Ṛgveda Saṃhitā — Maṇḍala 2
Tradição Védica (Ṛṣis)
मण्डल २ त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि । त्वꣳ वनेभ्यस् त्वम् ओषधीभ्यस् त्वꣳ नृणाꣳ नृपते जायसे शुचिः
तवाग्ने होत्रꣳ तव पोत्रम् ऋत्वियꣳ तव नेष्ट्रꣳ त्वम् अग्निद् ऋतायतः । तव प्रशास्त्रꣳ त्वम् अध्वरीयसि ब्रह्मा चासि गृहपतिश् च नो दमे
त्वम् अग्न इन्द्रो वृषभः सताम् असि त्वꣳ विष्णुर् उरुगायो नमस्यः । त्वम् ब्रह्मा रयिविद् ब्रह्मणस् पते त्वꣳ विधर्तः सचसे पुरꣳध्या
त्वम् अग्ने राजा वरुणो धृतव्रतस् त्वम् मित्रो भवसि दस्म ईड्यः । त्वम् अर्यमा सत्पतिर् यस्य सम्भुजꣳ त्वम् अꣳशो विदथे देव भाजयुः
त्वम् अग्ने त्वष्टा विधते सुवीर्यꣳ तव ग्नावो मित्रमहः सजात्यम् । त्वम् आशुहेमा ररिषे स्वश्व्यꣳ त्वꣳ नराꣳ शर्धो असि पुरूवसुः
त्वम् अग्ने रुद्रो असुरो महो दिवस् त्वꣳ शर्धो मारुतम् पृक्ष ईशिषे । त्वꣳ वातैर् अरुणैर् यासि शꣳगयस् त्वम् पूषा विधतः पासि नु त्मना
त्वम् अग्ने द्रविणोदा अरꣳकृते त्वꣳ देवः सविता रत्नधा असि । त्वम् भगो नृपते वस्व ईशिषे त्वम् पायुर् दमे यस् ते ऽविधत्
त्वाम् अग्ने दम आ विश्पतिꣳ विशस् त्वाꣳ राजानꣳ सुविदत्रम् ऋञ्जते । त्वꣳ विश्वानि स्वनीक पत्यसे त्वꣳ सहस्राणि शता दश प्रति
त्वाम् अग्ने पितरम् इष्टिभिर् नरस् त्वाम् भ्रात्राय शम्या तनूरुचम् । त्वम् पुत्रो भवसि यस् ते ऽविधत् त्वꣳ सखा सुशेवः पास्य् आधृषः
त्वम् अग्न ऋभुर् आके नमस्य१स् त्वꣳ वाजस्य क्षुमतो राय ईशिषे । त्वꣳ वि भास्य् अनु दक्षि दावने त्वꣳ विशिक्षुर् असि यज्ञम् आतनिः
त्वम् अग्ने अदितिर् देव दाशुषे त्वꣳ होत्रा भारती वर्धसे गिरा । त्वम् इळा शतहिमासि दक्षसे त्वꣳ वृत्रहा वसुपते सरस्वती
त्वम् अग्ने सुभृत उत्तमꣳ वयस् तव स्पार्हे वर्ण आ सꣳदृशि श्रियः । त्वꣳ वाजः प्रतरणो बृहन्न् असि त्वꣳ रयिर् बहुलो विश्वतस् पृथुः
त्वाम् अग्न आदित्यास आस्य१ꣳ त्वाꣳ जिह्वाꣳ शुचयश् चक्रिरे कवे । त्वाꣳ रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविर् अदन्त्य् आहुतम्
त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविर् अदन्त्य् आहुतम् । त्वया मर्तासः स्वदन्त आसुतिꣳ त्वꣳ गर्भो वीरुधाꣳ जज्ञिषे शुचिः
त्वꣳ तान् सꣳ च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे । पृक्षो यद् अत्र महिना वि ते भुवद् अनु द्यावापृथिवी रोदसी उभे
ये स्तोतृभ्यो गोअग्राम् अश्वपेशसम् अग्ने रातिम् उपसृजन्ति सूरयः । अस्माञ् च ताꣳश् च प्र हि नेषि वस्य आ बृहद् वदेम विदथे सुवीराः
यज्ञेन वर्धत जातवेदसम् अग्निꣳ यजध्वꣳ हविषा तना गिरा । समिधानꣳ सुप्रयसꣳ स्वर्णरꣳ द्युक्षꣳ होतारꣳ वृजनेषु धूर्षदम्
अभि त्वा नक्तीर् उषसो ववाशिरे ऽग्ने वत्सꣳ न स्वसरेषु धेनवः । दिव इवेद् अरतिर् मानुषा युगा क्षपो भासि पुरुवार सꣳयतः
तꣳ देवा बुध्ने रजसः सुदꣳससꣳ दिवस्पृथिव्योर् अरतिꣳ न्य् एरिरे । रथम् इव वेद्यꣳ शुक्रशोचिषम् अग्निम् मित्रꣳ न क्षितिषु प्रशꣳस्यम्
तम् उक्षमाणꣳ रजसि स्व आ दमे चन्द्रम् इव सुरुचꣳ ह्वार आ दधुः । पृश्न्याः पतरꣳ चितयन्तम् अक्षभिः पाथो न पायुꣳ जनसी उभे अनु
स होता विश्वम् परि भूत्व् अध्वरꣳ तम् उ हव्यैर् मनुष ऋञ्जते गिरा । हिरिशिप्रो वृधसानासु जर्भुरद् द्यौर् न स्तृभिश् चितयद् रोदसी अनु
स नो रेवत् समिधानः स्वस्तये सꣳददस्वान् रयिम् अस्मासु दीदिहि । आ नः कृणुष्व सुविताय रोदसी अग्ने हव्या मनुषो देव वीतये
दा नो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजꣳ श्रुत्या अपा वृधि । प्राची द्यावापृथिवी ब्रह्मणा कृधि स्व१र् ण शुक्रम् उषसो वि दिद्युतः
स इधान उषसो राम्या अनु स्व१र् ण दीदेद् अरुषेण भानुना । होत्राभिर् अग्निर् मनुषः स्वध्वरो राजा विशाम् अतिथिश् चारुर् आयवे
एवा नो अग्ने अमृतेषु पूर्व्य धीष् पीपाय बृहद्दिवेषु मानुषा । दुहाना धेनुर् वृजनेषु कारवे त्मना शतिनम् पुरुरूपम् इषणि
वयम् अग्ने अर्वता वा सुवीर्यम् ब्रह्मणा वा चितयेमा जनाꣳ अति । अस्माकꣳ द्युम्नम् अधि पञ्च कृष्टिषूच्चा स्व१र् ण शुशुचीत दुष्टरम्
स नो बोधि सहस्य प्रशꣳस्यो यस्मिन् सुजाता इषयन्त सूरयः । यम् अग्ने यज्ञम् उपयन्ति वाजिनो नित्ये तोके दीदिवाꣳसꣳ स्वे दमे
उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश् च शर्मणि । वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः
ये स्तोतृभ्यो गोअग्राम् अश्वपेशसम् अग्ने रातिम् उपसृजन्ति सूरयः । अस्माञ् च ताꣳश् च प्र हि नेषि वस्य आ बृहद् वदेम विदथे सुवीराः
समिद्धो अग्निर् निहितः पृथिव्याम् प्रत्यङ् विश्वानि भुवनान्य् अस्थात् । होता पावकः प्रदिवः सुमेधा देवो देवान् यजत्व् अग्निर् अर्हन्
नराशꣳसः प्रति धामान्य् अञ्जन् तिस्रो दिवः प्रति मह्ना स्वर्चिः । घृतप्रुषा मनसा हव्यम् उन्दन् मूर्धन् यज्ञस्य सम् अनक्तु देवान्
ईळितो अग्ने मनसा नो अर्हन् देवान् यक्षि मानुषात् पूर्वो अद्य । स आ वह मरुताꣳ शर्धो अच्युतम् इन्द्रꣳ नरो बर्हिषदꣳ यजध्वम्
देव बर्हिर् वर्धमानꣳ सुवीरꣳ स्तीर्णꣳ राये सुभरꣳ वेद्य् अस्याम् । घृतेनाक्तꣳ वसवः सीदतेदꣳ विश्वे देवा आदित्या यज्ञियासः
वि श्रयन्ताम् उर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः । व्यचस्वतीर् वि प्रथन्ताम् अजुर्या वर्णम् पुनाना यशसꣳ सुवीरम्
साध्व् अपाꣳसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते । तन्तुꣳ ततꣳ सꣳवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती
दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः सम् ऋचा वपुष्टरा । देवान् यजन्ताव् ऋतुथा सम् अञ्जतो नाभा पृथिव्या अधि सानुषु त्रिषु
सरस्वती साधयन्ती धियꣳ न इळा देवी भारती विश्वतूर्तिः । तिस्रो देवीः स्वधया बर्हिर् एदम् अच्छिद्रम् पान्तु शरणꣳ निषद्य
पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः । प्रजाꣳ त्वष्टा वि ष्यतु नाभिम् अस्मे अथा देवानाम् अप्य् एतु पाथः
वनस्पतिर् अवसृजन्न् उप स्थाद् अग्निर् हविः सूदयाति प्र धीभिः । त्रिधा समक्तꣳ नयतु प्रजानन् देवेभ्यो दैव्यः शमितोप हव्यम्
घृतम् मिमिक्षे घृतम् अस्य योनिर् घृते श्रितो घृतम् व् अस्य धाम । अनुष्वधम् आ वह मादयस्व स्वाहाकृतꣳ वृषभ वक्षि हव्यम्
हुवे वः सुद्योत्मानꣳ सुवृक्तिꣳ विशाम् अग्निम् अतिथिꣳ सुप्रयसम् । मित्र इव यो दिधिषाय्यो भूद् देव आदेवे जने जातवेदाः
इमꣳ विधन्तो अपाꣳ सधस्थे द्वितादधुर् भृगवो विक्ष्व् आ३योः । एष विश्वान्य् अभ्य् अस्तु भूमा देवानाम् अग्निर् अरतिर् जीराश्वः
अग्निꣳ देवासो मानुषीषु विक्षु प्रियꣳ धुः क्षेष्यन्तो न मित्रम् । स दीदयद् उशतीर् ऊर्म्या आ दक्षाय्यो यो दास्वते दम आ
अस्य रण्वा स्वस्येव पुष्टिः सꣳदृष्टिर् अस्य हियानस्य दक्षोः । वि यो भरिभ्रद् ओषधीषु जिह्वाम् अत्यो न रथ्यो दोधवीति वारान्
आ यन् मे अभ्वꣳ वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम् । स चित्रेण चिकिते रꣳसु भासा जुजुर्वाꣳ यो मुहुर् आ युवा भूत्
आ यो वना तातृषाणो न भाति वार् ण पथा रथ्येव स्वानीत् । कृष्णाध्वा तपू रण्वश् चिकेत द्यौर् इव स्मयमानो नभोभिः
स यो व्य् अस्थाद् अभि दक्षद् उर्वीम् पशुर् नैति स्वयुर् अगोपाः । अग्निः शोचिष्माꣳ अतसान्य् उष्णन् कृष्णव्यथिर् अस्वदयन् न भूम
नू ते पूर्वस्यावसो अधीतौ तृतीये विदथे मन्म शꣳसि । अस्मे अग्ने सꣳयद्वीरम् बृहन्तꣳ क्षुमन्तꣳ वाजꣳ स्वपत्यꣳ रयिꣳ दाः
त्वया यथा गृत्समदासो अग्ने गुहा वन्वन्त उपराꣳ अभि ष्युः । सुवीरासो अभिमातिषाहः स्मत् सूरिभ्यो गृणते तद् वयो धाः
होताजनिष्ट चेतनः पिता पितृभ्य ऊतये । प्रयक्षञ् जेन्यꣳ वसु शकेम वाजिनो यमम्
