विरे । येभिः परिज्मा परियन्न् उरु ज्रयो वि रोरुवज् जठरे विश्वम् उक्षते
क्राणा रुद्रा मरुतो विश्वकृष्टयो दिवः श्येनासो असुरस्य नीळयः । तेभिश् चष्टे वरुणो मित्रो अर्यमेन्द्रो देवेभिर् अर्वशेभिर् अर्वशः
इन्द्रे भुजꣳ शशमानास आशत सूरो दृशीके वृषणश् च पौꣳस्ये । प्र ये न्व् अस्यार्हणा ततक्षिरे युजꣳ वज्रꣳ नृषदनेषु कारवः
सूरश् चिद् आ हरितो अस्य रीरमद् इन्द्राद् आ कश् चिद् भयते तवीयसः । भीमस्य वृष्णो जठराद् अभिश्वसो दिवे-दिवे सहुरिः स्तन्न् अबाधितः
स्तोमꣳ वो अद्य रुद्राय शिक्वसे क्षयद्वीराय नमसा दिदिष्टन । येभिः शिवः स्ववाꣳ एवयावभिर् दिवः सिषक्ति स्वयशा निकामभिः
ते हि प्रजाया अभरन्त वि श्रवो बृहस्पतिर् वृषभः सोमजामयः । यज्ञैर् अथर्वा प्रथमो वि धारयद् देवा दक्षैर् भृगवः सꣳ चिकित्रिरे
ते हि द्यावापृथिवी भूरिरेतसा नराशꣳसश् चतुरङ्गो यमो ऽदितिः । देवस् त्वष्टा द्रविणोदा ऋभुक्षणः प्र रोदसी मरुतो विष्णुर् अर्हिरे
उत स्य न उशिजाम् उर्विया कविर् अहिः शृणोतु बुध्न्यो३ हवीमनि । सूर्यामासा विचरन्ता दिविक्षिता धिया शमीनहुषी अस्य बोधतम्
प्र नः पूषा चरथꣳ विश्वदेव्यो ऽपाꣳ नपाद् अवतु वायुर् इष्टये । आत्मानꣳ वस्यो अभि वातम् अर्चत तद् अश्विना सुहवा यामनि श्रुतम्
विशाम् आसाम् अभयानाम् अधिक्षितꣳ गीर्भिर् उ स्वयशसꣳ गृणीमसि । ग्नाभिर् विश्वाभिर् अदितिम् अनर्वणम् अक्तोर् युवानꣳ नृमणा अधा पतिम्
रेभद् अत्र जनुषा पूर्वो अङ्गिरा ग्रावाण ऊर्ध्वा अभि चक्षुर् अध्वरम् । येभिर् विहाया अभवद् विचक्षणः पाथः सुमेकꣳ स्वधितिर् वनन्वति
महि द्यावापृथिवी भूतम् उर्वी नारी यह्वी न रोदसी सदꣳ नः । तेभिर् नः पातꣳ सह्यस एभिर् नः पातꣳ शूषणि
यज्ञे-यज्ञे स मर्त्यो देवान् सपर्यति । यः सुम्नैर् दीर्घश्रुत्तम आविवासत्य् एनान्
विश्वेषाम् इरज्यवो देवानाꣳ वार् महः । विश्वे हि विश्वमहसो विश्वे यज्ञेषु यज्ञियाः
ते घा राजानो अमृतस्य मन्द्रा अर्यमा मित्रो वरुणः परिज्मा । कद् रुद्रो नृणाꣳ स्तुतो मरुतः पूषणो भगः
उत नो नक्तम् अपाꣳ वृषण्वसू सूर्यामासा सदनाय सधन्या । सचा यत् साद्य् एषाम् अहिर् बुध्नेषु बुध्न्यः
उत नो देवाव् अश्विना शुभस् पती धामभिर् मित्रावरुणा उरुष्यताम् । महः स राय एषते ऽति धन्वेव दुरिता
उत नो रुद्रा चिन् मृळताम् अश्विना विश्वे देवासो रथस्पतिर् भगः । ऋभुर् वाज ऋभुक्षणः परिज्मा विश्ववेदसः
ऋभुर् ऋभुक्षा ऋभुर् विधतो मद आ ते हरी जूजुवानस्य वाजिना । दुष्टरꣳ यस्य साम चिद् ऋधग् यज्ञो न मानुषः
कृधी नो अह्रयो देव सवितः स च स्तुषे मघोनाम् । सहो न इन्द्रो वह्निभिर् न्य् एषाꣳ चर्षणीनाꣳ चक्रꣳ रश्मिꣳ न योयुवे
ऐषु द्यावापृथिवी धातम् महद् अस्मे वीरेषु विश्वचर्षणि श्रवः । पृक्षꣳ वाजस्य सातये पृक्षꣳ रायोत तुर्वणे
एतꣳ शꣳसम् इन्द्रास्मयुष् ट्वꣳ कूचित् सन्तꣳ सहसावन्न् अभिष्टये । सदा पाह्य् अभिष्टये मेदताꣳ वेदता वसो
एतम् मे स्तोमꣳ तना न सूर्ये द्युतद्यामानꣳ वावृधन्त नृणाम् । सꣳवननꣳ नाश्व्यꣳ तष्टेवानपच्युतम्
वावर्त येषाꣳ राया युक्तैषाꣳ हिरण्ययी । नेमधिता न पौꣳस्या वृथेव विष्टान्ता
प्र तद् दुःशीमे पृथवाने वेने प्र रामे वोचम् असुरे मघवत्सु । ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्य् एषाम्
अधीन् न्व् अत्र सप्ततिꣳ च सप्त च । सद्यो दिदिष्ट तान्वः सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः
प्रैते वदन्तु प्र वयꣳ वदाम ग्रावभ्यो वाचꣳ वदता वदद्भ्यः । यद् अद्रयः पर्वताः साकम् आशवः श्लोकꣳ घोषम् भरथेन्द्राय सोमिनः
एते वदन्ति शतवत् सहस्रवद् अभि क्रन्दन्ति हरितेभिर् आसभिः । विष्ट्वी ग्रावाणः सुकृतः सुकृत्यया होतुश् चित् पूर्वे हविरद्यम् आशत
एते वदन्त्य् अविदन्न् अना मधु न्य् ऊङ्खयन्ते अधि पक्व आमिषि । वृक्षस्य शाखाम् अरुणस्य बप्सतस् ते सूभर्वा वृषभाः प्रेम् अराविषुः
बृहद् वदन्ति मदिरेण मन्दिनेन्द्रꣳ क्रोशन्तो ऽविदन्न् अना मधु । सꣳरभ्या धीराः स्वसृभिर् अनर्तिषुर् आघोषयन्तः पृथिवीम् उपब्दिभिः
सुपर्णा वाचम् अक्रतोप द्यव्य् आखरे कृष्णा इषिरा अनर्तिषुः । न्य१ङ् नि यन्त्य् उपरस्य निष्कृतम् पुरू रेतो दधिरे सूर्यश्वितः
उग्रा इव प्रवहन्तः समायमुः साकꣳ युक्ता वृषणो बिभ्रतो धुरः । यच् छ्वसन्तो जग्रसाना अराविषुः शृण्व एषाम् प्रोथथो अर्वताम् इव
दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः । दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्ता वहद्भ्यः
ते अद्रयो दशयन्त्रास आशवस् तेषाम् आधानम् पर्य् एति हर्यतम् । त ऊ सुतस्य सोम्यस्यान्धसो ऽꣳशोः पीयूषम् प्रथमस्य भेजिरे
ते सोमादो हरी इन्द्रस्य निꣳसते ऽꣳशुꣳ दुहन्तो अध्य् आसते गवि । तेभिर् दुग्धम् पपिवान् सोम्यम् मध्व् इन्द्रो वर्धते प्रथते वृषायते
वृषा वो अꣳशुर् न किला रिषाथनेळावन्तः सदम् इत् स्थनाशिताः । रैवत्येव महसा चारवः स्थन यस्य ग्रावाणो अजुषध्वम् अध्वरम्
तृदिला अतृदिलासो अद्रयो ऽश्रमणा अशृथिता अमृत्यवः । अनातुरा अजराः स्थामविष्णवः सुपीवसो अतृषिता अतृष्णजः
ध्रुवा एव वः पितरो युगे-युगे क्षेमकामासः सदसो न युञ्जते । अजुर्यासो हरिषाचो हरिद्रव आ द्याꣳ रवेण पृथिवीम् अशुश्रवुः
तद् इद् वदन्त्य् अद्रयो विमोचने यामन्न् अञ्जस्पा इव घेद् उपब्दिभिः । वपन्तो बीजम् इव धान्याकृतः पृञ्चन्ति सोमꣳ न मिनन्ति बप्सतः
सुते अध्वरे अधि वाचम् अक्रता क्रीळयो न मातरꣳ तुदन्तः । वि षू मुञ्चा सुषुवुषो मनीषाꣳ वि वर्तन्ताम् अद्रयश् चायमानाः
हये जाये मनसा तिष्ठ घोरे वचाꣳसि मिश्रा कृणवावहै नु । न नौ मन्त्रा अनुदितास एते मयस् करन् परतरे चनाहन्
किम् एता वाचा कृणवा तवाहम् प्राक्रमिषम् उषसाम् अग्रियेव । पुरूरवः पुनर् अस्तम् परेहि दुरापना वात इवाहम् अस्मि
इषुर् न श्रिय इषुधेर् असना गोषाः शतसा न रꣳहिः । अवीरे क्रतौ वि दविद्युतन् नोरा न मायुꣳ चितयन्त धुनयः
सा वसु दधती श्वशुराय वय उषो यदि वष्ट्य् अन्तिगृहात् । अस्तꣳ ननक्षे यस्मिञ् चाकन् दिवा नक्तꣳ श्नथिता वैतसेन
त्रिः स्म माह्नः श्नथयो वैतसेनोत स्म मे ऽव्यत्यै पृणासि । पुरूरवो ऽनु ते केतम् आयꣳ राजा मे वीर तन्व१स् तद् आसीः
या सुजूर्णिः श्रेणिः सुम्नआपिर् ह्रदेचक्षुर् न ग्रन्थिनी चरण्युः । ता अञ्जयो ऽरुणयो न सस्रुः श्रिये गावो न धेनवो ऽनवन्त
सम् अस्मिञ् जायमान आसत ग्ना उतेम् अवर्धन् नद्य१ः स्वगूर्ताः । महे यत् त्वा पुरूरवो रणायावर्धयन् दस्युहत्याय देवाः
सचा यद् आसु जहतीष्व् अत्कम् अमानुषीषु मानुषो निषेवे । अप स्म मत् तरसन्ती न भुज्युस् ता अत्रसन् रथस्पृशो नाश्वाः
यद् आसु मर्तो अमृतासु निस्पृक् सꣳ क्षोणीभिः क्रतुभिर् न पृङ्क्ते । ता आतयो न तन्वः शुम्भत स्वा अश्वासो न क्रीळयो दन्दशानाः
विद्युन् न या पतन्ती दविद्योद् भरन्ती मे अप्या काम्यानि । जनिष्टो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घम् आयुः
जज्ञिष इत्था गोपीथ्याय हि दधाथ तत् पुरूरवो म ओजः । अशासꣳ त्वा विदुषी सस्मिन्न् अहन् न म आशृणोः किम् अभुग् वदासि
कदा सूनुः पितरꣳ जात इच्छाच् चक्रन् नाश्रु वर्तयद् विजानन् । को दम्पती समनसा वि यूयोद् अध यद् अग्निः श्वशुरेषु दीदयत्
प्रति ब्रवाणि वर्तयते अश्रु चक्रन् न क्रन्दद् आध्ये शिवायै । प्र तत् ते हिनवा यत् ते अस्मे परेह्य् अस्तꣳ नहि मूर मापः
सुदेवो अद्य प्रपतेद् अनावृत् परावतम् परमाꣳ गन्तवा उ । अधा शयीत निरृतेर् उपस्थे ऽधैनꣳ वृका रभसासो अद्युः
पुरूरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास उ क्षन् । न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणाꣳ हृदयान्य् एता
यद् विरूपाचरम् मर्त्येष्व् अवसꣳ रात्रीः शरदश् चतस्रः । घृतस्य स्तोकꣳ सकृद् अह्न आश्नाꣳ ताद् एवेदꣳ तातृपाणा चरामि
अन्तरिक्षप्राꣳ रजसो विमानीम् उप शिक्षाम्य् उर्वशीꣳ वसिष्ठः । उप त्वा रातिः सुकृतस्य तिष्ठान् नि वर्तस्व हृदयꣳ तप्यते मे
इति त्वा देवा इम आहुर् ऐळ यथेम् एतद् भवसि मृत्युबन्धुः । प्रजा ते देवान् हविषा यजाति स्वर्ग उ त्वम् अपि मादयासे
प्र ते महे विदथे शꣳसिषꣳ हरी प्र ते वन्वे वनुषो हर्यतम् मदम् । घृतꣳ न यो हरिभिश् चारु सेचत आ त्वा विशन्तु हरिवर्पसꣳ गिरः
हरिꣳ हि योनिम् अभि ये समस्वरन् हिन्वन्तो हरी दिव्यꣳ यथा सदः । आ यम् पृणन्ति हरिभिर् न धेनव इन्द्राय शूषꣳ हरिवन्तम् अर्चत
सो अस्य वज्रो हरितो य आयसो हरिर् निकामो हरिर् आ गभस्त्योः । द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे
दिवि न केतुर् अधि धायि हर्यतो विव्यचद् वज्रो हरितो न रꣳह्या । तुदद् अहिꣳ हरिशिप्रो य आयसः सहस्रशोका अभवद् धरिम्भरः
त्वꣳ-त्वम् अहर्यथा उपस्तुतः पूर्वेभिर् इन्द्र हरिकेश यज्वभिः । त्वꣳ हर्यसि तव विश्वम् उक्थ्य१म् असामि राधो हरिजात हर्यतम्
ता वज्रिणम् मन्दिनꣳ स्तोम्यम् मद इन्द्रꣳ रथे वहतो हर्यता हरी । पुरूण्य् अस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे
अरꣳ कामाय हरयो दधन्विरे स्थिराय हिन्वन् हरयो हरी तुरा । अर्वद्भिर् यो हरिभिर् जोषम् ईयते सो अस्य कामꣳ हरिवन्तम् आनशे
हरिश्मशारुर् हरिकेश आयसस् तुरस्पेये यो हरिपा अवर्धत । अर्वद्भिर् यो हरिभिर् वाजिनीवसुर् अति विश्वा दुरिता पारिषद् धरी
स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः । प्र यत् कृते चमसे मर्मृजद् धरी पीत्वा मदस्य हर्यतस्यान्धसः
उत स्म सद्म हर्यतस्य पस्त्यो३र् अत्यो न वाजꣳ हरिवाꣳ अचिक्रदत् । मही चिद् धि धिषणाहर्यद् ओजसा बृहद् वयो दधिषे हर्यतश् चिद् आ
आ रोदसी हर्यमाणो महित्वा नव्यꣳ-नव्यꣳ हर्यसि मन्म नु प्रियम् । प्र पस्त्यम् असुर हर्यतꣳ गोर् आविष् कृधि हरये सूर्याय
आ त्वा हर्यन्तम् प्रयुजो जनानाꣳ रथे वहन्तु हरिशिप्रम् इन्द्र । पिबा यथा प्रतिभृतस्य मध्वो हर्यन् यज्ञꣳ सधमादे दशोणिम्
अपाः पूर्वेषाꣳ हरिवः सुतानाम् अथो इदꣳ सवनꣳ केवलꣳ ते । ममद्धि सोमम् मधुमन्तम् इन्द्र सत्रा वृषञ् जठर आ वृषस्व
या ओषधीः पूर्वा जाता देवेभ्यस् त्रियुगम् पुरा । मनै नु बभ्रूणाम् अहꣳ शतꣳ धामानि सप्त च
शतꣳ वो अम्ब धामानि सहस्रम् उत वो रुहः । अधा शतक्रत्वो यूयम् इमम् मे अगदꣳ कृत
ओषधीः प्रति मोदध्वम् पुष्पवतीः प्रसूवरीः । अश्वा इव सजित्वरीर् वीरुधः पारयिष्ण्वः
ओषधीर् इति मातरस् तद् वो देवीर् उप ब्रुवे । सनेयम् अश्वꣳ गाꣳ वास आत्मानꣳ तव पूरुष
अश्वत्थे वो निषदनम् पर्णे वो वसतिष् कृता । गोभाज इत् किलासथ यत् सनवथ पूरुषम्
यत्रौषधीः समग्मत राजानः समिताव् इव । विप्रः स उच्यते भिषग् रक्षोहामीवचातनः
अश्वावतीꣳ सोमावतीम् ऊर्जयन्तीम् उदोजसम् । आवित्सि सर्वा ओषधीर् अस्मा अरिष्टतातये
उच् छुष्मा ओषधीनाꣳ गावो गोष्ठाद् इवेरते । धनꣳ सनिष्यन्तीनाम् आत्मानꣳ तव पूरुष
इष्कृतिर् नाम वो माताथो यूयꣳ स्थ निष्कृतीः । सीराः पतत्रिणीः स्थन यद् आमयति निष् कृथ
अति विश्वाः परिष्ठाः स्तेन इव व्रजम् अक्रमुः । ओषधीः प्राचुच्यवुर् यत् किꣳ च तन्वो३ रपः
यद् इमा वाजयन्न् अहम् ओषधीर् हस्त आदधे । आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा
यस्यौषधीः प्रसर्पथाङ्गम्-अङ्गम् परुष्-परुः । ततो यक्ष्मꣳ वि बाधध्व उग्रो मध्यमशीर् इव
साकꣳ यक्ष्म प्र पत चाषेण किकिदीविना । साकꣳ वातस्य ध्राज्या साकꣳ नश्य निहाकया
अन्या वो अन्याम् अवत्व् अन्यान्यस्या उपावत । ताः सर्वाः सꣳविदाना इदम् मे प्रावता वचः
याः फलिनीर् या अफला अपुष्पा याश् च पुष्पिणीः । बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अꣳहसः
मुञ्चन्तु मा शपथ्या३द् अथो वरुण्याद् उत । अथो यमस्य पड्बीशात् सर्वस्माद् देवकिल्बिषात्