आ यस्मिन् सप्त रश्मयस् तता यज्ञस्य नेतरि । मनुष्वद् दैव्यम् अष्टमम् पोता विश्वꣳ तद् इन्वति
दधन्वे वा यद् ईम् अनु वोचद् ब्रह्माणि वेर् उ तत् । परि विश्वानि काव्या नेमिश् चक्रम् इवाभवत्
साकꣳ हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि । विद्वाꣳ अस्य व्रता ध्रुवा वया इवानु रोहते
ता अस्य वर्णम् आयुवो नेष्टुः सचन्त धेनवः । कुवित् तिसृभ्य आ वरꣳ स्वसारो या इदꣳ ययुः
यदी मातुर् उप स्वसा घृतम् भरन्त्य् अस्थित । तासाम् अध्वर्युर् आगतौ यवो वृष्टीव मोदते
स्वः स्वाय धायसे कृणुताम् ऋत्विग् ऋत्विजम् । स्तोमꣳ यज्ञꣳ चाद् अरꣳ वनेमा ररिमा वयम्
यथा विद्वाꣳ अरꣳ करद् विश्वेभ्यो यजतेभ्यः । अयम् अग्ने त्वे अपि यꣳ यज्ञꣳ चकृमा वयम्
इमाम् मे अग्ने समिधम् इमाम् उपसदꣳ वनेः । इमा उ षु श्रुधी गिरः
अया ते अग्ने विधेमोर्जो नपाद् अश्वमिष्टे । एना सूक्तेन सुजात
तꣳ त्वा गीर्भिर् गिर्वणसꣳ द्रविणस्युꣳ द्रविणोदः । सपर्येम सपर्यवः
स बोधि सूरिर् मघवा वसुपते वसुदावन् । युयोध्य् अ१स्मद् द्वेषाꣳसि
स नो वृष्टिꣳ दिवस् परि स नो वाजम् अनर्वाणम् । स नः सहस्रिणीर् इषः
ईळानायावस्यवे यविष्ठ दूत नो गिरा । यजिष्ठ होतर् आ गहि
अन्तर् ह्य् अग्न ईयसे विद्वाञ् जन्मोभया कवे । दूतो जन्येव मित्र्यः
स विद्वाꣳ आ च पिप्रयो यक्षि चिकित्व आनुषक् । आ चास्मिन् सत्सि बर्हिषि
श्रेष्ठꣳ यविष्ठ भारताग्ने द्युमन्तम् आ भर । वसो पुरुस्पृहꣳ रयिम्
मा नो अरातिर् ईशत देवस्य मर्त्यस्य च । पर्षि तस्या उत द्विषः
विश्वा उत त्वया वयꣳ धारा उदन्या इव । अति गाहेमहि द्विषः
शुचिः पावक वन्द्यो ऽग्ने बृहद् वि रोचसे । त्वꣳ घृतेभिर् आहुतः
त्वꣳ नो असि भारताग्ने वशाभिर् उक्षभिः । अष्टापदीभिर् आहुतः
द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः । सहसस् पुत्रो अद्भुतः
वाजयन्न् इव नू रथान् योगाꣳ अग्नेर् उप स्तुहि । यशस्तमस्य मीळ्हुषः
यः सुनीथो ददाशुषे ऽजुर्यो जरयन्न् अरिम् । चारुप्रतीक आहुतः
य उ श्रिया दमेष्व् आ दोषोषसि प्रशस्यते । यस्य व्रतꣳ न मीयते
आ यः स्व१र् ण भानुना चित्रो विभात्य् अर्चिषा । अञ्जानो अजरैर् अभि
अत्रिम् अनु स्वराज्यम् अग्निम् उक्थानि वावृधुः । विश्वा अधि श्रियो दधे
अग्नेर् इन्द्रस्य सोमस्य देवानाम् ऊतिभिर् वयम् । अरिष्यन्तः सचेमह्य् अभि ष्याम पृतन्यतः
नि होता होतृषदने विदानस् त्वेषो दीदिवाꣳ असदत् सुदक्षः । अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः
त्वꣳ दूतस् त्वम् उ नः परस्पास् त्वꣳ वस्य आ वृषभ प्रणेता । अग्ने तोकस्य नस् तने तनूनाम् अप्रयुच्छन् दीद्यद् बोधि गोपाः
विधेम ते परमे जन्मन्न् अग्ने विधेम स्तोमैर् अवरे सधस्थे । यस्माद् योनेर् उदारिथा यजे तम् प्र त्वे हवीꣳषि जुहुरे समिद्धे
अग्ने यजस्व हविषा यजीयाञ् छ्रुष्टी देष्णम् अभि गृणीहि राधः । त्वꣳ ह्य् असि रयिपती रयीणाꣳ त्वꣳ शुक्रस्य वचसो मनोता
उभयꣳ ते न क्षीयते वसव्यꣳ दिवे-दिवे जायमानस्य दस्म । कृधि क्षुमन्तꣳ जरितारम् अग्ने कृधि पतिꣳ स्वपत्यस्य रायः
सैनानीकेन सुविदत्रो अस्मे यष्टा देवाꣳ आयजिष्ठः स्वस्ति । अदब्धो गोपा उत नः परस्पा अग्ने द्युमद् उत रेवद् दिदीहि
जोहूत्रो अग्निः प्रथमः पितेवेळस् पदे मनुषा यत् समिद्धः । श्रियꣳ वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्य१ः स वाजी
श्रूया अग्निश् चित्रभानुर् हवम् मे विश्वाभिर् गीर्भिर् अमृतो विचेताः । श्यावा रथꣳ वहतो रोहिता वोतारुषाह चक्रे विभृत्रः
उत्तानायाम् अजनयन् सुषूतम् भुवद् अग्निः पुरुपेशासु गर्भः । शिरिणायाꣳ चिद् अक्तुना महोभिर् अपरीवृतो वसति प्रचेताः
जिघर्म्य् अग्निꣳ हविषा घृतेन प्रतिक्षियन्तम् भुवनानि विश्वा । पृथुꣳ तिरश्चा वयसा बृहन्तꣳ व्यचिष्ठम् अन्नै रभसꣳ दृशानम्
आ विश्वतः प्रत्यञ्चꣳ जिघर्म्य् अरक्षसा मनसा तज् जुषेत । मर्यश्रीः स्पृहयद्वर्णो अग्निर् नाभिमृशे तन्वा३ जर्भुराणः
ज्ञेया भागꣳ सहसानो वरेण त्वादूतासो मनुवद् वदेम । अनूनम् अग्निꣳ जुह्वा वचस्या मधुपृचꣳ धनसा जोहवीमि
श्रुधी हवम् इन्द्र मा रिषण्यः स्याम ते दावने वसूनाम् । इमा हि त्वाम् ऊर्जो वर्धयन्ति वसूयवः सिन्धवो न क्षरन्तः
सृजो महीर् इन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः । अमर्त्यꣳ चिद् दासम् मन्यमानम् अवाभिनद् उक्थैर् वावृधानः
उक्थेष्व् इन् नु शूर येषु चाकन् स्तोमेष्व् इन्द्र रुद्रियेषु च । तुभ्येद् एता यासु मन्दसानः प्र वायवे सिस्रते न शुभ्राः
शुभ्रꣳ नु ते शुष्मꣳ वर्धयन्तः शुभ्रꣳ वज्रम् बाह्वोर् दधानाः । शुभ्रस् त्वम् इन्द्र वावृधानो अस्मे दासीर् विशः सूर्येण सह्याः
गुहा हितꣳ गुह्यꣳ गूळ्हम् अप्स्व् अपीवृतम् मायिनꣳ क्षियन्तम् । उतो अपो द्याꣳ तस्तभ्वाꣳसम् अहन्न् अहिꣳ शूर वीर्येण
स्तवा नु त इन्द्र पूर्व्या महान्य् उत स्तवाम नूतना कृतानि । स्तवा वज्रम् बाह्वोर् उशन्तꣳ स्तवा हरी सूर्यस्य केतू
हरी नु त इन्द्र वाजयन्ता घृतश्चुतꣳ स्वारम् अस्वार्ष्टाम् । वि समना भूमिर् अप्रथिष्टारꣳस्त पर्वतश् चित् सरिष्यन्
नि पर्वतः साद्य् अप्रयुच्छन् सम् मातृभिर् वावशानो अक्रान् । दूरे पारे वाणीꣳ वर्धयन्त इन्द्रेषिताꣳ धमनिम् पप्रथन् नि
इन्द्रो महाꣳ सिन्धुम् आशयानम् मायाविनꣳ वृत्रम् अस्फुरन् निः । अरेजेताꣳ रोदसी भियाने कनिक्रदतो वृष्णो अस्य वज्रात्
अरोरवीद् वृष्णो अस्य वज्रो ऽमानुषꣳ यन् मानुषो निजूर्वात् । नि मायिनो दानवस्य माया अपादयत् पपिवान् सुतस्य
पिबा-पिबेद् इन्द्र शूर सोमम् मन्दन्तु त्वा मन्दिनः सुतासः । पृणन्तस् ते कुक्षी वर्धयन्त्व् इत्था सुतः पौर इन्द्रम् आव
त्वे इन्द्राप्य् अभूम विप्रा धियꣳ वनेम ऋतया सपन्तः । अवस्यवो धीमहि प्रशस्तिꣳ सद्यस् ते रायो दावने स्याम
स्याम ते त इन्द्र ये त ऊती अवस्यव ऊर्जꣳ वर्धयन्तः । शुष्मिन्तमꣳ यꣳ चाकनाम देवास्मे रयिꣳ रासि वीरवन्तम्
रासि क्षयꣳ रासि मित्रम् अस्मे रासि शर्ध इन्द्र मारुतꣳ नः । सजोषसो ये च मन्दसानाः प्र वायवः पान्त्य् अग्रणीतिम्
व्यन्त्व् इन् नु येषु मन्दसानस् तृपत् सोमम् पाहि द्रह्यद् इन्द्र । अस्मान् सु पृत्स्व् आ तरुत्रावर्धयो द्याम् बृहद्भिर् अर्कैः
बृहन्त इन् नु ये ते तरुत्रोक्थेभिर् वा सुम्नम् आविवासान् । स्तृणानासो बर्हिः पस्त्यावत् त्वोता इद् इन्द्र वाजम् अग्मन्
उग्रेष्व् इन् नु शूर मन्दसानस् त्रिकद्रुकेषु पाहि सोमम् इन्द्र । प्रदोधुवच् छ्मश्रुषु प्रीणानो याहि हरिभ्याꣳ सुतस्य पीतिम्
धिष्वा शवः शूर येन वृत्रम् अवाभिनद् दानुम् और्णवाभम् । अपावृणोर् ज्योतिर् आर्याय नि सव्यतः सादि दस्युर् इन्द्र
सनेम ये त ऊतिभिस् तरन्तो विश्वाः स्पृध आर्येण दस्यून् । अस्मभ्यꣳ तत् त्वाष्ट्रꣳ विश्वरूपम् अरन्धयः साख्यस्य त्रिताय
अस्य सुवानस्य मन्दिनस् त्रितस्य न्य् अर्बुदꣳ वावृधानो अस्तः । अवर्तयत् सूर्यो न चक्रम् भिनद् वलम् इन्द्रो अङ्गिरस्वान्
नूनꣳ सा ते प्रति वरꣳ जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः
यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् । यस्य शुष्माद् रोदसी अभ्यसेताꣳ नृम्णस्य मह्ना स जनास इन्द्रः
यः पृथिवीꣳ व्यथमानाम् अदृꣳहद् यः पर्वतान् प्रकुपिताꣳ अरम्णात् । यो अन्तरिक्षꣳ विममे वरीयो यो द्याम् अस्तभ्नात् स जनास इन्द्रः
यो हत्वाहिम् अरिणात् सप्त सिन्धून् यो गा उदाजद् अपधा वलस्य । यो अश्मनोर् अन्तर् अग्निꣳ जजान सꣳवृक् समत्सु स जनास इन्द्रः
येनेमा विश्वा च्यवना कृतानि यो दासꣳ वर्णम् अधरꣳ गुहाकः । श्वघ्नीव यो जिगीवाꣳल् लक्षम् आदद् अर्यः पुष्टानि स जनास इन्द्रः
यꣳ स्मा पृच्छन्ति कुह सेति घोरम् उतेम् आहुर् नैषो अस्तीत्य् एनम् । सो अर्यः पुष्टीर् विज इवा मिनाति श्रद् अस्मै धत्त स जनास इन्द्रः
यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः । युक्तग्राव्णो यो ऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः
यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः । यः सूर्यꣳ य उषसꣳ जजान यो अपाꣳ नेता स जनास इन्द्रः
यꣳ क्रन्दसी सꣳयती विह्वयेते परे ऽवर उभया अमित्राः । समानꣳ चिद् रथम् आतस्थिवाꣳसा नाना हवेते स जनास इन्द्रः
यस्मान् न ऋते विजयन्ते जनासो यꣳ युध्यमाना अवसे हवन्ते । यो विश्वस्य प्रतिमानम् बभूव यो अच्युतच्युत् स जनास इन्द्रः
यः शश्वतो मह्य् एनो दधानान् अमन्यमानाञ् छर्वा जघान । यः शर्धते नानुददाति शृध्याꣳ यो दस्योर् हन्ता स जनास इन्द्रः
यः शम्बरम् पर्वतेषु क्षियन्तꣳ चत्वारिꣳश्याꣳ शरद्य् अन्वविन्दत् । ओजायमानꣳ यो अहिꣳ जघान दानुꣳ शयानꣳ स जनास इन्द्रः
यः सप्तरश्मिर् वृषभस् तुविष्मान् अवासृजत् सर्तवे सप्त सिन्धून् । यो रौहिणम् अस्फुरद् वज्रबाहुर् द्याम् आरोहन्तꣳ स जनास इन्द्रः
द्यावा चिद् अस्मै पृथिवी नमेते शुष्माच् चिद् अस्य पर्वता भयन्ते । यः सोमपा निचितो वज्रबाहुर् यो वज्रहस्तः स जनास इन्द्रः
यः सुन्वन्तम् अवति यः पचन्तꣳ यः शꣳसन्तꣳ यः शशमानम् ऊती । यस्य ब्रह्म वर्धनꣳ यस्य सोमो यस्येदꣳ राधः स जनास इन्द्रः
यः सुन्वते पचते दुध्र आ चिद् वाजꣳ दर्दर्षि स किलासि सत्यः । वयꣳ त इन्द्र विश्वह प्रियासः सुवीरासो विदथम् आ वदेम
ऋतुर् जनित्री तस्या अपस् परि मक्षू जात आविशद् यासु वर्धते । तद् आहना अभवत् पिप्युषी पयो ऽꣳशोः पीयूषम् प्रथमꣳ तद् उक्थ्यम्
सध्रीम् आ यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय प्र भरन्त भोजनम् । समानो अध्वा प्रवताम् अनुष्यदे यस् ताकृणोः प्रथमꣳ सास्य् उक्थ्यः
अन्व् एको वदति यद् ददाति तद् रूपा मिनन् तदपा एक ईयते । विश्वा एकस्य विनुदस् तितिक्षते यस् ताकृणोः प्रथमꣳ सास्य् उक्थ्यः
प्रजाभ्यः पुष्टिꣳ विभजन्त आसते रयिम् इव पृष्ठम् प्रभवन्तम् आयते । असिन्वन् दꣳष्ट्रैः पितुर् अत्ति भोजनꣳ यस् ताकृणोः प्रथमꣳ सास्य् उक्थ्यः
अधाकृणोः पृथिवीꣳ सꣳदृशे दिवे यो धौतीनाम् अहिहन्न् आरिणक् पथः । तꣳ त्वा स्तोमेभिर् उदभिर् न वाजिनꣳ देवꣳ देवा अजनन् सास्य् उक्थ्यः
यो भोजनꣳ च दयसे च वर्धनम् आर्द्राद् आ शुष्कम् मधुमद् दुदोहिथ । स शेवधिꣳ नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्य् उक्थ्यः
यः पुष्पिणीश् च प्रस्वश् च धर्मणाधि दाने व्य् अ१वनीर् अधारयः । यश् चासमा अजनो दिद्युतो दिव उरुर् ऊर्वाꣳ अभितः सास्य् उक्थ्यः
यो नार्मरꣳ सहवसुꣳ निहन्तवे पृक्षाय च दासवेशाय चावहः । ऊर्जयन्त्या अपरिविष्टम् आस्यम् उतैवाद्य पुरुकृत् सास्य् उक्थ्यः
शतꣳ वा यस्य दश साकम् आद्य एकस्य श्रुष्टौ यद् ध चोदम् आविथ । अरज्जौ दस्यून् सम् उनब् दभीतये सुप्राव्यो अभवः सास्य् उक्थ्यः
विश्वेद् अनु रोधना अस्य पौꣳस्यꣳ ददुर् अस्मै दधिरे कृत्नवे धनम् । षळ् अस्तभ्ना विष्टिरः पञ्च सꣳदृशः परि परो अभवः सास्य् उक्थ्यः
सुप्रवाचनꣳ तव वीर वीर्य१ꣳ यद् एकेन क्रतुना विन्दसे वसु । जातूष्ठिरस्य प्र वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्य् उक्थ्यः
अरमयः सरपसस् तराय कꣳ तुर्वीतये च वय्याय च स्रुतिम् । नीचा सन्तम् उद् अनयः परावृजम् प्रान्धꣳ श्रोणꣳ श्रवयन् सास्य् उक्थ्यः
अस्मभ्यꣳ तद् वसो दानाय राधः सम् अर्थयस्व बहु ते वसव्यम् । इन्द्र यच् चित्रꣳ श्रवस्या अनु द्यून् बृहद् वदेम विदथे सुवीराः
अध्वर्यवो भरतेन्द्राय सोमम् आमत्रेभिः सिञ्चता मद्यम् अन्धः । कामी हि वीरः सदम् अस्य पीतिꣳ जुहोत वृष्णे तद् इद् एष वष्टि
अध्वर्यवो यो अपो वव्रिवाꣳसꣳ वृत्रꣳ जघानाशन्येव वृक्षम् । तस्मा एतम् भरत तद्वशायꣳ एष इन्द्रो अर्हति पीतिम् अस्य
अध्वर्यवो यो दृभीकꣳ जघान यो गा उदाजद् अप हि वलꣳ वः । तस्मा एतम् अन्तरिक्षे न वातम् इन्द्रꣳ सोमैर् ओर्णुत जूर् न वस्त्रैः
अध्वर्यवो य उरणꣳ जघान नव चख्वाꣳसꣳ नवतिꣳ च बाहून् । यो अर्बुदम् अव नीचा बबाधे तम् इन्द्रꣳ सोमस्य भृथे हिनोत
अध्वर्यवो यः स्व् अश्नꣳ जघान यः शुष्णम् अशुषꣳ यो व्यꣳसम् । यः पिप्रुꣳ नमुचिꣳ यो रुधिक्राꣳ तस्मा इन्द्रायान्धसो जुहोत
अध्वर्यवो यः शतꣳ शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः । यो वर्चिनः शतम् इन्द्रः सहस्रम् अपावपद् भरता सोमम् अस्मै
अध्वर्यवो यः शतम् आ सहस्रम् भूम्या उपस्थे ऽवपज् जघन्वान् । कुत्सस्यायोर् अतिथिग्वस्य वीरान् न्य् आवृणग् भरता सोमम् अस्मै
अध्वर्यवो यन् नरः कामयाध्वे श्रुष्टी वहन्तो नशथा तद् इन्द्रे । गभस्तिपूतम् भरत श्रुतायेन्द्राय सोमꣳ यज्यवो जुहोत
अध्वर्यवः कर्तना श्रुष्टिम् अस्मै वने निपूतꣳ वन उन् नयध्वम् । जुषाणो हस्त्यम् अभि वावशे व इन्द्राय सोमम् मदिरꣳ जुहोत
अध्वर्यवः पयसोधर् यथा गोः सोमेभिर् ईम् पृणता भोजम् इन्द्रम् । वेदाहम् अस्य निभृतम् म एतद् दित्सन्तम् भूयो यजतश् चिकेत
अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य राजा । तम् ऊर्दरꣳ न पृणता यवेनेन्द्रꣳ सोमेभिस् तद् अपो वो अस्तु
अस्मभ्यꣳ तद् वसो दानाय राधः सम् अर्थयस्व बहु ते वसव्यम् । इन्द्र यच् चित्रꣳ श्रवस्या अनु द्यून् बृहद् वदेम विदथे सुवीराः
प्र घा न्व् अस्य महतो महानि सत्या सत्यस्य करणानि वोचम् । त्रिकद्रुकेष्व् अपिबत् सुतस्यास्य मदे अहिम् इन्द्रो जघान
अवꣳशे द्याम् अस्तभायद् बृहन्तम् आ रोदसी अपृणद् अन्तरिक्षम् । स धारयत् पृथिवीम् पप्रथच् च सोमस्य ता मद इन्द्रश् चकार
सद्मेव प्राचो वि मिमाय मानैर् वज्रेण खान्य् अतृणन् नदीनाम् । वृथासृजत् पथिभिर् दीर्घयाथैः सोमस्य ता मद इन्द्रश् चकार
स प्रवोळ्हॄन् परिगत्या दभीतेर् विश्वम् अधाग् आयुधम् इद्धे अग्नौ । सꣳ गोभिर् अश्वैर् असृजद् रथेभिः सोमस्य ता मद इन्द्रश् चकार
स ईम् महीꣳ धुनिम् एतोर् अरम्णात् सो अस्नातॄन् अपारयत् स्वस्ति । त उत्स्नाय रयिम् अभि प्र तस्थुः सोमस्य ता मद इन्द्रश् चकार
सोदञ्चꣳ सिन्धुम् अरिणान् महित्वा वज्रेणान उषसः सम् पिपेष । अजवसो जविनीभिर् विवृश्चन् सोमस्य ता मद इन्द्रश् चकार
स विद्वाꣳ अपगोहꣳ कनीनाम् आविर् भवन्न् उद् अतिष्ठत् परावृक् । प्रति श्रोणः स्थाद् व्य् अ१नग् अचष्ट सोमस्य ता मद इन्द्रश् चकार
भिनद् वलम् अङ्गिरोभिर् गृणानो वि पर्वतस्य दृꣳहितान्य् ऐरत् । रिणग् रोधाꣳसि कृत्रिमाण्य् एषाꣳ सोमस्य ता मद इन्द्रश् चकार
स्वप्नेनाभ्युप्या चुमुरिꣳ धुनिꣳ च जघन्थ दस्युम् प्र दभीतिम् आवः । रम्भी चिद् अत्र विविदे हिरण्यꣳ सोमस्य ता मद इन्द्रश् चकार
नूनꣳ सा ते प्रति वरꣳ जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः
प्र वः सताꣳ ज्येष्ठतमाय सुष्टुतिम् अग्नाव् इव समिधाने हविर् भरे । इन्द्रम् अजुर्यꣳ जरयन्तम् उक्षितꣳ सनाद् युवानम् अवसे हवामहे
यस्माद् इन्द्राद् बृहतः किꣳ चनेम् ऋते विश्वान्य् अस्मिन् सम्भृताधि वीर्या । जठरे सोमꣳ तन्वी३ सहो महो हस्ते वज्रम् भरति शीर्षणि क्रतुम्
न क्षोणीभ्याम् परिभ्वे त इन्द्रियꣳ न समुद्रैः पर्वतैर् इन्द्र ते रथः । न ते वज्रम् अन्व् अश्नोति कश् चन यद् आशुभिः पतसि योजना पुरु
विश्वे ह्य् अस्मै यजताय धृष्णवे क्रतुम् भरन्ति वृषभाय सश्चते । वृषा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमꣳ वृषभेण भानुना
वृष्णः कोशः पवते मध्व ऊर्मिर् वृषभान्नाय वृषभाय पातवे । वृषणाध्वर्यू वृषभासो अद्रयो वृषणꣳ सोमꣳ वृषभाय सुष्वति
वृषा ते वज्र उत ते वृषा रथो वृषणा हरी वृषभाण्य् आयुधा । वृष्णो मदस्य वृषभ त्वम् ईशिष इन्द्र सोमस्य वृषभस्य तृप्णुहि