अवपतन्तीर् अवदन् दिव ओषधयस् परि । यꣳ जीवम् अश्नवामहै न स रिष्याति पूरुषः
या ओषधीः सोमराज्ञीर् बह्वीः शतविचक्षणाः । तासाꣳ त्वम् अस्य् उत्तमारꣳ कामाय शꣳ हृदे
या ओषधीः सोमराज्ञीर् विष्ठिताः पृथिवीम् अनु । बृहस्पतिप्रसूता अस्यै सꣳ दत्त वीर्यम्
मा वो रिषत् खनिता यस्मै चाहꣳ खनामि वः । द्विपच् चतुष्पद् अस्माकꣳ सर्वम् अस्त्व् अनातुरम्
याश् चेदम् उपशृण्वन्ति याश् च दूरम् परागताः । सर्वाः सꣳगत्य वीरुधो ऽस्यै सꣳ दत्त वीर्यम्
ओषधयः सꣳ वदन्ते सोमेन सह राज्ञा । यस्मै कृणोति ब्राह्मणस् तꣳ राजन् पारयामसि
त्वम् उत्तमास्य् ओषधे तव वृक्षा उपस्तयः । उपस्तिर् अस्तु सो३ ऽस्माकꣳ यो अस्माꣳ अभिदासति
बृहस्पते प्रति मे देवताम् इहि मित्रो वा यद् वरुणो वासि पूषा । आदित्यैर् वा यद् वसुभिर् मरुत्वान् स पर्जन्यꣳ शꣳतनवे वृषाय
आ देवो दूतो अजिरश् चिकित्वान् त्वद् देवापे अभि माम् अगच्छत् । प्रतीचीनः प्रति माम् आ ववृत्स्व दधामि ते द्युमतीꣳ वाचम् आसन्
अस्मे धेहि द्युमतीꣳ वाचम् आसन् बृहस्पते अनमीवाम् इषिराम् । यया वृष्टिꣳ शꣳतनवे वनाव दिवो द्रप्सो मधुमाꣳ आ विवेश
आ नो द्रप्सा मधुमन्तो विशन्त्व् इन्द्र देह्य् अधिरथꣳ सहस्रम् । नि षीद होत्रम् ऋतुथा यजस्व देवान् देवापे हविषा सपर्य
आर्ष्टिषेणो होत्रम् ऋषिर् निषीदन् देवापिर् देवसुमतिꣳ चिकित्वान् । स उत्तरस्माद् अधरꣳ समुद्रम् अपो दिव्या असृजद् वर्ष्या अभि
अस्मिन् समुद्रे अध्य् उत्तरस्मिन्न् आपो देवेभिर् निवृता अतिष्ठन् । ता अद्रवन्न् आर्ष्टिषेणेन सृष्टा देवापिना प्रेषिता मृक्षिणीषु
यद् देवापिः शꣳतनवे पुरोहितो होत्राय वृतः कृपयन्न् अदीधेत् । देवश्रुतꣳ वृष्टिवनिꣳ रराणो बृहस्पतिर् वाचम् अस्मा अयच्छत्
यꣳ त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे । विश्वेभिर् देवैर् अनुमद्यमानः प्र पर्जन्यम् ईरया वृष्टिमन्तम्
त्वाम् पूर्व ऋषयो गीर्भिर् आयन् त्वाम् अध्वरेषु पुरुहूत विश्वे । सहस्राण्य् अधिरथान्य् अस्मे आ नो यज्ञꣳ रोहिदश्वोप याहि
एतान्य् अग्ने नवतिर् नव त्वे आहुतान्य् अधिरथा सहस्रा । तेभिर् वर्धस्व तन्वः शूर पूर्वीर् दिवो नो वृष्टिम् इषितो रिरीहि
एतान्य् अग्ने नवतिꣳ सहस्रा सम् प्र यच्छ वृष्ण इन्द्राय भागम् । विद्वान् पथ ऋतुशो देवयानान् अप्य् औलानꣳ दिवि देवेषु धेहि
अग्ने बाधस्व वि मृधो वि दुर्गहापामीवाम् अप रक्षाꣳसि सेध । अस्मात् समुद्राद् बृहतो दिवो नो ऽपाम् भूमानम् उप नः सृजेह
कꣳ नश् चित्रम् इषण्यसि चिकित्वान् पृथुग्मानꣳ वाश्रꣳ वावृधध्यै । कत् तस्य दातु शवसो व्युष्टौ तक्षद् वज्रꣳ वृत्रतुरम् अपिन्वत्
स हि द्युता विद्युता वेति साम पृथुꣳ योनिम् असुरत्वा ससाद । स सनीळेभिः प्रसहानो अस्य भ्रातुर् न ऋते सप्तथस्य मायाः
स वाजꣳ यातापदुष्पदा यन् स्वर्षाता परि षदत् सनिष्यन् । अनर्वा यच् छतदुरस्य वेदो घ्नञ् छिश्नदेवाꣳ अभि वर्पसा भूत्
स यह्व्यो३ ऽवनीर् गोष्व् अर्वा जुहोति प्रधन्यासु सस्रिः । अपादो यत्र युज्यासो ऽरथा द्रोण्यश्वास ईरते घृतꣳ वाः
स रुद्रेभिर् अशस्तवार ऋभ्वा हित्वी गयम् आरेअवद्य आगात् । वम्रस्य मन्ये मिथुना विवव्री अन्नम् अभीत्यारोदयन् मुषायन्
स इद् दासꣳ तुवीरवम् पतिर् दन् षळक्षꣳ त्रिशीर्षाणꣳ दमन्यत् । अस्य त्रितो न्व् ओजसा वृधानो विपा वराहम् अयोअग्रया हन्
स द्रुह्वणे मनुष ऊर्ध्वसान आ साविषद् अर्शसानाय शरुम् । स नृतमो नहुषो ऽस्मत् सुजातः पुरो ऽभिनद् अर्हन् दस्युहत्ये
सो अभ्रियो न यवस उदन्यन् क्षयाय गातुꣳ विदन् नो अस्मे । उप यत् सीदद् इन्दुꣳ शरीरैः श्येनो ऽयोपाष्टिर् हन्ति दस्यून्
स व्राधतः शवसानेभिर् अस्य कुत्साय शुष्णꣳ कृपणे परादात् । अयꣳ कविम् अनयच् छस्यमानम् अत्कꣳ यो अस्य सनितोत नृणाम्
अयꣳ दशस्यन् नर्येभिर् अस्य दस्मो देवेभिर् वरुणो न मायी । अयꣳ कनीन ऋतुपा अवेद्य् अमिमीताररुꣳ यश् चतुष्पात्
अस्य स्तोमेभिर् औशिज ऋजिश्वा व्रजꣳ दरयद् वृषभेण पिप्रोः । सुत्वा यद् यजतो दीदयद् गीः पुर इयानो अभि वर्पसा भूत्
एवा महो असुर वक्षथाय वम्रकः पड्भिर् उप सर्पद् इन्द्रम् । स इयानः करति स्वस्तिम् अस्मा इषम् ऊर्जꣳ सुक्षितिꣳ विश्वम् आभाः
इन्द्र दृह्य मघवन् त्वावद् इद् भुज इह स्तुतः सुतपा बोधि नो वृधे । देवेभिर् नः सविता प्रावतु श्रुतम् आ सर्वतातिम् अदितिꣳ वृणीमहे
भराय सु भरत भागम् ऋत्वियम् प्र वायवे शुचिपे क्रन्ददिष्टये । गौरस्य यः पयसः पीतिम् आनश आ सर्वतातिम् अदितिꣳ वृणीमहे
आ नो देवः सविता साविषद् वय ऋजूयते यजमानाय सुन्वते । यथा देवान् प्रतिभूषेम पाकवद् आ सर्वतातिम् अदितिꣳ वृणीमहे
इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्य् एतु नः । यथा-यथा मित्रधितानि सꣳदधुर् आ सर्वतातिम् अदितिꣳ वृणीमहे
इन्द्र उक्थेन शवसा परुर् दधे बृहस्पते प्रतरीतास्य् आयुषः । यज्ञो मनुः प्रमतिर् नः पिता हि कम् आ सर्वतातिम् अदितिꣳ वृणीमहे
इन्द्रस्य नु सुकृतꣳ दैव्यꣳ सहो ऽग्निर् गृहे जरिता मेधिरः कविः । यज्ञश् च भूद् विदथे चारुर् अन्तम आ सर्वतातिम् अदितिꣳ वृणीमहे
न वो गुहा चकृम भूरि दुष्कृतꣳ नाविष्ट्यꣳ वसवो देवहेळनम् । माकिर् नो देवा अनृतस्य वर्पस आ सर्वतातिम् अदितिꣳ वृणीमहे
अपामीवाꣳ सविता साविषन् न्य१ग् वरीय इद् अप सेधन्त्व् अद्रयः । ग्रावा यत्र मधुषुद् उच्यते बृहद् आ सर्वतातिम् अदितिꣳ वृणीमहे
ऊर्ध्वो ग्रावा वसवो ऽस्तु सोतरि विश्वा द्वेषाꣳसि सनुतर् युयोत । स नो देवः सविता पायुर् ईड्य आ सर्वतातिम् अदितिꣳ वृणीमहे
ऊर्जꣳ गावो यवसे पीवो अत्तन ऋतस्य याः सदने कोशे अङ्ग्ध्वे । तनूर् एव तन्वो अस्तु भेषजम् आ सर्वतातिम् अदितिꣳ वृणीमहे
क्रतुप्रावा जरिता शश्वताम् अव इन्द्र इद् भद्रा प्रमतिः सुतावताम् । पूर्णम् ऊधर् दिव्यꣳ यस्य सिक्तय आ सर्वतातिम् अदितिꣳ वृणीमहे
चित्रस् ते भानुः क्रतुप्रा अभिष्टिः सन्ति स्पृधो जरणिप्रा अधृष्टाः । रजिष्ठया रज्या पश्व आ गोस् तूतूर्षति पर्य् अग्रꣳ दुवस्युः
उद् बुध्यध्वꣳ समनसः सखायः सम् अग्निम् इन्ध्वम् बहवः सनीळाः । दधिक्राम् अग्निम् उषसꣳ च देवीम् इन्द्रावतो ऽवसे नि ह्वये वः
मन्द्रा कृणुध्वꣳ धिय आ तनुध्वꣳ नावम् अरित्रपरणीꣳ कृणुध्वम् । इष्कृणुध्वम् आयुधारꣳ कृणुध्वम् प्राञ्चꣳ यज्ञम् प्र णयता सखायः
युनक्त सीरा वि युगा तनुध्वꣳ कृते योनौ वपतेह बीजम् । गिरा च श्रुष्टिः सभरा असन् नो नेदीय इत् सृण्यः पक्वम् एयात्
सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् । धीरा देवेषु सुम्नया
निर् आहावान् कृणोतन सꣳ वरत्रा दधातन । सिञ्चामहा अवतम् उद्रिणꣳ वयꣳ सुषेकम् अनुपक्षितम्
इष्कृताहावम् अवतꣳ सुवरत्रꣳ सुषेचनम् । उद्रिणꣳ सिञ्चे अक्षितम्
प्रीणीताश्वान् हितꣳ जयाथ स्वस्तिवाहꣳ रथम् इत् कृणुध्वम् । द्रोणाहावम् अवतम् अश्मचक्रम् अꣳसत्रकोशꣳ सिञ्चता नृपाणम्
व्रजꣳ कृणुध्वꣳ स हि वो नृपाणो वर्म सीव्यध्वम् बहुला पृथूनि । पुरः कृणुध्वम् आयसीर् अधृष्टा मा वः सुस्रोच् चमसो दृꣳहता तम्
आ वो धियꣳ यज्ञियाꣳ वर्त ऊतये देवा देवीꣳ यजताꣳ यज्ञियाम् इह । सा नो दुहीयद् यवसेव गत्वी सहस्रधारा पयसा मही गौः
आ तू षिञ्च हरिम् ईꣳ द्रोर् उपस्थे वाशीभिस् तक्षताश्मन्मयीभिः । परि ष्वजध्वꣳ दश कक्ष्याभिर् उभे धुरौ प्रति वह्निꣳ युनक्त
उभे धुरौ वह्निर् आपिब्दमानो ऽन्तर् योनेव चरति द्विजानिः । वनस्पतिꣳ वन आस्थापयध्वꣳ नि षू दधिध्वम् अखनन्त उत्सम्
कपृन् नरः कपृथम् उद् दधातन चोदयत खुदत वाजसातये । निष्टिग्र्यः पुत्रम् आ च्यावयोतय इन्द्रꣳ सबाध इह सोमपीतये
प्र ते रथम् मिथूकृतम् इन्द्रो ऽवतु धृष्णुया । अस्मिन्न् आजौ पुरुहूत श्रवाय्ये धनभक्षेषु नो ऽव
उत् स्म वातो वहति वासो ऽस्या अधिरथꣳ यद् अजयत् सहस्रम् । रथीर् अभून् मुद्गलानी गविष्टौ भरे कृतꣳ व्य् अचेद् इन्द्रसेना
अन्तर् यच्छ जिघाꣳसतो वज्रम् इन्द्राभिदासतः । दासस्य वा मघवन्न् आर्यस्य वा सनुतर् यवया वधम्
उद्नो ह्रदम् अपिबज् जर्हृषाणः कूटꣳ स्म तृꣳहद् अभिमातिम् एति । प्र मुष्कभारः श्रव इच्छमानो ऽजिरम् बाहू अभरत् सिषासन्
न्य् अक्रन्दयन्न् उपयन्त एनम् अमेहयन् वृषभम् मध्य आजेः । तेन सूभर्वꣳ शतवत् सहस्रꣳ गवाम् मुद्गलः प्रधने जिगाय
ककर्दवे वृषभो युक्त आसीद् अवावचीत् सारथिर् अस्य केशी । दुधेर् युक्तस्य द्रवतः सहानस ऋच्छन्ति ष्मा निष्पदो मुद्गलानीम्
उत प्रधिम् उद् अहन्न् अस्य विद्वान् उपायुनग् वꣳसगम् अत्र शिक्षन् । इन्द्र उद् आवत् पतिम् अघ्न्यानाम् अरꣳहत पद्याभिः ककुद्मान्
शुनम् अष्ट्राव्य् अचरत् कपर्दी वरत्रायाꣳ दार्व् आनह्यमानः । नृम्णानि कृण्वन् बहवे जनाय गाः पस्पशानस् तविषीर् अधत्त
इमꣳ तम् पश्य वृषभस्य युञ्जꣳ काष्ठाया मध्ये द्रुघणꣳ शयानम् । येन जिगाय शतवत् सहस्रꣳ गवाम् मुद्गलः पृतनाज्येषु
आरे अघा को न्व् इ१त्था ददर्श यꣳ युञ्जन्ति तम् व् आ स्थापयन्ति । नास्मै तृणꣳ नोदकम् आ भरन्त्य् उत्तरो धुरो वहति प्रदेदिशत्
परिवृक्तेव पतिविद्यम् आनट् पीप्याना कूचक्रेणेव सिञ्चन् । एषैष्या चिद् रथ्या जयेम सुमङ्गलꣳ सिनवद् अस्तु सातम्
त्वꣳ विश्वस्य जगतश् चक्षुर् इन्द्रासि चक्षुषः । वृषा यद् आजिꣳ वृषणा सिषाससि चोदयन् वध्रिणा युजा
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश् चर्षणीनाम् । सꣳक्रन्दनो ऽनिमिष एकवीरः शतꣳ सेना अजयत् साकम् इन्द्रः
सꣳक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । तद् इन्द्रेण जयत तत् सहध्वꣳ युधो नर इषुहस्तेन वृष्णा
स इषुहस्तैः स निषङ्गिभिर् वशी सꣳस्रष्टा स युध इन्द्रो गणेन । सꣳसृष्टजित् सोमपा बाहुशर्ध्य् उ१ग्रधन्वा प्रतिहिताभिर् अस्ता
बृहस्पते परि दीया रथेन रक्षोहामित्राꣳ अपबाधमानः । प्रभञ्जन् सेनाः प्रमृणो युधा जयन्न् अस्माकम् एध्य् अविता रथानाम्
बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः । अभिवीरो अभिसत्वा सहोजा जैत्रम् इन्द्र रथम् आ तिष्ठ गोवित्
गोत्रभिदꣳ गोविदꣳ वज्रबाहुꣳ जयन्तम् अज्म प्रमृणन्तम् ओजसा । इमꣳ सजाता अनु वीरयध्वम् इन्द्रꣳ सखायो अनु सꣳ रभध्वम्
अभि गोत्राणि सहसा गाहमानो ऽदयो वीरः शतमन्युर् इन्द्रः । दुश्च्यवनः पृतनाषाळ् अयुध्यो३ ऽस्माकꣳ सेना अवतु प्र युत्सु
इन्द्र आसाꣳ नेता बृहस्पतिर् दक्षिणा यज्ञः पुर एतु सोमः । देवसेनानाम् अभिभञ्जतीनाꣳ जयन्तीनाम् मरुतो यन्त्व् अग्रम्
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानाम् मरुताꣳ शर्ध उग्रम् । महामनसाम् भुवनच्यवानाꣳ घोषो देवानाꣳ जयताम् उद् अस्थात्
उद् धर्षय मघवन्न् आयुधान्य् उत् सत्वनाम् मामकानाम् मनाꣳसि । उद् वृत्रहन् वाजिनाꣳ वाजिनान्य् उद् रथानाꣳ जयताꣳ यन्तु घोषाः
अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकꣳ या इषवस् ता जयन्तु । अस्माकꣳ वीरा उत्तरे भवन्त्व् अस्माꣳ उ देवा अवता हवेषु
अमीषाꣳ चित्तम् प्रतिलोभयन्ती गृहाणाङ्गान्य् अप्वे परेहि । अभि प्रेहि निर् दह हृत्सु शोकैर् अन्धेनामित्रास् तमसा सचन्ताम्
प्रेता जयता नर इन्द्रो वः शर्म यच्छतु । उग्रा वः सन्तु बाहवो ऽनाधृष्या यथासथ
असावि सोमः पुरुहूत तुभ्यꣳ हरिभ्याꣳ यज्ञम् उप याहि तूयम् । तुभ्यꣳ गिरो विप्रवीरा इयाना दधन्विर इन्द्र पिबा सुतस्य
अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरम् पृणस्व । मिमिक्षुर् यम् अद्रय इन्द्र तुभ्यꣳ तेभिर् वर्धस्व मदम् उक्थवाहः
प्रोग्राम् पीतिꣳ वृष्ण इयर्मि सत्याम् प्रयै सुतस्य हर्यश्व तुभ्यम् । इन्द्र धेनाभिर् इह मादयस्व धीभिर् विश्वाभिः शच्या गृणानः
ऊती शचीवस् तव वीर्येण वयो दधाना उशिज ऋतज्ञाः । प्रजावद् इन्द्र मनुषो दुरोणे तस्थुर् गृणन्तः सधमाद्यासः