प्र ते नावꣳ न समने वचस्युवम् ब्रह्मणा यामि सवनेषु दाधृषिः । कुविन् नो अस्य वचसो निबोधिषद् इन्द्रम् उत्सꣳ न वसुनः सिचामहे
पुरा सम्बाधाद् अभ्य् आ ववृत्स्व नो धेनुर् न वत्सꣳ यवसस्य पिप्युषी । सकृत् सु ते सुमतिभिः शतक्रतो सम् पत्नीभिर् न वृषणो नसीमहि
नूनꣳ सा ते प्रति वरꣳ जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः
तद् अस्मै नव्यम् अङ्गिरस्वद् अर्चत शुष्मा यद् अस्य प्रत्नथोदीरते । विश्वा यद् गोत्रा सहसा परीवृता मदे सोमस्य दृꣳहितान्य् ऐरयत्
स भूतु यो ह प्रथमाय धायस ओजो मिमानो महिमानम् आतिरत् । शूरो यो युत्सु तन्वम् परिव्यत शीर्षणि द्याम् महिना प्रत्य् अमुञ्चत
अधाकृणोः प्रथमꣳ वीर्यम् महद् यद् अस्याग्रे ब्रह्मणा शुष्मम् ऐरयः । रथेष्ठेन हर्यश्वेन विच्युताः प्र जीरयः सिस्रते सध्र्य१क् पृथक्
अधा यो विश्वा भुवनाभि मज्मनेशानकृत् प्रवया अभ्य् अवर्धत । आद् रोदसी ज्योतिषा वह्निर् आतनोत् सीव्यन् तमाꣳसि दुधिता सम् अव्ययत्
स प्राचीनान् पर्वतान् दृꣳहद् ओजसाधराचीनम् अकृणोद् अपाम् अपः । अधारयत् पृथिवीꣳ विश्वधायसम् अस्तभ्नान् मायया द्याम् अवस्रसः
सास्मा अरम् बाहुभ्याꣳ यम् पिताकृणोद् विश्वस्माद् आ जनुषो वेदसस् परि । येना पृथिव्याꣳ नि क्रिविꣳ शयध्यै वज्रेण हत्व्य् अवृणक् तुविष्वणिः
अमाजूर् इव पित्रोः सचा सती समानाद् आ सदसस् त्वाम् इये भगम् । कृधि प्रकेतम् उप मास्य् आ भर दद्धि भागꣳ तन्वो३ येन मामहः
भोजꣳ त्वाम् इन्द्र वयꣳ हुवेम ददिष् ट्वम् इन्द्रापाꣳसि वाजान् । अविड्ढीन्द्र चित्रया न ऊती कृधि वृषन्न् इन्द्र वस्यसो नः
नूनꣳ सा ते प्रति वरꣳ जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः
प्राता रथो नवो योजि सस्निश् चतुर्युगस् त्रिकशः सप्तरश्मिः । दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर् मतिभी रꣳह्यो भूत्
सास्मा अरम् प्रथमꣳ स द्वितीयम् उतो तृतीयम् मनुषः स होता । अन्यस्या गर्भम् अन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वृषा
हरी नु कꣳ रथ इन्द्रस्य योजम् आयै सूक्तेन वचसा नवेन । मो षु त्वाम् अत्र बहवो हि विप्रा नि रीरमन् यजमानासो अन्ये
आ द्वाभ्याꣳ हरिभ्याम् इन्द्र याह्य् आ चतुर्भिर् आ षड्भिर् हूयमानः । आष्टाभिर् दशभिः सोमपेयम् अयꣳ सुतः सुमख मा मृधस् कः
आ विꣳशत्या त्रिꣳशता याह्य् अर्वाङ् आ चत्वारिꣳशता हरिभिर् युजानः । आ पञ्चाशता सुरथेभिर् इन्द्रा षष्ट्या सप्तत्या सोमपेयम्
आशीत्या नवत्या याह्य् अर्वाङ् आ शतेन हरिभिर् उह्यमानः । अयꣳ हि ते शुनहोत्रेषु सोम इन्द्र त्वाया परिषिक्तो मदाय
मम ब्रह्मेन्द्र याह्य् अच्छा विश्वा हरी धुरि धिष्वा रथस्य । पुरुत्रा हि विहव्यो बभूथास्मिञ् छूर सवने मादयस्व
न म इन्द्रेण सख्यꣳ वि योषद् अस्मभ्यम् अस्य दक्षिणा दुहीत । उप ज्येष्ठे वरूथे गभस्तौ प्राये-प्राये जिगीवाꣳसः स्याम
नूनꣳ सा ते प्रति वरꣳ जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः
अपाय्य् अस्यान्धसो मदाय मनीषिणः सुवानस्य प्रयसः । यस्मिन्न् इन्द्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यन्तश् च नरः
अस्य मन्दानो मध्वो वज्रहस्तो ऽहिम् इन्द्रो अर्णोवृतꣳ वि वृश्चत् । प्र यद् वयो न स्वसराण्य् अच्छा प्रयाꣳसि च नदीनाꣳ चक्रमन्त
स माहिन इन्द्रो अर्णो अपाम् प्रैरयद् अहिहाच्छा समुद्रम् । अजनयत् सूर्यꣳ विदद् गा अक्तुनाह्नाꣳ वयुनानि साधत्
सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद् दाशुषे हन्ति वृत्रम् । सद्यो यो नृभ्यो अतसाय्यो भूत् पस्पृधानेभ्यः सूर्यस्य सातौ
स सुन्वत इन्द्रः सूर्यम् आ देवो रिणङ् मर्त्याय स्तवान् । आ यद् रयिꣳ गुहदवद्यम् अस्मै भरद् अꣳशꣳ नैतशो दशस्यन्
स रन्धयत् सदिवः सारथये शुष्णम् अशुषꣳ कुयवꣳ कुत्साय । दिवोदासाय नवतिꣳ च नवेन्द्रः पुरो व्य् ऐरच् छम्बरस्य
एवा त इन्द्रोचथम् अहेम श्रवस्या न त्मना वाजयन्तः । अश्याम तत् साप्तम् आशुषाणा ननमो वधर् अदेवस्य पीयोः
एवा ते गृत्समदाः शूर मन्मावस्यवो न वयुनानि तक्षुः । ब्रह्मण्यन्त इन्द्र ते नवीय इषम् ऊर्जꣳ सुक्षितिꣳ सुम्नम् अश्युः
नूनꣳ सा ते प्रति वरꣳ जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः
वयꣳ ते वय इन्द्र विद्धि षु णः प्र भरामहे वाजयुर् न रथम् । विपन्यवो दीध्यतो मनीषा सुम्नम् इयक्षन्तस् त्वावतो नॄन्
त्वꣳ न इन्द्र त्वाभिर् ऊती त्वायतो अभिष्टिपासि जनान् । त्वम् इनो दाशुषो वरूतेत्थाधीर् अभि यो नक्षति त्वा
स नो युवेन्द्रो जोहूत्रः सखा शिवो नराम् अस्तु पाता । यः शꣳसन्तꣳ यः शशमानम् ऊती पचन्तꣳ च स्तुवन्तꣳ च प्रणेषत्
तम् उ स्तुष इन्द्रꣳ तꣳ गृणीषे यस्मिन् पुरा वावृधुः शाशदुश् च । स वस्वः कामम् पीपरद् इयानो ब्रह्मण्यतो नूतनस्यायोः
सो अङ्गिरसाम् उचथा जुजुष्वान् ब्रह्मा तूतोद् इन्द्रो गातुम् इष्णन् । मुष्णन्न् उषसः सूर्येण स्तवान् अश्नस्य चिच् छिश्नथत् पूर्व्याणि
स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन् मनुषे दस्मतमः । अव प्रियम् अर्शसानस्य साह्वाञ् छिरो भरद् दासस्य स्वधावान्
स वृत्रहेन्द्रः कृष्णयोनीः पुरꣳदरो दासीर् ऐरयद् वि । अजनयन् मनवे क्षाम् अपश् च सत्रा शꣳसꣳ यजमानस्य तूतोत्
तस्मै तवस्य१म् अनु दायि सत्रेन्द्राय देवेभिर् अर्णसातौ । प्रति यद् अस्य वज्रम् बाह्वोर् धुर् हत्वी दस्यून् पुर आयसीर् नि तारीत्
नूनꣳ सा ते प्रति वरꣳ जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः
विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते । अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमꣳ यजताय हर्यतम्
अभिभुवे ऽभिभङ्गाय वन्वते ऽषाळ्हाय सहमानाय वेधसे । तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत
सत्रासाहो जनभक्षो जनꣳसहश् च्यवनो युध्मो अनु जोषम् उक्षितः । वृतꣳचयः सहुरिर् विक्ष्व् आरित इन्द्रस्य वोचम् प्र कृतानि वीर्या
अनानुदो वृषभो दोधतो वधो गम्भीर ऋष्वो असमष्टकाव्यः । रध्रचोदः श्नथनो वीळितस् पृथुर् इन्द्रः सुयज्ञ उषसः स्वर् जनत्
यज्ञेन गातुम् अप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः । अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्य् आशत
इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिꣳ दक्षस्य सुभगत्वम् अस्मे । पोषꣳ रयीणाम् अरिष्टिꣳ तनूनाꣳ स्वाद्मानꣳ वाचः सुदिनत्वम् अह्नाम्
त्रिकद्रुकेषु महिषो यवाशिरꣳ तुविशुष्मस् तृपत् सोमम् अपिबद् विष्णुना सुतꣳ यथावशत् । स ईम् ममाद महि कर्म कर्तवे महाम् उरुꣳ सैनꣳ सश्चद् देवो देवꣳ सत्यम् इन्द्रꣳ सत्य इन्दुः
अध त्विषीमाꣳ अभ्य् ओजसा क्रिविꣳ युधाभवद् आ रोदसी अपृणद् अस्य मज्मना प्र वावृधे । अधत्तान्यꣳ जठरे प्रेम् अरिच्यत सैनꣳ सश्चद् देवो देवꣳ सत्यम् इन्द्रꣳ सत्य इन्दुः
साकꣳ जातः क्रतुना साकम् ओजसा ववक्षिथ साकꣳ वृद्धो वीर्यैः सासहिर् मृधो विचर्षणिः । दाता राधः स्तुवते काम्यꣳ वसु सैनꣳ सश्चद् देवो देवꣳ सत्यम् इन्द्रꣳ सत्य इन्दुः
तव त्यन् नर्यꣳ नृतो ऽप इन्द्र प्रथमम् पूर्व्यꣳ दिवि प्रवाच्यꣳ कृतम् । यद् देवस्य शवसा प्रारिणा असुꣳ रिणन्न् अपः । भुवद् विश्वम् अभ्य् आदेवम् ओजसा विदाद् ऊर्जꣳ शतक्रतुर् विदाद् इषम्
गणानाꣳ त्वा गणपतिꣳ हवामहे कविꣳ कवीनाम् उपमश्रवस्तमम् । ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस् पत आ नः शृण्वन्न् ऊतिभिः सीद सादनम्
देवाश् चित् ते असुर्य प्रचेतसो बृहस्पते यज्ञियम् भागम् आनशुः । उस्रा इव सूर्यो ज्योतिषा महो विश्वेषाम् इज् जनिता ब्रह्मणाम् असि
आ विबाध्या परिरापस् तमाꣳसि च ज्योतिष्मन्तꣳ रथम् ऋतस्य तिष्ठसि । बृहस्पते भीमम् अमित्रदम्भनꣳ रक्षोहणꣳ गोत्रभिदꣳ स्वर्विदम्
सुनीतिभिर् नयसि त्रायसे जनꣳ यस् तुभ्यꣳ दाशान् न तम् अꣳहो अश्नवत् । ब्रह्मद्विषस् तपनो मन्युमीर् असि बृहस्पते महि तत् ते महित्वनम्
न तम् अꣳहो न दुरितꣳ कुतश् चन नारातयस् तितिरुर् न द्वयाविनः । विश्वा इद् अस्माद् ध्वरसो वि बाधसे यꣳ सुगोपा रक्षसि ब्रह्मणस् पते
त्वꣳ नो गोपाः पथिकृद् विचक्षणस् तव व्रताय मतिभिर् जरामहे । बृहस्पते यो नो अभि ह्वरो दधे स्वा तम् मर्मर्तु दुच्छुना हरस्वती
उत वा यो नो मर्चयाद् अनागसो ऽरातीवा मर्तः सानुको वृकः । बृहस्पते अप तꣳ वर्तया पथः सुगꣳ नो अस्यै देववीतये कृधि
त्रातारꣳ त्वा तनूनाꣳ हवामहे ऽवस्पर्तर् अधिवक्तारम् अस्मयुम् । बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरꣳ सुम्नम् उन् नशन्
त्वया वयꣳ सुवृधा ब्रह्मणस् पते स्पार्हा वसु मनुष्या ददीमहि । या नो दूरे तळितो या अरातयो ऽभि सन्ति जम्भया ता अनप्नसः
त्वया वयम् उत्तमꣳ धीमहे वयो बृहस्पते पप्रिणा सस्निना युजा । मा नो दुःशꣳसो अभिदिप्सुर् ईशत प्र सुशꣳसा मतिभिस् तारिषीमहि
अनानुदो वृषभो जग्मिर् आहवꣳ निष्टप्ता शत्रुम् पृतनासु सासहिः । असि सत्य ऋणया ब्रह्मणस् पत उग्रस्य चिद् दमिता वीळुहर्षिणः
अदेवेन मनसा यो रिषण्यति शासाम् उग्रो मन्यमानो जिघाꣳसति । बृहस्पते मा प्रणक् तस्य नो वधो नि कर्म मन्युꣳ दुरेवस्य शर्धतः
भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनꣳ-धनम् । विश्वा इद् अर्यो अभिदिप्स्वो३ मृधो बृहस्पतिर् वि ववर्हा रथाꣳ इव
तेजिष्ठया तपनी रक्षसस् तप ये त्वा निदे दधिरे दृष्टवीर्यम् । आविस् तत् कृष्व यद् असत् त उक्थ्य१म् बृहस्पते वि परिरापो अर्दय
बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु । यद् दीदयच् छवस ऋतप्रजात तद् अस्मासु द्रविणꣳ धेहि चित्रम्
मा नः स्तेनेभ्यो ये अभि द्रुहस् पदे निरामिणो रिपवो ऽन्नेषु जागृधुः । आ देवानाम् ओहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः
विश्वेभ्यो हि त्वा भुवनेभ्यस् परि त्वष्टाजनत् साम्नः-साम्नः कविः । स ऋणचिद् ऋणया ब्रह्मणस् पतिर् द्रुहो हन्ता मह ऋतस्य धर्तरि
तव श्रिये व्य् अजिहीत पर्वतो गवाꣳ गोत्रम् उदसृजो यद् अङ्गिरः । इन्द्रेण युजा तमसा परीवृतम् बृहस्पते निर् अपाम् औब्जो अर्णवम्
ब्रह्मणस् पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयꣳ च जिन्व । विश्वꣳ तद् भद्रꣳ यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः
सेमाम् अविड्ढि प्रभृतिꣳ य ईशिषे ऽया विधेम नवया महा गिरा । यथा नो मीढ्वान् स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम्
यो नन्त्वान्य् अनमन् न्य् ओजसोतादर्दर् मन्युना शम्बराणि वि । प्राच्यावयद् अच्युता ब्रह्मणस् पतिर् आ चाविशद् वसुमन्तꣳ वि पर्वतम्
तद् देवानाꣳ देवतमाय कर्त्वम् अश्रथ्नन् दृळ्हाव्रदन्त वीळिता । उद् गा आजद् अभिनद् ब्रह्मणा वलम् अगूहत् तमो व्य् अचक्षयत् स्वः
अश्मास्यम् अवतम् ब्रह्मणस् पतिर् मधुधारम् अभि यम् ओजसातृणत् । तम् एव विश्वे पपिरे स्वर्दृशो बहु साकꣳ सिसिचुर् उत्सम् उद्रिणम्
सना ता का चिद् भुवना भवीत्वा माद्भिः शरद्भिर् दुरो वरन्त वः । अयतन्ता चरतो अन्यद्-अन्यद् इद् या चकार वयुना ब्रह्मणस् पतिः
अभिनक्षन्तो अभि ये तम् आनशुर् निधिम् पणीनाम् परमꣳ गुहा हितम् । ते विद्वाꣳसः प्रतिचक्ष्यानृता पुनर् यत उ आयन् तद् उद् ईयुर् आविशम्
ऋतावानः प्रतिचक्ष्यानृता पुनर् आत आ तस्थुः कवयो महस् पथः । ते बाहुभ्याꣳ धमितम् अग्निम् अश्मनि नकिः षो अस्त्य् अरणो जहुर् हि तम्
ऋतज्येन क्षिप्रेण ब्रह्मणस् पतिर् यत्र वष्टि प्र तद् अश्नोति धन्वना । तस्य साध्वीर् इषवो याभिर् अस्यति नृचक्षसो दृशये कर्णयोनयः
स सꣳनयः स विनयः पुरोहितः स सुष्टुतः स युधि ब्रह्मणस् पतिः । चाक्ष्मो यद् वाजम् भरते मती धनाद् इत् सूर्यस् तपति तप्यतुर् वृथा
विभु प्रभु प्रथमम् मेहनावतो बृहस्पतेः सुविदत्राणि राध्या । इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः
यो ऽवरे वृजने विश्वथा विभुर् महाम् उ रण्वः शवसा ववक्षिथ । स देवो देवान् प्रति पप्रथे पृथु विश्वेद् उ ता परिभूर् ब्रह्मणस् पतिः
विश्वꣳ सत्यम् मघवाना युवोर् इद् आपश् चन प्र मिनन्ति व्रतꣳ वाम् । अच्छेन्द्राब्रह्मणस्पती हविर् नो ऽन्नꣳ युजेव वाजिना जिगातम्
उताशिष्ठा अनु शृण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना । वीळुद्वेषा अनु वश ऋणम् आददिः स ह वाजी समिथे ब्रह्मणस् पतिः
ब्रह्मणस् पतेर् अभवद् यथावशꣳ सत्यो मन्युर् महि कर्मा करिष्यतः । यो गा उदाजत् स दिवे वि चाभजन् महीव रीतिः शवसासरत् पृथक्
ब्रह्मणस् पते सुयमस्य विश्वहा रायः स्याम रथ्यो३ वयस्वतः । वीरेषु वीराꣳ उप पृङ्धि नस् त्वꣳ यद् ईशानो ब्रह्मणा वेषि मे हवम्
ब्रह्मणस् पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयꣳ च जिन्व । विश्वꣳ तद् भद्रꣳ यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः
इन्धानो अग्निꣳ वनवद् वनुष्यतः कृतब्रह्मा शूशुवद् रातहव्य इत् । जातेन जातम् अति स प्र सर्सृते यꣳ-यꣳ युजꣳ कृणुते ब्रह्मणस् पतिः
वीरेभिर् वीरान् वनवद् वनुष्यतो गोभी रयिम् पप्रथद् बोधति त्मना । तोकꣳ च तस्य तनयꣳ च वर्धते यꣳ-यꣳ युजꣳ कृणुते ब्रह्मणस् पतिः
सिन्धुर् न क्षोदः शिमीवाꣳ ऋघायतो वृषेव वध्रीꣳर् अभि वष्ट्य् ओजसा । अग्नेर् इव प्रसितिर् नाह वर्तवे यꣳ-यꣳ युजꣳ कृणुते ब्रह्मणस् पतिः
तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः प्रथमो गोषु गच्छति । अनिभृष्टतविषिर् हन्त्य् ओजसा यꣳ-यꣳ युजꣳ कृणुते ब्रह्मणस् पतिः
तस्मा इद् विश्वे धुनयन्त सिन्धवो ऽच्छिद्रा शर्म दधिरे पुरूणि । देवानाꣳ सुम्ने सुभगः स एधते यꣳ-यꣳ युजꣳ कृणुते ब्रह्मणस् पतिः
ऋजुर् इच् छꣳसो वनवद् वनुष्यतो देवयन्न् इद् अदेवयन्तम् अभ्य् असत् । सुप्रावीर् इद् वनवत् पृत्सु दुष्टरꣳ यज्वेद् अयज्योर् वि भजाति भोजनम्
यजस्व वीर प्र विहि मनायतो भद्रम् मनः कृणुष्व वृत्रतूर्ये । हविष् कृणुष्व सुभगो यथाससि ब्रह्मणस् पतेर् अव आ वृणीमहे
स इज् जनेन स विशा स जन्मना स पुत्रैर् वाजम् भरते धना नृभिः । देवानाꣳ यः पितरम् आविवासति श्रद्धामना हविषा ब्रह्मणस् पतिम्
यो अस्मै हव्यैर् घृतवद्भिर् अविधत् प्र तम् प्राचा नयति ब्रह्मणस् पतिः । उरुष्यतीम् अꣳहसो रक्षती रिषो३ ऽꣳहोश् चिद् अस्मा उरुचक्रिर् अद्भुतः
इमा गिर आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि । शृणोतु मित्रो अर्यमा भगो नस् तुविजातो वरुणो दक्षो अꣳशः
इमꣳ स्तोमꣳ सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त । आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः
त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः । अन्तः पश्यन्ति वृजिनोत साधु सर्वꣳ राजभ्यः परमा चिद् अन्ति
धारयन्त आदित्यासो जगत् स्था देवा विश्वस्य भुवनस्य गोपाः । दीर्घाधियो रक्षमाणा असुर्यम् ऋतावानश् चयमाना ऋणानि
विद्याम् आदित्या अवसो वो अस्य यद् अर्यमन् भय आ चिन् मयोभु । युष्माकम् मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि वृज्याम्
सुगो हि वो अर्यमन् मित्र पन्था अनृक्षरो वरुण साधुर् अस्ति । तेनादित्या अधि वोचता नो यच्छता नो दुष्परिहन्तु शर्म
पिपर्तु नो अदिती राजपुत्राति द्वेषाꣳस्य् अर्यमा सुगेभिः । बृहन् मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः
तिस्रो भूमीर् धारयन् त्रीꣳर् उत द्यून् त्रीणि व्रता विदथे अन्तर् एषाम् । ऋतेनादित्या महि वो महित्वꣳ तद् अर्यमन् वरुण मित्र चारु
त्री रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः । अस्वप्नजो अनिमिषा अदब्धा उरुशꣳसा ऋजवे मर्त्याय