प्रणीतिभिष् टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचो जनासः । मꣳहिष्ठाम् ऊतिꣳ वितिरे दधानाः स्तोतार इन्द्र तव सूनृताभिः
उप ब्रह्माणि हरिवो हरिभ्याꣳ सोमस्य याहि पीतये सुतस्य । इन्द्र त्वा यज्ञः क्षममाणम् आनड् दाश्वाꣳ अस्य् अध्वरस्य प्रकेतः
सहस्रवाजम् अभिमातिषाहꣳ सुतेरणम् मघवानꣳ सुवृक्तिम् । उप भूषन्ति गिरो अप्रतीतम् इन्द्रꣳ नमस्या जरितुः पनन्त
सप्तापो देवीः सुरणा अमृक्ता याभिः सिन्धुम् अतर इन्द्र पूर्भित् । नवतिꣳ स्रोत्या नव च स्रवन्तीर् देवेभ्यो गातुम् मनुषे च विन्दः
अपो महीर् अभिशस्तेर् अमुञ्चो ऽजागर् आस्व् अधि देव एकः । इन्द्र यास् त्वꣳ वृत्रतूर्ये चकर्थ ताभिर् विश्वायुस् तन्वम् पुपुष्याः
वीरेण्यः क्रतुर् इन्द्रः सुशस्तिर् उतापि धेना पुरुहूतम् ईट्टे । आर्दयद् वृत्रम् अकृणोद् उ लोकꣳ ससाहे शक्रः पृतना अभिष्टिः
शुनꣳ हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमꣳ वाजसातौ । शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तꣳ वृत्राणि सꣳजितꣳ धनानाम्
कदा वसो स्तोत्रꣳ हर्यत आव श्मशा रुधद् वाः । दीर्घꣳ सुतꣳ वाताप्याय
हरी यस्य सुयुजा विव्रता वेर् अर्वन्तानु शेपा । उभा रजी न केशिना पतिर् दन्
अप योर् इन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान् । शुभे यद् युयुजे तविषीवान्
सचायोर् इन्द्रश् चर्कृष आꣳ उपानसः सपर्यन् । नदयोर् विव्रतयोः शूर इन्द्रः
अधि यस् तस्थौ केशवन्ता व्यचस्वन्ता न पुष्ट्यै । वनोति शिप्राभ्याꣳ शिप्रिणीवान्
प्रास्तौद् ऋष्वौजा ऋष्वेभिस् ततक्ष शूरः शवसा । ऋभुर् न क्रतुभिर् मातरिश्वा
वज्रꣳ यश् चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान् । अरुतहनुर् अद्भुतꣳ न रजः
अव नो वृजिना शिशीह्य् ऋचा वनेमानृचः । नाब्रह्मा यज्ञ ऋधग् जोषति त्वे
ऊर्ध्वा यत् ते त्रेतिनी भूद् यज्ञस्य धूर्षु सद्मन् । सजूर् नावꣳ स्वयशसꣳ सचायोः
श्रिये ते पृश्निर् उपसेचनी भूच् छ्रिये दर्विर् अरेपाः । यया स्वे पात्रे सिञ्चस उत्
शतꣳ वा यद् असुर्य प्रति त्वा सुमित्र इत्थास्तौद् दुर्मित्र इत्थास्तौत् । आवो यद् दस्युहत्ये कुत्सपुत्रम् प्रावो यद् दस्युहत्ये कुत्सवत्सम्
उभा उ नूनꣳ तद् इद् अर्थयेथे वि तन्वाथे धियो वस्त्रापसेव । सध्रीचीना यातवे प्रेम् अजीगः सुदिनेव पृक्ष आ तꣳसयेथे
उष्टारेव फर्वरेषु श्रयेथे प्रायोगेव श्वात्र्या शासुर् एथः । दूतेव हि ष्ठो यशसा जनेषु माप स्थातम् महिषेवावपानात्
साकꣳयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुर् आ गमिष्टम् । अग्निर् इव देवयोर् दीदिवाꣳसा परिज्मानेव यजथः पुरुत्रा
आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नृपतीव तुर्यै । इर्येव पुष्ट्यै किरणेव भुज्यै श्रुष्टीवानेव हवम् आ गमिष्टम्
वꣳसगेव पूषर्या शिम्बाता मित्रेव ऋता शतरा शातपन्ता । वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषा सपर्या३ पुरीषा
सृण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरी पर्फरीका । उदन्यजेव जेमना मदेरू ता मे जराय्व् अजरम् मरायु
पज्रेव चर्चरꣳ जारम् मरायु क्षद्मेवार्थेषु तर्तरीथ उग्रा । ऋभू नापत् खरमज्रा खरज्रुर् वायुर् न पर्फरत् क्षयद् रयीणाम्
घर्मेव मधु जठरे सनेरू भगेविता तुर्फरी फारिवारम् । पतरेव चचरा चन्द्रनिर्णिङ् मनऋङ्गा मनन्या३ न जग्मी
बृहन्तेव गम्भरेषु प्रतिष्ठाम् पादेव गाधꣳ तरते विदाथः । कर्णेव शासुर् अनु हि स्मराथो ऽꣳशेव नो भजतꣳ चित्रम् अप्नः
आरङ्गरेव मध्व् एरयेथे सारघेव गवि नीचीनबारे । कीनारेव स्वेदम् आसिष्विदाना क्षामेवोर्जा सूयवसात् सचेथे
ऋध्याम स्तोमꣳ सनुयाम वाजम् आ नो मन्त्रꣳ सरथेहोप यातम् । यशो न पक्वम् मधु गोष्व् अन्तर् आ भूताꣳशो अश्विनोः कामम् अप्राः
आविर् अभून् महि माघोनम् एषाꣳ विश्वꣳ जीवꣳ तमसो निर् अमोचि । महि ज्योतिः पितृभिर् दत्तम् आगाद् उरुः पन्था दक्षिणाया अदर्शि
उच्चा दिवि दक्षिणावन्तो अस्थुर् ये अश्वदाः सह ते सूर्येण । हिरण्यदा अमृतत्वम् भजन्ते वासोदाः सोम प्र तिरन्त आयुः
दैवी पूर्तिर् दक्षिणा देवयज्या न कवारिभ्यो नहि ते पृणन्ति । अथा नरः प्रयतदक्षिणासो ऽवद्यभिया बहवः पृणन्ति
शतधारꣳ वायुम् अर्कꣳ स्वर्विदꣳ नृचक्षसस् ते अभि चक्षते हविः । ये पृणन्ति प्र च यच्छन्ति सꣳगमे ते दक्षिणाꣳ दुहते सप्तमातरम्
दक्षिणावान् प्रथमो हूत एति दक्षिणावान् ग्रामणीर् अग्रम् एति । तम् एव मन्ये नृपतिꣳ जनानाꣳ यः प्रथमो दक्षिणाम् आविवाय
तम् एव ऋषिꣳ तम् उ ब्रह्माणम् आहुर् यज्ञन्यꣳ सामगाम् उक्थशासम् । स शुक्रस्य तन्वो वेद तिस्रो यः प्रथमो दक्षिणया रराध
दक्षिणाश्वꣳ दक्षिणा गाꣳ ददाति दक्षिणा चन्द्रम् उत यद् धिरण्यम् । दक्षिणान्नꣳ वनुते यो न आत्मा दक्षिणाꣳ वर्म कृणुते विजानन्
न भोजा मम्रुर् न न्यर्थम् ईयुर् न रिष्यन्ति न व्यथन्ते ह भोजाः । इदꣳ यद् विश्वम् भुवनꣳ स्वश् चैतत् सर्वꣳ दक्षिणैभ्यो ददाति
भोजा जिग्युः सुरभिꣳ योनिम् अग्रे भोजा जिग्युर् वध्व१ꣳ या सुवासाः । भोजा जिग्युर् अन्तःपेयꣳ सुराया भोजा जिग्युर् ये अहूताः प्रयन्ति
भोजायाश्वꣳ सम् मृजन्त्य् आशुम् भोजायास्ते कन्या३ शुम्भमाना । भोजस्येदम् पुष्करिणीव वेश्म परिष्कृतꣳ देवमानेव चित्रम्
भोजम् अश्वाः सुष्ठुवाहो वहन्ति सुवृद् रथो वर्तते दक्षिणायाः । भोजꣳ देवासो ऽवता भरेषु भोजः शत्रून् समनीकेषु जेता
किम् इच्छन्ती सरमा प्रेदम् आनड् दूरे ह्य् अध्वा जगुरिः पराचैः । कास्मेहितिः का परितक्म्यासीत् कथꣳ रसाया अतरः पयाꣳसि
इन्द्रस्य दूतीर् इषिता चरामि मह इच्छन्ती पणयो निधीन् वः । अतिष्कदो भियसा तन् न आवत् तथा रसाया अतरम् पयाꣳसि
कीदृङ्ङ् इन्द्रः सरमे का दृशीका यस्येदꣳ दूतीर् असरः पराकात् । आ च गच्छान् मित्रम् एना दधामाथा गवाꣳ गोपतिर् नो भवाति
नाहꣳ तꣳ वेद दभ्यꣳ दभत् स यस्येदꣳ दूतीर् असरम् पराकात् । न तꣳ गूहन्ति स्रवतो गभीरा हता इन्द्रेण पणयः शयध्वे
इमा गावः सरमे या ऐच्छः परि दिवो अन्तान् सुभगे पतन्ती । कस् त एना अव सृजाद् अयुध्व्य् उतास्माकम् आयुधा सन्ति तिग्मा
असेन्या वः पणयो वचाꣳस्य् अनिषव्यास् तन्वः सन्तु पापीः । अधृष्टो व एतवा अस्तु पन्था बृहस्पतिर् व उभया न मृळात्
अयꣳ निधिः सरमे अद्रिबुध्नो गोभिर् अश्वेभिर् वसुभिर् न्यृष्टः । रक्षन्ति तम् पणयो ये सुगोपा रेकु पदम् अलकम् आ जगन्थ
एह गमन्न् ऋषयः सोमशिता अयास्यो अङ्गिरसो नवग्वाः । त एतम् ऊर्वꣳ वि भजन्त गोनाम् अथैतद् वचः पणयो वमन्न् इत्
एवा च त्वꣳ सरम आजगन्थ प्रबाधिता सहसा दैव्येन । स्वसारꣳ त्वा कृणवै मा पुनर् गा अप ते गवाꣳ सुभगे भजाम
नाहꣳ वेद भ्रातृत्वꣳ नो स्वसृत्वम् इन्द्रो विदुर् अङ्गिरसश् च घोराः । गोकामा मे अच्छदयन् यद् आयम् अपात इत पणयो वरीयः
दूरम् इत पणयो वरीय उद् गावो यन्तु मिनतीर् ऋतेन । बृहस्पतिर् या अविन्दन् निगूळ्हाः सोमो ग्रावाण ऋषयश् च विप्राः
ते ऽवदन् प्रथमा ब्रह्मकिल्बिषे ऽकूपारः सलिलो मातरिश्वा । वीळुहरास् तप उग्रो मयोभूर् आपो देवीः प्रथमजा ऋतेन
सोमो राजा प्रथमो ब्रह्मजायाम् पुनः प्रायच्छद् अहृणीयमानः । अन्वर्तिता वरुणो मित्र आसीद् अग्निर् होता हस्तगृह्या निनाय
हस्तेनैव ग्राह्य आधिर् अस्या ब्रह्मजायेयम् इति चेद् अवोचन् । न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रꣳ गुपितꣳ क्षत्रियस्य
देवा एतस्याम् अवदन्त पूर्वे सप्तऋषयस् तपसे ये निषेदुः । भीमा जाया ब्राह्मणस्योपनीता दुर्धाꣳ दधाति परमे व्योमन्
ब्रह्मचारी चरति वेविषद् विषः स देवानाम् भवत्य् एकम् अङ्गम् । तेन जायाम् अन्व् अविन्दद् बृहस्पतिः सोमेन नीताꣳ जुह्व१ꣳ न देवाः
पुनर् वै देवा अददुः पुनर् मनुष्या उत । राजानः सत्यꣳ कृण्वाना ब्रह्मजायाम् पुनर् ददुः
पुनर्दाय ब्रह्मजायाꣳ कृत्वी देवैर् निकिल्बिषम् । ऊर्जम् पृथिव्या भक्त्वायोरुगायम् उपासते
समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः । आ च वह मित्रमहश् चिकित्वान् त्वꣳ दूतः कविर् असि प्रचेताः
तनूनपात् पथ ऋतस्य यानान् मध्वा समञ्जन् स्वदया सुजिह्व । मन्मानि धीभिर् उत यज्ञम् ऋन्धन् देवत्रा च कृणुह्य् अध्वरꣳ नः
आजुह्वान ईड्यो वन्द्यश् चा याह्य् अग्ने वसुभिः सजोषाः । त्वꣳ देवानाम् असि यह्व होता स एनान् यक्षीषितो यजीयान्
प्राचीनम् बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते अग्रे अह्नाम् । व्य् उ प्रथते वितरꣳ वरीयो देवेभ्यो अदितये स्योनम्
व्यचस्वतीर् उर्विया वि श्रयन्ताम् पतिभ्यो न जनयः शुम्भमानाः । देवीर् द्वारो बृहतीर् विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः
आ सुष्वयन्ती यजते उपाके उषासानक्ता सदताꣳ नि योनौ । दिव्ये योषणे बृहती सुरुक्मे अधि श्रियꣳ शुक्रपिशꣳ दधाने
दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञम् मनुषो यजध्यै । प्रचोदयन्ता विदथेषु कारू प्राचीनꣳ ज्योतिः प्रदिशा दिशन्ता
आ नो यज्ञम् भारती तूयम् एत्व् इळा मनुष्वद् इह चेतयन्ती । तिस्रो देवीर् बर्हिर् एदꣳ स्योनꣳ सरस्वती स्वपसः सदन्तु
य इमे द्यावापृथिवी जनित्री रूपैर् अपिꣳशद् भुवनानि विश्वा । तम् अद्य होतर् इषितो यजीयान् देवꣳ त्वष्टारम् इह यक्षि विद्वान्
उपावसृज त्मन्या समञ्जन् देवानाम् पाथ ऋतुथा हवीꣳषि । वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यम् मधुना घृतेन
सद्यो जातो व्य् अमिमीत यज्ञम् अग्निर् देवानाम् अभवत् पुरोगाः । अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतꣳ हविर् अदन्तु देवाः
मनीषिणः प्र भरध्वम् मनीषाꣳ यथा-यथा मतयः सन्ति नृणाम् । इन्द्रꣳ सत्यैर् एरयामा कृतेभिः स हि वीरो गिर्वणस्युर् विदानः
ऋतस्य हि सदसो धीतिर् अद्यौत् सꣳ गार्ष्टेयो वृषभो गोभिर् आनट् । उद् अतिष्ठत् तविषेणा रवेण महान्ति चित् सꣳ विव्याचा रजाꣳसि
इन्द्रः किल श्रुत्या अस्य वेद स हि जिष्णुः पथिकृत् सूर्याय । आन् मेनाꣳ कृण्वन्न् अच्युतो भुवद् गोः पतिर् दिवः सनजा अप्रतीतः
इन्द्रो मह्ना महतो अर्णवस्य व्रतामिनाद् अङ्गिरोभिर् गृणानः । पुरूणि चिन् नि तताना रजाꣳसि दाधार यो धरुणꣳ सत्यताता
इन्द्रो दिवः प्रतिमानम् पृथिव्या विश्वा वेद सवना हन्ति शुष्णम् । महीꣳ चिद् द्याम् आतनोत् सूर्येण चास्कम्भ चित् कम्भनेन स्कभीयान्
वज्रेण हि वृत्रहा वृत्रम् अस्तर् अदेवस्य शूशुवानस्य मायाः । वि धृष्णो अत्र धृषता जघन्थाथाभवो मघवन् बाह्वोजाः
सचन्त यद् उषसः सूर्येण चित्राम् अस्य केतवो राम् अविन्दन् । आ यन् नक्षत्रꣳ ददृशे दिवो न पुनर् यतो नकिर् अद्धा नु वेद
दूरꣳ किल प्रथमा जग्मुर् आसाम् इन्द्रस्य याः प्रसवे सस्रुर् आपः । क्व स्विद् अग्रꣳ क्व बुध्न आसाम् आपो मध्यꣳ क्व वो नूनम् अन्तः
सृजः सिन्धूꣳर् अहिना जग्रसानाꣳ आद् इद् एताः प्र विविज्रे जवेन । मुमुक्षमाणा उत या मुमुच्रे ऽधेद् एता न रमन्ते नितिक्ताः
सध्रीचीः सिन्धुम् उशतीर् इवायन् सनाज् जार आरितः पूर्भिद् आसाम् । अस्तम् आ ते पार्थिवा वसून्य् अस्मे जग्मुः सूनृता इन्द्र पूर्वीः
इन्द्र पिब प्रतिकामꣳ सुतस्य प्रातःसावस् तव हि पूर्वपीतिः । हर्षस्व हन्तवे शूर शत्रून् उक्थेभिष् टे वीर्या३ प्र ब्रवाम
यस् ते रथो मनसो जवीयान् एन्द्र तेन सोमपेयाय याहि । तूयम् आ ते हरयः प्र द्रवन्तु येभिर् यासि वृषभिर् मन्दमानः
हरित्वता वर्चसा सूर्यस्य श्रेष्ठै रूपैस् तन्वꣳ स्पर्शयस्व । अस्माभिर् इन्द्र सखिभिर् हुवानः सध्रीचीनो मादयस्वा निषद्य
यस्य त्यत् ते महिमानम् मदेष्व् इमे मही रोदसी नाविविक्ताम् । तद् ओक आ हरिभिर् इन्द्र युक्तैः प्रियेभिर् याहि प्रियम् अन्नम् अच्छ