त्वꣳ विश्वेषाꣳ वरुणासि राजा ये च देवा असुर ये च मर्ताः । शतꣳ नो रास्व शरदो विचक्षे ऽश्यामायूꣳषि सुधितानि पूर्वा
न दक्षिणा वि चिकिते न सव्या न प्राचीनम् आदित्या नोत पश्चा । पाक्या चिद् वसवो धीर्या चिद् युष्मानीतो अभयꣳ ज्योतिर् अश्याम्
यो राजभ्य ऋतनिभ्यो ददाश यꣳ वर्धयन्ति पुष्टयश् च नित्याः । स रेवान् याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः
शुचिर् अपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः । नकिष् टꣳ घ्नन्त्य् अन्तितो न दूराद् य आदित्यानाम् भवति प्रणीतौ
अदिते मित्र वरुणोत मृळ यद् वो वयꣳ चकृमा कच् चिद् आगः । उर्व् अश्याम् अभयꣳ ज्योतिर् इन्द्र मा नो दीर्घा अभि नशन् तमिस्राः
उभे अस्मै पीपयतः समीची दिवो वृष्टिꣳ सुभगो नाम पुष्यन् । उभा क्षयाव् आजयन् याति पृत्सूभाव् अर्धौ भवतः साधू अस्मै
या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः । अश्वीव ताꣳ अति येषꣳ रथेनारिष्टा उराव् आ शर्मन् स्याम
माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदꣳ शूनम् आपेः । मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे सुवीराः
इदꣳ कवेर् आदित्यस्य स्वराजो विश्वानि सान्त्य् अभ्य् अस्तु मह्ना । अति यो मन्द्रो यजथाय देवः सुकीर्तिम् भिक्षे वरुणस्य भूरेः
तव व्रते सुभगासः स्याम स्वाध्यो वरुण तुष्टुवाꣳसः । उपायन उषसाꣳ गोमतीनाम् अग्नयो न जरमाणा अनु द्यून्
तव स्याम पुरुवीरस्य शर्मन्न् उरुशꣳसस्य वरुण प्रणेतः । यूयꣳ नः पुत्रा अदितेर् अदब्धा अभि क्षमध्वꣳ युज्याय देवाः
प्र सीम् आदित्यो असृजद् विधर्ताꣳ ऋतꣳ सिन्धवो वरुणस्य यन्ति । न श्राम्यन्ति न वि मुचन्त्य् एते वयो न पप्तू रघुया परिज्मन्
वि मच् छ्रथाय रशनाम् इवाग ऋध्याम ते वरुण खाम् ऋतस्य । मा तन्तुश् छेदि वयतो धियम् मे मा मात्रा शार्य् अपसः पुर ऋतोः
अपो सु म्यक्ष वरुण भियसम् मत् सम्राळ् ऋतावो ऽनु मा गृभाय । दामेव वत्साद् वि मुमुग्ध्य् अꣳहो नहि त्वद् आरे निमिषश् चनेशे
मा नो वधैर् वरुण ये त इष्टाव् एनः कृण्वन्तम् असुर भ्रीणन्ति । मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः
नमः पुरा ते वरुणोत नूनम् उतापरꣳ तुविजात ब्रवाम । त्वे हि कम् पर्वते न श्रितान्य् अप्रच्युतानि दूळभ व्रतानि
पर ऋणा सावीर् अध मत्कृतानि माहꣳ राजन्न् अन्यकृतेन भोजम् । अव्युष्टा इन् नु भूयसीर् उषास आ नो जीवान् वरुण तासु शाधि
यो मे राजन् युज्यो वा सखा वा स्वप्ने भयम् भीरवे मह्यम् आह । स्तेनो वा यो दिप्सति नो वृको वा त्वꣳ तस्माद् वरुण पाह्य् अस्मान्
माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदꣳ शूनम् आपेः । मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे सुवीराः
धृतव्रता आदित्या इषिरा आरे मत् कर्त रहसूर् इवागः । शृण्वतो वो वरुण मित्र देवा भद्रस्य विद्वाꣳ अवसे हुवे वः
यूयꣳ देवाः प्रमतिर् यूयम् ओजो यूयꣳ द्वेषाꣳसि सनुतर् युयोत । अभिक्षत्तारो अभि च क्षमध्वम् अद्या च नो मृळयतापरꣳ च
किम् ऊ नु वः कृणवामापरेण किꣳ सनेन वसव आप्येन । यूयꣳ नो मित्रावरुणादिते च स्वस्तिम् इन्द्रामरुतो दधात
हये देवा यूयम् इद् आपयः स्थ ते मृळत नाधमानाय मह्यम् । मा वो रथो मध्यमवाळ् ऋते भून् मा युष्मावत्स्व् आपिषु श्रमिष्म
प्र व एको मिमय भूर्य् आगो यन् मा पितेव कितवꣳ शशास । आरे पाशा आरे अघानि देवा मा माधि पुत्रे विम् इव ग्रभीष्ट
अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् । त्राध्वꣳ नो देवा निजुरो वृकस्य त्राध्वꣳ कर्ताद् अवपदो यजत्राः
माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदꣳ शूनम् आपेः । मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे सुवीराः
ऋतꣳ देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः । अहर्-अहर् यात्य् अक्तुर् अपाꣳ कियात्य् आ प्रथमः सर्ग आसाम्
यो वृत्राय सिनम् अत्राभरिष्यत् प्र तꣳ जनित्री विदुष उवाच । पथो रदन्तीर् अनु जोषम् अस्मै दिवे-दिवे धुनयो यन्त्य् अर्थम्
ऊर्ध्वो ह्य् अस्थाद् अध्य् अन्तरिक्षे ऽधा वृत्राय प्र वधꣳ जभार । मिहꣳ वसान उप हीम् अदुद्रोत् तिग्मायुधो अजयच् छत्रुम् इन्द्रः
बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान् । यथा जघन्थ धृषता पुरा चिद् एवा जहि शत्रुम् अस्माकम् इन्द्र
अव क्षिप दिवो अश्मानम् उच्चा येन शत्रुम् मन्दसानो निजूर्वाः । तोकस्य सातौ तनयस्य भूरेर् अस्माꣳ अर्धꣳ कृणुताद् इन्द्र गोनाम्
प्र हि क्रतुꣳ वृहथो यꣳ वनुथो रध्रस्य स्थो यजमानस्य चोदौ । इन्द्रासोमा युवम् अस्माꣳ अविष्टम् अस्मिन् भयस्थे कृणुतम् उ लोकम्
न मा तमन् न श्रमन् नोत तन्द्रन् न वोचाम मा सुनोतेति सोमम् । यो मे पृणाद् यो ददद् यो निबोधाद् यो मा सुन्वन्तम् उप गोभिर् आयत्
सरस्वति त्वम् अस्माꣳ अविड्ढि मरुत्वती धृषती जेषि शत्रून् । त्यꣳ चिच् छर्धन्तꣳ तविषीयमाणम् इन्द्रो हन्ति वृषभꣳ शण्डिकानाम्
यो नः सनुत्य उत वा जिघत्नुर् अभिख्याय तꣳ तिगितेन विध्य । बृहस्पत आयुधैर् जेषि शत्रून् द्रुहे रीषन्तम् परि धेहि राजन्
अस्माकेभिः सत्वभिः शूर शूरैर् वीर्या कृधि यानि ते कर्त्वानि । ज्योग् अभूवन्न् अनुधूपितासो हत्वी तेषाम् आ भरा नो वसूनि
तꣳ वः शर्धम् मारुतꣳ सुम्नयुर् गिरोप ब्रुवे नमसा दैव्यꣳ जनम् । यथा रयिꣳ सर्ववीरꣳ नशामहा अपत्यसाचꣳ श्रुत्यꣳ दिवे-दिवे
अस्माकम् मित्रावरुणावतꣳ रथम् आदित्यै रुद्रैर् वसुभिः सचाभुवा । प्र यद् वयो न पप्तन् वस्मनस् परि श्रवस्यवो हृषीवन्तो वनर्षदः
अध स्मा न उद् अवता सजोषसो रथꣳ देवासो अभि विक्षु वाजयुम् । यद् आशवः पद्याभिस् तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः
उत स्य न इन्द्रो विश्वचर्षणिर् दिवः शर्धेन मारुतेन सुक्रतुः । अनु नु स्थात्य् अवृकाभिर् ऊतिभी रथम् महे सनये वाजसातये
उत स्य देवो भुवनस्य सक्षणिस् त्वष्टा ग्नाभिः सजोषा जूजुवद् रथम् । इळा भगो बृहद्दिवोत रोदसी पूषा पुरꣳधिर् अश्विनाव् अधा पती
उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगताम् अपीजुवा । स्तुषे यद् वाम् पृथिवि नव्यसा वचः स्थातुश् च वयस् त्रिवया उपस्तिरे
उत वः शꣳसम् उशिजाम् इव श्मस्य् अहिर् बुध्न्यो३ ऽज एकपाद् उत । त्रित ऋभुक्षाः सविता चनो दधे ऽपाꣳ नपाद् आशुहेमा धिया शमि
एता वो वश्म्य् उद्यता यजत्रा अतक्षन्न् आयवो नव्यसे सम् । श्रवस्यवो वाजꣳ चकानाः सप्तिर् न रथ्यो अह धीतिम् अश्याः
अस्य मे द्यावापृथिवी ऋतायतो भूतम् अवित्री वचसः सिषासतः । ययोर् आयुः प्रतरꣳ ते इदम् पुर उपस्तुते वसूयुर् वाम् महो दधे
मा नो गुह्या रिप आयोर् अहन् दभन् मा न आभ्यो रीरधो दुच्छुनाभ्यः । मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत् त्वेमहे
अहेळता मनसा श्रुष्टिम् आ वह दुहानाꣳ धेनुम् पिप्युषीम् असश्चतम् । पद्याभिर् आशुꣳ वचसा च वाजिनꣳ त्वाꣳ हिनोमि पुरुहूत विश्वहा
राकाम् अहꣳ सुहवाꣳ सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । सीव्यत्व् अपः सूच्याच्छिद्यमानया ददातु वीरꣳ शतदायम् उक्थ्यम्
यास् ते राके सुमतयः सुपेशसो याभिर् ददासि दाशुषे वसूनि । ताभिर् नो अद्य सुमना उपागहि सहस्रपोषꣳ सुभगे रराणा
सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा । जुषस्व हव्यम् आहुतम् प्रजाꣳ देवि दिदिड्ढि नः
या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी । तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन
या गुङ्गूर् या सिनीवाली या राका या सरस्वती । इन्द्राणीम् अह्व ऊतये वरुणानीꣳ स्वस्तये