यस्य शश्वत् पपिवाꣳ इन्द्र शत्रून् अनानुकृत्या रण्या चकर्थ । स ते पुरꣳधिꣳ तविषीम् इयर्ति स ते मदाय सुत इन्द्र सोमः
इदꣳ ते पात्रꣳ सनवित्तम् इन्द्र पिबा सोमम् एना शतक्रतो । पूर्ण आहावो मदिरस्य मध्वो यꣳ विश्व इद् अभिहर्यन्ति देवाः
वि हि त्वाम् इन्द्र पुरुधा जनासो हितप्रयसो वृषभ ह्वयन्ते । अस्माकꣳ ते मधुमत्तमानीमा भुवन् सवना तेषु हर्य
प्र त इन्द्र पूर्व्याणि प्र नूनꣳ वीर्या वोचम् प्रथमा कृतानि । सतीनमन्युर् अश्रथायो अद्रिꣳ सुवेदनाम् अकृणोर् ब्रह्मणे गाम्
नि षु सीद गणपते गणेषु त्वाम् आहुर् विप्रतमꣳ कवीनाम् । न ऋते त्वत् क्रियते किꣳ चनारे महाम् अर्कम् मघवञ् चित्रम् अर्च
अभिख्या नो मघवन् नाधमानान् सखे बोधि वसुपते सखीनाम् । रणꣳ कृधि रणकृत् सत्यशुष्माभक्ते चिद् आ भजा राये अस्मान्
तम् अस्य द्यावापृथिवी सचेतसा विश्वेभिर् देवैर् अनु शुष्मम् आवताम् । यद् ऐत् कृण्वानो महिमानम् इन्द्रियम् पीत्वी सोमस्य क्रतुमाꣳ अवर्धत
तम् अस्य विष्णुर् महिमानम् ओजसाꣳशुꣳ दधन्वान् मधुनो वि रप्शते । देवेभिर् इन्द्रो मघवा सयावभिर् वृत्रꣳ जघन्वाꣳ अभवद् वरेण्यः
वृत्रेण यद् अहिना बिभ्रद् आयुधा समस्थिथा युधये शꣳसम् आविदे । विश्वे ते अत्र मरुतः सह त्मनावर्धन्न् उग्र महिमानम् इन्द्रियम्
जज्ञान एव व्य् अबाधत स्पृधः प्रापश्यद् वीरो अभि पौꣳस्यꣳ रणम् । अवृश्चद् अद्रिम् अव सस्यदः सृजद् अस्तभ्नान् नाकꣳ स्वपस्यया पृथुम्
आद् इन्द्रः सत्रा तविषीर् अपत्यत वरीयो द्यावापृथिवी अबाधत । अवाभरद् धृषितो वज्रम् आयसꣳ शेवम् मित्राय वरुणाय दाशुषे
इन्द्रस्यात्र तविषीभ्यो विरप्शिन ऋघायतो अरꣳहयन्त मन्यवे । वृत्रꣳ यद् उग्रो व्य् अवृश्चद् ओजसापो बिभ्रतꣳ तमसा परीवृतम्
या वीर्याणि प्रथमानि कर्त्वा महित्वेभिर् यतमानौ समीयतुः । ध्वान्तꣳ तमो ऽव दध्वसे हत इन्द्रो मह्ना पूर्वहूताव् अपत्यत
विश्वे देवासो अध वृष्ण्यानि ते ऽवर्धयन् सोमवत्या वचस्यया । रद्धꣳ वृत्रम् अहिम् इन्द्रस्य हन्मनाग्निर् न जम्भैस् तृष्व् अन्नम् आवयत्
भूरि दक्षेभिर् वचनेभिर् ऋक्वभिः सख्येभिः सख्यानि प्र वोचत । इन्द्रो धुनिꣳ च चुमुरिꣳ च दम्भयञ् छ्रद्धामनस्या शृणुते दभीतये
त्वम् पुरूण्य् आ भरा स्वश्व्या येभिर् मꣳसै निवचनानि शꣳसन् । सुगेभिर् विश्वा दुरिता तरेम विदो षु ण उर्विया गाधम् अद्य
घर्मा समन्ता त्रिवृतꣳ व्य् आपतुस् तयोर् जुष्टिम् मातरिश्वा जगाम । दिवस् पयो दिधिषाणा अवेषन् विदुर् देवाः सहसामानम् अर्कम्
तिस्रो देष्ट्राय निरृतीर् उपासते दीर्घश्रुतो वि हि जानन्ति वह्नयः । तासाꣳ नि चिक्युः कवयो निदानम् परेषु या गुह्येषु व्रतेषु
चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते । तस्याꣳ सुपर्णा वृषणा नि षेदतुर् यत्र देवा दधिरे भागधेयम्
एकः सुपर्णः स समुद्रम् आ विवेश स इदꣳ विश्वम् भुवनꣳ वि चष्टे । तम् पाकेन मनसापश्यम् अन्तितस् तम् माता रेळ्हि स उ रेळ्हि मातरम्
सुपर्णꣳ विप्राः कवयो वचोभिर् एकꣳ सन्तम् बहुधा कल्पयन्ति । छन्दाꣳसि च दधतो अध्वरेषु ग्रहान् सोमस्य मिमते द्वादश
षट्त्रिꣳशाꣳश् च चतुरः कल्पयन्तश् छन्दाꣳसि च दधत आद्वादशम् । यज्ञꣳ विमाय कवयो मनीष ऋक्सामाभ्याम् प्र रथꣳ वर्तयन्ति
चतुर्दशान्ये महिमानो अस्य तꣳ धीरा वाचा प्र णयन्ति सप्त । आप्नानꣳ तीर्थꣳ क इह प्र वोचद् येन पथा प्रपिबन्ते सुतस्य
सहस्रधा पञ्चदशान्य् उक्था यावद् द्यावापृथिवी तावद् इत् तत् । सहस्रधा महिमानः सहस्रꣳ यावद् ब्रह्म विष्ठितꣳ तावती वाक्
कश् छन्दसाꣳ योगम् आ वेद धीरः को धिष्ण्याम् प्रति वाचम् पपाद । कम् ऋत्विजाम् अष्टमꣳ शूरम् आहुर् हरी इन्द्रस्य नि चिकाय कः स्वित्
भूम्या अन्तम् पर्य् एके चरन्ति रथस्य धूर्षु युक्तासो अस्थुः । श्रमस्य दायꣳ वि भजन्त्य् एभ्यो यदा यमो भवति हर्म्ये हितः
चित्र इच् छिशोस् तरुणस्य वक्षथो न यो मातराव् अप्येति धातवे । अनूधा यदि जीजनद् अधा च नु ववक्ष सद्यो महि दूत्य१ꣳ चरन्
अग्निर् ह नाम धायि दन्न् अपस्तमः सꣳ यो वना युवते भस्मना दता । अभिप्रमुरा जुह्वा स्वध्वर इनो न प्रोथमानो यवसे वृषा
तꣳ वो विꣳ न द्रुषदꣳ देवम् अन्धस इन्दुम् प्रोथन्तम् प्रवपन्तम् अर्णवम् । आसा वह्निꣳ न शोचिषा विरप्शिनम् महिव्रतꣳ न सरजन्तम् अध्वनः
वि यस्य ते ज्रयसानस्याजर धक्षोर् न वाताः परि सन्त्य् अच्युताः । आ रण्वासो युयुधयो न सत्वनꣳ त्रितꣳ नशन्त प्र शिषन्त इष्टये
स इद् अग्निः कण्वतमः कण्वसखार्यः परस्यान्तरस्य तरुषः । अग्निः पातु गृणतो अग्निः सूरीन् अग्निर् ददातु तेषाम् अवो नः
वाजिन्तमाय सह्यसे सुपित्र्य तृषु च्यवानो अनु जातवेदसे । अनुद्रे चिद् यो धृषता वरꣳ सते महिन्तमाय धन्वनेद् अविष्यते
एवाग्निर् मर्तैः सह सूरिभिर् वसुः ष्टवे सहसः सूनरो नृभिः । मित्रासो न ये सुधिता ऋतायवो द्यावो न द्युम्नैर् अभि सन्ति मानुषान्
ऊर्जो नपात् सहसावन्न् इति त्वोपस्तुतस्य वन्दते वृषा वाक् । त्वाꣳ स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरꣳ दधानाः
इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुतास ऋषयो ऽवोचन् । ताꣳश् च पाहि गृणतश् च सूरीन् वषड् वषळ् इत्य् ऊर्ध्वासो अनक्षन् नमो नम इत्य् ऊर्ध्वासो अनक्षन्
पिबा सोमम् महत इन्द्रियाय पिबा वृत्राय हन्तवे शविष्ठ । पिब राये शवसे हूयमानः पिब मध्वस् तृपद् इन्द्रा वृषस्व
अस्य पिब क्षुमतः प्रस्थितस्येन्द्र सोमस्य वरम् आ सुतस्य । स्वस्तिदा मनसा मादयस्वार्वाचीनो रेवते सौभगाय
ममत्तु त्वा दिव्यः सोम इन्द्र ममत्तु यः सूयते पार्थिवेषु । ममत्तु येन वरिवश् चकर्थ ममत्तु येन निरिणासि शत्रून्
आ द्विबर्हा अमिनो यात्व् इन्द्रो वृषा हरिभ्याम् परिषिक्तम् अन्धः । गव्य् आ सुतस्य प्रभृतस्य मध्वः सत्रा खेदाम् अरुशहा वृषस्व
नि तिग्मानि भ्राशयन् भ्राश्यान्य् अव स्थिरा तनुहि यातुजूनाम् । उग्राय ते सहो बलꣳ ददामि प्रतीत्या शत्रून् विगदेषु वृश्च
व्य् अ१र्य इन्द्र तनुहि श्रवाꣳस्य् ओजः स्थिरेव धन्वनो ऽभिमातीः । अस्मद्र्यग् वावृधानः सहोभिर् अनिभृष्टस् तन्वꣳ वावृधस्व
इदꣳ हविर् मघवन् तुभ्यꣳ रातम् प्रति सम्राळ् अहृणानो गृभाय । तुभ्यꣳ सुतो मघवन् तुभ्यम् पक्वो३ ऽद्धीन्द्र पिब च प्रस्थितस्य
अद्धीद् इन्द्र प्रस्थितेमा हवीꣳषि चनो दधिष्व पचतोत सोमम् । प्रयस्वन्तः प्रति हर्यामसि त्वा सत्याः सन्तु यजमानस्य कामाः
प्रेन्द्राग्निभ्याꣳ सुवचस्याम् इयर्मि सिन्धाव् इव प्रेरयꣳ नावम् अर्कैः । अया इव परि चरन्ति देवा ये अस्मभ्यꣳ धनदा उद्भिदश् च
न वा उ देवाः क्षुधम् इद् वधꣳ ददुर् उताशितम् उप गच्छन्ति मृत्यवः । उतो रयिः पृणतो नोप दस्यत्य् उतापृणन् मर्डितारꣳ न विन्दते
य आध्राय चकमानाय पित्वो ऽन्नवान् सन् रफितायोपजग्मुषे । स्थिरम् मनः कृणुते सेवते पुरोतो चित् स मर्डितारꣳ न विन्दते
स इद् भोजो यो गृहवे ददात्य् अन्नकामाय चरते कृशाय । अरम् अस्मै भवति यामहूता उतापरीषु कृणुते सखायम्
न स सखा यो न ददाति सख्ये सचाभुवे सचमानाय पित्वः । अपास्मात् प्रेयान् न तद् ओको अस्ति पृणन्तम् अन्यम् अरणꣳ चिद् इच्छेत्
पृणीयाद् इन् नाधमानाय तव्यान् द्राघीयाꣳसम् अनु पश्येत पन्थाम् । ओ हि वर्तन्ते रथ्येव चक्रान्यम्-अन्यम् उप तिष्ठन्त रायः
मोघम् अन्नꣳ विन्दते अप्रचेताः सत्यम् ब्रवीमि वध इत् स तस्य । नार्यमणम् पुष्यति नो सखायꣳ केवलाघो भवति केवलादी
कृषन्न् इत् फाल आशितꣳ कृणोति यन्न् अध्वानम् अप वृङ्क्ते चरित्रैः । वदन् ब्रह्मावदतो वनीयान् पृणन्न् आपिर् अपृणन्तम् अभि ष्यात्
एकपाद् भूयो द्विपदो वि चक्रमे द्विपात् त्रिपादम् अभ्य् एति पश्चात् । चतुष्पाद् एति द्विपदाम् अभिस्वरे सम्पश्यन् पङ्क्तीर् उपतिष्ठमानः
समौ चिद् धस्तौ न समꣳ विविष्टः सम्मातरा चिन् न समꣳ दुहाते । यमयोश् चिन् न समा वीर्याणि ज्ञाती चित् सन्तौ न समम् पृणीतः
अग्ने हꣳसि न्य् अ१त्रिणꣳ दीद्यन् मर्त्येष्व् आ । स्वे क्षये शुचिव्रत
उत् तिष्ठसि स्वाहुतो घृतानि प्रति मोदसे । यत् त्वा स्रुचः समस्थिरन्
स आहुतो वि रोचते ऽग्निर् ईळेन्यो गिरा । स्रुचा प्रतीकम् अज्यते
घृतेनाग्निः सम् अज्यते मधुप्रतीक आहुतः । रोचमानो विभावसुः
जरमाणः सम् इध्यसे देवेभ्यो हव्यवाहन । तꣳ त्वा हवन्त मर्त्याः
तम् मर्ता अमर्त्यꣳ घृतेनाग्निꣳ सपर्यत । अदाभ्यꣳ गृहपतिम्
अदाभ्येन शोचिषाग्ने रक्षस् त्वꣳ दह । गोपा ऋतस्य दीदिहि
स त्वम् अग्ने प्रतीकेन प्रत्य् ओष यातुधान्यः । उरुक्षयेषु दीद्यत्
तꣳ त्वा गीर्भिर् उरुक्षया हव्यवाहꣳ सम् ईधिरे । यजिष्ठम् मानुषे जने
इति वा इति मे मनो गाम् अश्वꣳ सनुयाम् इति । कुवित् सोमस्यापाम् इति
प्र वाता इव दोधत उन् मा पीता अयꣳसत । कुवित् सोमस्यापाम् इति
उन् मा पीता अयꣳसत रथम् अश्वा इवाशवः । कुवित् सोमस्यापाम् इति
उप मा मतिर् अस्थित वाश्रा पुत्रम् इव प्रियम् । कुवित् सोमस्यापाम् इति
अहꣳ तष्टेव वन्धुरम् पर्य् अचामि हृदा मतिम् । कुवित् सोमस्यापाम् इति
नहि मे अक्षिपच् चनाच्छान्त्सुः पञ्च कृष्टयः । कुवित् सोमस्यापाम् इति
नहि मे रोदसी उभे अन्यम् पक्षꣳ चन प्रति । कुवित् सोमस्यापाम् इति
अभि द्याम् महिना भुवम् अभी३माम् पृथिवीम् महीम् । कुवित् सोमस्यापाम् इति
हन्ताहम् पृथिवीम् इमाꣳ नि दधानीह वेह वा । कुवित् सोमस्यापाम् इति
ओषम् इत् पृथिवीम् अहꣳ जङ्घनानीह वेह वा । कुवित् सोमस्यापाम् इति
दिवि मे अन्यः पक्षो३ ऽधो अन्यम् अचीकृषम् । कुवित् सोमस्यापाम् इति
अहम् अस्मि महामहो ऽभिनभ्यम् उदीषितः । कुवित् सोमस्यापाम् इति
गृहो याम्य् अरꣳकृतो देवेभ्यो हव्यवाहनः । कुवित् सोमस्यापाम् इति
तद् इद् आस भुवनेषु ज्येष्ठꣳ यतो जज्ञ उग्रस् त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रून् अनु यꣳ विश्वे मदन्त्य् ऊमाः
वावृधानः शवसा भूर्योजाः शत्रुर् दासाय भियसꣳ दधाति । अव्यनच् च व्यनच् च सस्नि सꣳ ते नवन्त प्रभृता मदेषु
त्वे क्रतुम् अपि वृञ्जन्ति विश्वे द्विर् यद् एते त्रिर् भवन्त्य् ऊमाः । स्वादोः स्वादीयः स्वादुना सृजा सम् अदः सु मधु मधुनाभि योधीः
इति चिद् धि त्वा धना जयन्तम् मदे-मदे अनुमदन्ति विप्राः । ओजीयो धृष्णो स्थिरम् आ तनुष्व मा त्वा दभन् यातुधाना दुरेवाः
त्वया वयꣳ शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि । चोदयामि त आयुधा वचोभिः सꣳ ते शिशामि ब्रह्मणा वयाꣳसि
स्तुषेय्यम् पुरुवर्पसम् ऋभ्वम् इनतमम् आप्त्यम् आप्त्यानाम् । आ दर्षते शवसा सप्त दानून् प्र साक्षते प्रतिमानानि भूरि
नि तद् दधिषे ऽवरम् परꣳ च यस्मिन्न् आविथावसा दुरोणे । आ मातरा स्थापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि
इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषम् अग्रियः स्वर्षाः । महो गोत्रस्य क्षयति स्वराजो दुरश् च विश्वा अवृणोद् अप स्वाः
एवा महान् बृहद्दिवो अथर्वावोचत् स्वाꣳ तन्व१म् इन्द्रम् एव । स्वसारो मातरिभ्वरीर् अरिप्रा हिन्वन्ति च शवसा वर्धयन्ति च
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् । स दाधार पृथिवीꣳ द्याम् उतेमाꣳ कस्मै देवाय हविषा विधेम
य आत्मदा बलदा यस्य विश्व उपासते प्रशिषꣳ यस्य देवाः । यस्य छायामृतꣳ यस्य मृत्युः कस्मै देवाय हविषा विधेम
यः प्राणतो निमिषतो महित्वैक इद् राजा जगतो बभूव । य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम
यस्येमे हिमवन्तो महित्वा यस्य समुद्रꣳ रसया सहाहुः । यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम
येन द्यौर् उग्रा पृथिवी च दृळ्हा येन स्वः स्तभितꣳ येन नाकः । यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम
यꣳ क्रन्दसी अवसा तस्तभाने अभ्य् ऐक्षेताम् मनसा रेजमाने । यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम
आपो ह यद् बृहतीर् विश्वम् आयन् गर्भꣳ दधाना जनयन्तीर् अग्निम् । ततो देवानाꣳ सम् अवर्ततासुर् एकः कस्मै देवाय हविषा विधेम
यश् चिद् आपो महिना पर्यपश्यद् दक्षꣳ दधाना जनयन्तीर् यज्ञम् । यो देवेष्व् अधि देव एक आसीत् कस्मै देवाय हविषा विधेम
मा नो हिꣳसीज् जनिता यः पृथिव्या यो वा दिवꣳ सत्यधर्मा जजान । यश् चापश् चन्द्रा बृहतीर् जजान कस्मै देवाय हविषा विधेम
प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो अस्तु वयꣳ स्याम पतयो रयीणाम्
वसुꣳ न चित्रमहसꣳ गृणीषे वामꣳ शेवम् अतिथिम् अद्विषेण्यम् । स रासते शुरुधो विश्वधायसो ऽग्निर् होता गृहपतिः सुवीर्यम्
जुषाणो अग्ने प्रति हर्य मे वचो विश्वानि विद्वान् वयुनानि सुक्रतो । घृतनिर्णिग् ब्रह्मणे गातुम् एरय तव देवा अजनयन्न् अनु व्रतम्
सप्त धामानि परियन्न् अमर्त्यो दाशद् दाशुषे सुकृते मामहस्व । सुवीरेण रयिणाग्ने स्वाभुवा यस् त आनट् समिधा तꣳ जुषस्व
यज्ञस्य केतुम् प्रथमम् पुरोहितꣳ हविष्मन्त ईळते सप्त वाजिनम् । शृण्वन्तम् अग्निꣳ घृतपृष्ठम् उक्षणम् पृणन्तꣳ देवम् पृणते सुवीर्यम्
त्वꣳ दूतः प्रथमो वरेण्यः स हूयमानो अमृताय मत्स्व । त्वाम् मर्जयन् मरुतो दाशुषो गृहे त्वाꣳ स्तोमेभिर् भृगवो वि रुरुचुः
इषꣳ दुहन् सुदुघाꣳ विश्वधायसꣳ यज्ञप्रिये यजमानाय सुक्रतो । अग्ने घृतस्नुस् त्रिर् ऋतानि दीद्यद् वर्तिर् यज्ञम् परियन् सुक्रतूयसे
त्वाम् इद् अस्या उषसो व्युष्टिषु दूतꣳ कृण्वाना अयजन्त मानुषाः । त्वाꣳ देवा महयाय्याय वावृधुर् आज्यम् अग्ने निमृजन्तो अध्वरे
नि त्वा वसिष्ठा अह्वन्त वाजिनꣳ गृणन्तो अग्ने विदथेषु वेधसः । रायस् पोषꣳ यजमानेषु धारय यूयम् पात स्वस्तिभिः सदा नः
अयꣳ वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । इमम् अपाꣳ सꣳगमे सूर्यस्य शिशुꣳ न विप्रा मतिभी रिहन्ति
समुद्राद् ऊर्मिम् उद् इयर्ति वेनो नभोजाः पृष्ठꣳ हर्यतस्य दर्शि । ऋतस्य सानाव् अधि विष्टपि भ्राट् समानꣳ योनिम् अभ्य् अनूषत व्राः
समानम् पूर्वीर् अभि वावशानास् तिष्ठन् वत्सस्य मातरः सनीळाः । ऋतस्य सानाव् अधि चक्रमाणा रिहन्ति मध्वो अमृतस्य वाणीः
जानन्तो रूपम् अकृपन्त विप्रा मृगस्य घोषम् महिषस्य हि ग्मन् । ऋतेन यन्तो अधि सिन्धुम् अस्थुर् विदद् गन्धर्वो अमृतानि नाम
अप्सरा जारम् उपसिष्मियाणा योषा बिभर्ति परमे व्योमन् । चरत् प्रियस्य योनिषु प्रियः सन् सीदत् पक्षे हिरण्यये स वेनः
नाके सुपर्णम् उप यत् पतन्तꣳ हृदा वेनन्तो अभ्य् अचक्षत त्वा । हिरण्यपक्षꣳ वरुणस्य दूतꣳ यमस्य योनौ शकुनम् भुरण्युम्
ऊर्ध्वो गन्धर्वो अधि नाके अस्थात् प्रत्यङ् चित्रा बिभ्रद् अस्यायुधानि । वसानो अत्कꣳ सुरभिꣳ दृशे कꣳ स्व१र् ण नाम जनत प्रियाणि
द्रप्सः समुद्रम् अभि यज् जिगाति पश्यन् गृध्रस्य चक्षसा विधर्मन् । भानुः शुक्रेण शोचिषा चकानस् तृतीये चक्रे रजसि प्रियाणि
इमꣳ नो अग्न उप यज्ञम् एहि पञ्चयामꣳ त्रिवृतꣳ सप्ततन्तुम् । असो हव्यवाळ् उत नः पुरोगा ज्योग् एव दीर्घꣳ तम आशयिष्ठाः
अदेवाद् देवः प्रचता गुहा यन् प्रपश्यमानो अमृतत्वम् एमि । शिवꣳ यत् सन्तम् अशिवो जहामि स्वात् सख्याद् अरणीꣳ नाभिम् एमि
पश्यन्न् अन्यस्या अतिथिꣳ वयाया ऋतस्य धाम वि मिमे पुरूणि । शꣳसामि पित्रे असुराय शेवम् अयज्ञियाद् यज्ञियम् भागम् एमि
बह्वीः समा अकरम् अन्तर् अस्मिन्न् इन्द्रꣳ वृणानः पितरꣳ जहामि । अग्निः सोमो वरुणस् ते च्यवन्ते पर्यावर्द् राष्ट्रꣳ तद् अवाम्य् आयन्
निर्माया उ त्ये असुरा अभूवन् त्वꣳ च मा वरुण कामयासे । ऋतेन राजन्न् अनृतꣳ विविञ्चन् मम राष्ट्रस्याधिपत्यम् एहि
इदꣳ स्वर् इदम् इद् आस वामम् अयम् प्रकाश उर्व् अ१न्तरिक्षम् । हनाव वृत्रꣳ निरेहि सोम हविष् ट्वा सन्तꣳ हविषा यजाम
कविः कवित्वा दिवि रूपम् आसजद् अप्रभूती वरुणो निर् अपः सृजत् । क्षेमꣳ कृण्वाना जनयो न सिन्धवस् ता अस्य वर्णꣳ शुचयो भरिभ्रति
ता अस्य ज्येष्ठम् इन्द्रियꣳ सचन्ते ता ईम् आ क्षेति स्वधया मदन्तीः । ता ईꣳ विशो न राजानꣳ वृणाना बीभत्सुवो अप वृत्राद् अतिष्ठन्
बीभत्सूनाꣳ सयुजꣳ हꣳसम् आहुर् अपाꣳ दिव्यानाꣳ सख्ये चरन्तम् । अनुष्टुभम् अनु चर्चूर्यमाणम् इन्द्रꣳ नि चिक्युः कवयो मनीषा
अहꣳ रुद्रेभिर् वसुभिश् चराम्य् अहम् आदित्यैर् उत विश्वदेवैः । अहम् मित्रावरुणोभा बिभर्म्य् अहम् इन्द्राग्नी अहम् अश्विनोभा
अहꣳ सोमम् आहनसम् बिभर्म्य् अहꣳ त्वष्टारम् उत पूषणम् भगम् । अहꣳ दधामि द्रविणꣳ हविष्मते सुप्राव्ये३ यजमानाय सुन्वते
अहꣳ राष्ट्री सꣳगमनी वसूनाꣳ चिकितुषी प्रथमा यज्ञियानाम् । ताम् मा देवा व्य् अदधुः पुरुत्रा भूरिस्थात्राम् भूर्य् आवेशयन्तीम्
मया सो अन्नम् अत्ति यो विपश्यति यः प्राणिति य ईꣳ शृणोत्य् उक्तम् । अमन्तवो माꣳ त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवꣳ ते वदामि
अहम् एव स्वयम् इदꣳ वदामि जुष्टꣳ देवेभिर् उत मानुषेभिः । यꣳ कामये तꣳ-तम् उग्रꣳ कृणोमि तम् ब्रह्माणꣳ तम् ऋषिꣳ तꣳ सुमेधाम्
अहꣳ रुद्राय धनुर् आ तनोमि ब्रह्मद्विषे शरवे हन्तवा उ । अहꣳ जनाय समदꣳ कृणोम्य् अहꣳ द्यावापृथिवी आ विवेश
अहꣳ सुवे पितरम् अस्य मूर्धन् मम योनिर् अप्स्व् अ१न्तः समुद्रे । ततो वि तिष्ठे भुवनानु विश्वोतामूꣳ द्याꣳ वर्ष्मणोप स्पृशामि
अहम् एव वात इव प्र वाम्य् आरभमाणा भुवनानि विश्वा । परो दिवा पर एना पृथिव्यैतावती महिना सम् बभूव
न तम् अꣳहो न दुरितꣳ देवासो अष्ट मर्त्यम् । सजोषसो यम् अर्यमा मित्रो नयन्ति वरुणो अति द्विषः
तद् धि वयꣳ वृणीमहे वरुण मित्रार्यमन् । येना निर् अꣳहसो यूयम् पाथ नेथा च मर्त्यम् अति द्विषः
ते नूनꣳ नो ऽयम् ऊतये वरुणो मित्रो अर्यमा । नयिष्ठा उ नो नेषणि पर्षिष्ठा उ नः पर्षण्य् अति द्विषः
यूयꣳ विश्वम् परि पाथ वरुणो मित्रो अर्यमा । युष्माकꣳ शर्मणि प्रिये स्याम सुप्रणीतयो ऽति द्विषः
आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा । उग्रम् मरुद्भी रुद्रꣳ हुवेमेन्द्रम् अग्निꣳ स्वस्तये ऽति द्विषः
नेतार ऊ षु णस् तिरो वरुणो मित्रो अर्यमा । अति विश्वानि दुरिता राजानश् चर्षणीनाम् अति द्विषः
शुनम् अस्मभ्यम् ऊतये वरुणो मित्रो अर्यमा । शर्म यच्छन्तु सप्रथ आदित्यासो यद् ईमहे अति द्विषः
यथा ह त्यद् वसवो गौर्यꣳ चित् पदि षिताम् अमुञ्चता यजत्राः । एवो ष्व् अ१स्मन् मुञ्चता व्य् अꣳहः प्र तार्य् अग्ने प्रतरꣳ न आयुः
रात्री व्य् अख्यद् आयती पुरुत्रा देव्य् अ१क्षभिः । विश्वा अधि श्रियो ऽधित
ओर्व् अप्रा अमर्त्या निवतो देव्य् उ१द्वतः । ज्योतिषा बाधते तमः
निर् उ स्वसारम् अस्कृतोषसꣳ देव्य् आयती । अपेद् उ हासते तमः
सा नो अद्य यस्या वयꣳ नि ते यामन्न् अविक्ष्महि । वृक्षे न वसतिꣳ वयः
नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः । नि श्येनासश् चिद् अर्थिनः
यावया वृक्य१ꣳ वृकꣳ यवय स्तेनम् ऊर्म्ये । अथा नः सुतरा भव
उप मा पेपिशत् तमः कृष्णꣳ व्यक्तम् अस्थित । उष ऋणेव यातय
उप ते गा इवाकरꣳ वृणीष्व दुहितर् दिवः । रात्रि स्तोमꣳ न जिग्युषे
ममाग्ने वर्चो विहवेष्व् अस्तु वयꣳ त्वेन्धानास् तन्वम् पुषेम । मह्यꣳ नमन्ताम् प्रदिशश् चतस्रस् त्वयाध्यक्षेण पृतना जयेम
मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुर् अग्निः । ममान्तरिक्षम् उरुलोकम् अस्तु मह्यꣳ वातः पवताꣳ कामे अस्मिन्
मयि देवा द्रविणम् आ यजन्ताम् मय्य् आशीर् अस्तु मयि देवहूतिः । दैव्या होतारो वनुषन्त पूर्वे ऽरिष्टाः स्याम तन्वा सुवीराः
मह्यꣳ यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु । एनो मा नि गाꣳ कतमच् चनाहꣳ विश्वे देवासो अधि वोचता नः
देवीः षळ् उर्वीर् उरु नः कृणोत विश्वे देवास इह वीरयध्वम् । मा हास्महि प्रजया मा तनूभिर् मा रधाम द्विषते सोम राजन्
अग्ने मन्युम् प्रतिनुदन् परेषाम् अदब्धो गोपाः परि पाहि नस् त्वम् । प्रत्यञ्चो यन्तु निगुतः पुनस् ते३ ऽमैषाꣳ चित्तम् प्रबुधाꣳ वि नेशत्
धाता धातॄणाम् भुवनस्य यस् पतिर् देवꣳ त्रातारम् अभिमातिषाहम् । इमꣳ यज्ञम् अश्विनोभा बृहस्पतिर् देवाः पान्तु यजमानꣳ न्यर्थात्
उरुव्यचा नो महिषः शर्म यꣳसद् अस्मिन् हवे पुरुहूतः पुरुक्षुः । स नः प्रजायै हर्यश्व मृळयेन्द्र मा नो रीरिषो मा परा दाः
ये नः सपत्ना अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् । वसवो रुद्रा आदित्या उपरिस्पृशम् मोग्रꣳ चेत्तारम् अधिराजम् अक्रन्
नासद् आसीन् नो सद् आसीत् तदानीꣳ नासीद् रजो नो व्योमा परो यत् । किम् आवरीवः कुह कस्य शर्मन्न् अम्भः किम् आसीद् गहनꣳ गभीरम्
न मृत्युर् आसीद् अमृतꣳ न तर्हि न रात्र्या अह्न आसीत् प्रकेतः । आनीद् अवातꣳ स्वधया तद् एकꣳ तस्माद् धान्यन् न परः किꣳ चनास
तम आसीत् तमसा गूळ्हम् अग्रे ऽप्रकेतꣳ सलिलꣳ सर्वम् आ इदम् । तुच्छ्येनाभ्व् अपिहितꣳ यद् आसीत् तपसस् तन् महिनाजायतैकम्
कामस् तद् अग्रे सम् अवर्तताधि मनसो रेतः प्रथमꣳ यद् आसीत् । सतो बन्धुम् असति निर् अविन्दन् हृदि प्रतीष्या कवयो मनीषा
तिरश्चीनो विततो रश्मिर् एषाम् अधः स्विद् आसी३द् उपरि स्विद् आसी३त् । रेतोधा आसन् महिमान आसन् स्वधा अवस्तात् प्रयतिः परस्तात्
को अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयꣳ विसृष्टिः । अर्वाग् देवा अस्य विसर्जनेनाथा को वेद यत आबभूव
इयꣳ विसृष्टिर् यत आबभूव यदि वा दधे यदि वा न । यो अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद
यो यज्ञो विश्वतस् तन्तुभिस् तत एकशतꣳ देवकर्मेभिर् आयतः । इमे वयन्ति पितरो य आययुः प्र वयाप वयेत्य् आसते तते
पुमाꣳ एनꣳ तनुत उत् कृणत्ति पुमान् वि तत्ने अधि नाके अस्मिन् । इमे मयूखा उप सेदुर् ऊ सदः सामानि चक्रुस् तसराण्य् ओतवे
कासीत् प्रमा प्रतिमा किꣳ निदानम् आज्यꣳ किम् आसीत् परिधिः क आसीत् । छन्दः किम् आसीत् प्रüगꣳ किम् उक्थꣳ यद् देवा देवम् अयजन्त विश्वे
अग्नेर् गायत्र्य् अभवत् सयुग्वोष्णिहया सविता सम् बभूव । अनुष्टुभा सोम उक्थैर् महस्वान् बृहस्पतेर् बृहती वाचम् आवत्
विराण् मित्रावरुणयोर् अभिश्रीर् इन्द्रस्य त्रिष्टुब् इह भागो अह्नः । विश्वान् देवाञ् जगत्य् आ विवेश तेन चाकॢप्र ऋषयो मनुष्याः
चाकॢप्रे तेन ऋषयो मनुष्या यज्ञे जाते पितरो नः पुराणे । पश्यन् मन्ये मनसा चक्षसा तान् य इमꣳ यज्ञम् अयजन्त पूर्वे
सहस्तोमाः सहछन्दस आवृतः सहप्रमा ऋषयः सप्त दैव्याः । पूर्वेषाम् पन्थाम् अनुदृश्य धीरा अन्वालेभिरे रथ्यो३ न रश्मीन्
अप प्राच इन्द्र विश्वाꣳ अमित्रान् अपापाचो अभिभूते नुदस्व । अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम
कुविद् अङ्ग यवमन्तो यवꣳ चिद् यथा दान्त्य् अनुपूर्वꣳ वियूय । इहेहैषाꣳ कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिꣳ न जग्मुः
नहि स्थूर्य् ऋतुथा यातम् अस्ति नोत श्रवो विविदे सꣳगमेषु । गव्यन्त इन्द्रꣳ सख्याय विप्रा अश्वायन्तो वृषणꣳ वाजयन्तः
युवꣳ सुरामम् अश्विना नमुचाव् आसुरे सचा । विपिपाना शुभस् पती इन्द्रꣳ कर्मस्व् आवतम्
पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दꣳसनाभिः । यत् सुरामꣳ व्य् अपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक्
इन्द्रः सुत्रामा स्ववाꣳ अवोभिः सुमृळीको भवतु विश्ववेदाः । बाधताꣳ द्वेषो अभयꣳ कृणोतु सुवीर्यस्य पतयः स्याम
तस्य वयꣳ सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । स सुत्रामा स्ववाꣳ इन्द्रो अस्मे आराच् चिद् द्वेषः सनुतर् युयोतु
ईजानम् इद् द्यौर् गूर्तावसुर् ईजानम् भूमिर् अभि प्रभूषणि । ईजानꣳ देवाव् अश्विनाव् अभि सुम्नैर् अवर्धताम्