आ ते पितर् मरुताꣳ सुम्नम् एतु मा नः सूर्यस्य सꣳदृशो युयोथाः । अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः
त्वादत्तेभी रुद्र शꣳतमेभिः शतꣳ हिमा अशीय भेषजेभिः । व्य् अ१स्मद् द्वेषो वितरꣳ व्य् अꣳहो व्य् अमीवाश् चातयस्वा विषूचीः
श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस् तवसाꣳ वज्रबाहो । पर्षि णः पारम् अꣳहसः स्वस्ति विश्वा अभीती रपसो युयोधि
मा त्वा रुद्र चुक्रुधामा नमोभिर् मा दुष्टुती वृषभ मा सहूती । उन् नो वीराꣳ अर्पय भेषजेभिर् भिषक्तमꣳ त्वा भिषजाꣳ शृणोमि
हवीमभिर् हवते यो हविर्भिर् अव स्तोमेभी रुद्रꣳ दिषीय । ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन् मनायै
उन् मा ममन्द वृषभो मरुत्वान् त्वक्षीयसा वयसा नाधमानम् । घृणीव च्छायाम् अरपा अशीया विवासेयꣳ रुद्रस्य सुम्नम्
क्व१ स्य ते रुद्र मृळयाकुर् हस्तो यो अस्ति भेषजो जलाषः । अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः
प्र बभ्रवे वृषभाय श्वितीचे महो महीꣳ सुष्टुतिम् ईरयामि । नमस्या कल्मलीकिनꣳ नमोभिर् गृणीमसि त्वेषꣳ रुद्रस्य नाम
स्थिरेभिर् अङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः । ईशानाद् अस्य भुवनस्य भूरेर् न वा उ योषद् रुद्राद् असुर्यम्
अर्हन् बिभर्षि सायकानि धन्वार्हन् निष्कꣳ यजतꣳ विश्वरूपम् । अर्हन्न् इदꣳ दयसे विश्वम् अभ्वꣳ न वा ओजीयो रुद्र त्वद् अस्ति
स्तुहि श्रुतꣳ गर्तसदꣳ युवानम् मृगꣳ न भीमम् उपहत्नुम् उग्रम् । मृळा जरित्रे रुद्र स्तवानो ऽन्यꣳ ते अस्मन् नि वपन्तु सेनाः
कुमारश् चित् पितरꣳ वन्दमानम् प्रति नानाम रुद्रोपयन्तम् । भूरेर् दातारꣳ सत्पतिꣳ गृणीषे स्तुतस् त्वम् भेषजा रास्य् अस्मे
या वो भेषजा मरुतः शुचीनि या शꣳतमा वृषणो या मयोभु । यानि मनुर् अवृणीता पिता नस् ता शꣳ च योश् च रुद्रस्य वश्मि
परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर् मही गात् । अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृळ
एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हꣳसि । हवनश्रुन् नो रुद्रेह बोधि बृहद् वदेम विदथे सुवीराः
धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास् तविषीभिर् अर्चिनः । अग्नयो न शुशुचाना ऋजीषिणो भृमिꣳ धमन्तो अप गा अवृण्वत
द्यावो न स्तृभिश् चितयन्त खादिनो व्य् अ१भ्रिया न द्युतयन्त वृष्टयः । रुद्रो यद् वो मरुतो रुक्मवक्षसो वृषाजनि पृश्न्याः शुक्र ऊधनि
उक्षन्ते अश्वाꣳ अत्याꣳ इवाजिषु नदस्य कर्णैस् तुरयन्त आशुभिः । हिरण्यशिप्रा मरुतो दविध्वतः पृक्षꣳ याथ पृषतीभिः समन्यवः
पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदम् आ जीरदानवः । पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु धूर्षदः
इन्धन्वभिर् धेनुभी रप्शदूधभिर् अध्वस्मभिः पथिभिर् भ्राजदृष्टयः । आ हꣳसासो न स्वसराणि गन्तन मधोर् मदाय मरुतः समन्यवः
आ नो ब्रह्माणि मरुतः समन्यवो नराꣳ न शꣳसः सवनानि गन्तन । अश्वाम् इव पिप्यत धेनुम् ऊधनि कर्ता धियꣳ जरित्रे वाजपेशसम्
तꣳ नो दात मरुतो वाजिनꣳ रथ आपानम् ब्रह्म चितयद् दिवे-दिवे । इषꣳ स्तोतृभ्यो वृजनेषु कारवे सनिम् मेधाम् अरिष्टꣳ दुष्टरꣳ सहः
यद् युञ्जते मरुतो रुक्मवक्षसो ऽश्वान् रथेषु भग आ सुदानवः । धेनुर् न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीम् इषम्
यो नो मरुतो वृकताति मर्त्यो रिपुर् दधे वसवो रक्षता रिषः । वर्तयत तपुषा चक्रियाभि तम् अव रुद्रा अशसो हन्तना वधः
चित्रꣳ तद् वो मरुतो याम चेकिते पृश्न्या यद् ऊधर् अप्य् आपयो दुहुः । यद् वा निदे नवमानस्य रुद्रियास् त्रितꣳ जराय जुरताम् अदाभ्याः
तान् वो महो मरुत एवयाव्नो विष्णोर् एषस्य प्रभृथे हवामहे । हिरण्यवर्णान् ककुहान् यतस्रुचो ब्रह्मण्यन्तः शꣳस्यꣳ राध ईमहे
ते दशग्वाः प्रथमा यज्ञम् ऊहिरे ते नो हिन्वन्तूषसो व्युष्टिषु । उषा न रामीर् अरुणैर् अपोर्णुते महो ज्योतिषा शुचता गोअर्णसा
ते क्षोणीभिर् अरुणेभिर् नाञ्जिभी रुद्रा ऋतस्य सदनेषु वावृधुः । निमेघमाना अत्येन पाजसा सुश्चन्द्रꣳ वर्णꣳ दधिरे सुपेशसम्
ताꣳ इयानो महि वरूथम् ऊतय उप घेद् एना नमसा गृणीमसि । त्रितो न यान् पञ्च होतॄन् अभिष्टय आववर्तद् अवराञ् चक्रियावसे
यया रध्रम् पारयथात्य् अꣳहो यया निदो मुञ्चथ वन्दितारम् । अर्वाची सा मरुतो या व ऊतिर् ओ षु वाश्रेव सुमतिर् जिगातु
उपेम् असृक्षि वाजयुर् वचस्याꣳ चनो दधीत नाद्यो गिरो मे । अपाꣳ नपाद् आशुहेमा कुवित् स सुपेशसस् करति जोषिषद् धि
इमꣳ स्व् अस्मै हृद आ सुतष्टम् मन्त्रꣳ वोचेम कुविद् अस्य वेदत् । अपाꣳ नपाद् असुर्यस्य मह्ना विश्वान्य् अर्यो भुवना जजान
सम् अन्या यन्त्य् उप यन्त्य् अन्याः समानम् ऊर्वꣳ नद्यः पृणन्ति । तम् ऊ शुचिꣳ शुचयो दीदिवाꣳसम् अपाꣳ नपातम् परि तस्थुर् आपः
तम् अस्मेरा युवतयो युवानम् मर्मृज्यमानाः परि यन्त्य् आपः । स शुक्रेभिः शिक्वभी रेवद् अस्मे दीदायानिध्मो घृतनिर्णिग् अप्सु
अस्मै तिस्रो अव्यथ्याय नारीर् देवाय देवीर् दिधिषन्त्य् अन्नम् । कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषꣳ धयति पूर्वसूनाम्
अश्वस्यात्र जनिमास्य च स्वर् द्रुहो रिषः सम्पृचः पाहि सूरीन् । आमासु पूर्षु परो अप्रमृष्यꣳ नारातयो वि नशन् नानृतानि
स्व आ दमे सुदुघा यस्य धेनुः स्वधाम् पीपाय सुभ्व् अन्नम् अत्ति । सो अपाꣳ नपाद् ऊर्जयन्न् अप्स्व् अ१न्तर् वसुदेयाय विधते वि भाति
यो अप्स्व् आ शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति । वया इद् अन्या भुवनान्य् अस्य प्र जायन्ते वीरुधश् च प्रजाभिः
अपाꣳ नपाद् आ ह्य् अस्थाद् उपस्थꣳ जिह्मानाम् ऊर्ध्वो विद्युतꣳ वसानः । तस्य ज्येष्ठम् महिमानꣳ वहन्तीर् हिरण्यवर्णाः परि यन्ति यह्वीः
हिरण्यरूपः स हिरण्यसꣳदृग् अपाꣳ नपात् सेद् उ हिरण्यवर्णः । हिरण्ययात् परि योनेर् निषद्या हिरण्यदा ददत्य् अन्नम् अस्मै
तद् अस्यानीकम् उत चारु नामापीच्यꣳ वर्धते नप्तुर् अपाम् । यम् इन्धते युवतयः सम् इत्था हिरण्यवर्णꣳ घृतम् अन्नम् अस्य
अस्मै बहूनाम् अवमाय सख्ये यज्ञैर् विधेम नमसा हविर्भिः । सꣳ सानु मार्ज्मि दिधिषामि बिल्मैर् दधाम्य् अन्नैः परि वन्द ऋग्भिः
स ईꣳ वृषाजनयत् तासु गर्भꣳ स ईꣳ शिशुर् धयति तꣳ रिहन्ति । सो अपाꣳ नपाद् अनभिम्लातवर्णो ऽन्यस्येवेह तन्वा विवेष
अस्मिन् पदे परमे तस्थिवाꣳसम् अध्वस्मभिर् विश्वहा दीदिवाꣳसम् । आपो नप्त्रे घृतम् अन्नꣳ वहन्तीः स्वयम् अत्कैः परि दीयन्ति यह्वीः
अयाꣳसम् अग्ने सुक्षितिꣳ जनायायाꣳसम् उ मघवद्भ्यः सुवृक्तिम् । विश्वꣳ तद् भद्रꣳ यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः
तुभ्यꣳ हिन्वानो वसिष्ट गा अपो ऽधुक्षन् सीम् अविभिर् अद्रिभिर् नरः । पिबेन्द्र स्वाहा प्रहुतꣳ वषट्कृतꣳ होत्राद् आ सोमम् प्रथमो य ईशिषे
यज्ञैः सम्मिश्लाः पृषतीभिर् ऋष्टिभिर् यामञ् छुभ्रासो अञ्जिषु प्रिया उत । आसद्या बर्हिर् भरतस्य सूनवः पोत्राद् आ सोमम् पिबता दिवो नरः
अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन । अथा मन्दस्व जुजुषाणो अन्धसस् त्वष्टर् देवेभिर् जनिभिः सुमद्गणः
आ वक्षि देवाꣳ इह विप्र यक्षि चोशन् होतर् नि षदा योनिषु त्रिषु । प्रति वीहि प्रस्थितꣳ सोम्यम् मधु पिबाग्नीध्रात् तव भागस्य तृप्णुहि
एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर् हितः । तुभ्यꣳ सुतो मघवन् तुभ्यम् आभृतस् त्वम् अस्य ब्राह्मणाद् आ तृपत् पिब
जुषेथाꣳ यज्ञम् बोधतꣳ हवस्य मे सत्तो होता निविदः पूर्व्या अनु । अच्छा राजाना नम एत्य् आवृतम् प्रशास्त्राद् आ पिबतꣳ सोम्यम् मधु
मन्दस्व होत्राद् अनु जोषम् अन्धसो ऽध्वर्यवः स पूर्णाꣳ वष्ट्य् आसिचम् । तस्मा एतम् भरत तद्वशो ददिर् होत्रात् सोमꣳ द्रविणोदः पिब ऋतुभिः