ता वाम् मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वता यजामसि । युवोः क्राणाय सख्यैर् अभि ष्याम रक्षसः
अधा चिन् नु यद् दिधिषामहे वाम् अभि प्रियꣳ रेक्णः पत्यमानाः । दद्वाꣳ वा यत् पुष्यति रेक्णः सम् व् आरन् नकिर् अस्य मघानि
असाव् अन्यो असुर सूयत द्यौस् त्वꣳ विश्वेषाꣳ वरुणासि राजा । मूर्धा रथस्य चाकन् नैतावतैनसान्तकध्रुक्
अस्मिन् स्व् ए३तच् छकपूत एनो हिते मित्रे निगतान् हन्ति वीरान् । अवोर् वा यद् धात् तनूष्व् अवः प्रियासु यज्ञियास्व् अर्वा
युवोर् हि मातादितिर् विचेतसा द्यौर् न भूमिः पयसा पुपूतनि । अव प्रिया दिदिष्टन सूरो निनिक्त रश्मिभिः
युवꣳ ह्य् अप्नराजाव् असीदतꣳ तिष्ठद् रथꣳ न धूर्षदꣳ वनर्षदम् । ता नः कणूकयन्तीर् नृमेधस् तत्रे अꣳहसः सुमेधस् तत्रे अꣳहसः
प्रो ष्व् अस्मै पुरोरथम् इन्द्राय शूषम् अर्चत । अभीके चिद् उ लोककृत् सꣳगे समत्सु वृत्रहास्माकम् बोधि चोदिता नभन्ताम् अन्यकेषाꣳ ज्याका अधि धन्वसु
त्वꣳ सिन्धूꣳर् अवासृजो ऽधराचो अहन्न् अहिम् । अशत्रुर् इन्द्र जज्ञिषे विश्वम् पुष्यसि वार्यꣳ तꣳ त्वा परि ष्वजामहे नभन्ताम् अन्यकेषाꣳ ज्याका अधि धन्वसु
वि षु विश्वा अरातयो ऽर्यो नशन्त नो धियः । अस्तासि शत्रवे वधꣳ यो न इन्द्र जिघाꣳसति या ते रातिर् ददिर् वसु नभन्ताम् अन्यकेषाꣳ ज्याका अधि धन्वसु
यो न इन्द्राभितो जनो वृकायुर् आदिदेशति । अधस्पदꣳ तम् ईꣳ कृधि विबाधो असि सासहिर् नभन्ताम् अन्यकेषाꣳ ज्याका अधि धन्वसु
यो न इन्द्राभिदासति सनाभिर् यश् च निष्ट्यः । अव तस्य बलꣳ तिर महीव द्यौर् अध त्मना नभन्ताम् अन्यकेषाꣳ ज्याका अधि धन्वसु
वयम् इन्द्र त्वायवः सखित्वम् आ रभामहे । ऋतस्य नः पथा नयाति विश्वानि दुरिता नभन्ताम् अन्यकेषाꣳ ज्याका अधि धन्वसु
अस्मभ्यꣳ सु त्वम् इन्द्र ताꣳ शिक्ष या दोहते प्रति वरꣳ जरित्रे । अच्छिद्रोध्नी पीपयद् यथा नः सहस्रधारा पयसा मही गौः
उभे यद् इन्द्र रोदसी आपप्राथोषा इव । महान्तꣳ त्वा महीनाꣳ सम्राजꣳ चर्षणीनाꣳ देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत्
अव स्म दुर्हणायतो मर्तस्य तनुहि स्थिरम् । अधस्पदꣳ तम् ईꣳ कृधि यो अस्माꣳ आदिदेशति देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत्
अव त्या बृहतीर् इषो विश्वश्चन्द्रा अमित्रहन् । शचीभिः शक्र धूनुहीन्द्र विश्वाभिर् ऊतिभिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत्
अव यत् त्वꣳ शतक्रतव् इन्द्र विश्वानि धूनुषे । रयिꣳ न सुन्वते सचा सहस्रिणीभिर् ऊतिभिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत्
अव स्वेदा इवाभितो विष्वक् पतन्तु दिद्यवः । दूर्वाया इव तन्तवो व्य् अ१स्मद् एतु दुर्मतिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत्
दीर्घꣳ ह्य् अङ्कुशꣳ यथा शक्तिम् बिभर्षि मन्तुमः । पूर्वेण मघवन् पदाजो वयाꣳ यथा यमो देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत्
नकिर् देवा मिनीमसि नकिर् आ योपयामसि मन्त्रश्रुत्यꣳ चरामसि । पक्षेभिर् अपिकक्षेभिर् अत्राभि सꣳ रभामहे
यस्मिन् वृक्षे सुपलाशे देवैः सम्पिबते यमः । अत्रा नो विश्पतिः पिता पुराणाꣳ अनु वेनति
पुराणाꣳ अनुवेनन्तꣳ चरन्तम् पापयामुया । असूयन्न् अभ्य् अचाकशꣳ तस्मा अस्पृहयम् पुनः
यꣳ कुमार नवꣳ रथम् अचक्रम् मनसाकृणोः । एकेषꣳ विश्वतः प्राञ्चम् अपश्यन्न् अधि तिष्ठसि
यꣳ कुमार प्रावर्तयो रथꣳ विप्रेभ्यस् परि । तꣳ सामानु प्रावर्तत सम् इतो नाव्य् आहितम्
कः कुमारम् अजनयद् रथꣳ को निर् अवर्तयत् । कः स्वित् तद् अद्य नो ब्रूयाद् अनुदेयी यथाभवत्
यथाभवद् अनुदेयी ततो अग्रम् अजायत । पुरस्ताद् बुध्न आततः पश्चान् निरयणꣳ कृतम्
इदꣳ यमस्य सादनꣳ देवमानꣳ यद् उच्यते । इयम् अस्य धम्यते नाळीर् अयꣳ गीर्भिः परिष्कृतः
केश्य् अ१ग्निꣳ केशी विषꣳ केशी बिभर्ति रोदसी । केशी विश्वꣳ स्वर् दृशे केशीदꣳ ज्योतिर् उच्यते
मुनयो वातरशनाः पिशङ्गा वसते मला । वातस्यानु ध्राजिꣳ यन्ति यद् देवासो अविक्षत
उन्मदिता मौनेयेन वाताꣳ आ तस्थिमा वयम् । शरीरेद् अस्माकꣳ यूयम् मर्तासो अभि पश्यथ
अन्तरिक्षेण पतति विश्वा रूपावचाकशत् । मुनिर् देवस्य-देवस्य सौकृत्याय सखा हितः
वातस्याश्वो वायोः सखाथो देवेषितो मुनिः । उभौ समुद्राव् आ क्षेति यश् च पूर्व उतापरः
अप्सरसाꣳ गन्धर्वाणाम् मृगाणाꣳ चरणे चरन् । केशी केतस्य विद्वान् सखा स्वादुर् मदिन्तमः
वायुर् अस्मा उपामन्थत् पिनष्टि स्मा कुनन्नमा । केशी विषस्य पात्रेण यद् रुद्रेणापिबत् सह
उत देवा अवहितꣳ देवा उन् नयथा पुनः । उतागश् चक्रुषꣳ देवा देवा जीवयथा पुनः
द्वाव् इमौ वातौ वात आ सिन्धोर् आ परावतः । दक्षꣳ ते अन्य आ वातु परान्यो वातु यद् रपः
आ वात वाहि भेषजꣳ वि वात वाहि यद् रपः । त्वꣳ हि विश्वभेषजो देवानाꣳ दूत ईयसे
आ त्वागमꣳ शꣳतातिभिर् अथो अरिष्टतातिभिः । दक्षꣳ ते भद्रम् आभार्षम् परा यक्ष्मꣳ सुवामि ते
त्रायन्ताम् इह देवास् त्रायताम् मरुताꣳ गणः । त्रायन्ताꣳ विश्वा भूतानि यथायम् अरपा असत्
आप इद् वा उ भेषजीर् आपो अमीवचातनीः । आपः सर्वस्य भेषजीस् तास् ते कृण्वन्तु भेषजम्
हस्ताभ्याꣳ दशशाखाभ्याꣳ जिह्वा वाचः पुरोगवी । अनामयित्नुभ्याꣳ त्वा ताभ्याꣳ त्वोप स्पृशामसि
तव त्य इन्द्र सख्येषु वह्नय ऋतम् मन्वाना व्य् अदर्दिरुर् वलम् । यत्रा दशस्यन्न् उषसो रिणन्न् अपः कुत्साय मन्मन्न् अह्यश् च दꣳसयः
अवासृजः प्रस्वः श्वञ्चयो गिरीन् उद् आज उस्रा अपिबो मधु प्रियम् । अवर्धयो वनिनो अस्य दꣳससा शुशोच सूर्य ऋतजातया गिरा
वि सूर्यो मध्ये अमुचद् रथꣳ दिवो विदद् दासाय प्रतिमानम् आर्यः । दृळ्हानि पिप्रोर् असुरस्य मायिन इन्द्रो व्य् आस्यच् चकृवाꣳ ऋजिश्वना
अनाधृष्टानि धृषितो व्य् आस्यन् निधीꣳर् अदेवाꣳ अमृणद् अयास्यः । मासेव सूर्यो वसु पुर्यम् आ ददे गृणानः शत्रूꣳर् अशृणाद् विरुक्मता
अयुद्धसेनो विभ्वा विभिन्दता दाशद् वृत्रहा तुज्यानि तेजते । इन्द्रस्य वज्राद् अबिभेद् अभिश्नथः प्राक्रामच् छुन्ध्यूर् अजहाद् उषा अनः
एता त्या ते श्रुत्यानि केवला यद् एक एकम् अकृणोर् अयज्ञम् । मासाꣳ विधानम् अदधा अधि द्यवि त्वया विभिन्नम् भरति प्रधिम् पिता
सूर्यरश्मिर् हरिकेशः पुरस्तात् सविता ज्योतिर् उद् अयाꣳ अजस्रम् । तस्य पूषा प्रसवे याति विद्वान् सम्पश्यन् विश्वा भुवनानि गोपाः
नृचक्षा एष दिवो मध्य आस्त आपप्रिवान् रोदसी अन्तरिक्षम् । स विश्वाचीर् अभि चष्टे घृताचीर् अन्तरा पूर्वम् अपरꣳ च केतुम्
रायो बुध्नः सꣳगमनो वसूनाꣳ विश्वा रूपाभि चष्टे शचीभिः । देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे धनानाम्
विश्वावसुꣳ सोम गन्धर्वम् आपो ददृशुषीस् तद् ऋतेना व्य् आयन् । तद् अन्ववैद् इन्द्रो रारहाण आसाम् परि सूर्यस्य परिधीꣳर् अपश्यत्
विश्वावसुर् अभि तन् नो गृणातु दिव्यो गन्धर्वो रजसो विमानः । यद् वा घा सत्यम् उत यन् न विद्म धियो हिन्वानो धिय इन् नो अव्याः
सस्निम् अविन्दच् चरणे नदीनाम् अपावृणोद् दुरो अश्मव्रजानाम् । प्रासाꣳ गन्धर्वो अमृतानि वोचद् इन्द्रो दक्षम् परि जानाद् अहीनाम्
अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो । बृहद्भानो शवसा वाजम् उक्थ्य१ꣳ दधासि दाशुषे कवे
पावकवर्चाः शुक्रवर्चा अनूनवर्चा उद् इयर्षि भानुना । पुत्रो मातरा विचरन्न् उपावसि पृणक्षि रोदसी उभे
ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व धीतिभिर् हितः । त्वे इषः सꣳ दधुर् भूरिवर्पसश् चित्रोतयो वामजाताः
इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो अमर्त्य । स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिꣳ क्रतुम्
इष्कर्तारम् अध्वरस्य प्रचेतसꣳ क्षयन्तꣳ राधसो महः । रातिꣳ वामस्य सुभगाम् महीम् इषꣳ दधासि सानसिꣳ रयिम्
ऋतावानम् महिषꣳ विश्वदर्शतम् अग्निꣳ सुम्नाय दधिरे पुरो जनाः । श्रुत्कर्णꣳ सप्रथस्तमꣳ त्वा गिरा दैव्यम् मानुषा युगा
अग्ने अच्छा वदेह नः प्रत्यङ् नः सुमना भव । प्र नो यच्छ विशस् पते धनदा असि नस् त्वम्
प्र नो यच्छत्व् अर्यमा प्र भगः प्र बृहस्पतिः । प्र देवाः प्रोत सूनृता रायो देवी ददातु नः
सोमꣳ राजानम् अवसे ऽग्निꣳ गीर्भिर् हवामहे । आदित्यान् विष्णुꣳ सूर्यम् ब्रह्माणꣳ च बृहस्पतिम्
इन्द्रवायू बृहस्पतिꣳ सुहवेह हवामहे । यथा नः सर्व इज् जनः सꣳगत्याꣳ सुमना असत्
अर्यमणम् बृहस्पतिम् इन्द्रꣳ दानाय चोदय । वातꣳ विष्णुꣳ सरस्वतीꣳ सवितारꣳ च वाजिनम्
त्वꣳ नो अग्ने अग्निभिर् ब्रह्म यज्ञꣳ च वर्धय । त्वꣳ नो देवतातये रायो दानाय चोदय
अयम् अग्ने जरिता त्वे अभूद् अपि सहसः सूनो नह्य् अ१न्यद् अस्त्य् आप्यम् । भद्रꣳ हि शर्म त्रिवरूथम् अस्ति त आरे हिꣳसानाम् अप दिद्युम् आ कृधि
प्रवत् ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना न्य् ऋञ्जसे । प्र सप्तयः प्र सनिषन्त नो धियः पुरश् चरन्ति पशुपा इव त्मना
उत वा उ परि वृणक्षि बप्सद् बहोर् अग्न उलपस्य स्वधावः । उत खिल्या उर्वराणाम् भवन्ति मा ते हेतिꣳ तविषीꣳ चुक्रुधाम
यद् उद्वतो निवतो यासि बप्सत् पृथग् एषि प्रगर्धिनीव सेना । यदा ते वातो अनुवाति शोचिर् वप्तेव श्मश्रु वपसि प्र भूम
प्रत्य् अस्य श्रेणयो ददृश्र एकꣳ नियानम् बहवो रथासः । बाहू यद् अग्ने अनुमर्मृजानो न्यङ्ङ् उत्तानाम् अन्वेषि भूमिम्
उत् ते शुष्मा जिहताम् उत् ते अर्चिर् उत् ते अग्ने शशमानस्य वाजाः । उच् छ्वञ्चस्व नि नम वर्धमान आ त्वाद्य विश्वे वसवः सदन्तु
अपाम् इदꣳ न्ययनꣳ समुद्रस्य निवेशनम् । अन्यꣳ कृणुष्वेतः पन्थाꣳ तेन याहि वशाꣳ अनु
आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः । ह्रदाश् च पुण्डरीकाणि समुद्रस्य गृहा इमे
त्यꣳ चिद् अत्रिम् ऋतजुरम् अर्थम् अश्वꣳ न यातवे । कक्षीवन्तꣳ यदी पुना रथꣳ न कृणुथो नवम्
त्यꣳ चिद् अश्वꣳ न वाजिनम् अरेणवो यम् अत्नत । दृळ्हꣳ ग्रन्थिꣳ न वि ष्यतम् अत्रिꣳ यविष्ठम् आ रजः
नरा दꣳसिष्ठाव् अत्रये शुभ्रा सिषासतꣳ धियः । अथा हि वाꣳ दिवो नरा पुनः स्तोमो न विशसे
चिते तद् वाꣳ सुराधसा रातिः सुमतिर् अश्विना । आ यन् नः सदने पृथौ समने पर्षथो नरा
युवम् भुज्युꣳ समुद्र आ रजसः पार ईङ्खितम् । यातम् अच्छा पतत्रिभिर् नासत्या सातये कृतम्
आ वाꣳ सुम्नैः शꣳयू इव मꣳहिष्ठा विश्ववेदसा । सम् अस्मे भूषतꣳ नरोत्सꣳ न पिप्युषीर् इषः
अयꣳ हि ते अमर्त्य इन्दुर् अत्यो न पत्यते । दक्षो विश्वायुर् वेधसे
अयम् अस्मासु काव्य ऋभुर् वज्रो दास्वते । अयम् बिभर्त्य् ऊर्ध्वकृशनम् मदम् ऋभुर् न कृत्व्यम् मदम्
घृषुः श्येनाय कृत्वन आसु स्वासु वꣳसगः । अव दीधेद् अहीशुवः
यꣳ सुपर्णः परावतः श्येनस्य पुत्र आभरत् । शतचक्रꣳ यो३ ऽह्यो वर्तनिः
यꣳ ते श्येनश् चारुम् अवृकम् पदाभरद् अरुणम् मानम् अन्धसः । एना वयो वि तार्य् आयुर् जीवस एना जागार बन्धुता
एवा तद् इन्द्र इन्दुना देवेषु चिद् धारयाते महि त्यजः । क्रत्वा वयो वि तार्य् आयुः सुक्रतो क्रत्वायम् अस्मद् आ सुतः
इमाꣳ खनाम्य् ओषधिꣳ वीरुधम् बलवत्तमाम् । यया सपत्नीम् बाधते यया सꣳविन्दते पतिम्
उत्तानपर्णे सुभगे देवजूते सहस्वति । सपत्नीम् मे परा धम पतिम् मे केवलꣳ कुरु
उत्तराहम् उत्तर उत्तरेद् उत्तराभ्यः । अथा सपत्नी या ममाधरा साधराभ्यः
नह्य् अस्या नाम गृभ्णामि नो अस्मिन् रमते जने । पराम् एव परावतꣳ सपत्नीꣳ गमयामसि
अहम् अस्मि सहमानाथ त्वम् असि सासहिः । उभे सहस्वती भूत्वी सपत्नीम् मे सहावहै
उप ते ऽधाꣳ सहमानाम् अभि त्वाधाꣳ सहीयसा । माम् अनु प्र ते मनो वत्सꣳ गौर् इव धावतु पथा वार् इव धावतु
अरण्यान्य् अरण्यान्य् असौ या प्रेव नश्यसि । कथा ग्रामꣳ न पृच्छसि न त्वा भीर् इव विन्दती३ꣳ
वृषारवाय वदते यद् उपावति चिच्चिकः । आघाटिभिर् इव धावयन्न् अरण्यानिर् महीयते
उत गाव इवादन्त्य् उत वेश्मेव दृश्यते । उतो अरण्यानिः सायꣳ शकटीर् इव सर्जति
गाम् अङ्गैष आ ह्वयति दार्व् अङ्गैषो अपावधीत् । वसन्न् अरण्यान्याꣳ सायम् अक्रुक्षद् इति मन्यते
न वा अरण्यानिर् हन्त्य् अन्यश् चेन् नाभिगच्छति । स्वादोः फलस्य जग्ध्वाय यथाकामꣳ नि पद्यते
आञ्जनगन्धिꣳ सुरभिम् बह्वन्नाम् अकृषीवलाम् । प्राहम् मृगाणाम् मातरम् अरण्यानिम् अशꣳसिषम्
श्रत् ते दधामि प्रथमाय मन्यवे ऽहन् यद् वृत्रꣳ नर्यꣳ विवेर् अपः । उभे यत् त्वा भवतो रोदसी अनु रेजते शुष्मात् पृथिवी चिद् अद्रिवः
त्वम् मायाभिर् अनवद्य मायिनꣳ श्रवस्यता मनसा वृत्रम् अर्दयः । त्वाम् इन् नरो वृणते गविष्टिषु त्वाꣳ विश्वासु हव्यास्व् इष्टिषु
ऐषु चाकन्धि पुरुहूत सूरिषु वृधासो ये मघवन्न् आनशुर् मघम् । अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनम् अह्रये धने
स इन् नु रायः सुभृतस्य चाकनन् मदꣳ यो अस्य रꣳह्यꣳ चिकेतति । त्वावृधो मघवन् दाश्वध्वरो मक्षू स वाजम् भरते धना नृभिः
त्वꣳ शर्धाय महिना गृणान उरु कृधि मघवञ् छग्धि रायः । त्वꣳ नो मित्रो वरुणो न मायी पित्वो न दस्म दयसे विभक्ता
सुष्वाणास इन्द्र स्तुमसि त्वा ससवाꣳसश् च तुविनृम्ण वाजम् । आ नो भर सुवितꣳ यस्य चाकन् त्मना तना सनुयाम त्वोताः
ऋष्वस् त्वम् इन्द्र शूर जातो दासीर् विशः सूर्येण सह्याः । गुहा हितꣳ गुह्यꣳ गूळ्हम् अप्सु बिभृमसि प्रस्रवणे न सोमम्
अर्यो वा गिरो अभ्य् अर्च विद्वान् ऋषीणाꣳ विप्रः सुमतिꣳ चकानः । ते स्याम ये रणयन्त सोमैर् एनोत तुभ्यꣳ रथोळ्ह भक्षैः
इमा ब्रह्मेन्द्र तुभ्यꣳ शꣳसि दा नृभ्यो नृणाꣳ शूर शवः । तेभिर् भव सक्रतुर् येषु चाकन्न् उत त्रायस्व गृणत उत स्तीन्
श्रुधी हवम् इन्द्र शूर पृथ्या उत स्तवसे वेन्यस्यार्कैः । आ यस् ते योनिꣳ घृतवन्तम् अस्वार् ऊर्मिर् न निम्नैर् द्रवयन्त वक्वाः
सविता यन्त्रैः पृथिवीम् अरम्णाद् अस्कम्भने सविता द्याम् अदृꣳहत् । अश्वम् इवाधुक्षद् धुनिम् अन्तरिक्षम् अतूर्ते बद्धꣳ सविता समुद्रम्
यत्रा समुद्रः स्कभितो व्य् औनद् अपाꣳ नपात् सविता तस्य वेद । अतो भूर् अत आ उत्थितꣳ रजो ऽतो द्यावापृथिवी अप्रथेताम्
पश्चेदम् अन्यद् अभवद् यजत्रम् अमर्त्यस्य भुवनस्य भूना । सुपर्णो अङ्ग सवितुर् गरुत्मान् पूर्वो जातः स उ अस्यानु धर्म
गाव इव ग्रामꣳ यूयुधिर् इवाश्वान् वाश्रेव वत्सꣳ सुमना दुहाना । पतिर् इव जायाम् अभि नो न्य् एतु धर्ता दिवः सविता विश्ववारः
हिरण्यस्तूपः सवितर् यथा त्वाङ्गिरसो जुह्वे वाजे अस्मिन् । एवा त्वार्चन्न् अवसे वन्दमानः सोमस्येवाꣳशुम् प्रति जागराहम्
समिद्धश् चित् सम् इध्यसे देवेभ्यो हव्यवाहन । आदित्यै रुद्रैर् वसुभिर् न आ गहि मृळीकाय न आ गहि
इमꣳ यज्ञम् इदꣳ वचो जुजुषाण उपागहि । मर्तासस् त्वा समिधान हवामहे मृळीकाय हवामहे
त्वाम् उ जातवेदसꣳ विश्ववारꣳ गृणे धिया । अग्ने देवाꣳ आ वह नः प्रियव्रतान् मृळीकाय प्रियव्रतान्
अग्निर् देवो देवानाम् अभवत् पुरोहितो ऽग्निम् मनुष्या३ ऋषयः सम् ईधिरे । अग्निम् महो धनसाताव् अहꣳ हुवे मृळीकꣳ धनसातये
अग्निर् अत्रिम् भरद्वाजꣳ गविष्ठिरम् प्रावन् नः कण्वꣳ त्रसदस्युम् आहवे । अग्निꣳ वसिष्ठो हवते पुरोहितो मृळीकाय पुरोहितः
श्रद्धयाग्निः सम् इध्यते श्रद्धया हूयते हविः । श्रद्धाम् भगस्य मूर्धनि वचसा वेदयामसि
प्रियꣳ श्रद्धे ददतः प्रियꣳ श्रद्धे दिदासतः । प्रियम् भोजेषु यज्वस्व् इदम् म उदितꣳ कृधि
यथा देवा असुरेषु श्रद्धाम् उग्रेषु चक्रिरे । एवम् भोजेषु यज्वस्व् अस्माकम् उदितꣳ कृधि
श्रद्धाꣳ देवा यजमाना वायुगोपा उपासते । श्रद्धाꣳ हृदय्य१याकूत्या श्रद्धया विन्दते वसु
श्रद्धाम् प्रातर् हवामहे श्रद्धाम् मध्यꣳदिनम् परि । श्रद्धाꣳ सूर्यस्य निम्रुचि श्रद्धे श्रद् धापयेह नः
शास इत्था महाꣳ अस्य् अमित्रखादो अद्भुतः । न यस्य हन्यते सखा न जीयते कदा चन
स्वस्तिदा विशस् पतिर् वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नः सोमपा अभयꣳकरः
वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज । वि मन्युम् इन्द्र वृत्रहन्न् अमित्रस्याभिदासतः
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो अस्माꣳ अभिदासत्य् अधरꣳ गमया तमः
अपेन्द्र द्विषतो मनो ऽप जिज्यासतो वधम् । वि मन्योः शर्म यच्छ वरीयो यवया वधम्
ईङ्खयन्तीर् अपस्युव इन्द्रꣳ जातम् उपासते । भेजानासः सुवीर्यम्
त्वम् इन्द्र बलाद् अधि सहसो जात ओजसः । त्वꣳ वृषन् वृषेद् असि
त्वम् इन्द्रासि वृत्रहा व्य् अ१न्तरिक्षम् अतिरः । उद् द्याम् अस्तभ्ना ओजसा
त्वम् इन्द्र सजोषसम् अर्कम् बिभर्षि बाह्वोः । वज्रꣳ शिशान ओजसा
त्वम् इन्द्राभिभूर् असि विश्वा जातान्य् ओजसा । स विश्वा भुव आभवः
सोम एकेभ्यः पवते घृतम् एक उपासते । येभ्यो मधु प्रधावति ताꣳश् चिद् एवापि गच्छतात्
तपसा ये अनाधृष्यास् तपसा ये स्वर् ययुः । तपो ये चक्रिरे महस् ताꣳश् चिद् एवापि गच्छतात्
ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः । ये वा सहस्रदक्षिणास् ताꣳश् चिद् एवापि गच्छतात्
ये चित् पूर्व ऋतसाप ऋतावान ऋतावृधः । पितॄन् तपस्वतो यम ताꣳश् चिद् एवापि गच्छतात्
सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् । ऋषीन् तपस्वतो यम तपोजाꣳ अपि गच्छतात्
अरायि काणे विकटे गिरिꣳ गच्छ सदान्वे । शिरिम्बिठस्य सत्वभिस् तेभिष् ट्वा चातयामसि
चत्तो इतश् चत्तामुतः सर्वा भ्रूणान्य् आरुषी । अराय्यम् ब्रह्मणस् पते तीक्ष्णशृण्गोदृषन्न् इहि
अदो यद् दारु प्लवते सिन्धोः पारे अपूरुषम् । तद् आ रभस्व दुर्हणो तेन गच्छ परस्तरम्
यद् ध प्राचीर् अजगन्तोरो मण्डूरधाणिकीः । हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः
परीमे गाम् अनेषत पर्य् अग्निम् अहृषत । देवेष्व् अक्रत श्रवः क इमाꣳ आ दधर्षति
अग्निꣳ हिन्वन्तु नो धियः सप्तिम् आशुम् इवाजिषु । तेन जेष्म धनꣳ-धनम्
यया गा आकरामहे सेनयाग्ने तवोत्या । ताꣳ नो हिन्व मघत्तये
आग्ने स्थूरꣳ रयिम् भर पृथुꣳ गोमन्तम् अश्विनम् । अङ्धि खꣳ वर्तया पणिम्
अग्ने नक्षत्रम् अजरम् आ सूर्यꣳ रोहयो दिवि । दधज् ज्योतिर् जनेभ्यः
अग्ने केतुर् विशाम् असि प्रेष्ठः श्रेष्ठ उपस्थसत् । बोधा स्तोत्रे वयो दधत्
इमा नु कम् भुवना सीषधामेन्द्रश् च विश्वे च देवाः
यज्ञꣳ च नस् तन्वꣳ च प्रजाꣳ चादित्यैर् इन्द्रः सह चीकॢपाति
आदित्यैर् इन्द्रः सगणो मरुद्भिर् अस्माकम् भूत्व् अविता तनूनाम्
हत्वाय देवा असुरान् यद् आयन् देवा देवत्वम् अभिरक्षमाणाः
प्रत्यञ्चम् अर्कम् अनयञ् छचीभिर् आद् इत् स्वधाम् इषिराम् पर्य् अपश्यन्
सूर्यो नो दिवस् पातु वातो अन्तरिक्षात् । अग्निर् नः पार्थिवेभ्यः
जोषा सवितर् यस्य ते हरः शतꣳ सवाꣳ अर्हति । पाहि नो दिद्युतः पतन्त्याः
चक्षुर् नो देवः सविता चक्षुर् न उत पर्वतः । चक्षुर् धाता दधातु नः
चक्षुर् नो धेहि चक्षुषे चक्षुर् विख्यै तनूभ्यः । सꣳ चेदꣳ वि च पश्येम
सुसꣳदृशꣳ त्वा वयम् प्रति पश्येम सूर्य । वि पश्येम नृचक्षसः
उद् असौ सूर्यो अगाद् उद् अयम् मामको भगः । अहꣳ तद् विद्वला पतिम् अभ्य् असाक्षि विषासहिः
अहꣳ केतुर् अहम् मूर्धाहम् उग्रा विवाचनी । ममेद् अनु क्रतुम् पतिः सेहानाया उपाचरेत्
मम पुत्राः शत्रुहणो ऽथो मे दुहिता विराट् । उताहम् अस्मि सꣳजया पत्यौ मे श्लोक उत्तमः
येनेन्द्रो हविषा कृत्व्य् अभवद् द्युम्न्य् उत्तमः । इदꣳ तद् अक्रि देवा असपत्ना किलाभुवम्
असपत्ना सपत्नघ्नी जयन्त्य् अभिभूवरी । आवृक्षम् अन्यासाꣳ वर्चो राधो अस्थेयसाम् इव
सम् अजैषम् इमा अहꣳ सपत्नीर् अभिभूवरी । यथाहम् अस्य वीरस्य विराजानि जनस्य च
तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च । इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन् तुभ्यम् इमे सुतासः
तुभ्यꣳ सुतास् तुभ्यम् उ सोत्वासस् त्वाꣳ गिरः श्वात्र्या आ ह्वयन्ति । इन्द्रेदम् अद्य सवनꣳ जुषाणो विश्वस्य विद्वाꣳ इह पाहि सोमम्
य उशता मनसा सोमम् अस्मै सर्वहृदा देवकामः सुनोति । न गा इन्द्रस् तस्य परा ददाति प्रशस्तम् इच् चारुम् अस्मै कृणोति
अनुस्पष्टो भवत्य् एषो अस्य यो अस्मै रेवान् न सुनोति सोमम् । निर् अरत्नौ मघवा तꣳ दधाति ब्रह्मद्विषो हन्त्य् अनानुदिष्टः
अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ । आभूषन्तस् ते सुमतौ नवायाꣳ वयम् इन्द्र त्वा शुनꣳ हुवेम
मुञ्चामि त्वा हविषा जीवनाय कम् अज्ञातयक्ष्माद् उत राजयक्ष्मात् । ग्राहिर् जग्राह यदि वैतद् एनꣳ तस्या इन्द्राग्नी प्र मुमुक्तम् एनम्
यदि क्षितायुर् यदि वा परेतो यदि मृत्योर् अन्तिकꣳ नीत एव । तम् आ हरामि निरृतेर् उपस्थाद् अस्पार्षम् एनꣳ शतशारदाय
सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षम् एनम् । शतꣳ यथेमꣳ शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम्
शतꣳ जीव शरदो वर्धमानः शतꣳ हेमन्ताञ् छतम् उ वसन्तान् । शतम् इन्द्राग्नी सविता बृहस्पतिः शतायुषा हविषेमम् पुनर् दुः
आहार्षꣳ त्वाविदꣳ त्वा पुनर् आगाः पुनर्नव । सर्वाङ्ग सर्वꣳ ते चक्षुः सर्वम् आयुश् च ते ऽविदम्
ब्रह्मणाग्निः सꣳविदानो रक्षोहा बाधताम् इतः । अमीवा यस् ते गर्भꣳ दुर्णामा योनिम् आशये
यस् ते गर्भम् अमीवा दुर्णामा योनिम् आशये । अग्निष् टम् ब्रह्मणा सह निष् क्रव्यादम् अनीनशत्
यस् ते हन्ति पतयन्तꣳ निषत्स्नुꣳ यः सरीसृपम् । जातꣳ यस् ते जिघाꣳसति तम् इतो नाशयामसि
यस् त ऊरू विहरत्य् अन्तरा दम्पती शये । योनिꣳ यो अन्तर् आरेळ्हि तम् इतो नाशयामसि
यस् त्वा भ्राता पतिर् भूत्वा जारो भूत्वा निपद्यते । प्रजाꣳ यस् ते जिघाꣳसति तम् इतो नाशयामसि
यस् त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते । प्रजाꣳ यस् ते जिघाꣳसति तम् इतो नाशयामसि
अक्षीभ्याꣳ ते नासिकाभ्याꣳ कर्णाभ्याꣳ छुबुकाद् अधि । यक्ष्मꣳ शीर्षण्यम् मस्तिष्काज् जिह्वाया वि वृहामि ते
ग्रीवाभ्यस् त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् । यक्ष्मꣳ दोषण्य१म् अꣳसाभ्याम् बाहुभ्याꣳ वि वृहामि ते
आन्त्रेभ्यस् ते गुदाभ्यो वनिष्ठोर् हृदयाद् अधि । यक्ष्मम् मतस्नाभ्याꣳ यक्नः प्लाशिभ्यो वि वृहामि ते
ऊरुभ्याꣳ ते अष्ठीवद्भ्याम् पार्ष्णिभ्याम् प्रपदाभ्याम् । यक्ष्मꣳ श्रोणिभ्याम् भासदाद् भꣳससो वि वृहामि ते
मेहनाद् वनꣳकरणाल् लोमभ्यस् ते नखेभ्यः । यक्ष्मꣳ सर्वस्माद् आत्मनस् तम् इदꣳ वि वृहामि ते
अङ्गाद्-अङ्गाल् लोम्नो-लोम्नो जातम् पर्वणि-पर्वणि । यक्ष्मꣳ सर्वस्माद् आत्मनस् तम् इदꣳ वि वृहामि ते
अपेहि मनसस् पते ऽप क्राम परश् चर । परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः
भद्रꣳ वै वरꣳ वृणते भद्रꣳ युञ्जन्ति दक्षिणम् । भद्रꣳ वैवस्वते चक्षुर् बहुत्रा जीवतो मनः
यद् आशसा निःशसाभिशसोपारिम जाग्रतो यत् स्वपन्तः । अग्निर् विश्वान्य् अप दुष्कृतान्य् अजुष्टान्य् आरे अस्मद् दधातु
यद् इन्द्र ब्रह्मणस् पते ऽभिद्रोहꣳ चरामसि । प्रचेता न आङ्गिरसो द्विषताम् पात्व् अꣳहसः
अजैष्माद्यासनाम चाभूमानागसो वयम् । जाग्रत्स्वप्नः सꣳकल्पः पापो यꣳ द्विष्मस् तꣳ स ऋच्छतु यो नो द्वेष्टि तम् ऋच्छतु
देवाः कपोत इषितो यद् इच्छन् दूतो निरृत्या इदम् आजगाम । तस्मा अर्चाम कृणवाम निष्कृतिꣳ शꣳ नो अस्तु द्विपदे शꣳ चतुष्पदे
शिवः कपोत इषितो नो अस्त्व् अनागा देवाः शकुनो गृहेषु । अग्निर् हि विप्रो जुषताꣳ हविर् नः परि हेतिः पक्षिणी नो वृणक्तु
हेतिः पक्षिणी न दभात्य् अस्मान् आष्ट्र्याम् पदꣳ कृणुते अग्निधाने । शꣳ नो गोभ्यश् च पुरुषेभ्यश् चास्तु मा नो हिꣳसीद् इह देवाः कपोतः