यम् उ पूर्वम् अहुवे तम् इदꣳ हुवे सेद् उ हव्यो ददिर् यो नाम पत्यते । अध्वर्युभिः प्रस्थितꣳ सोम्यम् मधु पोत्रात् सोमꣳ द्रविणोदः पिब ऋतुभिः
मेद्यन्तु ते वह्नयो येभिर् ईयसे ऽरिषण्यन् वीळयस्वा वनस्पते । आयूया धृष्णो अभिगूर्या त्वꣳ नेष्ट्रात् सोमꣳ द्रविणोदः पिब ऋतुभिः
अपाद् धोत्राद् उत पोत्राद् अमत्तोत नेष्ट्राद् अजुषत प्रयो हितम् । तुरीयम् पात्रम् अमृक्तम् अमर्त्यꣳ द्रविणोदाः पिबतु द्राविणोदसः
अर्वाञ्चम् अद्य यय्यꣳ नृवाहणꣳ रथꣳ युञ्जाथाम् इह वाꣳ विमोचनम् । पृङ्क्तꣳ हवीꣳषि मधुना हि कꣳ गतम् अथा सोमम् पिबतꣳ वाजिनीवसू
जोष्य् अग्ने समिधꣳ जोष्य् आहुतिꣳ जोषि ब्रह्म जन्यꣳ जोषि सुष्टुतिम् । विश्वेभिर् विश्वाꣳ ऋतुना वसो मह उशन् देवाꣳ उशतः पायया हविः
उद् उ ष्य देवः सविता सवाय शश्वत्तमꣳ तदपा वह्निर् अस्थात् । नूनꣳ देवेभ्यो वि हि धाति रत्नम् अथाभजद् वीतिहोत्रꣳ स्वस्तौ
विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति । आपश् चिद् अस्य व्रत आ निमृग्रा अयꣳ चिद् वातो रमते परिज्मन्
आशुभिश् चिद् यान् वि मुचाति नूनम् अरीरमद् अतमानꣳ चिद् एतोः । अह्यर्षूणाꣳ चिन् न्य् अयाꣳ अविष्याम् अनु व्रतꣳ सवितुर् मोक्य् आगात्
पुनः सम् अव्यद् विततꣳ वयन्ती मध्या कर्तोर् न्य् अधाच् छक्म धीरः । उत् सꣳहायास्थाद् व्य् ऋ१तूꣳर् अदर्धर् अरमतिः सविता देव आगात्
नानौकाꣳसि दुर्यो विश्वम् आयुर् वि तिष्ठते प्रभवः शोको अग्नेः । ज्येष्ठम् माता सूनवे भागम् आधाद् अन्व् अस्य केतम् इषितꣳ सवित्रा
समाववर्ति विष्ठितो जिगीषुर् विश्वेषाꣳ कामश् चरताम् अमाभूत् । शश्वाꣳ अपो विकृतꣳ हित्व्य् आगाद् अनु व्रतꣳ सवितुर् दैव्यस्य
त्वया हितम् अप्यम् अप्सु भागꣳ धन्वान्व् आ मृगयसो वि तस्थुः । वनानि विभ्यो नकिर् अस्य तानि व्रता देवस्य सवितुर् मिनन्ति
याद्राध्य१ꣳ वरुणो योनिम् अप्यम् अनिशितꣳ निमिषि जर्भुराणः । विश्वो मार्ताण्डो व्रजम् आ पशुर् गात् स्थशो जन्मानि सविता व्य् आकः
न यस्येन्द्रो वरुणो न मित्रो व्रतम् अर्यमा न मिनन्ति रुद्रः । नारातयस् तम् इदꣳ स्वस्ति हुवे देवꣳ सवितारꣳ नमोभिः
भगꣳ धियꣳ वाजयन्तः पुरꣳधिꣳ नराशꣳसो ग्नास्पतिर् नो अव्याः । आये वामस्य सꣳगथे रयीणाम् प्रिया देवस्य सवितुः स्याम
अस्मभ्यꣳ तद् दिवो अद्भ्यः पृथिव्यास् त्वया दत्तꣳ काम्यꣳ राध आ गात् । शꣳ यत् स्तोतृभ्य आपये भवात्य् उरुशꣳसाय सवितर् जरित्रे
ग्रावाणेव तद् इद् अर्थꣳ जरेथे गृध्रेव वृक्षꣳ निधिमन्तम् अच्छ । ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा
प्रातर्यावाणा रथ्येव वीराजेव यमा वरम् आ सचेथे । मेने इव तन्वा३ शुम्भमाने दम्पतीव क्रतुविदा जनेषु
शृङ्गेव नः प्रथमा गन्तम् अर्वाक् छफाव् इव जर्भुराणा तरोभिः । चक्रवाकेव प्रति वस्तोर् उस्रार्वाञ्चा यातꣳ रथ्येव शक्रा
नावेव नः पारयतꣳ युगेव नभ्येव न उपधीव प्रधीव । श्वानेव नो अरिषण्या तनूनाꣳ खृगलेव विस्रसः पातम् अस्मान्
वातेवाजुर्या नद्येव रीतिर् अक्षी इव चक्षुषा यातम् अर्वाक् । हस्ताव् इव तन्वे३ शम्भविष्ठा पादेव नो नयतꣳ वस्यो अच्छ
ओष्ठाव् इव मध्व् आस्ने वदन्ता स्तनाव् इव पिप्यतꣳ जीवसे नः । नासेव नस् तन्वो रक्षितारा कर्णाव् इव सुश्रुता भूतम् अस्मे
हस्तेव शक्तिम् अभि सꣳददी नः क्षामेव नः सम् अजतꣳ रजाꣳसि । इमा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिꣳ सꣳ शिशीतम्
एतानि वाम् अश्विना वर्धनानि ब्रह्म स्तोमꣳ गृत्समदासो अक्रन् । तानि नरा जुजुषाणोप यातम् बृहद् वदेम विदथे सुवीराः
सोमापूषणा जनना रयीणाꣳ जनना दिवो जनना पृथिव्याः । जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्न् अमृतस्य नाभिम्
इमौ देवौ जायमानौ जुषन्तेमौ तमाꣳसि गूहताम् अजुष्टा । आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्याꣳ जनद् उस्रियासु
सोमापूषणा रजसो विमानꣳ सप्तचक्रꣳ रथम् अविश्वमिन्वम् । विषूवृतम् मनसा युज्यमानꣳ तꣳ जिन्वथो वृषणा पञ्चरश्मिम्
दिव्य् अ१न्यः सदनꣳ चक्र उच्चा पृथिव्याम् अन्यो अध्य् अन्तरिक्षे । ताव् अस्मभ्यम् पुरुवारम् पुरुक्षुꣳ रायस् पोषꣳ वि ष्यताꣳ नाभिम् अस्मे
विश्वान्य् अन्यो भुवना जजान विश्वम् अन्यो अभिचक्षाण एति । सोमापूषणाव् अवतꣳ धियम् मे युवाभ्याꣳ विश्वाः पृतना जयेम
धियम् पूषा जिन्वतु विश्वमिन्वो रयिꣳ सोमो रयिपतिर् दधातु । अवतु देव्य् अदितिर् अनर्वा बृहद् वदेम विदथे सुवीराः
वायो ये ते सहस्रिणो रथासस् तेभिर् आ गहि । नियुत्वान् सोमपीतये
नियुत्वान् वायव् आ गह्य् अयꣳ शुक्रो अयामि ते । गन्तासि सुन्वतो गृहम्
शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः । आ यातम् पिबतꣳ नरा
अयꣳ वाम् मित्रावरुणा सुतः सोम ऋतावृधा । ममेद् इह श्रुतꣳ हवम्
राजानाव् अनभिद्रुहा ध्रुवे सदस्य् उत्तमे । सहस्रस्थूण आसाते
ता सम्राजा घृतासुती आदित्या दानुनस् पती । सचेते अनवह्वरम्
गोमद् ऊ षु नासत्याश्वावद् यातम् अश्विना । वर्ती रुद्रा नृपाय्यम्
न यत् परो नान्तर आदधर्षद् वृषण्वसू । दुःशꣳसो मर्त्यो रिपुः
ता न आ वोळ्हम् अश्विना रयिम् पिशङ्गसꣳदृशम् । धिष्ण्या वरिवोविदम्
इन्द्रो अङ्ग महद् भयम् अभी षद् अप चुच्यवत् । स हि स्थिरो विचर्षणिः
इन्द्रश् च मृळयाति नो न नः पश्चाद् अघꣳ नशत् । भद्रम् भवाति नः पुरः
इन्द्र आशाभ्यस् परि सर्वाभ्यो अभयꣳ करत् । जेता शत्रून् विचर्षणिः
विश्वे देवास आ गत शृणुता म इमꣳ हवम् । एदम् बर्हिर् नि षीदत
तीव्रो वो मधुमाꣳ अयꣳ शुनहोत्रेषु मत्सरः । एतम् पिबत काम्यम्
इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः । विश्वे मम श्रुता हवम्
अम्बितमे नदीतमे देवितमे सरस्वति । अप्रशस्ता इव स्मसि प्रशस्तिम् अम्ब नस् कृधि
त्वे विश्वा सरस्वति श्रितायूꣳषि देव्याम् । शुनहोत्रेषु मत्स्व प्रजाꣳ देवि दिदिड्ढि नः
इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति । या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति
प्रेताꣳ यज्ञस्य शम्भुवा युवाम् इद् आ वृणीमहे । अग्निꣳ च हव्यवाहनम्
द्यावा नः पृथिवी इमꣳ सिध्रम् अद्य दिविस्पृशम् । यज्ञꣳ देवेषु यच्छताम्
आ वाम् उपस्थम् अद्रुहा देवाः सीदन्तु यज्ञियाः । इहाद्य सोमपीतये
कनिक्रदज् जनुषम् प्रब्रुवाण इयर्ति वाचम् अरितेव नावम् । सुमङ्गलश् च शकुने भवासि मा त्वा का चिद् अभिभा विश्व्या विदत्
मा त्वा श्येन उद् वधीन् मा सुपर्णो मा त्वा विदद् इषुमान् वीरो अस्ता । पित्र्याम् अनु प्रदिशꣳ कनिक्रदत् सुमङ्गलो भद्रवादी वदेह
अव क्रन्द दक्षिणतो गृहाणाꣳ सुमङ्गलो भद्रवादी शकुन्ते । मा नः स्तेन ईशत माघशꣳसो बृहद् वदेम विदथे सुवीराः
प्रदक्षिणिद् अभि गृणन्ति कारवो वयो वदन्त ऋतुथा शकुन्तयः । उभे वाचौ वदति सामगा इव गायत्रꣳ च त्रैष्टुभꣳ चानु राजति
उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शꣳससि । वृषेव वाजी शिशुमतीर् अपीत्या सर्वतो नः शकुने भद्रम् आ वद विश्वतो नः शकुने पुण्यम् आ वद
आवदꣳस् त्वꣳ शकुने भद्रम् आ वद तूष्णीम् आसीनः सुमतिꣳ चिकिद्धि नः । यद् उत्पतन् वदसि कर्करिर् यथा बृहद् वदेम विदथे सुवीराः
Using this in academic work? Get formal citation
Tradição Védica (Ṛṣis) (2026). Ṛgveda Saṃhitā — Maṇḍala 2. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/rgveda-mandala-2
Tradição Védica (Ṛṣis). "Ṛgveda Saṃhitā — Maṇḍala 2." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/rgveda-mandala-2.
Tradição Védica (Ṛṣis). "Ṛgveda Saṃhitā — Maṇḍala 2." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/rgveda-mandala-2.