यद् उलूको वदति मोघम् एतद् यत् कपोतः पदम् अग्नौ कृणोति । यस्य दूतः प्रहित एष एतत् तस्मै यमाय नमो अस्तु मृत्यवे
ऋचा कपोतꣳ नुदत प्रणोदम् इषम् मदन्तः परि गाꣳ नयध्वम् । सꣳयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जम् प्र पतात् पतिष्ठः
ऋषभम् मा समानानाꣳ सपत्नानाꣳ विषासहिम् । हन्तारꣳ शत्रूणाꣳ कृधि विराजꣳ गोपतिꣳ गवाम्
अहम् अस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः । अधः सपत्ना मे पदोर् इमे सर्वे अभिष्ठिताः
अत्रैव वो ऽपि नह्याम्य् उभे आर्त्नी इव ज्यया । वाचस् पते नि षेधेमान् यथा मद् अधरꣳ वदान्
अभिभूर् अहम् आगमꣳ विश्वकर्मेण धाम्ना । आ वश् चित्तम् आ वो व्रतम् आ वो ऽहꣳ समितिꣳ ददे
योगक्षेमꣳ व आदायाहम् भूयासम् उत्तम आ वो मूर्धानम् अक्रमीम् । अधस्पदान् म उद् वदत मण्डूका इवोदकान् मण्डूका उदकाद् इव
तुभ्येदम् इन्द्र परि षिच्यते मधु त्वꣳ सुतस्य कलशस्य राजसि । त्वꣳ रयिम् पुरुवीराम् उ नस् कृधि त्वꣳ तपः परितप्याजयः स्वः
स्वर्जितम् महि मन्दानम् अन्धसो हवामहे परि शक्रꣳ सुताꣳ उप । इमꣳ नो यज्ञम् इह बोध्य् आ गहि स्पृधो जयन्तम् मघवानम् ईमहे
सोमस्य राज्ञो वरुणस्य धर्मणि बृहस्पतेर् अनुमत्या उ शर्मणि । तवाहम् अद्य मघवन्न् उपस्तुतौ धातर् विधातः कलशाꣳ अभक्षयम्
प्रसूतो भक्षम् अकरꣳ चराव् अपि स्तोमꣳ चेमम् प्रथमः सूरिर् उन् मृजे । सुते सातेन यद्य् आगमꣳ वाम् प्रति विश्वामित्रजमदग्नी दमे
वातस्य नु महिमानꣳ रथस्य रुजन्न् एति स्तनयन्न् अस्य घोषः । दिविस्पृग् यात्य् अरुणानि कृण्वन्न् उतो एति पृथिव्या रेणुम् अस्यन्
सम् प्रेरते अनु वातस्य विष्ठा ऐनꣳ गच्छन्ति समनꣳ न योषाः । ताभिः सयुक् सरथꣳ देव ईयते ऽस्य विश्वस्य भुवनस्य राजा
अन्तरिक्षे पथिभिर् ईयमानो न नि विशते कतमच् चनाहः । अपाꣳ सखा प्रथमजा ऋतावा क्व स्विज् जातः कुत आ बभूव
आत्मा देवानाम् भुवनस्य गर्भो यथावशꣳ चरति देव एषः । घोषा इद् अस्य शृण्विरे न रूपꣳ तस्मै वाताय हविषा विधेम
मयोभूर् वातो अभि वातूस्रा ऊर्जस्वतीर् ओषधीर् आ रिशन्ताम् । पीवस्वतीर् जीवधन्याः पिबन्त्व् अवसाय पद्वते रुद्र मृळ
याः सरूपा विरूपा एकरूपा यासाम् अग्निर् इष्ट्या नामानि वेद । या अङ्गिरसस् तपसेह चक्रुस् ताभ्यः पर्जन्य महि शर्म यच्छ
या देवेषु तन्व१म् ऐरयन्त यासाꣳ सोमो विश्वा रूपाणि वेद । ता अस्मभ्यम् पयसा पिन्वमानाः प्रजावतीर् इन्द्र गोष्ठे रिरीहि
प्रजापतिर् मह्यम् एता रराणो विश्वैर् देवैः पितृभिः सꣳविदानः । शिवाः सतीर् उप नो गोष्ठम् आकस् तासाꣳ वयम् प्रजया सꣳ सदेम
विभ्राड् बृहत् पिबतु सोम्यम् मध्व् आयुर् दधद् यज्ञपताव् अविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति
विभ्राड् बृहत् सुभृतꣳ वाजसातमꣳ धर्मन् दिवो धरुणे सत्यम् अर्पितम् । अमित्रहा वृत्रहा दस्युहꣳतमꣳ ज्योतिर् जज्ञे असुरहा सपत्नहा
इदꣳ श्रेष्ठꣳ ज्योतिषाꣳ ज्योतिर् उत्तमꣳ विश्वजिद् धनजिद् उच्यते बृहत् । विश्वभ्राड् भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम्
विभ्राजञ् ज्योतिषा स्व१र् अगच्छो रोचनꣳ दिवः । येनेमा विश्वा भुवनान्य् आभृता विश्वकर्मणा विश्वदेव्यावता
त्वꣳ त्यम् इटतो रथम् इन्द्र प्रावः सुतावतः । अशृणोः सोमिनो हवम्
त्वम् मखस्य दोधतः शिरो ऽव त्वचो भरः । अगच्छः सोमिनो गृहम्
त्वꣳ त्यम् इन्द्र मर्त्यम् आस्त्रबुध्नाय वेन्यम् । मुहुः श्रथ्ना मनस्यवे
त्वꣳ त्यम् इन्द्र सूर्यम् पश्चा सन्तम् पुरस् कृधि । देवानाꣳ चित् तिरो वशम्
आ याहि वनसा सह गावः सचन्त वर्तनिꣳ यद् ऊधभिः
आ याहि वस्व्या धिया मꣳहिष्ठो जारयन्मखः सुदानुभिः
पितुभृतो न तन्तुम् इत् सुदानवः प्रति दध्मो यजामसि
उषा अप स्वसुस् तमः सꣳ वर्तयति वर्तनिꣳ सुजातता
आ त्वाहार्षम् अन्तर् एधि ध्रुवस् तिष्ठाविचाचलिः । विशस् त्वा सर्वा वाञ्छन्तु मा त्वद् राष्ट्रम् अधि भ्रशत्
इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः । इन्द्र इवेह ध्रुवस् तिष्ठेह राष्ट्रम् उ धारय
इमम् इन्द्रो अदीधरद् ध्रुवꣳ ध्रुवेण हविषा । तस्मै सोमो अधि ब्रवत् तस्मा उ ब्रह्मणस् पतिः
ध्रुवा द्यौर् ध्रुवा पृथिवी ध्रुवासः पर्वता इमे । ध्रुवꣳ विश्वम् इदꣳ जगद् ध्रुवो राजा विशाम् अयम्
ध्रुवꣳ ते राजा वरुणो ध्रुवꣳ देवो बृहस्पतिः । ध्रुवꣳ त इन्द्रश् चाग्निश् च राष्ट्रꣳ धारयताꣳ ध्रुवम्
ध्रुवꣳ ध्रुवेण हविषाभि सोमम् मृशामसि । अथो त इन्द्रः केवलीर् विशो बलिहृतस् करत्
अभीवर्तेन हविषा येनेन्द्रो अभिवावृते । तेनास्मान् ब्रह्मणस् पते ऽभि राष्ट्राय वर्तय
अभिवृत्य सपत्नान् अभि या नो अरातयः । अभि पृतन्यन्तꣳ तिष्ठाभि यो न इरस्यति
अभि त्वा देवः सविताभि सोमो अवीवृतत् । अभि त्वा विश्वा भूतान्य् अभीवर्तो यथाससि
येनेन्द्रो हविषा कृत्व्य् अभवद् द्युम्न्य् उत्तमः । इदꣳ तद् अक्रि देवा असपत्नः किलाभुवम्
असपत्नः सपत्नहाभिराष्ट्रो विषासहिः । यथाहम् एषाम् भूतानाꣳ विराजानि जनस्य च
प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा । धूर्षु युज्यध्वꣳ सुनुत
ग्रावाणो अप दुच्छुनाम् अप सेधत दुर्मतिम् । उस्राः कर्तन भेषजम्
ग्रावाण उपरेष्व् आ महीयन्ते सजोषसः । वृष्णे दधतो वृष्ण्यम्
ग्रावाणः सविता नु वो देवः सुवतु धर्मणा । यजमानाय सुन्वते
प्र सूनव ऋभूणाम् बृहन् नवन्त वृजना । क्षामा ये विश्वधायसो ऽश्नन् धेनुꣳ न मातरम्
प्र देवꣳ देव्या धिया भरता जातवेदसम् । हव्या नो वक्षद् आनुषक्
अयम् उ ष्य प्र देवयुर् होता यज्ञाय नीयते । रथो न योर् अभीवृतो घृणीवाञ् चेतति त्मना
अयम् अग्निर् उरुष्यत्य् अमृताद् इव जन्मनः । सहसश् चित् सहीयान् देवो जीवातवे कृतः
पतꣳगम् अक्तम् असुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः । समुद्रे अन्तः कवयो वि चक्षते मरीचीनाम् पदम् इच्छन्ति वेधसः
पतꣳगो वाचम् मनसा बिभर्ति ताꣳ गन्धर्वो ऽवदद् गर्भे अन्तः । ताꣳ द्योतमानाꣳ स्वर्यम् मनीषाम् ऋतस्य पदे कवयो नि पान्ति
अपश्यꣳ गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् । स सध्रीचीः स विषूचीर् वसान आ वरीवर्ति भुवनेष्व् अन्तः
त्यम् ऊ षु वाजिनꣳ देवजूतꣳ सहावानꣳ तरुतारꣳ रथानाम् । अरिष्टनेमिम् पृतनाजम् आशुꣳ स्वस्तये तार्क्ष्यम् इहा हुवेम
इन्द्रस्येव रातिम् आजोहुवानाः स्वस्तये नावम् इवा रुहेम । उर्वी न पृथ्वी बहुले गभीरे मा वाम् एतौ मा परेतौ रिषाम
सद्यश् चिद् यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस् ततान । सहस्रसाः शतसा अस्य रꣳहिर् न स्मा वरन्ते युवतिꣳ न शर्याम्
उत् तिष्ठताव पश्यतेन्द्रस्य भागम् ऋत्वियम् । यदि श्रातो जुहोतन यद्य् अश्रातो ममत्तन
श्रातꣳ हविर् ओ ष्व् इन्द्र प्र याहि जगाम सूरो अध्वनो विमध्यम् । परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिꣳ चरन्तम्
श्रातम् मन्य ऊधनि श्रातम् अग्नौ सुश्रातम् मन्ये तद् ऋतꣳ नवीयः । माध्यꣳदिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन् पुरुकृज् जुषाणः
प्र ससाहिषे पुरुहूत शत्रूञ् ज्येष्ठस् ते शुष्म इह रातिर् अस्तु । इन्द्रा भर दक्षिणेना वसूनि पतिः सिन्धूनाम् असि रेवतीनाम्
मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः । सृकꣳ सꣳशाय पविम् इन्द्र तिग्मꣳ वि शत्रून् ताळ्हि वि मृधो नुदस्व
इन्द्र क्षत्रम् अभि वामम् ओजो ऽजायथा वृषभ चर्षणीनाम् । अपानुदो जनम् अमित्रयन्तम् उरुꣳ देवेभ्यो अकृणोर् उ लोकम्
प्रथश् च यस्य सप्रथश् च नामानुष्टुभस्य हविषो हविर् यत् । धातुर् द्युतानात् सवितुश् च विष्णो रथꣳतरम् आ जभारा वसिष्ठः
अविन्दन् ते अतिहितꣳ यद् आसीद् यज्ञस्य धाम परमꣳ गुहा यत् । धातुर् द्युतानात् सवितुश् च विष्णोर् भरद्वाजो बृहद् आ चक्रे अग्नेः
ते ऽविन्दन् मनसा दीध्याना यजुः ष्कन्नम् प्रथमꣳ देवयानम् । धातुर् द्युतानात् सवितुश् च विष्णोर् आ सूर्याद् अभरन् घर्मम् एते
बृहस्पतिर् नयतु दुर्गहा तिरः पुनर् नेषद् अघशꣳसाय मन्म । क्षिपद् अशस्तिम् अप दुर्मतिꣳ हन्न् अथा करद् यजमानाय शꣳ योः
नराशꣳसो नो ऽवतु प्रयाजे शꣳ नो अस्त्व् अनुयाजो हवेषु । क्षिपद् अशस्तिम् अप दुर्मतिꣳ हन्न् अथा करद् यजमानाय शꣳ योः
तपुर्मूर्धा तपतु रक्षसो ये ब्रह्मद्विषः शरवे हन्तवा उ । क्षिपद् अशस्तिम् अप दुर्मतिꣳ हन्न् अथा करद् यजमानाय शꣳ योः
अपश्यꣳ त्वा मनसा चेकितानꣳ तपसो जातꣳ तपसो विभूतम् । इह प्रजाम् इह रयिꣳ रराणः प्र जायस्व प्रजया पुत्रकाम
अपश्यꣳ त्वा मनसा दीध्यानाꣳ स्वायाꣳ तनू ऋत्व्ये नाधमानाम् । उप माम् उच्चा युवतिर् बभूयाः प्र जायस्व प्रजया पुत्रकामे
अहꣳ गर्भम् अदधाम् ओषधीष्व् अहꣳ विश्वेषु भुवनेष्व् अन्तः । अहम् प्रजा अजनयम् पृथिव्याम् अहꣳ जनिभ्यो अपरीषु पुत्रान्
विष्णुर् योनिꣳ कल्पयतु त्वष्टा रूपाणि पिꣳशतु । आ सिञ्चतु प्रजापतिर् धाता गर्भꣳ दधातु ते
गर्भꣳ धेहि सिनीवालि गर्भꣳ धेहि सरस्वति । गर्भꣳ ते अश्विनौ देवाव् आ धत्ताम् पुष्करस्रजा
हिरण्ययी अरणी यꣳ निर्मन्थतो अश्विना । तꣳ ते गर्भꣳ हवामहे दशमे मासि सूतवे
महि त्रीणाम् अवो ऽस्तु द्युक्षम् मित्रस्यार्यम्णः । दुराधर्षꣳ वरुणस्य
नहि तेषाम् अमा चन नाध्वसु वारणेषु । ईशे रिपुर् अघशꣳसः
यस्मै पुत्रासो अदितेः प्र जीवसे मर्त्याय । ज्योतिर् यच्छन्त्य् अजस्रम्
वात आ वातु भेषजꣳ शम्भु मयोभु नो हृदे । प्र ण आयूꣳषि तारिषत्
उत वात पितासि न उत भ्रातोत नः सखा । स नो जीवातवे कृधि
यद् अदो वात ते गृहे३ ऽमृतस्य निधिर् हितः । ततो नो देहि जीवसे
प्राग्नये वाचम् ईरय वृषभाय क्षितीनाम् । स नः पर्षद् अति द्विषः
यः परस्याः परावतस् तिरो धन्वातिरोचते । स नः पर्षद् अति द्विषः
यो रक्षाꣳसि निजूर्वति वृषा शुक्रेण शोचिषा । स नः पर्षद् अति द्विषः
यो विश्वाभि विपश्यति भुवना सꣳ च पश्यति । स नः पर्षद् अति द्विषः
यो अस्य पारे रजसः शुक्रो अग्निर् अजायत । स नः पर्षद् अति द्विषः
प्र नूनꣳ जातवेदसम् अश्वꣳ हिनोत वाजिनम् । इदꣳ नो बर्हिर् आसदे
अस्य प्र जातवेदसो विप्रवीरस्य मीळ्हुषः । महीम् इयर्मि सुष्टुतिम्
या रुचो जातवेदसो देवत्रा हव्यवाहनीः । ताभिर् नो यज्ञम् इन्वतु
आयꣳ गौः पृश्निर् अक्रमीद् असदन् मातरम् पुरः । पितरꣳ च प्रयन् स्वः
अन्तश् चरति रोचनास्य प्राणाद् अपानती । व्य् अख्यन् महिषो दिवम्
त्रिꣳशद् धाम वि राजति वाक् पतꣳगाय धीयते । प्रति वस्तोर् अह द्युभिः
ऋतꣳ च सत्यꣳ चाभीद्धात् तपसो ऽध्य् अजायत । ततो रात्र्य् अजायत ततः समुद्रो अर्णवः
समुद्राद् अर्णवाद् अधि सꣳवत्सरो अजायत । अहोरात्राणि विदधद् विश्वस्य मिषतो वशी
सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयत् । दिवꣳ च पृथिवीꣳ चान्तरिक्षम् अथो स्वः
सꣳ-सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य आ । इळस् पदे सम् इध्यसे स नो वसून्य् आ भर
सꣳ गच्छध्वꣳ सꣳ वदध्वꣳ सꣳ वो मनाꣳसि जानताम् । देवा भागꣳ यथा पूर्वे सꣳजानाना उपासते
समानो मन्त्रः समितिः समानी समानम् मनः सह चित्तम् एषाम् । समानम् मन्त्रम् अभि मन्त्रये वः समानेन वो हविषा जुहोमि
समानी व आकूतिः समाना हृदयानि वः । समानम् अस्तु वो मनो यथा वः सुसहासति
Using this in academic work? Get formal citation
Tradição Védica (Ṛṣis) (2026). Ṛgveda Saṃhitā — Maṇḍala 10. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/rgveda-mandala-10
Tradição Védica (Ṛṣis). "Ṛgveda Saṃhitā — Maṇḍala 10." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/rgveda-mandala-10.
Tradição Védica (Ṛṣis). "Ṛgveda Saṃhitā — Maṇḍala 10." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/rgveda-mandala-10.